पूर्वम्: ७।३।२
अनन्तरम्: ७।३।४
 
सूत्रम्
न य्वाभ्यां पदान्ताभ्याम् पूर्वौ तु ताभ्यामैच्॥ ७।३।३
काशिका-वृत्तिः
न य्वाभ्यां पदान्ताभ्यां पूर्वौ तु ताभ्याम् ऐच् ७।३।३

यकारवकाराभ्याम् उत्तरस्य अचामादेः अचः स्थाने वृद्धिर् न भवति, ताभ्यां तु यकारवकाराभ्यां पूर्वम् ऐजागमौ भवतः ञिति, णिति, किति च तद्धिते परतः। यकारातैकारः, वकारातौकारः। व्यसने भवम् वैयसनम्। व्याकरणम् अधीते वैयाकरणः। स्वश्वस्य अपत्यम् औवश्वः। य्वाभ्याम् इति किम्? न्रर्थस्य अपत्यम् न्रार्थिः। पदान्ताभ्याम् इति किम्? यष्टिः प्रहरणम् अस्य याष्टीकः यतः छात्राः याताः। प्रतिषेधवचनम् ऐचोर् विषय प्रक्लृप्त्यर्थम्। इह मा भूत्, दाध्यश्विः, माध्वश्विः इति। नह्यत्र य्वाभ्याम् उत्तरस्य वृद्धिप्रसङ्गो ऽस्ति। वृद्धेरभावात् प्रतिषेधो ऽपि न अस्ति इत्यप्रसङ्गः। उत्तरपदवृद्धेरप्ययं प्रतिषेध इष्यते। पूर्वत्र्यलिन्दे भवः पूर्वत्रैयलिन्दः। यत्र तु उत्तरपदसम्बन्धी यण् न भवति तत्र न इष्यते प्रतिषेधः। द्वे अशीती भृतो भूतो भावी वा द्व्याशीतिकः।
लघु-सिद्धान्त-कौमुदी
न य्वाभ्याम् पदान्ताभ्यां पूर्वौ तु ताभ्यामैच् १०५७, ७।३।३

पदान्ताभ्यां यकारवकाराभ्यां परस्य न वृद्धिः किंतु ताभ्यां पूर्वौ क्रमादैजावागमौ स्तः। व्याकरणमधीते वेद वा वैयाकरणः॥
न्यासः
न य्वाभ्यां पदान्ताभ्यां पूर्वौ तु ताभ्यामैच्?। , ७।३।३

