Kumbhaghonam Edition
11. स्त्रीपर्व
स्त्रीपर्व - अध्याय 001
॥ श्रीः ॥
11.1. अध्यायः 001
Mahabharata - Strii Parva - Chapter Topics
सञ्जयेन पुत्रादीन्प्रति शोचतो धृतराष्ट्रस्य समाश्वासनम्॥ 1 ॥Mahabharata - Strii Parva - Chapter Text
11-1-0 (64780)
श्रीवेदव्यासाय नमः। 11-1-0x (5307)
नारायणं नमस्कृत्य नरं चैव नरोत्तमम्।
देवीं सरस्वतीं व्यासं ततो जयमुदीरयेत्॥ 11-1-1 (64781)
जनमेजय उवाच। 11-1-1x (5308)
हते दुर्योधने चैव हते सैन्ये च सर्वशः।
धृतराष्ट्रो महाराज श्रुत्वा किमकरोन्मुने॥ 11-1-1 (64782)
तथैव कौरवो राजा धर्मपुत्रो महामनाः।
कृपप्रभृतयश्चैव किमकुर्वत ते त्रयः॥ 11-1-2 (64783)
अश्वत्थाम्नः कृतं कर्म शापश्चान्योन्यकारितः।
वृत्तान्मुत्रं ब्रूहि यदभाषत सञ्जयः॥ 11-1-3 (64784)
वैशम्पायन उवाच। 11-1-4x (5309)
हते पुत्रशते दीनं छिन्नशाखमिव द्रुमम्।
पुत्रशोकाभिसन्प्तं धृतराष्ट्रं महीपतिम्॥ 11-1-4 (64785)
ध्यानमूकत्वमापन्नं चिन्तया समभिप्लुतम्।
सञ्जयो जयतां श्रेष्ठ राजानं वाक्यमब्रवीत्॥ 11-1-5 (64786)
किं शोचसि महाराज नास्ति शोके सहायता।
अक्षौहिण्यो हताश्चाष्टौ दश चैव विशाम्पते।
निर्जितेयं वसुमती शून्या स्थास्यति केवलम्॥ 11-1-6 (64787)
नानादिग्भ्यः समागम्य नानाजात्या नराधिपाः।
सहितास्व पुत्रेण सर्वे वै निधनं गताः॥ 11-1-7 (64788)
पितॄणां पुत्रपौत्राणां ज्ञातीनां सुहृदां तथा।
गुरूणां चानुपूर्व्येण ये चान्येऽनुचरा हताः।
प्रेतकार्याणि सर्वाणि कारयस्व नराधिप॥ 11-1-8 (64789)
वैशम्पायन उवाच। 11-1-9x (5310)
तच्छ्रुत्वा करुणं पुत्रपौत्रवधार्दितः।
पपात भुवि दुर्धर्षो वाताहत इव द्रुमः॥ 11-1-9 (64790)
धृतराष्ट्र उवाच। 11-1-10x (5311)
हतपुत्रो हतामात्यो हतसर्वसुहृज्जनः।
दुःखं नूनं गमिष्यामि विचरन्पृथिवीमिमाम्॥ 11-1-10 (64791)
किन्नु बन्धुविहीनस्य जीवितेन ममाद्य वै।
लूनपक्षस्य इव मे वैनतेयस्य सञ्जय॥ 11-1-11 (64792)
हृतराज्यो हतसुहृद्वतपुत्रश्च वै तथा।
न भ्राजिष्ये महाप्राज्ञ क्षीणरश्मिरिवांशुमान्॥ 11-1-12 (64793)
न कृतं सुहृदां वाक्यं जामद्ग्न्यस्य च॥
सभामध्ये तु कृष्णेन यच्छ्रेयोऽभिहितं मम। 11-1-13 (64794)
अलं वैरेण ते राजन्पुत्रः संगृद्यतामिति।
तच्च वाक्यमकृत्वाऽहं भृशं तप्यामि दुर्मतिः॥ 11-1-14 (64795)
न हि श्रोताऽस्मि भीष्मस्य शर्मयुक्तं प्रभाषितम्॥ 11-1-15 (64796)
दुर्योधनस्य च तथा वृषभस्येव नर्दतः।
दुःशासनवधं श्रुत्वा कर्णस्य च विपर्ययम्।
द्रोणसूर्योपरागं च हृदयं मे विदीर्यते॥ 11-1-16 (64797)
न स्मराम्यात्मनः किञ्चित्पुरा सञ्जय दुष्कृतम्।
यस्येदं फलमद्येह मया मूढेन भुज्यते॥ 11-1-17 (64798)
नूनं व्यपकृतं किञ्चिन्मया पूर्वेषु जन्मसु।
येन मां दुःखभागेषु धाता कर्मसु युक्तवान्॥ 11-1-18 (64799)
परिणामश्च वयसः सर्वबन्धुक्षयश्च मे।
सुहृन्मित्रविनाशश्च दैवयोगादुपागतः॥ 11-1-19 (64800)
कोन्वस्ति दुःखिततरो मत्तोऽन्यो हि पुमान्भुवि॥ 11-1-20 (64801)
तन्मामद्यैव पश्यन्तु पाण्डवाः संशितव्रताः।
विवृतं ब्रह्मलोकस्य दीर्घमध्वानमास्थितम्॥ 11-1-21 (64802)
वैशम्पायन उवाच। 11-1-22x (5312)
तस्य लालप्यमानस्य बहु शोकं विचिन्वतः।
शोकापहं नरेन्द्रस्य सञ्जयो वाक्यमब्रवीत्॥ 11-1-22 (64803)
शोकं राजन्व्यपनुद श्रुतास्ते वेदनिश्चयाः।
शास्त्रागमाश्च विविधा वृद्धेभ्यो नृपसत्तम॥ 11-1-23 (64804)
सृञ्जये पुत्रशोकार्ते यदूर्चुर्मुनयः पुरा।
यथा यौवनजं दर्पमास्थिते ते सुते नृप॥ 11-1-24 (64805)
न त्वया सुहृदां वाक्यं ब्रुवतामवधारितम्।
स्वार्थश्च न कृतः कश्चिल्लुब्धेन फलगृद्धिना॥ 11-1-25 (64806)
असिनैवैकधारेण स्वबुद्ध्या तु विचेष्टितम्।
प्रायशोऽवृत्तसम्पन्नाः सततं पर्युपासिताः॥ 11-1-26 (64807)
यस्य दुःशासनो मन्त्री राधेयश्च दुरात्मवान्।
शकुनिश्चैव दुष्टात्मा चित्रसेनश्च दुर्मतिः॥ 11-1-27 (64808)
अनल्पं येन वै सर्वं शल्यभूतं कृतं जगत्।
कुरुवृद्धस्य भीष्मस्य गान्धार्या विदुरस्य च॥ 11-1-28 (64809)
द्रोणस्य च महाराज कृपस्य च शरद्वतः।
कृष्णस्य च महाबाहो नारदस्य च धीमतः॥ 11-1-29 (64810)
ऋषीणां च तथाऽन्येषां व्यासस्यामिततेजसः।
न कृतं तेन वचनं तव पुत्रेण भारत।
क्षपिताः क्षत्रियाः सर्वे शत्रूणां वर्धितं यशः॥ 11-1-30 (64811)
अधर्मसंयुतं किञ्चिन्नित्यं युद्धमिति ब्रुवन्।
मध्यस्थो हि त्वमप्यासीर्न क्षमं किञ्चिदुक्तवान्॥ 11-1-31 (64812)
धूर्धरेण त्वया भारस्तुलया न समं धृतः॥ 11-1-32 (64813)
आदावेव मनुष्येण वर्तितव्यं यथाक्रमम्।
यथा नातीतमर्थं वै पश्चात्तापेन युज्यते॥ 11-1-33 (64814)
पुत्रगृद्ध्या त्वया राजन्प्रियं तस्य चिकीर्षितम्।
पश्चात्तापमिमं प्राप्तो न त्वं शोचितुमर्हसि॥ 11-1-34 (64815)
मधु यः केवलं दृष्ट्वा प्रपातं नानुपश्यति।
स भ्रष्टोमधुलोभेन शोचत्येव यथा भवान्॥ 11-1-35 (64816)
अर्थान्न शोचन्प्राप्नोति न शोचन्विन्दते सुखम्।
न शोचञ्श्रियमाप्नोति न शोचन्विन्दते जयम्॥ 11-1-36 (64817)
स्वयमुत्पादयित्वाऽग्निं परीतस्तेन योऽग्निना।
दह्यमानः पुनस्तापं भजते न स पण्डितः॥ 11-1-37 (64818)
त्वयैव ससुतेनायं वाक्यवायुसमीरितः।
लोभाज्येन च संसिक्तो ज्वलितः पार्थपावकः॥ 11-1-38 (64819)
तस्मिन्समिद्धे पतिताः शलभा इव ते सुताः।
तान्केशवाग्निनिर्दग्धान्न त्वं शोचितुमर्हसि॥ 11-1-39 (64820)
यच्चाश्रुपातकलिलं वदनं वहसे नृप।
अशास्त्रदृष्टमेतद्धि न प्रशंसन्ति पण्डिताः॥ 11-1-40 (64821)
विस्फुलिङ्गा इव ह्येतान्दहन्ति किल मानवान्।
जहीहि मन्युं बुद्ध्या वै धास्यात्मानमात्मना॥ 41 ॥ 11-1-41 (64822)
वैशम्पायन उवाच। 11-1-42x (5313)
एवमाश्वासितं तेन सञ्जयेन महात्मना।
विदुरो भूय एवाह बुद्धिपूर्वं परन्तप॥ ॥ 11-1-42 (64823)
इति श्रीमन्महाभारते स्त्रीपर्वणि जलप्रदानिकपर्वणि प्रथमोऽध्यायः॥ 1 ॥
Mahabharata - Strii Parva - Chapter Footnotes
11-1-3 अश्वत्थाम्नः श्रुतं कर्म शापश्चान्योन्यकारित इति क.पाठः। अश्वत्थान्नः श्रुतं कर्म शापादन्योन्यकरितादिति झ.पाठः। तत्र अन्योन्यं कारितात्पाण्डवानां गर्भे ब्रह्मशिरोस्त्रं पतत्वित्यश्वत्थान्ना शापो दत्तः। सहस्रवर्षाणि गलत्कुष्ठो भविष्यसीत्यश्वत्थाम्नः कृष्णेन शापो दत्त इत्यर्थः॥ 11-1-6 शून्या राजभिर्हीना ॥ 11-1-8 गुरूणां चानुपूर्व्येण प्रेतकार्याणि कारयेति झ.पाठः। तत्र आनुपूर्व्येणेति। आदौ हतानामादावेव पश्चाद्धतानां पश्चादेवेति पौर्वापर्येण प्रेतानां परेतानां कार्याणि पारलौकिकानि कर्माणीत्यर्थः॥ 11-1-15 श्रोतास्मि श्रुतवानस्मि॥ 11-1-16 विपर्ययं विनाशम्॥ 11-1-21 तन्मामिति। अद्यैव प्राणत्यागं करिष्यामीत्यर्थः॥ 11-1-22 शोकं वितन्वत इति झ.पाठः। तत्र वितन्वतः विरचयत इत्यर्थः॥ 11-1-23 अवृत्तेति च्छेदः॥ 11-1-28 शल्यश्च येन वै सर्वं इति झ.पाठः। तत्र शल्यश्च मन्त्रीति पूर्वेणान्वयः॥ 11-1-31 न धर्मः स कृतः कश्चिन्नित्यं युद्धमभीप्सता। अल्पबुद्धिरहकारी नित्यं युद्धमिति ब्रुवन्। क्रूरो दुर्मर्षणो नित्यमसन्तुष्टश्च वीर्यवान्। श्रुतवानसि मेधावी सत्यवांश्चैव नित्यदा। न मुह्यान्तीदृशाः सन्तो बुद्धिमन्तो भवादृशाः। न धर्मः सत्कृतः कश्चित्तव पुत्रेण मारिष। इति झ.पाठः। अत्र ब्रुवन् दुर्योधनं आसीदिति शेषः॥ 11-1-32 दुर्धरेणेति झ.ट.पाठः॥ 11-1-35 प्रपातं पर्वताग्राद्भ्रंशम्॥ 11-1-41 जहि मन्यं स्वबुद्ध्या वै इति क.छ.ट.पाठः। दहन्ति शोका इत्यर्थात्। मन्युं दैन्यम्। मन्युर्दैन्ये क्रतौ क्रुधि इत्यमरः। आत्मानं चित्तं आत्मना धैर्येण धारय। प्राणान्मात्याक्षीरित्यर्थः॥ 11-1-1 प्रथमोऽध्यायः॥स्त्रीपर्व - अध्याय 002
॥ श्रीः ॥
11.2. अध्यायः 002
Mahabharata - Strii Parva - Chapter Topics
विदुरेण शास्त्रार्थकथनेन धृतराष्ट्रस्य शोकापनोदनम्॥ 1 ॥Mahabharata - Strii Parva - Chapter Text
11-2-0 (64824)
वैशम्पायन उवाच। 11-2-0x (5314)
ततोऽमृतरसैर्वाक्यैर्ह्लादयन्पुरुषर्षभम्।
वैचित्रवीर्यं विदुरो यदुवाच निबोध तत्॥ 11-2-1 (64825)
विदुर उवाच। 11-2-2x (5315)
उत्तिष्ठ राजन्किं शेषे धारयात्मानमात्मना।
एषा वै सर्वसत्वानां लोकेश्वर परा गतिः॥ 11-2-2 (64826)
सर्वे क्षयान्ता निचयाः पतनान्ताः समुच्छ्रयाः।
संयोगा विप्रयोगान्ता मरणान्तं च जीवितम्॥ 11-2-3 (64827)
यदा शूरं च भीरुं च यमः कर्षति भारत।
तत्किं न योत्स्यन्ति हि ते क्षत्रियाः क्षत्रियर्षभ॥ 11-2-4 (64828)
अयुध्यमानो म्रियते युध्यमानश्च जीवति।
कालं प्राप्य महाराज न कश्चिदतिवर्तते॥ 11-2-5 (64829)
अभावादीनि भूतानि भावमध्यानि भारत।
अभावनिधनान्येव तत्र का परिदेवना॥ 11-2-6 (64830)
न शोचन्मृतमन्वेति न शोचन्म्रियते नरः।
एवं सांसिद्धिके लोके किमर्थमनुशोचसि॥ 11-2-7 (64831)
कालः कर्षति भूतानि सर्वाणि विविधान्युत।
न कालस्य प्रियः कश्चिन्न द्वेष्यः कुरुसत्तम॥ 11-2-8 (64832)
यथा वायुस्तृणाग्राणि संवर्तयति सर्वशः।
तथा कालवशं यान्ति भूतानि भरतर्षभ॥ 11-2-9 (64833)
एकसार्थप्रयातानां सर्वेषां तत्र गामिनाम्।
यस्य कालः स यात्यग्रे तत्र का परिदेवना॥ 11-2-10 (64834)
न चाप्येतान्हतान्युद्धे राजञ्शोचितुमर्हसि।
प्रमाणं यदि शास्त्राणि गतास्ते परमां गतिम्॥ 11-2-11 (64835)
सर्वे स्वाध्यायवन्तो हि सर्वे च चरितव्रताः।
सर्वे चाभिमुखाः क्षीणास्तत्र का परिदेवना॥ 11-2-12 (64836)
अदर्शनादापतिताः पुनश्चादर्शनं गताः।
नैते तव न तेषां त्वं तत्र का परिदेवना॥ 11-2-13 (64837)
हतो हि लभते स्वर्गं जित्वा च लभते यशः।
उभयं नो बहुगुणं नास्ति निष्फलता रणे॥ 11-2-14 (64838)
तेषां कामदुघाँल्लोकानिन्द्रः सङ्कल्पयिष्यति।
इन्द्रस्यातिथयो ह्येते भवन्ति भरतर्षभ॥ 11-2-15 (64839)
न यज्ञैर्दक्षिणावद्भिर्न तपोभिर्न विद्यया।
स्वर्गं यान्ति तथा मर्त्या यथा शूरा रणे हताः॥ 11-2-16 (64840)
शरीराग्निषु शूराणां जुहुवुस्ते शराहुतीः।
हूयमानाञ्शरांश्चैव सेहुस्तेजस्विनो मिथः॥ 11-2-17 (64841)
एवं राजंस्तवाचक्षे स्वर्ग्यं पन्थानमुत्तमम्।
न युद्धादधिकं किञ्चित्क्षत्रियस्येह विद्यते॥ 11-2-18 (64842)
क्षत्रियास्ते महात्मानः शूराः समितिशोभनाः।
आशिषः परमाः प्राप्ता न शोच्याः सर्व एव हि॥ 11-2-19 (64843)
आत्मानमात्मनाऽऽश्वास्य मा शुचः पुरुषर्षभ।
नाद्य शोकाभिभूतस्त्वं कायमुत्स्रष्टुमर्हसि॥ 11-2-20 (64844)
मातापितृसहस्राणि पुत्रदारशतानि च।
संसारेष्वनुभूतानि कस्य ते कस्य वा वयम्॥ 11-2-21 (64845)
शोकस्थानसहसाणि भयस्थानशतानि च।
दिवसेदिवसे मूढमाविशन्ति न पण़्डितम्॥ 11-2-22 (64846)
न कालस्य प्रियः कश्चिन्न द्वेष्यः कुरुसत्तम।
न मध्यस्थः क्वचित्कालः सर्वं कालः प्रकर्षति॥ 11-2-23 (64847)
कालः पचति भूतानि कालः संहरते प्रजाः।
कालः सुप्तेषु जागर्ति कालो हि दुरतिक्रमः॥ 11-2-24 (64848)
अनित्यं यौवनं रूपं जीवितं द्रव्यसञ्चयः।
आरोग्यं प्रियसंवासो गृद्ध्येदेषु न पण्डितः॥ 11-2-25 (64849)
न जानपदिकं दुःखमेकः शोचितुमर्हसि।
अप्यभावेन युज्येत तच्चास्य न निवर्तते॥ 11-2-26 (64850)
अशोचन्प्रतिकुर्वीत यदि पश्येत्पराक्रमम्।
भैषज्यमेतद्दुःखस्य यदेतन्नानुचिन्तयेत्॥ 11-2-27 (64851)
चिन्त्यमानं हि न व्येति भूयश्चापि प्रवर्धते॥
अनिष्टसम्प्रयोगाच्च विप्रयोगात्प्रियस्य च। 11-2-28 (64852)
मानुषा मानसैर्दुःखैर्युज्यन्ते येऽल्पबुद्धयः॥
नार्थो न धर्मो न सुखं यदेतदनुशोचति। 11-2-29 (64853)
तच्च नाप्नोति कार्यार्थं त्रिवर्गाच्चैव भ्रश्यते॥
अन्योन्यबाधनावस्थां प्राप्य वैषयिकीं नराः। 11-2-30 (64854)
असन्तुष्टाः प्रमुह्यन्ति सन्तोषं यान्ति पण्डिताः॥
प्रज्ञया मानसं दुःखं हन्याच्छारीरमौषधैः। 11-2-31 (64855)
एतद्विज्ञानसामर्थ्यं न बालैः समतामियात्॥
शयानं चानुशेते हि तिष्ठन्तं चानुतिष्ठति। 11-2-32 (64856)
अनुधावति धावन्तं कर्म पूर्वकृतं नरम्॥
यस्यांयस्यामवस्थायां यत्करोति शुभाशुभम्। 11-2-33 (64857)
तस्यांतस्यामवस्थायां तत्तत्फलमवाप्नुते॥
[येनयेन शरीरेण यद्यत्कर्म करोति यः। 11-2-34 (64858)
तेनतेन शरीरेण तत्फलं समुपाश्नुते॥
आत्मैव ह्यात्मनः साक्षी कृतस्यापकृतस्य च॥ 11-2-35 (64859)
शुभेन कर्मणा सौख्यं दुःखं पापेन कर्मणा।
कृतं भवति सर्वत्र नाकृतं विद्यते क्वचित्॥ 11-2-36 (64860)
न हि ज्ञानविरुद्धेषु बह्वपायेषु कर्मसु।
मूलघातिषु सज्जन्ते बुद्धिमन्तो भवद्विघाः॥] ॥ 11-2-37 (64861)
इति श्रीमन्महाभारते स्त्रीपर्वणि जलप्रदानिकपर्वणि द्वितीयोऽध्यायः॥ 2 ॥
Mahabharata - Strii Parva - Chapter Footnotes
11-2-2 एषा मरणान्ता। अत उत्तिष्ठ शोकं त्यज॥ 11-2-6 अभावादीनि दुःखानि दुःखमध्यानि भारतेति छ.पाठः॥ 11-2-8 सांसिद्धिके स्वभावसिद्धे॥ 11-2-9 संवर्तयति स्ववशं नयति॥ 11-2-10 तत्र गामिनां परत्र गमनशीलानां यस्य काल उपस्थितः सोऽग्रे प्रयाति॥ 11-2-13 अदर्शनादज्ञानात्॥ 11-2-14 नोऽस्माकं क्षत्रियाणाम्॥ 11-2-18 आचक्षे कथयामि॥ 11-2-26 अतपदिकं सर्वसाधारणम्। अभावेन मरणेन। तच्च दुःखं च॥ 11-2-30 नच नापैति कार्यार्थात्त्रिवर्गाच्चैव हीयते इति झ.पाठः। तत्र कार्यार्थान्नापैतीतिनापित्वपैत्येवेत्यर्थः॥ 11-2-31 अन्यामन्यां पनावस्थां प्राप्य वैशेषिकीं नराः। इति झ.पाठः॥ 11-2-34 अवस्थायां यौवनादिरूपायाम्॥ 11-2-35 येनेति। स्थूलेन देहेन कृते तत्तेनैव भुज्यते। मनःकृत्तं चेत्तेनैव भुज्यते स्वप्नादौ॥ 11-2-2 द्वितीयोऽध्यायः॥स्त्रीपर्व - अध्याय 003
॥ श्रीः ॥
11.3. अध्यायः 003
Mahabharata - Strii Parva - Chapter Topics
विदुरेण धृतराष्ट्रकापनोदनाय शास्त्रार्थकथनम्॥ 1 ॥Mahabharata - Strii Parva - Chapter Text
11-3-0 (64862)
वृतराष्ट्र उवाच। 11-3-0x (5316)
सुमाषितं महाप्राज्ञ शोकोऽयं विगतो मम।
भूय एव तु वाक्यानि श्रोतुमिच्छामि तत्त्वतः॥ 11-3-1 (64863)
अनिष्टानां च संसर्गादिष्टानां च निवर्तनात्।
कथं हि मानसं दुःखं विप्रयुज्यन्ति पण्डिताः॥ 11-3-2 (64864)
विदुर उवाच। 11-3-3x (5317)
वतोयतो मनो दुःखात्सुखाद्र विप्रमुच्यते।
तवत्तसः शगं लब्ध्वा सुगतिं विन्दते बुधः॥ 11-3-3 (64865)
अशाधतमिदं सर्वं चिन्त्यमानं नरर्षभ।
कदलीसन्निभो लोकः सारो ह्यस्य न विद्यते॥ 11-3-4 (64866)
[यदा प्राज्ञाश्च मूढाश्च धनवन्तोऽथ निर्धनाः।
सर्वे पितृवनं प्राप्य स्वपन्ति विगतज्वराः॥ 11-3-5 (64867)
निर्मांसैरस्थिभूयिष्ठैर्गात्रैः स्नायुनिबन्धिभिः।
किं विशेषं प्रपश्यन्ति तत्र तेषां परे जनाः॥ 11-3-6 (64868)
येन प्रत्यवगच्छेयुः कुलरूपविशेषणम्।
कस्मादन्योन्यमिच्छन्ति विप्रलब्धधियो नराः॥] 11-3-7 (64869)
गृहाण्येव हि मर्त्यानामाहुर्देहानि पण्डिताः।
कालेन विनियुज्यन्ते सत्वमेकं तु शोभनम्॥ 11-3-8 (64870)
यथा जीर्णमजीर्णं वा वस्त्रं त्यक्त्वा तु पूरुषः।
अन्यद्रोचयते वस्त्रमेवं देहाः शरीरिणाम्॥ 11-3-9 (64871)
वैचित्रवीर्य सत्यं हि दुःखं वा यदि वा सुखम्।
प्राप्नुवन्तीह भूतानि स्वकृतेनैव कर्मणा॥ 11-3-10 (64872)
कर्मणा प्राप्यते स्वर्गः सुखं दुःखं च भारत।
ततो वहति तं भारमवशः स्ववशोऽपि वा॥ 11-3-11 (64873)
यथा च मृन्मयं भाण्डं चक्रारूढं विपद्यते।
किञ्चित्प्रक्रियमाणं वा कृतमात्रमथापि वा॥ 11-3-12 (64874)
हीनं वाऽप्यवरोप्यं वा अवतीर्णमथापि वा।
आर्द्रं वाऽप्यथवा शुष्कं पच्यमानमथापि वा॥ 11-3-13 (64875)
अवतार्यन्तमापाङ्कादुद्धृतं चापि भारत।
अथवा परिभुज्जन्तमेवं देहाः शरीरिणाम्॥ 11-3-14 (64876)
गर्भस्थो वा प्रसूतो वाऽप्यथवा दशरात्रिकः।
अर्धमासगतो वाऽपि मासमात्रगतोऽपि वा॥ 11-3-15 (64877)
संवत्सरगतो वापि द्विसंवत्सर एव वा।
यौवनस्थोऽथ मध्यस्थो वृद्धो वापि विपद्यते॥ 11-3-16 (64878)
