पूर्वम्: ८।१।८
अनन्तरम्: ८।१।१०
 
सूत्रम्
एकं बहुव्रीहिवत्॥ ८।१।९
काशिका-वृत्तिः
एकं बहुव्रीहिवत् ८।१।९

एकम् इत्येतच् छब्दरूपं द्विरुक्तं बहुव्रीहिवद् भवति। बहुव्रीहिवत्त्वे प्रयोजनं सुब्लोपपुंवद्भावौ। कैकमक्षरं पठति। एकैकया आहुत्या जुहोति। सर्वनामसंज्ञाप्रतिषेधस्वरसमासान्ताः समासाधिकारविहिते बहुव्रीहौ विज्ञायन्ते। तेन अतिदेशिके बहुव्रीहौ न भवन्ति। एकैकस्मै। न बहुव्रीहौ इति प्रतिषेधो न भवति, बहुव्रीहिरेव यो बहुव्रीहिः इति विज्ञानात्। नन, सुसु, नञ्सुभ्याम् ६।२।१७१ इत्यन्तोदात्तत्वं न भवति। ऋकृक्, पूः पूः, ऋक् पूः इति समासान्तो न भवति।
न्यासः
एकं बहुव्रीहिवत्?। , ८।१।९

यद्यविशेषेणैकशब्दस्य बहुव्रीहिवद्भावो विधीयते, तदैकमित्यत्रापि स्यादिति मन्यमानोऽतिप्रसङ्गं परिजिहीर्षुराह--"एकमित्येतद्()द्विरुक्तं बहुव्रीहिवद्भावो भवति" इति। कथं पुनर्द्विरुक्तमित्येव विशेषो लभ्यते, यावता नायं सूत्रोपात्तः? एवं मन्यते--वीप्साऽनुवत्र्तते, ["वीप्सामनुवत्र्तते"--प्रांउ।पाठः] वीप्सायाञ्च पूर्वमेव द्विर्वचनं विहितम्()। न च तदेकशब्दस्यानेन बहुव्रीहिवद्भावेन बाध्यते; अन्यथा हि "एकैकस्य प्राचाम्()" ८।२।८६ इति निर्देशो नोपपद्येत। तस्माद्वीप्साग्रहणानुवृत्तेर्द्विरुक्तस्यैकशब्दस्यायं बहुव्रीहवद्भावो विज्ञायत इति। किं पुनर्बहुव्रीहिवद्भावे प्रयोजनमित्याह--"बहुव्रीहिवत्त्वे" इत्यादि। यद्यपि सुब्लृक्पुंवद्भावौ बहुव्रीहावित्येवं नोच्येते, तथाप्येतौ तत्र दृष्टावित्यस्मिन्नतिदेशे तयोः प्रवृत्तिः प्रयोजनम्()। "एकैकम्()" इति। वीप्सायां द्विर्वचने कृते यता चित्रगुरित्यादौ बहुव्रीहौ "सुपो धातुप्रातिपदिकयोः" २।४।७१ इति सुब्लुग्भवति, तथेहाप्यतिदेशेन। अतिदेशेनैव समासे प्रातिपदिकत्वात्? सुः, "अतोऽम्()" ७।१।२४ इत्यम्भावः। "एकैकया" इति। पूर्ववद्विभक्देर्लुक्(), "स्त्रियाः पुंक्त्()" ६।३।३३ इत्यादिना यथा दर्शनीयभार्य इत्यत्र बहुव्रीहौ पुंवद्बावो भवति, तथेहाप्यतिदेशेन, तृतीयैकवचनम्(), "आङि चापः" ७।३।१०५ इत्येत्तवम्(), अयादेशः। ननु चासत्यपि पुंवद्भावे "वृद्धिरेचि" (६।१।८८) इति वृद्धावपि कृतायामेतत्? सिध्यत्येव? यद्यप्येतत्? सिध्यति, तथापि गतगतेत्येतत्? "आबाधे च" ८।१।१० इति द्विर्वचने कृते न सिध्यति। तस्मादुत्तरसूत्रे पुंवद्भावो बहुव्रीहिवदित्यस्यातिदेशस्यैव प्रयोजनत्वेनोच्यते। एकैकयेत्येतत्तु "एकमित्येष नपुंसकलिङ्गेन निर्देशोऽन्त्रम्()" इत्येतत्सूचयितुमुक्तम्()। अतन्त्रत्वं तु सूत्रे लिङ्गनिर्देशस्य "अर्धं नपुंसकम्()" २।२।