पूर्वम्: ७।३।२०
अनन्तरम्: ७।३।२२
 
सूत्रम्
देवताद्वंद्वे च॥ ७।३।२१
काशिका-वृत्तिः
देवताद्वन्द्वे च ७।३।२१

देवताद्वन्द्वे च पूर्वपदस्य उत्तरपदस्य च अचामादेरचः स्थाने वृद्धिर् भवति तद्धिते ञिति, णिति, किति च परतः। आग्निमारुतीं पृश्निमालभेत। आग्निमारुतं कर्म। यो देवताद्वन्द्वः सूक्तहविःसम्बन्धी, तत्र अयं विधिः। इह तु न भवति, स्कन्दविशाखौ देवते अस्य स्कान्दविशाखः। ब्रह्मप्रजापती ब्राह्मप्रजापत्यम्।
न्यासः
देवताद्वन्द्वे च। , ७।३।२१

"आग्निमारुतीम्()" इति। अग्निश्च मरुच्चेति द्वन्द्वः, तौ देवते अस्याः--"सास्य देवता" ४।२।२३ इत्यण्(); ततः पूर्वोत्तरयोर्वृद्धिः, "इद्वृद्धौ" ६।३।२७ इत्यग्निशब्दस्यानङ्()विषय इकारादेशः, "टिड्ढाणञ्()" ४।१।१५ इति ङीप्()। "यो देवताद्वन्द्वः सूक्तसम्बन्धी इत्यादि। यः सूक्तं भजते स सूक्तसम्बन्धी, यस्मै हविर्निरूप्यते स हविः सम्बन्धीति। अर्थद्वारकं चेदं द्वन्द्वस्य विशेषणम्()। "इह च न भवति" इत्यादि। कथं पनः सामान्योक्तो सत्यामयं विशेषो लभ्यते? एवं मन्यते--"नेन्द्रस्य परस्य" ७।३।२२ इत्यतर नेति योगविभागः कत्र्तव्यः, तेन सूक्तसम्बन्धिनो हविःसम्बन्धिनश्चान्यत्र न भवतीति। "स्कान्दविशाखः" इति। "तस्येदम्()" ४।३।१२० इत्यण्()। "ब्राआहृप्रजापत्यम्()" इति। "दित्यदित्यादित्यपत्यत्तरपदाण्ण्यः" ४।१।८५
बाल-मनोरमा
देवताद्वन्द्वे च १२२०, ७।३।२१

वृत्तः "साऽस्य देवता" इत्यधिकारः। अथ प्रासङ्गिकं -देवताद्वन्द्वे च "मृजेर्वृद्धि"रित्यतो वृद्धिरित्यनुवर्तते। "अचो ञ्णिती"त्यतो ञ्णितीति, "किति चे"ति सूत्रं चानुवर्तते। "तद्धितेष्वचामादे"रित्यतोऽचामादेरिति, "ह्मद्भगसिन्ध्वन्ते पूर्वपदस्य चे"त्यतः पूर्वपदस्येति, "उत्तरपदस्य चे"ति सूत्रं चानुवर्तते। तदाह--अत्रेत्यादिना। आग्निमारुतमिति। अग्निश्च मरुच्च अग्नामरुतौ। "देवताद्वन्द्वे चे"त्यानङ्। अग्नामरुतौ देवता अस्य आग्निमारुतम्। अणि अनेन उभयपदादिवृद्धिः अलौकिके विग्रहवाक्ये एव आनङं बाधित्वा "इद्वृद्धौ" इति इत्त्वम्।