प्राक्कर्मभिस्तु भूतानि भवन्ति नभवन्ति च।
एवं संबर्धिते लोके किमर्थमनुतप्यसे॥ 11-3-17 (64879)
यथा तु सलिलं राजन्क्रीडार्थमनुसञ्चरन्।
उन्मज्जेच्च निमज्जेच्च चेष्टते च नराधिप॥ 11-3-18 (64880)
एवं संसारगहने उन्मज्जननिमज्जने।
कर्मयोगेन बध्यन्ते क्लिश्यन्ते चाल्पबुद्धयः॥ 11-3-19 (64881)
ये तु प्राज्ञाः स्थिता मध्ये संसारान्तगतैषिणः।
समागमज्ञा भूतानां ते यान्ति परमां गतिम्॥ ॥ 11-3-20 (64882)
इति श्रीमन्महाभारते स्त्रीपर्वणि जलप्रदानिकपर्वणि तृतीयोऽध्यायः॥ 3 ॥
Mahabharata - Strii Parva - Chapter Footnotes
11-3-1 सुभाषितैरिति झ.पाठः॥ 11-3-5 पितृवनं मृत्युम्॥ 11-3-8 सल्वमेकं तु शास्वतमिति झ.पाठः। तत्र सत्वं लिङ्गशरीरम्। शाश्वतं मोक्षपर्यन्तं स्थायित्वात् इत्यर्थः॥ 11-3-13 अवरोप्यन्तमितिपाठे अवरोप्यमाणम्॥ 11-3-14 आपाकात् कुलालकृतात् पात्रपाककूटात्। अथवा परिभृज्जन्तमिति झ.पाठः॥ 11-3-19 एवं संसारगहनादुन्मज्जननिमज्जनात् इति क.छ.ट.पाठः॥ 11-3-3 तृतीयोऽध्यायः॥स्त्रीपर्व - अध्याय 004
॥ श्रीः ॥
11.4. अध्यायः 004
Mahabharata - Strii Parva - Chapter Topics
विदुरेण धृतराष्ट्रंप्रति जीवस्य गर्भवासप्रकारकथनम्॥ 1 ॥Mahabharata - Strii Parva - Chapter Text
11-4-0 (64883)
धृतराष्ट्र उवाच। 11-4-0x (5318)
कथं संसारगहनं विज्ञेयं वदतां वर।
एतदिच्छाम्यहं श्रोतुं तत्त्वमाख्याहि पृच्छतः॥ 11-4-1 (64884)
विदुर उवाच। 11-4-2x (5319)
जन्मप्रभृति भूतानां क्रियाः सर्वास्तु लक्षयन्।
पूर्वमेवेह कलिले वसते किञ्चिदन्तरम्॥ 11-4-2 (64885)
ततः स पञ्चमेऽतीते मासे मांसमकल्पयत्।
ततः सर्वाङ्गसम्पूर्णो गर्भो मासे तु जायते॥ 11-4-3 (64886)
अमेध्यमध्ये वसति मांसशोणितलेपने।
ततस्तु वायुवेगेन ऊर्ध्वपादो ह्यधोमुखः॥ 11-4-4 (64887)
योनिद्वारमुपागम्य बहून्क्लेशान्समृच्छति।
योनिसंपीडनाच्चैव पूर्वकर्मभिरन्वितः॥ 11-4-5 (64888)
तस्मान्मुक्तः स संसारादन्यान्पश्यत्युपद्रवान्।
ग्रहास्तमनुच्छन्ति सारमेया इवामिषम्॥ 11-4-6 (64889)
ततः कालान्तरे प्राप्ते व्याधयश्चापि तं तथा।
उपसर्पन्ति जीवन्तं बध्यमानं स्वकर्मभिः॥ 11-4-7 (64890)
बद्धमिन्द्रियपाशैस्तं सङ्गकामुकमातुरम्।
व्यसनान्यनुवर्तन्ते विविधानि नराधिप॥ 11-4-8 (64891)
बाध्यमानश्च तैर्भूयो नैव तृप्तिमुपैति सः।
[तदा नावैति चैवायं प्रकुर्वन्साध्वसाधु वा॥] 11-4-9 (64892)
तत्रैनं परिपश्यन्ति ये ध्यानपरिनिष्ठिताः।
अयं न बुध्यते तावद्यमलोकादिहागमे॥ 11-4-10 (64893)
यमदूतैर्विकृष्यंश्च मृत्युं कालेन गच्छति।
वाग्घीनस्य च या मात्रा इष्टानिष्टकृताऽस्य वै।
भूय एवात्मनाऽऽत्मानं बध्यमानमुपैति सः॥ 11-4-11 (64894)
अहो विनिकृतो लोको लोभेन च वशीकृतः।
लोभक्रोधमदोन्मत्तो नात्मानमवबुध्यते॥ 11-4-12 (64895)
कुलीनत्वे च रमते दुष्कुलीनान्विकुत्सयन्।
धनदर्पेण दृप्तश्च दरिद्रान्परिकुत्सयन्॥ 11-4-13 (64896)
मूर्खानिति परानाह नात्मानं समवेक्षते।
दोषान्क्षिपति चान्येषां नात्मानं शास्तुमिच्छति॥ 11-4-14 (64897)
यदा प्राज्ञाश्च मूर्खाश्च धनवन्तश्च निर्धनाः।
कुलीनाश्चाकुलीनाश्च मानिनोऽथाप्यमानिनः॥ 11-4-15 (64898)
सर्वे पितृवनं प्राप्ताः स्वपन्ति विगतत्वचः।
निर्मांसैरस्थिभूयिष्ठैर्गात्रैः स्नायुनिबन्धनैः॥ 11-4-16 (64899)
किं विशेषं प्रपश्यन्ति तत्र तेषां परे जनाः।
येन प्रत्यवगच्छेयुः कुलरूपविशेषणम्॥ 11-4-17 (64900)
यदा सर्वे समं न्यस्ताः स्वपन्ति धरणीतले।
कस्मादन्योन्यमिच्छन्ति विप्रलब्धुमिहाबुधाः॥ 11-4-18 (64901)
प्रत्यक्षं च परोक्षं च यो निशम्य श्रुतिं त्विमाम्।
[अध्रुवे जीवलोकेऽस्मिन्यो धर्ममनुपालयन्।]
जन्मप्रभृति वर्तेत प्राप्नुयात्परमां गतिम्॥ 11-4-19 (64902)
एवं सर्वं विदित्वा वै यस्तत्त्वमनुवर्तते।
स प्रमोक्षयते चैव पन्थानं मनुजेश्वर॥ ॥ 11-4-20 (64903)
इति श्रीमन्महाभारते स्त्रीपर्वणि जलप्रदानिकपर्वणि चतुर्थोऽध्यायः॥ 4 ॥
Mahabharata - Strii Parva - Chapter Footnotes
11-4-2 कलिलं शुकशोणितसंयोगः। एकरात्रोषितं कलिलं भवति पञ्चरात्राद्बुद्बुद इत्यादिशास्त्राद्रम्यते। तत्र कलिले वसते जीव इति शेषः। किञ्चिदन्तरं पूर्वदिनापेक्षया वृद्ध्यवस्थाभेदेन अल्पेन परिमाणान्तरेण॥ 11-4-5 पूर्वकर्मापदानत इति क.पाठः॥ 11-4-6 मृगयन्पर्यटन्नित्यं सारमेया इति ट.पाठः॥ 11-4-4 चतुर्थोऽध्यायः॥स्त्रीपर्व - अध्याय 005
॥ श्रीः ॥
11.5. अध्यायः 005
Mahabharata - Strii Parva - Chapter Topics
विदुरेण धृतराष्ट्रं प्रति उत्तराध्याये वक्ष्यमाणसंसारादीनां कान्तारादित्वेन रूपणम्॥ 1 ॥Mahabharata - Strii Parva - Chapter Text
11-5-0 (64904)
धृतराष्ट्र उवाच। 11-5-0x (5320)
यदिदं धर्मगहनं बुद्ध्या समनुबुध्यते।
एतद्विस्तरतः सर्वं बुद्धिमार्गं प्रशंस मे॥ 11-5-1 (64905)
विदुर उवाच। 11-5-2x (5321)
अत्र ते सर्वयिष्यामि नमस्कृत्वा स्वयम्भुवे।
यथा संसारगहनं वदन्ति परमर्षयः॥ 11-5-2 (64906)
कश्चिन्महति कान्तारे वर्तमानो द्विजः किल॥
महद्दुर्गमनुप्राप्तो वनं क्रव्यादसङ्कुलम्॥ 11-5-3 (64907)
सिंहव्याघ्रगजर्क्षौघैरतिघोरमहास्वनैः।
पिशितादैरतिभयैर्महोग्राकृतिभिस्तथा॥ 11-5-4 (64908)
समन्तात्सम्परिक्षिप्तं यस्माद्द्रष्टुर्महद्भयम्।
तदस्य दृष्ट्वा हृदयमुद्वेगमगमत्परम्॥ 11-5-5 (64909)
अभ्युच्छ्रयन्ति रमाणि विक्रियाश्च परन्तप।
स तद्वनं व्यनुसरन्सम्प्रधावन्नितस्ततः॥ 11-5-6 (64910)
वीक्षमाणो दिशः सर्वाः शरणं क्व भवेदिति।
स तेषां नाशमन्विच्छन्प्रद्रुतो भयपीडितः।
न च निर्याति वै दूरं न वा तैर्विप्रयुज्यते॥ 11-5-7 (64911)
अथापश्यद्वनं गूढं समन्ताद्वागुरावृतम्।
बाहुभ्यां सम्परिष्वक्तः स्त्रिया परमघोरया॥ 11-5-8 (64912)
पञ्चशीर्षधरैर्नागैः शैलैरिव समुन्नतैः।
नभःस्पृशैर्महावृक्षैः परिक्षिप्तं महावनम्॥ 11-5-9 (64913)
वनमध्ये च तत्राभूदुदपानः समावृतः।
वल्लीभिस्तृणनद्धाभिर्गूढाभिरभिसंवृतः॥ 11-5-10 (64914)
पपात स द्विजस्तत्र निगूढे सलिलाशये।
विलग्नश्चाभवत्तस्मिँल्लतासन्तानसङ्कुले॥ 11-5-11 (64915)
पनसस्य यथा जातं वृन्तबद्धं महाफलम्।
स तथा लम्बते तत्र ह्यूर्ध्वपादो ह्यधः शिराः॥ 11-5-12 (64916)
अथ तत्रापि चान्योऽस्य भूयो जात उपद्रवः।
कूपमध्ये महानागमपश्यत महाबलम्॥ 11-5-13 (64917)
कूपपीनाहवेलायामपश्यत् महागजम्॥ 11-5-14 (64918)
षड्वक्त्रं कृष्णशबलं द्विषट्कपदचारिणम्।
क्रमेण परिसर्पन्तं वल्लीवृक्षसमावृतम्॥ 11-5-15 (64919)
तस्य शाखाप्रशाखासु वृक्षशाखावलम्बिनः।
नानारूपा मधुकरा घोररूपा भयावहाः॥ 11-5-16 (64920)
आसते मधु संवृत्य पूर्वमेव निकेतजाः।
भूयोभूयः समीहन्ते मधूनि भरतर्षभ॥ 11-5-17 (64921)
स्वादनीयानि भूतानां यैर्बालो न वितृप्यते।
तेषां मधूनां बहुधा धारा प्रस्रवते तदा॥ 11-5-18 (64922)
आलम्बमानः स पुमान्धारां पिबति सर्वदा।
न चास्य तृष्णा विरता पिबमानस्य सङ्कटे॥ 11-5-19 (64923)
अभीप्सति च तां नित्यमतृप्तः स पुनः पुनः।
न चास्य जीविते राजन्निर्वेदः समजायत॥ 11-5-20 (64924)
तत्रैव च मनुष्यस्य जीविताशा प्रतिष्ठिता।
कृष्णाः श्वेताश्च तं वृक्षं निकृन्तन्ति स्म मूषिकाः॥ 11-5-21 (64925)
व्यालैश्च तद्वनं दुर्गं स्त्रिया च परमोग्रया।
कूपाधस्ताच्च नागेन पीनाहे कुञ्जरेण च॥ 11-5-22 (64926)
वृक्षप्रपाताच्च भयं मूषिकेभ्यश्च पञ्चमम्।
मधुलोभान्मधुकरैः षष्ठमाहुर्महद्भयम्॥ 11-5-23 (64927)
एवं स वसते तत्र क्षिप्तः संसारसागरे।
न चैव जीविताशायां निर्वेदमुपगच्छति॥ ॥ 11-5-24 (64928)
इति श्रीमन्महाभारते स्त्रीपर्वणि जलप्रदानिकपर्वणि पञ्चमोऽध्यायः॥ 5 ॥
स्त्रीपर्व - अध्याय 006
॥ श्रीः ॥
11.6. अध्यायः 006
Mahabharata - Strii Parva - Chapter Topics
पूर्वाध्याये कान्तारादित्वेन रूपितानां संसारादीनां स्वस्वशब्दैः प्रतिपादनम्॥ 1 ॥Mahabharata - Strii Parva - Chapter Text
11-6-0 (64929)
धृतराष्ट्र उवाच। 11-6-0x (5322)
अहो खलु महद्दुःखं कृच्छ्रवासं वसत्यसौ।
कथं तस्य रतिस्तत्र तुष्टिर्वा वदतां वर॥ 11-6-1 (64930)
स देशः क्वनु यत्रासौ वसते धर्मसङ्कटे।
कथं वा स विमुच्येत नरस्तस्मान्महाभयात्॥ 11-6-2 (64931)
एतन्मे सर्वमाचक्ष्व साधु चेष्टामहे तदा।
कृपा मे महती जाता तस्याभ्युद्धरणेन हि॥ 11-6-3 (64932)
विदुर उवाच। 11-6-4x (5323)
उपाख्यानमिदं राजन्मोक्षविद्भिरुदाहृतम्।
सुगतिं विन्दते येन परलोकेषु मानवः॥ 11-6-4 (64933)
उच्यते यत्तु कान्तारं महासंसार एव सः।
वनं दुर्गं हि यच्चैतत्संसारगहनं हि तत्॥ 11-6-5 (64934)
ये च ते कथिता व्याला व्याधयस्ते प्रकीर्तिताः॥ 11-6-6 (64935)
या सा नारी बृहत्काया अध्यतिष्ठत तत्र वै।
तामाहुस्तु जरां प्राज्ञा रूपवर्णविनाशिनीम्॥ 11-6-7 (64936)
स यस्तु कूपो नृपते स तु देहः शरीरिणाम्।
यस्तत्र वसतेऽधस्तान्महाहिः काल एव सः।
अन्तकः सर्वभूतानां देहिनां प्राणाहार्यसौ॥ 11-6-8 (64937)
कूपमध्ये च या जाता वल्ली यत्र स मानवः।
प्रोतो ययाऽभवल्लग्नो जीविताशा शरीरिणाम्॥ 11-6-9 (64938)
स यस्तु कूपपीनाहे तं वृक्षं परिसर्पति।
षड्वक्त्रः कुञ्जरो राजन्स तु संवत्सरः स्मृतः॥ 11-6-10 (64939)
मुखानि ऋतवो मासाः पादा द्वादशा कीर्तिताः।
ये तु वृंक्षं निकृन्तन्ति मूषिकाः पन्नगास्तथा॥ 11-6-11 (64940)
रात्र्यहानि तु तान्याहुर्भूतानां परिचिन्तकाः।
ये ते मधुकरास्तत्र कामास्ते परिकीर्तिताः॥ 11-6-12 (64941)
यास्तु ता बहुशो धाराः स्रवन्ति मधुनिस्रवम्।
तांस्तु कामरसान्विन्द्याद्यत्र सज्जन्ति मानवाः॥ 11-6-13 (64942)
एवं संसारचक्रस्य परिवृत्तिं विदुर्बुधाः।
येन संसारचक्रस्य पाशांश्छिन्दन्ति सर्वथा॥ ॥ 11-6-14 (64943)
इति श्रीमन्महाभारते स्त्रीपर्वणि जलप्रदानिकपर्वणि पञ्चमोऽध्यायः॥ 5 ॥
Mahabharata - Strii Parva - Chapter Footnotes
11-6-4 उपमानमिदं राजन्निति झ.पाठः॥ 11-6-6 षष्ठोऽध्यायः॥स्त्रीपर्व - अध्याय 007
॥ श्रीः ॥
11.7. अध्यायः 007
Mahabharata - Strii Parva - Chapter Topics
विदुरेण धृतराष्ट्रम्प्रति तत्त्वकथनम्॥ 1 ॥Mahabharata - Strii Parva - Chapter Text
11-7-0 (64944)
धृतराष्ट्र उवाच। 11-7-0x (5324)
अहोऽभिहितमाख्यान भवता तत्त्वदर्शिना।
भूय एव तु मे हर्षः श्रोतुं वागमृतं तव॥ 11-7-1 (64945)
विदुर उवाच। 11-7-2x (5325)
शृणु भूयः प्रवक्ष्यामि मार्गस्यैतस्य विस्तरम्।
यच्छ्रुत्वा विप्रमुच्यन्ते संसाराद्वि विचक्षणाः॥ 11-7-2 (64946)
यथा तु पुरुषो राजन्दीर्घमध्वानमास्थितः।
क्वचित्क्वचिच्छ्रमस्थानं कुरुते वासमेव वा॥ 11-7-3 (64947)
एवं संसारपर्याये गर्भवासेषु भारत।
कुर्वन्ति दुर्बुधा वासं मुच्यन्ते तत्र पण्डिताः॥ 11-7-4 (64948)
तस्मादध्वानमेवैतमाहुः शास्त्रविदो जनाः।
यत्तत्संसारगहनं वनमाहुर्मनीषिणः॥ 11-7-5 (64949)
सोयं लोकसमावर्तो मर्त्यानां भरतर्षभ।
चराणां स्थावराणां च न गृध्येत्तत्र पाण्डितः॥ 11-7-6 (64950)
शारीरा मानसाश्चैव मर्त्यानां व्याधयश्च ये।
प्रत्यक्षाश्च परोक्षाश्च ते व्यालाः कथिता बुधैः॥ 11-7-7 (64951)
क्लिश्यमानाश्च तैर्नित्यं मार्यमाणाश्च भारत।
स्वकर्मभिर्महाव्यालैर्नोद्विजन्त्यल्पबुद्धयः॥ 11-7-8 (64952)
अथापि तैर्विमुच्येत व्याधिभिः पुरुषो नृप।
आवृणोत्येव तं पश्चाज्जरा रूपविनाशिनी॥ 11-7-9 (64953)
शब्दरूपरसस्पर्शगन्धैश्च विविधैरपि।
मज्जमानं महापङ्के निरालम्बे समन्ततः॥ 11-7-10 (64954)
संवत्सरर्तवो मासाः पक्षाहोरात्रसन्धयः।
क्रमेणास्य प्रवृज्जन्ति रूपमायुस्तथैव च॥ 11-7-11 (64955)
एते कालस्य विधयो नैताञ्जानान्ति दुर्बुधाः।
धात्राऽभिलिखितान्याहुः सर्वभूतानि कर्मणा॥ 11-7-12 (64956)
रथः शरीरं भूतानां सत्वमाहुस्तु सारथिम्।
इन्द्रियाणि हयानाहुः कर्मबुद्विस्तु रश्मयः॥ 11-7-13 (64957)
तेषां हयानां यो वेगं धावतामनु धावति।
सतु संसारचक्रेऽस्मिंश्चक्रवत्परिवर्तते॥ 11-7-14 (64958)
यस्तान्संयमते बुद्ध्या संयतो न निवर्तते।
यस्तु संसारचक्रेऽस्मिंश्चक्रवत्परिवर्तते॥ 11-7-15 (64959)
[भ्रममाणा न मुह्यन्ति संसारे न भ्रमन्ति ते।
संसारे भ्रमतां राजन्दुःखमेतद्धि जायते॥ 11-7-16 (64960)
तस्पादस्य निवृत्त्यर्थं यत्नमेवाचरेद्बुधः।
उपेक्षा नात्र कर्तव्या शतशाखः प्रवर्धते॥ 11-7-17 (64961)
यतेन्द्रियो नरो राजन्क्रोधलोभनिराकृतः।
सन्तुष्टः सत्यवादी यः स शान्तिमधिगच्छति॥] 11-7-18 (64962)
याम्यमाहू रथं ह्येनं मुह्यन्ते येन दुर्बुधाः।
स चैतत्प्राप्नुयाद्राजन्यत्त्वं प्राप्तो नराधिप॥ 11-7-19 (64963)
अनुतर्षुलमेवैतद्दुःखं भवति मारिष।
राज्यनाशः सुहृन्नाशः सुतनाशश्च भारत।
साधुः परमदुःखानां दुःखभैषज्यमारभेत्॥ 11-7-20 (64964)
ज्ञानौषधमवाप्येह दूरपारं महौषधम्।
छिन्द्याद्दुःखमहाव्याधिं नरः संयतमानसः॥ 11-7-21 (64965)
न विक्रमो न चाप्यर्थो न मित्रं न सुहृज्जनः।
तस्मान्मोचयते दुःखाद्यथात्मा स्थिरनिश्चयः॥ 11-7-22 (64966)
तस्मान्मैत्रं समास्थाय शीलमापदि भारत।
दमस्त्यागोऽप्रमादश्च ते त्रयो ब्रह्मणो हयाः॥ 11-7-23 (64967)
शीलरश्मिसमायुक्ते स्थितो यो मानसे रथे।
त्यक्त्वा मृत्युभयं राजन्ब्रह्मलोकं स गच्छति॥ 11-7-24 (64968)
अभयं सर्वभूतेभ्यो यो ददाति महीपते।
स गच्छति परं स्थानं विष्णोः पदमनामयम्॥ 11-7-25 (64969)
न तत्क्रतुसहस्रेण नोपवासैश्च नित्यशः।
अभयस्य च दानेन यत्फलं प्राप्नुयान्नरः॥ 11-7-26 (64970)
न ह्यात्मनः प्रियतरं किञ्चिद्भूतेषु निश्चितम्।
अनिष्टं सर्वभूतानां मरणं नाम भारत॥ 11-7-27 (64971)
तस्मात्सर्वेषु भूतेषु दया कार्या विपश्चिता॥ 11-7-28 (64972)
नानायोगसमायुक्ता बुद्धिजालेन संवृताः।
असूक्ष्मदृष्टयो मन्दा भ्राम्यन्ते तत्रतत्र ह।
सुसूक्ष्मदृष्टयो राजन्व्रजन्ति ब्रह्मसाम्यताम्॥ 11-7-29 (64973)
एवं ज्ञात्वा महाप्राज्ञ स तेषामौर्ध्वदैहिकम्।
कर्तुमर्हति तेनैव फल प्राप्स्यति वै भवान्॥ ॥ 11-7-30 (64974)
इति श्रीमन्महाभारते स्त्रीपर्वणि जलप्रदानिकपर्वणि सप्तमोऽध्यायः॥ 7 ॥
Mahabharata - Strii Parva - Chapter Footnotes
11-7-3 श्रमाच्छ्रान्त इति झ.पाठः॥ 11-7-8 वार्यमाणाश्च भारतेति झ.पाठः॥ 11-7-9 अथापि तैर्न मुच्येतेति क.पाठः॥ 11-7-10 मज्जमांसमहापङ्के इति झ.पाठः॥ 11-7-17 ये तु संसारचक्रेऽस्मिन्निति झ.पाठः॥ 11-7-15 शतशास्वः संसारवृक्षः॥ 11-7-17 क्रोधलोभौ निराकृतौ येन सः॥ 11-7-18 याम्यं योमलोकप्रापकं संसारगहनम्॥ 11-7-19 अनुतर्षुलं तृष्णाशीलं लक्षीकृत्य। अनुकर्षणमेनैतद्दुःखं न भवति भारतेति क.छ.पाठः॥ 11-7-20 दूरपारं ब्रह्मज्ञानम्॥ 11-7-23 ब्रह्मणः ब्रह्मलोकस्य प्रापका इति शेषः॥ 11-7-7 सप्तमोऽध्यायः॥स्त्रीपर्व - अध्याय 008
॥ श्रीः ॥
11.8. अध्यायः 008
Mahabharata - Strii Parva - Chapter Topics
व्यासेन धृतराष्ट्रस्य शोकापनोदनम्॥ 1 ॥Mahabharata - Strii Parva - Chapter Text
11-8-0 (64975)
वैशम्पायन उवाच। 11-8-0x (5326)
विदुरस्य तु तद्वाक्यं निशम्य कुरुसत्तमः।
पुत्रशोकाभिसन्तप्तः पपात भुवि मूर्छितः॥ 11-8-1 (64976)
तं तथा पतितं भूमौ निःसंज्ञं प्रेक्ष्य बान्धवाः।
कृष्णद्वैपायनश्चैव क्षत्ता च विदुरस्तथा॥ 11-8-2 (64977)
सञ्जयः सुहृदश्चान्ये द्वास्था ये चास्य सम्मताः।
जलेन सुखशीतेन तालवृन्तैश्च भारत॥ 11-8-3 (64978)
पस्पर्शुश्च करैर्गात्रं वीजमानाश्च यत्नतः।
अन्वासत चिरं कालं धृतराष्ट्रं तथाविधम्॥ 11-8-4 (64979)
अथ दीर्घस्य कालस्य लब्धस़ञ्ज्ञो महीपतिः।
विललाप चिरं कालं पुत्राधिभिरभिप्लुतः॥ 11-8-5 (64980)
धिगस्तु खलु मानुष्यं मानुष्ये च परिग्रहम्।
यतोमूलानि दुःखानि सम्भवन्ति पुनःपुनः॥ 11-8-6 (64981)
मित्रनाशेऽर्थनाशे च ज्ञातिसम्बन्धिनामपि।
