Kumbhaghonam Edition
16. आश्रमवासिकपर्व
आश्रमवासिकपर्व - अध्याय 001
॥ श्रीः ॥
16.1. अध्यायः 001
अथाश्रमवासपर्व ॥ 1 ॥
Mahabharata - AshramaVasika Parva - Chapter Topics
युधिष्ठिरेण राज्यपरिपालनम्॥ 1 ॥ कुन्तीद्रौपद्यादिभिर्गान्धार्यां श्वश्रूवद्वर्तनम्॥ 2 ॥ भीमवर्जमर्जुनादिभिर्युधिष्ठिरशासनेन विशेषतो धृतराष्ट्रानुवर्तनम्॥ 3 ॥Mahabharata - AshramaVasika Parva - Chapter Text
श्रीवेदव्यासाय नमः।
नारायणं नमस्कृत्य नरं चैव नरोत्तमम्।
देवीं सरस्वतीं व्यासं ततो जयमुदीरयेत्॥ 16-1-1 (97215)
जनमेजय उवाच। 16-1-1x (8029)
प्राप्य पैतामहं राज्यं मम पूर्वपितामहाः।
कथमासन्महाराजे धृतराष्ट्रे महात्मनि॥ 16-1-1 (97216)
स तु राजा हतामात्यो हतपुत्रो निराश्रयः।
कथमासीद्धतैश्वर्यो गान्धारी च तपस्विनी॥ 16-1-2 (97217)
कियन्तं चैव कालं ते मम पूर्वपितामहाः।
स्थिता राज्ये महात्मानस्तन्मे व्याख्यातुमर्हसि॥ 16-1-3 (97218)
वैशम्पायन उवाच। 16-1-4x (8030)
प्राप्य राज्यं महात्मानः पाण्डवा हतशत्रवः।
धृतराष्ट्रं पुरस्कृत्य पृथिवीं पर्यपालयन्॥ 16-1-4 (97219)
धृतराष्ट्रमुपातिष्ठद्विदुरः संजयस्तथा।
वैश्यापुत्रश्च मेधावी युयुत्सुः कुरुसत्तम॥ 16-1-5 (97220)
पाण्डवाः सर्वकार्येषु पर्यपृच्चन्त तं नृपम्।
चक्रुस्तेनाभ्यनुज्ञाता वर्षाणि दश पञ्च च॥ 16-1-6 (97221)
सदाऽभिगम्य ते वीराः पर्युपासन्त तं नृपम्।
पादाभिवादनं कृत्वा धर्मिराजमते स्थिताः॥ 16-1-7 (97222)
ते मूर्ध्नि समुपाघ्राताः सर्वकार्याणि चक्रिरे।
कुन्तिभोजसुता चैव गान्धारीमन्ववर्तत॥ 16-1-8 (97223)
द्रौपदी च सुभद्रा च याश्चान्याः पाण्डवस्त्रियः।
समां वृत्तिमवर्तन्त तयोः श्वश्र्वोर्यथाविधि॥ 16-1-9 (97224)
शयनानि महार्हाणि वासांस्याभरणानि च।
राजार्हाणि च सर्वाणि भक्ष्यभोज्यान्यनेकशः॥ 16-1-10 (97225)
युधिष्ठिरो महाराज धृतराष्ट्रेऽभ्युपाहरत्।
तथैव कुन्ती गान्धार्यां गुरुवृत्तिमवर्तत॥ 16-1-11 (97226)
विदुरः संजयश्चैव युयुत्सुश्चैव कौरव।
उपासते स्म तं वृद्धं हतपुत्रं जनाधिपम्॥ 16-1-12 (97227)
श्यालो द्रोणस्य यश्चासीद्दयितो ब्राह्ममो महान्।
स च तस्मिन्महेष्वासः कृपः समभवत्तदा॥ 16-1-13 (97228)
व्यासश्च भगवान्नित्यमासांचक्रे नृपेण ह।
कथाः कुर्वन्पुराणर्षिर्देवर्षिपितृरक्षसाम्॥ 16-1-14 (97229)
धर्मयुक्तानि कार्याणि व्यवहारान्वितानि च।
धृतराष्ट्राभ्यनुज्ञातो विदुरस्तान्यकारयत्॥ 16-1-15 (97230)
सामन्तेभ्यः प्रियाण्यस्य कार्याणि सुबहून्यपि।
प्राप्यन्तेऽर्थेः सुलघुभिः सुनयाद्विदुरस्य वै॥ 16-1-16 (97231)
अकरोद्बन्धमोक्षं च वध्यानां मोक्षणं तथा।
न च धर्मसुतो राजा कदाचित्किञ्चिदब्रवीत्॥ 16-1-17 (97232)
विहारयात्रासु पुनः कुरुराजो युधिष्ठिरः।
सर्वान्कामानुपस्थाप्य धृतराष्ट्रे न्यवेदयत्॥ 16-1-18 (97233)
आरालिकाः सूपकारा रागषाडविकास्तथा।
उपातिष्ठन्त राजानं धृतराष्ट्रं यथापुरम्॥ 16-1-19 (97234)
वासांसि च महार्हाणि माल्यानि विविधानि च।
उपाजह्रुर्यथाकालं धृतराष्ट्रस्य पाण्डवाः॥ 16-1-20 (97235)
मैरेयमधुमांसानि पानकानि लघूनि च।
चित्रान्भक्ष्यविकारांश्च चक्रुस्तस्य यथा पुरा॥ 16-1-21 (97236)
ये चापि पृथिवीपालाः समाजग्मुस्ततस्ततः।
उपातिष्ठन्त ते सर्वे कौरवेन्द्रं यथापुरा॥ 16-1-22 (97237)
कुन्ती च द्रौपदी चैव सात्वती च यशस्विनी।
उलूपी नागकन्या च देवी चित्राङ्गदा तथा॥ 16-1-23 (97238)
धृष्टकेतोश्च भगिनी जरासन्धसुता तथा।
एताश्चान्याश्च बह्व्यो वै योषितः पुरुषर्षभ।
किंकराः पर्युपातिष्ठन्सर्वाः सुबलजां तथा॥ 16-1-24 (97239)
यथा पुत्रवियुक्तोऽयं न किञ्चिद्दुःखमाप्नुयात्।
इति तानन्वशाद्भातॄन्नित्यमेव युधिष्ठिरः॥ 16-1-25 (97240)
एवं ते धर्मराजस्य श्रुत्वा वचनमर्थवत्।
सविशेषमवर्तन्ति भीममेकं तदा विना॥ 16-1-26 (97241)
न हि तत्तस्य वीरस्य हृदयादपसर्पति।
धृतराष्ट्रस्य दुर्बुद्ध्या यद्वृत्तं द्यूतमण्डले॥ ॥ 16-1-27 (97242)
इति श्रीमन्महाभारते आश्रमवासिकपर्वणि आश्रमवासपर्वणि प्रथमोऽध्यायः॥ 1 ॥
Mahabharata - AshramaVasika Parva - Chapter Footnotes
7-1-2 गान्धारी च यशस्विनीति झ.थ.पाठः॥ 7-1-5 उपातिष्ठदाराधितवान्॥ 7-1-9 सतां वृत्तिमवर्तन्तेति थ.पाठः॥ 7-1-13 तस्मिन्धृतराष्ट्रे समभवत्तन्निकटे अभवत्॥ 7-1-14 वासं चक्रे नृपेण हेति क.थ.पाठः॥ 7-1-16 प्रभावाद्विदुरस्य वै इति क.थ.पाठः॥ 7-1-19 अरया शस्त्रविशेषेण लूनं छिन्नं शाकादि अरालु तत्संस्कुर्वन्ति ते आरालिकाः शाकविशेषकर्तारः रागखाण्डविकास्तथेति झ.पाठः। रागषाडवं पिप्पलीशुठीशर्करोपेतो मुद्गयूषस्तत्कर्तारो रागषाडविकाः॥आश्रमवासिकपर्व - अध्याय 002
॥ श्रीः ॥
16.2. अध्यायः 002
अथाश्रमवासपर्व ॥ 1 ॥
Mahabharata - AshramaVasika Parva - Chapter Topics
युधिष्ठिरेण नागराणां धृतराष्ट्रानुशासनपूर्वकं सहभ्रातृभिरप्रमादेन तत्परितोषणम्॥ 1 ॥Mahabharata - AshramaVasika Parva - Chapter Text
वैशम्पायन उवाच।
एवं सम्पूजितो राजा पाण्डवैरंबिकासुतः।
विजहार यथापूर्वमृषिभिः पर्युपस्थितः॥ 16-2-1 (97243)
ब्रह्मदेयाग्रहारांश्च प्रददौ स कुरूद्वहः।
तच्च कुन्तीसुतो राजा सर्वमेवान्वमोदत॥ 16-2-2 (97244)
आनृशंस्यपरो राजा प्रीयमाणो युधिष्ठिरः।
उवाच स तदा भ्रातॄनमात्यांश्च महीपतिः।
मया चैव भवद्भिश्च मान्य एष नराधिपः॥ 16-2-3 (97245)
निदेशे धृतराष्ट्रस्य यस्तिष्ठति स मे सुहृत्।
विपरीतश्च मे शत्रुर्नियम्यश्च भवेन्नरः॥ 16-2-4 (97246)
परिवृत्तेषु चाहःसु पुत्राणां श्राद्धकर्मणि।
ददौ च राजा वित्तानि यावदस्य चिकीर्षितम्॥ 16-2-5 (97247)
ततः स राजा कौरव्यो धृतराष्ट्रो महामनाः।
ब्राह्मणेभ्यो यथार्हेभ्यो ददौ वित्तान्यनेकशः॥ 16-2-6 (97248)
धर्मिराजश्च भीमश्च सव्यसाची यमावपि।
तत्सर्वमन्ववर्तन्त धृतराष्ट्रव्यपेक्षया॥ 16-2-7 (97249)
कथं नु राजा वृद्धः स पुत्रपौत्रवधार्दितः।
शोकमस्मत्कृतं प्राप्यि न म्रियेतेति चिन्त्य ते॥ 16-2-8 (97250)
यावद्धि कुरुवीरस्य जीवत्पुत्रस्य वै सुखम्।
तावत्सुखमवाप्नोति भोगांश्चैव व्यवस्थितान्॥ 16-2-9 (97251)
ततस्ते सहिताः पञ्च भ्रातरः पाण्डुनन्दनाः।
तथाशीलाः समातस्थुर्धृतराष्ट्रस्य शासने॥ 16-2-10 (97252)
धृतराष्ट्रश्च तान्सर्वान्विनीतान्नियमे स्थितान्।
शिष्यवृत्तिं समापन्नान्गुरुवत्प्रत्यपद्यत॥ 16-2-11 (97253)
गान्धारी चैव पुत्राणां विविधैः श्राद्धकर्मभिः।
आनृण्यमगमत्कामान्विप्रेभ्यः प्रतिपाद्य सा॥ 16-2-12 (97254)
एवं धर्मभृतांश्रेष्ठो धर्मराजो युधिष्ठिरः।
भ्रातृभिः सहितो धीमान्पूजयामासं तं नृपम्॥ 16-2-13 (97255)
स राजा सुमहातेजा वृद्धः कुरुकुलोद्वहः।
न ददर्श तदा किञ्चिदप्रियं पाण्डुनन्दने॥ 16-2-14 (97256)
वर्तमानेषु सद्वृत्तिं पाण्डवेषु महात्मसु।
प्रीतिमानभवद्राजा धृतराष्ट्रोंऽबिकासुतिः॥ 16-2-15 (97257)
सौबलेयी च गान्धारी पुत्रशोकमपास्य तम्।
सदैव प्रीतिमत्यासीत्तनयेषु निजेष्विव॥ 16-2-16 (97258)
प्रियाण्येव तु कौरव्यो नाप्रियाणि कुरूद्वहः।
वैचित्रवीर्य नृपतौ समाचरत सर्वदा॥ 16-2-17 (97259)
यद्यद्ब्रूते च किञ्चित्स धृतराष्ट्रो जनाधिपः।
गुरु वा लघु वा कार्यं गान्धारी च तपस्विनी॥ 16-2-18 (97260)
तं स राजा महाराज पाण्डवानां धुरंधरः।
पूजयित्वा वचस्तत्तदकार्षीत्परवीरहा॥ 16-2-19 (97261)
तेन तस्याभवत्प्रीतो वृत्तेन स नराधिपः।
अन्वतप्यत संस्मृत्य पुत्रं तं मन्दचेतसम्॥ 16-2-20 (97262)
सदा च प्रातरुत्थाय कृतजप्यः शुचिर्नृपः।
आशास्ते पाण्डुपुत्राणां समरेष्वपराजयम्॥ 16-2-21 (97263)
ब्राह्मणान्स्वस्तिवाच्याथ हुत्वा चैव हुताशनम्।
आयूंषि पाण्डुपुत्राणामाशंसत नराधिपः॥ 16-2-22 (97264)
न तां प्रीतिं परामाप पुत्रेभ्यः स तदा पुरा।
यां प्रीतिं पाण्डुपुत्रेभ्यः सदाऽवाप नराधिपः। 16-2-23 (97265)
ब्राह्मणानां यथा वृत्तः क्षत्रियाणां यथाविधः।
तथा विट्शूद्रसङ्घानामभवत्स प्रियस्तदा॥ 16-2-24 (97266)
यच्च किञ्चित्तदा पापं धृतराष्ट्रसुतैः कृतम्।
अकृत्वा हृदि तत्पापं तं नृपं सोन्ववर्तत॥ 16-2-25 (97267)
यः कश्चिदपि यत्किञ्चित्प्रमादादंबिकासुते।
कुरुते द्वेष्यतामेति स कौन्तेयस्य धीमतः॥ 16-2-26 (97268)
न राज्ञो धृतराष्ट्रस्य न च दुर्योधनस्य वै।
उवाच दुष्कृतं कश्चिद्युधिष्ठिरभयान्नरः॥ 16-2-27 (97269)
धृत्या तुष्टो नरेन्द्रः स गान्धारी विदुरस्तथा।
अजातशत्रोर्वृत्तेन न तु भीमस्य पार्थिवः॥ 16-2-28 (97270)
अन्ववर्तत भीमोपि निश्चितो धर्मजं नृपम्।
धृतराष्ट्रं च सम्प्रेक्ष्य सदा भवति दुर्मनाः॥ 16-2-29 (97271)
राजानमनुवर्तन्त धर्मपुत्रममित्रहा।
अन्ववर्तत संक्रुद्धो हृदयेन पराङ्मुखः॥ ॥ 16-2-30 (97272)
इति श्रीमन्महाभारते आश्रमवासिकपर्वणि आश्रमवासपर्वणि द्वितीयोऽध्यायः॥। 2 ॥
Mahabharata - AshramaVasika Parva - Chapter Footnotes
7-2-4 निरस्यश्च भवेन्नर इति क.थ.पाठः॥आश्रमवासिकपर्व - अध्याय 003
॥ श्रीः ॥
16.3. अध्यायः 003
अथाश्रमवासपर्व ॥ 1 ॥
Mahabharata - AshramaVasika Parva - Chapter Topics
भीमसेनपरुषभाषणश्रवणान्निर्वेदमुपगतवता धृतराष्ट्रेणि सहगान्धार्या वनगमनाध्यवसायः॥ 1 ॥ तथा सकलपौरानयनेन तेषु स्वाध्यवसायनिवेदनम्॥ 2 ॥Mahabharata - AshramaVasika Parva - Chapter Text
वैशम्पायन उवाच।
युधिष्ठिरस्य नृपतेर्दुर्योधनपितुस्तदा।
नान्तरं दद्दशू राज्ये पुरुषाः प्रणयं प्रति॥ 16-3-1 (97273)
यदा तु कौरवो राजा पुत्रं सस्मार बालिशम्।
तदा भीमं हृदा राजन्नपध्याति स पार्थिवः॥ 16-3-2 (97274)
कौरवश्चैव भीमश्च हृदाऽन्योन्यमवर्तताम्।
ध्यायन्तौ श्लक्ष्णया वाचा त्वन्योन्यमभितिष्टितां 16-3-3 (97275)
अप्रकाशं व्यलीकानि चकारास्य वृकोदरः।
आज्ञां प्रत्यहरच्चापि कृतकैः पुरुषैः सदा॥ 16-3-4 (97276)
स्मरन्दुर्मन्त्रितं तस्य वृत्तान्यप्यस्य कानिचित्।
`असकृच्चाप्युवाचेदं हतास्ते मन्दचेतसः॥' 16-3-5 (97277)
अथ भीमः सुहृन्मध्ये बाहुशब्दं तथाऽकरोत्।
संश्रवे धृतराष्ट्रस्य गान्धार्याश्चाप्यमर्षणः॥ 16-3-6 (97278)
स्मृत्वा दुर्योधनं शत्रुं कर्णदुःखासनावपि।
प्रोवाचेदं सुसंरब्धो भीमः सपरुषं वचः॥ 16-3-7 (97279)
अन्धस्य नृपतेः पुत्रा मया परिघवाहुना।
नीता लोकममुं सर्वे नानाशस्त्रास्त्रयोधिनः॥ 16-3-8 (97280)
इमौ तौ परिघप्रख्यौ भुजौ मम दुरासदौ।
ययोरन्तरमासाद्य धार्तराष्ट्राः क्षयं गताः॥ 16-3-9 (97281)
ताविमौ चन्दनेनाकौ वन्दनीयौ च मे भुजौ।
याभ्यां दुर्योधनो नीतः क्षयं ससुतबान्धवः॥ 16-3-10 (97282)
एतास्चान्याश्च विविधाः शल्यभुता नराधिपः।
वृकोदरस्य ता वाचः श्रुत्वा निर्वेदमागमत्॥ 16-3-11 (97283)
सा च बुद्धिमती देवी कालपर्यायवेदिनी।
गान्धारी सर्वधर्मज्ञा तान्यलीकानि शुश्रुवे।
`कुन्तीं वर्या तु संवीक्ष्य शापे नास्याकरोन्मति' 16-3-12 (97284)
ततः पञ्चदशे वर्षे समतीते नराधिपः।
राजा निर्वेदमापेदे भीमवाग्बाणपीडितः॥ 16-3-13 (97285)
`सुखासक्तं कृच्छ्रपरं ज्ञात्वा चैव युधिष्ठिरम्।
तपोयोगात्तपस्तप्तुं मनश्चक्रे महामतिः॥' 16-3-14 (97286)
नान्वबुध्यत तद्राजा कुन्तीपुत्रो युधिष्ठिरः।
श्वेताश्वोवाऽथकुन्ती वा द्रौपदी वा यशस्विनी॥ 16-3-15 (97287)
माद्रीपुत्रौ च भीमस्य मतं तावन्ववर्तताम्।
राज्ञस्तु चित्तं रक्षन्तौ नोचतुः स्वयमप्रियम्॥ 16-3-16 (97288)
ततः समानयामास धृतराष्ट्रः सुहृज्जनम्।
बाष्पसंदिग्धमत्यर्थमिदमाह च तान्भृशम्॥ 16-3-17 (97289)
विदितं भवतामेतद्यथा वृत्तः कुरुक्षयः।
ममापराधात्तत्सर्वमिति ज्ञेयं तु कौरवाः॥ 16-3-18 (97290)
योऽहं दुष्टमतिं मन्दो ज्ञातीनां भयवर्धनम्।
दुर्योधनं कौरवाणामाधइपत्येऽभ्यषेचयम्।
यच्चाहं वासुदेवस्य नाश्रौषं वाक्यमर्थवत्॥ 16-3-19 (97291)
वध्यतां साध्वयं पापः सामात्य इति दुर्मतिः।
पुत्रस्नेहाभिभूतस्तु हितमुक्तो मनीषिभिः॥ 16-3-20 (97292)
विदुरेणाथ भीष्मेण द्रोणेन च कृपेण च।
पदेपदे भगवता व्यासेन च महात्मना।
संजयेनाथ गान्धार्या तदिदं तप्यते मया॥ 16-3-21 (97293)
यच्चाहं पाण्डुपुत्रेषु गुणवत्सु महात्मसु।
न न्यस्तवाञ्श्रियं दीप्तां पितृपैतामहीमिमाम्॥ 16-3-22 (97294)
विनाशं पश्यमानो हि सर्वराज्ञां गदाग्रजः।
एतच्छ्रेयस्तु परमममन्यत जनार्दनः॥ 16-3-23 (97295)
सोहमेतान्यलीकानि दुर्वृत्तान्यात्मनस्तदा।
हृदये शल्यभूतानि धारयामि सहस्रशः॥ 16-3-24 (97296)
विशेषतस्तु दह्यामि वर्षे पञ्चदशेऽद्य वै।
अस्य पापस्य शुद्ध्यर्थं नियतोस्मि सुदुर्मतिः॥ 16-3-25 (97297)
चतुर्थे नियते काले कदाचिदपि चाष्टमे।
तृष्णाविनयनं भुञ्जे गान्धारी वेद तन्मम॥ 16-3-26 (97298)
करोत्याहारमिति मां सर्वः परिजनः सदा।
युधिष्ठिरभयादेति भृशं तप्यति पाण्डवः॥ 16-3-27 (97299)
भूमौ शये जप्यपरो दर्भष्वजिनसंवृतः।
नियमव्यपदेशेन गान्धारी च यशस्विनी॥ 16-3-28 (97300)
अहं पुत्रशतं वीरं सङ्ग्रामेष्वपलायिनम्।
नानुतप्ये हतं तत्र क्षत्रधर्मं हि तं विदुः॥ 16-3-29 (97301)
इत्युक्त्वा धर्मराजानमभ्यभाषत कौरवः।
भद्रं ते यादवीमातर्वचश्चेदं निबोध मे॥ 16-3-30 (97302)
सुखमध्युषितः पुत्र त्वया सुपरिपालितः।
मया दानानि दत्तानि श्राद्धानि च पुनःपुनः॥ 16-3-31 (97303)
प्रकृष्टं च मया पुत्र पुण्यं चीर्णं यथाबलम्।
गान्धारी हतपुत्रेयं धैर्येणोदीक्षते च माम्॥ 16-3-32 (97304)
द्रौपद्या ह्यपकर्तारस्तव चैश्वर्यहारिणः।
समतीता नृशंसास्ते स्वधर्मेण हता युधि॥ 16-3-33 (97305)
न तेषु प्रतिकर्तव्यं पश्यामि कुरुनन्दन।
सर्वे शस्त्रजिताँल्लोकान्गतास्तेऽभिमुखं हताः॥ 16-3-34 (97306)
आत्मनस्तु हितं पुण्यं प्रतिकर्तव्यमद्य ते।
गान्धार्याश्चैव राजेन्द्र तदनुज्ञातुमर्हसि॥ 16-3-35 (97307)
त्वं तु शस्त्रभृतां श्रेष्ठः सततं धर्मवत्सलः।
राजा गुरुः प्राणभृतां तस्मादेतद्ब्रवीम्यहम्॥ 16-3-36 (97308)
अनुज्ञातस्त्वया वीर संश्रयेयं वनान्यहम्।
चीरवल्कलभृद्राजन्गान्धार्या सहितोऽनया॥ 16-3-37 (97309)
तवाशिषः प्रयुञ्जानो भविष्यामि वनेचरः।
उचितं नः कुले तात सर्वेषां भरतर्षभ।
पुत्रेष्वैश्चर्यमाधाय वयसोन्ते वनं नृप॥ 16-3-38 (97310)
तत्राहं वायुभक्षो वा निराहारोपि वा वसन्।
पत्न्या सहानया वीर चरिष्यामि तपः परम्॥ 16-3-39 (97311)
त्वं चापि फलभाक्तात तपसः पार्थिवो ह्यसि।
फलभाजो हि राजानः कल्याणस्येतरस्य वा॥ ॥ 16-3-40 (97312)
इति श्रीमन्महाभारते आश्रमवासिकपर्वणि आश्रमवासपर्वणि तृतीयोऽध्यायः॥ 3 ॥
Mahabharata - AshramaVasika Parva - Chapter Footnotes
7-3-3 तथैव भीमसेनोऽपि धृतराष्ट्रं जनाधिपम्। नामर्षयत राजेन्द्रि सदैव दुष्टवद्धृदेति झ.पाठः॥ 7-3-24 सोहमेतान्यतीतानीति क.पाठः॥ 7-3-26 तृष्णविनयनं तृषामात्रापहं मण्डदि नतु क्षुद्व्याधिहरम्॥आश्रमवासिकपर्व - अध्याय 004
॥ श्रीः ॥
16.4. अध्यायः 004
अथाश्रमवासपर्व ॥ 1 ॥
Mahabharata - AshramaVasika Parva - Chapter Topics
धुतराष्ट्रेण युधिष्ठिरंप्रति स्वस्य वनगमनाभ्यनुज्ञानप्रार्थना॥ 1 ॥ युधिष्ठिरेण धृतराष्ट्रानुशोचनपूर्वकं तत्प्रतिषेधने व्यासेन युधिष्ठिरचोदनाय तत्रागमनम्॥ 2 ॥Mahabharata - AshramaVasika Parva - Chapter Text
युधिष्ठिर उवाच।
न मां प्रीणयते राज्यं त्वय्येवं दुःखिते नृप।
दिङ्मामस्तु सुदुर्बुद्धिं राज्यसक्तं प्रमादिनम्॥ 16-4-1 (97313)
गृहे वसन्तं दुःखार्तमुपवासकृशं भृशम्।
यताहारं क्षितिशयं नाविदं भ्रातृभिः सह॥ 16-4-2 (97314)
अहोस्मि वञ्चितो मूढो भवता गूढबुद्धिना।
विस्वासयित्वा पूर्वं मां यदिदं दुःखमश्नुथा॥ 16-4-3 (97315)
किं मे राज्येन भोगैर्वा किं यज्ञैः किं सुखेन वा।
यस्य मे त्वं महीपाल दुखान्येतान्यवाप्तवान्॥ 16-4-4 (97316)
पीडितं चापि जानामि राज्यमात्मानमेव च।
अनेन वचसा तेऽद्य दुःखितस्य जनेश्वरः॥ 16-4-5 (97317)
भवान्पिता भवान्माता भवान्नः परमो गुरुः।
भवता विप्रहीणा वै क्वनु तिष्ठामहे वयम्॥ 16-4-6 (97318)
औरसो भवतः पुत्रो युयुत्सुर्नृपसत्तम।
अस्तु राजा महाराज यमन्यं मन्यते भवान्॥ 16-4-7 (97319)
अहं वनं गमिष्यामि भवान्राजा प्रशास्त्विदम्।
नमामयशसा दग्धं भूयस्त्वं दग्धुमर्हसि॥ 16-4-8 (97320)
नाहं राजा भवान्राजा भवता परवानहम्।
कथं गुरुं त्वां धर्मज्ञमनुज्ञातुमिहोत्सहे॥ 16-4-9 (97321)
न मन्युर्हृदि नः कश्चित्सुयोधनकृतेऽनघ।
भवितव्यं तथा तद्धि वयं चान्ये च मोहिताः॥ 16-4-10 (97322)
वयं पुत्रा हि भवोत यथा दुर्योधनादयः।
गान्धारी चैव कुन्ती च निर्विशेषे मते मम॥ 16-4-11 (97323)
स मां त्वं यदि राजेन्द्र परित्यज्य गमिष्यसि।
पृष्ठतस्त्वनुयास्यामि सत्यमात्मानमालभे॥ 16-4-12 (97324)
इयं हि वसुसंपूर्णा मही सागरमेखला।
भवता विप्रहीणस्य न मे प्रीतिकरी भवेत्॥ 16-4-13 (97325)
भवदीयमिदं सर्वं शिरसा त्वां प्रसादये।
त्वदधीनाः स्म राजेन्द्र व्येतु ते मानसो ज्वरः॥ 16-4-14 (97326)
भवितव्यमनुप्राप्तो मन्ये त्वं वसुधाधिप।
दिष्ट्या शुश्रूषमाणस्त्वां मोक्षिष्ये मनसो ज्वरं॥ 16-4-15 (97327)
धृतराष्ट्र उवाच। 16-4-16x (8031)
तापस्ये मे मनस्तात वर्तते कुरुनन्दन।
उचितं च कुलेऽस्माकमरण्यगमनं प्रभो॥ 16-4-16 (97328)
चिरमध्युषितः पुत्र चिरं शुश्रूषितस्त्वया।
वृद्धं मामप्यनुज्ञातुमर्हसि त्वं नराधिप॥ 16-4-17 (97329)
वैशम्पायन उवाच। 16-4-18x (8032)
इत्युक्त्वा धर्मराजानं वेपमानं कृताञ्जलिम्।
उवाच विदुरं राजा धृतराष्ट्रोंऽबिकासुतः॥ 16-4-18 (97330)
संजयं च महात्मानं कृपं चापि महारथम्।
अनुनेतुमिहेच्छामि भवद्भिर्वसुधाधिपम्॥ 16-4-19 (97331)
म्लायते मे मनो हीदं मुखं च परिशुष्यति।
वयसा च प्रकृष्टेन वाग्व्यायामेन चैव ह॥ 16-4-20 (97332)
इत्युक्त्वा स तु धर्मात्मा वृद्धो राजा कुरूद्वहः।
गान्धारीं शिश्रिये धीमान्सहसैव गतासुवत्॥ 16-4-21 (97333)
तं तु दृष्ट्वा समासीनं विसंज्ञमिव कौरवम्।
आर्तिं राजाऽगमत्तीव्रां कौन्तेयः परवीरहा॥ 16-4-22 (97334)
युधिष्ठिर उवाच। 16-4-23x (8033)
यस्य नागसहस्रेण शतसङ्ख्येन वै बलम्।
सोयं नारीं व्यपाश्रित्य शेते राजा गतासुवत्॥ 16-4-23 (97335)
आयसी प्रतिमा येन भीमसेनस्य सा पुरा।
चूर्णीकृता बलवता सोबलामाश्रितः स्त्रियम्॥ 16-4-24 (97336)
धिगस्तु मामधर्मज्ञं धिग्बुद्धिं धिक्च मे श्रुतम्।
यत्कृते पृथिवीपालः शेतेऽयमतथोचितः॥ 16-4-25 (97337)
अहमप्युपवत्स्यामि यथैवायं गुरुर्मम।
यदि राजा न भुङ्क्तेऽयं गान्धारी च यशस्विनी॥ 16-4-26 (97338)
वैशम्पायन उवाच। 16-4-27x (8034)
ततोस्य पाणिना राजञ्जलशीतेन पाण्डवः।
उरो मुखं च शनकैः पर्यमार्जत धर्मवित्॥ 16-4-27 (97339)
तेन रत्नौषधिमता पुण्येन च सुगन्धिना।
पाणिस्पर्शेन राज्ञः स राजा संज्ञामवाप ह॥ 16-4-28 (97340)
स्पृशन्तं पाणिना भूयः परिष्यज्य च पाण्डवम्।
`उवाच राजा धर्मज्ञो धृतराष्ट्रः शुभं वचः॥' 16-4-29 (97341)
जीवामीवातिसंस्पर्शात्तव राजीवलोचन।
मूर्धानं च तवाघ्रातुमिच्छामि मनुजाधिप।
पाणिभ्यां हि परिस्प्रष्टुं प्राणानां हितमात्मनि॥ 16-4-30 (97342)
अष्टमो ह्यद्य कालोऽयमाहारस्य कृतस्य मे।
येनाहं कुरुशार्दूल शक्नोमि न विचेष्टितुम्॥ 16-4-31 (97343)
व्यायामश्चायमत्यर्थं कृतस्त्वामभियाचता।
ततो ग्लानमनास्तान नष्टसंज्ञ इवाभवम्॥ 16-4-32 (97344)
तवामृतसुखस्पर्शं हस्तस्पर्शमिमं प्रभो।
लब्ध्वा संजीवितोस्मीति मन्ये कुरुकुलोद्वह॥ 16-4-33 (97345)
वैशम्पायन उवाच। 16-4-34x (8035)
एवमुक्तस्तु कौन्तेयः पित्रा ज्येष्ठेन भारत।
पस्पर्श सर्वगात्रेषु स्नेहार्द्रस्तं शनैस्तदा॥ 16-4-34 (97346)
उपलभ्य ततः प्राणान्धृतराष्ट्रो महीपतिः।
बाहुभ्यां सम्परिष्वज्य मूर्ध्न्याजिघ्रत पाण्डवम्॥ 16-4-35 (97347)
विदुरादयश्च ते सर्वे रुरुदुर्दुःखिता भृशम्।
अतिदुःखात्तु राजानं नोचुः किञ्चन पाण्डवम्॥ 16-4-36 (97348)
गान्धारी त्वेव धर्मज्ञा मनसोद्वहती भृशम्।
दुःखान्यधारयद्राजन्मैवमित्येव चाब्रवीत्॥ 16-4-37 (97349)
इतरास्तु स्त्रियः सर्वाः कुन्त्या सह सुदःखिताः।
नेत्रैरागतविक्लेदैः परिवार्य स्थिताऽभवन्॥ 16-4-38 (97350)
अथाब्रवीत्पुनर्वाक्यं धृतराष्ट्रो युधिष्ठिरम्।
अनुजानीहि मां राजंस्तापस्ये भरतर्षभ॥ 16-4-39 (97351)
ग्लायते मे मनस्तात भूयोभूयः प्रजल्पतः।
न मामतः परं पुत्र परिक्लेष्टुमिहार्हसि॥ 16-4-40 (97352)
तस्मिंस्तु कौरवेन्द्रे तं तथा ब्रुवति पाण्डवम्।
सर्वेषामवरोधानामार्तनादो महानभूत्॥ 16-4-41 (97353)
दृष्ट्वा कृशं विवर्णं च राजानमतथोचितम्॥
उपवासपरिश्रान्तं त्वगस्थिपरिवारितम्॥ 16-4-42 (97354)
धर्मपुत्रः स्वपितरं परिष्वज्य महाप्रभुम्।
शोकजं बाष्पमुत्सृज्यि पुनर्वचनमब्रवीत्॥ 16-4-43 (97355)
न कामये नरश्रेष्ठ जीवितं पृथिवीं तथा।
यथा तव प्रियं राजंश्चिकीर्षामि परंतप॥ 16-4-44 (97356)
यदि चाहमनुग्राह्यो भवतो दयितोऽपि वा।
क्रियतां तावदाहारस्ततो वेत्स्याम्यहं परम्॥ 16-4-45 (97357)
ततोऽब्रवीन्महातेजा धृतराष्ट्रो युधिष्ठिरम्।
अनुज्ञातस्त्वया पुत्र भुञ्जीयामिति कामये॥ 16-4-46 (97358)
