"पूजनात्()" इति। सुपां सुपो भवन्तीति (७।१।३९।वा) बहुवचनस्य स्थान एकवचनम्(), अत एवाह--"पूजनवचनेभ्यः" इति। "उत्तरपदम्()" इति। सुबन्तं वेदितव्यम्()।
ननु तिङिति वत्र्तते? सत्यमेतत्(); उत्तरत्र
८।१।६८ तिङिति वचनादिह सुबन्तस्य ग्रहणं विज्ञायते। अपि च वक्ष्यत्येतत्()--इहैव समासे चैतदनुदात्तत्वमिति। समासश्च काष्ठादीनां सुबन्तेनैव सम्भवति, न तिङन्तेनेति युक्तमिह सुबन्तस्यैव पदस्य गरहणम्()। सर्व एते काष्ठादयोऽद्भुतपर्यायाः पूजनवचना भवन्ति। अद्भुतं योऽधीते स काष्ठाध्यायक इत्युच्यते। एवं दारुणादिषु वेदितव्यम्()।
इह सर्व एवैते काष्ठादयः क्रियाविशेषणभूताः समस्यन्ते, न च क्रियाविशेषणानां समासः क्वचिद्विहितः,
तत्कथमत्र समासः? इत्याह--"मयूरव्यंसकादित्वात्? समासः" इति। "समासे चैतत्()" इत्यादि। चकारोऽवधारणार्थः। समास एवेत्यर्थः।
कथं पुनः समास एवैतल्लभ्यते? "चादिलोपे विभाषा"
८।१।६३ इत्यतो मण्डूकप्लुतिन्यायेन विभाषाग्रहणानुवृत्तेः। सा व्यवस्थितविभाषेति विज्ञानाच्च।
यद्येवम्(), कथं वार्त्तिककारेणोक्तम्()--मलोपश्चेति, काष्ठादिषु हि योऽकारान्तास्तेषां विभक्तेरम्भावे कृते मकारः सम्भवति, समासे चैतदनुदात्तत्वेन भवितव्यम्(),
तत्र विभक्तेरभावान्मकारो न सम्भवतीति मलोपवचनमयुक्तं स्यात्()? इत्यत आह--"मलोपश्चेत्यनेनापि" इत्यादि। एवमस्माभिरनुदात्तत्वस्य विषय आख्यातः। मलोप श्चेत्यनेनापि स एवाख्यायते;
यस्मात्? समासे मलोपो न भवति; विभक्तेर्लुप्तत्वात्()। असमासे विभक्तेरम्भावे कृते मकारस्य श्रवणमेव भवति, न तु लोपः।
अथासमासे मलोपार्थमित्येतदुक्तमित्येव कस्मान्न विज्ञायते? इत्याह--"असमासे["अथासमासे"---कांउ।पाठः] हि इत्यादि।
अथ पूजितग्रहणं किमर्थम्(),
यावता पूजनशब्दोऽयं पूजितापेक्षत्वात्? सम्बन्धिशब्दः,
तेन सम्बन्धिशब्दत्वात्? पूजितमर्थादुपस्थापयति,
तन्त्रान्तरेणापि पूजितग्रहणं पूजितस्यैव परिग्रहो भविष्यति? इत्यत आह--"पूजनादेव" इत्यादि।
पूजनग्रहणादेव पूजितग्रहणे लब्धे पूजितग्रहणं यत्? क्रियते तस्यैतत्? प्रयोजनम्()--विशिष्टस्याव्यवहितस्य प्रत्यासन्नस्य ग्रहणं यथा स्यादित्येवमर्थम्()। तेनोत्तरसूत्रे (८।१।
६८) यत्? काष्ठं देवदत्तः पचतीत्यत्र व्यवहितस्य न भविष्यति।
ननु पञ्चमीनिर्देशादेव व्यवहितस्य न भविष्यति? इत्यत आह--"एतदेव" इत्यादि।
यादृशमिदं ज्ञापकं तदनुरूपम्? "यद्()वृत्तान्नित्यम्()"
८।१।६६ इत्यत्र यत्कामास्ते जुहुमः,
यद्र()ङ्? वायुर्वातीत्येवमाद्युदाह्मत मित्यर्थः। एतेन ज्ञापनस्य प्रयोजनं दर्शितम्()।
अथानुदात्तग्रहणं किमर्थम्(), यावता "अनुदात्तं सर्वमपादादौ"
८।१।१८ इत्यतोऽनुदात्तग्रहणमनुवर्तत ["अनुवत्र्तेत इत्याह"---कांउ।
पाठः] एव? इत्याह--"अनुदात्त इति वत्र्तमाने" ["अनुदात्तमिति"--काशिका] इत्यादि। तद्ध्यनुदात्तग्रहणं "न लुट्()"
८।१।२९ इति प्रतिषेधेन सम्बद्धम्(), अतस्तदनुवृत्तौ सोऽप्यनुवत्र्तते। तथा च सति यस्यामन्त्रितादेः पूजितस्य निघातप्राप्तिरस्ति तस्यायं काष्ठादिभ्यः परस्य निघातप्रतिषेधो विज्ञायेत।
तस्मात्? प्रतिषेधनिवृत्त्यर्थमन्यदिहानुदात्तग्रहणं क्रियते॥