प्राप्यते सुमहद्दुःखं विषाग्निप्रतिमं विभो॥ 11-8-7 (64982)
येन दह्यन्ति गात्राणि येन प्रज्ञा विनश्यति।
येनाभिभूतः पुरुषो मरणं प्रतिपद्यते॥ 11-8-8 (64983)
तदिदं मरणं प्राप्तं मया भाग्यविपर्ययात्।
[तस्यान्तं नाधिगच्छामि ऋते प्राणविमोक्षणात्] 11-8-9 (64984)
तच्चैवाहं करिष्यामि अद्यैव द्विजसत्तम।
इत्युक्त्वा तु महात्मानं पितरं ब्रह्मवित्तमम्॥ 11-8-10 (64985)
धृतराष्ट्रोऽभवन्मूढः स शोकं परमं गतः।
अभूच्च तूष्णीं राजाऽसौ ध्यायमानो महीपतिः॥ 11-8-11 (64986)
तस्य तद्वचनं श्रुत्वा कृष्णद्वैपायनः प्रभुः।
पुत्रशोकाभिसन्तप्तं पुत्रं वचनमब्रवीत्॥ 11-8-12 (64987)
व्यास उवाच। 11-8-13x (5327)
धृतराष्ट्र महाबाहो शृणु वक्ष्यामि पुत्रक।
श्रुतवानसि मेधावी धर्मार्थकुशलः प्रभो॥ 11-8-13 (64988)
न तेऽस्त्यविदितं किञ्चिद्वेदितव्यं परन्तप।
अनित्यतां हि भूतानां विजानासि न संशयः॥ 11-8-14 (64989)
अध्रुवे जीवलोके च स्थाने वा शाश्वते सति।
जीविते मरणान्ते च कस्माच्छोचसि पुत्रक॥ 11-8-15 (64990)
प्रत्यक्षं तव राजेन्द्र वैरस्यास्य समुद्भवः।
पुत्रं ते कारणं कृत्वा कालयोगेन निर्मितः॥ 11-8-16 (64991)
अवश्यं भवितव्ये च कुरूणां सङ्क्षये नृप।
कस्माच्छोचसि ताञ्शूरान्गतान्परमिकां गतिम्॥ 11-8-17 (64992)
जानता च महाबाहो विदुरेण महात्मना।
यतितं सर्वयत्नेन शमं प्रति जनेश्वर॥ 11-8-18 (64993)
न च दैवकृतो मार्गः शक्यो भूतेन केनचित्।
घटताऽपि चिरं कालं नियन्तुमिति मे मतिः॥ 11-8-19 (64994)
देवतानां हि यत्कार्यं मया प्रत्यक्षतः श्रुतम्।
तत्तेऽहं सम्प्रवक्ष्यामि यथा स्थैर्यं भवेत्तव॥ 11-8-20 (64995)
पुराऽहं परितो यातः सभामैन्द्रीं जितक्लमः।
अपश्यं तत्र च सदा समवेतान्दिवौकसः॥ 11-8-21 (64996)
नारदप्रमुखांश्चापि सर्वान्देवर्षिसत्तमान्।
तत्र चापि मया दृष्टा पृथिवी पृथिवीपते॥ 11-8-22 (64997)
कार्यार्थमुपसम्पन्ना देवतानां समीपतः।
उपगम्य तदा धात्री देवानाह समागतान्॥ 11-8-23 (64998)
यत्कार्यं मम युष्माभिर्ब्रह्मणः सदने तदा।
प्रतिज्ञातं महाभागास्तच्छीघ्रं संविधीयताम्॥ 11-8-24 (64999)
तस्यास्तद्वचनं श्रुत्वा विष्णुर्लोकनमस्कृतः।
उवाच वाक्यं प्रहसन्प्रभुस्तां देवसंसदि॥ 11-8-25 (65000)
धृतराष्ट्रस्य पुत्राणां यस्तु ज्येष्ठः शतस्य वै।
दुर्योधन इति ख्यातः स ते कार्यं करिष्यति॥ 11-8-26 (65001)
तं च प्राप्य महीपालं कृतकृत्या भविष्यसि।
तस्यार्थे पृथिवीपालाः कुरुक्षेत्रं समागताः॥ 11-8-27 (65002)
अन्योन्यं घातयिष्यन्ति दृढैः शस्त्रैः प्रहारिणः।
ततस्ते भविता देवि भारस्य युधि नाशनम्॥ 11-8-28 (65003)
गच्छ शीघ्रं स्वकं स्थानं लोकान्धारय शोभने।
स एष ते सुतो राजँल्लोकसंहारकारणात्॥ 11-8-29 (65004)
कलेरंशः समुत्पन्नो गान्धार्या जठरे नृप।
अमर्षी बलवाञ्शूरः क्रोधनो दुष्प्रसाधनः॥ 11-8-30 (65005)
दैवयोगात्समुत्पन्ना भ्रातरस्तस्य तादृशाः।
शकुनिर्मातुलश्चैव कर्णश्च परमः सखा॥ 11-8-31 (65006)
समुत्पन्ना विनाशार्थं पृथिव्यां सहिता नृपाः।
[यादृशो जायते राजा तादृशोऽस्य जनो भवेत्॥ 11-8-32 (65007)
अधर्मो धर्मतां याति स्वामी चेद्धार्मिको भवेत्।
स्वामिनो गुणदोषाभ्यां भृत्याः स्युर्नात्र संशयः॥ 11-8-33 (65008)
दुष्टं राजानमासाद्य गतास्ते तनया नृप।]
एतमर्थं महाबाहो नारदो वेद तत्त्ववित्॥ 11-8-34 (65009)
आत्मापराधात्पुत्रास्ते विनष्टाः पृथिवीपते।
मा ताञ्शोचस्व राजेन्द्र न हि शोकेऽस्ति कारणम्॥ 11-8-35 (65010)
न हि ते पाण्डवाः स्वल्पमपराध्यन्ति भारत।
पुत्रास्तव दुरात्मानो यैरियं घातिता मही॥ 11-8-36 (65011)
नारदेन च भद्रं ते पूर्वमेव न संशयः।
युधिष्ठिरस्य समितौ राजसूये निवेदितम्॥ 11-8-37 (65012)
पाण्डवाः कौरवाः सर्वे समासाद्य परस्परम्।
नभविष्यन्ति कौन्तेय यत्ते कृत्यं तदाचर॥ 11-8-38 (65013)
नारदस्य वचः श्रुत्वा तथाऽकुर्वत पाण्डवाः।
एतत्ते सर्वमाख्यातं देवगुह्यं सनातनम्॥ 11-8-39 (65014)
कथं ते शोकनाशः स्यात्प्राणेषु च दया प्रभो।
स्नेहश्च पाण्डुपुत्रेषु ज्ञात्वा दैवकृतं विधिम्॥ 11-8-40 (65015)
एष चार्थो महाबाहो पूर्वमेव मया श्रुतः।
कथितो धर्मराजस्य राजसूये कुरूत्तम॥ 11-8-41 (65016)
यतितं धर्मपुत्रेण मया गुह्ये निवेदिते।
अविग्रहे कौरवाणां दैवं तु बलवत्तरम्॥ 11-8-42 (65017)
अनतिक्रमणीयो हि विधी राजन्कथञ्चन।
कृतान्तस्य तु भूतेन स्थावरेण चरेण च॥ 11-8-43 (65018)
भवान्धर्मपरो यत्र बुद्धिश्रेष्ठश्च भारत।
मुह्यते प्राणिनां ज्ञात्वा गतिं चागतिमेव च॥ 11-8-44 (65019)
त्वां तु शोकेन सन्तप्तं मुह्यमानं मुहुर्मुहुः।
ज्ञात्वा युधिष्ठिरो राजा प्राणानपि परित्यजेत्॥ 11-8-45 (65020)
कृपालुर्नित्यशो वीरस्तिर्यग्योनिगतेष्वपि।
स कथं त्वयि राजेन्द्र कृपां नैव करिष्यति॥ 11-8-46 (65021)
मम चैव नियोगेन विधेश्चाप्यनिवर्तनाम्।
पाण्डवानां च कारुण्यात्प्राणान्धारय भारत॥ 11-8-47 (65022)
एवं ते वर्तमानस्य लोके कीर्तिर्भविष्यति।
धर्मार्थः सुमहांस्तात तप्तं स्याच्च तपश्चिरात्॥ 11-8-48 (65023)
पुत्रशोकं समुत्पन्नं हुताशं ज्वलितं यथा।
प्रज्ञाम्भसा महाराज निर्वापय सदा सता॥ 11-8-49 (65024)
वैशम्पायन उवाच। 11-8-50x (5328)
तच्छ्रुत्वा तस्य वचनं व्यासस्यामिततेजसः।
मुहूर्तं समनुध्यायन्धृतराष्ट्रोऽभ्यभाषत॥ 11-8-50 (65025)
महता शोकजालेन प्रणुन्नोऽस्मि द्विजोत्तम।
नात्मानमवबुध्यामि मुह्यमानो मुहुर्मुहुः॥ 11-8-51 (65026)
इदं तु वचनं श्रुत्वा तव देवनियोगजम्।
धारयिष्याम्यहं प्राणान्यतिष्ये च न शोचितुं॥ 11-8-52 (65027)
एतच्छ्रुत्वा तु वचनं व्यासः सत्यवतीसुतः।
धृतराष्ट्रस्य राजेन्द्र तत्रैवान्तरधीयत॥ ॥ 11-8-53 (65028)
इति श्रीमन्महाभारते स्त्रीपर्वणि जलप्रदानिकपर्वणि अष्टमोऽध्यायः॥ 8 ॥*
Mahabharata - Strii Parva - Chapter Text
11-8-0 (65029)
[जनमेजय उवाच। 11-8-0x (5329)
गते भगवति व्यासे धृतराष्ट्रो महीपतिः।
किमचेष्टत विप्रर्षे तन्मे व्याख्यातुमर्हसि॥ 11-8-1 (65030)
तथैव कौरवो राजा धर्मपुत्रो महामनाः।
कृपप्रभृतयश्चैव किमकुर्वत ते त्रयः॥ 11-8-2 (65031)
अश्वत्थाम्नः श्रुतं कर्म शापश्चान्योन्यकारितः।
वृत्तान्तमुत्तरं ब्रूहि यदभाषत सञ्जयः॥ 11-8-3 (65032)
वैशम्पायन उवाच। 11-8-4x (5330)
हते दुर्योधने चैव हते सैन्ये च सर्वशः।
सञ्जयो विगतप्रज्ञो धृतराष्ट्रमुपस्थितः॥ 11-8-4 (65033)
सञ्जय उवाच। 11-8-5x (5331)
आगम्य नानादेशेभ्यो नानाजनपदेश्वराः।
पितृलोकं गता राजन्सर्वे तव सुतैः सह॥ 11-8-5 (65034)
याच्यमानेन सततं तव पुत्रेण भारत।
घातिता पृथिवी सर्वा वैरस्यान्तं विधित्सता॥ 11-8-6 (65035)
पुत्राणामथ पौत्राणां पितॄणां च महीपते।
आनुपूर्व्येण सर्वेषां प्रेतकार्याणि कारय॥ 11-8-7 (65036)
वैशम्पायन उवाच। 11-8-8x (5332)
तच्छ्रुत्वा वचनं घोरं सञ्जयस्य महीपतिः।
गतासुरिव निश्चेष्टो न्यपतत्पृथिवीतले॥ 11-8-8 (65037)
तं शयानमुपागम्य पृथिव्यां पृथिवीपतिम्।
विदुरः सर्वधर्मज्ञ इदं वचनमब्रवीत्॥ 11-8-9 (65038)
उत्तिष्ठ राजन्किं शेषे मा शुचो भरतर्षभ।
एषा वै सर्वसत्वानां लोकेश्वर परा गतिः॥ 11-8-10 (65039)
अभावादीनि भूतानि भावमध्यानि भारत।
अभावनिधनान्येव तत्र का परिदेवना॥ 11-8-11 (65040)
न शोचन्मृतमन्वेति न शोचन्म्रियते नरः।
एवं सांसिद्धिके लोके किमर्थमनुशोचसि॥ 11-8-12 (65041)
अयुध्यमानो म्रियते युध्यमानस्तु जीवति।
कालं प्राप्य महाराज न कश्चिदतिवर्तते॥ 11-8-13 (65042)
कालः कर्षति भूतानि सर्वाणि विविधानि च।
न कालस्य प्रियः कश्चिन्न द्वेष्यः कुरुसत्तम॥ 11-8-14 (65043)
यथा वायुस्तृणाग्राणि संवर्तपति सर्वतः।
तथा कालवशं यान्ति भूतानि भरतर्षभ॥ 11-8-15 (65044)
एकसार्थप्रयातानां सर्वेषां तत्र गामिनाम्।
यस्य कालः प्रयात्यग्रे तत्र का परिदेवना॥ 11-8-16 (65045)
यांश्चापि निहतान्युद्धे राजंस्त्वमनुशोचसि।
न शोच्या हि माहत्मानः सर्वे ते त्रिदिवं गताः॥ 11-8-17 (65046)
न यज्ञैर्दक्षिणावद्भिर्न तपोभिर्न विद्यया।
तथा स्वर्गमुपायान्ति यथा शूरास्तनुत्यजः॥ 11-8-18 (65047)
सर्वे वेदविदः शूराः सर्वे सुचरितव्रताः।
सर्वे चाभिमुखाः क्षीणास्तत्र का परिदेवना॥ 11-8-19 (65048)
शरीराग्निषु शूराणां जुहुवुस्ते शराहुतीः।
हूयमानाञ्शरांश्चैव सेहुरुत्तमपूरषाः॥ 11-8-20 (65049)
एवं राजंस्तवाचक्षे स्वर्ग्यं पन्थानमुत्तमम्।
न युद्धादधिकं किञ्चित्क्षत्रियस्येह विद्यते॥ 11-8-21 (65050)
क्षत्रियास्ते महात्मानः शूराः समितिशोभनाः।
आशिषं परमां प्राप्ता न शोच्याः सर्व एव हि॥ 11-8-22 (65051)
आत्मनाऽऽत्मानमाश्वास्य मा शुचः पुरुषर्षभ।
नाद्य शोकाभिभूतस्त्वं कार्यमुत्स्नष्टुमर्हसि॥ ॥ 11-8-23 (65052)
इति श्रीमन्महाभारते स्त्रीपर्वणि जलप्रदानिकपर्वणि अध्यायः॥
Mahabharata - Strii Parva - Chapter Footnotes
11-8-29 कालः संहारकारणादिति क.छ.ठ.पाठः॥ 11-8-37 नारदेन समाख्यातमिति क.छ.ठ.पाठः॥ 11-8-39 तदाऽशोचन्त पाण्डवा इति झ.पाठः॥ 11-8-48 धर्मश्च सुमहास्तात तप्तस्य तपसश्चिरादिति क.छ.ठ.पाठः॥ 11-8-8 अष्टमोऽध्यायः॥स्त्रीपर्व - अध्याय 009
॥ श्रीः ॥
11.9. अध्यायः 009
Mahabharata - Strii Parva - Chapter Topics
धृतराष्ट्रेण गान्धरीप्रभृतिभिः स्त्रीभिः सह मृतजनावलोकनाय रणाङ्कणम्प्रति प्रयाणम्॥ 1 ॥Mahabharata - Strii Parva - Chapter Text
11-9-0 (65053)
`जनमेजय उवाच। 11-9-0x (5333)
गते व्यासे तु धर्मात्मा धृतराष्ट्रो महीपतिः।
किमचेष्टत विप्रर्षे तन्मे व्याख्यातुमर्हसि॥ 11-9-1 (65054)
वैशम्पायन उवाच। 11-9-2x (5334)
एतच्छ्रुत्वा नरश्रेष्ठश्चिरं ध्यात्वा त्वचेतनः।
सञ्जयं योजयेत्युक्त्वा विदुरं प्रत्यभाषत॥ 11-9-2 (65055)
क्षिप्रमानय गान्धारीं सर्वाश्च भरतस्त्रियः।
कुन्तीं चैव तथा क्षत्तः समानय ममाऽन्तिकम्'॥ 11-9-3 (65056)
एवमुक्त्वा स धर्मात्मा विदुरं धर्मवित्तमम्।
शोकविप्रहतज्ञानो यानमेवान्वरोहत॥ 11-9-4 (65057)
गान्धारी पुत्रशोकार्ता भर्तुर्वचननोदिता।
सह कुन्त्या यतो राजा सह स्त्रीभिरुपाद्रवत्॥ 11-9-5 (65058)
ताः समासाद्य राजानं भृशं शोकसमन्विताः।
आमन्त्र्यान्योन्यमायस्ता भृशमुच्चुक्रुशुस्ततः॥ 11-9-6 (65059)
ताः समाश्वासयत्क्षत्ता ताभ्यश्चार्ततरः स्वयम्।
अश्रुकण्ठीः समारोप्य ततोऽसौ निर्ययौ पुरात्॥ 11-9-7 (65060)
ततः प्रणादः सञ्जज्ञे सर्वेषु कुरुवेश्मसु।
आकुमारं पुरं सर्वमभवच्छोककर्शितम्॥ 11-9-8 (65061)
अदृष्टपूर्वा या नार्यः पुरा देवगणैरपि।
पृथग्जनेन दृश्यन्ते तास्तदा निहतेश्वराः॥ 11-9-9 (65062)
प्रकीर्य केशान्सुशुभान्भूषणान्यवमुच्य च।
एकवस्त्रधरा नार्यः परिपेतुरनाथवत्॥ 11-9-10 (65063)
श्वतेपर्वतरूपेभ्यो गृहेभ्यस्ता निराक्रमन्।
गुहाभ्य इव शैलानां पृषत्यो हतयूथपाः॥ 11-9-11 (65064)
तान्युदीर्णानि नारीणां तदा वृन्दान्यनेकशः।
शोकार्तान्यद्रवन्राजन्किशोरीणामिवाङ्गणे॥ 11-9-12 (65065)
प्रगृह्य बाहून्क्रोशन्त्यः पुत्रान्भ्रातॄन्पितॄनपि।
दर्शयन्ति हता हि स्म युगान्ते लोकसङ्क्षयम्॥ 11-9-13 (65066)
विलपन्त्यो रुदन्त्यश्च धावमानास्ततस्ततः।
शोकेनोपहतज्ञाताः कर्तव्यं न प्रजज्ञिरे॥ 11-9-14 (65067)
व्रीडां जग्मुः पुरा याः स्म सखीनामपि योषितः।
ता एकवस्त्रा निर्लज्जाः श्वश्रूणां पुरतोऽभवन्॥ 11-9-15 (65068)
परस्परं सुसूक्ष्मेषु शोकेष्वाश्वासयन्ति याः।
ताः शोकविह्वला राजन्नवैक्षन्त परस्परम्॥ 11-9-16 (65069)
ताभिः परिवृतो राजा रुदतीभिः सहस्रशः।
निर्ययौ नगराद्दीनस्तूर्णमायोधनं प्रति॥ 11-9-17 (65070)
शिल्पिनो वणिजो वैश्याः सर्वे कर्मोपजीविनः।
ते पार्थिवं पुरस्कृत्य निर्ययुर्नगराद्बहिः॥ 11-9-18 (65071)
तेषां विक्रोशमानानामार्तानां कुरुसङ्क्षये।
प्रादुरासीन्महाञ्शब्दो व्यथयन्भुवनान्युत॥ 11-9-19 (65072)
युगान्तकाले सम्प्राप्ते भूतानां दह्यतामिव।
अभावस्योदयः प्राप्त इति भूतानि मेनिरे॥ 11-9-20 (65073)
भृशमुद्विग्नमनसस्ते पौराः कुरुसङ्क्षये।
प्राक्रोशन्त महाराज स्वनुरक्तास्तदा भृशम्॥ ॥ 11-9-21 (65074)
इति श्रीमन्महाभारते स्त्रीपर्वणि जलप्रदानिकपर्वणि नवमोऽध्यायः॥ 9 ॥
Mahabharata - Strii Parva - Chapter Text
11-9-0 (65075)
वैशम्पायन उवाच। 11-9-0x (5335)
विदुरस्य तु तद्वाक्यं श्रुत्वा तु पुरुषर्षभः।
युज्यतां यानमित्युक्त्वा पुनर्वचनमव्रवीत्॥ 11-9-1 (65076)
धृतराष्ट्र उवाच। 11-9-2x (5336)
11-9-2 (65077)
शीघ्रमानय गान्धारीं सर्वाश्च भरतस्त्रियः।
वधूं कुन्तीमुपादाय याश्चान्यास्तत्र योषितः॥
Mahabharata - Strii Parva - Chapter Footnotes
11-9-4 विगता प्रज्ञा व्यासदत्तं दिव्यज्ञानं यस्य स विगतप्रज्ञः॥ 11-9-7 समारोप्य वाहनेष्विति शेषः॥ 11-9-11 शोकस्यातिगाढत्वात्पुनर्विदुरेणोक्तं अभावदीनीत्यादि॥ 11-9-15 संवर्तयति वर्तुलयति कम्पयति वा॥ 11-9-21 आचक्षे कथयामि॥ 11-9-23 कार्यं अवश्यकर्तव्यमुदकदानादि॥ 11-9-11 पृषत्यश्चित्रहरिण्यः॥ 11-9-12 अङ्गमे नृत्यशिक्षाभूमौ॥ 11-9-9 नवमोऽध्यायः॥स्त्रीपर्व - अध्याय 010
॥ श्रीः ॥
11.10. अध्यायः 010
Mahabharata - Strii Parva - Chapter Topics
मृतबन्धुदिदृक्षया समरभूमिं गच्छतो धृतराष्ट्रस्य मध्येमार्गं कृपकृतवर्मद्रौणिभिः समागमः॥ 1 ॥ तेषां त्रयाणां धृतराष्ट्राश्वासनपूर्वकंस्वाभिमतदेशगमनम्॥ 2 ॥Mahabharata - Strii Parva - Chapter Text
11-10-0 (65078)
वैशम्पायन उवाच। 11-10-0x (5337)
क्रोशमात्रं ततो गत्वा ददृशुस्तान्महारथान्।
शारद्वतं कृपं द्रौणिं कृतवर्माणमेव च॥ 11-10-1 (65079)
ते तु दृष्ट्वैव राजानं प्रज्ञाचक्षुषमीश्वरम्।
अश्रुकण्ठा विनिःश्वस्य रुदन्तमिदमब्रुवन्॥ 11-10-2 (65080)
पुत्रस्तव महाराज कृत्वा कर्म सुदुष्करम्।
गतः सानुचरो राजञ्शक्रलोकं महीपते॥ 11-10-3 (65081)
दुर्योधनबलान्मुक्ता वयमेव त्रयो रथाः।
सर्वमन्यत्परिक्षीणं सैन्यं ते भरतर्षभ॥ 11-10-4 (65082)
इत्येवमुक्त्वा राजानं कृपः शारद्वतस्ततः।
गान्धारीं पुत्रशोकार्तामिदं वचनमब्रवीत्॥ 11-10-5 (65083)
अभीता युध्यमानास्ते घ्नन्तः शत्रुगणान्बहून्।
वीरकर्माणि कुर्वाणाः पुत्रास्ते निधनं गताः॥ 11-10-6 (65084)
ध्रवं सम्प्राप्य लोकांस्ते निर्मलाञ्शस्त्रनिर्जितान्।
भास्वरं देहमास्थाय विहरन्त्यमरा इव॥ 11-10-7 (65085)
सर्वे ह्यभिमुखा राज्ञि युध्यमाना हता युधि।
न हि कश्चिद्धि शूराणां युध्यमानः पराङ्मुखः।
शस्त्रेण निधनं प्राप्तो न च कश्चित्कृताञ्जलिः॥ 11-10-8 (65086)
एतां तां क्षत्रियस्याहुः पुराणाः परमां गतिम्।
शस्त्रेण निधनं सङ्ख्ये तान्न शोचितुमर्हसि॥ 11-10-9 (65087)
न चापि शत्रवस्तेषां मुच्यन्ते राज्ञि पाण्डवाः।
शृणु यत्कृतमस्माभिरश्वत्थामपुरोगमैः॥ 11-10-10 (65088)
अधर्मेण हतं श्रुत्वा भीमसेनेन ते सुतम्।
सुप्तं शिबिरमासाद्य पाण्डूनां कदनं कृतम्॥ 11-10-11 (65089)
पाञ्चाला निहताः सर्वे धृष्टद्युम्नपुरोगमाः।
द्रुपदस्यात्मजाश्चैव द्रौपदेयाश्च पातिताः॥ 11-10-12 (65090)
तथा विशसनं कृत्वा पुत्रशत्रुगणस्य ते।
प्राद्रवाम रणे स्थातुं न हि शक्ष्यामहे त्रयः॥ 11-10-13 (65091)
ते हि शूरा महेष्वासाः क्षिप्रमेष्यन्ति पाण्डवाः।
अमर्षवशमापन्ना वैरं प्रतिजिहीर्षवः॥ 11-10-14 (65092)
ते हतानात्मजाञ्श्रुत्वा प्रमत्ताः पुरुषर्षभाः।
अन्विष्यन्तः पदं शूराः क्षिप्रमेष्यन्ति पाण्डवाः॥ 11-10-15 (65093)
तेषां तु किल्बिषं कृत्वा संस्थातुं नोत्सहामहे।
अनुजानीहि नो राज्ञि मा च शोके मनः कृथाः॥ 11-10-16 (65094)
राजंस्त्वमनुजानीहि धैर्यमातिष्ठ चोत्तमम्।
दिष्टान्तं पश्य चापि त्वं क्षात्रं धर्मं च केवलम्॥ 11-10-17 (65095)
इत्येवमुक्त्वा राजानं कृत्वा चाभिप्रदक्षिणम्।