इति ब्रुवति राजेन्द्रे धृतराष्ट्रे युधिष्ठिरम्।
ऋषिः सत्यवतीपुत्रो व्यासोऽभ्योत्य वचोऽब्रवीत्॥ ॥ 16-4-47 (97359)
इति श्रीमन्महाभारते आश्रमवासिकपर्वणि आश्रमिवासपर्वणि चतुर्थोऽध्यायः॥ 4 ॥
आश्रमवासिकपर्व - अध्याय 005
॥ श्रीः ॥
16.5. अध्यायः 005
अथाश्रमवासपर्व ॥ 1 ॥
Mahabharata - AshramaVasika Parva - Chapter Topics
व्यासेन युधिष्ठिरंप्रति सहेतूपन्यासं धृतराष्ट्रस्य धृतराष्ट्रस्य वनगमनाभ्यनुज्ञानचोदनापूर्वकं स्वाश्रमगमनम्॥ 1 ॥ युधिष्ठिरेणि धृतराष्ट्रंप्रति कृच्छ्रेण तदभ्यनुज्ञानाङ्गीकरणम्॥ 2 ॥Mahabharata - AshramaVasika Parva - Chapter Text
व्यास उवाच।
युधिष्ठिर महाबाहो ********** कुरुनन्दनः।
धृतराष्ट्रो महातेजास्तत्कुरुष्वाविचारयन्॥ 16-5-1 (97360)
अयं हि वृद्धो नृपतिर्हतपुत्रो विशेषतः।
नेदं कृच्छ्रं चिरतरं सहेदिति मतिर्मम॥ 16-5-2 (97361)
गान्धारी च महाभागा प्राज्ञा करुणवेदिनी।
पुत्रशोकं महाराज धैर्येणोद्वहते भृशम्॥ 16-5-3 (97362)
अहमप्येतदेव त्वां ब्रवीमि कुरु मे वचः।
अनुज्ञां लभतां राजा मां वृथेह मरिष्यति॥ 16-5-4 (97363)
`स्वस्थो भवत्वयं धीमान्वनेषु मधुगन्धिषु।'
राजर्षीणां पुराणानामनुयातु गतिं नृपः। राजर्षीणां हि सर्वेषामन्ते वनमुपाश्रयः॥ 16-5-5 (97364)
वैशम्पायन उवाच। 16-5-6x (8036)
इत्युक्तः स तदा राजा व्यासेनाद्भुतकर्मणा।
प्रत्युवाच महातेजा धर्मराजो महामुनिम्॥ 16-5-6 (97365)
भगवानेव नो मान्यो भगवानेव नो गुरुः।
भगवानस्य राज्यस्य कुलस्य च परायणम्॥ 16-5-7 (97366)
अहं तु पुत्रो भगवन्पिता राजा गुरुश्च मे।
निदेशवती च पितुः पुत्रो भवति धर्मतः॥ 16-5-8 (97367)
वैशम्पायन उवाच। 16-5-9x (8037)
इत्युक्तः स तु तं प्राह व्यासो वेदविदांवरः।
युधिष्ठिरं महातेजाः पुनरेव महाकविः॥ 16-5-9 (97368)
एवमेतन्महाभाग यथा वदसिं भारत।
राजाऽयं वृद्धतां प्राप्तः प्रमाणे परमे स्थितः॥ 16-5-10 (97369)
सोयं मयाऽभ्यनुज्ञातस्त्वथा च पृथिवीपतिः।
करोतु स्वमभिप्रायं मा स्म विघ्नकरो भव॥ 16-5-11 (97370)
एष एव परो धर्मो राजर्षीणां युधिष्ठिर।
समरे वा भवेन्मृत्युर्वने वा विधिपूर्वकम्॥ 16-5-12 (97371)
पित्रा तु तव राजेन्द्र पाण्डुना पृथिवीक्षिता।
शिष्यभूतेन राजाऽयं गुरुवत्पर्युपासितः॥ 16-5-13 (97372)
क्रतुभिर्दक्षिणावद्भी रत्नपर्वतशोभितैः।
महद्भिरिष्टं गौर्भुक्ता प्रजाश्च परिपालिताः॥ 16-5-14 (97373)
पुत्रसंस्यं च विपुलं राज्यं विप्रोषिते त्वयि।
त्रयोदशसमा भुक्तं दत्तं च विविधं वसु॥ 16-5-15 (97374)
त्वया चायं नरव्याघ्र गुरुशुश्रूषयाऽनघ।
आराधितः स भृत्येन गान्धारी च यशस्विनी॥ 16-5-16 (97375)
अनुजानीहि पितरं समयोऽस्म तपोविधौ।
न मन्युर्विद्यते चास्य सुसूक्ष्मोऽपि युधिष्ठिर॥ 16-5-17 (97376)
वैशम्पायन उवाच। 16-5-18x (8038)
एतावदुक्त्वा वचनमनुमान्य च पार्थिवम्।
तथाऽस्त्विति च तेनोक्तः कौतेयेन ययौ वनम्॥ 16-5-18 (97377)
गते भगवति व्यासे राजा पाण्डुसुतस्तदा।
प्रोवाच पितरं वृद्धं मन्दंमन्दमिवानतः॥ 16-5-19 (97378)
यदाह भगवान्व्यासो यच्चापि भवतो मतम्।
यथाऽऽह च महेष्वासः कृपो विदुर एव च॥ 16-5-20 (97379)
युयुत्सुः संजयश्चैव तत्कर्तास्म्यहमञ्जसा।
सर्व एव हि मान्या मे कुलस्य हि हितैषिणः॥ 16-5-21 (97380)
इदं तु याचे नृपते त्वामहं शिरसा नतः।
क्रियतां तावदाहारस्ततो गच्छाश्रमं प्रति॥ ॥ 16-5-22 (97381)
इति श्रीमन्महाभारते आश्रमवासिकपर्वणि आश्रमवासपर्वणि पञ्चमोऽध्यायः॥ 5 ॥
Mahabharata - AshramaVasika Parva - Chapter Footnotes
7-5-17 तपोविधौ तपःकरणे॥ 18 ॥आश्रमवासिकपर्व - अध्याय 006
॥ श्रीः ॥
16.6. अध्यायः 006
अथाश्रमवासपर्व ॥ 1 ॥
Mahabharata - AshramaVasika Parva - Chapter Topics
वनं यियासुना धृतराष्ट्रेण युधिष्ठिराय राजनीत्युपदेशः॥ 1 ॥Mahabharata - AshramaVasika Parva - Chapter Text
वैशम्पायन उवाच।
ततो राज्ञाऽभ्यनुज्ञातो धृतराष्ट्रो महामनाः।
ययौ स्वभवनं राजा गान्धार्याऽनुगतस्तदा॥ 16-6-1 (97382)
मन्दप्राणगतिर्धामान्कृच्छ्रादिव समुद्वहन्।
पदानि स महीपालो जीर्णो गजपतिर्यथा॥ 16-6-2 (97383)
तमन्वगच्छद्विदुरो विद्वान्सूतश्च संजयः।
स चापि परमेष्वासः कृपः सारद्वतस्तथा॥ 16-6-3 (97384)
स प्रविश्य गृहं राजा कृतपूर्वाह्णिकक्रियः।
तर्पयित्वा द्विजश्रेष्ठानाहारमकरोत्तदा॥ 16-6-4 (97385)
गान्धारी चैव धर्मज्ञा कुन्त्या सह मनस्विनी।
वधूभिरुपचारेणि पूजिताऽभुङ्क्त भारत॥ 16-6-5 (97386)
कृताहारं कृताहाराः सर्वे ते विदुरादयः।
पाण्डवाश्च कुरुश्रेष्ठमुपातिष्ठन्त तं नृपम्॥ 16-6-6 (97387)
ततोऽब्रवीन्महाराजः कुन्तीपुत्रमुपह्वरे।
निषण्णं पाणिना पृष्ठे संस्पृशन्नंबिकासुतः॥ 16-6-7 (97388)
अप्रमादस्त्वया कार्यः सर्वथा कुरुनन्दन।
अष्टाङ्गे राजशार्दूल राज्ये धर्मपुरस्कृते॥ 16-6-8 (97389)
तत्तु शक्यं महाराज रक्षितुं पाण्डुनन्दन।
राज्यं धर्मेण कौन्तेय विद्वानसि निबोध तत्॥ 16-6-9 (97390)
विद्यावृद्धान्सदैव त्वमुपासीथा युधिष्ठिर।
शृणुयास्ते च यद्ब्रूयुः कुर्याश्चैवाविचारयन्॥ 16-6-10 (97391)
प्रातरुस्थाय तान्राजन्पूजयित्वा यथाविधि।
कृत्यकाले समुत्पन्ने पृच्छेथाः कार्यमात्मनः॥ 16-6-11 (97392)
ते तु सम्मानिता राजंस्त्वया लोकहितार्थिना।
प्रवक्ष्यन्ति हितं तात सर्वथा तव भारत॥ 16-6-12 (97393)
इन्द्रियाणि च सर्वाणि वाजिवत्परिपालय।
हितायैव भविष्यन्ति रक्षितं द्रविणं यथा॥ 16-6-13 (97394)
अमात्यानुपधातीतान्पितृपैतामहाञ्शुचीन्।
दान्तान्कर्मसु सर्वेषु मुख्यान्मुख्येषु योजयेः॥ 16-6-14 (97395)
चारयेथाश्च सततं चारैरविदितः परैः।
परीक्षितैर्बहुविधैः स्वराष्ट्रेषु परेषु च॥ 16-6-15 (97396)
पुरं च ते सुगुप्तं स्याद्दृढप्राकारतोरणम्।
अट्टाट्टालकसम्बाधं षट्पदं सर्वतो दिशम्॥ 16-6-16 (97397)
तस्य द्वाराणि सर्वाणि पर्याप्तानि बृहन्ति च।
सर्वतः सुविभक्तानि यन्त्रैरारक्षितानि च॥ 16-6-17 (97398)
पुरुषैरलमर्थस्ते विदितैः कुलशीलतः।
आत्मा च रक्ष्यः सततं भोजनादिषु भारत।
विहाराहारकालेषु माल्यशय्यासनेषु च॥ 16-6-18 (97399)
स्त्रियश्च ते सुगुप्ताः स्युर्वृद्धैराप्तैरधिष्ठिताः।
शीलवद्भिः कुलीनैश्च विद्वद्भिश्च युधिष्ठिर॥ 16-6-19 (97400)
मन्त्रिणिश्चैव कुर्वीथा द्विजान्विद्याविशारदान्।
विनीतांश्च कुलीनांश्च धर्मार्थकुशलानृजून्॥ 16-6-20 (97401)
तैः सार्धं मन्त्रयेथास्त्वं नात्यर्थं बहुभिःक सह।
समस्तैरपि च व्यस्तैर्व्यपदेशेन केनचित्॥ 16-6-21 (97402)
सुसंवृतं मन्त्रगृहं स्थलं चारुह्य मन्त्रयेः।
अरण्ये निःशलाके वा न च रात्रौ कथञ्चन॥ 16-6-22 (97403)
वानराः पक्षिणश्चैव ये मनुष्यानुकारिणः।
सर्वे मन्त्रगृहे वर्ज्या ये चापि जडपङ्गवः॥ 16-6-23 (97404)
मन्त्रभेदे हि ये दोषा भन्ति पृथिवीक्षिताम्।
न ते शक्याः समाधातुं कथञ्चिदिति मे मतिः॥ 16-6-24 (97405)
दोषांश्च मन्त्रभेदस्य ब्रूयास्त्वं मन्त्रिमण्डले।
अभेदे च गुणा राजन्पुनःपुनररिंदम॥ 16-6-25 (97406)
पौरजानपदानां च शौचशौचे युधिष्ठिर।
यथा स्याद्विदितं राजंस्तथा कार्यं कुरूद्वह॥ 16-6-26 (97407)
व्यवहारश्च ते राजन्नित्यमाप्तैरधिष्ठितः।
योज्यस्तुष्टैर्हितै राजन्नित्यं चारैरनुष्ठितः॥ 16-6-27 (97408)
परिमाणं विदित्वा च दण्डं दण्ड्येषु भारत।
प्रणयेयुर्यथान्यायं पुरुषास्ते युधिष्ठिर॥ 16-6-28 (97409)
आदानरुचयश्चैव परदाराभिमर्शिनः।
उग्रदण्डिप्रधानाश्च मिथ्याव्याहारिणस्तथा॥ 16-6-29 (97410)
आक्रोष्टारश्च लुब्धाश्च हर्तारः साहसप्रियाः।
सभाविहारभेत्तारो वर्णानां च प्रदूषकाः।
हिरण्यदण्ड्या वध्याश्च कर्तव्या देशकालतः॥ 16-6-30 (97411)
`अवरोधभूमौ भृत्यैश्च पानं सह विवर्जयेत्।
आक्रोशन्त्यनुमत्तास्ते कलत्रं वाऽपि गृह्णते॥ 16-6-31 (97412)
जिघांसन्त्यपि शस्त्रेण नष्टाः क्रीडन्ति चोत्कटाः।
नानाक्षेपा व्याहरन्ति गम्यागम्यं न जानते॥ 16-6-32 (97413)
अतिपानेनि राजाऽपि सर्वं कोशं विनाशयेत्।
वितरेद्गायकेभ्यश्च वृथा च द्रव्यसञ्चयम्॥ 16-6-33 (97414)
शब्दमात्मनि दोषांश्च पिबेदेकश्च जायया।
युक्त्या प्रकाशमयति सुवीर्यस्यि विवृद्धये॥' 16-6-34 (97415)
प्रातरेव हि पश्यथा ये कुर्युः प्रियकर्म ते।
अलङ्कारमथो भोज्यमत ऊर्ध्वं समाचरेः॥ 16-6-35 (97416)
पश्येथाश्चि ततो योधान्सदा त्वं प्रतिहर्षयन्।
दूतानां च चराणां च प्रदोषस्ते सदा भवेत्॥ 16-6-36 (97417)
सदा चापररात्रान्ते भवेत्कार्यार्थनिर्णयः।
मध्यरात्रे विहारस्ते मध्याह्ने च सदा भवेत्॥ 16-6-37 (97418)
सर्वे त्वौपयिकाः कालाः कार्याणां भरतर्षभ।
तथैवालङ्कृतः काले तिष्ठिथा भूरिदक्षिणः॥ 16-6-38 (97419)
`न विद्राव्य च तिष्ठेत परिहार्य विभूषणम्।
प्रयोज्यं सर्वदैवेह मङ्गल्यं पापनाशनम्॥' 16-6-39 (97420)
चक्रवत्तात कार्याणां पर्यायो दृश्यते सदा।
कोशस्य निचये यत्नं कुर्वीथा न्यायतः सदा।
विविधस्य महाराज विपरीतं विवर्जयेः॥ 16-6-40 (97421)
चारैर्विदित्वा शत्रूंश्च ये राज्ञामन्तरैषिणः।
तानाप्तैः पुरुषैर्दूराद्धातयेथा नराधिप॥ 16-6-41 (97422)
कर्म दृष्ट्वाऽथ भृत्यांस्त्वं वरयेथाः कुरूद्वह।
कारयेथाश्च कर्माणि युक्तायुक्तैरधिष्ठितैः॥ 16-6-42 (97423)
सेनाप्राणेता च भवेत्तव तात दृढव्रतः।
शूरः क्लेशसहश्चैव हितो भक्तश्च पूरुषः॥ 16-6-43 (97424)
सर्वे जनपदाश्चैव तव कर्माणि पाण्डव।
गोवद्रासभवच्चैव कुर्युर्ये व्यवहारिणः॥ 16-6-44 (97425)
स्वरन्ध्रं पररन्ध्रं च स्वेषु चैव परेषु च।
उपलक्षयितव्यं ते नित्यमेव युधिष्ठिर॥ 16-6-45 (97426)
देशजाश्चैव पुरुषा विक्रान्ताः स्वेषु कर्मसु।
यात्राभिरनुरूपाभिरनुग्राह्या हितास्त्वया॥ 16-6-46 (97427)
गुणार्थिनां गुणः कार्यो विदुषा वै जनाधिप।
अविचार्याश्च ते ते स्युरचला इव नित्यशः॥ ॥ 16-6-47 (97428)
इति श्रीमन्महाभारते आश्रमवासिकपर्वणि आश्रमवासपर्वणि षष्ठोऽध्यायः॥ 6 ॥
Mahabharata - AshramaVasika Parva - Chapter Footnotes
7-6-5 अभुङ्क्त भुक्तवती॥ 7-6-8 अष्टाङ्गे स्वाम्यमात्यादियुते॥ 7-6-13 राज्यवत्परिपालयेति क.थ.पाठः॥ 7-6-16 अष्टा दुर्गोपरिभागे सञ्चारस्थानानि। षट्पदं षड्भिः पदैः पदनीयैः स्थानैर्युक्तम्। तेन सप्तप्राकारमिति गम्यते। तत्र सप्तमस्यान्तःपुरत्वात् षडेवान्येषां पदनीयानि स्थानानि॥ 7-6-22 निःशलाके अतृणे। सतृणे ह्यासन्नः परचारो ज्ञातुमशक्य इति॥ 7-6-29 आदानरुचयः उत्कोचोपजीविनः॥ 7-6-36 प्रदोषो रजनीमुखं दूतादीनां दर्शनकालः। प्रदेयस्ते सदा भवेदिति क.थ.पाठः॥ 7-6-44 गवादिवत् आहारमात्रवेतनाः। व्यवहारिणः कारुशिल्पिप्रभृतयः॥आश्रमवासिकपर्व - अध्याय 007
॥ श्रीः ॥
16.7. अध्यायः 007
अथाश्रमवासपर्व ॥ 1 ॥
Mahabharata - AshramaVasika Parva - Chapter Topics
धृतराष्ट्रेण युधिष्ठिरंप्रति राजनीतिकथनम्॥ 1 ॥Mahabharata - AshramaVasika Parva - Chapter Text
धृतराष्ट्र उवाच।
मण्डलानि च बुध्येथाः परेषामात्मनस्तथा।
उदासीनगुणानां च मध्यस्थानां च भारत॥ 16-7-1 (97429)
चतुर्णां शत्रुजातानां सर्वेषामाततायिनाम्।
मित्रं चामित्रमित्रं च बोद्धव्यं तेऽरिकर्शन॥ 16-7-2 (97430)
अथ नानाजनपदा दुर्गाणि विविधानि च।
बलानि च कुरुश्रेष्ठ भवत्येषां यथेच्छकम्॥ 16-7-3 (97431)
ते च द्वादश कौन्तेय राजानो विविधात्मकाः।
मन्त्रिप्रधानाश्च गुणाः षष्टिर्द्वादश च प्रभो॥ 16-7-4 (97432)
एतन्मण्डलमित्याहुराचार्या नीतिकोविदाः।
अत्र षाड्गुण्यमाचत्तं युधिष्ठिर निबोध तत्॥ 16-7-5 (97433)
वृद्धिक्षयौ च विज्ञेयौ स्थानं च कुरुसत्तम।
द्विसप्तत्यां महाबाहो ततः षाड्गुण्यजा गुणाः॥ 16-7-6 (97434)
यथा स्वपक्षो बलवान्परपक्षस्तथा बलः।
विगृह्य शत्रून्कौन्तेय यायात्क्षितिपतिस्तदा॥ 16-7-7 (97435)
यदा परे च बलिनः स्वपक्षश्चैव दुर्बलः।
सार्धं विद्वांस्तदा क्षीणः परैः सन्धिं मसाश्रयेत्॥ 16-7-8 (97436)
द्रव्याणां सञ्चयश्चैव कर्तव्यः सुमहांस्तथा।
यदा समर्था यानाय नचिरेणैव भारत॥ 16-7-9 (97437)
तदा सर्वं विधेयं स्यात्स्थानेन च विचारयेत्।
भूमिरल्पफला देया विपरीतस्य भारत॥ 16-7-10 (97438)
हिरण्यरूप्यभूयिष्ठं मित्रं क्षीणमकोशभृत्।
विपरीतं निगृह्णीयात्स्वयं सन्धिविशारदः॥ 16-7-11 (97439)
सन्ध्यर्थं राजपुत्रं वा लिप्सेथा भरतर्षभ।
विपरीतं न तच्छ्रेयः पुत्र कस्यांचिदापदि॥ 16-7-12 (97440)
तस्याः प्रमोक्षे यत्नं च कुर्याः सोपायमन्त्रवित्।
प्रकृतीनां च राजेन्द्र राजा दीनान्विभावयेत्॥ 16-7-13 (97441)
क्रमेणि युगपद्बुध्वा व्यसनानां बलाबलम्।
पीडनं स्तंभनं चैव कोशभङ्गस्तथैव च॥ 16-7-14 (97442)
कार्यं यत्नेन शत्रूणां स्वराज्यं रक्षता स्वयम्।
न च हिंस्योऽभ्युपगतः सामन्तो वृद्धिमिच्छता॥ 16-7-15 (97443)
कौन्तेय तद्धितं ते स्यात्पृथिवीं विजिगीषतः।
गुणानां भेदने योगमीप्सेथाः सह मन्त्रिभिः॥ 16-7-16 (97444)
साधुसङ्ग्रहणाच्चैव पापनिग्रहणात्तथा।
आत्मसात्करणे नित्यं पालनानि गृहे तथा।
दुर्बलाश्चैव सततं नान्वेष्टव्या बलीयसा॥ 16-7-17 (97445)
तिष्ठेथा राजशार्दूल वैतसीं वृत्तिमास्थितः।
यद्येनमभियायाच्च बलवान्दुर्बल नृपः। 16-7-18 (97446)
सामादिभिरुपायैस्तं क्रमेणि विनिवर्तयेः।
अशक्नुवंश्च युद्धाय निष्पतेत्सह मन्त्रिभिः॥ 16-7-19 (97447)
कोशेन पौरैर्दण्डेन ये चास्य प्रियकारिणः।
असम्भवे तु सर्वस्य यथा मुख्येन निष्पतेत्।
क्रमेणानेन मोक्षः स्याच्छरीरं प्रति केवलम्॥ ॥ 16-7-20 (97448)
इति श्रीमन्महाभारते आश्रमवासिकपर्वणि आश्रमवासपर्वणि सप्तमोऽध्यायः॥ 7 ॥
Mahabharata - AshramaVasika Parva - Chapter Footnotes
7-7-1 मण्डलानि अरिर्मित्रमित्यादीनि॥ 7-7-3 यथेच्छकं परैर्भेद्यत्वमभेद्यत्वं च भवति तस्मादवहितस्तिष्ठेत्। तथामात्या जनपदा इति झ.पाठः। भवत्येषां स्वकं परमिति थ.पाठः॥ 7-7-4 द्वादश चत्वारः शत्रुजाताः। षट् आततायिनः। मित्रं अमित्रमित्रं चेति षष्टिर्गुणाः। कृष्यादीन्यष्टौ संधानकर्माणि। बालादयो विंशतिरसंधेया। नास्तिक्यादयश्चतुर्दश दोषाः। मन्त्रादीन्यष्टादश तीर्थानीति। एतेषु केचित् हानार्थं ज्ञातव्याः केचिदुपादानार्थम्॥ 7-7-5 ततः षाङ्गुण्यचारिण इति क.थ.पाठः॥ 7-7-6 द्रव्याणां सञ्चये चैव यत्नः कार्यः सदा भवेत् इति क.पाठः॥ 7-7-9 दीनान् अन्धवधिरादीन् विभावयेत्पूजयेत्॥ 7-7-13 एनं त्वाम्आश्रमवासिकपर्व - अध्याय 008
॥ श्रीः ॥
16.8. अध्यायः 008
अथाश्रमवासपर्व ॥ 1 ॥
Mahabharata - AshramaVasika Parva - Chapter Topics
धृतराष्ट्रेण युधिष्ठरंप्रति राजनीतिकथनम्॥ 1 ॥Mahabharata - AshramaVasika Parva - Chapter Text
धृतराष्ट्र उवाच।
सन्धिविग्रहमप्यत्र पश्येथा राजसत्तम।
द्वियोनिं विविधोपायं बहुकल्पं युधिष्ठिर॥ 16-8-1 (97449)
कौरव्य पर्युपासीथाः स्थित्वा द्वैविध्यमात्मनः।
तुष्टपुष्टजनः शत्रुरर्थवानिति च स्मरेत्॥ 16-8-2 (97450)
पर्युपासनकाले तु विपरीतं विधीयते।
आमर्दकाले राजेन्द्र व्यवसायस्ततोऽपरः॥ 16-8-3 (97451)
व्यसनं भेदनं चैव शत्रूणां कारयेत्ततः।
कर्षणं भीषणं चैव युद्धे चैव बहुक्षयम्॥ 16-8-4 (97452)
प्रयास्यमानो नृपतिस्त्रिविधं परिचिन्तयेत्।
आत्मनश्चैव शत्रोश्च शक्तिं शास्त्रविशारदः॥ 16-8-5 (97453)
उत्साहप्रभुशक्तिभ्यां मन्त्रशक्त्या च भारत।
उपपन्नो नृपो यायाद्विपरीतं च वर्जयेत्॥ 16-8-6 (97454)
आददीत बलं राजा मौलं मित्रबलं तथा।
अटवीबलं भृतं चैव तता श्रेणीबलं प्रभो॥ 16-8-7 (97455)
`मित्रामित्रबलं राजन्न्यायाद्वृद्ध्युदये धृतः।'
तत्र मित्रबलं राजन्मौलं चैव विशिष्यते।
श्रेणीबलं भृतं चैव तुल्ये एवेति मे मतिः॥ 16-8-8 (97456)
तथाऽऽचारबलं चैव परस्परसमं नृप।
विज्ञेयं बलकालेषु राज्ञा काल उपस्थिते॥ 16-8-9 (97457)
आपदश्चापि बोद्धव्या बहुरूपा नराधिप।
भवन्ति राज्ञा कौरव्य यास्ताः पृथगतः शृणु॥ 16-8-10 (97458)
विकल्पा बहुधा राजन्नापदां पाण्डुनन्दन।
सामादिभिरुपन्यस्य गमयेत्तान्नृपः सदा॥ 16-8-11 (97459)
यात्रां गच्छेद्बलैर्युक्तो राजा षड्भिः परंतप।
युक्तश्च देशकालाभ्यां बलैरात्मगुणैस्तथा॥ 16-8-12 (97460)
हृष्टपुष्टबलो गच्छेद्राजा वृद्ध्युदये रतः।
अकृशश्चाप्यथो यायादनृतावपि पाण्डव॥ 16-8-13 (97461)
तूणाश्मानं वाजिरथप्रवाहां
ध्वजद्रुमैः संवृतकूलरोधसम्।
पदातिनागैर्बहुकर्दमां नदीं
सपत्नानाशे नृपतिः प्रयोजयेत्॥ 16-8-14 (97462)
अथोपपत्त्या शकटं पद्मवज्रं च भारत।
उशना वेद यच्छास्त्रं तत्रैतद्विहितं विभो॥ 16-8-15 (97463)
चारयित्वा परबलं कृत्वा स्वबलदर्शनम्।
स्वभूमौ योजयेद्युद्धं परभूमौ तथैव च॥ 16-8-16 (97464)
बलं प्रसादयेद्राजा निक्षिपेद्बलनो नरान्।
ज्ञात्वा स्वविषयं तत्र सामादिभिरुपक्रमेत्॥ 16-8-17 (97465)
सर्वथैव महाराज शरीरं धारयेदिह।
प्रेत्य चेह च कर्तव्यमात्मनिःश्रेयसं परम्॥ 16-8-18 (97466)
एवं कुर्वञ्शुभा वाचो लोकेऽस्मिञ्शृणु ते नृप।
प्रेत्य स्वर्गमवाप्नोति प्रजा धर्मेणि पालयन्॥ 16-8-19 (97467)
एवं त्वया कुरुश्रेष्ठ वर्तितव्यं प्रजासु वै।
उभयोर्लोकयोस्तात प्राप्तये नित्यमेव हि॥ 16-8-20 (97468)
भीष्मेण सर्वमुक्तोसि कृष्णेन विदुरेण च।
मयाऽप्यवश्यं वक्तव्यं प्रीत्या ते नृपसत्तम॥ 16-8-21 (97469)
एतत्सर्वं यथान्यायं कुर्वीथा भूरिदक्षिण।
प्रियस्तथा प्रजानां त्वं स्वर्गे सुखमवाप्स्यसि॥ 16-8-22 (97470)
अश्वमेधसहस्रेण यो यजेत्पृथिवीपतिः।
पालयेद्वाऽपि धर्मेणि प्रजास्तुल्यं फलं लभेत्॥ ॥ 16-8-23 (97471)
इति श्रीमन्महाभारते आश्रमवासिकपर्वणि आश्रमवासपर्वणि अष्टमोऽध्यायः॥ 8 ॥
Mahabharata - AshramaVasika Parva - Chapter Footnotes
7-8-1 प्रबलप्रतियोगिकौ दुर्बलप्रतियोगिकौ चेति द्वियोनी संधिविग्रहौ॥ 7-8-2 स्थित्वा स्थिरो भूत्वा। द्वैविध्यं बलाबलं ज्ञात्वा शत्रुं पर्युपास्स्वेति भावः। स्मरेज्जयोपायं विचारयेन्न त्वकस्मात्प्रयायात्। जित्वा द्विविधमात्मनेति क.पाठः॥ 7-8-3 विपरीतमतुष्टपुष्टबलं प्रयायादित्यर्थः॥ 7-8-4 गमनं वेदनं चैवेति थ.पाठः॥ 7-8-7 मौलं धनबलम्॥ 7-8-13 अनृतौ अकालेऽपि शिशिरादौ॥ 7-8-15 शकटादयो व्यूहविशेषाः॥ 7-8-16 साधयित्वा परबलं कृत्वा च बलमर्षणम् इति क.थ.पाठः॥आश्रमवासिकपर्व - अध्याय 009
॥ श्रीः ॥
16.9. अध्यायः 009
अथाश्रमवासपर्व ॥ 1 ॥
Mahabharata - AshramaVasika Parva - Chapter Topics
धृतराष्टेण युधिष्ठिरात्सकलपौरजनानयनेन स्वस्य वनजिगमिषानिवेदनपूर्वकं तान्प्रात तदभ्यनुज्ञानप्रार्थना॥ 1 ॥Mahabharata - AshramaVasika Parva - Chapter Text
युधिष्ठिर उवाच।
एवमेतत्करिष्यामि यथाऽऽत्थ पृथिवीपते।
भूयश्चैवानुशास्योऽहं भवता पार्थिवर्षभ॥ 16-9-1 (97472)
भीष्मे स्वर्गमनुप्राप्तो गते च मधुसूदने।
विदुरे संजये चैव कोऽन्यो मां वक्तुमर्हति॥ 16-9-2 (97473)
यत्तु मामनुशास्तीह भवानद्य हिते स्थितः।
कर्तास्मि तन्महीपाल निर्वृतो भव पार्थिव॥ 16-9-3 (97474)
वैशम्पायन उवाच। 16-9-4x (8039)
एवमुक्तः स राजर्षिर्धर्मराजेन धीमता।
कौन्तेयं समनुज्ञातुमियेष भरतर्षभ॥ 16-9-4 (97475)
पुत्र विश्राम्यतां तावन्ममापि बलवाञ्श्रमः।
इत्युक्त्वा प्राविशद्राजा गान्धार्या भवनं तदा॥ 16-9-5 (97476)
तमासनगतं देवी गान्धारी धर्मचारिणी।
उवाच काले कालज्ञा प्रजापतिसमं पतिम्॥ 16-9-6 (97477)
अनुज्ञातः स्वयं तेन व्यासेनि त्वं महर्षिणा।
युधिष्ठिरस्यानुमते कदाऽरण्यं गमिष्यसि॥ 16-9-7 (97478)
धृतराष्ट्र उवाच। 16-9-8x (8040)
गान्धार्यहमनुज्ञातः स्वयं पित्रा महात्मना।
युधिष्ठिरस्यानुमते गन्तास्मि नचिराद्वनम्॥ 16-9-8 (97479)
अहं हि तावत्सर्वेषां तेषां दुर्द्यूतदेविनाम्।
पुत्राणां दातुमिच्छामि प्रेत्यभावानुगं वसु।
सर्वप्रकृतितिसान्निध्यं कारयित्वा स्ववेश्मनि॥ 16-9-9 (97480)
वैशम्पायन उवाच। 16-9-10x (8041)
इत्युक्त्वा धर्मराजाय प्रेषयामास वै तदा।
स च तद्वचनात्सर्वं समानिन्ये महीपतिः॥ 16-9-10 (97481)
ततः प्रतीतमनसो ब्राह्मणाः कुरुजाङ्गलाः।
क्षत्रियाश्चैव वैश्याश्च शूद्राश्चैव समाययुः॥ 16-9-11 (97482)
ततो निष्क्रम्य नृपतिस्तस्मादन्तःकपुरात्तदा।
दद्दशे तं जनं सर्वं सर्वाश्च प्रकृतीस्तथा॥ 16-9-12 (97483)
समवेतांश्च तान्सर्वान्पौराञ्जानपदांस्तथा।
तानागतानभिप्रेक्ष्य समस्तं च सुहृञ्जनम्॥ 16-9-13 (97484)
ब्राह्मणांश्च महीपाल नानादेशसमागतान्।
उवाच मतिमान्राजा धृतराष्ट्रोऽम्बिकासुतः॥ 16-9-14 (97485)
भवन्तः कुरुवश्चैव चिरकालं सहोषिताः।
परस्परस्य सुहृदः परस्परहिते रताः॥ 16-9-15 (97486)
यदिदानीमहं ब्रूयामस्मिन्काल उपस्थिते।
तथा भवद्भिः कर्तव्यमविचार्य वचो मम॥ 16-9-16 (97487)
अरण्यगमने बुद्धिर्गान्धारीसहितस्य मे।
व्यासस्यानुमते राज्ञस्तथा कुन्तीसुतस्य मे॥ 16-9-17 (97488)
भवन्तोप्यनुजानन्तु मान्या वोऽभूद्विचारणा॥ 16-9-18 (97489)
अस्माकं भवतां चैव येयं प्रीतिर्हि शाश्वती।
न च साऽन्येषु देशेषु राज्ञामिति मतिर्मम॥ 16-9-19 (97490)
शान्तोस्मि वयसाऽनेन तथा पुत्रविनाकृतः।
