पूर्वम्: ७।३।४९
अनन्तरम्: ७।३।५१
 
सूत्रम्
ठस्येकः॥ ७।३।५०
काशिका-वृत्तिः
ठस्य इकः ७।३।५०

अङ्गस्य निमित्तं यः ठः, कश्च अङ्गस्य निमित्तम्, प्रत्ययः, तस्य प्रत्ययठस्य इकः इत्ययम् आदेशो भवति। प्राग् वहतेष् ठक् ४।४।१ आक्षिकः। शालाकिकः। लवणाट् ठञ् ४।४।५२ लावणिकः। ठगादिषु यदि वर्णमात्रं प्रत्ययः, उच्चारणार्थो ऽकारः, तदा इह अपि अकार उच्चारणार्थः, वर्नमात्रं तु स्थानित्वेन उपादीयते। सङ्घातग्रहणे तु प्रत्यये ऽत्र अपि सङ्घातग्रहणम् एव। तत्र कणेष्ठः कण्ठः इत्येवम् आदीनाम् उणादीनाम् उणादयो बहुलम् ३।३।१इति न भवति। मथितं पण्यम् अस्य माथितिकः इत्यत्र तु यस्य इति च ६।४।१४८ इति लोपे कृते इसुसुक्तान्तात् कः ७।३।५१ इति स्थानिवद्भावादिकस्य कादेशः प्राप्नोति, सन्निपातलक्षणो विधिरनिमित्तं तद्विघातस्य इति न भवति। यस्येति च इति लोपस्य स्थानिवद्भावाद्वा। पूर्वस्मादपि हि विधौ स्थानिवद्भावः।
लघु-सिद्धान्त-कौमुदी
ठस्येकः १०३०, ७।३।५०