कृपश्च कृतवर्मा च द्रोमपुत्रश्च भारत॥ 11-10-18 (65096)
अवेक्षमाणा राजानं धृतराष्ट्रं मनीषिणम्।
गङ्गामनु महाराज तूर्णमश्वानचोदयन्॥ 11-10-19 (65097)
अपक्रम्य तु ते राजन्सर्व एव महारथाः।
आमन्त्र्यान्योन्यमुद्विग्नास्त्रिधा ते प्रययुस्तदा॥ 11-10-20 (65098)
जगाम हास्तिनपुरं कृपः शारद्वतस्तदा।
स्वमेव राष्ट्रं हार्दिक्यो द्रौणिर्व्यासाश्रमं ययौ॥ 11-10-21 (65099)
एवं ते प्रययुर्वीरा वीक्षमाणाः परस्परम्।
भयार्ताः पाण्डुपुत्राणामागस्कृत्वा महात्मनाम्॥ 11-10-22 (65100)
समेत्य वीरा राजानं तदा त्वनुदिते रषौ।
विप्रजग्मुर्महात्मानो यथेष्टकमरिन्दमाः॥ 11-10-23 (65101)
[समासाद्याथ वै द्रौणिं पाण्डुपुत्रा महारथाः।
व्यजयंस्ते रणे राजन्विक्रम्य तदनन्तरम्॥] ॥ 11-10-24 (65102)
इति श्रीमन्महाभारते स्त्रीपर्वणि जलप्रदानिकपर्वणि दशमोऽध्यायः॥ 10 ॥
Mahabharata - Strii Parva - Chapter Footnotes
11-10-14 वैरं प्रतिचिकीर्षव इति क.पाठः॥ 11-10-17 दिष्टान्तं मरणम्॥ 11-10-24 तदनन्तरं कृपाचार्यकृतवर्मभ्यां वियोगानन्तरम्॥ 11-10-10 दशमोऽध्यायः॥स्त्रीपर्व - अध्याय 011
॥ श्रीः ॥
11.11. अध्यायः 011
Mahabharata - Strii Parva - Chapter Topics
युधिष्ठिरेण कृष्णादिभिः सह धृतराष्ट्रसमीपमेत्याभिवादनम्॥ 1 ॥ धृतराष्ट्रेण युधिष्ठिरं मृदुलमालिङ्घ्य पश्चाद्भावज्ञेन कृष्णेन पुरतः स्थापितलोहभीमस्य दृढालिङ्गनेन भञ्जनम्॥ 2 ॥Mahabharata - Strii Parva - Chapter Text
11-11-0 (65103)
वैशम्पायन उवाच। 11-11-0x (5338)
हतेषु सर्वेसैन्येषु धर्मराजो युधिष्ठिरः।
शुश्रुवे पितरं वृद्धं निर्यान्तं गजसाह्वयात्॥ 11-11-1 (65104)
सोऽभ्ययात्पुत्रशोकार्तं पुत्रशोकपरिप्लुतः।
शोचमानो महाराज भ्रातृभिः सहितस्तदा॥ 11-11-2 (65105)
अन्वीयमानो वीरेण दाशार्हेण महात्मना।
युयुधानेन च तथा तथैव च युयुत्सुना॥ 11-11-3 (65106)
तमन्वगात्सुदुःखार्ता द्रौपदीशोककर्शिता।
सह पाञ्चालयोषिद्भिर्यास्तत्रासन्समागताः॥ 11-11-4 (65107)
सङ्ग्राममनु बृन्दानि स्त्रीणां भरतसत्तम्।
कुररीणामिवार्तानां क्रोशन्तीनां ददर्श ह॥ 11-11-5 (65108)
ताभिः परिवृतो राजा क्रोशन्तीभिः सहस्रशः।
ऊर्ध्वबाहुभिरार्ताभी रुदतीभिः प्रियाप्रियैः॥ 11-11-6 (65109)
क नु धर्मज्ञता राज्ञः क्व नु साद्यानृशंसता।
यच्चावधीत्पितॄन्भ्रातॄन्गुरुपुत्रान्सखीनपि॥ 11-11-7 (65110)
घातयित्वा कथं द्रोणं भीष्मं चापि पितामहम्।
मनस्तेऽभून्महाबाहो हत्वा चापि जयद्रथम्॥ 11-11-8 (65111)
किं नु राज्येन ते कार्यं पितॄन्भ्रातॄनपश्यतः।
अभिमन्युं च दुर्धर्षं द्रौपदेयांश्च भारत॥ 11-11-9 (65112)
वैशम्पायन उवाच। 11-11-10x (5339)
अतीत्य ता महाबाहुः क्रोशन्तीः कुररीरिव।
ववन्दे पितरं ज्येष्ठं धर्मराजो युधिष्ठिरः॥ 11-11-10 (65113)
ततोऽभिवाद्य पितरं क्रमेणामित्रकर्शनाः।
न्यवेदयन्त नामानि पाण्डवास्तेऽपि सर्वशः॥ 11-11-11 (65114)
तमात्मजान्तकरणं पिता पुत्रवधार्दितः।
अप्रीयमाणः शोकार्तः पाण्डवं परिषस्वजे॥ 11-11-12 (65115)
धर्मराजं परिष्वज्य सान्त्वयित्वा च भारत।
दुष्टात्मा भीममन्वैच्छद्दिधक्षुरिव पावकः॥ 11-11-13 (65116)
स कोपपावकस्तस्य शोकवायुसमीरितः।
भीमसेनमयं दावं दिधक्षुरिव दृश्यते॥ 11-11-14 (65117)
तस्य संकल्पमाज्ञाय भीमं प्रत्यशुभं हरिः।
भीममाक्षिप्य पाणिभ्यां प्रददौ भीममायसम्॥ 11-11-15 (65118)
प्रागेव तु महाबुद्धिर्बुद्ध्वा तस्येङ्गितं हरिः।
संविधानं महाप्राज्ञस्तत्र चक्रे जनार्दनः॥ 11-11-16 (65119)
उपगुह्यैव पाणिभ्यां भीमसेनमयस्मयम्।
बभञ्ज बलवान्राजा मन्यमानो वृकोदरम्॥ 11-11-17 (65120)
नागायुतसमप्राणः स राजा भीममायसम्।
भङ्क्तत्वा विमथितोरस्कः सुस्राव रुधिरं मुखात्॥ 11-11-18 (65121)
ततः पपात मेदिन्यां तथैव रुधिरोक्षितः।
प्रपुष्पिताग्रशिखरः पारिजात इव द्रुमः॥ 11-11-19 (65122)
प्रत्यगृह्णाच्च तं विद्वान्सूतो गावल्गणिस्तदा।
मैवमित्यब्रवीच्चैनं शमयन्सान्त्वयन्निव॥ 11-11-20 (65123)
हतो भीम इति ज्ञात्वा गतमन्युर्महामनाः।
हाहाभीमेति चुक्रोश नृपः शोकसमन्वितः॥ 11-11-21 (65124)
तं विदित्वा गतक्रोधं भीमसेनवधार्दितम्।
वासुदेवो वरः पुंसामिदं वचनमब्रवीत्॥ 11-11-22 (65125)
मा शुचो धृतराष्ट्र त्वं नैव भीमस्त्वया हतः।
आयसी प्रतिमा ह्येषा त्वया निष्पातिता विभो॥ 11-11-23 (65126)
त्वां क्रोधवशमापन्नं विदित्वा भरतर्षभ।
मयाऽपकृष्टः कौन्तेयो मृत्योर्दंष्ट्रान्तरं गतः॥ 11-11-24 (65127)
न हि ते राजशार्दूल बले तुल्योऽस्ति कश्चन।
कः सहेत महाबाहो बाह्वोर्विग्रहणं नरः॥ 11-11-25 (65128)
यथान्तकमनुप्राप्य जीवन्कश्चिन्न मुच्यते।
एवं बाह्वन्तरं प्राप्य तव जीवेन्न कश्चन॥ 11-11-26 (65129)
तस्मात्पुत्रेण या तेऽसौ प्रतिमा कारिताऽऽयसी।
भीमस्य सेयं कौरव्य तवैवोपहृता मया॥ 11-11-27 (65130)
पुत्रशोकाभिसन्तप्तं धर्मादपकृतं मनः।
तव राजेन्द्र तेन त्वं भीमसेनं जिघांससि॥ 11-11-28 (65131)
न त्वेतत्ते क्षमं राजन्हन्यास्त्वं यद्वृकोदरम्।
न हि पुत्रा महाराज जीवेयुस्ते कथञ्चन॥ 11-11-29 (65132)
तस्माद्यत्कृतमस्माभिर्मन्यमानैः शमं प्रति।
अनुमन्यस्व तत्सर्वं मा च शोके मनः कृथाः॥ ॥ 11-11-30 (65133)
इति श्रीमन्महाभारते स्त्रीपर्वणि जलप्रदानिकपर्वणि एकादशोऽध्यायः॥ 11 ॥
Mahabharata - Strii Parva - Chapter Footnotes
11-11-5 स गङ्गामन्विति झ.पाठः॥ 11-11-6 प्रियाप्रियैः पाण्डवानां प्रियाः अभिमन्युप्रभृतयः अप्रियाः दुर्योधनादयः तैर्हेतुभिः क्रोशन्तीभिरिति सम्बन्धः॥ 11-11-15 आक्षिप्य निवार्य। आयसं लोहमयम्॥ 11-11-21 स तु कोपं समुत्सृज्येति झ.पाठः॥ 11-11-28 पुत्रेति धर्मादपकृतमालिङ्गनच्छलेन भीमवधः कर्तव्य इत्याशया॥ 11-11-11 एकादशोऽध्यायः॥स्त्रीपर्व - अध्याय 012
॥ श्रीः ॥
11.12. अध्यायः 012
Mahabharata - Strii Parva - Chapter Topics
कृष्णवाक्याद्रतमन्युना धृतराष्ट्रेण भीमादीनामालिङ्गनम्॥ 1 ॥Mahabharata - Strii Parva - Chapter Text
11-12-0 (65134)
वैशम्पायन उवाच। 11-12-0x (5340)
तत एनमुपातिष्ठञ्शौचार्थं परिचारकाः।
कृतशौचं पुनश्चैनं ओवाच मधुसूदनः॥ 11-12-1 (65135)
राजन्नधीता वेदास्ते शास्त्राणि विविधानि च।
श्रुतानि च पुराणानि राजधर्माश्च केवलाः॥ 11-12-2 (65136)
एवं विद्वान्महाप्राज्ञः समर्थः सन्बलाबले।
आत्मापराधात्कस्मात्त्वं कुरुषे कोपमीदृशम्॥ 11-12-3 (65137)
उक्तवांस्त्वां तदैवाहं भीष्मद्रोणौ च भारत।
विदुरः सञ्जयश्चैव वाक्यं राजन्न तत्कृथाः॥ 11-12-4 (65138)
स वार्यमाणो नास्माकमकार्षीर्वचनं तदा।
पाण्डवानधिकाञ्चानन्बले शौर्ये च कौरव॥ 11-12-5 (65139)
राजा हि यः स्थिरप्रज्ञः स्वयं दोषानवेक्षते।
देशकालविभागं च परं श्रयेः स विन्दति॥ 11-12-6 (65140)
उच्यमानस्तु यः श्रेयो गृह्णीते नो हिताहिते।
आपदः समनुप्राप्य सोऽभ्येति विलयं किल॥ 11-12-7 (65141)
ततोऽन्यवृत्तमात्मानं समवेक्षस्व भारत।
राजंस्त्वं ह्यविधेयात्मा दुर्योधनवशे स्थितः॥ 11-12-8 (65142)
आत्मापराधादापन्नस्तत्किं भीमं जिघांससि।
तस्मात्संयच्छ कोपं त्वं स्वमनुस्मृत्य दुष्कृतम्॥ 11-12-9 (65143)
यस्तु तां स्पर्धया क्षुद्रः पाञ्चालीमानयत्समाम्।
स हतो भीमसेनेन वैरं प्रतिजिहीर्षता॥ 11-12-10 (65144)
आत्मनोऽतिक्रमं पश्य पुंत्रस्य च दुरात्मनः।
यदनागसि पाण्डूनां परित्यागस्त्वया कृतः॥ 11-12-11 (65145)
वैशम्पायन उवाच। 11-12-12x (5341)
एवमुक्तः स कृष्णेन सर्वं सत्यं जनाधिप।
उवाच देवकीपुत्रं धृतराष्ट्रो महीपतिः॥ 11-12-12 (65146)
एवमेतन्महाबाहो यथा वदसि माधव।
पुत्रस्नेहस्तु बलवान्धर्मान्मां समचालयत्॥ 11-12-13 (65147)
दिष्ट्या तु पुरुषव्याघ्रो बलवान्सत्यक्त्रिमः।
त्वद्गुप्तो नागमत्कृष्ण भीमो बाह्वन्तरं मम॥ 11-12-14 (65148)
इदानीं त्वहमव्यग्रो गतमन्युर्गतज्वरः।
मध्यमं पाण्डवं वीरं स्पष्टुमिच्छामि माधव॥ 11-12-15 (65149)
हतेषु पारथिवेन्द्रेषु पुत्रेषु निहतेषु च।
पाण्डुपुत्रेषु मे धर्मः प्रीतिश्चाप्यवतिष्ठते॥ 11-12-16 (65150)
ततः स भीमं च धनञ्जयं च
माद्याश्च पुत्रौ पुरुषप्रवीरौ।
पस्पर्श गात्रैः प्ररुदन्सुगात्रा--
नाश्वास्य कल्याणमुवाच चैनान्॥ ॥ 11-12-17 (65151)
इति श्रीमन्महाभारते स्त्रीपर्वणि जलप्रदानिकपर्वणि द्वादशोऽध्यायः॥ 12 ॥
Mahabharata - Strii Parva - Chapter Footnotes
11-12-4 न तत्कृथाः ततन्न कृतवानरी। अडभाव आर्षः॥ 11-12-7 श्रेयो हिताहिते उच्यमानो न गृहीत इत्यन्वयः॥ 11-12-10 वैरं प्रतिचिकीर्षतेति क.पाठः॥ 11-12-11 अनागसि अपराधाभावे। परित्यागो राज्याप्रदानेन तिरस्कारः॥ 11-12-12 द्वादशोऽध्यायः॥स्त्रीपर्व - अध्याय 013
॥ श्रीः ॥
11.13. अध्यायः 013
Mahabharata - Strii Parva - Chapter Topics
कृष्णयुधिष्ठिरादिभिर्गान्धारीसमीपगमनम्॥ 1 ॥ गान्धारीं युधिष्ठिरंशप्तुकामां विज्ञाय पूर्वमेवागतेन व्यासेन गान्धार्याः कोपापनोदनम्॥ 2 ॥Mahabharata - Strii Parva - Chapter Text
11-13-0 (65152)
वैशम्पायन उवाच। 11-13-0x (5342)
धृतराष्ट्राभ्यनुज्ञातास्ततस्ते कुरुपुङ्गवाः।
अभ्ययुर्भ्रातरः सर्वे गान्धारीं सहकेशवाः॥ 11-13-1 (65153)
ततो ज्ञात्वा हतामित्रं धर्मराजं युधिष्ठिरम्।
गान्धारी पुत्रशोकार्ता शप्तुमैच्छदनिन्दिता॥ 11-13-2 (65154)
तस्याः पापमभिप्रायं विदित्वा पाण्डवान्प्रति।
ऋषिर्गन्धवतीपुत्रः प्रागेव समबुध्यत॥ 11-13-3 (65155)
स गङ्गायामुपस्पृश्य ब्रह्मर्षिः प्रयतः शुचिः।
तं देशमुपसंपेदे पाराशर्यो मनोजवः॥ 11-13-4 (65156)
दिव्येन चक्षुषा ज्ञात्वा मनसाऽनुद्धतेन च।
सर्वप्राणभृतां भावं सततं स तु बृध्यति॥ 11-13-5 (65157)
स स्नुषामब्रवीत्काले कल्याणानि महातपाः।
शापकालमवाक्षिप्य शमकालमुदीरयन्॥ 11-13-6 (65158)
न कोपः पाण्डवे कार्यो गान्धारि शममाप्नुहि।
रजो निगृह्यतां चैव शृणु चेदं वचो मम॥ 11-13-7 (65159)
पुरोक्ता युद्धकाले त्वं पुत्रेण जयमिच्छता।
जयमाशास्व मे मातर्युध्यमानस्य शत्रुभिः॥ 11-13-8 (65160)
सा तथा याच्यमाना त्वं युद्धकाले जयैषिणा।
उक्तवत्यसि कल्याणि यतो धर्मस्ततो जयः॥ 11-13-9 (65161)
वाचाऽप्यतीते मा क्रोधे मनः कुरु यशस्विनि।
स्मरामि भाषमाणां हि त्वामहं सत्यवादिनीम्॥ 11-13-10 (65162)
विग्रहे तुमुले राज्ञां गत्वा परमसंशयम्।
जितं पाण्डुसुतैर्युद्धे नूनं धर्मस्ततोऽधिकः॥ 11-13-11 (65163)
क्षमाशीला पुरा भूत्वा साऽद्य न क्षमसे कथम्।
अधर्मे जहि धर्मज्ञे यतो धर्मस्ततो जयः॥ 11-13-12 (65164)
सा त्वं धर्मं परिस्मृत्य वाचं चोक्तां मनस्विनी।
कोपं संयच्छ गान्धारि पाण्डवेषु सुतेषु ते॥ 11-13-13 (65165)
गान्धार्युवाच। 11-13-14x (5343)
भगवन्नाभ्यसूयामि नैतानिच्छामि नश्यतः।
पुत्रशोकेन तु बलान्मनो विह्वलतीव मे॥ 11-13-14 (65166)
यथैव कुन्त्या कौन्तेया रक्षितव्यास्तथा मया।
तथैव धृतराष्ट्रेण रक्षितव्या यथा त्वया॥ 11-13-15 (65167)
दुःशासनापराधेन शकुनेः सौबलस्य च।
कर्णदुर्योधनाभ्यां च कृतोऽयं कृरुसंक्षयः॥ 11-13-16 (65168)
नापराध्यति बीभत्सुर्न च पार्थो वृकोदरः।
नकुलः सदेवश्च नैव राजा युधिष्ठिरः॥ 11-13-17 (65169)
युध्यमाना हि कौरव्याः कृतमामाः परस्परम्।
निहताः सहिताश्चान्यैस्तत्र नास्त्यप्रियं मम॥ 11-13-18 (65170)
किं तु कर्माकरोद्भीमो वासुदेवस्य पश्यतः।
दुर्योधनं समाहूय गदायुर्द्ध महामनाः॥ 11-13-19 (65171)
शिक्षयाऽभ्यधिकं ज्ञात्वा चरन्तं बहुधा रणे।
अधो नाभ्याः प्रहृतवांस्तन्मे कोपमवर्धयत्॥ 11-13-20 (65172)
कथं नु धर्मं धर्मज्ञाः समुद्दिष्टं महात्मभिः।
त्यजेयुराहवे शूराः प्राणहेतोः कथञ्चनः॥ ॥ 11-13-21 (65173)
इति श्रीमन्महाभारते स्त्रीपर्वणि जलप्रदानिकपर्वणि त्रयोदशोऽध्यायः॥ 13 ॥
Mahabharata - Strii Parva - Chapter Footnotes
11-13-10 न चाप्यतीतां गान्धारि वाचं ते वितथामहम्। स्मरामितोषमाणायास्तथा प्रणिहिता ह्यसि इति झ.पाठे अस्य एनं दुर्योधनं तोषमाणाया आशीर्वचनेन तोषयन्त्यास्ते तव तां तां वाचं वितथां न स्मरामीत्यन्वयः॥ 11-13-13 सा त्वं धर्म परित्यज्य वाचा चोक्त्वा मनस्विनि। इचि छ.ट.पाठः॥ 11-13-18 कृतमानाः कृताहकाराः॥ 11-13-13 त्रयोदशोऽध्यायः॥स्त्रीपर्व - अध्याय 014
॥ श्रीः ॥
11.14. अध्यायः 014
Mahabharata - Strii Parva - Chapter Topics
भीमगान्धारीसंवादः॥ 1 ॥Mahabharata - Strii Parva - Chapter Text
11-14-0 (65174)
वैशम्पायन उवाच। 11-14-0x (5344)
तच्छ्रुत्वा वचनं तस्या भीमसेनोऽथ भीतवत्।
गान्धारीं प्रत्युवाचेदं वचः सानुनयं तदा॥ 11-14-1 (65175)
अधर्मो यदि वा धर्मस्त्रासात्तत्र मया कृतः।
आत्मानं त्रातुकामेन तन्मे त्वं क्षन्तुमर्हसि॥ 11-14-2 (65176)
न हि युद्धेन पुत्रस्ते धर्मेण स महाबलः।
दुःशक्यः केनचिद्धर्तुमतो विषममाचरम्॥ 11-14-3 (65177)
अधर्मेण जितः पूर्वं तेन चापि युधिष्ठिरः।
निकृताश्च सदैव स्म तो विषममाचरम्॥ 11-14-4 (65178)
सैन्यस्यैकोऽवशिष्टोऽयं गदायुद्धे च वीर्यवान्।
न त्यक्ष्यति हृतं राज्यमिति वै तत्कृतं मया॥ 11-14-5 (65179)
एकपत्नीं च पाश्चालीमेकवस्त्रां रजस्वलाम्।
भवत्या विदितं सर्वमुक्तवान्यत्सुतस्तव॥ 11-14-6 (65180)
सुयोधनं त्वसंहृत्य न शक्या भूः ससागरा।
केवला भोक्तुमस्माभिरतश्चैतत्कृतं मया॥ 11-14-7 (65181)
तच्चाप्यप्रियमस्माकं पुत्रस्ते समुपाचरत्।
द्रौपद्या यत्सभामध्ये सव्यमूरुमदर्शयत्॥ 11-14-8 (65182)
तत्रैव वध्यः सोऽस्माकं दुराचारोऽप्ब ते सुतः।
धर्मराजाज्ञया चैव स्थिताः स्म समये पुरा॥ 11-14-9 (65183)
वैरमुद्दीपितं राज्ञि पुत्रेण तव यन्महत्।
क्लेशिताश्च वने नित्यं तत एतत्कृतं मया॥ 11-14-10 (65184)
वैरस्यास्य गताः पारं हत्वा दुर्योधनं रणे।
राज्यं युधिष्ठिरे प्राप्ते वयं च गतमन्यवः॥ 11-14-11 (65185)
गान्धार्युवाच। 11-14-12x (5345)
न तस्यैवं वधस्तात यं प्रशंससि मे सुतम्।
कृतवांश्चापि तत्सर्वं यदिदं भाषसे मयि॥ 11-14-12 (65186)
हताश्वे नकुले यत्तु वृषसेनेन भारत।
अपिबः शोणितं सङ्ख्ये दुःशासनशरीरजम्॥ 11-14-13 (65187)
सद्भिर्विगर्हितं घोरमनार्यजनसेवितम्।
क्रूरं कर्माकृथास्तस्मात्तदयुक्तं वृकोदर॥ 11-14-14 (65188)
भीम उवाच। 11-14-15x (5346)
हताश्वं नकुलं दृष्ट्वा वृषसेनेन संयुगे।
शत्रूणां तु प्रहृष्टानां त्रासः सञ्जनितो मया॥ 11-14-15 (65189)
`स प्रतिज्ञामकरवं पिबाम्यसृगरेरिति'।
रुधिरं नातिचक्राम दन्तोष्ठादम्ब मा शुचः॥ 11-14-16 (65190)
[अन्यस्यापि न पातव्यं रुधिरं किंपुनः स्वकम्।
यथैवात्मा तथा भ्राता विशेषो नास्ति कश्चन॥ 11-14-17 (65191)
वैवस्तितो हि तद्वेद यथावत्कुलनन्दिनि।
मा कृथा हृदि तन्मातर्न तत्पीतं मयाऽनधे॥ 11-14-18 (65192)
केशपक्षपरामर्शे द्रौपद्या द्यूतकारिते।
क्रोधाद्यदब्रवं चाहं तच्च मे हृदि वर्तते॥ 11-14-19 (65193)
क्षत्रधर्माच्च्युतो राज्ञि भवेयं शाश्वतीः समाः।
प्रतिज्ञां तामनिस्तीर्य ततस्तत्कृतवानहम्॥ 11-14-20 (65194)
अनिगृह्य पुरा पुत्रानस्मस्वनपकारिषु।
न ममार्हसि कल्याणि दोषेण परिशङ्कितुम्॥ 11-14-21 (65195)
गान्धार्युवाच। 11-14-22x (5347)
वृद्धस्यास्य शतं पुत्रान्निघ्नंस्त्वमपराजितः।
कस्मानाशेषयः कञ्चिद्येनाल्पमपराधितम्॥ 11-14-22 (65196)
सन्तानमावयोस्तात वृद्धयोर्हृतराज्ययोः।
नाशेषयः कथं यष्टिमेकां वृद्धयुगस्य वै॥ 11-14-23 (65197)
शेषे ह्यवस्थिते तात पुत्राणामल्पकेऽपि च।
मन्ददुःखं भवेदद्य यदि त्वं धर्ममाचरेः॥ ॥ 11-14-24 (65198)
इति श्रीमन्महाभारते स्त्रीपर्वणि जलप्रदानिकपर्वणि चतुर्दशोऽध्यायः॥ 14 ॥
Mahabharata - Strii Parva - Chapter Footnotes
11-14-6 उक्तवान् नहि ते पतयः सन्तीत्यादि। राजपुत्रीं च पाञ्चलीमिति झ.पाठः॥ 11-14-14 चतुर्दशोऽध्यायः॥स्त्रीपर्व - अध्याय 015
