पूर्वम्: ८।३।४६
अनन्तरम्: ८।३।४८
 
सूत्रम्
अधःशिरसी पदे॥ ८।३।४७
काशिका-वृत्तिः
अधःशिरसी पदे ८।३।४७

अधस् शिरसित्येतयोः विसर्जनीयस्य समासे अनुत्तरपदस्थस्य सकारः आदेशो भवति पदशब्दे परतः। अधस्पदम्। शिरस्पदम्। अधस्पदी। शिरस्पदी। समासे इत्येव, अधः पदम्। अनुत्तरपदस्थस्य इत्येव, परमशिरःपदम्। अधस्पदम् इति मयूरव्यंसकादित्वात् समासः।
न्यासः
अधःशिरसी पदे। , ८।३।४७

"अथःशिरसो" इति। सुब्व्यत्ययेन षष्ठ्याः स्थाने प्रथमा। "पदशब्दे परतः" इति एतेन पद इति स्वरूपस्य ग्रहणम्(); न पारिभाषिकस्येति दर्शयति। यदि हि पारिभाषिकस्य ग्रहणं स्यात्(), पदग्रहणमनर्थकं स्यात्()। समासाधिकारादेव तस्य लब्धत्वादित्यभिप्रायः। "शिरस्पदम्()" इति। षष्ठीसमासः॥