पूर्वम्: ८।२।७९
अनन्तरम्: ८।२।८१
 
सूत्रम्
अदसोऽसेर्दादु दो मः॥ ८।२।८०
काशिका-वृत्तिः
अदसो ऽसेर् दादु दो मः ८।२।८०

अदसो ऽसकारान्तस्य वर्णस्य दात् परस्य उवर्णादेशो भवति, दकारस्य च मकारः। अमुम्, अमू, अमून्। अमुना, अमूभ्याम्। भाव्यमानेन अप्युकारेण सवर्णानां ग्रहणम् इष्यते इति एकमात्रिकस्य मात्रिकः, द्विमात्रिकस्य द्विमात्रिकः आदेशो भवति। असेः इति किम्? अदः इच्छति अदस्यति। अदसो ऽनोस्र इति वक्तव्यम्। ओकाररेफयोरपि प्रतिषेधो यथा स्यातिति। अदो ऽत्र। अदः। तदर्थं केचित् सूत्रं वर्णयन्ति, अः सेः यस्य सो ऽयम् असिः, यत्र सकारस्य अकारः क्रियते इति, तेन त्यदाद्यत्वविधाने एतदन्यत्र न भवितव्यम् एव इति। अद्र्यादेशे कथम्? अदसो ऽद्रेः पृथङ् मुत्वं केचिदिच्छन्ति लत्ववत्। केचिदन्त्यसदेशस्य नेत्येके ऽसेर्हि दृश्यते। इति। यैः असेः इति सकारस्य प्रतिषेधः क्रियते, अनन्त्यविकारे अन्त्यसदेशस्य इति च परिभाषा न अश्रीयते, तेषाम् उभयोरपि मुत्वेन भवितव्यम्, अमुमुयङ्, अमुमुयञ्चौ, अमुमुयञ्चः इति , यथा चलीक्लृप्यते इति लत्वम्। ये तु परिभाषाम् आश्रयन्ति तेषाम् अन्त्यसदेशस्य एव भवितव्यम्, अदमुयङ्, अदमुयञ्चौ, अदमुयञ्चः इति। येषं तु त्यदाद्यत्वविषय एव मुत्वेन भवितव्यम् इति दर्शनम् तेषाम् अत्र न भवितव्यम्, अदद्र्यङ्, अदद्र्यञ्चौ, अदद्र्यञ्चः इति। दातिति किम्? अलो ऽन्त्यस्य मा भूत्, अमुया। अमुयोः।
लघु-सिद्धान्त-कौमुदी
अदसोऽसेर्दादु दो मः ३५८, ८।२।८०

अदसोऽसान्तस्य दात्परस्य उदूतौ स्तो दस्य मश्च। आन्तरतम्याद्ध्स्वस्य उः, दीर्घस्य ऊः। अमू। जसः शी। गुणः॥
न्यासः
अदसोऽसेर्दादु दो मः। , ८।२।८०

"असेः" इतीकार उच्चारणार्थः। अविद्यमानः सकारो यस्य स तथोक्तः। यश्चैवंविधः स सकारान्तो न भवतीत्याह--"असकारान्तस्य" इत्यादि। "अमुम्()" इत्यादि। अदसोऽमादिषु त्यदाद्यत्वे "अतो गुणे" ६।१।९४ पररूपत्वे च कृतेऽसि ६।१।१०३ पूर्वत्वम्()। औटि, "वद्धिरेचि" ६।१।८५ इति वद्धिः। शसि प्रथमयोः पूर्वसवर्णदीर्घत्वम्()। अत्र स्थानेऽन्तरतमपरिभाषया १।१।४९ एकवचने मात्रिकस्य मात्रिक एव भवति, अन्यत्र द्विमात्रिकस्य द्विमात्रिकः ननु च मात्रिकः सूत्र उपात्तः, तत्कथं द्विमात्रिको लभ्यते? "अणुदित्? सवर्णस्य चाप्रत्ययः" (१।