पूर्वम्: ८।२।२९
अनन्तरम्: ८।२।३१
 
प्रथमावृत्तिः

सूत्रम्॥ चोः कुः॥ ८।२।३०

पदच्छेदः॥ चोः ६।१ कुः १।१ झलि ७।१ २६ अन्ते ७।१ २९ २९ पदस्य ६।१ ८।१।१६

अर्थः॥

चवर्गस्य स्थाने कवर्गादेशो भवति झलि परतः पदान्ते च।

उदाहरणम्॥

पक्ता, पक्तुम्, पक्तव्यम्। वक्ता, वक्तुम्, वक्तव्यम्॥ पदान्ते -- ओदनपक्, वाक्॥
काशिका-वृत्तिः
चोः कुः ८।२।३०

चवर्गस्य कवर्गादेशो भवति झलि परतः, पदान्ते च। पक्ता। पक्तुम्। पक्तव्यम्। ओदनपक्। वक्ता। वक्तुम्। वक्तव्यम्। वाक्। क्रुञ्चा इत्यत्र सिङि इति वचनाद् ञकारस्य चकारे झलि कुत्वं न भवति, युजिक्रुञ्चां च इति निपातनाद् वा। नकारोपधो वा धातुरयं रेफरहितश्च क्रुञ्च कौटिल्याल्पीभावयोः इति पठ्यते। नकारलोपे हि निकुचितिः इति दृश्यते। युजिक्रुञ्चां च इति तस्यैव रेफो ऽधिको नकारस्य लोपाभावश्च इति निपात्यते। तत्र अनुस्वारस्य परसवर्णस्य च असिद्धत्वात् ञकार एव न अस्ति इति कुत्वं न भविष्यति।
लघु-सिद्धान्त-कौमुदी
चोः कुः ३०८, ८।२।३०

चवर्गस्य कवर्गः स्याज्झलि पदान्ते च। सुयुक्, सुयुग्। सुयुजौ। सुयुग्भ्याम्॥ खन्। खञ्जौ। खन्भ्याम्॥
न्यासः
चोः कुः। , ८।२।३०

"झलि पदान्ते च" इति। "परतः" इति प्रत्येकमभिसम्बध्यते। ननु च पूर्वसूत्रे चकारेण झलनुकृष्ट इति तस्येहानुवृत्तिरयुक्ता? नैतदस्ति; न हि तत्र चकारेण झलनुकृष्टः, किं तर्हि? स्वरितत्वादेवानुवत्र्तमानस्यान्तग्रहणं न बाधकमित्यतादच्चकारेण व्याख्यातम्()। "वाक्()" इति। वचेः "क्विब्वचि" (वा।२८८) इत्यादिना ज्विप्(), दीर्घश्च। "क्रुञ्च" इति। इह केचित्? "कुञ्च कौटिस्याल्पीभादयोः" (धा।पा।१८६) इति सरेफं अकारोपधं धातुं पठन्ति, "कुञ्च कौटिल्याल्पीभावयोः" (धा।पा।१८५) इत्यरेकं नकारोपधं परे। तत्र पूर्वपाठं गृहीत्वा यश्चोदयेत्()--अथ क्रुञ्चेत्यत्र कस्मान् भवतीति? तं प्रत्याह--"ॠञ्च" इत्यादि। अनेन "झलि सङीति न वक्तव्यम्()" इति यत्? पूर्वं प्रत्याख्यातं तस्येहार्थतां दर्शयति। "युजिक्रुञ्चाञ्च" ३।२।५९ इति निपातनाद्वेति। "क्रुञ्चेत्यत्र ञकारस्य चकारे कुत्वं न भवतीति सम्बन्धः। "ञकारोपधस्य [ञकारिपदस्य--कांउद्रितपाठः] सरेफस्य पाठमभ्युपेत्य प्राप्तौ तस्यामेवं परिहारद्वयमुक्तम्()। इपानीं कुत्वस्य प्राप्तिरेव नास्ति; यस्मान्नायं ञकरोपधः पठ()ते, किं तर्हि? नकारोपध इति दर्शयितुमाह--"नकारोपधो वा" इत्यादि। किं पुनः कारणं नकारोपधः पठ()ते? किं तर्हि? नकारोपध इति दर्शयितुमाह--"नकारोपधो वा" इत्यादि। किं पुनः कारणं नकारोपधः पठ()ते? इत्याह--"नकारलोपे हि"["सकारलोपे हि"--प्रांउ।पाठः] इत्यादि। निकुचित इत्येष प्रयोगोऽस्त्येव। धातोर्निष्ठान्तस्य "श्नान्नलोपः" ६।४।२३ इत्यनुवत्र्तमाने-"अनिदिताम्()" ६।४।२४ इति नलोपादिह नकारलोपस्य दर्शनान्नकारोपधोऽयं पठ()ते; अन्यथा ह्रेष प्रयोगो नोपपद्यते। न हि ञकारलोपस्य किञ्चिल्लक्षणमस्ति। यदि तर्हि कुञ्चेति रेफरहितो नकारोपधः पठ()ते, एवं सति क्रुङ, क्रुञ्चौ, क्रुञ्चः--इति न सिध्यति; ऋत्विगित्यादिना ३।२।५९ सूत्रेण हि क्विनि कृते "अनिदिताम्()" ६।४।२४ इति नलोपे कुक, कुचौ, कुचः--इत्येवं प्राप्नोतीत्यत आह--"युजिक्रुञ्चाम्()" इत्यादि। स्यादेतत्()--यद्यपि नकारलोपाभावो निपात्यते, तथापि नकारस्यानुस्वारे तस्य ययि परसवर्णे (८।४।५८) ञकारे स्यादेव कुत्वम्()? इत्यत आह--"तत्र" इत्यादि। गतार्थम्()॥
बाल-मनोरमा
चोः कुः , ८।२।३०

