पूर्वम्: ७।३।९४
अनन्तरम्: ७।३।९६
 
सूत्रम्
तुरुस्तुशम्यमः सार्वधातुके॥ ७।३।९५
काशिका-वृत्तिः
तुरुस्तुशम्यमः सार्वधातुके ७।३।९५

तु इति सौत्रो ऽयं धातुः, रु शब्दे, ष्टुञ् स्तुतौ, शमु उपशमे, अम गत्यादिषु इत्येतेभ्यः परस्य सार्वधातुकस्य हलादेर् वा ईडागमो भवति। उत्तौति, उत्तवीति। उपरौति, उपरवीति। उपस्तौति, उपस्तवीति। शाम्यध्वम्, शमीध्वम्। अभ्यमति, अभ्यमीति। शम्यमोः बहुलं छन्दसि २।४।७३ इति विकरणलुकि सति हलादिसार्वधातुकम् अनन्तरं सम्भवति। आपिशलाः तुरुस्तुशम्यमः सार्वधातुकासुच्छन्दसि इति पठन्ति। तत्र सर्वेषाम् एव छन्दसि विषये विधिरयं भवति। सार्वधातुके इति अनुवर्तमाने पुनः सार्वधातुकग्रहणम् अपिदर्थम्, स्तुवीत, शमीध्वम् इत्यत्र अपि यथा स्यातिति।
न्यासः
तुरुस्तुशम्यमः सार्वधातुके। , ७।३।९५

"तु" इति सौत्रो धातुर्वृद्ध्यर्थे इत्येके, हिंसार्थे इत्यपरे। अस्य च लुग्विकरणत्वं स्मर्यते, तच्च "बहुल छन्दसि" २।४।७३ इति बहुलग्रहणेन भाषायामपि लुकसम्पादनाल्लभ्यते। "शमीष्पम्()" इति। लोट्()। "अशमीध्वम्()" इति। लङ्()। "अभ्यमीति" इति। लोट्()। "अशमीध्वम्()" इति। लङ्()। "अभ्यमीति" इति। "अम गत्यादिषु" (धा।पा।४६५) लट्(), तिप्()। कथं पुनः शम्यमिभ्यामनन्तरं हलादि सार्वधातुकं सम्भवति, यावता शमेव्र्यवधायकेनैव श्याना भवितव्यम्()। अमेरपि शप्? क्रियते? इत्याह--"शध्यमोः" इत्यादि। विकरणस्यात्र लुक्? "बहुलं छन्दसि" २।३।७३ इत्यमेन। "सार्वधातुकासु" इति। स्त्रीलिङ्गनिर्देशा। स्त्रीलिङ्गस्य सार्वधातुकाशब्दस्यापिशलिना संज्ञात्येन प्रचीतत्वात्()। अथ सार्वधातुकग्रहणं किमर्थम्(), यावता "नाभ्यस्तस्याचि पिति सार्वधातुके" (७।३।८७) इत्यतः सूत्रात्? सार्वधातुकग्रहणमनुवर्तते? इत्याह--"सार्वधातुक इत्यनुवत्र्तमाने" इत्यादि। तद्धि सार्वधातुकग्रहणं पितीत्यनेन सम्बद्धम्()। अतस्तदनुवृत्तौ पिद्ग्रहणमप्यमुवत्र्तेत तथा चापिति न स्यात्()। तस्मादपित्यपि यथा स्यादियेवमर्थं त्सार्वधातुकग्रहणं क्रियते॥
बाल-मनोरमा
तुरुस्तुशम्यमः सार्वधातुके २७५, ७।३।९५

तुरुस्तु। तु रु स्तु शमि अम् एषां समाहारद्वन्द्वात्पञ्चम्येकवचम्। "उतो वृद्धि"रित्यतो हलीति, "भूसुवो"रित्यतस्तिङीति, "ब्राउव ई"डित्यत ईडिति, "यङो वे"त्यतो वेति चानुवर्तते। तदाह--- एभ्य इत्यादिना। नाभ्यस्तस्येति। "नाभ्यस्तस्याऽचि पिति सार्वधातुके इत्यतः सार्वधातुके इत्यनुवृत्तिसंभवे पुनः सार्वधातुकग्रहणं पितीत्यस्याऽनुवृत्तिर्मा भूदित्येतदर्थमित्यर्थः। रवीतिति। ईट्पक्षे हलादित्वाऽभावादुतो वृद्धिर्नेति भावः। रौतीति। ईडभावे "उतो वृद्धि"रिति भावः। रुवीतः रुत इति। अपित्त्वेऽपि ईड्विकल्प इति भावः। रुवन्तीति। अन्तादेशे कृते हलादित्वाऽभावादीडभावे उवङिति भावः। शाम्यतीति। श्यनस्तिङ्त्वाऽभावादीण्नेति भावः। आशिषि रूयादिति। आद्र्धधातुकत्वादीडभावे "अकृत्सार्वधातुकयो"रिति दीर्घः। विध्यादौ त्विति। आदिना निमन्त्रणादिसङ्ग्रहः। रुयात् रुवीयादिति। हलादिसार्वधातुकत्वादीड्विकल्प इति भावः। ईडभावपक्षे हलादौ पिति सार्वधातुके "उतो वृद्धि"रिति बोध्यम्। ननु धातुपाठे तुधातोरदर्शनाद्धातुत्वाऽभावात्कथं ततः सार्वधातुकस्य ईड्विधिरित्यत आह--तु इति सौत्रो धातुरिति। गतिवृद्धिहिंसास्विति। अत्र व्याख्यानमेव शरमम्। ननु शपा व्यवदानादस्य सार्वधातुकपरत्वं कथमित्यत आह--अयं च लुग्विकरण इति स्मरन्तीति। अव्यवहिततिङ ईड्विधानमेवाऽत्र बीजम्। शम्यमोस्तु "शमीध्वम् अभ्यमीती"ति वेदे शपो लुकि बोध्यम्। अयमनिट्। हलादौ सार्वधातुके रुधातुवत्। आद्र्धधातुके तु नेट्। तदाह---तोतेति। णु स्तुताविति। णोपदेशोऽयं सेट्। युधातुवद्रूपाणि। क्षुक्ष्णुस्नु धातवः सेट। युधातुवद्रूपाणि। चुक्षाव। चुक्ष्णाव। सुष्णाव इति। षोपदेशोऽयमिति भावः। ऊर्णुञ्धातुरुभयपदी। सेट्। उतो वृद्धेर्नित्यं प्राप्तौ--

तत्त्व-बोधिनी
तुरुस्तु शम्यमः सार्वधातुके २४१, ७।३।९५

"तुरुस्तु। "तुः सौत्रो धातु"रिति वक्ष्यति। अपिदर्थमिति। "एभ्यः परस्य पितः सार्वधातुकस्ये"ति प्राचो व्याख्यानं प्रामादिकं , रुवीतः स्तुवीत इत्याद्यसिद्()ध्यापत्तेरिति भावः। शम्यमोरुदाहरणं तु शमीध्वम्। अभ्यमीति। अभ्यन्ति। शम्यमोश्छन्दसि विकरणस्य लुकि सति झलादिसार्वधातुकमनन्तरं संभवतीति काशिकायामुक्तम्। आपिशलास्तु-- "तुरुस्तुशम्यमः सार्वधातुके छन्दसी"ति पठन्ति, तन्मते सूत्रमिदं छन्दस्येव।