||४. विराटपर्व ||
विराटपर्व -अध्याय ००१
||श्रीः ||
४. १. अध्यायः १
Mahabharata -Virata Parva -Chapter Topics
युधिष्ठिरेण ब्राह्मणाय मृगापहृतारणिभाण्डप्रत्यर्पणम् ||१ ||
धौम्येन ब्राह्मणमध्ये दुर्योधनापनयादिकथनेन शोचतो
युधिष्ठिरस्य दुःखानुभवविषये देवादिनिदर्शनप्रदर्शनेन
परिसान्त्वनम् ||२ ||
पाण्डवैः स्वसहचरब्राह्मणाभ्यनुज्ञानसंपादनेन तद्वितर्जनपूर्वकं
धौम्येनसह मन्त्राय क्वचिदुपवेशनम् ||३ ||
Mahabharata -Virata Parva -Chapter Text
४-१-० (२८११५)
||श्रीवेदव्यासाय नमः ||४-१-०क्ष् (२९६७)
नारायणं नमस्कृत्य नरं चैव नरोत्तमम् |
देवीं सरस्वतीं व्यासं ततो जयमुदीरयेत् ||४-१-१ (२८११६)
||जनमेजय उवाच |
कथं विराटनगरे मम पूर्वपितामहाः |
अज्ञातवासमुषिता दुर्योधनभयार्दिताः ||४-१-२क्ष् (२९६८)
पतिव्रता महाभागा सततं सुखभागिनी |
द्रौपदी सा कथं ब्रह्मन्नज्ञाता दुःखिताऽवसत् ||४-१-२ (२८११७)
ते च ब्राह्मणमुख्याश्च सूतपौरोगवैः सह |
अज्ञातवासमुषिताः कथं च परिचारकाः ||४-१-३ (२८११८)
वैशम्पायन उवाच. ४-१-४क्ष् (२९६९)
यथा विराटनगरे तव पूर्वपितामहाः |
अज्ञातवासमुषितास्तावद्वक्ष्यामि तच्छृणु ||४-१-४ (२८११९)
तथा स तान्वराँल्लब्ध्वा धर्मराजो युधिष्ठिरः |
गत्वाऽऽश्रमं ब्राह्मणेभ्य आचख्यौ वृत्तमात्मनः ||४-१-५ (२८१२०)
कथयित्वा च तत्सर्वं ब्राह्मणेभ्यो युधिष्ठिरः |
अरणीसहितं भाण्डं ब्राह्मणाय न्यवेदयत् ||४-१-६ (२८१२१)
ततो युधिष्ठिरो राजा कुन्तीपुत्रो दृढव्रतः |
समाहूयानुजान्सर्वानिति होवाच भारत ||४-१-७ (२८१२२)
द्वादशेमानि वर्षाणि राष्ट्राद्विप्रोषिता वयम् |
छद्मना हृतराज्याश्च निस्वाश्च बहुशः कृताः ||४-१-८ (२८१२३)
उषिताश्च वने वासं यथा द्वादश वत्सरान् |
अज्ञातचर्यां वत्स्यामश्छन्ना वर्षं त्रयोदशम् ||४-१-९ (२८१२४)
वैशम्पायन उवाच. ४-१-१०क्ष् (२९७०)
धर्मेण तेऽभ्यनुज्ञाताः पाण्डवाः सत्यविक्रमाः |
अज्ञातवासं वत्स्यन्तश्छन्ना वर्षं त्रयोदशम् ||४-१-१० (२८१२५)
उपोपविश्य विद्वांसः स्नातकाः संशितव्रताः |
ये तत्र ब्राह्मणा आसन्वनवाससहायिनः |
ये च भक्ता वसन्ति स्म वनवासे तपस्विनः ||४-१-११ (२८१२६)
तानब्रुवन्महात्मानो हृष्टाः प्राञ्जलयः स्थिताः |
अभ्यनुज्ञापयिष्यन्तस्तान्प्रवासे धृतव्रताः ||४-१-१२ (२८१२७)
विदितं भवतां सर्वं धार्तराष्ट्रैर्यथा वयम् |
छद्मना हृतराज्याश्च निस्वाश्च बहुशः कृताः ||४-१-१३ (२८१२८)
उषिताश्च वने वासं यथा द्वादशवत्सरान् |
भवद्भिरेव सहिता वन्याहारा द्विजोत्तमाः ||४-१-१४ (२८१२९)
अज्ञातवाससमयं शेषं वर्षं त्रयोदशम् |
तद्वत्स्यामो वयं छन्नास्तदनुज्ञातुमर्हथ ||४-१-१५ (२८१३०)
सुयोधनश्च दुष्टात्मा कर्णश्च सहसौबलः |
जानन्तो विषमं कुर्युरस्मास्वत्यन्तवैरिणः ||४-१-१६ (२८१३१)
युक्तचाराश्च यत्ताश्च दाये स्वस्य जनस्य च |
दुरात्मनां हि कस्तेषां विश्वासं गन्तुमर्हति ||४-१-१७ (२८१३२)
अपि नस्तद्भवेद्भूयो यद्वयं ब्राह्मणैः सह |
समस्तेषु च राष्ट्रेषु स्वराज्यस्था भवेम हि ||४-१-१८ (२८१३३)
इत्युक्त्वा दुःखशोकार्तः शुचिर्धर्मसुतस्तदा |
संमूर्च्छितोऽभवद्राजा सास्रकण्ठो युधिष्ठिरः ||४-१-१९ (२८१३४)
तमथाश्वासयन्सर्वे ब्राह्मणा भ्रातृभिः सह ||४-१-२० (२८१३५)
प्रबुध्य दुःखमोहार्तो धौम्यं धर्मभृतांवरम् |
प्रावैक्षत तदा राजा साश्रुकण्ठो युधिष्ठिरः ||४-१-२१ (२८१३६)
अथ धौम्योऽब्रवीद्वाक्यं महार्थं नृपतिं तदा |
आश्वासयंस्तं स नृपं भ्रातॄंश्च ब्राह्मणैः सह ||४-१-२२ (२८१३७)
राजन्विद्वान्भवान्दान्तः सत्यसन्धो जितेन्द्रियः |
नैवंविधाः प्रमुह्यन्ति धीराः कस्यांचिदापदि ||४-१-२३ (२८१३८)
देवैरप्यापदः प्राप्ताश्छन्नैश्च बहुभिस्तदा |
तत्रतत्र सपत्नानां निग्रहार्थं महात्मभिः ||४-१-२४ (२८१३९)
दितिपुत्रैर्हृते राज्ये देवराजः सुदुःखितः |
ब्रह्माणं तोषयिष्यंश्च ब्रह्मरूपं विधाय च ||४-१-२५ (२८१४०)
इन्द्रेण निषधं प्राप्य गिरिप्रस्थाह्वये पुरे |
छन्नेनोष्य कृतं कर्म द्विषतां बलनिग्रहे ||४-१-२६ (२८१४१)
प्रसादाद्ब्रह्मणो राजन्दितेः पुत्रान्महाबलान् |
निर्जित्य तरसा शत्रून्पुनर्लोकाञ्जुगोप च ||४-१-२७ (२८१४२)
विष्णुनाऽश्मगिरिं प्राप्य तदा दित्यां निवत्स्यता |
गर्भे वधार्थं दैत्यानामज्ञातेनोषितं चिरम् ||४-१-२८ (२८१४३)
प्रोष्य वामनरूपेण च्छन्नेन ब्रह्मचारिणा |
बलेर्यथा हृतं राज्यं विक्रमैस्तच्च ते श्रुतम् ||४-१-२९ (२८१४४)
और्वेण वसता छन्नमूरौ ब्रह्मर्षिणा तदा |
यत्कृतं तात लोकेषु तच्च सर्वं श्रुतं त्वया ||४-१-३० (२८१४५)
प्रच्छन्नेनापि सर्वत्र हरिणा वृत्रनिग्रहे |
वज्रं प्रविश्य शक्रस्य यत्कृतं तच्च ते श्रुतम् ||४-१-३१ (२८१४६)
हुताशनेन यच्चापः प्रविश्य च्छन्नमूषितम् |
विबुधानां हि यत्कर्म कृतं तच्चापि ते श्रुतम् ||४-१-३२ (२८१४७)
यथा विवस्वता तात छन्नेनोत्तमतेजसा |
निर्दग्धाः शत्रवः सर्वे वसता गवि वर्षशः ||४-१-३३ (२८१४८)
विष्णुना वसता चात्र गृहे दशरथस्य वै |
दशग्रीवो हतश्छन्नं संयुगे भीमकर्मणा ||४-१-३४ (२८१४९)
एवमेते महात्मानः प्रच्छन्नास्तत्रतत्र हि |
अजयञ्छात्रवान्मुख्यांस्तथा त्वमपि जेष्यसि ||४-१-३५ (२८१५०)
वैशम्पायन उवाच. ४-१-३६क्ष् (२९७१)
इति धौम्येन धर्मज्ञो वाक्यैः स परिहर्षितः |
शान्तबुद्धिः पुनर्भूत्वा व्यष्टम्भत युधिष्ठिरः ||४-१-३६ (२८१५१)
अथाब्रवीन्महाबाहुर्भीमसेनो महाबलः |
राजानं बलिनां श्रेष्ठो गिरा संपरिहर्षयन् ||४-१-३७ (२८१५२)
अवेक्षय महाराज तव गाण्डीवधन्वना |
धर्मार्थपरया बुद्ध्या न किंचित्साहसं कृतम् ||४-१-३८ (२८१५३)
सहदेवो मया नित्यं नकुलश्च निवारितौ |
शक्तौ विध्वंसने तेषां शत्रुघ्नौ भीमविक्रमौ ||४-१-३९ (२८१५४)
न वयं वर्त्म हास्यामो यस्मिन्योक्ष्यति नो भवान् |
तद्विधत्तां भवान्सर्वं क्षिप्रं जेष्यामहे परान् ||४-१-४० (२८१५५)
इत्युक्तो भीमसेनेन धर्मराजो युधिष्ठिरः |
सुखोपविष्टो विद्वद्भिस्तापसैः संशितव्रतैः ||४-१-४१ (२८१५६)
ये तद्भक्त्याऽभवंस्तस्मिन्वनवासे तपस्विनः |
तानब्रवीन्महाप्राज्ञः शिष्टान्राजा कृताञ्जलिः |
अभ्यनुज्ञापयिष्यन्वै तस्मिन्वासे धृतव्रतः ||४-१-४२ (२८१५७)
विदितं भवतां सर्वे र्धार्तराष्ट्रैर्यथा वयम् |
संमन्त्राहृतराज्याश्च निस्स्वाश्च बहुशः कृताः |
उषिताः स्मो वने कृच्छ्रं तथा वर्षाणि द्वादश ||४-१-४३ (२८१५८)
अज्ञातचर्यासमयं शेषं वर्षं त्रयोदशम् |
तद्वत्स्यामः क्वचिच्छन्नास्तदनुज्ञातुमर्हथ ||४-१-४४ (२८१५९)
इत्युक्ता धर्मराजेन ब्राह्मणाः परमाशिषः |
प्रयुज्यापृच्छ्य भरतान्यथास्वं प्रययुर्गृहान् ||४-१-४५ (२८१६०)
सर्वे वेदविदो मुख्या यतयो मुनयस्तदा |
आशीरुक्त्वा यथान्यायं पुनर्दर्शनकाङ्क्षिणः ||४-१-४६ (२८१६१)
ते तु भृत्याश्च दूताश्च शिल्पिनः परिचारकाः |
अनुज्ञाप्य यथान्यायं पुनर्दर्शनकाङ्क्षिणः ||४-१-४७ (२८१६२)
सह धौम्येन विद्वांसस्तथा ते पञ्च पाण्डवाः |
उत्थाय प्रययुर्वीराः कृष्णामादाय भारत ||४-१-४८ (२८१६३)
क्रोशमात्रमतिक्रम्य तस्माद्वासान्निमित्ततः |
श्वोभूते मनुजव्याघ्राश्छन्नवासार्थमुद्यताः ||४-१-४९ (२८१६४)
पृथक् शास्त्रविदः सर्वे सर्वे मन्त्रविशारदाः |
सन्धिविग्रहतत्वज्ञा मन्त्राय समुपाविशन् ||||४-१-५० (२८१६५)
इति श्रीमन्महाभारते विराटपर्वणि पाण्डवप्रवेशपर्वणि
प्रथमोऽध्यायः ||१ ||
Mahabharata -Virata Parva -Chapter Footnotes
४-१-१अयमध्यायो झो पुस्तके वनपर्वान्तिमाध्यायतया वर्तते | विराटो |
विराटपर्व -अध्याय ००२
||श्रीः ||
४. २. अध्यायः २
Mahabharata -Virata Parva -Chapter Topics
युधिष्ठिरेण भ्रातृभिः सह मन्त्रणेन विराटनगरे निवासनिर्धारणम्
||१ ||
तथा स्वस्य यतिवेपपरिग्रहेण विराटसभास्तारीभवनकथनम् ||२ ||
Mahabharata -Virata Parva -Chapter Text
४-२-० (२८१६६)
वैशम्पायन उवाच | ४-२-०क्ष् (२९७२)
निवृत्तवनवासास्ते सत्यसन्धा मनस्विनः |
अकुर्वत पुनर्मन्त्रं सह धौम्येन पाण्डवाः ||१ ||४-२-१ (२८१६७)
अथाब्रवीद्धर्मराजः कुन्तीपुत्रो युधिष्ठिरः |
भ्रातॄन्कृष्णां च संग्रेक्ष्य धौम्यं च कुरुनन्दनः ||२
||४-२-२ (२८१६८)
द्वादशेमानि वर्षाणि राज्याद्विप्रोषिता वयम् |
त्रयोदशोऽयं संप्राप्तः कृच्छ्रात्परमदुर्वसः |
स साधु कौन्तेय इतो वासमर्जुन रोचय ||३ ||४-२-३ (२८१६९)
त्रयोदशमिदं प्राप्तं क्वनु वत्स्यामहेऽर्जुन |
अबुद्धा धार्तराष्ट्रैश्च समग्राः सह कृष्णया ||४ ||४-२-४ (२८१७०)
अर्जुन उवाच. ४-२-५क्ष् (२९७३)
तस्यैव वरदानेन धर्मस्य मनुजाधिप |
अज्ञाता विचरिष्यामो नराणां भरतर्षभ ||५ ||४-२-५ (२८१७१)
यानि राष्ट्राणि वासाय कीर्तयिष्यामि कानिचित् |
रमणीयानि गुप्तानि तेषां किंचित्तु रोचय ||६ ||४-२-६ (२८१७२)
रम्या जनपदाः सन्ति बहवस्त्वभितः कुरून् |
पाञ्चालाश्चैव मत्स्याश्च साल्ववैदेहबाह्लिकाः |
दशार्णाः शूरसेनाश्च कलिङ्गा मागधा अपि ||७ ||४-२-७ (२८१७३)
विराटनगरं चापि श्रूयते शत्रुसूदन |
रमणीयं जनाकीर्णं सुभिक्षं स्फीतमेव च ||८ ||४-२-८ (२८१७४)
नानाराष्ट्राणि चान्यानि श्रूयन्ते सुबहूनि च |
यत्र ते रोचते राजंस्तत्र गच्छामहे वयम् ||९ ||४-२-९ (२८१७५)
कतमस्मिञ्जनपदे महाराज निवत्स्यसि |
मा विषादे मनः कार्यं राज्यभ्रंश इति क्वचित् ||१० ||४-२-१० (२८१७६)
युधिष्ठिर उवाच. ४-२-११क्ष् (२९७४)
एवमेतन्महाबाहो यथा स भगवान्प्रभुः |
अब्रवीत्सर्वभूतेशस्तथैतन्न तदन्यथा ||११ ||४-२-११ (२८१७७)
अवश्यं त्वेव वासार्थं रमणीयं शिवं सुखम् |
संमन्त्र्य सहितैः सर्वैर्द्रव्यमकुतोऽभयम् ||१२ ||४-२-१२ (२८१७८)
मात्स्यो विराटो बलवानभिरक्तोथ पाण्डवान् |
धर्मशीलो वदान्यश्च वृद्धः सत्स्वपि संमतः ||१३ ||४-२-१३ (२८१७९)
गुणवाँल्लोकविख्यातो दृढभक्तिर्जितेन्द्रियः |
तत्र मे रोचते पार्थ मत्स्यराजान्तिकेऽनघ ||१४ ||४-२-१४ (२८१८०)
विराटनगरे तात मासान्द्वादशसंमितान् |
कुर्वन्तस्तस्य कर्माणि वसामो यदि रोचते ||१५ ||४-२-१५ (२८१८१)
यानियानि च कर्माणि तस्य शक्ष्यामहे वयम् |
कर्तुं यो यत्स तत्कर्म ब्रवीतु कुरुनन्दन ||१६ ||४-२-१६ (२८१८२)
अर्जुन उवाच ||४-२-१६क्ष् (२९७५)
नरदेव कथं कर्म तस्य राष्ट्रे करिष्यसि |
मनुजेन्द्र विराटस्य रंस्यसे केन कर्मणा ||१७ ||४-२-१७ (२८१८३)
अक्लिष्टवेषधारी च धार्मिको ह्यनसूयकः |
न तवाभ्युचितं कर्म नृशंसं नापि कैतवम् ||१८ ||४-२-१८ (२८१८४)
सत्यवागसि याज्ञीको लोभक्रोधविवर्जितः |
मृदुर्वदान्यो ह्रीमांश्च धार्मिकः सत्यविक्रमः ||१९ ||४-२-१९ (२८१८५)
स राजंस्तपसा क्लिष्टः कथं तस्य करिष्यसि |
न दुःखमुचितं किंचिद्राजन्पापमतेर्यथा |
स इमामापदं प्राप्य कथं घोरां तरिष्यसि ||२० ||४-२-२० (२८१८६)
वैशम्पायन उवाच. ४-२-२१क्ष् (२९७६)
अर्जुनेनैवमुक्तस्तु प्रत्युवाच युधिष्ठिरः |
शृणु त्वं यत्करिष्यामि कर्म वै कुरुनन्दन ||२१ ||४-२-२१ (२८१८७)
विराटं समनुप्राप्य राजानं मात्स्यनन्दनम् |
सभास्तारो भविष्यामि विराटस्येति मे मतिः ||२२ ||४-२-२२ (२८१८८)
कङ्को नाम ब्रुवाणोऽहं मताक्षः साधुदेविता |
वैडूर्यान्काञ्चनान्दानान्स्फाटिकान्राजतानपि ||२३ ||४-२-२३ (२८१८९)
कृष्णाक्षाँल्लोहिताक्षांश्च निवप्स्यामि मनोरमान् |
अरिष्टान्राजगोलिङ्गान्दर्शनीयान्सुवर्चसः ||२४ ||४-२-२४ (२८१९०)
लोहिताश्चाश्मगर्भाश्च सन्ति तात धनानि मे |
दर्शनीयाः सभानन्दाः कुशलैः साधुनिष्ठिताः ||२५ ||४-२-२५ (२८१९१)
अप्येतान्पाणिना स्पृष्ट्वा संप्रहृष्यन्ति मानवाः ||२६ ||४-२-२६ (२८१९२)
तान्विकीर्य समे देशे रमणीये विपांसुले |
देविष्यामि यथाकामं स विहारो भविष्यति ||२७ ||४-२-२७ (२८१९३)
कङ्को नाम्ना परिव्राट् च विराटस्य सभासदः |
ज्योतिषे शकुनज्ञाने निमित्ते चाक्षकौशले |
ब्राह्मे वेदे मयाऽधीते वेदाङ्गेषु च सर्वशः ||२८ ||४-२-२८ (२८१९४)
धर्मकामार्थमोक्षेषु नीतिशास्त्रेषु पारगः |
पृष्टोऽहं कथयिष्यामि राज्ञः प्रियतमं वचः ||२९ ||४-२-२९ (२८१९५)
आसं युधिष्ठिरस्याहं पुरा प्राणसमः सखा |
इति वक्ष्यामि राजानं यदि मामनुयोक्ष्यते ||३० ||४-२-३० (२८१९६)
विराटनगरे छन्न एवं युक्तः सदा वसे |
इत्येवं मे प्रतिज्ञातं विचरिष्याम्यहं यथा ||३१ ||४-२-३१ (२८१९७)
इति श्रीमन्महाभारते विराटपर्वणि पाण्डवप्रवेशपर्वणि
द्वितीयोऽध्यायः ||२ ||
विराटपर्व -अध्याय ००३
||श्रीः ||
४. ३. अध्यायः ३
Mahabharata -Virata Parva -Chapter Topics
भीमेन युधिष्ठिरंप्रति स्वस्य सूदवेषपरिग्रहेण
विराटभवने निवासकथनम् ||अर्जुनेन युधिष्ठिरंप्रति स्वेन
नपुंसकवेषपरिग्रहेण राजकन्यानाटनादिकथनम् ||
Mahabharata -Virata Parva -Chapter Text
४-३-० (२८१९८)
वैशम्पायन उवाच. ४-३-०क्ष् (२९७७)
एवं निर्दिश्य चात्मानं निश्वसन्नुष्णमार्तिजम् |
विमुञ्चन्नश्रु नेत्राभ्यां भीमसेनमुवाच ह ||४-३-१ (२८१९९)
भीमसेन कथं कर्म मात्स्यराष्ट्रे करिष्यसि |
हत्वा क्रोधवशांस्तत्र पर्वते गन्धमादने ||४-३-२ (२८२००)
यक्षान्क्रोधाभिताम्राक्षान्राक्षसांश्चापि पौरुषात् |
प्रादाः पाञ्चालकन्यायै पद्मानि सुबहून्यपि ||४-३-३ (२८२०१)
बकं राक्षसराजानं भीषणं पुरुषादकम् |
जघ्निवानसि कौन्तेय ब्राह्मणार्थमरिन्दम |
क्षेमा चाभयसंवीता सैकचक्रा त्वया कृता ||४-३-४ (२८२०२)
हिडिम्बं च महावीर्यं किर्मीरं चैव राक्षसम् |
त्वया हत्वा महाबाहो वनं निष्कण्टकं कृतम् ||४-३-५ (२८२०३)
आपदं चापि संप्राप्ता द्रौपदी चारुहासिनी |
जटासुरवधं कृत्वा वयं च परिमोक्षिताः ||४-३-६ (२८२०४)
मत्स्यराजांन्तिके तात वीर्यपूर्णोऽत्यमर्षणः |
वृकोदर विराटस्य बलीयान्दुर्बलीयसः |
समीपे नगरे तस्य वत्स्यसे केन कर्मणा ||४-३-७ (२८२०५)
भीम उवाच. ४-३-८क्ष् (२९७८)
सूदोऽहं वललो नाम्ना सूपकारो नराधिप |
उपस्थास्यामि राजानं विराटमिति रोचये ||४-३-८ (२८२०६)
रसान्नानाविधांश्चापि स्वादूंश्च मधुरांस्तथा |
सूपांश्चापि करिष्यामि कुशलोस्मि महानसे ||४-३-९ (२८२०७)
कृतपूर्वाणि यान्यस्य व्यञ्जनानि सुशिक्षितैः |
तान्यप्यभिभविष्यामि प्रीतिं संजनयन्नहम् ||४-३-१० (२८२०८)
पूर्वमप्राशितांस्तेन कर्ता रसगुणान्वितान् |
स्वादु व्यञ्जनमास्वाद्य मात्स्यः प्रीतो भविष्यति ||४-३-११ (२८२०९)
आहरिष्यामि दारूणां पाटितानां शतंशतम् |
राजा कर्माणि मे दृष्ट्वा न मां परिभविष्यति ||४-३-१२ (२८२१०)
ये च तस्य महामल्लाः समरेष्वपराजिताः |
कृतप्रतापा बहुशो राज्ञः प्रत्यायिता बले ||४-३-१३ (२८२११)
रङ्गोपजीविनः सर्वे परेषां च भयावहाः |
तानहं निहनिष्यामि रतिं राज्ञः प्रवर्तयन् ||४-३-१४ (२८२१२)
न च तान्युध्यमानोऽहं नयिष्ये यमसादनम् |
तथा तान्निहनिष्यामि जीविष्यन्ति यथाऽऽतुराः ||४-३-१५ (२८२१३)
वृषो वा महिषो वापि नागो वा षाष्टिहायनः |
सिंहो व्याघ्रो ग्रहीतव्यो भविष्यति न संशयः ||४-३-१६ (२८२१४)
तान्सर्वान्दुर्ग्रहानन्यैराशीविषविषोपमान् |
बलादहं ग्रहीष्यामि मत्स्यराजस्य पश्यतः ||४-३-१७ (२८२१५)
आरालिका वा सूदा वा येऽस्य युक्ता महानसे |
तानहं प्रीणयिष्यामिं मनुष्यान्स्तेन कर्मणा ||४-३-१८ (२८२१६)
आरालिको गोविकर्ता सूपकर्ता नियोधकः |
आसं युधिष्ठिरस्याहमिति वक्ष्यामि मानवान् ||४-३-१९ (२८२१७)
आत्मानमात्मना रक्षंश्चरिष्यामि विशांपते |
इत्येवं च प्रतिज्ञातं विचरिष्याम्यहं यथा |
विराटनगरे च्छन्नो विराटस्य समीपतः ||४-३-२० (२८२१८)
युधिष्ठिर उवाच. ४-३-२१क्ष् (२९७९)
अग्निर्ब्राह्मणरूपेण प्रच्छन्नोऽन्नमयाचत |
महाशनं ब्राह्मणं मां प्रमुञ्चार्जुन खाण्डवे ||४-३-२१ (२८२१९)
संशुश्रुवे च धर्मात्मा यस्तमर्थं चकार ह |
तस्मै ब्राह्मणरूपाय हुताशाय महायशाः |
विजित्यैकरथेनेन्द्रं हत्वा पन्नगराक्षसान् ||४-३-२२ (२८२२०)
यस्तु देवान्मनुष्यांश्च सर्वानेकरथोऽजयत् |
स भीमधन्वा श्वेताश्वः पाण्डवः किं करिष्यति ||४-३-२३ (२८२२१)
आशीविषसमस्पर्शो नागानामिव वासुकिः |
दृष्टीविष इवाहीनामग्निस्तेजस्विनामिव ||४-३-२४ (२८२२२)
समुद्र इव सिन्धूनां शैलानां हिमवानिव |
महेन्द्र इव देवानां दानवानां बलिर्यथा ||४-३-२५ (२८२२३)
सुप्रतीको गजेन्द्राणां युग्यानां तुरगो यथा |
कुबेर इव यक्षाणां मृगाणां केसरी यथा ||४-३-२६ (२८२२४)
राक्षसानां दशग्रीवो दैत्यानामिव शम्बरः |
रुद्राणामिव कापाली विष्णुर्बलवतामिव ||४-३-२७ (२८२२५)
रोषामर्षसमायुक्तो भुजङ्गानां च तक्षकः |
वायुवेगबलोद्धृतो गरुडः पततामिव ||४-३-२८ (२८२२६)
तपतामिव चादित्यः प्रजानां ब्राह्मणो यथा |
ह्रदानामिव पातालं पर्जन्यो नर्दतामिव ||४-३-२९ (२८२२७)
आयुधानां वरो वज्रः ककुद्मांश्च गवां वरः |
धृतराष्ट्रश्च नागानां हस्तिष्वैरावतो यथा ||४-३-३० (२८२२८)
पुत्रः प्रियाणामधिको भार्या च सुहृदां वरा |
गिरीणां प्रवरो मेरुर्देवानां मधुसूदनः |
ग्रहाणां प्रवरश्चन्द्रः सरसां मानसो यथा ||४-३-३१ (२८२२९)
यथैतानि विशिष्टानि स्वस्यां जात्यां वृकोदर |
एवं युवा गुडाकेशः श्रेष्ठः सर्वधनुष्मताम् ||४-३-३२ (२८२३०)
सोयमिन्द्रादनवमो वासुदेवाच्च भारत |
उषित्वा पञ्च वर्षाणि सहस्राक्षस्य वेश्मनि |
ब्रह्मचारी व्रते युक्तः सर्वशस्त्रभृतांवरः ||४-३-३३ (२८२३१)
अवाप चास्त्रमस्त्रज्ञः सर्वज्ञः सर्वसंमतः |
क्षिप्रं चाणु विचित्रं च ध्रुवं च वदतां वरः ||४-३-३४ (२८२३२)
अनुज्ञातः सुरेन्द्रेण पुनः प्रत्यागतो महीम् |
धार्तराष्ट्रविनाशाय पाण्डवानां जयाय च ||४-३-३५ (२८२३३)
यं मन्ये द्वादशं रुद्रमादित्यानां त्रयोदशम् |
वसूनां नवमं मन्ये गिरीणामष्टमः स्मृतः ||४-३-३६ (२८२३४)
यस्य दीर्घौ समौ बाहू ज्याघातेन किणीकृतौ |
दक्षिणश्चैव सव्यश्च बाहू अनडुहो यथा. ४-३-३७ (२८२३५)
तलाङ्गुलित्राभ्युचितौ नागराजकरोपमौ |
पीनौ परिघसङ्काशौ मृदुताम्रतलौ शुभौ ||४-३-३८ (२८२३६)
श्यामो युवा गुडाकेशो दर्शनीयश्च पाण्डवः |
गाण्डीवधन्वा श्वेताश्वः किरीटी वानरध्वजः ||४-३-३९ (२८२३७)
किंरूपधारी किंकर्मा किंचेष्टः किंपरायणः |
बीभत्सुर्भीमधन्वा च किं करिष्यति चार्जुनः |
कुन्तीपुत्रो विराटस्य रमते केन कर्मणा ||४-३-४० (२८२३८)
अर्जुन उवाच. ४-३-४१क्ष् (२९८०)
इमौ किणीकृतौ बाहू ज्याघाततलपीडनात् |
नित्यं कञ्चुकसंछन्नौ नान्यथा गोप्तुमुत्सहे ||४-३-४१ (२८२३९)
किं तु कार्यवशादेतदाचरिष्यामि कुत्सितम् ||४-३-४२ (२८२४०)
बाहू मे भरतश्रेष्ठ महालाञ्छनलक्षितौ |
ज्याघातेन महान्तौ मे गूहितुं नान्यथोत्सहे ||४-३-४३ (२८२४१)
उभौ कम्बू प्रतीमुच्य कुण्डले परिपातुके |
वेणीकृतशिरा भूत्वा भविष्यामि बृहन्नला ||४-३-४४ (२८२४२)
पठन्नाख्यायिकां नाम स्त्रीभावेन पुनः पुनः |
प्रजानां समुदाचारं बहुनर्मकृतं वदन् |
रमयिष्यामि राजानमन्यं चान्तःपुरे जनम् ||४-३-४५ (२८२४३)
नृत्तं गीतं च वादित्रं दिव्यं च विविधं तथा |
शिक्षयिष्याम्यहं राजन्विराटनगरे स्त्रियः ||४-३-४६ (२८२४४)
स्त्रीभावसमुदाचारान्नृत्तगीतकथाश्रयैः |
छादयिष्यामि राजेन्द्र माययाऽऽत्मानमात्मना ||४-३-४७ (२८२४५)
युधिष्ठिरस्य गेहेऽस्मिन्द्रौपद्याः परिचारिका |
उषिताऽस्मीति वक्ष्यामि धर्मराजस्य संमता ||४-३-४८ (२८२४६)
उर्वश्याश्चापि शापेन प्राप्तोस्मि नृप षण्डताम् |
शक्रप्रसादान्मुक्तोऽहं वर्षादूर्ध्वं त्रयोदशात् |
इत्येतन्मे प्रतिज्ञातं विचरिष्याम्यहं यथा ||४-३-४९ (२८२४७)
एतेन विधिना छन्नः कृतकेन यथा नलः |
विहरिष्यामि राजेन्द्र विराटस्य पुरे सुखम् ||४-३-५० (२८२४८)
युधिष्ठिर उवाच. ४-३-५१क्ष् (२९८१)
वासुदेवसमो लोके यशसा विक्रमेण च |
सोयं राज्ये विराटस्य भवने भरतर्षभः ||४-३-५१ (२८२४९)
मेरुः प्रच्छादित इव वसन्वज्रोण मुष्टिना |
आख्याता षण्डकोस्मीति प्रतिज्ञातं हि पातकं ||||४-३-५२ (२८२५०)
इति श्रीमन्महाभारते विराटपर्वणि पाण्डवप्रवेशपर्वणि तृतीयोऽध्यायः ||
विराटपर्व -अध्याय ००४
||श्रीः ||
४. ४. अध्यायः ४
Mahabharata -Virata Parva -Chapter Topics
युधिष्ठिरंप्रति नकुलेन विराटनगरे अश्वपालकतया स्वस्य
निवासकथनम् ||१ ||
सहदेवेन गोपालकतया स्वस्य निवासकथनम् ||२ ||
द्रौपद्या सैरन्ध्रीभावेन स्वस्य निवासकथनम् ||३ ||
Mahabharata -Virata Parva -Chapter Text
४-४-० (२८२५१)
वैशम्पायन उवाच | ४-४-०क्ष् (२९८२)
इत्येवमुक्त्वा पुरुषप्रवीरस्तथार्जुनो धर्मामृतां वरिष्ठः |
वाक्यं तथासौ ||||भूयो नृपोऽपरं भ्रातर ||.बभाषे ४-४-१ (२८२५२)
किंकर्मा किंसमाचारो नकुलोयं भविष्यति |
सुकुमारश्च शूरश्च दर्शनीयः सुखोचितः ||४-४-२ (२८२५३)
अदुःखार्हश्च बालश्च लालितश्चापि नित्यशः |
सोयमार्तश्च शान्तश्च किं नु रोचयतात्त्विह ||४-४-३ (२८२५४)
किं त्वं नकुल कुर्वाणस्तस्य तात चरिष्यसि |
कर्म तत्त्वं समाचक्ष्व राज्ये तस्य महीपतेः ||४-४-४ (२८२५५)
नकुल उवाच. ४-४-५क्ष् (२९८३)
अश्वाध्यक्षो भविष्यामि विराटस्येति मे मतिः |
दामग्रन्थीति नाम्नाऽहं कर्मैतत्सुप्रियं मम ||४-४-५ (२८२५६)
दामग्नन्थी परिज्ञातः कुशलो दामकर्मणि |
न मां परिभविष्यन्ति जना जात्विह कर्हिचित् ||४-४-६ (२८२५७)
कुशलोत्स्म्यश्वशिक्षायां तथैवाश्वचिकित्सने |
प्रियाश्च सततं मेऽश्वाः कुरुराजा यथा तव ||४-४-७ (२८२५८)
न मां परिभविष्यन्ति किशोरा वडवास्तथा |
न दुष्टाश्च भविष्यन्ति पृष्ठे धुरि च मद्गताः ||४-४-८ (२८२५९)
द्रक्ष्यन्ति ये च मां केचिद्विराटनगरे जनाः |
तेभ्य एवं प्रवक्ष्यामि विहरिष्याम्यहं यथा ||४-४-९ (२८२६०)
पाण्डवेन ह्यहं तात अश्वेष्वधिकृतः पुरा |
इति तस्य पुरे छन्नश्चरिष्यामि महीपते |
इत्येतद्वः प्रतिज्ञातं विहरिष्याम्यहं यथा ||४-४-१० (२८२६१)
वैशम्पायन उवाच. ४-४-११क्ष् (२९८४)
नकुलेनैवमुक्तस्तु धर्मराजोऽब्रवीद्वचः |
बृहस्पतिसमो बुद्ध्या नयेनोशनसा समः ||४-४-११ (२८२६२)
मन्त्रैर्नानाविधैर्नीतः पथ्येषु परिनिष्ठितः |
सुप्रणीतः सुमार्गस्थो राजतन्त्रमवाप यः ||४-४-१२ (२८२६३)
न चास्य स्खलितं किंचिद्ददृशुस्तद्विदो जनाः |
सुनीतिज्ञश्च शूरश्च सर्वमन्त्रविशारदः ||४-४-१३ (२८२६४)
अधिको मातुरस्माकं कुन्त्याः प्रियतमः सदा |
सहदेव कथं कर्म तस्य राज्ञः करिष्यसि |
किं वा त्वं तात कुर्वाणः प्रच्छन्नो विचरिष्यसि ||४-४-१४ (२८२६५)
सहदेव उवाच. ४-४-१५क्ष् (२९८५)
गोसङ्ख्याता भविष्यामि विराटस्येति रोचये |
प्रतिभोक्ता च दोग्धा च सङ्ख्यानकुशलो गवाम् |
तन्त्रीपालेति मे नाम स्वयं प्रोक्तं भविष्यति ||४-४-१५ (२८२६६)
अयोगा बहुलाः पुष्टाः क्षीरवत्यो बहुप्रजाः |
निष्पन्नसत्त्वाः सुभृता ह्यपेतज्वरकिल्विषाः ||४-४-१६ (२८२६७)
दृष्टचोरभया नित्यं व्याधिव्याघ्रविवर्जिताः |
गावः सुसहिता राजन्निरुद्विग्ना निरामयः ||४-४-१७ (२८२६८)
भविष्यन्ति मया गुप्ता विराटनगरे तदा |
निपुणत्वं चरिष्यामि प्रीतिरत्र परा हि मे ||४-४-१८ (२८२६९)
अहं हि भवता गोषु प्रहितः सतत पुरा |
तत्र मे कौशलं सर्वमनुबद्धं विशांपते ||४-४-१९ (२८२७०)
लक्षणं चरितं चैव गवां यच्चापि मङ्गलम् |
सत्सर्वं मे सुविदितमन्यच्चापि विशांपते ||४-४-२० (२८२७१)
वृषभानपि जानामि राजन्पूजितलक्षणान् |
येषां मूत्रमुपाघ्राय अपि वन्ध्या प्रसूयते ||४-४-२१ (२८२७२)
सोऽहमेवं चरिष्यामि प्रीतिरत्र परा हि मे |
विराटनगरे गूढो रंस्येऽहं तेन कर्मणा ||४-४-२२ (२८२७३)
तोषयिष्ये च राजानां मा भूच्चिन्ता तवानघ |
न च मां वेत्स्यति परस्तत्ते रोचतु पार्थिव |
इत्येतद्वः प्रतिज्ञातं विचरिष्याम्यहं यथा ||४-४-२३ (२८२७४)
युधिष्ठिर उवाच. ४-४-२४क्ष् (२९८६)
केनात्र कर्मणा कृष्णा द्रौपदी विचरिष्यति |
न हि किंचिद्विजानाति कर्म कर्तुं यथा स्त्रियः ||४-४-२४ (२८२७५)
माल्यागन्धानलङ्कारान्वस्त्राणि विविधानि च |
एतान्येवाभिजानाति यथाजाता च भामिनी ||४-४-२५ (२८२७६)
पतिव्रता महाभागा कथं नु विचरिष्यति |
इयं तु नः प्रिया भार्या प्राणेभ्योपि गरीयसी ||४-४-२६ (२८२७७)
मातेव परिपाल्या च पूज्या ज्येष्ठा स्वसेव च |
सुकुमारी सुशीला च राजपुत्री यशस्विनी |
कथं वत्स्यति कल्याणी विराटनगरे सती ||४-४-२७ (२८२७८)
द्रौपद्युवाच. ४-४-२८क्ष् (२९८७)
अहं वत्स्यामि राजेन्द्र निर्वृतो भव पार्थिव |
यथा ते मत्कृते शोको न भवेन्नृपते शृणु |
यथा तु मां न जानन्ति यत्करिष्याम्यहं प्रभो ||४-४-२८ (२८२७९)
छन्ना वत्स्याम्यहं यन्मां न विजानन्ति केचन |
वृत्तं तच्च समाख्यास्ये शर्म तेस्तु विशांपते ||४-४-२९ (२८२८०)
सैरन्ध्रीजातिसंपन्ना नाम्नाऽहं व्रतचारिणी |
भविष्यामि महाराज विराटस्येति मे मतिः ||४-४-३० (२८२८१)
सैरन्ध्र्यो रक्षिताः स्त्रीणां भुजिष्याः सन्ति भारत |
एकपत्न्यः स्त्रियश्चैता इति लोकस्य निश्चयः ||४-४-३१ (२८२८२)
साऽहं ब्रुवाणा सैरन्ध्री कुशला केशकर्मणि |
प्रमदाहरिका लोके पुरुषाणां प्रवासिनाम् ||४-४-३२ (२८२८३)
युधिष्ठिरस्य वै गेहे द्रौपद्याः परिचारिका |
उषिताऽस्मीति वक्ष्यामि पृष्टा राज्ञा च भारत |
आत्मगुप्ता चरिष्यामि यन्मां त्वं परिपृच्छसि ||४-४-३३ (२८२८४)
नाहं तत्र भविष्यामि दुर्भरा राजवेश्मनि |
कृत्वा चैव सदा रक्षां व्रतेनैव नराधिप ||४-४-३४ (२८२८५)
सुदेष्णां प्रत्युपस्थास्ये राजभार्यां यशस्विनीम् |
सा रक्षिष्यति मां प्राप्तां मा ते भूद्दुःखमीदृशम् ||४-४-३५ (२८२८६)
अथ गुप्ता चरिष्यामि युष्माभिस्तत्र तस्थुषी |
इत्येवं वः प्रतिज्ञातं विहरिष्याम्यहं यथा ||४-४-३६ (२८२८७)
युधिष्ठिर उवाच. ४-४-३७क्ष् (२९८८)
यथा नो दुर्हृदः पापा भवन्ति सुखिनः पुनः |
कुर्यास्तथा त्वं कल्याणि लक्षयेयुर्न ते जनाः ||४-४-३७ (२८२८८)
४-४-३८ (२८२८९)
कल्याणं भाषसे कृष्णे यथा कौलेयकी तथा |
न पापमभिजानासि साध्वी साधुव्रते स्थिता ||
विराटपर्व -अध्याय ००५
||श्रीः ||
४. ५. अध्यायः ५
Mahabharata -Virata Parva -Chapter Topics
पाण्डवैरिन्द्रसेनादीन्प्रति द्वारकादिगमनचोदना ||१ ||
पाण्डवान्प्रति धौम्येन राजगृहवासप्रकारानुशासनम् ||२ ||
Mahabharata -Virata Parva -Chapter Text
४-५-० (२८२९०)
युधिष्ठिर उवाच. ४-५-०क्ष् (२९८९)
कर्माण्युक्तानि युष्माभिर्यानि तानि चरिष्यथ |
मम चापि यथा बुद्धिरुचिता हि विनिश्चयात् ||४-५-१ (२८२९१)
पुरोहितोऽयमस्माकमग्निहोत्राणि रक्षतु |
सूतपौरोगवैः सार्धं द्रुपदस्य निवेशने ||४-५-२ (२८२९२)
इन्द्रसेनमुखाश्चेमे रथानादाय केवलान् |
यान्तु द्वारवतीं शीघ्रमिति मे वर्तते मतिः ||४-५-३ (२८२९३)
इमाश्च नार्यो द्रौपद्याः सर्वाश्च परिचारिका |
पाञ्चालानेव गच्छन्तु सूतपौरोगवैः सह ||४-५-४ (२८२९४)
सर्वैरपि च वक्तव्यं न प्राज्ञायन्त पाण्डवाः |
अर्धरात्रे महात्मानो भिक्षादान्ब्राह्मणानपि |
गता ह्यस्मानपाहाय सर्वे द्वैतवनादिति ||४-५-५ (२८२९५)
वैशम्पायन उवाच. ४-५-६क्ष् (२९९०)
एवं तेऽन्योन्यमामन्त्र्य कर्माण्युक्त्वा पृथक्पृथक् |
धौम्यमामन्त्रयामासुः स च तान्मन्त्रमब्रवीत् ||४-५-६ (२८२९६)
तानन्वशात्स धर्मात्मा सर्वधर्मविशेषवित् |
धौम्यः पुरोहितो राजन्पाण्डवान्पुरुषर्षभान् ||४-५-७ (२८२९७)
धौम्य उवाच. ४-५-८क्ष् (२९९१)
विदितं वै यथा सर्वं लोके वृत्तमिदं नृप |
विदिते चापि वक्तव्यं सुहृद्भिरनुरागतः ||४-५-८ (२८२९८)
अतोऽहमभिवक्ष्यामि हेतुमात्रं निबोधत |
हन्तेमां राजवसतिं राजपुत्रा ब्रवीमि वः |
यथा राजकुलं प्राप्य चरन्प्रोष्य न रिष्यति ||४-५-९ (२८२९९)
दुर्वासमेव कौरव्य जातेन कुरुवेश्मनि |
अमानितेन मानार्ह गूढेन परिवत्सरम् ||४-५-१० (२८३००)
दिष्टद्वारो लभेद्द्रष्टुं राजस्वेषु न विश्वसेत् |
न चानुशिष्याद्राजानमपृच्छन्तं कदाचन ||४-५-११ (२८३०१)
तूष्णीं त्वेनमुपासीत काले समभिपूजयेत् ||४-५-१२ (२८३०२)
असूयन्ति हि राजानो जनाननृतवादिनः |
तथैव चावमन्यन्ते मन्त्रिणं वादिनं मृषा ||४-५-१३ (२८३०३)
विदिते चास्य कुर्वीत कार्याणि सुलघून्यपि |
एवं विचरतो राज्ञि न क्षतिर्जायते क्वचित् ||४-५-१४ (२८३०४)
पाण्डवाग्निरयं लोके सर्वशस्त्रमयो महान |
भर्ता गोप्ता च भूतानां राजा पुरुषविग्रहः ||४-५-१५ (२८३०५)
सर्वात्मना वर्तमानं यथा दोषो न संस्पृशेत् |
राजानमुपतिष्ठन्तं तस्य वृत्तं निबोधत ||४-५-१६ (२८३०६)
क्षत्रियं चैव सर्पं च ब्राह्मणं च बहुश्रुतम् |
नावमन्येत मेधावी कृशानपि कदाचन ||४-५-१७ (२८३०७)
एतत्रयं च पुरुषं निर्दहेदवमानितम् |
राजा तस्माद्बुधैर्नित्यं पूजनीयः प्रयत्नतः ||४-५-१८ (२८३०८)
नातिवर्तेत मर्यादां पुरुषो राजसंमतः |
व्यवहारं पुनर्लोके मर्यादां पण्डिता विदुः ||४-५-१९ (२८३०९)
न हि पुत्रं न नप्तारं न भ्रातरमरिन्दम |
समतिक्रान्तमर्यादं पूजयन्ति पराधिपाः ||४-५-२० (२८३१०)
गच्छन्नपि परां भूतिं भूमिपालनियोजितः |
जात्यन्ध इव मन्येत मर्यादामनुचिन्तयन् ||४-५-२१ (२८३११)
धृष्टो द्वारं सदा पश्यन्न च राजसु विश्वसेत् |
तदेवासनमन्विच्छेद्यत्र नाभिलषेत्परः ||४-५-२२ (२८३१२)
यत्रोपविष्टः संकल्पं नोपहन्याद्बलीयसः |
तदासनं राजकुले ईप्सेत पुरुषो वसन् ||४-५-२३ (२८३१३)
यथैनं यत्र चासीनं शङ्कयेद्दुष्टचरिणम् |
न तत्रोपविशेज्जातु यो राजवसतिं वसेत् ||४-५-२४ (२८३१४)
स्वभूमौ काममासीत तिष्ठेद्वा राजसन्निधौ |
न त्वेवासनमन्यस्य प्रार्थयेत कदाचन ||४-५-२५ (२८३१५)
परासनगतं ह्येनं परस्य परिचारकाः |
परिषद्यपकर्षेयुः परिहास्येत शत्रुभिः ||४-५-२६ (२८३१६)
नित्यं विप्रतिषिद्धं तत्पुरस्तादासनं मतम् |
अर्थार्थं हि यदा भृत्यो राजानमुपतिष्ठते ||४-५-२७ (२८३१७)
दक्षिणं वाऽथ वामं वा भागमाश्रित्य पण्डितः |
तिष्ठेद्विनीतवद्राजन्न पुरस्तान्न पृष्ठतः |
राक्षिणामात्तशस्त्राणां पश्चात्स्थानं विधीयते ||४-५-२८ (२८३१८)
मातृगोत्रे स्वगोत्रे वा नाम्ना शीलेन वा पुनः |
संग्रहार्थं मनुष्याणां नित्यमाभाषिता भवेत् ||४-५-२९ (२८३१९)
पूज्यमानोपि यो राज्ञा नरो न प्रतिपूजयेत् |
नैनमाराधयेज्जातु शास्ता शिष्यानिवालसान् ||४-५-३० (२८३२०)
नास्य युग्यं न पर्यङ्कं नासनं न रथं तथा |
आरोहेत्संमतोऽस्मीति यो राजवसतिं वसेत् ||४-५-३१ (२८३२१)
यो वै गृहेभ्यः प्रवसन्क्रियमाणमनुस्मरन् |
उत्थाने नित्यसंकल्पो निस्तन्द्रीः संघतात्मवान् ||४-५-३२ (२८३२२)
परीतः क्षुत्पिपासाभ्यां विहाय परिदेवनम् |
दुःखेन सुखमन्विच्छेद्यो राजवसतिं वसेत् ||४-५-३३ (२८३२३)
अन्येषु प्रेष्यमाणेषु पुरस्ताद्धीर उत्पतेत् |
करिष्याम्यहमित्येव यः स राजसु सिध्यति ||४-५-३४ (२८३२४)
उष्णे वा यदि वा शीते रात्रौ वा यदि वा दिवा |
आदिष्टो न विकल्पेत यः स राजसु सिद्ध्यति ||४-५-३५ (२८३२५)
नैव प्राप्तोऽवमन्येत सदाऽमात्यो विशारदः |
मानं प्राप्तो न हृष्येत न व्यथेच्च विमानितः |
ऋदुर्मृदुः सत्यवादो यः स राजसु सिद्ध्यति ||४-५-३६ (२८३२६)
नैव लाभाद्धर्षमियान्न व्यथेच्च विमानितः |
समः पूर्णतुलेव स्याद्यो राजवसतिं वसेत् ||४-५-३७ (२८३२७)
अल्पेच्छो धृतिमान्राजञ्छायेवानुगतः सदा |
दक्षः प्रदक्षिणो धीरः स राजवसतिं वसेत् ||४-५-३८ (२८३२८)
इतिहासपुराणज्ञः कुशलः सत्कथासु च |
वदान्यः सत्यवाक्वापि यो राजवसतिं वसेत् ||४-५-३९ (२८३२९)
न मिथो भाषितं राज्ञो मनुष्येषु प्रकाशयेत् |
यं चासूयन्ति राजानः पुरुषं नो वदेच्च तम् ||४-५-४० (२८३३०)
नैषां कर्मसु संयुक्तो धनं किंचिदुपस्पृशेत् |
प्राप्नुयादाददानो वा बन्धं वा वधमेव वा ||४-५-४१ (२८३३१)
हुल्योपस्थितयोः पश्य मम चान्यस्य चोभयोः |
अन्यं पुष्णाति मद्धीनमिति धीरो न मुह्यति ||४-५-४२ (२८३३२)
श्रेयांसं हि परित्यज्य वैद्यं कर्मणिकर्मणि |
पापीयांसं प्रकुर्वीरञ्शीलमेषां तथाविधम् ||४-५-४३ (२८३३३)
नैषां दारेषु कुर्वीत प्राज्ञो मैत्रीं कथंचन |
रक्षणं तु न सेवेत यो राजवसतिं वसेत् ||४-५-४४ (२८३३४)
यदा ह्यभिसमीक्षेत प्रेष्यं स्त्रीभिः समागतम् |
बुद्धिः परिभवेत्तस्य राजा शङ्केत वा पुनः ||४-५-४५ (२८३३५)
शङ्कितस्य पुनः स्त्रीषु कस्य भृत्यस्य भूमिपः |
जीवितं साधु मन्येत प्रकृतिस्थो बलात्कृतः ||४-५-४६ (२८३३६)
हर्षवस्तुषु चाप्यत्र वर्तमानेषु केषु चित् |
नातिगाढं प्रहृष्येत तान्येवास्यानुपूजयेत् ||४७ ||४-५-४७ (२८३३७)
हर्षाद्धि मन्दः पुरुषः स्वैरं कुर्वीत वैकृतम् |
तदस्यान्तःपुरे वृत्तमीक्षां कुर्वीत भूमिपः ||४-५-४८ (२८३३८)
अन्तःपुरगतं ह्येनं स्त्रियः क्लीबाश्च सर्वतः |
वर्तमानं यथावच्च कुत्सयेयुरसंशयम् ||४-५-४९ (२८३३९)
तस्माद्गम्भीरमात्मानं कृत्वा हर्षं नियम्य च |
नित्यमन्तःपुरे राज्ञो न वृत्तं कीर्तयेद्बहिः ||४-५-५० (२८३४०)
यथा हि सुमहामन्त्रो भिद्यमानो हरेत्सुखम् |
एवमन्तःपुरे वृत्तं श्रूयमाणं बहिर्भवेत् ||४-५-५१ (२८३४१)
या तु वृत्तिरबाह्यानां बाह्यानामपि केवलम् |
उभयेषां समस्तानां शृणु राजोपजीविनाम् ||४-५-५२ (२८३४२)
न स्त्रियो जातु मन्येत बाह्ये वाभ्यन्तरेऽपि वा |
अनुजीविनां नरेन्द्रस्तु सृजेद्धि सुमहद्भयम् ||४-५-५३ (२८३४३)
मत्वाऽस्य प्रियमात्मानं राजरत्नानि राजवत् |
अराजा राजयोग्यानि नोपयुञ्जीत पण्डितः ||४-५-५४ (२८३४४)
अराजानं हि रत्नानि राजकान्तानि राजवत् |
भुञ्जानं तं नरं राजा न तितिक्षेत जीवितम् ||४-५-५५ (२८३४५)
तस्मादव्यक्तभोगेन भोक्तव्यं भूतिमिच्छता |
तुल्यभोगं हि राजा तु भृत्यं कोपेन योजयेत् ||४-५-५६ (२८३४६)
न चापत्येन संप्रीतिं राज्ञः कुर्वीत केनचित् |
अधिक्षिप्तमनर्थं च द्वेष्यं च परिवर्जयेत् ||४-५-५७ (२८३४७)
एतां हि सेवमानस्य नरसीमां चतुर्विधाम् |
द्विधा विच्छिद्यते मूलं राजमूलोपसेविनः ||४-५-५८ (२८३४८)
एतैस्तु विपरीता या नरसीमा नराधमैः |
तथा कुर्वीत संसर्गं न विरोधं कथंचन ||४-५-५९ (२८३४९)
बन्धुभिश्च नरेन्द्रस्य बलवद्भिश्च मानवैः |
साधु मन्येत संसर्गं न विरोधं कथंचन ||४-५-६० (२८३५०)
ताभ्यां तु नरसीमाभ्यां विरुद्धस्याल्पतेजसः |
प्रथमं छिद्यते मूलं द्वितीयं जायते भयम् ||४-५-६१ (२८३५१)
उद्धतानां च यो वेषः कुहकानां च यो भवेत् |
राजवेषं च विस्पष्टं सेवमानो न वर्धते |
इतराभ्यां तु वेषाभ्यां परिहास्येत बान्धवैः ||४-५-६२ (२८३५२)
अपुंभिश्चैव पुंभिश्च स्त्रीभिः स्त्रीदर्शिभिर्नरैः |
शक्ये सति न संभाषां जातु कुर्वीत कर्हिचित् ||४-५-६३ (२८३५३)
प्रतिसंभाषमाणो हि त्रिभिरेतैरचेतनः |
श्येनः पेशीमिवादत्ते पुरुषो भूतिमात्मनः ||४-५-६४ (२८३५४)
ये च राज्ञाऽभिसत्कारं लभेरन्कारणादिव |
तैश्च सामन्तदूतैश्च न संसज्येत कर्हिचित् ||४-५-६५ (२८३५५)
न चान्याचरितां भूमिमसंदिष्टो महीपतेः |
उपसेवेत मेधावी यो राजवसतिं वसेत् ||४-५-६६ (२८३५६)
न च संदर्शने राज्ञां प्रबन्धमभिसंजपेत् |
