अप्राप्तविषयत्वाद्गुणविधानस्य ङिति सार्वधातुक एतद्विधानम्()। पिति तु सामान्यलक्षणैनैव गुणः सिद्धः। लोट्(), "आडुत्तमस्य पिच्च"
३।४।९२ इत्याटि--शयै, शयावह इत। तस्माद्यत्र गुणो न प्राप्नोति तत्र विधीयते। "शेरते" इति।
अदादित्वाच्छपो लुक्? "त्मनेपदेष्वनतः"
७।१।५ इति झकारस्यादादेशः। अत्र "शीङो रुट्()"
७।१।६ रुडागमो भवति।
"शिश्ये" इति। लिट्(),
"लिट्? च"
३।४।११५ इत्यार्धधातुकसंज्ञा, उत्तमपुरुषस्यैकवचनम्(), प्रथमपुरुषस्यैकवचनं वा। यदा प्रथमपुरुस्यैकवचनं तदैश्(), पूर्ववदेव द्विर्वचनम्, "एरनेकाचोऽसंयोगपूर्वस्य"
६।४।८२ इति यणादेशः; अन्यदेट्(), टेरेत्त्वम्()। अथ गुणग्रहणं किमर्थम्(),
न "शीङः सार्वधातुके एत" इत्येंवोच्येत? एवं मन्यते--"शीङः" इति सानबन्धकनिर्देशे षष्ठ्युच्यारिता, निवृत्तिधर्मा चानुबन्धः तस्येत्संज्ञायां लोपेन निवृत्तौ प्राप्तायामयमन्यप्रकारो निवृत्तेरवज्ञायेत। तस्य नान्येत्संज्ञा निवर्त्तिका,
किं तर्हि? एकारः। एवं तर्हि ङकारस्य स्थान एकार आपद्यते। तस्माद्गुणग्रहणं त्विकमुपस्थापयति। ङकारस्तु तेनैव हेतुना निवत्र्तत इति यद्येवम्(), ङकारो नोच्चारयिष्यते,
"झियः" इति निर्देशः करिष्यते? नैष शक्यम्(); एवं हि निर्देशे सति यङ्लुक्यपि स्यात्()--शेशीत, शेश्यतीति॥