पूर्वम्: ७।४।८९
अनन्तरम्: ७।४।९१
 
सूत्रम्
रीगृदुपधस्य च॥ ७।४।९०
काशिका-वृत्तिः
रीगृदुपधस्य च ७।४।९०

ऋदुपधस्य अङ्गस्य यो ऽभ्यासः तस्य रीगागमो भवति यङ्यङ्लुकोः परतः। वरीवृत्यते। वरीवृतीति। वरीवृध्यते। वरीवृधीति। नरीनृत्यते। नरीनृतीति। रीगृत्वत इति वक्तव्यम्। इह अपि यथा स्यात्, वरीवृश्च्यते। वरीवृश्चीति। परीपृच्छ्यते। परीपृच्छीति।
लघु-सिद्धान्त-कौमुदी
रीगृदुपधस्य च ७१९, ७।४।९०

ऋदुपधस्य धातोरभ्यासस्य रीगागमो यङ्यङ्लुकोः। वरीवृत्यते। वरीवृताञ्चक्रे। वरीवर्तिता॥
न्यासः
रीगृदुपधस्य च। , ७।४।९०

"वरीवृत्यते" इत्यादीनि वृतिवृधिनृतीनां (धा।पा।७५८,७५९।१११६) रूपाणि। "रीगृत्वत इति वक्तव्यम्()" इति। ऋदुपधादन्यस्यापि ऋत्वतो रीगादयो यथा स्युरित्येवमर्थो व्याख्येय इत्यर्थः। तत्रेदं व्याख्यानम्()--चकारोऽत्र क्रियते, स च ऋदुपधादन्यस्यापि ऋत्वतः समुच्चयार्थः, तेन वृश्चतिप्रभृतीनामपि ऋत्वतां रीगादयो भवन्तीति। "रीगृत्वतः" इति सूत्रं न कृतम्(); वैचित्र्याथम्()। "ऋदुपधस्य" इति तपरकरणमसन्देहार्थम्()। उकारे परतो यणादेशे कृते सन्देहः स्यात्()--किमृकारोपधस्य? अथ वा रेफोपधस्येति()॥