पूर्वम्: ८।४।२९
अनन्तरम्: ८।४।३१
 
सूत्रम्
हलश्च इजुपधात्॥ ८।४।३०
काशिका-वृत्तिः
हलश्चेजुपधात् ८।४।३१

कृत्यचः इति वर्तते। हलादिः यो धातुरिजुपधः तस्मात् परो यः कृत्प्रत्ययः तत्स्थस्थ नकारस्य अच उत्तरस्य उपसर्गस्थान् निमित्तादुत्तरस्य विभाषा णकारादेशो भवति। प्रकोपणम्, प्रकोपनम्। परिकोपणम्, परिकोपनम्। हलः इति किम्? प्रेहणम्। प्रोहणम्। इजुपधातिति किम्? प्रवपणम्। परिवपणम्। कृत्यचः इति नित्ये प्राप्ते विकल्पः। अचः इत्येव, परिभुग्नः। इजुपधस्य सर्वस्य हलन्तत्वादिह हल्ग्रहणमादिविशेषणम्।
न्यासः
हलश्चेजुपधात्?। , ८।४।३०

चकारो विबाषेत्यनुकर्षणार्थः। तेनोत्तरत्र विधिर्नित्यो भवति। "प्रकोपधम्()" ति। "कुप क्रोधे" (धा।पा।१२३३)। "प्रहणम्(), प्रोहणम्()" इति। "ईह चेष्टायाम्()" (दा।पा।६३२), "ऊह वितर्के" (दा।पा।६४८)। अत्र "कृत्यचः" ८।४।२८ इति नित्यमेव भवति। कथं पुनज्र्ञायते--हल्ग्रहणमिहादेर्विशेषणम्(), न त्वन्तस्य? इत्यत आह--"इजुपधस्य" इत्यादि। सर्व एवेजुपधा धातवो हलन्ता एवेतीजुपधादेव हलन्तत्वे लब्धे हल्ग्रहणमं क्रियमाणमादेर्विशेषणं विज्ञायते॥
बाल-मनोरमा
हलश्चेजुपधात् ६५८, ८।४।३०

हलश्चेजुपधात्। हलन्तादिति नार्थः, इजुपधस्य हलन्तत्वाऽव्यभिचारात्। किंतु हलादेरितिविवक्षितम्। तदाह-- हलादेरिजुपधादिति। "परस्ये"ति शेषः। प्रोहणीयमित्यादिप्रत्युदाहरणे तु "कृत्यच" इति नित्यमेव णत्वम्।

तत्त्व-बोधिनी
हलश्चेजुपधात् ५४८, ८।४।३०

हलश्च। इजुपधस्य हलन्तत्वाऽव्यभिचाराद्धल इत्यनेन तदादित्वं लक्ष्यत इत्याह-- हलादेरिति। प्रकोपणीयमिति। "कुप् क्रोधे"। प्रोहणीयणमिति। ऊह वितर्के। अत्र "कृत्यचः" इति नित्यमेव णत्वम्। एवं प्रवपणीयमित्यत्रापि। "डुवप् बीजसंताने"।