॥ श्रीः ॥
11.15. अध्यायः 015
Mahabharata - Strii Parva - Chapter Topics
युधिष्ठिरादिभिर्गान्धारीकुन्त्योरभिवादनम्॥ 1 ॥ सकुन्त्या गान्धार्या द्रौपदीसमाश्वासनम्॥ 2 ॥Mahabharata - Strii Parva - Chapter Text
11-15-0 (65199)
वैशम्पायन उवाच। 11-15-0x (5348)
तमेवमुक्त्वा गान्धारी युधिष्ठिरमपृच्छत।
क्व स राजेति सक्रोधा पुत्रपौत्रवधार्दिता॥ 11-15-1 (65200)
तामभ्यगच्छत्कौन्तेयो वेपमानः कृताञ्जलिः।
युधिष्ठिरस्तु गान्धारीं मधुरं वाक्यमब्रवीत्॥ 11-15-2 (65201)
पुत्रहन्ता नृशंसोऽहं तव देवि युधिष्ठिरः।
शापार्हः पृथिवीनाशे हेतुभूतः शपस्व माम्॥ 11-15-3 (65202)
नहि मे जीवितेनार्थो न राज्येन सुखेन वा।
तादृशान्सुहृदो हत्वा प्रमूढस्य सुहृद्द्रुहः॥ 11-15-4 (65203)
तमेवंवादिनं भीतं सन्निकर्षागतं तदा।
नोवाच किञ्चिद्गान्धारी निःश्वासपरमा नृप॥ 11-15-5 (65204)
तस्मावनतदेहस्य पादयोर्निपतिष्यतः।
युधिष्ठिरस्य नृपतेर्धर्मज्ञा दीर्घदर्शिनी॥ 11-15-6 (65205)
अङ्गुल्यग्राणि ददृशे देवी पट्टान्तरेण सा।
ततः स कुनखीभूतो दर्शनीयनखो नृपः॥ 11-15-7 (65206)
तं दृष्ट्वा चार्जुनोऽगच्छद्वासुदेवस्य पृष्ठतः॥ 11-15-8 (65207)
एवं सञ्चेष्टमानांस्तानितश्चेतश्च भारत।
गान्धारी विगतक्रोधा सांत्वयामास मातृवत्॥ 11-15-9 (65208)
ते पाण्डवा अनुज्ञाता मातरं वीतमत्सराः।
अभ्यगच्छन्त सहिताः पृथां पृथुवलक्षसः॥ 11-15-10 (65209)
चिरस्य दृष्ट्वा पुत्रान्सा पुत्राधिभिरभिप्लुता।
बाष्पमाहारयद्देवी वस्त्रेणावृत्य वै मुखम्॥ 11-15-11 (65210)
ततो बाष्पं समुत्सृज्य सह पुत्रैस्तदा पृथा।
अपश्यदेनाञ्शस्त्रौघैर्बहुधा परिविक्षतान्॥ 11-15-12 (65211)
सा तानेकैकशः पुत्रान्संस्पृशन्ती पुनःपुनः।
अन्वशोचत दुःखार्ता द्रौपदीं निहतात्मजाम्।
रुदन्तीमथ पाञ्चालीं ददर्श पतितां भुवि॥ 11-15-13 (65212)
द्रौपद्युवाच। 11-15-14x (5349)
आर्ये पौत्रास्तु ते सर्वे सौभद्रसहिता गताः।
न त्वां तेऽद्याभिगच्छन्ति चिरं दृष्ट्वा अनिन्दिते।
किन्नु राज्येन मे कार्यं विहीनायाः सुतैर्वरैः॥ 11-15-14 (65213)
तां समाश्वासयामास पृथा पृथललोचना।
उत्थाप्याङ्केन सुदतीं रुदतीं शोककर्शिताम्॥ 11-15-15 (65214)
तयैव सहिता चापि पुत्रैरनुगता पृथा।
अभ्यगच्छत गान्धारीमार्तामार्ततरा स्वयम्॥ 11-15-16 (65215)
वैशम्पायन उवाच। 11-15-17x (5350)
तामुवाचाथ गान्धारी सह कुन्त्या यशस्विनीम्।
मैवं पुत्रीति शोकार्ता पश्य मामपि दुःखितां॥ 11-15-17 (65216)
मन्ये लोकविनाशोऽयं कालपर्यायनोदितः।
अवश्यभावी सम्प्राप्तः स्वभावाद्रोमहर्षणः॥ 11-15-18 (65217)
इदं तत्समनुप्राप्तं विदुरस्य वचो महत्।
असिद्धानुनये कृष्णे यदुवाच महामतिः॥ 11-15-19 (65218)
तस्मिन्नपरिहार्येऽर्थे व्यतीते च विशेषतः।
मा शुचो न हि शोच्यास्ते सङ्ग्रामे निधनं गताः॥ 11-15-20 (65219)
यथैवाहं तथैव त्वं को वामाश्वासयिष्यति।
ममैव ह्यपराधेन कुलमग्र्यं विनाशितम्॥ ॥ 11-15-21 (65220)
इति श्रीमन्महाभारते स्त्रीपर्वणि जलप्रदानिकपर्वणि पञ्चदशोऽध्यायः॥ 15 ॥
Mahabharata - Strii Parva - Chapter Footnotes
11-15-7 कुनखीभूतो हस्तदेश इति शेषः॥ 11-15-14 आर्ये पौत्रा हताः सर्वे इति क.छ.पाठः॥ 11-15-21 वां आवाम्॥ 11-15-15 पञ्चदशोऽध्यायः॥स्त्रीपर्व - अध्याय 016
॥ श्रीः ॥
11.16. अध्यायः 016
Mahabharata - Strii Parva - Chapter Topics
गान्धार्या व्यासप्रसादलब्धदिव्यचक्षुषा रणाङ्कणदर्शंनम्॥ 1 ॥ धृतराष्ट्रयुधिष्ठिरादीनां स्त्रीभिः सह रणभूमिप्रवेशः॥ 2 ॥ स्त्रीणां विलापः॥ 3 ॥ गान्धार्या कृष्णाय विलपत्स्नुषादिप्रदर्शनम्॥ 4 ॥Mahabharata - Strii Parva - Chapter Text
11-16-0 (65221)
वैशम्पायन उवाच। 11-16-0x (5351)
एवमुक्त्वा तु गान्धारी कुरूणामवकर्तनम्।
अपश्यत्तत्र तिष्ठन्ती सर्वं तत्र यथास्थितम्॥ 11-16-1 (65222)
पतिव्रता महाभागा समानव्रतचारिणी।
उग्रेण तपसा युक्ता सततं सत्यवादिनी॥ 11-16-2 (65223)
वरदानेन कृष्णस्य महर्षेः पुण्यकर्मणः।
दिव्यज्ञानबलोपेता विविधं पर्यदेवयत्॥ 11-16-3 (65224)
ददर्श सा बुद्धिमती दूरादपि यथाऽन्तिके।
रणाजिरं तद्वीराणामद्भुतं रोमहर्षणम्॥ 11-16-4 (65225)
अस्थिकेशवसाकीर्णं शोणितौघपरिप्लुतम्।
शरीरैर्बहुसाहस्रैर्विनिकीर्णं समन्ततः॥ 11-16-5 (65226)
गजाश्वरथयोधानामावृतं रुधिराविलैः।
शरीरैरशिरस्कैश्च विदेहैश्च शिरोगणैः॥ 11-16-6 (65227)
गजाश्वनरवीराणां निःसत्वैरभिसंवृतम्।
सृगालवलगोमायुकङ्ककाकनिषेवितम्॥ 11-16-7 (65228)
रक्षसां पुरुषादाना मोदनं कुरराकुलम्।
अशिवाभिः शिवाभिश्च नादितं गृध्रसेवितम्॥ 11-16-8 (65229)
ततो व्यासाभ्यनुज्ञातो धृतराष्ट्रो महीपतिः।
पाण्डुपुत्राश्च ते सर्वे युधिष्ठिरपुरोगमाः॥ 11-16-9 (65230)
वासुदेवं पुरस्कृत्य हतबन्धुं च पार्थिवम्।
कुरुस्त्रियः समादाय जग्मुरायोधनं प्रति॥ 11-16-10 (65231)
समासाद्य कुरुक्षेत्रं ताः स्त्रियो निहतेश्वराः।
अपश्यन्त हतांस्तत्र पुत्रान्भ्रातॄन्पितॄन्पतीन्॥ 11-16-11 (65232)
क्रव्यादैर्भक्ष्यमाणांश्च गोमायुवलवायसैः।
भूतैः पिशाचै रक्षोभिर्विविधैश्च निशाचरैः॥ 11-16-12 (65233)
रुद्राक्रीडनिभं दृष्ट्वा तदा विशसनं स्त्रियः।
कुरर्य इव शोकार्ता विक्रोशन्त्यो निपेतिरे॥ 11-16-13 (65234)
अदृष्टपूर्वं पशन्त्यो दुःखार्ता भरतस्त्रियः।
शरीरेषु स्खलन्त्यश्च न्यपतंश्च परासुवत्॥ 11-16-14 (65235)
श्रान्तानां चाप्यनाथानां क्रन्दन्तीनां भृशं तदा।
पाञ्चालकुरुयोषाणां कृपणं तदभून्महत्॥ 11-16-15 (65236)
दुःखोपहतचित्ताभिः समन्तादनुनादितम्।
दृष्ट्वाऽऽयोधनमत्युग्रं धर्मज्ञा सुबलात्मजा॥ 11-16-16 (65237)
ततः सा पुण्डरीकाक्षमामन्त्र्य पुरुषोत्तमम्।
कुरूणां वैशमं दृष्ट्वा इदं वचनमब्रवीत्॥ 11-16-17 (65238)
पश्यैताः पुण्डरीकाक्ष स्नुषा मे निहतेश्वराः।
प्रकीर्णकेशाः क्रोशन्तीः कुररीरिव माधव॥ 11-16-18 (65239)
अमूस्त्वभिसमागम्य स्मरन्त्यो भरतर्षभान्।
पृथगेवानुपद्यन्ते पुत्रान्भ्रातॄन्पितॄन्पतीन्॥ 11-16-19 (65240)
वीरसूभिर्महाबाहो हतपुत्राभिरावृतम्।
क्वचिच्च वीरपत्नीभिर्हतवीराभिरावृतम्॥ 11-16-20 (65241)
शोभितं पुरुषव्याघ्रैः कर्णभीष्माभिमन्युभिः।
द्रोणद्रुपदशल्यैश्च ज्वलद्भिरिव पावकैः॥ 11-16-21 (65242)
काञ्चनैः कवचैर्निष्कैर्मणिभिश्च महाधनैः।
अद्भुतैर्हस्तकेयूरैः स्रग्भिश्च समलंकृतम्॥ 11-16-22 (65243)
वीरबाहुविसृष्टाभिः शक्तिभिः परिघैरपि।
खङ्गैश्च विविधैस्तीक्ष्णैः सशरैश्च शरासनैः॥ 11-16-23 (65244)
क्रव्यादसङ्घैर्मुदितैस्तिष्ठद्भिः सहितैः क्वचित्।
क्वचिदाक्रीडमानैश्च शयानैश्चापरैः क्वचित्॥ 11-16-24 (65245)
एतदेवंविधं वीर सम्पश्यायोधनं विभो।
`त्वया तु श्रावितं कर्म पुष्कराक्ष महाद्युते'।
पश्यमाना हि दह्यामि शोकेनाहं जनार्दन॥ 11-16-25 (65246)
पाञ्चालानां कुरूणां च विनाशं मधुसूदन।
पञ्चानामपि भूतानामहं वधमचिन्तयम्॥ 11-16-26 (65247)
तान्सुपर्णाश्च गृध्राश्च कर्षयन्त्यसृगुक्षितान्।
विगृह्य चरणैर्गृध्रा भक्षयन्ति सहस्रशः॥ 11-16-27 (65248)
जयद्रथस्य कर्णस्य तथैव द्रोमभीष्मयोः।
अभिमन्योर्विनाशं च कश्चिन्तयितुमर्हति॥ 11-16-28 (65249)
अवध्यकल्पान्निहतान्गतसत्वानचेतसः।
गृध्रकङ्कवलश्येनश्वसृगालसमावृतान्॥ 11-16-29 (65250)
अमर्षवशमापन्नान्दुर्योधनवशे स्थितान्।
पश्येमान्पुरुषव्याघ्रान्संशान्तान्पावकानिव ॥ 11-16-30 (65251)
शयनान्युचिताः सर्वे मृदूनि विमलानि च।
विपन्नास्तेऽद्य वसुधां विवृतामधिशेरते॥ 11-16-31 (65252)
बन्दिभिः सततं काले स्तुवद्भिरभिनन्दिताः।
शिवानामशिवा घोराः शृण्वन्ति विविधा गिरः॥ 11-16-32 (65253)
ये पुरा शेरते वीराः शयनेषु यशस्विनः।
चन्दनागुरुदिग्धाङ्गास्तेऽद्य पांसुषु शेरते॥ 11-16-33 (65254)
तेषामाभरणान्येते गृघ्रगोमायुवायसाः।
आक्षिपन्ति शिवा घोरा विनदन्त्यः पुनः पुनः॥ 11-16-34 (65255)
बाणान्वनिनिशितान्पीतान्निस्त्रिंशान्विमला गदाः।
युद्धाभिमानिनः सर्वे जीवन्त इव बिभ्रति॥ 11-16-35 (65256)
सुरूपवर्णा बहवः क्रव्यादैरवघट्टिताः।
ऋषभप्रतिरूपाक्षाः शेरते च सहस्रशः॥ 11-16-36 (65257)
अपरे पुनरालिङ्ग्य गदाः परिघबाहवः।
शेरतेऽभिमुखाः शूरा दयिता इव योषितः॥ 11-16-37 (65258)
बिभ्रतः कवचान्यन्ये विमलान्यायुधानि च।
न धर्षयन्ति क्रव्यादा जीवन्तीति जनार्दन॥ 11-16-38 (65259)
क्रव्यादैः कृष्यमाणानामपरेषां महात्मनाम्।
शातकौम्भ्यः स्रजश्चित्रा विप्रकीर्णाः समन्ततः॥ 11-16-39 (65260)
एते गोमायवो भीमा निहतानां यशस्विनाम्।
कण्ठान्तरगतान्हारानाक्षिपन्ति सहस्रशः॥ 11-16-40 (65261)
सर्वेष्वपररात्रेषु यानवन्दन्त बन्दिनः।
स्तुतिभिश्च परार्ध्याभिरुपचारैश्च शिक्षिताः॥ 11-16-41 (65262)
तानद्य परिदेवन्ति दुःखार्ता परमाङ्गनाः।
कृपणा वृष्णिशार्दूल दुःखशोकार्दिता भृशम्॥ 11-16-42 (65263)
रक्तोत्पलवनानीव विभान्ति रुचिराणि च।
मुखानि परमस्त्रीणां परिशुष्काणि केशव॥ 11-16-43 (65264)
रुदित्वा विरता ह्येता ध्यायन्त्यः सपरिक्लमाः।
कुरुस्त्रियोऽभिगच्छन्ति तेन तेनैव दुःखिताः॥ 11-16-44 (65265)
एतान्यादित्यवर्णानि तपमीयनिभानि च।
पश्य रोदनताम्राणि वक्त्राणि कुरुयोषिताम्॥ 11-16-45 (65266)
श्यामानां वरवर्णानां गौरीणामेकवाससाम्।
दुर्योधनवरस्त्रीणां पश्य वृन्दानि केशव॥ 11-16-46 (65267)
आसामपरिपूर्णार्थं निशम्य परिदेवितम्।
इतरेरसङ्क्रन्दान्न विजानन्ति योषितः॥ 11-16-47 (65268)
एता दीर्घमिवोच्छ्वस्य विक्रुश्य च विलप्य च।
विस्पन्दमाना दुःखेन वीरा जहति जीवितम्॥ 11-16-48 (65269)
बह्व्यो दृष्ट्व शरीराणि क्रोशन्ति विलपन्ति च।
पाणिभिश्चापरा घ्नन्ति शिरांसि मृदुपाणयः॥ 11-16-49 (65270)
शिरोभिः पतितैर्हस्तैः सर्वाङ्गैः खण्डशः कृतैः।
इतरेतसम्पृक्तैराकीर्णा भाति मेदिनी॥ 11-16-50 (65271)
विशिरस्कानथो कायान्दृष्ट्वा ह्येताननिन्दितान्।
मुह्यन्त्यनुचिता नार्यो विदेहानि शिरांसि च॥ 11-16-51 (65272)
शिरः कायेन सन्धाय प्रेक्षमाणा विचेतसः।
अपश्यन्त्योऽपरं तत्र नेदमस्येऽति दुःखिताः॥ 11-16-52 (65273)
बाहूरुचरणानन्यान्विशिखोन्मथितान्पृथक्।
सन्दधत्योऽसुखाविष्टा मूर्छन्त्येताः पुनःपुनः॥ 11-16-53 (65274)
उत्कृत्तशिरसश्चान्यान्विजग्धान्मृगपक्षिभिः।
दृष्ट्वा काश्चिन्न जानन्ति भर्तॄन्भरतयोषितः॥ 11-16-54 (65275)
पाणिभिश्चापरा घ्नन्ति शिरांसि मधुसूदन।
प्रेक्ष्य भ्रातॄन्पितॄन्पुत्रान्पतींश्च निहतान्परैः॥ 11-16-55 (65276)
बाहुभिश्च सखङ्गैश्च शिरोभिश्च सकुण्डलैः।
अगम्यकल्पा पृथिवी मांसशोणितकर्दमा।
बभूव भरतश्रेष्ठ प्राणिभिर्गतजीवितैः॥ 11-16-56 (65277)
न दुःखेषूचिताः पूर्वं दुःखं गाहन्त्यनिन्दिताः।
भ्रातृभिः पतिभिः पुत्रैरुपाकीर्णां वसुन्धराम्॥ 11-16-57 (65278)
यूथानीव किशोरीणां सुकेशीनां जनार्दन।
स्नुषाणां धृतराष्ट्रस्य पश्य वृन्दान्यनेकशः॥ 11-16-58 (65279)
इतो दुःखतरं किन्नु केशव प्रतिभाति मे।
यदिमाः कुर्वते सर्वा रवमुच्चावचं स्त्रियः॥ 11-16-59 (65280)
नूनमाचरितं पापं मया पूर्वेषु जन्मसु।
या पश्यामि हतान्पुत्रान्पौत्रान्भ्रातृंश्च माधव॥ 11-16-60 (65281)
एवमार्ता विलपती समाभाष्य जनार्दनम्।
गान्धारी पुत्रशोकार्ता द्वदर्श निहतं सुतम्॥ ॥ 11-16-61 (65282)
इति श्रीमन्महाभारते स्त्रीपर्वणि स्त्रीविलापपर्वणि षोडशोऽध्यायः॥ 16 ॥
Mahabharata - Strii Parva - Chapter Footnotes
11-16-1 अवकर्तनं युद्धस्थानम्। सर्वं दिव्येन चक्षुषेति झ.पाठः॥ 11-16-26 पञ्चानां भूतानां पृथिव्यादीनाम्। कुरुपाञ्चालवधात्कृत्स्नं पाञ्चभौतिकं जगन्नष्टमिति भावः॥ 11-16-31 xxxxxxर्येति शेषः॥ 11-16-48 एताः शोचन्तीरभिलक्ष्येति शेषः॥ 11-16-54 विजग्धान्भक्षितान्॥ 11-16-16 षोडशोऽध्यायः॥स्त्रीपर्व - अध्याय 017
॥ श्रीः ॥
11.17. अध्यायः 017
Mahabharata - Strii Parva - Chapter Topics
गान्धार्या दुर्योधनमालिङ्ग्य परिदेवनम्॥ 1 ॥Mahabharata - Strii Parva - Chapter Text
11-17-0 (65283)
वैशम्पायन उवाच। 11-17-0x (5352)
दुर्योधनं हतं दृष्ट्वा गान्धारी शोककर्शिता।
सहसा न्यपतद्भूमौ छिन्नेव कदली वने॥ 11-17-1 (65284)
सा तु लब्ध्वा पुनः संज्ञां विक्रुश्य च विलप्य च।
दुर्योधनमभिप्रेक्ष्य शयानं रुधिरोक्षितम्॥ 11-17-2 (65285)
परिष्वज्याथ गान्धारी कृपणं पर्यदेवयत्।
हाहापुत्रेति शोकार्ता विललापाकुलेन्द्रिया॥ 11-17-3 (65286)
सुगूढजत्रु विपुलं हारनिष्कविभूषितम्।
वारिणा नेत्रजेनोरः सिञ्चन्ती शोकतापिता॥ 11-17-4 (65287)
समीपस्थं हृषीकेशमिद वचनमब्रवीत्।
उपस्थितेऽस्मिन्सङ्ग्रामे ज्ञातीनां संक्षये विभो॥ 11-17-5 (65288)
मामयं प्राह वार्ष्णेय प्राञ्चलिर्नृपसत्तमः।
अस्मिञ्ज्ञातिसमुद्धर्षे जयमम्बा ब्रवीतु मे॥ 11-17-6 (65289)
इत्युक्ते जानती सर्वमहं स्वव्यसनागमम्।
अब्रुवं पुरुषव्याघ्र यतो धर्मस्ततो जयः॥ 11-17-7 (65290)
तथा तु युव्यमानस्त्वं सम्प्रगृह्य सुपुत्रक।
ध्रुवं शखजिताँल्लोकान्प्राप्स्यस्यमरवत्प्रभो॥ 11-17-8 (65291)
इत्येवxxx पूर्वं नैवं शोचामि वै प्रभो।
धृतराष्ट्रं तु शोचामि कृपणं हतबान्धवम्॥ 11-17-9 (65292)
अमर्वणं युधां श्रेष्ठं कृतास्त्रं युद्धदुर्मदम्।
शयानं वीरशयने पश्य माधव मे सुतम्॥ 11-17-10 (65293)
बोऽयं मूर्धावसिक्तानाये याति परन्तपः।
सोऽवं पांसुषु शेतेऽद्य पञ्च कालस्य पर्ययम्॥ 11-17-11 (65294)
दुवं दुर्योधनो वीरो गतिं न सुलभां गतः।
तथा ह्यभिxxxx शेते शयने वीरसेविते॥ 11-17-12 (65295)
यं पुरा पर्युपासीना समयन्ति वरस्त्रियः।
सं वीरशयने सुप्तं रमयन्त्यशिवाः शिवाः॥ 11-17-13 (65296)
यं पुरा पर्युपासीना रमयन्ति महीक्षितः।
महीतलस्यं निहतं गृध्रास्तं पर्युपासते॥ 11-17-14 (65297)
यं पुरा व्यजनैरम्यैरुपवीजन्ति योषितः।
तमद्य पक्षव्यजनै रुपवीजन्ति पक्षिणः॥ 11-17-15 (65298)
एष शेते महाबाहुर्बलवान्सत्यविक्रमः।
सिंहेनेव द्विपः सङ्ख्ये भीमसेनेन पातितः॥ 11-17-16 (65299)
पश्य दुर्योधनं कृष्ण शयानं रुधिरोक्षितम्।
निहतं भीमसेनेन गदां सम्मृज्य भारत॥ 11-17-17 (65300)
अक्षौहिणीर्महाबाहुर्दश चैकां च केशव।
आनयद्यः पुरा सङ्ख्ये सोऽनयान्निधनं गतः॥ 11-17-18 (65301)
एष दुर्योधनः शेते महेष्वासो महाबलः।
शार्दूल इव सिंहेन भीमसेनेन पातितः॥ 11-17-19 (65302)
विदुरं ह्यवमत्यैष पितरं चैव मन्दभाक्।
बालो वृद्धावमानेन मन्दो मृत्युवशं गतः॥ 11-17-20 (65303)
निःसपत्ना मही यस्य त्रयोदशसमाः स्थिता।
स शेते निहतो भूमौ पुत्रो मे पृथिवीपतिः॥ 11-17-21 (65304)
अपश्यं कृष्ण पृथिवीं धार्तराष्ट्रानुशासिताम्।
पूर्णां हस्तिगवाश्वैश्च वार्ष्णेय न तु तच्चिरम्॥ 11-17-22 (65305)
तामेवाद्य महाबाहो पश्याम्यन्यानुशासिताम्।
हीनां हस्तिगवाश्वेन किन्नु जीवामि माधव॥ 11-17-23 (65306)
इदं कष्टतरं पश्य पुत्रस्यापि वधान्मम।
या इमाः पर्युपासन्ते हताञ्शूरान्रणे स्त्रियः॥ 11-17-24 (65307)
प्रकीर्णकेशां सुश्रोणीं दुर्योधनभूजाङ्कगाम्।
रुक्मवेदिनिभां पश्य कृष्ण लक्ष्मणमातरम्॥ 11-17-25 (65308)
नूनमेषा पुरा बाला जीवमाने महाभुजे।
भुजावाश्रित्य रमते सुभुजस्य मनस्विनी॥ 11-17-26 (65309)
कथं तु शतधा नेदं हृदयं मम दीर्यते।
पश्यन्त्या निहतं पुत्रं पौत्रेण सहितं रणे॥ 11-17-27 (65310)
पुत्रं रुधिरसंसिक्तमुपजिघ्रत्यनिन्दिता।
दुर्योधनं तु वामोरूः पाणिना परिमार्जती॥ 11-17-28 (65311)
किन्नु शोचति भर्तारं हतपुत्रं मनस्विनी।
तथा ह्यवस्थिता भाति पुत्रं चाप्यभिवीक्ष्य सा॥ 11-17-29 (65312)
स्वशिरः पञ्चशाखाभ्यामभिहत्यायतेक्षणा।
पतत्युरसि वीरस्य कुरुराजस्य माधव॥ 11-17-30 (65313)
पुण्डरीकनिभा भाति पुण्डरीकान्तरप्रभा।
