पूर्वम्: ८।२।८०
अनन्तरम्: ८।२।८२
 
सूत्रम्
एत ईद्बहुवचने॥ ८।२।८१
काशिका-वृत्तिः
एत ईद् बहुवचने ८।२।८१

अदसो दकारादुत्तरस्य एकारस्य ईकारादेशो भवति, दकारस्य च मकारः, बहुवचने बहूनामर्थानामुक्तौ। अमी। अमीभिः। अमीभ्यः। अमीषाम्। अमीषु। बहुवचने इत्यर्थनिर्देशो ऽयम्, पारिभाषिकस्य हि बहुवचनस्य ग्रहणे अमी इत्यत्र न स्यात्।
लघु-सिद्धान्त-कौमुदी
एत ईद्बहुवचने ३५९, ८।२।८१

अदसो दात्परस्यैत ईद्दस्य च मो बह्वर्थोक्तौ। अमी। पूर्वत्रासिद्धमिति विभक्तिकार्यं प्राक् पश्चादुत्वमत्वे। अमुम्। अमू। अमून्। मुत्वे कृते घिसंज्ञायां नाभावः॥
न्यासः
एत ईद्रबहुवचने। , ८।२।८१

"बहुवचन इत्यर्थविर्देशोऽयम्()" इति। अन्वर्थनिर्देश इत्यर्थः। एतदुक्तं भवति--नेदं पारिभाषिकस्य बहुवचनस्य ग्रहणम्(), किं तर्हि? अन्वर्थस्य ग्रहणम्()--बहुनामर्थानामुक्तिः बहुवचनमिति। किं कारणमेवं व्याख्यातम्()? इत्याह--"पारिभाषिकस्य हि" इत्यादि। यदि पारिभाषिकस्य बहुवचनस्येदं ग्रहणं स्यात्(), अमी इत्यत्र न स्यात्()। न ह्रत्रैकारात्? परं पारिभाषिकं बहुवचनमस्ति। अन्वर्थग्रहणे त्वत्रापि बहुनामर्यानामभिधानमस्तीति सिध्यति। अन्वर्थग्रहणं तु व्याप्तिन्यायाल्लभ्यते--एव इति एकारस्य स्थानिवत्त्वं यथा विज्ञायेत। "एः" इत्युच्यमाने, इकारस्यापि स्थानित्वमाशङ्क्येत। किञ्च स्यात्()? अद्र()आदेशे कृते तदवयव स्येकारस्य यणादेशो बाधितः स्यात्()। ईदिति तकारो मुखसुखार्थः॥
बाल-मनोरमा
एत ईद्बहुवचने , ८।२।८१

तत्र दकारादेकारस्य ऊत्त्वे प्राप्ते एत ईत्। "अदसोऽसेर्दादु दो मः" इत्यस्मात् "अदसो दा"दिति "दो मः" इति चानुवर्तते। तदाह-अदस इत्यादिना। बह्वर्थोक्ताविति। सूत्रे बहुवचनशब्दो यौगिकः। पारिभाषिकस्य ग्रहणे तु अमीभिरित्यादिसिद्धावपि अमी इति न सिध्येत्, "अदे" इत्येकारस्य बहुवचनतया तत्परकत्वाऽभावादिति भावः। ननु औजसादिषु त्यदाद्यत्वे पररूपे च उत्त्वमत्वयोः कृतयोरमुऔ अमुअः इत्यादि स्यात्। मुत्वस्याऽसिद्धत्वान्न "यणित्याशङ्क्य आह--पूर्वत्रेति। विभक्तिकार्यमिति। त्यदाद्यत्वादिकमित्यर्थः। यदि तु पूर्वत्रासिद्ध मित्यत्र "कार्याप्रवृत्तेरावश्यकतया परत्वात्रैपादिके मुत्वे कृते सति उत्वस्थानिनोऽकारस्यापहारे सति, पश्चान्मुत्वेऽभावप्रतियोगित्वारोपेऽपि "देवदत्तस्य हन्तरि हते सति देवदत्तस्य न पुनरुन्मज्जन"मिति न्यायेन स्थानिभूतस्य दकारादकारस्याऽभावाद्वृद्धिगुणादि न स्यात्। शास्त्राऽसिद्धत्वपक्षे तु यद्यत्रैपादिकं शास्त्रं प्रवृत्त्युन्मुखं तत्तच्छास्त्र एवाऽभावारोपसम्भवात्पूर्वशास्त्रप्रतिबन्धकस्य परशास्त्रस्य उच्छेदबुद्दौ सत्यां "विप्रतिषेधे परं कार्य"मिति न प्रवर्तते। तदुक्तं "पूर्वत्रासिद्धे नास्ति विप्रतिषेधोऽभावादुत्तरस्ये"ति। ततश्च स्थानिनोऽकारस्य निवृत्त्यभावाद्वृद्धिगुणादिप्रवृत्तिर्निर्बाधा। एतच्च "पूर्वत्रासिद्ध"मित्यत्र "अचः परस्मिन्" इत्यत्र "षत्वतुकोरसिद्धः" इत्यत्र च भाष्ये स्पष्टम्। प्रपञ्चितं च शब्देन्दुशेखरे शब्दरत्ने च इत्यास्तां तावत्। अमुमिति। अदस् अम् इति स्थिते त्यदाद्यत्वं, पररूपम्, अमि पूर्वः, उत्वमत्वे इति भावः। अमू इति। द्वितीयाद्विवचनं प्रथमाद्विववचनवत्। अमूनिति। शसि, त्यदाद्यत्वं, पररूपं, पूर्वसवर्णदीर्घः, नत्वम्, उत्वमत्वे इति भावः। तृतीयैकवचने अदस् आ इति स्थिते त्यदाद्यत्वं, पररूपम्, उत्वमत्वे च सिद्धवत्कृत्याह--नाभाव इति। "शेषो घ्यसखी"ति घिसंज्ञायाम् "आङो नाऽस्त्रिया"मिति नाभाव इत्यर्थः। ननु "पूर्वत्रासिद्ध"मिति विभक्तिकार्यं प्राक्()पश्चादुत्वमुत्वे इति प्रागुक्तम्। सम्प्रति तु मुत्वे कृते घिसंज्ञायां नाभाव इत्युच्यते। तदिदं पूर्वाऽपरविरुद्धमिति चेत्सत्यम्। यद्विभक्तिकार्यं प्रति मुत्वं निमित्तं न भवति, तदेव विभक्तिकार्यं प्राक् भवति, न त्वन्यदिति विवक्षितम्। इह च नाभावं प्रति मुत्वं निमित्तमिति प्रथमं मुत्वप्रवृत्तेरविरोधः, "न मु ने" इत्यारम्भसामथ्र्यादित्यलम्।

