पूर्वम्: ७।३।७०
अनन्तरम्: ७।३।७२
 
सूत्रम्
ओतः श्यनि॥ ७।३।७१
काशिका-वृत्तिः
ओतः श्यनि ७।३।७१

ओकारान्तस्य अङ्गस्य श्यनि परतो लोपो भवति। शो निश्यति। छो अवछ्यति। द्यो अवद्यति। सो अवस्यति।
लघु-सिद्धान्त-कौमुदी
युजेरसमासे ३०७, ७।३।७१

युजेः सर्वनामस्थाने नुम् स्यादसमासे। सुलोपः। संयोगान्तलोपः। कुत्वेन नस्य ङः। युङ्। अनुस्वारपरसवर्णौ। युञ्जौ। युञ्जः। युग्भ्याम्॥
लघु-सिद्धान्त-कौमुदी
ओतः श्यनि ६३५, ७।३।७१

लोपः स्यात्। श्यति। श्यतः। श्यन्ति। शशौ। शशतुः। शाता। शास्यति॥
न्यासः
ओतः श्यनि। , ७।३।७१

"निश्यति" इत्यादि। "शो तनूकरणे" (धा।पा।११४५), "छो छेदने"["नास्त्ययं धातुः"--मुद्रितग्रन्थे] (धा।पा।११४६) "दो अवखण्डने" (धा।पा।११४८) "षो अन्तकर्मणि" (धा।पा।११४७)। अथ किमर्थं इयनीत्युच्यते, न "शिति" इत्येवोच्येत, एवं ह्रुच्यमाने श्यन्येव लोपो भविष्यति, न ह्रोकारान्ताच्छ्यनोऽन्यच्छित्? सम्भवति, लघु चैवं सूत्रं भवति, तत्रायमप्यर्थः--"ष्ठिवुक्लमुचमां शिति" (७।३।७५) इत्यत्र शिद्ग्रहणं न कत्र्तव्यं भवतीत्येतदेव तत्रानुवर्त्तिष्यते? सत्यं सिध्यत्येव, किन्तु प्रतिपत्तिगौरवं स्यात्()। तस्मात्? प्रतिपत्तिगौरवपरीहारार्थं श्यनीत्युक्तम्()। "ओतः" इति। तपरकरणं मुखसुखार्थम्()। न ह्रन्यदस्य निवर्त्त्यं विधेयं वा सम्भवति॥
बाल-मनोरमा
ओतः श्यनि ३३९, ७।३।७१

ओतः श्यनि। "घोर्लोपो लेटि वे"त्यतो लोप इत्यनुवर्तते इत्यभिप्रेत्य शेषं पूरयति-- लोपः स्यादिति। शशाविति। "आदेच" इत्यात्त्वे णल औत्त्वमिति भावः। शशतुरिति। शशिथ-- शशाथ। शशिव।शास्यतीति। श्यतु। अश्यत्। श्येत्। शायात्। लुङि सिचि विशेषमाह--विभाषा घ्रेति। सिचो लुक्पक्षे आह--अशादिति। "आतःर" इति जुसिति मत्वा आह-- अशुरिति। सिचो लुगभावे सगिटौ मत्वा आह--अशासीदिति। छोदातुरपि शोधातुवत्। षो अन्तकर्मणीति। समापने विनाशने वेत्यर्थः। शोधातुवद्रूपाणि। षोपदेशोऽयम्। स्यतीति। "ओतः श्यनी"ति लोपः। अभिष्यतीति। "उपसर्गा"दिति षत्वम्। अभ्यष्यदिति। "प्राक्सिता"दिति षत्वम्। अभिससाविति। "स्थादिष्वि"ति नियमान्न षः। दो अवखण्डने। प्रणिदातेति। "नेर्गदे"ति णत्म्। देयादिति। आशीर्लिङि "एर्लिङी"त्येत्त्वम्। अदादिति। "गातिस्थे"ति सिचो लुक्। अथात्मनेपदिन इति। "वाशृ शब्दे" इत्यन्ता इत्यर्थः। जनी प्रादुर्भावे इति। "()आईदितो निष्ठाया"मित्याद्यर्थमीदित्त्वम्।

तत्त्व-बोधिनी
ओतः श्यनि २९६, ७।३।७१

षोऽन्त। अन्तक्रम-- नाशनम्। "राघव !स्य शरैर्गोरैर्घोरं रावणमाहवे" इति। राघवेति संबुद्ध्यन्तम्। स्येति लोण्मध्यमैकवचनम्। अभिष्यतीति। "उपसर्गात्सुनोती"ति षत्वम्। अभ्यष्यदिति। "प्राक्सितादड्व्यवायेऽपी"ति षत्वम्। अभिससाविति। "स्थादिषु" इति नियमान्न षत्वम्। दो अवखण्डने। अवेत्युपसर्गप्रयोगो वैचित्र्यार्थः, खण्डने इत्येतावत्युक्तेऽपीष्टसिद्धेः। प्रणिदातेति। "नेर्गदे"ति णत्वम्। देयादिति। "एर्लिङी"त्येत्त्वम्। अदादिति। "गातिस्थे"ति सिचो लुक्।