पूर्वम्: ७।४।९६
अनन्तरम्: ८।१।१
 
सूत्रम्
ई च गणः॥ ७।४।९७
काशिका-वृत्तिः
ई च गणः ७।४।९७

गणेः अभ्यासस्य ईकारादेशो भवति चङ्परे णौ परतः, चकारातत् च। अजीगणत्, अजगणत्। इति श्रीवामनविरचितायां काशिकायां वृत्तौ सप्तमाध्यायस्य चतुर्थः पादः। अष्टमो ऽध्यायः प्रथमः पादः।
लघु-सिद्धान्त-कौमुदी
ई च गणः ७००, ७।४।९७

गणयतेरभ्यासस्य ई स्याच्चङ्परे णौ चादत्। अजीगणत्, अजगणत्॥
लघु-सिद्धान्त-कौमुदी
इति चुरादयः ७००, ७।४।९७

लघु-सिद्धान्त-कौमुदी
अथ ण्यन्तप्रक्रिया ७००, ७।४।९७

न्यासः
ई च गणः। , ७।४।९७

"गण संख्याने" (धा।पा।१८५३) चुरादावदन्तः। तत्राकारात्? "अतो लोपः" ६।४।४८ इति लोपे कृतेऽनग्लोप इति वचनादप्राप्तयोरेव सन्बद्भावदीर्घयोरिवमीत्वं विधीयते। चकारो विभाषेत्यनुकर्षणार्थः॥ इति बोधसत्त्वदेशीयाचायं श्रीजिनेन्द्रवुद्धिपादविरचितायां काशिकाविवरणपञ्जिकायां सप्तमाध्यायस्य चतुर्थः पादः समाप्तश्च सप्तमोऽध्यायः - - - अष्टमोऽध्यायः प्रथमः पादः
बाल-मनोरमा
ई च गणः ४०१, ७।४।९७

ई च गणः। "सन्वल्लघुनी" त्यतश्चङ्परे इति, "अत्र लोपे"त्यतोऽभ्यासस्येति चानुवर्तते। तदाह --- गणेरभ्यासस्येति। "अत्स्मृदृ()त्वरे"ति पूर्वसूत्रादद्ग्रहणं चकारादनुकृष्यते। तदाह -- चाददिति। स्तनगदी देवशब्दे इति। पर्जन्यगर्जने इत्यर्थः। स्तनश्च गदिश्चेति द्वन्द्वः। गदीति इका निर्देशः। गदेत्यकारान्तदिकि अल्लोपे गदीति निर्देशः। एवं च प्राकरणिकमदन्तत्वं न व्याहन्यते। पत गतौ वेति। गतावर्थे पतधातुर्णिचं वा लभत इत्यर्थः। तदाह -- वा णिजन्त इति। आधृषीयत्वाऽभावाद्विकल्पविधिः। यद्वा वाशब्दस्य अदन्तत्व एवाऽन्वयः। णिच् तु नित्य एव। तदाह -- वा अदन्त इत्येके इति। प्रथमपक्षे तु अदन्तत्वमेव। तदाह-- आद्ये पतयतीति। अल्लोपस्य स्थानिवत्त्वान्न वृद्धिः। पतांचकारेति। णिजभावेऽप्यदन्तत्वात्कास्यनेकाजित्यामिति भावः। चङि-- अपपतत्। अग्लोपित्वान्न दीर्घसन्वत्त्वे। द्वितीये पातयतीति। तकारादकारस्युच्चारणार्थत्वादुपदावृद्धिरिति बावः। अपीपतदिति। अग्लोपित्वाऽभावाद्दीर्घसन्वत्त्वे इति भावः। कृपयतीति। अदन्तस्य त्वस्य धात्वन्तरत्वात् "कृपो रो लः" इति न भवति। स्पृह ईप्सायाम्। आप्तुमिच्छा- ईप्सा। अबभामदिति। चङि अल्लोपस्य स्थानिवत्त्वान्नोपधाह्यस्वः। सूच पैशुन्ये। अषोपदेशत्वादिति। अनेकाच्त्वादिति भावः। खेट भक्षणे। तृतीयान्त इति। टवर्गतृतीयान्त इत्यर्थः। साम सान्त्वप्रयोगे। सान्त्वप्रयोगः = अकटुभाषणम्। अससामदिति। अल्लोपस्य स्थानिवत्त्वान्नोपधाह्यस्वः। ननु "साम सान्त्वने" इति कथादेः प्राक् चुरादौ पाठो व्यर्थः, अनेनैव सिद्धेरित्यत आह -- सामसान्त्वने इत्यतीतस्य तु असीषमदिति। पूर्वपठिते सामधातौ मकारादकारस्य उच्चारणार्थतया उपधाह्यस्वे, दीर्घसन्वत्त्वे चेत्यर्थः। यद्यपि "साम सान्त्वप्रयोगे" इत्येव प्राक् चुरादौ पठितम्,ततापि सान्त्वनस्य सामप्रयोगादनन्यत्वात्तथोक्तिरिति भावः। गवेष मार्गणम् - अन्वेषणम्। चङि अल्लोपस्य स्थानिवत्त्वान्नोपधाह्यस्वः। तदाह - अजगवेषदिति। निवास आच्छादने। अनिनिवासत्। ऊन परिहाणे। परिहाणम् - न्यूनीभावः। ऊनयतीति। णावतो लोप इति भावः। ननु लुङि चङि ऊन इ अ त् इति स्थिते णिलोपे "चङी"त्यजादेर्द्वितीयस्य नशब्दस्य द्वित्वे अतो लोपे अग्लोपित्वेन सन्वत्त्वाऽभावादभ्यासे इत्त्वदीर्घयोरभावे आटो वृद्धौ औननदिति रूपं वक्ष्यति, तदनुपपन्नं, द्वित्वात्प्रागेव परत्वादतो लोपे कृते निशब्दस्य द्वित्वे औनिनदित्येवमभ्यासे