पूर्वम्: ८।२।१०७
अनन्तरम्: ८।३।१
 
सूत्रम्
तयोर्य्वावचि संहितायाम्॥ ८।२।१०८
काशिका-वृत्तिः
तयोर् य्वावचि संहितायाम् ८।२।१०८

तयोः इदुतोः यकारवकारादेशौ भवतो ऽचि संहितायां विषये। संहितायाम् इत्येतच् चाधिकृतम्। इत उतरम् आध्यायपरिसमाप्तेः यद् वक्ष्यामः संहितायाम् इत्येवं तद् वेदितव्यम्। अग्ना३याशा। पटा३वाशा। अग्ना३यिन्द्रम्। पटा३वुदकम्। अचि इति किम्? अग्ना३इ। पटा३उ। संहितायाम् इति किं? अग्ना३इ इन्द्रम्। पटा३उ उदकम्। इदुतोरसिद्धत्वातिको यणचि ६।१।७४ इति न प्राप्नोति इत्ययम् आरम्भः। अथापि कथञ्चित् तयोः सिद्धत्वं स्यात्, एवम् अपि स्वर्णदीर्घत्वनिवृत्त्यर्थं शाकलनिवृत्त्यर्थं च वक्त्वयम् एतत्। अथापि तन् निवृत्त्यर्थं यत्नान्तरम् अस्ति, तथापि यण्स्वरनिवृत्त्यर्थम् इदम् आरभ्यते। यणादेशस्य असिद्धत्वातुदात्तस्वरितयोर् यणः स्वरितो ऽनुदात्तस्य ८।२।४ इत्येष स्वरो न भवति। किं नु यणा भवति इह न सिद्धं य्वाविदुतोर्यदयं विदधाति। तौ च मम स्वरसन्धिषु सिद्द्धौ शाकलदीर्घविधी तु निवर्त्यौ। इक् तु यदा भवति प्लुतपूर्वस् तस्य यणं विदधात्यपवादम्। तेन तयोश्च न शाकलदीर्घौ यण्स्वरबधनम् एव तु हेतुः। इति श्रीवामनविरचितायां काशिकायां वृत्तौ अष्टमाध्यायस्य द्वितीयः पादः। अष्टमाध्यायस्य तृतीयः पादः।
न्यासः
तयोयर्वावचि संहितायाम्?। , ८।२।१०८

