पूर्वम्: ८।३।२९
अनन्तरम्: ८।३।३१
 
सूत्रम्
नश्च॥ ८।३।३०
काशिका-वृत्तिः
नश् च ८।३।३०

नकारान्तात् पदातुत्तरस्य सकारस्य वा धुडागमो भवति। भवान्त्साये, भवान् साये। महान्त्साये, महान् साये। धुटः चर्त्वस्य च असिद्धत्वात् नश्छव्यप्रशान् ८।३।७ इति रुत्वं न भवति।
लघु-सिद्धान्त-कौमुदी
नस्च ८७, ८।३।३०

नान्तात्परस्य सस्य धुड्वा। सन्त्सः, सन्सः॥
न्यासः
नश्च। , ८।३।३०

चकारो धुडित्यनुकर्षणार्थः। ननु च स्वरितत्वादेवानुवर्त्तिष्यते, न चोत्तरत्रानुवर्त्तिष्यते, आगमान्तरस्योपादानात्(), अस्वरितत्वाद्वा? सत्यमेतत्(); प्रतिपत्तिगौरवं तु मन्दधियां स्यात्()। अथ भवान्त्साय इत्यत्र धुटश्चात्वे कृते "नश्छव्यप्रशान्()" (८।३।७) इति रुः कस्मान्न भवति? इत्याह--"धुटश्चत्र्वस्य चासिद्धत्वात्()" इत्यादि। यदि केवलस्य चत्वेस्य धुटो वासिद्धत्वं स्यात्(), तथापि रुत्वप्राप्तेरसम्भव एव, किं पुनरुभयोरसिद्धत्वे सतीति रुत्वप्राप्तेरत्यन्तासभ्भवं दर्शयितुमुभयोग्र्रहणम्()। क्वचित्? "घुटश्चत्र्वस्यासिद्धत्वात्()" इति पाठः। तत्राप्ययमर्थो वेदितव्यः--विनापि हि चकारेण तदर्थो गम्यते, यताहरहर्नयमानो वैवस्थतो गाम()आं पुरुषं पशुमित्यादौ वाक्ये। अथ वा--अस्मि पाठे धुटो यच्चार्त्वं तस्यासिद्धत्वादित्यर्थः। ननु धुडप्यसिद्ध एव, तत्? कुतश्चत्र्वस्यासिद्धावमुच्यते? पुनर्धुटोऽपि? नैतत्(); सत्यपि धुटि विना चर्त्वेन रुत्वप्रप्तिरेव नास्ति। ततो यस्मिन्? सति रुत्वमादाङक्यते, तस्यासिद्धत्वं युक्तनुक्तमिति भावः। कथं पुनः सत्यपि चत्र्वस्यासिद्धत्वे रुत्वमाक्षङ्()कितम्(), यावताऽम्परे छवि तदुच्यते, न चेहाम्परत्वमस्ति? भूतपूर्वेणोकारेणाम्परत्वमस्तीति युगतमाशङकितम्()। ननु च साम्प्रतिकाभावे भूतपूर्वगतिर्भवति, अस्ति साम्प्रतिकत्वमन्यत्राम्परत्वं रुत्वस्य? सत्यमेतत्(); अध्यारोप्यैवमुक्तम्(); एवं मन्यते--भवतु नाम, भूतपूर्वेणोकारेणाम्परत्वं प्रसज्यत इत्याह--"धुटश्मत्र्वस्यासिद्धत्वात्()" इति॥
बाल-मनोरमा
नश्च १३२, ८।३।३०

नश्च। "सि धुट्" इति, "वे"ति चानुवर्तते। न इति पञ्चमी। तस्मादित्युत्तरस्येति परिभाषया सीति षष्ठी सम्पद्यते। तदाह-नकारान्तात्परस्येति। सन्त्स इति। धुटि धस्य चत्र्वम्।