पूर्वम्: ८।३।२२
अनन्तरम्: ८।३।२४
 
सूत्रम्
मोऽनुस्वारः॥ ८।३।२३
काशिका-वृत्तिः
मो ऽनुस्वारः ८।३।२३

मकारस्य पदान्तस्य अनुस्वारः आदेशो भवति हलि परतः। कुण्डं हसति। वनं हसति। कुण्ड याति। वनं याति। हलि इत्येव, त्वम् अत्र। किम् अत्र। पदन्तस्य इत्येव, गम्यते। रम्यते।
लघु-सिद्धान्त-कौमुदी
मोऽनुस्वारः ७७, ८।३।२३

मान्तस्य पदस्यानुस्वारो हलि। हरिं वन्दे॥
न्यासः
मोऽनुस्वारः। , ८।३।२३

पदस्येति स्थानषष्ठी, तच्च पदं मकारेण विशेष्यते, विशेषणेन त तदन्तविधिर्भवतीति मकारान्तपदस्यानुस्वारो विधीयमानोऽलोऽत्यपरिभाषया १।१।५१ मकारस्यैव विज्ञायते, इत्याह--"मकारान्तस्य पदस्य"["मकारस्य पदान्तस्य"--काशिका, पदमञ्जरी च] पदस्य" इति॥
बाल-मनोरमा
मोऽनुस्वारः १२३, ८।३।२३

मोऽनुस्वारः। पदस्येत्यधिकृतम्। म इति षष्ठ()न्तं पदस्य विशेषणं। तदन्तविधिः। हलि सर्वेषामित्यतो हलीत्यनुवर्तते। तदाह-मान्तस्येत्यादिना। अलोन्त्यस्येति। उपतिष्ठत इति शेषः। ततस्च मान्तस्य पदस्य योऽन्त्योऽल् तस्येत्यर्थः। पदान्तस्य मस्येति फलितम्। हरिं वन्द इति। हरिम्-वन्द इति स्थिते मस्यानुस्वारः। गम्यत इति। गम्लृ गतौ। कर्मणि लट्। "भावकर्मणोः" इत्यात्मनेपदे यक्। अत्र मस्य पदान्तत्वाभावान्नानुस्वारः।

तत्त्व-बोधिनी
मोऽनुस्वारः ९७, ८।३।२३

मोऽनुस्वारः। "हलि सर्वेषा"मित्यतो "हली"त्यनुवर्तते "पदास्ये"ति च, तदाह-मान्तस्येत्यादि। हलि किम्?। त्वमत्र। किमत्र।