पूर्वम्: ७।३।५१
अनन्तरम्: ७।३।५३
 
प्रथमावृत्तिः

सूत्रम्॥ चजोः कु घिण्ण्यतोः॥ ७।३।५२

पदच्छेदः॥ चजोः ६।२ कु १।१ घिण्ण्यतोः ७।२

समासः॥

चश्च जश्च चजौ, तयोः, इतरेतरद्वन्द्वः।
घ् इत् यस्य सः घित्, बहुव्रीहिः। घित् च ण्यत् च घिण्ण्यतौ, तयोः, ॰ इतरेतरद्वन्द्वः

अर्थः॥

चकार-जकारयोः स्थाने कवर्गादेशः भवति घिति ण्यति च प्रत्यये परतः

उदाहरणम्॥

पाकः, त्यागः, रागः। ण्यति - पाक्यम्, वाक्यम्, रेक्यम्
काशिका-वृत्तिः
चजोः कु घिण्ण्यतोः ७।३।५२

चकारजकारयोः कवर्गादेशो भवति घिति ण्यति च प्रत्यये परतः। घिति पाकः। त्यागः। रागः। ण्यति पाक्यम्। वाक्यम्। रेक्यम्।
लघु-सिद्धान्त-कौमुदी
चजोः कु घिण्ण्यतोः ७८४, ७।३।५२

चजोः कुत्वं स्यात् घिति ण्यति च परे॥
न्यासः
चजोः कु घिण्ण्यतोः। , ७।३।५२

"पाकः, त्यागः" इति। भावे घञ्()। "पाक्यम्(), वाक्यम्()" इति। "ऋहलोण्र्यत्()" ३।१।१२४। ननु चात्र धिण्ण्यतोः कार्यिणोश्चजोः साम्याद्यथासंख्यं प्राप्नोति--चकारस्य धिति, जकारस्य ण्यति, तत्कथं त्यागः, राग इति धिति जकारसय कुत्वं प्राप्नोति? नैतदस्ति; ज्ञापकादत्र यथासंख्यं न भवति। यत्? "भुजन्युब्जौ पाण्युपतापयोः" ७।३।६१, "प्रयाजानुयाजौ यज्ञाङ्गे" ७।३।६२ इति घञि जकारस्य कुत्वाभावं निपातयति, "तेन रक्तं रागात्()" ४।२।१ इति च निर्देशं करोति, तज्ज्ञापयति--यथासंख्यमिह न भवतति॥
बाल-मनोरमा
चजोः कु घिण्ण्यतोः ६८४, ७।३।५२

चजोः कु। "कु" इत्यविभक्तिको निर्देशः। चजोर्घिण्ण्यतोश्च यथासङ्ख्यं तु न, "तेन रक्तं रागा"दित घञि जस्य कुत्वनिर्देशात्।

तत्त्व-बोधिनी
चजोः कु घिण्ण्यतोः ५६७, ७।३।५२

चजोः। यथासङ्ख्यं नेह विवक्षितं, "तेन रक्तं रागात्" इति लिङ्गादिति कैयटहरदत्तादिभिरुक्तं। तदालोच्याह-- चस्य जस्य चेत्यादि। घिति ण्यति च चस्य कुत्वं,घिति ण्यति च जस्य कुत्वमिति विवेकः।