पूर्वम्: ८।२।३५
अनन्तरम्: ८।२।३७
 
सूत्रम्
व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षः॥ ८।२।३६
काशिका-वृत्तिः
व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षः ८।२।३६

व्रश्च भ्रस्ज सृज मृज यज राज भ्राज इत्येतेषाम्, छकारान्तानाम्, शकारान्तानां च षकारः आदेशो भवति झलि परतः पदान्ते च। व्रश्च व्रष्टा। व्रष्टुम्। व्रष्टव्यम्। मूलवृट्। भ्रस्ज भ्रष्टा। भ्रष्टुम्। भ्रष्टव्यम्। धानाभृट्। सृज स्रष्ट। स्रष्टुम्। स्रष्टव्यम्। रज्जुसृट्। मृज मार्ष्टा। मार्ष्टुम्। मार्ष्टव्यम्। कंसपरिमृट्। यज यष्टा। यष्टुम्। यष्टव्यम्। उपयट्। राज सम्राट्। स्वराट्। विराट्। भ्राज विभ्राट्। राजभ्राजोः पदान्तार्थं ग्रहणम्, झलादिराभ्यामिटा पर्यवपद्यते। केचित् तु राष्टिः, भ्राष्टिः इति क्विन्नन्तम् इच्छन्ति। छकारान्तानाम् प्रच्छ प्रष्टा। प्रष्टुम्। प्रष्टव्यम्। शब्दप्राट्। च्छ्वोः शूडनुनासिके च ६।४।१९ इत्यत्र क्ङिति इत्यनुवर्तते इति छग्रहणम् इह क्रियते। शकारान्तानाम् लिश् लेष्टा। लेष्टुम्। लेष्टव्यम्। लिट्। विश् वेष्टा। वेष्तुम्। वेष्टव्यम्। विट्।
लघु-सिद्धान्त-कौमुदी
व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षः ३०९, ८।२।३६

झलि पदान्ते च। जश्त्वचर्त्वे। राट्, राड्। राजौ। राजः। राड्भ्याम्॥ एवं विभ्राट्, देवेट्, विश्वसृट्॥ (परौ व्रजेः षः पदान्ते)। परावुपपदे व्रजेः क्विप् स्याद्दीर्घश्च पदान्ते षत्वमपि। परिव्राट्। परिव्राजौ॥
न्यासः
व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षः। , ८।२।३६