तत्त्व-बोधिनी
न ङिसंबुद्ध्योः ३१२, ८।२।८१

निषेधसामथ्र्यादिति। यदा तु "न ङिसंबुद्द्यो"रित्यत्र षष्ठ()न्ततामश्रित्य "ङ्यन्तस्य संबुद्द्यन्तस्य च पदस्य ने"ति व्यख्यायते, तदा प्रत्ययलक्षणं सुलभमिति तदर्थं निषेधसामथ्र्यानुसरणक्लेशो न कर्तव्य इत्याहुः। पूर्वस्मादपि विधौ स्थानिवत्त्वमाशङ्क्याह--न चेति। षाष्ठीं परिभाषामिति। "वाह ऊ"डित्यत्र ज्ञापतत्वेन तद्देशस्थत्वादिति भावः।

तत्त्व-बोधिनी
एत ईद्बहुवचने ३९०, ८।२।८१

एत ईद्बहुवचने। परिभाषिकस्य बहुवचनस्य ग्रहणे "अमीभि रित्यादिसिद्धावपि जसु "अमी ति न सिध्येत्। न ह्रत्र एकारस्य बहुवचनपरताऽस्र्ति। अतो व्याचष्टे--बह्वार्थोक्ताविति। विभक्तिकार्य प्रागिति। "त्यदादीनामः"इत्यादिसपादसप्ताध्यायीं प्रति "अदसोऽसे"रिति त्रैपादिकसास्त्रस्याऽसिद्धत्वात्, अकृते विभक्तिकार्ये सान्तत्वादुत्वमत्वयोरप्रवृत्तेश्चेति भावः। यदि तु "पूर्वत्रासिद्ध"मित्यत्र कार्याऽसिद्धत्वमिष्येत, तर्हि "अमू""अमु"मित्यादि न सिद्ध्येत्। त्यदाद्यत्वे कृते पररूपात्प्रागेवोत्वमत्वयोः कृतयोः पश्चान्मुत्वकार्यस्याऽसिद्धतया "अतो गुणे"इति पररूपे "अमौ"इत्यादि रूपसिद्धिपर्सङ्गात्। किंच चर्म वस्ते "चर्मवः", सुष्टु वस्ते "सुवः"। अत्र परत्वात्स्कोरिति सलोपे तस्याऽसिद्धत्वा४द्धल्ह्रादिलोपे उक्तरूपं न सिध्यतीति कार्यऽसिद्धि पक्षो हेय एव। अत्र वदन्ति--"सपादसप्ताध्याय्यां विहितं कार्यं प्रति त्रिपाद्यां विहितमसिद्ध"मिति प्रक्रियाग्रन्थोक्तकार्याऽसिद्धिपक्षे "मनोरथः" "अमु"मित्यादि न सिद्ध्येदिति केचुत्। तन्न। प्रक्तियाग्रन्थोक्तेर्हि कार्य प्रति--कार्ये कर्तव्ये, असिद्धं--पूर्वमेव न जातमित्यर्थः। शस्त्राऽसिद्धत्वेऽप्येवमेव फलितोऽर्थः। तदुक्तं कैयटेन---"यच्छास्त्रमुच्चारितं तस्याऽसिद्धत्वमशक्यं कर्तुमित्यसिद्धवचनादतिदेश आश्रीयते"इति। तथा चातिदशेन कार्याऽप्रवर्तकत्वरूपोऽसिद्धधर्मः शास्त्रेऽतिदिश्यमानः कार्याऽसिद्धत्व एव फलति। एवं च "मनोरथ"इत्यत्र उत्वे कर्यव्ये रेफलोपस्य पूर्वमेवाऽप्रवृत्तौ रोरुत्वस्याऽपर्तीघातान्मनोरथसिद्धिरप्त्यूहा। तथा "अमु"मित्यादिसिद्धिरिति कार्याऽसिद्धपक्षे न काप्यनुपपत्तिरिति।