उपवासकृशश्चास्मि गान्धारीसहितोऽनघाः॥ 16-9-20 (97491)
युधिष्ठिरगते राज्ये प्राप्तश्चास्मि सुखं महत्।
मन्ये दुर्योधनैश्वर्याद्विशिष्टं बहुभिर्गुणैः॥ 16-9-21 (97492)
मम चान्धस्य वृद्धस्य हतपुत्रस्य का गतिः।
ऋते वनं महाभागास्तन्माऽनुज्ञातुमर्हथ॥ 16-9-22 (97493)
तस्य तद्वचनं श्रुत्वा सर्वे ते कुरुजाङ्गलाः।
बाप्पसंदिग्धया वाचा रुरुदुर्भरतर्षभ॥ 16-9-23 (97494)
तानविब्रुवतः किञ्चित्सर्वाञ्शोकपरायणान्।
पुनरेव महातेजा धृतराष्ट्रोऽब्रवीदिदम्॥ ॥ 16-9-24 (97495)
इति श्रीमन्महाभारते आश्रमवासिकपर्वणि आश्रमवासपर्वणि नवमोऽध्यायः॥ 9 ॥
आश्रमवासिकपर्व - अध्याय 010
॥ श्रीः ॥
16.10. अध्यायः 010
अथाश्रमवासपर्व ॥ 1 ॥
Mahabharata - AshramaVasika Parva - Chapter Topics
धृतराष्ट्रेण पौरान्प्रति दुर्योधनपक्षपातेन स्वकृतापनयक्षमापनम्॥ 1 ॥Mahabharata - AshramaVasika Parva - Chapter Text
धृतराष्ट्र उवाच।
शान्तनुः पालयामास यथावद्वसुधामिमाम्।
तथा विचित्रवीर्यश्च भीष्मेण परिपालितः।
पालयामास नस्तातो विदितं वो न संशयः॥ 16-10-1 (97496)
यथा च पाण्डुर्भाता मे दयितो भवतामभूत्।
स चापि पालयामास यथावत्तच्च वेत्थ ह॥ 16-10-2 (97497)
`अनन्तरं हि पितरमनुज्ञातो युधिष्ठिरः।
नात्र किञ्चिन्मृषा जातु भाषतेति मतिर्मम॥' 16-10-3 (97498)
मया च भवतां सम्यक् शुश्रूषा या कृताऽनघाः।
असम्यग्वा महाभागास्तत्क्षन्तव्यमतन्द्रितैः॥ 16-10-4 (97499)
यदा दुर्योधनेनेदं भुक्तं राज्यमकण्टकम्।
अपि तत्र न वो मन्दो दुर्बुद्धिरपराद्धवान्॥ 16-10-5 (97500)
तस्यापराधाद्दुर्बुद्धेरभिमानान्महीक्षिताम्।
विमर्दः सुमहानासीदनयात्स्वकृतादथ।
`घातिताः कौरवेयाश्च पृथिवी च विनाशिता॥' 16-10-6 (97501)
तन्मया साधु वाऽपीदं यदि वाऽसाधु वै कृतम्।
तद्वो हृदि न कर्तव्यं मया बद्धोऽयमञ्जलिः॥ 16-10-7 (97502)
वृद्धोऽयं हतपुत्रोऽयं दुःखितोऽयं नराधिपः।
पूर्वराज्ञां च पुत्रोऽयमिति कृत्वाऽनुजानथ॥ 16-10-8 (97503)
इयं च कृपणा वृद्धा हतपुत्रा तपस्विनी।
गान्धारी पुत्रशोकार्ता तुल्यं याचति वो मया॥ 16-10-9 (97504)
हतपुत्राविमौ वृद्धौ विदित्वा दुःखितौ तथा।
अनुजानीत भद्रं वो व्रजाव शरणं च वः॥ 16-10-10 (97505)
अयं च कौरवो राजा कुन्तीपुत्रो युधिष्ठिरः।
सर्वैर्भवद्भिर्द्रव्यः समेषु विषमेषु च।
न जातु विषमं चैव गमिष्यति कदाचन॥ 16-10-11 (97506)
चत्वारः सचिवा यस्य भ्रातरो विपुलौजसः।
लोककपालसमा ह्येते सर्वधर्मार्थदर्शिनः॥ 16-10-12 (97507)
`चतुर्णां लोकपालानां मध्ये विपरिवर्तते।'
ब्रह्मेव भगवानेष सर्वभूतजगत्पतिः॥ 16-10-13 (97508)
`एवमेव महाबाहुर्भीमार्जुनयमैर्वृतः।'
युधिष्ठिरो महातेजा भवतः पालयिष्यति॥ 16-10-14 (97509)
अवश्यमेव वक्तव्यमिति कृत्वा ब्रवीमि वः।
एष न्यासो मया दत्तः सर्वेषां वो युधिष्ठिरः।
भवन्तोऽस्य च वीरस्य न्यासभूताः कृता मया॥ 16-10-15 (97510)
यदेव तैः कृतं किञ्चिद्व्यलीकं वः सुतैर्मम।
यदन्येनि मदीयेन तदनुज्ञातुमर्हथ॥ 16-10-16 (97511)
भवद्भिर्न हि मे मन्युः कृतपूर्वः कथञ्चन।
अत्यन्तगुरुभक्तानामेषोऽञ्जलिरिदं नमः॥ 16-10-17 (97512)
तेषामस्थिरबुद्धीनां लुब्धानां कामचारिणाम्।
कृते याचेऽद्य वः सर्वान्गान्धारीसहितोऽनघाः॥ 16-10-18 (97513)
इत्युक्तांस्तेन ते सर्वे पौरजानपदा जनाः।
नोचुर्बाष्पकलाः किञ्चिद्वीक्षांचक्रुः परस्परम्॥ ॥ 16-10-19 (97514)
इति श्रीमन्महाभारते आश्रमवासिकपर्वणि आश्रमवासपर्वणि दशमोऽध्यायः॥ 10 ॥
Mahabharata - AshramaVasika Parva - Chapter Footnotes
7-10-7 न कर्तव्यमनुज्ञातुमिहार्हथेति क.ट.थ.पाठः॥ 7-10-16 अन्येन भृत्येन। अनुज्ञातुं क्षन्तुम्॥आश्रमवासिकपर्व - अध्याय 011
॥ श्रीः ॥
16.11. अध्यायः 011
अथाश्रमवासपर्व ॥ 1 ॥
Mahabharata - AshramaVasika Parva - Chapter Topics
पौरजनैर्ब्राह्मणमुखेन धृतराष्ट्रंप्रति समाश्वासनपूर्वकं कृच्छ्रेणि वनगमनाभ्यनुज्ञानम्॥ 1 ॥Mahabharata - AshramaVasika Parva - Chapter Text
वैशम्पायन उवाच।
एवमुक्तास्तु ते तेन पौरजानपदा जनाः।
वृद्धेन राज्ञा कौरव्य नष्टसंज्ञा इवाभवन्॥ 16-11-1 (97515)
तूष्णींभूतांस्ततस्तांस्तु वाष्पकण्ठान्महीपतिः।
धृतराष्ट्रो महीपालः पुनरेवाभ्यभाषत॥ 16-11-2 (97516)
वृद्धं च हतपुत्रं च धर्मपत्न्या सहानया।
विलपन्तं बहुविधं कृपणं चैव सत्तमाः॥ 16-11-3 (97517)
पित्रा स्वयमनुज्ञातं कृष्णद्वैपायनेन वै।
वनवासाय धर्मज्ञा धर्मजेन नृपेण ह॥ 16-11-4 (97518)
सोहं पुनःपुनर्याचे शिरसाऽवनतोऽनघाः।
गान्धार्या सहितं तन्मां समनुज्ञातुमर्हथ॥ 16-11-5 (97519)
वैशम्पायन उवाच। 16-11-6x (8042)
तच्छ्रुत्वा कुरुराजस्य वाक्यानि करुणानि ते।
रुरुदुः सर्वशो राजन्समेताः कुरुजाङ्गलाः॥ 16-11-6 (97520)
उत्तरीयैः करैश्चापि संछाद्य वदनानि ते।
रुरुदुः शोकसंतप्ता मुहूर्तं पितृमातृवत्॥ 16-11-7 (97521)
हृदयैः शून्यभूतैस्ते धृतराष्ट्रप्रवासजम्।
दुःखं संधारयन्तो हि नष्टसंज्ञा हवाभवन्॥ 16-11-8 (97522)
ते विनीय तमायासं धृतराष्ट्रवियोगजम्।
शनैः शनैस्तदाऽन्योन्यमब्रुवन्स्वमतान्युत॥ 16-11-9 (97523)
ततः सञ्चिन्त्य ते सर्वे वाक्यान्यथ समासतः।
एकस्मिन्ब्राह्मणे कार्यमावेस्योचुर्नराधिपम्॥ 16-11-10 (97524)
ततः स्वाचरणो विप्रः सम्मतोऽर्थविशारदः।
सम्भाव्यो बह्वृचो राजन्वक्तुं समुपचक्रमे॥ 16-11-11 (97525)
अनुमान्य महाराजं सदः समनुभाष्य च।
विप्रः प्रगल्भो मेधावी स राजानमुवाच ह॥ 16-11-12 (97526)
राजन्वाक्यं जनस्यास्य मयि सर्वं समर्पितम्।
वक्ष्यामि तदहं वीर तज्जुषस्व नपाधिप॥ 16-11-13 (97527)
यथा वदसि राजेन्द्र सर्वमेतत्तथा विभो।
नात्र मिथ्या वचः किञ्चित्सुहृत्त्वं नः परस्परम्॥ 16-11-14 (97528)
न जात्वस्य च वंशस्य राज्ञां कश्चित्कदाचन।
राजाऽऽसीद्यः प्रजापालः प्रजानामप्रियोऽभवत्॥ 16-11-15 (97529)
पितृवन्मातृवच्चैव भवन्तः पालयन्ति नः।
न च दुर्योधनः किञ्चिदयुक्तं कृतवान्नृपः॥ 16-11-16 (97530)
`प्रियाणि कुर्वन्सर्वेषामनुवृत्त्यर्थमुद्यतः।'
यथा ब्रवीति धर्मात्मा मुनिः सत्यवतीसुतः।
तथा कुरु महाराज स हि नः परमो गुरुः॥ 16-11-17 (97531)
त्यक्ता वयं तु भवता दुःखशोकपरायणाः।
भविष्यामश्चिरं राजन्भवद्गुणशतैर्हृताः॥ 16-11-18 (97532)
यथा शन्तनुना गुप्ता राज्ञा चित्राङ्गदेन च।
भीष्मवीर्योपगूढेन पित्रा तव च पार्थिव।
भवद्बुद्धियुजा चैवि पाण्डुना पृथिवीक्षिता॥ 16-11-19 (97533)
तथा दुर्योधनेनापि राज्ञा सुपरिपालिताः।
न स्वल्पमपि पुत्रस्ते व्यलीकं कृतवान्नृप। 16-11-20 (97534)
पितरीव सुविश्वस्तास्तस्मिन्नपि नराधिपे।
वयसा स्म यथा सम्यग्भवतो विदितं तथा॥ 16-11-21 (97535)
तथा वर्षसहस्राणि कुन्तीपुत्रेण धीमता।
पाल्यमाना धृतिमता सुखं विन्दामहे नृप॥ 16-11-22 (97536)
राजर्षीणां पुराणानां भवतां पुण्यकर्मणाम्।
कुरुसंवरणादीनां भरतस्य च धीमतः॥ 16-11-23 (97537)
वृत्तं समनुयात्येष धर्मात्मा भूरिदक्षिणः।
नात्र वाच्यं महाराज सुसूक्ष्ममपि विद्यते॥ 16-11-24 (97538)
उषिताः स्म सुखं नित्यं भवता परिपालिताः।
सुसूक्ष्मं च व्यलीकं ते सपुत्रस्य न विद्यते॥ 16-11-25 (97539)
यत्तु ज्ञातिविमर्देऽस्मिन्नात्थ दुर्योधनं प्रति।
भन्तमनुनेष्यामि तत्रापि कुरुनन्दन॥ 16-11-26 (97540)
न तद्दुर्योधनकृतं न च तद्भवता कृतम्।
न कर्णसौबलाभ्यां च कुरवो यत्क्षयं गताः॥ 16-11-27 (97541)
दैवं तत्तु विजानीमो यन्न शक्यं प्रबाधितुम्।
दैवं पुरुषकारेणि न शक्यमपि बाधितुम्॥ 16-11-28 (97542)
अक्षौहिण्यो महाराज दशाष्टौ च समागताः।
अष्टादशाहेन हताः कुरुभिर्योधपुङ्गवैः॥ 16-11-29 (97543)
भीष्मद्रोणकृपाद्यैश्च कर्णेन च महात्मना।
युयुधानेन वीरेण धृष्टद्युम्नेन चाहवे॥ 16-11-30 (97544)
चतुर्भिः पाण्डुपुत्रैश्च भीमार्जुनयमैस्तथा।
न च क्षयोऽयं नृपते क्रते दैवबलादभूत्॥ 16-11-31 (97545)
अवश्यमेव सङ्ग्रामे क्षत्रियेण विशेषतः।
कर्तव्यं निधनं काले मर्तव्यं क्षत्रबन्धुना॥ 16-11-32 (97546)
तैरियं पुरुषव्याघ्रैर्विद्याबाहुबलान्वितैः।
पृथिवी निहता सर्वा सहया सरथद्विपा॥ 16-11-33 (97547)
न स राज्ञां वधे सूनुः कारणं ते महात्मनाम्।
न भवान्न च ते भृत्या न कर्णो न च सौबलः॥ 16-11-34 (97548)
यद्विशस्ताः कुरुश्रेष्ठ राजानश्च सहस्रशः।
सर्वं दैवकृतं विद्धि कोत्र किं वक्तुमर्हति॥ 16-11-35 (97549)
गुरुर्मतो भवानस्य कृत्स्नस्य जगतः प्रभुः।
धर्मात्मानमतस्तुभ्यमनुजानीमहे सुतम्॥ 16-11-36 (97550)
लभतां वीरलोकं स ससहायो नराधिपः।
द्विजाग्र्यैः समनुज्ञातस्त्रिदिवे मोदतां सुखम्। 16-11-37 (97551)
प्राप्स्यते च भवान्पुण्यं धर्मे च सततं स्थितः।
वेद धर्मं महाबाहो लौक्यं वैदिकमेव च॥ 16-11-38 (97552)
दृष्टापदानाश्चास्माभिः पाण्डवाः पुरुषर्षभाः।
समर्थास्त्रिदिवस्यापि पालने किं पुनः क्षितेः॥ 16-11-39 (97553)
अनुवर्त्स्यन्ति वा धीमन्समेषु विषमेषु च।
प्रजाः कुरुकुलश्रेष्ठ पाण्डवाञ्शीलभूषणान्॥ 16-11-40 (97554)
ब्रह्मदेयाग्रहारांश्च पारिबर्हांश्च पार्थिवः।
पूर्वराजातिसर्गांश्च पालयत्येव पाण्डवः॥ 16-11-41 (97555)
दीर्घदर्शीं मृदुर्दान्तः सदा वैश्रवणो यथा।
अक्षुद्रसचिवश्चायं कुन्तीपुत्रो महामनाः॥ 16-11-42 (97556)
अप्यमित्रे दयावांश्च शुचिश्च भरतर्षभः।
ऋजु पश्यति मेधावी पुत्रवत्पाति नः सदा॥ 16-11-43 (97557)
विप्रियं च जनस्यास्य संसर्गाद्धर्मजस्य वै।
न करिष्यन्ति राजर्षे तथा भीमार्जुनादयः॥ 16-11-44 (97558)
मन्दा मृदुषु कौरव्य तीक्ष्णेष्वाशीविषोपमाः।
वीर्यवन्तो महात्मानः पौराणां च हिते रताः॥ 16-11-45 (97559)
न कुन्ती न च पाञ्चाली न चोलूपी न सात्वती।
अस्मिञ्जने करिष्यन्ति प्रतिकूलानि कर्हिचित्॥ 16-11-46 (97560)
भवत्कृतमिमं स्नेहं युधिष्ठिरविवर्धितम्।
न पृष्ठतः करिष्यन्ति पौरा जानपदा जनाः॥ 16-11-47 (97561)
अधर्मिष्ठानपि सतः कुन्तीपुत्रा महारथाः।
मानवान्पालयिष्यन्ति भूत्वा धर्मपरायणाः॥ 16-11-48 (97562)
स राजन्मानसं दुःखमपनीय युधिष्ठिरात्।
कुरु कार्याणि धर्म्याणि नमस्ते पुरुषर्षभ॥ 16-11-49 (97563)
वैशम्पायन उवाच। 16-11-50x (8043)
तस्य तद्वचनं धर्म्यमनुमान्य गुणोत्तरम्।
साधुसाध्विति सर्वः स जनः प्रतिगृहीतवान्॥ 16-11-50 (97564)
धृतराष्ट्राश्च तद्वाक्यमभिपूज्य पुनःपुनः।
विसर्जयामास तदा प्रकृतीस्तु शनैःशनैः॥ 16-11-51 (97565)
स तैः सम्पूजितो राजा शिवेनावेक्षितस्तथा।
प्राञ्जलिः पूजयामास तं जनं भरतर्षभ॥ 16-11-52 (97566)
ततो विवेश भवनं गान्धार्या सहितो निजम्।
आगतायां च शर्वर्यां सुखं शेते नराधिपः॥ ॥ 16-11-53 (97567)
इति श्रीमन्महाभारते आमश्रवासिकपर्वणि आश्रमवासपर्वणि एकादशोऽध्यायः॥ 11 ॥
आश्रमवासिकपर्व - अध्याय 012
॥ श्रीः ॥
16.12. अध्यायः 012
अथाश्रमवासपर्व ॥ 1 ॥
Mahabharata - AshramaVasika Parva - Chapter Topics
धृतराष्ट्रेण भीष्मदुर्योधनादीनां श्राद्धदानाय विदुरमुखाद्युधिष्ठिरंप्रति द्रव्ययाचनम्॥ 1 ॥ तच्छ्रवणेन विमनायमाभीमे तद्भादज्ञेनार्जुनेन तम्प्रति द्रव्ययाचने भीमेन धृतराष्ट्रापनयानुस्मारणपूर्वकं तदनङ्गीकरणम्॥ 2 ॥Mahabharata - AshramaVasika Parva - Chapter Text
वैशम्पायन उवाच।
ततो रजन्यां व्युष्टायां धृतराष्ट्रोंऽबिकासुतः।
विदुरं प्रेषयामास युधिष्ठिरनिवेशनम्॥ 16-12-1 (97568)
स गत्वा राजवचनादुवाचाच्युतमीश्वरम्।
युधिष्ठि महातेजाः सर्वबुद्धिमतांवरः॥ 16-12-2 (97569)
धृतराष्ट्रो महाराजो वनवासाय दीक्षितः।
गमिष्यति वनं राजन्नागतां कार्तिकीमिमाम्॥ 16-12-3 (97570)
स त्वां कुरुकुलश्रेष्ठ किञ्चिर्थमभीप्सति।
श्राद्धमिच्छति दातुं स गाङ्गेयस्य महात्मनः॥ 16-12-4 (97571)
द्रोणस्य सोमदत्तस्य बाह्लीकस्य च धीमतः।
पुत्राणां चैव सर्वेषां ये चान्ये सुहृदो हताः।
यदि चाप्यनुजानीषे सैन्धवापशदस्य च॥ 16-12-5 (97572)
एतच्छ्रुत्वा तु वचनं विदुरस्य युधिष्ठिरः।
हृष्टःक सम्पूजयामास गुडोकेशश्च पाण्डवः॥ 16-12-6 (97573)
न च भीमो द्दढक्रोधस्तद्वचो जगृहे तदा।
विदुरस्य महातेजा दुर्योधनकृतं स्मरन्॥ 16-12-7 (97574)
अभिप्रायं विदित्वा तु भीमतसेनस्य फल्गुनः।
किरीटी किञ्चिदानम्य तमुवाच नरर्षभम्॥ 16-12-8 (97575)
भीम राजा पिता वृद्धो वनवासाय दीक्षितः।
दातुमिच्छति सर्वेषां सुहृदामौर्ध्वदेहिकम्॥ 16-12-9 (97576)
भवता निर्जितं वित्तं दातुमिच्छति कौरवः।
भीष्मादीनां महाबाहो तदनुज्ञातुमर्हसि॥ 16-12-10 (97577)
दिष्ट्या त्वद्य महाबाहो धृतराष्ट्रः प्रयाचते।
याचितो यः पुराऽस्माभिः पश्य कालस्य पर्ययम्॥ 16-12-11 (97578)
योसौ पृथिव्याः कृत्स्नाया भर्ता भूत्वा नराधिपः।
परैर्विनिहतामात्यो वनं गन्तुमभीप्सति॥ 16-12-12 (97579)
मा तेऽन्यत्पुरुषव्याघ्र दानाद्भवतु दर्शनम्।
अयशस्यमतोऽन्यत्स्यादधर्मश्च महाभुजः॥ 16-12-13 (97580)
राजानमुपतिष्ठस्व ज्येष्ठं भ्रातरमीश्वरम्।
अर्हस्त्वमसि दातुं वै नादातुं भरतर्षभ॥ 16-12-14 (97581)
एवं ब्रुवाणं बीभत्सुं धर्मराजोऽप्यपूजयत्।
भीमसेनस्तु सक्रोधमुवाच विजयं तदा॥ 16-12-15 (97582)
वयं भीष्मस्य दास्यामः प्रेतकार्यं तु फल्गुन।
सोमदत्तस्य नृपतेर्भूरिश्रवस एव च॥ 16-12-16 (97583)
बाह्लीकस्य च राजर्षेर्द्रोणस्य च महात्मनः।
अन्येषां चैव सुहृदां कुन्ती कर्णाय दास्यति॥ 16-12-17 (97584)
श्राद्धानि पुरुषव्याघ्र मा प्रदात्कौरवो नृपः।
इति मे वर्तते बुद्धिर्मा वो नन्दन्तु शत्रवः॥ 16-12-18 (97585)
कष्टात्कष्टतरं यान्तु सर्वे दुर्योधनादयः।
यैरियं पृथिवी कृत्स्ना घातिता कुलपांसनैः॥ 16-12-19 (97586)
कुतस्त्वमद्य विस्मृत्य वैरं द्वादशवार्षिकम्।
अज्ञातवासगमनं द्रौपदीशोकवर्धनम्॥ 16-12-20 (97587)
क्व तदा धृतराष्ट्रस्य स्नेहोऽस्मद्गोचरो गतः।
कृष्णाजिनोपसंवीतो हृताभरणभूषणः।
सार्धं पाञ्चालपुत्र्या त्वं राजानमुपजग्मिवान्॥ 16-12-21 (97588)
क्व तदा द्रोणभिष्मौ तौ सोमदत्तोपि वाऽभवत्।
यत्र द्वादश वर्षाणि वने वन्येन जीवथ।
न तदा त्वां पिता ज्येष्ठः पितृत्वेनाभिवीक्षते॥ 16-12-22 (97589)
किं ते तद्विस्मृतं पार्थक यदेष कुलपांसनः।
दुर्बुद्धिर्विदुरं प्राह द्यूते किं जितमित्युत॥ 16-12-23 (97590)
तमेवंवादिनं राजा कुन्तीपुत्रो युधिष्ठिरः।
उवाच वचनं धीमाञ्जोषमास्स्वेति भर्त्सयन्॥ ॥ 16-12-24 (97591)
इति श्रीमन्महाभारते आश्रमवासिकपर्वणि आश्रमवासपर्वणि द्वादशोऽध्यायः॥ 12 ॥
Mahabharata - AshramaVasika Parva - Chapter Footnotes
7-12-4 किञ्चिदर्थं किञ्चित्कार्यं कर्तुं त्वामभीप्सति द्रष्टुमिति शेषः॥ 7-12-8 किञ्चिदागम्य भीमं वचनमब्रवीदिति क.थ.पाठः॥आश्रमवासिकपर्व - अध्याय 013
॥ श्रीः ॥
16.13. अध्यायः 013
अथाश्रमवासपर्व ॥ 1 ॥
Mahabharata - AshramaVasika Parva - Chapter Topics
भीमे दुर्योधनादिभ्यः श्राद्धदानाय धनदानमरोचयति सति युधिष्ठिरेण विदुरंप्रति धृतराष्ट्रे निजगृहकोशाद्धनदाननिवेदनकथनम्॥ 1 ॥Mahabharata - AshramaVasika Parva - Chapter Text
अर्जुन उवाच।
भीम ज्येष्ठो गुरुर्मे त्वं नातोऽन्यद्वमुक्तुमुत्सहे।
धृताराष्ट्रस्तु राजर्षिः सर्वथा मानमर्हति॥ 16-13-1 (97592)
न स्मरन्त्यपराद्धानि स्मरन्ति सुकृतान्यपि।
असंभिन्नार्थमर्यादाः साधवः पुरुषोत्तमाः॥ 16-13-2 (97593)
इति तस्य वचः श्रुत्वा फल्गुनस्य महात्मनः।
विदुरं प्राह धर्मात्मा कुन्तीपुत्रो युधिष्ठिरः॥ 16-13-3 (97594)
इदं मद्वचनात्क्षत्तः कौरवं ब्रूहि पार्थिवम्।
यावदिच्छति पुत्राणां दातुं तावद्ददाम्यहम्॥ 16-13-4 (97595)
भीष्मादीनां च सर्वेषां सुहृदामुपकारिणाम्।
मम कोशादिति विभो मा भूद्भीमः सुदुर्मनाः॥ 16-13-5 (97596)
वैशम्पायन उवाच। 16-13-6x (8044)
इत्युक्त्वा धर्मराजस्तमर्जुनं प्रत्यपूजयत्।
भीमसेनः कटाक्षेण वीक्षांचक्रे धनंजयम्॥ 16-13-6 (97597)
ततः स विदुरं धीमान्वाक्यमाह युधिष्ठिरः।
न भीमसेन कोपं स नृपतिः कर्तुमर्हति॥ 16-13-7 (97598)
परिक्लिष्टो हि भीमस्तु हिमवृष्ट्यातपादिभिः।
दुःखैर्बहुविधैर्धीमानरण्ये विदितं तव॥ 16-13-8 (97599)
किंतु मद्वचनाद्ब्रूहि राजानं भरतर्षभम्॥
यद्यदिच्छसि यावच्च गृह्यतां मद्गृहादिति॥ 16-13-9 (97600)
यन्मात्सर्यमयं भीमः करोति भृशदुःखितः।
न तन्मनसि कर्तव्यमिति वाच्यः स पार्थिवः॥ 16-13-10 (97601)
यन्ममास्ति धनं किञ्चिदर्जुनस्य च वेश्मनि।
तस्य स्वामी महाराज इति वाच्यः स पार्थिवः॥ 16-13-11 (97602)
ददातु राजा विप्रेभ्यो यथेष्टं क्रियतां व्ययः।
पुत्राणां सुहृदां चैव गच्छत्वानृण्यमद्य सः॥ 16-13-12 (97603)
इदं चापि शरीरं मे तवायत्तं जनाधिप।
धनानि चेति विद्धि त्वं क्षत्तर्नास्त्यत्र संशयः॥ ॥ 16-13-13 (97604)
इति श्रीमन्महाभारते आश्रमवासिकपर्वणि आश्रमवासपर्वणि त्रयोदशोऽध्यायः॥। 13 ॥
आश्रमवासिकपर्व - अध्याय 014
॥ श्रीः ॥
16.14. अध्यायः 014
अथाश्रमवासपर्व ॥ 1 ॥
Mahabharata - AshramaVasika Parva - Chapter Topics
विदुरेण धृतराष्ट्रंप्रति युधिष्ठिरेण भीष्मादीनां श्राद्धदानाय धनदानाङ्गीकरणनिवेदनम्॥ 1 ॥Mahabharata - AshramaVasika Parva - Chapter Text
वैशम्पायन उवाच।
एवमुक्तस्तु राज्ञा स विदुरो बुद्धिसत्तमः।
धृतराष्ट्रमुपेत्यैव वाक्यमाह महार्थवत्॥ 16-14-1 (97605)
उक्तो युधिष्ठिरो राजा भवद्वचनमादितः।
स च संश्रुत्य वाक्यं ते प्रशशंस महाद्युतिः॥ 16-14-2 (97606)
बीभत्सुश्च महातेजा निवेदयति ते गृहान्।
वसु तस्य गृहे यच्च प्राणानपि च केवलान्॥ 16-14-3 (97607)
धर्मराजश्च पुत्रस्ते राज्यं प्राणान्धनानि च।
अनुजानाति राजर्षे यच्चान्यदपि किञ्चन॥ 16-14-4 (97608)
भीमस्तु सर्वदुःखानि संस्मृत्य बहुलान्युत।
कृच्छ्रादिव महाबाहुरनुजज्ञे विनिःश्वसन्॥ 16-14-5 (97609)
र राजन्धर्मशीलेन राज्ञा बीभत्सुना तथा।
अनुनीतो महाबाहुः सौहृदे स्थापितोपि च॥ 16-14-6 (97610)
न च मन्युस्त्वया कार्य इति त्वां प्राह धर्मराट्।
संस्मृत्य भीमस्तद्वैरं यदन्यायवदाचरत्॥ 16-14-7 (97611)
एवंप्रायो हि धर्मोऽयं क्षत्रियाणां नराधिप।
शुद्धे क्षत्रियधर्मे न निरतोऽयं वृकोदरः॥ 16-14-8 (97612)
वृकोदरकृते चाहमर्जुनश्च पुनः पुनः।
प्रसीद याचे नृपते भवान्प्रभुरिहास्ति यत्॥ 16-14-9 (97613)
तद्ददातु भवान्वित्तं यावदिच्छसि पार्थिवः।
त्वमीश्वरो नो राज्यस्य प्राणानामपि भारत॥ 16-14-10 (97614)
ब्रह्मदेयाग्रहारांश्च पुत्राणामौर्ध्वदेहिकम्।
इतो रत्नानि गाश्चैव दासीदासमजाविकम्॥ 16-14-11 (97615)
अर्चयित्वा कुरुश्रेष्ठो ब्राह्मणेभ्यः प्रयच्छतु।
दीनान्धकृपणेभ्यश्च तत्रतत्र नृपाज्ञया॥ 16-14-12 (97616)
बह्वन्नरसपानाढ्याः सभा विदुर कारय।
गवां निपानान्यन्यच्च विविधं पुण्यकं कुरु॥ 16-14-13 (97617)
इति मामब्रवीद्राजा पार्थश्चैव धनंजयः।
यदत्रानन्तरं कार्यं तद्भवम्ववक्तुमर्हति॥ 16-14-14 (97618)
इत्युक्ते विदुरेणाथ धृतराष्ट्रोऽभिनन्द्य तान्।
मनश्चक्रे महादाने कार्तिक्यां जनमेजय॥ 16-14-15 (97619)
॥ इती श्रीमन्महाभारते आश्रमवासिकपर्वणि आश्रमवासपर्वणि चतुर्दशोऽध्यायः॥ 14 ॥
आश्रमवासिकपर्व - अध्याय 015
॥ श्रीः ॥
16.15. अध्यायः 015
अथाश्रमवासपर्व ॥ 1 ॥
Mahabharata - AshramaVasika Parva - Chapter Topics
धृतराष्ट्रेण भीष्मदुर्योधनाद्युद्देश्यकश्राद्धे धनवस्रान्नादिना ब्राह्मणादिसंतर्पणम्॥ 1 ॥Mahabharata - AshramaVasika Parva - Chapter Text
वैशम्पायन उवाच।
विदुरेणैवमुक्तस्तु धृतराष्ट्रो जनाधिपः।
प्रीतिमानभवद्राजन्राज्ञो जिष्णोश्च कर्मणा॥ 16-15-1 (97620)
ततोऽभिरूपान्भीष्माय ब्राह्मणानृषिसत्तमान्।
पुत्रार्थे सुहृदां चैव स समीक्ष्य सहस्रशः॥ 16-15-2 (97621)
कारयित्वाऽन्नपानानि यानान्याच्छादनानि च।
सुवर्णमणिरत्नानि दासीदासपरिच्छदान्॥ 16-15-3 (97622)
कंबलानि च रत्नानि ग्रामान्क्षेत्रं तथा धनम्।
सालङ्कारान्गजानश्वान्कन्याश्चैव वरस्त्रियः॥ 16-15-4 (97623)
आदिश्यादिश्य सर्वेभ्यो ददौ स नृपसत्तमः।
द्रोणं संकीर्त्य भीष्मं च सोमदत्तं च बाह्लिकम्॥ 16-15-5 (97624)
दुर्योधनं च राजानं पुत्रांश्चैव पृथक्पृथक्।
जयद्रथपुरोगांश्च सुहृदश्चापि सर्वशः॥ 16-15-6 (97625)
स श्राद्धयज्ञो ववृते बहुगोधनदक्षिणः।
अनेकधनरत्नौघो युधिष्ठिरमते तदा॥ 16-15-7 (97626)
अनिशं यत्र पुरुषा गणका लेखकास्तदा।
युधिष्ठिरस्य वचनादपृच्छन्त स्म तं नृपम्॥ 16-15-8 (97627)
आज्ञापय किमेतेभ्यः प्रदेयं दीयतामिति।
तदुपस्थितमेवात्र वचनान्ते ददुस्तदा॥ 16-15-9 (97628)
शते देये दशशतं सहस्रं चायुतं तथा।
दीयते वचनाद्राज्ञः कुन्तीपुत्रस्य धीमतः॥ 16-15-10 (97629)
एवं स वसुधाराभिर्वर्षमाणो नृपांबुदः।
तप्रयामास विप्रांस्तान्वर्षन्भूमिमिवांबुदः॥ 16-15-11 (97630)
ततोऽन्तन्तरमेवात्र सर्ववर्णान्महामते।
अन्नपानरसौघेण प्लावयामास पार्थिवः॥ 16-15-12 (97631)
सवस्त्रधनरत्नौघो मृदङ्गनिनदस्वनः।
गवाश्वमकरावर्तो नानारत्नमहाकरः॥ 16-15-13 (97632)
ग्रामाग्रहारद्वीपाढ्यो मणिहेमजलार्णवः।
