पूर्वम्: ७।३।८१
अनन्तरम्: ७।३।८३
 
सूत्रम्
मिदेर्गुणः॥ ७।३।८२
काशिका-वृत्तिः
मिदेर् गुणः ७।३।८२

मिदेरङ्गस्य इको गुणो भवति शिति प्रत्यये परतः। मेद्यति, मेद्यतः, मेद्यन्ति। शिति इत्येव, मिद्यते।
न्यासः
मिदेर्गुणः। , ७।३।८२

"ञिमिदा स्नेहने" (धा।पा।७४३,१२४३) इति भौवादिको दैवादिकश्च, तत्र दिवादेरिह ग्रहणम्(); इतरस्व ह्रङित्त्वाच्छपः "पुगन्तलघूपधस्य च" ७।३।८६ इत्येवं गुणः सिद्धः। "मिद्यते" इति। "भावकर्मणोः" १।२।१३ इत्यात्मनेपदम्(), "सार्वधातुके यक्()" ३।१।६७
बाल-मनोरमा
मिदेर्गुणः १८५, ७।३।८२

"मिमिदे" इत्यत्र लिटः "असंयोगा"दिति कित्त्वेऽपि गुणं शङ्कितुमाह--मिदेर्गुणः। "मिदे"रित्यवयवषष्ठी। गुणश्रुत्या "इको गुणवृद्धी" इति परिभाषया इक इत्युपतिष्ठते, "ष्ठिवुक्लमुचमां शिति" इत्यतः शितीत्यनुवर्तते। श् चासाविच्चेति कर्मधारयः। तेन च अधिकृताऽङ्गाक्षिप्तः प्रत्ययो विशेष्यते। तदादिविधिः। इत्संज्ञशकारादौ प्रत्यये परे इति लभ्यते। तदाह--मिदेरित्यादिना। दैवादिकमिदेः श्यनि मेद्यते इत्याद्युदाहरणम्। श् इत् यस्येति बहुव्रीहिमाश्रित्य शिति प्रत्यये परे मिदेरिको गुण इत्येव कुतो न व्याख्यायत इत्याशङ्क्य मिमिदे इत्यत्र गुणाऽभावार्थमित्संज्ञकशाकारादाविति व्याख्येयमित्यभिप्रेत्याह--एश आदिशित्त्वाभावादिति। ञिष्विदेति। षोपदेशोऽयम्। अनिट्सु स्विद्येति श्यन्विकरणस्यैव ग्रहणादयं सेट्। रुच दीप्तावभिप्रीतौ चेति। अभिप्रीतिः- प्रीतिविषयीभवनम्। दीप्तौ उदाहरत--रोचते सूर्य इति। प्रकाशत इत्यर्थः। अभिप्रीतौ उदाहरति-- हरये रोचते भक्तिरिति। भक्तिर्हर्याश्रितप्रीतिविषयो भवतीत्यर्थः। "रुच्यर्थाना"मिति संप्रदानत्वाच्चतुर्थी। क्षुभ संचलने इति। क्षोभते। क्षुभ्यतीति दिवादौ। क्षुभ्नातीति क्र्यादौ। णभधातुर्णोपदेश नभते। आद्योऽभावे चेति। चात्संचलनेऽपि। तत्र अभावार्थकस्य प्रयोगं दर्शयति-- नभन्तामन्यके समे इति। मन्त्रोऽयम्। नन्वत्र मन्त्रे णभेर्हिंसार्थकत्वमेव कुतो न स्यादित्य आह--मा भूवन्नन्यके सर्वे इति। "नभन्ता"मित्यस्य विवरणं-- भा भूवन्निति। न भवन्तीत्यर्थः। "समे"इत्यस्य विवरणं-- सर्वे इति। निरुक्तमिति। वेदव्याख्यानात्मको यास्कप्रणीतो ग्रन्थविशेषो निरुक्तम्। रुआंसु ध्वंसु भ्रंसु इति। त्रयो नोपधा इति भावः। नारुआसदिति। "नारुआंस" दित्यपपाठः। नचाऽरुआंसदिति लङो रूपमिति भ्रमितव्यं, तत्र परस्मैपदाऽसंभवात्। रुआम्भुदातुरकारमध्यः। वृतु वर्तने इति। उदित् ऋदुपधः सेट्कः। वर्तते इति। शपि गुणे रपरत्वम्। ववृते इति। "असंयोगा"दिति कित्त्वाद्गुणाऽभावे द्वित्वे उरदत्त्वे रपरत्वे हलादिशेषे रूपम्। लुटि--वर्तिता।

तत्त्व-बोधिनी
मिदेर्गुणः १५८, ७।३।८२

मिदेर्गुणः। "ष्ठिवुक्लमुचमा"मित्यतः शितीत्यनुवर्तते। तत्र शश्चासौ इच्चेति कर्मदारयात्समप्तमी। अङ्गाक्षिप्तप्रत्ययस्तु विशेष्यः। तेन "यस्मिन्विधि"रिति तदादिविधिः प्रवर्तते। तदाह-- इत्संज्ञकशकारादाविति। आदिशित्त्वाभावादिति। मेद्यति मेद्यत इत्यादौ तु "दिवादिभ्य" इति श्यन आदिशित्त्वाद्गुणो भवत्येव। मिमिदे इति। "शिती"ति बहुव्रीहौ त्विह स्यादेव गुणः। तथा पपे तस्थे इत्यादौ पिबादयोऽपि स्युरिति भावः। ञिष्विदा। अनिट्कारिकायां स्विद्यतिरिति श्यना निर्देशादयं सेट्। स्वेदिता। स्वेदिष्यते। ञिक्ष्विदा चेति। पूर्वोक्तयोरेवार्थयोरयमिति बोध्यम्। हरये इति। "रुच्यर्थाना"मिति संप्रदानसंज्ञायां चतुर्थी। घुट्।परिवर्तनम्-- इतस्ततो भ्रमणम्। जुघुटे इति। "असंयोगा"दिति कित्त्वाद्गुणाऽभावः। क्षुभ। संचलनं-- प्रकृतिविपर्यासो,मन्थनं च। क्षोभते। "क्षुभ्यती"ति दिवादौ। "क्षुभ्नाती"ति क्र्यादौ। नारुआसदिति। "नारुआंस"दित्यपपाठ एव। न चेदं लहो रूपं, तत्र परस्मैपदाऽसंभवादिति भावः।