पूर्वम्: ७।४।८१
अनन्तरम्: ७।४।८३
 
सूत्रम्
गुणो यङ्लुकोः॥ ७।४।८२
काशिका-वृत्तिः
गुणो यङ्लुकोः ७।४।८२

यङि यङ्लुकि च इगन्तस्य अभ्यासस्य गुणो भवति। चेचीयते। लोलूयते। यङ्लुकि जोहवीति। यगो वा इति इड्विकल्पः। चोक्रुशीति।
लघु-सिद्धान्त-कौमुदी
गुणो यङ्लुकोः ७१५, ७।४।८२

अभ्यासस्य गुणो यङि यङ्लुकि च परतः। ङिदन्तत्वादात्मनेपदम्। पुनः पुनरतिशयेन वा भवति बोभूयते। बोभूयाञ्चक्रे। अबोभूयिष्ट॥
न्यासः
गुणो यङ्लुकोः। , ७।४।८२

अभ्यसस्य गुणोऽयं विधीयते। तेन यद्यप्यत्र लुक्शब्दोऽयं सामान्यः, तथापि यङ्लुक एव सम्प्रत्ययो भवति। न ह्रत्र लुक्यभ्यासः सम्भवतीति मत्वाऽ‌ऽह--"यङि यङ्लुकि च" इत्यादि। "चौक्रुशीति" "क्रुश आह्वाने" (धा।पा।८५६) यङ्(), तस्य "यङोऽचि च" २।४।७४ इति लृक्(), "यङो वा" ७।३।९४ इतीट्(), "न लुमताङ्गस्य" १।१।६२ इति प्रत्ययलक्षणनिषेधाद्यङो लुकि कृते गुणो न प्राप्नोतीति लुग्ग्रहणम्()। "पुगन्तलघुपधस्य च" ७।३।८६ इति प्राप्तोऽपि गुणः "नाभ्यस्तस्याचि पिति सार्वधातुके" ७।३।८७ इति निषिध्यते॥
तत्त्व-बोधिनी
गुणो यङ् लुकोः ३९७, ७।४।८२

ब्राउवो वचिरित्यादीति। वावच्यते, चाख्यायत इत्यादिरूपसिद्धिः प्रयोजनमित्यर्थः। धातुग्रहणाऽभावे धिगित्यव्ययादपि स्यात्तस्य क्रियावाचित्वादेकाच्त्वाच्चेति तद्वारणार्थमपि धातुग्रहणमावश्यकमित्याहुः।