१।६९) इति सवरणग्रहणादिति चेत्()? न; "भाव्यमानोऽण्? सवर्णान्? न गृह्णाति" (व्या।प।३५) इति प्रतिषेधादित्यत आह--"भाव्यमानोऽपि" इत्यादि। एतच्च "ऋत उत्()" ६।१।१०७ इत्यत्र तपरकरणेन ज्ञापितम्()। "अदस्यति" इति। "सुप क्षात्मनः क्यच्()" ३।१।८ "अदसोऽनोरुआ इति वक्तव्यम्()" इति। ओकारसकाररेफाणां द्वन्द्वः, अविद्यमान्ना ओरुआओऽस्येति बहुव्रीहिः। अदोऽत्रेति नपुंसकत्वात्? "स्वमोर्नपुंसकाप्त" ७।१।२३ इति सोर्लुक्(), सकारस्य रुत्वे "अतो रोरप्लुतादप्लुते" ६।१।१०९ इति रोरुत्वम्(), "आद्गुणः" ६।१।८४, "एङः पदान्तादति" ६।१।१०५ इति परपूर्वत्वम्()। इदमीकारप्रतिषेधस्य प्रत्युदाहरणम्()। "अदः" इति। एतत्तु रेफप्रतिषेधस्य। रुत्वे कृते विसर्जनीयः। "तदर्थम्()" इति। सकाररेफयोरपि प्रतिषेधो यथा स्यादित्येवमर्थम्()। "अः सेर्यस्य" इति। सकार [नास्ति-कांउ।पाठे] उच्चारणार्थः। अकारः सकारस्य यस्येत्यर्थः। "कथम्()" इत्यादि। यदाऽदसोऽद्र()आदेशः क्रियते, तदेदमदसोऽद्रेश्च पृथङ्मुत्वं भवति? उतान्त्यसदेशस्य? आहोस्विदद्र()आदेशविषये न भवत्येव? इत्येतत्? पृच्छति। "अदसोऽद्रः" इत्यादि। मश्च उश्च मुः, तस्य भावो मुत्वम्()। अदसोऽद्रेश्चोभयोरपि केचिन्मुत्वमिच्छन्तीत्यर्थः। विनापि हि चकारेण तदर्थो गम्यते। तद्यथा--अहरहर्नयमानो गाम()आं पुरुषं पशुमित्यादौ वाक्ये। कथम्()? यथेत्याह--"लत्त्ववत" इति। यथा चलीक्लृप्यत इत्यत्र "कृपो रो लः" ८।२।१८ इति धातो रेफस्य रीशब्दस्य चोभयोरपि लत्वमिच्छन्ति, तद्वददशः, अद्रेश्च मुत्वम्()। "केचिदन्त्यसदेशस्य" इति। अद्र()आदेश इकारान्तः, तस्य केचिदुत्वमिच्छन्ति। स पुनरद्र()आदेशसम्भन्धी दकारो रेफश्च। "नेत्येके" इति। अपरे तु--यदाऽदसोऽद्र()आदेशः क्रियते तदा न भवितव्यमेव मुत्वेनेतीच्छन्ति। अत्रैव कारणमाह--"असेर्हि दृश्यते" इति। अः सेर्यस्य सोऽयमसिः, तस्यासेः। हिशब्दो यस्यादर्थे। यस्मात्? सकारस्य स्थाने यस्यादसोऽकारो भवति तस्य पज्डितैर्मुत्वं दृश्यते। न च कृताद्र()आदेशस्यादसः सकारस्य स्थानेऽत्वं भवति; विभक्तेः परहस्य निमित्तस्यानावात्()। तस्मात्? न तस्य मुत्वेन भवितव्यमिति। "यैः" इत्यादिना श्लोकस्य पूर्वार्ध व्याचष्टे। असेरति सकारस्य प्रतिषेधः क्रियते-नास्य सिर्विद्यत इत्येवं व्याचक्षाणैः। "उभयोरपि" इति। अदसः, अद्रेश्च। "अमुमुयङ्()" इत्यादि। अदोञ्चतीति ऋत्विगित्यादिना (३२।