पूर्वम्: ७।३।२३
अनन्तरम्: ७।३।२५
 
सूत्रम्
प्राचां नगरान्ते॥ ७।३।२४
काशिका-वृत्तिः
प्राचां नगरान्ते ७।३।२४

प्राचां देशे नगरान्ते ऽङ्गे पूर्वपदस्य उत्तरपदस्य च अचामादेरचः वृद्धिर् भवति तद्धिते ञिति, णिति, किति च परतः। सुह्मनगरे भवः सौह्मनागरः। पौण्ड्रनागरः। प्राचाम् इति किम्? मद्रनगरम् उदक्षु, तत्र भवः माद्रनगरः।
न्यासः
प्राचां नगरान्ते। , ७।३।२४

यद्यत्र प्राचामित्यत्राचार्यग्रहणं स्यात्(), ततश्चोत्तरसूत्रे ७।३।२६ "विभाषितम्()" इति न ब्राऊयात्()ेतदेव विकल्पार्थं प्राचांग्रहणं तत्रानुवर्त्तिष्यते। तस्माद्देशग्रहणं विज्ञायते इत्याह--"प्राचां देशे" इत्यादि। नगरग्रहणेनेह स्वरूपग्रहणम्(); "स्वं रूपं शब्दस्य" १।१।६७ इति वचनात्()॥
बाल-मनोरमा
प्राचजां नगरान्ते १४१०, ७।३।२४

प्राचां नगरान्ते। अङ्गस्येत्यधिकृतं "नगरान्ते" इति सप्तम्यनुरोधेन सप्तम्या विपरिणम्यते। उत्तरपदस्येत्यधिकृतम्। "ह्मद्भगसिन्ध्वन्ते" इति सूत्रात्पूर्वपदस्येत्यनुवर्तते। तदयमर्थः। प्राचां यन्नगरं तदन्ते अङ्गे पूर्वपदस्योत्तरपदस्य च अचामादेरचो वृद्धिः स्याञ् ञिति णिति किति च तद्धिते इति। सुहृनगरमिति पुण्ड्रनगरमिति च प्राग्देशस्य पूर्वान्तावधिः। मद्रनगरमुदक्ष्विति। उदग्देशे मद्रनगरं नाम किञ्चिन्नगरमस्तीत्यर्थः।

तत्त्व-बोधिनी
प्राचां नगरान्ते ११०७, ७।३।२४

प्राचां नगरान्ते। सप्तमीनिर्देशात् "अङ्गस्ये"त्यधिकृतमपि सप्तम्यन्तेन विपरिणम्यते। तदाह---नगरान्तेऽङ्गे इति।