इकारश्रवणप्रसङ्गात्। न च द्वित्वे कार्ये अतो लोपस्य "द्विर्वचनेऽची"ति निषेधः शङ्क्यः, अल्लोपपययोरपरयो"रित्येव वक्तव्ये "पु" इति पवर्गस्य, "य"णिति प्रत्याहारस्य , जकारस्य च ग्रहणं लिङ्()मित्यन्वयः। कुत्र लिङ्गमित्यत आह -- णिचीत्यादि। द्वित्वे कार्ये णिज्निमित्तकोऽच आदेशो न स्यादित्यत्र लिङ्गमिति पूर्वेणान्वयः। "तथाहि - "ओः पुयण्ज्यपरे" इति सूत्रम्। "सनि परे यदङ्गं तदवयवाऽभ्यासोवर्णस्य इकारः स्यादवर्णपरकेषु पवर्गयण्जकारेषु परत" इति तद। "पुङ्" पिपवायिषति, "भू"बिभावयिषति, "यु"- यियावयिषति, "रु"- रिरावयिषति, "लूञ्"- लिलावयिषति, "जु"- जिजवयिषतीत्युदाहरणानि। अत्र द्वित्वं प्रत्यनिमित्ते णिचि "द्विर्वचनेऽची"ति निषेधाऽप्रवृत्त्या द्वित्वात्प्रागेव परत्वाद्वृद्ध्यावादेशयोः कृतयोरभ्यासेष्वाकारस्य ह्यस्वे सति "सन्यतः" इत्येव इत्त्वसिद्धेः पवर्गयण्प्रत्याहारजकारग्रहणं व्यर्थम्। पकारयकारग्रहणं तु न व्यर्थं, पिपावयिषति यियावयिषतीत्यत्र उक्तरीत्या "सन्यतः" इति इत्त्वसिद्धावपि पिपविषते यियविषतीत्यत्र पूङ्धातोर्युधातोश्च अण्यन्तात्सनि अब्यासे इत्त्वार्थं तदावश्यकत्वात्। तत्र हि -- "इको झ"ल#इति सनः कित्त्वात् "श्र्युकः किति" इति प्राप्तमिण्निषेधं बाधित्वा, "स्मिपूङ्रञ्ज्वशां सनी"ति, "सनीवन्तद्र्धभ्रस्जदम्भुश्रिस्वृयूर्णुभरज्ञपिसना"मिति च सूत्राभ्यामिटि कृते इडादेः सनो द्वित्वनिमित्तत्वेन इटोऽपि द्वित्वनिमित्ततया "द्विर्वचनेऽची"ति गुणावाऽदेशयोर्निषेधे सति "पू" "यु" इत्यनयोर्द्वित्वे अभ्यासे अकाराऽभावेन "सन्यतः" इत्यस्याऽप्रवृत्त्या तत् इत्त्वार्थं "पययो"रित्यावश्यकम्। वर्गप्रत्याहारजकारग्रहणं "तु द्वित्वे कार्ये णावच आदेशो ने"त्यनाश्रयणे व्यर्थमेव। तदाश्रयणे तु बिभावयिषतीत्यादिषु णिचि लु()पते सति "चङी"ति द्वित्वे कार्ये प्रत्ययलक्षममाश्रित्य णिचि गुणाऽवादेशयोः प्रतिषेधे सति उवर्णान्तानां द्वित्व अभ्यासे अकाराऽभावेन "सन्यतः" इत्यस्याऽप्रवृत्त्या वर्गप्रत्याहारजकारग्रहणमर्थवत्। अतो द्वित्वे कार्ये णावच आदेशो नेति विज्ञायत इत्यर्थः। ननु "कृ()त संशब्दने" अस्मात् णौ "उपधायाश्चे"ति दीर्घे अचिकीर्तदिति रूपमिष्यते। तन्न युज्यते। द्वित्वे कर्तव्ये णावच आदेशस्य निषिद्धतया इत्त्वात्प्रागेव कृ()दित्यस्य द्वित्वे, उरदत्त्वे, रपरत्वे, हलादिशेषे, कस्य चुत्वे, उत्तरखण्डे, ऋत इत्त्वे, रपरत्वे, उपधादीर्घे, अचकीर्तदित्यापत्तेरित्यत आह-- यत्र द्विरुक्तावित्यादि। यत्र धातौ चङि द्विर्वचने कृते अभ्यासोत्तरखण्डस्य आद्योऽच् अवर्णो लभ्यते तत्रैव द्वित्वे कार्ये णावच आदेशो नेत्ययं निषेध इत्यन्वयः। यद्यपि धातोरवयवस्य एकाचो द्वित्वे कृते अभ्यासोत्तरखण्डे द्वितीयस्याऽचोभावादाद्योऽजिति व्यर्थमेव, तथापि स्पष्टार्थं तदित्याहुः। नन्वभ्यासोत्तरखण्डस्याद्योऽजवर्णो लभ्यते इत्यत्र किमवर्णो द्वित्वप्रवृत्तिवेलायां विवक्षितः, उत परिनिष्ठिते रूपे विवक्षितः?, नाद्यः, क्षुधातोण्र्यन्तात्सनि चुक्षावयिषतीत्यत्र "क्षु" इत्यस्य द्वित्वे कृते अभ्यासोत्तरखण्डे प्रक्रियादशायामवर्णाऽभावेन वृद्ध्यावादेशयोर्निषेधाऽप्रवृत्त्या द्वित्वात्प्रागेव परत्वाद्वृद्ध्यावादेशयोः क्षावित्यस्य द्वित्वे चिक्षावयिषतीत्यापत्तेः। न द्वितीयः, ऊन इ अ त् इति स्थिते सति "ने"त्यस्य द्वित्वेऽभ्यासोत्तरखण्डेऽल्लोपे सत्यवर्णाऽभावेन णावल्लोपस्य निषेधाऽप्रवृत्या द्वित्वात् प्रागेव परत्वादतो लोपे