जगत्संप्लावयामास धृतराष्ट्रोडुपोद्धतः॥ 16-15-14 (97633)
एवं स पुत्रपौत्राणां पितॄणामात्मनस्तथा।
गान्धार्याश्च महाराज प्रददावौर्द्वदेहिकम्॥ 16-15-15 (97634)
परिश्रान्तो यदासीत्स ददद्दानान्यनेकशः।
निवर्तयामास तदा दानयज्ञं नराधिपः॥ 16-15-16 (97635)
एवं स राजा कौरव्यश्चक्रे दानमहाक्रतुम्।
नटनर्तकलास्याढ्यं बह्वन्नरसदक्षिणम्॥ 16-15-17 (97636)
दशाहमेवं दानानि दत्त्वा राजांऽबिकासुतः।
बभूव पुत्रपौत्राणामनृणो भरतर्षभ॥ ॥ 16-15-18 (97637)
इति श्रीमन्महाभारते आश्रमवासिकपर्वणि आश्रमवासपर्वणि पञ्चदशोऽध्यायः॥ 15 ॥
Mahabharata - AshramaVasika Parva - Chapter Footnotes
7-15-13 सवस्त्रफेनरतौघ इति क.थ.पाठः॥आश्रमवासिकपर्व - अध्याय 016
॥ श्रीः ॥
16.16. अध्यायः 016
अथाश्रमवासपर्व ॥ 1 ॥
Mahabharata - AshramaVasika Parva - Chapter Topics
धृतराष्ट्रेण कुन्तीस्कन्धावसक्तहस्ताया गान्धार्या अंसावलम्बनेन सशोकैः पौरैर्युधिष्ठिरादिभिश्चानुगम्यमानेन सता वनं प्रति प्रस्थानम्॥ 1 ॥Mahabharata - AshramaVasika Parva - Chapter Text
वैशम्पायन उवाच।
ततः प्रभाते राजा स धृतराष्ट्रोंऽबिकासुतः।
आनाय्य पाण्डवान्वीरान्वनषासे कृतक्षणः॥ 16-16-1 (97638)
गान्धारीसहितो धीमानभ्यनन्दद्यथाविधि।
कार्तिक्यां कारयित्वेष्टिं ब्राह्मणैर्वेदपारगैः॥ 16-16-2 (97639)
अग्निहोत्रं पुरस्कृत्य वल्कलाजिनसंवृतः।
वधूजनवृतो राजा निर्ययौ भवनात्ततः॥ 16-16-3 (97640)
ततः स्त्रियः कौरवपाण्डवानां
याञ्चापराः कौरवराजवंश्याः।
तासां नादः प्रादुरासीत्तदानीं
वैचित्रिवीर्ये नृपतौ प्रयाते॥ 16-16-4 (97641)
ततो लाजैः सुमनोभिश्च राजा
विचित्राभिस्तद्गृहं पूजयित्वा।
संयोज्याश्वैर्भृत्यवर्गं च सर्वं
ततः समुत्सृज्य ययौ नरेन्द्रः॥ 16-16-5 (97642)
ततो राजा प्राञ्जलिर्वेपमानो
युधिष्ठिरः सस्वरं बाष्पकण्ठः।
विनद्योच्चैर्गां महाराज साधो
क्व यास्यसीत्यपतत्ताति भूमौ॥ 16-16-6 (97643)
तथाऽर्जुनस्तीव्रदुःखाभितप्तो
मुहुर्मुहुर्निः श्वसन्भारताग्र्यः।
युधिष्ठिरं मैवमित्येवमुक्त्वा
निगृह्याथो दीनतरो बभूव॥ 16-16-7 (97644)
वृकोदरः फल्गुनश्चैव वीरौ
माद्रीपुत्रौ विदुरः संजयश्च।
वैश्यापुत्रः सहितो गौतमेन
धौम्यो विप्राश्चान्वयुर्बाष्पकण्ठाः॥ 16-16-8 (97645)
कुन्ती गान्धारीं बद्धनेत्रां व्रजन्तीं
स्कन्धासक्तं हस्तमथोद्वहन्ती।
राजा गान्धार्याः स्कन्धदेशेऽवसज्य
पाणिं ययौ धृतराष्ट्रः प्रतीतः॥ 16-16-9 (97646)
तथा कृष्णा द्रौपदी यादवी च
बालापत्या चोत्तरा कौरवी च।
चित्राङ्गदा याश्च काश्चित्स्त्रियोऽन्याः
सार्धं राज्ञा प्रस्थितास्ता वधूभिः॥ 16-16-10 (97647)
तासां नादो रुदतीनां तदाऽऽसी-
द्राजन्दुःखात्कुररीणामिवोच्चैः।
ततो निष्पेतुर्ब्राह्मणक्षत्रियाणां
विट्शूद्राणां चैव भार्याः समन्तात्॥ 16-16-11 (97648)
तन्निर्याणे दुःखितः पौरवर्गो
गजाह्वये चैव बभूव राजन्।
यथापूर्वं गच्छतां पाण्डवानां
द्यूते राजन्कौरवाणां सभायाम्॥ 16-16-12 (97649)
या नापश्यच्चन्द्रमा नैव सूर्यो
रामाः काश्चित्ताः स्म तस्मिन्नरेन्द्रे।
महावनं गच्छति कौरवेन्द्रे
शोकेनार्ता राजमार्गं प्रपेदुः॥ ॥ 16-16-13 (97650)
इति श्रीमन्महाभारते आश्रमवासिकपर्वणि आश्रमवासपर्वणि षोडशोऽध्यायः॥ 16 ॥
Mahabharata - AshramaVasika Parva - Chapter Footnotes
7-16-9 कुन्ती गान्धारीं अनयदिति शेषः। किंभूता। अर्थाद्गान्धार्या हस्तं स्कन्धासक्तं उद्वहन्ती। कुन्ती गान्धारीमनुभर्तृ व्रजन्तीमिति क.थ.पाठः॥आश्रमवासिकपर्व - अध्याय 017
॥ श्रीः ॥
16.17. अध्यायः 017
अथाश्रमवासपर्व ॥ 1 ॥
Mahabharata - AshramaVasika Parva - Chapter Topics
धृतराष्ट्रस्य वनप्रस्थानसमये विदुरसंजयाभ्यामपि वनवासाय तेन सह प्रस्थानम्॥ 1 ॥ तथा कुन्त्यापि युधिष्ठिरादिभिर्बहुधा प्रार्थनाभिः प्रतिषेधनेपि तत्समाश्वासनपूर्वकं गान्धार्या सह वनंप्रति प्रस्थानम्॥ 2 ॥Mahabharata - AshramaVasika Parva - Chapter Text
धृतराष्ट्रस्य वनप्रस्थानसमये विदुरसंजयाभ्यामपि वनवासाय तेन सह प्रस्थानम् ॥ 1 ॥ तथा कुन्त्यापि युधिष्ठिरादिभिर्बहुधा प्रार्थनाभिः प्रतिषेधनेपि तत्समाश्वासनपूर्वकं गान्धार्या सह वनंप्रति प्रस्थानम्॥ 2 ॥
16-17-0 (97651)
वैशम्पायन उवाच। 16-17-0x (8045)
ततः प्रासादहर्म्येषु वसुधायां च पार्थिव।
नारीणां च नराणां च निःस्वनः सुमहानभूत्॥ 16-17-1 (97652)
स राजा राजमार्गेण नृनारीसंकुलेन च।
कथञ्चिन्निर्ययौ धीमान्वेपमानः कृताञ्जलिः॥ 16-17-2 (97653)
स वर्धमानद्वारेणि निर्ययौ गजसाह्वयात्।
विसर्जयामास च तं जनौघं स मुहुर्मुहुः॥ 16-17-3 (97654)
वनं गन्तुं च विदुरो राज्ञा सह कृतक्षणः।
संजयश्च महामात्रः सूतो गावल्गणिस्तथा॥ 16-17-4 (97655)
ककृपं निवर्तयामास युयुत्सुं च महारथम्।
धृताराष्ट्रो महीपालः परिदाप्य युधिष्ठिरे॥ 16-17-5 (97656)
निवृत्ते पौरवर्गे च राजा सान्तःपुरस्तदा।
धृतराष्ट्राभ्यनुज्ञातो निवर्तितुमियेष ह॥ 16-17-6 (97657)
सोब्रवीन्मातरं कुन्तीमुपेत्य भरतर्षभ॥
अहं राजानमन्विष्ये भवती विनिवर्तताम्॥ 16-17-7 (97658)
वधूपरिवृता राज्ञि नगरं गन्तुमर्हसि।
राजा यात्वेष धर्मात्मा तपसे कृतनिश्चयः॥ 16-17-8 (97659)
इत्युक्ता धर्मराजेनि बाष्पव्याकुललोचना।
जगामैव तदा कुन्ती गान्धारीं परिगृह्य ह॥ 16-17-9 (97660)
कुन्त्युवाच। 16-17-10x (8046)
सहदेवे महाराज माऽप्रसादं कृथाः क्वचित्।
एष मामनुरक्तो हि राजंस्त्वां चैव सर्वदा॥ 16-17-10 (97661)
कर्णं स्मरेथाः सततं सङ्ग्रामेष्वपलायिनम्।
अवकीर्णो हि स मया वीरो दुष्प्रज्ञया तदा॥ 16-17-11 (97662)
आयसं हृदयं नूनं मन्दाया मम पुत्रक।
यत्सूर्यजमपश्यन्त्याः शतधा न विदीर्यते॥ 16-17-12 (97663)
एवं गते तु किं शक्यं मया कर्तुमरिंदम।
मम दोषोऽयमत्यर्थं ख्यापितो यन्न सूर्यजः॥ 16-17-13 (97664)
तन्निमित्तं महाबाहो दानं दद्यास्त्वमुत्तमम्।
सदैव भ्रातृभिः सार्धं सूर्यजस्यारिमर्दन॥ 16-17-14 (97665)
द्रौपद्याश्च प्रिये नित्यं स्थातव्यमरिकर्शन।
भीमसेनोऽर्जुनश्चैव नकुलश्च कुरूद्वह॥ 16-17-15 (97666)
समाधेयास्त्वया राजंस्त्वय्यद्य कुलधूर्गता।
श्वश्रूश्वशुरयोः पादाञ्शुश्रूषन्ती वने त्वहम्।
गान्धारीसहिता वत्स्ये तापसी मलपङ्किनी॥ 16-17-16 (97667)
वैशम्पायन उवाच। 16-17-17x (8047)
एवमुक्तः स धर्मात्मा भ्रातृभिः सहितो वशी।
विषादमगमद्धीमान्न च किञ्चिदुवाच ह॥ 16-17-17 (97668)
मुहूर्तमिव तु ध्यात्वा धर्मराजो युधिष्ठिरः।
उवाच मतारं दीनश्चिन्ताशोकपरायणः॥ 16-17-18 (97669)
किमिदं ते व्यवसितं नैवं त्वं वक्तुमर्हसि।
न त्वामभ्यनुजानामि प्रसादं कर्तुमर्हसि॥ 16-17-19 (97670)
व्यचोदयः पुराऽस्माकमुत्साहं शुभदर्शने।
विदुलाया वचोभिस्त्वं नास्मान्संत्यक्तुमर्हसि॥ 16-17-20 (97671)
निहत्य पृथिवीपालान्राज्यं प्राप्तमिदं मया।
तव प्रज्ञामुपश्रुत्य वासुदेवान्नरर्षभात्॥ 16-17-21 (97672)
क्व सा बुद्धिरियं चाद्य भवत्या या श्रुता मया।
क्षत्रधर्मे स्थितं त्यक्त्वा न प्रयातुमिहार्हसि॥ 16-17-22 (97673)
अस्मानुत्सृज्य राज्यं च स्नुषाहीना यशस्विनि।
कथं वत्स्यसि दुर्गेषु वनेष्वद्य प्रसीद मे॥ 16-17-23 (97674)
इति बाष्पकला वाचः कुन्ती पुत्रस्य शृण्वती।
जगामैवाश्रुपूर्णाक्षी भीमस्तामिदमब्रवीत्॥ 16-17-24 (97675)
यदा राज्यमिदं कुन्ति भोक्तव्यं पुत्रनिर्जितम्।
प्राप्तव्या राजधर्माश्च तदेयं ते कुतो मतिः॥ 16-17-25 (97676)
किं वयं कारिताः पूर्वं भवत्या पृथिवीक्षयम्।
कस्य हेतोः परित्यज्य वनं गन्तुमभीप्ससि॥ 16-17-26 (97677)
वनाच्चापि किमानीता भवत्या बालका वयम्।
दुःखशोकसमाविष्टौ माद्रीपुत्राविमौ तथा॥ 16-17-27 (97678)
प्रसीद मातर्मा गास्त्वं वनमद्य यशस्विनि।
श्रियं यौधिष्ठिरीं मातर्भुङ्क्ष्व पार्थबलार्जिताम्॥ 16-17-28 (97679)
इति सा निश्चितैवाशु वनवासकृततक्षणा।
लालप्यतां बहुविधं पुत्राणां नाकरोद्वचः॥ 16-17-29 (97680)
द्रौपदी चान्वयाच्छ्वश्रूं विषष्णवदना तदा।
वनवासाय गच्छन्तीं रुदती भद्रया सह॥ 16-17-30 (97681)
सा पुत्रान्रुदतः सर्वान्मुहुर्मुहुरवेक्षती।
जगामैव महाप्राज्ञा वनाय कृतनिश्चया॥ 16-17-31 (97682)
अन्वयुः पाण्डवास्तां तु सभृत्यान्तःपुरास्तथा।
ततः प्रमृज्य साऽश्रूणि पुत्रान्वचनमब्रवीत्॥ ॥ 16-17-32 (97683)
इति श्रीमन्महाभारते आश्रमवासिकपर्वणि आश्रमवासपर्वणि सप्तदशोऽध्यायः॥ 17 ॥
Mahabharata - AshramaVasika Parva - Chapter Footnotes
7-17-10 मा प्रमादं कृथा इति क.थ.पाठः॥ 7-17-16 श्वश्रूश्वशुरयोः। ज्येष्ठत्वाद्धृतराष्ट्रः पाण्डोः पितृसमस्तेन कुन्त्याः स श्वशुर इति॥ 7-17-22 क्षत्रधर्मे स्थितिं ह्युक्त्वा न प्रत्याख्यातुमर्हसि इति थ.पाठः। स्थितिं चोक्त्वा तस्याश्च्यवितुमिच्छसि इति झ.पाठः॥ 7-17-30 भद्रया सुभद्रया॥आश्रमवासिकपर्व - अध्याय 018
॥ श्रीः ॥
16.18. अध्यायः 018
अथाश्रमवासपर्व ॥ 1 ॥
Mahabharata - AshramaVasika Parva - Chapter Topics
कुन्त्या स्वस्य वनगमनाध्यवसायेन विषीदतो युधिष्ठिरादीन्प्रति सहेतूपन्यासं समाश्वासनम्॥ 1 ॥Mahabharata - AshramaVasika Parva - Chapter Text
कुन्त्युवाच।
एवमेतन्महाबाहो यथा वदसि पाण्डवः।
कृतमुद्धरणं पूर्वं मया वः सीदतां नृपाः॥ 16-18-1 (97684)
द्यूतापहृतराज्यानां पतितानां सुखादपि।
ज्ञातिभिः परिभूतानां कृतमुद्धरणं मया॥ 16-18-2 (97685)
कथं पाण्डोर्न नश्येत संततिः पुरुषर्षभाः।
यशश्च वो न नश्येत इति चोद्धरणं कृतम्॥ 16-18-3 (97686)
यूयमिन्द्रसमाः सर्वे देवतुल्यपराक्रमाः।
मा परेषां मुखप्रेक्षाः स्थेत्येवं तत्कृतं मया॥ 16-18-4 (97687)
कथं धर्मभृतां श्रेष्ठो राजा त्वं वासवोपमः।
पुनर्वने न दुःखी स्या इति चोद्धरणं कृतम्॥ 16-18-5 (97688)
नागायुतसमप्राणः ख्यातविक्रमपौरुषः।
नायं भीमोत्ययं गच्छेदिति चोद्धरणं कृतम्॥ 16-18-6 (97689)
भीमसेनादवरजस्तथाऽयं वासवोपमः।
विजयो नावसीदेत इति चोद्धरणं कृतम्॥ 16-18-7 (97690)
नकुलः सहदेवश्च तथेमौ गुरुवर्तिनौ।
क्षुधा कथं न सीदेतामिति चोद्धरणं कृतम्॥ 16-18-8 (97691)
इयं च बृहती श्यामा तथाऽत्यायतलोचना।
वृथा सभातले क्लिष्टा मा भूदिति च तत्कृतं॥ 16-18-9 (97692)
अपेक्षतामेव वो भीम वेपन्तीं कदलीमिव।
स्त्रीधर्मिणीमरिष्टाङ्गीं तथा द्यूतपराजिताम्॥ 16-18-10 (97693)
दुःशासनो यदा मौर्ख्याद्दासीवत्पर्यकर्षत।
तदैव विदितं मह्यं पराभूतमिदं कुलम्॥ 16-18-11 (97694)
निषण्णाः कुरवश्चैव तदा मे श्वशुरादयः।
सा दैवं नाथमिच्छन्ती व्यलपत्कुररी यथा॥ 16-18-12 (97695)
केशपक्षे परामृष्टा पापेन् हतबुद्धिना।
यदा दुःशासनेनैषा तदा मुह्याम्यहं नृपाः॥ 16-18-13 (97696)
युष्मत्तेजोविवृद्ध्यर्तं मया ह्युद्धरणं कृतम्।
तदानीं विदुलावाक्यैरिति तद्वित्त पुत्रकाः॥ 16-18-14 (97697)
कथं न राजवंशोऽयं नश्येत्प्राप्य सुतान्मम।
पाण्डोरिति मया पुत्रस्तस्मादुद्धरणं कृतम्॥ 16-18-15 (97698)
न तस्य पुत्राः पौत्रा वा क्षतवंशस्य पार्थिव।
लभ्ते सुकृताँल्लोकान्यस्माद्वंशः प्रणश्यति॥ 16-18-16 (97699)
भुक्तं राज्यफलं पुत्रा भर्तुर्मे विपुलं पुरा।
महादानानि दत्तानि पीतः सोमो यथाविधि॥ 16-18-17 (97700)
नाहमात्मफलार्थं वै वासुदेवमचूचुदम्।
विदुलायाः प्रलापैस्तैः पालनार्थं च तत्कृतम्॥ 16-18-18 (97701)
नाहं राज्यफलं पुत्राः कामये पुत्रनिर्जितम्।
पतिलोकानहं पुण्यान्कामये तपसा पिभो॥ 16-18-19 (97702)
श्वश्रूश्वशुरयोः कृत्वा शुश्रूषां वनवासिनोः।
तपसा शोषयिष्यामि युधिष्ठिर कलेवरम्॥ 16-18-20 (97703)
निवर्तस्व कुरुश्रेष्ठ भीमसेनादिभिः सह।
धर्मे ते धीयतां बुद्धिर्मनस्तु महदस्तु च॥ ॥ 16-18-21 (97704)
इति श्रीमन्महाभारते आश्रमवासिकपर्वणि आश्रमवासपर्वणि अष्टादशोऽध्यायः॥ 18 ॥
Mahabharata - AshramaVasika Parva - Chapter Footnotes
7-18-10 पश्यन्त्या मे तथा भीतां वेपन्तीमिति क.थ.पाठः॥आश्रमवासिकपर्व - अध्याय 019
॥ श्रीः ॥
16.19. अध्यायः 019
अथाश्रमवासपर्व ॥ 1 ॥
Mahabharata - AshramaVasika Parva - Chapter Topics
कुन्त्या कृच्छ्रेण प्रतिनिवर्तितैर्युधिष्ठिरादिभिः कृच्छ्रात्पुनर्नगरं प्रत्यागमनम्॥ 1 ॥ धृताष्ट्रेण विदुरादिभिः सह वनमेत्य गङ्गातीरे सन्ध्योपास्त्यादिना रात्रियापनम्॥ 2 ॥Mahabharata - AshramaVasika Parva - Chapter Text
वैशम्पायन उवाच।
कुन्त्यास्तु वचनं श्रुत्वा पाण्डवा राजसत्तम।
व्रीडिताः संन्यवर्तन्त पाञ्चाल्या सह भारत॥ 16-19-1 (97705)
ततः शब्दो महानेव सर्वेषामभवत्तदा।
अन्तःपुराणां रुदतां दृष्ट्वा कुन्तीं तथा गताम्॥ 16-19-2 (97706)
प्रदक्षिणमथावृत्त्य राजानं पाण्डवास्तदा।
अभिवाद्य न्यवर्तन्त पृथां तामनिवर्त्य वै॥ 16-19-3 (97707)
ततोऽब्रवीन्महातेजा धृतराष्ट्रोंऽबिकासुतः।
गान्धारीं विदुरं चैव समाभाष्यावगृह्य च॥ 16-19-4 (97708)
युधिष्ठिरस्य जननी देवी साधु निवर्त्यताम्।
यथा युधिष्ठिरः प्राह तत्सर्वं सत्यमेव हि॥ 16-19-5 (97709)
पुत्रैश्वर्यं महदिदमपास्य च महाफलम्।
काऽनुगच्छेद्वनं दुर्गं पुत्रानुत्सृज्य मूढवत्॥ 16-19-6 (97710)
राज्यस्थया तपस्तप्तुं कर्तुं दानव्रतं महत्।
अनया शक्यमेवाद्य श्रूयतां च वचो मम॥ 16-19-7 (97711)
गान्धारि परितुष्टोस्मि वध्वाः शुश्रूषणेन वै।
तस्मात्त्वमेनां धर्मज्ञे समनुज्ञातुमर्हसि॥ 16-19-8 (97712)
इत्युक्ता सौबलेयी तु राज्ञा कुन्तीमुवाच ह।
तत्सर्वं राजवचनं स्वं च वाक्यं विशेषवत्॥ 16-19-9 (97713)
न च सा वनवासाय देवी कृतमतिं तदा।
शक्नोत्युपावर्तयितुं कुन्तीं धर्मपरां सतीम्॥ 16-19-10 (97714)
तस्यास्तां तु स्थितिं ज्ञात्वा व्यवसायं कुरुस्त्रियः।
निवृत्तांश्च कुरुश्रेष्ठान्दृष्ट्वा प्ररुरुदुस्तदा॥ 16-19-11 (97715)
उपावृत्तेषु पार्थेषु सर्वास्वेव वधूषु च।
ययौ राजा महाप्राज्ञो धृतराष्ट्रो वनं तदा॥ 16-19-12 (97716)
पाण्डवाश्चातिदीनास्ते दुःखशोकपरायणाः।
यानैः स्त्रीसहिताः सर्वे पुरं प्रविविशुस्तदा॥ 16-19-13 (97717)
तदहृष्टमनानन्दं गतोत्सवमिवाभवत्।
नगरं हास्तिनपुरं सस्त्रीवृद्धकुमारकम्॥ 16-19-14 (97718)
सर्वे चासन्निरुत्साहाः पाण्डवा जातमन्यवः।
कुन्त्या हीनाः सुदुःखार्ता वत्सा इव विनाकृताः॥ 16-19-15 (97719)
धृतराष्ट्रस्तु तेनाह्ना गत्वा सुमहदन्तरम्।
ततो भागीरथीतीरे निवासमकरोत्प्रभुः॥ 16-19-16 (97720)
प्रादुष्कृता यथान्यायमग्नयो वेदपारगैः।
व्यराजन्त द्विजश्रेष्ठैस्तत्रतत्र तपोवने।
प्रादुष्कृताग्निरभवत्स च वृद्धो नराधिपः॥ 16-19-17 (97721)
स राजाऽग्नीन्पर्युपास्य हुत्वा च विधिवत्तदा।
सन्ध्यागतं सहस्रांशुमुपातिष्ठत भारत॥ 16-19-18 (97722)
विदुरः संजयश्चैव राज्ञः शय्यां कुशैस्ततः।
चक्रतुः कुरुवीरस्य गान्धार्याश्चाविदूरतः॥ 16-19-19 (97723)
गान्धार्याः सन्निकर्षे तु निषसाद कुशे सुखम्।
युधिष्ठिरस्य जननी कुन्ती साधुव्रते स्थिता॥ 16-19-20 (97724)
तेषां संश्रवणे चापि निषेदुर्विदुरादयः।
याजकाश्च यथोद्देशं द्विजा ये चानुयायिनः॥ 16-19-21 (97725)
प्राधीतद्विजमुख्या सा संप्रज्वलितपावका।
बभूव तेषां रजनी ब्राह्मीव प्रीतिवर्धिनी॥ 16-19-22 (97726)
ततो रात्र्यां व्यतीतायां कृतपूर्वाह्णिकक्रियाः।
हुत्वाऽग्निं विधिवत्सर्वे प्रययुस्ते यथाक्रमम्।
उदङ्मुखा निरीक्षन्त उपवासपरायणाः॥ 16-19-23 (97727)
स तेषामतिदुःखोऽभून्निवासः प्रथमेऽहनि।
शोचतां वदतां चापि पौरजानपदैर्जनैः॥ ॥ 16-19-24 (97728)
इति श्रीमन्महाभारते आश्रमवासिकर्वणि आश्रमवासपर्वणि एकोनविंशोऽध्यायः॥ 19 ॥
आश्रमवासिकपर्व - अध्याय 020
॥ श्रीः ॥
16.20. अध्यायः 020
अथाश्रमवासपर्व ॥ 1 ॥
Mahabharata - AshramaVasika Parva - Chapter Topics
धृतराष्ट्रेण विदुरादिभिः सह गङ्गातीरात्कुरुक्षेत्रमेत्य तत्र शतयूपाश्रमे व्यासाज्ञया तदुपदिष्टविधिना तीव्रतपश्चरणम्॥ 1 ॥Mahabharata - AshramaVasika Parva - Chapter Text
वैशम्पायन उवाच।
ततो भागीरथीतीरे मेध्ये पुण्यजनोचिते।
निवासमकरोद्राजा विदुरस्य मते स्थितः॥ 16-20-1 (97729)
तत्रैनं पर्युपातिष्ठन्ब्राह्मणा वनवासिनः।
क्षत्रविट्शूद्रसङ्खाश्च बहवो भरतर्षभ॥ 16-20-2 (97730)
स तैः परिवृतो राजा कथाभिः परिनन्द्य तान्।
अनुजज्ञे स शिष्यान्वै विधिवत्प्रतिपूज्य च॥ 16-20-3 (97731)
सायाह्ने स महीपालस्ततो गङ्गामुपेत्य च।
चकार विधिवच्छौचं गान्धारी च यशस्विनी॥ 16-20-4 (97732)
ते चैवान्ये पृथक् सर्वे तीर्थेष्वाप्लुत्य भारत।
चक्रुः सर्वाः क्रियास्तत्र पुरुषा विदुरादयः॥ 16-20-5 (97733)
कृतशौचं ततो वृद्धं श्वशुरं कुन्तिभोजजा।
गान्धारीं च पृथा राजन्गङ्गातीर्थमुपानयत्॥ 16-20-6 (97734)
राज्ञस्तु याजकैस्तत्र कृतो वेदीपरिस्तरः।
जुहाव तत्र वह्निं स नृपतिः सत्यसङ्गरः॥ 16-20-7 (97735)
ततो भागीरथीतीरात्कुरुक्षेत्रं जगाम सः।
सानुगो नृपतिर्वृद्धो नियतः संयतेन्द्रियः॥ 16-20-8 (97736)
तत्राश्रमपदं धीमानभिगम्य स पार्थिवः।
आससादाथ राजर्षिं शतयूपं मनीषिणम्॥ 16-20-9 (97737)
स हि राजा महानासीत्केकयेषु परंपतः।
स्वपुत्रं मनुजैश्वर्ये निवेश्य वनमाविशत्॥ 16-20-10 (97738)
तेनासौ सहितो राजा ययौ व्यासाश्रमं प्रति।
तत्रैनं विधिवद्राजन्प्रत्यगृह्णात्कुरूद्वहम्॥ 16-20-11 (97739)
स दीक्षां तत्र संप्राप्य राजा कौरवनन्दनः।
शतयूपाश्रमे तस्मिन्निवासमकरोत्तदा॥ 16-20-12 (97740)
तस्मै सर्वं विधिं राज्ञे राजाऽऽचख्यौ महामतिः।
आरण्यकं महाराज व्यासस्यानुमते तदा॥ 16-20-13 (97741)
एवं च तपसा राजन्धृतराष्ट्रो महामनाः।
योजयामास चात्मानं तांश्चाप्यनुचरांस्तदा॥ 16-20-14 (97742)
तथैव देवी गान्धारी वल्कलाजिनधारिणी।
कुन्त्या सह महाराजि समानव्रतचारिणी॥ 16-20-15 (97743)
कर्मणा मनसा वाचा चक्षुषा चैव ते नृप।
सन्नियम्येन्द्रियग्राममास्थिताः परमं तपः॥ 16-20-16 (97744)
त्वगस्थिभूतः परिशुष्कमांसो
जटाजिनी वल्कलसंवृताङ्गः।
स पार्तिवस्तत्र तपश्चचार
महर्षिवत्तीव्रमपेतमोहः॥ 16-20-17 (97745)
क्षत्ता च धर्मार्थविदग्र्यबुद्धिः
ससंजयस्तं नृपतिं सदारम्।
उपाचरद्धोरतपोर्जितात्मा
तदा कृशो वल्कलचीरवासाः॥ ॥ 16-20-18 (97746)
इति श्रीमन्महाभारते आश्रमवासिकपर्वणि आश्रमवासपर्वणि विंशोऽध्यायः॥ 20 ॥
आश्रमवासिकपर्व - अध्याय 021
॥ श्रीः ॥
16.21. अध्यायः 021
अथाश्रमवासपर्व ॥ 1 ॥
Mahabharata - AshramaVasika Parva - Chapter Topics
नारपर्वतादिभिर्धृतराष्ट्रादिदिदृक्ष्या शतयूपाश्रमं प्रत्यागमनम्॥ 1 ॥ नारदेन धृताराष्ट्रंप्रति तत्तपोवनस्यि सहस्रचि त्यादिराजर्षीणां स्वर्गप्रापकत्वमहिमोक्तिपूर्वकं विदुरादिभिः सह तस्यापि भविष्यत्सिद्धिप्रदत्वकथनम्॥ 2 ॥Mahabharata - AshramaVasika Parva - Chapter Text
वैशम्पायन उवाच।
ततस्तत्र मुनिश्रेष्ठा राजानं द्रष्टुमभ्ययुः।
नारदः पर्वतश्चैव देवलश्च महातपाः॥ 16-21-1 (97747)
द्वैपायनः सशिष्यश्च सिद्धाश्चान्ये मनीषिणः।
शतयूपश्च राजर्षिर्वृद्धः परमधार्मिकः॥ 16-21-2 (97748)
तेषां कुन्ती महाराज पूजां चक्रे यथाविधि।
ते चापि तुतुषुस्तस्यास्तापसाः परिचर्यया॥ 16-21-3 (97749)
तत्र धर्म्याः कथास्तात चक्रुस्ते परमर्षयः।
रमयन्तो महात्मानं धृतराष्ट्रं जनाधिपम्॥ 16-21-4 (97750)
कथान्तरे तु कस्मिंश्चिद्देवर्षिर्नारदस्ततः।
कथामिमामकथयत्सर्वप्रत्यक्षदर्शिवान्॥ 16-21-5 (97751)
नारद उवाच। 16-21-6x (8048)
पुरा प्रजापतिसमो राजाऽऽसीदकुतोभयः।
सहस्रचित्यि इत्युक्तः शतयूपपितामहः॥ 16-21-6 (97752)
स पुत्रे राज्यमासज्ज्यि ज्येष्ठे परमधार्मिके।
सहस्रचित्यो धर्मात्मा प्रविवेश वनं नृपः॥ 16-21-7 (97753)
स गत्वा तपसः पारं दीप्तस्य वसुधाधिपः।
पुरंदरस्य संस्थानं प्रतिपेदे महाद्युतिः॥ 16-21-8 (97754)
दृष्टपूर्वः स बहुशो राजन्सम्पतता मया।
महेन्द्रसदने राजा तपसा दग्धकिल्बिषः॥ 16-21-9 (97755)
तथा शैलालयो राजा भगत्तपितामहः।
तपोबलेनैव नृपो महेन्द्रसदनं गतः॥ 16-21-10 (97756)
तथा पृषध्रो राजाऽऽसीद्राजन्वज्रधरोपमः।
स चापि तपसा लेभे नाकपृष्ठमितो गतः॥ 16-21-11 (97757)
अस्मिन्नरण्ये नृपते मांधातुरपि चात्मजः।
पुरुकुत्सो नृपः सिद्धिं महतीं समवाप्तवान्॥ 16-21-12 (97758)
भार्या समभवद्यस्य नर्मदा सरितां वरा।
सोस्मिन्नरण्ये नृपतिस्तपस्तप्त्वा दिवं गतः॥ 16-21-13 (97759)
शशलोमा च राजाऽऽसीद्राजन्परमधार्मिकः।
सम्यगस्मिन्वने तप्त्वा ततो दिवमवाप्तवान्॥ 16-21-14 (97760)
द्वैपायनप्रसादाच्च त्वमपीदं तपोवनम्।
राजन्नवाप्य दुष्प्रापां सिद्धिमग्र्यां गमिष्यसि॥ 16-21-15 (97761)
त्वं चापि राजशार्दूल तपसोन्ते श्रिया वृतः।
गान्धारीसहितो गन्ता गतिं तेषां महात्मनां 16-21-16 (97762)
पाण्डुः स्मरति ते नित्यं बलहन्तुः समीपगः।
त्वां सदैव महाराज श्रेयसा स च योक्ष्यति॥ 16-21-17 (97763)
तव शुश्रूषया चैव गान्धार्याश्च यशस्विनी।
भर्तुः सलोकतां कुन्ती गमिष्यति वधूस्तव॥ 16-21-18 (97764)
युधिष्ठिरस्य जननी स हि धर्मः सनातनः।
वयमेतत्प्रपश्यामो नृपते दिव्यवक्षुषाः॥ 16-21-19 (97765)
