पूर्वम्: ७।४।८२
अनन्तरम्: ७।४।८४
 
सूत्रम्
दीर्घोऽकितः॥ ७।४।८३
काशिका-वृत्तिः
दीर्घो ऽकितः ७।४।८३

अकितो ऽभ्यासस्य दीर्घो भवति यगि यङ्लुकि च। पापच्यते। पापचीति। याय्ज्यते। यायजीति। अकितः इति किम्? यंयम्यते। यंयमीति। रंरम्यते। रंरमीति। ननु चात्र अपवादत्वान् नुकि कृते अभ्यासस्य अनजन्तत्वादेव दीर्घत्वं न भविष्यति? एवं तर्हि अकितः इत्यनेन एतज् ज्ञाप्यते, अभ्यासविकारेष्वपवादा न उत्सर्गान् विधीन् बाधन्ते इति। किम् एतस्य ज्ञापने प्रयोजनम्? डोढौक्यते इत्यत्र दीर्घो ऽकितः इत्यनेन सन्ध्यक्षरह्रस्वो न बाध्यते, अचीकरतित्यत्र दीर्घो लघोः ७।४।९४ इत्यनेन सन्वदित्वं न बाध्यते, मान्प्रभृतीनां दीर्घेण सनीत्वं न बाध्यते मीमांसते, ई च गणः ७।४।९७ इतीत्वेन हलादिशेषो न बाध्यते अजीगणत्।
लघु-सिद्धान्त-कौमुदी
दीर्घोऽकितः ७१७, ७।४।८३

अकितोऽभ्यासस्य दीर्घो यङ्यङ्लुकोः। कुटिलं व्रजति वाव्रज्यते॥
न्यासः
दीर्घोऽकितः। , ७।४।८३

"यंयम्यते" इति। "यम उपरमे" (धा।पा।९८४), "नुगतोऽनुनासिकान्तस्य" ७।४।८५ इति नुक्()। "ननु च" इत्यादिनाऽकित इत्येतत्प्रत्याचष्टे। यंयम्यत इत्यत्र मा भूदित्येवमर्थं "अकितः" इत्युच्यते। अत्र ह्रपवादत्वान्नुकि कृतेऽनजन्तत्वादेव दीर्घो न भविष्यतीति नार्थोऽकित इत्यनेन। "एवं तर्हि" इत्यादिना "अभ्यासविकारेष्वपवादा नोत्सर्गान्? विधीन्? बाधन्ते" (व्या।प।२३) इत्येतां परिभाषां ज्ञापयितुं "अकितः" इत्येतदुच्यत इति दर्शयति। "डोढौक्यते" इति। "ढौकृ गतौ" (धा।पा।९८) इत्यस्य यङि कृते हलादिशेषे च "ह्यस्वः" ७।४।५९ इति ह्यस्वत्वम्(), पूर्वसूत्रेण गुणः। तत्रासत्यस्मिन्? ज्ञापके पिपासतीत्येवमादौ सावकाशं ह्यस्वत्वं "दीर्घोऽकितः" ७।४।८३ इत्येनेन सन्ध्यक्षरे दीर्घत्वेन बाध्येत। दीर्घस्य दीर्घविधाने प्रयोजनाभावाद्दीर्घो न भविष्यतीति चेत्()? नैतत्(); अस्ति हि दीर्घस्य दीर्घविधाने प्रयोजनम्(), किं तत्()? ह्यस्वो मा भूदिति। एवं चासत्यस्मिन्? ज्ञापके "अचीकरत्()" इत्यत्राप्यचिक्षणदित्यादौ सावकाशमित्त्वम्? "दोर्घो लघोः" ७।४।९४ इति दीर्घत्वेन बाध्येत। "मीमांसते" इत्यादावसत्यस्मिन्? ज्ञापके पिपक्षतीत्यादौ सावकाशं "सन्यतः" ७।४।७९ इतीत्त्वं मान्बधादिसूत्रेण ३।१।६ विहितेन दीर्घत्वेन बाध्यते। "अजीगणत्()" इत्यत्राप्यसत्यास्मेन्? ज्ञापके पपाठेत्यादौ सावकाशो हलादिशेषः "ई च गणः" ७।४।९७ इतीत्त्वेन बाध्यते। अ()स्मस्तु सति तर्वमेतन्न बाध्यते। ननु चासति प्रयोजने ज्ञापकं भवति; अस्ति चास्य प्रयोजनम्(), किं तत्()? धातुकित्त्वमपेक्ष्य जहातेर्मा भूत्()--जाहाति, जाहेतीति? नैतदस्ति; यदि ह्रेतत्? प्रयोजनं स्यात्(), तदा "अहाकः" इति प्रतिषेधं कुर्यात्()। किञ्च "अकितः" इत्यभ्यासस्य विशेषणं भवितुमर्हति, यद्यभ्यासावस्थायां कित्त्वमुपजायते। न च जहातेः कित्त्वमभ्यासमपेक्षते, पूर्वमेव हि तदभ्यासाद्भवति। तस्माज्जहातेः--जाहाति, जाहेतीति रूपेण भवितव्यम्()। ततश्च "अकितः" इति वचनं ज्ञापकमेव। कित्करणं तु जहातेः "हश्च व्रीहिकालयोः" ३।१।१४८ इत्यत्र सामान्यग्रहणाविघातार्थम्()। अथ दीर्घग्रहणं किमर्थम्(); आदित्येव नो()येत/ नैवं शक्यम्(), "अकितः" इत्यस्य ज्ञापकता नोपपद्यते। सति हि दीर्घग्रहणे नुकि कृतेऽनजन्तत्वादेव हि दीर्घस्य प्राप्तिर्नास्तीति "अकितः" इति प्रतिषेधस्य ज्ञापकत्वमुपपद्यते। आकारस्तु विधीयमानोऽजन्तस्याभ्यासस्य स्यादिति "अकितः" इत्यस्य ज्ञापकत्वं न स्यात्()। तस्माद्दीर्घग्रहणं कत्र्तव्यम्()॥
तत्त्व-बोधिनी
दीर्घोऽकितः ३९९, ७।४।८३