सति "नी" त्यस्य द्वित्वे औननदित्यापत्तेरित्यत आह-- प्रक्रियायां परिनिष्ठिते रूपे वेति। न त्वमुकत्रैवेत्याग्रह इति भावः। सजातीये पुयण्जामभ्यासोत्तरखण्डेऽवर्णपरत्वनियमादिति भावः। सिद्धमिति। प्रक्रियायां परिनिष्ठिते वा उत्तरखण्डे अवर्णाऽभावादृ()त इत्त्वस्य न निषेध इति भावः। एवं च "चुक्षावयिषती"त्यत्र "क्षु" इत्यस्य द्वित्वे प्रक्रियादशायामभ्यासोत्तरखण्डेऽवर्णाऽभावेऽपि परिनिष्ठिते रूपे तत्सत्त्वाण्णौ गुणावादेशयोर्भवत्येव द्वित्वे कार्ये निषेधः। औननदित्यत्रापि णौ भवत्येवाऽल्लोपस्य निषेध इत्याह -- प्रकृते त्विति। औननदित्यत्रेत्यर्थः। नशब्दस्येति। अल्लोपात्प्रागेव नशब्दस्य द्वित्वाश्रयणे प्रक्रियादशायामुत्तरखण्डेऽवर्णलाभादल्लोपस्य निषेधे सति नशब्दस्यैव द्वित्वं, न तु निशब्दस्येति भावः। तत इति। नशब्दस्य द्वित्वाऽनन्तरमुत्तरखण्डे अल्लोप इति भावः। अत्र नशब्दद्वित्वार्तमेव ऊनधातोरदन्तत्वं स्थितम्। फलान्तरं सूचयन्नाह -- मा भवानूननदिति। अग्लोपित्वान्नोपधाह्यस्व इति भावः। पाठान्तरमिति। "केत श्रावणे" इत्यादि ज्ञेयमित्यर्थः। चकारात्केतेति। "समुच्चीयते" इतिशेषः। सङ्कोचने इतीति। इतिशब्दः पाठान्तरसमाप्तौ। स्तेन चौर्ये। अनेकाच्त्वान्न षोपदेशोऽयमिति मत्वा आह-- अतिस्तेनदिति। गृह ग्रहणे। ऋदुपधोऽयम्। गृहयते इति। अल्ल#ओपस्य स्थानिवत्त्वान्न गुण इति भावः। लुङि - अजगृहत। अग्लोपित्वान्न सन्वत्तवम्। मृग अन्वेषणे। मृगयते इति। इहाऽप्यल्लोपस्य स्थानिवत्त्वान्न गुणः। "मार्ग् अन्वेषणे" इत्याधृषीयस्य तु मार्गयति,मार्गतीति च गतम्। अर्थ उपयाच्ञायाम्। अर्थयते इति। अर्थ इ इति स्थिते अतो लोपः, न तु "अचो ञ्णिती"ति वृद्धि, "वृद्धेर्लोपो बलीया" निति न्यायात्। "अर्थवेदयो"रित्यापुक्तु न, तत्र प्रातिपदिकस्य ग्रहणात्। गर्व माने। अभिमाने इत्यर्थः। ननु कथादावस्य पाठो व्यर्थः, अदन्तत्वे फलाऽभावात्। नच सन्वत्त्वनिवृत्तये अग्लोपित्वाय अदन्तत्वमिति शङ्क्यं, लघुपरकत्वाऽभावादेव तदप्रसक्तेः। नाऽप्यल्लोपस्य स्थानिवद्भावादुपधावृद्धिनिवृत्त्यर्थमदन्तत्वमिति, शङ्क्यं, गकारादकारस्यानुपधात्वादेव तदप्रसक्तेरित्यत आह- - अद्नतत्वसामथ्र्याण्णिज्विकल्प इति। ननु "गर्वते" इत्यत्र णिजभावेऽप्यदन्तत्वं निष्फलमिति कतं तस्य विकल्पज्ञापकतेत्यत आह -- धातोरन्त उदात्त इति। तेन "गर्वते" इत्यत्र वकारादकारौदात्तः फलति। अदन्तत्वाऽभावे तु गकारादकार उदात्तः स्यादिति भावः। लिट()आम् चेति। "गर्वाचक्रे" इतय्त्र "कास्यनेकाचः" इत्याम्प्रत्ययोऽप्यदन्तत्वस्य फलमित्यर्थः। अन्यथा अनेकाच्त्वाऽभावादाम्न स्यादिति भावः। एवमग्रेऽपीति। "मूत्र प्ररुआवणे" इत्यादावित्यर्थः। इत्यागवर्वीयाः। सूत्र वेष्टने। अनेकाच्त्वादषोपदेशत्वार्थमस्य अदन्तत्वमिति न ततोऽस्य णिज्विकल्पः। कत्र शैथिल्ये। कर्त इत्यपीति। अदन्तत्वसामथ्र्यादस्य णिज्विकल्प इति मत्वाह -- कर्तयति कर्ततीति। प्रातिपदिकाद्धात्वर्थे। चुरादिगमसूत्रमिदम्। "इष्ठ"वदिति सप्तम्यन्ताद्वतिः। तेन भुवमाचष्टे भावयीत्यत्र "इष्ठस्य यिट् चे"ति यिडागमो न भवति। तदाह --इष्ठे यथेति। अत्र "धात्वर्थे इत्यनेन करणम् आख्यानं दर्शनं वचनं श्रवणमित्यादि गृह्रते। पुंवद्भावेति। अतिशयेन पट्वी पटिष्ठेत्यत्र "भस्याऽढे" इति पुंवत्त्वम्। "द्रढिष्ठ" इत्यत्र "र ऋतो हलादेर्लघो"रिति रभावः। अतिशयेन साधुः साधिष्ठ इत्यत्र टिलोपः। अतिशयेन रुआग्वी रुआजिष्ठ इत्यत्र "विन्मतोर्लु"गिति विनो