अपि चैतद्दरिद्राणां व्यलीकस्थानमुत्तमम् ||४-५-६७ (२८३५७)
अर्थकामा च या नारी राजानं स्यादुपस्थिता |
अनुजीवी तथायुक्तां निध्यायन्दुष्यते च सः ||४-५-६८ (२८३५८)
तस्मान्नारीं न निध्यायेत्तथायुक्तां विचक्षणः |
तथा क्षुतं च वातं च निष्ठीवं चाचरेच्छनैः ||४-५-६९ (२८३५९)
न नर्मसु हसेज्जातु मूढवृत्तिर्हि सा स्मृता |
स्मितं तु मृदुपूर्वेण दर्शयीत प्रसादजम् ||४-५-७० (२८३६०)
न चाक्षौ न भुजौ जातु न च वाक्यं समाक्षिपेत् |
न च तिर्यगवेक्षेत चक्षुर्भ्यां सम्यगाचरेत् ||४-५-७१ (२८३६१)
भ्रुकुटिं च न कुर्वीत न चाङ्गुष्ठैर्लिखेन्महीम् |
न च गाढं विजृम्भेत जातु राज्ञः समीपतः ||४-५-७२ (२८३६२)
न प्रशंसेन्ना चासूयेत्प्रियेषु च हितेषु च |
स्तूयमानेषु वा तत्र दूष्यमानेषु वा पुनः ||४-५-७३ (२८३६३)
अथ संदृश्यमानेषु प्रियेषु च हितेषु च |
श्रूयमाणेषु वाक्येषु वर्णयेदमृतं यथा ||४-५-७४ (२८३६४)
न राज्ञः प्रतिकूलानि सेवमानः सुखी भवेत् |
पुत्रो वा यदि वा भ्राता यद्यप्यात्मसमो भवेत् ||४-५-७५ (२८३६५)
अप्रमत्तो हि राजानं रञ्जयेच्छीलसंपदा |
उत्थानेन तु मेधावी शौचेन विविधेन च ||४-५-७६ (२८३६६)
स्नानं हि वस्त्रशुद्धिश्च शारीरं शौचमुच्यते |
असक्तिः प्राकृतार्थेषु द्वितीयं शौचमुच्यते ||४-५-७७ (२८३६७)
राजा भोजो विराट् सम्राट् क्षत्रियो भूपतिर्नृपः |
य एतैः स्तूयते शब्दैः कस्तं नार्चितुमर्हति ||४-५-७८ (२८३६८)
तस्माद्भक्त्या च युक्तः सन्सत्यवादी जितेन्द्रियः |
मेधावी धृतिमान्प्राज्ञः संश्रयीत महीपतिम् ||४-५-७९ (२८३६९)
कृतज्ञं प्राज्ञमक्षुद्रं दृढभक्तिं जितेन्द्रियम् |
वर्धमानं स्थितं स्थाने संश्रयीत महीपतिम् ||४-५-८० (२८३७०)
एष वः समुदाचारः समुद्दिष्टो यथाविधि |
यथार्थान्संप्रपत्स्यन्ते पार्थ राजोपजीविनः ||४-५-८१ (२८३७१)
संवत्सरमिमं तावदेवंशीला बुभूषथः |
ततः स्वविषयं प्राप्य यथाकामं चरिष्यथ ||४-५-८२ (२८३७२)
वैशम्पायन उवाच. ४-५-८३क्ष् (२९९२)
तं तथेत्यब्रुवन्पार्थाः पितृकल्पं यशस्विनम् |
प्रहृष्टाश्चाभिवाद्यैनमुपातिष्ठन्परंतपाः ||४-५-८३ (२८३७३)
तेषां प्रतिष्ठमानानां मन्त्रांश्च ब्राह्मणोऽजपत् |
भवाय राज्यलाभाय वीर्याय विजयाय च ||४-५-८४ (२८३७४)
ततोऽब्रवीदसौ विप्रो वाचमाशीः प्रयुज्य च |
स्वद्रव्यप्रतिलाभाय शत्रूणां मर्दनाय च ||४-५-८४ (२८३७५)
स्वस्ति वोस्तु शिवः पन्था द्रक्ष्यामि पुनरागतान् |
इत्युक्ता हृष्टमनसो गुरुणा तेन धीमता. ४-५-८५ (२८३७६)
युधिष्ठिरमुखाः सर्वे गन्तुं समुपचक्रमुः ||||४-५-८६ (२८३७७)
इति श्रीमन्महाभारते विराटपर्वणि पाण्डवप्रवेशपर्वणि
पञ्चमोऽध्यायः ||५ ||
Mahabharata -Virata Parva -Chapter Footnotes
४-५-१५ पाण्डवाग्निरिति पाण्डवेति छेदः | राजा
पुरुषविग्रहोऽग्निरित्यन्वयः ||
१५ ||
४-५-६१ प्रथमं छिद्यते निद्रा इति थो धो पाठः ||
६१ ||
विराटपर्व -अध्याय ००६
||श्रीः ||
४. ६. अध्यायः ६
Mahabharata -Virata Parva -Chapter Topics
पाण्डवैर्धौम्यविसर्जनपूर्वकं विराटनगरसमीपगमनम् ||१ ||
Mahabharata -Virata Parva -Chapter Text
४-६-० (२८३७८)
वैशम्पायन उवाच. ४-६-०क्ष् (२९९३)
तेऽग्निं प्रदक्षिणं कृत्वा ब्राह्मणं च पुरोहितम् |
अभिवाद्य ततः सर्वे प्रस्थातुमुपचक्रमुः ||१ ||४-६-१ (२८३७९)
युधिष्ठिर उवाच. ४-६-२क्ष् (२९९४)
अनुशिष्टोस्मि भद्रं ते नैतद्वक्ताऽस्ति कश्चन |
कुन्तीमृते मातरं नः पितरं च यशस्विनम् ||२ ||४-६-२ (२८३८०)
यदेवानन्तरं कार्यं तद्भवान्वक्तुमर्हति |
तारणाय तु दुःखस्य प्रस्थानाय भवाय च ||३ ||४-६-३ (२८३८१)
वैशम्पायन उवाच. ४-६-४क्ष् (२९९५)
तेषां प्रतिष्ठमानानां धौम्यो मन्त्रानथाजपत् |
सर्वविघ्नप्रशमनानर्थसिद्धिकरांस्तथा |
ततः पावकमुञ्ज्वाल्य मन्त्रहव्यपुरुस्कृतम् ||४ ||४-६-४ (२८३८२)
याज्ञसेनीं पुरस्कृत्य सर्व एव महारथाः |
प्राद्रवन्सह धौम्येन बद्धशस्त्रा वनाद्वनम् ||५ ||४-६-५ (२८३८३)
ते वीरा बद्धनिस्त्रिंशा धनुर्बाणकलापिनः |
अगच्छन्भीमधन्वानः काम्यकाद्यमुनां नदीम् ||६ ||४-६-६ (२८३८४)
उत्तरेण दशार्णानां पाञ्चालान्दक्षिणेन तु |
अन्तरेण यकृल्लोम्नः शूरसेनांश्च पाण्डवाः ||७ ||४-६-७ (२८३८५)
ते तस्या दक्षिणं तीरमन्वगच्छन्पदातयः |
ततः प्रत्यक्प्रयातास्ते संक्रामन्तो वनाद्वनम् ||८ ||४-६-८ (२८३८६)
वसाना वनदुर्गेषु रमणीयेषु धन्विनः |
पल्वलेषु च रम्येषु नदीनां संगमेषु च ||९ ||४-६-९ (२८३८७)
द्रुमान्नानाविधाकारान्नानाविधलताकुलान् |
कुसुमाढ्यान्मनःकान्ताञ्शुभगन्धान्मनोरमान् ||१० ||४-६-१० (२८३८८)
पार्था निरीक्षमाणाश्च तान्द्रुमान्पुष्पशालिनः |
जिघ्रन्तः पुष्पगन्धांश्च फलगन्धान्मनोरमान् ||११ ||४-६-११ (२८३८९)
विध्यन्तो मृगजातानि महेप्वासा महाबलाः |
उपित्वा द्वादशसमा वने परपुरंजयाः |
लुब्धान्ब्रुवाणा मात्स्यस्य विपयं प्राविशंस्तदा ||१२ ||४-६-१२ (२८३९०)
तत्र धौम्यं महेप्वासाः पाण्डवेया व्यसर्जयन् |
अग्निहोत्रं परिचरन्सोऽबुद्धोऽवसदाश्रमे ||१३ ||४-६-१३ (२८३९१)
ततस्तेषु प्रयातेषु पाण्डवेषु महात्मसु |
इन्द्रसेनमुखाश्चैव यथोक्तं प्राप्य निर्वृताः |
रथानश्वांश्च रक्षन्तः सुखमूषुः सुसंवृताः ||१४ ||४-६-१४ (२८३९२)
ततो जनपदं प्राप्य कृष्णा राजानमब्रवीत् ||१५ ||४-६-१५ (२८३९३)
पश्यैकपद्यो दृश्यन्ते क्षेत्रे गोष्ठं समाश्रिताः |
वृक्षांश्चोपवनोपेतान्ग्रामाणां नगरस्य च ||१६ ||४-६-१६ (२८३९४)
व्यक्तं दूरे विराटम ||र्आजधानी भविष्यति |
वसामेहापरां रात्रिं बलवान्मे परिश्रमः ||१७ ||४-६-१७ (२८३९५)
युधिष्ठिर उवाच. ४-६-१८क्ष् (२९९६)
इमां कमलपत्राक्षीं द्रौपदीं माद्रिनन्दन |
मुहूर्तं परिगृह्यैनां घाहुभ्यां नकुल व्रज ||१८ ||४-६-१८ (२८३९६)
ततोऽदूरे विराटस्य नगरं भरतर्षभ |
राजधान्यां निवत्स्यामः प्रमुक्तमिव नो वनम् ||१९ ||४-६-१९ (२८३९७)
नकुल उवाच. ४-६-२०क्ष् (२९९७)
पूर्वाह्णे मृगयां कृत्वा मया विद्धा मृगा वने |
अटवी च मया दूरं धृता मृगवधेप्सुना ||२० ||४-६-२० (२८३९८)
विषमा ह्यतिदुर्गा च वेगवत्परिधावता |
सोहं धर्माभितप्तो वै नैनामादातुमुत्सहे ||२१ ||४-६-२१ (२८३९९)
युधिष्ठिर उवाच. ४-६-२२क्ष् (२९९८)
सहदेव त्वमादाय मुहूर्तं द्रौपदीं नय |
राजधान्यां निवत्स्यामः सुमुक्तमिव नो वनम् ||२२ ||४-६-२२ (२८४००)
सहदेव उवाच | ४-६-२३क्ष् (२९९९)
अहमप्यस्मि तृषितः क्षुधया परिपीडितः |
परिश्रान्तश्च भद्रं ते नैनामादातुमुत्सहे ||२३ ||४-६-२३ (२८४०१)
युधिष्ठिर उवाच | ४-६-२४क्ष् (३०००)
एहि वीर विशालाश्च वीरसिंह इवार्जुन |
इमां कमलपत्राक्षीं द्रौपदीं द्रुपदात्मजाम् ||२४ ||४-६-२४ (२८४०२)
परिगृह्य मुहूर्तं त्वं बाहुभ्यां कुशलं व्रज |
राजधान्यां निवत्स्यामः प्रमुक्तमिव नो वनम् ||२५ ||४-६-२५ (२८४०३)
वैशम्पायन उवाच. ४-६-२६क्ष् (३००१)
गुरोर्वचनमाज्ञाय संप्रहृष्टो जितेन्द्रियः |
बाहुभ्यां परिगृह्याथ राजपुत्रीमनिन्दिताम् |
प्रवव्राज महाबाहुरर्जुनः प्रियदर्शनाम् ||२६ ||४-६-२६ (२८४०४)
जटिलो वल्कलधरः शततूणीधनुर्धरः |
स्कन्धे कृत्वा वरारोहां बालामायतलोचनाम् | ४-६-२७ (२८४०५)
आनीय नगराभ्याशमवातारयदर्जुनः ||२७ ||||४-६-२८ (२८४०६)
इति श्रीमन्महाभारते विराटपर्वणि पाण्डवप्रवेशपर्वणि
षष्ठोऽध्यायः ||६ ||
विराटपर्व -अध्याय ००७
||श्रीः ||
४. ७. अध्यायः ७
Mahabharata -Virata Parva -Chapter Topics
पाण्डवैर्वनमध्ये श्मशानसंनिहिते शमीवृक्षे स्वायुधनिक्षेपः ||१ ||
तथा स्वेषां साङ्केतिकनामकल्पनेन विराटनगरपरिसरगमनम् ||२ ||
Mahabharata -Virata Parva -Chapter Text
४-७-० (२८४०७)
वैशम्पायन उवाच. ४-७-०क्ष् (३००२)
स राजधानीं संप्राप्य पार्थिवोऽर्जुनमब्रवीत् |
इमानि पुरुषव्याघ्र आयुधानि परंतप |
कस्मिन्न्यासयितव्यानि गुप्तिश्चैषां कथं भवेत् ||१ ||४-७-१ (२८४०८)
सायुधा हि वयं तात प्रवेक्ष्यामः पुरं यदि |
समुद्वेगं जनस्यास्य करिष्यामो न संशयः ||२ ||४-७-२ (२८४०९)
गाण्डीवं हि नरव्याघ्र त्रिषु लोकेषु विश्रुतम् |
कथं नाविष्कृताः स्यामो धार्तराष्ट्रस्य मारिष ||३ ||४-७-३ (२८४१०)
यदीद ||धनुरादाय चरेम सजने पुरे |
क्षिप्र नः प्रतिजानीयुर्मनुष्या नात्र संशयः ||४ ||४-७-४ (२८४११)
एकस्मिन्नपि विज्ञाते समयं नो व्यतीत्य च |
भूयो द्वादशवर्षाणि प्रविशेम वनं वयम् ||५ ||४-७-५ (२८४१२)
तस्मात्सर्वाणि शस्त्राणि प्रच्छाद्यान्यत्र यत्र वा |
प्रविशेम पुरश्रेष्ठं तथा सम्यक्कृतं भवेत् ||६ ||४-७-६ (२८४१३)
वैशम्पायन उवाच. ४-७-७क्ष् (३००३)
अजातशत्रोर्वचनं श्रुत्वा चैव महायशाः |
उवाच धर्मपुत्रं तमर्जुनः परवीरहा ||७ ||४-७-७ (२८४१४)
इयं वने मनुष्येन्द्र महती दृश्यते शमी |
भीमशाखा दुरारोहा श्मशानस्य समीपतः ||८ ||४-७-८ (२८४१५)
उत्पथे चापि जातेयं मनुष्यैर्न निषेव्यते |
विपुलाऽऽकीर्णशाखा च वायसैरुपसेविता ||९ ||४-७-९ (२८४१६)
स्नेहानुबद्धां पश्यामि दुरारोहामिमां शमीम् ||१० ||४-७-१० (२८४१७)
समीपे च श्मशानस्य गृहं नास्य विशेषतः |
समासज्यायुधान्यस्यां गच्छामो नगरं नृप ||११ ||४-७-११ (२८४१८)
न चास्यां चारयिष्यन्ति मनुष्याः पार्थ केचन ||१२ ||४-७-१२ (२८४१९)
धनुर्भिः पुरुषं कृत्वा चर्मकेशास्थिसंवृतम् |
उद्बन्धमिव कृत्वा च धनुर्ज्यापाशसंवृतम् |
अस्यामायुधमासज्य गच्छाम नगरं वयम् ||१३ ||४-७-१३ (२८४२०)
एवं परिहरिष्यन्ति मनुष्या वनचारिणः |
अत्रैवं नावबुध्यन्ते मनुष्याः केचिदायुधम् ||१४ ||४-७-१४ (२८४२१)
वैशम्पायन उवाच | ४-७-१५क्ष् (३००४)
एवमुक्त्वा स राजानं धर्मात्मानं धनञ्जयः |
प्रचक्रमे निधानाय शश्त्राणां भरतर्षभ ||१५ ||४-७-१५ (२८४२२)
तानि सर्वाणि संनह्य पञ्च पञ्चाचलोपमाः |
आयुधानि कलापांश्च निस्त्रिंशानतुलप्रभान् ||१६ ||४-७-१६ (२८४२३)
ततो युधिष्ठिरो राजा सहदेवमुवाच ह |
आरुह्येमां शमीं वीर निधत्स्वेहायुधानि नः ||१७ ||४-७-१७ (२८४२४)
इति संदिश्य तं पार्थः पुनरेव धनञ्जयम् |
अब्रवीदायुधानीह निधातुं भरतर्षभः ||१८ ||४-७-१८ (२८४२५)
वैशम्पायन उवाच. ४-७-१९क्ष् (३००५)
येन देवान्मनुष्यांश्च पिशाचोरगराक्षसान् |
निवातकवचांश्चापि पौलोमांश्च परंतपः |
कालकेयांश्च दुर्धाषान्सर्वांश्चैकरथोऽजयत् ||१९ ||४-७-१९ (२८४२६)
स्फीताञ्जनपदांश्चान्यानजयत्कुरुनन्दनः |
तदुदग्रं महाघोरं सपत्नगणमूदनम् |
अपज्यमकरोत्पार्थो गाण्डीवं च भयंकरम् ||२० ||४-७-२० (२८४२७)
येन वीरः कुरुक्षेत्रमभ्यरक्षत्परंतपः |
जृम्भिते च धनुःश्रेष्ठे न्यासार्थं नृपसत्तमः ||२१ ||४-७-२१
(२८४२८)
धर्मपुत्रो महातेजाः सर्वलोकवशंकरम् |
भुजङ्गभोगसदृशं मणिकाञ्चनभूषितम् ||२२ ||४-७-२२ (२८४२९)
वित्रासनं दानवानां राक्षसानां च नित्यशः |
धनूरत्नं महातेजा जृम्भयामास पाण्डवः ||२३ ||४-७-२३ (२८४३०)
पाञ्चालान्येन संग्रामे भीमसेनोऽजयत्पुरा |
प्रत्यषेधद्बहूनेकः सपत्नांश्चापि दिग्जये ||२४ ||४-७-२४ (२८४३१)
निशम्य यस्य विष्कारं विद्रवन्ति रणे परे |
पर्वतस्येव दीर्णस्य विस्फोटमशनेरिव ||२५ ||४-७-२५ (२८४३२)
सैन्धवं येन राजानं जित्वा क्रुद्धः परामृशत् |
येन क्रोधवशाञ्जघ्ने पर्वते गन्धमादने ||२६ ||४-७-२६ (२८४३३)
दिव्यं सौगन्धिकं पुष्पं येनाजैषीत्स पाण्डवः |
त्रिगर्तान्येन संग्रामे जित्वा त्रैगर्तमानयत् ||२७ ||४-७-२७ (२८४३४)
इन्द्राशनिसमस्पर्शं वज्रहाटकभूषितम् |
ज्यापाशं धनुषस्तस्य भीमसेनोऽवतारयत् ||२८ ||४-७-२८ (२८४३५)
नकुलं पुनराहूय धर्मराजो युधिष्ठिरः |
उवाच येन संग्रामे सर्वशत्रूञ्जिघांससि ||२९ ||४-७-२९ (२८४३६)
सुराष्ट्राञ्जितवान्येन शार्ङ्गगाण्डीवसन्निभम् |
सुवर्णविकृतं सारमिन्द्रायुधनिभं वरम् ||३० ||४-७-३० (२८४३७)
तवानुरूपं सुकृतं चापमेतदलङ्कृतम् |
तद्व्यंसयित्वा ज्यापाशं निधातुं धनुराहर ||३१ ||४-७-३१ (२८४३८)
वैशम्पायन उवाच. ४-७-३२क्ष् (३००६)
अजयत्पश्चिमामाशां धनुषा येन पाण्डवः |
माद्रीपुत्रो महाबाहुस्ताम्रास्यो मितभाषिता ||३२ ||४-७-३२ (२८४३९)
तस्य मौर्वीमपाकर्षच्छूरः संक्रन्दनो युधि |
कुले नास्ति समो रूपे यस्येति नकुलः स्मृतः ||३३ ||४-७-३३ (२८४४०)
सहदेवं च संप्रेक्ष्य पुनर्धर्मसुतोऽब्रवीत् |
कलिङ्गान्द्राक्षिणात्यांश्च मागधांश्चाजिशोभनः ||३४ ||४-७-३४ (२८४४१)
येनैव शत्रून्समरे अधाक्षीररिमर्दन |
तत्स्रंसयित्वा ज्यापाशं निधातुं धनुराहर ||३५ ||४-७-३५ (२८४४२)
वैशम्पायन उवाच. ४-७-३६क्ष् (३००७)
दक्षिणां दक्षिणाचारो दिशं येनाजयत्प्रभुः |
अपज्यमकरोद्वीरः सहदेवस्तदायुधम् ||३६ ||४-७-३६ (२८४४३)
दीप्तान्खण्डांश्च सुदृढान्सुतीक्ष्णान्कनकत्सरून् |
विविधान्क्षुरनाराचान्निस्त्रिंशांश्च शरानपि |
आयुधानि कलापांश्च गदाश्च निदधुः सह ||३७ ||४-७-३७ (२८४४४)
अथाब्रवीद्धर्मराजः सहदेवं परन्तपः |
आरुह्येमां शमीं वीर निधत्स्वेहायुधानि नः ||३८ ||४-७-३८ (२८४४५)
इदं गोमृगमभ्याशे गतसत्वमचेतनम् |
एतदुत्कृत्य वै वीर धनूंपि परिवेष्टय ||३९ ||४-७-३९ (२८४४६)
एवमुक्तो महाबाहुः सहदेवो यथोक्तवत् |
शमीमारुह्य त्वरितो धनूंपि परिवेष्टयत् ||४० ||४-७-४० (२८४४७)
शीतवातातपभयाद्वर्पत्राणाय दुर्जयः |
तानि वीरो यथा जानन्निरावाधानि सर्वशः |
पुनः पुनः सुसंवेष्ट्य कृत्वा सुकृतमावरम् ||४१ ||४-७-४१ (२८४४८)
यत्र चापश्यत स वै तिरोवर्पाणि वर्पति |
तत्र तानि दृढैः पाशैः सुगाढं पर्यवन्धत ||४२ ||४-७-४२ (२८४४९)
ततः परमदूरस्थमुञ्छवृत्तिकलेवरम् |
प्रायोपवेशनाच्छुष्कं स्नायुचर्मास्थिसंयुतम् ||४३ ||४-७-४३ (२८४५०)
तच्चानीय धनुर्मध्ये निबबन्धु पाण्डवाः |
उपायकुशलाः सर्वे प्रणदन्तः समब्रुवन् ||४४ ||४-७-४४ (२८४५१)
अस्य बद्धस्य दौर्गन्ध्यान्मनुष्या वनचारिणः |
दूरात्परिहरिष्यन्ति सशवेयं शमी इति ||४५ ||४-७-४५ (२८४५२)
अथाब्रवीन्महाराजो धर्मात्मा स युधिष्ठिरः |
रञ्जुभिः सुकृतं प्राज्ञ विनिर्वध्नीहि पाण्डव ||४६ ||४-७-४६ (२८४५३)
यानि चात्र विशालानि रूढमूलानि मन्यसे |
तेपामुपरि बध्नीहि इदं विप्रकलवरम् ||४७ ||४-७-४७ (२८४५४)
वैशम्पायन उवाच. ४-७-४८क्ष् (३००८)
तच्छ्रुत्वा सहदेवस्तु पर्यबध्नत तच्छवम् ||४८ ||४-७-४८ (२८४५५)
युधिष्ठिरः शुचिर्भूत्वा मनसाऽभिप्रणम्य च |
ब्रह्माणामिन्द्रं वरदं कुबेरं वरुणानिलौ ||४९ ||४-७-४९ (२८४५६)
रुद्रं यमं च विष्णुं च सोमार्कौ धर्ममेव च |
पृथिवीमन्तरिक्षं च दिशश्चोपदिशस्तथा |
वसूश्चं मरुतश्चैव ज्वलनं चातितेजसम् ||५० ||४-७-५० (२८४५७)
दिवाचरा रात्रिचराणि वाऽपि यानीह भूतान्यनुकीर्तितानि |
तेभ्यो नमस्कृत्य च सुव्रतेभ्यः प्रणम्य तेपां शरणं गतोऽहम्
||५१ ||४-७-५१ (२८४५८)
सर्वायुधानीह महाबलानि न्यासं महादेवसमीपतो वै |
न्यस्याम्यहं वायुसमीपतश्च वनस्पतीनां च सपर्वतानाम् ||५२
||४-७-५२ (२८४५९)
एष न्यासो मया दत्तः सोममूर्यानिलान्तिके |
मम पार्थस्य वा देयं पूर्णे वर्षे त्रयोदशे ||५३ ||४-७-५३ (२८४६०)
नेदं भीमे प्रदातव्यमयं क्रुद्धो वृकोदरः |
आमर्षान्नित्यसंक्रुद्धो धृतराष्ट्रसुतान्प्रति |
अपूर्णकाले प्रहरेत्क्रोधसंजातमत्सरः ||५४ ||४-७-५४ (२८४६१)
पुनः प्रवेशो नः स्यात्तु वनवासाय सर्वदा |
समये परिपूर्णे तु धार्तराष्ट्रान्निहन्महे ||५५ ||४-७-५५ (२८४६२)
एष चार्थश्च धर्मश्च कामः कीर्तिरलं यशः |
मदायत्तमिदं सर्वं जीवितं च न संशयः ||५६ ||४-७-५६ (२८४६३)
वैशम्पायन उवाच. ४-७-५७ (२८४६४)
दैवतेभ्यो नमस्कृत्य शमीं कृत्वा प्रदक्षिणम् |
नगरं गन्तुमायाताः सर्वे ते भ्रातरः सह ||५७ ||४-७-५७ (२८४६५)
आगोपालाविपालेभ्यः कर्षकेभ्यः परंतप |
आजग्मुर्नगराभ्याशं दर्शयन्तः पुनः पुनः ||५८ ||४-७-५८ (२८४६६)
अशीतिशतवर्पेयं माताऽस्माकमिहान्तिके |
बहुकालपरीणामा मृत्योस्तु वशमेयुपी |
न चाग्निसंस्कारमियं प्रापिता कुलधर्मतः ||५९ ||४-७-५९ (२८४६७)
यः समासाद्यते कश्चित्तस्मिन्देशे यदृच्छया |
तमेवमृचुर्धर्मज्ञाः कुलधर्मो न ईदृशः ||६० ||४-७-६० (२८४६८)
विश्रावयन्तस्ते हृष्टा दिशः सर्वा व्यनादयन् |
स्वर्गतेयमिहास्माकं जननी शोकविह्वला ||६१ ||४-७-६१ (२८४६९)
वने विचरमाणानां लुब्धानां वनचारिणाम् |
कुलधर्मोऽयमस्माकं पूर्वैराचरितः पुरा ||६२ ||४-७-६२ (२८४७०)
एवं ते सुकृतं कृत्वा समन्तादवघुष्य च |
भीमसेनोऽर्जुनश्चैव माद्रीपुत्रावुभावपि ||६३ ||४-७-६३ (२८४७१)
युधिष्ठिरश्च कृष्णा च राजपत्नी सुमध्यमा |
ततो यथासमाज्ञप्तं नगरं प्राविशंस्तदा ||६४ ||४-७-६४ (२८४७२)
मत्स्यराज्ञो विराटस्य समीपं वस्तुमञ्जसा |
अज्ञातचर्यां चरितुं वर्षं राष्ट्रे त्रयोदशम् ||६५ ||४-७-६५ (२८४७३)
अतश्छन्नानि नामानि चकारैषां युधिष्ठिरः |
जयो जयेशो विजयो जयत्सेनो जयद्बलः. ४-७-६६ (२८४७४)
आपत्सु नामभिस्त्वेतैः समाह्वामः परस्परम् ||६६ ||
ततो यथाप्रतिज्ञाभिः प्राविशन्नगरं महत्. ४-७-६७ (२८४७५)
अज्ञातचर्यां वत्स्यन्तो राष्ट्रे वर्षं त्रयोदशम् ||६७ ||||
४-७-६८ (२८४७६)
इति श्रीमन्महाभारते विराटपर्वणि पाण्डवप्रवेशपर्वणि
सप्तमोऽध्यायः ||७ ||
विराटपर्व -अध्याय ००८
||श्रीः ||
४. ८. अध्यायः ८
Mahabharata -Virata Parva -Chapter Topics
विराटनगरं गच्छता युधिष्ठिरेण दुर्गायाः स्तवनम् ||१ ||
Mahabharata -Virata Parva -Chapter Text
४-८-० (२८४७७)
[वैशम्पायन उवाच. ४-८-०क्ष् (३००९)
विराटनगरं रम्यं गच्छमानो युधिष्ठिरः |
अस्तुवन्मनसा देवीं दुर्गां त्रिभुवनेश्वरीम् ||१ ||४-८-१ (२८४७८)
यशोदागर्भसंभूतां नारायणवरप्रियाम् |
नन्दगोपकुले जातां मङ्गल्यां कुलवर्धनीम् ||२ ||४-८-२ (२८४७९)
कंसविद्रावणकरीमसुराणां क्षयंकरीम् |
शिलातटविनिक्षिप्तामाकाशं प्रति गामिनीम् ||३ ||४-८-३ (२८४८०)
वासुदेवस्य भगिनीं दिव्यमाल्यविभूषिताम् |
दिव्याम्बरधरां देवीं खङ्गखेटकधारिणीम् ||४ ||४-८-४ (२८४८१)
भारावतरणे पुण्ये ये स्मरन्ति सदा शिवाम् |
तान्वै तारयते पापात्पङ्के गामिव दुर्बलाम् ||५ ||४-८-५ (२८४८२)
स्तोतुं प्रचक्रमे भूयो विविधैः स्तोत्रसंभवैः |
आमन्त्र्य दर्शनाकाङ्क्षी राजा देवीं सहानुजः ||६ ||४-८-६ (२८४८३)
नमोस्तु वरदे कृष्णे कुमारि ब्रह्मचारिणि |
बालार्कसदृशाकारे पूर्णचन्द्रनिभानने ||७ ||४-८-७ (२८४८४)
चतुर्भुजे चतुर्वक्रे पीनश्रोणिपयोधरे |
मयूरपिच्छवलये केयूराङ्गदधारिणि ||८ ||४-८-८ (२८४८५)
भासि देवि यथा पद्मा नारायणपरिग्रहः |
स्वरूपं ब्रह्मचर्यं च विशदं तव खेचरि ||९ ||४-८-९ (२८४८६)
कृष्णच्छविसमा कृष्णा संकर्षणसमानना |
बिभ्रती विपुलौ बाहु शक्रध्वजसमुच्छ्रयौ ||१० ||४-८-१० (२८४८७)
पात्री च पङ्कजी घण्टी स्त्री विशुद्धा च या भुवि |
पाशं धनुर्महाचक्रं विविधान्यायुधानि च ||११ ||४-८-११ (२८४८८)
कुण्डलाभ्यां सुपूर्णाभ्यां कर्णाभ्यां च विभूषिता |
चन्द्रविस्पर्धिना देवि मुखेन त्वं विराजसे ||१२ ||४-८-१२ (२८४८९)
मुकुटेन विचित्रेण केशबन्धेन शोभिना |
भुजङ्गाभोगवासेन श्रोणिसूत्रेण राजता ||१३ ||४-८-१३ (२८४९०)
विभ्राजसे चाऽऽबद्धेन भोगेनेवेह मन्दरः |
ध्वजेन शिखिपिच्छानामुच्छ्रितेन विराजसे ||१४ ||४-८-१४ (२८४९१)
कौमारं व्रतमास्थाय त्रिदिवं पावितं त्वया |
तेन त्वं स्तूयसे देवि त्रिदशैः पूज्यसेऽपि च ||१५ ||४-८-१५ (२८४९२)
त्रैलोक्यरक्षणार्थाय महिषासुरनाशिनि |
प्रसन्ना मे सुरश्रेष्ठे दयां कुरु शिवा भव ||१६ ||४-८-१६ (२८४९३)
जया त्वं विजया चैव संग्रामे च जयप्रदा |
ममापि विजयं देहि वरदा त्वं च सांप्रतम् ||१७ ||४-८-१७ (२८४९४)
विन्ध्ये चैव नगश्रेष्ठे तव स्थानं हि शाश्वतम् |
कालि कालि महाकालि शीधुमांसपशुप्रिये ||१८ ||४-८-१८ (२८४९५)
कृतानुयात्रा भूतैस्त्वं वरदा कामचारिणी |
भारावतारे ये च त्वां संस्मरिष्यन्ति मानवाः ||१९ ||४-८-१९ (२८४९६)
प्रणमन्ति च ये त्वां हि प्रभाते तु नरा भुवि |
न तेषां दुर्लभं किंचित्पुत्रतो धनतोपि वा ||२० ||४-८-२० (२८४९७)
दुर्गात्तारयसे दुर्गे तत्त्वं दुर्गा स्मृता जनैः |
कान्तारेष्ववसन्नानां मग्रानां च महार्णवे |
दस्युभिर्वा निरुद्धानां त्वं गतिः परमा नृणाम् ||२१ ||४-८-२१ (२८४९८)
जलप्रतरणे चैव कान्तारेष्वटवीषु च |
ये स्मरन्ति महादेवि न च सीदन्ति ते नराः ||२२ ||४-८-२२ (२८४९९)
त्वं कीर्तिः श्रीर्धृतिः सिद्धिर्ह्रीर्विद्या संततिर्मतिः |
संध्या रात्रिः प्रभा निद्रा ज्योत्स्ना कांतिःक्षमादया ||२३ ||४-८-२३ (२८५००)
नृणां च बन्धनं मोहं पुत्रनाशं धनक्षयम् |
व्याधिं मृत्युं भयं चैव पूजिता नाशयिष्यसि ||२४ ||४-८-२४ (२८५०१)
सोहं राज्यात्परिभ्रष्टः शरणं त्वां प्रपन्नवान् |
प्रणतश्च यथा मूर्ध्ना तव देवि सुरेश्वरि ||२५ ||४-८-२५ (२८५०२)
त्राहि मां पद्मपत्राक्षि सत्ये सत्या भवस्व नः |
शरणं भव मे दुर्गे शरण्ये भक्तवत्सले ||२६ ||४-८-२६ (२८५०३)
एवं स्तुता हि सा देवी दर्शयामास पाण्डवम् |
उपगम्य तु राजानमिदं वचनमब्रवीत् ||२७ ||४-८-२७ (२८५०४)
देव्युवाच | ४-८-२८क्ष् (३०१०)
शृणु राजन्महाबाहो मदीयं वचनं प्रभो |
भविष्यत्यचिरादेव संग्रामे विजयस्तव ||२८ ||४-८-२८ (२८५०५)
मम प्रसादान्निर्जित्य हत्वा कौरववाहिनीम् |
राज्यं निष्कण्टकं कृत्वा भोक्ष्यसे मेदिनीं पुनः ||२९ ||४-८-२९ (२८५०६)
भ्रातृभिः सहितो राजन्प्रीतिं प्राप्स्यसि पुष्कलाम् |
मत्प्रसादाच्च ते सौख्यमारोग्यं च भविष्यति ||३० ||४-८-३० (२८५०७)
ये च संकीर्तयिष्यन्ति लोके विगतकल्मषाः |
तेषां तुष्टा प्रदास्यामि राज्यमायुर्वपुः सुतम् ||३१ ||४-८-३१ (२८५०८)
प्रवासे नगरे वाऽपि संग्रामे शत्रुसंकटे |
अटव्यां दुर्गकान्तारे सागरे गहने गिरौ ||३२ ||४-८-३२ (२८५०९)
ये स्मरिष्यन्ति मां राजन्यथाऽहं भवता स्मृता |
न तेषां दुर्लभं किंचितस्मिँल्लोके भविष्यति ||३३ ||४-८-३३ (२८५१०)
इदं स्तोत्रवरं भक्त्या शृणुयाद्वा पठेत वा |
तस्य सर्वाणि कार्याणि सिद्धिं यास्यन्ति पाण्डवाः ||३४ ||४-८-३४ (२८५११)
मत्प्रसादाच्च वः सर्वान्विराटनगरे स्थितान् |
न प्रज्ञास्यन्ति कुरको नरा वा तन्निवासिनः ||३५ ||४-८-३५ (२८५१२)
इत्युक्त्वा वरदा देवी युधिष्ठिरमरिंदमम् |
रक्षां कृत्वा च पाण्डूनां तत्रैवान्तरधीयत ||] ३६ ||||४-८-३६ (२८५१३)
इति श्रीमन्महाभारते विराटपर्वणि पाण्डवप्रवेशपर्वणि
अष्टमोऽध्यायः ||८ ||
Mahabharata -Virata Parva -Chapter Footnotes
४-८-३ शिलातटे कंसेनैव विनिक्षिप्ता सती आकाशं गता ताम् ||
३ ||
४-८-६ स्तोत्रार्थमेव संभव उद्भवो येषां नाम्नां वरदे इत्यादीनांतैः
. आमन्त्र्य संबोध्य ||
६ ||
४-८-९ पद्मा लक्ष्मीं अत एव नारायणपरिग्रहो विष्णुकान्ता ||
९ ||
४-८-१० कृष्णच्छविर्नीलमेघस्तेन समा अत एव कृष्णा
. अष्टभुजामाह बिभ्रतीति. विपुलौ वराभयप्रदत्वेन ऊर्जितौ द्वौ
बाहू ||
१० ||
४-८-११ तत एकः पात्री पात्रवान्पङ्कजी पङ्कजवान् घण्टी घण्टावान्
पञ्चमः पाशं धनुर्महाचक्रं च बिभ्रतीति पूर्वेणान्वयः ||
११ ||
विराटपर्व -अध्याय ००९
||श्रीः ||
४. ९. अध्यायः ९
Mahabharata -Virata Parva -Chapter Topics
युधिष्ठिरेण यतिवेषपरिग्रहेण विराटसभाप्रवेशः ||१ ||
प्रत्युत्थानादिना सत्कृतेन युधिष्ठिरेण विराटभवने निवासः ||२ ||
Mahabharata -Virata Parva -Chapter Text
४-९-० (२८५१४)
वैशम्पायन उवाच. ४-९-०क्ष् (३०११)
ततस्तु ते पुण्यजलां शिवां शुभां महर्षिगन्धर्वनिषेवितोदकाम् |
त्रिलोककान्तामवतीर्य जाह्नवीमृषींश्च देवांश्च पितृनतपर्यन्
||१ ||४-९-१ (२८५१५)
वरप्रदानं ह्यनुचिन्त्य पार्थिवे हुत्वाऽग्निहोत्रं कृतजप्यमङ्गलः |
दिशं तथैन्द्रीमभितः प्रपेदिवान्कृताञ्जलिर्धर्ममुपाह्वयच्छनैः
||२ ||४-९-२ (२८५१६)
युधिष्ठिर उवाच. ४-९-३क्ष् (३०१२)
वरप्रदानं मम दत्तवान्पिता प्रसन्नचेता वरदः प्रजापतिः |
जलार्थिनो मे तृषितस्य सोदरा मया प्रयुक्ता विविशुर्जलाशयम् ||३
||४-९-३ (२८५१७)
निपातिता यक्षवरेण ते वने महाहवे वज्रभृतेव दानवाः |
मया च गत्वा वरदो हि तोषितो विवक्षता प्रश्नसमुच्चयं गुरुः
||४ ||४-९-४ (२८५१८)
स मे प्रसन्नो भगवान्वरं ददौ परिष्वजंश्चाह तथैव सौहृदात् |
वृणीष्व यद्वाञ्छसि पाण्डुनन्दन स्थितोऽन्तरिक्षे वरदोऽस्मि पश्य
माम् ||५ ||४-९-५ (२८५१९)
स वै मयोक्तो वरदः पिता प्रभुः सदैव मे धर्मरता मतिर्भवेत् |
इमे च जीवन्तु ममानुजाः प्रभो वयं स्वरूपं च जयं तथाऽऽप्नुमः
||६ ||४-९-६ (२८५२०)
क्षमा च कीर्तिश्च यथेप्सितं भवेद्व्रतं तु सत्यं च समाप्तिरेव च |
वरो ममैषोस्तु यथाऽनुकीर्तितो न तन्मृषा देववृषो यथाऽब्रवीत्
||७ ||४-९-७ (२८५२१)
वैशम्पायन उवाच. ४-९-८क्ष् (३०१३)
इत्येवमुक्त्वा धर्मात्मा धर्ममेवानुचिन्तयन् |
तदैव तत्प्रसादेन रूपमेवाभवत्स्वयम् ||८ ||४-९-८ (२८५२२)
स वै द्विजातिस्तरुणस्त्रिदण्डभृत्कमण्डलूष्णीषधरो व्यजायत |
सुरक्तमाञ्जिष्ठवराम्बरः शिखी पवित्रपाणिर्ददृशे तदाऽद्भुतम्
||९ ||४-९-९ (२८५२३)
तथैव तेषामपि धर्मचारिणां यथोचितार्हाभरणाम्बरस्रजः |
क्षणेन राजन्नभवन्महात्मनां प्रशस्तधर्माग्र्यफलाभिकाङ्क्षिणाम्
||१० ||४-९-१० (२८५२४)
नवेन रूपेण विशांपतिर्युतस्त्वथर्वरूपेण बभौ प्रतापवान् |
निबद्धवैडूर्यसितान्सकाञ्चनान्नृपस्तथाऽक्षान्परिवेष्ट्य वाससः
||११ ||४-९-११ (२८५२५)
ततो विराटं प्रथमं युधिष्ठिरो ददर्श दूरात्सुसमृद्धतेजसम् |
अनन्ततेजोज्वलितं हुताशनं दुरासदं तीक्ष्णविषं यथोरगम् ||१२
||४-९-१२ (२८५२६)
सभासदं प्राञ्जलिभिर्जनैर्वृतं विचित्रनानाविधशस्त्रपाणिभिः |
उपायनौघैः प्रविशद्भिराचितं द्विजैश्च
शिक्षाक्षरमन्त्रधारिभिः ||१३ ||४-९-१३ (२८५२७)
गजैरुदीर्मं तुरगैश्च सङ्कुलं मृगद्विपैः कुब्जगणैः समावृतम् |
सितोच्छ्रितोष्णीषनिरुद्धमूर्धजं विचित्रवैडूर्यविकारकुण्डलम् |
विराटमायाच्च युधिष्ठिरस्तदा बृहस्पतिः शक्रमिव त्रिविष्टपे
||१४ ||४-९-१४ (२८५२८)
तमाव्रजन्तं प्रसमीक्ष्य पाण्डवं विराटराजो मुदितेन चक्षुषा |
पप्रच्छ चैनं स नराधिपो मुहुर्द्विजाश्च ये चास्य सभासदस्तदा
||१५ ||४-९-१५ (२८५२९)
विराट उवाच | ४-९-१६क्ष् (३०१४)
को वा विजानाति पुराऽस्य दर्शनं युवा सभां योऽयमुपैति मामिकाम् |
रूपेण सारेण विराजयन्महीं श्रिया ह्ययं वैश्रवणो द्विजो यथा ||१६
||४-९-१६ (२८५३०)
मृगेन्द्रराड्वारणयूथपोपमः प्रभात्ययं काञ्चनपर्वतो यथा |
विराजते पावकसूर्यसन्निभं सचन्द्रनक्षत्र इवांशुमान्ग्रहः ||१७
||४-९-१७ (२८५३१)
न दृश्यतेऽस्यानुचरो न कुञ्जरो न चोष्णरश्म्यावरणं समुच्छ्रितम् |
न कुण्डलं नाङ्गदमस्य न स्रजो विचित्रिताङ्गश्च रथश्रतुर्युजः
||३८ ||४-९-१८ (२८५३२)
क्षात्रं च रूपं हि बिभर्त्ययं भृशं गजेन्द्रशार्दूलमहर्षभोपमः |
अभ्यागतोऽस्माननलंकृतोपि सन् विरोचते भानुरिवाचिरोदितः ||१९
||४-९-१९ (२८५३३)
विभात्ययं क्षत्रिय एव सर्वथा विराट इत्येवमुवाच तं प्रति |
ससागरान्तामयमद्य मेदिनीं प्रशासितुं चार्हति वासवोपमः ||२०
||४-९-२० (२८५३४)
नाक्षत्रियो नूनमयं भविष्यति मूर्धाभिषिक्तः प्रतिभाति मां प्रति |
तुल्यं हि रूपं प्रतिदृश्यतेऽस्य गजस्य सिंहस्य तथर्षभस्य
||२१ ||४-९-२१ (२८५३५)
यमेष कामं परिमार्गते द्विजः स चास्य सर्वः क्रियतामसंशयम् |
प्रियं च मे दर्शनमीदृशे जने द्विजेषु मुख्येषु तथाऽतिथिष्वपि
||२२ ||४-९-२२ (२८५३६)
धनेषु रत्नेष्वथ गोषु वेश्मसु प्रकामतो मे विचरत्ववारितः
||२३ ||४-९-२३ (२८५३७)
वैशम्पायन उवाच | ४-९-२४क्ष् (३०१५)
एवं ब्रुवाणस्तमनन्ततेजसं विराजमानं सहसोत्थितो नृपः |
अन्येन रूपेण समीपमागतं त्रिदण्डकुण्ड्यङ्कुशशिक्यपाणिनम् ||२४
||४-९-२४ (२८५३८)
समुत्थिता सा हि सभा सपार्थिवा सविप्रराजन्यविशा सशूद्रका |
सभागत प्रेक्ष्य तपन्तमर्चिषां विनिःसृतं राहुमुखाद्यथा रविम्
||२५ ||४-९-२५ (२८५३९)
स तेन पूर्वं जयतां भवानिह द्विजातिनोक्तोऽभिमुखः कृताञ्जलिः |
जयं जयार्हेण समेत्य वर्धितो विराटराजो ह्यभिवादयच्च तम् ||२६
||४-९-२६ (२८५४०)
तमब्रवीत्प्राञ्जलिरेष पार्थिवो विराटराजो मधुराक्षरं वचः |
प्राप्तः कुतस्त्वं भगवन्किमिच्छसि क्व यास्यसे किं करवाणि ते द्विज
||२७ ||४-९-२७ (२८५४१)
श्रुतं च शीलं च कुलं च शंस मे गोत्रं तथा नाम च देशमेव ते |
सत्यप्रतिज्ञा हि भवन्ति साधवो विशेषतः प्रव्रजिता द्विजातयः
||२८ ||४-९-२८ (२८५४२)
यथाऽनुरूपं प्रचरामि ते त्वहं न चावमन्ता न तवाभिभाषितम् |
अपूजिता ह्यग्निसमा द्विजातयः कुलं दहेयुः सविषा इवोरगाः ||२९
||४-९-२९ (२८५४३)
सर्वां च भूमिं तव दातुमुत्सहे सदण्डकोशां विसृजामि ते पुरम् |
कस्यासि राज्ञो विषयादिहागतः किं कर्म चात्राचरसि द्विजोत्तम ||३०
||४-९-३० (२८५४४)
वैशम्पायन उवाच. ४-९-३१क्ष् (३०१६)
एवं ब्रुवाणं तमुवाच पार्थिवं युधिष्ठिरो धर्ममवेक्ष्य चासकृत् |
सत्यं वचः को न्विह वक्तुमुत्सहेद्यथाप्रतिज्ञं तु शृणुष्व
पार्थिव ||३१ ||४-९-३१ (२८५४५)
श्रुतं च शीलं च कुलं च कर्म च शृणुष्व मे जन्म च
देशमेव च |
गुरूपदेशान्नियमाच्च मे व्रतं कुलक्रमार्थं पितृभिर्नियोजितम्
||३२ ||४-९-३२ (२८५४६)
द्विजो व्रतेनास्मि न च स्वतः प्रभो संमुण्डितः प्रव्रजितस्त्रिदण्डभृत् |
इदं शरीरं मम पश्य मानुषं समावृतं पञ्चभिरेव धातुभिः
||३३ ||४-९-३३ (२८५४७)
ममेह पञ्चेन्द्रियगात्रदर्शिनो वदन्ति पञ्चैव पितॄन्यथा श्रुतिः |
मनुष्यजातित्वमचिन्तयन्नहं न चास्मि तुल्यः पितृभिः स्वभावतः
||३४ ||४-९-३४ (२८५४८)
कङ्को हि नाम्ना विषयं तवागतो व्रती द्विजातिः स्वकृतेन कर्मणा |
द्यूतप्रसङ्गादधनोऽस्मि राजन्सत्यप्रतिज्ञा व्रतिनश्चरामः ||३५
||४-९-३५ (२८५४९)
युधिष्ठिरस्यापि सखाऽभवं पुरा गृहप्रवेशी च शरीरमेव च |
गृहे च तस्योपितवानहं सुखं राजाऽस्मि तस्य स्वपुरेऽभवं पुरा
||३६ ||४-९-३६ (२८५५०)
ममाज्ञया तत्र विचेरुरङ्गना मम प्रियार्थं दमयन्ति वाजिनः |
मया कृतं तस्य पुरे तु यत्पुरा न तत्कदाचित्कृतवाञ्जनोऽन्यथा
||३७ ||४-९-३७ (२८५५१)
सोहं पुरा तस्य वयस्समः सखा चरामि सर्वां वसुधां सुदुःखितः |
न तु प्रशान्तिं क्वचिदाप्तवानहं व्रतोपदेशान्नियमेन भारिकः ||३८
||४-९-३८ (२८५५२)
वैयाघ्रपद्योस्मि नरेन्द्र गोत्रतस्तदेव सौख्यं मृगयामहे वयम् |
कृतज्ञभावेन मयाऽनुकीर्तितं युधिष्ठिरस्यात्मसमस्य चेष्टितम्
||३९ ||४-९-३९ (२८५५३)
इमं हि मोक्षाश्रममास्थितस्य मे युधिष्ठिरस्तुल्यगुणो भवानपि |
न मेऽस्ति माता न पिता न बान्धवा न मेऽस्ति रूपं न रतिर्न सन्ततिः
||४० ||४-९-४० (२८५५४)
सुखं च दुःखं च हि तुल्यमद्य मे प्रियाप्रिये तुल्यगते गतागते |
मुक्तोस्मि कामाच्च धनाच्च सांप्रतं त्वदाश्रये वस्तुमिहाभ्युपागतः
||४१ ||४-९-४१ (२८५५५)
संवत्सरेणेह समाप्यते त्विदं मम व्रतं दुष्करकर्मकारिणः |
ततो भवन्तं परितोष्य कर्मभिः पुनर्व्रजिष्ये च कुतूहलं यतः
||४२ ||४-९-४२ (२८५५६)
अक्षान्निवप्तुं कुशलोस्म्वहं सदा पराजितः शकुनिरुतानि चिन्तयन् |
मृगद्विजानां च रुतानि चिन्तयन्निराश्रयः प्रव्रजितोस्मि भिक्षुकः
||४३ ||४-९-४३ (२८५५७)
वैशम्पायन उवाच | ४-९-४४क्ष् (३०१७)
तेनैवमुक्ते वचने नराधिपः कृताञ्जलिः प्रव्रजितं विलोक्य च |
अथाब्रवीद्धृष्टमनाः शुभाक्षरं मनोनुगं सर्वसभागतं वचः
||४४ ||४-९-४४ (२८५५८)
ददामि ते हन्त वरं यदीप्सितं प्रशाधि मत्स्यान्यदि मन्यते भवान् |
प्रिया हि धूर्ता मम चाक्षकोविदास्त्वं चापि देवो मम राज्यमर्हसि
||४५ ||४-९-४५ (२८५५९)
समानयानासनवस्त्रभोजनं प्रभ्रूतमाल्याभरणानुलेपनम् |
स सार्वभौमोपम सर्वदाऽर्हसि प्रियं हि मन्ये तव नित्यदर्शनम्
||४६ ||४-९-४६ (२८५६०)
ये त्वाऽभिधावेयुरनर्थपीडिता द्विजातिमुख्या यदि वेतरे जनाः |
सर्वाणि कार्याण्यहमर्थितस्त्वया तेषां करिष्यामि न मेऽत्र संशयः
||४७ ||४-९-४७ (२८५६१)
ममान्तिके यश्च तवाप्रियं चरेत्प्रवासये तं परिचिन्त्य मानवम् |
यच्चापि किंचिद्वसु विद्यते मम प्रभुर्भवांस्तस्य वशी वसेह च
||४८ ||४-९-४८ (२८५६२)
युधिष्ठिर उवाच. ४-९-४९क्ष् (३०१८)
अतोऽभिलाषः परमो न विद्यते न मे जितं किंचन धारये धनम् |
न भोजनं किंचन संस्पृशेयं हविष्यभोजी निशि च क्षितीशयः
||४९ ||४-९-४९ (२८५६३)
व्रतोपदेशात्समयो हि नैष्ठिको न क्रोधितव्यं नरदेव कस्यचित् |
एवंप्रतिज्ञस्य ममेह भूपते निवासबुद्धिर्भविता तु नान्यथा ||५०
||४-९-५० (२८५६४)
एवं वरं मात्स्य वृणे प्रदापितं कृति भविष्यामि वरेण तेऽनघ
||५१ ||४-९-५१ (२८५६५)
वैशम्पायन उवाच. ४-९-५२क्ष् (३०१९)
एवं तु राज्ञः प्रथमः समागमो बभूव मात्स्यस्य युधिष्ठिरस्य च |
विराटराजस्य हि तेन सङ्गमो बभूव विष्णोरिव वज्रपाणिना ||५२
||४-९-५२ (२८५६६)
तमासनस्थं प्रियरूपदर्शनं निरीक्षमाणो न ततर्प भूमिपः |
सभां च तां प्रज्वलयन्युधिष्ठिरः श्रिया यथा शक्रइव
त्रिविष्टपम् ||५३ ||४-९-५३ (२८५६७)
एवं स लब्ध्वा नृपतिः समागमं विराटराजेन नरर्षभस्तदा |
उवास वीरः परमार्चितः सुखी न चास्य कश्चिच्चरितं बुबोध तत्
||५४ ||||४-९-५४ (२८५६८)
इति श्रीमन्महाभारते विराटपर्वणि पाण्डवप्रवेशपर्वणि
नवमोऽध्यायः ||९ ||
Mahabharata -Virata Parva -Chapter Footnotes
४-९-६ वयश्च रूपं च बलं तथाऽऽप्नुयुरिति थो धो पाठः ||
६ ||
४-९-२४ अन्येन रूपेण यतिवेषेण आगतं दृष्ट्वेति शेषः ||
२४ ||
विराटपर्व -अध्याय ०१०
||श्रीः ||
४. १०. अध्यायः १०
Mahabharata -Virata Parva -Chapter Topics
भीमेन सूदवेषपरिग्रहेण विराटसभाप्रवेशः ||१ ||
विराटेन भीमस्य पाकाधिकारे नियोजनम् ||२ ||
Mahabharata -Virata Parva -Chapter Text
४-१०-० (२८५६९)
वैशम्पायन उवाच | ४-१०-०क्ष् (३०२०)
अथापरस्यां दिशि भीमदर्शनो वृकोदरोऽदृश्यत सिंहविक्रमः |
असिप्रवेके प्रतिमुच्य शाणिते खजां च दर्वी च करेण धारयन् ||१
||४-१०-१ (२८५७०)
त्वचं च गोचर्ममयीं सुमर्दितां समुक्षितां पानकरागषाडवैः |
किलासमालम्ब्य करेण चायसं सशृङ्गिबेरार्द्रकभूस्तृणाङ्कुरम्
||२ ||४-१०-२ (२८५७१)
गम्भीररूपः परमेण तेजसा रविर्यथा लोकमिमं प्रकाशयन् |
स कृष्णवासा गिरिराजसारवान् स मत्स्यराजं समुपेत्य तस्थिवान् ||३
||४-१०-३ (२८५७२)
सभागतो वारणयूथपोपमस्तमिस्रहा रात्रिमिवावभासयन् |
सहस्रनेत्रावरजान्तकोपमस्त्रिलोकपालाधिपतिर्यथा हरिः ||४
||४-१०-४ (२८५७३)
तमाव्रजन्तं गजयूथपोपमं निरीक्षमाणो नवसूर्यवर्चसम् |
भयात्समुद्विग्नविपण्णचेतनो दिशश्च सर्वाः प्रसमीक्ष्य चासकृत्
||५ ||४-१०-५ (२८५७४)
तमेकवस्त्रं परसैन्यवारणं सभाऽविदूरान्नृपतिर्नृपात्मजम् |
समीक्ष्य वैक्लब्यमुपेयिवाञ्शनैर्जनाश्च भीताः परिसर्पिरे भृशम्
||६ ||४-१०-६ (२८५७५)
अथाब्रवीन्मात्स्यपतिः सभागतान् भृशातुरोष्णं परिनिश्वसन्निव |