५९) सूत्रेणाञ्चतेः क्विन्(), "अनिदिताम्()" ६।४।२४ इति नलोपः, उपपदसमासः, "उगिदचाम्()" ७।१।७० इति नुम्(), हल्ङ्यादि ६।१।६६संयोगान्त८।२।२३ लोपौ। एकवचने "क्विन्ग्रत्ययस्य कुः" ८।२।६२ इति कुत्वम्()--नकारस्य ङ्कारः। अन्यत्र "न श्चापदान्तस्य झलि" ८।३।२४ इत्यनुस्वारः, "अनुस्वारस्य यपि परसवर्णः" ८।४।५७ इति परसवर्णो ञकारः, ["ङकारः"--कांउ।पाठः] "आसर्वनाम्नः" ६।३।९० इत्यतः "सर्वनाम्नः" इत्यमुवत्र्तमाने "विष्वग्देवयीश्च टेरद्र()ञ्चतौ वप्रत्यये" ६।३।९१ इत्यदः शब्दस्य टेरद्र()आदेशः, पूर्वस्माद्दकारादुत्तरस्योत्वम्(), दकारस्य मत्वम्(), द्वितीयस्मादपि दकाराद्रफस्योत्वम्(), दकरस्य मत्वम्()--अमुमुयङ्(), अमुमुयञ्चाविति भवति। "यथा" इत्यादिना लत्ववदित्यस्थार्थमाचष्टे। "चलीक्लृप्यते" इति। "कृपू सामर्थ्ये" (धा।पा।७६२)। अत्यन्तं कल्पत इति यङ्(), द्विर्वचनम्(), "उरत्()" ७।४।६६ इत्यत्त्वम्(), "हलादिः शेषः" ७।४।६०, "रीगृदपधस्य च" ७।४।९० इति रीक्(), "कुहोश्चः" ७।४।६२ इति चुत्वम्(), "कुपो रो लः" ८।२।१८ इत्युभयोरपि लत्वम्(); "अनन्त्यविकारेऽन्त्यसदेशस्य" (व्या।प।६३) इति परिभाषानाश्रयणात्()। "ये तु" इत्यादिना "केचिदन्त्यसदेशस्य" इत्यस्यार्थ कथयन्ति। "अदमुयङ्(), अदमुयञ्चौ" इति। अत्राद्रिदकारादेरुत्तरस्योत्वम्(), अद्रिदकारस्यैव च मत्वम्()। शेषं पूर्ववत्()। "येषां तु"["तेषां तु"--प्रांउ।पाठे] इत्यादिना "एके" इत्यादेव्र्याख्यानम्()। केषां पुनस्त्यदाद्यत्वविषय एव मुत्वेन भवितव्यम्()? ये "अः सेयंस्य सोऽयमसिस्तस्यासेः" इत्येवं वर्णयन्ति तेषाम्()। "अत्र" इति। अद्र()आदेशविषये नैव भवितव्यमिति;त्यदाद्यत्वाभावात्()। अदद्र()ङ, अदद्र()आञ्चौ, अदद्र()ञ्चः" इति। पूर्ववत्()। मुभावस्तु विशेषः। "अमुया, अमुयोः" इति। अदसस्तृतीयैकवचन ओसि च परतस्त्यदाद्यत्वम्(), ७।२।१०२ टाप्(), एकादेशः, तस्य "अन्तादिवच्च" ६।१।८२ इति पूर्वं प्रत्यन्तवद्भावो दादुदोग्रहणेनैव ग्रहणम्()। अत्र यदि दादिति नोच्येत तदा "आङि चापः" ७।३।१०५, "ओसि च" ७।३।१०४ इति ङित्येत्वे कृते तस्य चायादेशेऽलोन्त्यपरिभाषया १।१।५१ यकारस्यैवोत्वं स्यात्()। दादिति वचनान्न भवति। उदिति तपरकरणं मुखसुखार्थम्()॥