दीर्घोऽकितः। अकितः किम्?। यंयम्यते। रंरम्यते। ननु दीर्घश्रुत्योपस्थितेनाऽचा "अत्र लोपोऽभ्यासस्ये"त्यतोऽनुवृत्तमभ्यासस्येत्येतद्विशिष्येत। ततश्चाऽजन्ताभ्यासस्य दीर्घो भवतीत्यर्थात् पापच्यत इत्यादावेव दीर्घो भवेन्न तु यंयम्यते जङ्घनीतित्यादौ। तत्र हि परत्वान्नुकि कृतेऽभ्यासस्याऽजन्तत्वाऽभावाद्दीर्घस्य प्रसक्तिरेव नास्तीति किमनेनाऽकित इत्यनेन। न चाभ्यासावयवस्याऽचो दीर्घ इति वैयधिकरण्यान्वये स्वीकृतेऽकिद्ग्रहणं प्रयोजनवदिति वाच्यं, संभवति सामानाधिकरणे वैयधिकरण्यस्याऽन्याय्यत्वात्। येन नाप्राप्तिन्यायेन नुको दीर्घापवादत्वस्वीकाराच्च। तस्मादकित इति व्यर्थमिति चेत्। अत्राहुः-- डोढौक्यते इत्यत्राभ्यासह्यस्वं बाधित्वा परत्वात् "दीर्घोऽकितः" इति दीर्घे कृते डोढौक्यत इति स्यात्। तस्मादभ्यासविकारेषु उत्सर्गविधीन्बाधका न बाधन्त इति ज्ञापनायाऽकित इति ग्रहणं कर्तव्यमिति। रतथाचोक्तज्ञापकनिर्वाहाय "दीर्घोऽकितः" इत्यत्राऽभ्यासस्याऽच इति वैयकरम्यपक्षस्याश्रयणाद्यंयम्यत इत्यादौ दीर्घात्प्रागेव नुकि कृतेऽपि दीर्घः स्यात्, तद्वारणार्थमकित इत्यावश्यकमिति दिक्। अटाट()त इति। इह ट()शब्दस्य द्वित्वम्।