"क्यचि यदुक्तं तन्नभवति" इति।
किं पुनस्तत्()? इत्याह--"दीर्घत्वमीत्वञ्च" इति। ननु च "अनन्तरस्य विधिर्वा भनत प्रतिषेधो वा" (व्या।प।१९) इत्यनन्तरस्य ईत्वस्य प्रतिषेधेन भवितव्यम्(),
न तु व्यवहितस्य दीर्घत्वस्य? नैष दोषः; "अ()आआधस्यात्()"
७।४।३७ इत्य()आआघयोराद्वचनं ज्ञापकम्()--दीर्घत्वस्याप्ययं प्रतिषेधो भवतीति; अन्यथा दीर्घत्वेनैव सिद्धत्वादाकारकरणमनर्थकं स्यात्()। "मित्रयुः" इति। "क्याच्छन्दसि"
३।२।१७० इत्युप्रत्ययः; "अतो लोपः"
६।४।४८ इत्यकारलोपः।
"अपुत्रादीनामिति वक्तव्यम्()" ति। पुत्रादीनां प्रतिषेधो न भवतीत्येतदर्थरूपं व्याख्येयमित्यर्थः। तत्रेदं व्याख्यानम्()--"क्यचि च" (७।४।
३३) इत्यस्यानन्तरं पुत्रस्येति वक्तव्यम्(), किमर्थमिदम्()? "नच्छन्दसि" इति प्रतिषेधं वक्ष्यति तद्बाधनार्थम्()।
एवं "अपुत्रस्य" इति नञ्? उच्चारयितव्यो न भवति। तदिदं "क्यचि च" (७।४।
३३) इत्यस्यानन्तरं पुत्रस्येति वक्तव्ये यदिहापुत्रस्येति वचनं तत्? पूत्रादीनां प्रतिषेधो यथा स्यादित्येवमर्थम्()। एतच्च पुत्रस्योपलक्षणत्वाल्लभ्यते॥