प्रवेक्ष्यति महात्मानं विदुरश्च युधिष्ठिरम्।
संजयस्तदनुध्यानादितः स्वर्गमवाप्स्यति॥ 16-21-20 (97766)
वैशम्पायन उवाच। 16-21-21x (8049)
एतच्छ्रुत्वा कौरवेन्द्रो महात्मा
सार्धं पत्न्या प्रीतिमान्सम्बभूव।
विद्वान्वाक्यं नारदस्य प्रशस्य
चक्रे पूजां चातुलां नारदाय॥ 16-21-21 (97767)
ततः सर्वे नारदं विप्रसङ्घाः
सम्पूजयामासुरतीव राजन्।
राज्ञः प्रीत्या धृतराष्ट्रस्य ते वै
पुनःपुनः सम्प्रहृष्टास्तदानीम्॥ ॥ 16-21-22 (97768)
इति श्रीमन्महाभारते आश्रमवासिकपर्वणि आश्रमवासपर्वणि एकविंशोऽध्यायः॥ 21 ॥
Mahabharata - AshramaVasika Parva - Chapter Footnotes
7-21-11 तदा प्रवृद्धो राजसीदिति क.थ.पाठः॥आश्रमवासिकपर्व - अध्याय 022
॥ श्रीः ॥
16.22. अध्यायः 022
अथाश्रमवासपर्व ॥ 1 ॥
Mahabharata - AshramaVasika Parva - Chapter Topics
शतयूपपृष्टेन नारदेन तंप्रति धृतराष्ट्रस्य वर्षत्रयादूर्ध्वं गान्धार्या सह कुबेरलोकप्राप्तिकथनम्॥ 1 ॥Mahabharata - AshramaVasika Parva - Chapter Text
वैशम्पायन उवाच।
नारदस्य तु तद्वाक्यं शशंसुर्द्विजसत्तमाः।
शतयूपस्तु राजर्षिर्नारदं वाक्यमब्रवीत्॥ 16-22-1 (97769)
अहो भगवता श्रद्धा कुरुराजस्य वर्धिता।
सर्वस्य च जनस्यास्य मम चैव महाद्युते॥ 16-22-2 (97770)
अस्ति काचिद्विवक्षा तु तां मे निगदतः शृणु।
धृतराष्ट्रं प्रति नृपं देवर्षे लोकपूजित॥ 16-22-3 (97771)
सर्ववृत्तान्ततत्त्वज्ञो भवान्दिव्येन चक्षुषा।
युक्तः पश्यसि विप्रर्षे गतयो विविधा नृणाम्॥ 16-22-4 (97772)
उक्तवान्नृपतीनां त्वं महेन्द्रस्य सलोकताम्।
न त्वस्य नृपतेर्लोकाः कथितास्ते महामुने॥ 16-22-5 (97773)
स्थानमप्यस्य नृपतेः श्रोतुमिच्छाम्यहं विभो।
त्वत्तः कीदृक्कदा चेति तन्ममाख्याहि तत्त्वतः॥ 16-22-6 (97774)
इत्युक्तो नारदस्तेन वाक्यं सर्वमनोनुगम्।
व्याजहार सभामध्ये दिव्यदर्शी महातपाः॥ 16-22-7 (97775)
नारद उवाच। 16-22-8x (8050)
यदृच्छया शक्रसदो गत्वा शक्रं शचीपतिम्।
दृष्टवानस्मि राजर्षे तत्र पाण्डुं नराधिपम्॥ 16-22-8 (97776)
तत्रेयं धृतराष्ट्रस्य कथा समभवन्नप।
तपसो दुष्करस्यास्य यदयं तपते नृपः॥ 16-22-9 (97777)
तत्राहमिदमश्रौषं शक्रस्य वदतः स्वयम्।
वर्षाणि त्रीणि शिष्टानि राज्ञोस्य परमायुषः॥ 16-22-10 (97778)
ततः कुबेरभवनं गान्धारीसहितो नृपः।
प्रयाता धृतराष्ट्रोऽयं राजराजाभिसत्कृतः॥ 16-22-11 (97779)
कामगेन विमानेन दिव्याभरणभूषितः।
ऋषिपुत्रो महाभागस्तपसा दग्धकिल्बिषः॥ 16-22-12 (97780)
सञ्चरिष्यति लोकांश्च देवगन्धर्वरक्षसाम्।
स्वच्छन्देनेति धर्मात्मा व्यासस्य तु तपोबलात्॥ 16-22-13 (97781)
देवगुह्यमिदं प्रीत्या मया वः कथितं महत्।
भवन्तो हि श्रुतधनास्तपसा दग्धकिल्बिषाः॥ 16-22-14 (97782)
वैशम्पायन उवाच। 16-22-15x (8051)
इति ते तस्य तच्छ्रुत्वा देवर्षेर्मधुरं वचः।
सर्वे सुमनसः प्रीता बभूवुः स च पार्थिवः॥ 16-22-15 (97783)
एवं कथाभिरन्वास्य धृतराष्ट्रं मनीषिणः।
विप्रजग्मुर्यथाकामं ते सिद्धगतिमास्थिताः॥ ॥ 16-22-16 (97784)
इति श्रीमन्महाभारते आश्रमवासिकपर्वणि आश्रमवासपर्वणि द्वाविंशोऽध्यायः॥ 22 ॥
Mahabharata - AshramaVasika Parva - Chapter Footnotes
7-22-12 ऋषिपुत्रो व्यासपुत्रः॥आश्रमवासिकपर्व - अध्याय 023
॥ श्रीः ॥
16.23. अध्यायः 023
अथाश्रमवासपर्व ॥ 1 ॥
Mahabharata - AshramaVasika Parva - Chapter Topics
युधिष्ठिरादिभिः कुन्तीधृतराष्ट्रादीनां प्रव्रजनशोकेनाभिमन्युप्रभृतिबन्धुजनानुस्मरणजशोकेन स्वस्वव्यापारेष्वप्यनादरणम्॥ 1 ॥Mahabharata - AshramaVasika Parva - Chapter Text
वैशम्पायन उवाच।
वनं गते कौरवेन्द्रे दुःखशोकसमन्विताः।
बभूवुः पाण्डवा राजन्मातृशोकेनि चान्विताः॥ 16-23-1 (97785)
तथा पौरजनः सर्वः शोचन्नास्ते जनाधिपम्।
कुर्वाणाश्च कथास्तत्र ब्राह्मणा नृपतिं प्रति॥ 16-23-2 (97786)
कथं न राजा वृद्धः स वने वसति निर्जने।
गान्धारी च महाभागा सा च कुन्ती पृथा कथम्॥ 16-23-3 (97787)
सुखार्हः स हि राजर्षिरसुखी तद्वनं महत्।
किमवस्थः समासाद्य प्रज्ञाचक्षुर्महामनाः॥ 16-23-4 (97788)
सुदुष्करं कृतवती कुन्ती पुत्रानपास्य सा।
राज्यश्रियं परित्यज्य वनं सा समरोचयत्॥ 16-23-5 (97789)
विदुरः किमवस्थश्च भ्रातृशुश्रूषुरात्मवान्।
स च गावल्गणिर्धीमान्भर्तृपिण्डानुपालकः॥ 16-23-6 (97790)
आकुमारं च पौरास्ते चिन्ताशोकसमाहताः।
तत्रतत्र कथाश्चक्रुः समासाद्य परस्परम्॥ 16-23-7 (97791)
पाण्डवाश्चैव ते सर्वे भृशं शोकपरायणाः।
शोचन्तो मातरं वृद्धामूषुर्नातिचिरं पुरे॥ 16-23-8 (97792)
तथैव वृद्धं पितरं हतपुत्रं जनेश्वरम्।
गान्धारीं च महाभागां विदुरं च महामतिम्॥ 16-23-9 (97793)
नैषां बभूव सम्प्रीतिस्तान्विचिन्तयतां तदा।
न राज्ये न च नारीषु न वेदाध्ययनेषु च॥ 16-23-10 (97794)
परं निर्वेदमगमंश्चिन्तयन्ता नराधिपम्।
तं च ज्ञातिवधं घोरं संस्मरन्तः पुनःपुनः॥ 16-23-11 (97795)
अभिमन्योश्च बालस्य विनाशं रणमूर्धनि।
कर्णस्य च महाबाहोः सङ्ग्रामेष्वपलायिनः॥ 16-23-12 (97796)
तथैव द्रौपदेयानामन्येषां सुहृदामपि।
वधं संस्मृत्य ते वीरा नातिप्रमनसोऽभवन्॥ 16-23-13 (97797)
हतप्रवीरां पृथिवीं हृतरत्नां च भारत।
सदैव चिन्तयन्तस्ते न शमं चोपलेभिरे॥ 16-23-14 (97798)
द्रौपदी हतपुत्रा च सुभद्रा चैव भामिनी।
नातिप्रीतियुते देव्यौ तदास्तामप्रहृष्टवत्॥ 16-23-15 (97799)
वैराट्यास्तनयं दृष्ट्वा पितरं ते परिक्षितम्।
धारयन्ति स्म ते प्राणांस्तव पूर्वपितामहाः॥ ॥ 16-23-16 (97800)
इति श्रीमन्महाभारते आश्रमवासिकपर्वणि आश्रमवासपर्वणि त्रयोविंशोऽध्यायः॥ 23 ॥
आश्रमवासिकपर्व - अध्याय 024
॥ श्रीः ॥
16.24. अध्यायः 024
अथाश्रमवासपर्व ॥ 1 ॥
Mahabharata - AshramaVasika Parva - Chapter Topics
युधिष्ठिरेण वनस्थकुन्तीधृतराष्ट्रादिदिदृक्षया द्रौपद्यादिभिः पौरैर्भ्रातृभिश्च सह वनंप्रति प्रस्थानम्॥ 1 ॥Mahabharata - AshramaVasika Parva - Chapter Text
युधिष्ठिरेण वनस्थकुन्तीधृतराष्ट्रादिदिदृक्ष्या द्रौपद्यादिभिः पौरैर्भ्रातृभिश्च सह वनंप्रति प्रस्थानम्॥ 1 ॥
16-24-0 (97801)
वैशम्पायन उवाच। 16-24-0x (8052)
एवं ते पुरुषव्याघ्राः पाण्डवा मातृनन्दनाः।
स्मरन्तो मातरं वीरा बभूवुर्भशदुःखिताः॥ 16-24-1 (97802)
ये राजकार्येषु पुरा व्यासक्ता नित्यशोऽभवन्।
ते राजकार्याणि तदा नाकार्षुः सर्वतः पुरे॥ 16-24-2 (97803)
प्रविष्टा इव शोकेन नाभ्यनन्दन्त किञ्चन।
सम्भाष्यमाणा अपि ते न किञ्चित्प्रत्यपूजयन्॥ 16-24-3 (97804)
ते स्म वीरा दुराधर्षा गांभीर्ये सागरोपमाः।
शोकोपहतविज्ञाना नष्टसंज्ञा इवाभवन्॥ 16-24-4 (97805)
अचिन्तयंश्च जननीं ततस्ते पाण्डुनन्दनाः।
कथं नु वृद्धमिथुनं वहत्यतिकृशा पृथा॥ 16-24-5 (97806)
कथं च स महीपालो हतपुत्रो निराश्रयः।
पत्न्या सह वसत्येको वने श्वापदसेविते॥ 16-24-6 (97807)
सा च देवी महाभागा गान्धारी हतबान्धवा।
पतिमन्धं कथं वृद्धमन्वेति विजने वने॥ 16-24-7 (97808)
एवं तेषां कथयतामौत्सुक्यमभवत्तदा।
गमने चाभवद्बुद्धिर्धृतराष्ट्रदिदृक्षया॥ 16-24-8 (97809)
सहदेवस्तु राजानं प्रणिपत्येदमब्रवीत्।
अहो मे भवतो दृष्टं हृदयं गमनं प्रति। 16-24-9 (97810)
न हि त्वां गौरवेणाहमशकं वक्तुमञ्जसा।
गमनं प्रति राजेन्द्र तदिदं समुपस्थितम्॥ 16-24-10 (97811)
दिष्ट्या द्रक्ष्यामि तां कुन्तीं वर्तयन्तीं तपस्विनीम्।
जटिलां तापसीं वृद्धां कुशकाशपरिक्षताम्॥ 16-24-11 (97812)
प्रासादहर्म्यसंवृद्धामत्यन्तसुखभागिनीम्।
कदानुजननीं श्रान्तां द्रक्ष्यामि भृशदुःखिताम्॥ 16-24-12 (97813)
अनित्याः खलु मर्त्यानां गतयो भरतर्षभ।
कुन्ती राजसुता यत्र वसत्यसुखिता वने॥ 16-24-13 (97814)
सहदेववचः श्रुत्वा द्रौपदी योषितां वरा।
उवाच देवी राजानमभिपूज्याभिनन्द्य च। 16-24-14 (97815)
कदा द्रक्ष्यामि तां देवीं यदि जीवति सा पृथा।
जीवन्त्या ह्यद्य मे प्रीतिर्भविष्यति जनाधिप॥ 16-24-15 (97816)
एषा तेऽस्तु मतिर्नित्यं धर्मे ते रमतां मनः।
योऽद्य त्वमस्मान्राजेन्द्र श्रेयसा योजयिष्यसि॥ 16-24-16 (97817)
अग्रपादस्थितं चेमं विद्धि राजन्वधूजनम्।
काङ्क्षन्तं दर्शनं कुन्त्या गान्धार्याः श्वसुरस्च च॥ 16-24-17 (97818)
इत्युक्तः स नृपो देव्या द्रौपद्या भरतर्षभ।
सेनाध्यक्षान्समानाय्य सर्वानिदमुवाच ह॥ 16-24-18 (97819)
निर्यातयत मे सेनां प्रभूतरथकुञ्जराम्।
द्रक्ष्यामि वनसंस्थं च धृताष्ट्रं महीपतिम्॥ 16-24-19 (97820)
स्त्र्यध्यक्षांश्चाब्रवीद्राजा यानानि विविधानि मे।
सज्जीक्रियन्तां सर्वाणि शिबिकाश्च सहस्रशः॥ 16-24-20 (97821)
शकटापणवेशाश्च कोशः शिल्पिन एव च।
निर्यान्तु कोशपालाश्च कुरुक्षेत्राश्रमं प्रति॥ 16-24-21 (97822)
यश्च पौरजनः कश्चिद्द्रष्टुमिच्छति पार्थिवम्।
अनावृतः सुविहितः स च यातु सुरक्षितः॥ 16-24-22 (97823)
सूदाः पौरोगवाश्चैव सर्वं चैव महानसम्।
विविधं भक्ष्यभोज्यं च शकटैरुह्यतां मम॥ 16-24-23 (97824)
प्रयाणं घुष्यतां चैव श्वोभूत इति माचिरम्।
क्रियतां पथि चाप्यद्य वेश्मानि विविधानि च। 16-24-24 (97825)
एवमाज्ञाप्य राजा स भ्रातृभिः सह पाण्डवः।
श्वोभूते निर्ययौ राजन्सस्त्रीवृद्धपुरःसरः॥ 16-24-25 (97826)
स बहिर्दिवसानेव जनौघं परिपालयन्।
न्यवसन्नृपतिः पञ्च ततोऽगच्छद्वनं प्रति॥ ॥ 16-24-26 (97827)
इति श्रीमन्महाभारते आश्रमवासिकपर्वणि आश्रमवासपर्वणि चतुर्विंशोऽध्यायः॥ 24 ॥
Mahabharata - AshramaVasika Parva - Chapter Footnotes
7-24-17 अप्रपादस्थितं प्रयाणार्थं पुरस्कृतेनैव पादेन स्थितम्। अत्यन्तमुत्सुकमित्यर्थः॥आश्रमवासिकपर्व - अध्याय 025
॥ श्रीः ॥
16.25. अध्यायः 025
अथाश्रमवासपर्व ॥ 1 ॥
Mahabharata - AshramaVasika Parva - Chapter Topics
युधिष्ठिरेण नानायानारूढैः पौरैर्भ्रातृभिश्च सह धृतराष्ट्रादिदिदृक्षया शतयूपाश्रमवनप्रवेशः॥ 1 ॥Mahabharata - AshramaVasika Parva - Chapter Text
वैशम्पायन उवाच।
आज्ञापयामास ततः सेनां भरतसत्तमः।
अर्जुनप्रमुखैर्गुप्तां लोकपालोपमैर्नरैः॥ 16-25-1 (97828)
योगोयोग इति प्रीत्या ततः शब्दो महानभूत्।
क्रोशतां सादिनां तत्र युज्यतां युज्यतामिति॥ 16-25-2 (97829)
केचिद्यानैर्नरा जग्मुः केचिदश्वैर्महाजवैः।
काञ्चनैश्च रथैः केचिज्ज्वलितज्वलनोपमैः॥ 16-25-3 (97830)
गजेन्द्रैश्च तथैवान्ये केचिदुष्ट्रैर्नराधिप।
पदातयस्तथैवान्ये नखरप्रासयोधिनः॥ 16-25-4 (97831)
पौरजानपदाश्चैव यानैर्बहुविधैस्तथा।
अन्वयुः कुरुराजानं धृतराष्ट्रं दिदक्षवः॥ 16-25-5 (97832)
स चापि राजवचनादाचार्यो गौतमः कृपः।
सेनामादाय सेनानीः प्रययावाश्रमं प्रति॥ 16-25-6 (97833)
ततो द्विजैः परिवृतः कुरुराजो युधिष्ठिरः।
संस्तूयमानो बहुभिः सूतमागधबन्दिभिः॥ 16-25-7 (97834)
पाण्डुरेणातपत्रेण ध्रियमाणेन मूर्धनि।
रतानीकेन महता निर्जगाम कुरूद्वहः॥ 16-25-8 (97835)
गजैश्चाचलसंकाशैर्भीमकर्मा वृकोदरः।
सज्जयन्त्रायुधोपेतैः प्रययौ पवनात्मजः॥ 16-25-9 (97836)
माद्रीपुत्रावपि तथा हयारोहौ सुसंवृतौ।
जग्मतुः शीघ्रगमनौ सन्नद्धकवचध्वजौ॥ 16-25-10 (97837)
अर्जुनश्च महातेजा रथेनादित्यवर्चसा।
वशी श्वेतैर्हयैर्युक्तैर्दिव्येनान्वगमन्नृपम्॥ 16-25-11 (97838)
द्रौपदीप्रमुखाश्चापि स्त्रीसङ्घाः शिबिकागताः।
स्त्र्यध्यक्षगुप्ताः प्रययुर्विसृजन्तोऽमितं वसु॥ 16-25-12 (97839)
समृद्धरथहस्त्यश्वं वेणुवीणानुनादितम्।
शुशुभे पाण्डवं सैन्यं तत्तदा भरतर्षभ॥ 16-25-13 (97840)
नदीतीरेषु रम्येषु सरःसु च विशाम्पते।
वासान्कृत्वा क्रमेणाथ जग्मुस्ते कुरुपुङ्गवाः॥ 16-25-14 (97841)
युयुत्सुश्च महातेजा धौम्यश्चैवि पुरोहितः।
युधिष्ठिरस्य वचनात्पुरगुप्तिं प्रचक्रतुः॥ 16-25-15 (97842)
ततो युधिष्ठिरो राजा कुरुक्षेत्रमवातरत्।
क्रमोणोत्तीर्य यमुनां नदीं परमपाविनीम्॥ 16-25-16 (97843)
स ददर्शाश्रमं दूराद्राजर्षेस्तस्य धीमतः।
शतयूपस्य कौरव्य धृतराष्ट्रस्य चैव ह॥ 16-25-17 (97844)
ततः प्रमुदितः सर्वो जनस्तद्वनमञ्जसा।
विवेश सुमहानादैरापूर्य भरतर्षभ॥ ॥ 16-25-18 (97845)
इति श्रीमन्महाभारते आश्रमिवासिकपर्वणि आश्रमिवासपर्वणि पञ्चविंशोऽध्यायः॥ 25 ॥
Mahabharata - AshramaVasika Parva - Chapter Footnotes
7-25-3 यानैमनुष्यवाह्यः॥ 7-25-4 नखरप्रासः व्याघ्रनखवत्पराचीनफलककुक्षिर्यः॥आश्रमवासिकपर्व - अध्याय 026
॥ श्रीः ॥
16.26. अध्यायः 026
अथाश्रमवासपर्व ॥ 1 ॥
Mahabharata - AshramaVasika Parva - Chapter Topics
युधिष्ठिरादिभिः शतयूपाश्रमे धृतराष्ट्रादीनुपेत्य स्वस्वनामकीर्तनपूर्वकं तत्पादाभिवादनम्॥ 1 ॥ धृतराष्ट्रेण स्वावा स्यादर्शनेन शोचतां तेषां समाश्वासनम्॥ 2 ॥Mahabharata - AshramaVasika Parva - Chapter Text
वैशम्पायन उवाच।
ततस्ते पाण्डवा दूरादवतीर्य पदातयः।
अभिजग्मुर्नरपतेराश्रमं विनयानताः॥ 16-26-1 (97846)
स च योधजनः सर्वो ये च राष्ट्रनिवासिनः।
स्त्रियश्च कुरुमुख्यानां पद्भिरेवान्वयुस्तदा॥ 16-26-2 (97847)
आश्रमं ते ततो जग्मुर्धृतराष्ट्रस्य पाण्डवाः।
शून्यं मृगगणाकीर्णं कदलीवनशोभितम्॥ 16-26-3 (97848)
ततस्तत्र समाजग्मुस्तापसा नियतव्रताः।
पाण्डवानागतान्द्रष्टुं कौतूहलसमन्विताः॥ 16-26-4 (97849)
तानपृच्छत्ततो राजा क्वासौ कौरववंशभृत्।
पिता ज्येष्ठो गतोऽस्माकमिति बाष्पपरिप्लुतः॥ 16-26-5 (97850)
ते तमूचुस्ततो वाक्यं यमुनामवगाहितुम्।
पुष्पाणामुदकुंभस्य चार्थे गत इति प्रभो॥ 16-26-6 (97851)
तैराख्यातेन मार्गेण ततस्ते जग्मुरञ्जसा।
ददृशुश्चाविदूरे तान्सर्वानथ पदातयः॥ 16-26-7 (97852)
ततस्ते सत्वरा जग्मुः वितुर्दर्शनकाङ्क्षिणः।
सहदेवस्तु वेगेन प्राधावद्यत्र सा पृथा॥ 16-26-8 (97853)
सुस्वरं रुरुदे धीमान्मातुः पादावुपस्पृशन्।
सा च बाष्पाकुलमुखी ददर्शक दयितं सुतम्॥ 16-26-9 (97854)
बाहुभ्यां सम्परिष्वज्य समुन्नाम्य च पुत्रकम्।
गान्धार्याः कथयामास सहद्रेवमुपस्थितम्॥ 16-26-10 (97855)
अनन्तरं च राजानं भीमसेनमथार्जुनम्।
नकुलं च पृथा दृष्ट्वा त्वरमाणोपचक्रमे॥ 16-26-11 (97856)
सा ह्यग्रे गच्छति तयोर्दपत्योर्हतपुत्रयोः।
कर्षन्ती तौ ततस्ते तां दृष्ट्वा संन्यपतन्भुवि।
`तयोस्तु पादयो राजन्न्यपतन्हतपुत्रयोः॥' 16-26-12 (97857)
राजा तान्स्वरयोगेन स्पर्शेन च महामनाः।
प्रत्यभिज्ञाय मेधावी समाश्वासयत प्रभुः॥ 16-26-13 (97858)
ततस्ते बाष्पमुत्सृज्य गान्धारीसहितं नृपम्।
उपतस्थुर्महात्मानो मातरं च यथाविधि॥ 16-26-14 (97859)
सर्वेषां तोयकलशाञ्जगृहुस्ते स्वयं तदा।
पाण्डवा लब्धसंज्ञास्ते मात्रा चाश्वासिताः पुनः॥ 16-26-15 (97860)
तथा नार्यो नृसिंहानां सोऽवरोधजनस्तदा।
पौरजानपदाश्चैव ददृशुस्तं जनाधिपम्॥ 16-26-16 (97861)
निवेदयामास तदा जनं तन्नामगोत्रतः।
युधिष्ठिरो नरपतिः स चैनं प्रत्यपूजयत्॥ 16-26-17 (97862)
स तैः परिवृतो मेने हर्षबाष्पाविलेक्षणः।
राजाऽऽत्मानं गृहगतं पुरेवि गजसाह्वये॥ 16-26-18 (97863)
अभिवादितो वधूभिश्च कृष्णाद्याभिः स पार्थिवः।
गान्धार्या सहितो धीमान्कुन्त्या च प्रत्यनन्दत॥ 16-26-19 (97864)
ततश्चाश्रममागच्छत्सिद्धचारणसेवितम्।
दिदृक्षुभिः समाकीर्णं नभस्तारागणैरिव॥ ॥ 16-26-20 (97865)
इति श्रीमन्महाभारते आश्रमवासिकपर्वणि आश्रमवासपर्वणि षड्विंशोऽध्यायः॥ 26 ॥
आश्रमवासिकपर्व - अध्याय 027
॥ श्रीः ॥
16.27. अध्यायः 027
अथाश्रमवासपर्व ॥ 1 ॥
Mahabharata - AshramaVasika Parva - Chapter Topics
सञ्जयेन तापसान्प्रति युधिष्ठिरादीनां द्रौपद्यादिस्त्रीणां चाङ्गुलिनिर्देशेन नामनिर्देशः॥ 1 ॥Mahabharata - AshramaVasika Parva - Chapter Text
वैशम्पायन उवाच।
स तैः सह नरव्याध्रैर्भ्रातृभिर्भरतर्षभ।
राजा रुचिरपद्माक्षैरासांचक्रे तदाश्रमे॥ 16-27-1 (97866)
तापसैश्च महाभागैर्नानादेशसमागतैः।
द्रष्टुं कुरुपतेः पुत्रान्पाण्डवान्पृथुवक्षसः॥ 16-27-2 (97867)
ते ब्रुवञ्ज्ञातुमिच्छामः कतमोऽत्र युधिष्ठिरः।
भीमार्जुनौ यमौ चैव द्रौपदी च यशस्विनी॥ 16-27-3 (97868)
तानाचख्यौ तदा सूतस्तेषां नाम प्रधानतः।
संजयो द्रौपदीं चैव सर्वाश्चान्या कुरुस्त्रियः॥ 16-27-4 (97869)
सञ्जय उवाच। 16-27-5x (8053)
य एष जांबूनदशुद्धगौर-
स्तनुर्महासिंह इव प्रवृद्धः।
प्रचण्डघोणः पृथुदीर्घनेत्र-
स्ताम्रायताक्षः कुरुराज एषः॥ 16-27-5 (97870)
अयं पुनर्मत्तगजेन्द्रगामी
प्रतप्तचामीकरशुद्धगौरः।
पृथ्वायतांसः पृथुदीर्घबाहु-
र्वृकोदरः पश्यत पश्यतेमम्॥ 16-27-6 (97871)
यस्त्वेष पार्श्वेऽस्य महाधनुष्मा-
ञ्श्यामो युवा वारणयूथपाभः।
सिंहोन्नतांसो गजखेलगामी
पद्मायताक्षोऽर्जुन एष वीरः॥ 16-27-7 (97872)
कुन्तीसमीपे पुरुषोत्तमौ तु
यमाविमौ विष्णुमहेन्द्रकल्पौ।
मनुष्यलोके सकले समोस्ति
ययोर्न रूपे न बले न शीले॥ 16-27-8 (97873)
इयं पुनः पद्मदलायताक्षी
मध्यं वयः किञ्चिदिव स्पशन्ती।
नीलोत्पलाभा पुरदेवतेव
कृष्णा स्थिता मूर्तिमतीव लक्ष्मीः॥ 16-27-9 (97874)
अस्यास्तु पार्श्वे कनकोपमत्व-
गेषा स्थिता मूर्तिमतीव गौरी।
सत्ये स्थिता सा भगिनी द्विजाग्र्या-
श्चक्रायुधस्याप्रतिमस्य तस्य॥ 16-27-10 (97875)
इयं च जांबूनदशुद्धगौरी
पार्थस्य भार्या भुजगेन्द्रकन्या।
चित्राङ्गदा चैव नरेन्द्रकन्या
यैषा सवर्णार्द्रमधूकपुष्पैः॥ 16-27-11 (97876)
इयं स्वसा राजचमूपतेश्च
प्रवृद्धनीलोत्पलदामवर्णा।
पस्पर्ध कृष्णेन सदा नृपो यो
वृकोदरस्यैष परिग्रहोऽग्र्यः॥ 16-27-12 (97877)
इयं च राज्ञो मगधाधिपस्य
सुता जरासंध इति श्रुतस्य।
यवीयसो माद्रवतीसुतस्य
भार्या मता चम्पकदामगौरी॥ 16-27-13 (97878)
इन्दीवरश्यामतनुः स्थिता तु
यैषा पराऽऽसन्नतरोर्लतेव।
भार्या मता माद्रवतीसुतस्य
ज्येष्ठस्य सेयं कमलायताक्षी॥ 16-27-14 (97879)
इयं तु निष्टप्तसुवर्णगौरी
राज्ञो विराटस्य सुता सपुत्रा।
भार्याऽभिमन्योर्निहतो रणे यो
द्रोणादिभिस्तैर्विरथो रथस्थैः॥ 16-27-15 (97880)
एतास्तु सीमन्तशिरोरुहा याः
शुक्लोत्तरीया नरराजपत्न्यः।
राज्ञोस्य वृद्धस्य परंशताख्याः
स्नुषा नृवीराहतपुत्रनाथाः॥ 16-27-16 (97881)
एकता यथामुख्यमुदाहृता वो
ब्राह्मण्यभावादृजुबुद्धिसत्वात्।
सर्वा भवद्भिः परिपृच्छ्यमाना
नरेन्द्रपत्न्यः सुविशुद्धसत्वाः।
`सर्वे भवन्तोपि तपोबलाग्र्याः
क्षान्ताश्च दान्ताश्च कुलोद्भवाश्च॥' 16-27-17 (97882)
वैशम्पायन उवाच। 16-27-18x (8054)
एवं स राजा कुरुवृद्धवर्यः
समागतस्तैर्नरदेवपुत्रैः।
पप्रच्छ सर्वं कुशलं तदानीं
गतेषु सर्वेष्वथ तापसेषु॥ 16-27-18 (97883)
योधेषु चाप्याश्रममण्डलं त-
न्मत्वा निविष्टेषु विमुच्य पत्रम्।
स्त्रीवृद्धबाले च सुसंनिविष्टे
यथार्हतस्तान्कुशलान्यपृच्छत्॥ ॥ 16-27-19 (97884)
इति श्रीमन्महाभारते आश्रमवासिकपर्वणि आश्रमवासपर्वणि सप्तविंशोऽध्यायः॥ 27 ॥
Mahabharata - AshramaVasika Parva - Chapter Footnotes
7-27-12 परिग्रहो भार्या॥ 7-27-14 यासौ विशुद्धांबुजपद्मनेत्रा इति क.थ.पाठः॥ 7-27-16 भीमन्तमात्रेण उपलक्षिता। नत्वलङ्कारादिना तादृशाः शिरोरुहाः केशा यासां ताः सीमन्तशिरोरुहाः। असीमन्तेति पाठो युक्तः। शुक्लोत्तरीया नरराजकन्या इति क.थ.पाठः॥ 7-27-19 पत्रं वाहनम्॥आश्रमवासिकपर्व - अध्याय 028
॥ श्रीः ॥
16.28. अध्यायः 028
अथाश्रमवासपर्व ॥ 1 ॥
Mahabharata - AshramaVasika Parva - Chapter Topics
धृतराष्ट्रयुधिष्ठिराभ्यां परस्परकुशलप्रश्नादिपूर्वकं सँल्लापः॥ 1 ॥ युधिष्ठिरेण धृतराष्ट्रंप्रति विदुरः क्वेति प्रश्ने तत्रत्येन केनचिद्यदृच्छया धृतराष्ट्रमुपसर्पतो जनावलोकनेन प्रतिनिवर्तमानस्य च तस्य प्रदर्शनम्॥ 2 ॥ ततो युधिष्ठिरेणानुधावनेन तत्समीपगमनम्॥ 3 ॥ ततो विदुरे योगात्स्वशरीरत्यागेन तच्छरीरप्रवेशः॥ 4 ॥ युधिष्ठिरेण धृतराष्ट्रादिषु तदद्भुतनिवेदनम्॥ 5 ॥Mahabharata - AshramaVasika Parva - Chapter Text
धृतराष्ट्र उवाच।
युधिष्ठिर महाबाहो कच्चित्वं कुशली ह्यसि।
सहितो भ्रातृभिः सर्वैः पौरजानपदैस्तथा॥ 16-28-1 (97885)
ये च त्वामनुजीवन्ति कच्चित्तेऽपि निरामयाः।
सचिवा भृत्यवर्गाश्च गुरवश्चैव ते नृप॥ 16-28-2 (97886)
कच्चित्तेऽपि निरातङ्का वसन्ति विषये तव।
कच्चिद्वर्तसि पौराणीं वृत्तिं राजर्षिसेविताम्॥ 16-28-3 (97887)
कच्चिन्न्यायाननुच्छिद्य कोशस्तेऽभिप्रपूर्यते।
अरिमध्यस्थमित्रेषु वर्तसे चानुरूपतः।
ब्राह्मणानग्रहारैर्वा यथावदनुपश्यसि॥ 16-28-4 (97888)
कच्चित्ते परितुष्यन्ति शीलेनि भरतर्षभ।
शत्रवोपि कुतः पौरा भृत्या वा स्वजनोपि वा॥ 16-28-5 (97889)
कच्चिद्यजसकि राजेन्द्र श्रद्धावान्पितृदेवताः।
अतिथीनन्नपानेनि कच्चिदर्चसि भारत॥ 16-28-6 (97890)
कच्चिन्नयपथे विप्राः स्वकर्मनिरतास्तव।
क्षत्रिया वैश्यवर्णा वा शूद्रा वाऽपि कुटुम्बिनः॥ 16-28-7 (97891)
कच्चित्स्त्रीबालवृद्धं ते न शोचति न याचते।
जामयः पूजिताः कच्चित्तव गेहे नरर्षभ॥ 16-28-8 (97892)
कच्चिद्राजर्षिवंशोऽयं त्वामासाद्य महीपतिम्।
