पूर्वम्: ८।४।४५
अनन्तरम्: ८।४।४७
 
सूत्रम्
अनचि च॥ ८।४।४६
काशिका-वृत्तिः
अनचि च ८।४।४७

अचः इति वर्तते, यरः इति च। अनच्परस्य अच उत्तरस्य यरो द्वे वा भवतः। दद्ध्यत्र। मद्ध्वत्र। अचः इत्येव, स्मितम्। ध्मातम्। यणो मयो द्वे भवत इति वक्तव्यम्। केचिदत्र यणः इति पञ्चमी, मयः इति षष्ठी इति व्याचक्षते। तेषाम् उल्क्का, वल्म्मीकः इत्युदाहरणम्। अपरे तु मयः इति पञ्चमी, यणः इति षष्ठी इति। तेषाम् दध्य्यत्र, मध्व्वत्र इत्युदाहरणम्। शरः खयो द्वे भवत इति वक्तव्यम्। अत्र अपि यदि शरः इति पञ्चमी, खयः इति षष्ठी, तदा स्त्थाली, स्त्थाता इति उदाहरणम्। अथवा खय उत्तरस्य शरो द्वे भवतः। वत्स्सः। इक्ष्षुः। क्ष्षीरम्। अप्स्सराः। अवसाने च यरो द्वे भवत इति वक्तव्यम्। वाक्क, वाक्। त्वक्क्, त्वक्। षट्ट्, षट्। तत्त्, तत्।
लघु-सिद्धान्त-कौमुदी
अनचि च १८, ८।४।४६

अचः परस्य यरो द्वे वा स्तो न त्वचि। इति धकारस्य द्वित्वेन सुध्ध्य् उपास्य इति जाते॥
न्यासः
अनचि च। , ८।४।४६

"अनच्परस्य" इति। अचोऽन्योऽनच्(), अनच्? परो यस्मात्? सोऽयमनच्परः। "दद्ध्यत्र" इति। अत्राचः परो धकारो यर्(), तस्यानचि यकारे परतो द्विर्वचनम्()। "झलां जश्? झशि" (८।४५३) इति धकारस्य दकारः। "मद्ध्वत्र" इति। अत्रानच्परस्य धकार्सय द्वर्वचनम्()। "यणो मयः" इत्यादि। अच उत्तरलस्य यरो द्विर्वचनमुक्तम्()। अनचि यण उत्तरस्य मयोऽचि परतो न प्राप्नोतीत्युपसंख्यायते। किं पुनरिहोदाहरणम्()? इत्याह--"केचित्()" इत्यादि। "उत्क्का, वल्म्मौकः" इत्यादि। यकाराद्यन उत्तरस्य ककारस्य मकारस्य च मयो द्विर्वचनम्()। "दध्य्यत्र, मध्व्वत्र" इति। धकारान्मय उत्तरस्य यकारस्य च यणो द्विर्वचनम्()। "शरः खयः" इत्यादि। "स्त्थालौ, स्त्थाता" इति सकाराच्छर उत्तरस्य खयस्थकारस्य द्विर्वचनम्()। "वत्स्सः" इति। तकारात्? खय उत्तरस्य सकगारस्य शरो द्विर्वचनम्()। "इक्च्षु_, कष्वीरम्()" इति। ककारात्? खय उत्तरस्य खरः षकारस्य द्विर्वचनम्()। "अप्स्सराः" इति। पकारात्? खयः परस्य सकारस्य शरो द्विर्वचनम्()। "अवसाने द्वे" इत्यादि। "अवचि च" इति पर्युदासाश्रयणादिदमुज्यते। प्रसज्यप्रतिषेधेतु "यनोऽनुनासिकेऽनुनासिको वा" ८।४।४४ इत्यतो वाग्रहणमनुवर्त्त्यं शक्यनिदमकर्त्तुम्()। नैतत्()। प्रसज्यप्रतिषेधे हि विधिवाक्यत्वं सूत्रस्य नोपपद्यते, ततश्च केनचिद्()द्विर्वचनं स्यात्()? तस्मादेव प्रतिषेध वाक्याद्विधिवाक्यतास्यानृमास्यत इत्यदोवः। प्रसज्यप्रतिषेधे सति प्रतिपत्तदिगौरवभयात्? पर्युदासाश्रयणम्()॥
बाल-मनोरमा
अनचि च ५०, ८।४।४६

सुध्? य् इति स्थिते इति। धकारस्य द्वित्वमिति वक्ष्यमाणेनान्वयः। केन सूत्रेणेत्यत आह- अनचि चः। "यरोऽनुनासिकेऽनुनासिको वे"त्यतो "यर" इति ष,()ट()न्तं "वे"ति चानुवर्तते। "अचो रहाभ्यां द्वे" इत्यतोऽच इति पञ्चम्यन्तं "द्वे" इति चानुवर्तते। न अच अनच्, तस्मिन् अनचीति न पर्युदासः, तथा सति "नञिवयुक्तमन्यसदृशे तथाह्रर्थगति"रिति न्यायेनाऽज्भिन्ने हलीत्यर्थः स्यात्। तथा सति लाघवाद्धलीत्येव वदेत्। रामादित्याद्येवसानेषु च द्वित्वं न स्यात्। अतोऽचि न भवतीत्यसमर्थसमासमाश्रित्य प्रतिषेधपरं वाक्यान्तरम्। तदाह-अचः परस्येत्यादिना। इति धकारस्येति। अनेन सूत्रेण धकारस्य द्विरुच्चारणमित्यर्थः। धकारस्य उकारादचः परत्वादच्परकत्वाऽभावाच्चेति भावः।

तत्त्व-बोधिनी
अनचि च ४३, ८।४।४६

अनचि च। यरो द्वे वेति। "यरोऽनुनासिके" इति सूत्राद्यरो वेति चानुवर्तते। "अचो रहाभ्या"मिति सूत्रादयो द्वे इति च, तदाह-अचः परस्येत्यादि। एवं चात्र "वा"ग्रहणानुवृत्त्यैवेष्टसिद्धेः "त्रिप्रभृतिषु शाकटायनस्य" "सर्वत्र शाकल्यस्य" दीर्घादाचार्याणा"मिति च सूत्रत्रयं नारम्भणायमिति भावः। अच इति किम्?, "तादात्म्य"मित्यादौ मस्य द्वित्वं मा भूत्। "अनची"ति यदि पर्युदासः स्यात्ततो "नञिवयुक्तमन्यसदृशे तथा ह्रर्थगति"रिति न्यायादज्भिन्नेऽच्सदृशे वर्णे हलीत्यर्थः स्यात्, ततो लाघबाद्धलीत्येव वदेत्, तस्मात्प्रसज्यप्रतिषेध इत्याह-न त्वचीति। एवं चाबसानेऽपि द्वित्वं भवति-वाक्क् वाक्।