बाल-मनोरमा
अदसोऽसोर्दादु दो मः , ८।२।८०

तदाह--अदसोऽसान्तस्येति। असेः किम्?। अदस्यति। दात् किम्?। अमुया। अत्र "अलोऽन्त्यस्ये"ति यकारस्य न भवति। ननु उदूताविति कथम्, उ इत्यस्यैव श्रवणादित्यत आह--उ इतीति। उश्च ऊश्च तयोः समाहार इति विग्रहे द्वन्द्वे सति, सुब्लुकि, सवर्णदीर्घे "स नपुंसक"मिति नपुंसकत्वे "ह्यस्वो नपुंसके प्रातिपदिकस्ये"ति ह्यस्वत्वे, समाहास्यैकत्वादेकवचननस्य सोः "स्वमोर्नपुंसका"दिति लुकि उ इति रूपमित्यर्थः। आन्तरतम्यादिति। अर्धमात्रस्य व्यञ्जनस्य ईषत्सदृशो मात्रिको ह्यस्व उकारः। ह्यस्वस्य तु मात्रिकस्य मात्रिकत्वसादृश्यादुकारो ह्यस्वः, दीर्घस्य तु द्विमात्रत्वसादृश्याद्द्विमात्र ऊकार इत्यर्थः। अमुमुयङिति। अदद्र()च् स् इति स्थिते "उगिदचा"मिति नुमि, हल्ङ्यादिलोपे, चकारस्य संयोगान्तलोपे, नुमो नकारस्य "क्विन्प्रत्ययस्य कुः" इति कुत्वे, अदद्र()ङिति स्थिते, प्रथमदकारस्य मत्वे, तदुत्तरस्याऽकारस्य उत्वे, द्वितीयदकारस्य मत्वे, तदुत्तरस्य रेफस्य उत्वे च कृते, अमुमुयङिति रूपमिति भावः। प्रक्रियाक्रमस्तु सूत्रपौर्वापर्यज्ञानवतां सुगमः। अमुमुयञ्चाविति। प्राञ्चावितिवद्रूपम्। उत्वमत्वे पूर्ववत्। अमुमु इ अच् औ इति स्थिते यणिति विशेषः। अमुमुईच इति। अमुमु इ अच् अस् इति स्थिते "अन्तरङ्गोऽपि यण् "अचः" इति लोपविषये न प्रवर्तते" इत्युक्तरीत्या अकृते यणि "अचः" इत्यकारलोपे "चौ" इतीकारस्यदीर्घ इति भावः। अमुमुयग्भ्यामिति। "चोः कुः" इति कुत्वमिति विशेषः। इकारे परे मकारादुकारस्य यणमाशङ्क्य आह--मुत्वस्यासिद्धत्वादिति। अमुमुईचे। अमुमुईचः २। अमुमुईचौः २। अमुमुयक्षु। मतान्तरमाह--अन्त्यबाधे इति। अलोऽन्त्यपरिभाषाया अप्रवृत्त्या अन्त्यस्य कार्याऽभावे सति अन्त्यसमीपवर्तिनः कार्यं भवतीत्यर्थः। प्रकृते च अदस इति नावयवषष्ठी, किन्तु स्थानषष्ठी। ततश्च "अलोऽन्त्यस्ये"त्युपतिष्ठते। असान्तस्य अदसोऽन्त्यस्य दात्परस्य उत्वं दस्य च म इति फलितम्। अदसश्चान्त्यवर्णः सकारो दात्परो न भवति, अद्र()आदेशे कृते तु