लुक्। अतिशयेन गोमान् गविष्ठ इत्यत्र मतुपो लुक्ऽतिशयेन स्थूलः स्थविष्ठ इत्यादौ "स्थूलदूरयुवे"त्यादिना यणादिलोपः, पूर्वस्य च गुणः। अतिशयेन प्रियः प्रेष्ठ इत्यादौ "प्रियस्थिरे"त्यादिना प्रस्थाद्यादेशः। अतिशयेन रुआग्वी रुआजिष्ठ इत्यत्र भत्वान्न कुत्वम्। एते इष्ठे इव णावपि परतः स्युरित्यर्थः। पटयतीति। पटुमाचष्टे इत्याद्यर्थे णिच्। इष्ठवत्त्वाट्टेरिति टिलोप इति भावः। ननु उकारस्य टेर्लोपे सति अग्लोपित्वात्सन्वत्त्वं न स्यादित्यत आह--- परत्वादद्वृद्धौ सत्यां टिलोप इति। "अचो ञ्णितीत"ति उकारस्य वृद्धौ कृतायामेकारस्य टेर्लोपः। अकृतायां तु वृद्धावुकारस्य टेर्लोपः। ततश्च "शब्दान्तरस्य प्राप्नुवन्विधिरनित्यः" इति न्यायेन टिलोपोऽनित्यः। वृद्धिस्तु टिलोपे कृते सति नैव भवतीति साऽप्यनित्या। एवंच वृद्धिटोलोपयोरुभयोर्मध्ये परत्वादुकारस्य वृद्धिरौकारः। तस्याऽवादेशात्प्रागेव परत्वाद्वार्णादाङ्गस्य बलीयस्त्वाच्च औकारस्य टेर्लोपैत्यर्थः। एवं च अनग्लोपित्वात्सन्वत्त्वमिति मत्वाऽ‌ऽह - अपीपटदिति। एतच्च "मुण्डमिश्रे"ति सूत्रे भाष्यकैयटयोः स्पष्टम्। स्थितमिति। तथा च वृद्धेः प्रागुकारस्य लोपेऽग्लोपित्वान्न सन्वत्त्वमित्यर्थः। भाष्ये उभयथा दर्शनाद्रूपद्वयमपि साध्विति बोध्यम्। शब्देन्दुशेखरे तु -- "वृद्धेर्लोपो बलीया"निति "णौ चङी"ति सूत्रभाष्यमेव प्रमाणं। "मुण्डमिश्रे"ति सूत्रभाष्यं त्वेकदेश्युक्तिरिति प्रपञ्चितम्। अत्र पुंवद्भावादिकमुदाह्यियते-- एनीमाचष्टे एतयति। पुंवद्भावान्ङीब्नकारयोर्निवृत्तिः। दृढमाचष्टे द्रढयति। "र ऋतः" इति रभावः। रुआग्विणमाचष्टे रुआजयति। "विन्मतो"रिति विनो लुक्। गोमन्तमाचष्टे गवयति। मतुपो लुक्। अङ्गवृत्तपरिभाषया न वृद्धिः। स्थूलमाचष्टे स्थवयतीत्यादिषु यणादिलोपः। प्रियमाचष्टे प्रापयति, स्थिरमाचष्टे स्थापयतीत्यादिषु प्रस्थस्फाद्यादेशाः। अत्र वृद्धिर्भवत्येव, "द्वयो"रिति निर्देशेन अङ्गवृत्तपरिभाषया अनित्यत्वाश्रयणात्। रुआग्विणमाचष्टे रुआजयति। सुबन्ताद्विहितस्य विनो लुक्यन्तर्वर्तिविभक्त्या पदत्वात् प्राप्तं कुत्वं भत्वान्न भवति। तत्करोति तदाचष्टे। इदमपि चुरादिगणसूत्रम्। प्रातिपदिकादित्यनुवर्तते। तत्करोति, तदाचष्टे इति चार्थे प्रातिपदिकाण्णिच् स्यादित्यर्थः। आचारक्विबिव प्रातिपदिकादेवेदम्। ननु "प्रातिपदिकाद्धात्वर्थे" इत्येव सिद्धे किमर्थमिदमित्यत आह-- पूर्वस्यैव प्रपञ्च इति। ननु करोति आचष्टे इति वर्तमानानिर्देशादकरोदित्याद्यर्थेषु न स्यादित्यत आह --करोत्यचष्टे इत्यादि। लडर्थ इत्युपलक्षणम्। तेन भूते भविष्यति द्वित्वे बहुत्वे च प्रत्ययो भवत्येव। तेनातिक्रामति। इदमपि गणसूत्रम्। "प्रातिपदिकाद्धात्वर्थे" इत्यस्यैव प्रपञ्चः। वाचाऽतिक्रामति वाचयति इत्यत्र कुत्वं तु न शङ्क्यम्, असुबन्तादेव प्रातिपदिकात्प्रत्ययोत्पत्तेः। धातुरूपं चेति। इदमपि गणसूत्रम्। णिच्प्रकृतिरिति, प्रतिपद्यते #इति चाध्याह्मत्य वयाचष्टे -- णिच्()प्रकृतिर्धातुरूपं प्रतिपद्यत इति। ननु प्रातिपदिकाद्धात्वर्थे णिज् भवति, णिच्()प्रकृतिर्धातुरूपं च प्रतिपद्यते इति प्रतीयमानार्थश्रयणे भुक्तमाचष्टे भुक्तयतीति न स्यात्। भुक्तशब्दस्य भुजदातुरादेशः स्यादित्यत आह-- वशब्दोऽनुक्तसमुच्चयार्थ इति। किमनुक्तं समुच्चीयते इत्यत आह-- तथा च वार्तिकमिति। आख्यानात्कृत इति।"