पूर्वम्: ७।४।५८
अनन्तरम्: ७।४।६०
 
सूत्रम्
ह्रस्वः॥ ७।४।५९
काशिका-वृत्तिः
ह्रस्वः ७।४।५९

ह्रस्वो भवति अभ्यासस्य। दुढौकिषते। तुत्रौकिषते। डुढौके। तुत्रौके। अडुढौकत्। अतुत्रौकत्। अभ्यासस्य अनचि। अभ्यासस्य यदुच्यते अनचि तद् भवति इति वक्तव्यम्। चराचरः। चलाचलः। पतापतः। वदावदः। हलादिः शेषो न भवति।
लघु-सिद्धान्त-कौमुदी
ह्रस्वः ३९९, ७।४।५९

अभ्यासत्याचो ह्रस्वः स्यात्॥
न्यासः
ह्वस्वः। , ७।४।५९

"डुढौकिषते, तुत्रौकिषते" इति। ढौकृ, त्रौकृ--इत्येताभ्यामनुदात्तेत्त्वादात्मनेपदिभ्यां सन्(), "पूर्ववत्सनः" १।३।६२ इत्यात्मनेपदम्()। "अडुढौकत्(), अतुत्रौकत्()" इति। आभ्यामेव ण्यन्ताभ्यां लुङ्(), पूर्ववच्चङादिकार्यम्()। "डुढौके, तुत्रौके" इति। लिट, एकवचनम्(), तस्यैश्()। "अभ्यासस्यानचि" इत्यादि। अभ्यासस्य यत्? कार्यं विधीयते तदनचिपरे भवतीत्येतदर्थरूपं व्याख्येयमित्यर्थः। तत्रेदं व्याख्यानम्()--"वा चरिचलिपतिददोनामच्याक्याभ्यासस्य" (वा।६५८) इत्यागमविघानसामथ्र्याद्धलादिशेषेण न भवितव्यम्()। हलादिशेषे हि सत्यादेशस्यागमस्य च क()इआद्विशेषो नास्तीत्यादेशमेव विदध्यात्()। एवञ्च--अभ्यासलोपाभावात्? पारिशेध्यादचोऽन्यत्रैव भविष्यति॥
बाल-मनोरमा
ह्यस्वः २९, ७।४।५९

भू भूव् अ इति स्थिते--ह्यस्वः। "अत्र लोपोऽभ्यासस्ये"त्यतोऽभ्यासस्येत्यनुवर्तते। ह्यस्वश्रवणादचश्चेति परिभाषया अच इत्युपस्थितम्। तदाह-- अभ्यासस्याऽच इति। भु भूव् अ इति स्थितम्। यद्यपि "भवतेर" इति वक्ष्यमाणाऽकारविधिनैव सिद्धमिदं तथापि लुलावेत्याद्यर्थमावश्यकमिदमत्रैव न्याय्यत्वादुपन्यस्तम्।