"तद्धितेष्वचामादेः" ७।२।११७ इत्यादिना ञ्णिदादौ तद्धिते वृद्धौ प्राप्तायां प्रतिषेधोऽयमुच्यते, तत्सन्नियोगेनैजागमौ भवतः। "यकारादैकारः" इत्यादिना यतासंख्येन सम्बन्धं दर्शयति। "वैयसनम्()" इति। "असु क्षेपणे" (धा।पा।१२०९)। विपूर्वाद्विशेषेणास्यते क्षिप्यते येनेति करणे ल्युट्(), प्रादिसमासः, यणादेशः, तत, "तत्र भवः" ४।३।५३ इत्यण्()। तत्र यकारात्? पदान्तात्? परस्याकारस्य वृद्धिर्न भवति, तस्मात्? पूर्वमैजागमः। "वैयाकरणः" इति। विशेषेणाक्रियन्ते व्युत्पाद्यन्ते शब्दा अनेनेति करणे ल्युट्(), व्याकरणमिति, प्रादिसमासः, ततः "तदधीते तद्वेव" ४।२।५८ इत्यण्(), तत्र पर्जन्यवल्लक्षणप्रवृत्त्या पदान्ताद्यकारात्? परसय या वृद्धिः प्राप्नोति सा न भवति, तस्मात्? पूर्वमैजागमः। "सौव()आः" इति। शोभनोऽ()आः स्व()आः, पूर्ववत्? समासः, ततोऽपत्यर्थे शिवाद्यण्? ४।१।११२ अत्र वकारात्? पदान्तात्? परस्य वृद्धिर्न भवति, तस्मात्? पूर्वमैजागमो भवति। "आर्थिः" इति। ना अर्थो यस्य स अर्थः, तस्यापत्यम्? "उत इञ्()" ४।१।९५। "याष्टकः" इति। "शक्तियष्ट()ओरीकक्()" ४।४।५९। "याताः" इति। इणः परस्य लटः शत्रादेशः, "इणो यण्()" ६।४।८१ इति यण्(), ततः "तस्येदम्()" ४।३।१२० इत्यण्()। तत्रोभयत्रापि यकारस्य पदान्तता भविष्यतः, यथा--"ब्राआहृणेभ्यो दधि दीयतां तक्रं कौण्डिन्याय" इति दधिदानस्य तक्रदानां बाधकम्()। अथापि बाधगौ न स्याताम्(), तथापि नित्यत्वादैचोः कृतयो पश्चाद्()वृर्भवन्ती तयोरेव भविष्यतीति। न चात्र शब्दान्तरप्राप्त्या तयोरप्यैचोरनित्यत्वमाशङ्कनीयम्(), न हि तौ शब्दान्तरसय विधीयेते, अपि त्वभकतावेव य्वाभ्यां पूर्वौ। यद्यपि शब्दातन्तरस्य प्राप्तिः स्यात्(), तथापि द्वयोरनित्ययोः परत्वादैचोः कृतयोः सकृद्गतौ विप्रतिषेधे यद्बाधितं तद्बाधितमेव" (व्या।प।४०) इति पुनर्वृद्धिर्न भवति। यद्यपि पुनःप्रसङ्गविज्ञानाद्()वृद्धिः स्यात्(); तथापीष्टसिद्धिः स्यादेव; विशेषाभावादित्यत आह--"प्रतिषेधवचनम्()" इत्यादि। प्रक्लृतिः=प्रकल्पनम्(), व्यवस्येत्यर्थः। यत्र य्वाभ्यां परस्य वृद्धेः प्रतिषेधः स एवैचोर्विषयः कथन्नाम प्रकल्पेत()व्यवतिष्ठेतेत्येवमर्थः। प्रतिषेध उच्यते, किमर्थं पुनरै चोर्विषयपरक्लृप्तिः क्रियते? इत्यत आह--"इह मा भत्()" इति। यदि प्रतषेधवचनेनैचोर्विषयन्यवस्था न क्रियेत, तदा दाध्यश्विः, माध्व()इआरित्यत्रापि स्यात्। अतो मा भूदेष दोष इति प्रतिषेधवचनेनैचोर्विषयन्यवसथा क्रियते। दधिप्रियोऽ()आओ दध्य()आः मधुप्रियोऽ()आओ मध्य()आः। "सामानाधिकरणाधिकारे शापकपार्थिवादीनां समास उत्तरपदलोपश्च" (वा।८३) इति मध्यमपदलोपौ समासः। अथ क्रियमाणे प्रतिषेधवचने कस्मादेवात्र न भवति, यावता य्वाभ्यां परस्य वृद्धिर्नास्ति? इत्यत आह--"न ह्रत्र" इत्यादि। प्रसङ्गे हि सति वृद्धेः प्रतिषेधो भवति, नासति; न चात्र य्वाभ्यां परस्य वृद्धेः प्रसङ्गोऽस्ति, अतः प्रतेषेधो नास्त्येवेत्यभिप्रायः। ननु च "अचामादेः" ७।२।११७ इत्यनुवत्र्तते, तेन य्वौ विशिष्येते--अचामादेरचः स्थाने यौ य्वादिति। न च दध्य()इआरित्यादावेवंविधौ तौ स्त इति। न चात्रैचो भविष्यतः, अतो नार्थः? नैतदस्ति; एवं हयचामादिग्रहणम्(), तेन यदि य्वौ विशिष्येते तदा वृद्धिरविशेषिता स्यात्()। ततश्चेहापि वृद्धेः प्रतिषेधः स्यात्()--द्वे अशीती भृतो भृतो भावी वा "प्राग्वतेष्ठञ्()" ५।१।१८ द्व्याशौतिक इति। अथ वृद्धिर्विशिष्यते--अचामादेरित्येवं वा वृद्धिः, ततो न भवत्येष दोषः। न ह्रत्राचामादेरित्येवं वृद्धिः, किं तर्हि? "संख्याया संवत्सरसंख्यस्य च" ७।३।१५ इत्येवम्()। किं तर्हि य्वौ न विशेषितौ स्याताम्()? ततश्च दाध्य()इआरित्यादावैचौ स्यातामेव। तस्मात्? तयोर्विषयव्यवस्थार्थं नेति वक्तव्यम्()। "उत्तरपदवृद्धेरप्ययं प्रतिषेध इष्यते" इति। स चोत्तरपदाधिकारेऽस्यानुवत्र्तमानत्वाल्लभ्यते। "पूर्वत्रैयलिन्दे" इति। अत्र "विशोऽमद्राणाम्()" ७।३।१३ इत्युत्तरपदवृद्धौ प्राप्तायां प्रतिषेधः। यद्युत्तरपदवृद्धेरप्ययं प्रतिषेधः, तदा द्व्याशीतिक इत्यत्रापि "संख्यायाः संवत्सरसंख्यस्य च" ७।३।१५ इति या वृद्धिरुत्तरपदस्य आप्तेत्यस्या अपि प्रतिषेधः स्यादित्यत आह--"यत्र तु" इत्यादि। कथं पुनरिष्यमाणोऽप्यत्र प्रतिषेधो न भवति? उत्तरपदस्याचामाद्येनाचा हि य्वोर्विशेषणत्वात्()। उत्तरपदसम्बन्दी योऽचामादिरच्? तस्य स्थाने यो य्वौ ताभ्यामुत्तरपदस्य वृद्धिर्न भवति। न च द्व्याशीतिक इत्यत्रोत्तरपदस्याचामादेरचः स्थाने यकार इति नात्र वृद्धेः प्रतिषेधो भवतीति॥
बाल-मनोरमा
न य्वाभ्यां पदान्ताभ्यां पूर्वौ तु ताभ्यामैच् १०८२, ७।३।३