यथोचितं महाराज यशसा नावसीदति॥ 16-28-9 (97893)
वैशण्पायन उवाच। 16-28-10x (8055)
इत्येवादिनं तं स न्यायवित्प्रत्यभाषत।
कुशलप्रश्नसंयुक्तं कुशलो वाक्यमब्रवीत्॥ 16-28-10 (97894)
युधिष्ठिर उवाच। 16-28-11x (8056)
अपि ते वर्धते राजंस्पपो मन्दः श्रमश्च ते ॥ 16-28-11 (97895)
अपि मे जननी चेयं शुश्रूषुर्विगतक्लमा।
अथास्याः सफलो राजन्वनवासो भविष्यति॥ 16-28-12 (97896)
इयं च माता ज्येष्ठा मे शीतवाताध्वकर्शिता।
घोरेण तपसा युक्ता देवी कच्चिन्न शोचति॥ 16-28-13 (97897)
हतान्पुत्रान्महावीर्यान्क्षत्रधर्मपरायणान्।
नापध्यायति वा कच्चिदस्मान्पापकृतः सदा॥ 16-28-14 (97898)
क्व चासौ विदुरो राजन्नेमं पश्यामहे वयम्।
संजयः कुशली चायं कच्चिन्नु तपसि स्थिरः॥ 16-28-15 (97899)
वैशम्पायन उवाच। 16-28-16x (8057)
इत्युक्तः प्रत्युवाचैनं धृतराष्ट्रो जनाधिपम्।
कुशली विदुरः पुत्र तपो घोरं समाश्रितः॥ 16-28-16 (97900)
वायुभक्षो निराहारः कृशो धमनिसंततः।
कजाचिद्दृश्यते विप्रैः शून्येऽस्मिन्कानने क्वचित्॥ 16-28-17 (97901)
इत्येवं ब्रुवतस्तस्य जटी वीटामुखः कृशः।
दिग्वासा मलदिग्धाङ्गो वनरेणुसमुक्षितः॥ 16-28-18 (97902)
दूरादालक्षितः क्षत्ता तत्राख्यातो महीपतेः।
`कविदुरस्त्वेष धर्मात्मा जनं दृष्ट्वा निवर्तते॥' 16-28-19 (97903)
निवर्तमानं सहसा जनं दृष्ट्वाऽऽश्रमं प्रति।
तमन्वधावन्नृपतिरेक एव युधिष्ठिरः।
प्रविशन्तं वनं घोरं लक्ष्यालक्ष्यं क्वचित्क्वचित्॥ 16-28-20 (97904)
भोभो विदुर राजाऽहं दयितस्ते युधिष्ठिरः।
इति ब्रुवन्नरपतिस्तं यत्नादभ्यधावत॥ 16-28-21 (97905)
ततो विविक्त एकान्ते तस्थौ बुद्धिमतां वरः।
विदुरो वृक्षमाश्रित्य कञ्चित्तत्र वनान्तरे॥ 16-28-22 (97906)
तं राजा क्षीणभूयिष्ठमाकृतीमात्रसूचितम्।
अभिजज्ञे महाबुद्धिं महाबुद्धिर्युधिष्ठिरः॥ 16-28-23 (97907)
युधिष्ठिरोऽहमस्मीति वाक्यमुक्त्वाऽग्रतः स्थितः।
विदुरस्याश्रमे राजा स च प्रत्याह संज्ञया॥ 16-28-24 (97908)
ततः सोऽनिमिषो भूत्वा राजानं तमुदैक्षत।
संयोज्य विदुरस्तस्मिन्दृष्टिं दृष्ट्या समाहितः॥ 16-28-25 (97909)
विवेश विदुरो धीमान्गात्रैर्गात्राणि चैव ह।
प्राणान्प्राणेषु च दधदिन्द्रियाणीन्द्रियेषु च॥ 16-28-26 (97910)
स योगबलमास्थाय विवेश नृपतेस्तनुम्।
विदुरो धर्मराजस्य तेजसा प्रज्वलन्निव॥ 16-28-27 (97911)
विदुरस्य शरीरं तु तथैव स्तब्धलोचनम्।
वृक्षाश्रितं तदा राजा ददर्श गतचेतनम्॥ 16-28-28 (97912)
बलवन्तं तथाऽऽत्मानं मेने बहुगुणं तदा।
धर्मराजो महातेजास्तच्च सस्मार पाण्डवः॥ 16-28-29 (97913)
पौराणमात्मनः सर्वं भविष्यं च विशाम्पते।
योगधर्मं महातेजा व्यासेन कथिनं यथा॥ 16-28-30 (97914)
धर्मराजश्च तत्रैनं सञ्चस्कारयिषुस्तदा।
दग्धुकामोऽभवद्विद्वानथ वागभ्यभाषत॥ 16-28-31 (97915)
भोभो राजन्न दग्धव्यमेतद्विदुरसंज्ञकम्।
कलेबरमिहैवं ते धर्म एष सनातनः॥ 16-28-32 (97916)
लोको वैकर्तनो नाम भविष्यत्यस्य भारत।
यतिधर्ममवाप्तोसौ नैष शोच्यः परंतप॥ 16-28-33 (97917)
इत्युक्तो धर्मराजः स विनिवृत्य ततः पुनः।
राज्ञो वैचित्रवीर्यस्य तत्सर्वं प्रत्यवेदयत्॥ 16-28-34 (97918)
ततः स राजा धृतिमान्स च सर्वो जनस्तदा।
भीमसेनादयश्चैव परं विस्मियमागताः॥ 16-28-35 (97919)
तच्छ्रुत्वा प्रीतिमान्राजा भूत्वा धर्मजमब्रवीत्।
आपो मूलं फलं चैव ममेदं प्रतिगृह्यताम्॥ 16-28-36 (97920)
यदन्नो हि नरो राजंस्तदन्नोऽस्यातिथिः स्मृतः।
इत्युक्तः स तथेत्येवं प्राह धर्मात्मजो नृपम्॥ 16-28-37 (97921)
फलं मूलं च बुभुजे राज्ञा दत्तं सहानुजः।
ततस्ते वृक्षमूलेषु कृतवासपरिग्रहाः।
तां रात्रिमवसन्सर्वे फलमूलजलाशनाः॥ ॥ 16-28-38 (97922)
इति श्रीमन्महाभारते आश्रमवासिकपर्वणि आश्रमवासपर्वणि अष्टाविंशोऽध्यायः॥ 28 ॥
Mahabharata - AshramaVasika Parva - Chapter Footnotes
7-28-4 कच्चिदायाननुच्छिद्येति क.पाठः॥ 7-28-8 जामयः सौभाग्यवत्यः॥ 7-28-18 वीटा पाषाणकवलः। वनदिग्धाङ्गो वानरैरुपलक्षित इति थ.पाठः॥ 7-28-29 तच्च स्वस्य विदुरस्य च एकस्यैव धर्मस्यांशाज्जातत्वं सस्मार॥ 7-28-30 योगधर्मं सस्मारेत्यनुषज्यते॥ 7-28-31 संचस्कारयिषुः संस्कारं लम्भयितुमिच्छुः॥ 7-28-33 लोकास्सान्तानिकानाम भविष्यन्त्यस्येति झ.पाठः। यतिधर्मो दाहाद्ययोग्यत्वम्॥आश्रमवासिकपर्व - अध्याय 029
॥ श्रीः ॥
16.29. अध्यायः 029
Mahabharata - AshramaVasika Parva - Chapter Topics
युधिष्ठिरेण धृराष्ट्राभ्यनुज्ञया भ्रात्रादिभिः सह महर्षिणामाश्रमदर्शनम्॥ 1 ॥ शतयूपादिभिः सशिष्येण व्यासेन च युधिष्ठिरादिभिः परिवृतस्य धृतराष्ट्रस्याश्रमंप्रत्यागमनम्॥ 2 ॥Mahabharata - AshramaVasika Parva - Chapter Text
वैशम्पायन उवाच।
ततस्तु राजन्नेतेषामाश्रमे पुण्यकर्मणाम्।
शिवा नक्षत्रसम्पन्ना सा व्यतीयाय शर्वरी॥ 16-29-1 (97923)
ततस्तत्र कथाश्चासंस्तेषां धर्मार्थलक्षणाः।
विचित्रपदसञ्चारा नानाश्रुतिभिरन्विताः॥ 16-29-2 (97924)
पाण्डवास्त्वभितो मातुर्धरण्यां सुषुपुस्तदा।
उत्सृज्य तु महार्हाणि शयनानि नराधिप॥ 16-29-3 (97925)
यदाहारोऽभकवद्राजा धृतराष्ट्रो महामनाः।
तदाहारा नृवींरास्ते न्यवसंस्तां निशां तदा॥ 16-29-4 (97926)
व्यतीतायां तु शर्वर्यां कृतपौर्वाह्णिकक्रियः।
भ्रातृभिः सहितो राजा ददर्शाश्रममण्डलम्॥ 16-29-5 (97927)
सान्तः पुरपरीवारः सभृत्यः सपुरोहितः।
यथासुखं यथोद्देशं धृतराष्ट्राभ्यनुज्ञया॥ 16-29-6 (97928)
ददर्श तत्र वेदीश्च सम्प्रज्वलितपावकाः।
कृताभिषेकैर्मुनिभिर्हुताग्निभिरुपस्थिताः॥ 16-29-7 (97929)
वानेयपुष्पनिकरैराज्यधूमोद्गमैरपि।
ब्राह्मेण वपुषा युक्ता युक्ता मुनिगणस्य ताः॥ 16-29-8 (97930)
मृगयूथैरनुद्विग्नैस्तत्रतत्र समाश्रितैः।
अशङ्कितैः पक्षिगणैः प्रगीतैरिव च प्रभो॥ 16-29-9 (97931)
केकाभिर्नीलकण्ठानां दात्यूहानां च कूजितैः।
कोकिलानां कुहुरवैः सुखैः श्रुतिमनोहरैः॥ 16-29-10 (97932)
प्राधीतद्विजघोषैश्च क्वचित्क्वचिदलङ्कृतम्।
फलमूलसमाहारैर्महद्भिश्चोपशोभितम्॥ 16-29-11 (97933)
ततः स राजा प्रददौ तापसार्थमुपाहृतान्।
कलशान्काञ्चनान्राजंस्तथैवौदुम्बरानपि॥ 16-29-12 (97934)
अजिनानि प्रवेणीश्च स्रुक्स्रुवं च महीपतिः।
कमण्डलूंश्चि स्थालीश्च पिठराणि च भारत॥ 16-29-13 (97935)
भाजनानि च लौहानि पात्रीश्च विविधा नृप।
यद्यदिच्छति यावच्च यदन्यदपि काङ्क्षितम्॥ 16-29-14 (97936)
एवं स राजा धर्मात्मा परीत्याश्रममण्डलम्।
वसु विश्राण्य तत्सर्वं पुनरायान्महीपतिः॥ 16-29-15 (97937)
कृताह्निकं च राजानं धृतराष्ट्रं महीपतिम्।
ददर्शासीनमव्यग्रं गान्धारीसहितं तदा॥ 16-29-16 (97938)
मातरं चाविदूरस्थां शिष्यवत्प्रणतां स्थिताम्।
कुन्तीं ददर्श धर्मात्मा शिष्टाचारसमन्विताम्॥ 16-29-17 (97939)
स तमभ्यर्च्य राजानं नाम संश्राव्य चात्मनः।
निषीदेत्यभ्यनुज्ञातो वृस्यामुपविवेश ह॥ 16-29-18 (97940)
भीमसेनादयश्चैव पाण्डव भरतर्षभ।
अभिवाद्योपसङ्गृह्य निषेदुः पार्थिवाज्ञया॥ 16-29-19 (97941)
स तैः परिवृतो राजा शुशुभेऽतीव कौरवः।
बिभ्रद्ब्राह्मीं श्रियं दीप्तां देवैरिव बृहस्पतिः॥ 16-29-20 (97942)
तथा तेषूपविष्टेषु समाजग्मुर्महर्षयः।
शतयूपप्रभृतयः कुरुक्षेत्रनिवासिनः॥ 16-29-21 (97943)
व्यासश्च भगवान्विप्रो देवर्षिगणसेवितः।
वृतः शिष्यैर्महातेजा दर्शयामास पार्थिवम्॥ 16-29-22 (97944)
ततः स राजा कौरव्यः कुन्तीपुत्रश्च धर्मराट्।
भीमसेनादयश्चैव प्रत्युत्थायाभ्यवादयन्॥ 16-29-23 (97945)
समागतस्ततो व्यासः शतयूपादिभिर्वृतः।
धृतराष्ट्रं महीपालमास्यतामित्यभाषत॥ 16-29-24 (97946)
वरं तु विष्टरं कौश्यं कृष्णाजिनकुशोत्तरम्।
प्रतिपेदे तदा व्यासस्तदर्थमुपकल्पितम्॥ 16-29-25 (97947)
ते च सर्वे द्विजश्रेष्ठा विष्टरेषु समन्ततः।
द्वैपायनाभ्यनुज्ञाता निषेदुर्विपुलौजसः॥ ॥ 16-29-26 (97948)
इति श्रीमन्महाभारते आश्रमवासिकपर्वणि आश्रमवासपर्वणि एकोनत्रिंशोऽध्यायः॥ 29 ॥
Mahabharata - AshramaVasika Parva - Chapter Footnotes
7-29-8 मुनिगणस्य मुनिगणेन। ता वैदिक्यो लौकिक्यश्च॥ 7-29-9 मृगयूथादिभिरलङ्कृतमाश्रमम्॥ 7-29-12 औदुम्बरान् कलशान्॥ 7-29-13 प्रवेणीः कुथाः॥आश्रमवासिकपर्व - अध्याय 030
॥ श्रीः ॥
16.30. अध्यायः 030
Mahabharata - AshramaVasika Parva - Chapter Topics
व्यासन धृतराष्ट्रंप्रति कुशलादिप्रश्नपूर्वकं विदुरस्य निजस्वरूपादिप्रतिपादनम्॥ 1 ॥ तथा इतरमहर्षिदुष्करतदभीष्टाश्चर्यकर्मकरणप्रतिज्ञानम्॥ 2 ॥Mahabharata - AshramaVasika Parva - Chapter Text
वैशम्पायन उवाच।
ततः समुपविष्टेषु पाण्डवेषु महात्मसु।
व्यासः सत्यवतीपुत्रः प्रोवाचामन्त्र्य पार्थिवम्॥ 16-30-1 (97949)
धृतराष्ट्र महाबाहो कच्चित्ते वर्तते तपः।
कच्चिन्मनस्ते प्रीणाति वनवासे नराधिप॥ 16-30-2 (97950)
कच्चिद्धृदि न ते शोको राजन्पुत्रविनाशजः।
कच्चिज्ज्ञानानि सर्वाणि सुप्रसन्नानि तेऽनघ॥ 16-30-3 (97951)
कच्चिद्बुद्धिं दृढां कृत्वा चरस्यारण्यकं विधिम्।
कच्चिद्वधूश्च गान्धारी न शोकेनाभिभूयते॥ 16-30-4 (97952)
महाप्रज्ञा बुद्धिमती देवी धर्मार्थदर्शिनी।
आगमापायतत्त्वज्ञा कच्चिदेषा न शोचति॥ 16-30-5 (97953)
कच्चित्कुन्ती च राजंस्त्वां शुश्रूषत्यनहङ्कृता।
या परित्यज्य स्वं पुत्रं गुरुशुश्रूषणे रता॥ 16-30-6 (97954)
कच्चिद्धर्मसुतो राजा त्वया प्रत्यभिनन्दितः।
भीमार्जुनयमाश्चैव कच्चिदेतेऽपि सान्तिताः॥ 16-30-7 (97955)
कच्चिन्नन्दसि दृष्ट्रैतान्कच्चिते निर्मलं मनः।
कच्चिच्च शुद्धभावोसि जातज्ञानो नराधिप॥ 16-30-8 (97956)
एतद्धि त्रितयं श्रेष्ठं सर्वभूतेषु भारत।
निर्वैरता महाराज सत्यमक्रोध एव च॥ 16-30-9 (97957)
कच्चित्ते न च मोहोस्ति वनवासेन भारत।
स्वदत्ते वन्यमन्नं वा उपवासोपि वा भवेत्॥ 16-30-10 (97958)
विदितं चापि राजेन्द्र विदुरस्य महात्मनः।
गमनं विधिनाऽनेन धर्मस्य सुमहात्मनः॥ 16-30-11 (97959)
माण्डव्यशापाद्धि स वै धर्मो विदुरतां गतः।
महाबुद्धिर्महायोगी महात्मा सुमहामनाः॥ 16-30-12 (97960)
बृहस्पतिर्वा देवेषु शुक्रो वाऽप्यसुरेषु च।
न तथा बुद्धिसम्पन्नो यथा स पुरुषर्षभः॥ 16-30-13 (97961)
तपोबलव्ययं कृत्वा सुचिरात्सम्भृतं तदा।
माण्डव्येनर्षिणा धर्मो ह्यभिभूतः सनातनः॥ 16-30-14 (97962)
नियोगाद्ब्रह्मणः पूर्वं मया स्वेन बलेन च।
वैचित्रवीर्यके क्षेत्रे जातः स सुमहामतिः॥ 16-30-15 (97963)
भ्राता तव महाराज देवदेवः सनातनः।
धारणान्मनसा ध्यानाद्य धर्म कवयो विदुः॥ 16-30-16 (97964)
सत्येन संवर्धयति यो दमेन शमेन च।
अहिंसया च दानेन तपसा च सनातनः॥ 16-30-17 (97965)
येन योगबलाज्जातः कुरुराजो युधिष्ठिरः।
धर्म इत्येष नृपते प्राज्ञेनामितबुद्धिना॥ 16-30-18 (97966)
यथा वह्निर्यथा वायुर्यथाऽऽपः पृथिवी यथा।
यथाऽऽकाशं तथा धर्म इह चामुत्र च स्थितः॥ 16-30-19 (97967)
सर्वगश्चैव राजेन्द्र सर्वं व्याप्य चराचरम्।
दृश्यते देवदेवैः स सिद्धैर्निर्मुक्तकल्मषैः॥ 16-30-20 (97968)
यो हि धर्मः स विदुरो विदुरो यः स पाण्डवः।
स एष राजन्दृश्यस्ते माण्डवः प्रेष्यवत्स्थितः॥ 16-30-21 (97969)
प्रविष्टः स महात्मानं भ्राता ते बुद्धिसम्मतः।
दृष्ट्वा महात्मा कौन्तेयं महायोगबलान्वितः॥ 16-30-22 (97970)
त्वां चापि श्रेयसा योक्ष्ये नचिराद्भरतर्षभ।
संशयच्छेदनार्थाय प्राप्तं मां विद्धि पुत्रक॥ 16-30-23 (97971)
न कृतं यैः पुरा कैश्चित्कर्म लोके महर्षिभिः।
आश्चर्यभूतं तपसः फलं तद्दर्शयामि वः॥ 16-30-24 (97972)
किमिच्छसि महीपाल मत्तः प्राप्तुमभीप्सितम्।
द्रष्ट्रुं स्प्रष्टुमथ श्रोतुं तत्कर्तास्मि तवानघ॥ ॥ 16-30-25 (97973)
इति श्रीमन्महाभारते आश्रमवासिकपर्वणि आश्रमवासपर्वणि त्रिंशोऽध्यायः॥ 30 ॥
Mahabharata - AshramaVasika Parva - Chapter Footnotes
7-30-6 या परित्यव्य राज्यं स्वमिति क.थ.पाठः॥आश्रमवासिकपर्व - अध्याय 031
॥ श्रीः ॥
16.31. अध्यायः 031
अथ पुत्रदर्शनपर्व ॥ 2 ॥Mahabharata - AshramaVasika Parva - Chapter Topics
धृतराष्ट्राश्रमे भ्रात्रादिभिः सैन्येन च सह मासमेकं निवसति युधिष्ठिरे कदाचन व्यासधृतराष्ट्रौ परिवार्य नारादादिभिर्गान्धार्यादिभिः पाण्डवैश्च समुपवेशनम्॥ 1 ॥ तत्र गान्धार्या व्यासम्प्रति धृतराष्ट्रस्य पुत्रदिदृक्षानिवेदने व्यासेन कुन्तींप्रति तदभीष्टनिवेदनचोदना॥ 2 ॥Mahabharata - AshramaVasika Parva - Chapter Text
जनमेजय उवाच।
वनवासं गते विप्र धृतराष्ट्रे महीपतौ।
सभार्ये नृपशार्दूले वध्वा कुन्त्या समन्विते॥ 16-31-1 (97974)
विदुरे चापि धर्मज्ञे धर्मराजं व्यपश्रिते।
वसत्सु पाण्डुपुत्रेषु सर्वेष्वाश्रममण्डले॥ 16-31-2 (97975)
यत्तदाश्चर्यमिति वै करिष्यामीत्युवाच ह।
व्यासः परमतेजस्वी महर्षिस्तद्वदस्व मे॥ 16-31-3 (97976)
वनवासे च कौरव्याः कियन्तं कालमच्युतः।
युधिष्ठिरो नरपतिर्न्यवसत्सजनस्तदा॥ 16-31-4 (97977)
किमाहाराश्च ते तत्र ससैन्या न्यवसन्प्रभो।
सान्तःपुरा महात्मान एतदिच्छामि वेदितुम्॥ 16-31-5 (97978)
वैशम्पायन उवाच। 16-31-6x (8058)
`वनवासगतं राजन्धृतराष्ट्रं महीपतिम्।
युधिष्ठिरोऽभ्ययाद्द्रष्टुं ससैन्यो भ्रातृभिः सह॥ 16-31-6 (97979)
प्रथमे दिवसे चैषामापो मूलं फलं तथा।
भोजनं भूमिशय्या च तत्रासीद्भरतर्षभ॥ 16-31-7 (97980)
तेऽनुज्ञातास्तदा राजन्कुरुराजेन पाण्डवाः।
विविधान्यन्नपानानि शय्याश्चैवाभजन्वने॥ 16-31-8 (97981)
मासमेकं विजह्रुस्ते ससैन्यान्तःपुरो वने।
अथ तत्रागमद्व्यासो यथोक्तं ते मयाऽनघ॥ 16-31-9 (97982)
तथा च तेषां सर्वेषां कथाभिर्नृपसन्निधौ।
व्यासन्वास्य तं राजन्नाजग्मुर्मुनयोऽपरे॥ 16-31-10 (97983)
नारदः पर्वतश्चैव देवलश्च महातपाः।
विश्वावसुस्तुंबुरुश्च चित्रसेनश्च भारत॥ 16-31-11 (97984)
तेषामपि यथान्यायं पूजां चक्रे महातपाः।
धृतराष्ट्राभ्यनुज्ञातः कुरराजो युधिष्ठिरः॥ 16-31-12 (97985)
निषेदुस्ते ततः सर्वे पूजां प्राप्य युधिष्ठिरात्।
आसनेषु च पुण्येषु बर्हिणेषु वरेषउ च॥ 16-31-13 (97986)
तेषु तत्रोपविष्टेषु स तु राजा महामतिः।
पाण्डुपुत्रैः परिवृतो निषसाद कुरूद्वह॥ 16-31-14 (97987)
गान्धारी चैव कुन्ती च द्रौपदी सात्वती तथा।
स्त्रियश्चान्यास्तथाऽन्याभिः सहोपविविशुस्ततः॥ 16-31-15 (97988)
तेषां तत्र कथा दिव्या धर्मिष्ठाश्चाभवन्नृप।
राजर्षीणां पुराणानां देवासुरविभिश्रिताः॥ 16-31-16 (97989)
ततः कथान्ते व्यासस्तं प्रज्ञाचक्षुषमीश्वरम्।
प्रोवाच वदतांश्रेष्ठः पुनरेव स तद्वचः॥ 16-31-17 (97990)
प्रीयमाणो महातेजाः सर्ववेदविदांवरः।
विदितं मम राजेन्द्र यत्ते हृदि विवक्षितम्॥ 16-31-18 (97991)
दह्यमानस्य शोकेन तव पुत्रकृतेन वै।
गान्धार्याश्चैव यद्दुःखं हृदि तिष्टति नित्यदा॥ 16-31-19 (97992)
कुन्त्याश्च यन्महाराज द्रौपद्याश्च हृदि स्थितम्।
यच्च धारयते तीव्रं दुःखं पुत्रविनाशजम्।
सुभद्रा कृष्णभगिनी तच्चापि विदितं मम॥ 16-31-20 (97993)
श्रुत्वा समागममिमं सर्वेषां वस्ततो नृप।
संशयच्छेदनार्थाय प्राप्तः कौरवनन्दन॥ 16-31-21 (97994)
इमे च देवगन्धर्वाः सर्वे चेमे महर्षयः।
पश्यन्तु तपसो वीर्यमद्य मे चिरसम्भृतम्॥ 16-31-22 (97995)
तदुच्यतां महाप्राज्ञ कं कामं प्रददामि ते।
प्रवणोस्मि वरं दातुं पश्य मे तपसो बलम्॥ 16-31-23 (97996)
एवमुक्तः स राजेन्द्रो व्यासेनामितबुद्धिना।
मुहूर्तमिव संचिन्त्य वचनायोपचक्रमे॥ 16-31-24 (97997)
धन्योस्म्यनुगृहीतश्च सफलं जीवितं च मे।
यन्मे समागमोऽद्येह भवद्भिः सह साधुभिः॥ 16-31-25 (97998)
अद्य चाप्यवगच्छामि गतिमिष्टामिहात्मनः।
ब्रह्मकल्पैर्भवद्भिर्यत्समेतोऽहं तपोधनाः॥ 16-31-26 (97999)
दर्शनादेव भवतां पूतोऽहं नात्र संशयः।
विद्यते न भयं चापि परलोके ममानघाः॥ 16-31-27 (98000)
किंतु तस्य सुदुर्बुद्धेर्मन्दस्यापनयैर्भृशम्।
दूयते मे मनो नित्यं स्मरतः पुत्रगृद्धिनः॥ 16-31-28 (98001)
अपापाः पाण्डवा येन निकृताः पापबुद्धिना।
घातिता पृथिवी येन सहया सनरद्विपा॥ 16-31-29 (98002)
राजानश्च महात्मानो नानाजनपदेश्वराः।
आगम्य मम पुत्रार्थे सर्वे मृत्युवशं गताः॥ 16-31-30 (98003)
ये ते पितॄश्चं दारांश्च प्राणांश्च मनसः प्रियान्।
परित्यज्य गताः शूराः प्रेतराजनिवेशनम्॥ 16-31-31 (98004)
का नु तेषां गतिर्ब्रह्मन्मित्रार्थे ये हता मृधे।
तथैव पुत्रपौत्राणां मम ये निहता युधि॥ 16-31-32 (98005)
दूयते मे मनोऽभीक्ष्णं घातयित्वा महाबलम्।
भीष्मं शान्तनवं वृद्धं द्रोणं च द्विजसत्तमम्॥ 16-31-33 (98006)
मम पुत्रेण मूढेन पापेनाकृतबुद्धिना।
क्षयं नीतं कुलं दीप्तं पृथिवीराज्यमिच्छता॥ 16-31-34 (98007)
`एते मदर्थे पुत्रांश्च दारांश्च मनसः प्रियान्।
भोगांश्च विविधांस्तात इष्टापुर्तांस्तथैव च।
परित्यज्य गताः शूराः प्रेतराजनिवेशनम्॥' 16-31-35 (98008)
एतत्सर्वमनुस्मृत्य दह्यमानो दिवानिशम्।
न शान्तिमधिगच्छामि दुःखशोकसमाहतः॥ 16-31-36 (98009)
इति मे चिन्तयानस्य पितः शान्तिर्न विद्यते॥ 16-31-37 (98010)
वैशम्पायन उवाच। 16-31-38x (8059)
तच्छ्रुत्वा विविधं तस्य राजर्षेः परिदेवितम्।
पुनर्नवीकृतः शोको गान्धार्या जनमेजय॥ 16-31-38 (98011)
कुन्त्या द्रुपदपुत्र्याश्च सुभद्रायास्तथैव च।
तासां च वरनारीणां वधूनां कौरवस्य ह॥ 16-31-39 (98012)
पुत्रशोकसमाविष्टा गान्धारी त्विदमब्रवीत्।
श्वशुरं बद्धनयना देवी प्राञ्जलिरुत्थिता॥ 16-31-40 (98013)
`लोकान्तरगतान्पुत्रानयं काङ्क्षति मानद।
तच्चास्य मासं ज्ञातं भगवंस्तपसा त्वया॥' 16-31-41 (98014)
षोडशेमानि वर्षाणि गतानि मुनिपुङ्गव।
अस्य राज्ञोहतान्पुत्राञ्शोचतो न शमो विभो॥ 16-31-42 (98015)
पुत्रशोकसमाविष्टो निःश्वसन्ह्येष भूमिपः।
न शेते वसतीः सर्वा धृतराष्ट्रो महामुने॥ 16-31-43 (98016)
लोकानन्यान्समर्थोसि स्रष्टुं सर्वांस्तपोबलात्।
किमु लोकान्तरगतान्राज्ञो दर्शयितुं सुतान्॥ 16-31-44 (98017)
इयं च द्रौपदी कृष्णा हतज्ञातिसुता भृशम्।
शोचत्यतीव सर्वासां स्नुषाणां दयिता स्नुषा॥ 16-31-45 (98018)
तथा कृष्णस्य भगिनी सुभद्रा भद्रभाषिणी।
सौभद्रकवधसंतप्ता भृशं शोचति भामिनी॥ 16-31-46 (98019)
इयं च भूरिश्रवसो भार्या परमसम्मता।
भर्तृव्यसनशोकार्ता भृशं शोचति भामिनी॥ 16-31-47 (98020)
यस्यास्तु श्वशुरो धीमान्बाह्लिकः स कुरूद्वहः।
निहतः सोमदत्तश्च पित्रा सह महारणे॥ 16-31-48 (98021)
श्रीमतोस्य महाबुद्धेः सङ्ग्रामेष्वपलायिनः।
पुत्रस्य ते पुत्रशतं निहतं यद्रणाजिरे॥ 16-31-49 (98022)
तस्य भार्याशतमिदं दुःखशोकसमाहतम्।
पुनःपुनर्वर्धयानं शोकं रोज्ञो ममैव च।
हताहारेण महता मामुपास्ते महामुने॥ 16-31-50 (98023)
ये च शूरा महात्मानः श्वशुरा मे महारथाः।
सोमदत्तप्रभृतयः का नु तेषां गतिः प्रभो॥ 16-31-51 (98024)
तव प्रसादाद्भगवन्विशोकोऽयं महीपतिः।
कुर्यात्कालमहं चेयं वधूस्तव महामुने॥ 16-31-52 (98025)
इत्युक्तवत्यां गान्धार्यां कुन्ती व्रतकृशानना।
प्रच्चन्नजातं पुत्रं तु सस्मारादित्यसन्निभम्॥ 16-31-53 (98026)
तामृषिर्वरदो व्यासो दूरश्रवणदर्शनः।
अपश्यद्दुःखितां देवीं मातरं सव्यसाचिनः॥ 16-31-54 (98027)
तामुवाच ततो व्यासो यत्ते कार्यं विवक्षितम्।
तद्बूहि त्वं महाभागे यत्ते मनसि वर्तते॥ 16-31-55 (98028)
श्वशुराय तत कुन्ती प्रणम्य शिरसा तदा।
उवाच वाक्यं सव्रीडा विवृण्वाना पुरातनम्॥ ॥ 16-31-56 (98029)
इति श्रीमन्महाभारते आश्रमवासिकपर्वणि पुत्रदर्शनपर्वणि एकत्रिंशोऽध्यायः॥ 31 ॥
Mahabharata - AshramaVasika Parva - Chapter Footnotes
7-31-13 बर्हिणेषु पक्षिबर्हजतूलिकामयेषु॥ 7-31-50 मामुपास्ते भार्याशतं रोदनं कुर्वत् मामेव परिवार्य तिष्ठतीत्यर्थःआश्रमवासिकपर्व - अध्याय 032
॥ श्रीः ॥
16.32. अध्यायः 032
अथ पुत्रदर्शनपर्व ॥ 2 ॥Mahabharata - AshramaVasika Parva - Chapter Topics
कुन्त्या व्यासंप्रति स्वस्मिन्दुर्वासःप्रसादेन सूर्यात्कर्णस्योत्पत्तिकथनपूर्वकं स्वस्य तद्दिदृक्षानिवेदनम्॥ 1 ॥ व्यासेन कुन्तींप्रति हेतूपन्यासेन तत्प्रयुक्तदोषशङ्कानिरसनम्॥ 2 ॥Mahabharata - AshramaVasika Parva - Chapter Text
कुन्त्युवाच।
भगवञ्श्वशुरो मेऽसि दैवतस्यापि दैवतम्।
स मे देवातिदेवस्त्वं शृणु सत्यां गिरं मम॥ 16-32-1 (98030)
तपस्वी कोपनो विप्रो दुर्वासा नाम मे पितुः।
भिक्षामुपागतो भोक्तुं तमहं पर्यतोषयम्॥ 16-32-2 (98031)
शौचने त्वागसस्त्यागैः शुद्धेन मनसा तथा।
कोपस्थानेष्वपि महत्स्वकुप्यन्न कदाचन॥ 16-32-3 (98032)
स प्रीतो वरदो मेऽभूत्कृतकृत्यो महामुनिः।
अवश्यं ते ग्रहीतव्यमिति मां सोब्रवीद्वचः॥ 16-32-4 (98033)
ततः शापभयाद्विप्रमवोचं पुनरेव तम्।
एवमस्त्विति च प्राह पुनरेव स मे द्विजः॥ 16-32-5 (98034)
धर्मस्य जननी भद्रे भवित्री त्वं शुभानने।
वशे स्थास्यन्ति ते देवा यांस्त्वमावाहयिष्यसि॥ 16-32-6 (98035)
इत्युक्त्वाऽन्तर्हितो विप्रस्ततोऽहं विस्मिताऽभवम्।
