परि इत्येतस्य वर्जने ऽर्थे द्वे भवतः। परि परि त्रिगर्तेभ्यो वृष्टो देवः। परि परि सौवीरेभ्यः। परि परि सर्वसेनेभ्यः। वर्जनें परिहारः। वर्जने इति किम्? ओदनं परिषिञ्चति। परेर् वर्जने ऽसमासे वेति वक्तव्यम्। परि परि त्रिगर्तेभ्यो वृष्टो देवः, परि त्रिगर्तेभ्यः। समासे तु तेन एव उक्तत्वाद् वर्जनस्य न एव भवति, परित्रिगर्तं वृष्टो देवः इति।
"परि परि त्रिगत्र्तेभ्यः" इति। "अपपरी वर्जने" (१।४।
८८) इति परेः कर्मप्रवचनीयसंज्ञायां सत्याम्? "पञ्चम्यपाङ्परिभिः"
२।३।१० इति पञ्चमी। "परिषिञ्चति" इति। सर्वत्र सिञ्चतीत्यर्थः।
"उपसर्गात्? सुनोति"
८।३।६५ इत्यादिना षत्वम्()। "परेर्वर्जनेऽसमासे वा" इत्यादि। परेर्वर्जनेऽर्थेऽसमासे विभाषा द्विर्वचनं भवतीत्येतदर्थरपं व्याख्येयमित्यर्थः। तत्रेदं व्याख्यानम्()--"विभाषा वेषिटिचेष्ट्योः"
७।४।९६ इत्यतो मण्डूकप्लुत्या विभाषाग्रहणमनुवत्र्तते, तेनासमासे द्विर्वचनं परेर्वर्जने विभाषा भवतीति।
"असमासे" इति।
वचनात्? समासे तु नित्यमेव द्विर्वचनेन भवितव्यमिति कस्यचिद्भ्रान्तिः स्यात्(), अतस्तां निराकर्त्तुमाह--"समासे तु" इत्यादि। यथा दध्नोपसिक्त ओदनो दध्योदन इतीहोपसिक्तशब्दः समासेऽन्तर्भूतः, तथा "अपपरिबहिरञ्चवः पञ्चम्या"
२।१।११ इति समासे कृते तत्र वर्जनम्()। परिशब्दस्तु समासेऽनर्थक एव; तेन वर्जनेऽर्थे वत्र्तमानस्य द्विर्वचनमुच्यमानं समासे न भवति।
अथापि परिशब्दो वर्जनेऽर्थेऽर्थवान्? स्यात्(); एवमपि समासेनैव वर्जनार्थप्रत्यायितत्वान्नैव द्विर्वचनेन भवितव्यम्()। "परित्रिगत्र्तम्()" इति। समासादुत्पन्नस्य सोः "नाव्ययीभावादतोऽस्त्वपञ्चम्याः"
२।४।८३ इत्यम्भावः॥
परेर्वर्जने। अत्र वार्तिकं---"परेर्वर्जनेऽसमासे"। नेह---परित्रिगर्तं वृष्टो देवः।
"वेति च वक्तव्यम्"। तथा च अप हरेः परि हरेः संसार इति कारकेषूदाह्मतम्।
परेर्वर्जने वावचनम्।परिपरि वङ्गेभ्य इति॥ "अपपरी वर्जने"इति कर्मप्रवचनीयसंज्ञायां "पञ्चम्यपाङ्परिभि"रिति पञ्चमी।