कोऽयं युवा वारणराजसन्निभः सभामभिप्रैति हि मामिकामिमाम् ||७
||४-१०-७ (२८५७६)
को वा विजानाति पुराऽस्य दर्शनं मृगेन्द्रशार्दूलगतिं हि मामकः |
व्यूढान्तरांसो मृगराडिवोत्कटो य एष दिव्यः पुरुषः प्रकाशते ||८
||४-१०-८ (२८५७७)
राजश्रिया ह्येष विभाति राजवद्विरोचते रुक्मगिरिप्रभोपमः |
नाक्षत्रियो नूनमयं भविष्यति सहस्रनेत्रप्रतिमस्तथा ह्यसौ ||९
||४-१०-९ (२८५७८)
रूपेण यश्चाप्रतिमो ह्ययं महान्महीमिमां शत्रः इवाभिपालयेत् |
नाभूमिपोऽयं हि रतिर्ममेति च च्युतः समृद्ध्या नभसीव नाहुषः
||१० ||४-१०-१० (२८५७९)
वैशम्पायन उवाच. ४-१०-११क्ष् (३०२१)
वितर्कमाणस्य च तस्य पाण्डवः सभामतिक्रम्य वृकोदरोऽब्रवीत् |
जयेति राजानमभिप्रमोदयन्सुखेन सभ्यं च सभागतं जनम् ||११
||४-१०-११ (२८५८०)
ततो नृपं वाक्यमुवाच पाण्डवो यथाऽनुपूर्व्यात्कृपयान्वितोत्तरम् |
त्वां जीवितुं शत्रुहन्नागतोऽहं त्वमेव लोके परमो हि संश्रयः
||१२ ||४-१०-१२ (२८५८१)
नरेन्द्र शूद्रोस्मि चतुर्थवर्णभाग्गुरूपदेशात्परिचारकर्मकृत् |
जानामि सूपांश्च रसांश्च संस्कृतान्मांसान्यपूपांश्च पचामि शोभनान् |
रागप्रकाराश्च बहून्फलाश्रयान्महानसे मे न समोस्ति सूपकृत्
||१३ ||४-१०-१३ (२८५८२)
वैशम्पायन उवाच | ४-१०-१४क्ष् (३०२२)
तमब्रवीन्मत्स्यपतिः प्रहृष्टवत्प्रियं प्रगल्भं मधुरं विनीतवत् |
न शूद्रतां कांचन लक्षयामि ते कुबेरचन्द्रेन्द्रदिवाकरप्रभ
||१४ ||४-१०-१४ (२८५८३)
हुताशनाशीविषतुल्यतेजसो न कर्म ते योग्यमिदं महानसे |
न सूपकारो भवितुं त्वमर्हसि सुपर्णगन्धर्वमहोरगोपम ||१५
||४-१०-१५ (२८५८४)
अनीककर्णाग्रधरो ध्वजी रथी भवाद्य मे वारणवाहिनीपतिः |
न नीचकर्मा भवितुं त्वमर्हसि प्रशासितुं भूमिमिमां त्वमर्हसि
||१६ ||४-१०-१६ (२८५८५)
भीम उवाच | ४-१०-१७क्ष् (३०२३)
चतुर्थवर्णोस्म्यहमुग्रशासन न वै वृणे त्वामहमीदृशं पदम् |
जात्याऽस्मि शूद्रो बललेति नाम्ना जिजीविषुस्त्वद्विषयं समागतः ||१७
||४-१०-१७ (२८५८६)
युधिष्ठिरस्यास्मि महानसे पुरा बभूव सर्वप्रभुरन्नपानदः |
अथापि मामुत्सृजसे महीपते व्रजाम्यहं यावदितो यथागतम् ||१८
||४-१०-१८ (२८५८७)
त्वमन्नसंस्कारविधौ प्रशाधि मां भवामि तेऽहं नरदेव सूपकृत् |
बलेन तुल्यश्च न विद्यते मया नियुद्धशीलोस्मि सदा हि पार्थिव
||१९ ||४-१०-१९ (२८५८८)
गजांश्च सिंहांश्च समेयिवानहं सदा करिष्यामि तवानघ प्रियम् |
न नीचकर्मा तव मादृशः प्रभो बलस्य नेताऽप्यबलो भवेदिति
||२० ||४-१०-२० (२८५८९)
स्वकर्मतुष्टाश्च वयं नराधिप प्रशाधि मां सूदपदे यदीच्छसि |
ये सन्ति मल्ला बलवीर्यसंमतास्तानेव योत्स्यामि तवाभिहर्पयन् ||२१
||४-१०-२१ (२८५९०)
वैशम्पायन उवाच. ४-१०-२२क्ष् (३०२४)
तमेवमुक्ते वचने नराधिपः प्रत्यब्रवीन्मत्स्यपतिः प्रहृष्टवत् |
सोहं न मन्ये तव कर्म तत्समं समुद्रनेमिं पृथिवीं त्वमर्हसि
||२२ ||४-१०-२२ (२८५९१)
त्रिलोकपालो हि यथा विराजसे तथाऽद्य मे विष्णुरिवातिरोचसे |
यथा तु कामस्तव तत्तथा कृतं महानसे मे भव मे पुरस्कृतः |
नराश्च मे तत्र मया सदाऽर्चिता भवाद्य तेषामधिपो मया कृतः
||२३ ||४-१०-२३ (२८५९२)
तथा स भीमो विहितो महानसे विराटराजस्य बभूव वै प्रियः |
उवास राजन्न च तं पृथग्जनो बुबोध तस्यानुचरश्च कश्चन
||२४ ||||४-१०-२४ (२८५९३)
इति श्रीमन्महाभारते विराटपर्वणि पाण्डवप्रवेशपर्वणि
दशमोऽध्यायः ||१० ||
विराटपर्व -अध्याय ०११
||श्रीः ||
४. ११. अध्यायः ११
Mahabharata -Virata Parva -Chapter Topics
अर्जुनेन षण्डवेषपरिग्रहेण विराटसभाप्रवेशः ||१ ||
विराटेनार्जुनस्य कन्यानाटने नियोजनम् ||२ ||
Mahabharata -Virata Parva -Chapter Text
४-११-० (२८५९४)
वैशम्पायन उवाच. ४-११-०क्ष् (३०२५)
अथापरोऽदृश्यत वर्णवान्युवा स्त्रीवेषधारी समलंकृतो भृशम् |
प्रवालचित्रे प्रविमुच्य कुण्डले उभे च कम्बू परिपातुके तथा ||१
||४-११-१ (२८५९५)
कृष्णे च रक्ते च निबध्य वाससी शरीरवाञ्शुक्रबृहस्पतिप्रभः |
बहूंश्च दीर्घांश्च विकीर्य मूर्धजान्महाभुजो मत्तगजेन्द्रविक्रमः
||२ ||४-११-२ (२८५९६)
क्लैब्येन वेषेण न भति भाति च ग्रहाभिपन्नो नभसीव चन्द्रमाः |
गतेन चोर्वी परिकम्पयंस्तदा विराटमासाद्य सभासमीपतः ||३
||४-११-३ (२८५९७)
तं प्रेक्ष्य राजोपगतं सभातले व्याजाप्रतिच्छन्नममित्रमर्दनम् |
विराजमानं सुरराजवर्चसं सुतं सुरेन्द्रस्य गजेन्द्रविक्रमम् ||४
||४-११-४ (२८५९८)
सर्वानपृच्छच्च समीपचारिणः कुतोऽयमायाति न मे पुरा श्रुतः |
न चैनमूचुर्विदितं नरास्तदा सविस्मयं वाक्यमिदं नृपोऽब्रवीत्
||५ ||४-११-५ (२८५९९)
विराट उवाच. ४-११-६क्ष् (३०२६)
गजेन्द्रलीलो मृगराजगामी वृषेक्षणो देवसुतोग्रतेजाः |
पीनांसबाहुः कनकावदातः कोऽयं नरो मे नगरं प्रविष्टः ||६
||४-११-६ (२८६००)
किमेष देवेन्द्रसुतः किमेष ब्रह्मात्मजो वा किमयं स्वयंभूः |
उमासुतो वैश्रवणात्मजो वा प्रेक्ष्यैनमासीदिति मे वितर्कः ||७
||४-११-७ (२८६०१)
वैशम्पायन उवाच. ४-११-८क्ष् (३०२७)
सभामतिक्रम्य स वासवोपमो निरीक्षमाणो बहुभिः सभागतैः |
स तत्र राजनममित्रहाऽब्रवीद्बृहन्नलाहं नरदेव नर्तकी ||८
||४-११-८ (२८६०२)
वेणीं प्रकुर्यां रुचिरे च कुण्डले ग्रथे स्रजः प्रावरणानि संहरे |
स्नानं चरेयं विमृजे च दर्पणं विशेषकेष्वेव च कौशलं
मम ||९ | ४-११-९ (२८६०३)
क्लीबेषु बालेषु जनेषु नर्तने शिक्षाप्रदानेषु च योग्यता मम |
करोमि वेणीषु च पुष्पपूरकं न मे स्त्रियः कर्मणि कौशलाधिकाः
||१० ||४-११-१० (२८६०४)
इत्यर्जुनस्तं नरदेवमोजसा विज्ञाप्य तस्थौ विधिनाऽऽत्मनः क्रियाम् |
तमब्रवीत्प्रांशुमुदीक्ष्य विस्मितो विराटराजोपसृतं महायशाः ||११
||४-११-११ (२८६०५)
नार्हस्तु वेषोऽयमनूर्जितस्ते नापुंस्त्वमर्हं नरदेवसिंह |
तवैव वेषः शुभवेषभूषणैर्विभूषितो भूतपतेरिव प्रभो
||१२ ||४-११-१२ (२८६०६)
विभाति भानोरिव रश्मिमालिनो घनावरुद्धे गगने घनैरिव |
धनुर्हि मन्ये तव शोभयेद्भुजौ तथाहि पीनावतिमात्रमायतौ ||१३
||४-११-१३ (२८६०७)
प्रगृह्य चापं त्वनुरूपमात्मनो रक्षस्व देशं पुरमद्य सुस्थिरः |
पुत्रेण तुल्यो भव मे बृहन्नले वृद्धोस्मि वित्तं प्रतिपादयामि ते
||१४ ||४-११-१४ (२८६०८)
त्वं रक्ष मे सर्वमिदं पुरं प्रभो न षण्डतां कांचन लक्षयामि ते |
प्रशाधि मत्स्यांस्तरसा विवर्धयन्ददामि राज्यं तव सत्यवागहम्
||१५ ||४-११-१५ (२८६०९)
वैशम्पायन उवाच. ४-११-१६क्ष् (३०२८)
तस्याग्रतः स्वानि धनूंषि पार्थिवो बहूनि दीर्घाणि च वर्णवन्ति च |
ददौ स सज्यानि बलान्वितानि जिज्ञासमानः किमयं करिष्यति ||१६
||४-११-१६ (२८६१०)
ततोऽर्जुनः क्लीबतरं वचोऽब्रवीन्न मे धनुर्धारितमीदृशं विभो |
न चापि दृष्टं धनुरीदृशं क्वचिन्न मादृशाः सन्ति धनुर्धरा
भुवि ||१७ ||४-११-१७ (२८६११)
नृत्याम गायामि च वादयाम्यहं प्रानर्तने कौशलनैपुणं मम |
तदुत्तरायाः परिधत्स्व नर्तने भवामि देव्या नरदेव नर्तकी ||१८
||४-११-१८ (२८६१२)
विराट उवाच. ४-११-१९क्ष् (३०२९)
ददामि ते तं हि वरं बृहन्नले सुतां हि मे नर्तय याश्च तादृशीः |
ततो विराटः स्वयमाह्वयत्सुतां नराधिपस्तां च सुमध्यसुन्दरीम् ||१९
||४-११-१९ (२८६१३)
उवाच चैनां मुदितेन चेतसा बृहन्नला नाम सखी भवत्वियम् |
सुगात्रि संप्रीतिसुबद्धसौहृदा तवाङ्गने प्राणसमा च नित्यदा ||२०
||४-११-२० (२८६१४)
प्रकामभक्ष्याभरणाम्बरा शुभा चरत्वियं सर्वजनेष्ववारिता |
न दुष्कुलानामियमाकृतिर्भवेन्न वृत्तभेदी भवतीदृशो जनः
||२१ ||४-११-२१ (२८६१५)
वैशम्पायन उवाच. ४-११-२२क्ष् (३०३०)
संमन्त्र्य राजा विविधैः स्वमन्त्रिभिः परीक्ष्य चैनं प्रमदाभिराशु वै |
अपुंस्त्वमप्यस्य निशम्य च स्थिरं ततः कुमारीपुरमुत्ससर्ज तम्
||२२ ||४-११-२२ (२८६१६)
स शिक्षयामास च गीतवदनं सुतां विराटस्य धनंजयः प्रभुः |
सखीश्च तस्याः परिचारिकास्तथा प्रियश्च तस्याः स बभूव पाण्डवः
||२३ ||४-११-२३ (२८६१७)
तथा स तत्रैव धनंजयोऽवसत्प्रियाणि कुर्वन्त्सह ताभिरात्मवान् |
तथा गतं तत्र न जझिरे जना बहिश्चरा वाऽप्यथवेतरे जनाः
||२४ ||||४-११-२४ (२८६१८)
इति श्रीमन्महाभारते विराटपर्वणि पाण्डवप्रवेशपर्वणि
एकादशोऽध्यायः ||११ ||
विराटपर्व -अध्याय ०१२
||श्रीः ||
४. १२. अध्यायः १२
Mahabharata -Virata Parva -Chapter Topics
नकुलेन विराटमेत्य स्वस्याश्वशास्त्रे कौशलाभिधानम् ||१ ||
विराटेन नकुलस्याश्वपालने नियोजनम् ||२ ||
Mahabharata -Virata Parva -Chapter Text
४-१२-० (२८६१९)
वैशम्पायन उवाच. ४-१२-०क्ष् (३०३१)
अथापरोऽदृश्यत पाण्डवः प्रभुर्विराटराजे तुरगान्समीक्षति |
तमापतन्तं ददृशुः पृथग्जनाः प्रमुक्तमभ्रादिव चन्द्रमण्डलम्
||१ ||४-१२-१ (२८६२०)
स वै हयानैक्षत तानितस्ततः समीक्षमाणं च ददर्श मत्स्यराट् |
दृष्ट्वा तथैनं स कुरूत्तमं तमः पप्रच्छ तान्सर्बसभासदस्तदा
||२ ||४-१२-२ (२८६२१)
को वा विजानाति पुराऽस्य दर्शनं योऽयं युवाऽभ्येति हि मासिकां सभाम् |
प्रियो हि मे दर्शनतोपि संमतो ब्रवीतु कश्चिद्यदि दृष्टवानिमम्
||३ ||४-१२-३ (२८६२२)
अयं हयान्पश्यति मामकान्मुहुर्ध्रुवं हयज्ञो भविता विचक्षणः |
प्रवेश्यतामेष समीपमाशु वै विभाति वीरो हि यथाऽमरस्तथा ||४
||४-१२-४ (२८६२३)
वितर्कयत्येव हि मत्स्यराजनि त्वरन्कुरूणामृषभः सभामगात् |
ततः प्रणम्योपनतः कुरूत्तमो विराटराजानमुवाच पार्थिवम् ||५
||४-१२-५ (२८६२४)
तवागतोऽहं पुरमद्य भूपते जिजीविषुर्वेतनभोजनार्थिकः |
तवाश्वबन्धः सुभृतो भवाम्यहं कुरुष्व मामश्वपतिं यदीच्छसि
||६ ||४-१२-६ (२८६२५)
विराट उवाच. ४-१२-७क्ष् (३०३२)
ददानि यानानि धनानि वेतनं न चाश्वसूतो भवितुं त्वमर्हसि |
कुतोसि कस्यामि कथं त्वमागतो ब्रवीहि शिल्पं तव विद्यते च यत्
||७ ||४-१२-७ (२८६२६)
नकुल उवाच. ४-१२-८क्ष् (३०३३)
पञ्चानां पाण्डुपुत्राणां ज्येष्ठो राजा युधिष्ठिरः |
तेनाहमश्वेषु पुरा प्रकृतः शत्रुकर्शन ||८ ||४-१२-८ (२८६२७)
अश्वानां प्रकृतिं वेद्मि विनयं चापि सर्वशः |
दुष्टानां प्रतिपत्तिं च कृत्स्नं चैव चिकित्सितम् ||९ ||४-१२-९ (२८६२८)
न कातरं स्यान्मम वाजिवाहनं न मेऽस्ति दुष्टा बडवा कुतो हयः |
जानंस्तु मामाह स चापि पाण्डवो युधिष्ठिरो ग्रन्थिकमेव नामतः
||१० ||४-१२-१० (२८६२९)
मातलिरिव देवपतेर्दशरथनृपतेः सुमत्र इव यन्ता |
सुमह इव जामदग्रेस्तथैव तव शिक्षयाम्यश्वान् ||११ ||४-१२-११ (२८६३०)
युधिष्ठिरस्य राजेन्द्र नरराजस्य शासनात् |
शतसाहस्रकोटीनामश्वानामस्मि रक्षिता ||१२ ||४-१२-१२ (२८६३१)
विराट उवाच. ४-१२-१३क्ष् (३०३४)
यदस्ति किंचिन्मम वाजिवाहनं तदस्तु सर्वं त्वदधीनमद्य वै |
ये चापि केचिन्मम वाजियोधास्त्वदाश्रयाः सारथयश्च सन्तु मे ||१३
||४-१२-१३ (२८६३२)
इदं तवेष्टं विहितं सुरोपम ||्इ यत्ते प्रसमीक्षितं वरम् |
||||अनुरूपं हयकर्म दृश्यते विभाति राजेव न कर्म वाजिनाम् ||१४
||४-१२-१४ (२८६३३)
युधिष्ठिरस्यैव हि दर्शनेन मे समं तवेदं प्रियदर्श दर्शनम् |
कथं नु भृत्यैः स विनाकृतो वने चरत्यनिन्द्यो रमते च पाण्डवः
||१५ ||४-१२-१५ (२८६३४)
वैशम्पायन उवाच | ४-१२-१६क्ष् (३०३५)
तथा स गन्धर्ववरोपमो युवा विराटराज्ञा मुदितेन पूजितः |
न चैवमन्येऽपि विदुः कथंचन प्रियाभिरामं विचरन्तमन्तरा
||१६ ||||४-१२-१६ (२८६३५)
इति श्रीमन्महाभारते विराटपर्वणि पाण्डवप्रवेशपर्वणि
द्वादशोऽध्यायः ||१२ ||
विराटपर्व -अध्याय ०१३
||श्रीः ||
४. १३. अध्यायः १३
Mahabharata -Virata Parva -Chapter Topics
सहदेवेन गोपालवेषधारणेन विराटंप्रति गमनम् ||१ ||
विराटेन सहदेवस्य गोपालने नियोजनम् ||२ ||
Mahabharata -Virata Parva -Chapter Text
४-१३-० (२८६३६)
वैशम्पायन उवाच. ४-१३-०क्ष् (३०३६)
अथापरोऽदृश्यत वै शशी यथा हुतो हविर्भिर्हि यथाऽध्वरे शिखी |
तथा समालक्ष्यत चारुदर्शनः प्रकाशयन्सूर्य इवाचिरोदितः ||१
||४-१३-१ (२८६३७)
तमाव्रजन्तं सहदेवमग्रणीर्नृपो विराटो नचिरात्समैक्षत |
प्रैक्षन्त तं तत्र पृथक्समागताः सभागताः सर्वमनोहरप्रभम् |
युवानमायान्तममित्रकर्शनं प्रमुक्तमभ्रादिव चन्द्रमण्डलम् ||२ ||
४-१३-२ (२८६३८)
यष्ट्या प्रमाणान्वितया सुदर्शनं दामानि पाशं च निबद्ध्य पृष्ठतः |
मौर्वी च तन्त्रीं महतीं सुसंहितां बालैश्च तारैर्बहुभिः
समावृताम् ||३ ||४-१३-३ (२८६३९)
स चापि राजानमुवाच वीर्यवान्कुरुष्व मां पार्थिव गोष्ववस्थितम् |
मया हि गुप्ताः पशवो भवन्तु ते प्रसन्ननिद्राः प्रभवोस्मि वल्लवः
||४ ||४-१३-४ (२८६४०)
न श्वापदेभ्यो न च रोगतो भयं न चापि दावान्न च तस्कराद्भयम् |
पयःप्रभूता बहुला निरामया भवन्ति गावः सुभृता नराधिप ||५
||४-१३-५ (२८६४१)
निशम्य राजा सहदेवभाषितं निरीक्ष्य माद्रीसुतमभ्यनन्दत् |
उवाच हृष्टो मुदितेन चेतसा न बल्लवत्वं त्वयि वीर लक्षये ||६ |
४-१३-६ (२८६४२)
धैर्याद्वपुः क्षात्रमिवेह ते दृढं प्रकाशते कौरववंशजस्य वा |
नापण्डितेयं तव दृश्यते तनुर्भवेह राज्ये मम मन्त्रधर्मभृत्
||७ ||४-१३-७ (२८६४३)
प्रशाधि मत्स्यान्सहराजकानिमान्बृहस्पतिः शत्रुयुतानिवामरान् |
बलं च मे रक्ष सुवेष सर्वशो गृहाण खङ्गं प्रतिरूपमात्मः
||८ ||४-१३-८ (२८६४४)
अनीककर्णाग्रधरो बलस्य मे प्रभुर्भवानस्तु गृहाण कार्मुकम् ||९ |
४-१३-९ (२८६४५)
वैशम्पायन उवाच. ४-१३-१०क्ष् (३०३७)
विराटराज्ञाऽभिहितः कुरूत्तमः प्रशस्य राजानमभिप्रणम्य च |
उवाच मत्स्यप्रवरं महापतिः शृणुष्व राजन्मम वाक्यमुत्तमम्
||१० ||४-१३-१० (२८६४६)
बालो ह्यहं जातिविशेषदूषितः कुतोऽद्य मे नीतिषु युक्तमन्त्रता |
स्वकर्मतुष्टाश्च वयं नराधिप प्रशाधि मां गोपरिरक्षणेऽनघ
||११ ||४-१३-११ (२८६४७)
वैश्योस्मि नाम्नाऽहमरिष्टनेमिर्गोसङ्ख्य आसं कुरुपुङ्गवानाम् |
वस्तुं त्वयीच्छामि विशांवरिष्ठ तान्राजसिंहान्न हि वेद्मि पार्थान्
||१२ ||४-१३-१२ (२८६४८)
न जीवितुं शक्यमतोऽन्यकर्मणा न च त्वदन्यो मम रोचते विभो
||१३ ||४-१३-१३ (२८६४९)
विराट उवाच. ४-१३-१४क्ष् (३०३८)
त्वं ब्राह्मणो वा यदि वाऽपि भूमिपः समुद्रनेमीश्वररूपवानसि |
आचक्ष्व तत्वं त्वममित्रकर्शन न बल्लवत्वं त्वयि विद्यते समम्
||१४ ||४-१३-१४ (२८६५०)
कस्यामि राज्ञो विषयादिहागतः किं चापि शिल्पं तव विद्यते कृतम् |
कथं त्वमस्मासु निवत्स्यसे सदा वदस्व किं चापि तवेह वेतनम् ||१५
||४-१३-१५ (२८६५१)
सहदेव उवाच. ४-१३-१६क्ष् (३०३९)
पञ्चानां पाण्डुपुत्राणां ज्येष्ठो राजा युधिष्ठिरः |
तस्याष्टौ शतसाहस्रं गवां वर्गाः शतंशतम् ||१६ ||४-१३-१६ (२८६५२)
अपरे दशसाहस्रा द्विस्तावन्तस्तथा परे |
तेषां गोसङ्ख्य आसं वै तन्त्रीपालेति मां विदुः ||१७ ||४-१३-१७ (२८६५३)
भूतं भव्यं भविष्यच्च यच्चान्यद्गोगतं क्वचित् |
न मेऽस्त्यविदितं किंचित्समन्ताद्दशयोजनम् ||१८ ||४-१३-१८ (२८६५४)
गुणाः सुविदिता ह्यासन्मया तस्य महात्मनः |
आसीच्च स मया तुष्टः कुरुराजो युधिष्ठिरः ||१९ ||४-१३-१९ (२८६५५)
अनेन गणिता गावो दुर्विज्ञेया महत्तराः |
बहुक्षीरतरास्ता वै बह्व्यः सत्यः सपुत्रिकाः ||२० ||४-१३-२० (२८६५६)
क्षिप्रं च गावो बहुला भवन्ति न तासु रोगो भवतीह कश्चित् |
तैस्तैरुपयैर्विदितं मयैतदेतानि शिल्पानि मयि स्थितानि ||२१
||४-१३-२१ (२८६५७)
ऋषभानपि जानामि राजन्पूजितलक्षणान् |
येषां मूत्रमुपाघ्राय वन्ध्या अपि प्रसूयते ||२२ ||४-१३-२२ (२८६५८)
वैशम्पायन उवाच. ४-१३-२३क्ष् (३०४०)
मत्स्याधिपो हर्षकलेन चेतसा माद्रीसुतं पाण्डवमभ्यभाषत |
नैवानुमन्ये तव कर्म कुत्सितं महीं समग्रामभिपातुमर्हसि ||२३
||४-१३-२३ (२८६५९)
अथ त्विदानीं तव रोचते विभो यथेष्टतो गव्यमवेक्ष मामकम् |
त्वदर्पणा मे पशवो भवन्तु वै पशून्सपालान्भवते ददाम्यहम् ||२४
||४-१३-२४ (२८६६०)
शतं सहस्राणि गवां हि सन्ति वर्णस्यवर्णस्य पृथग्गणानाम् |
ददामि तेऽहं वरमीप्सितं च यत्त्वदर्पणा मे पशवो भवन्त्विति
||२५ ||४-१३-२५ (२८६६१)
वैशम्पायन उवाच. ४-१३-२६क्ष् (३०४१)
एवं विराटेन समेत्य पाण्डवो लब्ध्वा च गोबल्लवतां यथेष्टतः |
अज्ञातचर्यामवसन्महात्मा यथा रविश्चास्तगिरिं प्रविष्टः ||२६
||४-१३-२६ (२८६६२)
एवं विराटे न्यवसंश्च पाण्डवा यथा प्रतिज्ञाभिरमोघविक्रमाः |
अबुद्धचर्यां चरितुं यथातथं समुद्रनेमीमभिशास्तुमुद्यताः ||२७
||||४-१३-२७ (२८६६३)
इति श्रीमन्महाभारते विराटपर्वणि पाण्डवप्रवेशपर्वणि
त्रयोदशोऽध्यायः ||१३ ||
विराटपर्व -अध्याय ०१४
||श्रीः ||
४. १४. अध्यायः १४
Mahabharata -Virata Parva -Chapter Topics
द्रौपद्या सैरन्ध्रीवेषधारणेन सुदेष्णागृहे निवासः ||१ ||
Mahabharata -Virata Parva -Chapter Text
४-१४-० (२८६६४)
वैशम्पायन उवाच | ४-१४-०क्ष् (३०४२)
ततः कृष्णा सुकेशी सा दर्शनीया शुचिस्मिता |
वेणीकेशान्समुत्क्षिप्य पीनवृत्तकुचा शुभा |
जुगूहे दक्षिणे पार्श्वे मृदूनसितलोचना ||१ ||४-१४-१ (२८६६५)
वासश्च परिधायैकं कृष्णा सुमलिनं महत् |
कृत्वा वेषं च सैरन्ध्र्याः कृष्णा व्यचरदार्तवत् ||२ ||४-१४-२
(२८६६६)
प्रविष्टा नगरं भीरूः सैरन्ध्रीवेषसंयुता |
तां नराः परिधावन्तः स्त्रियश्च समुपाद्रवन् ||३ ||४-१४-३ (२८६६७)
अपृच्छंस्ते च तां दृष्ट्वा का त्वं किं च चिकीर्षसि |
सा तानुवाच राजेन्द्र सैरन्ध्र्यहमुपागता |
कर्म चेच्छामि वै कर्तुं तस्य या मां भरिष्यति ||४ ||४-१४-४ (२८६६८)
वैशम्पायन उवाच. ४-१४-५क्ष् (३०४३)
तस्या रूपेण वेषेण श्लक्ष्णया च गिरा तथा |
न श्रद्दधानास्तां देवीमन्नहेतोरुपस्थिताम् ||५ ||४-१४-५ (२८६६९)
विराटस्य तु कैकेयी भार्या परमसंमता |
आलोकयन्ती ददृशे प्रासादाद्द्रुपदात्मजाम् ||६ ||४-१४-६ (२८६७०)
सा समीक्ष्य तथारूपामनाथामेकवाससम् |
स्त्रीभिश्च पुरुषैश्चापि सर्वतः परिवारिताम् ||७ ||४-१४-७ (२८६७१)
विराटभार्या तां देवी कारुण्याज्जातसंभ्रमा |
अप्रेषयत्समीपस्थाः स्त्रियो वृद्धाश्च तत्पराः ||८ ||४-१४-८ (२८६७२)
अपनीय ततः सर्वा आनयध्वमिहैव ताम् |
यदा दृष्टा मया साध्वी कम्पते मे मनस्तदा |
तस्माच्छीघ्रमिहानाय दर्शयध्वं यदीच्छथ ||९ ||४-१४-९ (२८६७३)
तास्तथोक्ता उपागम्य द्रौपदीं परिसंगताः |
आनीय सर्वथा त्वेनामब्रुवन्मधुराक्षरम् ||१० ||४-१४-१० (२८६७४)
भद्रे त्वां द्रष्टुमिच्छन्ती सुदेष्णा हर्म्यभूतले |
त्वदर्थं प्रैषयच्चास्मान्द्रष्टुं तां त्वं यदीच्छसि |
आयाह्यस्माभिरेवाद्य रक्ष्यमाणा यथेष्टतः ||११ ||४-१४-११ (२८६७५)
तच्छ्रुत्वा द्रौपदी तासां वचनं वाक्यकोविदा |
ईप्सितर्थातिलाभेन हृष्टाऽऽयाता गृहोत्तमम् ||१२ ||४-१४-१२ (२८६७६)
राजवेश्म ह्युपाक्रम्य यत्राग्र्यमहिषी स्थिता |
सुदेष्णामगमत्कृष्णा राजभार्यां यशस्विनीम् ||१३ ||४-१४-१३ (२८६७७)
कृष्णान्केशान्मृदून्दीर्घान्समुद्ग्रथ्यासितेक्षणा |
कुञ्चिताग्रांस्तु सूक्ष्माग्रान्दर्शनीयान्निबध्य च |
जुगूहे दक्षिणे पार्श्वे मृदूनायतलोचना ||१४ ||४-१४-१४ (२८६७८)
सा प्रविश्य विराटस्य द्रौपद्यन्तःपुरं शुभा |
ह्रीनिषेवान्विता बाला कम्पमाना लतेव सा ||१५ ||४-१४-१५ (२८६७९)
अभिगम्य च सुश्रोणी सर्वलक्षणसंयुता |
ददर्शावस्थितां हैमे पीठे रत्नपरिच्छदे ||१६ ||४-१४-१६ (२८६८०)
रक्तसूक्ष्माम्बरधरां मेघे सौदामिनीमिव |
नानावर्णविचित्रां च सर्वाभरणभूषिताम् ||१७ ||४-१४-१७ (२८६८१)
सुभ्रूं सुकेशीं सुश्रोणीं कुब्जवामनमध्यगाम् |
बहुपुष्पोपकीर्णायां भूम्यां वेदिमिवाध्वरे ||१८ ||४-१४-१८ (२८६८२)
सुदेष्णां राजमहिषीं सर्वालंकारभूषिताम् |
श्रीमतीं राजपुत्रीणां शतेन परिवारिताम् ||१९ ||४-१४-१९ (२८६८३)
ताः सर्वा द्रौपदीं दृष्ट्वा सन्तप्ताः परमाङ्गनाः |
परितश्चोपतस्थुस्ताः सहसोत्थाय चासनात् ||२० ||४-१४-२० (२८६८४)
निरीक्षमाणाः सर्वास्ताः शचीं देवीमिवागताम् |
गूढगुल्फां वरारोहां कृष्णां ताम्रायतेक्षणाम् |
अतिसर्वानवद्याङ्गीं नतगात्रीं सुमध्यमाम् ||२१ ||४-१४-२१ (२८६८५)
न ह्रस्वां नातिमहतीं जातां बहुतृणे वने |
ऋश्यरोहीमिवानिन्द्यां सुकेशीं मृगलोचनाम् ||२२ ||४-१४-२२ (२८६८६)
तां मृगीमिव वित्रस्तां यूथभ्रष्टामिव द्विपाम् |
लक्ष्मीमिव विशालाक्षीं विद्यामिव यशस्विनीम् ||२३ ||४-१४-२३ (२८६८७)
रोहिणीमिव ताराणां दीप्तामग्निशिखामिव |
पार्वतीमिव रुद्राणीं वेलामिव महोदधेः ||२४ ||४-१४-२४ (२८६८८)
सुलभामिव नागीनां मृगीणामिव किन्नरीम् |
गङ्गामिव विशुद्धाङ्गीं शारदीमिव शर्वरीम् ||२५ ||४-१४-२५ (२८६८९)
तामचिन्त्यतमां लोके इलामिव यशस्विनीम् |
सावित्रीमिव दुर्धषां ब्राह्म्या लक्ष्म्या समन्वितां ||२६ ||४-१४-२६ (२८६९०)
सीतामिव सतीं शुद्धामरुन्धतीमिव प्रियाम् |
सुदेष्णा पर्यपृच्छत्तां विस्मयोत्फुल्ललोचना ||२७ ||४-१४-२७ (२८६९१)
का त्वं सर्वानवद्याङ्गि कुतोसि त्वमिहागता |
कस्य वा त्वं विशालाक्षि किं वा ते करवाण्यहम् ||२८ ||४-१४-२८ (२८६९२)
गूढगुल्फा समानोरूस्त्रिगम्भीरा षडुन्नता |
स्निग्धा पञ्चसु रक्तेषु हंसगद्गदभाषिणी ||२९ ||४-१४-२९ (२८६९३)
शुकेशी सुस्वरा श्यामा पीनश्रोणीपयोधरा |
अरालपक्ष्मनयना बिम्बोष्ठी तनुमध्यमा ||३० ||४-१४-३० (२८६९४)
कम्बुग्रीवा गूढसिरा पूर्णचन्द्रनिभानना |
दानवी किन्नरी वा त्वं गन्धर्वी वनदेवता ||३१ ||४-१४-३१ (२८६९५)
अप्सरा वाऽसि नागी वा तारा वा त्वं विलासिनी |
अलम्बुसा मिश्रकेशी पुण्डरीकाऽथ मालिनी ||३२ ||४-१४-३२ (२८६९६)
तेनतेनैव संपन्ना काश्मीरीव तुरंगमा |
इन्द्राणी त्वथ रुद्राणी स्वधा वाऽप्यथवा रतिः ||३३ ||४-१४-३३ (२८६९७)
देवि देवेषु विख्याता ब्रूहि का त्वमिहागता |
तव ह्यनुपमं रूपं भूषणैरपि वर्जितम् ||३४ ||४-१४-३४ (२८६९८)
त्वां सृष्ट्वोपरतं मन्ये लोककर्तारमीश्वरम् |
न तृप्यन्ति स्त्रियो दृष्ट्वा का न पुंसां रतिर्भवेत् ||३५ ||४-१४-३५
(२८६९९)
प्रवालपुष्पस्तबकैराचिता वनदेवताः |
त्वामेव हि निरीक्षन्ते विस्मिता रूपसंपदा ||३६ ||४-१४-३६ (२८७००)
अन्तःपुरगता नार्यो मृगाः पक्षिगणा नराः |
सर्वे त्वामेव कल्याणि निरीक्षन्ते सुविस्मिताः ||३७ ||४-१४-३७ (२८७०१)
न त्वादृशी काचन मे त्रिषु लोकेषु सुन्दरी |
दृष्टपूर्वा श्रुता वाऽपि चक्षुपा विद्यते शुभा ||३८ ||४-१४-३८ (२८७०२)
द्रौपद्युवाच. ४-१४-३९क्ष् (३०४४)
नास्ति देवी न गन्धर्वी न यक्षी न च किन्नरी |
सैरन्ध्री नाम मे जातिर्वन्यमूलफलाशना ||३९ ||४-१४-३९ (२८७०३)
पतीनां प्रेक्षमाणानां कस्मिंश्चित्कारणान्तरे |
केशपाशे परामृष्टा साऽहं त्रस्ता वनं गता ||४० ||४-१४-४० (२८७०४)
तत्र द्वादशवर्षाणि वन्यमूलफलाशना |
चराम्यनिलया सुभ्रूः सा तवान्तिकमागता ||४१ ||४-१४-४१ (२८७०५)
जानामि केशान्ग्रथितुं विचित्रान्ग्रथितुं मणीन् |
मल्लिकोत्पलपद्मानां जानामि ग्रथितुं स्रजः ||४२ ||४-१४-४२ (२८७०६)
सिन्धुवारकजातीनां रचयाम्यवतंसकान् |
पत्रं मृगाङ्गमगरुं पिषे च हरिचन्दनम् |
ग्रथयिष्यामि चित्राश्च स्रजः परमशोभनाः ||४३ ||४-१४-४३ (२८७०७)
आराधनं सत्यभामां कृष्णस्य महिषीं प्रियाम् |
कृष्णां च भार्यां पार्थानां नारीणामुत्तमां तथा ||४४ ||४-१४-४४ (२८७०८)
तथाऽस्मि सुभ्रुवा चाहमिष्टलाभेन तोषिता |
मालिनी चेति मे नाम स्वयं देवी चकार ह |
कृष्णा कमलपत्राक्षी सा मे प्राणसमा सखी ||४५ ||४-१४-४५ (२८७०९)
न चाहं चिरमिच्छामि क्वचिद्वस्तुं शुभानने |
व्रतं किलैतदस्माकं कुलधर्मोऽयमीदृशः ||४६ ||४-१४-४६ (२८७१०)
योऽस्माकं तु हरेद्द्रव्यं देशं वसनमेव वा |
न क्रोद्धव्यं किलास्माभिरस्मद्गुरुरमर्षणः ||४७ ||४-१४-४७ (२८७११)
साऽहं वनानि दुर्गाणि तीर्थानि च सरांसि च |
शैलांश्च विविधान्रम्यान्सरितश्च समुद्रगाः ||४८ ||४-१४-४८ (२८७१२)
भर्तृशोकपरीताङ्गी भर्तृसब्रह्मचारिणी |
विचरामि महीं दुर्गां यत्र सायंनिवेशना ||४९ ||४-१४-४९ (२८७१३)
वीरपत्नी यदा देवी चरमाणेषु भर्तृषु |
साऽहं विवत्सा विधिना गन्धमादनपर्वतात् |
शृणोमि तव सौशील्यं भर्तुर्मधुरभाषिणि ||५० ||४-१४-५० (२८७१४)
माहात्म्यं च ततः श्रुत्वा ब्राह्मणानां समीपतः |
त्वामुपस्थातुमिच्छामि ततश्चाहमिहागता ||५१ ||४-१४-५१ (२८७१५)
गुरवो मम धर्मश्च वायुः शक्रस्तथाऽश्विनौ |
तेषां प्रसादाच्च न मां कश्चिद्धर्षयते पुमान् ||५२ ||४-१४-५२ (२८७१६)
वैशम्पायन उवाच. ४-१४-५३क्ष् (३०४५)
एवमुक्त्वा सुदेष्णां तां कृताञ्जलिपुटा स्थिता |
साऽब्रवीद्विस्मयाविष्टा द्रौपदीं योषितां वराम् ||५३ ||४-१४-५३ (२८७१७)
न भरेयमहं भद्रे संशयो मम विद्यते |
राजा त्वयं हि त्वां दृष्ट्वा मतिं पापां करिष्यति ||५४ ||४-१४-५४ (२८७१८)
साऽहं त्वां न क्षमां मन्ये वसन्तीमिह वेश्मनि |
एष दोषोस्ति सुश्रोणि कथं वाभीरु मन्यसे ||५५ ||४-१४-५५ (२८७१९)
स्थिता राजकुले नार्यो याश्चेमा मम वेश्मनि |
त्वामेवैकां निरीक्षन्ते विस्मयाद्वरवर्णिनि ||५६ ||४-१४-५६ (२८७२०)
वृक्षांश्चोपस्थितान्पश्य य इमे मम वेश्मनि |
विनमन्ते हि त्वां दृष्ट्वा पुमांसं कं न लोभयेः ||५७ ||४-१४-५७ (२८७२१)
बिभर्षि परमं रूपमतिमानुषमद्भुतम् |
तिर्यग्योनिगताश्चापि निरीक्षन्ते सविस्मयाः |
तव रूपमनिन्द्याङ्गि किं पुनर्मानवा भुवि ||५८ ||४-१४-५८ (२८७२२)
राजा विराटः सुश्रोणि दृष्ट्वा ते परमं वपुः |
मां विहाय वरारोहे त्वां गच्छेत्सर्वचेतसा ||५९ ||४-१४-५९ (२८७२३)
यं हि त्वमनवद्याङ्गी नरमायतलोचने |
सुप्रसन्ना हि वीक्षेथाः स कामवरागो भवेत् ||६० ||४-१४-६० (२८७२४)
सुस्नाताऽलंकृता हि त्वं यमीक्षेथा हि मानुषम् |
ग्लानिर्न तस्य दुःखं वा न तन्द्रिर्न पराजयः ||६१ ||४-१४-६१ (२८७२५)
न शोको न च सन्तापो न क्रोधो नानृतं वदे |
यं त्वं सर्वातवद्याङ्गि भजेथाः समलंकृता ||६२ ||४-१४-६२ (२८७२६)
न व्याधिर्न जरा तस्य न तृष्णा न क्षुधा भवेत् |
यस्य त्वं वशगा सुभ्रु भवेरङ्कगता सती ||६३ | ४-१४-६३ (२८७२७)
पञ्चत्वमपि संप्राप्तं यं च त्वं परिपस्वजेः |
बाहुभ्यामनुरूपाभ्यां स जीवेदिति मे मतिः ||६४ ||४-१४-६४ (२८७२८)
यस्य हि त्वं भवेर्भार्या यं च हृष्टा परिष्वजेः |
अतिजीवेस्य सर्वेषु देवेष्विव पुरन्दरः ||६५ ||४-१४-६५ (२८७२९)
अध्यारोहेद्यथा वृक्षं यथा वाऽऽरुह्य तक्षति |
राजवेश्मनि वामोरु ननु स्यास्त्वं तथा मम ||६६ ||४-१४-६६ (२८७३०)
यथा कर्कटकी गर्भमाधत्ते मृत्युमात्मनः |
तथाविधमहं मन्ये तव सुभ्रु समागमम् ||६७ ||४-१४-६७ (२८७३१)
अनुमानये त्वां सैरन्ध्रि नावमन्ये कथंचन |
भर्तृशीलभयाद्भद्रे तव वासं न रोचये ||६८ ||४-१४-६८ (२८७३२)
सैरन्ध्र्युवाच. ४-१४-६९क्ष् (३०४६)
नाहं शक्या विराटेन यद्वा चान्येन केनचित् |
देवगन्धर्वयक्षैर्वा द्रष्टुं दुष्टेन चेतसा ||६९ ||४-१४-६९ (२८७३३)
गन्धर्वाः पालयन्ते मां सुकुलाः पञ्च सुव्रताः |
पुत्रा देवादिदेवानां सूर्यपावकवर्चसः ||७० ||४-१४-७० (२८७३४)
यश्च दुःशीलवान्मर्त्यो मां स्पृशेद्दुष्टचेतसा |
स तामेव निशां शीघ्रं शयीत मुसलैर्हतः ||७१ ||४-१४-७१ (२८७३५)
यस्यापि हि शतं पूर्णं बान्धवानां भवेदपि |
सहस्रं वा विशालाक्षि कोटिर्वापि सहस्रिका |
दुष्टचित्तश्च मां ब्रूयान्न स जीवेत्तवाग्रतः ||७२ ||४-१४-७२ (२८७३६)
न तस्य त्रिदशा देवा नासुरा न च पन्नगाः |
तेभ्यो गन्धर्वराजेभ्यस्त्राणं कुर्युरसंशयम् ||७३ ||४-१४-७३ (२८७३७)
सुदेष्णे विश्वस त्वं मां स्वजने बान्धवेऽपि वा |
नाहं शक्या नरैर्द्रष्टुं न च मे वृत्तमीदृशम् ||७४ ||४-१४-७४
(२८७३८)
यो मे न दद्यादुच्छिष्टं न च पादौ प्रधावयेत् |
प्रीयेरंस्तेन वासेन गन्धर्वाः पतयो मम ||७५ ||४-१४-७५ (२८७३९)
यो हि मां पुरुषो गृद्ध्येद्यथाऽन्याः प्राकृतस्त्रियः |
तामेव स इमां रात्रिं प्रविशेदपरां तनुम् ||७६ ||४-१४-७६ (२८७४०)
न चाप्यहं चालयितुं शक्या केनचिदङ्गने |
दुःखशीलाश्च गन्धर्वास्त इमे बलिनः प्रियाः |
एवं निवसमानायां मयि मा ते भयं हि भूत् ||७७ ||४-१४-७७ (२८७४१)
वैशम्पायन उवाच. ४-१४-७८क्ष् (३०४७)
एवमुक्ता तु सैरन्ध्र्या सुदेष्णा वाक्यमब्रवीत् |
वसेह मयि कल्याणि यदि ते वृत्तमीदृशम् ||७८ ||४-१४-७८ (२८७४२)
कश्च ते दातुमुच्छिष्टं पुमानर्हति भामिनि |
प्रसारयेच्च कः पादौ लक्ष्मीं दृष्ट्वैव बुद्धिमान् ||७९
||४-१४-७९ (२८७४३)
एवमाचारसंपन्ना एवं देवपरायणा |
रक्ष्या त्वमसि भूतानां सावित्रीवद्विजन्मनाम् ||८० ||४-१४-८० (२८७४४)
देवता इव कल्याणि पूजिता वरवर्णिनी |
वस भद्रे मयि प्रीता प्रीतिर्हि मयि वर्तते |
सर्वकामैः प्रमुदिता निरुद्विग्नमनाः सुखम् ||८१ ||४-१४-८१ (२८७४५)
वैशम्पायन उवाच. ४-१४-८२क्ष् (३०४८)
सुदेष्णयैवमुक्ता सा संप्रीता चारुहासिनी |
निर्विशङ्का विराटस्य विवेशान्तःपुरं सुखम् ||८२ ||४-१४-८२ (२८७४६)
याज्ञसेनी सुदेष्णां तु शुश्रूपन्ती विशांपते |
अवसत्परिचारार्हा सुदुःखं जनमेजय ||८३ ||४-१४-८३ (२८७४७)
एवं विराटे न्यवसंस्तु पाण्डवाः कृष्णा तथाऽन्तःपुरमेत्य शोभना |
अज्ञातचर्यां प्रतिरुद्धमानसा यथाऽग्रथो भस्मनि गूढतेजसः
||८४ ||||४-१४-८४ (२८७४८)
इति श्रीमन्महाभारते विराटपर्वणि पाण्डवप्रवेशपर्वणि
चतुर्दशोऽध्यायः ||१४ ||
Mahabharata -Virata Parva -Chapter Footnotes
४-१४-१ समुत्क्षिप्य वल्गिताग्राननिन्दितानिति खो थो धो पाठः ||
१ ||
चतुर्दशोऽध्यायः ||
१४ ||
विराटपर्व -अध्याय ०१५
||श्रीः ||
४. १५. अध्यायः १५
Mahabharata -Virata Parva -Chapter Topics
अथ समयपलनपर्व ||२ ||
पाण्डवैः स्वस्वव्यापारैर्विराटपरितोपणम् ||१ ||
भीमेन शङ्करोत्सवे महामल्लमारणम् ||२ ||
Mahabharata -Virata Parva -Chapter Text
४-१५-० (२८७४९)
जनमेजय उवाच. ४-१५-०क्ष् (३०४९)
एवं विराटनगरे वसन्तः सत्यविक्रमाः |
अत ऊर्ध्वं नरव्याघ्राः किमकुर्वत पाण्डवाः ||१ ||४-१५-१ (२८७५०)
वैशम्पायन उवाच. ४-१५-२क्ष् (३०५०)
एवं ते न्यवसंस्तत्र प्रच्छन्नाः कुरुनन्दनाः |
आराधयन्तो राजानां यदकुर्वत तच्छृणु ||२ ||४-१५-२ (२८७५१)
युधिष्ठिरः सभास्तारः सभ्यानामभवत्प्रियः |
तथैव च विराटस्य सपुत्रस्य विशांपते ||३ ||४-१५-३ (२८७५२)
स ह्यक्षहृदयज्ञस्तान्क्रीडयामास पाण्डवः |
अक्षबद्धान्यथाकामं सूत्रबद्धानिव द्विजान् ||४ ||४-१५-४ (२८७५३)
अज्ञातं च विराटस्य विजित्य वसु धर्मराट् |
भ्रातृभ्यः पुरुषव्याघ्रो यथेष्टं संप्रयच्छति ||५ ||४-१५-५ (२८७५४)
भीमसेनोपि मांसानि भक्ष्याणि विविधानि च |
अतिसृष्टानि मत्स्येन विक्रीणन्निव भ्रातृषु ||६ ||४-१५-६ (२८७५५)
वासांसि परिजीर्णानि लब्धान्यन्तःपुरेऽर्जुनः |
विक्रीणन्निव सर्वेभ्यः पाण्डवेभ्यः प्रयच्छति ||७ ||४-१५-७ (२८७५६)
नकुलोपि धनं लब्ध्वा कृते कर्मणि वाजिनाम् |
तुष्टे तस्मिन्नरपतौ पाण्डवेभ्यः प्रयच्छति ||८ ||४-१५-८ (२८७५७)
सहदेवोपि गोपानां वेषमास्थाय पाण्डवः |
दधि क्षीरं घृतं चैव पाण्डवेभ्यः प्रयच्छति ||९ ||४-१५-९ (२८७५८)
कृष्णा तु सर्वान्भ्रातॄंस्तान्निरीक्षन्ती तपस्विनी |
यथा पुनरविज्ञाता तथा चरति भामिनी ||१० ||४-१५-१० (२८७५९)
एवं संभावयन्तस्ते तदाऽन्योन्यं महारथाः |
विराटनगरे चेरुः पुनर्गर्भधृता इव ||११ ||४-१५-११ (२८७६०)
साशङ्का धार्तराष्ट्रस्य भयात्पाण्डुसुतास्तदा |
प्रेक्षमाणास्तदा कृष्णामूपुश्छन्ना नराधिप ||१२ ||४-१५-१२ (२८७६१)
अथ मासे चतुर्थे तु शङ्करस्य महोत्सवः |
आसीत्समृद्धो मत्स्येषु पुरुषाणां सुसंमतः ||१३ ||४-१५-१३ (२८७६२)
तत्र मल्लाः समापेतुर्दिग्भ्यो राजन्सहस्रशः ||१४ ||४-१५-१४ (२८७६३)
महाकाया महावीर्याः कालकेया इवासुराः |
वीर्योन्मत्ता बलोदग्रा राज्ञा समभिपूजिताः ||१५ ||४-१५-१५ (२८७६४)
सिंहस्कन्धकटिग्रीवाः स्ववदाता मनस्विनः |
असकृल्लब्धलक्षास्ते रङ्गे पार्थिवसन्निधौ ||१६ ||४-१५-१६ (२८७६५)
तेषामेको महानासीत्सर्वमल्लानथाह्वयत् |
व्यावल्गमानो ददृशे गर्जितोद्गतिभिः स्थितः ||१७ ||४-१५-१७ (२८७६६)
वित्रस्तमनसः सर्वे मल्लास्ते हतचेतसः |
अवाङ्भुखाश्च भीताश्च मल्लाश्चान्ये विचेतसः ||१८ ||४-१५-१८ (२८७६७)
व्यसुत्वमपरे चैव वाञ्छन्ति प्रतिविह्वलाः |
गां प्रवेष्टुमथेच्छन्ति खं गन्तुमिव चोत्थिताः ||१९ ||४-१५-१९ (२८७६८)
त्रस्ताः शान्ता विषणाङ्गा निःशब्दं विह्वलेक्षणाः |
विराटराजमल्लास्ते भग्नदर्पा हतप्रभाः ||२० ||४-१५-२० (२८७६९)
मल्लेन्द्रनिहताः सर्वे न किंचित्प्रवदन्ति ते |
मल्ल उद्वीक्ष्य तान्मल्लांस्रस्तान्वाक्यमुवाचह ||२१ ||४-१५-२१ (२८७७०)
आगतं मल्लराजं मां कृत्स्ने पृथिविमण्डले |
सिंहव्याघ्रगणैः सार्धं क्रीडन्तं विद्धि भूपते ||२२ ||४-१५-२२ (२८७७१)
मल्लेन्द्रस्य वचः श्रुत्वा बलदर्पसमन्वितम् |
विराटो वीक्ष्य तान्मल्लांस्त्रस्तान्वाक्यमुवाच ह ||२३ ||४-१५-२३ (२८७७२)
अनेन सह मल्लेन को योद्धुं शक्तिमान्नरः ||२४ ||४-१५-२४ (२८७७३)
इत्युक्तास्ते विराटेन सर्वे मल्ला विशांपते |
तूष्णीमासंस्ततो राजा क्रोधाविष्ट उवाच ह ||२५ ||४-१५-२५ (२८७७४)
ग्रामांश्च वेतनान्येपां मल्लानां हारयाम्यहम् |
ततो युधिष्ठिरोऽवादीच्छ्रुत्वा मात्स्यपतेर्वचः ||२६ ||४-१५-२६ (२८७७५)
अस्ति मल्लो महाराज मया दृष्टो युधिष्ठिरे |
अनेन सह मल्लेन योद्धुं शक्नोति भूपते ||२७ ||४-१५-२७ (२८७७६)
योसौ मल्लो मया दृष्टः पूर्वं यौधिष्ठिरे पुरे |
सोयं मल्लो वसत्येप राजंस्तव महानसे ||२८ ||४-१५-२८ (२८७७७)
वैशम्पायन उवाच. ४-१५-२९क्ष् (३०५१)
युधिष्ठिरवचः श्रुत्वा व्यक्तमाहेति पार्थिवः |
सोप्यथाहूयतां क्षिप्रं योद्धुं मल्लेन संप्रति ||२९ ||४-१५-२९ (२८७७८)
भीमसेनो विराटेन आहूतश्चोदितस्तथा |
योद्धुं ततोऽब्रवीद्वाक्यं योद्धुं शक्नोमि भूपते ||३० ||४-१५-३० (२८७७९)
नरेन्द्र ते प्रभावेन श्रिया शक्त्या च शासनात् |
अनेन सह मल्लेन योद्धुं राजेन्द्र शक्नुयाम् ||३१ ||४-१५-३१ (२८७८०)
युधिष्ठिरकृतं ज्ञात्वा श्रिया तव विशांपते |
महादेवस्य भक्त्या च तं मल्लं पातयाम्यहम् ||३२ ||४-१५-३२ (२८७८१)
वैशम्पायन उवाच. ४-१५-३३क्ष् (३०५२)
चोदितो भीमसेनस्तु मल्लमाहूय मण्डले |
योद्धुं व्यवस्थितो वीरो रेणुं संमृज्य हस्तयोः |
मत्तो गज इवान्यं तु योद्धुं समुपचक्रमे ||३३ ||४-१५-३३ (२८७८२)
अथ सूदेन तं मल्लं योधयामास मत्स्यराट्र ||३४ ||४-१५-३४ (२८७८३)
नोद्यमानस्तदा भीमो दुःखेनेवाकरोन्मतिम् |
न हि शक्नोम्यशक्तोपि प्रत्याख्यातुं नराधिपं ||३५ ||४-१५-३५ (२८७८४)
ततः स पुरुषव्याघ्रः शार्दूलशिथिलं चरन् |
प्रविवेश महारङ्गं विराटमभिहर्षयन् ||३६ ||४-१५-३६ (२८७८५)
बवन्ध कक्षां कौन्तेयस्ततः संहर्षयञ्जनम् |
ततस्तु वृत्रसङ्काशं भीमो मल्लं समाह्वयत् ||३७ ||४-१५-३७ (२८७८६)
जीमूतं नाम तं तत्र मल्लप्रख्यातविक्रमम् |
