दधः इति दधतिः कृतद्विर्वचनो निर्दिश्यते। तस्य झलन्तस्य बशः स्थाने भषादेशो भवति तकारथकारयोः परतः, चकारात् स्ध्वोश्च परतः। धत्तः। धत्थः। धत्से। धद्ध्वम्। वचनसामर्थ्यादातो लोपस्य स्थानिवद्भावो न भवति। अभ्यासजश्त्वस्य च असिद्धत्वम्। तथोः इति किम्? आनन्तर्यात् स्ध्वोरेव विज्ञायेत। चकारः तयोरनुवृत्त्यर्थः। झषन्तस्य इत्येव, दधाति।
द्विरुक्तस्य झषन्तस्य धाञो बशो भष् स्यात्तयोः स्ध्वोश्च परतः। धत्तः। दधति। दधासि। धत्थः। धत्थ। धत्ते। दधाते। दधते। धत्से। धद्ध्वे। घ्वसोरेद्धावभ्यास लोपश्च। धेहि। अदधात्, अधत्त। दध्यात्, दधीत। धेयात्, धासीष्ट। अधात्, अधित। अधास्यत्। अधास्यत॥ णिजिर् शौचपोषणयोः॥ ११॥ (इर इत्संज्ञा वाच्या)॥
दधातेरप्येतत्? कृतद्विर्वचनस्य रूपमस्ति। "दध धारणे" (धा।पा।८)--इत्यस्य चाकृतद्विर्वचनस्य रूपम्(), तत्र तु शपा व्यवहितत्वादनन्तरौ तथो न सम्भवतः; तस्माद्दधातेरेव ग्रहणं विज्ञायते, इत्याह--"दध इति कृतद्विर्वचनो दधातिः परिगृह्रते" इति। "धत्तः, इति। लटस्तस्थसौ, शपः [शपः श्लुलुपि द्विर्वचनम्()--प्रांउद्रितः पाठः] श्लुः "श्लौ"
६।१।१० (इति) द्विर्वचनम्(), "अभ्यासे चर्च"
८।४।५३ इति जश्त्वम्()--दकारः, "श्नाभ्यस्तयोरातः"
६।४।११२ इत्याकारलोपः,
अभ्यासदकारस्य भष्? धकारः। धातुधकारस्य चत्र्वम्()--तकारः। "धत्से" इति। "थासः से"
३।४।८० "धध्वे" इति। टेरेत्त्वम्()। "धध्वम्()" इति। लोटि "सवाभ्यां वामौ"
३।४।९१ इत्यमादेशः।
कथं पुनरत्र भष्भावः;
यावता दधातेर्झषन्तस्य यो दश्? तस्य भष्? भवतीत्युच्यते, अत्र नापि झषन्ततास्ति;
आकारलोपस्य "अचः परस्मिन्? पूर्वविधौ"
१।१।५६ इति स्थानिवद्भावात्(); नापि बश्(),
अभ्यासजशत्वस्यासिद्धत्वात्()? इत्यत आह--"वचनसामथ्र्यात्()" इत्यादि। "अभ्यासजश्त्वस्यासिद्धत्वम्()" इति वचनसामथ्र्यान्न भवतीत्य पेक्षते। यद्याकारलोपस्य स्थानिवद्भावः स्यादभ्यासजश्त्वस्यासिद्धत्वम्()। एवं सत्यपार्थकतैवास्य वचनस्य स्यात्(),
न हि दधातेराकारलोपेन विना बश्? स्यात्()। तस्माद्वचनप्रामाण्यादुभयं न भवति।
इह झलोत्यनुवत्र्तते, झषन्तस्येति च, तकारथकाराभ्यामन्यः स झलस्ति यत्र दधातेर्झषन्तस्य भष्भावो नेष्यते।
तस्मात्? "तथोः" इति वचनमन्तरेणापिसिद्धमिष्टमित्यभिप्रायेणाह--"तथोरिति किम्()" इति। "आनन्तर्यात्()" इत्यादि। अनन्तरसूत्रे हि "स्ध्वोः"
८।२।३७ इत्युक्तम्(), ततश्च "अनन्तरलस्य विधिर्वा भवति प्रतिषेधो वा" (व्या।प।१९) इति स्ध्वोरेव भष्भावो विज्ञायते, न तथोः; अतः "तथोः" इत्युच्यते। यद्येवम्(), निमित्तान्तरोपा दाने पूर्वस्य निमित्तस्य निवृत्त्या भवितव्यम्(), ततश्च तथोरेव स्यात्(),
न स्ध्वोः? इत्यत आह--"चकारः" इत्यादि। परिहारः॥