हेतुमति चे"ति सूत्रे इदं वार्तिकं स्थितम्। आख्यानं --वृत्तकथाप्रबन्धः। तद्वाचिनः कृदन्तात्कंसवधादिशब्दात्तदाचष्टे इत्यर्थे णिचि कृते णिच्प्रकृत्यवयवभूतस्य कृतः लुक्, तस्यैव कृतो या प्रकृतिर्हनादिधातुरूपा, तस्याः प्रत्यापत्तिः = आदेशादिविकारपरित्यागेन स्वरूपेणाऽवस्थानं भवतीत्यर्थः। "प्रकृतिवच्च कारकटमित्यशस्तु मूल एव व्याख्यास्यते। कंसवधमाचष्टे कंसं घातयतीत्युदाहरणम्। हननं वधः। "हनश्च वधःर" इति भावे हनधातोरप्प्रत्ययः प्रकृतेर्वधादेशश्च। कंसस्य वधः कंसवधः। तदन्वाख्यानपरवाक्यसन्दर्भो विवक्ष#इतः। तमाचष्टे इत्यर्थे णिच्। अप्प्रत्ययस्य कृतो लुक् , प्रकृतिभूतस्य हनधातोर्वधादेशस्य च निवृत्तिः। तथा च फलितं दर्शयति-- इह कंसं हन् इ इति स्थिते इति।

तत्त्व-बोधिनी
ई च गणः ३५०, ७।४।९७

ई च गणः। "अत्स्मृदृ()त्वरे"त्यत्र योऽत् स चकारेण समुच्चीयते। स्तन गदी। "गदी" त्यत्र इका निर्दशादतो लोपः। अनेकाच्त्वेनाषोऽपदेशत्वात्षत्वं न। तिस्तनयिषति। "स्तनिह्मषिपुषी"ति णेरिष्णुचि "अयामन्ते"त्ययादेशः। "स्तनयित्नुर्बलाहकः"। पत गतौ वा। गणसूत्रमिदम्। कृपयतीति। "कृपो रो लः" इति न प्रवर्तते, तत्र कृपू सामथ्र्य इत्यस्य ग्रहणात्, कृपप्रकृतिकणिजन्तस्य तु धात्वन्तरत्वात्। स्पृह। आप्तुमिच्छा ईप्सा। अबभामदिति। अल्लोपस्य स्थानिवत्त्वात् "णौ चङी"त्युपधाह्यस्वो न। सूच। पिशूनो दुर्जनस्तस्य कर्म पैशुन्यम्। अषोपदेशत्वादिति। अनेकाच्त्वादिति भावः। साम सान्त्वने इत्यतीतस्य त्विति। अयं धातुरितः प्राङ् मूलपुस्तके न कुत्रापि दृष्टः, पुस्तकान्तरेषु मृघ्यः। केचित्तु "साम सान्त्वने" इत्यस्य क्वाप्यपठितत्वेपि "षान्त्व सामप्रयोगे" इति प्राक्पठितमेव। तत्र च "षान्त्व" "सामे"ति धातुद्वयं प्रयोगे वर्तते। प्रयोगश्च सान्त्वप्रयोगपरः। स च सान्त्वनमेवेत्येवं ग्रन्थकाराशयं वर्णयित्वा स्थितस्य गतिं समथ्र्यन्ते। गवेष। मार्गणम्-- अन्वेषणम्। ऊन परिहाणे। अस्माण्णौ चङि द्वित्वात्परत्वादन्तरङ्गत्वाच्च अल्लोपेन "अजादेर्द्वितीयस्ये"ति णिचा सह दित्वे औ निनदित्यनिष्टं प्रसज्येत, किं तु औननदित्येवं रूपमिष्टम्। तच्च नशब्दस्य दित्वं सिध्यतीति वाच्यं, णिचो द्वित्वनिमित्तत्वाऽभावादत आह-- ओः पुयण्जीत्यादि। संपूर्णसूत्रं लिङ्गमिति केषांचिद्भ्रमं निवर्तयितुमाह-- पययोरिति। अयं भावः--- "स्मिपूङ्ञ्ज्वशां सनि", "सनीवन्तर्द्धे"ति सूत्राभ्यां पूङ्यौतिभ्यां परस्य सन इडागमे कृते "द्विर्वचनेऽची"ति स्थानिवद्भावादादेशनिषेधाद्वा उवर्णान्तस्यैव द्वित्वमिति--पुपविषते युयविषतीत्यनिष्टं प्रसज्येत। ततश्चाऽभ्यासोवर्णस्येत्वार्थं पययोरित्यपेक्षितम्। अन्यथा पिपविषते यियविषतीति न सिध्येदिति। वर्गप्रत्याहारेति। "पुयण्जी"ति वर्गादिग्रहणफलं तु -- अबीभवत् अमीमवत् अरीरवत्, अलीलवत्, अजीजवत्, बिभावयिषति मिमावयिषति रिरावयिषति लिलावयिषतीत्यादिरूपसिद्धिरिति वाच्यम्।तदुभयं सूपपादम्। णिचि परत्वादन्तरङ्गत्वाच्च वृद्ध्यादौ कृते द्वित्वे सत्यभ्यासे उवर्णस्य दुर्लभत्वात्, अकारस्य "सन्यतः" इतीत्वेन रूपसिद्धेश्च। ततो वर्गादिग्रहणं व्यर्थं सदुक्तार्थे ज्ञापकमिति भावः। ज्ञापनफलं तु यत्र "ओः पुयण्जी"त्यस्याऽप्राप्तिस्तत्र बोध्यम्। तद्यथा--- चुक्षावयिषति। चङि अचुक्षवत्। तु इति सौत्रो धातुस्ततो णौ सन्। तुतावयिषति। चङि अतूतवत्। नुनावयिषति। अनूनवत्। पुस्फारयिषति। अपुस्फुरत्। "चिस्फुरोर्णौ" इति वा आत्वम्। अपुस्फरदित्यादिष्वभ्यासे उकारश्रवणं भवति ज्ञापनात्, अन्यथा चिक्षावयिषतीत्यादि प्रसज्येत। तदेतत्सकलमभिप्रेत्य वार्तिककृतोक्तम् "ओः पुयण्जिषु