कक्षे मल्लं गृहीत्वाऽथ ननाद बहु सिंहवत् ||३८ ||४-१५-३८ (२८७८७)
तावुभौ सुमहोत्साहावुभौ भीमपराक्रमौ |
मत्ताविव महाकायौ वारणौ षष्ठिहायनौ ||३९ ||४-१५-३९ (२८७८८)
ततस्तौ नरशार्दूलौ बाहुयुद्धं समीयतु |
वीरौ परमसंहृष्टावन्योन्यजयकाङ्क्षिणौ ||४० ||४-१५-४० (२८७८९)
उभौ परमसंहृष्टौ बलेनातिबलावुभौ |
अन्योन्यस्यान्तरं प्रेप्सू परस्परजयैषिणौ ||४१ ||४-१५-४१ (२८७९०)
कृतप्रतिकृतैश्चित्रैर्बाहुभिश्च सुसङ्कटैः |
सन्निपातावधूतैश्च प्रमाथोन्मथनैस्तथा ||४२ ||४-१५-४२ (२८७९१)
क्षेपणैर्मुष्टिभिश्चैव वराहोद्धूतनिस्स्वनैः |
तलैर्वज्रनिपातैश्च प्रसृष्टाभिस्तथैव च ||४३ ||४-१५-४३ (२८७९२)
शलाकानखपातैश्च पादोद्धूतैश्च दारुणैः |
जानुभिश्चाश्मनिर्घोषैः शिरोभिश्चावघट्टनैः ||४४ ||४-१५-४४ (२८७९३)
तद्युद्धमभवद्धोरमशस्त्रं बाहुतेजसा |
बलप्राणेन शूराणां समाजोत्सवसन्निधौ ||४५ ||४-१५-४५ (२८७९४)
अरज्यत जनः सर्वः सोत्क्रुष्टनिनदोत्थितः |
बलिनोः संयुगे राजन्वृत्रवासवयोरिव ||४६ ||४-१५-४६ (२८७९५)
प्रकर्षणाकर्षणयोरभ्याकर्षविकर्षणैः |
आकर्षतुरथान्योन्यं जानुभिश्चापि जन्घतुः ||४७ ||४-१५-४७ (२८७९६)
ततः शब्देन महता भर्त्सयन्तौ परस्परम् |
व्यूढोरस्कौ दीर्घभुजौ नियुद्धकुशलावुभौ |
बाहुभिः समसज्जेतामायसैः परिघैरिव ||४८ ||४-१५-४८ (२८७९७)
उत्पपाताथ वेगेन मल्लं कक्षे गृहीतवान् |
पार्श्वं निगृह्य हस्तेन पातयामास मल्लकम् ||४९ ||४-१५-४९ (२८७९८)
चकर्ष दोर्भ्यामुत्पात्य भीमो मल्लममित्रहा |
निनदं तमभिक्रोशञ्शार्दूल इव वारणम् ||५० ||४-१५-५० (२८७९९)
समुद्यम्य महाबाहुर्भ्रामयामास वीर्यवान् |
ततो मल्लाश्च मत्स्याश्च विस्मयं चक्रिरे परम् ||५१ ||४-१५-५१ (२८८००)
भ्रामयित्वा शतगुणं गतसत्वमचेतनम् |
प्रत्यपिंषन्महाबाहुर्मल्लं भुवि वृकोदरः ||५२ ||४-१५-५२ (२८८०१)
तस्मिन्विनिहते वीरे जीमूते लोकविश्रुते |
विराटः परमं हर्षमगच्छद्वान्धवैः सह ||५३ ||४-१५-५३ (२८८०२)
प्रहर्षात्प्रददौ वित्तं बहु राज महामनाः |
वललाय महारङ्गे यथा वैश्रवणस्तथा ||५४ ||४-१५-५४ (२८८०३)
एवं स सुबहून्मल्लान्पुरुषांश्च महाबलान् |
विनिघ्नन्मत्स्यराजस्य प्रीतिमाहरदुत्तमाम् ||५५ ||४-१५-५५ (२८८०४)
यदाऽस्य तुल्यः पुरुषो न कश्चितत्र विद्यते |
ततो व्याघ्रैश्च सिंहैश्च द्विरदैश्चाप्ययोधयत् ||५६ ||४-१५-५६
(२८८०५)
विराटेन प्रदत्तानि चित्राणि विविधानि च |
स्थितेभ्यः पुरुषेभ्यश्च दत्त्वा द्रव्याणि जग्मिवान् ||५७ ||४-१५-५७ (२८८०६)
पुनरन्तःपुरगतः स्त्रीणां मध्ये वृकोदरः |
योध्यते स विराटस्य गजैः सिंहैर्महाबलैः ||५८ ||४-१५-५८ (२८८०७)
बीभत्सुरपि गीतेन नृत्तेनापि च पाण्डवः |
विराटं तोषयामास सर्वाश्चान्तःपुरस्त्रियः ||५९ ||४-१५-५९ (२८८०८)
अश्वैर्विनीतैर्जवनैस्तत्रतत्र समागतः |
तोपयामास राजानं नकुलो नृपसत्तमम् |
तस्मै प्रदेयं प्रायच्छत्प्रीतो राजा धनं बहु ||६० ||४-१५-६० (२८८०९)
विनीतान्वृपभान्दृष्ट्वा सहदेवस्य चाभितः |
धनं ददौ बहुविधं विराटः पुरुषर्षभः ||६१ ||४-१५-६१ (२८८१०)
द्रौपदी प्रेक्ष्य तान्सर्वान्क्लिश्यमानान्महारथान् |
नातिप्रीतमना राजन्निश्वासपरमाऽभवत् ||६२ ||४-१५-६२ (२८८११)
एवं ते न्यवसंस्तत्र प्रच्छन्नाः पुरुषर्षभाः |
कर्माणि तस्य कुर्वाणा विराटनृपतेस्तदा ||६३ ||||४-१५-६३ (२८८१२)
इति श्रीमन्महाभारते विराटपर्वणि समयपालनपर्वणि
पञ्चदशोऽध्यायः ||१५ ||||समाप्तं चेदं समयपालनपर्व
||२ ||
Mahabharata -Virata Parva -Chapter Footnotes
४-१५-४२ कृतप्रतिकृतादयो मल्लयुद्धविशेषाः ||
४२ ||
विराटपर्व -अध्याय ०१६
||श्रीः ||
४. १६. अध्यायः १६
Mahabharata -Virata Parva -Chapter Topics
द्रौपद्या स्वात्मानं कामयमानस्य कीचकस्य परुषभाषणैः
प्रत्याख्यानम् ||१ ||
Mahabharata -Virata Parva -Chapter Text
४-१६-० (२८८१३)
वैशम्पायन उवाच. ४-१६-०क्ष् (३०५३)
वसमानेषु पार्थेषु मत्स्यस्य नगरे तदा |
महारथेषु च्छन्नेषु मासा दश समाययुः ||१ ||४-१६-१ (२८८१४)
याज्ञसेनी सुदेष्णां तु शुश्रूषन्ती विशांपते |
आवसत्परिचारार्हा सुदुःखं जनमेजय ||२ ||४-१६-२ (२८८१५)
तथा चरन्ती पाञ्चाली सुदेष्णाया निवेशने |
ता देवीं तोपयामास तथा चान्तःपुरस्त्रियः ||३ ||४-१६-३ (२८८१६)
तस्मिन्वर्षे गतप्राये कीचकस्तु महाबलः |
सेनापतिर्विराटस्य ददर्श द्रुपदात्मजाम् ||४ ||४-१६-४ (२८८१७)
तां दृष्ट्वा देवगर्भायां चरन्तीं देवतामिव |
कीचकः कामयामास कामबाणप्रपीडितः ||५ ||४-१६-५ (२८८१८)
स तु कामाग्निसंतप्तः सुदेष्णामभिगम्य वै |
प्रहसन्निव सेनानीरिदं वचनमब्रवीत् ||६ ||४-१६-६ (२८८१९)
नेयं मया जातु पुरेह दृष्टा राज्ञी विराटस्य निवेशने शुभा |
रूपेण चोन्मादयतीव मां भृशं गन्धेन जाता मदिरेव भामिनी ||७
||४-१६-७ (२८८२०)
का देवरूपा हृदयंगमा शुभे ह्याचक्ष्व मे कस्य कुतोत्र शोभने |
चित्तं हि निर्मथ्य करोति मां वशे न चान्यदत्रौपधमस्ति मे मतम्
||८ ||४-१६-८ (२८८२१)
अहो तवेयं परिचारिका शुभा प्रत्यग्ररूपा प्रतिभाति मामियम् |
अयुक्तरूपं हि करोति कर्म ते प्रशास्तु मां यच्च ममास्ति किंचन
||९ ||४-१६-९ (२८८२२)
प्रभूतनागाश्वरथं महाजनं समृद्धियुक्तं बहुपानयोजनम् |
मनोहरं काञ्चनचित्रभूषणं गृहं महच्छोभयतामियं मम
||१० ||४-१६-१० (२८८२३)
ततः सुदेष्णामनुमन्त्र्य कीचकस्ततः समभ्येत्य नराधिपात्मजाम् |
उवाच कृष्णामभिसान्त्वयंस्तदा मृगेन्द्रकन्यामिव जम्बुको वने
||११ ||४-१६-११ (२८८२४)
का त्वं कस्यासि कल्याणि कुतो वा त्वं वरानने |
प्राप्ता विराटनगरं तत्त्वमाचक्ष्व शोभने ||१२ ||४-१६-१२ (२८८२५)
रूपमग्र्यं तथा कान्तिः सौकुमार्यमनुत्तमम् |
कान्त्या विभाति वक्रं ते शशाङ्क इव निर्मलं ||१३ ||४-१६-१३ (२८८२६)
नेत्रे सुविपुले सुभ्रु पद्मपत्रनिभेशुभे |
वाक्यं ते चारुसर्वाङ्गि परपुष्टरुतोपमम् ||१४ ||४-१६-१४ (२८८२७)
एवंरूपा मया नारी काचिदन्या महीतले |
न दृष्टपूर्वा सुश्रोणि यादृशी त्वमनिन्दिते ||१५ ||४-१६-१५ (२८८२८)
लक्ष्मीः पद्मालया का त्वमथ भूतिः सुमध्यमे |
ह्रीः श्रीः कीर्तिरथो कान्तिरासां का त्वं वरानने ||१६ ||४-१६-१६ (२८८२९)
अतीव रूपिणी किं त्वमनङ्गविहारिणी |
अतीव भ्राजसे सुभ्रु प्रभेवेन्दोरनुत्तमा ||१७ ||४-१६-१७ (२८८३०)
अपि चेक्षणपक्ष्माणां स्थितज्योत्स्नोपमं शुभम् |
दिव्यांशुरश्मिभिर्वृत्तं दिव्यकान्तिमनोरमम् ||१८ ||४-१६-१८ (२८८३१)
निरीक्ष्य वक्रचन्द्रं ते लक्ष्म्याऽनुपमया युतम् |
कृत्स्ने जगति को नेह कामस्य वशगो भवेत् ||१९ ||४-१६-१९ (२८८३२)
हारालंकारयोग्यौ तु स्तनौ चोभौ शुभोभनौ |
सुजातौ सहितौ लक्ष्म्या पीनौ वृत्तौ निरन्तरौ ||२० ||४-१६-२० (२८८३३)
कुड्मलाम्बुरुहाकारौ तव सुभ्रु पयोधरौ |
कामप्रतोदाविव मां तुदतश्चारुहासिनि ||२१ ||४-१६-२१ (२८८३४)
वलीविभङ्गचतुरं स्तनभारविनामितम् |
कराग्रसंमितं मध्यं तवेदं तनुमध्यमे ||२२ ||४-१६-२२ (२८८३५)
दृष्ट्वैव चारुजघनं सरित्पुलिनसंनिभम् |
कामव्याधिरसाध्यो मामप्याक्रामति भामिनि ||२३ ||४-१६-२३ (२८८३६)
जज्वाल चाग्निमदनो दावाग्निरिव निर्दयः |
त्वत्सङ्गमाभिसंकल्पविवृद्धो मां दहत्ययम् ||२४ ||४-१६-२४ (२८८३७)
आत्मप्रदानवर्षेण संगमाम्भोधरेण च |
शमयस्व वरारोहे ज्वलन्तं मन्मथानलम् ||२५ ||४-१६-२५ (२८८३८)
मच्चित्तोन्मादनकरा मन्मथस्य शरोत्कराः |
त्वत्सङ्गमाशानिशितास्तीव्राः शशिनिभानने |
मह्यं विदार्य हृदयमिदं निर्दयवेगिताः ||२६ ||४-१६-२६ (२८८३९)
प्रविष्टा ह्यसितापाङ्गि प्रचण्डाश्चण्डदारुणाः |
अत्युन्मादसमारम्भाः प्रीत्युन्मादकरा मम |
आत्मप्रदानसंभोगैर्मामुद्धर्तुमिहार्हसि ||२७ ||४-१६-२७ (२८८४०)
चित्रमाल्याम्बरधरा सर्वाभरणभूषिता |
कामं प्रकामं सेव त्वं मया सह विलासिनि ||२८ ||४-१६-२८ (२८८४१)
नार्हसीहासुखं वस्तुं सुखार्हा सुखवर्जिता |
प्राप्नुह्यनुत्तमं सौख्यं मत्तस्त्वं मत्तगामिनि ||२९ ||४-१६-२९ (२८८४२)
स्वादून्यमृतकल्पानि पेयानि विविधानि च |
पिबमाना मनोज्ञानि रममाणा यथासुखम् ||३० ||४-१६-३० (२८८४३)
भोगोपचारान्विविधान्सौभाग्यं चाप्यनुत्तमम् |
पानं पिब महाभागे भोगैश्चानुत्तमैः शुभैः ||३१ ||४-१६-३१ (२८८४४)
इदं हि रूपं प्रथमं तवानघे निरर्थकं केवलमद्य भामिनि |
अधार्यमाणा स्नगिवोत्तमा शुभा न शोभसे सुन्दरि शोभना सती ||३२
||४-१६-३२ (२८८४५)
त्यजामि दारान्मम ये पुरातना भवन्तु दास्यस्तव चारुहासिनि |
अहं च ते सुन्दरि दासवत्स्थितः सदा भविष्ये वशगो वरानने ||३३
||||४-१६-३३ (२८८४६)
इति श्रीमन्महाभारते विराटपर्वणि कीचकवधपर्वणि षोडशोऽध्यायः
||१६ ||
विराटपर्व -अध्याय ०१७
||श्रीः ||
४. १७. अध्यायः १७
Mahabharata -Virata Parva -Chapter Topics
द्रौपद्या स्वात्मानं कामयमानस्य कीचकस्य परुषभाषणैः
प्रत्याख्यानम् ||१ ||
Mahabharata -Virata Parva -Chapter Text
४-१७-० (२८८४७)
वैशम्पायन उवाच. ४-१७-०क्ष् (३०५४)
एवमुक्ताऽनवद्याङ्गी कीचकेन दुरात्मना |
द्रौपदी तमुवाचेदं सैरन्ध्रीवेषधारिणी ||१ ||४-१७-१ (२८८४८)
अप्रार्थनीयामिहं मां सूतपुत्राभिमन्यसे |
निहीनवर्णां सैरेन्ध्रीं बीभत्सां केशकारिणीम् ||२ ||४-१७-२ (२८८४९)
परदाराऽस्मि भद्रं ते न युक्तं तव सांप्रतम् |
दयिताः प्राणिनां दारा धर्मं समनुचिन्तय ||३ ||४-१७-३ (२८८५०)
परदारे न ते बुद्धिर्जातु कार्या कथंचन |
विवर्जनं ह्यकार्याणामेतत्सुपुरुषव्रतम् ||४ ||४-१७-४ (२८८५१)
मिथ्याभिगृध्नो हि नरः पापात्मा मोहमास्थितः |
अयशः प्राप्नुयाद्धोरं महद्वा प्राप्नुयाद्भयम् ||५ ||४-१७-५ (२८८५२)
वैशम्पायन उवाच. ४-१७-६क्ष् (३०५५)
एवमुक्तस्तु सैरन्ध्र्या कीचकः काममोहितः |
जानन्नपि सुदुर्बुद्धिः परदाराभिमर्शने ||६ ||४-१७-६ (२८८५३)
दोषान्बहून्प्राणहरान्सर्वलोकविगर्हितान् |
प्रोवाचेदं सुदुर्बुद्धिर्द्रौपदीमजितेन्द्रियः ||७ ||४-१७-७ (२८८५४)
नार्हस्येवं वरारोहे प्रत्याख्यातुं वरानने |
मां मन्मथसमाविष्टं त्वत्कृते चारुहासिनि ||८ ||४-१७-८ (२८८५५)
प्रत्याख्याय च मां भीरु वशगं प्रियवादिनम् |
नूनं त्वमसितापाङ्गि पश्चात्तापं करिष्यसि ||९ ||४-१७-९ (२८८५६)
अहं हि सुभ्रु राज्यस्य कृत्स्नस्यास्य सुमध्यमे |
प्रभुर्वासयिता चैव वीर्ये चाप्रतिमः क्षितौ ||१० ||४-१७-१० (२८८५७)
पृथिव्यां मत्समो नास्ति कश्चिदन्यः पुमानिह |
रूपयौवनसौभाग्यैर्भोगैश्चानुत्तमैः शुभैः ||११ ||४-१७-११ (२८८५८)
सर्वकामसमृद्धेषु भोगेष्वनुपमेष्विह |
भोक्तव्येषु च कल्याणि कस्माद्दास्ये रता ह्यसि ||१२ ||४-१७-१२ (२८८५९)
मया दत्तमिदं राज्यं स्वामिन्यसि शुभानने |
भजस्व मां वरारोहे भुङ्क्ष्वं भोगाननुत्तमान् ||१३ ||४-१७-१३ (२८८६०)
एवमुक्ता तु सा साध्वी कीचकेनाशुभं वचः |
कीचकं प्रत्युवाचेदं गर्हयन्त्यस्य तद्वचः ||१४ ||४-१७-१४ (२८८६१)
सैरन्ध्र्युवाच. ४-१७-१५क्ष् (३०५६)
मा सूतपुत्र मुह्यस्व माऽद्य त्यक्ष्यस्व जीवितम् |
जानीहि पञ्चभिर्घोरैर्नित्यं मामभिरक्षिताम् ||१५ ||४-१७-१५ (२८८६२)
न चाप्यहं त्वया लभ्या गन्धर्वाः पतयो मम |
ते त्वां निहन्युः कुपिताः साध्वलं मा व्यनीनशः ||१६ ||४-१७-१६ (२८८६३)
अशक्यरूपं पुरुषैरध्वानं गन्तुमिच्छसि ||१७ ||४-१७-१७ (२८८६४)
यथा निश्चेतनो बालः कूलस्थः कूलमुत्तरम् |
तर्तुमिच्छति मन्दात्मा तथा त्वं कर्तुमिच्छसि ||१८ ||४-१७-१८ (२८८६५)
अन्तर्महीं वा यदि वोर्ध्वमुत्पतेः समुद्रपारं यदि वा प्रधावसि |
तथापि तेषां न विमोक्षमर्हसि प्रमाथिनो देवसुता हि खेचराः ||१९
||४-१७-१९ (२८८६६)
त्वं कालरात्रीमिव कश्चिदातुरः किं मां दृढं पार्थयसेऽद्य कीचक |
किं मातुरङ्के शयितो यथा शिशुश्चन्द्रं जिघृक्षुरिव मन्यसे
हि माम् ||२० ||४-१७-२० (२८८६७)
तेषां प्रियां प्रार्थयतो न ते भुवि गत्वा दिवं वा शरणं भविष्यति |
न वर्तते कीचक ते दृशा शुभं या तेन संजीवनमर्थयेत सा
||२१ ||||४-१७-२१ (२८८६८)
इति श्रीमन्महाभारते विराटपर्वणि कीचकवधपर्वणि
सप्तदशोऽध्यायः ||१७ ||
Mahabharata -Virata Parva -Chapter Footnotes
४-१७-१६ भूतिः ईश्वरी ऐश्वर्याभिमानिनी देवता ||
१६ ||
४-१७-१७ अनङ्गाङ्गविहारिणी रतिरित्यर्थः ||
१७ ||
४-१७-१८ ईक्षणपक्ष्माणां नेत्रपक्ष्मणां स्मितं ईषदुन्मीलं तदेव
ज्योत्स्नोपम मनस आह्लादकरम् ||
१८ ||
४-१७-२० सुजातौ उन्नतौ | निरन्तरौ पृथत्वात्सांश्लिष्टौ ||
२० ||
४-१७-२१ कुड्भलेति मुकुलीभूतपद्माकारौ ||
२१ ||
४-१७-२४ अग्निमदनो मदनाग्निः ||
२४ ||
४-१७-२८ कामं स्मरम् | प्रकाममतिशयितम् ||
२८ ||
विराटपर्व -अध्याय ०१८
||श्रीः ||
४. १८. अध्यायः १८
Mahabharata -Virata Parva -Chapter Topics
कीचकेन सुदेष्णांप्रति द्रौपद्याः स्ववशीकरणप्रार्थना ||१ ||
सुदेष्णया कीचके सुराहरणव्याजेन तद्गृहंप्रति
द्रौपदीप्रेषणप्रतिज्ञानम् ||२ ||
तथा बलात्कारेण द्रौपद्याः सुरानयनाय कीचकगृहंप्रति
गमनचोदना ||३ ||
Mahabharata -Virata Parva -Chapter Text
४-१८-० (२८८६९)
वैशम्पायन उवाच. ४-१८-०क्ष् (३०५७)
प्रत्याख्यातश्च पाञ्चाल्या कीचकः काममोहितः |
प्रविश्य राजभवनं भगिन्या अग्रतः स्थितः ||१ ||४-१८-१ (२८८७०)
सोभिवीक्ष्य सुकेशान्तां सुदेष्णां भगिनीं प्रियाम् |
अमर्यादेन कामेन घोरेणाभिपरिप्लुतः ||२ ||४-१८-२ (२८८७१)
स तु मूर्ध्र्यञ्जलिं कृत्वा भगिन्याश्चरणावुभौ |
संमोहाभिहतस्तूर्णं वातोद्धृत इवार्णवः ||३ ||४-१८-३ (२८८७२)
स प्रोवाच सुदुःखार्तो भगिनीं निश्वसन्मुहुः |
अव्यक्तमृदुना साम्ना शुष्यता च पुनःपुनः ||४ ||४-१८-४ (२८८७३)
यथा सुदेष्णे सैरन्ध्र्या संगच्छेयं सकामया |
तथा शीघ्रं कुरुष्वाद्य माऽहं प्राणान्प्रहासिषम् ||५ ||४-१८-५ (२८८७४)
यदीयमनवद्याङ्गी न मामद्यापि काङ्क्षते |
चेतसाऽभिप्रसन्नेन गतोस्मि यमसादनम् ||६ ||४-१८-६ (२८८७५)
वैशम्पायन उवाच. ४-१८-७क्ष् (३०५८)
तमुवाच परिष्वज्य सुदेष्णा भ्रातरं प्रियम् |
भ्रातुर्जीवितरक्षार्थं समाश्वास्यासितेक्षणा ||७ ||४-१८-७ (२८८७६)
शरणागतेयं सुश्रोणी मया दत्ताभया च सा |
शुभाचारा च भद्रं ते नैनां वक्तुमिहोत्सहे ||८ ||४-१८-८ (२८८७७)
एषा हि शक्या नान्येन स्प्रष्टुं पापेन चेतसा |
गन्धर्वाः किल पञ्चेमां रक्षन्ति रमयन्ति च ||९ ||४-१८-९ (२८८७८)
एवमेषा ममाचष्टे तथा प्रथमसंगमे |
तथैव गजनासोरूः सत्यमाह ममान्तिके |
ते हि क्रुद्धा महात्मानो नाशयेयुर्हि जीवितम् ||१० ||४-१८-१० (२८८७९)
राजा चैव समीक्ष्यैनां संमोहं गतवानिह |
मया च सत्यवचनैरनुनीतो महीपतिः ||११ ||४-१८-११ (२८८८०)
सोप्येनामनिशं दृष्ट्वा मनसैवाभ्यनन्दत |
भयाद्गन्धर्वमुख्यानां जीवितस्योपघातिनाम् |
मनसाऽपि ततस्त्वेनां न चिन्तयति पार्थिवः ||१२ ||४-१८-१२ (२८८८१)
ते हि क्रुद्धा महात्मानो गरुडानिलतेजसः |
दहेयुरपि लोकांस्त्रीन्युगान्तेष्विव भास्करः ||१३ ||४-१८-१३ (२८८८२)
सैनन्ध्र्या ह्येतदाख्यातं मम तेषां महद्बलम् |
तव चाहमिदं गुह्यं स्नेहाद्वक्ष्यामि बन्धुवत् ||१४ ||४-१८-१४ (२८८८३)
मा गमिष्यसि वै कृच्छ्रां गतिं परमदुर्गमाम् |
बलिनस्ते रुजं कुर्युः कुलस्य च धनस्य च ||१५ ||४-१८-१५ (२८८८४)
तस्मान्नास्यां मनः कर्तुं यदि प्राणा प्रियास्तव |
न चिन्तयेथा मागास्त्वं मत्प्रियं च यदीच्छसि ||१६ ||४-१८-१६ (२८८८५)
वैशम्पायन उवाच. ४-१८-१७क्ष् (३०५९)
एवमुक्तस्तु दुष्टात्मा भगिनीं कीचकोऽब्रवीत् |
गन्धर्वाणां शतं वाऽपि सहस्रमयुतानि वा |
अहमेको वधिष्यामि गन्धर्वान्पञ्च किं पुनः ||१७ ||४-१८-१७ (२८८८६)
न च त्वमभिजानीषे स्त्रीणां गुह्यमनुत्तमम् |
पुत्रं वा किल पौत्रं वा भ्रातरं वा मनस्विनम् ||१८ ||४-१८-१८ (२८८८७)
रहसीह नरं दृष्ट्वा नानागन्धविभूषितम् |
योनिरुत्स्विद्यते स्त्रीणां सतीनामपि च श्रुतम् ||१९ ||४-१८-१९ (२८८८८)
मां निरीक्ष्यानुलिप्ताङ्गं सर्वाभरणभूषितम् |
वशमेष्यति सैरन्ध्री मन्मथेनाभिपीडिता |
सा त्वं दृष्ट्वा ब्रूहि चैनां मम चेञ्जीवितं प्रियं ||२० ||
४-१८-२० (२८८८९)
वैशम्पायन उवाच. ४-१८-२१क्ष् (३०६०)
एवमुक्ता सुदेष्णा तु शोकेनाभिप्रपीडिता |
अहो दुःखमहो कृच्छ्रमहो पापमिति स्मह ||२१ ||४-१८-२१ (२८८९०)
प्रारुदद्भृशदुःखार्ता विपाकं तस्य वीक्ष्य सा |
पातालेषु पतत्येष विलपन्बडवामुखे ||२२ ||४-१८-२२ (२८८९१)
त्वत्कृते विनशिष्यन्ति भ्रातरः सुहृदश्च मे |
किंनु शक्यं मया कर्तुं यत्त्वमेवमभिप्लुतः ||२३ ||४-१८-२३ (२८८९२)
न च श्रेयोऽभिजानीषे काममेवानुवर्तसे |
ध्रुवं गतायुस्त्वं पाप यदेवं काममोहितः |
अकर्तव्ये हि मां पापे नियुनङ्क्षि नराधम ||२४ ||४-१८-२४ (२८८९३)
अपि चैतत्पुरा प्रोक्तं निपुणैर्मनुजोत्तमैः |
एकस्तु कुरुते पापं स्वजातिस्तेन हन्यते ||२५ ||४-१८-२५ (२८८९४)
गतस्त्वं धर्मराजस्य विषयं नात्र संशयः |
अदूषितमिदं सर्वं स्वजनं घातयिष्यसि ||२६ ||४-१८-२६ (२८८९५)
एतत्तु मे दुःखतरं येनाहं भ्रातृसौहृदात् |
विदितार्था करिष्यामि तुष्टो भव कुलक्षये ||२७ ||४-१८-२७ (२८८९६)
गच्छ शीघ्रमितस्त्वं हि स्वमेव भवनं शुभम् |
किंचित्कार्यं समुद्दिश्य सुरामन्नं च कारय ||२८ ||४-१८-२८ (२८८९७)
कृते चान्ने सुरायां च प्रेषयिष्यसि मे पुनः |
तामहं प्रेषयिष्यामि मध्वन्नार्थं तवान्तिकम् ||२९ ||४-१८-२९ (२८८९८)
ततः संप्रेषितामेनां विजने निरवग्रहाम् |
सान्त्वयेथा यथान्यायं यदि साम सहिष्यति ||३० ||४-१८-३० (२८८९९)
सद्यः कृतमिदं सर्वं शेषमत्रानुचिन्तय ||३१ ||४-१८-३१ (२८९००)
वैशम्पायन उवाच. ४-१८-३२क्ष् (३०६१)
सुदेष्णयैवमुक्तस्तु कीचकः कालचोदितः |
त्वरमाणः प्रचक्राम स्वगृहं राजवेश्मनः ||३२ ||४-१८-३२ (२८९०१)
आगम्य च गृहं रम्यं सुरामन्नं चकार ह |
अजैडकं च सुकृतं बहु चोच्चावचान्मृगान् ||३३ ||४-१८-३३ (२८९०२)
भक्षांश्च विविधाकारान्बहूंश्चोच्चावचांस्तदा |
कारयामास कुशलैरन्नपानैः सुसंस्कृतम् ||३४ ||४-१८-३४ (२८९०३)
त्वरावान्कालपाशेन कण्ठे बद्धः पशुर्यथा |
नावबुध्यत मूढात्मा मरणं समुपस्थितम् ||३५ ||४-१८-३५ (२८९०४)
आनीतायां सुरायां तु कृते चान्ने सुसंस्कृते |
कीचकः पुनरागम्य सुदेष्णां वाक्यमब्रवीत् ||३६ ||४-१८-३६ (२८९०५)
मधु मांसं च बहुधा भक्ष्याश्च बहुधा कृताः |
सुदेष्णे ब्रूहि सैरन्ध्रीं यथा सा मे गृहं व्रजेत् ||३७ ||४-१८-३७ (२८९०६)
केनचित्त्वद्य कार्येण त्वर शीघ्रं मम प्रियम् |
अहं हि शरणं देवं प्रतिपद्ये वृषध्वजम् |
समागमं मे सैरन्ध्र्या मरणं वा दिशेति वै ||३८ | ४-१८-३८ (२८९०७)
वैशम्पायन उवाच. ४-१८-३९क्ष् (३०६२)
सा तमाह विनिःश्वस्य प्रतिगच्छ स्वकं गृहम् |
एषाऽहमपि सैरन्ध्रीं सुरार्थे तूर्णमादिशे ||३९ ||४-१८-३९ (२८९०८)
एवमुक्तस्तु पापात्मा कीचकस्त्वरितः पुनः |
स्वगृहं प्राविशत्तूर्णं सैरन्ध्रीगतमानसः ||४० ||४-१८-४० (२८९०९)
कीचकं तु गतं ज्ञात्वा त्वरमाणं स्वकं गृहम् |
सैरन्ध्रीं तत आहूय सदेष्णा वाक्यमब्रवीत् ||४१ ||४-१८-४१ (२८९१०)
गच्छ सैरन्ध्रि मत्प्रीत्यै कीचकस्य निवेशनम् |
सुरामानय सुश्रोणि तृषिताऽहं विलासिनि ||४२ ||४-१८-४२ (२८९११)
वैशम्पायन उवाच. ४-१८-४३क्ष् (३०६३)
सुदेष्णयैवमुक्ता सा निःश्वसन्ती नृपात्मजा |
अब्रवीच्छोकसन्तप्ता नाहं तत्र व्रजामि वैः ||४३ ||४-१८-४३ (२८९१२)
सूतपुत्रो हि मां भद्रे कामात्मा चाभिमन्यते |
न गच्छेयमहं तस्य राजपुत्रि निवेशनम् |
त्वमेव भद्रे जानासि यथा स निरपत्रपः ||४४ ||४-१८-४४ (२८९१३)
समयश्च कृतो भद्रे यथा प्रथमसंगमे |
तथा निवसमानायां यथाऽहं नान्यचारिणी ||४५ ||४-१८-४५ (२८९१४)
कीचकश्च सुकेशान्ते मूढो मदनगर्वितः |
स मामिह गतां दृष्ट्वा व्यवस्यति निराकृतिम् |
कथं नु वै तत्र गतां मर्षयेन्मामबान्धवाम् ||४६ ||४-१८-४६ (२८९१५)
बह्व्यः सन्ति तव प्रेष्या राजपुत्रि वशानुगाः |
अन्यां प्रेषय कैकेयि संरक्ष्याऽहमिह त्वया ||४७ ||४-१८-४७ (२८९१६)
कीचकस्यालयं देवि न यामि भयकम्पिता |
यद्यदन्यच्च मे कर्म करोमि च सुदुष्करम् ||४८ ||४-१८-४८ (२८९१७)
एवमुक्ता तु पाञ्चाल्या दैवयोगेन कैकयी |
तां विराटस्य माहिषी क्रुद्धा भूयोऽन्वशासत ||४९ ||४-१८-४९ (२८९१८)
कीचकं चैव गच्छ त्वं बलात्कारे चोदिता |
नास्ति मेऽन्या त्वया तुल्या सा त्वं शीघ्रतरं व्रज ||५० ||४-१८-५० (२८९१९)
अवश्यं त्वेव गन्तव्यं किमर्थं मां विवक्षसि |
शीघ्रं गच्छ त्वरस्वेति मत्प्रीतिवशमाचर ||५१ ||४-१८-५१ (२८९२०)
न हीदृशो मम भ्राता किं त्वं समभिशङ्कसे |
उक्त्वा चैनां बलाच्चैव विनियुज्य प्रभुत्वतः ||५२ ||४-१८-५२ (२८९२१)
भाजनं प्रददौ चास्यै सपिधानं हिरण्मयम् |
या सुजाता सुगन्धा च तामानय सुरामिति ||५३ ||४-१८-५३ (२८९२२)
सा शङ्कमाना रुदती वेपन्ती द्रुपदात्मजा |
दैवतेभ्यो नमस्कृत्वा श्वशुरेभ्यस्तथाऽब्रवीत् ||५४ ||४-१८-५४ (२८९२३)
यथाऽहमन्यं पार्थेभ्यो नाभिजानापि मानवम् |
तेन सत्येन मां दृष्ट्वा कीचको मा वशं नयेत् ||५५ ||४-१८-५५ (२८९२४)
यथाऽहं पाण्डुपुत्रेभ्यः पञ्चभ्यो नान्यगामिनी |
तेन सत्येन मां दृष्ट्वा कीचको मा वशं नयेत् ||५६ ||||४-१८-५६ (२८९२५)
इति श्रीमन्महाभारते विराटपर्वणि कीचकवधपर्वणि
अष्टादशोऽध्यायः ||१८ ||---------
Mahabharata -Virata Parva -Chapter Footnotes
४-१८-२ अभिमन्यसे कामयसे ||
२ ||
४-१८-५ मिथ्याभिगृध्नः वितथाभिनिवेशी | महद्भयं मृत्युम् ||
५ ||
४-१८-२० मन्यसे लिप्ससे शिशोश्चन्द्रवदहं तव दुर्लभास्मीति भावः ||
२० ||
४-१८-२१ या स्वीयं अर्थयेत कामयेत शुभेच्छारूपा तव नास्तीत्यर्थः
. तेन च शुभेन परदारनिवृत्तिरूपेण कामितेन संजीवनं भवतीति
शेषः. अन्यथा मरिष्यसीत्यर्थः ||
२१ ||
विराटपर्व -अध्याय ०१९
||श्रीः ||
४. १९. अध्यायः १९
Mahabharata -Virata Parva -Chapter Topics
कीचकगृहंप्रति प्रस्थितया द्रौपद्या तेन स्वस्यादूषणाय
सूर्यादिदेवताप्रार्थना ||१ ||
सूर्येण तद्रक्षणाय निगूढस्य रक्षसः प्रेषणम् ||२ ||
कीचकेन द्रौपदींप्रति स्ववशीभवनयाचनम् ||३ ||
तथा तदनङ्गीकाररोषात्तस्याः पादेन ताडनम् ||४ ||
सूर्यदूतेन रक्षसा कीचकस्य भूमौ निपातनम् ||५ ||
युधिष्ठिरेन कीचकजिघांसोर्भीमस्य संकेतेन प्रतिषेधनम् ||६ ||
Mahabharata -Virata Parva -Chapter Text
४-१९-० (२८९२६)
वैशम्पायन उवाच. ४-१९-०क्ष् (३०६४)
अकीर्तयत सुश्रोणी धर्मं शक्रं दिवाकरम् |
मारुतं चाश्विनौ देवौ कुबेरं वरुणं यमम् ||१ ||४-१९-१ (२८९२७)
रुद्रमग्निं भगं विष्णुं स्कन्दं पूषणमेव च |
सावित्रीसहितं चापि ब्रह्माणं पर्यकीर्तयत् ||२ ||४-१९-२ (२८९२८)
इत्येवं मृगशवाक्षी सुश्रोणी धर्मचारिणी |
उपातिष्ठत सा सूर्यं मुहूर्तमबला तदा ||३ ||४-१९-३ (२८९२९)
तदस्यास्तनुमध्यायाः सर्वं सूर्योऽवबुद्धवान् |
अन्तर्हितं ततस्तस्या रक्षो रक्षार्थमादिशत् ||४ ||४-१९-४ (२८९३०)
तच्चैनां नाजहात्तत्र सर्वावस्थास्वनिन्दिताम् ||५ ||४-१९-५ (२८९३१)
प्रतस्थे सा सुकेशान्ता त्वरमाणा पुनःपुनः |
विलम्बमाना विवशा कीचकस्य निवेशनम् ||६ ||४-१९-६ (२८९३२)
तां मृगीमिव वित्रस्तां दृष्ट्वा कृष्णां समागताम् |
उत्पपातासनात्तूर्णं नावं लब्ध्वेव पारगः ||७ ||४-१९-७ (२८९३३)
श्लक्ष्णं चोवाच वाक्यं स कीचकः काममूर्च्छितः |
स्वागतं ते सुकेशान्ते सुव्युष्टा रजनी मम ||८ ||४-१९-८ (२८९३४)
स्वामिनी त्वमनुप्राप्ता चिरस्य भवनं शुभे |
कुरुष्व च मयि प्रीतिं वशं चोपानयस्व माम् ||९ ||४-१९-९ (२८९३५)
प्रतिगृह्णीष्व मे भोगांस्त्वदर्थमुपकल्पितान् |
सर्वरत्नमयीं मालां कुण्डले च हिरण्मये ||१० | ४-१९-१० (२८९३६)
वासांसि चन्दनं माल्यं धूपशुद्धां च वारुणीम् |
प्रतिगृह्णीष्व भद्रं ते विहर त्वं यथेच्छसि |
प्रीत्या मे कुरु मद्माक्षि प्रसादं प्रियदर्शने ||११ ||४-१९-११ (२८९३७)
स्वास्तीर्णमस्ति शयनं सितसूक्ष्मोत्तरच्छदम् |
अत्रारुह्य मया सार्धं पिबेमां वरवारुणीम् ||१२ ||४-१९-१२ (२८९३८)
भजस्व मां विशालाक्षि भर्ता ते सदृशोस्म्यहम् |
उपसर्प वरारोहे मेरुमर्कप्रभा यथा ||१३ ||४-१९-१३ (२८९३९)
वैशम्पायन उवाच. ४-१९-१४क्ष् (३०६५)
स मूढः कीचकस्तत्र प्राप्तां राजीवलोचनाम् |
अब्रवीद्द्रौपदीं दृष्ट्वा दुरात्मा ह्यात्मसंमतः ||१४ ||४-१९-१४ (२८९४०)
कीचकेनैवमुक्ता सा द्रौपदी वरवर्णिनी |
अब्रवीत्तमनाचारं नेदृशं वक्तुमर्हसि ||१५ ||४-१९-१५ (२८९४१)
नाहं शक्या त्वया स्प्रष्टुं श्वपचेनेव ब्राह्मणी |
गन्तुमिच्छसि दुर्बुद्धे गतिं दुर्गतरान्तराम् ||१६ ||४-१९-१६ (२८९४२)
यत्र गच्छन्ति बहवः परदाराभिमर्शकाः |
नराः संभिन्नमर्यादाः कीटवच्चाशुभाश्रयाः ||१७ ||४-१९-१७ (२८९४३)
अप्रैषीन्मां सुराहारीं सुदेष्णा त्वन्निवेशनम् |
तस्यै नयिष्ये मदिरां भगिनी तृषिता तव ||१८ ||४-१९-१८ (२८९४४)
पिपासिता च कैकेयी तूर्णं मामादिशत्ततः |
दीयतां मे सुरा शीघ्रं सूतपुत्र व्रजाम्यहम् ||१९ ||४-१९-१९ (२८९४५)
कीचक उवाच. ४-१९-२०क्ष् (३०६६)
अन्या भद्रे हरिष्यन्ति राजपुत्र्याः सुरामिमाम् |
किं त्वं यास्यसि कल्याणि मदर्थं त्वमिहागता ||२० ||४-१९-२० (२८९४६)
वैशम्पायन उवाच. ४-१९-२१क्ष् (३०६७)
इत्युक्त्वा दक्षिणे पाणौ सूतपुत्रः परामृशत् |
सा गृहीता विधून्वन्ती भूमौ निक्षिप्य भाजनम् |
सभां शरणमाधावद्यत्र राजा युधिष्ठिरः ||२१ ||४-१९-२१ (२८९४७)
तां कीचकः प्रधावन्तीं केशपक्षे परामृशत् |
पातयित्वा तु तां भूमौ सूतपुत्रः पदाऽवधीत् ||२२ ||४-१९-२२ (२८९४८)
सभायां पश्यतो राज्ञो विराटस्य महात्मनः |
ब्राह्मणानां च वृद्धानां क्षत्रियाणां च पश्यतां ||२३ ||४-१९-२३
(२८९४९)
तस्याः पादाभितप्ताया मुखाद्रुधिरमास्रवत् ||२४ ||४-१९-२४ (२८९५०)
ततो दिवाकरेणाशु राक्षसः संनियोजितः |
स कीचकमपोवाह वातवेगेन भारत ||२५ ||४-१९-२५ (२८९५१)
स पपात तदा भूमौ रक्षोबलसमीरितः |
विघूर्णमानो निश्चेष्टश्छिन्नमूल इव द्रुमः ||२६ ||४-१९-२६ (२८९५२)
तां दृष्ट्वा तत्र ते सभ्या हाहाभूताः समन्ततः |
न युक्तं सूतपुत्रेति कीचकेति च तेऽवदन् |
किमियं वध्यते बाला कृपणा चाप्यबान्धवा ||२७ ||४-१९-२७ (२८९५३)
तस्यामासन्हि ते पार्थाः सभायां भ्रातरस्तथा |
अमृष्यमाणाः कृष्णायाः कीचकेन पदा वधं ||२८ ||४-१९-२८ (२८९५४)
तां दृष्ट्वा भीमसेनस्य क्रोधादास्रमवर्तत |
धूमोच्छ्वासः समभवन्नेत्रे चोच्छ्रितपक्ष्मणी |
सस्वेदा भ्रुकुटी चोग्रा ललाटे समवर्तत ||२९ ||४-१९-२९ (२८९५५)
तस्य भीमो वधप्रेप्सुः कीचकस्य दुरात्मनः |
दन्तैर्दन्तांस्तदा रोपान्निष्पिपेष महामनाः ||३० ||४-१९-३० (२८९५६)
भूयः संचरितः क्रुद्धः सहसोत्थाय चासनात् |
निरैक्षत द्रुमं दीर्घं राजानं चाप्यवैक्षत ||३१ ||४-१९-३१ (२८९५७)
वधमाकाङ्क्षमाणं तं कीचकस्य दुरात्मनः |
आकारेणैव भीमं स प्रत्यपेधद्युधिष्ठिरः ||३२ ||४-१९-३२ (२८९५८)
तस्य राजा शनैः संज्ञां कुन्तीपुत्रो युधिष्ठिरः |
चकार भीमसेनस्य रोषाविष्टस्य धीमतः ||३३ ||४-१९-३३ (२८९५९)
प्रत्याख्यानं तदा चाह कङ्को नाम युधिष्ठिरः ||३४ ||४-१९-३४ (२८९६०)
सूद मा साहसं कार्षीः फलितोऽयं वनस्पतिः |
नात्र शुष्काणि काष्ठानि सन्ति यानि च कानि च ||३५ ||४-१९-३५ (२८९६१)
यदि ते दारुकृत्यं स्यान्निष्क्रम्य नगराद्बहिः |
समूलं शातयेर्वृक्षं श्रमस्ते न भविष्यति ||३६ ||४-१९-३६ (२८९६२)
यस्य चार्द्रस्य वृक्षस्य शीतच्छायां समाश्रयेत् |
न तस्य पर्णे द्रुह्येत पूर्ववृत्तमनुस्मरन् ||३७ ||४-१९-३७ (२८९६३)
न क्रोधकालसमयः सूद मा चापलं कृथाः |
अपूर्णोऽयं द्विपक्षोनो नेदं बलवतां बहु ||३८ ||४-१९-३८ (२८९६४)
अथाङ्गुष्ठेनावमृद्गादङ्गुष्ठं तत्र धर्मराट् |
प्रबोधनभयाद्राज्ञो भीमं तं प्रत्यषेधयत् ||३९ ||४-१९-३९ (२८९६५)
भीमसेनस्तु तद्वाक्यं श्रुत्वा परपुरञ्जयः |
सहसोत्पतितं क्रोधं न्ययच्छद्धृतिमान्बलात् |
इङ्गितज्ञः स तु भ्रातुस्तूष्णीमासीद्वृकोदरः ||४० ||४-१९-४० (२८९६६)
भीमस्य च समारम्भं दृष्ट्वा राज्ञोऽस्य चेष्टितम् |
द्रौपदी चाधिकं क्रोधात्प्रारुदत्सा पुनःपुनः ||४१ ||४-१९-४१ (२८९६७)
कीचकेनानुगमनात्कृष्णा ताम्रायतेक्षणा |
सभाद्वारमुपगम्य रुदन्ती वाक्यमब्रवीत् ||४२ ||४-१९-४२ (२८९६८)
अवेक्षमाणा सुश्रोणी पतींस्तान्दीनचेतसः |
आकारं परिरक्षन्ती प्रतिज्ञां धर्मसंयुताम् |
दह्यमानेव रौद्रेण चक्षुषा द्रुपदात्मजा ||४३ ||४-१९-४३ (२८९६९)
प्रजारक्षणशीलानां राज्ञां ह्यमिततेजसाम् |
कार्याऽनुपालनं नित्यं धर्मे सत्ये च तिष्ठताम् ||४४ ||४-१९-४४ (२८९७०)
स्वप्रजायां प्रजायां च विशेषं नाधिगच्छताम् |
प्रियेष्वपि च वध्येषु समत्वं ये समाश्रिताः ||४५ ||४-१९-४५ (२८९७१)
विवादेषु प्रवृत्तेषु समं कार्यानुदर्शिना |
राज्ञा धर्मासनस्थेन जितौ लोकावुभावपि ||४६ ||४-१९-४६ (२८९७२)
राजन्धर्मासनस्थो हि रक्ष मां त्वमनागसम् ||४७ ||४-१९-४७ (२८९७३)
अहं त्वनपराध्यन्ती कीचकेन दुरात्मना |
पश्यतस्ते महाराज हता पादेन दासिवात् ||४८ ||४-१९-४८ (२८९७४)
त्वत्समक्षं नृपश्रेष्ठ निष्पिष्टा वसुधातले |
अनागसं कृपार्हां मां स्त्रियं त्वं परिपालय ||४९ ||४-१९-४९ (२८९७५)
रक्ष मां कीचकाद्भीतां धर्मं रक्ष नरेश्वर |
मत्स्याधिप प्रजा रक्ष पिता पुत्रानिवौरसान् ||५० ||४-१९-५० (२८९७६)
यस्त्वधर्मेण कार्याणि मोहात्मा कुरुते नृपः |
अचिरात्तं दुरात्मानं वशे कुर्वन्ति शत्रवः ||५१ ||४-१९-५१ (२८९७७)
मत्स्यानां कुलजस्त्वं हि तेषां सत्यं परायणम् |
त्वं किलैवंविधो जातः कुले धर्मपरायणे ||५२ ||४-१९-५२ (२८९७८)
अतस्त्वाहमभिक्रन्दे शरणार्थं नराधिप |
त्राहि मामद्य राजेन्द्र कीचकात्पापपूरुषात् ||५३ ||४-१९-५३ (२८९७९)
अनाथामिह मां ज्ञात्वा कीचकः पुरुषाधमः |
प्रहरत्येव नीचात्मा न तु धर्ममवेक्षते ||५४ ||४-१९-५४ (२८९८०)
अकार्याणामनारम्भात्कार्याणामनुपालनात् |
प्रजासु ये सुवृत्तास्ते स्वर्गमायान्ति भूमिपाः ||५५ ||४-१९-५५ (२८९८१)
कार्याकार्यविशेषज्ञाः कामकारेण पार्थिवाः |
प्रजासु किल्बिषं कृत्वा नरकं यान्त्यधोमुखाः ||५६ ||४-१९-५६ (२८९८२)
नैव यज्ञैर्न वा दानैर्न गुरोरुपसेवनात् |
प्राप्नुवन्ति तथा धर्मं यथा कार्यानुपालनात् ||५७ ||४-१९-५७ (२८९८३)
अपि चेदं पुरा ब्रह्मा प्रोवाचेन्द्राय पृच्छते |
द्वन्द्वं कार्यमकार्यं च लोके चासीत्परं यथा ||५८ ||४-१९-५८ (२८९८४)
धर्माधर्मौ पुनर्द्वन्द्वं विनियुक्तमथापि वा |
क्रियाणामक्रियाणां च प्रापणे पुण्यपापयोः ||५९ ||४-१९-५९ (२८९८५)
प्रजायां सृज्यमानायां पुरा ह्येतदुदाहृतम् |
एतद्वो मानुषाः सम्यक्कार्यं द्वन्द्वत्रयं भुवि ||६० ||४-१९-६० (२८९८६)
अस्मिन्सुनीते दुर्नीते लभते कर्मजं फलम् |
कल्याणकारी कल्याणं पापकारी च पापकम् ||६१ ||४-१९-६१ (२८९८७)
तेन गच्छति संसर्गं स्वर्गाय नरकाय वा |
सुकृतं दुष्कृतं वाऽपि कृत्वा मोहेन मानवः |
पश्चात्तापेन तप्येत स्वबुद्ध्या मरणं गतः ||६२ ||४-१९-६२ (२८९८८)
एवमुक्त्वा परं वाक्यं विससर्ज शतक्रतुम् |
शक्रोप्यापृच्छ्य ब्रह्माणं देवराज्यमपालयत् ||६३ ||४-१९-६३ (२८९८९)
यथोक्तं देवराजेन ब्रह्मणा परमेष्ठिना |
तथा त्वमपि राजेन्द्र कार्याकार्ये स्थिरो भव ||६४ ||||४-१९-६४ (२८९९०)
इति श्रीमन्महाभारते विराटपर्वणि कीचकवधपर्वणि
एकोनविंशोऽध्यायः ||१९ ||
Mahabharata -Virata Parva -Chapter Footnotes
४-१९-१७ कीटवच्च गुहाश्रया इति को थो पाठः ||
१७ ||
विराटपर्व -अध्याय ०२०
||श्रीः ||
४. २०. अध्यायः २०
Mahabharata -Virata Parva -Chapter Topics
विराटेन कीचकस्य दण्डाप्रयोगाद्रुष्ट्या द्रौपद्या तंप्रत्युपालम्भनम् ||१ ||
युधिष्ठिरेण द्रौपद्याः सान्त्वनम् ||२ ||
द्रौपद्याऽज्ञानादिव स्वशोकहेतुं पृच्छन्तीं सुदेष्णांप्रति
गन्धर्वैः कीचकवधस्य भावित्वकथनम् ||३ ||
Mahabharata -Virata Parva -Chapter Text
४-२०-० (२८९९१)
वैशम्पायन उवाच. ४-२०-०क्ष् (३०६८)
एवं विलपमानायां पाञ्चाल्यां मत्स्यपुङ्गवः |
अशक्तः कीचकं तत्र शासितुं बलदर्पितम् |
विराटराजः मूतं तु सान्त्वेनैव न्यवारयत् ||१ ||४-२०-१ (२८९९२)
कीचकं मत्स्यराजेन कृतागसमनिन्दिता |
नापराधानुरूपेण दण्डेन प्रतिपादितम् ||२ ||४-२०-२ (२८९९३)
पाञ्चालराजस्य सुता दृष्ट्वा सुरसुतोपमा |
धर्मज्ञा व्यवहाराणां कीचके कृतकिल्बिषे |
पुनः प्रोवाच राजानं स्मरन्ती धर्ममुत्तमम् ||३ ||४-२०-३ (२८९९४)
संप्रेक्ष्य च वरारोहा सर्वांस्तत्र सभासदः |
राजानुवर्तनपरान्कीचकं च कृतागसम् |
विराटं चाह पाञ्चाली दुःखेनाविष्टचेतना ||४ ||४-२०-४ (२८९९५)
न राजन्राजवत्किंचित्समाचरसि कीचके |
दस्यूनामिव ते धर्मो न सत्सु परिवर्तते ||५ ||४-२०-५ (२८९९६)
न कीचकः स्वधर्मस्थो न च मत्स्यः कथंचन |
सभासदोऽप्यधर्मज्ञा य इमं पर्युपासते ||६ ||४-२०-६ (२८९९७)
न धर्मं कीचको वेत्ति राजभृत्यास्तथैव च |
न राजा विनयं ब्रूते अमात्याश्च न जानते ||७ ||४-२०-७ (२८९९८)
नोपालभे त्वां नृपते विराटं नृपसंसदि |
नाहमेतेन युक्ता वै हन्तुं मात्स्य तवान्तिके ||८ ||४-२०-८ (२८९९९)
सभासदस्तु पश्यन्तु कीचकं धर्मलङ्घिनम् |
विराटनृपते पश्य मामनाथामनागसम् ||९ ||४-२०-९ (२९०००)
न साम फलते दुष्टे दुष्टे दण्डः प्रयुज्यते ||१० ||४-२०-१० (२९००१)
अदण्ड्यान्दण्डयन्राजा दण्ड्यांश्चैवाप्यदण्डयन् |
स राजा न भवेल्लोके राजशब्दस्य भाजनम् ||११ ||४-२०-११ (२९००२)
दीनान्धकृपणाशक्तपङ्गुकुब्जजडादिकान् |
अनाथबालवृद्धांश्च पुरुषान्वा स्त्रियोऽपि वा |
दुष्टचोराभिभूतांश्च पालयेदवनीपतिः ||१२ ||४-२०-१२ (२९००३)
अनाथानां च नाथः स्यादपितॄणां पिता नृपः |
माता भवेदमातॄणामगुरूणां गुरुर्भवेत् |
अगतीनां गती राजा नृणां राजा परायणम् ||१३ ||४-२०-१३ (२९००४)
विशेषतः परैर्दुष्टैः परामृष्टं नरोत्तमः |
स्त्रियं साध्वीमनाथां च पालयेत्स्वसुतामिव ||१४ ||४-२०-१४ (२९००५)
त्वद्गृहावसतिं राजन्नेतावत्कालपर्ययम् |
अधिकां त्वत्सुतायाश्च पश्य मां कीचकाहतां ||१५ ||४-२०-१५ (२९००६)
विराट उवाच. ४-२०-१६क्ष् (३०६९)
परोक्षं नाभिजानामि विग्रहं युवयोरहम् |
अर्थतत्त्वमविज्ञाय किं स्यादकुशलं मम ||१६ ||४-२०-१६ (२९००७)
द्रौपद्युवाच. ४-२०-१७क्ष् (३०७०)
येषां न वैरी स्वपिति पदा भूमिमुपस्पृशन् |
तेषां मां मानिनीं भार्यां सूतपुत्रः पदाऽवधीत् ||१७ ||४-२०-१७ (२९००८)
ये च दद्युर्न याचेयुर्ब्रह्मण्याः सत्यवादिनः |
येषां दुन्दुभिनिर्घोषो ज्याघोषः श्रूयते भृशम् |
तेषां मां दयितां भार्यां सूतपुत्रः पदाऽवधीत् ||१८ ||४-२०-१८ (२९००९)
तेजस्विनस्तथा क्षान्ता बलवन्तश्च मानिनः |