न य्वाभ्यां। य्च वश्च य्वाविति विग्रहः। वकारादकार उच्चारणार्थं। तदाह--यकारवकाराभ्यामिति। "परस्ये"त्यध्याहारलभ्यम्। न वृद्धिरिति। "मृजेर्व-द्धि"रित्यतस्तदनुवृत्तेरिति भावः। "तु" शब्दो विशेषप्रदर्शनार्थ इत्याह--किंत्विति। ताभ्यामिति। यकारवकाराभ्यामित्यर्थः। पूर्वाविति। पूर्वावयवावित्यर्थः। तेन आगमत्वं लभ्यते। तदाह--ऐचावागमाविति। ऐच्--प्रत्याहारः। यथासङ्ख्यं यकारात्पूर्व ऐकारः, वकारात्पूर्व औकारः। वैयासकिरिति। वेदान्व्यस्यति=विवधमस्यति--शाखाभेदेन विभजतीति वेदव्यासः। कर्मण्यण्। अत्र नामैकदेशग्रहणम्। व्यासस्यापत्यमिति विग्रहः। इञ्प्रत्ययः। प्रकृतेरकडादेशः। अत्र यकारः पदान्तः। तस्मात्परस्य आकारस्य पर्जन्यवल्लक्षणप्रवृत्त्या आदिवृद्धिः प्राप्ता न भवति, किंतु यकारात्पूर्व ऐकार आगमः। वैयसकिरिति रूपम्। स्व()आस्यापत्यं सौव()इआरित्यत्र वकारात्परस्य न वृद्धिः, किन्तु ततः पूर्व औकारः। नच ऐचो वृद्द्यापवादत्वादेव वृद्ध्यभावसिद्धेस्तन्निषेधो व्यर्थ इति वाच्यं, यत्र य्वाभ्यां परस्य प्रसक्ताया वृद्धेर्निषेधस्तत्रैव ऐजागमाविति विषयनिर्देशार्थत्वात्। तेन दाध्य()इआरित्यादौ न। वृद्धिनिषेधोऽयं येन नाप्राप्तिन्यायेन आदिवृद्धेरेव। तेन द्वे अशीती भृतो "द्व्याशीतिक" इत्यत्र "सङ्ख्यायाः संवत्सरसङ्ख्यस्य च" इत्युत्तरपदवृद्धिर्भवत्येव। वरुडादयो जातिविशेषाः। वारुडकिः। नैषादकिः। चाण्डालकिः। बैम्बकिः।

तत्त्व-बोधिनी
न य्वाभ्यां पदान्ताभ्यां पूर्वौ तु ताभ्यामैच् ९०५, ७।३।३

न य्वाभ्यां। य्वाभ्यां किम्()। न अर्थो यस्य नार्थः, तस्यापत्यं नार्थिः। पदान्ताभ्यां किम्()। याज्ञिकः। ऐचो विषयप्रदर्शनाय "ने"ति निषेधोक्तिः। तेनेह न---दाघ्यश्विः, माध्वश्विः। न ह्रत्र य्वाभ्यां परस्य बृद्धिप्रसक्तिरस्ति। क्वचित्तु वृद्धिप्रसक्तिसत्त्वेऽपि नेष्यते। द्वे अशीति भृतो भूतो भावी वा व्द्याशीतिकः। वारुडकिरिति। बरिजादयो जातिविशेषाः। वकारस्यापदान्तत्वात् "न य्वाभ्या"मित्यैज्न। इत्यादीति। नैषादकिः, चाण्डालकिः, बैम्बकिः।