न च सर्वास्ववस्थासु स्मृतिर्मे विप्रणश्यति॥ 16-32-7 (98036)
अथ हर्म्यतलस्थाऽहं रविमुद्यन्तमीक्षती।
संस्मृत्य तदृषेर्वाक्यं स्पृहयन्ती दिवाकरम्॥ 16-32-8 (98037)
स्थिताऽहं बालभावेन तत्र दोषमबुद्ध्यती।
अथ देवः सहस्रांशुर्मत्समीपगतोऽभवत्॥ 16-32-9 (98038)
द्विधा कृत्वाऽऽत्मनो देहं भूमौ च गगनेऽपि च।
तताप लोकानेकेन द्वितीयेनागमत्स माम्॥ 16-32-10 (98039)
स मामुवाच वेपन्तीं वरं मत्तो वृणीष्व ह।
गम्यतामिति तं चाहं प्रणम्य सिरसाऽवदम्॥ 16-32-11 (98040)
स मामुवाच तिग्मांशुर्वृथाऽऽह्वानं न मे क्षमम्।
धक्ष्यामि त्वां च विप्रं च येन दत्तो वरस्तव॥ 16-32-12 (98041)
तमहं रक्षती विप्रं शापादनपकारिणम्।
पुत्रो मे त्वत्समो देव भवेदिति ततोऽब्रवम्॥ 16-32-13 (98042)
ततो मां तेजसाऽऽविश्य मोहयित्वा च भानुमान्।
उवाच भविता पुत्रस्तवेत्यभ्यगमद्दिवम्॥ 16-32-14 (98043)
ततोऽहमन्तर्भवने पितुश्चित्तानुरक्षिणी।
गूढोत्पन्नं सुतं बालं जले कर्णमवासृजम्॥ 16-32-15 (98044)
नूनं तस्यैव देवस्य प्रसादात्पुनरेव तु।
कन्याऽहमभवं विप्र यथा प्राह स मामृषिः॥ 16-32-16 (98045)
स मया सूढया पुत्रो ज्ञायमानोऽप्युपेक्षितः।
तन्मां दहति विप्रर्षे यथा सुविदितं तव॥ 16-32-17 (98046)
यदि पापमपापं वा यदेतद्विवृतं मया।
तं द्रष्टुमिच्छामि भगवन्व्यपनेतुं त्वमर्हसि॥ 16-32-18 (98047)
यच्चास्य राज्ञो विदितं हृदिस्थं भवतोऽनघ।
तं चायं लभतां काममद्यैव मुनिसत्तम॥ 16-32-19 (98048)
इत्युक्तः प्रत्युवाचेदं व्यासो वेदविदांवरः।
साधु सर्वमिदं भाव्यमेवमेतद्यथाऽऽत्थ माम्॥ 16-32-20 (98049)
अपराधश्च ते नास्ति कन्याभावं गता ह्यसि।
देवाश्चैश्वर्यवन्तो वै शरीराण्याविशन्ति वै॥ 16-32-21 (98050)
सन्ति देवनिकायाश्च संकल्पाज्जनयन्ति ये।
वाचा दृष्ट्या तथा स्पर्शात्संघर्षेणेति पञ्चधा॥ 16-32-22 (98051)
मनुष्यधर्मो दैवेन धर्मेण हि न दुष्यति।
इति कुन्ति विजानीहि व्येतु ते मानसो ज्वरः॥ 16-32-23 (98052)
सर्वं बलवतां पथ्यं सर्वं बलवतां शुचि।
सर्वं बलवतां धर्मः सर्वं बलवतां स्वकम्॥ ॥ 16-32-24 (98053)
इति श्रीमन्महाभारते आश्रमवासिकपर्वणि पुत्रदर्शनपर्वणि द्वात्रिंशोऽध्यायः॥ 32 ॥
Mahabharata - AshramaVasika Parva - Chapter Footnotes
7-32-3 आगसस्त्यागैरपराधत्यागैः॥ 7-32-22 सघर्षेण रत्या॥आश्रमवासिकपर्व - अध्याय 033
॥ श्रीः ॥
16.33. अध्यायः 033
अथ पुत्रदर्शनपर्व ॥ 2 ॥Mahabharata - AshramaVasika Parva - Chapter Topics
व्यासेन गान्धारींप्रति समरहतानां दुर्योधनादीनां सर्वेषां रात्रौ प्रदर्शनप्रतिज्ञानपूर्वकं धृतराष्ट्रादीनां विशिष्य गन्धर्वाद्यंशत्वकथनम्॥ 1 ॥ धृतराष्ट्रादिभिर्व्यासवचनाद्गङ्गातीरमेत्य बन्धुदर्शनौत्कण्ठ्येन कृच्छ्रादहर्यापनम्। 2 ॥Mahabharata - AshramaVasika Parva - Chapter Text
व्यास उवाच।
भद्रे द्रक्ष्यसि गान्धारि पुत्रान्भ्रातॄन्स्वकान्गणान्।
वधूश्च पतिभिः सार्धं निशि सुप्तोस्थिता इव॥ 16-33-1 (98054)
कर्णं द्रक्ष्यति कुन्ती च सौभद्रं चापि यादवी।
द्रौपदी पञ्चपुत्रांश्च पितॄन्भ्रातॄंस्तथैव च॥ 16-33-2 (98055)
पूर्वमेवैष हृदये व्यवसायोऽभकवन्मम।
यदाऽस्मि चोदितो राज्ञा भवत्या पृथयैव च॥ 16-33-3 (98056)
न ते शोच्या महात्मानः सर्व एव नरर्षभाः।
क्षत्रधर्मपराः सन्तस्तथा हि निधनं गताः॥ 16-33-4 (98057)
भवितव्यमवश्यं तत्सुरकार्यमनिन्दिते।
अवतेरुस्ततः सर्वे देवा भागैर्महीतलम्॥ 16-33-5 (98058)
गन्धर्वाप्सरसश्चैव पिशाचा गुह्यराक्षसाः।
तथा पुण्यजनाश्चैव सिद्धा देवर्षयोपि च॥ 16-33-6 (98059)
देवाश्च दानवाश्चैव तथा देवर्षयोऽमलाः।
ते एते निधनं प्राप्ताः कुरुक्षेत्रे रणाजिरे॥ 16-33-7 (98060)
गन्धर्वराजो यो धीमान्धृतराष्ट्र इति श्रुतः।
स एव मानुषे लोके धृतराष्ट्रः पतिस्तव॥ 16-33-8 (98061)
पाण्डुं मरुद्गणाद्विद्धि विशिष्टतममच्युतम्।
धर्मस्यांशोऽभवत्क्षत्ता राजा चैव युधिष्ठिरः॥ 16-33-9 (98062)
कलिं दुर्योधनं विद्धि शकुनिं द्वापरं नृपम्।
दुःशासनादीन्विद्धि त्वं राक्षसान्शुभदर्शने॥ 16-33-10 (98063)
मरुद्गणाद्भीमसेनं बलवन्तमरिंदमम्।
विद्धिं त्वं तु नरमृषिमिमं पार्थं धनंजयम्।
नारायणं हृषीकेशमश्विनौ यमजौ तथा॥ 16-33-11 (98064)
द्विधा कृत्वाऽऽत्मनो देहमादित्यं तपतां वरम्।
लोकांश्च तापयानं वै कर्णं विद्धि पृथासुतम्॥ 16-33-12 (98065)
यः स वैरार्थमुद्भूतः संघर्षजननस्कतथा।
तं कर्णं विद्धि कल्याणि भास्करं शुभदर्शने॥ 16-33-13 (98066)
यश्च पाण्डवदायादो हतः षङ्मिर्महारथैः।
स सोम इह सौभद्रो योगादेवाभवद्द्विधा॥ 16-33-14 (98067)
द्रौपद्या सह संभूतं धृष्टद्युम्नं च पावकात्।
अग्रेर्भागं शुभं विद्धि राक्षसं तु शिखण्डिनम्॥ 16-33-15 (98068)
द्रोणं बृहस्पतेर्भागं विद्धि द्रौणिं च रुद्रजम्।
गाङ्गेयो वसुवीर्येण देवो मानुषतां गतः॥ 16-33-16 (98069)
एवमेते महाप्रज्ञे देवा मानुष्यमेत्य हि।
ततः पुनर्गताः स्वर्गं कृते कर्मणि शोभने॥ 16-33-17 (98070)
यच्च वै हृदि सर्वेषां दुःखमेतच्चिरं स्थितम्।
तदद्य व्यपनेष्यामि परलोककृताद्भयात्॥ 16-33-18 (98071)
सर्वे भवन्तो गच्छन्तु नदीं भागीरथीं प्रति।
तत्र द्रक्ष्यथ तान्सर्वान्ये हतास्तत्र संयुगे॥ 16-33-19 (98072)
वैशम्पायन उवाच। 16-33-20x (8060)
इति व्यासस्य वचनं श्रुत्वा सर्वा जनस्तदा।
महता सिंहनादेन गङ्गामभिमुखो ययौ॥ 16-33-20 (98073)
धृतराष्ट्रश्च सामात्यः प्रययौ सह पाण्डवैः।
सहितो मुनिशार्दूलैर्गन्धर्वैश्च समागतैः॥ 16-33-21 (98074)
ततो गङ्गां समासाद्य क्रमेण स जनार्णवः।
निवासमकरोत्सर्वो यथाप्रीति यथासुखम्॥ 16-33-22 (98075)
राजा च पाण्डवैः सार्धमिष्टे देशे सहानुगः।
निवासमकरोद्धीमान्सस्त्रीवृद्धपुरःसरः॥ 16-33-23 (98076)
जगाम तदहस्चापि तेषां वर्षशतं यथा।
निशां प्रतीक्षमाणानां दिदृक्षूणां मृतान्नृपान्॥ 16-33-24 (98077)
अथ पुण्यं गिरिवरमस्तमभ्यगमद्रविः।
ततः कृताभिषेकास्ते नैशं कर्म समाचरन्॥ ॥ 16-33-25 (98078)
इति श्रीमन्महाभारते आश्रमवासिकपर्वणि पुत्रदर्शनपर्वणि त्रयस्त्रिंशोऽध्यायः॥ 33 ॥
आश्रमवासिकपर्व - अध्याय 034
॥ श्रीः ॥
16.34. अध्यायः 034
अथ पुत्रदर्शनपर्व ॥ 2 ॥Mahabharata - AshramaVasika Parva - Chapter Topics
व्यासेन निशायां गङ्गाजलावगाहनेन समाह्नाने पुरा समरनिहतैः कुरुपाण्डवोभयपक्षीयैः सर्वैः स्वस्वाभरणायुधवाहनादिभिः सह सलिलादुद्गम्य तीरोत्तरणम्॥ 1 ॥ धृतराष्ट्रेण व्यासप्रसादलब्धदिव्यचक्षुषा दुर्योधनादीनां सर्वेषामवलोकनम्॥ 2 ॥Mahabharata - AshramaVasika Parva - Chapter Text
वैशम्पायन उवाच।
ततो निशायां प्राप्तायां कृतसायाह्निकक्रियाः।
व्यासमभ्यगमन्सर्वे ये तत्रासन्समागताः॥ 16-34-1 (98079)
धृतराष्ट्रस्तु धर्मात्मा पाण्डवैः सहितस्तदा।
शुचिरेकमनाः सार्धमृषिभिस्तैरुपाविशत्॥ 16-34-2 (98080)
गान्धार्या सह नार्यस्तु सहिताः समुपाविशन्।
पौरजानपदश्चापि जनः सर्वो यथा वयः॥ 16-34-3 (98081)
ततो व्यासो महातेजाः पुण्यं भागीरथीजलम्।
अवतीर्याजुहावाथ सँर्वाल्लोकान्महामुनिः॥ 16-34-4 (98082)
पाण्डवानां च ये योधाः कौरवाणां च सर्वशः।
राजानश्च महाभागा नानादेशनिवासिनः।
`प्रतीक्ष्य तस्थुस्ते सर्वे तेषामागमनं प्रति॥' 16-34-5 (98083)
ततः सुतुमुलः शब्दो जलान्ते जनमेजय।
प्रादुरासीद्यथायोगं कुरुपाण्डवसेनयोः॥ 16-34-6 (98084)
ततस्ते पार्थिवाः सर्वे भीष्मद्रोणपुरोगमाः।
ससैन्याः सलिलात्तस्मात्समुत्तस्थुः सहस्रशः॥ 16-34-7 (98085)
विराटद्रुपदौ चैव सहपुत्रौ ससैनिकौ।
द्रौपदेयाश्च सौभद्रो राक्षसश्च घटोत्कचः॥ 16-34-8 (98086)
कर्णदुर्योधनौ चैव शकुनिश्च महारथः।
दुःशासनादयश्चैव धार्तराष्ट्रा महाबलाः॥ 16-34-9 (98087)
जारासन्धिर्भगदत्तो जलसन्धश्च वीर्यवान्।
भूरिश्रवाः शलः शल्यो वृषसेनश्च सानुजः॥ 16-34-10 (98088)
लक्ष्मणो राजपुत्रश्च धृष्टद्युम्नस्सहात्मजः।
शिखण्डिपुत्राः सर्वे च धृष्टकेतुश्च सानुज॥ 16-34-11 (98089)
अचलो वृषकश्चैव राक्षसश्चाप्यलायुधः।
बाह्लिकः सोमदत्तश्च चेकितानश्च पार्थिवः॥ 16-34-12 (98090)
एते चान्ये च बहवो बहुत्वाद्ये न कीर्तिताः।
सर्वे भासुरदेहास्ते समुत्तस्थुर्जलात्ततः॥ 16-34-13 (98091)
यस्य् वीरस्य यो वेषो यो ध्वजो यच्च वाहनम्।
यद्वर्म यत्प्रहरणं तेन तेन स दृश्यते॥ 16-34-14 (98092)
दिव्यांबरधराः सर्वे सर्वे भ्राजिष्णुकुण्डलाः।
निर्वैरा निरहङ्कारा विगतक्रोधमत्सराः॥ 16-34-15 (98093)
गन्धर्वैरुपगीयन्तः स्तूयमानाश्च बन्दिभिः।
दिव्यमाल्यस्रजोपेतास्तथा दिव्याप्सरोवृताः॥ 16-34-16 (98094)
धृतराष्ट्रस्य च तदा दिव्यं चक्षुर्नराधिप।
मुनिः सत्यवतीपुत्रः प्रीतः प्रादात्तपोबलात्॥ 16-34-17 (98095)
दिव्यज्ञानबलोपेता गान्धारी च यशस्विनी।
ददर्श पुत्रांस्तान्सर्वान्ये चान्येऽपि मृघे हताः॥ 16-34-18 (98096)
तदद्भुतमचिन्त्यं च सुमहद्रोमहर्षमम्।
विस्मितः स जनः सर्वो ददर्शानिमिषेक्षणः॥ 16-34-19 (98097)
तदुत्सवमहोदग्रं हृष्टनारीनराकुलम्।
आश्चर्यभूतं ददृशे चित्रं पटगतं यथा॥ 16-34-20 (98098)
धृतराष्ट्रस्तु तान्सर्वान्पश्यन्दिव्येन चक्षुषा।
मुमुदे भरतश्रेष्ठ प्रसादात्तस्य वै मुनेः॥ ॥ 16-34-21 (98099)
इति श्रीमन्महाभारते आश्रमवासिकपर्वणि पुत्रदर्शनपर्वणि चतुस्त्रिंशोऽध्यायः॥ 34 ॥
आश्रमवासिकपर्व - अध्याय 035
॥ श्रीः ॥
16.35. अध्यायः 035
अथ पुत्रदर्शनपर्व ॥ 2 ॥Mahabharata - AshramaVasika Parva - Chapter Topics
धृतराष्ट्रधिष्ठिरादिभिर्ष्यासप्रसादोज्जीवितैर्हतपूर्वबन्धुभिः सह सँल्लापादिना यावद्रात्रिसुखविहरणम्॥ 1 ॥Mahabharata - AshramaVasika Parva - Chapter Text
वैशम्पायन उवाच।
ततस्ते पुरषश्रेष्ठाः समाजग्मुः परस्परम्।
विगतक्रोधमात्सर्याः सर्वे विगतकल्मषाः॥ 16-35-1 (98100)
विधिं परममास्थाय ब्रह्मर्षिविहितं शुभम्।
संहृष्टमनसः सर्वे देवलोक इवामराः॥ 16-35-2 (98101)
पुत्रः पित्रा च मात्रा च भार्याश्च पतिभिः सह।
भ्रात्रा भ्राता सखा चैव सख्या राजन्समागताः॥ 16-35-3 (98102)
पाण्डवास्तु महेष्वासं कर्णं सौभद्रमेव च।
सम्प्रहर्षात्समाजग्मुर्द्रौपदेयांश्चक सर्वशः॥ 16-35-4 (98103)
ततस्ते प्रीयमाणा वै कर्णेन सह पाण्डवाः।
समेत्य पृथिवीपाल सौहृदे च स्थिताऽभवन्॥ 16-35-5 (98104)
परस्परं समागम्य योधास्ते भरतर्षभ।
मुनेः प्रसादात्ते ह्येवं क्षत्रिया नष्टमन्यवः॥ 16-35-6 (98105)
असौहृदं परित्यज्य सौहृदे पर्यवस्थिताः।
एवं समागताः सर्वे गुरुभिर्बान्धवैः सह॥ 16-35-7 (98106)
पुत्रैश्च पुरुषव्याघ्राः कुरवोऽन्ये च पार्थिवाः।
तां रात्रिमकिलामेवं विहृत्य प्रीतमानसाः॥ 16-35-8 (98107)
मेनिरे परितोषेण नृपाः स्वर्गसदो यथा।
नात्र शोको भयं त्रासो नारतिर्नायशोऽभवत्॥ 16-35-9 (98108)
परस्परं समागम्य योधानां भरतर्षभ।
समागतास्ताः पितृभिर्भ्रातृभिः पतिभिः सुतैः।
मुदं परमिकां प्राप्य नार्यो दुःखमथात्यजन्॥ 16-35-10 (98109)
`देवलोकं गता ये च ये च ब्रह्मसदो गताः।
ये चापि वारुणं लोकं ये च गोलोकमाश्रिताः॥ 16-35-11 (98110)
तथा वैवस्वतं लोकं ये च यक्षानुपागताः।
राक्षसांश्च पिशाचांश्च कुरूंश्चापि तथोत्तरान्॥ 16-35-12 (98111)
विचित्राश्च गतीरन्ये ये प्राप्ताः कर्मभिर्नराः।
सर्वे ते तद्वयोरूपवेषास्तत्र समभ्ययुः॥' 16-35-13 (98112)
एकां रात्रिं विहृत्यैवं ते वीरास्ताश्च योषितः।
आमन्त्र्यान्योन्यमाश्लिष्य ततो जग्मुर्यथागतं॥ 16-35-14 (98113)
ततो विसर्जयामास लोकांस्तान्मुनिपुङ्गवः।
क्षणेनान्तर्हिताश्चैव प्रेक्षतामेव तेऽभवन्॥ 16-35-15 (98114)
अवगाह्य महात्मानः पुण्यां भागीरथीं नदीम्।
सरथाः सध्वजाश्चैव स्वानि वेश्मानि भेजिरे॥ 16-35-16 (98115)
देवलोकं ययुः केचित्केचिद्ब्रह्मसदस्तथा।
केचिच्च वारुणं लोकं केचित्कौबेरमाप्नुवन्॥ 16-35-17 (98116)
ततो वैवस्वतं लोकं केचिच्चैवाप्नुवन्नृपाः।
राक्षसानां पिशाचानां केचिच्चाप्युत्तरान्कुरून्॥ 16-35-18 (98117)
विचित्रगतयः सर्वे यानवाप्यामरैः सह।
आजग्मुस्ते महात्मानः सवाहाः सपदानुगाः॥ 16-35-19 (98118)
गतेषु तेषु सर्वेषु सलिलस्थो महामुनिः।
धर्मसीलो महातेजाः कुरूणां हितकृतदा।
ततः प्रोवाच ताः सर्वाः क्षत्रिया निहतेश्वराः। 16-35-20 (98119)
यायाः पतिकृताँल्लोकानिच्छनति परमस्त्रियः।
ता जाह्नवीजलं क्षिप्रमवगाहन्त्वतन्द्रिताः॥ 16-35-21 (98120)
ततस्तस्य वचः श्रुत्वा श्रद्दधाना वराङ्गनाः।
श्वशुरं समनुज्ञाप्य विविशुर्जाह्नवीजलम्॥ 16-35-22 (98121)
विमुक्ता मानुषैर्देहैस्ततस्ता भर्तृभिः सह।
समाजग्मुस्तदा साध्व्यः सर्वा एवं विशाम्पते॥ 16-35-23 (98122)
एवं क्रमेणि सर्वास्ताः शीलवत्यः पतिव्रताः।
प्रविश्य तोयं निर्मुक्ता जग्मुर्भर्तृसलोकताम्॥ 16-35-24 (98123)
दिव्यरूपसमायुक्ता दिव्याभरणभूषिताः।
दिव्यमाल्यांबरधरा यथाऽऽसां पतयस्तथा॥ 16-35-25 (98124)
ताः शीलगुणसम्पन्ना विमानस्था गतक्लुमाः।
सर्वाः सर्वगुणोपेताः स्वस्थानं प्रतिपेदिरे॥ 16-35-26 (98125)
यस्य यस्य तु यः कामस्तस्मिन्काले बभूव ह।
तंतं विसृष्टवान्व्यासो वरदो धर्मवत्सलः॥ 16-35-27 (98126)
तच्छ्रुत्वा नरदेवानां पुनरागमनं नराः।
जहृषुर्मुदिताश्चासन्नानादेशगता अपि॥ 16-35-28 (98127)
`ते नष्टभयसङ्कल्पा नरा विगतकल्मषाः।
बभूवुः पौरवाःसर्वे तद्दृष्ट्वाऽऽश्चर्यमुत्तमम्॥' 16-35-29 (98128)
प्रियैः समागमं तेषां यः सम्यक् शृणुयान्नरः।
प्रियाणि लभते नित्यमिह च प्रेत्य चैव सः।
इष्टबान्धवसंयोगमनायासमनामयम्॥ 16-35-30 (98129)
यश्चैतच्छ्रावयेद्विद्वान्विदुषो धर्मवित्तमः।
स यशः प्राप्नुयाल्लोके परत्र च शुभां गतिम्॥ 16-35-31 (98130)
स्वाध्याययुक्ता मनुजास्तपोयुक्ताश्च भारत।
साध्वाचारा दमोपेता दाननिर्धूतकल्मषाः॥ 16-35-32 (98131)
ऋजवः शुचयः शान्ता हिंसानृतविवर्जिताः।
आस्तिकाः श्रद्दधानाश्च धृतिमन्तश्च मानवाः।
श्रुत्वाऽऽश्चर्यमिदं पर्व ह्यवाप्स्यन्ति परां गतिम्॥ 16-35-33 (98132)
`पुनस्ते दर्शनं प्राप्ताः पुनश्च परिकीर्तिताः।
पुनःपुनः प्रयच्छन्ति शृण्वतामभयं सदा॥' ॥ 16-35-34 (98133)
इति श्रीमन्महाभारते आश्रमवासिकपर्वणि पुत्रदर्शनपर्वणि पञ्चत्रिंशोऽध्यायः॥ 35 ॥
आश्रमवासिकपर्व - अध्याय 036
॥ श्रीः ॥
16.36. अध्यायः 036
अथ पुत्रदर्शनपर्व ॥ 2 ॥Mahabharata - AshramaVasika Parva - Chapter Topics
त्यक्तदेहानामपि कुरुपाण्डवपक्षीयाणां कथं पुनरागमनमिति जनमेजयप्रश्नस्य सोपपत्तिकमुत्तरदानम्॥ 1 ॥Mahabharata - AshramaVasika Parva - Chapter Text
सौतिरुवाच।
एतच्छ्रुत्वा नृपो विद्वान्हृष्टोऽभूज्जनमेजयः।
पितामहानां सर्वेषां गमनागमनं तदा॥ 16-36-1 (98134)
अब्रवीच्च मुदा युक्तः पुनरागमनं प्रति।
कथं न त्यक्तदेहानां पुनस्तद्रूपदर्शनम्॥ 16-36-2 (98135)
इत्युक्तः स द्विजश्रेष्ठो व्यासशिष्यः प्रतापवान्।
प्रोवाच वदतांश्रेष्ठस्तं नृपं जनमेजयम्॥ 16-36-3 (98136)
वैशम्पायन उवाच। 16-36-4x (8061)
अविप्रणाशः सर्वेषां कर्मणामिति निश्चयः।
कर्मजानि शरीराणि शरीराकृतयस्तथा॥ 16-36-4 (98137)
महाभूतानि नित्यानि भूताधिपतिसंश्रयात्।
तेषां च नित्यसंवासो न विनाशो वियुज्यताम्॥ 16-36-5 (98138)
अनाशया कृतं कर्म तस्य चेष्टः फलागमः।
आत्मा चैभिः समायुक्तः सुखदुःखमुपाश्नुते॥ 16-36-6 (98139)
अविनाश्यस्तथा नित्यं क्षेत्रज्ञ इति निश्चयः।
भूतानामात्मभावो यो ध्रुवोसौ संविजानताम्॥ 16-36-7 (98140)
यावन्न क्षीयते कर्म तावत्तस्य स्वरूपता।
क्षीणकर्मा नरो लोके रूपान्यत्वमुपाश्नुते॥ 16-36-8 (98141)
नानाभूतास्तथैकत्वं शरीरं प्राप्य संहताः।
भवन्ति ते तथा नित्याः पृथग्भावं विजानताम्॥ 16-36-9 (98142)
अश्वमेधश्रुतिश्चेयमश्वसंज्ञपनं प्रति।
लोकान्तरगता नित्यं प्राणा नित्या हि वाजिनः॥ 16-36-10 (98143)
अहं हितं वदाम्येतत्प्रियं चेत्तव पार्थिव।
देवयाना हि पन्थानः श्रुतास्ते यज्ञसंस्तरे॥ 16-36-11 (98144)
सुकृतो यत्र यज्ञस्ते तत्र देवा हितास्तव।
यदा समन्विता देवाः पशूनां गमनेश्वराः॥ 16-36-12 (98145)
गमिमन्तश्च तेनेष्ट्वा नान्ये नित्या भवन्त्युत।
नित्येऽस्मिन्पञ्चके वर्गे नित्ये चात्मनि पूरुषः॥ 16-36-13 (98146)
अस्य नाशं समायोगं यः पश्यति वृथामतिः।
वियोगे शोचतेऽत्यर्थं स बाल इति मे मतिः॥ 16-36-14 (98147)
वियोगे दोषदर्शी यः संयोगं स विसर्जयेत्।
असङ्गे सङ्गमो नास्ति दुःखं भावि वियोगजम॥ 16-36-15 (98148)
परापरज्ञस्त्वपरो नाभिमानादुदीक्षितः।
अपरज्ञः परां बुद्धिं स्पृष्ट्वा मोहाद्विमुच्यते॥ 16-36-16 (98149)
अदर्शनादापतितः पुनश्चादर्शनं गतः।
नाहं तं वेद्मि नासौ मां न च मेऽस्ति विरागता॥ 16-36-17 (98150)
येनयेन शरीरेणि करोत्ययमनीश्वरः।
तेनतेन शरीरेण तदवश्यमुपाश्नुते।
मानसं मनसाऽऽप्नोति शरीरं च शरीरवान्॥ ॥ 16-36-18 (98151)
इति श्रीमन्महाभारते आश्रमवासिकपर्वणि पुत्रदर्शनपर्वणि षट्त्रिंशोऽध्यायः॥ 36 ॥
Mahabharata - AshramaVasika Parva - Chapter Footnotes
7-36-10 संज्ञपनं मारणम्॥ 7-36-11 नासौ मानादहङ्कारान्न च वेति विरागतामिति क.पाठः॥आश्रमवासिकपर्व - अध्याय 037
॥ श्रीः ॥
16.37. अध्यायः 037
अथ पुत्रदर्शनपर्व ॥ 2 ॥Mahabharata - AshramaVasika Parva - Chapter Topics
जनमेजयेन परिक्षित्प्रदर्शने प्रार्थिते व्यासेन परिक्षितः शमीकमहर्षः शृङ्गीणश्च प्रदर्शनम्॥ 1 ॥ जनमेजयेनावभृथस्नानानन्तरमास्तिकपूजनपूर्वकं वैशम्पायनंप्रति कथावशेषकथनप्रार्थना॥ 2 ॥Mahabharata - AshramaVasika Parva - Chapter Text
वैशम्पायन उवाच।
अदृष्ट्वा तु नृपः पुत्रान्दर्शनं प्रतिलब्धवान्।
ऋषेः प्रसादात्पुत्राणां स्वरूपाणां कुरूद्वह॥ 16-37-1 (98152)
स राजा राजधर्मांश्च ब्रह्मोपनिषदं तथा।
अवाप्तवान्नरश्रेष्ठो बुद्धिनिश्चयमेव च। 16-37-2 (98153)
विदुरश्च महाप्राज्ञो ययौ सिद्धिं तपोबलात्।
धृतराष्ट्रः समासाद्य व्यासं चैव तपस्विनम्॥ 16-37-3 (98154)
जनमेजय उवाच। 16-37-4x (8062)
ममापि वरदो व्यासो दर्शयेत्पितरं यदि।
तद्रूपवेषवयसं श्रद्दध्यां सर्वमेव तत्॥ 16-37-4 (98155)
प्रियं मे स्यात्कृतार्थश्च स्यामहं कृतनिश्चयः।
प्रसादादृषिमुख्यस्य मम कामः समृद्ध्यताम्॥ 16-37-5 (98156)
सौतिरुवाच। 16-37-6x (8063)
इत्युक्तवचने तस्मिन्नृपे व्यासः प्रतापवान्।
प्रसादमकरोद्धीमानानयच्च परिक्षितम्॥ 16-37-6 (98157)
ततस्तद्रूपवयसमागतं नृपतिं दिवः।
श्रीमन्तं पितरं राजा ददर्श स परीक्षितम्॥ 16-37-7 (98158)
शमीकं च महात्मानं पुत्रं तं चास्य शृङ्गिणम्।
अमात्या ये च निहता राज्ञस्तांश्च ददर्श ह॥ 16-37-8 (98159)
ततः सोवभृथे राजा मुदितो जनमेजयः।
पितरं स्नापयामास स्वयं सस्नौ च पार्थिवः॥ 16-37-9 (98160)
`परीक्षिदपि तत्रैव बभूव स तिरोहितः।'
स्नात्वा स नृपतिर्विप्रमास्तीकमिदमब्रवीत्।
यायावरकुलोत्पन्नं जरत्कारुसुतं तदा॥ 16-37-10 (98161)
आस्तीक विविधाश्चर्यो यज्ञेऽयमिति मे मतिः।
यदद्यायं पिता प्राप्तो मम शोकप्रणाशनः॥ 16-37-11 (98162)
आस्तीक उवाच। 16-37-12x (8064)
ऋषिर्द्वैपायनो यत्र पुराणस्तपसो निधिः।
यज्ञे कुरुकुलश्रेष्ठ तस्य लोकावुभौ जितौ॥ 16-37-12 (98163)
श्रुतं विचित्रमाख्यानं त्वया पाण्डवनन्दन।
सर्पाश्च भस्मसान्नीता गताश्च पदवीं पितुः॥ 16-37-13 (98164)
कथंचित्तक्षको मुक्तः सत्यत्वात्तव पार्थिव।
ऋषयः पूजिताः सर्वे गतिर्दृष्टा महात्मनः॥ 16-37-14 (98165)
प्राप्तः सुविपुलो धर्मः श्रुत्वा पापविनाशनम्।
विमुक्तो हृदयग्रन्थिरुदारजनदर्शनात्॥ 16-37-15 (98166)
ये च पक्षधरा धर्मे सद्वृत्तरुचयश्च ये।
यान्दृष्ट्वा हीयते पापं तेभ्यः कार्या नमस्क्रिया॥ 16-37-16 (98167)
सौतिरुवाच। 16-37-17x (8065)
एतच्छ्रुत्वा द्विजश्रेष्ठात्स राजा जनमेजयः।
पूजयामास तमृषिमनुमान्य पुनःपुनः॥ 16-37-17 (98168)
पप्रच्छ तमृषि चापि वैशम्पायनमच्युतम्।
कथावशेषं धर्मज्ञो वनवासस्य सत्तम॥ ॥ 16-37-18 (98169)
इति श्रीमन्महाभारते आश्रमवासिकपर्वणि पुत्रदर्शनपर्वणि सप्तत्रिंशोऽध्यायः॥ 37 ॥
Mahabharata - AshramaVasika Parva - Chapter Footnotes
7-37-2 स धृतराष्ट्रो राजा विदुरश्च सिद्धिं ययौ इति द्वयोः सम्बन्धः। तत्रापि विदुरस्तपोबलात्। धृतराष्ट्रो व्यासं समासाद्येति सम्बन्धः॥ 7-37-15 पापविनाशं इतिहासमिति शेषः॥ 7-37-16 पक्षधराः पक्षस्थापकाः॥आश्रमवासिकपर्व - अध्याय 038
॥ श्रीः ॥
16.38. अध्यायः 038
अथ पुत्रदर्शनपर्व ॥ 2 ॥Mahabharata - AshramaVasika Parva - Chapter Topics
धृतराष्ट्रेण पुत्रदर्शनानन्तरं युधिष्ठिरादिभिः सह पुनः स्वाश्रमंप्रत्यागमनम्॥ 1 ॥ व्यासेन धृताष्ट्रंप्रति युधिष्ठिरादीनां नगरप्रस्थापनचोदना॥ 2 ॥ नगरंप्रति पुनरागमनमनिच्छतापि युधिष्ठिरेण धृतराष्ट्रस्य कुन्तीगान्धार्योश्च निदेशनिर्बन्धेन पुनः सर्वैःसह हास्तिनपुरं प्रत्यागमनम्॥ 3 ॥Mahabharata - AshramaVasika Parva - Chapter Text
जनमेजय उवाच।
दृष्ट्वा पुत्रांस्तथा पौत्रान्सानुबन्धाञ्जनाधिपः।