महेष्वासा रणे शूरा गर्विता मानतत्पराः |
तेषां मां मानिनीं भार्यां सूतपुत्रः पदाऽवधीत् ||१९ ||४-२०-१९ (२९०१०)
सर्वलोकमिमं हन्युर्यदि क्रुद्धा महाबलाः |
तेषां मां दयितां भार्यां सूतपुत्रः पदाऽवधीत् ||२० ||४-२०-२० (२९०११)
येषां नास्ति समः कश्चिद्वीर्ये सत्ये बले दमे |
तेषां मां दयितां भार्यां सूतपुत्रः पदाऽवधीत् ||२१ ||४-२०-२१ (२९०१२)
येषां न सदृशः कश्चिद्धनाद्यैर्भुवि मानवः |
तेषां मां दयितां भार्यां सूतपुत्रः पदाऽवधीत् ||२२ ||४-२०-२२ (२९०१३)
तवाग्रतो विशेषेण प्रजानां च हितैषिणः |
पश्यतो निहता राजंस्तेनेह जगतीपते ||२३ ||४-२०-२३ (२९०१४)
शरणं ये प्रपन्नानां भवन्ति शरणार्थिनाम् |
चरन्ति लोके प्रच्छन्नाः क्वनु तेऽद्य महाबलाः ||२४ ||४-२०-२४ (२९०१५)
कथं ते सूतपुत्रेण वध्यमानां प्रियां सतीम् |
मर्षयन्ति यथा क्लीबा बलवन्तोऽतितेजसः ||२५ ||४-२०-२५ (२९०१६)
क्वनु तेषाममर्षश्च वीर्यं तेषां च तद्बलम् |
न परीप्सन्ति ये भार्यां वध्यमानां दुरात्माना ||२६ ||४-२०-२६ (२९०१७)
मयाऽपि शक्यं किं कर्तुं विराटे धर्मदूषणे |
मां मर्षंयति यः पश्यन्वध्यमानामनागसम् ||२७ ||४-२०-२७ (२९०१८)
धर्मो विद्धो ह्यधर्मेण सभां यत्रोपतिष्ठति |
न चेद्विशल्यः क्रियते सर्वे विद्धाः सभासदः ||२८ ||४-२०-२८ (२९०१९)
यत्र धर्मो ह्यधर्मेम सत्यं यत्रानृतेन च |
हन्यते प्रेक्षमाणानां हतास्तत्र सभासदः ||२९ ||४-२०-२९ (२९०२०)
वैशम्पायन उवाच. ४-२०-३०क्ष् (३०७१)
तस्यास्तत्कृपणं श्रुत्वा सैरन्ध्र्याः परिदेवितम् |
ततः सभ्यास्तु ते सर्वे भूयः कृष्णामपूजयन् |
साधुसाध्विति चाप्याहुः कीचकं चाप्यगर्हयन् ||३० ||४-२०-३० (२९०२१)
केचित्कृष्णां प्रशंसन्ति केचिन्निन्दन्ति कीचकम् |
केचिन्निन्दन्ति राजानं केचिद्देवीं च तां नराः ||३१ ||४-२०-३१ (२९०२२)
सभ्या ऊचुः | ४-२०-३२क्ष् (३०७२)
यस्येयं चारुसर्वाङ्गी भार्या स्यादायतेक्षणा |
परो लाभश्च तस्य स्यान्न स शोचेत्कदाचन ||३२ ||४-२०-३२ (२९०२३)
यस्या गात्रं शुभं पीनं मुखं जयति पङ्कजम् |
गतिर्हंसं स्मितं कुन्दं सौषा नार्हति पद्वधम् ||३३ ||४-२०-३३ (२९०२४)
द्वात्रिंशद्दशना यस्याः श्वेता मांसनिबन्धनाः |
स्निग्धाश्च मृदवः केशाः सैषा नार्हति पद्वधम् ||३४ ||४-२०-३४
(२९०२५)
पद्मं चक्रं ध्वजं शङ्खं प्रासादो मकरस्तथा |
यस्याः पाणितले सन्ति सैषा नार्हति पद्वधम् ||३५ ||४-२०-३५ (२९०२६)
आवर्ताः खलु चत्वारः सर्वे चैव प्रदक्षिणाः |
समं गात्रं शुभं स्निग्धं यस्या नार्हति पद्वधम् ||३६ ||४-२०-३६ (२९०२७)
अच्छिद्रहस्तपादा च अच्छिद्रदशना च या |
कन्या कमलपत्राक्षी कथमर्हति पद्वधम् ||३७ ||४-२०-३७ (२९०२८)
सेयं लक्षणसंपन्ना पूर्णचन्द्रनिभानना |
सुरूपिणी सुवदना नेयं योग्या पदा वधम् ||३८ ||४-२०-३८ (२९०२९)
देवदेवीव सुभगा शक्रदेवीव शोभना |
अप्सरा इव सारूप्यान्नेयं योग्या पदा वधम् ||३९ ||४-२०-३९ (२९०३०)
इति स्मापूजसंस्तत्र कृष्णां प्रेक्ष्य सभासदः ||४० ||४-२०-४० (२९०३१)
सा विनिःश्वस्य सुश्रोणी भूमावन्तर्मुखी स्थिता |
तूष्णीमासीत्तदा दृष्ट्वा विवक्षन्तं युधिष्ठिरम् ||४१ ||४-२०-४१ (२९०३२)
युधिष्ठिरस्य कोपात्तु ललाटे स्वेद आस्रवत् |
अब्रवीद्धर्मपुत्रोऽथ सैरन्ध्रीं महिषीं प्रियाम् |
कृष्णां तत्र नृपाभ्याशे परिव्राजकरूपधृत् ||४२ ||४-२०-४२ (२९०३३)
गच्छ सैरन्ध्रि मा भैस्त्वं सुदेष्णाया निवेशनम् |
राजा ह्ययं धर्मशीलो विराटः परलोकभीः |
यतस्त्वां न परित्राति सत्ये धर्मपथे स्थितः ||४३ ||४-२०-४३ (२९०३४)
भर्तारमनुरुन्धन्त्यः क्लिश्यन्ते वीरपत्नयः |
शुश्रूषया क्लिश्यमानाः पतिलोकं जयन्त्युत ||४४ ||४-२०-४४ (२९०३५)
मन्ये न कालः क्रोधस्य पश्यन्ति पतयस्तव |
तेन त्वां नाभिधावन्ति गन्धर्वाः सूर्यवर्चसः ||४५ ||४-२०-४५ (२९०३६)
श्रूयन्तां ते सुकेशान्ते मोक्षधर्माश्रयाः कथाः |
यथा धर्मः कुलस्त्रीणां दृष्टो धर्मानुरोधनात् ||४६ ||४-२०-४६ (२९०३७)
नास्ति यज्ञः स्त्रियाः कश्चिन्न श्राद्धं नाप्युपोषणम् |
या तु भर्तारि शुश्रूषा सा स्वर्गायाभिजायते ||४७ ||४-२०-४७ (२९०३८)
पिता रक्षति कौमारे भर्ता रक्षति यौवने |
पुत्रस्तु स्थाविरे भावे न स्त्री स्वातन्त्र्यमर्हति ||४८ ||४-२०-४८ (२९०३९)
भीरु भर्तृभयात्पत्न्यो न क्रुध्यन्ति कदाचन |
बहुभिश्च परिक्लेशैरवज्ञाताश्च शत्रुभिः |
अनन्यभावाः शुद्धाश्च पुण्यलोकं जयन्त्युत ||४९ ||४-२०-४९ (२९०४०)
न क्रोधकालं नियतं पश्यन्ति पतयस्तव |
न क्रुद्धान्प्रतियायाद्वै पतींस्ते वृत्रहा अपि |
तेन त्वां नाभिधावन्ति गन्धर्वाः कामरूपिणः ||५० ||४-२०-५० (२९०४१)
यदि ते समयः कश्चित्कृतो ह्यायतलोचने |
तं स्मरस्व क्षमाशीले क्षमा धर्मो ह्यनुत्तमः ||५१ ||४-२०-५१ (२९०४२)
क्षमा धर्मः क्षमा सत्यं क्षमा दानं क्षमा तपः |
क्षमावतामयं लोकः परलोकः क्षमावतांम् ||५२ ||४-२०-५२ (२९०४३)
द्व्यंशिनो द्वादशाङ्गस्य चतुर्विंशतिपर्वणः |
कस्त्रिषष्ठिशतारस्य मासोनस्याक्षमी भवेत् ||५३ ||४-२०-५३ (२९०४४)
गच्छ सैरन्ध्रि गन्धर्वाः करिष्यन्ति तव प्रियम् |
व्यपनेष्यन्ति ते दुःखं येन ते विप्रियं कृतम् ||५४ ||४-२०-५४ (२९०४५)
इत्येवमुक्ते तिष्ठन्तीं पुनरेवाह धर्मराट् |
विघ्नं करोषि वै भद्रे दीव्यतां राजसंसदि ||५५ ||४-२०-५५ (२९०४६)
तस्मात्त्वमपि सुश्रोणि शैलूषीव विभासि नः |
एवमुक्ता तु सा भर्त्रा समुद्वीक्ष्याब्रवीदिदम् ||५६ ||४-२०-५६ (२९०४७)
सत्यमुक्तं त्वया विद्वञ्शैलूषीं विद्धि मां पुनः |
शैलूषकस्य तस्याहं येषां ज्येष्ठोऽक्षकोविदः ||५७ ||४-२०-५७ (२९०४८)
एवमुक्त्वा वरारोहा परिमृज्याननं शुभम् |
केशान्विमुक्तान्संयम्य रुधिरेण समुक्षितान् ||५८ | ४-२०-५८ (२९०४९)
पांसुकुण्ठितसर्वाङ्गी गजराजवधूरिव |
प्रतस्थे नागनासोरूर्भर्तुराज्ञाय शासनम् ||५९ ||४-२०-५९ (२९०५०)
विमुक्ता मृगशावाक्षी निरन्तरपयोधरा |
प्रभा नक्षत्रराजस्य कालमेघैरिवावृता ||६० ||४-२०-६० (२९०५१)
यस्यार्थे पाण्डवेयास्तु त्यजेयुरपि जीवितम् |
तां ते दृष्ट्वा तथा कृष्णां क्षमिणो धर्मचारिणः |
समयं नातिवर्तन्ते वेलामिव महोदधिः ||६१ ||४-२०-६१ (२९०५२)
सा प्रविश्य प्रवेपन्ती सुदेष्णाया निवेशनम् |
रुदन्ती चारुसर्वाङ्गी तस्यास्तस्थावथाग्रतः ||६२ ||४-२०-६२ (२९०५३)
तामुवाच विराटस्य महिषी शाठ्यमास्थिता |
किमिदं पद्मसंकाशं सुदन्तोष्ठाक्षिनासिकम् ||६३ ||४-२०-६३ (२९०५४)
रुदन्त्या अवमृष्टास्रं पूर्णेन्दुसमवर्चसम् |
बिम्बोष्ठं कृष्णताराभ्यामत्यन्तरुचिरप्रभम् |
नयनाभ्यामजिह्याभ्यां मुखं ते मुञ्चते जलम् ||६४ ||४-२०-६४ (२९०५५)
कस्त्वाऽवधीद्वरारोहे कस्माद्रोदिषि शोभने |
को विप्रयुज्यते दारैः सपुत्रैः सहबान्धवैः ||६५ ||४-२०-६५ (२९०५६)
कस्याद्य राजा कुपितो वधमाज्ञापयिष्यति |
ब्रूहि किं ते प्रियं कर्म कं त्यजे घातयामि वा ||६६ ||४-२०-६६ (२९०५७)
वैशम्पायन उवाच. ४-२०-६७क्ष् (३०७३)
तां निःश्वस्याब्रवीत्कृष्णा जानन्ती नाम पृच्छसि |
भ्रातुस्त्वं मामनुप्रेष्य किमेवं हि विकत्थसे ||६७ ||४-२०-६७ (२९०५८)
कीचको माऽवधीत्तत्र सुराहारीमितोगताम् |
सभायां पश्यतो राज्ञो यथा वै निर्जने वने ||६८ ||४-२०-६८ (२९०५९)
सुदेष्णोवाच. ४-२०-६९क्ष् (३०७४)
घातयामि सुदन्तोष्ठि कीचकं यदि मन्यसे |
भ्राता यद्येष मे व्यक्तं योऽतीतो धर्मचारिणीम् |
यस्त्वां कामाभिभूतात्मा दुर्लभामवमन्यते ||६९ ||४-२०-६९ (२९०६०)
द्रौपद्युवाच. ४-२०-७०क्ष् (३०७५)
अद्यैव तं हनिष्यन्ति येषामागस्करो हि सः |
मन्येऽहमद्य वा श्वो वा परलोकं गमिष्यति ||७० ||४-२०-७० (२९०६१)
भ्रातुः प्रयच्छ त्वरिता जीवच्छ्राद्धं त्वमद्य वै |
सुहृष्टं कुरु वै चैनं नासून्मन्ये धरिष्यति ||७१ ||४-२०-७१ (२९०६२)
तेषां हि मम भर्तॄणां पञ्चानां धर्मचारिणाम् |
एको दुर्धषणोऽत्यर्थं बले चाप्रतिमो भुवि ||७२ ||४-२०-७२ (२९०६३)
निर्मनुष्यमिमं लोकं कुर्यात्क्रुद्धो निशामिमाम् |
न स संक्रुध्यते तावद्गन्धर्वः कामरूपधृत् ||७३ ||४-२०-७३ (२९०६४)
नूनं ज्ञास्यति यावद्वै ममैतत्पादघातनम् |
तत्क्षणात्कीचकः पापः सपुत्रभ्रातृबान्धवः |
विनशिष्यति दुष्टात्मा यथा दुष्कृतकर्मकृत् ||७४ ||४-२०-७४ (२९०६५)
अपि चैतत्पुरा प्रोक्तं निपुणैर्मनुजोत्तमैः |
एकस्तु कुरुते पापं कालपाशवशं गतः |
नीचेनात्मापराधेन कुलं तेन विनश्यति ||७५ ||४-२०-७५ (२९०६६)
वैशम्पायन उवाच. ४-२०-७६क्ष् (३०७६)
सुदेष्णामेवमुक्त्वा तु सैरन्ध्री दुःखमोहिता |
कीचकस्य वधार्थाय व्रतदीक्षामुपागमत् ||७६ ||४-२०-७६ (२९०६७)
अभ्यर्थिता च नारीभिर्मानिता च सुदेष्णया |
न च स्नाति न चाश्नाति न पांसून्परिमार्जति |
रुधिरक्लिन्नवदना बभूव मृदितेक्षणा ||७७ ||४-२०-७७ (२९०६८)
तां तथा शोकसन्तप्तां दृष्ट्वा प्ररुदितां स्त्रियः |
कीचकस्य वधं सर्वा मनोभिश्च शशंसिरे ||७८ ||||४-२०-७८ (२९०६९)
इति श्रीमन्महाभारते विराटपर्वणि कीचकवधपर्वणि विंशोऽध्यायः
||२० ||
विराटपर्व -अध्याय ०२१
||श्रीः ||
४. २१. अध्यायः २१
Mahabharata -Virata Parva -Chapter Topics
वैशम्पायनेन जनमेजयंप्रति कीचकोत्पत्तिप्रकारादिकथनम् ||१ ||
Mahabharata -Virata Parva -Chapter Text
४-२१-० (२९०७०)
जनमेजय उवाच. ४-२१-०क्ष् (३०७७)
अहो दुःखतरं प्राप्ता कीचकेन पदा हता |
पतिव्रता महाभागा द्रौपदी योषितांवरा ||१ ||४-२१-१ (२९०७१)
दुःशलां स्मारयन्ती सा भर्तॄणां भगिनीं शुभाम् |
नाशपत्सिन्धुराजं सा बलात्कारेण वाहिता ||२ ||४-२१-२ (२९०७२)
किमर्थमिह संप्राप्ता कीचकेन दुरात्मना |
नाशपत्तं महाभागा कृष्णा पादेन ताडिता ||३ ||४-२१-३ (२९०७३)
तेजोराशिरियं देवी धर्मज्ञा सत्यवादिनी |
केशपांशे परामृष्टा मर्षयन्ती ह्यशक्तवत् ||४ ||४-२१-४ (२९०७४)
नैतत्कारणमल्पं हि श्रोतुकामोऽस्मि सत्तम |
कृष्णायास्तु परिक्लेशान्मनो मे दूयते भृशम् ||५ ||४-२१-५ (२९०७५)
कस्य वंशे समुद्भूतः स च दुर्ललितो मुने |
बलोन्मत्तः कथं चासीत्स्यालो मात्स्यस्य कीचकः ||६ ||४-२१-६ (२९०७६)
दृष्ट्वापि तां प्रियां भार्यां सूतपुत्रेण ताडिताम् |
नैव चुक्षुभिरे वीराः किमकुर्वन्त तं प्रति ||७ ||४-२१-७ (२९०७७)
वैशम्पायन उवाच. ४-२१-८क्ष् (३०७८)
त्वदुक्तोऽयमनुप्रश्नः कुरूणां कीर्तिवर्धनः |
एतत्सर्वं यथा वक्ष्ये विस्तरेणेह पार्थिव ||८ ||४-२१-८ (२९०७८)
ब्राह्मण्यां क्षत्रियाञ्जातः सूतो भवति पार्थिव |
प्रातिलोम्येन जातानां स ह्येको द्विज एव तु ||९ ||४-२१-९ (२९०७९)
रथकारमितीमं हि क्रियायुक्तं द्विजन्मनाम् |
क्षत्रियादवरो वैश्याद्विशिष्ट इति चक्षते ||१० ||४-२१-१० (२९०८०)
सह सूतेन संबन्धः कृतः पूर्वं नराधिपैः |
तेन तु प्रातिलोम्येन राजशब्दो न लभ्यते ||११ ||४-२१-११ (२९०८१)
तेषां तु सूतविषयः सूतानां नामतः कृतः |
उपजीव्यं च यत्क्षेत्रं राजन्सूतेन वै पुरा ||१२ ||४-२१-१२ (२९०८२)
सूतानामधिपो राजा केकयो नाम विश्रुतः |
राजकन्यासमुद्भूतः सारथ्येऽनुपमोऽभवत् ||१३ ||४-२१-१३ (२९०८३)
पुत्रास्तस्य कुरुश्रेष्ठ मालव्यां जझिरे तदा |
कीचका इति विख्याताः शतं षट् चैव भारत ||१४ ||४-२१-१४ (२९०८४)
तेषामासीद्बलश्रेष्ठः कीचकः सर्वजित्प्रभो |
अग्रजो बलसंमत्तस्तेनासीत्सूतषट्शतम् ||१५ ||४-२१-१५ (२९०८५)
मालव्या एव कौरव्य तत्र ह्यवरजाऽभवत् |
तस्यां केकयराज्ञस्तु सुदेष्णा दुहिताऽभवत् ||१६ ||४-२१-१६ (२९०८६)
तां विराटस्य मात्स्यस्य केकयः प्रददौ मुदा |
सुरथायां मृतायां तु कौसल्यां श्वेतमातरि ||१७ ||४-२१-१७ (२९०८७)
श्वेते विनष्टे शङ्खे च गते मातुलवेश्मनि |
सुदेष्णां महिषीं लब्ध्वा राज दुःखमपानुदत् ||१८ ||४-२१-१८ (२९०८८)
उत्तरं चोत्तरां चैव विराटात्पृथिवीपते |
सुदेष्णा सुषुवे देवी कैकेयी कुलवृद्धये ||१९ ||४-२१-१९ (२९०८९)
मातृष्वसृसुतां राजन्कीचकस्तामनिन्दिताम् |
सदा परिचरन्प्रीत्या विराटे न्यवसत्सुखी ||२० ||४-२१-२० (२९०९०)
भ्रातरश्चास्य विक्रान्ताः सर्वे च तमनुव्रताः |
विराटस्यैव संहृष्टा बलं कोशं त्ववर्धयन् ||२१ ||४-२१-२१ (२९०९१)
कालेया नाम ते दैत्याः प्रायशो भुवि विश्रुताः |
जझिरे कीचका राजन्बाणो ज्येष्ठस्तथाऽभवत् ||२२ ||४-२१-२२ (२९०९२)
स हि सर्वास्रसंपन्नो बलवान्भीमविक्रमः |
कीचको नष्टमर्यादो बभूव भयदो नृणाम् ||२३ ||४-२१-२३ (२९०९३)
तं प्राप्य बलसंमत्तं विराटः पृथिवीपतिः |
जिगाय सर्वांश्च रिपून्यथेन्द्रो दानवान्पुरा ||२४ ||४-२१-२४ (२९०९४)
मेखलांश्च त्रिगर्तांश्च दशार्णांश्च कशेरुकान् |
मालवांश्चैव यवनान्सिलिन्दान्काशिकोसलान् ||२५ ||४-२१-२५ (२९०९५)
करदांश्च निषिद्धांश्च शिवान्मचुलकांस्तथा |
पुलिन्दांश्च कलिङ्गांश्च तङ्कणान्परतङ्कणान् ||२६ ||४-२१-२६ (२९०९६)
अन्ये च बहवः शूरा नानाजनपदेश्वराः |
कीचकेन रणे भग्ना विद्रवन्ति दिशो दश ||२७ ||४-२१-२७ (२९०९७)
तमेवंवीर्यसंपन्नं नागायुतसमं बले |
विराटस्तत्र सेनायाश्चकार पतिमात्मनः ||२८ ||४-२१-२८ (२९०९८)
विराटभ्रातरश्चैव दश दाशरथेः समाः |
ते चैनानन्ववर्तन्त कीचकान्बलवत्तरान् ||२९ ||४-२१-२९ (२९०९९)
एवंविधबलो भीमः कीचकस्ते च तद्विधाः |
राज्ञः स्याला महात्मानो विराटस्य हितैषिणः ||३० ||४-२१-३० (२९१००)
एतत्ते कथितं सर्वं कीचकस्य पराक्रमम् |
द्रौपदी न शशापैनं यस्मात्तद्गदतः शृणु ||३१ ||४-२१-३१ (२९१०१)
रक्षन्ति हि तपः क्रोधादृषयो न शपन्ति च |
जानन्ती तद्यथातत्त्वं द्रौपदी न शशाप तम् ||३२ ||४-२१-३२ (२९१०२)
क्षमा धर्मः क्षमा दानं क्षमा यज्ञः क्षमा तपः |
क्षमा सत्यं क्षमा शीलं क्षमा सर्वमिति श्रुतिः ||३३ ||४-२१-३३ (२९१०३)
क्षमावतामयं लोकः परश्चैव क्षमावताम् |
एतत्सर्वं विजानन्ती सा क्षमामन्वपद्यत ||३४ ||४-२१-३४ (२९१०४)
भर्तॄणां मतमाज्ञाय क्षमिणां धर्मचारिणाम् |
नाशपत्तं विशालाक्षी सती शक्ताऽपि भारत ||३५ ||४-२१-३५ (२९१०५)
पाण्डवाश्चापि ते सर्वे द्रौपदीं प्रेक्ष्य दुःखिताम् |
क्रोधाग्निनाऽप्यदह्यन्त तदा लञ्जाव्यपेक्षया ||३६ ||४-२१-३६ (२९१०६)
अथ भीमो महाबाहुः मूदयिष्यंस्तु कीचकम् |
वारितो धर्मपुत्रेण वेलयेव महोदधिः ||३७ ||४-२१-३७ (२९१०७)
संधार्य मनसा रोषं दिवारात्रं विनिश्वसन् |
महानसे तदा कृच्छ्रात्सुष्वाप रजनीं च ताम् ||३८ ||||४-२१-३८ (२९१०८)
इति श्रीमन्महाभारते विराटपर्वणि कीचकवधपर्वणि
एकविंशोऽध्यायः ||२१ ||
विराटपर्व -अध्याय ०२२
||श्रीः ||
४. २२. अध्यायः २२
Mahabharata -Virata Parva -Chapter Topics
कीचकं जिघांसन्त्या द्रौपद्या रात्रौ महानसमेत्य स्वपतो भीमस्य
प्रबोधनम् ||१ ||
तथा कीचकमारणाभावे स्वप्राणविमोक्षणप्रतिज्ञानम् ||२ ||
तथा युधिष्ठिरादीन्प्रति प्रत्येकं नामनिर्देशपूर्वकमनुशोचनम् ||३ ||
Mahabharata -Virata Parva -Chapter Text
४-२२-० (२९१०९)
वैशम्पायन उवाच. ४-२२-०क्ष् (३०७९)
सा सूतपुत्राभिहता राजपुत्री सुदुःखिता |
वधं कृष्णा परीप्सन्ती सूतपुत्रस्य भामिनी ||१ ||४-२२-१ (२९११०)
जगामावासमेवाथ तदा सा द्रुपदात्मजा |
कृत्वा शौचं यथान्यायं कृष्णा सा तनुमध्यमा ||२ ||४-२२-२ (२९१११)
गात्राणि वाससी चैव प्रक्षाल्य सलिलेन सा |
चिन्तयामास रुदती तस्य दुःखस्य निर्णयम् ||३ ||४-२२-३ (२९११२)
किं करोमि क्व गच्छामि कथं कार्यं भवेन्मम |
इत्येवं चिन्तयित्वा सा भीमं तं मनसाऽगमत् |
अन्यः कर्ता विना भीमान्न मेऽद्य मनसेप्सितम् ||४ ||४-२२-४ (२९११३)
प्रादुर्भूते क्षणे रात्रौ विहाय शयनं स्वकम् |
दुःखेन महता युक्ता मानसेन मनस्विनी |
प्राद्रवन्नाथमिच्छन्ती तथा नाथवती सती ||५ ||४-२२-५ (२९११४)
सा वै महानसं प्राप्य भीमसेनं सुचिस्मिता |
उपासर्पत पाञ्चाली वासितेव महागजम् ||६ ||४-२२-६ (२९११५)
सर्वश्वेतेव माहेयी वने वृद्धा त्रिहायणी |
महर्पभं यथा सुप्तमर्थिनी वननिर्झरे |
संप्रसुप्तं तथा सिंहिं मृगराजवधूरिव ||७ ||४-२२-७ (२९११६)
अभिप्रसार्य बाहुभ्यां पतिं सुप्तं समाश्लिषत् |
सुजातं गोमतीतीरे सालं वल्लीव पुष्पिता ||८ ||४-२२-८ (२९११७)
परिस्पृस्य च पाणिभ्यां पतिं सुप्तमबोधयत् |
श्रीरिवान्या महोत्साहं सुप्तं विष्णुमिवार्णवे |
क्षौमावदाते शयने शयानं वृषभेक्षणम् ||९ ||४-२२-९ (२९११८)
यथा शची देवराजं रुद्राणी शंकरं यथा |
ब्रह्माणमिव सावित्री देवसेना गुहं यथा ||१० ||४-२२-१० (२९११९)
दिशागजसमाकारं गजं गजवधूरिव |
भीमं प्राबोधयत्कान्ता लक्ष्मीर्दामोदरं यथा ||११ ||४-२२-११ (२९१२०)
वीणेव मधुरालापा स्वरं गान्धारमाश्रिता |
अभ्यभाषत पाञ्चाली कौरवं पाण्डुनन्दनम् ||१२ ||४-२२-१२ (२९१२१)
उत्तिष्ठोत्तिष्ठ किं शेषे भीमसेन मृतो यथा |
न मृतः स हि पापीयान्भार्यामालम्ब्य जीवति ||१३ ||४-२२-१३ (२९१२२)
तस्मिञ्जीवति पापिष्ठे सेनावाहे मम द्विषि |
तत्कर्मं कृतवत्यद्य कथं निद्रां निषेवसे ||१४ ||४-२२-१४ (२९१२३)
वैशम्पायन उवाच. ४-२२-१५क्ष् (३०८०)
सुखसुप्तश्च तं शब्दं निशम्य स वृकोदरः |
संवेदितः कुरुश्रेष्ठः तोत्रैरिव महागजः ||१५ ||४-२२-१५ (२९१२४)
स वै विहाय शयनं यस्मिन्सुप्तः प्रबोधितः |
उदतिष्ठदमेयात्मा पर्यङ्के सोत्तरच्छदे ||१६ ||४-२२-१६ (२९१२५)
उपवेश्य च दुर्धर्पः पाञ्चालकुलवर्धनीम् |
अथाब्रवीद्राजपुत्रीं कौरव्यो महिषीं प्रियाम् ||१७ ||४-२२-१७ (२९१२६)
केनार्थेन च संप्राप्ता त्वरितेव ममान्तिकम् |
न ते प्रकृतिमान्वर्णः कृशा त्वमभिलक्ष्यसे ||१८ ||४-२२-१८ (२९१२७)
प्रकाशं यदि वा गुह्यं सर्वमाख्यातुमर्हसि |
आचक्ष्व त्वमशेषेण सर्वं विद्यामहं यथा ||१९ ||४-२२-१९ (२९१२८)
सुखं वा यदि वा दुःखं शुभं वा यदि वाऽशुभम् |
यद्यप्यसुकरं कर्म कृतमित्यवधारय ||२० ||४-२२-२० (२९१२९)
अहमेव हि ते कृष्णे विश्वास्यः सर्वकर्मसु |
अहमापत्सु चापि त्वां मोक्षयामि पुनः पुनः ||२१ ||४-२२-२१ (२९१३०)
शीघ्रमुक्त्वा यथाकामं यत्ते कार्यं विवक्षितम् |
गच्छ वै शयनायैव यावदन्यो न बुध्यते ||२२ ||४-२२-२२ (२९१३१)
वैशम्पायन उवाच. ४-२२-२३क्ष् (३०८१)
सा लञ्जमाना भीता च अधोमुखमुखी ततः |
नोवाच किंचिद्वचनं बाष्पदूषितलोचना ||२३ ||४-२२-२३ (२९१३२)
अथाब्रवीद्भीमपराक्रमो बली वृकोदरः पाण्डवमुख्यसंमतः |
प्रब्रूहि किं ते करवाणि सुन्दरि प्रियं प्रिये वारणमत्तगामिनि ||२४
||४-२२-२४ (२९१३३)
द्रौपद्युवाच. ४-२२-२५क्ष् (३०८२)
अशोच्यता कुतस्तस्या यस्या भर्ता युधिष्ठिरः |
जानन्सर्वाणि दुःखानि किं मां भीमानुपृच्छसि ||२५ ||४-२२-२५ (२९१३४)
यन्मां दासीप्रवादेन प्रातिकामी तदाऽनयत् |
सभायां परिषन्मध्ये तन्मे मर्माणि कृन्तति ||२६ ||४-२२-२६ (२९१३५)
विकृष्टा हास्तिनपुरे सभायां राजसंसदि |
दुःशासनेन केशान्ते परामृष्टा रजस्वला ||२७ ||४-२२-२७ (२९१३६)
क्षत्रियैस्तत्र कर्णाद्यैर्दृष्टा दुर्योधनेन च |
श्वशुराभ्यां च भीष्मेण विदुरेण च धीमता |
द्रोणेन च महाबाहो कृपेण च परंतप ||२८ ||४-२२-२८ (२९१३७)
साऽहं श्वशुरयोर्मध्ये भ्रातृमध्ये च पाण्डव |
केशे गृहीत्वा च सभां नीता जीवति वै त्वयि ||२९ ||४-२२-२९ (२९१३८)
विप्रयुक्ता ततश्चाहं वने राज्याद्वनं गता |
साऽहं वने दुर्वसतिं वसती त्वध्वकर्शिता |
जटासुरपरिक्लेशात्प्राप्तापि सुमहद्भयम् ||३० ||४-२२-३० (२९१३९)
पार्थिवस्य सुता नाम कानु जीवेन मादृशी |
अनुभूय भृशं दुःखमन्यत्र द्रौपदीं प्रभो ||३१ ||४-२२-३१ (२९१४०)
वनवासगता चाहं सैन्धवेन दुरात्मना |
परामृष्टा द्वितीयं च सोद्रुमुत्सहते तु का ||३२ ||४-२२-३२ (२९१४१)
पद्भ्यां पर्यचरं चाहं देशान्विषमसंस्थितान् |
दुर्गाञ्श्वापदसंकीर्णांस्त्वयि जीवति पाण्डवे ||३३ ||४-२२-३३ (२९१४२)
ततोऽहं द्वादशे वर्षे वन्यमूलफलाशना |
इदं पुरमनुप्राप्ता सुदेष्णापरिचारिका |
परस्त्रियमुपातिष्ठे सत्यधर्मपरायणा ||३४ ||४-२२-३४ (२९१४३)
गोशीर्षकं पद्मकं च हरिश्यामं च चन्दनम् |
नित्यं पिषे विराटस्य त्वयि जीवति पाण्डव ||३५ ||४-२२-३५ (२९१४४)
साऽहं बहूनिः दुःखानि गणयामि न ते कृते ||३६ ||४-२२-३६ (२९१४५)
मत्स्यराजसमक्षं तु तस्य धूर्तस्य पश्यतः |
कीचकेन पदा स्पृष्टा का नु जीवेत मादृशी ||३७ ||४-२२-३७ (२९१४६)
एवं बहुविधैर्दुःखैः क्लिश्यमाना च पाण्डव |
न मां जानासि कौन्तेय किं फलं जीवितेन मे ||३८ ||४-२२-३८ (२९१४७)
द्रुपदस्य सुता चाहं धृष्टद्युम्नस्य चानुजा |
अग्निकुण्डात्समुद्भूता नोर्व्यां जातु चराम्यहम् ||३९ ||४-२२-३९ (२९१४८)
कीचकं चेन्न हन्यास्त्वं ग्रीवां बद्ध्वा जले म्रिये |
विषमालेड्य पास्यामि प्रवेक्ष्याम्यथवाऽनलं ||४० ||४-२२-४० (२९१४९)
आत्मानं नाशयिष्यामि वृक्षमारुह्य वा पते |
शस्त्रेणाङ्गं च भेत्स्यामि किं फलं जीवितेन मे ||४१ ||४-२२-४१ (२९१५०)
योऽयं राज्ञो विराटस्य कीचको नाम भारत |
सेनानीः पुरुषव्याघ्र स्यालः परमदुर्मतिः ||४२ ||४-२२-४२ (२९१५१)
स मां सैरन्ध्रिवेषेण वसन्तीं राजवेश्मनि |
नित्यमेवाह दुष्टात्मा भार्या मम भवेति वै ||४३ ||४-२२-४३ (२९१५२)
तेनैवमुच्यमानाया वधार्हेणारिसूदन |
कालेनेव फलं पक्वं हृदयं मे विदीर्यते ||४४ ||४-२२-४४ (२९१५३)
शरणं भव कौन्तेय मा स्म गच्छे युधिष्ठिरम् |
निरुद्योगं निरामर्षं निर्वीर्यमरिमर्दन ||४५ ||४-२२-४५ (२९१५४)
मा स्म सीमन्तिनी काचिञ्जनयेत्पुत्रमीदृशम् ||४६ ||४-२२-४६ (२९१५५)
विजानामि तवामर्षं बलं वीर्यं च पाण्डव |
ततोऽहं परिदेवामि चाग्रतस्ते महाबल ||४७ ||४-२२-४७ (२९१५६)
यथा यूथपतिर्मत्तः कुञ्जरः षाष्टिहायनः |
भूमौ निपतितं बिल्वं पद्भ्यमाक्रम्य पीडयेत् ||४८ ||४-२२-४८ (२९१५७)
तथैव च शिरस्तस्य निपात्य धरणीतले |
वामेन पुरुषव्याघ्र मर्द मादेन पाण्डव ||४९ ||४-२२-४९ (२९१५८)
स चेदुद्यन्तमादित्यं प्रातरुत्थाय पश्यति |
कीचकः शर्वरीं व्युष्टां नाहं जीवितुमुत्सहे ||५० ||४-२२-५० (२९१५९)
शापितोसि मम प्राणैः सुकृतेनार्जुनस्य च |
युधिष्ठिरस्य पादाभ्यां यमयोर्जीवितेन च |
कीचकस्य वधं नाद्य प्रतिजानासि भारत ||५१ ||४-२२-५१ (२९१६०)
भ्रात च विगर्हस्व ज्येष्ठं दुर्द्यूतदेविनम् |
यस्मास्मि कर्मणा प्राप्ता दुःखमेतदनन्तकम् ||५२ ||४-२२-५२ (२९१६१)
येषां मुख्यतमो ज्येष्ठो भवेत्तु कुलपांसनः |
भ्रातरं परमन्वीयुस्तेऽपि शालीनबुद्धयः ||५३ ||४-२२-५३ (२९१६२)
को हि राज्यं परित्यज्य सपुत्रपशुबान्धवम् |
प्रव्रजेत महारण्यमजिनैः परिवारितः ||५४ ||४-२२-५४ (२९१६३)
यदि निष्कसहस्राणि यद्वाऽन्यत्सारवद्धनम् |
सायं प्रातरदेविष्यदपि संवत्सरायुतम् ||५५ ||४-२२-५५ (२९१६४)
रुक्मं हिरण्यं वासांसि यानं युग्यमजाविकम् |
अश्वाश्वतरसङ्घाश्च न जातु क्षयमाव्रजेत् ||५६ ||४-२२-५६ (२९१६५)
सोयं द्यूतप्रवादेन श्रियश्चैवावरोपितः |
तूष्णीमास्ते यथा मूढः स्वानि कर्माणि चिन्तयन् ||५७ ||४-२२-५७ (२९१६६)
पुरा दशसहस्राणि दन्तिनां वाजिनामपि |
यं यान्तमनुयान्ति स्म सोयं द्यूतेन जीवति ||५८ ||४-२२-५८ (२९१६७)
तथा शतसहस्राणि स्त्रीणाममिततेजसाम् |
उपासते स्म राजानमिन्द्रप्रस्थे युधिष्ठिरम् ||५९ ||४-२२-५९ (२९१६८)
शतं दासीसहस्राणां यस्य नित्यं महानसे |
पात्रहस्ता दिवारात्रमतिथीन्भोजयन्त्युत ||६० ||४-२२-६० (२९१६९)
एष निष्कसहस्राणि दत्त्वा प्रातर्दिनेदिने |
द्यूतजेन ह्यनर्थेन महता समुपावृतः ||६१ ||४-२२-६१ (२९१७०)
एनं सुस्वरसंपन्ना बहवः सूतमागधाः |
सुप्तं प्रातरुपातिष्ठन्सुमृष्टमणिकुण्डलाः ||६२ ||४-२२-६२ (२९१७१)
[सहस्रं वालखिल्यानां सहस्रमुदवासिनाम् |
सहस्रमश्मकुट्टानां सहस्रं वायुभोजिनाम् ||६३ ||४-२२-६३ (२९१७२)
सहस्रं मुनिपत्नीनां सहस्रं ब्रह्मचारिणाम् |
सहस्रं मौनशीलानां सहस्रं गृहमेधिनाम् ||६४ ||४-२२-६४ (२९१७३)
हंसाः परमहंसाश्च योगिनश्च द्विजातयः |
कुटीरकाः परिव्राजो ये चान्ये वनचारिणः ||६५ ||४-२२-६५ (२९१७४)
संविभक्तात्मकाश्चैव बहवश्चोर्ध्वरेतसः |
चतुर्वेदविदो विप्राः शिक्षामीमांसपारगाः |
क्रमपाठाश्च ये विप्राः सामाध्यायनिकाश्च ये ||६६ ||] ४-२२-६६ (२९१७५)
सहस्रमृषयो यस्य नित्यमासन्सभासदः |
तपःश्रुतोपसंपन्नाः सर्वकामैरुपास्थिताः ||६७ ||४-२२-६७ (२९१७६)
अन्धान्वृद्धाननाथांस्तु सर्वराष्ट्रेषु दुःखितान् |
बिभर्त्यन्नार्थिनो नित्यमानृशंस्याद्युधिष्ठिरः ||६८ ||४-२२-६८ (२९१७७)
स एष निलयं प्राप्तो मत्स्यस्य परिचारकः |
सभायां विनतो राज्ञः कङ्को नाम युधिष्ठिरः ||६९ ||४-२२-६९ (२९१७८)
इन्द्रप्रस्थे निवसतः समये यस्य पार्थिवाः |
आसन्बलिकराः सर्वे सोन्येभ्यो भृतिमिच्छति ||७० ||४-२२-७० (२९१७९)
पार्थिवाः पृथिवीपाला यस्यासन्वशवर्तिनः |
स वशे विवशो राज्ञां परेषामद्य वर्तते ||७१ ||४-२२-७१ (२९१८०)
संप्राप्य पृथिवीं कृत्स्नां रश्मिवानिव तेजसा |
सोद्य राज्ञो विराटस्य सभास्तारो युधिष्ठिरः ||७२ ||४-२२-७२ (२९१८१)
यमुपासत राजानं सभायामृषिसत्तमाः |
तमुपासीनमद्यान्यं पश्य पाण्डव पाण्डवम् ||७३ ||४-२२-७३ (२९१८२)
अनवद्यं महाप्राज्ञं जीवितार्थेन संवृतम् |
दृष्ट्वा कस्य न दुःखं स्याद्धर्मराजं युधिष्ठिरम् ||७४
||४-२२-७४ (२९१८३)
उपास्ते स्म सभायां यं कृत्स्नाऽपि च वसुन्धरा |
तमुपासीनमद्यान्यं पश्य भारत भारतम् ||७५ ||४-२२-७५ (२९१८४)
एवं बहुविदैर्दुःखैः पीड्यमानामनाथवत् |
शोकसागरमध्यस्थां किं मां भीम न पश्यसि ||७६ ||४-२२-७६ (२९१८५)
इदं तु मे दुःखतरं यत्त्वां वक्ष्यामि भारत |
न मेऽभ्यसूया कर्तव्या दुःखादेतद्ब्रवीम्यहम् ||७७ ||४-२२-७७ (२९१८६)
शार्दूलैर्महिषैर्नागौरगारे योत्स्यसे सदा |
कैकेय्याः प्रेक्षमाणायास्तदा मे कश्मलोऽभवत् ||७८ ||४-२२-७८ (२९१८७)
हसन्त्यन्तःपुरे नार्यो मम चेष्टां निरीक्ष्य च ||७९ ||४-२२-७९ (२९१८८)
तत उत्थाय कैकेयी सर्वास्ताः प्रत्यभाषत |
प्रेक्ष्य मामनवद्याङ्गीं कश्मलाभिहतामिव ||८० ||४-२२-८० (२९१८९)
स्नेहात्संवासजादेव तदा वै चारुहासिनी |
युध्यमानं महावीर्यमिमं समनुशोचति ||८१ ||४-२२-८१ (२९१९०)
कल्याणरूपा सैरन्ध्री वललश्चापि सुन्दरः |
स्त्रीणां चित्तं हि दुर्ज्ञेयं युक्तरूपौ हि मे मतौ ||८२ ||४-२२-८२ (२९१९१)
सैरन्ध्री प्रियसंवासान्नित्यं करुणवादिनी |
अस्मिन्राजकुले चैतौ तुल्यकालनिवासिनौ ||८३ ||४-२२-८३ (२९१९२)
इति ब्रुवाणा वाक्यानि सा मां नित्यमजीजपत् |
क्रुध्यन्तीं मां च संप्रेक्ष्य पर्यशङ्कत मां त्वयि ||८४
||४-२२-८४ (२९१९३)
तस्यां तथा ब्रुवन्त्यां तु भीमो भीमपराक्रमः |
नोवाच किंचिद्वचनं संरम्भाद्रक्तलोचनः ||८५ ||४-२२-८५ (२९१९४)
ज्ञात्वा-तु रुषितं भीमं द्रौपदी पुनरब्रवीत् |
शोके यौधिष्ठिरे मग्ना नाहं जीवितुमुत्सहे ||८६ ||४-२२-८६ (२९१९५)
यंस्तु देवान्मनुष्यांश्च सर्वानेकरथोऽजयत् |
सोयं राज्ञो विराटस्य कन्यानां नर्तको युवा |
आस्ते वेषप्रतिच्छन्नः कन्यानां परिचारकः ||८७ ||४-२२-८७ (२९१९६)
योऽतर्पयदमेयात्मा खाण्डवे जातवेदसम् |
सोऽन्तःपुरगतः पार्थः कूपेऽग्निरिव संवृतः ||८८ ||४-२२-८८ (२९१९७)
यस्माद्भयममित्राणां सदैव पुरुषर्षभात् |
स लोकपरिभूतेन वेषेणास्ते धनंजयः ||८९ ||४-२२-८९ (२९१९८)
यस्यं ज्यातलनिर्घोषात्समकम्पन्त शत्रवः |
षण्डरूपं वहन्तं तं गीतं नृत्तावलम्बनम् |
कुर्वन्तमर्जुनं दृष्ट्वा न मे स्वास्थ्यं मनो व्रजेत् ||९० ||
४-२२-९० (२९१९९)
स्त्रियो गीतस्वरात्तस्य मुदिताः पर्युपासते ||९१ ||४-२२-९१ (२९२००)
किरीटं सूर्यसंकाशं यस्य मूर्धन्यशोभत |
वेणीविकृतकेशान्तः सोऽयमद्य धनंजयः ||९२ ||४-२२-९२ (२९२०१)
यस्मिन्नस्त्राणि दिव्यानि समस्तानि महात्मनि |
आधारः सर्वविद्यानां यो धारयति कुण्डले ||९३ ||४-२२-९३ (२९२०२)
यं वै राजसहस्राणि तेजसाऽप्रतिमं भुवि |
समरे नातिवर्तन्ते वेलामिव महोर्मयः ||९४ ||४-२२-९४ (२९२०३)
सोयं राज्ञो विराटस्य कन्यानां नर्तको युवा |
आस्ते वेषप्रतिच्छन्नः कन्यानां परिचारकः ||९५ ||४-२२-९५ (२९२०४)
यस्य स्म रथनिर्घोषात्समकम्पत मेदिनी |
सपर्वतवनाकाशा सहस्थावरजङ्गमा ||९६ ||४-२२-९६ (२९२०५)
यस्मिञ्जाते महेष्वासे कुन्त्याः प्रीतिरवर्धत |
न स शोचति मामद्य भीमसेन तवानुजः ||९७ ||४-२२-९७ (२९२०६)
विभूषितमलंकारैः कुण्डलैः परिपातुकैः |
कम्बुपाणिमथायान्तं दृष्ट्वा सीदति मे मनः ||९८ ||४-२२-९८ (२९२०७)
वेणीविकृतकेशान्तं भीमधन्वानमर्जुनम् |
कन्यापरिवृतं दृष्ट्वा शोकं गच्छति मे मनः ||९९ ||४-२२-९९ (२९२०८)
यदा ह्येनं परिवृतं कन्याभिर्देवरूपिणम् |
प्रच्छन्नमिव मातङ्गं परिपूर्णं करेणुभिः ||१०० ||४-२२-१०० (२९२०९)
मात्स्यं पार्थं च गायन्तं विराटं समुपस्थितम् |
पश्यामि तूर्यमध्यस्थं दृष्ट्वा मुह्यति मे मनः ||१०१ ||४-२२-१०१
(२९२१०)
नूनमार्या न जानाति कृच्छ्रं प्राप्तं धनंजयम् |
अजातशत्रुं कौरव्यं मग्नं द्युर्द्यूतदेविनम् ||१०२ ||४-२२-१०२ (२९२११)
ऐन्द्रवारुणवायव्यब्रह्माग्नेयैः सवैष्णवैः |
अग्नीन्संतर्पयन्पार्थः सर्वशत्रुनिबर्हणः |
दिव्यैरस्त्रैरमेयात्मा सर्वांश्चैकरथोऽजयत् ||१०३ ||४-२२-१०३ (२९२१२)
कौबेरं वैष्णवं शैवमस्त्राण्यन्यानि भारत |
दर्शयन्नस्त्रवीर्यं च वासुदेवसहायवान् ||१०४ ||४-२२-१०४ (२९२१३)
दिव्यं गान्धर्वमस्त्रं च वायव्यमथ वैष्णवम् |
ब्राह्मं पाशुपतं चैव स्थूणाकर्णं च दर्शयन् ||१०५ ||४-२२-१०५
(२९२१४)
पौलोमान्कालकेयांश्च इन्द्रशत्रून्महाबलान् |
निवातकवचैः सार्धं घोरानेकरथोऽजयत् |
सोन्तःपुरगतः पार्थः कूपेऽग्निरिव संवृतः ||१०६ ||४-२२-१०६ (२९२१५)
यो वै महातपः कुर्वन्महाबलपराक्रमः |
युद्धेन तोषयामास शंकरं शूलपाणिनम् ||१०७ ||४-२२-१०७ (२९२१६)
कन्यापुरगतं दृष्ट्वा गोष्ठेष्विव महावृषम् |
स्त्रीवेषविकृतं पार्थं कुन्तीं गच्छति मे मनः ||१०८ ||४-२२-१०८
(२९२१७)
यः स्त्रीभिर्नित्यसंपन्नो रूपेणास्त्रेण मेधया |
सोऽश्वबन्धो विराटस्य पश्य कालस्य पर्ययम् ||१०९ ||४-२२-१०९ (२९२१८)
राजकन्याश्च वेश्याश्च विशां दुहितरश्च याः |
सर्वाः सारयुता नार्यो दामग्रन्थिवशं गताः |
प्रेष्यकर्मणि तं दृष्ट्वा शोचामि विलपामि च ||१२० ||४-२२-११० (२९२१९)
विराटमुपतिष्ठन्तं दर्शयन्तं च वाजिनम् |
अभ्यकीर्यन्त बृन्दानि दामग्रन्थिमुदीक्षितुम् |
विनयन्तं जवेनाश्वान्धर्मराजस्य पश्यतः ||१११ ||४-२२-१११ (२९२२०)
किंनु मां मन्यसे पार्थ सुखितेति परन्तप |
तथा दृष्ट्वा यवीयांसं सहदेवं युधांपतिम् ||११२ ||४-२२-११२ (२९२२१)
तं दृष्ट्वा गोषु गोसङ्ख्यं वत्सचर्मक्षितीशयम् |
दुःखशोकपरीताङ्गी पाण्डुभूताऽस्मि पाण्डव ||११३ ||४-२२-११३ (२९२२२)
सहदेवस्य वृत्तानि चिन्तयन्ती पुनःपुनः |
न पश्यामि महाभाग सहदेवस्य दुःष्कृतम् |
यस्मादेवंविधं क्लेशं प्राप्नुयात्सत्यविक्रमः ||११४ ||४-२२-११४ (२९२२३)
दूयामि भरतश्रेष्ठ दृष्ट्वा ते भ्रातरं प्रियम् |
गोषु गोवृषसंकाशं मात्स्येनापि निवेशितम् ||११५ ||४-२२-११५ (२९२२४)
संरब्धतररक्ताक्षं गोपालानां पुरोगमम् |
विराटमभिनन्दन्तं वित्ते मे भवति ज्वरः ||११६ ||४-२२-११६ (२९२२५)
सहदेवं हि मे नित्यं वीरमार्या प्रशंसति |
महाभिजनसंपन्नो नीतिमान्कुलवानपि ||११७ ||४-२२-११७ (२९२२६)
हीनिषेवो ह्यनवमो धार्मिकश्च प्रियश्च मे |
स तेऽरण्येषु वोढव्यः पाञ्चालि रजनीष्वपि ||११८ ||४-२२-११८ (२९२२७)
सुकुमारश्च शूरश्च राजानं चाप्यनुव्रतः |
ज्येष्ठापचायिनं वीरं स्वयं पाञ्चालि भोजयेः ||११९ ||४-२२-११९ (२९२२८)
इत्युवाच हि मां कुन्ती रुदती पुत्रगृद्धिनी |
प्रव्रजन्तं महारण्यं तं परिष्वज्य तिष्ठती ||१२० ||४-२२-१२० (२९२२९)
तं दृष्ट्वा गोषु गोपालवेषमास्थाय धिष्ठितम् |
सहदेवं युधांश्रेष्ठं किंनु जीवामि पाण्डवः ||१२१ ||४-२२-१२१ (२९२३०)
एवं दुःखशताविष्टा युधिष्ठिरनिमित्ततः ||१२२ ||४-२२-१२२ (२९२३१)
पुनः प्रतिविशिष्टानि दुःखानि शृणु भारत |
वर्धन्ते मयि कौन्तेय वक्ष्याम्यन्यानि तानि वै ||१२३ ||४-२२-१२३ (२९२३२)
युष्मासु ध्रियमाणेषु दुःखानि विविधान्युत |
शोषयन्ति शरीरं मे किंनु दुःखतरं ततः ||१२४ ||४-२२-१२४ (२९२३३)
४-२२-१२५ (२९२३४)
एकभर्ता तु या नारी सा सुखेनैव वर्तते |
पञ्च मे पतयः सन्ति मम दुःखमनन्तकम् ||१२५ ||
Mahabharata -Virata Parva -Chapter Footnotes
४-२२-७ सर्वश्वेता बकी इति नीलकण्ठः ||
७ ||
४-२२-१० तथा इति खो पाठः ||
१० ||
४-२२-१३ नाभृतस्य हि पापीयान्भार्यामालभ्य जीवतीति झो पाठः ||
१३ ||
४-२२-५४ महारण्यमनुजैः परिवारितः इति खो पाठः ||
५४ ||(इमे चत्वारः श्लोकाः धो पुस्तक एव वर्तन्ते ||)
विराटपर्व -अध्याय ०२३
||श्रीः ||
४. २३. अध्यायः २३
Mahabharata -Virata Parva -Chapter Topics
द्रौपद्या भीमंप्रति स्ववैभवानुस्मारणेन परिशोचनपूर्वकं
कीचकहननचोदना ||१ ||
Mahabharata -Virata Parva -Chapter Text
४-२३-० (२९२३५)
द्रौपद्युवाच. ४-२३-०क्ष् (३०८३)
अहं सैरन्ध्रिवेषेण वसन्ती राजवेश्मनि |
वशगाऽस्मि सुदेष्णाया अक्षधूर्तस्य कारणात् ||१ ||४-२३-१ (२९२३६)
विक्रियां पश्य मे तीव्रां राजपुत्र्याः परन्तप |
आसे कालमुपासीना सर्वदुःखसहा पुनः ||२ ||४-२३-२ (२९२३७)
अनित्याः खलु मर्त्यानामर्थाश्च व्यसनानि च |
इति मत्वा प्रतीक्षामि भर्तॄणामुदयं पुनः ||३ ||४-२३-३ (२९२३८)
चक्रवत्परिवर्तन्ते ह्यर्थाश्च व्यसनानि च |
इति कृत्वा प्रतीक्षामि भर्तॄणामुदयं पुनः ||४ ||४-२३-४ (२९२३९)
य एव हेतुर्भवति पुरुषस्य जयावहः |
पराजये च हेतुः स इति च प्रतिपालये ||५ ||४-२३-५ (२९२४०)
दत्त्वा याचन्ति पुरुषा हत्वा हन्यन्त एव ते |
पातयित्वा च पात्यन्ते परैरिति च मे श्रुतम् ||६ ||४-२३-६ (२९२४१)
न दैवस्यातिभारोस्ति न चैवास्यातिवर्तनम् |
इति चाप्यागमं भूयो दैवस्य प्रतिपालये ||७ ||४-२३-७ (२९२४२)
स्थितं पूर्वं जलं यत्र न पुनस्तत्र तिष्ठति |
इति पर्यायमिच्छन्ति प्रतीक्षाम्युदयं पुनः ||८ ||४-२३-८ (२९२४३)
दैवेन किल यस्यार्थः सुनीतोपि विपद्यते |
सदा दैवागमे यत्नस्तेन कार्यो विजानता ||९ ||४-२३-९ (२९२४४)
किंनु मे वचनस्याद्य कथितस्य प्रयोजनम् |
पृच्छ मां दुःखितामेनामपृष्टाऽपि ब्रवीमि ते ||१० ||४-२३-१० (२९२४५)
महिषी पाण्डुपुत्राणां दुहिता द्रुपदस्य च |
इमामवस्थां संप्राप्ता मदन्या का जिजीविषेत् ||११ ||४-२३-११ (२९२४६)
कुरून्परिहरन्सर्वान्पाञ्चालानपि भारत |
पाण्डवेयांश्च संप्राप्तो मम शोको ह्यरिन्दम ||१२ ||४-२३-१२ (२९२४७)
भ्रातृभिः श्वशुरैः पुत्रैर्बहुभिः परिवारिता |
एवं समुदिता नारी कान्वेयं दुःखभागिनी ||१३ ||४-२३-१३ (२९२४८)
नूनं बालतया धातुर्मया वै विप्रियं कृतम् |
तस्य प्रभावाद्दुर्नीतं प्राप्ताऽस्मि भरतर्षभ ||१४ ||४-२३-१४ (२९२४९)
वर्णं विकारमपि मे पश्य पाण्डव यादृशम् |