वचनं ज्ञापकं-- णौ स्थानिवद्भावस्ये"ति। स्थानिवद्भावः प्रतिषेधस्याप्युपलकक्षणम्()। अच आदेशो न स्यादिति। प्रतिषेधपक्षो मुख्य इत्यभिप्रेत्येदमुक्तम्। प्रतिषेधः स्थानिवद्भाव्सयाप्युपलक्षणमिति वा बोध्यम्। नन्वेवं कृ()तसंशब्दन इति धातोर्णौ चङि इरादेशात्प्रागेव कृ()त इत्यस्य द्वित्वे उरदत्वे च अचकीर्तदिति स्यान्न तु अचिकीर्तदित्यत आह-- यत्र द्विरुक्ताविति। आद्योऽजिति। चङ्सहितस्योत्तरखण्डत्वमभ्युपेत्येदमुक्तम्। अन्ये तु आद्यग्रहणं स्पष्टप्रतिपत्त्यर्थं, धातोरवयस्यैकाचो दित्वे सत्यभ्यासोत्तरखण्डे अज्द्वयाऽसंभवादित्याहुः। औजढत् औननदित्यादौ परिनिष्ठिते अवर्णस्याऽलाभादाह-- प्रक्रियायामिति। चुक्षावयिषतीत्यादौ प्रक्रियायामवर्णो न लभ्यते इत्याह-- परिनिष्ठिते रूपे वेति। वाशब्दोऽनास्थायाम्। क्वचिदवर्णपरत्वं विवक्षितं, न तु अमुकत्रैवेत्याग्रह इति भावः। सजातीयापेक्षत्वादिति। "पुयण्जी"त्यभ्यासोत्तरखण्डे अवर्णपरा भवन्ति। अतस्तथैव ज्ञापकमित्यर्थः। अत एव भाष्यकृता "पवर्गादेरन्यस्मिन्नपि हलि अवर्णपरे एव स्थानिवत्तवमिति अचिकीर्तदित्यादौ नाऽतिव्याप्ति"रिति सिद्धान्तितम्। ननु "ओः पुयण्जी" ति सूत्रे णिचि इति नास्ति, तथा च णिच्यच आदेशो न स्यादित्यर्थे कथमिदं ज्ञापकं भवेत्। न च सामान्यतो द्वित्वे कार्ये अच आदेशो न स्यादित्येव ज्ञाप्यतामिति वाच्यं, दिदवनीयिषति निनयिषतीत्यादावभ्यासे उकारश्रवणप्रसङ्गादिति चेत्। अत्राहुः-- येन नाव्यवधानमित्यकेन प्रत्ययेन द्वित्वनिमित्तप्रत्ययस्य व्यवधानमाश्रीयते। तच्च णेरेव संभवतीति णिज्विषयकमेव ज्ञापकं, दिदवनीयिषतीत्यत्र तु ल्युटा क्यचा च व्यवदानादनेकव्यवधानमिति न तद्विषयकं ज्ञापनमिति। अस्मन्मते आचारक्विबन्ताद्दिवनशब्दात्सनि दुदवनिषतीति स्यात्, तच्च नेष्यते, "णौ स्थानिवद्भावस्य ज्ञापक" मिति वार्तिकोक्तेः। स्थानिवत्त्वेन प्रतिषेधेन वा णावेवाभ्यासे उकारेण भवितव्यम्। अतो वार्तिककारवचनादेव णौ स्थानिवदिति स्वीकर्तव्यम्। तथा च न पूर्वोदाहरणेषु दोष इति दिक्। फलितमाह-- प्रकृतेत्वित#इ। औननदिति। "नोनयति ध्वनयती"ति चङ् निषेधस्त्विह न। तत्र छन्दसीत्यनुवृत्त्या "मा त्वायतो जरितुः काममूनयी"रित्यादिवेदे एव तन्निषेधात्। यद्यपि परिनिष्ठित एवाऽवर्णपरत्वमितयाशयेन "उवर्णादेश एव स्थानिवत्स्यान्नाऽन्य" इति वदतां बोपदेवादीनां मते औनिनदित्येव भाव्यम्, अवर्णादेशस्य स्थानिवत्त्वे तु परिनिष्ठितरूपे अवर्णपरत्वाऽलाभात्, तथापि अचिकीर्तदित्यादौ स्थानिवत्त्वाशङ्क्य उत्तरभागे अवर्णाऽभावादिति भाष्यकारोक्तपरिहारपर्यालोचनया उवर्णादेश एव स्थानिवदिति नियमो नास्तीत्यौननदितिरूपं निर्बाधमेव। चङि उपधालोपे तस्य स्थानिवत्त्वात्पाय्()शब्दस्य द्वित्वमिति वृत्तिग्रन्थो विरुध्येत। अपि च "शुष्किका शुष्कजङ्घा च क्षामिमानौजढत्तथे"ति वैयाघ्रपद्यवार्तिकस्य औजढदिति प्रयोगोऽपि विरुध्येत। एतद्धि पूर्वत्राऽसिद्धमित्यस्य प्रयोजन कथनवार्तिकम्। तद्यथा--- शुष्किकेत्यत्र तु "उदीचामातः" इतीत्वविकल्पो न, "शुषः कः"इति कत्वस्याऽसिद्धत्वेन यकपूर्वत्वाऽभावात्। "सुष्करजङ्घे"त्यत्र कत्वस्याऽसिद्धत्वादेव "न कोपधायाः" इति पुंवद्भावनिषेधो न। क्षामिमानित्यत्र तु "मादुपधाया" इति वत्वं न, "क्षायो मः" इति मत्वस्याऽसिद्धत्वात्। वहेः क्तान्ताण्णिचि चङि औजढदित्यत्र ढत्वस्याऽसिद्धत्वाण्णौ कृतस्य टिलोपस्य स्थानिवत्त्वाच्च ह्()तशब्दस्य द्वित्वं। "कुहोश्चुः" "अभ्यासे चर्च"। सन्वदित्वं