२ इत्यत्र नपुंसकग्रहणेन ज्ञापितम्()। यदि सौत्रो निर्देशस्तन्त्रमभविष्यत्(), अर्धमित्यत्र तत एव निर्देशाल्लिङ्गविशेषे सिद्धे नपुंसकमिति नावक्ष्यत्()। अथ पूर्वपदप्रकृतिस्वरत्वमपि प्रयोजनं कस्मान्नोच्येत? विशेषाभावा। परस्य निघाते कृते पूर्वपदप्रकृतिस्वर एव भविष्यति। यदि तर्हि बहुव्रीहौ यद्()वृष्टं तदतिदिश्यते, सर्वनामसंज्ञाप्रतिषेधस्वरसमासान्तानामप्यतिदेशः प्राप्नोति? इत्यत आह--"सर्वनामसंज्ञा" इत्यादि। कथं पुनरेते सर्वनामसंज्ञाप्रतिषेधादयः समासाधिकारे विहिते बहुव्रीहौ शक्या विज्ञातुम्()? उच्यते; सर्वनामसंज्ञाप्रतिषेधस्तावत्? "बहुव्रीहौ" १।१।२७ इत्यनुवत्र्तमाने पुनर्बहुव्रीहि १।१।२८ ग्रहणाच्च शक्यते विज्ञातुम्()। तस्य ह्रतत्? प्रयोजनमुक्तम्()--बहुव्रीहेरेव यो बहुव्रीहिस्तत्र प्रतिषेधो यथा स्यात्(), बहुव्रीहिवद्भावेन यो बहुव्रीहिस्ततर मा भूदिति। एवञ्चार्थात्? समासाधिकारविहित एव बहुव्रीहौ प्रतिषेधो विज्ञायते। न हि ततोऽन्यो बहुव्रीहिरेव बहुव्रीहीर्भवति; "एकैकस्मै" इत्यादेर्बहुव्रीहिवद्भावेन बहुव्रीहिवत्त्वात्()। "नञ्सुभ्यम्()" ६।२।१७१ इत्यनेनापि "बहुव्रीहाविदमेतत्तद्भ्यः ६।२।१६१ इत्यतो बहुव्रीहिग्रहणेऽनुवत्र्तमाने नञ्सुम्यां परस्य बहुव्रीहावन्तोदात्तत्वं विधीयते, न तु तयोरपि; यस्मात्? सुनञादिह निमित्तत्वेनोपात्तौ। न च निमित्तयोः कार्यित्वं युक्तम्()। यथीक्तम्()---"नेमौ ["हयवरट्()" (मा।सू।५) इत्येतस्मिन्? सूत्रे भाष्यकारेण] रहौ कार्यिणौ, किं तर्हि? न#इमित्तमिमौ द्विर्वचनस्य" इति। तस्माद्यत्र बहुव्रीहौ नञ्सूभां सुनञोरेव परभूतत्वात्? "आबाधे च" ८।१।१० इति द्विर्वचनम्(), बहुव्रीहिवद्भावश्च। अथ वा स्वरविधौ "समासस्य" ६।१।२१७ इत्यतः समातग्रहणमनुवत्र्तते, तेन च बहुव्रीहि विशेषयिष्यामः--समासो यो बहुव्रीहिरिति। ननु च नन, सुस्वित्यतावपि समासावेव, अस्ति ह्रनयोरेव बहुव्रीहिवद्भावेनोत्पादिता समाससंज्ञा, ततश्च विशिष्यमाणऽपि समासग्रहणे न बहुव्रीहौ स्वरः प्राप्नोतीत्येव? नैव दोषः; विशिष्यते हि समासग्रहणेन बहुव्रीहिः, न कश्चिदसमासो बहुव्रीहिरस्ति, तत्र विशेषणसामथ्र्यावतिदेशद्बारेम यस्य समाससंज्ञा तस्य न भवति। स च समासाधिकारे विहितो बहुव्रीहिरिति विज्ञायते। ननु च समासग्रहणेन बहुव्रीहौ विशिष्यमाणे विशेषणसामथ्र्याद्विशिष्टस्य बहुव्रीहेरिवं ग्रहणमित्येतादन्मात्रं निश्चीयते, तत्र तु विशिष्टे बहुव्रीहौ सन्देह एव? उच्यते; भवति व्याख्यानतो विशेषप्रतिपत्तिः, न हि सन्देहादलक्षण(व्या।पा।७५)मित्यदोषः, समासान्तविधावपि "समासाच्च तद्विषयात्()" ५।३।