इकारोऽन्तः, सोऽपि दात्परो न भवति। ततश्च अलोऽन्त्यपरिभाषाया अप्रवृत्त्या अन्त्यस्य आदेशबाधे सति अन्त्यसमीपवर्तिन एव दात्परस्य उत्वं, दस्य च मः, नतु ततः प्राचीनयोरपि दकारतदुत्तरवर्णयोर्मुत्वमित्यर्थः। नन्वेवं सति "णो नः" इति धात्वादेर्णकारस्य विहितं नत्वं नेता इत्यत्रैव स्यान्नमतीत्यत्र न स्यादिति चेत्, मैवम्-अलोऽन्त्यपरिभाषाया अप्रवृत्त्या अन्त्यसदेशानन्त्यसदेशयोर्युगपत्प्राप्तौ अन्त्यसदेशस्यैव भवतीति परिभाषार्थ इति "ष्यङः संप्रसारण"मिति सूत्रे बाष्ये स्पष्टं प्रपञ्चितत्वात्। यद्यपि "ष्यङः सम्प्रसारण"मिति सूत्रे प्रकृतसूत्रे च "अनन्त्यविकारे अन्त्यसदेशस्ये"ति परिभाषा पठिता तथापि सैवाऽत्रार्थतः सङ्गृहीता। अन्त्यस्य विकारः-आदेशः अन्त्यविकारः। अन्त्यविकारस्याऽभावः अनन्त्यविकारः। "अर्थाभावेऽव्ययीभावेन सह नञ्()तत्पुरुषो विकल्प्यते" इति वक्ष्यमाणत्वात्तत्पुरुषः। अव्ययीभावपक्षे तु "तृतीयासप्तम्योर्बहुल"मित्यम्भावाऽभावः। अलो।ञन्त्यपरिभाषाया अप्रवृत्त्या अन्त्यस्य आदेशाऽभावे सतीति यावत्। अदमुयङिति। अत्र पूर्वस्य दकारस्य तदुत्तराऽकारस्य च न मुत्वमिति विशेषः। मतान्तरमाह--अः सेः सकारस्येति। सेरित्यस्य विवरणं--सकारस्येति। "असे"रिति नायं नञ्तत्पुरुषः, किंतु अः सेर्यस्य स-असिः, त्सय असेरिति विग्रहः। सेरिति स्थानषष्ठी, इकार उच्चारणार्थः,सकारस्थानकाऽकारवत इत्यर्थः। अदस्()शब्दस्य त्यदाद्यत्वे कृते सकारस्थानकाऽकारवत्त्वम्। अतस्त्यदाद्यत्ववत एवादस्()शब्दस्य मुत्वं नान्यस्येति फलितम्। अतोऽद्र()आदेशे सति सकारस्थानकाऽकारवत्त्वाऽभावान्न मुत्वमित्यर्थः।

तदिदं पक्षत्रयमपि भाष्यसंमतमित्याह--उक्तं चेति। अदसष्टेरद्रेर्विधौ सति अदद्र()चित्यत्र प्रथमद्वितीययोर्दकारयोः पृथङ्()मत्वे, तदुत्तरयोः अवर्णरेफयोरुत्वं च युगपदेव। लत्ववत्। चलीक्लृप्यते इत्यत्र चरीकृप्यते इति स्थिते रेफऋकारयोर्यथा "कृपो रो लः" इति लत्वं, तथा केचिदिच्छन्ति। हि-यतोऽसेः सकारस्थानकाकारवत एव मुत्वं दृश्यते=अः सेः यस्येति बहुव्रीहिणा प्रतीयत इति योजना। विष्वग्देवयोः किमिति। विष्वग्देवयोश्चेति किमर्थमित्यर्थः। अ()आआचीति। अत्र विष्वग्देवयोः सर्वनाम्नश्चाऽभावान्नाद्र()आदेश इति