ईदृशो मे न तत्रासीद्दुःखे परमके पुरा ||१५ ||४-२३-१५ (२९२५०)
त्वमेव भीम जानीषे यन्मे पार्थ सुखं पुरा |
साऽहं दासीत्वमापन्ना न शान्तिं मनसा लभे ||१६ ||४-२३-१६ (२९२५१)
तद्दैविकमिदं मन्ये यत्र पार्थो धनञ्जयः |
भीमधन्वा महारङ्गे चास्ते शान्त इवानलः ||१७ ||४-२३-१७ (२९२५२)
अशक्या वेदितुं पार्थ प्राणिनां वै गतिर्नरैः |
विनिपातमिमं पश्य युष्माकमविचिन्तितम् ||१८ ||४-२३-१८ (२९२५३)
यस्या मम मुखप्रेक्षा यूयमिन्द्रसमाः सदा |
सा प्रेक्ष्य मुखमन्यासामवराणां वरा सती ||१९ ||४-२३-१९ (२९२५४)
पश्य पाण्डव मेऽवस्थां यथा नार्हामि वै तथा |
युष्मासु ध्रियमाणेषु पाञ्चालेषु च मानद ||२० ||४-२३-२० (२९२५५)
यस्याः सागरपर्यन्ता पृथिवी वशवर्तिनी |
आसीत्साऽद्य सुदेष्णायाः पाञ्चाली वशवर्तिनी ||२१ ||४-२३-२१ (२९२५६)
यस्याः पुरश्चरा ह्यासन्पृष्ठतश्चानुगामिनः |
साहमद्य सुदेष्णायाः पुरः पश्चाच्च गामिनी ||२२ ||४-२३-२२ (२९२५७)
इदं तु दुःखं कौन्तेय ममासह्यं निबोध तत् |
या न जातु स्वयं पिंषे गात्रोद्वर्तनमात्मनः |
अन्यत्र कुन्त्या भद्रं ते सा पिनष्म्यद्य चन्दनं ||२३ ||४-२३-२३ (२९२५८)
पश्य कौन्तेय पाणी मे नैवं वै भवतः पुरा |
इत्यस्मै दर्शयामास किणवन्तौ करावुभौ ||२४ ||४-२३-२४ (२९२५९)
बिभेमि कुन्त्या या नाऽहं युष्माकं वा कदाचन |
साऽद्याग्रतो विराटस्य भीता तिष्ठामि किंकरी ||२५ ||४-२३-२५ (२९२६०)
किंनु वक्ष्यति सम्राण्मां वर्णकः सुकृतो न वा |
नान्यपिष्टं विराटस्य चन्दनं किल रोचते ||२६ ||४-२३-२६ (२९२६१)
वैशम्पायन उवाच. ४-२३-२७क्ष् (३०८४)
सा कीर्तयन्ती दुःखानि भीमसेनस्य भामिनी |
रुरोद शनकैः कृष्णा भीमस्योरस्समाश्रिता ||२७ ||४-२३-२७ (२९२६२)
सा बाष्पकलया वाचा निश्वसन्ती पुनःपुनः |
हृदयं भीमसेनस्य घटयन्तीदमब्रवीत् ||२८ ||४-२३-२८ (२९२६३)
नाल्पं कृतं मया भीम देवानां किल्बिषं पुरा |
अभाग्या या तु जीवामि मर्तव्ये सति पाण्डव ||२९ ||४-२३-२९ (२९२६४)
कीचकं चेन्न हन्यास्त्वं स्वात्मानं नाशयाम्यहम् |
विषमालोड्य पास्यामि प्रवेक्ष्याम्यथवाऽनलम् |
अभाग्याऽहमपुण्याऽहं नित्यदुःखा च विक्लवा ||३० ||४-२३-३० (२९२६५)
पापे निपतितायाश्च किं फलं जीवितेन मे |
इत्यस्मै दर्शयामास किणबद्धौ करावुभौ ||३१ ||४-२३-३१ (२९२६६)
ततस्तस्याः करौ पीनौ किणबद्धौ वृकोदरः |
मुखमानीय वेपन्त्या रुरोद परवीरहा ||३२ ||४-२३-३२ (२९२६७)
तौ गृहीत्वा च कौन्तेयो बाष्पमुत्सृज्य वीर्यवान् |
ततः परमदुःखार्त इदं वचनमब्रवीत् ||३२ ||||४-२३-३३ (२९२६८)
इति श्रीमन्महाभारते विराटपर्वणि कीचकवधपर्वणि
त्रयोविंशोऽध्यायः ||२३ ||
Mahabharata -Virata Parva -Chapter Footnotes
४-२३-६ मानयित्वा च मान्यन्ते नरा दैवविपर्यये इति थो पाठः ||
६ ||
विराटपर्व -अध्याय ०२४
||श्रीः ||
४. २४. अध्यायः २४
Mahabharata -Virata Parva -Chapter Topics
द्रौपदीभीमसंवादः ||१ ||
द्रौपद्या भीमंप्रति हटात्कीचकसंहारचोदना ||२ ||
Mahabharata -Virata Parva -Chapter Text
४-२४-० (२९२६९)
वैशम्पायन उवाच. ४-२४-०क्ष् (३०८५)
आश्वासयंस्तां पाञ्चालीं भीमसेन उवाच ह |
शृणु भद्रे वरारोहे क्रोधात्तत्र तु चिन्तितम् ||१ ||४-२४-१ (२९२७०)
त्वं वै सभागतां दृष्ट्वा मात्स्यानां कदनं महत् |
कर्तुकामेन भद्रं ते वृक्षश्चावेक्षितो मया ||२ ||४-२४-२ (२९२७१)
तत्र मां धर्मराजस्तु कटाक्षेण न्यवारयत् |
तज्ज्ञात्वाऽवाङ्भुखस्तूष्णीमास्थितोस्मि महानसं ||३ ||४-२४-३ (२९२७२)
शृणुष्वान्यत्प्रतिज्ञातं यद्वदामीह भामिनि |
धिगस्तु मे बाहुबलं गाण्डीवं फल्गुनस्य च |
यत्ते रक्तौ पुरा भूत्वा पाणी कृतकिणाविमौ ||४ ||४-२४-४ (२९२७३)
तदद्य मां तु तपति यत्कृतं न मया पुरा |
सभायां स्म विराटस्य करोमि कदनं महत् ||५ ||४-२४-५ (२९२७४)
तत्र मे कारणं भाति कौन्तेयो यत्प्रतीक्षते |
तदहं तस्य विज्ञाय स्थितो धर्मस्य शासने ||६ ||४-२४-६ (२९२७५)
यच्च राज्यात्प्रच्यवनं कुरूणामवधश्च यः |
सुयोधनस्य कर्णस्य शकुनेः सौबलस्य च ||७ ||४-२४-७ (२९२७६)
दुःशासनस्य पापस्य यन्मया न हृतं शिरः |
तन्मां दहति कल्याणि हृदि शल्यमिवार्पितम् ||८ ||४-२४-८ (२९२७७)
अपि चान्यद्वरारोहे स्मरिष्यसि वचो मम |
पुण्ये तीरे सरस्वत्या यत्प्रतिष्ठाम संगताः |
तत्राहमब्रवं कृष्णे सर्वक्लेशाननुस्मरन् ||९ ||४-२४-९ (२९२७८)
न चाहमनुगच्छेयं धर्मराजं युधिष्ठिरम् |
धनञ्जयं च पाञ्चालि माद्रिपुत्रौ च भ्रातरौ |
कृत्वैतां च मतिं कृष्णे युधिष्ठिरमगर्हयम् ||१० ||४-२४-१०
(२९२७९)
परुषं वचनं श्रुत्वा मम धर्मात्मजस्तदा |
हीमान्वाक्यमहीनार्थं ब्रुवन्राजा युधिष्ठिरः |
सर्वानन्वनयद्भ्रातॄन्मुनेर्धौम्यस्य पश्यतः ||११ ||४-२४-११ (२९२८०)
मा रोदी राज्ञि लोकानां सर्वागमगुणान्विता |
रक्षितव्यं सहास्माभिः सत्यमप्रतिमं भुवि ||१२ ||४-२४-१२ (२९२८१)
अनुनीतेषु चास्मासु अनुनीता त्वमप्यसि |
मा धर्मं जहि सुश्रोणि क्रोधं जहि महामते ||१३ ||४-२४-१३ (२९२८२)
इमं तु समुपालम्भं त्वत्तो राजा युधिष्ठिरः |
शृणुयाद्यदि कल्याणि कृत्स्नं जह्यात्स जीवितं ||१४ ||४-२४-१४ (२९२८३)
धनञ्जयो वा सुश्रोणि यमौ चापि सुमध्यमे |
लोकान्तरगतेष्वेषु नाहं शक्ष्यामि जीवितुम् ||१५ ||४-२४-१५ (२९२८४)
धर्मं शृणुष्व पाञ्चालि यत्ते वक्ष्यामि मानिनि ||१६ ||४-२४-१६ (२९२८५)
दुहिता जनकस्यासीद्वैदेही यदि ते श्रुता |
पतिमन्वचरत्सीता महारण्यनिवासिनम् ||१७ ||४-२४-१७ (२९२८६)
वसन्ती च महारण्ये रामस्य महिषी प्रिया |
रावणेन हृता सीता राक्षसीभिश्च तर्जिता |
सा क्लिश्यमाना सुश्रोणी राममेवान्वपद्यत ||१८ ||४-२४-१८ (२९२८७)
लोपामुद्रा तथा भीरु भर्तारमृषिसत्तमम् |
भगवन्तमगस्त्यं सा वनायैवान्वपद्यत ||१९ ||४-२४-१९ (२९२८८)
सुकन्या नाम शर्यातेर्भार्गवच्यवनं वने |
वल्मीकभूतं साध्वी तमन्वपद्यत भामिनी ||२० ||४-२४-२० (२९२८९)
नालायनी चेन्द्रसेना रूपेणाप्रतिमा भुवि |
पतिमन्वचरद्वृद्धं पुरा वर्षसहस्रिणम् ||२१ ||४-२४-२१ (२९२९०)
नलं राजानमेवाथ दमयन्ती वनान्तरे |
अन्वगच्छत्पुरा कृष्णे तथा भर्तॄंस्त्वमन्वगाः ||२२ ||४-२४-२२ (२९२९१)
यथैताः कीर्तिता नार्यो रूपवत्यः पतिव्रताः |
तथा त्वमपि कल्याणि सर्वैः समुदिता गुणैः ||२३ ||४-२४-२३ (२९२९२)
मा दीर्घं क्षम कालं त्वं त्रिंशद्रात्रमनिन्दिते |
पूर्णे त्रयोदशे वर्षे राज्ञां राज्ञी भविष्यसि ||२४ ||४-२४-२४ (२९२९३)
सत्येन ते शपे चाहं भविता नान्यथेति च ||२५ ||४-२४-२५ (२९२९४)
सर्वासां परमस्त्रीणां प्रामाण्यं कर्तुमर्हसि |
सर्वेषां च नरेन्द्राणां मूर्ध्नि स्थास्यसि भामिनि ||२६ ||४-२४-२६ (२९२९५)
भर्तृभक्त्या च वृत्तेन भोगानाप्स्यसि दुर्लभान् |
यातायां तु प्रतिज्ञायां महान्तं भोगमाप्नुयाः ||२७ ||४-२४-२७ (२९२९६)
गुरुभक्तिकृतं ज्ञात्वा राज्ञां मूर्ध्नि स्थिता भवेः ||२८ ||
४-२४-२८ (२९२९७)
द्रौपद्युवाच. ४-२४-२९क्ष् (३०८६)
आर्तप्रलापा कौन्तेय न राजानमुपालभे |
अपारयन्त्या दुःखानि कृतं बाष्पप्रमोचनम् ||२९ ||४-२४-२९ (२९२९८)
इदं तु दुःखं कौन्तेय ममासद्यं निबोध तत् ||३० ||४-२४-३० (२९२९९)
योऽयं राज्ञो विराटस्य सूतपुत्रस्तु कीचकः |
स्यालो नाम प्रवादेन भोजस्त्रैगर्तदेशजः ||३१ ||४-२४-३१ (२९३००)
त्यक्तधर्मो नृशंसश्च सर्वार्थेषु च वल्लभः |
नित्यमेवाह दुष्टात्मा भार्या मे भव शोभने |
अविनीतः सुदुष्टात्मा मामनाथेति चिन्तयन् ||३२ ||४-२४-३२ (२९३०१)
किमुक्तेन व्यतीतेन भीमसेन महाबल |
प्रत्युपस्थितकालस्य कार्यस्यानन्तरो भव ||३३ ||४-२४-३३ (२९३०२)
ममेह भीम कैकेयी रूपाद्धि भयशङ्किता |
नित्यमुद्विजते राजा कथं नेयादिमामिति ||३४ ||४-२४-३४ (२९३०३)
तस्या विदित्वा तं भावं स्वयं चानृतदर्शनः |
कीचकोपि च दुष्टात्मा पुनः प्रार्थयते च मां ||३५ ||४-२४-३५ (२९३०४)
तमहं कुपिता भीम पुनः कोपं नियम्य च |
अब्रवं कामसंमूढमात्मानं रक्ष कीचक ||३६ ||४-२४-३६ (२९३०५)
गन्धर्वाणामहं भार्या पञ्चानां महिषी प्रिया |
ते त्वां निहन्युर्दुर्धर्षाः शूराः साहसकारिणः ||३७ ||४-२४-३७ (२९३०६)
एवमुक्तस्तु दुष्टात्मा कीचकः प्रत्युवाच ह |
नाहं बिभेमि भैरन्ध्रि गन्धर्वाणां शुचिस्मिते ||३८ ||४-२४-३८ (२९३०७)
शतं सहस्रमपि वा गन्धर्वाणामहं रणे |
समागतं हनिष्यामि त्वं भीरु कुरु मे क्षणम् ||३९ ||४-२४-३९ (२९३०८)
इत्युक्ता चाब्रवं सूतं कामातुरमहं पुनः |
न त्वं प्रतिबलस्तेषां गन्धर्वाणां यशस्विनाम् ||४० ||४-२४-४० (२९३०९)
धर्मे स्थिताऽस्मि सततं कुलशीलसमन्विता |
नेच्छामि किंचिद्वध्यं त्वां तस्माज्जीवसि कीचक ||४१ ||४-२४-४१ (२९३१०)
एवमुक्तस्तु दुष्टात्मा प्रहस्य स्वनवत्ततः |
न तिष्ठिति स सन्मार्गे न च धर्मं बुभूषति ||४२ ||४-२४-४२ (२९३११)
पापात्मा पापकारी च कामराजवशानुगः |
अविनीतश्च दुष्टात्मा प्रत्याख्यातः पुनः पुनः ||४३ ||४-२४-४३ (२९३१२)
दर्शनेदर्शने हन्याद्यदि जह्यां च जीवितम् |
धर्मे प्रयतमानानां महान्धर्मो नशिष्यति ||४४ ||४-२४-४४ (२९३१३)
समयं रक्षमाणानां दारा वो न भवन्ति च |
भार्याजां रक्ष्यमाणायां प्रजा भवति रक्षिता |
प्रजायां रक्ष्यमाणायामात्मा भवति रक्षितः ||४५ ||४-२४-४५ (२९३१४)
वंदतां वर्णधर्मांश्च ब्राह्मणानां च मे श्रुतम् |
क्षत्रियस्य सदा धर्मो नान्यो दस्युनिबर्हणात् ||४६ ||४-२४-४६ (२९३१५)
पश्यतो धर्मराजस्य कीचको माऽन्वधावत |
तवेव च समक्षं वै भीमसेन महाबल ||४७ ||४-२४-४७ (२९३१६)
त्वया चाहं परित्राता भीम तस्माञ्जटासुरात् ||४८ ||४-२४-४८ (२९३१७)
जयद्रथं तथैव त्वमजैषीर्भ्रातृभिः सह |
जहीममपि पापिष्ठं योयं मामवमन्यते |
कीचको राजवाल्लभ्याच्छोककृन्मम भारत ||४९ ||४-२४-४९ (२९३१८)
कीचकं कामसन्तप्तं भिन्धि कुम्भमिवाश्मनि |
यो निमित्तमनर्थानां बहूनां मम भारत ||५० ||४-२४-५० (२९३१९)
तं चेञ्जीवन्तमादित्यः प्रातरभ्युदयिष्यति |
विषमालोड्य पास्यामि मा कीचकवशंगमम् ||५१ ||४-२४-५१ (२९३२०)
श्रेयो हि मरणं मह्यं भीमसेन तवाग्रतः |
इत्युक्त्वा प्रारुदत्कृष्णा भीमस्योरसि संश्रिता ||५२ ||४-२४-५२ (२९३२१)
भीमश्च तां परिष्वज्य महत्सान्त्वं प्रयुज्य च |
कीचकं मनसाऽगच्छत्सृक्किणी परिलेलिहन् ||५३ ||४-२४-५३ (२९३२२)
आश्वासयित्वा बहुशो भृशमार्तां सुमध्यमाम् |
हेतुतत्वार्थसंयुक्तैर्वचोभिर्द्रुपदात्मजाम् ||५४ ||४-२४-५४ (२९३२३)
प्रमृज्य वदनं तस्याः पाणिनाऽश्रुसमाकुलम् |
उवाच चैनां दुःखार्तां भीमः क्रोधसमन्वितः ||५५ ||||४-२४-५५ (२९३२४)
इति श्रीमन्महाभारते विराटपर्वणि कीचकवधपर्वणि
चतुर्विशोऽध्यायः ||२४ ||
Mahabharata -Virata Parva -Chapter Footnotes
४-२४-२४ मा दीर्घं क्षम कालं त्वं मासमर्धं च संमितमिति झो पाठः ||
२४ ||
४-२४-२६ प्राधान्यं कर्तुमर्हसि इति खो पाठः ||
२६ ||
४-२४-३३ दुःखस्यान्तकरो भवेति धो पाठः ||
३३ ||
विराटपर्व -अध्याय ०२५
||श्रीः ||
४. २५. अध्यायः २५
Mahabharata -Virata Parva -Chapter Topics
द्रौपद्या भीमवचनात्कीचकंप्रति नर्तनशालाया उभयोः समागमे
संकेतस्थानत्वनिर्धारणेन रात्रौ तत्रागमनचादना ||१ ||
Mahabharata -Virata Parva -Chapter Text
४-२५-० (२९३२५)
भीम उवाच. ४-२५-०क्ष् (३०८७)
तथा भद्रे करिष्यामि यथा त्वं भीरु भाषसे |
अद्यैनं सूदयिष्यामि कीचकं सह बान्धवैः ||१ ||४-२५-१ (२९३२६)
अस्याः प्रदोषे शर्वर्याः कुरुष्वानेन संविदम् |
दुःखं शोकं च निर्धूय याज्ञसेनि शुचिस्मिते ||२ ||४-२५-२ (२९३२७)
यैषा नर्तनशालेह मत्स्यराजेन कारिता |
दिवात्र कन्या नृत्यन्ति रात्रौ यान्ति तथा गृहं ||३ ||४-२५-३ (२९३२८)
तत्रास्ति शयनं भीरु दृढाङ्गं सुप्रतिष्ठितम् |
तत्रैनं दर्शयिष्यामि पूर्वप्रेतान्पितामहान् |
त्वद्दर्शनसमुत्थेन कामेनाकुलितेन्द्रियम् ||४ ||४-२५-४ (२९३२९)
संकेतं सूतपुत्रस्य कारयस्व शुभानने |
यथा परे न पश्येयुः कुर्वन्तीं तेन संविदम् ||५ ||४-२५-५ (२९३३०)
तथा कुरुष्व कल्याणि यथा सन्निहितो भवेत् |
तथा कुर्याश्च संकेतं सूतपुत्रस्य संवृतम् ||६ ||४-२५-६ (२९३३१)
आवयोः संगमं भीरु यथा मार्त्यो न बुध्यति |
कीचकस्य विनाशाय तथा कुरु नृपात्मजे ||७ ||४-२५-७ (२९३३२)
वैशम्पायन उवाच | ४-२५-८क्ष् (३०८८)
तत्र तौ कथयित्वा तु बाष्पमुत्सृज्य दुःखितौ |
रात्रिशेषं तमत्युग्रं धारयामासतुर्हृदि ||८ ||४-२५-८ (२९३३३)
भीमेन च प्रतिज्ञाते कीचकस्य वधे तदा |
द्रौपदी च सुदेष्णायाः प्रविवेश पुनर्गृहम् ||९ ||४-२५-९ (२९३३४)
तस्यां रजन्यां व्युष्टायां प्रातरुत्थाय कीचकः |
गत्वा राजकुलायैव द्रौपदीमिदमब्रवीत् ||१० ||४-२५-१० (२९३३५)
यत्त्वाऽहं पश्यतो राज्ञः पातयित्वा पदाऽहनम् |
न कंचिल्लभसे नाथमभिपन्ना बलीयसा ||११ ||४-२५-११ (२९३३६)
प्रवादेन तु मात्स्यानामयं राजेति चोच्यते |
अहमेव हि राजा वै मात्स्यानां वाहिनीपतिः ||१२ ||४-२५-१२ (२९३३७)
सा सुखं प्रतिपद्यस्व दासो भीरु भवामि ते |
न ह्यहं त्वामृते भीरु चिरं जीवितुमुत्सहे ||१३ ||४-२५-१३ (२९३३८)
अहन्यहनि सुश्रोणि शतनिष्कं ददामि ते |
दासीशतं च ते दद्यां दासानामपि चापरम् ||१४ ||४-२५-१४ (२९३३९)
रथांश्चाश्वतरीयुक्तानस्तु नौ भीरु संगमः |
सुदासानां सहस्रं च महिषाणां सहस्रकम् ||१५ ||४-२५-१५ (२९३४०)
अन्तःपुरसहस्रं च हेमकूटसहस्रकम् |
तुभ्यं दास्यामि सर्वाणि राजार्हाण्यम्बराणि च ||१६ ||४-२५-१६ (२९३४१)
द्रौपद्युवाच. ४-२५-१७क्ष् (३०८९)
एतन्मे वचनं सत्यं प्रतिपद्यस्व कीचक |
न ते सखा वा भ्राता वा जानीयात्संगमं मया ||१७ ||४-२५-१७ (२९३४२)
अनुप्रवादाद्भीताऽस्मि गन्धर्वाणां यशस्विनाम् |
अनुबोधाद्गनर्थः स्यादयशश्च महद्भवेत |
एतन्मे प्रतिजानीहि ततोऽहं वशगा तव ||१८ ||४-२५-१८ (२९३४३)
कीचक उवाच. ४-२५-१९क्ष् (३०९०)
एवमेतत्करिष्यामि यथा सुश्रोणि भाषसे |
एकोऽहमागमिष्यामि शून्यमावसथं तव ||१९ ||४-२५-१९ (२९३४४)
समागमार्थं रम्भोरु त्वया मदनदर्पितः |
यथा त्वां नैव पश्येयुर्गन्धर्वाः सूर्यवर्चसः ||२० ||४-२५-२० (२९३४५)
द्रौपद्युवाच. ४-२५-२१क्ष् (३०९१)
यदेतन्नर्तनागारं मात्स्यराजेन कारितम् |
दिवात्र कन्या नृत्यन्ति रात्रौ यान्ति स्वकं गृहं ||२१ ||४-२५-२१ (२९३४६)
निशायां तत्र गच्छेथा गन्धर्वास्तन्न जानते |
तत्र दोषः परिहृतो भविष्यति न संशयः ||२२ ||४-२५-२२ (२९३४७)
एकस्त्वं नर्तनागारं रात्रौ संकेतमाव्रज |
तत्राहं भविता तुभ्यं वशगा नात्र संशयः ||२३ ||४-२५-२३ (२९३४८)
कीचक उवाच. ४-२५-२४क्ष् (३०९२)
तथा भद्रे करिष्यामि यथा त्वं भीरु वक्ष्यसि |
एकः सन्नर्तनागारमागमिष्यामि भामिनि |
समागमार्थं सुश्रोणि शपे च सुकृतेन मे ||२४ ||४-२५-२४ (२९३४९)
यथा त्वां नावबुध्यन्ति गन्धर्वा वरवर्णिनि |
सत्यं ते प्रतिजानामि गन्धर्वेभ्यो न ते भयम् |
अलंकरिष्याम्यद्याहं त्वत्समागमनाय वै ||२५ ||४-२५-२५ (२९३५०)
वासांसि च विचित्राणि मनोज्ञानि तवापि च |
यथा मां न त्यजेथास्त्वं तथ रंस्ये त्वया सह ||२६ ||४-२५-२६ (२९३५१)
द्रौपद्युवाच. ४-२५-२७क्ष् (३०९३)
तथा चेदप्यहं सूत दर्शयिष्यामि ते सुखम् |
यन्नानुभूतं भवता जन्मप्रभृति कीचक ||२७ ||४-२५-२७ (२९३५२)
वैशम्पायन उवाच. ४-२५-२८क्ष् (३०९४)
तमर्थमपि जल्पन्त्या द्रौपद्याः कीचकस्य ह |
क्षणमात्रं तदभवन्मासेनैव समं नृप ||२८ ||४-२५-२८ (२९३५३)
कीचकोऽथ गृहं गत्वा भृशं हर्षपरिप्लुतः |
सैरन्ध्रीरूपिणीं मूढो मृत्युं तां नावबुद्धवान् ||२९ ||४-२५-२९ (२९३५४)
गन्धाभरणमाल्येषु व्यासक्तः स विशेषतः |
अलंचक्रे तदाऽऽत्मानं सत्वरः काममोहितः ||३० ||४-२५-३० (२९३५५)
तस्य तत्कुर्वतः कर्म कालो दीर्घ इवाभवत् |
अनुचिन्तयतश्चापि तामेवायतलोचनाम् ||३१ ||४-२५-३१ (२९३५६)
आसीदभ्यधिका चापि श्रीः श्रियं प्रमुमुक्षतः |
निर्वाणकाले दीपस्य वर्तीमिव दिधक्षतः ||३२ ||४-२५-३२ (२९३५७)
कृतसंप्रत्ययस्तस्याः कीचकः काममोहितः |
नाजानात्पतनं स्वस्य चिन्तयंस्तां शुभाननाम् ||३३ ||४-२५-३३ (२९३५८)
ततस्तु द्रौपदी गत्वा भीमसेनं महानसे |
उपातिष्ठत कल्याणी कौरव्यं पतिमन्तिकात् ||३४ ||४-२५-३४ (२९३५९)
तमुवाच सुकेशान्ता कीचकस्य कृतो मया |
सङ्गमो नर्तनागारे यथाऽवोचः परन्तप ||३५ ||४-२५-३५ (२९३६०)
कालेन नियतं बद्धः कामेन च बलात्कृतः |
शून्यं स नर्तनागारमागमिष्यति कीचकः |
एको निशि महाबाहो कीचकं तं निषूदय ||३६ ||४-२५-३६ (२९३६१)
तं मूतपुत्रं कौन्तेय कीचकं मददर्पितम् |
गत्वा त्वं नर्तनागारं निर्जीवं कुरु पाण्डव ||३७ ||४-२५-३७ (२९३६२)
गर्वितः मूतपुत्रोऽसौ गन्धर्वानवमन्यते |
स त्वं प्रहरतांश्रेष्ठ नालं नाग इवोद्धर ||३८ ||४-२५-३८ (२९३६३)
अस्रं दुःखाभिभूताया मम मार्जस्व भारत |
बाहुवीर्यानुरूपं च दर्शयाद्य पराक्रमम् |
आत्मनश्चैव भद्रं ते कुरु मानं कुलस्य च ||३९ ||४-२५-३९ (२९३६४)
भीम उवाच. ४-२५-४०क्ष् (३०९५)
स्वागतं ते वरारोहे यन्मां वेदयसे प्रियम् |
नह्यस्य कंचिदिच्छामि सहायं वरवर्णिनि ||४० ||४-२५-४० (२९३६५)
सा मे प्रीतिस्त्वयाऽऽख्याता कीचकस्य समागमे |
हत्वा हिडिम्बं या प्रीतिर्ममासीत्सा शुचिस्मिते ||४१ ||४-२५-४१ (२९३६६)
सत्यं भ्रातॄंश्च पुत्रांश्च पुरस्कृत्य शपामि ते |
कीचकं निहनिष्यामि वृत्रं देवपतिर्यथा ||४२ ||४-२५-४२ (२९३६७)
प्रसह्य निहनिष्यामि केशवः केशिनं यथा |
रहस्यं वा प्रकाशं वा सूदयिष्यामि कीचकम् ||४३ ||४-२५-४३ (२९३६८)
अहं भद्रे हनिष्यामि कीचकं मदनान्वितम् |
यस्त्वां कामाभिभूतात्मा दुर्लभामभिमन्यते ||४४ ||४-२५-४४ (२९३६९)
अथ चेदवबुध्यन्ति सूतपुत्रं मया हतम् |
निर्मनुष्यं करिष्यामि मत्स्यानामिदमालयम् ||४५ ||४-२५-४५ (२९३७०)
मया हतांश्चेन्मात्स्यांस्तु धार्तराष्ट्रो विबुध्यति |
दुर्योधनं ततो हत्वा सानुबन्धं सबान्धवम् |
कुरुणामखिलं राज्यं प्रतिपत्स्यामि भामिनि ||४६ ||४-२५-४६ (२९३७१)
नाहं शक्तोऽनुनयितुं कुन्तीपुत्रं युधिष्ठिरम् |
कामं सत्यमुपासीत कुन्तीपुत्रो युधिष्ठिरः |
काममन्ये ह्युपासन्तु विनीता धर्मचारिणः ||४७ ||४-२५-४७ (२९३७२)
त्वां तु दुःखमिदं प्राप्तां नाहं शक्नोम्युपेक्षितुम् |
निर्वृता भव पाञ्चालि कीचकस्य वधात्पुनः ||४८ ||४-२५-४८ (२९३७३)
द्रौपद्युवाच. ४-२५-४९क्ष् (३०९६)
कीचकस्य वधं भीम यदि जानन्ति नागराः |
त्वया कृतं महाबाहो नाहं जीवितुमुत्सहे ||४९ ||४-२५-४९ (२९३७४)
कथं सत्याच्च नापेयाद्राजाऽयं मत्कृते प्रभो |
निशि गूढं तथा भीम कीचकं तं निपातय ||५० ||४-२५-५० (२९३७५)
अनुबुद्धे हि कौन्तेयो धर्मराजो युधिष्ठिरः |
पुनर्वनं व्रजेद्धीमाननुजैः परिवारितः ||५१ ||४-२५-५१ (२९३७६)
कश्च धर्मपरं ज्येष्ठमतिवर्तेत भारत |
भीम भीताऽस्मि संबोधात्साधु मा चापलं कृथाः ||५२ ||४-२५-५२ (२९३७७)
यथा न कश्चिञ्जानीते सूतपुत्रं त्वया हतम् |
तथा कुरुष्व कौरव्य बलवन्नरिमर्दन |
अदृश्यमानस्त्वंतस्य भिन्धि प्राणानरिन्दम ||५३ ||||४-२५-५३ (२९३७८)
इति श्रीमन्महाभारते विराटपर्वणि कीचकवधपर्वणि
पञ्चविंशोऽध्यायः ||२५ ||
विराटपर्व -अध्याय ०२६
||श्रीः ||
४. २६. अध्यायः २६
Mahabharata -Virata Parva -Chapter Topics
भीमेन कीचकागमनात्पूर्वमेव नर्तनागारमेत्य शय्यायां शयनम् ||१ ||
पश्चात्समागतेन कीचकेन भीमंप्रति द्रौपदी बुद्ध्या
संस्पर्शनपूर्वकं संभाषणम् ||२ ||
भीमेन नियुद्धेन कीचकमारणम् ||३ ||
पश्चाद्द्रौपद्या समाह्वानादुपकीचकानां तत्र समागमनम् ||४ ||
Mahabharata -Virata Parva -Chapter Text
४-२६-० (२९३७९)
भीम उवाच. ४-२६-०क्ष् (३०९७)
तथा भद्रे करिष्यामि यथा त्वं भीरु भाषसे |
अदृश्यमानस्तस्याहं तमिस्रायां सकुण्डलम् ||१ ||४-२६-१ (२९३८०)
नागो बिल्वमिवाक्रम्य पोथयिष्यामि तच्छिरः |
अलभ्यामिच्छतस्तस्य कीचकस्य दुरात्मनः ||२ ||४-२६-२ (२९३८१)
मया यदुक्तं पाञ्चालि धर्मराजसुतं प्रति |
कोपादृते किमन्यत्तु नानुवर्तेत को नृपम् ||३ ||४-२६-३ (२९३८२)
वैशम्पायन उवाच. ४-२६-४क्ष् (३०९८)
एवमुक्तवा महाबाहुस्तत्र पाण्डवनन्दनः |
अर्धरात्रे तदोत्थाय सत्ववान्भीमविक्रमः ||४ ||४-२६-४ (२९३८३)
अवदातेन मृदुना पटेनाच्छादितस्तथा |
द्रौपदीं पृष्ठतः कृत्वा यत्रासीन्नर्तनालयः ||५ ||४-२६-५ (२९३८४)
स भीमः प्रथमं गत्वा तमिस्रायामुपाविशत् |
मृगं सिंह इवादृश्यः प्रत्याकाङ्क्षत्स कीचकम् ||६ ||४-२६-६ (२९३८५)
कीचकस्तु शिरःस्नातो निशायां समलंकृतः |
सङ्केतमगमत्तूर्णं शून्यागारमपावृतम् ||७ ||४-२६-७ (२९३८६)
तदेव नर्तनागारं पाञ्चाली यदभाषत |
तां मन्यमानः संकेते सैरन्ध्रीं काममोहितः ||८ ||४-२६-८ (२९३८७)
प्रविश्य नर्तनागारं ततस्तं पुरुषर्षभम् |
पूर्वागतं भीमसेनं दृप्तमप्रतिमजसम् ||९ ||४-२६-९ (२९३८८)
शयानं शयने तत्र मृत्युं मूढः परामृशत् |
जाज्वल्यमानं कोपेन कृष्णाधर्षणजेन च ||१० ||४-२६-१० (२९३८९)
एकान्ते भीममासाद्य कीचकः कालचोदितः |
हर्षोन्मथितचित्तात्मा स्मयमानोऽभ्यभाषत ||११ ||४-२६-११ (२९३९०)
प्रहितं ते मया भद्रे बहुवित्तं शुचिस्मिते |
त्वयि तिष्ठतु तत्सर्वं यथाऽसि स्वयमागता ||१२ ||४-२६-१२ (२९३९१)
अकस्मान्मां प्रशंसन्ति सदा गृहगताः स्त्रियः |
बलवान्दर्शनीयश्च नान्यस्ते सदृशः पुमान् ||१३ ||४-२६-१३ (२९३९२)
अहं रूपेण संपन्नः स्नातो गुरुविभूषितः |
नित्यमेव प्रियः स्त्रीणां सौभाग्यात्प्रियदर्शनः |
रूपस्य तन्मया प्राप्तं फलं कमललोचने ||१४ ||४-२६-१४ (२९३९३)
भीम उवाच. ४-२६-१५क्ष् (३०९९)
दिष्ट्या त्वं दर्शनीयोसि दिष्ट्याऽऽत्मानं प्रशंससि ||१५ ||
४-२६-१५ (२९३९४)
त्वयाऽपीदृग्गुणा नारी रूपशीलसमन्विता |
अदृष्टपूर्वा पश्य त्वं यतो जानासि सूतज |
द्रक्ष्यसि त्वं मुहूर्तेन यथेयं स्त्री गुणान्विता ||१६ ||४-२६-१६ (२९३९५)
उपरंस्यसि कामाच्च शीघ्रं त्वं स्प्रष्टुमर्हसि |
ईदृशस्तु त्वया स्पर्शः स्पृष्टपूर्वो न कर्हिचित् ||१७ ||४-२६-१७
(२९३९६)
स्पर्शं वेत्सि विदग्धस्त्वं कामधर्मविचक्षणः |
स्त्रीणां प्रीतिकरो नान्यस्त्वत्समः पुरुषस्त्विह ||१८ ||४-२६-१८ (२९३९७)
वैशम्पायन उवाच. ४-२६-१९क्ष् (३१००)
इत्युक्त्वा तं महाबाहुर्भीमो भीमपराक्रमः |
सहसोत्पत्य कौन्तेयः प्रहस्येदमुवाच ह ||१९ ||४-२६-१९ (२९३९८)
अद्य त्वां भगिनी पापं कृष्यमाणं मया भुवि |
द्रक्ष्यतेऽद्रिप्रतीकाशं सिंहेनेव महागजम् ||२० ||४-२६-२० (२९३९९)
निराबाधा त्वयि हते सैरन्ध्री विचरिष्यति |
सुखमेव चरिष्यन्ति सैरन्ध्र्याः पतयः सदा ||२१ ||४-२६-२१ (२९४००)
ततो जग्राह केशेषु माल्यवत्सु सुगन्धिषु ||२२ ||४-२६-२२ (२९४०१)
गृहीत्वा कीचकं भीमो विरराज महाबलः |
गृहीत्वा ग्रासकामस्तु सिंहः क्षुद्रमृगं यथा ||२३ ||४-२६-२३ (२९४०२)
स केशेषु परामृष्टो बलेन बलिनां वरः |
आक्षिप्य केशान्वेगेन बाह्वोर्जग्राह पाण्डवम् ||२४ ||४-२६-२४ (२९४०३)
बाहुयुद्धं तयोरासीत्क्रुद्धयोर्नरसिंहयोः |
वसन्ते वासिताहेतोर्बलिनोर्नागयोरिव ||२५ ||४-२६-२५ (२९४०४)
कीचकानां तु मुख्यस्य नराणामुत्तमस्य च |
वालिसुग्रीवयोर्भ्रात्रोः पुरेव कपिसिंहयोः ||२६ ||४-२६-२६ (२९४०५)
शार्दूलाविव गर्जन्तौ तार्क्ष्यनागाविवोद्यतौ |
समयत्नौ समक्रोधौ पतितौ भीमकीचकौ ||२७ ||४-२६-२७ (२९४०६)
गजाविव मदोन्मत्तौ नदन्तौ पतितौ क्षितौ |
वृषभाविव वल्मीकं मृद्गन्तौ समविक्रमौ ||२८ ||४-२६-२८ (२९४०७)
ईषदागलितं चापि क्रोधाच्चावाङ्मुखं स्थितम् |
कीचको बलवान्भीमं जानुभ्यां पातयद्भुवि ||२९ ||४-२६-२९ (२९४०८)
पातितो भीमसेनस्तु कीचकेन बलीयसा |
उत्पपाताथ वेगेन दण्डाहत इवोरगः ||३० ||४-२६-३० (२९४०९)
स्पर्धया च बलोन्मत्तौ तावुभौ भीमकीचकौ |
निश्शब्दं पर्यकर्षेतामन्योन्यस्य विनिर्जये ||३१ ||४-२६-३१ (२९४१०)
ततस्तद्भवनश्रेष्ठं प्राकम्पत तदा भृशम् |
तौ क्रोधवशमापन्नावन्योन्यमभिजघ्नतुः ||३२ ||४-२६-३२ (२९४११)
तलाभ्यां भीमसेनेन वक्षस्यभिहतो बली |
कीचको रोषरक्ताक्षो न चचाल पदात्पदम् ||३३ ||४-२६-३३ (२९४१२)
मुहूर्तमशकत्सोढुं वेगं तस्य महात्मनः |
कीचको भीमसेनेन पश्चात्पश्चादहीयत ||३४ ||४-२६-३४ (२९४१३)
तं हीयमानं विज्ञाय भीमसेनो महाबलः |
वक्षस्यानीय वेगेन प्रममाथ विचेतसम् ||३५ ||४-२६-३५ (२९४१४)
क्रोधाविष्टो विनिश्चस्य पुनश्चैनं वृकोदरः |
जग्राह जयतांश्रेष्ठः केशेष्वेव भृशं तदा ||३६ ||४-२६-३६ (२९४१५)
गृहीत्वा कीचकं भीमो विरराज महाबलः |
आमिषार्थे गृहीत्वैव शार्दूलो मृगयूथपम् ||३७ ||४-२६-३७ (२९४१६)
पुनश्चातिबलस्तत्र कीचको बलदर्पितः |
व्यायच्छन्नेव दुर्धर्षः पाण्डवेन तरस्विना ||३८ ||४-२६-३८ (२९४१७)
मुष्टिना भीमसेनेन शिरस्यभिहतो भृशम् |
कीचको वृत्तरक्ताक्षो गतासुरपतद्भुवि ||३९ ||४-२६-३९ (२९४१८)
आस्ये पाणी च पादौ च शिरोग्रीवां सकुण्डलाम् |
काये प्रवेशयामास मृदित्वाऽङ्गानि सर्वशः ||४० ||४-२६-४० (२९४१९)
स तं मथितसर्वाङ्गं मांसपिण्डमथाकरोत् ||४१ ||४-२६-४१ (२९४२०)
तत्राग्निं स्वयमुज्ज्वाल्य पाणिसंघर्षजं बली |
कष्णायै दर्शयामास भीमसेनो महाबलः ||४२ ||४-२६-४२ (२९४२१)
उवाच च महातेजा द्रौपदीं योषितां वराम् |
त्वयि कामुकमत्यन्तं पापिनं पारदारिकम् |
पश्यैनमेहि पाञ्चालि कामुकोऽयं मया हतः ||४३ ||४-२६-४३ (२९४२२)
प्रार्थयन्ते सुकेशान्ते ये त्वां शीलसमन्विताम् |
एवं स्वपन्ति ते भीरु शेतेऽयं कीचको यथा |
यस्त्वामभ्यहनद्भद्रे पदा भूमौ निपात्य च ||४४ ||४-२६-४४ (२९४२३)
एवमुक्त्वा महाबाहुर्गन्धर्वेण हतं तदा |
विज्ञापनार्थमन्येषां विरराम महाहवम् ||४५ ||४-२६-४५ (२९४२४)
तथा स कीचकं हत्वा गत्वा रोषस्य निष्कृतिम् |
आमन्त्र्य द्रौपदीं पश्चात्क्षिप्रमायान्महानसम् ||४६ ||४-२६-४६ (२९४२५)
स्नात्वाऽनुलेपनं कृत्वा व्यापूर्य च मनोरथम् |
सुखोपविष्टः शयने भीमो भीमपराक्रमः ||४७ ||४-२६-४७ (२९४२६)
ततः कृष्णा यदा मेने गतं भीमं महानसम् |
कीचकं घातयित्वा च द्रौपदी योषितां वरा |
प्रहृष्टा गतसंत्रासा सभापालानुवाच ह ||४८ ||४-२६-४८ (२९४२७)
कीचको निहतः शेते गन्धर्वैः पतिभिर्मम |
परस्त्रीकामसंतप्तं समागच्छन्त पश्यत ||४९ ||४-२६-४९ (२९४२८)
तच्छ्रुत्वा भाषितं तस्या नर्तनागाररक्षिणः |
सहसैव समुत्तस्थुरुल्कामादाय सर्वशः ||५० ||४-२६-५० (२९४२९)
तस्यास्तं निहतं श्रुत्वा कीचकस्य सहोदराः |
ततो गत्वा तु तद्वेश्म कीचकं विनिपातितम् |
गतासुं ददृशुर्भूमौ रुधिरेण समुक्षितम् ||५१ ||४-२६-५१ (२९४३०)
पार्ष्णिपामिशिरोहीनं दृष्ट्वा ते विस्मिताऽभवन् ||५२ ||४-२६-५२ (२९४३१)
क्वास्य ग्रीवा क्व चरमौ क्व पामी क्व शिरः क्व दृक् |
इति स्म ते परीक्षन्ते गन्धर्वेण हतं तदा ||५३ ||४-२६-५३ (२९४३२)
अमानुषं कृतं कर्म तं दृष्ट्वा विनिपातितम् |
निरीक्षन्ते ततः सर्वे परं विस्मयमागताः ||५४ ||||४-२६-५४ (२९४३३)
इति श्रीमन्महाभारते विराटपर्वणि कीचकवधपर्वणि
षड्विंशोऽध्यायः ||२६ ||
विराटपर्व -अध्याय ०२७
||श्रीः ||
४. २७. अध्यायः २७
Mahabharata -Virata Parva -Chapter Topics
भ्रातृवधामर्पितैरुपकीचकैः पाञ्चाल्याः कीचकेन सह
चरमविमानसमारोपणेन श्मशानप्रापणम् ||१ ||
द्रौपदीसमाक्रन्दनिनदश्रवणात्पितृवनमुपागतवता
भीमेनोपकीचकानां पञ्चाधिकशतस्य पञ्चताप्रापणम् ||२ ||
भीमेन द्रौपद्याः पतिव्रतोपाख्यानकथनात्समाश्वासनेन
स्वावासप्रेपणपूर्वकं महानसप्रवेशः ||३ ||
Mahabharata -Virata Parva -Chapter Text
४-२७-० (२९४३४)
वैशम्पायन उवाच. ४-२७-०क्ष् (३१०१)
तत्काले तु समागम्य सर्वे तत्रास्य बान्धवाः |
रुरुदुः कीचकं दृष्ट्वा परिवार्योपतस्थिरे ||१ | ४-२७-१ (२९४३५)
सर्वे संहृष्टरोमाणः संत्रस्ताः प्रेक्ष्य कीचकम् |
तथा संभुग्नसर्वाङ्गं कूर्मं स्थल इवोद्धृतम् ||२ ||४-२७-२ (२९४३६)
पोथितं भीमसेनेन महेन्द्रेणेव दानवम् |
कीचकं बलसंमत्तं दुर्धर्षं येन केन चित् ||३ ||४-२७-३ (२९४३७)
गन्धर्वेण हतं श्रुत्वा कीचकं पुरुषर्षभम् |
संस्कारयितुमिच्छन्तो बहिर्नेतुं प्रचक्रमुः ||४ ||४-२७-४ (२९४३८)
अपश्यन्नथ ते कृष्णां मूतपुत्राः समागताः |
अदूरादनवद्याङ्गीं स्तम्भमालिङ्ग्य तिष्ठतीम् ||५ ||४-२७-५ (२९४३९)
समागतेषु सूतेषु तानुवाचोपकीचकः |
हसन्निव पदाऽमर्षान्निर्दहन्निव चक्षुषा ||६ ||४-२७-६ (२९४४०)
हन्यतां शीघ्रमसती यत्कृते कीचको हतः |
अथवा नैव हन्तव्या दह्यतां कामिना सह ||७ ||४-२७-७ (२९४४१)
मृतस्यापि प्रियं कार्यं सूतपुत्रस्य सर्वथा |
इयं हि दुष्टचरिता मम भ्रातुरमित्रिणी ||८ ||४-२७-८ (२९४४२)
यत्कृते मरणं प्राप्तो नेयं जीवितुमर्हति |
सहेयं दह्यतां सूता आमन्त्र्य च जनाधिपम् |
हतस्यापि हि गन्धर्वैः कीचकस्य प्रियं भवेत् ||९ ||४-२७-९ (२९४४३)
वैशम्पायन उवाच ||४-२७-१०क्ष् (३१०२)
ततो विराटमासाद्य सूताः प्राञ्जलयोऽब्रुवन् |
कीचकोऽयं हतः शेते गन्धर्वैः कामरूपिभिः ||१० ||४-२७-१० (२९४४४)
सैरन्ध्र्या घातितो रात्रौ तं दहेम सहानया |
मानिताः स्मस्त्वया वीर तदनुज्ञातुमर्हसि ||११ ||४-२७-११ (२९४४५)
पराक्रमं तु सूतानां ज्ञात्वा राजाऽन्वमन्यत |
सैरन्ध्र्याः सूतपुत्रेण सह दाहं नराधिपः ||१२ ||४-२७-१२ (२९४४६)
ततस्ते समनुज्ञाताः सर्वे तत्रास्य बान्धवाः |
रुरुदुः कीचकं दृष्ट्वा परिवार्याभितः स्थिताः ||१३ ||४-२७-१३ (२९४४७)
आरोप्य कृष्णां सह कीचकेन निबध्य केशेषु च पादयोश्च |
ते चापि सूता वचनैरवोचन्नुद्दिश्य चैनामभिवीक्ष्य कृष्णाम्
||१४ ||४-२७-१४ (२९४४८)
यस्याः कृतेऽयं निहतो महात्मा तस्माद्धि सा कीचकमार्गमेतु |
अवार्यसत्वेन च कीचकेन गतासुना सुन्दरी स्वर्गलोकम् ||१५
||४-२७-१५ (२९४४९)
सा तेन कृष्णा शयने निबद्धा यशस्विनी चैव मनस्विनी च |
अनार्यसत्त्वेन महार्यसत्त्वा गतासुना सा प्ररुरोद कृष्णा |
विलम्बमाना विवशा हि दुष्टैस्तत्रैव पर्यङ्कवरे शुभाङ्गी ||१६ ||
४-२७-१६ (२९४५०)
ह्रियमाणाऽथ सुश्रोणी सूतपुत्रैरनिन्दिता |
प्राक्रोशन्नाथमिच्छन्ती कृष्णा नाथवती सती ||१७ ||४-२७-१७ (२९४५१)
मृतेन सह बद्धाङ्गी निराशा जीविते तदा |
श्मशानाभिमुखं नीता करेणुरिव रौति सा ||१८ ||४-२७-१८ (२९४५२)
द्रौपद्युवाच. ४-२७-१९क्ष् (३१०३)
जयो जयेशो विजयो जयत्सेनो जयद्बलः |
त मे वाचं विजानन्तु सूतपुत्रा नयन्ति माम् ||१९ ||४-२७-१९ (२९४५३)
येषां दुन्दुभिनिर्घोषो ज्याघोषः श्रूयते महान् |
ते मे वाचं विजानन्तु सूतपुत्रा नयन्ति माम् ||२० ||४-२७-२० (२९४५४)
येषां ज्यातलनिर्घोषो विस्फूर्जितमिवाशनेः |
अश्रूयत महान्युद्धे भीमघोपस्तरस्विनाम् ||२१ ||४-२७-२१ (२९४५५)
रथघोपश्च बलवान्गन्धर्वाणां तरस्विनाम् |
ते मे वाचं बिजानन्तु सूतपुत्रा नयन्ति माम् ||२२ ||४-२७-२२ (२९४५६)
येषां वीर्यमतुल्यं तु शक्रस्येव बलं यशः |
राजसिंहा इवाग्र्यास्ते मां जानन्तु सुदुःखितां ||२३ ||४-२७-२३ (२९४५७)
इत्यस्याः कृपणा वाचः कृष्णायाः परिदेविताः |
श्रुत्वैवाभ्युत्थितो भीमः शयनादविचारयन् ||२४ ||४-२७-२४ (२९४५८)
भीम उवाच. ४-२७-२५क्ष् (३१०४)
अहं सैरन्ध्रि ते वाचः शृणोमि तव भाषिताः |
तस्मात्ते सूतपुत्रेभ्यो न भयं जातु विद्यते ||२५ ||४-२७-२५ (२९४५९)
वैशम्पायन उवाच. ४-२७-२६क्ष् (३१०५)
इत्युक्त्वा स महाबाहुर्विजजृम्भे जिघांसया ||२६ ||४-२७-२६ (२९४६०)
ततः स व्यायतं बद्ध्वा वस्त्रं विपरिवेष्ट्य च |
अद्वारेणाभ्यवस्कन्द्य निर्जगाम बहिस्तदा ||२७ ||४-२७-२७ (२९४६१)
स लङ्घयित्वा प्राकारमारुह्य तरसा द्रुमम् |
श्मशानाभिमुखः प्रायाद्यत्र ते कीचका गताः ||२८ ||४-२७-२८ (२९४६२)
स लङ्घयित्वा प्राकारं निःसृत्य च पुरोत्तमात् |
जवेनोत्पतितो भीमः सूतानामग्रतस्तदा ||२९ ||४-२७-२९ (२९४६३)
चितासमीपं गत्वा स तत्रापश्यन्महाबलः |
तालमात्रं महास्कन्धमूर्ध्वशुष्कं वनस्पतिम् ||३० ||४-२७-३० (२९४६४)
तं नागवदुपक्रम्य बाहुभ्यां परिरभ्य च |
वृक्षमुत्पाटयामास भीमो भीमपराक्रमः ||३१ ||४-२७-३१ (२९४६५)
ततो वृक्षं दशव्यामं निष्पत्रमकरोत्तदा ||३२ ||४-२७-३२ (२९४६६)
तं महाकायमुद्यम्य भ्रामयित्वा च वेगितः |
प्रगृह्याभ्यपतत्सूतान्दण्डपाणिरिवान्तकः ||३३ ||४-२७-३३ (२९४६७)
ऊरुवेगेन तस्याथ न्यग्रोधाश्वत्थकिंशुकाः |
भूमौ निपतिता वृक्षाः संभग्नास्तत्र शेरते ||३४ ||४-२७-३४ (२९४६८)
तं सिंहमिव संक्रुद्धं दृष्ट्वा गन्धर्वमागतम् |
वित्रेसुश्च तदा सूता विपादभयपीडिताः ||३५ ||४-२७-३५ (२९४६९)
तमन्तकमिव क्रुद्धं गन्धर्वभयशङ्किताः |
दिधक्षन्तस्तथा ज्येष्ठं भ्रातरं चोपकीचकाः |
परस्परमथोचुस्ते विषादभयमोहिताः ||३६ ||४-२७-३६ (२९४७०)
गन्धर्वो बलवानेति क्रुद्ध उद्यम्य पादपम् |
प्रबुद्धाः सुमहाभागा गन्धर्वाः सूर्यवर्चसः |
सैरन्ध्री मुच्यतां शीघ्रं भयं नो महदागतम् ||३७ ||४-२७-३७ (२९४७१)
वैशम्पायन उवाच. ४-२७-३८क्ष् (३१०६)
ते दृष्ट्वाऽथ समाविद्धं भीमसेनेन पादपम् |
विमुच्य द्रौपदीं त्रस्ताः प्राद्रवन्नगरं प्रति ||३८ ||४-२७-३८ (२९४७२)
द्रवतस्तांश्च संप्रेक्ष्य स वज्री दानवानिव |
अथ भीमः समुत्पत्य द्रवतां पुरतोऽभवत् ||३९ ||४-२७-३९ (२९४७३)
ते तं दृष्ट्वा भयोद्विग्ना निश्चेष्टाः समवस्थिताः ||४० ||
४-२७-४० (२९४७४)
दृष्ट्वा ताञ्शतसङ्ख्यकान्स वज्री दानवानिव |
एकेनैव प्रहारेण दश सप्त च विंशतिम् |
अष्टादश च पञ्चाशञ्जघान स वृकोदरः ||४१ ||४-२७-४१ (२९४७५)
शतं पञ्चाधिकं भीमः प्राहिणोद्यमसादनम् |
वृक्षेणैकेन राजेन्द्र प्रभञ्जनसुतो बली |
वायुवेगसमः श्रीमान्सर्वान्सूतानशेषतः ||४२ ||४-२७-४२ (२९४७६)
तान्निहत्य महाबाहुर्भीमसेनो महाबलः |
आश्वासयत्तदा कृष्णां प्रतिमुच्य च बन्धनात् ||४३ ||४-२७-४३ (२९४७७)
उवाच श्लक्ष्णया वाचा पाञ्चालीं भरतर्षभः |
अश्रुपूर्णमुखीं भीतामुद्धरन्स वृकोदरः ||४४ ||४-२७-४५अ[
मा खिदस्त्वं(*) याज्ञसेनि पातिव्रत्यव्रते स्थिता |
पातिव्रत्ये स्थिता नारी व्रतं रक्षेत्सदाऽत्मनः ||४५ ||४-२७-४४ (२९४७८)
पुरा स्त्री देवरातस्य पतिप्रीता शिरोमणिः |
कदाचिद्भर्तृरूपेण रक्षसाऽपहृता सती ||४६ ||४-२७-४६ (२९४७९)
कस्यचित्सरसस्तीरे तां निवेश्य स राक्षसः |
तद्भर्तृरूपं संत्यज्य रक्षो भूत्वा सुदारुणम् ||४७ ||४-२७-४७ (२९४८०)
साम्ना दानेन भेदेन सा यदा नान्वमन्यत |
तदा तां पातयित्वा स मैथुनायोपचक्रमे ||४८ ||४-२७-४८ (२९४८१)
ततः सा धैर्यमास्थाय विवरं त ददौ तदा |
ततः स खङ्गमुत्कृष्य भीषयामास तां सतीम् ||४९ ||४-२७-४९ (२९४८२)
साऽपि त्यक्तभया साध्वी प्राणत्यागे सुनिश्चिता |
प्रतिज्ञामकरोत्कृष्णे पातिव्रत्यपरायणा ||५० ||४-२७-५० (२९४८३)
आराधितो यदि मया भर्ता मे दैवतं महत् |
