पूर्वम्: ८।४।६०
अनन्तरम्: ८।४।६२
 
सूत्रम्
झयो होऽन्यतरस्याम्॥ ८।४।६१
काशिका-वृत्तिः
झयो हो ऽन्यतरस्याम् ८।४।६२

झयः उत्तरस्य पूर्वसवर्णादेशो भवति अन्यतरस्याम्। वाग्घसति, वाघसति। स्वलिड् ढसति, श्वलिड् हसति। अग्निचिद् धसत्। अग्निचिद् हसति। सोमसुद् धसति, सोमसुद् हसति। त्रिष्टुब् भसति, त्रिष्टुब् हसति। झयः इति किम्? प्राङ् हसति। भवान् हसति।
लघु-सिद्धान्त-कौमुदी
झयो होऽन्यतरस्याम् ७५, ८।४।६१

झयः परस्य हस्य वा पूर्वसवर्णः। नादस्य घोषस्य संवारस्य महाप्राणस्य तादृशो वर्गचतुर्थः। वाग्घरिः, वाघरिः॥
न्यासः
झयो होऽन्यतरस्याम्?। , ८।४।६१

"वाग्धसति" इत्यादावुदाहरणे हकारस्य महाप्राणस्यान्तरतम्यात्? तादृश एव घकारादयो वर्गचतुर्था भवन्ति। अन्यतरस्यांग्रहणं पूर्वविध्योर्नित्यत्वज्ञापनार्थम्()॥
बाल-मनोरमा
झयो होऽन्यतरस्याम् १२०, ८।४।६१

झयो हः। झय इति पञ्चमी। "परस्ये"त्यध्याहार्यम्। "ह" इति। षष्ठी। "उदः स्थास्तम्भो"रित्यतः "पूर्वस्ये"ति, "अनुस्वारस्य ययी"त्यतः "सवर्ण" इति चानुवर्तते, तदाह--इयः परस्येत्यादिना। "वाग्घरि"रित्युदाहरणम्। वाच्शब्दश्चकारान्तः, कुत्वं जश्त्वम्। वाग्-हरिरिति स्थिते हकारस्य पूर्वसवर्णविधौ गकारः पूर्वो निमित्तम्, तत्सवर्णाः कखगघङाः पञ्च। तेषां हकारेण स्थानिना स्थानत आन्तर्यमविशिष्टम्। आभ्यन्तरप्रयत्नसाम्यं तु पञ्चानामपि हकारेण स्थानिना न विद्यते, स्पृष्टविवृतप्रयत्नबेदात्। अतो बाह्रयत्नत आन्तर्यमादाय पञ्चस्वन्यतमव्यवस्थामाह--घोषवत इत्यादिना। स्थानीभूतो हकारो घोषनादसंवानमहाप्राणाख्ययत्नचतुष्टयवान्, तस्य क-ख-ग-घ-ङेषु प्रथमतृतीयपञ्चमा न भवन्ति, तेषामल्पप्राणत्वात्। द्वितीयः खकारोऽपि न भवति, तस्याऽघोषस्वासविवारयत्नकत्वात्। चतुर्थस्तु घकारो घोषनादसंवारमहाप्राणवान्। अतः स एव घकारो हकारस्य (स्थाने) भवतीत्यर्थः। ततश्च वाग्घरिरिति भवति। पूर्वसवर्णभावे तु वाग् हरिरिति रूपम्।