अङ्गात्परस्य ठस्येकादेशः स्यात्। रैवतिकः॥
न्यासः
ठस्येकः। , ७।३।५०

अत्र यद्यविशेषेण ठस्य ग्रहणं स्यात्(), पठिता, पठितुमित्यादौ धात्वन्तस्यापि स्यात्()। अत एतद्दोषपरिजिहीर्षया प्रत्ययसय ठस्य ग्रहणम्(), न तु ठमात्रस्येति दर्शयितुमाह--"अङ्गस्य निमित्तं यष्ठः" इति। अङ्गस्येति सम्बन्धलक्षणा षष्ठी। अतर यद्यपि धात्ववयवो ह्रङ्गस्य सम्बन्धी भवति, तथापि यदा यतो ह्रङ्गस्यात्मलाभो यस्मिन्नङ्गमित्येतद्भवति, स एव प्रत्यासत्तेरङ्गस्य निमित्तीभूतः सम्बन्धी गृह्रते, न त्वरयवोऽपि। "कश्चाङ्गस्य निमित्तं भवति" इति। एवं मन्यते--यदि सामान्येनाङ्गस्य निमित्तं यत्तदिह गृह्रते धात्वन्तस्य ठस्य स्यादेव, भवन्ति हि अवयवा अङ्गसयावयविनो निमित्तम्(); तैस्तस्यारभ्यमाणत्वादित्याह--"प्रत्ययः" इति। अस्यायमभिप्रायः--सत्स्वप्यवयवेषु यावत्प्रत्ययो नोत्पद्यते तावत्तस्यावयविनोऽङ्गात्मलाभो न भवति, त()स्मस्तूत्पन्ने सति भवति; तस्मात्प्रत्यय एवाङ्गस्य निमित्तम्(), नावयव इति। "आक्षिकः, शालाकिकः" इति। अक्षैर्दीव्यति, ["अक्षैर्दीव्यतीत्यर्थे ठक्()--मु। पाठः] शलाकाभिर्दीष्यतीत्यर्थे ठक्()। "लावणिकः" इति। अत्रापि लवणं पण्यमस्येति "लवणाट्ठञ्()" ४।४।५२ इह ठस्येति वर्णमात्रस्य ग्रहणं वा स्यात्()? सङ्घातस्य वा? तत्र पूर्वस्मिन पक्षे ठस्येति निर्देशो नोपद्यते; इतर()स्मस्त्वोणादिकेऽतिप्रसङ्गः--"कणेष्ठः" (द।उ।५-६) कण्ठ इत्यादौ। इह तु मथितं पण्यमस्येति माथितिक इति ठस्येकादेशे कृते प्रकृतेश्च "यस्येति च" (६।४।१४८) इत्यकारलोपे सति तान्ततायामुपजातायामिकादेशस्य स्थानिवद्भावाट्ठग्रहणेन ग्रहणात्? "इसुसुक्तान्तात्? कः" ७।३।५१ इति कादेशः प्रसज्येतेति यश्चोदयेत्(), तं प्रत्याह--"ठगादिषु" इत्यादि। आदिशब्देन ठञादीनां ग्रहणम्(), यदि तेषु वर्णमात्रमनच्कप्रत्ययोऽकारस्तूच्चारणार्थः, तदा "ठस्येकः" ७।३।५० इत्यत्राप्यकार उच्चारणार्थः। एवं वर्णमात्रं स्थानित्वेनोपादीयते। इहाप्यकार उच्चारणार्थ एवेति वर्णमात्रग्रहणेन यो दोषः परस्य चोदयिष्यतः स वर्णमात्रं स्थानित्वेनोपादीयते। इहाप्यकार उच्चारणार्थ एवेति वर्णमात्रग्रहणेन यो दोषः परस्य चोदयिष्यतः स निराकृतः। सत्यपि वर्णमात्रस्य ग्रहणे, आगन्तुकेनोच्चारणार्थेनाकारेण ठस्येति निर्देशस्योपादानात्()। "सङ्घातग्रहणे तु" इत्यादि। अथ ठगादिषु सङ्घातः साच्कष्ठशब्दः प्रत्ययः, एवं सत्यत्रापि सूत्रे सङ्घातस्येति स्थानित्वेन ग्रहणं युक्तम्()। यस्त्वस्मिन्? पक्षे प्रथमो दोषश्चोदयितुमिष्टः परस्य, तं जिहीर्षुराह--"तत्र" इत्यादि। योऽप्यस्मिन्? पक्षे द्वितीयो दोषस्तं "मथित पण्यमस्य" इत्यादिनाऽ‌ऽविष्कृत्य--"सन्निपातलक्षणो विधिः" इत्यादिना परिहरति। अजादिसन्निपातेन तकारान्ततोपजाता, सा नोत्सहतेऽजादित्वं विहन्तुमिति न भवति कादेशः। "यस्येति चेति लोपस्य स्थानिवद्भावाद्वावाद्वा" इति। न भवति कादेश इति प्रकृतेन सम्बन्धः; स्थानिवद्भावेन तकारान्ततया विहतत्वात्()। स्थानिवद्भावः पुनः "अचः परस्मिन्()" १।१।५६ इत्यादिना। पूर्वविधौ कत्र्तव्ये स्थानिवद्भवति, न चात्र पर्वस्य विधिः, किं तर्हि? पूर्वस्मादुत्तरस्य, तत्कुतः स्थानिवद्भावः? इत्याह--"पूर्वस्मादपि" इत्यादि। न केवलं पूर्वस्य विधिः पूर्वविधिरिति षष्ठसमासोऽभिमतः, अपि तु पूर्वस्माद्विधिः पूर्वविधिरिति पञ्चमीसमासोऽपीत्यभिप्रायः॥
बाल-मनोरमा
ठस्येकः ११५४, ७।३।५०

ठस्येकः। अङ्गस्येत्यधिकृतं पञ्चम्या विपरिणम्यते। तदाह--अङ्गात्परस्य ठस्येति। ठकारस्येत्यर्थः। रैवतिक इति। रेवत्या अपत्यमिति विग्रहः। ठकि ककार इत्, अकार उच्चारणार्थः। ठकारस्य इकोऽदन्त आदेशः। अङ्गात्किम्?। कर्मण इत्यत्र ठकारस्य न भवति। अत्र भाष्ये अङ्गसंबन्धिठस्येति व्याख्याने कर्मठ इत्यत्र सुपं प्रति कर्मठशब्दस्याङ्गत्वात्तदीयठस्य इकादेशमासङ्ख्य अङ्गसंज्ञानिमित्तं यष्ठकारस्तस्ये को भवति, तादृशश्च ठकारः प्रत्यय एव भवति, नचेह ठकारः प्रत्यय इति समाहितम्। ततश्च ठकि अकार उच्चारणार्थः, ठकार एव प्रत्यय इकति विज्ञायते। "ठस्येति सङ्घातग्रहण"मित्यपि भाष्ये स्थितम्। अस्मिन्पक्षे ठकि अकार उच्चारणार्थो न भवति, सङघात एव प्रत्ययः, इकादेशे अकार उच्चारणार्थ एवेत्यलम्।