कर्मणा मनसा वाचा गुरवस्तोषिता मया |
तेन सत्येन योनिर्मे भवत्वद्य शिला दृढा ||५१ ||४-२७-५१ (२९४८४)
एवं तया प्रतिज्ञाते तद्योनिः सा शिलाऽभवत् |
अन्तरा नाभिजान्वोर्यत्तत्सर्वं च शिलाऽभवत् ||५२ ||४-२७-५२ (२९४८५)
ततः स खङ्गमुद्धृत्य वेगेनास्याः शिरोऽहरत् ||५३ ||४-२७-५३ (२९४८६)
जया नाम सखी साऽभूत्पार्वत्या नखमांसवत् |
तस्मात्पतिव्रतायाश्च दुःखमल्पं सुखं बहु ||] ||५४ ||४-२७-५४ (२९४८७)
एवं ते भीरु वध्यन्ते ये त्वां हिंसन्ति मानवाः |
गच्छ त्वं नगरं कृष्णे न भयं विद्यते तव ||५५ ||४-२७-५५ (२९४८८)
अन्येन त्वं पथा शीघ्रं सुदेष्णाया निवेशनम् |
अन्येनाहं गमिष्यामि विराटस्य महानसम् |
यथा नौ नावबुध्येरन्रात्रावेवं व्यवस्थितौ ||५६ ||४-२७-५६ (२९४८९)
वैशम्पायन उवाच. ४-२७-५७क्ष् (३१०७)
साऽगच्छन्नगरं कृष्णा भीमेनाश्वासिता सती ||५७ ||
कृतकृत्या सुदेष्णाया भवनं शुभलक्षणा | ४-२७-५७ (२९४९०)
शचीव नहुषे शप्ते प्रविवेश त्रिविष्टपम् ||५८ ||
भीमोऽप्यमितवीर्यस्तु बलवानरिमर्दनः. ४-२७-५८ (२९४९१)
सर्वांस्तान्कीचकांस्तत्र हत्वा धर्मात्मजानुजः ||५९ ||
निःशेषं कीचकान्हत्वा रामो रात्रिचरानिव. ४-२७-५९ (२९४९२)
जितशत्रुरदीनात्मा प्रविवेश पुरं ततः ||६० ||
पञ्चाधिकं शतं तत्र निहतं तेन भारत. ४-२७-६० (२९४९३)
महावनमिव छिन्नं शिश्ये विगलितद्रुमम् ||६१ ||
एवं ते निहता राजञ्शतं पञ्चोपकीचकाः. ४-२७-६१ (२९४९४)
स च सेनापतिः सूत इत्येतत्सूतषट्शतम् ||६२ ||
न गन्धर्वभयाकिंचिद्वक्तुं कीचकबान्धवाः | ४-२७-६२ (२९४९५)
अशक्नुवन्तस्तां तत्र भयादप्यभिवीक्षितुम् ||६३ ||
विराटनगरे चापि सर्वे मात्स्याः समागताः | ४-२७-६३ (२९४९६)
काल्यं पञ्चशतं चैतानपश्यन्सारथीन्हतान् ||६४ ||
तद्दृष्ट्वा महदाश्चर्यं नरा नार्यश्च नागराः. ४-२७-६४ (२९४९७)
विस्मयं परमं गत्वा नोचुः किंचन भारत ||६५ ||||४-२७-६५ (२९४९८)
इति श्रीमन्महाभारते विराटपर्वणि कीचकवधपर्वणि
सप्तविंशोऽध्यायाः ||२७ ||
Mahabharata -Virata Parva -Chapter Footnotes
४-२७-४५ *इमे १० श्लोकाः घो पुस्तक एव दृश्यन्ते ||
४-२७-६३ तां द्रौपदीमभिवीक्षितुमपि अशक्नुवन्तः कीचकबान्धवाः
तांप्रति किंचिद्वक्तुं नाशक्नुवन्नित्यध्याहारेण योजना ||
६३ ||
विराटपर्व -अध्याय ०२८
||श्रीः ||
४. २८. अध्यायः २८
Mahabharata -Virata Parva -Chapter Topics
पौरौर्विराटंप्रति सानुजकीचकनिधननिवेदनपूर्वकं
नगराद्द्रौपदीनिष्कासनप्रार्थना ||१ ||
सुदेष्णया विराटनियोगाद्द्रौपदीं प्रति स्वपुरान्निर्गमनचोदना ||२ ||
तथा द्रौपद्या मासावधिस्ववासाभ्यनुज्ञानप्रार्थनायां तदङ्गीकरणम् ||३ ||
Mahabharata -Virata Parva -Chapter Text
४-२८-० (२९४९९)
वैशम्पायन उवाच. ४-२८-०क्ष् (३१०८)
ते दृष्ट्वा निहतान्सूतान्भीमसेनेन भारत |
पौराश्च सहिताः सर्वे राज्ञे गत्वा न्यवेदयन् |
गन्धर्वेण हता राजन्सूतपुत्राः परश्शतम् ||१ ||४-२८-१ (२९५००)
यथा वज्रेण दीर्णं वै पर्वतस्य महच्छिरः |
विनिकार्णाः प्रदृश्यन्ते तथा सूता महीतले ||२ ||४-२८-२ (२९५०१)
सैरन्ध्री चापि मुक्ता सा पुनरायाति ते गृहम् |
सर्वं संशयितं राजन्नगरं ते भविष्यति ||३ ||४-२८-३ (२९५०२)
तथारूपा हि सैरन्ध्री गन्धर्वाश्च महाबलाः |
पुंसामिष्टश्च विषयो मैथुनाय न संशयः ||४ ||४-२८-४ (२९५०३)
यथा सैरन्ध्रिदोषेण नेदं राजन्पुरं तव |
विनाशमेति वै क्षिप्रं तथा साधु विधीयताम् ||५ ||४-२८-५ (२९५०४)
सर्वाङ्गसौष्ठवयुतां रूपलावण्यशालिनीम् |
पश्यतामनिमेषेण चक्षुषा वनितां शुभाम् |
मनसश्चक्षुषश्चैव प्रतिबन्धो न विद्यते ||६ ||४-२८-६ (२९५०५)
तस्मात्तां यः पुमान्दृष्ट्वा रूपेणाप्रतिमां भुवि |
गच्छेत्कामवशं मूढो गन्धर्वैः स निहन्यते ||७ ||४-२८-७ (२९५०६)
निष्कासयैनां भवनात्पुराच्चैव विशेषतः |
कालः प्रविश्य सैरन्ध्रीं पुरं नाशयते ध्रुवम् ||८ ||४-२८-८ (२९५०७)
वैशम्पायन उवाच. ४-२८-९क्ष् (३१०९)
तेषां तद्वचनं श्रुत्वा विराटो वाहिनीपतिः |
अब्रवीत्क्रियतामेषां सूतानामपरक्रिया ||९ ||४-२८-९ (२९५०८)
एकस्मिन्नेव ते सर्वे सुसमिद्धे हुताशने |
दह्यन्तां कीचकाः सर्वे सर्वगन्धैश्च सर्वशः ||१० ||४-२८-१० (२९५०९)
इत्युक्त्वा परमोद्वग्निः प्रविश्यान्तःपुरं शुभम् |
सुदेष्णां चाब्रवीद्राजा महिषीं जातसाध्वसः ||११ ||४-२८-११ (२९५१०)
सैरन्ध्रीमागतां ब्रूया ममैव वचनादिह |
गच्छ सैरन्ध्रि भद्रं ते यथाकामं चराधुना |
बिभेति राजा सैरन्धि गन्धर्वेभ्यः पराभवात् ||१२ ||४-२८-१२ (२९५११)
न हि तामुत्सहे वक्तुं स्वयं गन्धर्वरक्षिताम् |
स्त्रियास्त्वदोषस्तां वक्तुमतस्त्वां प्रब्रवीम्यहम् ||१३ ||४-२८-१३ (२९५१२)
वैशम्पायन उवाच. ४-२८-१४क्ष् (३११०)
एकस्मिन्नेव ते सर्वे सुसमिद्धे हुताशने |
अदहन्कीचकान्सर्वान्संस्कारैश्चैव सर्वशः ||१४ ||४-२८-१४ (२९५१३)
अथ मुक्ता भयात्कृष्णा सूतपुत्रान्निरस्य च |
मोक्षिता भीमसेनेन जगाम नगरं प्रति ||१५ ||४-२८-१५ (२९५१४)
त्रासितेव मृगी बाला शार्दूलेन मनस्विनी |
सा तु गात्राणि वासश्च प्रक्षाल्य प्रविवेश ह ||१६ ||४-२८-१६ (२९५१५)
तां दृष्ट्वा पुरुषा राजन्प्राद्रवन्त दिशो दश |
गन्धर्वाणां भयत्रस्ताः केचिद्दृष्टिं न्यमीलयन् ||१७ ||४-२८-१७ (२९५१६)
प्रदुद्रुवुश्चाप्यपरे तथा जना हस्तैश्च चक्षूंषि पिधाय मोहिताः |
मा पश्यत स्मेति च तां ब्रुवन्तस्तथा जनाश्चुक्रुशुरार्तरूपाः ||१८
||४-२८-१८ (२९५१७)
तामद्य यः पश्यति रूपशालिनीं शयीत भग्नोऽत्र यथैव कीचकाः |
इति ब्रुवन्तो भयविग्नचेतसो भयेन गन्धर्वगतेन मोहिताः ||१९
||४-२८-१९ (२९५१८)
ततो महानसद्वारे भीमसेनमवस्थितम् |
ददर्श राजन्पाञ्चाली यथा मत्तं महाद्विपम् ||२० ||४-२८-२० (२९५१९)
सोपहासं तु शनकैः संज्ञाभिरिदमब्रवीत् |
नमो गन्धर्वराजाय येनास्मि परिमोक्षिता ||२१ ||४-२८-२१ (२९५२०)
कीचकेभ्यो विनिर्दोषामनाथां वसतीं गृहे |
यो मां रक्षति सन्त्रस्तां गन्धर्वाय नमोस्तु ते ||२२ ||४-२८-२२ (२९५२१)
भीम उवाच. ४-२८-२३क्ष् (३१११)
ये यस्या विचरन्तीह पुरुषा वशवर्तिनः |
तेषां च वशगा नित्यं विचर त्वं यथेष्टतः ||२३ ||४-२८-२३ (२९५२२)
ये पुरा विचरन्तीह पुरुषा वशवर्तिनः |
तस्यास्ते वचनं श्रुत्वा ह्यनृणा विहरन्त्वितः ||२४ ||४-२८-२४ (२९५२३)
वैशम्पायन उवाच. ४-२८-२५क्ष् (३११२)
तयोस्तद्वचनं श्रुत्वा जझिरे नेतरे जनाः |
ततः पाञ्चालराजस्य सुता चापि जगाम ह ||२५ ||४-२८-२५ (२९५२४)
ततः सा नर्तनागारे धनंजयमपश्यत |
राज्ञः कन्या विराटस्य नर्तयन्तं महाभुजम् ||२६ ||४-२८-२६ (२९५२५)
ततस्ता नर्तनागाराद्विनिष्क्रम्य सहार्जुनाः |
कन्या ददृशुरायान्तीं कृष्णां क्लिष्टामनागसम् ||२७ ||४-२८-२७ (२९५२६)
कान्या ऊचुः. ४-२८-२८क्ष् (३११३)
दिष्ट्या सैरन्ध्रि मुक्ताऽसि दिष्ट्याऽसि पुनरागता |
दिष्ट्या च निहताः सूता ये त्वां क्लिश्यन्त्यनागसम् ||२८ ||४-२८-२८ (२९५२७)
बृहन्नलोवाच. ४-२८-२९क्ष् (३११४)
कथं सैरन्ध्रि मुक्ताऽसि कथं पापाश्च ते हताः |
इच्छामि ते कथां श्रोतुं कथयस्व यथातथम् ||२९ ||४-२८-२९ (२९५२८)
सैरन्ध्युवाच. ४-२८-३०क्ष् (३११५)
बृहन्नले किंनु तव सैरन्ध्र्या कार्यमद्य वै |
या त्वं रंस्यसि कल्याणि सदा कन्यापुरे सुखं ||३० ||४-२८-३० (२९५२९)
न हि दुःख समाप्नोषि सैरन्ध्री यदुपाश्रुते |
सुखेन वर्तसे येह न तद्दुःखमवाप्यते |
तेन मां दुःखितामेवं पृच्छसि प्रहसन्त्यपि ||३१ ||४-२८-३१ (२९५३०)
बृहन्नलोवाच. ४-२८-३२क्ष् (३११६)
बृहन्नलाऽपि कल्याणि दुःखमाप्नोत्यनन्तकम् |
तिर्यग्योनिगतेवेयं न चैनामवबुध्यसे ||३२ ||४-२८-३२ (२९५३१)
त्वया सहोषिता चास्मि त्वं च सर्वैः सहोषिता |
त्वत्तः कृच्छ्रतरं वासं वसेयमहमङ्गने |
क्लिश्यन्त्यां त्वयि सुश्रोणि कोनु दुःखं न चिन्तयेत्. ||३३ ||
४-२८-३३ (२९५३२)
न तु केनचिदन्यन्तं कस्यचिद्धृदयं क्वचित् |
वेदितुं शक्यते नूनं तेन मां नावबुध्यसे ||३४ ||४-२८-३४ (२९५३३)
वैशम्पायन उवाच. ४-२८-३५क्ष् (३११७)
ततः सहैव कन्याभिर्द्रौपदी राजवेश्म तत् |
प्रविवेश सुदेष्णायाः समीपमनसूयिनी ||३५ ||४-२८-३५ (२९५३४)
तामब्रवीद्राजपत्नी विराटवचनादिदम् |
सैरन्ध्रि गम्यतां शीघ्रं यत्र कामयसे गतिम् |
राजा बिभेति सैरन्ध्रि गन्धर्वेभ्यः पराभवात् ||३६ ||४-२८-३६ (२९५३५)
त्वं चापि तरुणी सुभ्रू रूपेणाप्रतिमा भुवि |
चित्तानि च नृणां भद्रे रक्तानि स्पर्शजे सुखे ||३७ ||४-२८-३७ (२९५३६)
तस्मात्त्वत्तो भयं मह्यं राष्ट्रस्य नगरस्य च |
गच्छाद्यैव यथेष्टं त्वं नगराद्यत्र रंस्यसे ||३८ ||४-२८-३८ (२९५३७)
त्वन्निमित्तं शुभे मह्यं सर्वो बन्धुजनो हतः |
नृशंसा खलु ते बुद्धिर्भ्रातॄणां मे कृतो वधः ||३९ ||४-२८-३९
(२९५३८)
तस्माद्गन्धर्वराजेभ्यो भयमद्य प्रवर्तते |
यथेष्टं गच्छ सैरन्ध्रि स्वस्ति चेह यथा भवेत् ||४० ||४-२८-४०
(२९५३९)
वैशम्पायन उवाच. ४-२८-४१क्ष् (३११८)
सुदेष्णाया वचः श्रुत्वा सैरन्ध्री चेदमब्रवीत् |
त्रयोदशाहमात्रं तु राजा क्षाम्यतु भामिनि ||४१ ||४-२८-४१ (२९५४०)
कृतकृत्या अविष्यन्ति गन्धर्वास्ते न संशयः |
ततो मामुपनेष्यन्ति करिष्यन्ति च ते प्रियम् ||४२ ||४-२८-४२ (२९५४१)
ध्रुवं च श्रेयसा राजा योक्ष्यते सह बान्धवैः |
राज्ञः कृतोपकाराश्च कृतज्ञाश्च सदा शुभे |
साधवश्च बलोत्सिक्ताः कृतप्रतिकृतेप्सवः ||४३ ||४-२८-४३ (२९५४२)
अर्थिनी मा ब्रवीत्येषा यद्वातद्वेति चिन्तय |
भरस्व तदहर्मात्रं तत्ते श्रेयो भविष्यति ||४४ ||४-२८-४४ (२९५४३)
वैशम्पायन उवाच. ४-२८-४५क्ष् (३११९)
तस्यास्तद्वचनं श्रुत्वा कैकेयी दुःखमोहिता |
उवाच द्रौपदीमार्ता भ्रातृव्यसनकर्शिता ||४५ ||४-२८-४५ (२९५४४)
वस भद्रे यथेष्टं त्वं त्वामहं शरणं गता |
त्रायस्व मम भर्तारं पुत्रांश्चैव विशेषतः ||४६ ||४-२८-४६ (२९५४५)
इत्युक्तवा राजशार्दूल राज्ञे सर्वं न्यवेदयत् |
त्रिंशद्रात्रिमिमां भीरुः कृतकृत्या निवासये ||४७ ||४-२८-४७ (२९५४६)
इति श्रीमन्महाभारते विराटपर्वणि कीचकवधपर्वणि
अष्टाविंशोऽध्यायः ||२८ ||
Mahabharata -Virata Parva -Chapter Footnotes
४-२८-१ गन्धर्वैर्निहता राजन्निति खो थो धो पाठो ||
१ ||
४-२८-५ तथा नीतिर्विधीयतामिति धो पाठः ||
५ ||
विराटपर्व -अध्याय ०२९
||श्रीः ||
४. २९. अध्यायः २९
Mahabharata -Virata Parva -Chapter Topics
पाण्डवान्वेषणाय क्रमेण विराटपुरमागतैश्चारैर्हास्तिनपुरमेत्य
दुर्योधनंप्रति स्वेषां पाण्डवानवगतिनिवेदनपूर्वकं
कीचकवधनिवेदनम् ||१ ||
Mahabharata -Virata Parva -Chapter Text
४-२९-० (२९५४७)
वैशम्पायन उवाच. ४-२९-०क्ष् (३१२०)
कीचके तु हते राजा विराटः परवीरहा |
शोकमाहारयत्तीव्रं सामात्यः सपुरोहितः ||१ ||४-२९-१ (२९५४८)
कीचकस्य वधं घोरं सानुजस्य विशांपते |
अत्याहितं चिन्तयित्वा व्यस्मयन्त पृथग्जनाः ||२ ||४-२९-२ (२९५४९)
तस्मिन्पुरे जनपदे जजल्पुश्चापि सर्वशः |
वीर्यवान्दयितो राज्ञो दर्पोत्सिक्तश्च कीचकः ||३ ||४-२९-३ (२९५५०)
सांपराये परिक्रुष्टो बलवान्दुर्जयो रणे |
आसीत्प्रहर्ता शत्रूणां दारदर्शी च दुर्मतिः |
स हतः किल गन्धर्वैः सैरन्ध्रीकारणान्निशि ||४ ||४-२९-४ (२९५५१)
इत्यजल्पन्महाराज कीचकस्य विनाशनम् |
देशेदेशे मनुष्याश्च विस्मितः कीचके हते ||५ ||४-२९-५ (२९५५२)
अथ वैः धार्तराष्ट्रेण प्रयुक्ता ये बहिश्चराः |
मृगयित्वा बहून्देशान्ग्रामांश्च नगराणि च ||६ ||४-२९-६ (२९५५३)
संविधाय यथाऽऽदिष्टं यथादेशं प्रदर्शकाः |
कृतसंकेतनाः सर्वे न्यवर्तन्त पुरं ततः ||७ ||४-२९-७ (२९५५४)
आगम्य हास्तिनपुरं धार्तराष्ट्रमरिन्दमम् |
तत्र दृष्ट्वा तु राजानं कौरव्यं धृतराष्ट्रजम् ||८ ||४-२९-८ (२९५५५)
द्रोणकर्णकृपैः सार्धं भीष्मेण च महात्मना |
संगतं भ्रातृभिः सार्धं त्रिगर्तैश्च महारथैः ||९ ||४-२९-९
(२९५५६)
प्रणम्य शिरसा भूमौ वर्धयित्वा जयाशिषा |
आसीनं सूर्यसंकाशे काञ्चने परमासने ||१० ||४-२९-१० (२९५५७)
उपास्यमानं सचिवैर्मरुद्भिरिव वासवम् |
विद्वद्भिर्गायकैः सार्धं कविभिः स्तुतिपाठकैः ||११ ||४-२९-११ (२९५५८)
अनेकैरपि राजन्यैः सेवितं सपरिच्छदैः |
दुर्योधनं सभामध्ये आसीनमिदमब्रुवन् ||१२ ||४-२९-१२ (२९५५९)
कृतोऽस्माभिः परो यत्नस्तेषामन्वेषणे सदा |
पाण्डवानां मनुष्येन्द्र तस्मिन्महति कानने ||१३ ||४-२९-१३ (२९५६०)
निर्जने व्यालसंकीर्णे नानाभ्रमरसंकुले |
लताप्रतानगहने नानागुल्मसमावृते ||१४ ||४-२९-१४ (२९५६१)
न च विद्मो गता येन पार्थाः सुदृढविक्रमाः |
मार्गमाणाः पदन्यासमाश्रमेषु वनेषु च ||१५ ||४-२९-१५ (२९५६२)
गिरिकूटेषु तुङ्गेषु नानाजनपदेषु च |
जनाकीर्णेषु देशेषु चत्वरेषु पुरेषु च ||१६ ||४-२९-१६ (२९५६३)
नरेन्द्र सहसा नष्टान्नैव विद्म च पाण्डवान् |
अत्यन्तादर्शनान्नष्टा भद्रं तुभ्यं नरर्षभ ||१७ ||४-२९-१७ (२९५६४)
गिरीणां कूटकुञ्जेषु कन्दरोदरसानुषु |
नदीप्रस्रवणेष्वेव ह्रदेषु च सरस्सु च ||१८ ||४-२९-१८ (२९५६५)
गह्वरेषु च दुर्गेषु ग्रामेषू पवनेषु च |
दुर्विज्ञेया गतिस्तेषां मृग्यतेऽस्माभिरेव च ||
गजव्याघ्रसमीपेषु सिंहान्ते शरभान्तरे ||१९ ||४-२९-१९ (२९५६६)
वत्मन्यन्विच्छमानास्तु रथानां रथिसत्तम |
कंचित्कालं मनुष्येन्द्र सूताननुगता वयम् ||२० ||४-२९-२० (२९५६७)
मृगयित्वा यथान्यायं विदितार्थाश्च तत्वतः |
प्राप्ता द्वारवतीं सूता विना पार्थैः परंतप ||२१ ||४-२९-२१ (२९५६८)
न तत्र कृष्णा राजेन्द्र पाण्डवाश्च महाव्रताः |
नरदेव यथोद्दिष्टं न च विद्मात्र पाण्डवान् ||२२ ||४-२९-२२ (२९५६९)
निर्वृतो भव नष्टास्ते स्वस्थो भव परंतप |
सर्वथैव प्रनष्टास्ते नमस्ते भरतर्षभ ||२३ ||४-२९-२३ (२९५७०)
सर्वा च पृथिवी कृत्स्ना सशैलवनकानना |
सराष्ट्रनगरग्रामा पत्तनैश्च समन्विता |
अन्वेषिता च सर्वत्र न च पश्यामा पाण्डवान् ||२४ ||४-२९-२४ (२९५७१)
पुनः शाधि मनुष्येन्द्र अत ऊर्ध्वं विशांपते |
अन्वेषणे पाण्डवानां भूयः किं करवामहे ||२५ ||४-२९-२५ (२९५७२)
इमां च नः प्रियां वीर वाचं भद्रवतीं शृणु ||२६ ||४-२९-२६ (२९५७३)
येन त्रिगर्ता निहता बलेन बहुशो नृप |
सूतेन राज्ञो मत्स्यस्य कीचकेन बलीयसा |
स हतः पतितः शेते गन्धर्वैर्निशि भारत ||२७ ||४-२९-२७ (२९५७४)
स्यालो राज्ञो विराटस्य सेनापतिरुदारधीः |
सुदेष्णायानुजः क्रूरः शूरो वीरो गतव्यथः ||२८ ||४-२९-२८ (२९५७५)
उत्साहवान्महावीर्यो नीतिमान्बलवानपि |
युद्धज्ञो रिपुवीर्यघ्नःक सिंहतुल्यपराक्रमः ||२९ ||४-२९-२९ (२९५७६)
प्रजारक्षणदक्षश्च शत्रुग्रहणशक्तिमान् |
विजितारिर्महायुद्धे प्रचण्डो मानतत्परः ||३० ||४-२९-३० (२९५७७)
नरनारीमनोह्लादी धीरो वाग्मी रणप्रियः |
पुण्यकर्माऽर्थकामानां भाजनं मनुजोत्तमः ||३१ ||४-२९-३१ (२९५७८)
स हतो निशि गन्धैर्वः स्त्रीनिमित्तं नराधिप |
अमृष्यमाणो दुष्टात्मा निशीथे सह सोदरैः |
सुहृदश्चास्य निहता योधाश्च प्रहरैर्हताः ||३२ ||४-२९-३२ (२९५७९)
गन्धर्वाणां च महिषी काचिदस्ति नितम्बिनी |
सैरन्ध्री नाम तां दृप्तो दुष्टात्माऽकामयद्बली ||३३ ||४-२९-३३ (२९५८०)
इत्येवं श्रुतमस्माभिर्गन्धर्वैर्निहतो निशि ||३४ ||४-२९-३४ (२९५८१)
बान्धवैर्बहुभिः सार्धं कीचको निहतो यतः |
अद्यप्रभृति राजेन्द्र पाण्डवान्वेषणं प्रति |
चारांश्च सर्वतश्चर्तुं प्रेषयेति मतिर्हि नः ||३५ ||४-२९-३५ (२९५८२)
निहतो निशि गन्धर्वैर्दुष्टात्मा भ्रातृभिः सह |
एतावच्छ्रुतमस्माभिर्भद्रं तेऽस्तु नराधिप ||३६ ||४-२९-३६ (२९५८३)
प्रियमेतदुपश्रुत्य शत्रूणां च पराभवम् |
कृतकृत्यश्च कौरव्य विधत्स्व यदनन्तरम् ||३७ ||||४-२९-३७ (२९५८४)
इति श्रीमन्महाभारते विराटपर्वणि ग्रोग्रहणपर्वणि
एकोऽनत्रिंशोऽध्यायः ||२९ ||
विराटपर्व -अध्याय ०३०
||श्रीः ||
४. ३०. अध्यायः ३०
Mahabharata -Virata Parva -Chapter Topics
दुर्योधनादिभिः पाण्डवान्वेषणाय समालोचनम् ||१ ||
Mahabharata -Virata Parva -Chapter Text
४-३०-० (२९५८५)
वैशम्पायन उवाच. ४-३०-०क्ष् (३१२१)
ततो दुर्योधनो राजा श्रुत्वा तेषां वचस्तदा |
चिरमन्तर्मना भूत्वा इदमाह सभासदः ||१ ||४-३०-१ (२९५८६)
अशक्यं खलु कार्यस्य गतिं ज्ञातुं हि तत्वतः |
तस्मात्सर्वे परीक्षध्वं क्वनु स्युः पाण्डवा गताः ||२ ||४-३०-२ (२९५८७)
अल्पावशिष्टः कालस्तु गतो भूयिष्ठ एव च |
तेषामज्ञातचर्यायामस्मिन्वर्षे त्रयोदशे ||३ ||४-३०-३ (२९५८८)
अपि वर्षस्य शेषं ते ह्यतीयुरिह पाण्डवाः |
निवृत्तसमयास्ते हि सत्यव्रतपरायणाः ||४ ||४-३०-४ (२९५८९)
क्षरन्त इव नागेन्द्राः सर्वे ह्याशीविषोपमाः |
दुःखाद्भवेयुः संरब्धाः कौरवान्प्रति ते ध्रुवम् ||५ ||४-३०-५ (२९५९०)
विज्ञातव्या मनुष्येन्द्रास्तर्कया सुप्रणीतया |
निपुणैश्चारपुरुषैः प्राज्ञैर्दक्षैः सुसंवृतैः ||६ ||४-३०-६ (२९५९१)
अज्ञातसमये ज्ञाताः कृच्छ्ररूपसमाश्रिताः |
प्रविशेयुर्जितक्रोधास्तावदेव पुनर्वनम् ||७ ||४-३०-७ (२९५९२)
तस्मात्क्षिप्रं विचिन्वध्वं यथा चात्यन्तमव्ययम् |
राज्यं निर्द्वन्द्वमव्यग्रं निःसपत्नं चिरं भवेत् ||८ ||४-३०-८ (२९५९३)
दुर्योधनेनैवमुक्ते वचनेऽतीव दुःखिना |
ततः कर्णोऽब्रवीद्वाक्यं सत्यधर्मार्थसंयुतम् ||९ ||४-३०-९ (२९५९४)
एते पुनर्न गच्छन्तु अन्ये गच्छन्तु भारत |
शीघ्रवृत्ता नरा योग्या निपुणाश्छन्नचारिणः ||१० ||४-३०-१० (२९५९५)
चरन्तु देशान्विविधान्स्फीताञ्जनपदाकुलान् |
तत्र गोष्ठीषु रम्यासु सिद्धा ब्राह्मणरूपिणः ||११ ||४-३०-११ (२९५९६)
परिवाहेषु तीर्थेषु विविधेष्वाकरेषु च |
अन्वेष्टव्या मनुष्येन्द्र पाण्डवाश्छन्नचारिणः ||१२ ||४-३०-१२ (२९५९७)
नदीकुञ्जेषु तीर्थेषु ग्रामेषु नगरेषु च |
आश्रमेषु च रम्येषु पर्वतेषु गुहासु च ||१३ ||४-३०-१३ (२९५९८)
विज्ञातव्या मनुष्येन्द्र तर्कया सुविनूतया |
विविधैस्तत्परैः सम्यङ्विपुणैस्तज्ज्ञसंमतैः ||१४ ||४-३०-१४ (२९५९९)
अथाग्रजानन्तरजो भ्रातुः प्रियहिते रतः |
ज्येष्ठं दुःशासनस्तत्र भ्राता भ्रातरमब्रवीत् ||१५ ||४-३०-१५ (२९६००)
येषु नः प्रत्ययो राजंश्चारेषु मनुजाधिप |
ते यान्तु दत्तदेया वै भूयस्तान्परिमार्गितुम् ||१६ ||४-३०-१६ (२९६०१)
यदाह कर्णो राजेन्द्र सर्वमेतदवेक्ष्यताम् |
यथोद्दिष्टं चराः सर्वे मृगयन्तु यतस्ततः ||१७ ||४-३०-१७ (२९६०२)
घ्राणैः पश्यन्ति पशवो वेदैरेव द्विजोत्तमाः |
चारैः पश्यन्ति राजानश्चक्षुर्भ्यामितरे जनाः ||१८ ||४-३०-१८ (२९६०३)
यथोक्ताश्चारपुरुषा मृगयन्तु पुनःपुनः |
एते चान्ये च बहवो देशांश्च नगराणि च ||१९ ||४-३०-१९ (२९६०४)
न हि तेषां गतिर्वासः प्रवृत्तिर्वोपलभ्यते |
अत्यन्तं वा निगूढास्ते पारं वोर्मिमतो गताः ||२० ||४-३०-२० (२९६०५)
व्यालैर्वाऽपि महारण्ये भक्षिताः शूरमानिनः |
द्वीपं वा परमं प्राप्ता गिरिदुर्गवनेष्वपि ||२१ ||४-३०-२१ (२९६०६)
हीनदर्पा निराशास्ते भक्षिता वाऽपि राक्षसैः |
अथवा विषमं प्राप्य विनष्टाः शाश्वतीः समाः ||२२ ||४-३०-२२ (२९६०७)
तस्मान्मानसमव्यग्रं कृत्वाऽऽत्मानं नियम्य च |
कुरु कार्यं महोत्साहं मन्यसे यन्नराधिप ||२३ ||||४-३०-२३ (२९६०८)
इति श्रीमन्महाभारते विराटपर्वणि गोग्रहणपर्वणि त्रिंशोऽध्यायः ||३० ||
विराटपर्व -अध्याय ०३१
||श्रीः ||
४. ३१. अध्यायः ३१
Mahabharata -Virata Parva -Chapter Topics
द्रोणेन दुर्योधनंप्रति पाण्डवानां धार्मिकत्वादिगुणशालितया
विनाशाभावनिर्धारणेन तदन्वेषणविधानम् ||१ ||
भीष्मेण पाण्डवावासदेशस्य लक्षणाभिधानपूर्वकं तेषां
दुर्ज्ञेयत्वस्यापि कथनेन तैः सह सन्धिविधानम् ||२ ||
Mahabharata -Virata Parva -Chapter Text
४-३१-० (२९६०९)
वैशम्पायन उवाच. ४-३१-०क्ष् (३१२२)
अथाऽब्रवीत्सभामध्ये द्रोणः सूक्ष्मार्थदर्शिवान् |
न तादृशा विनश्यन्ति नापि यान्ति पराभवम् ||१ ||४-३१-१ (२९६१०)
शूराश्च कृतविद्याश्च बुद्धिमन्तो जितेन्द्रियाः |
धर्मज्ञाः सत्यसन्धाश्च युधिष्ठिरमनुव्रताः ||२ ||४-३१-२ (२९६११)
नीतिधर्मार्थतत्वज्ञं पितृवच्च समाहितम् |
धर्मे स्थितं सत्यधृतिं ज्येष्ठं श्रेष्ठापचायिनम् ||३
||४-३१-३ (२९६१२)
अनुव्रता महात्मानो भ्रातरो भ्रातरं प्रियम् |
अजातशत्रुं श्रीमन्तं सर्वभ्रातॄननुव्रतम् ||४ ||४-३१-४ (२९६१३)
तेषां तथाविधेयानां निभृतानां महात्मनाम् |
किमर्थं नीतिमान्प्राज्ञः श्रेयो नैषां करिष्यति ||५ ||४-३१-५ (२९६१४)
तस्माद्यत्नात्परीक्षध्वं न तावत्समयो गतः |
न ते विनाशमृच्छेयुरिति मे नैष्ठिकी मतिः ||६ ||४-३१-६ (२९६१५)
चिन्त्यतां चैव यत्कार्यं तच्च क्षिप्रमकालिकम् |
क्रियतां साधु संचिन्त्य वासश्चैषां प्रचिन्त्यतां ||७ ||४-३१-७ (२९६१६)
यथा च पाण्डुपुत्राणां सर्वार्थेषु धृतात्मनाम् |
प्रवृत्तिरुपलभ्येत तथा नीतिर्विधीयताम् ||८ ||४-३१-८ (२९६१७)
सर्वोपायैर्यतस्व त्वं यथा पश्यसि पाण्डवान् |
दुर्ज्ञेयाः खलु शूरास्ते रक्ष्या नित्यं च दैवतैः ||९ ||४-३१-९ (२९६१८)
शुद्धात्मा मानवान्पार्थः सत्यवान्नीतिमाञ्शुचिः |
तेजोराशिभिरापूर्णो दहेदपि च चक्षुषा ||१० ||४-३१-१० (२९६१९)
तस्माद्यत्नश्च क्रियतां भूयश्च मृगयामहे |
ब्राह्मणैश्चारकैः सिद्धैस्तापसैर्निपुणैरपि ||११ ||४-३१-११ (२९६२०)
विविधैस्तत्परैः सम्यङ्विर्भीकैस्तज्ज्ञसंमतैः |
अन्वेष्टव्या मनुष्येन्द्र पाण्डवाश्छन्नचारिणः ||१२ ||४-३१-१२ (२९६२१)
ततः शान्तनवो धीमान्भारतानां पितामहः |
श्रुतवान्देशकालज्ञो नीतिमांश्च महामतिः ||१३ ||४-३१-१३ (२९६२२)
तस्मिन्नुपरते वाक्ये आचार्यस्य महात्मनः |
अनन्तरमुवाचेदं वाक्यं हेत्वर्थसंमितम् ||१४ ||४-३१-१४ (२९६२३)
युधिष्ठिरे समायुक्तां धर्मज्ञे धर्मसंहिताम् |
पाण्डवे नित्यमव्यग्रां गिरं भीष्मः समाददे ||१५ ||४-३१-१५ (२९६२४)
असत्सु दुर्लभां नित्यं सतां चाभिमतां सद |
भीष्मस्त्वभ्यवदत्तत्र गिरं साधुभिरर्चिताम् ||१६ ||४-३१-१६ (२९६२५)
यथा नो ब्राह्मणोऽवादीदाचार्यः सर्वधर्मवित् |
श्रुतवृत्तोपसंपन्ना नाशं नायान्ति पाण्डवाः ||१७ ||४-३१-१७ (२९६२६)
सर्वलक्षणसंपन्नाः साधुवृत्तसमन्विताः |
वृद्धानुशासने यत्ताः सत्यधर्मपरायणाः ||१८ ||४-३१-१८ (२९६२७)
समयं समयज्ञास्ते पालयन्तः शुभव्रताः |
न विषीदन्ति ते पार्था उद्वहन्तः सतां धुरम् ||१९ ||४-३१-१९ (२९६२८)
तपसा चैव गुप्तास्ते स्ववीर्येण च पाण्डवाः |
न नाशमभिगच्छेयुरिति मे नैष्ठिकी मतिः ||२० ||४-३१-२० (२९६२९)
क्षत्रधर्मरता नित्यं केशवानुगताः सदा |
प्रवीरपुरुषास्ते वै महात्मानो महाबलाः ||२१ ||४-३१-२१ (२९६३०)
तत्र बुद्धिं प्रवक्ष्यामि पाण्डवान्वेषणे शृणु |
न तु नीतिः सुनीतस्य शक्यते वेदितुं परैः ||२२ ||४-३१-२२ (२९६३१)
यत्तु शक्यमिहास्माभिस्तान्वै संचिन्त्य पाण्डवान् |
बुद्ध्या प्रणेतुं तत्तेऽहं प्रवक्ष्यामि निबोध तत् ||२३ ||४-३१-२३ (२९६३२)
न त्वियं साधु वक्तव्या तस्य नीतिः कथंचन |
वृद्धानुशासने तात तिष्ठतः सत्यशीलिनः ||२४ ||४-३१-२४ (२९६३३)
अयुक्तं तु मया वक्तुं तुल्या मे कुरुपाण्डवाः |
निवासं पाण्डुपुत्राणां संचिन्त्य च वदाम्यहम् |
बहुना किं प्रलापेन यतो धर्मस्ततो जयः ||२५ ||४-३१-२५ (२९६३४)
अवश्यं तु नियुक्तेन सभामध्ये विवक्षता |
यथार्हमिह वक्तव्यं सर्वथा धर्मलिप्सया ||२६ ||४-३१-२६ (२९६३५)
यत्र नाहं तथा मन्ये यथाऽन्ये मेनिरे जनाः |
निवासं पाण्डुपुत्राणां शृणुष्वं मनुजाधिप ||२७ ||४-३१-२७ (२९६३६)
[भ्रातृभिः सहितो वीरैः कृष्णया च महायशाः |
किमर्थं स महाराजो नात्मश्रेयो भविष्यति ||२८ ||४-३१-२८ (२९६३७)
पाण्डवो निकृतः पूर्वं यथावद्विदितं तव |
क्लेशितश्च पुरे नित्यं राज्यकामैश्च सांप्रतम् |
छन्नश्चरति तस्मात्स प्रकृत्या नीतिमान्नृपः ||२९ ||४-३१-२९ (२९६३८)
वर्षमेकं सुसंच्छन्नमुष्य वासमनुत्तमम् |
आयाति चोदये काले क्षिप्रं दक्ष्यसि पाण्डवं ||३० ||४-३१-३० (२९६३९)
सोदरैः सहितं वीरं द्रौपद्या च परंतप |
संविधत्स्व महाबाहो यथा नः स्यात्सुखोदयः ||३१ ||४-३१-३१ (२९६४०)
यस्मिन्स राजा वसति च्छन्नः सत्त्वभृतांवरः |
भविष्यन्ति नरास्तत्र रागमोहविवर्जिताः ||३२ ||४-३१-३२ (२९६४१)
नाधयो हि महाराज न व्याधिः क्षत्रियर्षभ] |
पुरे जनपदे वाऽपि यत्र राजा युधिष्ठिरः ||३३ ||४-३१-३३ (२९६४२)
दानशीलो वदान्यश्च निभृतो ह्रीनिषेवकः |
प्रियवाक्सत्यवाक्षूरो धर्मशीलो जितेन्द्रियः |
हृष्टः पुष्टः शुचिर्दक्षो यत्र राजा युधिष्ठिरः ||३४ ||
४-३१-३४ (२९६४३)
नासूयको न चापीर्ष्युर्नाभिमानी न मत्सरी |
भविष्यति जनस्तत्र स्वयं धर्ममनुव्रतः ||३५ ||४-३१-३५ (२९६४४)
ब्रह्मघोषाश्च भूयांसः पुण्यशब्दास्तथैव च |
क्रतवश्च भविष्यन्ति भूयांसो भूरिदक्षिणाः ||३६ ||४-३१-३६ (२९६४५)
सदा च तत्र पर्जन्यः सम्यग्वर्षी न संशयः |
संपन्नसस्या च मही भविष्यति निरामया ||३७ ||४-३१-३७ (२९६४६)
रसवन्ति च धान्यानि गुणवन्ति फलानि च |
गन्धवन्ति च माल्यानि शुभशब्दा च भारती ||३८ ||४-३१-३८ (२९६४७)
वायुश्च सुखसंस्पर्शो यत्र राजा युधिष्ठिरः |
नीरोगास्तत्र विद्यन्ते वधबन्धा न सन्ति च ||३९ ||४-३१-३९ (२९६४८)
न चोरा न च दण्डाश्च न च बाधा भवन्त्युत |
नाशक्ता न च दुष्टाश्च यत्र राजा युधिष्ठिरः ||४० ||४-३१-४० (२९६४९)
भयं च नाविशेत्तत्र निष्प्रतीपं च दर्शनम् |
बहुक्षीरास्तथा गावः सुपुष्टाश्च सुदोहनाः ||४१ ||४-३१-४१ (२९६५०)
पयांसि दधिसर्पीषि रसवन्ति हितानि च |
सलिलानि प्रसन्नानि सर्वे भावाश्च शोभनाः ||४२ ||४-३१-४२ (२९६५१)
गुणवन्ति च पानानि भोज्यानि विविधानि च |
तत्र देशे भविष्यन्ति यत्र राजा युधिष्ठिरः ||४३ ||४-३१-४३ (२९६५२)
रसाः स्पर्शाश्च गन्धाश्च शब्दाश्चापि गुणान्विताः |
दृश्यानि च प्रसन्नानि यत्र राजा युधिष्ठिरः ||४४ ||४-३१-४४ (२९६५३)
धर्माश्च तत्र सर्वैस्तु सेविताश्च द्विजातिभिः |
स्वैःस्वैर्गुणैश्च संयुक्ता कस्मिन्वर्षे त्रयोदशे |
देशे तस्मिन्भविष्यन्ति तत पाण्डवसंश्रिते ||४५ ||४-३१-४५ (२९६५४)
संप्रीतिमाञ्जनस्तत्र संतुष्टः शुचिरव्ययः |
देवतातिथिभूयांस्तु सर्वभूतानुरागवान् ||४६ ||४-३१-४६ (२९६५५)
इष्टदानमहोत्साहा नित्यं धर्मपरायणाः |
व्यक्तवाक्यास्ततस्तात शुभकल्याणमङ्गलाः ||४७ ||४-३१-४७ (२९६५६)
शुभत्विषः शुभेच्छाश्च नित्यतुष्टाः श्रियाऽन्विताः |
भविष्यन्ति जनास्तत्र यत्र राजा युधिष्ठिरः ||४८ ||४-३१-४८ (२९६५७)
नित्योत्सवप्रमुदितो नित्यहृष्टः श्रिया वृतः |
भविष्यति निवासोऽयं यत्र राजा युधिष्ठिरः ||४९ ||४-३१-४९ (२९६५८)
धर्मज्ञः स तु दुर्ज्ञेयः सर्वज्ञैश्च द्विजातिभिः |
किंपुनः प्राकृतैस्तात पार्थो विज्ञायते क्वचित् ||५० ||४-३१-५० (२९६५९)
यस्मिन्सत्यं धृतिर्दानं परा शान्तिर्ध्रुवा क्षमा |
ह्रीः श्रीः कीर्तिः परं तेज आनृशंस्यमथार्जवम् ||५१ ||४-३१-५१ (२९६६०)
तस्मान्निवासः पार्थानां चिन्त्यतां यद्ब्रवीमि वः |
गतिर्वा परमा तत्र नोत्सहे वक्तुमन्यथा ||५२ ||४-३१-५२ (२९६६१)
एवमेतत्तु संचिन्त्य यत्कृत्यं साधु मन्यसे |
तत्क्षिप्रं कुरु कौरव्य यद्येतच्छ्रद्दधासि मे |
कुलस्य हि क्षमं तात यदहं प्रब्रवीमि ते ||५३ ||||४-३१-५३ (२९६६२)
इति श्रीमन्महाभारते विराटपर्वणि गोग्रहणपर्वणि एकत्रिंशोऽध्यायः
||३१ ||
विराटपर्व -अध्याय ०३२
||श्रीः ||
४. ३२. अध्यायः ३२
Mahabharata -Virata Parva -Chapter Topics
दुर्योधनेन कीचकवधस्य भीमसेनकृतत्वसंभावनया पाण्डवानां
तत्र स्थितिसंभावना ||१ ||
तथा भीष्माद्यनुमत्या सुशर्मणो विराटनगरंप्रति प्रेषणम् ||२ ||
सुशर्मणा विराटनगरमेत्य दक्षिणभागे गोग्रहम् ||३ ||
Mahabharata -Virata Parva -Chapter Text
४-३२-० (२९६६३)
वैशम्पायन उवाच. ४-३२-०क्ष् (३१२३)
ततः शारद्वतो वाक्यमित्युवाच कृतस्तदा |
युक्तं प्राप्तं च वृद्धेन पाण्डवान्प्रति भापितम् ||१ ||४-३२-१ (२९६६४)
धर्मार्थसहितं श्लक्ष्णं सर्वं सत्यं सहेतुकम् |
तत्रानुरूपं भीष्मस्य ममापि वचनं शृणु ||२ ||४-३२-२ (२९६६५)
तेषां चैव गतिस्तत्र र्निवासश्चानुचिन्त्यताम् |
नीतिर्विधीयतां तत्र सांप्रतं या हिता भवेत् ||३ ||४-३२-३ (२९६६६)
नावज्ञेयो रिपुस्तात प्राकृतोऽपि बुभूषता |
किं पुनः पाण्डवाः शूरा विद्वांसो बलिनस्तथा ||४ ||४-३२-४ (२९६६७)
तस्मात्सत्रं प्रविष्टेषु पाण्डवेषु महात्मसु |
गूढभावेषु छन्नेषु काले चोदयमागते ||५ ||४-३२-५ (२९६६८)
स्वराष्ट्रे परराष्ट्रे च ज्ञातव्यं बलमात्मनः |
उदयः पाण्डवानां च प्राप्तकालो न संशयः ||६ ||४-३२-६ (२९६६९)
निवृत्तसमयाः पार्था महात्मानो महाबलाः |
महोत्साहा भविष्यन्ति पाण्डवा ह्यमितौजसः ||७ ||४-३२-७ (२९६७०)
तस्माद्बलं च कोशं च नातिश्चापि विधीयताम् |
यथा कालोदये प्राप्ते सम्यक् तैः संदधामहे ||८ ||४-३२-८ (२९६७१)
यत्र यन्मन्यसे श्रेयो बुध्यस्व बलमात्मनः |
नियतं सर्वमित्रेषु बलवत्स्वबलेषु च ||९ ||४-३२-९ (२९६७२)
सारं फल्गु बलं ज्ञात्वा मध्यस्थं चापि भारत |
स्वराष्ट्रपरराष्ट्रेषु ज्ञातव्यं बलमात्मनः ||१० ||४-३२-१० (२९६७३)
अप्रहृशष्टं प्राहृष्टं वा संदधाम तथा परैः |
साम्ना दानेन भेदेन दण्डेन बलिकर्मणा ||११ ||४-३२-११ (२९६७४)
न्यायेनाक्रम्य च परान्बलाच्चानम्य दुर्बलान् |
सान्त्वयित्वा च मित्राणि बलं चाभाष्यतां सुखम् ||१२ ||४-३२-१२ (२९६७५)
स्वकोशबलसंवृद्धः सम्यक्सिद्धिमवाप्स्यसि |
योत्स्यसे चापि बलिभिररिभिः प्रत्युपस्थितैः |
अन्यैस्त्वं पाण्डवैर्वाऽपि हीनैः स्वबलवाहनैः ||१३ ||४-३२-१३ (२९६७६)
एवं सर्वं विनिश्चित्य व्यवहर्तासि न्यायतः |
यथाकालं मनुष्येन्द्र चिरं सुखमवाप्स्यसि ||१४ ||४-३२-१४ (२९६७७)
भीष्माद्रोणकृपैरुक्ते कर्णदुःशासनादिभिः |
ततो दुर्योधनो वाक्यं श्रुत्वा तेषां महात्मनाम् |
मुहूर्तमनुसंचिन्त्य सचिवानिदमब्रवीत् ||१५ ||४-३२-१५ (२९६७८)
श्रुतमेतन्मया पूर्वं कथासु जनसंसदि |
धीराणां शास्त्रविदुषां प्राज्ञानां मतिनिश्चये |
कृतिनां सारफल्गुत्वे जानामि नयचक्षुषा ||१६ ||४-३२-१६ (२९६७९)
सत्वे बाहुबले धैर्ये प्राणे शारीरसंभवे |
सांप्रतं मानुषे लोके सदैत्यनरराक्षसे ||१७ ||४-३२-१७ (२९६८०)
चत्वारस्तु नरव्याघ्रा बले शक्रोपमा भुवि |
उत्तमाः प्राणिनां तेषां नास्ति कश्चिद्बले ममः ||१८ ||४-३२-१८ (२९६८१)
बलदेवश्च भीमश्च मद्रराजश्च वीर्यवान् |
चतुर्थः कीचकस्तेषां पञ्चमं नानुशुश्रुमः ||१९ ||४-३२-१९ (२९६८२)
अन्योन्यानन्तरबलाः परस्परजयैपिणः |
बाहूयुद्धमभीप्सन्तो नित्यं संरब्धमानसाः ||२० ||४-३२-२० (२९६८३)
तेनाहमवगच्छामि प्रत्ययेन वृकोदरम् |
मनस्यभिनिविष्टं मे व्यक्तं जीवन्ति पाण्डवाः ||२१ ||४-३२-२१ (२९६८४)
तत्राहं कीचकं मन्ये भीमसेनेन मारितम् |
सैरन्ध्रीं द्रौपदीं मन्ये नात्र कार्या विचारणा ||२२ ||४-३२-२२ (२९६८५)
शङ्के कृष्णानिमित्तं तु भीमसेनेन कीचकः |
गन्धर्वव्यपदेशेन हतो निशि महाबलः ||२३ ||४-३२-२३ (२९६८६)
को हि शक्तः परो भीमात्कीचकं हन्तुमोजसा |
शस्त्रं विना बाहुबलात्तथा सर्वाङ्गचूर्णने ||२४ ||४-३२-२४ (२९६८७)
मर्दितुं वा तथा तीव्रं चर्ममांसास्थिचूर्णनम् |
रूपमन्यत्समास्थाय भीमस्यैतद्विचेष्टितम् ||२५ ||४-३२-२५ (२९६८८)
ध्रुवं कृष्णानिमित्तं तु भीमसेनेन सूतजाः |
गन्धर्वव्यपदेशेन हता निशि न संशयः ||२६ ||४-३२-२६ (२९६८९)
पितामहेन ये चोक्ता देशस्य च जनस्य च |
गुणास्ते मत्स्यराष्ट्रेषु बहुशोऽपि मया श्रुताः ||२७ ||४-३२-२७ (२९६९०)
विराटनगरे मन्ये पाण्डवाश्छन्नचारिणः |
निवसन्ति पुरे रम्ये तत्र यात्रा विधीयताम् ||२८ ||४-३२-२८ (२९६९१)
मत्स्यराष्ट्रं गमिष्यामो ग्रहीष्यामश्च गोधनम् |
गृहीते गोधने नूनं तेऽपि योत्स्यन्ति पाण्डवाः ||२९ ||४-३२-२९ (२९६९२)
अपूर्णे समये चापि यदि पश्येम पाण्डवान् |
द्वादशान्यानि वर्षाणि प्रवेक्ष्यन्ति पुनर्वनम् ||३० ||४-३२-३० (२९६९३)
तस्मादन्यतरेणापि लाभोऽस्माकं भविष्यति |
कोशवृद्धिरिहास्माकं शत्रूणां निधनं भवेत् ||३१ ||४-३२-३१ (२९६९४)
कथं सुयोधनं गच्छेद्युधिष्ठिरभृतः पुरा |
एतच्चापि वदत्येष मात्स्यः परिभवान्मयि ||३२ ||४-३२-३२ (२९६९५)
तस्मात्कर्तव्यमेतद्वै तत्र यात्रा विधीयताम् |
एतत्सुनीतं मन्येऽहं सर्वेषां यदि रोचते ||३३ ||४-३२-३३ (२९६९६)
वैशम्पायन उवाच. ४-३२-३४क्ष् (३१२४)
ततो राजा त्रिगर्तानां सुशर्मा रथयूथपः |
पूर्वमाभाष्य कर्णेन तथा दुःशासनेन च |
प्राप्तकालमिदं वाक्यमुवाच त्वरितो बली ||३४ ||४-३२-३४ (२९६९७)
असकृन्निकृतः पूर्वं मात्स्यसाल्वेयकेकयैः |
सूतेनैव च मात्स्यस्य कीचकेन पुनः पुनः ||३५ ||४-३२-३५ (२९६९८)
बाधितो बन्धुभिः सार्धं बलाद्बलवता विभो |
स कर्णमभिवीक्ष्याथ दुर्योधनमभाषत ||३६ ||४-३२-३६ (२९६९९)
राष्ट्रं ममासकृद्राजन्राज्ञा मात्स्येन बाधितम् ||३७ ||४-३२-३७ (२९७००)
प्रणेता कीचकस्तस्य बलोत्सिक्तोऽभवन्पुरा |
अमर्षी दुर्जयो जेता प्रख्यातबलपौरुषः |
स हतस्तत्र गन्धर्वैः पापकर्मा नृशंसकृत् ||३८ ||४-३२-३८ (२९७०१)
तस्मिन्विनिहते राजन्हीनदर्पो निराश्रयः |
भविष्यति निरुत्साहो विराट इति मे मतिः ||३९ ||४-३२-३९ (२९७०२)
तत्र यात्रा मम मता यदि ते रोचतेऽनघ |
कौरवाणां च सर्वेषां कर्णस्य च महात्मनः ||४० ||४-३२-४० (२९७०३)
एतत्कार्यमहं मन्ये परमात्ययिकं महत् |
राष्ट्रं तस्याभियास्यामो धनधान्यसमाकुलम् ||४१ ||४-३२-४१ (२९७०४)
आददामोऽस्य रत्नानि विविधानि वसूनि च |
ग्रामान्राष्ट्राणि वा तस्य हरिष्यामो विभागशः ||४२ ||४-३२-४२ (२९७०५)
अथवा गोसहस्राणि बहूनि शुभदर्शन |
विविधानि हरिष्यामः प्रतीपीड्य पुरं बलात् ||४३ ||४-३२-४३ (२९७०६)
कौरवैः सह संगमय त्रिगर्तैश्च विशांपते |
गास्तस्यापहरिष्यामः सह सर्वैर्महारथैः ||४४ ||४-३२-४४ (२९७०७)
सन्धिं वा तेन कृत्वा तु निबध्नीमोऽस्य पौरुषम् |
हत्वा चास्य चमूं कृत्स्नां वशमेवानयामहे ||४५ ||४-३२-४५ (२९७०८)
तं वशे न्यायतः कृत्वा सुखं वत्स्यामहे वयम् |
भवतां बलवृद्धिश्च भविष्यति न संशयः ||४६ ||४-३२-४६ (२९७०९)
वैशम्पायन उवाच. ४-३२-४७क्ष् (३१२५)
तच्छ्रुत्वा वचनं तस्य कर्णो राजानमब्रवीत् ||४७ ||४-३२-४७ (२९७१०)
सूक्तं सुशर्मणा वाक्यं प्राप्तकालमिदं वचः |
तस्मात्क्षिप्रं विनिर्यामो योजयित्वा वरूथिनीं ||४८ ||४-३२-४८ (२९७११)
यदेतत्तेऽभिरुचितं मम चैतद्धि रोचते |
प्रविभज्य च सैन्यानि यथा वा मन्यते भवान् ||४९ | ४-३२-४९ (२९७१२)
प्रज्ञावान्कुलवृद्धश्च सर्वेषां नः पितामहः |
आचार्यश्च कृपो विद्वाञ्शकुनिश्चापि सौबलः ||५० ||४-३२-५० (२९७१३)
मन्यन्ते ते यथा सर्वे तथा यात्रा विधीयताम् |