"ओ व्रश्चू छेदने" (धा।पा।१२९२), "भ्रस्जो पाके" ["भ्रस्ज" इत्येव धातुपाठः] (दा।पा।१२८४), "सृज विसर्गे" (धा।पा।११७८), मृजू शुद्धौ" (धा।पा।१०६६), "यज देवपूजासङ्गतिकरणदानेषु" (धा।पा।१००२), "राजू दीप्तौ" (धा।पा।८२२), "टु भ्राजृ टृभ्राशृ टुभ्लाशृ दीप्तौ" (धा।पा।८२३,८२४,८२५)। छ इति च्छकारान्तावां ग्रहणम्(); श इति शकारान्तानाम्()। अत्र च शकारस्य जश्त्वे प्राप्ते, इतरेषां तु कत्वे तदपवादः षकारो विधीयते। "व्रष्टा" इति। "स्कोः संयोगाद्योः" ८।२।२९ इति सकारलोपः, ऊदित्त्वात्? पक्ष इडभावः। "मीलबृट्(), धानाभृट्? इति। "ग्रहिज्या" ६।१।१६ इति सूत्रेण सम्प्रसारणम्()। "रुआष्टा" इति। "सृजिदृशोर्झल्यमकिति" ६।१।५७ इत्यमागमः। "मार्ष्टा" [मार्ष्टीति का। मुद्रितपाठ] इति। "मृजेर्वृद्धिः" ७।२।११४। "उपयट्()" ति। यदेः "विजुपे छन्दसि" ३।२।७३ इति विच्()। "सम्राट्()" इति। "मो राजि समः क्वौ" ८।३।२५ इति समो मकारस्य मकारादेशः। किं पुनः कारणं राजभ्राजोर्झल्युदाहरणं न प्रदर्शितम्()? इत्याह--"राजभ्राजोः" इत्यादि। झलत्वं कस्मान्न भवतीत्याह--"झलादिराभ्याम्()" इत्यादि। आभ्यां परो यो झलादिः स इटा पर्यवपद्यत इतीङ्()विधीयते; सेट्त्वादनयोः। इतरेष्वाद्यचतुर्थे। विभाषितेटौ, स्वरतीत्यादिसूत्रेम ७।२।४४ शेषास्त्वानिटः; "एकाचः" ७।२।१० इतीटृप्रतिषेधात्()। तस्मात्? तेषामुभयार्थमेव ग्रहणम्()। "राष्टिः भ्राष्टिः" इति। "क्वितन्नाबादिभ्यश्च" (वा।३०७) इति क्तिन्प्रत्ययः, "तितुत्र" ७।२।९ इत्यादिनेट्प्रतिषेधः। "शब्दप्राट्()" इति। शब्दं पृच्छतीति "क्विव्वचि" (वा।२८८) इत्यादिना क्विप्(), दीर्घश्च। अथ किमर्थं छग्रहणम्(), यावता "च्छ्वोः शूडनूमासिके च" (६।४।१९) इति च्छकारस्य शकारे कृते शकारान्तत्वादेव पृष्ट इत्यादौ षत्वं भविष्यति? इत्यत आह--"च्छदोः शूट्()" इत्यादि। "अत्र" इत्यादि। इतिकरणौ हेतौ। तत्र हि "अनुनासिकस्य क्विझलोः क्ङिति" ६।४।१५ इत्यनुवत्र्तते, तेन च्छग्रहणं क्रियते; अन्यथा पृष्टः, पृष्टवानित्याद्येव सिध्यत्(); न तु प्रष्टा, प्रष्टुमित्यादि; तृजादावक्ङिति शत्वाभावात्()। एतच्च सूत्रकारमतेनोत्तम्()। केचिदाचार्याः छग्रहणमिह सूत्रे प्रत्याचक्षत एव। तथा हि--"च्छ्रवो शूडनुनासिके च" ६।४।१९ इत्यत्रोक्तम्()--"केचिदिह क्ङितीत्येतन्नानुवरत्तयन्ति। कथं द्युभ्याम्(), द्युभिरित्यूठि कृते? "दिव उत्()" ६।१।१२७ इति तपरकरणान्मात्राकालो भविष्यतीति। "छशां षः" ८।२।३६ इत्यत्र च्छग्रहणं न कत्र्तव्यम्(), अनेनैव हि सर्वत्र शकारो विधीयते" इति। "लेष्टा" इति। "लिश अल्पीभावे" (धा।पा।११७९) "वेष्टा" इति। "विश प्रवेशने" (धा।पा।१४२४)॥
बाल-मनोरमा
व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षः २९२, ८।२।३६

ब्राश्चभ्रस्ज। व्रश्चादयः सप्त धातवः। छशौ वर्णौ, ताभ्यां शब्दरूपविशेष्यमादाय तदन्तविधिः। "झलो झली"त्यतो "झली"त्यनुवर्तते। "पदस्ये"त्यधिकृतम्। "स्कोःसंयोगाद्योरन्ते चे"त्यतोऽन्ते इत्यनुवर्तते। तदाह--व्रश्चादीनामिति। अन्तादेश इत्यलोऽन्त्यसूत्रलभ्यम्। षस्य जश्त्वेनेति। प्रकृतसूत्रेण शस्य षत्वे तस्य षकारस्य "स्वादिषु" इति पदत्वाज्झलाञ्जशोऽन्ते" इति जश्त्वेन स्थानसाम्याड्डकारे निड्भ्यामित्यादि रूपमित्यर्थः। सुपीति। निश्-सु इति स्थिते "व्रश्चे"ति षत्वे तस्य जश्त्वेन डकारे "ङसि धुट्" इति कदाचिद्धुडागमः। चत्र्वमिति। "डधयो"रिति शेषः। स्थानसाम्याड्डस्य टः, धस्य तः। तस्येति। चत्र्वस्येत्यर्थः। ठथौ नेति। धुडभावपक्षे टस्य ठो न, धुट्पक्षे तस्य थो नेत्यर्थः। "नादिन्याक्रोशे" इति सूत्रस्थभाष्ये "चयो द्वितीया" इत्यस्य पाठदर्शनात्तदपेक्षया चत्र्वस्य परत्वम्। अथ तकारस्य ष्टुत्वेन टकारमाशङ्क्य आह--न पदान्तादिति। "स्वादिषु" इति पदत्वं बोध्यम्। निट्त्सु इति। धुट्पक्षे रूपम्। तदभावपक्षे तु निट्सु।

तत्त्व-बोधिनी
व्रश्चभ्रस्जसृजमृजयजराजभ्रजच्छशां षः २५४, ८।२।३६

टतयोष्ठथौ नेति। धुडभावे टस्य ठो न, धृट्पक्षे तु तस्य थो नेति विवेकः। न भवतीति। जशत्वात्प्राक् षस्य कुत्वं न भवतीत्यर्थः।