तु अनग्लोपीति प्रतिषेधान्न भवति। एवं काशिकायामपि "पूर्वत्रासिद्ध"मिति सूत्रे औजढदित्युदाह्मत्य, ऊढिमाख्यदौजिढदित्येतत्तु क्तिन्नन्तस्य ऊढिशब्दस्य भवतीत्युक्तं, तदपि विरुध्येत। "उवर्णादेश एव स्थानिव"दिति नियमे णौ कृतस्य टिलोपस्याऽत्र स्थानिवत्त्वाऽभावेन ह्()तशब्दस्य ह्तिशब्दस्य वा द्वित्वाऽसंभवात्। एवं चाऽङ्कधातोर्णिच्यल्लोपे चङि स्थानिवत्त्वात्कशब्दस्य द्वित्वे आञ्चकदिति रूपमेव सर्वसंमतं, न त्वाञ्चिकदिति बोपदेवोक्तमिति बोध्यम्। नन्वचिकीर्तदित्यादौ स्थानिवत्त्वमाशङ्क्योत्तरभागे अवर्णाऽभावादिति वदन्भाष्यकारो न बोपदेवग्रन्थस्य प्रतिकूलः। उत्तरभागे परिनिष्ठितरूपे अवर्णपरत्वमुवर्णादेशस्यैव संभवति नान्यस्येत्याशयेनैव भाष्यकारेण तथोक्तमिति वक्कतुं शक्यत्वादिति चेत्। मैवम्। तथा हि सति यत्र "ओः पुयण्जी"त्यस्याऽप्राप्तिस्तत्राप्युवर्णादेश एवस्थानिवत्, ज्ञापकस्य सजातीयापेक्षत्वादित्येवमेव भाष्यकारो वदेत्। ऋजुमार्गेण सिध्यतोऽर्थस्य वक्रेण साधनाऽयोगादिति दिक्। सङ्केत। चत्वारोऽत्र धातवः। पाठान्तरमिति। "सङ्कोचने" इत्येतत्पर्यन्तम्। अनेकाच्त्वेनाऽषोपदेशत्वात्षत्वं नेति ध्वनयति-- अतिस्तेनदिति। गृहयते इति। अल्लोपस्य स्थानिवत्त्वान्न गुणः। लुङि--अजगृहत। अग्लोपान्न सन्वद्भावः। मृगयते इति। मार्गयति मार्गतीति तु मार्ग अन्वेषणे इत्याधृषीयस्य। अर्थ। अर्थयते इति। "वृद्धेर्लोपो बलीया"नित्यल्लोपान्न वृद्धिः। बोपदेवस्तु-- वृद्धौ कृतायां पुकि चाऽर्थापयते इति रूपमाह, तद्रभसात्। न च "अर्थवेदसत्याना"मित्यापुक् स्यादेवेति वाच्यं, तत्र प्रातिपदिकस्य ग्रहणात्। अदन्तत्वसामथ्र्यादिति। कथादिषूपधावृद्धिदीर्घसन्वद्भावविरहेण, सारभामप्रभृतीनामुपधाह्यस्वस्य, गृहमृगप्रभृतीनामुपधागुणस्य च व्यावर्तनेनाऽदन्तत्वं सार्थकम्। इह त्वदन्तत्वे प्रागुक्तफलाऽभावाण्णिचः पाक्षिकत्वं ज्ञापयीति भावः। नन्वदन्तत्वसार्थकत्वाय "वाऽल्लोप" इति प्राचोक्तमेवाभ्युपगम्यतामिति चेत्। अत्राहुः-- "चिन्तयतेरिदित्त्वं सामान्यापेक्षं ज्ञापक"मिति मते इह अदन्त्तवस्य फलं स्पष्टमेव। "विशेषाऽपेक्षं ज्ञापक"मिति मते तु तत्र तत्र आकार ईकार उकार ऊकारश्चेत्यनुबन्धा यथा ज्ञापकतय#आ स्वीकृतास्तथा अदन्तताऽपि णिच्विकल्पमेव ज्ञापयतु, क्लृप्तेनैव णिज्विकल्पेन कृतार्थत्वे अपूर्वस्य लोपबाधस्य कल्पनाया अन्याय्यत्वात्। एवं हि सति मतद्वयेऽप्येकरूपमेव फलं लभ्यत इति। असुसूत्रदिति। अनेकाच्त्वान्न षत्वम्। प्रातिपदिकादिति। यदि सुबन्ताण्णिच् स्यात्तदा रुआजयतीत्यादौ कुत्वं स्यादिति भाव इति केचित्। तन्न। इष्ठवद्भावेन भत्वे कुत्वस्याऽप्रसक्तेः। अत्र "बहुलं णिच् स्यात्। स च णिच् इष्ठवद्भवती"त्यन्वयात्पक्षे वाक्यमपि भवतीत्याह-- पटुमाचष्ट इति। धात्वर्थ इत्यनेन करणऽ‌ऽख्यानादिर्गृह्रत इति भावः। ननु बहून्याचष्टे भावयीत्यत्र "इष्ठस्य यिट् चे"ति णिचोऽपि यिट् स्यात्। अत्राहुः-- "टे"रिति सूत्रे "णाविष्ठवत्प्रातिपदिकस्ये"ति वार्तिके प्रातिपदिकग्रहणं प्रत्ययकार्याणामतिदेशो माभूदित्येवमर्थम्। तेनाऽत्र णिचोऽपीण्न भवति, तदभावे भूभावेनापि न भवितव्यं, संनियोगशिष्टत्वात्, किंतु बहयतीत्येव भवितव्यमिति मतान्तरम्। एतच्च तत्रैव सूत्रे कैयटे स्पष्टमिति। अन्ये त्वाहुः-- इष्ठवदिति हि सप्तम्यन्ताद्वतिः, णावित्युपमेये सप्तमीदर्शनात्, तेन इष्ठनि परे पूर्वस्य यत्कार्यं तदतिदिश्यते न त्विष्ठनोऽपीति। पुंवद्भावेति। अतिशयेन पट्वी