"तयोः" इति। अनन्तरविहिताविदुतौ प्रत्यवमृश्येते। "अग्ना३याशा, पटा३वाशा" इति। अग्ने आशा, पटो आशा इति स्थिते "प्रद्नान्ताभिपूजितदिचार्यमाणप्रत्यभिवाख्याज्यान्तेषु" (वा।९३२) इत्येतेषामन्यतमस्मिन्? विवक्षिते, एचः पूर्वस्यार्थस्याकारः प्लुतः, उत्तरस्यार्थस्येदुतौ, तयोरनेन य्वौ। किमर्थं पुनरेतदारभ्यते? एतौ "इको यणचि" (६।१।७७) इत्येव सिध्यत? इत्यत आह--"इदुतोरसिद्धत्वात्()" इत्यादि। ननु च सिद्धा प्लुतः स्वरसन्धिषु। यणादेशादिषु यदयम्? "प्लुतप्रगृह्रा अचि" ६।१।१२१ इति प्लुतस्य प्रकृतिभावमाह; सतो हि कार्येम भवितव्यम्(), नासतः; प्लुतस्य चेकः, अतस्तावपि स्वरमन्धिषु सिद्धावेष? इत्यत आह--"अथापि" इत्यादि। यदीदं नोच्येत, तदा "अग्ना३ इ इन्द्रम्(), पटा३ उ उदकम्? ति स्थिते षाष्ठिकं यणादेशं बाधित्वाऽकः सवर्णे दीर्घत्वं ६।१।९७ स्यात्()। इह चाग्ना३ इति आशा इति स्थिते "इकोऽसवर्णे शाकल्यस्य ह्यस्वश्च" ६।१।१२३ इति प्रकृतिभावः स्यात्()। तस्माद्यथानयोः सिद्धत्वं स्यात्(), तथापि दीर्घत्वं शाकलविषिश्च मा भूदित्येवमर्थमिदं वक्तव्यमेव। ननु चान्यदेव तन्निवृत्त्यर्थ यत्नान्तरमस्ति, किं पुनस्तदिति चेत्()? उच्यते; "श्को यणचि" (६।१।७७) इत्यत्रोपसंख्यायते--"इकः प्लुतपूर्वस्य यणादेशो वक्तव्यः शाकलदीर्घनिवृत्त्यर्थम्()" (वा।६७३) इति। तस्योपसंख्यानमवश्यं कत्र्तव्यम्()। य इक्? भोःशब्दस्य प्लुतः। अत्र भोःशब्दात्? पर इकारो निपातः, न प्लुतविकारः। तस्य यणादेश इष्यते, सोऽसति तस्मिन्नुपसंख्याने न स्यात्()। तस्मादवश्यं तत्? कत्र्तव्यम्()। य()स्मश्च क्रियमाणे प्लुतविकारयोरपीदुतोस्तेनैव भवितव्यम्(), ततो नेदं वक्तव्यमित्यत आह--"तथापि" इत्यादि। अग्ना३ इति आशा इति स्थिते यदि तेन षाष्ठिकोपसंखक्यानेन यणादेश इहोदात्तल्येकारस्य स्थाने क्रियेत, तस्योदात्तयण्स्वरे कत्र्तव्ये सिद्धत्वादाशाशब्दाकारस्यानुदात्तस्य "उदात्तस्वरितयोर्यणः स्वरितोऽनुदात्तस्य" ८।२।४ इति स्वरितः प्रसज्येत। आशाशब्दः "आशाया अदिगाख्या चेत्()" (फि।सू।१-१८) इत्यन्तोदात्तः। शेषमपि "अनुदात्तम्()" ६।१।१५२ इत्याकारोऽनुदात्तः। तस्मादस्ति स्वरितत्वपरसङ्ग इति तन्निवृत्त्यर्थमिदमुच्यते। "किन्त यणा" इत्यादि। संग्रहश्लोकद्वयम्()। किमिति प्रश्ने। तु इति वितर्के। "इको यणचि" ६।१।७४ इति यणादेशेन किं न सिद्धं भवतीहाग्ना३ याशेत्येवमादावुदाहरणे यदाचार्य इदुतीर्य्वौ विदधाति! सर्वमेव सिद्धमित्यभिप्रायः। स्यादेतत्()--यणादेशो न प्राप्नोति, तस्मिन्? कत्र्तव्ये इदुतोरसिद्धत्वादित्यत आह--"तौ च" इत्यादि। तुशब्दो हेतौ। यदा इक्? प्लुतपूर्वो भवति तदा तस्य स्यात्()। तस्मात्? "इकः प्लुतपूर्वस्य यणादेशो वक्तव्यः शाकलदीर्घनिवृत्त्यर्थम्()" (वा।६७३) इत्युपसंख्याने यणादेशमपवादं करोति शाकलदोर्घविध्योः। तेन हेतुना तयोरिदुतोः शाकलदीर्घविधी न भविष्यतः। चशब्दः समुच्चये; भिन्नक्रमश्च प्रतिषेधानन्तरं द्रष्टव्यः। "तौ च मम स्वरसन्धिषु सिद्धौ"। न च शाकलदीर्घविधी प्रयोजयतः। एवमपवादः। तेषां शाकलदीर्घनिवृत्तेः प्रयोजनत्वे प्रयोजनान्तरमाह--"यणस्वरबाधनमेव तु हेतुः" इति। यणादेशाश्रयः स्वरो यणस्वरः, तस्य बाधनं हेतुः कारणम्()। कस्य? प्रकरणात्? सूतारम्भस्यैति गम्यते। तुशब्दोऽवधारणे। यण्स्वबाधनमेव तु सूत्रारम्भस्य हेतुरित्यर्थः॥ इति बोधिसत्त्वदेशीयाचार्य श्रीजिनेन्द्रबुद्धिपादविरचितायां काशिकाविवरणपञ्जिकायामष्टमाध्यायस्य द्वितीयः पादः - - - अथाष्टमाऽध्यायः तृतीयः पादः