मुखं प्रमृज्य पुत्रस्य भर्तुश्चैव तपस्विनी॥ 11-17-31 (65314)
यदि सत्यागमाः सन्ति यदि वै श्रुतयस्तथा।
ध्रुवं लोकानवाप्तोऽयं नृपो बाहुबलार्जितान्॥ ॥ 11-17-32 (65315)
इति श्रीमन्महाभारते स्त्रीपर्वणि स्त्रीविलापपर्वणि सप्तदशोऽध्यायः॥ 17 ॥
Mahabharata - Strii Parva - Chapter Footnotes
11-17-27 पुत्रेण सहितं रणे इति झ.पाठः॥ 11-17-30 पञ्चशाखाभ्यां पञ्चाङ्गुलिभ्यां पाणिभ्याम्॥ 11-17-17 सप्तदशोऽध्यायः॥स्त्रीपर्व - अध्याय 018
॥ श्रीः ॥
11.18. अध्यायः 018
Mahabharata - Strii Parva - Chapter Topics
कृष्णम्प्रति गान्धारीवचनम्॥ 1 ॥Mahabharata - Strii Parva - Chapter Text
11-18-0 (65316)
गान्धार्युवाच। 11-18-0x (5353)
पश्य माधव पुत्रान्मे शतसङ्ख्याञ्जितक्लमान्।
गदया भीमसेनेन भूयिष्ठं निहतान्रणे॥ 11-18-1 (65317)
इदं दुःखतरं मेऽद्य यदिमा मुक्तमूर्धजाः।
हतपुत्रा रणे बालाः परिधावन्ति मे स्नुषाः॥ 11-18-2 (65318)
प्रासादतलचारिण्यश्चरमैर्भूषणान्वितैः।
कायेनाद्य स्पृशन्तीमां रुधिरार्द्रां वसुन्धराम्॥ 11-18-3 (65319)
कृच्छ्रादुत्सारयन्ति स्म गृध्रगोमायुवायसान्।
दुःखेनार्ता विघूर्णन्त्यो मत्ता इव चरन्त्युत॥ 11-18-4 (65320)
एषाऽन्या त्वनवद्याङ्गी करसम्मितमध्यमा।
घोरमायोधनं दृष्ट्वा निपतत्यतिदुःखिता॥ 11-18-5 (65321)
दृष्ट्वा मे पार्थिवसुतामेतां लक्ष्मणमातरम्।
राजपुत्रीं महाबाहो मनो न ह्युपशाम्यति॥ 11-18-6 (65322)
भ्रातॄंश्चान्याः पितॄंश्चान्याः पुत्रांश्च निहतान्भुवि।
दृष्ट्वा परिपतन्त्येषाः प्रगृह्य सुमहाभुजान्॥ 11-18-7 (65323)
मध्यमानां तु नारीणां वृद्धानां चापराजित।
आक्रन्दं हतबन्धूना दारुणे वैशसे शृणु॥ 11-18-8 (65324)
रथनीडानि देहांश्च हतानां गजवाजिनाम्।
आश्रित्य श्रममोहार्ताः स्थिताः पश्य महाभुज॥ 11-18-9 (65325)
अन्या चापहृतं कायाच्चारुकुण्डलमुन्नसम्।
स्वस्य बन्धोः शिरः कृष्ण गृहीत्वा पश्य तिष्ठति॥ 11-18-10 (65326)
पूर्वजातिकृतं पापं मन्ये नाल्पमिवानघ।
एताभिर्निरवद्याभिर्मया चैवाल्पपुण्यया।
यदिदं धर्मराजेन घातितं नो जनार्दन॥ 11-18-11 (65327)
न हि नाशोऽस्ति वार्ष्णेय कर्मणोः शुभपापयोः॥ 11-18-12 (65328)
प्रत्यग्रवयसः पश्य दर्शनीयकुचाननाः।
कुलेषु जाता हीमत्यः कृष्णपक्ष्माक्षिमूर्धजाः॥ 11-18-13 (65329)
हंसगद्गदभाषिण्यो दुःखशोकप्रमोहिताः।
सारस्य इव वाशन्त्यः पतिताः पश्य माधव॥ 11-18-14 (65330)
फुल्लुपद्यप्रकाशानि पुण्डरीकाक्ष योषिताम्।
अनवद्यानि वक्त्राणि तापयत्येष रश्मिवान्॥ 11-18-15 (65331)
सेर्ष्याणां मम पुत्राणां वासुदेवावरोधनम्।
मत्तमातङ्गदर्पाणां पश्यन्त्यद्य पृथग्जनाः॥ 11-18-16 (65332)
शतचन्द्राणि चर्माणि ध्वजांश्चादित्यवर्चसः।
रौक्माणि चैव वर्माणि निष्कानपि च काञ्चनान्॥ 11-18-17 (65333)
शिरस्त्राणानि चैतानि पुत्राणां मे महीतले।
पश्य दीप्तानि गोविन्द पावकान्सुहुतानिव॥ 11-18-18 (65334)
एष दुःशासनः शेते शूरेणामित्रघातिना।
पीतशोणिxx सर्वाङ्गो युधि भीमेन पातितः॥ 11-18-19 (65335)
गदया भीमसेनेन पश्य माधव मे सुतम्।
द्यूतक्लेशाननुस्मृत्य द्रौपदीचोदितेन च॥ 11-18-20 (65336)
उक्ता ह्यनेन पाञ्चाली सभायां द्यूतनिर्जिता।
प्रियं चिकीर्षता भ्रातुः कर्णस्य च जनार्दन॥ 11-18-21 (65337)
सहैव सहदेवेन नकुलेनार्जुनेन च।
दासीभूताऽसि पाञ्चालि क्षिप्रं प्रविश नो गृहान्॥ 11-18-22 (65338)
ततोऽहमब्रुवं कृष्ण तदा दुर्योधनं नृपम्।
मृत्युपाशपरिक्षिप्तां द्रौपदीं पुत्र वर्जय॥ 11-18-23 (65339)
निबोधैनं सुदुर्बुद्धिं मातुलं कलहप्रियम्।
क्षिप्रमेनं परित्यज्य पुत्र संशाम्य पाण्डवैः॥ 11-18-24 (65340)
न बुद्ध्यसे त्वं दुर्बुद्धे भीमसेनममर्षणम्।
वाङ्गराचैस्तुदंस्तीक्ष्णैरुल्काभिरिव कुञ्जरम्॥ 11-18-25 (65341)
तानेवं रहसि क्रुद्धो वाक्शल्यानवधारयन्।
उत्ससर्ज विषं तेषु सर्पो गोवृषभेष्विव॥ 11-18-26 (65342)
एष दुःशासनः शेते विक्षिप्य विपुलौ भुजौ।
निहतो भीमसेनेन सिहेनेव महागजः॥ 11-18-27 (65343)
अत्यर्थमकरोद्रौद्रं भीमसेनोऽत्यमर्षणः।
दुःशासनस्य यत्क्रुद्धोऽपिबच्छोणितमाहवे॥ ॥ 11-18-28 (65344)
इति श्रीमन्महाभारते स्त्रीपर्वणि स्त्रीविलापपर्वणि अष्टादशोऽध्यायः॥ 18 ॥
Mahabharata - Strii Parva - Chapter Footnotes
11-18-5 करसम्मितमध्यमा मुष्टिप्रमितमध्या॥ 11-18-23 क्षिप्तं शकुनिं पुत्र वजेयेति झ.पाठः॥ 11-18-18 अष्टादशोऽध्यायः॥स्त्रीपर्व - अध्याय 019
॥ श्रीः ॥
11.19. अध्यायः 019
Mahabharata - Strii Parva - Chapter Topics
कृष्णम्प्रति गान्धारीवचनम्॥ 1 ॥Mahabharata - Strii Parva - Chapter Text
11-19-0 (65345)
गान्धार्युवाच। 11-19-0x (5354)
एष माधव पुत्रो मे विकर्णः पाज्ञसम्मतः।
भूमौ विनिहतः शेते भीमेन शतधा कृतः॥ 11-19-1 (65346)
गजमध्ये हतः शेते विकर्णो मधुसूदन।
नीलमेघपरिक्षिप्तः शरदीव निशाकरः॥ 11-19-2 (65347)
अस्य चापग्रहेणैव पाणिः कृतकिणो महान्।
कथञ्चिच्छिद्यते गृध्रैरत्तुकामैस्तलत्रवान्॥ 11-19-3 (65348)
अस्य भार्याऽऽमिषप्रेप्सून्गृध्रकाकांस्तपस्विनी।
वारयत्यनिशं बाला न च शक्नोति माधव॥ 11-19-4 (65349)
युवा वृन्दारकसमो विकर्णः पुरुषर्षभ।
सुखोषितः सुखार्हश्च शेते पांसुषु माधव॥ 11-19-5 (65350)
कर्णिनालीकनाराचैर्भिन्नमर्माणमाहवे।
अद्यापि न जहात्येनं लक्ष्मीर्भरतसत्तमम्॥ 11-19-6 (65351)
एष सङ्ग्रामशूरणे प्रतिज्ञां पालयिष्यता।
दुर्मुखोऽभिमुखः शेते हतोऽरिगणहा रणे॥ 11-19-7 (65352)
तस्यैतद्वदनं कृष्ण श्वापदैरर्धभक्षितम्।
विभात्यभ्यधिकं तात सप्तम्यामिव चन्द्रमाः॥ 11-19-8 (65353)
शूरस्य हि रणे कृष्ण पश्याननमथेदृशम्।
स कथं निहतोऽमित्रैः पांसून्ग्रसति मे सुतः॥ 11-19-9 (65354)
यस्याहवमुखे सौम्य स्थाता नैवोपपद्यते।
स कथं दुर्मुखोऽमित्रैर्हतो विबुधलोकजित्॥ 11-19-10 (65355)
चित्रसेनं हतं भूमौ शयानं मधुसूदन।
धार्तराष्ट्रमिमं पश्य प्रतिमानं धनुष्मताम्॥ 11-19-11 (65356)
तं चित्रमाल्याभरणं युवत्यः शोककर्शिताः।
क्रव्यादसङ्घैः सहिता रुदन्त्यः पर्युपासते॥ 11-19-12 (65357)
स्त्रीणां रुदितनिर्घोषः श्वापदानां च गर्जितम्।
चित्ररूपमिदं कृष्ण विमृश्य प्रतिभाति मे॥ 11-19-13 (65358)
युवा वृन्दारको नित्यं प्रवरस्त्रीनिषेवितः।
विविंशतिरसौ शेते ध्वस्तः पांसुषु माधव॥ 11-19-14 (65359)
शरसङ्कृत्तवर्माणं वीरं विशसने हतम्।
परिवार्यासते गृध्राः परिविंशं विविंशतिम्॥ 11-19-15 (65360)
प्रविश्य समरे शूरः पाण्डवानामनीकिनीम्।
स वीरशयने शेते परः सत्पुरुषोचिते॥ 11-19-16 (65361)
स्मितोपपन्नं सुनसं सुभ्रु ताराधिपोपमम्।
अतीव सौम्यवदनं कृष्ण पश्य विविंशतेः॥ 11-19-17 (65362)
यं स्म तं पर्युपासन्ते बहुधा वरयोषितः।
क्रीडन्तमिव गन्धर्वं देवकन्याः सहस्रशः॥ 11-19-18 (65363)
हन्तारं परसैन्यानां शूरं समितिशोभनम्।
निबर्हणममित्राणां दुःसहं विषहेत कः॥ 11-19-19 (65364)
दुःसहस्यैतदाभाति शरीरं संवृतं शरैः।
गिरिरात्मरुहैः फुल्लैः कर्णिकारैरिवाचितः॥ 11-19-20 (65365)
शातकौम्भ्या स्रजा भाति कवचेन च भास्वता।
अग्निनेव गिरिः श्वेतो गतासुरपि दुःसहः॥ ॥ 11-19-21 (65366)
इति श्रीमन्महाभारते स्त्रीपर्वणि स्त्रीविलापपर्वणि एकोनविंशोऽध्यायः॥ 19 ॥
स्त्रीपर्व - अध्याय 020
॥ श्रीः ॥
11.20. अध्यायः 020
Mahabharata - Strii Parva - Chapter Topics
कृष्णंप्रति गान्धार्या रुदन्तीनां स्त्रीणां प्रदर्शनम्॥ 1 ॥Mahabharata - Strii Parva - Chapter Text
11-20-0 (65367)
गान्धार्युवाच। 11-20-0x (5355)
अध्यर्धगुणमाहुर्यं बले शौर्ये च केशव।
पित्रा त्वया च दाशार्ह दृप्तं सिंहमिवोत्कटम्॥ 11-20-1 (65368)
यो बिभेद चमूमेको मम पुत्रस्य दुर्भिदाम्।
स भूत्वा मृत्युरन्येषां स्वयं मृत्युवशं गतः॥ 11-20-2 (65369)
तस्योपलक्षये कृष्ण कार्ष्णेरमिततेजसः।
अभिमन्योर्हतस्यापि प्रभा नैवोपशाम्यति॥ 11-20-3 (65370)
एषा विराटदुहिता स्नुषा गाण्डीवधन्वनः।
हतं बाला पतिं वीरं दृष्ट्वा शोचत्यनिन्दिता॥ 11-20-4 (65371)
तमेषा हि समागम्य भार्या भर्तारमन्तिके।
विराटदुहिता कृष्ण पाणिना परिमार्जति॥ 11-20-5 (65372)
तस्य वक्त्रमुपाघ्राय सौभद्रस्य मनस्विनी।
विबुद्धकमलाकारं कम्बुवृत्तशिरोधरम्॥ 11-20-6 (65373)
कामरूपवती चैषा परिष्वजति भामिनी।
लज्जमाना पुरा चैनं माध्वीकमदमूर्च्छिता॥ 11-20-7 (65374)
तस्य क्षतजसन्दिग्धं जातरूपपरिष्कृतम्।
विमुच्य कवचं कृष्ण शीरमभिवीक्षते॥ 11-20-8 (65375)
अवेक्षमाणा तं बाला कुष्ण त्वामभिभाषते।
अयं ते पुण्डरीकाक्ष कसदृशाक्षो निपातितः॥ 11-20-9 (65376)
बले वीर्ये च सदृशस्तेजसा चैव तेऽनघ।
रूपेण च तथाऽत्यर्थं शेते भुवि निपातितः॥ 11-20-10 (65377)
अत्यन्तं सुकुमारस्य राङ्कवाजिनशायिनः।
कच्चिदद्य शरीरं ते भूमौ न परितप्यते॥ 11-20-11 (65378)
मातङ्गभुजवर्ष्णाणौ ज्याक्षेपकठिनत्वचौ।
काञ्चनाङ्गदिनौ शेते निक्षिप्य विपुलौ भुजौ।
व्यायम्य बहुधा नूनं सुखसुप्तः श्रमादिव॥ 11-20-12 (65379)
एवं विलपतीमार्तां किं मां न प्रतिभाषसे।
न स्मराम्यपराधं ते किं मां न प्रतिभाषसे॥ 11-20-13 (65380)
ननु मां त्वं पुरा दूरादभिवीक्ष्याभिभाषसे।
न स्मराम्यपराधं मे किं मां न प्रतिभाषसे॥ 11-20-14 (65381)
आर्यामार्य सुभद्रां तवमिमां श्च त्रिदशोपमान्।
पितॄन्मां चैव दुःखार्तां विहाय क्व गमिष्यसि॥ 11-20-15 (65382)
तस्य शोणितदिग्धान्वै केशानुन्नम्य पाणिना।
उत्सङ्गे वक्तमाधाय जीवन्तमिव पृच्छति॥ 11-20-16 (65383)
स्वस्रीयं वासुदेवस्य पुत्रं गाण्डीवधन्वनः।
कथं त्वां रणमध्यस्थं जघ्रुरेते महारथाः॥ 11-20-17 (65384)
धिगस्तु क्रूरकर्तॄंस्तान्कृपकर्णजयद्रथान्।
द्रोणद्रौणायतनी चोभौ यैरहं विधवा कृता॥ 11-20-18 (65385)
रथर्षभाणां सर्वेषां कथमासीत्तदा मनः।
बालं त्वां पिरवार्यैकमनेकेषां च जघ्नताम्॥ 11-20-19 (65386)
कथं नु पाण्डवानां च पाञ्चालानां तु पश्यताम्।
त्वं वीर निधनं प्राप्तो नाथवान्सन्ननाथवत्॥ 11-20-20 (65387)
दृष्ट्वा बहुभिराक्रन्दे निहतं त्वां पिता तव।
वीरः पुरुषशार्दूलः कथं जीवति पाण्डवः॥ 11-20-21 (65388)
न राज्यलाभो विपुलः शत्रूणां च पराभवः।
प्रीतिं धास्यति पार्थानां त्वामृते पुष्करेक्षण॥ 11-20-22 (65389)
तव शस्त्रजिताँल्लोकान्धर्मेण च दमेन च।
क्षिप्रमन्वागमिष्यामि तत्र मां प्रतिपालय॥ 11-20-23 (65390)
दुर्मरं पुनरप्राप्ते काले भवति केनचित्।
यदहं त्वां रणे दृष्ट्वा हतं जीवामि दुर्भगा॥ 11-20-24 (65391)
कामिदानीं नरव्याघ्र श्लक्ष्णया स्मितया गिरा।
पितृलोके समेत्यान्यां मामिवामन्त्रयिष्यसि॥ 11-20-25 (65392)
नूनमप्सरसां स्वर्गे मनांसि प्रमथिष्यसि।
परमेण च रूपेण गिरा च स्मितपूर्वया॥ 11-20-26 (65393)
प्राप्य पुण्यकृताँल्लोकानप्सरोभिः समेयिवान्।
सौभद्र विहन्काले स्मरेथाः सुकृतानि मे॥ 11-20-27 (65394)
एतावानिह संवासो विहितस्ते मया सह।
षण्मासान्सप्तमे मासि त्वं वीर निधनं गतः॥ 11-20-28 (65395)
इत्युक्तवचनामेनामपकर्षन्ति दुःखिताम्।
उत्तरां मोघसङ्कल्पां मत्स्यराजकुलस्त्रियः॥ 11-20-29 (65396)
उत्तरामपकृष्यैनामार्तामार्ततराः स्वयम्।
विराटं निहतं दृष्ट्वा क्रोशन्ति विलपन्ति च॥ 11-20-30 (65397)
द्रोणास्त्रशरसङ्कृत्तं शयानं रुधिरोक्षितम्।
विराटं वितुदन्त्येते गृध्रगोमायुवायसाः॥ 11-20-31 (65398)
वितुद्यमानं विहगैर्विराटमसितेक्षणाः।
न शक्नुवन्ति विहगान्निवारयितुमातुराः॥ 11-20-32 (65399)
आसामातपतप्तानामायासेन च योषिताम्।
श्रमेण च विवर्णानां वक्त्राणां विप्लुतं वपुः॥ 11-20-33 (65400)
उत्तरं चाभिमन्युं च काम्भोजं च सुदक्षिणम्।
कार्ष्णिनाऽभिहतं पश्य लक्ष्मणं प्रियदर्शनम्। 11-20-34 (65401)
आयोधनशिरोमध्ये शयानं पश्य माधव॥ ॥ 11-20-35 (65402)
इति श्रीमन्महाभारते कर्णपर्वणि
Mahabharata - Strii Parva - Chapter Footnotes
11-20-1 अध्यर्धगुणं सार्धुगुणम्॥ 1 ॥ 11-20-24 दुष्करं पुनरप्राप्तं काले भवति केनचित् इति क.पाठः। दुष्करं प्रति न प्राप्तमित्यादि छ.ट. पाठः॥ 11-20-33 वपुः शस्ताकृतिः। वपुः क्लीबं तनौ शस्ताकृतावपीति मेदिनी॥ 11-20-20 विंशतितमोऽध्यायः॥स्त्रीपर्व - अध्याय 021
॥ श्रीः ॥
11.21. अध्यायः 021
Mahabharata - Strii Parva - Chapter Topics
गान्धार्या कृष्णंप्रति बाह्लिकादीनां तथा तत्स्त्रीणां च प्रदर्शनम्॥ 1 ॥Mahabharata - Strii Parva - Chapter Text
11-21-0 (65403)
गान्धार्युवाच। 11-21-0x (5356)
आवन्त्यं भीमसेनेन भक्षयन्ति निपातितम्।
गृध्रगोमायवः शूरं दूरबन्धुमबन्धुवत्॥ 11-21-1 (65404)
तं पश्य कदनं कृत्वा शूरणां मधुसूदन।
शयानं वीरशयने रुधिरेण समुक्षितम्॥ 11-21-2 (65405)
तं सृगालाश्च कङ्काश्च क्रव्यादाश्च पृथग्विधाः।
तेनतेन विकर्षन्ति पश्य कालस्य पर्ययम्॥ 11-21-3 (65406)
शयानं वीरशयने शूरमाक्रन्दकारिणम्।
आवन्त्यमभितो नार्यो रुदत्यः पर्युपासते॥ 11-21-4 (65407)
प्रातिपेयं महेष्वासं हत भीमेन बाह्लिकम्।
प्रसुप्तमिव शार्दूलं पश्य कृष्णमनस्विनम्॥ 11-21-5 (65408)
अतीव मुखवर्णोऽस्य निहतस्यापि शोभते।
सोमस्यवाभिपूर्णस्य पौर्णमास्यां समुद्यतः॥ 11-21-6 (65409)
पुत्रशोकाभितप्तेन प्रतिज्ञां चाभिरक्षता।
पाकशासनिना सङ्ख्ये वार्धक्षत्रिर्निपातितः॥ 11-21-7 (65410)
एकादशचमूर्भित्त्वा रक्ष्यमाणं महात्मभिः।
सत्यं चिकीर्षता पश्य हतमेनं जयद्रथम्॥ 11-21-8 (65411)
सिन्धुसौवीरभर्तारं दर्पपूर्णं मनस्विनम्।
भक्षयन्ति शिवा गृध्रा जनार्दन जयद्रथम्॥ 11-21-9 (65412)
संरक्ष्यमाणं भार्याभिरनुरक्ताभिरच्युत।
भीषयन्त्यो विकर्षन्ति गहनं निम्नमन्तिकात्॥ 11-21-10 (65413)
तमेताः पर्युपासन्ते वीक्षमाणा महाभुजम्।
सिन्धुसौवीरकाम्भोजगान्धारयवनस्त्रियः॥ 11-21-11 (65414)
यदा कृष्णामुपादाय प्राद्रवत्केकयैः सह।
तदैव वध्यः पाण्डूनां जनार्दन जयद्रथः॥ 11-21-12 (65415)
दुःशलां मानयद्भिस्तु तदा मुक्तो जयद्रथः।
कथमद्य न तां कृष्ण मानयन्ति स्म ते पुनः॥ 11-21-13 (65416)
सैन्धवं मे सुता बाला प्रस्खलन्तीव दुःखिता।
प्रमापयन्ती चात्मानमाक्रोशन्तीव पाण्डवान्॥ 11-21-14 (65417)
किन्नु दुःखतरं कृष्ण परं मम भविष्यति।
यत्सुता विधवा बाला स्नुषाश्च निहतेश्वराः॥ 11-21-15 (65418)
हाहा धिग्धुःशलां पश्य वीतशोकभयामिव।
भर्तुः शिर अपश्यन्तीं धावमानामितस्ततः॥ 11-21-16 (65419)
वारयामास यः सर्वान्पाण्डवान्पुत्रगृद्धिनः।
स हत्वा विपुलाः सेनाः स्वयं मृत्युवशं गतः॥ 11-21-17 (65420)
तं मत्तमिव मातङ्गं वीरं परमदुर्जयम्।
परिवार्य रुदन्त्येताः स्त्रियश्चन्द्रोपमाननाः॥ ॥ 11-21-18 (65421)
इति श्रीमन्महाभारते स्त्रीपर्वणि स्त्रीविलापपर्वमि द्वाविंशोऽध्यायः॥ 22 ॥
Mahabharata - Strii Parva - Chapter Footnotes
11-21-13 कलावशेषो हि इति क. पाठः॥ 11-21-14 रोरूयते दुःखचयाभितप्ता इति क.ट.पाठः॥ 11-21-21 एकविंशतितमोऽध्यायः॥स्त्रीपर्व - अध्याय 022
॥ श्रीः ॥
11.22. अध्यायः 022
Mahabharata - Strii Parva - Chapter Topics
गान्धार्या कृष्णम्प्रति बाह्लिकादीनां तथा तत्स्त्रीणां च प्रदर्शनम्॥ 1 ॥Mahabharata - Strii Parva - Chapter Text
11-22-0 (65422)
गान्धार्युवाच। 11-22-0x (5357)
आवनत्यं भीमसेनेन भक्षयन्ति निपातितम्।
गृध्रगोमायवः शूरं दूरबन्धुमबन्धुवत्॥ 11-22-1 (65423)
तं पश्य कदनं कृत्वा शूराणां मधुसूदन।
शयानं वीरशयने रुधिरेण समुक्षितम्॥ 11-22-2 (65424)
तं सृगालाश्च कङ्काश्च क्रव्यादाश्च पृथग्विधाः।
तेनतेन विकर्षन्ति पश्य कालस्य पर्ययम्॥ 11-22-3 (65425)
शयानं वीरशयने शूरमाक्रन्दकारिणम्।
आवन्त्यमभितो नार्यो रुदत्यः पर्युपासते॥ 11-22-4 (65426)
प्रातिपेयं महेष्वासं हतं भीमेन बाह्लिकम्।
