स्वरितः प्लुतो भवति आम्रेडिते परतः असूयायाम्, सम्मतौ, कोपे, कुत्सने च गम्यमाने। वाक्यादेरामन्त्रितस्य असूयासम्मतिकोपकुत्सनभर्त्सनेषु
८।१।८ इति द्विर्वचनम् उक्तम्, तत्र अयं प्लुतविधिः। असूयायां तवत् माणवक३ माणवक, अभिरूपक३ अभिरूपक, रिक्तं त आभिरूप्यत्म्। सम्मतौ माणवक३ माणवक, अभिरूपक३ अभिरूपक, शोभनः खल्वसि। कोपे माणवक३ माणवक, अविनीतक३ अविनीतक, इदानीं ज्ञास्यसि जाल्म। कुत्सने शाक्तीक३ शाक्तीक, याष्टीक३ याष्टीक, रिक्ता ते शक्तिः। असूयादिषु वावचनं कर्तव्यम्। माणवक माणवक इत्येवमाद्यपि यथा स्यात्।
असूयादिशब्दानां "वाक्यादेरामन्त्रित"
८।१।८ इत्यादौ सूत्रेऽयं आख्यातः। "माणवक३ माणवक" इत्यादौ द्विर्वचनं तेनैव सूत्रेण वेदितव्यम्()।
"वावचनं कत्र्तव्यम्()" इति। वेत्येतद्विकल्पोपलक्षणम्()। वचनं व्याख्यानमित्यर्थः। अत्रैतदुक्तं भवति--विकल्पव्याख्यानं कत्र्तव्यमिति। तत्रेदं व्याख्यानम्()--"विभाषा पृष्टप्रतितिवचने हेः"
८।२।९३ इत्यतो मण्डूकप्लुतिन्यायेन विभाषाग्रहणनुवत्र्तते, तेन विकल्पो भविष्यतीति॥