भावः। विष्वग्देवयोश्चेति किमर्थमित्यर्थः। अ()आआचीति। अत्र विष्वग्देवयोः सर्वनाम्नश्चाऽभावान्नाद्यादेश इति भावः। विष्वगञ्चनमिति। अत्र "अन" इति ल्युडादेशस्य श्रूयमाणतया अञ्चेरप्रत्ययान्तत्वं नेति भावः। ननु उत्तरपदाधिकारादञ्चुरूपे उत्तरपदे इत्यर्थाद्विष्वगञ्चनमित्यत्र आद्र()आदेशस्याऽप्रसक्तेः किमप्रत्ययग्रहणेनेत्यत आह--अप्रत्ययग्रहणमिति। तेनेति। अन्यथा "अतः कृकमी"त्यत्र "नित्यं समासे" इत्यतोऽनुवृत्तसमासग्रहणेन उत्तरपदाक्षेपात्कृधातुरूपे उत्तरपदे इत्यर्थलाभादयस्कृदित्यत्रैव सत्वं स्यात्, अयस्कार इत्यत्र न स्यादित्यर्थः। उदङिति। उत् अञ्चतीति विग्रहे क्विन्नादिरिति भावः।

तत्त्व-बोधिनी
अदसोऽसेर्दादु दो मः ३७१, ८।२।८०

अदसोऽसेः। "असे"रिति इकार उच्चारणार्थस्तदाह---अदसोऽसान्तस्येति। असान्तस्येति किम्? अमुमात्मन इच्छति अदस्यति। दात्परस्य किम्? अमुया" "अमुयो"रित्यत्राऽन्त्ययकारस्य माभूत्। ह्स्वव्यञ्जनयोरिति। व्यञ्जनस्य हि ह्यस्व ईषात्सदृशो, दीर्घस्तु विसदृश इथि भावः। प्राञ्चस्तु--ह्यस्वदीर्घयोः समाहारद्वन्द्वमकृत्वैव "विधायमानोऽप्यण् क्विचित्सवर्णान् गृह्णाती"ति सावीकृत्य आन्तरतम्याद्ध्रस्वव्यञ्जनयोह्र्यस्वो दीर्घस्य दीर्घ इति व्याचक्षते।अन्त्यबाध इति। सूत्रे "अदस" इति नाऽवयवषष्ठी, किन्तु स्थानेषष्ठी, एवं हि अलोऽन्त्यपरिभाषोपतिष्ठते। तथा च अदसो योऽन्त्यः स दात्परो न भवति, दात्परो यः सोऽदसोऽन्त्यो न भवतीत्येवमन्त्यबाधेऽन्त्यसमीपस्य भवतीति तेषामाशयः। उक्तं चेति। "वार्तिककृते"ति शेषः। एवं च "अमन्द्य"ङ्ङिति केषाञ्चिदुदाहरणं भाष्यादावनुक्तत्वादुपेक्ष्यमिति भावः। लत्ववदिति। "चलीक्लृप्यते"इत्यत्र "कृपो रो लः"इत्युभयोर्यथा लत्वं तथेत्यर्थः। नन्वप्रत्ययग्रहणाभावेऽप्युत्तरपदाधिकारस्थत्वाद्विष्वन्द्यङ् देवन्द्यङ्ङित्यञ्चत्युत्तरपदेष्वेवाऽद्यादेशः स्यान्न तु "विष्वगञ्चन"मित्यत्राऽतो व्याचष्टे-अप्रत्ययग्रहणं ज्ञापयतीति। अन्यत्रेति। "अतः कृकमी"त्यादौ। तेनेति। अन्यथा "नित्यं समासे"इत्यतोऽनुवृत्तेन समासग्रहणेनोत्तरपदस्याक्षेपादतः कृकमीति कृधातुग्रहणे कृधातूत्तरपदक एवाऽयस्कृदित्यादौ सत्वं स्यान्नत्वणन्तोत्तरपदकेऽयस्कार इत्यत्रेति भावः।