प्रसुप्तमिव शार्दुलं पश्य कृष्णमनस्विनम्॥ 11-22-5 (65427)
अतीव मुखवर्णोऽस्य निहतस्यापि शोभते।
सोमस्यवाभिपूर्णस्य पौर्णमास्यां समुद्यतः॥ 11-22-6 (65428)
पुत्रशोकाभितप्तेन प्रतिज्ञां चाभिरक्षता।
पाकशासनिना सङ्ख्ये वार्धक्षत्रिर्निपातितः॥ 11-22-7 (65429)
एकादशचमूर्भित्त्वा रक्ष्यमाणं महात्मभिः।
सत्यं चिकीर्षता पश्य हतमेनं जयद्रथम्॥ 11-22-8 (65430)
सिन्धुसौवीरभर्तारं दर्पपूर्णं मनस्विनम्।
भक्षयन्ति शिवा गृध्रा जनार्दन जयद्रथम्॥ 11-22-9 (65431)
संरक्ष्यमाणं भार्याभिरनुरक्ताभिरच्युत।
भीषयन्त्यो विकर्षन्ति गहनं निम्नमन्तिकात्॥ 11-22-10 (65432)
तमेताः पर्यपासन्ते वीक्षमाणा महाभुजम्।
सिन्धुसौवीरकाम्भोजगान्धारयवनस्त्रियः॥ 11-22-11 (65433)
यदा कृष्णामुपादाय प्राद्रवत्केकयैः सह।
तदैव वध्यः पाण्डूनां जनार्दन जयद्रथः॥ 11-22-12 (65434)
दुःशलां मानयद्भिस्तु तदा मुक्तो जयद्रथः।
कथमद्य न तां कृष्ण मानयन्ति स्म ते पुनः॥ 11-22-13 (65435)
सैन्धवं मे सुता बाला प्रस्स्वलन्तीव दुःखिता।
प्रमापयन्ती चात्मानमाक्रोशन्तीव पाण्डवान्॥ 11-22-14 (65436)
किन्नु दुःखतरं कृष्ण परं मम भविष्यति।
यत्सुता विधवा बाला स्नुषाश्च निहतेश्वराः॥ 11-22-15 (65437)
हाहा धिग्धुःशलां पश्य वीतशोकभयामिव।
भर्तुः शिर अपश्यन्तीं धावमानामितस्ततः॥ 11-22-16 (65438)
वारयामास यः सर्वान्पाण्डवान्पुत्रगृद्विनः।
स हत्वा विपुलाः सेनाः सर्वयं मृत्युवशं गतः॥ 11-22-17 (65439)
तं मत्तमिव मातङ्गं वीरं परमदुर्जयम्।
परिवार्य रुदन्त्येताः स्त्रियश्चन्द्रोपमाननाः॥ ॥ 11-22-18 (65440)
इति श्रीमन्महाभारते स्त्रीपर्वणि स्त्रीविलापपर्वणि द्वाविंशोऽध्यायः॥ 22 ॥
Mahabharata - Strii Parva - Chapter Footnotes
11-22-7 बार्धक्षत्रिर्जयद्रथः॥ 11-22-22 द्वाविंशोऽध्यायः॥स्त्रीपर्व - अध्याय 023
॥ श्रीः ॥
11.23. अध्यायः 023
Mahabharata - Strii Parva - Chapter Topics
कृष्णप्रति गान्धार्या भीष्मद्रोणादिगुणानुवर्णनपूर्वकं तत्तच्छरीराणां विलपन्तीनां त्तत्स्त्रीणां च प्रदर्शनम्॥ 1 ॥Mahabharata - Strii Parva - Chapter Text
11-23-0 (65441)
गान्धार्युवाच। 11-23-0x (5358)
एष शल्यो हतः शेते साक्षान्नकुलमातुलः।
धर्मज्ञेन हतस्तात धर्मराजेन संयुगे॥ 11-23-1 (65442)
यस्त्वया स्पर्धते नित्यं सर्वत्र पुरुषर्षभ।
स एष निहतः शेते मद्रराजो महाबलः॥ 11-23-2 (65443)
`जयद्रथे यदि ब्रूयुरुपरोधं कथञ्चन।
मद्रपुत्रे कथं ब्रूयुरुपरोधं विवक्षवः॥' 11-23-3 (65444)
येन सङ्गृह्णता तात रथमाधिरथेर्युधि।
जयार्थं पाण्डुपुत्राणां तदा तेजोवधः कृतः॥ 11-23-4 (65445)
अहो धिक्फश्य शल्यस्य पूर्णचन्द्रसुदर्शनम्।
मुखं प्द्मपलाशाक्षं काकैरादष्टमव्रणम्॥ 11-23-5 (65446)
एषा चामीकराभस्य तप्तकाञ्चनसप्रभा।
आस्याद्विनिः सृता जिह्वा भक्ष्यते कृष्ण पक्षिभिः॥ 11-23-6 (65447)
युधिष्ठिरेण निहतं शल्यं समितिशोभनम्।
रुदन्त्यः पर्युपासन्ते मद्रराजं कुलाङ्गनाः॥ 11-23-7 (65448)
एताः सुसूक्ष्मवसना मद्रराजं नरर्षभम्।
क्रोशन्त्योऽथ समासाद्य क्षत्रियाः क्षत्रियर्षभम्॥ 11-23-8 (65449)
शल्यं निपतितं नार्यः परिवार्याभितः स्थिताः।
वासिता गृष्टयः पङ्के परिमग्नमिवर्षभम्॥ 11-23-9 (65450)
शल्यं शरणदं शूरं पश्येमं वृष्णिनन्दन।
शयानं वीरशयने शरैर्विशकलीकृतम्॥ 11-23-10 (65451)
एष शैलालयो राजा भगदत्तः प्रतापवान्।
गजाङ्कुशधरः श्रीमाञ्शेते भुवि निपातितः॥ 11-23-11 (65452)
यस्य रुक्ममयी माला शिरस्येषा विराजते।
श्वापदैर्भक्ष्यमाणस्य शोभयन्तीव मूर्धजान्॥ 11-23-12 (65453)
एतेन किल पार्थस्य युद्धमासीत्सुदारुणम्।
रोमहर्षणमत्युग्रं शक्रस्य त्वहिना यथा॥ 11-23-13 (65454)
योधयित्वा माहाबाहुरेष पार्थं धनञ्जयम्।
संशयं गमयित्वा च कुन्तीपुत्रेण पातितः॥ 11-23-14 (65455)
यस्य नास्ति समो लोके शौर्ये वीर्ये च कश्चन्।
स एष निहतः शेते भीष्मो भीष्मकृदाहवे॥ 11-23-15 (65456)
पश्य शान्तनवं कृष्ण शयानं सूर्यवर्चसम्।
युगान्त इव कालेन पातितं सूर्यमम्बरात्॥ 11-23-16 (65457)
एष तप्त्वा रणे शत्रूञ्शस्त्रतापेन वीर्यवान्।
नरसूर्योऽस्तमभ्येति सूर्योऽस्तमिव केशव॥ 11-23-17 (65458)
शरतल्पगतं भीष्ममूर्ध्वरेतसमच्युतम्।
शयानं वीरशयने पश्य शूरनिषेविते॥ 11-23-18 (65459)
कर्णिनालीकनाराचैरास्तीर्य शयनोत्तमम्।
आविश्य शेते भगवान्स्कन्दः शरवणं यथा॥ 11-23-19 (65460)
अतूलपूर्णं गाङ्गेयस्त्रिभिर्बाणैः समन्वितम्।
उपधायोपधानाग्र्यं दत्तं गाण्डीवधन्वना॥ 11-23-20 (65461)
पालयानः पितुः शास्त्रमूर्ध्वरेता महायशाः।
एष शान्तनवः शेते माधवाप्रतिमो युधि॥ 11-23-21 (65462)
धर्मात्मा तात सर्वज्ञः पारावर्येण निर्णये।
अमर्त्य इव मर्त्यः सन्नेष प्राणानधारयत्॥ 11-23-22 (65463)
नास्ति युद्धे कृती कश्चिन्न विद्वान्न पराक्रमी।
यत्र शान्तनवो भीष्मः शेतेऽद्य निहतः परैः॥ 11-23-23 (65464)
स्वयमेतेन शूरेण पृच्छयमानेन पाण्डवैः।
धर्मज्ञेनाहवे मृत्युरादिष्टः सत्यवादिना॥ 11-23-24 (65465)
प्रनष्टः कुरुवंशश्च पुनर्येन समुद्वृतः।
स गतः कुरुभिः सार्धं महाबुद्धिः पराभवम्॥ 11-23-25 (65466)
धर्मेण कुरवः केन परिद्रक्ष्यन्ति माधव।
हते देवव्रते भीष्मे देवकल्पे नरर्षभे॥ 11-23-26 (65467)
अर्जुनस्य विनेतारमाचार्यं सात्यकेस्तथा।
तं पश्य पतितं द्रोणं कुरूणां गुरुमुत्तमम्॥ 11-23-27 (65468)
अस्त्रं चतुर्विधं वेद यथैव त्रिदशेश्वरः।
भार्गवो वा महावीर्यस्तथा द्रोणोऽपि माधव॥ 11-23-28 (65469)
यस्य प्रसादाद्बीभत्सुः पाण्डवः कर्म दुष्करम्।
चकार स हतः शेते नैनमस्त्राण्यपालयन्॥ 11-23-29 (65470)
यं पुरोधाय कुरव आह्वयन्ति स्म पाण्डवान्।
सोऽयं शस्त्रभृतां श्रेष्ठो द्रोणः शस्त्रपृथक्कृतः॥ 11-23-30 (65471)
यस्य निर्दहतः सेनां गतिरग्नरिवाभवत्।
स भूमौ निहतः शेते शान्तार्चिरिव पावकः॥ 11-23-31 (65472)
धनुर्मुष्टिरशीर्णश्च हस्तावापश्च माधव।
द्रोणस्य निहतस्यापि दृश्यते जीवतो यथा॥ 11-23-32 (65473)
वेदा यस्माच्च चत्वारः सर्वाण्यस्त्राणि केशव।
अनपेतानि वै शूराद्यथैवादौ प्रजापतेः॥ 11-23-33 (65474)
चन्दनार्हाविमौ तस्य बन्दिभिर्वन्दितौ शुभौ।
गोमायवो विकर्षन्ति पादौ शिष्यशतार्चितौ॥ 11-23-34 (65475)
द्रोणं द्रुपदपुत्रेण निहतं मधुसूदन।
कृपी कृपणमन्वास्ते दुःखोपहतचेतना॥ 11-23-35 (65476)
तां पश्य रुदतीमार्तां मुक्तकेशीमधोमुखीम्।
हतं पतिमुपासन्तीं द्रोणं शस्त्रभृतां वरम्॥ 11-23-36 (65477)
बाणैर्भिन्नतनुत्राणं धृष्टद्युम्नेन केशव।
उपास्ते वै मृधे द्रोणं जटिला ब्रह्मचारिणी॥ 11-23-37 (65478)
प्रेतकृत्ये च यतते कृपी कृपणमातुरा।
हतस्य समरे भर्तुः सुकुमारी यशस्विनी॥ 11-23-38 (65479)
अग्नीनाधाय विविधवच्चितां प्रज्वाल्य सर्वतः।
द्रोणमाधाय गायन्ति त्रीणि सामानि सामगाः॥ 11-23-39 (65480)
कुर्वन्ति च चितामेते जटिला ब्रह्मचारिणः।
धनुर्भिः शक्तिभिश्चैव रथनीडैश्च माधव॥ 11-23-40 (65481)
शरैश्च विविधैरन्यैर्धक्ष्यन्ते भूरितेजसम्।
त एते द्रोणमादाय गायन्ति च रुदन्ति च॥ 11-23-41 (65482)
सामभिस्त्रिभिरन्तस्थैरनुशंसन्ति चापरे।
अग्नावग्निं समाधाय द्रोणं हुत्वा हुताशने॥ 11-23-42 (65483)
गच्छन्त्यभिमुखा गङ्गां द्रोणशिष्या द्विजातयः।
अपसव्यां चितिं कृत्वा पुरस्कृत्य कृपीं तथा॥ ॥ 11-23-43 (65484)
इति श्रीमन्महाभारते स्त्रीपर्वणि स्त्रीविलापपर्वणि त्रयोविंशोऽध्यायः॥ 23 ॥
Mahabharata - Strii Parva - Chapter Footnotes
11-23-9 परिमग्निमिव द्विपमिति झ.पाठः॥ 11-23-13 अहिना वृत्रासुरेण॥ 11-23-15 भीष्मकृत् भयङ्करकर्मकृत्॥ 11-23-21 शास्त्रं आज्ञाम्॥ 11-23-22 निर्णिये पारावर्येण । परावरौ परलोकेहलोकौ तद्विषयेण ज्ञानेन। तत्त्वज्ञानबलेन प्राणानधारयदित्यर्थः। पारपर्येऽथ निर्णय इति छ.पाठः। पाराशर्यस्य निर्णये इति क.ट.पाठः॥ 11-23-26 धर्मेषु कुरवः कं नु परिप्रक्ष्यन्ति माधव। गते देवव्रते स्वर्गं देवकल्पे नरर्षभे इति झ.पाठः॥ 11-23-34 शिष्यशरार्चिताविति क.पाठः॥ 11-23-23 त्रोयविंशोऽध्यायः॥स्त्रीपर्व - अध्याय 024
॥ श्रीः ॥
11.24. अध्यायः 024
Mahabharata - Strii Parva - Chapter Topics
कृष्णम्प्रति गान्धार्य भूरिश्रवः प्रभृतिशरीराणां तत्तस्त्रीणां च प्रदर्शनम्॥ 1 ॥Mahabharata - Strii Parva - Chapter Text
11-24-0 (65485)
गान्धार्युवाच। 11-24-0x (5359)
सोमदत्तसुतं पश्य युयुधानेन पातितम्।
वितुद्यमानं विहगैर्बहुभिर्माधवान्तिके॥ 11-24-1 (65486)
पुत्रशोकाभिसन्तप्तः शोमदत्तो जनार्दन।
युयुधानं महेष्वासं गर्हयन्निव दृश्यते॥ 11-24-2 (65487)
असौ हि भूरिश्वसो माता शोकपरिप्लुता।
आश्वासयति भर्तारं सोमदत्तमनिन्दिता॥ 11-24-3 (65488)
दिष्ट्या नैनं महाराज दारुणं भरतक्षयम्।
कुरुसङ्क्रन्दनं घोरं युगान्तमनुपश्यसि॥ 11-24-4 (65489)
दिष्ट्या यूपध्वजं पुत्रं वीरं भूरिसहस्रदम्।
अनेकक्रतुयज्वानं निहतं नानुपश्यसि॥ 11-24-5 (65490)
दिष्ट्या स्नुषाणामाक्रन्दे घोरं विलपितं बहु।
न शृणोषि महाराज सारसीनामिवार्णवे॥ 11-24-6 (65491)
एकवस्त्रास्तु पञ्चैताः प्रकीर्णासितमूर्धजाः।
स्नुषास्ते परिधावन्ति हतापत्या हतेश्वराः॥ 11-24-7 (65492)
श्वापदैर्भक्ष्यमाणं त्वमहो दिष्ट्या न पश्यसि।
छिन्नबाहुं नरव्याघ्रमर्जुनेन निपातितम्॥ 11-24-8 (65493)
शलं विनिहतं सङ्ख्ये भूरिश्रवसमेव च।
स्नुषाश्च विविधाः सर्वा दिष्ट्या नाद्येह पश्यसि॥ 11-24-9 (65494)
दिष्ट्या तत्काञ्चनं छत्रं यूपकेतोर्महात्मनः।
विनीकीर्णं रथोपस्थे सौमदत्तेर्न पश्यसि॥ 11-24-10 (65495)
अमूस्तु भूरिश्रवसो भार्याः सात्यकिना हतम्।
परिवार्यानुशोचन्ति भर्तारमसितेक्षणाः॥ 11-24-11 (65496)
एता विलप्य करुणं भर्तृशोकेन कर्शिताः।
पतन्त्यभिमुखा भूमौ कृपणं बत केशव॥ 11-24-12 (65497)
बीभत्सुरतिबीभत्सं कर्मेदमकरोत्कथम्।
प्रमत्तस्य यदच्छैत्सीद्बाहुं शूरस्य यज्वनः॥ 11-24-13 (65498)
ततः पापतरं कर्म कृतवानपि सात्यकिः।
यस्मात्प्रायोपविष्टस्य प्राहार्षीत्संशितात्मनः॥ 11-24-14 (65499)
एको द्वाभ्यां हतः शेते क्षत्रधर्मेण धार्मिकः।
किन्नु वक्ष्यति वै सत्सु गोष्ठीषु च सभासु च॥ 11-24-15 (65500)
अपुण्यमयशस्यं च कर्मेदं सात्यकिः स्वयम्।
इति यूपध्वजस्यैताः स्त्रियः क्रोशन्ति माधव॥ 11-24-16 (65501)
भार्या यूपध्वजस्यैषा करसम्मितमध्यमा।
कृत्वोत्सङ्गे भुजं भर्तुः कृपणं परिदेवति॥ 11-24-17 (65502)
अयं स हन्ता शूराणां मित्राणामभयप्रदः।
प्रदाता गोसहस्राणां क्षत्रियान्तकरः करः॥ 11-24-18 (65503)
अयं स रशनोत्कर्षी पीनस्तनविमर्दनः।
नाभ्यूरुजघनस्पर्शी नीवीविस्रंसनः करः॥ 11-24-19 (65504)
वासुदेवस्य सान्निध्ये पार्थेनाक्लिष्टकर्मणा।
युध्यतः समरेऽन्येन प्रमत्तस्य निपातितः॥ 11-24-20 (65505)
किन्नु वक्ष्यसि संसत्सु कथासु च जनार्दन।
अर्जुनस्य महत्कर्म स्वयं वा स किरीटभृत्॥ 11-24-21 (65506)
इत्येवं गर्हयित्वैषा तूष्णीमास्ते वराङ्गना।
तामेतामनुशोचन्ति सपत्न्यः स्वामिव स्नुषाम्॥ 11-24-22 (65507)
गान्धारराजः शकुनिर्बलवान्सत्यविक्रमः।
निहतः सहदेवेन भागिनेमेन मातुलः॥ 11-24-23 (65508)
यः पुरा हेमदण्डाभ्यां व्यजनाभ्यां स्म वीज्यते।
स एष पक्षिभिः पक्षैः शयान उपवीज्यते॥ 11-24-24 (65509)
यः स्वरूपाणि कुरुते शतशोऽथ सहस्रशः।
तस्य मायाविनो माया दग्धाः पाण्डवतेजसा॥ 11-24-25 (65510)
मायया निकृतिप्रज्ञो जितवान्यो युधिष्ठिरम्।
सभायां विपुलं राज्यं स जहौ जीवितं कथम्॥ 11-24-26 (65511)
शकुन्ताः शकुनिं कृष्ण समन्तात्पर्युपासते।
कितवं मम पुत्राणां विनाशायोपशिक्षितम्॥ 11-24-27 (65512)
एतेनैतन्महद्वैरं प्रसक्तं पाण्डवैः सह।
वधाय मम पुत्राणामात्मनः सगणस्य च॥ 11-24-28 (65513)
यथैव मम पुत्राणां लोकाः शस्त्रजिताः प्रभो।
एवमस्यापि दुर्बुद्धेर्लोकाः शस्त्रेण वै जिताः॥ 11-24-29 (65514)
कथं च नायं तत्रापि पुत्रान्मे भ्रातृभिः सह।
विरोधयेदृजुप्रज्ञाननृजुर्मधुसूदन॥ ॥ 11-24-30 (65515)
इति श्रीमन्महाभारते स्त्रीपर्वणि स्त्रीविलापपर्वणि चतुर्विंशोऽध्यायः॥ 24 ॥
Mahabharata - Strii Parva - Chapter Footnotes
11-24-13 बीभत्सुरतिनिर्मलकर्मा। अतिबीभत्सं अतिगर्हितम्॥ 11-24-15 अको द्वाभ्यां हतः शेषे त्वमधर्मेण धार्मिक इति झ.पाठः॥ 11-24-26 स पुनर्जीवितं जित इति झ.पाठः॥ 11-24-24 चतुर्विंशोऽध्यायः॥स्त्रीपर्व - अध्याय 025
॥ श्रीः ॥
11.25. अध्यायः 025
Mahabharata - Strii Parva - Chapter Topics
कृष्णम्प्रति गान्धार्या कुरुपाण्डवसंक्षयस्य कृष्णोपेक्षणहेतुकत्वकथनपूर्वकं सर्वबन्धुसंक्षयाय शापदानम्॥ 1 ॥Mahabharata - Strii Parva - Chapter Text
11-25-0 (65516)
गान्धार्युवाच। 11-25-0x (5360)
काम्भोजं पश्य दुर्धर्षं काम्भोजास्तरणोचितम्।
शयानमृषभस्कन्धं हतं पांसुषु माधव॥ 11-25-1 (65517)
अस्य क्षतजसन्दिग्धौ बाहू चन्दनरूषितौ।
अवेक्ष्य कृपणं भार्या विलपत्यतिदुःखिता॥ 11-25-2 (65518)
इमौ तौ परिघप्रख्यौ बाहू चन्दनरूषितौ।
ययोर्विवरमापन्नां न रतिर्मां पुराऽजहात्॥ 11-25-3 (65519)
कां गतिं तु गमिष्यामि त्वया हीना जनेश्वर।
दूरबन्धुरनाथा च वेपन्ती मधुरस्वरा॥ 11-25-4 (65520)
आतपे क्लाम्यमानानां विविधानामिव स्रुजाम्।
क्लान्तानामपि नारीणां जहाति श्रीर्न वै तनूः॥ 11-25-5 (65521)
शयानमभितः शूरं कालिङ्गं मधुसूदन।
पश्य दीप्ताङ्गदयुतं प्रतिमानं धनुष्मताम्॥ 11-25-6 (65522)
मागधानामधिपतिं जयत्सेनं जनार्दन।
परिवार्य प्ररुदिता मागध्यः पश्य योषितः॥ 11-25-7 (65523)
हरिणायतनेत्राणां सुस्वराणां जनार्दन।
मनः श्रुतिहरो नादो मनो मोहयतीव मे॥ 11-25-8 (65524)
प्रकीर्णवस्त्राभरणा रुदत्यः शोककर्शिताः।
स्वास्तीर्णशयनोपेता मागध्यः शेरते भुवि॥ 11-25-9 (65525)
कोसलानामधिपतिं राजपुत्रं बृहद्बलम्।
भर्तारं परिवार्यैताः पृथक्प्ररुदिताः स्त्रियः॥ 11-25-10 (65526)
अस्य गात्रगतान्बाणान्कार्ष्णिबाहुबलेरितान्।
उद्धरन्त्यसुखाविष्टा मूर्च्छमानाः पुनः पुनः॥ 11-25-11 (65527)
आसां सर्वानवद्यानामातपेन परिश्रमात्।
प्रम्लाननलिनाभानि भान्ति वक्त्राणि माधव॥ 11-25-12 (65528)
द्रोणेन निहताः शूरा शेरते रुचिराङ्गदाः।
धृष्टद्युम्नसुताः सर्वे शिशवो हेममालिनः॥ 11-25-13 (65529)
रथाग्न्यगारं चापार्चिं शरशक्तिगदेन्धनम्।
द्रोणमासाद्य निर्दग्धाः शलभा इव पावकम्॥ 11-25-14 (65530)
तथैव निहताः शूराः शेरते रुचिराङ्गदाः।
द्रोणेनाभिमुखाः सङ्ख्ये भ्रातरः पञ्च केकयाः॥ 11-25-15 (65531)
तप्तकाञ्चनवर्माणस्तालध्वजस्थव्रजाः।
भासयन्ति महीं भासा ज्वलिता इव पावकाः॥ 11-25-16 (65532)
द्रोणेन द्रुपदं सङ्ख्ये पश्य माधव पातितम्।
महाद्विपमिवारण्ये सिंहेन महता हतम्॥ 11-25-17 (65533)
पाञ्चालराज्ञो विमलं पुण्डरीकाक्ष पाण्डुरम्।
आतपत्रं समाभाति शरदीव निशाकरः॥ 11-25-18 (65534)
एतास्तु द्रुपदं वृद्धं स्नुषा भार्याश्च दुःखिताः।
दग्ध्वा गच्छन्ति पाञ्चालराजानमपसव्यतः॥ 11-25-19 (65535)
धृष्टकेतुं महात्मानं चेदिपुङ्गवमङ्गनाः।
द्रोणेन निहतं शूरं हरन्ति हृतचेतसः॥ 11-25-20 (65536)
द्रोणास्त्रमभिहत्यैष विमर्दे मधुसूदन।
महेष्वासो हतः शेते वज्राहत इव द्रुमः॥ 11-25-21 (65537)
एष चेदिपतिः शूरो धृष्टकेतुर्महारथः।
शेते विनिहतः सङ्ख्ये हत्वा शत्रून्सहस्रशः॥ 11-25-22 (65538)
वितुद्यमानं विहगैस्तं भार्याः पर्युपाश्रिताः।
चेदिराजं हृषीकेश हतं सबलबान्धवम्॥ 11-25-23 (65539)
दाशार्हपुत्रजं वीरं शयानं सत्यविक्रमम्।
आरोप्याङ्के रुदन्त्येताश्चेदिराज वराङ्गनाः॥ 11-25-24 (65540)
अस्य पुत्रं हृषीकेश सुवक्त्रं चारुकुण्डलम्।
