पूर्वम्: ८।३।२८
अनन्तरम्: ८।३।३०
 
सूत्रम्
डः सि धुट्॥ ८।३।२९
काशिका-वृत्तिः
डः सि ढुट् ८।३।२९

डकारन्तात् पदातुत्तरस्य सकारादेः पदस्य वा धुडागमो भवति। श्वलिट्त्साये, श्वलिट् साये। मधुलिट्त्साये, मधुलिट् साये। परादिकरणं न पदान्ताट् टोरनाम् ८।४।४१ इति ष्टुत्वप्रतिषेधार्थम्।
लघु-सिद्धान्त-कौमुदी
डः सि धुट् ८६, ८।३।२९

डात्परस्य सस्य धुड्वा। षट्त्सन्तः, षट् सन्तः॥
न्यासः
डः सि धुद्?। , ८।३।२९

"उभयनिर्देशे पञ्चमीनिर्देशो बलीयाम्()" (शाक।प।९७) इति "ङः" इति पञ्चम्या "सि" इत्यस्याः सप्तम्याः षष्ठ()आं परिकल्पितायां शकारस्यैव धुडविधीयते, इत्याह--"डकारान्तात्()" इत्यादि। यद्येवम्(), सप्तमीनिर्देशः किमर्शः? लाघवार्थः। "ङः सो धुट्()" इत्युच्यमाने माधाधिक्याट्? गौरवं स्यात्()। अथ "यस्मिन्? विधिस्तदादावल्ग्रहणे" (व्या।प।१२७) इत्येवमर्थः सप्तमीनिर्देशः कस्मान्न विज्ञायते? केवलस्य सकारस्याभावादेव तत्सिद्धेः, पद इत्यधिकाराच्छ। ()आलिटत्याय इत्यत्र धुटि कृते धकारस्य चत्र्वम्()--तकारः। प्रक्रियालाघवार्थं तु तुटि वक्तव्ये धुङ्वचनमुत्तरार्थम्()--"नश्च" (८।३।३०) इत्यत्र धुडयथा स्यात्(), तुण्मा भूदिति। यदि हि स्यात्(), तर्हि किम्()? भवान्त्साय इत्यत्र "नश्छव्यप्रशान" (८।३।७) इति रुः प्रसज्येत? नैतदस्ति; अम्पर इत्यत्रानवत्र्तते, न चेहाम्परस्तकारोऽस्ति। अथथेहापि भूतपूर्वेणोकारेणाम्परः स्यात्()? एवमप्यसिद्धत्वात्? तुटो रुत्वं न भविष्यति। तस्मात्तुडेव वक्तव्यः। एवं तर्हि वैचित्र्यार्थ धुडवचनम्()। अथ किमर्थं धुट्? पराधिः क्रियते, न द्युगेव पूर्वान्तः क्रियेत, एवं हि "शि तुक्()" ८।४।३० इत्यत्र तुग्ग्रहणं न कत्र्तव्यं भवति, धुगेव हि तत्रानुवर्त्तिष्यते? इत्यत आह--"परादिकरणम्()" इत्यादि। यदि पूर्वान्तः क्रियेत, ()आलिट्त्साय इत्यत्र धुकः ष्टुत्वं स्यात्()। परादिकरणे तु टकारस्य पदान्तत्वं न विहितमिति "न पदान्ताट्टोरनम्()" ८।४।४१ इति प्रतिषेधः सिध्यति। तदर्थं परादिकरणम्()॥
बाल-मनोरमा
ङ सि धुट् १३१, ८।३।२९

ङः सि धुट्। "ड" इति पञ्चमी। ततश्च तस्मादित्युत्तरस्येति परिभाषया "सी"ति सप्तमी षष्ठी सम्पद्यते-डात्परस्य सस्येति। "हे मपरे वे"त्यतो वेत्यनुवर्तते। तदाह--डात्परस्येत्यादिना। "तस्मिन्निति निर्दिष्टे" इति नेह भवति, "उभयनिर्देशे पञ्चमीनिर्देशो बलीयान् परत्वा"दिति न्यायात्। धुट् चतुर्थधकारनिर्देशः। टकार इत्। उकार उच्चारणार्थः। थुडिति द्वितीयविधौ तत्सामथ्र्याच्चत्वं न स्यात्। अन्यथा तकारमेव विदध्यात्। चतुर्थविधेस्तु न तत्सामथ्र्यम्, प्रथमविधौ तस्य चयो द्वितीया इत्यापत्तौ तन्निवृत्त्या चरितार्थत्वात्। षट् सन्त इति। षषिति षकारस्य जश्त्वेन डः, षड्-सन्त इति स्थिते चत्र्वस्यासिद्धत्वाड्डात्परत्वात्सस्य धुट् आद्यवयवः। तस्य चर्त्वेन तकारः। "चयो द्वितीया" इति तु नेह, चत्र्वस्यासिद्धत्वात्। ततो लक्ष्यभेदाड्डस्य चर्त्वेन टः।

तत्त्व-बोधिनी
ङः सि धुट् १०५, ८।३।२९

ङः सि धुट्। "उभयनिर्देशे पञ्चमीनिर्देशो वलीयान्परत्वा"दित्यभिप्रेत्याह--सस्येति। सीति सप्तमी निर्देशस्तु लाघवार्थः। षट्सन्त इति। धुटश्चर्त्वेन तकारः। "चयो द्वितीयाः--" इति तस्य थो न, चत्र्वस्याऽसिद्धत्वात्। अतएव धुडभावे "षट्सन्त" इत्यत्र टस्य ठो न भवति। नन्वेवमपि "ङः सि धु"गिति धुग्विधीयतां डकारस्य सकारे परे धु"गिति व्याख्यानसंभवात्किमनेन धुटः परादित्वाभ्युपगमेन?। मैवम्। पूर्वान्तत्वे तु न पदान्ताट्टोरनामिति निषेधाप्रवृत्त्या धकारस्य ष्टुत्वप्रसङ्गात्। अतएव वक्ष्यमाणस्तुगिहैव न कृतः। डस्य तुकि ष्टुत्वे तस्याऽसिद्धत्वेन चयो द्वितीया इत्यस्यापि प्रसङ्गाच्च। इग धुड्विकल्पेन रूपद्वये सति टकारनकारविसर्गाणां द्वित्वविकल्पात्षोडश रूपाणि। खयः शर इति द्वित्वे द्वातिं()रशत् (३२)। शरोऽचीति निषेधोऽत्र न प्रवर्तते। तस्य सौत्रद्वित्वमात्रविषयत्वस्योक्तत्वात्। न च चत्र्वस्यासिद्धत्वात्खयः परत्वमेव नास्तीति शङ्क्यम्। "पूर्वत्रासिद्धीयमद्वित्वे" इत्युक्तेः॥