१०६ इत्यतः समासग्रहणमनुवत्र्तते। तत्र समासाधिकारादेव समासान्तत्वे वक्ष्यमाणानां प्रत्ययानां सिद्धे समासग्रहणानुव#ऋत्तिविशिष्टे समासे समासान्तत्वं यथा स्वादित्येवमर्थं विज्ञायते। स पुनर्विशिष्टः समासो यः समासाधिकारे विहितः स एव व्याख्यानाद्वेदितव्यः। अथ ननेत्यत्र "नलोपो नञः" ६।३।७२ इति नलोपः कस्मान्न भवति, अस्ति तस्यापि बहुव्रीहौ दर्शनम्()? नैष दीषः; "नलोपो नञः" इत्यत्र हि उत्तरवदाधिकारोऽनुवत्र्तते--उत्तरपदे नलोपो विधीयते। नञ्? च कार्यित्वेनोपात्त:, कार्यिणश्चेह निमित्तभावो नोपपद्यत इति नञोऽन्यस्मिन्नुत्तरपदे लोपेन भवितव्यम्(), यथा--अब्राआहृण इति, न तु तस्मिन्नेवेति कुतो नकारलोपस्य प्रसङ्गः()॥
बाल-मनोरमा
एकं बहुव्रीहिवत् , ८।१।९

एकं बहुव्रीहिवत्। द्विरुक्त इति। द्विर्वचनं प्राप्त इत्यर्थः। एतच्च प्रकरणाल्लभ्यते, "वीप्सामात्रविषयमिद"मिति भाष्याच्च। तेनेति। बहुव्रीहिवत्त्वेन सुब्लोपपुंवद्भावौ सिध्यत इत्यर्थः। तत्र सुब्लोपमुदाहरति-एकैकमिति। इहेति। "एकैक"मित्यत्र एकमित्यस्य द्विर्वचने सति, एकमेकमिति स्थिते सुपो लुकि, समुदायात्सुबित्यन्वयः। ननु "यत्र सङ्घाते पूर्वो भागः पदं तस्य चेद्भवति तर्हि समासस्यैवे"ति नियमेन समुदायस्य प्रातिपदिकत्वाऽभावात्कथमिह सुपो लुक्, कथं वा समुदायात्सुबित्यत आह--बहुव्रीहिवद्भावादेव प्रातिपदिकत्वादिति। एतच्च "सुपोर्लुकी"त्यत्र, "समुदायात्सु"बित्यत्र च मध्यमणिन्यायेनान्वेति। अथ पुंवत्त्वेऽप्युदाहरति--एकैकयाऽ‌ऽहुत्येति। "एकये"त्यस्य द्विर्वचने सति एकया--एकयेति स्थिते, "बहुव्रीहिवत्त्वेन समुदायस्य प्रातिपदिकत्वात्सुपोर्लुकि, पूर्वखण्डस्य पुंवत्त्वे कृते, समुदायात्पुनस्तृतीयोत्पत्तौ, एकैकयेति रूपम्। बहुव्रीहिवत्त्वाऽभावे तु इह समुदायस्य प्रातिपदिकत्वा।ञभावात्सुपोर्लुक्, पूर्वखण्डस्य पुंवत्त्वं च न स्यात्, उत्तरपदपरकत्वाऽभावात्, समासचरमावयवस्यैव उत्तरपदत्वादिति भावः। "एक#ऐका"मित्यत्र उत्तरखण्डस्य "सर्वनाम्नो वृत्तिमात्रे" इति पुंवत्त्वं बहुव्रीहिवत्त्वे सत्यपि न प्रवृत्तिमर्हति, पूर्वस्यैवेदं "भस्त्रैषाद्वे" ति लिङ्गादित्युक्तत्वादिति। बोध्यम्। ननु सुपोर्लुकि पूर्वखण्डस्य एकाशब्दस्य पुंवत्त्वे सत्यसति वा वृद्धौ एकैकयेति सिध्यत्येवेत्यत आह--इह पूर्वभागे इति। अवग्रहे इति। समस्तपदस्य द्विधा करणे पूर्वखण्डोऽवग्रहः। "तस्य पूर्वोऽवग्रहः" इति प्रातिशाख्यम्। "एकैकयेत्येक-एकया" इतीष्यते पूर्वखण्डस्य पुवत्त्वम्। बहुव्रीहिवत्त्वाऽभावे तु एकैकयेत्येका-एकयेति स्यादिति भावः। तैत्तिरीयास्तु "एकैकयेत्येका एकया" इत्येवाऽवगृह्णन्ति। "एकं समासव"दित्येव सिद्धे बहुव्रीहिग्रहणं "बहुव्रीहौ प्रकृत्यापूर्वपद"मिति स्वरार्थम्। ननु बहुव्रीहिवत्त्वे सति "न बहिव्रीहौ" इति सर्वनामत्वनिषेधादेकैकस्यैदेहीत्यादौ कथं सर्वनामकार्यमित्यर्थ आह--न बहुव्रीहावित्यत्रेति। "विभाषा दिक्समासे बहुव्रीहौ" इत्यतो बहुव्रीहिग्रहणानुवृत्त्यैव सिद्धे न बहुव्रीहौ" इत्यत्र पुनर्बहुव्रीहिग्रहणं मुख्यबहुव्रीहिलाभार्थम्। अतो बहुव्रीहिवदित्यतिदिष्टबहुव्रीहौ सर्वनामत्वनिषेधो नेत्यर्थः। तदाह--त#एनेति। तदेवं प्राचीनोक्तं परिहारमुक्त्वा सिद्धान्तिमतेनाह--वस्तुतस्त्विति। एतदिति। "न बहुव्रीहौ" इति सूत्रमित्यर्थः। एवं च बहुव्रीहावपि सर्वंनामत्वस्य भाष्यसंमततया बहुव्रीहिवत्त्वातिदेशे सत्यपि सर्वनामत्वं निर्बाधमिति भावः। सूत्रमतेऽपीति। "उपसर्जनत्वादेव बहुव्रीहौ सर्वनामत्वनिषेधेसिद्धे " नबहुव्रीहौ" इति बहुव्रीह्रर्थके अलौकिकविग्रहवाक्ये एव समासात्प्राक्सर्वनामत्वं निषिध्यत इति प्रागेवोक्तम्। तस्मादिह बहुव्रीह्रतिदेशप्रयुक्तसर्वनामकार्याऽभावशङ्कैव नास्तीत्यर्थः। एकैकस्मै देहीति। इह द्वयोरपि सुपोर्लुकि पुनः सर्वादिपठितैकशब्दान्ततया सर्वनामत्वात्समैभाव इति भावः।

तत्त्व-बोधिनी
एकं बहुव्रीहिवत् १५९४, ८।१।९

एकं बहुव्रीहिवत्। द्वे इत्यनुवर्तते। तच्चानुवाद्यसमर्पकं, तदाह---द्विरुक्त इति। तेनेति। यद्यप्येतौ बहुव्रीहौ विशिष्य न विहितौ , तथापि तत्र दृष्टवित्येतावतैवातिदिश्येते इति भावः। सुब्लोपपुंवद्भावाविति। पूर्वपदप्रकृतिस्वरश्च बोध्यः। समुदायात्सुबिति। तच्चैकवचनमेवेति, अन्तरङ्गैकसङ्ख्यावरुद्धो द्विरुक्तार्थः सङ्ख्यान्तरे निराकाङ्क्ष इतिप्रागेवोक्तत्वात्। पूर्वभाग इति। नतूत्तरभागेऽपि। तथाहि द्विधाऽत्र पुंवद्भावः "सर्वनाम्नो वृत्तिमात्रे"इति वा, "स्त्रियाः पुंव"दिति वा। तत्राद्यः पूर्वभागस्यैव, "भस्त्रैषे"ति ज्ञापकादित्युक्तम्। द्वितीयस्तु समानाधिकरणे परे विधीयते, न चोत्तरबागस्य समानादिकरणपरत्वमस्तीति भावः। अवग्रहे विशेषैति। "एकैकयेत्येकएकये"ति भवतीत्यर्थः। एकैकस्मै इति। ननु सुब्लोपपुंवद्भावाविव बहुव्रीहौ सर्वनामसंज्ञाऽभावोऽपि दृष्ट इत्ययमपि बहुव्रीहिवद्भावेनातिदिश्यताम्, तथाच स्मायादेशोऽत्र दुर्लभ इति चेत्। अत्राहुः----सुब्लोपपुंवद्भावाविव सर्वनामसंज्ञाऽभावः शास्त्रेण न दृष्ट। किं तु बहुव्रीहेर्गौणत्वात्सर्ववाचकत्वं न संभवतीति तदभावो दृष्ट इति नायमतिदिश्यते। "न बहुव्रीहौ"इति शास्त्र#ं त्वलौकिकवाक्ये निषेधकं , नतु बहुव्रीहावित्युक्तत्वादिति।