द्रोणेन समरे पश्य निकृत्तं बहुधा शरैः॥ 11-25-25 (65541)
पितरं नूनमाजिस्थं युध्यमानं परैः सह।
नाजहात्पितरं वीरमद्यापि मधुसूदन॥ 11-25-26 (65542)
एवं ममापि पुत्रस्य पुत्रः पितरमन्वगात्।
दुर्योधनं महाबाहो लक्ष्मणः परवीरहा॥ 11-25-27 (65543)
विन्दानुविन्दावावन्त्यौ पतितौ पश्य माधव।
हिमान्ते पुष्पितौ शालौ मरुता गलिताविव॥ 11-25-28 (65544)
काञ्चनाङ्गदवर्माणौ बाणखङ्गधनुर्धरौ।
ऋषभप्रतिरूपाक्षौ शयानौ विमलस्रजौ॥ 11-25-29 (65545)
अवध्याः पाण्डवाः कृष्ण सर्व एव त्वया सह।
ये मुक्ता द्रोणभीष्माभ्यां कर्णाद्वैकर्तनात्कृपात्॥ 11-25-30 (65546)
दुर्योधनाद्द्रोणसुतात्सैन्धवाच्च जयद्रथात्।
सोमदत्ताद्विकर्णाच्च शूराच्च कृतवर्मणः॥ 11-25-31 (65547)
ये हन्युः शस्त्रवेगेन देवानपि नरर्षभाः।
त इमे निहताः सङ्ख्ये पश्य कालस्य पर्ययम्॥ 11-25-32 (65548)
नातिभारोऽस्ति दैवस्य ध्रुवं माधव कश्चन।
यदिमे निहताः शूराः क्षत्रियैः क्षत्रियर्षभाः।
`शूराश्च कृतविद्याश्च मम पुत्रा मनस्विनः'॥ 11-25-33 (65549)
तदैव निहताः कृष्ण मम पुत्रास्तरस्विनः।
यदैवाकृतकामस्त्वमुपप्लाव्यं गतः पुनः॥ 11-25-34 (65550)
शन्तनोश्चैव पुत्रेण प्राज्ञेन विदुरेण च।
तदैवोक्तास्मि मा स्नेहं कुरुष्वात्मसुतेष्विति॥ 11-25-35 (65551)
तयोर्हि दर्शनं नैतन्मिथ्या भवितुमर्हति।
अचिरेणैव मे पुत्रा भस्मीभूता जनार्दन॥ 11-25-36 (65552)
वैशम्पायन उवाच। 11-25-37x (5361)
इत्युक्त्वा न्यपतद्भूमौ गान्धारी शोकमूर्च्छिता।
दुःखोपहतविज्ञाना धैर्यमुत्सृज्य भारत॥ 11-25-37 (65553)
ततः कोपपरीताङ्गी पुत्रशोकपरिप्लुता।
जगाद शौरिं दोषेण गान्धारी व्यथितेन्द्रिया॥ 11-25-38 (65554)
गान्धार्युवाच। 11-25-39x (5362)
पाण्डवाः धार्तराष्ट्राश्च क्रुद्धाः कृष्ण परस्परम्।
उपेक्षिता विनश्यन्तस्त्वया कस्माज्जनार्दन ॥ 11-25-39 (65555)
शक्तेन बहुभृत्येन विपुले तिष्ठता बले।
उभयत्र समर्थेन श्रुतवाक्येन चैव ह॥ 11-25-40 (65556)
इच्छतोपेक्षितो नाशः कुरूणां मधुसूदन।
यस्मात्त्वया महाबाहो फलं तस्मादवाप्नुहि॥ 11-25-41 (65557)
पतिशुश्रूषया यन्मे तपः किञ्चिदुपार्जितम्।
तेन त्वां दुरवापेन शपे चक्रगदाधरम्॥ 11-25-42 (65558)
यस्मात्परस्परं घ्नन्तो ज्ञातयः कुरुपाण्डवाः।
उपेक्षितास्ते गोविन्द तस्माज्ज्ञातीन्वधिष्यसि॥ 11-25-43 (65559)
त्वमप्युपस्थिते वर्षे षट्त्रिंशे मधुसूदन।
हतज्ञातिर्हतामात्यो हतपुत्रो वनेचरः॥ 11-25-44 (65560)
अनाथवदविज्ञातो लोकेष्वनभिलक्षितः।
कुत्सितेनाभ्युपायेन निधनं समवाप्स्यसि॥ 11-25-45 (65561)
तवाप्येवं हतसुता निहतज्ञातिबान्धवाः।
स्त्रियः परिपतिष्यन्ति यथैता भरतस्त्रियः॥ 11-25-46 (65562)
वैशम्पयन उवाच। 11-25-47x (5363)
तच्छ्रुत्वा वचनं घोरं वासुदेवो महामनाः।
उवाच देवीं गान्धारीमीषदभ्युत्स्मयन्निव॥ 11-25-47 (65563)
जानेऽहमेतदप्येवं चीर्णं चरसि क्षत्रिये।
दैवादेव विनश्यन्ति वृष्णयो नात्र संशयः॥ 11-25-48 (65564)
संहर्ता वृष्णिचक्रस्य नान्यो मद्विद्यते शुभे।
अवध्यास्ते नरैरन्यैरपि वा देवदानवैः॥ 11-25-49 (65565)
परस्परकृतं नाशं यतः प्राप्स्यन्ति यादवाः।
इत्युक्तवति दाशार्हे पाण्डवास्त्रस्तचेतसः।
बभूवुर्भृशसंविग्ना निराशाश्चापि जीविते॥ ॥ 11-25-50 (65566)
इति श्रीमन्महाभारते स्त्रीपर्वणि स्त्रीविलापपर्वणि पञ्चविंशोऽध्यायः॥ 25 ॥
Mahabharata - Strii Parva - Chapter Footnotes
11-25-1 काम्भोजास्तरणं कम्बलविशेषः॥ 11-25-3 बाहू शुभतलाङ्गुली इति झ.पाठः॥ 11-25-6 दीप्ताङ्गदयुगप्रतिनद्धमहाभुजमिति झ.पाठः॥ 11-25-24 दाशार्हपुत्रजमित्यत्र पुत्र्यामपि पुत्रशब्दः॥ 11-25-26 पितरमिति पितृपदस्यावृत्तिः शोकाकुलत्वान्न दोषाय॥ 11-25-36 तयोर्भीष्मविदुरयोः दर्शनं अनागतावेक्षणम्॥ 11-25-38 जगादशौरिं रोषणेति ट.पाठः॥ 11-25-47 अभ्युत्स्मयन्नीषद्ध्वंसयन्॥ 11-25-48 चीर्णं चरसि मदनुष्टितमेवानुतिष्ठसि। स्वतपोनाशार्थमिति भावः॥ 11-25-25 पञ्चविंशोऽध्यायः॥स्त्रीपर्व - अध्याय 026
॥ श्रीः ॥
11.26. अध्यायः 026
Mahabharata - Strii Parva - Chapter Topics
शोकाद्भुवि पतिताया गान्धार्याः कृष्णेनाश्वासनम्॥ 1 ॥ युधिष्ठिराज्ञया विदुरसञ्जयादिभिर्मृतानां दाहक्रियाकरणम्॥ 2 ॥Mahabharata - Strii Parva - Chapter Text
11-26-0 (65567)
श्रीभगवानुवाच। 11-26-0x (5364)
उत्तिष्ठोत्तिष्ठ गान्धारि मा च शोके मनः कृथाः।
तवैव ह्यपराधेन कुरवो निधनं गताः॥ 11-26-1 (65568)
यत्त्वं पुत्रं दुरात्मानमीर्षुमत्यन्तमानिनम्।
दुर्योधनं पुरस्कृत्य दुष्कृतं साधु मन्यसे॥ 11-26-2 (65569)
निष्ठुरं वैरपुरुषं वृद्धानां शासनातिगम्।
कथमात्मकृतं दोषं मय्याधातुमिहेच्छसि॥ 11-26-3 (65570)
मृतं वा यदि वा नष्टं योऽतीतमनुशोचति।
दुःखेन लभते दुःखं द्वावनर्थौ प्रपद्यते॥ 11-26-4 (65571)
तपोर्थीयं ब्राह्मणी धत्त गर्भं
गौर्वोढारं धावितारं तुरङ्गी।
शूद्रा दासं पशुपालं च वैश्या
वधार्थीयं त्वद्विधा राजपुत्री॥ 11-26-5 (65572)
वैशम्पायन उवाच। 11-26-6x (5365)
तच्छ्रुत्वा वासुदेवस्य पुनरुक्तं वचोऽप्रियम्।
तूष्णीं बभूव गान्धारी शोकव्याकुललोचना॥ 11-26-6 (65573)
धृतराष्ट्रस्तु राजर्षिर्निगृह्याबुद्धिजं तमः।
पर्यपृच्छत धर्मज्ञो धर्मराजं युधिष्ठिरम्॥ 11-26-7 (65574)
जीवतां परिमाणज्ञः सैन्यानामसि पाण्डव।
हतानां यदि जानीषे परिमाणं वदस्वं मे॥ 11-26-8 (65575)
युधिष्ठिर उवाच। 11-26-9x (5366)
दशायुतसहस्राणि सहस्राणि च विंशतिः।
कोट्यः षष्टिश्च षट् चैव ह्यस्मिन्राजन्मृधे हताः॥ 11-26-9 (65576)
आलक्षाणां च वीराणां सहस्राणि चतुर्दश।
दश चान्यानि राजेन्द्र शतं षष्टिश्च भारत॥ 11-26-10 (65577)
धृतराष्ट्र उवाच। 11-26-11x (5367)
युधिष्ठिरगतिं कां ते गताः पुरुषसत्तम।
आचक्ष्व मे महाबाहो सर्वज्ञो ह्यसि मे मतः॥ 11-26-11 (65578)
युधिष्ठिर उवाच। 11-26-12x (5368)
यैर्हुतानि शरीराणि हृष्टैः परमसंयुगे।
देवराजसमाँल्लोकान्गतास्ते सत्यविक्रमाः॥ 11-26-12 (65579)
ये त्वहृष्टेन मनसा मर्तव्यमिति भारत।
युध्यमाना हताः सङ्ख्ये गन्धर्वैः सह सङ्गताः॥ 11-26-13 (65580)
ये च सङ्ग्रामभूमिष्ठा याचमानाः पराङ्मुखाः।
शस्त्रेण निधनं प्राप्ता गतास्ते गुह्यकान्प्रति॥ 11-26-14 (65581)
पात्यमानाः परैर्ये तु हीयमाना निरायुधाः।
हीनिषेवा महात्मानः परानभिमुखा रणे॥ 11-26-15 (65582)
छिद्यमानाः शितैः शस्त्रैः क्षत्रधर्मपरायणाः।
हतास्ते ब्रह्मसदनं गता वीराः सुवर्चसः॥ 11-26-16 (65583)
ये त्वत्र निहता राजन्नन्तरायोधनं प्रति।
यथाकथञ्चित्पुरुषास्ते गता ह्युत्तरां गतिम्॥ 11-26-17 (65584)
धृतराष्ट्र उवाच। 11-26-18x (5369)
केन ज्ञानबलेनैव पुत्र पश्यसि सिद्धवत्।
तन्मे वद महाबाहो श्रोतव्यं यदि वै मया॥ 11-26-18 (65585)
युधिष्ठिर उवाच। 11-26-19x (5370)
निदेशाद्भवतः पूर्वं वने विचरता मया।
तीर्थयात्राप्रसङ्गेन सम्प्राप्तोऽयमनुग्रहः॥ 11-26-19 (65586)
देवर्षिर्लोमशो दृष्टस्ततः प्राप्तोऽस्म्यनुस्मृतिम्।
दिव्यं चक्षुरपि प्राप्तं ज्ञानयोगेन वै पुरा॥ 11-26-20 (65587)
धृतराष्ट्र उवाच। 11-26-21x (5371)
ये त्वनाथा जनास्तात नाथवन्तश्च पाण़्डव।
कच्चित्तेषां शरीराणि धक्ष्यन्ति विधिपूर्वकम्॥ 11-26-21 (65588)
युधिष्ठिर उवाच। 11-26-22x (5372)
न येषां शान्तिकर्तारो न च येऽत्राहिताग्नयः।
वयं च तेषां कुर्यामो बहुत्वात्तात कर्मणाम्॥ 11-26-22 (65589)
यान्सुपर्णाश्च गुध्राश्च विकर्षन्ति ततस्ततः।
तेषां सङ्कर्षणा लोका भविष्यन्ति न संशयः॥ 11-26-23 (65590)
वैशम्पायन उवाच। 11-26-24x (5373)
एवमुक्त्वा महाराज कुन्तीपुत्रो युधिष्ठिरः।
आदिदेश सुधर्माणं धौम्यं सूतं च सञ्जयम्॥ 11-26-24 (65591)
विदुरं च महाबुद्धिं युयुत्सुं चैव कौरवम्।
इन्द्रसेनमुखान्भृत्यान्सूतांश्चैव सहस्रशः॥ 11-26-25 (65592)
भवन्तः कारयन्त्वेषां प्रेतकार्याण्यशेषतः।
यथा नाथवतां किञ्चिच्छरीरं न विनश्यति॥ 11-26-26 (65593)
शासनाद्धर्मराजस्य क्षत्ता सूतश्च सञ्जयः।
सुधर्मा धौम्यसहित इन्द्रसेनादयस्तथा॥ 11-26-27 (65594)
चन्दनागुरुकाष्ठानि तथा कालीयकान्युत।
घृतं तैलं च गन्धांश्च क्षौमाणि वसनानि च॥ 11-26-28 (65595)
समाहृत्य महार्हाणि दारुणां चैव सञ्चयान्।
रथांश्च मृदितास्तत्र नानाप्रहरणानि च॥ 11-26-29 (65596)
चिताः कृत्वा प्रयत्नेन यथामुख्यान्नराधिपान्।
दाहयामासुरव्याग्राः शास्त्रदृष्टेन कर्मणा॥ 11-26-30 (65597)
दुर्योधनं च राजानं भ्रातॄंश्चास्य कर्मणा॥
शल्यं शलं च राजानं भूरिश्रवसमेव च॥ 11-26-31 (65598)
जयद्रथं च राजानमभिमन्युं च भारत।
दौःशासनिं लक्ष्मणं च धृष्टकेतुं च पार्थिवम्॥ 11-26-32 (65599)
बृहद्वलं सोमदत्तं सृञ्जयं च महारथम्।
राजानं क्षेमधन्वानं विराटद्रुपदौ तथा॥ 11-26-33 (65600)
शिखण्डिनं च पाञ्चाल्यं धृष्टद्युम्नं च पार्षतम्।
युधामन्युं च विक्रान्तमुत्तमौजसमेव च॥ 11-26-34 (65601)
कौसल्यं द्रौपदेयांश्च शकुनिं चापि सौबलम्।
अचलं वृषकं चैव भगदत्ते च पार्थिवम्॥ 11-26-35 (65602)
कर्णं वैकर्तनं चैव सहपुत्रममर्षणम्।
केकयांश्च महेष्वासांस्त्रिगर्तांश्च महारथान्॥ 11-26-36 (65603)
घटोत्कचं राक्षसेन्द्रं बकभ्रातरमेव च।
अलम्बुसं राक्षसेन्द्रं जलसन्धं च पार्थिवम्॥ 11-26-37 (65604)
एतांश्चान्यांस्च सुबहून्पार्थिवांश्च सहस्रशः।
धृतधाराहुतैर्दीप्तैः पावकैः समदाहयन्। 11-26-38 (65605)
पितृमेधाश्च केषाञ्चित्प्रावर्तन्त महात्मनाम्।
सामभिश्चाप्यगायन्त तेऽन्वशासत चापरैः॥ 11-26-39 (65606)
साम्नामृचां च नादेन स्त्रीणां च रुदितस्वनैः।
कश्मलं सर्वभूतानां निशायां समपद्यत॥ 11-26-40 (65607)
हुताश्च तत्प्रदीप्ताश्च दीप्यमानाश्च पावकाः।
नभसीवान्वदृश्यन्त ग्रहास्तन्वभ्रसंवृताः॥ 11-26-41 (65608)
ये चाप्यनाथास्तत्रासन्नानादेशसमागताः।
तांश्च सर्वान्समानीय राशीकृत्वा सहस्रशः॥ 11-26-42 (65609)
चित्वा दारुभिरव्यग्रैः प्रभूतैः स्नेहपाचितैः।
दाहयामास तान्सर्वान्विदुरो राजशासनात्॥ 11-26-43 (65610)
कारयित्वा क्रियास्तेषां कुरुराजो युधिष्ठिरः।
धृतराष्ट्रं पुरस्कृत्य गङ्गामभिमुखोऽगमत्॥ ॥ 11-26-44 (65611)
इति श्रीमन्महाभारते स्त्रीपर्वणि श्राद्धपर्वणि षड्विंशोऽध्यायः॥ 26 ॥
Mahabharata - Strii Parva - Chapter Footnotes
11-26-2 दुष्कृतं दुराचरितं स्वकीयम्॥ 11-26-3 वैरप्रियं पुरुषं xxxxषम्॥ 11-264- द्वौ पूर्वापरदुःखद्वयरूपौ॥ 11-26-5 तपोरूपायार्थाय उत्पन्नं तपोर्थीयम्। त्वद्विधा वधार्थीयमेव गर्भं धत्ते। अन्या तु जयार्थीयं कीर्त्याद्यर्थीयमपीति भावः। तपोर्थिनं, वधार्थिनं इति क.पाठः॥ 11-26-17 ते गतास्तूत्तरान्कुरूनिति छ.पाठः। ते गतास्तूत्तमां गतिमिति ट.पाठः। ते गता ह्यधमां गतिमिति क.पाठः॥ 11-26-24 सुधर्माणं दुर्योधनपुरोहितम्॥ 11-26-43 स्नेहपाचितैः स्नेहसंयुक्तैः॥ 11-26-26 षड्विंशोऽध्यायः॥स्त्रीपर्व - अध्याय 027
॥ श्रीः ॥
11.27. अध्यायः 027
Mahabharata - Strii Parva - Chapter Topics
मृतानामुदकदानाय धृतराष्ट्रयुधिष्ठिरादिभिर्गङ्गातीरगमनम्॥ 1 ॥ उदकदानारम्भे कुन्त्या युधिष्ठिरम्प्रति कर्णस्य स्वपुत्रत्वकथनपूर्वकं तस्या उदकदानचोदना॥ 2 ॥ धृतराष्ट्रयुधिष्ठिरादिभिर्बन्धुभ्यो जलदानम्॥ 3 ॥Mahabharata - Strii Parva - Chapter Text
11-27-0 (65612)
वैशम्पायन उवाच। 11-27-0x (5374)
ते समासाद्य गङ्गां तु शिवां पुण्यजलान्विताम्।
ह्लादिनीं च प्रसन्नां च महारूपां महावनाम्॥ 11-27-1 (65613)
भूषणान्युत्तरीयाणि वेष्टनान्यवमुच्य च।
`कवचानि विचित्राणि गङ्गामवजगाहिरे'॥ 11-27-2 (65614)
ततः पितॄणां भ्रातॄणां पौत्राणां स्वजनस्य च।
पुत्राणामार्यकाणां च पतीनां च कुरुस्त्रियः॥ 11-27-3 (65615)
उदकं चक्रिरे सर्वा रुदन्त्यो भृशदुःखिताः।
सुहृदां चापि धर्मज्ञाः प्रचक्रुः सलिलक्रियाम्॥ 11-27-4 (65616)
उदके क्रियमाणे तु वीराणां विरपत्निभिः।
सूपतीर्थाऽभवद्गङ्गा भूयो विप्रससार च॥ 11-27-5 (65617)
तन्महोदधिसङ्काशं निरानन्दमनुत्सवम्।
वीरपत्नीभिराकीर्णं गङ्गातीरमशोभत॥ 11-27-6 (65618)
ततः कुन्ती महाराज रुदन्ती शोककर्शिता।
व्रीडया मन्दया वाचा पुत्रान्वचनमब्रवीत्॥ 11-27-7 (65619)
यः स वीरो महेष्वासो रथयूथपयूथपः।
अर्जुनेन हतः सङ्ख्ये वीरलक्षणलक्षितः॥ 11-27-8 (65620)
यं सूतपुत्रं मन्यध्वं राधेयमिति पाण्डवाः।
यो व्यराजच्चमूमध्ये दिवाकर इव प्रभुः॥ 11-27-9 (65621)
प्रत्ययुध्यत वः सर्वान्पुरा यः सपदानुगान्।
दुर्योधनबलं सर्वं यः प्रकर्षन्व्यरोचत॥ 11-27-10 (65622)
यस्य नास्ति समो वीर्ये पृथिव्यामपि कश्चन।
यो वृणीत यशः शूरः प्राणैरपि सदा भुवि॥ 11-27-11 (65623)
कर्णस्य सत्यसन्धस्य सङ्ग्रामेष्वपलायिनः।
कुरुध्वमुदकं तस्य भ्रातुरक्लिष्टकर्मणः॥ 11-27-12 (65624)
स हि वः पूर्वजो भ्राता भास्करान्मय्यजायत।
कुण्डली कवची शूरो दिवाकरसमप्रभः॥ 11-27-13 (65625)
श्रुत्वा तु पाण्डवाः सर्वे मातुर्वचनमप्रियम्।
कर्णमेवानुशोचन्तो भूयश्चात्यातुरा भवन्॥ 11-27-14 (65626)
ततः स पुरुषव्याघ्रः रुन्तीपुत्रो युधिष्ठिरः।
उवाच मातरं वीरो निःश्वसन्निव पन्नगः॥ 11-27-15 (65627)
यः शरोर्मिर्ध्वजावर्तो महाभुजमहाग्रहः।
तलशब्दप्रणुदितो महारथमहाग्रहः॥ 11-27-16 (65628)
यस्येषुपातमासाद्य कोऽन्यस्तिष्ठेद्धनञ्जयात्।
कथं पुत्रो भवत्याः स देवगर्भः पुराऽभवत्।
`कुण्डली कवची शूरो दिवाकरसमप्रभः॥ 11-27-17 (65629)
यस्य बाहुप्रतापेन तापिताः सर्वतो वयम्।
तमग्निमिव वस्त्रेण कथं छादितवत्यसि॥ 11-27-18 (65630)
यस्य बाहुप्रभावेन वैरमस्मास्वरोचयत्।
सुयोधनस्तु तं ज्येष्ठं कथं नोदितवत्यसि॥ 11-27-19 (65631)
तथा कर्णं महेष्वासं धार्तराष्ट्रैरुपासितम्।
उपासितं यथाऽस्माभिर्बलं गाण्डीवधन्वनः॥ 11-27-20 (65632)
भूमिपानां च सर्वेषां बलं बलवतां वरः।
नान्यः कुन्तीसुतात्कर्णादगृह्णाद्रथिनो रथी॥ 11-27-21 (65633)
स नः प्रथमजो भ्राता सर्वशस्त्रभृतां वरः।
असूत तं भवत्यग्रे कथमद्भुतविक्रमम्॥ 11-27-22 (65634)
अहो भवत्या मन्त्रस्य गूहनेन वयं हताः।
निधनेन हि कर्णस्य पीडितास्तु सबान्धवाः॥ 11-27-23 (65635)
अभिमन्योर्विनाशेन द्रौपदेयवधेन च।
पाञ्चालानां विनाशेन, कुरूणां घातनादपि॥ 11-27-24 (65636)
ततः शतगुणं दुःखमिदमापतितं महत्।
कर्णमेवानुशोचापि दह्याम्यग्नाविवाहितः॥ 11-27-25 (65637)
नेह स्म किञ्चिदप्राप्य भवेदपि दिवि स्थितम्।
न चेदं वैशसं घोरकं कौरवान्तकरं भवेत्॥ 11-27-26 (65638)
एवं विलप्य बहुलं धर्मराजो युधिष्ठिरः।
व्यरुदच्छनकैः राजंश्चकारास्योदकं प्रभुः॥ 11-27-27 (65639)
ततो विनेदुः सहसा स्त्रियस्ताः खलु सर्वशः।
अभितो याः स्थितास्तत्र तस्मिन्नुदककर्मणि॥ 11-27-28 (65640)
तत आनाययामास कर्णस्य सपरिच्छदाः।
स्त्रियः कुरुपतिर्धीमान्भ्रातुः प्रेम्णा युधिष्ठिरः॥ 11-27-29 (65641)
स ताभिः सह धर्मात्मा प्रेतकृत्यमनन्तरम्।
`सर्वं चकार कर्णस्य विधिवद्भूरिदक्षिणम्॥ 11-27-30 (65642)
स राजा धृतराष्ट्रश्च कृत्वा जलमतन्द्रितः।
समुत्ततार गङ्गाया भार्यया सह भारत॥' 11-27-31 (65643)
[पापेनासौ मया श्रेष्ठो भ्राता ज्ञातिर्निपातितः।
अतो मनसि यद्गुह्यं स्त्रीणां तन्न भविष्यति॥ 11-27-32 (65644)
इत्युक्त्वा स तु गङ्गाया उत्तताराकुलेन्द्रियः।
भ्रातृभिः सहितः सर्वैर्गङ्गातीरमुपेयिवान्॥] ॥ 11-27-33 (65645)
इति श्रीमन्महाभारते शतसाहस्रिकायां संहितायां वैयासिक्यां स्त्रीपर्वणि श्राद्धपर्वणि सप्तविंशोऽध्यायः॥ 27 ॥
अतः परंशान्तिपर्व भविष्यति तस्यायमाद्यः श्लोकः। 11-27-1 (65646)
11-27-1x (5375)
वैशम्पायन उवाच।
कृत्वोदकं ते सुहृदां सर्वेषां पाण्डुनन्दनाः।
विदुरे धृतराष्ट्रश्च सर्वाश्च भरतस्त्रियः॥