पटिष्ठेत्यत्र "भस्याऽढे तद्धिते" इति पुंवद्भावः। क्रशिष्ठः द्रढिष्ठ इत्यत्र "र ऋतो हलादे"रिति रभावः। "साधिष्ठ" इत्यादौ टिलोपः। अतिशयेन रुआग्वी रुआजिष्ठ इत्यत्र "विनमतोर्लु"गिति विनो लुक्। अतिशयेन गोमान् गविष्ठ इत्यादौ मतुपो लुक्। स्थविष्ठ इत्यादौ "स्थूलदूरे"त्यादिना यणादिलोपः। प्रेष्ठ इत्यादौ "प्रियस्थिरे"त्यादिना प्रस्थाद्यादेशः। तद्वण्णावपीति। पुंवद्भावस्योदाहरणम्- ऐनीमाचष्टे एतयति। टिलोपेनैव सन्नियोगशिष्टत्वान्नकारनिवृत्तौ सिद्धायां पुंवद्भावग्रहणं दरदमाचष्टे दारदयतीत्यादिसिध्यर्थमिति बोध्यम्। द्रढयतीत्यादौ रभावः। रुआग्विणमाचष्टे रुआजयतीत्यत्र विनो लुक्। गोमन्तमाचष्टे गवयतीत्यत्र मतुपो लुक्। अङ्गवृत्तपिरभाषया वृद्धिरत्र न भवति। प्रियमाचष्टे प्रापयति, स्थिरमाचष्टे स्थापयीत्यादौ तु वृद्धिर्भवत्येव, "द्वयो"रिति निर्देशेन तस्याः परिभाषाया अनित्यत्वज्ञापनादिति दिक्। परत्वाद्वृद्धाविति। लोपः शब्दान्तरप्राप्त्याऽनित्यः। वृद्धिरप्यनित्या। उभयोरनित्ययोः परत्वाद्वृद्धिः। तस्यां कृतायामौकारस्याऽ‌ऽवादेशात्प्रागेव परतवाद्वार्णादाङ्गस्य बलीयस्त्वाच्च लोप इत्यर्थः। एवं चाऽनग्लोपित्वाद्दीर्घसन्वद्भावौ स्त इत्याह--- अपीपटदिति। इह टिलोपस्य स्थानिवत्त्वेन व्यवधानाद्दीर्घसन्वद्भावौ नति न भ्रमितव्यम्, स्थानिवत्त्वेऽप्यङ्गस्य णिच्परत्वाऽनपायात्। चङ् परे णौ यल्लघ्विति पक्षेऽपि अभ्यासस्य आदिष्टादचः पूर्वत्वेन स्थानिवत्त्वमेव नास्तीति दीर्घसन्वद्भावौ स्त एव। केचित्तु "चङ् परे णौ यल्लघ्वि"ति पक्षे पटुशब्दोकारस्य वृद्धौ कृतायां णिच्परं लघु दुर्लभमिति सन्वद्भावाऽप्राप्त्या अपपटदित्येव रूपम्। प्रथमं टिलोपः, पश्चाद्विर्वचनमिति मत्वा अभ्यासस्य आदिष्टादचः पूर्वत्वेन स्थानिवत्त्वमेव नास्तीति मनोरमोक्तं यत्, तन्नादर्तव्यम्। "णिच्यच आदेशो न स्याद्वित्वे कर्तव्ये" #इति निषेधपक्षस्य मुख्यतया प्रागुक्तत्वेन प्रथमं टिलोपस्य दुरुपपादत्वादित्याहुस्तन्मन्दम्। अपीपटदित्यत्र द्वितीयाऽच्पर्यन्तस्य प्रथमावयवस्य द्वित्वमिति हि निर्विवादम्। तथा च द्वितीयस्याऽचो द्वित्वकरणात्प्रथमं टिलोपः स्यादेवेति। वृद्धेर्लोप इति। कृताऽकृतप्राप्तिमात्रेण लोपो नित्यः, वृद्धिस्त्वनित्या, टिलोपे सति स्थानिनः पूर्वत्र कर्तव्यायां लोपस्य स्थानिवत्त्वात्, स्वविधौ स्वस्य स्थानिवत्त्वाऽभावाच्च। अ()स्मस्तु पक्षे "मुण्डमिश्रे"ति सूत्रे हलिकल्योरदन्तत्वनिपातनस्य वैयथ्र्यमेव, वृद्धेः प्राक् टिलोपे सति अग्लोपित्वसंभवात्। तथा चाऽदन्तत्वनिपातनसामथ्र्याट्टिलोपात्पूर्वं वृद्धिरेवेत्यनग्लोपित्वादपीपटदित्येव रूपं साध्विति प्रतीयते। भाष्यद्वयप्रामाण्याद्रूपद्वयमपि साध्विति बहवः। लडर्थस्त्विति। करोत्याचष्टे इति हि कर्तरि वर्तमाने लडेकवचनम्। लडर्थाऽविवक्षायां तु ण्यन्ताद्भावकर्मणोर्भूतभविष्यतोर्द्वित्वबहुत्वयोश्च प्रत्ययो भवत्येवेति भावः। यद्यप्येकत्वादिसङ्ख्या लडर्थो न भवति, तथापि लडादेशतिङर्थोऽपीह लडर्थत्वेन गृहीत इति ज्ञेयम्। तेनातिक्रामति। तृतीयाप्रकृतिभृतात्प्राप्तिपदिकाण्णिच्। तृतीयान्तण्णिजित्यन्ये। एवं तत्करोतीत्यत्रापि द्वितीयाप्रकृतिभूताद्द्वितीयान्ताद्वा णिच्। न च सुबन्ताण्णिचि वाचं करोत्याचष्टे वाचाऽतिक्रामति वा वाचयतीत्यत्र कुत्वं विनो लुकि प्राप्तस्य पदकार्यस्य बाधार्थं भसंज्ञातिदेशस्यावश्यकत्वात्, "तत्करोती"त्यादिनिर्देशानुगुणत्वाच्च सुबन्ताण्णिजिति पक्ष एव ज्यायानित्याहुः।