युक्षु। "असमासे" इत्यस्य व्यावर्त्त्यं सुयुज्शब्दं कथयिष्यंस्तत्र विशेषमाह--चोः कुः। "झलो झली"त्यतो "झली"त्यनुवर्तते। "पदस्ये त्यधिकृतम्। "स्कोः संयोगाद्योः" इत्यतोऽन्ते इत्यनुवर्तते, तदाह-चवर्गस्येति। ननु "चोः" इत्यत्र उकारस्य उपदेशाऽभावादित्त्वाऽभावेन उदित्त्वाऽभावात्कथमिह सवर्णग्रहणमिति चेन्न, चोरित्युकारान्तग्रहणसामथ्र्यादेव तत्र उकारस्य इत्त्वाभ्यनुज्ञानात्। अन्यथा "चः कुः" इत्येव ब्राऊयादिति। कुत्वमिति। सुयुज्शब्दे जकारस्य कुत्वं गकारः, घोषसंवारनादाल्पप्राणसाम्याद्यथासंख्यसूत्राच्चेति भावः। नन्विह "क्विन्प्रत्ययस्ये"त्येव कुत्वं कुतो न स्यात्। यद्यपि सुपूर्वाद्युजेः "सत्सूदिषे"त्यादिना क्विपि उपपदसमासे सुयुज्शब्दो न क्विन्नन्तोऽयम्। निरुपपदाद्युजेः क्विन्निति अनुपदेमेवोक्तत्वात्। तथापि क्विन् प्रत्ययो यस्मादिति बहुव्रीह्राश्रयणात्संप्रति क्विबन्तत्वेऽपि अनेनैव कुत्वमित्यत आह--क्विन्प्रत्ययस्येति कुत्वस्यासिद्धत्वादिति। तथा चात्र "चोः कु"रित्येव न्याय्यमिति भावः। सुयुक्सुयुगिति। "वाऽवसाने" इति चत्र्वविकल्पः। ननु युगित्यपि रूपमिष्टं कथं सिध्येत्, क्विनि नुम#इ युङित्येवापत्तेः। नच "ऋत्वि"गित्यादिसूत्रे "युजेरसमासे" इति सूत्रे च युजीति इकारावेशिष्टस्यैव निर्देशात् "युज समाधौ" इति दैवादिकस्य अकारान्तस्याऽग्रहणात्ततः "क्विप् चे"ति क्विपि नुमबावे कुत्वे युगिति सिध्यतीति वाच्यम्, "इक्श्तिपौ धातुनिर्देशे" इति इक्प्रत्ययान्तत्वस्य उभयत्रापि संभवेन उभाभ्यां क्विनि नुमि युङित्येवापत्तेरित्यत आह--युजेरिति। "युजेरसमासे" इति सूत्रे युजीति ऋत्विगादिसूत्रे युजीति च धातुपाठे "युजिर्योगे" इतीकारविशिष्टो यः पठितस्तस्यैव रेफशिरस्कतया ग्रहणं, नत्विका निर्देशः, व्याख्यानादित्यर्थः। ततः किमित्यत आह--तेनेति। "खजि गतिवैक्लव्ये" क्विप्, इदित्त्वान्नुम्। "नश्चापदान्तस्ये"त्यनुस्वारः, परसवर्णो ञकारः। खञ्ज्शब्दः तस्य विशेषमाहसंयोगान्तेति। हल्ङ्यादिना सुलोपे जकारस्य संयोगान्तलोपः। ततो निमित्तापायादनुस्वारपरसवर्णयोर्निवृत्तिः। खन्निति रूपमित्यर्थः। "अनिदिता"मिति नलोपस्तु न, इदित्त्वात्। "राजृ दीप्तौ" इत्यस्मात्क्विपि राज्शब्दः। तस्य विशेषमाह--व्रश्चेति। हल्ङ्यादिना सुलोपे "व्रश्चे"ति षत्वम्। जश्त्वेन डकारः। "वाऽवसाने" इति चत्र्वविकल्पः। भ्यामादौ "स्वादिषु" इति पदत्वात् षत्वं जश्त्वं च। राड्भ्यामित्यादि। "ङः सि धु"डिति विकल्पं मत्वाह--राट्त्सु, राट्स्विति। एवं विभ्राडिति। राज्शब्दवत्षत्वादीत्यर्थः। "टु भ्राजृ दीप्तौ"क्विप्। विशिष्ट भ्राजते इति विभ्राट्। देवान् यजतीति देवेट्। देवान् यजतीति विग्रहे क्विपि यजादित्वा"द्वचिस्व"पीति संप्रसारणम्। "अद्गुणः"। वि()आसृडिति। "सृज विसर्गे"क्विपि "व्रश्चे"ति षत्वादि। ननु क्विबन्तेऽपि देवेज्शब्दे वि()आसृज्शब्देच क्विन् प्रत्ययो यस्मादिति बहुव्रीह्राश्रयणादृत्विक्शब्दवत्कुत्वं कुतो न स्यादित्यत आह--इहेति। "सृजिदृशो"रिति सूत्रे काम्यच्सूत्रे च वि()आसृज्भ्यामिति उपयट्काम्यतीति च भाष्यप्रयोगात् "क्विन्प्रत्यस्ये"ति कुत्वं नेत्यर्थः। परिमृडिति। "मृजू शुद्धौ" क्विप्। "क्ङिति चे"ति निषेधात् "मृजेर्वृद्धि"रिति न भवति। "व्रश्चे"ति षत्वम्। परिमार्ष्टीति परिमृट्। अथ विभ्रागिति औणादिकसूत्रमेतत्। "क्विब्वचिप्रच्छी"त्यादिपूर्वसूत्रात्क्विबिति दीर्घ इति चानुवर्तते। "पदान्त" इति "ष" इत्येनेनैव संबध्यते, नतु क्विब्दीर्घाभ्यामपि, व्याख्यानात्। तदाह--परावुपपदे इत्यादिना। षत्वं चेति। "चोः कुः" इत्यस्यापवाद इति भावः। वि()आस्मिन् राजते इत्यर्थे "सत्सूद्विषे"त्यादिना क्विपि उपपदसमासे वि()आराज्शब्दाः।

