पूर्वम्: ८।४।५३
अनन्तरम्: ८।४।५५
 
प्रथमावृत्तिः

सूत्रम्॥ खरि च॥ ८।४।५४

पदच्छेदः॥ खरि ७।१ चर् १।१ ५३ झलाम् ६।३ ५२ संहितायाम् ७।१ ८।२।१०८

अर्थः॥

खरि परतः झलां चर् आदेशो भवति॥

उदाहरणम्॥

भेत्ता, भेत्तुम्, भेत्तव्यम्, युयुत्सते, आरिप्सते, आलिप्सते॥
काशिका-वृत्तिः
खरि च ८।४।५५

खरि च परतो झलां चरादेशो भवति। जश्ग्रहणं न अनुवर्तते, पूर्वसूत्रे च अनुकृष्तत्वात्। भेत्ता। भेत्तुम्। भेत्तव्यम्। युयुत्सते। आरिप्सते। आलिप्सते।
लघु-सिद्धान्त-कौमुदी
खरि च ७४, ८।४।५४

खरि झलां चरः। इत्युदो दस्य तः। उत्थानम्। उत्तम्भनम्॥
न्यासः
स्वरि च। , ८।४।५४

"युयुत्सते" इति युधेः सन्(), "पूर्ववत्? सनः" १।३।६२ इत्यात्मनेपदम्()। "आरिप्सते" इति। रत्रिलभिभ्यां सन्()। "सनि मीमा" ७।४।५४ इत्यादिनेस्(), "स्कोः संयोगाद्योरन्त च" ८।२।२९ इति सकारलोपः। "अत्र लोपोऽब्यासस्य" ७।४।५८ इत्यभ्यासलोपः। समुच्चयार्थश्चकारः, न केवलमब्यासे चरो भवन्ति, अपि तु खरि च। असति ह्र()स्मश्चकारेऽनन्तरविहितं यच्चर्त्त्वं तत्? खरादावभ्यासनिमित्ते प्रत्यये स्यात्()--तिष्ठासतीत्यादौ, न तु "चखाद" इत्यादावपीति कस्यचिन्मन्दभियो भ्रान्तिः स्यात्()॥
बाल-मनोरमा
खरि च १२२, ८।४।५४

केनेत्यत आह--खरि च। "झलाञ्जश्झशी"त्यतो झलामिति , "अभ्यासे चर्चे"त्यतश्चरिति चानुवर्तते। तदाह--खरि पर इत्यादिना। इति जकारस्येति। स्थानत आन्तंक्यादिति भावः। ततः छत्वं नतु प्रागुत्यपि बोध्यम्। छत्वस्य चुत्वचर्त्वे प्रत्यसिद्धत्वात्। हलो यमामिति सूत्रस्थभाष्यसंमतसूत्रक्रमे तु चुत्वेन जकारे कृते शस्य छत्वं ततो जकारस्य चत्र्वम्। नतु छत्वात् प्राक् चत्र्वम्, चर्त्वं प्रतिछत्वस्याऽसिद्धत्वात्। तच्छिव इति। स चासौ शिवश्चेति, तस्य शिव इति वा विग्रहः। "चोः कृ"रिति कुत्वं तु न, श्चुत्वस्याऽसिद्धत्वात्।

छत्वममीति। "शश्छोऽटी"ति सूत्रेऽटीति विहाय अमीति वक्तव्यमित्यर्थः। "शश्छोऽमी"ति सूत्रं पठनीयमिति यावत्। तच् श्लोकेनेति। स चासौ श्लोकश्च,तस्य श्लोक इति वा विग्रहः। लकारस्य अड्बहिर्भूतत्वात्तत्परकस्य शकारस्य सूत्रपाठतः छत्वे अप्राप्ते वार्तिकमिदम्। वाक्श्च्योततीति। अत्र तु कुत्वं भवत्येव, चकारस्य स्वाभाविकतया श्चुत्वनिष्पन्नत्वाऽभावेन असिद्धत्वाभावात्। अत्र चकारस्य अम्बर्हिर्भूतत्वात्तत्परकशकारस्यात्र न छत्वम्।