धृतराष्ट्रः किमकरोद्राजा चैव युधिष्ठिरः॥ 16-38-1 (98170)
वैशम्पायन उवाच। 16-38-2x (8066)
तद्दृष्ट्वा महदाश्चर्यं पुत्राणां दर्शनं पुनः।
वीतशोकः स राजर्षिः पुनराश्रममागमत्॥ 16-38-2 (98171)
इतरस्तु जनः सर्वस्ते चैव परमर्षयः।
प्रतिजग्मुर्यथाकामं धृताराष्ट्राभ्यनुज्ञया॥ 16-38-3 (98172)
पाण्डवास्तु महात्मानो लघुभूयिष्ठसैनिकाः।
अनुजग्मुर्महात्मानं सदारास्तं महीपतिम्॥ 16-38-4 (98173)
तमाश्रमगतं धीमान्ब्रह्मर्षिर्लोकपूजितः।
द्वैपायनोऽभ्युपागम्य राजानमिदम्नब्रवीत्॥ 16-38-5 (98174)
धृताष्ट्र महाबाहो शृणु कौरवनन्दन।
श्रुतास्ते ज्ञानवृद्धानामृषीणां पुण्यकर्मणाम्॥ 16-38-6 (98175)
अद्धाभिजनवृद्धानां वेदवेदाङ्गवेदिनाम्।
धर्मज्ञानां पुराणानां वदतां विविधाः कथाः॥ 16-38-7 (98176)
मा स्म शोके मनः कार्षीर्दिष्टे न व्यथते बुधः।
श्रुतं देवरहस्यं ते नारदाद्देवदर्शनात्॥ 16-38-8 (98177)
गतास्ते क्षत्रधर्मेण शस्त्रपूतां गतिं शुभाम्।
यथा दृष्टास्त्वया पुत्रास्तथा कामविहारिणः॥ 16-38-9 (98178)
युधिष्ठिरः स्वयं धीमान्भवन्तमनुरुध्यते।
सहितो भ्रातृभिः सर्वैःइ सदारः ससुहृज्जनः॥ 16-38-10 (98179)
विसर्जयैनं यात्वेष स्वराज्यमनुशासताम्।
मासः समधिकस्तेषामतीतो वसतां वने॥ 16-38-11 (98180)
एतद्धि नित्यं यत्नेन पदं रक्ष्यं नराधिप।
बहुप्रत्यर्थिकं ह्येतद्राज्यं नाम कुरूद्वह॥ 16-38-12 (98181)
इत्युक्तः कौरवो राजा व्यासेनामितबुद्धिना।
युधिष्ठिरमथाहूय वाग्मी वचनमब्रवीत्॥ 16-38-13 (98182)
अजातशत्रो भद्रं ते शृणु मे भ्रातृभिः सह।
त्वत्प्रसादान्महीपाल शोको नास्मान्प्रबाधते॥ 16-38-14 (98183)
रमे चाहं त्वया पुत्र पुरेव गजसाहये।
नाथेनानुगतो विद्वन्प्रियेषु परिवर्तिना॥ 16-38-15 (98184)
प्राप्तं पुत्रफलं त्वत्तः प्रीतिर्मे परमा त्वयि।
न मे मन्युर्महाबाहो गम्यतां मा चिरं कृथाः॥ 16-38-16 (98185)
भवन्तं चेह संप्रेक्ष्य तपो मे परिहीयते।
उपयुक्तं शरीरं च त्वां दृष्ट्वा धारितं पुनः॥ 16-38-17 (98186)
मातरौ ते तथैवेमे शीर्णपर्णकृताशने।
मम तुल्यव्रते पुत्र न चिरं वर्तयिष्यतः॥ 16-38-18 (98187)
दुर्योधनप्रभृतयो दृष्टा लोकान्तरं गताः।
व्यासस्य तपसो वीर्याद्भवतश्च समागमात्॥ 16-38-19 (98188)
प्रयोजनं चिरं वृत्तं जीवितस्य ममानघ।
उग्रं तपः समास्थास्येत्वमनुज्ञातुमर्हसि॥ 16-38-20 (98189)
त्वय्यद्य पिण्डः कीर्तिश्च कुलं चेदं प्रतिष्ठितम्।
श्वोवाऽद्य वा महाबाहो गम्यतां माचिरं कृथाः॥ 16-38-21 (98190)
राजनीतिः सुबहुशः श्रुता ते भरतर्षभ।
संदेष्टव्यं न पश्यामि कृतमेतावता विभो॥ 16-38-22 (98191)
वैशम्पायन उवाच। 16-38-23x (8067)
इत्युक्तवचनं तं तु नृपो राजानमब्रवीत्।
न मामर्हसि धर्मज्ञ परित्यक्तुमनागसम्॥ 16-38-23 (98192)
कामं गच्छन्तु मे सर्वे भ्रातरोऽनुचरास्तथा।
भवन्तमहमन्विष्ये मातरौ च यतव्रतः॥ 16-38-24 (98193)
तमुवाचाथ गान्धारी मैवं पुत्र शृणुष्व च।
त्वय्यधीनं कुरुकुलं पिण्डश्च श्वशुरस्य मे॥ 16-38-25 (98194)
गम्यतां पुत्र पर्याप्तमेतावत्पूजिता वयम्।
राजा यदाह तत्कार्यं त्वया पुत्र पितुर्वचः॥ 16-38-26 (98195)
वैशम्पायन उवाच। 16-38-27x (8068)
इत्युक्तः स तु गान्धार्या कुन्तीमिदमभाषत।
स्नेहबाष्पाकुले नेत्रे परिमृज्य विनीतवत्॥ 16-38-27 (98196)
विसर्जयति मां राजा गान्धारी च यशस्विनी।
भवत्यां बद्धचित्तस्तु कथं यास्यामि दुःखितः॥ 16-38-28 (98197)
न चोत्सहे तपोविघ्नं कर्तुं ते धर्मचारिणि।
तपसो हि परं नास्ति तपसा विन्दते महत्॥ 16-38-29 (98198)
ममापि न तथा राज्ञि राज्ये बुद्धिर्यथा पुरा।
तपस्येवानुरक्तं मे मनः सर्वात्मना तथा॥ 16-38-30 (98199)
शून्येयं च मही कृत्स्ना न मे प्रीतिकरी शुभे।
बान्धवा नः परिक्षीणा बलं नो न यथा पुरा॥ 16-38-31 (98200)
पाञ्चालाः सुभृशं क्षीणाः कन्यामात्रावशेषिताः।
न तेषां कुलकर्तारं कञ्चित्पश्याम्यहं शुभे॥ 16-38-32 (98201)
सर्वे हि भस्मासान्नीतास्ते द्रोणेन रणाजिरे।
अवशिष्टाश्च निहता द्रोणपुत्रेण वै निशि।
चेदयश्चैव मत्स्याश्च दृष्टपूर्वास्तथैव नः॥ 16-38-33 (98202)
केवलं वृष्णिचक्रं च वासुदेवपरिग्रहात्।
यद्दृष्ट्वा स्थातुमिच्छामि धर्मार्थं नार्थहेतुतः॥ 16-38-34 (98203)
शिवेन पश्य नः सर्वान्दुर्लभं तव दर्शनम्।
भविष्यत्यंब राजा हि तीव्रं चारप्स्यते तपः॥ 16-38-35 (98204)
एतच्छ्रुत्वा महाबाहुः सहदेवो युधांपतिः।
युधिष्ठिरमुवाचेदं बाष्पव्याकुललोचनः॥ 16-38-36 (98205)
नोत्सहेऽहं परित्यक्तुं मातरं भरतर्षभ।
प्रतियातु भवान्क्षिप्रं तपस्तप्स्याम्यहं वने॥ 16-38-37 (98206)
इहैव शोषयिष्यामि तपसेदं कलेवरम्।
पादशुश्रूषणेरक्तो राज्ञो मात्रोस्तथाऽनयोः॥ 16-38-38 (98207)
तमुवाच ततः कुन्ती परिष्वज्य महाभुजम्।
गम्यतां पुत्र मैवं त्वं वोचः कुरु वचो मम॥ 16-38-39 (98208)
आगमा वः शिवाः सन्तु स्वस्था भवत पुत्रकाः।
उपरोधो भवेदेवमस्माकं तपसः कृते॥ 16-38-40 (98209)
त्वत्स्नेहपाशबद्धा च हीयेयं तपसः परात्।
तस्मात्पुत्रक गच्छ त्वं शिष्टमल्पं च नः प्रभो॥ 16-38-41 (98210)
एवं संस्तंभितं वाक्यैः कुन्त्या बहुविधैर्मनः।
सहदेवस्य राजेन्द्र राज्ञश्चैव विशेषतः॥ 16-38-42 (98211)
ते मात्रा समनुज्ञाता राज्ञा च कुरुपुङ्गवाः।
अभिवाद्य कुरुश्रेष्ठमामन्त्रयितुमारभन्॥ 16-38-43 (98212)
युधिष्ठिर उवाच। 16-38-44x (8069)
राज्यं प्रति गमिष्यामः शिवेन प्रतिनन्दितः।
अनुज्ञातास्त्वया राजन्गमिष्यामो विकल्मषाः॥ 16-38-44 (98213)
एवमुक्तः स राजर्षिर्धर्मराज्ञा महात्मना।
अनुयज्ञे जयाशीर्भिः पूजयित्वा युधिष्ठिरम्॥ 16-38-45 (98214)
भीमं च बलिनां श्रेष्ठं सान्त्वयामास पार्थिवः।
स चास्य सम्यङ्मेधावी प्रत्यपद्यत वीर्यवान्॥ 16-38-46 (98215)
अर्जुनं च समाश्लिष्य यंमौ च भरतर्षभौ।
अनुयज्ञे स कौरव्यः परिष्वज्याभिनन्द्य च॥ 16-38-47 (98216)
गान्धार्या चाभ्यनुज्ञाताः कृतपादाभिवादनाः।
जनन्या समुपाघ्राताः परिष्वक्ताश्च ते नृपम्॥ 16-38-48 (98217)
चक्रुः प्रदक्षिणं सर्वे वत्सा इव निवारणे।
पुनः पुनर्निरीक्षन्तः प्रचक्रुस्ते प्रदक्षिणम्॥ 16-38-49 (98218)
द्रौपदीप्रमुखाश्चैव सर्वाः कौरवयोषितः।
न्यायतः श्वशुरे वृत्तिं प्रयुज्य प्रययुस्ततः॥ 16-38-50 (98219)
श्वश्रूभ्यां समनुज्ञाताः परिष्वज्याभिनन्दिताः॥
संदिष्टाश्चेतिकर्तव्यं प्रययुर्भर्तृभिः सह॥ 16-38-51 (98220)
ततः प्रजज्ञे निनदः सूतानां युज्यतामिति।
उष्ट्राणां क्रोशतां चापि हयानां हेषतामपि॥ 16-38-52 (98221)
ततो युधिष्ठिरो राजा सदारः सहसैनिकः।
नगरं हास्तिनपुरं पुनरायात्सबान्धवः॥ ॥ 16-38-53 (98222)
इति श्रीमन्महाभारते आश्रमवासिकपर्वणि पुत्रदर्शनपर्वणि अष्टत्रिंशोऽध्यायः॥ 38 ॥ ॥ समाप्तं चेदं पुत्रदर्शनपर्व ॥ 2 ॥
Mahabharata - AshramaVasika Parva - Chapter Footnotes
7-38-12 बहवः प्रत्यर्थिनः प्रार्थयानाः शत्रवो यत्र तत्॥ 7-38-15 नाथेन त्वया॥ 7-38-24 अन्विष्ये सेविष्ये॥ 7-38-32 कथामात्रावशेषिता इति झ.पाठः॥ 7-38-35 अविषह्यं च राजा हीति झ.पाठः॥ 7-38-41 श्रेयसः परादीति क.ट.पाठः। शिष्ठमायुरिति शेषः॥ 7-38-49 निवारणे स्तनपानादिति शेषः॥ 7-38-50 तथैव द्रौपदी भद्रा पाण्ड्यजा भुजगेन्द्रजेति क.ठ.थ.पाठः॥आश्रमवासिकपर्व - अध्याय 039
॥ श्रीः ॥
16.39. अध्यायः 039
अथ नारदागमनपर्व ॥ 3 ॥Mahabharata - AshramaVasika Parva - Chapter Topics
कदाचन हास्तिनपुरमुपागतेन नारदेन पाण्डवान्प्रति धृतराष्ट्रादीनां स्वर्गप्राप्तिनिवेदनम्॥ धृतराष्ट्रे गान्धारीकुन्तीसञ्जयैः सह गङ्गायामाप्लुत्य स्वाश्रममागच्छति सति मध्येमार्गं दावाग्निना तत्परीवेष्टनम्॥ धृरराष्ट्रेण सञ्जय प्रत्यप्नितो दूरापसरणप्रेरणापूर्वकं कुन्तीगान्धारीभ्यां सह वन्हौ प्रवेशनम्॥ 3 ॥ ततः सञ्जयेन हिमवत्पर्वतंप्रति गमनम्॥ 4 ॥Mahabharata - AshramaVasika Parva - Chapter Text
वैशम्पायन उवाच।
तेषु चोपनिवृत्तेषु पाण्डवेषु यदृच्छया।
देवर्षिर्नारदो राजन्नाजगाम युधिष्ठिरम्॥ 16-39-1 (98223)
तमभ्यर्च्य महाबाहुः कुरुराजो युधिष्ठिरः।
आसीनं परिविश्वस्तं प्रोवाच वदतांवरः॥ 16-39-2 (98224)
चिरात्तु नानुपश्यामि भगवन्तमुपस्थितम्।
कच्चित्ते कुशलं विप्र शुभं वा प्रत्युपस्थितम्॥ 16-39-3 (98225)
के देशाः परिदृष्टास्ते किं च कार्यं करोमि ते।
तद्ब्रूहि द्विजमुख्यस्त्वं ह्यस्माकं च प्रियोऽतिथिः। 16-39-4 (98226)
नारद उवाच। 16-39-5x (8070)
चिरदृष्टोसि मेऽत्येवमागतोऽहं तपोवनात्।
परिदृष्टानि तीर्थानि गङ्गा चैव मया नृप॥ 16-39-5 (98227)
युधिष्ठिर उवाच। 16-39-6x (8071)
वदन्ति पुरुषा मेऽद्य गङ्गातीरनिवासिनः।
धृतराष्ट्रं महात्मानमास्थितं परमं तपः॥ 16-39-6 (98228)
अपि दृष्टस्त्वया तत्र कुशली स कुरूद्वहः।
गान्धारी च पृथा चैव सूतपुत्रश्च संजयः॥ 16-39-7 (98229)
कथं च वर्तते चाद्य पिता मम स पार्थिवः।
श्रोतुमिच्छामि भगवन्यदि दृष्टस्त्वया नृपः॥ 16-39-8 (98230)
नारद उवाच। 16-39-9x (8072)
स्थिरीभूय महाराज शृणु वृत्तं यथातथम्।
यथाश्रुतं च दृष्टं च मया तस्मिंस्तपोवने॥ 16-39-9 (98231)
वनवासनिवृत्तेषु भवत्सु कुरुनन्दन।
कुरुक्षेत्रात्पिता तुभ्य गङ्गाद्वारं ययौ नृप॥ 16-39-10 (98232)
गान्धार्या सहितो धीमान्वध्वा कुन्त्या समन्वितः।
संजयेन च सूतेन साग्निहोत्रः सयाजकः॥ 16-39-11 (98233)
आतस्थे स तपस्तीव्रं पिता तव तपोधनः।
अग्निं मुखे समाधाय वायुभक्षोऽभवन्मुनिः॥ 16-39-12 (98234)
वने स मुनिभिः सर्वैः पूज्यमानो महातपाः।
त्वगस्थिमात्रशेषः स षण्मासानभवन्नृपः॥ 16-39-13 (98235)
गान्धारी तु जलाहारी कुन्ती मासोपवासिनी।
संजयः षष्ठभुक्तेन वर्तयामास भारत॥ 16-39-14 (98236)
अग्नींस्तु याजकास्तत्र जुहुवुर्विधिवत्प्रभो।
दृश्यतोऽदृश्यतश्चैव वने तस्मिन्नृपस्य वै॥ 16-39-15 (98237)
अनिकेतोथ राजा स बभूव वनगोचरः।
ते चापि सहिते देव्यौ संजयश्च तमन्वयुः॥ 16-39-16 (98238)
संजयो नृपतेर्नेता समेषु विषमेषु च।
गान्धार्याश्च पृथा चैव चक्षुरासीदनिन्दिता॥ 16-39-17 (98239)
ततः कदाचिद्गङ्गायाः कच्छे स नृपसत्तमः।
गङ्गायामाप्लुतो धीमानाश्रमाभिमुखो ययौ॥ 16-39-18 (98240)
अथ वायुः समुद्भुतो दावाग्निरभवन्महान्।
ददाह तद्वनं सर्वं परिगृह्य समन्ततः॥ 16-39-19 (98241)
दह्यत्सु मृगयूथेषु द्विजिह्वेषु समन्ततः।
वराहाणां च यूथेषु संश्रयत्सु जलाशयान्॥ 16-39-20 (98242)
सम्प्रदीप्ते वने तस्मिन्प्राप्ते व्यसन उत्तमे।
निराहारतया राजा मन्दप्राणविचेष्टितः।
असमर्थोऽपसरणे सुकृशे मातरौ च ते॥ 16-39-21 (98243)
ततः स नृपतिर्दृष्ट्वा वह्निमायान्तमन्तिकात्।
इदमाह ततः सूतं संजयं जयतांवरः॥ 16-39-22 (98244)
गच्छ संजय यत्राग्निर्न त्वां दहति कर्हिचित्।
वयमत्राग्निना युक्ता गमिष्यामः परां गतिम्॥ 16-39-23 (98245)
तमुवाच किलोद्विग्नः संजयो वदतांवरः।
राजन्मृत्युरनिष्टोऽयं भविता ते वृथाऽग्निना॥ 16-39-24 (98246)
न चोपायं प्रपश्यामि मोक्षणे जातवेदसः।
यदत्रानन्तरं कार्यं तद्भवान्वक्तुमर्हति॥ 16-39-25 (98247)
इत्युक्तः संजयेनेदं पुनराह स पार्थिवः।
नैष मृत्युरनिष्टो नो निःसृतानां गृहात्स्वयम्॥ 16-39-26 (98248)
जलमग्निस्तथा वायुरथवाऽपि विकर्षणम्।
तापसानां प्रशस्यं ते गच्च संजय माचिरम्॥ 16-39-27 (98249)
इत्युक्त्वा संजयं राजा समाधाय मनस्तथा।
प्राङ्मुखः सह गान्धार्या कुन्त्या चोपाविशत्तदा॥ 16-39-28 (98250)
संजयस्तं तथा दृष्ट्वा प्रदक्षिणमथाकरोत्।
उवाच चैनं मेधावी युङ्क्ष्वात्मानमिति प्रभो॥ 16-39-29 (98251)
ऋषिपुत्रो मनीषी स राज चक्रेऽस्य तद्वचः।
सन्निरुध्येन्द्रियग्राममासीत्काष्ठोपमस्तदा॥ 16-39-30 (98252)
गान्धारी च महाभागा जननी च पृथा तव।
दावाग्निना समायुक्ते स च राजा पिता तव॥ 16-39-31 (98253)
संजयस्तु महाप्राज्ञस्तस्माद्दावादमुच्यत।
गङ्गाकूले मया दृष्टस्तापसैः परिवारितः॥ 16-39-32 (98254)
स तानामन्त्र्य तेजस्वी निवेद्यैतच्च सर्वशः।
प्रययौ संजयो धीमान्हिमवन्तं महीधरम्॥ 16-39-33 (98255)
एवं स निधनं प्राप्तः कुरुराजो महामनाः।
गान्धारी च पृथा चैव जनन्यौ ते विशाम्पते॥ 16-39-34 (98256)
यदृच्छयाऽनुव्रजता मया राज्ञः कलेवरम्।
तयोश्च देव्योरुभयोर्मया दृष्टानि भारत॥ 16-39-35 (98257)
ततस्तपोवने तस्मिन्समाजग्मुस्तपोधनाः।
श्रुत्वा राज्ञस्तदा निष्ठां न त्वशोचन्गतीश्च ते॥ 16-39-36 (98258)
तत्राश्रौषमहं सर्वमेतत्पुरुषसत्तम।
यथा च नृपतिर्दग्धो देव्यौ ते चेति पाण्डव॥ 16-39-37 (98259)
न शोचितव्यं राजेन्द्र स्वर्गस्थः पृथिवीपतिः।
प्राप्तवानग्निसंयोगं गान्धारी जननी च ते॥ 16-39-38 (98260)
वैशम्पायन उवाच। 16-39-39x (8073)
एतच्छ्रुत्वा च सर्वेषां पाण्डवानां महात्मनाम्।
निर्याणं धृतराष्ट्रस्य शोकः समभवन्महान्॥ 16-39-39 (98261)
अन्तःपुराणां च तदा महानार्तस्वरोऽभवत्।
पौराणां च महाराज श्रुत्वा राज्ञस्तदा गतिम्॥ 16-39-40 (98262)
अहो धिगिति राजा तु विक्रुश्य भृशदुःखितः।
ऊर्ध्वबाहुः स्मरन्मातुः प्ररुरोद युधिष्ठिरः॥ 16-39-41 (98263)
भीमसेनपुरोगाश्च भ्रातरः सर्व एव ते।
`रुरुदुर्दुःखसंतप्ता वर्णयन्तः पृथां तदा॥ 16-39-42 (98264)
अन्तःपुरेषु च तदा सुमहान्रुदितस्वनः।
प्रादुरासीन्महाराज पृथां श्रुत्वा तथागताम्॥ 16-39-43 (98265)
तं च वृद्धं तथा दग्धं हतपुत्रं नराधिपम्।
अन्वशोचन्त ते सर्वे गान्धारीं च तपस्विनीम्॥ 16-39-44 (98266)
तस्मिन्नुपरते शब्दे मुहूर्तादिव भारत।
निगृह्य बाष्पं धैर्येण धर्मराजोऽब्रवीदिदम्॥ ॥ 16-39-45 (98267)
इति श्रीमन्महाभारते आश्रमवासिकपर्वणि नारदागमनपर्वणि एकोनचत्वारिंशोऽध्यायः॥ 39 ॥
Mahabharata - AshramaVasika Parva - Chapter Footnotes
7-39-1 द्विवर्षोपनिवृत्तेष्विति झ.पाठः॥ 7-39-5 मे मयाऽतिचिरं दृष्टोऽसीत्यर्थः॥ 7-39-12 मुखे पिण्डान्समाधायेति क.ट.पाठः। वीटां मुखे समाधायेति झ.पाठः॥ 7-39-15 दृश्यतोऽदृश्यत इति। पश्यन्तमपश्यन्तं चानादृत्येत्यर्थः। नियमेन सान्निध्या भावात्॥ 7-39-27 विकर्षणं अनशनम्॥ 7-39-30 ऋषिपुत्रो व्यासपुत्र इति योगसमार्थ्यं सूचितम्॥आश्रमवासिकपर्व - अध्याय 040
॥ श्रीः ॥
16.40. अध्यायः 040
अथ नारदागमनपर्व ॥ 3 ॥Mahabharata - AshramaVasika Parva - Chapter Topics
युधिष्ठिरेण धृतराष्ट्रादिनिधनश्रवणेन भ्रातृभिः सह सकरुणं परिदेवनपूर्वकं सतिसंस्कृताग्नौ तेषां वृथाग्निना दाहं प्रत्यनुशोचनम्॥ 1 ॥Mahabharata - AshramaVasika Parva - Chapter Text
युधिष्ठिर उवाच।
तथा महात्मनस्तस्य तपस्युग्रे च तस्थुषः।
अनाथस्येव निधनं तिष्ठत्स्वस्मासु बन्धुषु॥ 16-40-1 (98268)
दुर्विज्ञेया गतिर्ब्रह्मन्पुरुषाणां मतिर्मम।
यत्र वैचित्रवीर्योसौ दग्ध एवं वनाग्निना॥ 16-40-2 (98269)
यस्य पुत्रशतं श्रीमदभवद्बाहुशालिनः।
नागायुतबलो राजा स दग्धो हि दवाग्निना॥ 16-40-3 (98270)
यं पुरा पर्यवीजन्त तालवृन्तैर्वरस्त्रियः।
तं गृध्राः पर्यवीजन्त दावाग्निपरिकालितम्॥ 16-40-4 (98271)
सूतमागधसङ्घैश्च शयानो यः प्रबोध्यते।
धरण्यां स नृपः शेते विकृष्टो गृध्रवायसैः॥ 16-40-5 (98272)
न च शोचामि गान्धारीं हतपुत्रां यशस्विनीम्।
पतिलोकमनुप्राप्तां तथा भर्तृव्रते स्थिताम्॥ 16-40-6 (98273)
पृथामेव च शोचामि या पुत्रैश्वर्यमृद्धिमत्।
उत्सृज्य् सुमहद्दीप्तं वनवासमरोचयत्॥ 16-40-7 (98274)
धिग्राज्यमिदमस्माकं धिग्बलं धिक्पराक्रमम्।
क्षत्रधर्मं च धिग्यस्मान्मृता जीवामहे वयम्॥ 16-40-8 (98275)
सुसूक्ष्मा किल लोकस्य गतिर्द्विजवरोत्तम।
यत्समुत्सृज्य राज्यं सा वनवासमरोचयत्॥ 16-40-9 (98276)
युधिष्ठिरस्य जननी भीमस्य विजयस्य च।
अनाथवत्कथं दग्धा इति मुह्यामि चिन्तयन्॥ 16-40-10 (98277)
वृथा संतर्पितो वह्निः खाण्डवे सव्यसाचिना।
उपकारमजानन्स कृतघ्न इति मे मतिः॥ 16-40-11 (98278)
यत्रादहत्स भगवान्मातरं सव्यसाचिनः।
कृत्वा यो ब्राह्मणच्छद्म भिक्षार्थी समुपागतः॥ 16-40-12 (98279)
धिगग्निं धिक् च पार्थस्य विश्रुतां सत्यसन्धताम्।
इदं कष्टतरं चान्यद्भगवन्प्रतिभाति मे॥ 16-40-13 (98280)
वृथाऽग्निना समायोगो यदभूत्पृथिवीपतेः।
तथा तपस्विनस्तस्य राजर्षेः कौरवस्य ह॥ 16-40-14 (98281)
कथमेवंविधो मृत्युः प्रशास्य पृथिवीमिमाम्॥ 16-40-15 (98282)
तिष्ठत्सु मन्त्रपूतेषु तस्याग्निषु महावने।
वृथाऽग्निना समायुक्तो निष्ठां प्राप्तः पिता मम॥ 16-40-16 (98283)
मन्ये पृथा वेपमाना कृशा धमनिसंतता।
हा तात धर्मराजेति मामाक्रन्दन्महाभये॥ 16-40-17 (98284)
भीम पर्याप्नुहि भयादिति चैवाभिवाशती।
समन्ततः परिक्षिप्ता माताऽभून्मे दवाग्निना॥ 16-40-18 (98285)
सहदेवः प्रियस्तस्याः पुत्रेभ्योधिक एव तु।
न चैनां मोक्षयामास वीरो माद्रवतीसुतः॥ 16-40-19 (98286)
तच्छ्रुत्वा रुरुदुः सर्वे समालिङ्ग्य परस्परम्।
पाण्डवाःक पञ्च दुःखार्ता भूतानीव युगक्षये॥ 16-40-20 (98287)
तेषां तु पुरुषेन्द्राणां रुदतां रुदितस्वनः।
प्रासादाभोगसंरुद्धे अन्वरौत्सीत्स रोदसी॥ ॥ 16-40-21 (98288)
इति श्रीमन्महाभारते आश्रमवासिकपर्वणि नारदागमनपर्वणि चत्वारिंशोऽध्यायः॥ 40 ॥
आश्रमवासिकपर्व - अध्याय 041
॥ श्रीः ॥
16.41. अध्यायः 041
अथ नारदागमनपर्व ॥ 3 ॥Mahabharata - AshramaVasika Parva - Chapter Topics
नारदेन युधिष्ठिरंप्रति दृथराष्ट्रादिदाहकाग्नेर्मन्त्रपूतत्वकथनम्॥ 1 ॥ युधिष्ठिरेण युयुत्सुपुरस्कारेण गान्धारीधृतराष्ट्रयो रुदकदानपूर्वकं कुन्त्याश्च विधिवच्छ्राद्धदानम्॥ 2 ॥ ततो नारदगमनानन्तरं प्रजापालनेन निजनगरे भ्रात्रादिभिः सह सुखविहारः॥ 3 ॥Mahabharata - AshramaVasika Parva - Chapter Text
नारद उवाच।
नासौ वृथाऽग्निना दग्धो यथा तत्र श्रुतं मया।
वैचित्रवीर्यो नृपतिर्न ते शोच्यो नराधिप॥ 16-41-1 (98289)
वनं प्रविशतानेन वायुभक्षेण धीमता।
अग्नयः कारयित्वेष्टिमुत्सृष्टा इति नः श्रुतम्॥ 16-41-2 (98290)
याजकास्तु ततस्तस्य तानग्नीन्निर्जने वने।
समुत्सृज्य यथाकामं जग्मुर्भरतसत्तम॥ 16-41-3 (98291)
स विवृद्धस्तदा वह्निर्वने तस्मिन्नभूत्किल।
तेन तद्वनमादीप्तमिति ते तापसाऽब्रुवन्॥ 16-41-4 (98292)
स राजा जाह्नवीतीरे यथा ते कथितं मया।
तेनाग्निना समायुक्तः स्वेनैव भरतर्षभ॥ 16-41-5 (98293)
एवमावेदयामासुर्मुनयस्ते ममानघ।
ये ते भागीरथीतीरे मया दृष्टा युधिष्ठिर॥ 16-41-6 (98294)
एवं स्वेनाग्निना राजा समायुक्तो महीपते।
मा शोचिथास्त्वं नृपतिं गतः स परमां गतिम्॥ 16-41-7 (98295)
गुरुशुश्रूषया चैव जननी ते जनाधिप।
प्राप्ता सुमहतीं सिद्धिमिति मे नात्र संशयः॥ 16-41-8 (98296)
कर्तुमर्हसि राजेन्द्र तेषां त्वमुदकक्रियाम्।
भ्रातृभिः सहितः सर्वैरेतदत्र विधीयताम्॥ 16-41-9 (98297)
वैशम्पायन उवाच। 16-41-10x (8074)
ततः स पृथिवीपालः पाण्डवानां धुरंधरः।
निर्ययौ सहसोदर्यः सदारश्च नरर्षभः॥ 16-41-10 (98298)
पौरजानपदाश्चैव राजभक्तिपुरस्कृताः।
गङ्गां प्रजग्मुरभितो वाससैकेन संवृताः॥ 16-41-11 (98299)
ततोऽवगाह्य सलिले सर्वे तु कुरुपुङ्गवाः।
युयुत्सुमग्रतः कृत्वा ददुस्तोयं महात्मने॥ 16-41-12 (98300)
गान्धार्याश्च पृथायाश्च विधिवन्नामगोत्रतः।
शाचं निवर्तयन्तस्ते तत्रोषुर्नगराद्बहिः॥ 16-41-13 (98301)
प्रेषयामास स नरान्विधिज्ञानाप्तकारिणः।
गङ्गाद्वारं कुरुश्रेष्ठो यत्र दग्धोऽभवन्नृपः। 16-41-14 (98302)
तत्रैव तेषां तुल्यानि गङ्गाद्वारेऽन्वशात्तदा।
कर्तव्यानीति पुरुषान्दत्तदेयान्महीपतिः॥ 16-41-15 (98303)
द्वादशेऽहनि तेभ्यः स कृतशौचो नराधिपः।
ददौ श्राद्धानि विधिवद्दक्षइणावन्ति पाण्डवः॥ 16-41-16 (98304)
धृतराष्ट्रं समुद्दिश्य ददौ स पृथिवीपतिः।
सुवर्णं रजतं गाश्च शय्याश्च सुमहाधनाः॥ 16-41-17 (98305)
गान्धार्याश्चैव तेजस्वी पृथायाश्च पृथक्पृथक्।
सङ्कीर्त्य नामनी राजा ददौ दानमनुत्तमम्॥ 16-41-18 (98306)
यो यदिच्छति यावच्च तावत्स लभते द्विजः।
शयनं भोजनं यानं मणिरत्नमथो धनम्॥ 16-41-19 (98307)
यानमाच्छादनं भोगान्दासीश्च समलङ्कृताः।
ददौ राजा समुद्दिश्य तयोर्मात्रोर्महीपतिः॥ 16-41-20 (98308)
ततः स पृथिवीपालो दत्त्वा श्राद्धान्यनेकशः।
प्रविवेश पुनर्धीमान्नगरं वारणाह्वयम्॥ 16-41-21 (98309)
ते चापि राजवचनात्पुरुषा ये गताऽभवन्।
सङ्कल्प्य तेषां कुल्यानि पुनः प्रत्यागमंस्ततः॥ 16-41-22 (98310)
माल्यैर्गन्धैश्च विविधैरर्चयित्वा यथाविधि।
कुल्यानि तेषां संयोज्य तदाचख्युर्महीपतेः॥ 16-41-23 (98311)
समाश्वास्य तु राजानं धर्मात्मानं युधिष्ठिरम्।
नारदोप्यगमत्प्रीतः परमर्षिर्यथोप्सितम्॥ 16-41-24 (98312)
एवं वर्षाण्यतीतानि धृतराष्ट्रस्य धीमतः।
वनवासे तथा त्रीणि नगरे दशपञ्च च॥ 16-41-25 (98313)
हतपुत्रस्य सङ्ग्रामे दानानि ददतः सदा।
ज्ञातिसम्बन्धिमित्राणां भ्रातॄणां स्वजनस्य च॥ 16-41-26 (98314)
युधिष्ठिरस्तु नृपतिर्नातिप्रीतमनास्तदा।
धारयामास तद्राज्यं निहतज्ञातिबान्धवः॥ ॥ 16-41-27 (98315)