पूर्वम्: ८।२।४४
अनन्तरम्: ८।२।४६
 
सूत्रम्
ओदितश्च॥ ८।२।४५
काशिका-वृत्तिः
ओदितश् च ८।२।४५

ओकारेतो धातोरुत्तरस्य निष्ठातकारस्य नकारादेशो भवति। ओलस्जी लग्नः। लग्नवान्। ओविजी उद्विग्नः। उद्विग्नवान्। ओप्यायी वृद्धौ आपीनः। आपीनवान्। स्वादय ओदितः। षूङ् सूनः। सूनवान्। दूङ् दूनः। दूनवान्। दीङ् दीनः। दीनवान्। डीङ् डीनः। डीनवान्। धीङ् धीनः। धीनवान्। मीङ् मीनः। मीनवान्। रीङ् रीणः। रीणवान्। लीङ् लीनः। लीनवान्। व्रीङ् व्रीणः। व्रीणवान्।
लघु-सिद्धान्त-कौमुदी
ओदितश्च ८२३, ८।२।४५

भुजो भुग्नः। टुओश्वि, उच्छूनः॥
न्यासः
ओदितश्च। , ८।२।४५

"आपीनः" इति। "प्यायः पी" ६।१।२८ इति पीभावः। "स्वादय ओदितः" इति। ते पुनः "षूङ प्राणिप्रसवे" (धा।पा।११३२) इत्यादयः "व्रीङ्? प्रीणात्यर्थे" [वृणोत्यर्थे-धातुपाठः] (धा।पा।११४०) इत्येवमन्ता दिवादिषु पठ()न्ते॥
बाल-मनोरमा
ओदितश्च ८२८, ८।२।४५

ओदितश्च। ओकारेतो धातोः परस्य निष्ठातस्य नत्वमित्यर्थः। भुग्न इति। नत्वस्याऽसिद्धत्वाज्जस्य पूर्वं कुत्वम्। ततो नत्वम्। उच्छून इति। उत्पूर्वात् "टु ओ ()इआ" इति धातोः क्तः, यजादित्वात्संप्रसारणम्, पूर्वरूपम्, "()आईदितः" इति नेट्, "हल" इति दीर्घः, निष्ठानत्वम्। प्रहीण इति। "घुमास्थे"तीत्त्वं, नत्वं, "कृत्यचः" इति णत्वम्। स्वादय इति। "षूङ् प्राणिप्रसवे" इत्याद्या नव धातव ओदित इति दिवादिगणे उक्तमित्यर्थः। सून इति। षूङः क्तः, नत्वं। "श्र्युकः किती"तीण्निषेधः। दून इति। "दूङ् परितापे" अस्मात् क्तः, स्वादित्वेन ओदित्त्वान्नत्वम्। ननु "डीङ् विहायसा गतौ" इत्यस्य उड्डीन इति कथं रूपं, सेट्कत्वादुगन्तत्वाऽभावेन "श्र्युकः किती"ति निषेधस्याऽप्रवृत्तेरित्यत आह-- ओदन्मध्ये डीङः पाठसामथ्र्यान्नेडिति। इटि सति निष्ठातस्य ओदितो डीङः परत्वाऽभावान्नत्वाऽप्रसक्तेस्तस्य ओदित्सु पाठो व्यर्थः स्यादित्यर्थः।

तत्त्व-बोधिनी
ओदितश्च ६८१, ८।२।४५

भुग्न इति। भुजो कौटिल्ये। नत्वस्याऽसिद्धत्वाज्झलि परतः कुत्वम्। उच्छून इति। ()आयतेर्यजादित्वात्संप्रसारणे पूर्वरूपे च "हलः" इति दीर्घः। प्रहीण इति। "घुमास्थे"ति ईत्वम्। सून इति। षूङ् प्राणिप्रसवे। दून इति। दूङ् परितापे। ओदिन्मध्ये इति। यदि डीङ इट् स्यात्तर्हि धातोः परो निष्ठातकारो न संभवतीति नत्वार्थः पाठोऽनर्थकः स्यादिति भावः। न च ओदिन्मध्ये पाठसामथ्र्यादिटा व्यवधाने नत्वं बवेदिति वैपरीत्यं किं न स्यादिति शङ्क्यम्, लक्ष्यानुरोधेन इडभावकल्पनाया एव न्याय्यत्वात्। अन्ये तु सत्यपि इडागमे सवर्णदीर्घे चैकादेशस्य पूर्वान्तत्वेन ग्रहणादिटा व्यववधानं नास्त्येवेतीष्टं सिध्यतीत्याहुः।