तत्त्व-बोधिनी
चो कुः ३३८, ८।२।३०

सुयुगिति। सुष्ठु युनक्तीति विग्रहे"सत्सूद्विषे"ति क्विप्। तेनेह नेति। नम्नेकत्यर्थः। क्विन्प्रत्ययस्तु स्यादेव, "ऋत्वि"गित्यादिसूत्रे"युजी"ति इका निर्देशात्। खन्निति। खञ्जतीनि खन्। "खजि गतिवैकल्ये"। एवं विभ्राडिति। फणादिरयम्। विशेषे भ्राजते इथि विभ्राट्। देवान् यजतीति देवेट्। क्विपि यजादित्वात्संप्रसारणे आद्गुणः। वि()आं सृजतीति वि()आसृट्, क्विबन्तः। क्विन्प्रत्ययो यस्मादिति बहुव्रीह्राश्रणात्कुत्वं कस्मान्न भवतीत्यशङ्क्याह---नेति क्लीबे वक्ष्यत इति।"रज्जुसृङ्भ्या"मिति भाष्यकारप्रयोगात्। यद्वा "व्र()आआदिसूत्रे सृजियज्योः पदान्ते षत्वं कुत्वापवादः"इति वक्ष्यत इत्यर्थः। परिमार्ष्टीति---परिमृट्। परौ व्रजेः। "क्विब्वचिप्रच्छिश्रिरुआउद्रुप्रुज्वां दीर्घोऽसंप्रसारणं चे"त्यौणादिकात्पूर्वसूत्रादिह क्विब्दीर्घावनुवर्तेते, तदाह--क्विप्स्याद्दीर्घश्चेति।