संमन्त्र्य चाशु गच्छामः साधनार्थं महीपते ||५१ ||४-३२-५१ (२९७१४)
किंनु नः पाण्डवैः कार्यं हीनार्थबलपौरुषैः |
अत्यन्तं हि प्रनष्टास्ते प्राप्ता वाऽपि यमक्षयम् ||५२ ||४-३२-५२ (२९७१५)
तद्भवांश्चतुरङ्गेण बलेन महता वृतः |
विराटनगरं यातु सर्वसैन्येन भारत |
आदास्यामोऽथ गास्तस्य विविधानि वसूनि च ||५३ ||४-३२-५३ (२९७१६)
वैशम्पायन उवाच. ४-३२-५४क्ष् (३१२६)
ततो दुर्योधनो राजा वचः श्रुत्वा तु तस्य तत् |
वैकर्तनस्य कर्णस्य क्षिप्रमाज्ञापयत्स्वयम् |
शासने नित्ययुक्तं तु दुःशासनमनन्तरम् ||५४ ||४-३२-५४ (२९७१७)
दुर्योधन उवाच. ४-३२-५५क्ष् (३१२७)
सह वृद्धैस्तु संमन्त्र्य क्षिप्रं योजय वाहिनीम् |
यथोद्देशं तु गच्छामः सहिताः सर्वकौरवैः ||५५ ||४-३२-५५ (२९७१८)
सुशर्मा तु यथोद्दिष्टं देशं यातु महारथः |
त्रिगर्तैः सहितः सर्वैः प्रख्यातबलपौरुषैः |
प्रागेव हि सुसंयत्तो विराटनगरं प्रति ||५६ ||४-३२-५६ (२९७१९)
जघन्यतो वयं तत्र यास्यामो दिवसान्तरे |
विषयं मत्स्यराजस्य सुसमृद्धं सुसंहितम् ||५७ ||४-३२-५७ (२९७२०)
सुशर्मणा गृहीते तु मत्स्यराजस्य गोधने |
विराटः सैन्यमादाय त्रिगर्तैः सह योत्स्यति ||५८ ||४-३२-५८ (२९७२१)
अपरं दिवसं गास्तु तत्र गृह्णन्तु कौरवाः |
गवार्थे पाण्डवास्तत्र योत्स्यन्ति कुरुभिः सह ||५९ ||४-३२-५९ (२९७२२)
तथा गत्वा यथोद्देशं विराटनगरान्तिके |
क्षिप्रं गोष्ठं समासाद्य गृह्णन्तु विपुलं धनम् ||६० ||४-३२-६० (२९७२३)
गवां शतसहस्राणि श्रीमन्ति गुणवन्ति च |
वयमस्य निगृह्णीमो द्विधा कृत्वा च वाहिनीम् ||६१ ||४-३२-६१ (२९७२४)
वैशम्पायन उवाच. ४-३२-६२क्ष् (३१२८)
ते स्म गत्वा यथोद्दिष्टं देशं मत्स्यमहीपतेः |
संनद्धा रथिनः सर्वे सपताका बलोत्कटाः |
प्रतिवैरं चिकीर्षन्तो गोषु गृद्धा महाबलाः ||६२ ||४-३२-६२ (२९७२५)
आदत्त गाः सुशर्माऽथ कृष्णपक्षस्य चाष्टमीम् ||६३ ||४-३२-६३
(२९७२६)
अपरे दिवसे सर्वे राजन्संभूय कौरवाः |
नवम्यां ते न्यगृह्णन्त गोकुलानि सहस्रशः |
कौरवास्तु महावीर्या मत्स्यानां विषयान्तरे ||६४ ||||४-३२-६४ (२९७२७)
इति श्रीमन्महाभारते विराटपर्वणि गोग्रहणपर्वणि द्वात्रिंशोऽध्यायः
||३२ ||
Mahabharata -Virata Parva -Chapter Footnotes
४-३२-३१ तस्मादनन्तरेणापि लाभोऽस्माकमिति धो पाठः | तस्मात्
गोग्रहणात अनन्तरेण युद्धायागतपाण्डवदर्शनेन ||
३१ ||
४-३२-३२ युधिष्ठिरभृतः युधिष्ठिरो भृतो येन विराटेनेति
बहुव्रीहिः ||
३२ ||
४-३२-६३ कृष्णपक्षस्य सप्तमीमिति अष्टभ्यां तेऽन्यगृह्णन्तेति
चो थो पाठः ||
६३ ||
४-३२-६४ विषयान्तरे उत्तरभागे ||
६४ ||
विराटपर्व -अध्याय ०३३
||श्रीः ||
४. ३३. अध्यायः ३३
Mahabharata -Virata Parva -Chapter Topics
गोपैर्दुतॄतरमाद्रुत्य विराटंप्रति सुशर्मणा गोगहणनिवेदनम् ||१ ||
विराटादिभिर्युद्धाय निर्गमोद्यमः ||२ ||
युधिष्ठिरेण विराटंप्रति स्वेषां युद्धकौशलनिवेदनेन भ्रातृभिः
सह समराभियानम् ||३ ||
Mahabharata -Virata Parva -Chapter Text
४-३३-० (२९७२८)
वैशम्पायन उवाच. ४-३३-०क्ष् (३१२९)
ततस्तेषां महाराज तत्रैवामिततेजसाम् |
छद्मलिङ्गप्रविष्टानां पाण्डवानां महात्मनाम् ||१ ||४-३३-१ (२९७२९)
व्यतीतः समयः सम्यग्विराटनगरे सताम् |
कुर्वतां तस्य कर्माणि वीराटस्य महीपतेः ||२ ||४-३३-२ (२९७३०)
कीचके तु हते राजा विराटः परवीरहा |
परां संभावनां चक्रे कुन्तीपुत्रे युधिष्ठिरे ||३ ||४-३३-३ (२९७३१)
ततस्त्रयोदशस्वान्ते तस्य वर्षस्य भारत |
शुशर्मणा गृहीतं तु गोधनं तरसा बहु ||४ ||४-३३-४ (२९७३२)
ततः शब्दो महानासीद्रेणुश्च दिवमस्पृशत् |
शङ्खदुन्दुभिघोषश्च भेरीणां च महास्वनः |
गवाश्वरथनागानां निश्वनश्च पदातिनाम् ||५ ||४-३३-५ (२९७३३)
एवं तैस्त्वभिनिर्याय मत्स्यराजस्य गोधने |
त्रिगर्तैर्गृह्यमाणे तु गोपालाः प्रत्यषेधयन् ||६ ||४-३३-६ (२९७३४)
अथ त्रिगर्ता बहवः परिगृह्य धनं बहु |
परिक्षिप्य हयैः शीघ्रै रथव्रातैश्च भारत |
गोपालान्प्रत्ययुध्यन्त रणे कृत्वा जये धृतिम् ||७ ||४-३३-७ (२९७३५)
ते हन्यमाना बहुभिः प्रासतोमरपाणिभिः |
गोपाला गोकुले भक्ता वारयामासुरोजसा ||८ ||४-३३-८ (२९७३६)
परश्वथैश्च मुसलैर्भिण्डिपालैश्च मुद्गरैः |
गोपालाः कर्षणैश्चित्रैर्जघ्नुरश्वान्समन्ततः ||९ ||४-३३-९ (२९७३७)
ते हन्यमानाः संक्रुद्धास्त्रिगर्ता रथयोधिनः |
विसृज्य शरवर्षणि गोपानद्रावयन्बलात् ||१० ||४-३३-१० (२९७३८)
हन्यमानेषु गोपेषु विमुखेषु विशांपते |
ततो युवानः संभीताः श्वसन्तो रेणुगुण्ठिताः ||११ ||४-३३-११ (२९७३९)
जवेन महता चैव गोपालाः पुरमाव्रजन् |
विराटनगरं प्राप्य नरा राजानमब्रुवन् ||१२ ||४-३३-१२ (२९७४०)
सभायां राजशार्दूलमासीनं पाण्डवैः सह |
शूरैः परिवृतं योधैः कुण्डलाङ्गदधारिभिः ||१३ ||४-३३-१३ (२९७४१)
सद्भिश्च पण्डितैः सार्धं मन्त्रिभिश्चापि संवृतम् |
दृष्ट्वा शीघ्रं तु गोपाला विराटमिदमब्रवन् ||१४ ||४-३३-१४ (२९७४२)
अस्मान्युधि विनिर्जित्य परिभूय सबान्धवान् |
षष्टिं गवां सहस्राणि त्रिगर्ताः कालयन्ति |
ता निवर्तय राजेन्द्र मा नेशुः पशवस्तव ||१५ ||४-३३-१५ (२९७४३)
वैशम्पायन उवाच. ४-३३-१६क्ष् (३१३०)
श्रुत्वा तु वचनं तेषां गोपालानामरिंदमः |
स राजा महतीं सेनां मात्स्यानां समवाहयत् |
रथनागाश्वकलिलां पत्तिध्वजसमाकुलाम् ||१६ ||४-३३-१६ (२९७४४)
राजानो राजपुत्राश्च तनुत्राण्यथ भेजिरे |
भानुमन्ति विवातानि सूपसेव्यानि भागशः ||१७ ||४-३३-१७ (२९७४५)
पृथक्काञ्चनसन्नाहान्रथेष्वश्वानयोजयन् |
उत्कृष्य पाशान्मौर्वीणां शूराश्चापेष्वयोजयन् ||१८ ||४-३३-१८ (२९७४६)
दृढमायसगर्भं तु कवचं तप्तकाञ्चनम् |
विराटस्य प्रियो भ्राता शतानीकोऽभ्यहारयत् ||१९ ||४-३३-१९ (२९७४७)
सर्वभारसहं वर्म कल्याणपटलं दृढम् |
शतानीकादवरजो मदिराक्षोऽभ्यहारयत् ||२० ||४-३३-२० (२९७४८)
उत्सेधे यस्य पद्मानि शतं सौगन्धिकानि च |
मृष्टहाटकपर्यन्तं सूर्यदत्तोऽभ्यहारयत् ||२१ ||४-३३-२१ (२९७४९)
दृढमायसगर्भं च श्वेतं रुक्मपरिष्कृतम् |
विराटस्य सुतो ज्येष्ठो वीरः शङ्खोऽभ्यहारयत् ||२२ ||४-३३-२२ (२९७५०)
शतसूर्यं शतावर्तं शतबिन्दु शताक्षिमत् |
अभेद्यकल्पं मत्स्यानां राजा कवचमाहरत् ||२३ ||४-३३-२३ (२९७५१)
ततो नानातनुत्राणि स्वानिस्वानि महाबलाः |
युयुत्सवोऽभ्यनह्यन्त देवकल्पाः प्रहारिणः ||२४ ||४-३३-२४ (२९७५२)
सोपस्करेषु शुभ्रेषु महत्सु च महारथाः |
पृथक्काञ्चनसन्नाहान्रथेष्वश्वानयोजयन् ||२५ ||४-३३-२५ (२९७५३)
सूर्यचन्द्रप्रतीकाशे मणिहेमविभूषिते |
महाप्रमाणं मत्स्यस्य ध्वजमुच्छ्रियते रथे ||२६ ||४-३३-२६ (२९७५४)
ध्वजान्बहुविधाकारान्सौवर्णान्हेममालिनः |
यथास्वं क्षत्रियाः शूरा रथेषु समयोजयन् ||२७ ||४-३३-२७ (२९७५५)
रथेषु युज्यमानेषु कङ्को राजानमब्रवीत् |
मया ह्यस्रं चतुर्वर्गमवाप्तमृषिसत्तमात् ||२८ ||४-३३-२८ (२९७५६)
दंशितो रथमास्थाय पदं निर्याम्यहं गवाम् |
अयं च बलवाञ्छरो वललो दृश्यतेऽनघ ||२९ ||४-३३-२९ (२९७५७)
गोसङ्ख्यमश्वबन्धं च संयोजय रथेषु वैः |
नैतेन जातु युध्द्येयुर्गवार्थमिति मे मतिः ||३० ||४-३३-३० (२९७५८)
वैशम्पायन उवाच. ४-३३-३१क्ष् (३१३१)
अथ मात्स्योऽब्रवीद्राजा शतानीकं जघन्यजम् |
कङ्कश्च वललः सूदो दामग्रन्थिश्च वीर्यवान् ||३१ ||४-३३-३१ (२९७५९)
तन्त्रिपालश्च गोसङ्ख्यो यथा ते पुरुषर्षभाः |
शूराः सुवीराः पुरुषा नागराजवरोपमाः |
युद्ध्येयुरिति मे बुद्धिर्वर्तते नात्र संशयः ||३२ ||४-३३-३२ (२९७६०)
एतेपामपि दीयन्तां रथा ध्वजपताकिनः |
कवचानि विचित्राणि दृढानि च लघूनि च ||३३ ||४-३३-३३ (२९७६१)
प्रतिमुञ्चन्तु गात्रेषु दीयन्तामायुधानि च |
नेमे जातु न युद्ध्य्रेयुरिति मे धीयते मतिः ||३४ ||४-३३-३४ (२९७६२)
वैशम्पायन उवाच. ४-३३-३५क्ष् (३१३२)
तच्छ्रुत्वा नृपतेर्वाक्यं शीघ्रं त्वरितमानसः |
शतानीकः स पार्थभ्यो रथान्राजन्समादिशत् ||३५ ||४-३३-३५ (२९७६३)
सहदेवाय राज्ञे च भीमाय नकुलाय च |
तान्दृष्ट्वा सहसा सूता राजभक्तिपुरस्कृताः ||३६ ||४-३३-३६ (२९७६४)
निर्दिष्टा नरदेवेन रथाञ्छीघ्रमयोजयन् |
कवचानि विचित्राणि नवानि च दृढानि च ||३७ ||४-३३-३७ (२९७६५)
विराटः प्रददौ यानि तेषामक्लिष्टकर्मणाम् |
तान्यामुच्य शरीरेषु दंशितास्ते महारथाः ||३८ ||४-३३-३८ (२९७६६)
तरस्विनश्छन्नरूपाः सर्वशस्त्रविशारदाः |
रथान्हेमपरिष्कारान्समास्थाय महारथाः |
पाण्डवा निर्ययुर्हृष्टा दंशिता राजसत्तम ||३९ ||४-३३-३९ (२९७६७)
विराटमन्वयुः पश्चात्सहिताः कुरुपुङ्गवाः |
चत्वारो भ्रातरः शूराः पाण्डवाः सत्यविक्रमाः ||४० ||४-३३-४० (२९७६८)
दीर्घानां च दृढानां च धनुषां ते यथाबलम् |
उत्कृष्य पाशान्मौर्वीणां वीराश्चापेष्वयोजयन् ||४१ ||४-३३-४१ (२९७६९)
ततः सुवाससः सर्वे वीराश्चन्दनरूषिताः |
चोदिता नरदेवेन क्षिप्रमश्वानचोदयन् ||४२ ||४-३३-४२ (२९७७०)
ते हया हेमसंच्छन्ना बृहन्तः साधुवाहिनः |
चोदिताः प्रत्यदृश्यन्त पत्रिणामिव पङ्क्तयः ||४३ ||४-३३-४३ (२९७७१)
भीमरूपाश्च मातङ्गाः प्रभिन्नकरटामुखाः |
स्वारूढा युद्धकुशलैर्महामात्राधिरोहिताः ||४४ ||४-३३-४४ (२९७७२)
क्षरन्त इव जीमूताः सुदन्ताः षाष्टिहायनाः |
राजानमन्वयुः पश्चात्क्रामन्त इव पर्वताः ||४५ ||४-३३-४५ (२९७७३)
दृढायुधजनाकीर्णं रथाश्वगजसंकुलम् |
तद्बलाग्रं विराटस्य शक्रस्येव तदा बभौ ||४६ ||४-३३-४६ (२९७७४)
तं प्रयान्तं महाराज निनीषन्तं गवां पदम् |
विशारदानां वैश्यानां प्रकृष्टानां तदा नृप ||४७ ||४-३३-४७ (२९७७५)
विंशतिस्तु सहस्राणि नराणामनुयायिनाम् |
अष्टौ रथसहस्राणि दश नागशतानि च |
विंशच्चाश्वसहस्राणि मात्स्यानां त्वरितं ययुः ||४८ ||४-३३-४८ (२९७७६)
तदनीकं विराटस्य शुशुभेऽतीव भारत |
वसन्ते बहुपुष्पाढ्यं काननं चित्रितं यथा ||४९ ||||४-३३-४९ (२९७७७)
इति श्रीमन्महाभारते विराटपर्वणि गोग्रहाणपर्वणि
त्रयस्त्रिंशोऽध्यायः ||३३ ||
विराटपर्व -अध्याय ०३४
||श्रीः ||
४. ३४. अध्यायः ३४
Mahabharata -Virata Parva -Chapter Topics
विराटसुशर्मसैन्ययौर्युद्धम् ||१ ||
युधिष्ठिरादिनिहतानां परिसह्ख्यानम् ||२ ||
विराटसुशर्मणोर्युद्धम् ||३ ||
Mahabharata -Virata Parva -Chapter Text
४-३४-० (२९७७८)
वैशम्पायन उवाच. ४-३४-०क्ष् (३१३३)
निर्याय नगराच्छूरा व्यूढानीकाः प्रहारिणः |
त्रिगर्तानस्पृशन्मात्स्याः मूर्येऽस्तंगमिते सति ||१ ||४-३४-१ (२९७७९)
ते त्रिगर्ताश्च मात्स्याश्च व्यूढानीकाः प्रहारिणः |
अन्योन्यमभिवर्तन्ते गोषु गृद्धा महाबलाः ||२ ||४-३४-२ (२९७८०)
भीमाश्च मत्तमातङ्गास्तोमराङ्कुशचोदिताः |
ग्रामणीयैः समारूढाः कुशलैर्हस्तिसादिभिः ||३ ||४-३४-३ (२९७८१)
तेषां समागमो घोरस्तुमुलो रोमहर्षणः |
घ्नतां परस्परं राजन्यमराष्ट्रविवर्धनः ||४ ||४-३४-४ (२९७८२)
देवासुरसमो राजन्नासीत्सूर्येऽबलम्बति |
पदातिरथनागेन्द्रहयारोहबलौघवान् ||५ ||४-३४-५ (२९७८३)
अन्योन्यमभ्यापततां निघ्नतां चेतरेतरम् |
उदतिष्ठद्रजो भौमं न प्राज्ञायत किंचन ||६ ||४-३४-६ (२९७८४)
पक्षिणश्चापतन्भूमौ सैन्येन रजसा वृताः |
इषुभिर्व्यतिसर्पद्भिरादित्योऽन्तरधीयत ||७ ||४-३४-७ (२९७८५)
खद्योतैरिव संयुक्तमन्तरिक्षमजायत ||८ ||४-३४-८ (२९७८६)
रुक्मपृष्ठानि चापानि विचेरुर्विद्युतो यथा |
नर्दतां लोकवीराणां सव्यं दक्षिणमस्यताम् ||९ ||४-३४-९ (२९७८७)
रथा रथैः समाजग्मुः पत्तयश्च पदातिभिः |
सादिनः सादिभिर्जग्मुर्गजैश्चापि महागजाः ||१० ||४-३४-१० (२९७८८)
असिभिः पट्टसैश्चापि शक्तिभिस्तोमरैरपि |
संरब्धाः समरे योधा निजघ्नुरितरेतरम् ||११ ||४-३४-११ (२९७८९)
निघ्नन्तः समरेऽन्योन्यं हृष्टाः परिघपाणयः |
न शेकुरतिसंक्रुद्धाः शूराः कर्तुं पराङ्भुखम् ||१२ ||४-३४-१२ (२९७९०)
रक्ताधरोष्ठं सुनसं क्लृप्तश्मश्रु स्वलंकृतम् |
अदृश्यत शिरश्छिन्नं रजोविध्वस्तकुण्डलम् ||१३ ||४-३४-१३ (२९७९१)
दृश्यन्ते तत्र गात्राणि वीरैश्छिन्नानि सर्वशः |
सालस्कन्धनिकाशानि क्षत्रियाणा महामृधे ||१४ ||४-३४-१४ (२९७९२)
नागभोगनिकाशैश्च बाहुभिश्चन्दनोक्षितैः |
आकीर्णा वसुधा तत्र शिरोभिश्च सकुण्डलैः ||१५ ||४-३४-१५ (२९७९३)
यथा वा वाससी श्लक्ष्णे महारजतरञ्जिते |
बिभ्रती युवती श्यामा तद्वद्भाति वसुन्धरा ||१६ ||४-३४-१६ (२९७९४)
उपाशाम्यद्रजो भौमं रुधिरेण प्रवर्षता |
कश्मलं प्राविशद्धोरं निर्मर्यादमवर्तत ||१७ ||४-३४-१७ (२९७९५)
युधिष्ठिरोऽपि धर्मात्मा भ्रातृभिः सहितस्तदा |
व्यूहं कृत्वा विराटस्य अन्वयुध्यत पाण्डवः ||१८ ||४-३४-१८ (२९७९६)
आत्मानं श्येनवत्कृत्वा तुण्डमासीद्युधिष्ठिरः |
पक्षौं यमौ च भवतः पुच्छमासीद्वृकोदरः ||१९ ||४-३४-१९ (२९७९७)
सहस्रं न्यहनत्तत्र कुन्तीपुत्रो युधिष्ठिरः |
भीमसेनस्तु संक्रुद्धः सर्वशस्त्रभृतांवरः |
द्विसहस्रं रथान्वीरः परलोकं प्रवेशयत् ||२० ||४-३४-२० (२९७९८)
नकुलस्त्रिशतं जघ्ने सहदेवश्चतुःशतम् |
शतानीकः शतं जघ्ने मदिराश्वश्चतुःशतम् ||२१ ||४-३४-२१ (२९७९९)
प्रहृष्टां महतीं सेनां त्रिगर्तानां महाबलौ |
आर्च्छतां बहुसंरब्धौ केशाकेशि रथारथि ||२२ ||४-३४-२२ (२९८००)
लक्षयित्वा त्रिगर्तानां तौ प्रविष्टौ महाचमूम् |
जग्मतुः सूर्यदत्तश्च वललश्चापि पृष्ठतः ||२३ ||४-३४-२३ (२९८०१)
शङ्खो विराटपुत्रश्च महेष्वासो महाबलः |
विनिघ्नन्समरे शूरान्प्रविवेश महाचमूम् ||२४ ||४-३४-२४ (२९८०२)
विराटस्तत्र संग्रामे हत्वा पञ्चशतं रथान् |
कुञ्जराणां शतं चैव सहस्रं वाजिनां तथा ||२५ ||४-३४-२५ (२९८०३)
चरन्स विविधान्मार्गान्रथेन रथिनांवरः |
त्रिगर्तानां सुशर्माणमार्च्छद्रुक्मरथं रणे ||२६ ||४-३४-२६ (२९८०४)
तौ तु प्राहरतां तत्र महेष्वासौ महाबलौ |
अन्योन्यमभिनिघ्नन्तौ गोषु गोवृषभाविव ||२७ ||४-३४-२७ (२९८०५)
राजसिंहौ सुसंरब्धौ विरेजतुरमर्षणौ |
कृतास्रौ निशितैर्बाणैरसिशक्तिपरश्वथैः ||२८ ||४-३४-२८ (२९८०६)
ततो रथाभ्यां रथिनौ व्यतीयातां समन्ततः |
शरान्ससृजतुः शीघ्रं तोयधारा घनाविव ||२९ ||४-३४-२९ (२९८०७)
अन्योन्यमभिसंरब्धौ दन्ताभ्यामिव कुञ्जरौ |
कृतास्त्रौ निशितैर्बाणैर्दारयामासतू रणे ||३० ||४-३४-३० (२९८०८)
मात्स्यो राजा सुशर्माणं विव्याध निशितैः शरैः |
पञ्चभिः पञ्चभिर्बाणैर्विव्याध चतुरो हयान् ||३१ ||४-३४-३१ (२९८०९)
द्वाभ्यां सूतं च विव्याध केतुं च त्रिभिराशुगैः |
तथैव मात्स्यराजं तु सुशर्मा युद्धदुर्मदः |
पञ्चाशद्भिः शितैर्बाणैविव्याध परमास्त्रवित् ||३२ ||४-३४-३२ (२९८१०)
तयोर्बलानि राजेन्द्र समस्तानि महारणे |
नाजानन्त तदाऽन्योन्यं प्रदोषे रजसा वृते ||३३ ||||४-३४-३३ (२९८११)
इति श्रीमन्महाभारते विराटपर्वणि गोग्रहणपर्वणि
चतुस्त्रिंशोऽध्यायः ||३४ ||
विराटपर्व -अध्याय ०३५
||श्रीः ||
४. ३५. अध्यायः ३५
Mahabharata -Virata Parva -Chapter Topics
सुशर्मणा युद्धे विराटस्य ग्रहणम् ||१ ||
भीमेन युधिष्ठिरचोदनया विराटस्य मोचनपूर्वकं सुशर्मणो
बन्धनम् ||२ ||
युधिष्ठिरेण करुणया सुशर्मणो विमोक्षणम् ||३ ||
Mahabharata -Virata Parva -Chapter Text
४-३५-० (२९८१२)
वैशम्पायन उवाच. ४-३५-०क्ष् (३१३४)
तमसाऽभिप्लुते लोके रजसा चैव भारत |
व्यतिष्ठन्त मुहूर्तं ते व्यूढानीकाः प्रहारिणम् ||१ ||४-३५-१ (२९८१३)
ततोऽन्धकारं प्रणुदन्नुदतिष्ठन्निशाकरः |
कुर्वाणो विमलां रात्रिं दर्शयन्क्षत्रियान्रणे ||२ ||४-३५-२ (२९८१४)
ततः प्रकाशमासाद्य पुनर्युद्धमवर्तत |
घोररूपं तदा तेषामवेक्ष्य तु परस्परम् ||३ ||४-३५-३ (२९८१५)
तथैव तेषां तुमुलानि तानि क्रुद्धानि चान्योन्यमभिद्रवन्ति |
गदासिपट्टैश्च परश्वथैश्च प्रासैश्च तीक्ष्णाग्रसुधौतधारैः
||४ ||४-३५-४ (२९८१६)
बलं तु मात्स्यस्य बलेन राजा सर्वं त्रिगर्ताधिपतिः सुशर्मा |
प्रमथ्य जित्वा च निपीड्य मत्स्यान्विराटमोजस्विनमभ्यधावत् ||५
||४-३५-५ (२९८१७)
मत्ताविव वृषौ तौ तु गजाविव मदोद्धतौ |
सिंहाविव गजग्राहौ शक्रवृत्राविवोद्धतौ ||६ ||४-३५-६ (२९८१८)
उभौ तुल्यबलोत्साहावुभौ तुल्यपराक्रमौ |
उभौ तुल्यास्रविक्षेपावुभौ युद्धविशारदौ ||७ ||४-३५-७ (२९८१९)
तौ निहत्य पृथग्धुर्यानुभयोः पार्ष्णिसारथी |
आस्तां तुल्यधनुर्ग्राहौ कृष्णकंसाविवोद्धतौ ||८ ||४-३५-८ (२९८२०)
ततः सुशर्मा त्रैगर्तः सह भ्रात्रा सुवर्मणा |
अभ्यद्रवन्मत्स्यराजं रथव्रातेन सर्वशः ||९ ||४-३५-९ (२९८२१)
ततो रथाभ्यां प्रस्कन्द्य भ्रातरौ क्षत्रियर्षभौ |
गदापाणी सुसंरब्धौ समभ्यद्रवतां जवात् ||१० ||४-३५-१० (२९८२२)
सुशर्मा परवीरघ्नो बलवान्वीर्यवान्गदी |
विरथं मत्स्यराजानं जीवग्राहमथाग्रहीत् ||११ ||४-३५-११ (२९८२३)
तमुन्मथ्य सुशर्मा तु युवतीमिव कामुकः |
स्यन्दनं स्वं समारोप्य प्रययौ भीमविक्रमः ||१२ ||४-३५-१२ (२९८२४)
तस्मिन्गृहीते विरथे विराटे बलवत्तरे |
बलं सर्वं विभग्नं तन्निरुत्साहं निराशकम् ||१३ ||४-३५-१३ (२९८२५)
प्राद्रवन्त भयान्मात्स्यास्त्रिगर्तैरर्दिता रणे |
विदिक्षुः दिक्षु सर्वासु पलायन्ति च यान्ति च ||१४ ||४-३५-१४ (२९८२६)
तेषु विद्रांव्यमाणेषु कुन्तीपुत्रो युधिष्ठिरः |
अभ्यभाषत धर्मात्मा भिमसेनमरिन्दमम् ||१५ ||४-३५-१५ (२९८२७)
मात्स्यराजस्त्रिगर्तेन परामृष्टः सुशर्मणा |
तं मोक्षय महाबाही मा गमद्द्विषतां वशम् ||१६ ||४-३५-१६ (२९८२८)
भीमसेनः महाबाहो गृहीतं तु सुशर्मणा |
त्रायस्व मोचय क्षिप्रमस्मत्प्रीतिकरं नृपम् ||१७ ||४-३५-१७ (२९८२९)
उषिताः स्म सुखं सर्वे सर्वकामैः सुपूजिताः |
भीमसेन त्वया कार्या तस्य वातस्य निष्कृतिः ||१८ ||४-३५-१८ (२९८३०)
वैशम्पायन उवाच. ४-३५-१९क्ष् (३१३५)
तं तथावादिनं तत्र भीमसेनो महाबलः |
अभ्यभाषत दुर्धर्षो रणमध्ये युधिष्ठिरम् ||१९ ||४-३५-१९ (२९८३१)
अहमेनं परित्रास्ये शासनात्तव पार्थिव |
पश्येदं सुमहत्कर्म युध्यतो मम शत्रुभिः ||२० ||४-३५-२० (२९८३२)
स्वबाहुबलमाश्रित्य परेषामसमं रणे |
एकान्तमाश्रितो राजंस्तिष्ठ त्वं भ्रातृभिः सह ||२१ ||४-३५-२१ (२९८३३)
अयं वृक्षो महाशाखो गिरिमात्रो वनस्पतिः |
अहमेनं समारुज्य पोथयिष्यामि शात्रवान् ||२२ ||४-३५-२२ (२९८३४)
वैशम्पायन उवाच. ४-३५-२३क्ष् (३१३६)
तं मत्तमिव मातङ्गं वीक्षमाणं वनस्पतिम् |
अब्रवीद्भ्रातरं वीरं धर्मराजो युधिष्ठिरः ||२३ ||४-३५-२३ (२९८३५)
भीम मा साहसं कार्षीस्तिष्ठत्वेष वनस्पतिः ||२४ ||४-३५-२४ (२९८३६)
मा त्वां वृक्षेण कर्माणि कुर्वन्तमतिमानुषम् |
जनाः समवबुध्येरन्भीमोऽयमिति भारत ||२५ ||४-३५-२५ (२९८३७)
मा ग्रहीस्त्वमिमं वृक्षं सिंहनादं च मा नद |
कर्मणा सिंहनादेन विज्ञास्यन्ति जना ध्रुवम् ||२६ ||४-३५-२६ (२९८३८)
इमं वृक्षं गृहीत्वा त्वं नेमां सेनामभिद्रव |
वृक्षं च त्वां रुजन्तं वै विज्ञास्यति जनो ध्रुवं ||२७
||४-३५-२७ (२९८३९)
अन्यदेवायुधं गृह्य प्रतिपद्यस्व मानुषम् |
चापं वा यदि वा शक्तिं निस्त्रिंशं वा परश्वथम् ||२८ ||४-३५-२८ (२९८४०)
यदेव मानुषं भीम भवेदन्यैरलक्षितम् |
तदेवायुधमादाय मोचयाशु महीतिम् ||२९ ||४-३५-२९ (२९८४१)
यमौ च चक्ररक्षौ ते भवितारौ महाबलौ |
व्यायच्छतस्ते समरे मत्स्यराजं परीप्स्रतः ||३० ||४-३५-३० (२९८४२)
वैशम्पायन उवाच. ४-३५-३१क्ष् (३१३७)
भ्रातुर्वचनमादाय भीमो वृक्षं विसृज्य च |
चापमादाय संप्राप्तो रथमास्थाय पाण्डवः ||३१ ||४-३५-३१ (२९८४३)
व्यमुञ्चच्छरवर्षाणि सतोय इव तोयदः |
तं भीमो भीमकर्माणं शुशर्माणमथाऽऽद्रवत् ||३२ ||४-३५-३२ (२९८४४)
विराटमभिवीक्ष्यैनं तिष्ठितिष्ठेति चावदत् ||३३ ||४-३५-३३ (२९८४५)
सुशर्मा चिन्तयामास कालान्तकयमोपमम् |
तिष्ठतिष्ठेति भाषन्तं पृष्ठतो रथपुङ्गवः ||३४ ||४-३५-३४
(२९८४६)
पश्यतां सुमहत्कर्म महद्युद्धमुपस्थितम् |
परावृत्तो धनुर्गृह्य सुशर्मा भ्रातृभिः सह ||३५ ||४-३५-३५ (२९८४७)
निमेषान्तरमात्रेण भीमसेनेन ते रथाः |
रथानां च गजानां च वाजिनां च ससादिनां ||३६ ||४-३५-३६ (२९८४८)
सहस्रशतसंघाताः शूराणामुग्रधन्विनाम् |
पातिता भीमसेनेन विराटस्य समीपतः ||३७ ||४-३५-३७ (२९८४९)
पत्तयो निहतास्तेषां गदां गृह्य महात्मना ||३८ ||४-३५-३८ (२९८५०)
तद्दृष्ट्वा तादृशं युद्धं सुशर्मा युद्धदुर्मदः |
चिन्तयामास मनसा किं शेषं हि बलस्य मे ||३९ ||४-३५-३९ (२९८५१)
अपरो दृश्यते सैन्ये पुरा मग्नो महाबले |
आकर्णपूर्णेन तदा धनुषा प्रत्यदृश्यत ||४० ||४-३५-४० (२९८५२)
सुशर्मा सायकांस्तीक्ष्णान्क्षिपते च पुनःपुनः ||४१ ||४-३५-४१ (२९८५३)
ततः समस्तास्ते सर्वे तुरगानभ्यचोदयन् |
दिव्यमस्त्रं विकुर्वाणास्त्रिगर्तान्प्रत्यमर्षणाः ||४२ ||४-३५-४२ (२९८५४)
तान्निवृत्तरथान्दृष्ट्वा पाण्डवास्तां महाचमूम् |
वैराटिः परमक्रुद्धो युयुधे परमाद्भुतम् ||४३ ||४-३५-४३ (२९८५५)
त्रिगर्ताः समभिक्रम्य अयुध्यन्त जयैषिणः |
तान्भीमसेनः संक्रुद्धः सर्वशस्त्रभृतांवरः |
वैराटिः परमक्रुद्धो युयुधे परमाद्भुतम् ||४४ ||४-३५-४४ (२९८५६)
सहस्रं प्राहिणीद्राजा कुन्तीपुत्रो युधिष्ठिरः |
नकुलश्चापि सप्तैव शतानि प्राहिणोच्छरैः ||४५ ||४-३५-४५ (२९८५७)
शतानि त्रीणि शूराणां सहदेवः प्रतापवान् |
युधिष्ठिरसमादिष्टो निजघ्ने पुरुषर्षभः ||४६ ||४-३५-४६ (२९८५८)
प्रविश्य महतीं सेनां त्रिगर्तानां महाबलः |
क्षोभयन्सर्वभूतानि सिंहः क्षुद्रमृगानिव ||४७ ||४-३५-४७ (२९८५९)
ततो युधिष्ठिरो राजा त्वरमाणो महाबलः |
अभिद्रुत्य सुशर्माणं शरैरभ्यहनद्धृशम् ||४८ ||४-३५-४८ (२९८६०)
सुशर्माऽपि सुसंक्रुद्धस्त्वराणो युधिष्ठिरम् |
अविध्यद्दशभिर्बाणैश्चतुर्भिश्चतुरो हयान् ||४९ ||४-३५-४९ (२९८६१)
ततो राजन्क्षिप्रकारी कुन्तीऽपुत्रो वृकोदरः |
समासाद्य सुशर्माणमश्वांस्तस्य न्यपातयत् ||५० ||४-३५-५० (२९८६२)
पृष्ठगोषौ च तस्याथ हत्वा परमसायकैः |
अथास्य सारथिं क्रुद्धो रथोपस्थादपतयत् ||५१ ||४-३५-५१ (२९८६३)
चक्ररक्षस्तु शूरश्च शोणाश्वो नाम नामतः |
स भयाद्विरथं दृष्ट्वा त्रैगर्तं व्याजहात्तदा ||५२ ||४-३५-५२ (२९८६४)
ततो विराटः प्रस्कन्द्य रथादथ सुशर्मणः |
गदामस्य परामृश्य तमेवाभ्यहनद्बली ||५३ ||४-३५-५३ (२९८६५)
स चचार गदापाणिर्वृद्धोऽपि तरुणो यथा ||५४ ||४-३५-५४ (२९८६६)
भीमस्तु भीमसंकाशो रथात्प्रस्कन्द्य वीर्यवान् |
उत्प्लुत्य गत्वा वेगेन तद्रथे विनिपत्य च |
सुशर्मणः शिरोऽगुह्णात्पुनराश्वास्य युध्यतः ||५५ ||४-३५-५५ (२९८६७)
अग्राद्गिरेर्विनिक्षिप्य सिंहः क्षुद्रमृगं यथा |
ऊर्ध्वमुत्प्लृत्य मार्जार आखोर्यद्वच्छिरो रुषा ||५६ ||४-३५-५६ (२९८६८)
समुद्यम्य तु रोषात्तं निष्पिपेष महीतले |
यदा मूर्ध्नि महाबाहुः प्राहरद्विलपिष्यतः ||५७ ||४-३५-५७ (२९८६९)
तस्य जानु ददौ भीमो जघ्ने चैनमरत्निना |
स मोहमगमद्राजा प्रहारवरपीडितः ||५८ ||४-३५-५८ (२९८७०)
तस्मिन्वीरे गृहीते तु त्रिगर्तानां महारथे |
अभज्यत बलं सर्वं त्रिगर्तानां भयातुरम् ||५९ ||४-३५-५९ (२९८७१)
निवृत्य गास्ततः सर्वाः पाण्डुपुत्रा महारथाः |
अवजित्य सुशर्माणं धनं चादाय सर्वशः ||६० ||४-३५-६० (२९८७२)
स्वबाहुबलसंपन्ना ह्रीनिषेवा यतव्रताः |
विराटस्य महात्मानः परिक्लेशविनाशनाः |
स्थिताः समक्षं ते सर्वे त्वथ भीमोऽभ्यभाषत ||६१ ||४-३५-६१
(२९८७३)
नायं पापसमाचारो मत्तो जीवितुमर्हति |
किंनु शक्यं मया कर्तुं यद्राजा सततं घृणी |
गले गृहीत्वा राजानमानीय विवशं वशम् ||६२ ||४-३५-६२ (२९८७४)
तत एनं विचेष्टन्तं बद्ध्वा पार्थो वृकोदरः |
रथमारोपयामास विसंज्ञं पांसुगुण्ठितम् ||६३ ||४-३५-६३ (२९८७५)
अभ्येत्य रणमध्यस्थमभ्यगच्छद्युधिष्ठिरम् |
दर्शयामास भीमस्तु सुशर्माणं नराधिपम् ||६४ ||४-३५-६४ (२९८७६)
प्रोवाच पुरुषव्याघ्रो भीममाहवशोभिनम् |
तं राजा प्राहसद्दृष्ट्वा मुच्यतां वै नराधमः ||६५ ||४-३५-६५ (२९८७७)
एवमुक्तोऽब्रवीद्भीमः सुशर्माणं महाबलम् |
जीवितुं चेच्छसे मूढ हेतुं मे गदतः शृणु ||६६ ||४-३५-६६ (२९८७८)
दासोस्मीति त्वया वाच्यं संसत्सु च सभासु च |
एवं ते जीवितं दद्यामेष युद्धजितो विधिः ||६७ ||४-३५-६७ (२९८७९)
तमुवाच ततो ज्येष्ठो भ्राता सप्रणयं वचः |
मुञ्चमुञ्चाधमाचारं प्रमाणं यदि ते वयम् ||६८ ||४-३५-६८ (२९८८०)
दासभावं गतो ह्येष विराटस्य महीपतेः |
अदासो गच्छ मुक्तोसि मैवं कार्षीः कदाचन ||६९ ||४-३५-६९ (२९८८१)
एवमुक्ते तु सव्रीडः सुशर्माऽसीदधोमुखः |
स मुक्तोऽभ्येत्य राजानमभिवाद्य प्रतस्थिवान् ||७० ||४-३५-७० (२९८८२)
विसृज्य तु सुशर्माणं पाण्डवास्ते हतद्विषः |
स्वबाहुबलसंपन्ना हीनिषेवा यतव्रताः |
संग्रामशिरसो मध्ये तां रात्रिं सुखिनोऽवसन् ||७१ ||४-३५-७१ (२९८८३)
||श्रीमन्महाभारते विराटपर्वणि गोग्रहणपर्वणि
पञ्चत्रिंशोऽध्यायः ||३५ ||
Mahabharata -Virata Parva -Chapter Footnotes
४-३५-२ नन्दयन्क्षत्रियानिति थो पाठः ||
२ ||
विराटपर्व -अध्याय ०३६
||श्रीः ||
४. ३६. अध्यायः ३६
Mahabharata -Virata Parva -Chapter Topics
युधिष्ठिरचोदनया विराटप्रेषितैर्दूतैर्नगरमेत्य जयोद्धोषणम् ||१ ||
Mahabharata -Virata Parva -Chapter Text
४-३६-० (२९८८४)
वैशम्पायन उवाच. ४-३६-०क्ष् (३१३८)
ततो विराटः कौन्तेयानतिमानुषविक्रमान् |
अर्चयामास वित्तेन मानेन च महारथान् |
वचसा चैव सान्त्वेन स्नेहेन च मुदाऽन्वितः ||१ ||४-३६-१ (२९८८५)
विराट उवाच. ४-३६-२क्ष् (३१३९)
यथैव मम रत्नानि युष्माकं तानि वै तथा |
कार्यं कुरुत तैः सर्वैर्यथाकामं यथासुखम् ||२ ||४-३६-२ (२९८८६)
ददाम्यलंकृताः कन्या वसूनि विविधानि च |
मनसा चाप्यभिप्रेतं यद्वः शत्रुनिबर्हणाः ||३ ||४-३६-३ (२९८८७)
युष्माकं विक्रमादद्य मुक्तोऽहं स्वस्तिमानिह |
तस्माद्भवन्तो मत्स्यानामीश्वराः सर्व एव हि ||४ ||४-३६-४ (२९८८८)
वैशम्पायन उवाच. ४-३६-५क्ष् (३१४०)
तं तथावादिनं तत्र कौरवेयाः पृथक्पृथक् |
ऊचुः प्रहृष्टमनसो युधिष्ठिरपुरोगमाः ||५ ||४-३६-५ (२९८८९)
प्रतिनन्दामहे वाचं सर्वथैव विशांपते |
एतावताऽद्य प्रीताःस्मो यत्त्वं मुक्तोसि शत्रुभिः ||६ ||४-३६-६ (२९८९०)
यत्त्वं मुक्तोसि शत्रुभ्यो ह्येतत्कार्यं हितं हि नः |
न किंचित्कार्यमस्माकं न धनं मृगयामहे ||७ ||४-३६-७ (२९८९१)
अथाब्रवीत्प्रीतमना मात्स्यराजो युधिष्ठिरम् |
निर्भरः प्रीतिपूरेण हर्षगद्गदया गिरा ||८ ||४-३६-८ (२९८९२)
पुनरेव महाबाहुर्विराटो राजसत्तमः |
एहि त्वामभिषेक्ष्यामि मत्स्यराजस्तु नो भवान् ||९ ||४-३६-९ (२९८९३)
मनसा चाप्यभिप्रेतं यत्ते शत्रुनिबर्हण |
तत्तेऽहं संप्रदास्यामि सर्वमर्हति नो भवान् ||१० ||४-३६-१० (२९८९४)
रत्नानि गाः सुवर्णं च मणिमुक्तमथापि वा |
वैयाघ्रपद्य विप्रेन्द्र सर्वथैव नमोस्तु ते ||११ ||४-३६-११ (२९८९५)
त्वत्कृते ह्यद्य पश्यामि राज्यमात्मानमेव च |
यतश्च जातः संरम्भः स च शत्रुर्वशं गतः ||१२ ||४-३६-१२ (२९८९६)
ततो युधिष्ठिरो मात्स्यं पुनरेवाब्रवीद्वचः |
प्रतिनन्दामि ते वाचं मनोज्ञां मात्स्य भाषितां ||१३ ||४-३६-१३ (२९८९७)
आनृशंस्यपरो नित्यं सुमुखः सततं भवान् |
पुनरेव विराटश्च राजा कङ्कमभाषत ||१४ ||४-३६-१४ (२९८९८)
अहो शूद्रस्य कर्माणि वललस्य द्विजोत्तम |
सोहं शूद्रेण संग्रामे वललेनाभिरक्षितः ||१५ ||४-३६-१५ (२९८९९)
त्वत्कृते सर्वमेवैतदुपपन्नं ममानघ |
वरं वृष्णीष्व भद्रं ते ब्रूहि किं करवाणि ते ||१६ ||४-३६-१६ (२९९००)
ददामि ते महाप्रीत्या रत्नान्युच्चावचान्यहम् |
शयनासनयानानि कन्याश्च समलंकुताः ||१७ ||४-३६-१७ (२९९०१)
हस्त्यश्वरथसङ्घाश्च राष्ट्राणि विविधानि च |
एतानि च मम प्रीत्या प्रतिगृह्ण ममान्तिके ||१८ ||४-३६-१८ (२९९०२)
वैशम्पायन उवाच. ४-३६-१९क्ष् (३१४१)
तं तथावादिनं तत्र कौरव्यः प्रत्यभाषत |
एषैव तु मम प्रीतिर्यत्त्वं मुक्तोसि शत्रुभिः ||१९ ||४-३६-१९ (२९९०३)
प्रतीतश्चेत्पुरं तुष्टः प्रविशाद्य परंतप |
दारैः पुत्रैश्च संश्लिष्य सा हि प्रीतिर्ममातुला ||२० ||४-३६-२० (२९९०४)
सुशर्माणं तु राजेन्द्र सभृत्यबलवाहनम् |
विसर्जय नरश्रेष्ठं वरमेतदहं वृणे ||२१ ||४-३६-२१ (२९९०५)
वैशम्पायन उवाच. ४-३६-२२क्ष् (३१४२)
एवमुक्ते तु कङ्केन विराटो राजसत्तमः |
प्रत्युवाच ततः कङ्कं सुशर्मा यातु चेष्टतः ||२२ ||४-३६-२२ (२९९०६)
कङ्ख उवाच. ४-३६-२३क्ष् (३१४३)
गच्छन्तु दूतास्त्वरिता नगरं तव पार्थिव |
सुहृदां प्रियमाख्यातुं घोषयन्तु च ते जयम् ||२३ ||४-३६-२३ (२९९०७)
ततस्तद्वचनान्मात्स्यो दूतान्राजा समादिशत् |
आचक्षध्वं पुरं सत्वा संग्रामे विजयं मम ||२४ ||४-३६-२४ (२९९०८)
कुमार्यः समलंकृत्य प्रयागच्छन्तु मे पुरात् |
वादित्राणि च सर्वाणि गणिकाश्च स्वलंकृताः |
प्रत्यायान्तु च मे शीघ्रं नागराः सर्व एव ते ||२५ ||४-३६-२५ (२९९०९)
एवमुक्तास्तथा दूता रात्रौ यात्वा तु केवलम् |
ततोऽन्तरे चानुषिता दूताः शीघ्रानुयायिनः ||२६ ||४-३६-२६ (२९९१०)
नगरं प्राविशंस्ते वै सूर्ये सम्यगथोदिते |
विराटनगरं प्राप्य शीघ्रं नान्दीमघोषयन् |
पताकोच्छ्रयमाल्याढ्यं पुरमप्रतिमं यथा ||२७ ||||४-३६-२७ (२९९११)
इति श्रीमन्महाभारते विराटपर्वणि गोग्रहणपर्वणि षट्त्रिंशोऽध्यायः
||३६ ||
विराटपर्व -अध्याय ०३७
||श्रीः ||
४. ३७. अध्यायः ३७
Mahabharata -Virata Parva -Chapter Topics
दुर्योधनेन भीष्मद्रोणादिभिः सह विराटनगरमेत्य उत्तरभागे गवां
ग्रहणम् ||१ ||
गोपालेन केनचित्पुरमेत्योत्तरंप्रति कुरुभिर्गोग्रहणस्य निवेदनम् ||२ ||
Mahabharata -Virata Parva -Chapter Text
४-३७-० (२९९१२)
वैशम्पायन उवाच. ४-३७-०क्ष् (३१४४)
याते त्रिगर्तान्मात्स्ये तु पशूंस्तान्वै परीप्सति |
दुर्योधनः सहामात्यैर्विराट पुरमभ्यगात् ||१. . ४-३७-१ (२९९१३)
भीष्मद्रोणौ च कर्णश्च कृपश्च परमास्त्रवित् |
द्रौणिश्च सौबलश्चैव तथा दुःशासनः शलः ||२ ||४-३७-२ (२९९१४)
विविंशतिर्विकर्णश्च चित्रसेनश्च वीर्यवान् |
दुःसहो दुर्मुखश्चैव एते चान्ये महारथाः ||३ ||४-३७-३ (२९९१५)
सर्वे मत्स्यानुपागम्य विराटस्य महीपतेः |
गोपान्विद्राव्य तरसा गोधनं जह्रुरोजसा ||४ ||४-३७-४ (२९९१६)
गवां शतसहस्राणि कुरवः कालयन्ति च |
महता रथवंशेन परिगृह्य समन्ततः ||५ ||४-३७-५ (२९९१७)
गोपालानां तु घोषेषु हन्यतां तैर्महारथैः |
आरावः सुमहानासीत्संप्रहारे भयंकरे ||६ ||४-३७-६ (२९९१८)
गवाध्यक्षस्तु संत्रस्तो रथमास्थाय सत्वरः |
जगाम नगरायैव परिक्रोशंस्तदाऽऽर्तवत् ||७ ||४-३७-७ (२९९१९)
स प्रविश्य पुरं राज्ञो नृपवेश्माभ्ययात्ततः |
अवतीर्य रथात्तूर्णमाख्यातुं प्रविवेश ह ||८ ||४-३७-८ (२९९२०)
दृष्ट्वा भूमिंजयं नाम पुत्रं मात्स्यस्य मानिनम् |
तस्मै च सर्वमाचष्ट राष्ट्रस्य पशुकर्षणम् ||९ ||४-३७-९ (२९९२१)
गवां शतसहस्राणि कुरबः कालयन्ति ते |
प्रतिजेतुं समुत्तिष्ठ गोधनं राष्ट्रवर्धन ||१० ||४-३७-१० (२९९२२)
राजपुत्र हितप्रेप्सुः क्षिप्रं निर्याहि वै स्वयम् |
त्वां हि मत्स्यो महीपालः शून्यपालमिहाकरोत् ||११ ||४-३७-११ (२९९२३)
त्वां वै परिषदो मध्ये श्लाघते स नराधिपः |
पुत्रो ममानुरूपश्च शूरश्चेति कुलोद्वहः ||१२ ||४-३७-१२ (२९९२४)
इष्वस्त्रनिपुणो योधः सदा वीरश्च मे सुतः |
समर्थः समरे योद्धुं कौरवैः सह तादृशै ||१३ ||४-३७-१३ (२९९२५)
तस्य तत्सत्यमेवास्तु मनुष्येन्द्रस्य भाषितम् |
जयश्च नियतो युद्धे कौरवाश्च ध्रुवं हताः ||१४ ||४-३७-१४ (२९९२६)
आवर्तय कुरूञ्जित्वा पशून्पशुपतिर्यथा |
निर्दर्हषामनीकानि भीमेन शरतेजसा ||१५ ||४-३७-१५ (२९९२७)
धनुश्च्युतै रुक्मपुङ्खैश्चित्रैः संनतपर्वभिः |
द्विषतां भिन्ध्यनीकानि गजानामिव यूथपः ||१६ ||४-३७-१६ (२९९२८)
पाशोपधानां ज्यातन्त्रीं चापदण्डां महास्वनाम् |
शरवर्णां धनुर्वीणां शत्रुमध्ये प्रवादय ||१७ ||४-३७-१७ (२९९२९)
निर्याहि नगराच्छीघ्रं राजपुत्र किमास्यते |
श्वेताः काञ्चनसंनाहा रथे युज्यन्तु ते हयाः |
ध्वजं च सिहं सौवर्णमुच्छ्रयस्व तथा विभो ||१८ ||४-३७-१८ (२९९३०)
रुक्मपुङ्खाः प्रसन्नाग्रा मुक्ता हस्तवता त्वया |
छादयन्तु शराः सूर्यं राज्ञमायुर्निरोधकाः ||१९ ||४-३७-१९ (२९९३१)
रणे जित्वा कुरून्सर्वान्वज्रपाणिरिवासुरान् |
यशो महदवाप्य त्वं प्रविरोदं पुरं पुनः ||२० ||४-३७-२० (२९९३२)
त्वं हि राष्ट्रस्य परमा गतिर्मात्स्यपतेः सुतः |
गतिमन्तो भवन्त्वद्य सर्वे विषयवासिनः ||२१ ||४-३७-२१ (२९९३३)
यथा हि पाण्डुपुत्राणामर्जुनो जयतांवरः |
एवमेव गतिर्नूनं भवान्विपयवासिनाम् ||२२ ||||४-३७-२२ (२९९३४)
इति श्रीमन्महाभारते विराटपर्वणि गोग्रहणपर्वणि
सप्तत्रिंशोऽध्यायः ||३७ ||
Mahabharata -Virata Parva -Chapter Footnotes
४-३७-१७ पाशोपधानां पाशौ मौर्वीप्रान्तद्वयगतौ तावेव उपाधाने
वीणायां तन्त्रीसंधानार्थं कीलविशेषौ यस्यां सा ताम् | शरवर्णां
शरास्ततो निःसरन्तस्त एव वर्णाः शब्दवत्त्वसामान्यात्स्वरस्पर्शादयो
यस्याम् ||
१७ ||
विराटपर्व -अध्याय ०३८
||श्रीः ||
४. ३८. अध्यायः ३८
Mahabharata -Virata Parva -Chapter Topics
उत्तरे समुचितसारथेरभावेन खिद्यमाने अर्जुनेन द्रौपदींप्रति
उत्तराय बृहन्नलायाः सारथ्यकौशलनिवेदनचोदना ||१ ||
भ्रातॄचोदितया उत्तरया बृहन्नलांप्रति
उत्तररथसारध्यकरणप्रार्थना ||२ ||
उत्तरेण सारथीभूतेनार्जुनेन सह कुरून्प्रति रणायाभियानम् ||३ ||
Mahabharata -Virata Parva -Chapter Text
४-३८-० (२९९३५)
वैशम्पायन उवाच. ४-३८-०क्ष् (३१४५)
महाजनसमक्षं तु स्त्रीणां मध्ये विशेषतः |
गवाध्यक्षेण संप्रोक्तो विराटतनयस्तदा ||१ ||४-३८-१ (२९९३६)
स्त्रीमध्य उक्तस्तेनासौ वाक्यं तेजःप्रवर्धनम् |
अन्तःपुरे श्लाघमान इदं वचनमब्रवीत् ||२ ||४-३८-२ (२९९३७)
उत्तर उवाच. ४-३८-३क्ष् (३१४६)
अद्याहमनुगच्छेयं दृढधन्वा गवां पदम् |
यदि मे सारथिः कश्चिद्भवेदश्वेषु कोविदः ||३ ||४-३८-३ (२९९३८)
तमेव नाधिगच्छामि यो मे यन्ता समो भवेत् |
पश्यध्वं सारथिं शीघ्रं मम युक्तं प्रयास्यतः ||४ ||४-३८-४ (२९९३९)
अष्टाविंशतिरात्रं वा मासं वा नूनमन्ततः |
यत्तदासीन्महायुद्धं तत्र मे सारथिर्हतः ||५ ||४-३८-५ (२९९४०)
यद्यहं त्वधिगच्छेयं यो मे यन्ता भवेद्युधि |
त्वरावानद्य यास्यामि समुच्छ्रितमहाध्वजः ||६ ||४-३८-६ (२९९४१)
विगाह्य तत्परानीकं गजवाजिरथाकुलम् |
शस्त्रप्रतापान्निर्वीर्यान्कुरूञ्जित्वाऽऽनये पशून् ||७ ||४-३८-७ (२९९४२)
दुर्योधनं विकर्णं च कर्णं वैकर्तनं कृपम् |
द्रोणं च सह पुत्रेण महेष्वासान्समागतान् ||८ ||४-३८-८ (२९९४३)
विद्रावयित्वा संग्रामे दानवान्मघवानिव |
अनेनैव मुहूर्तेन पुनः प्रत्यानये पशून् ||९ ||४-३८-९ (२९९४४)
शून्यमाज्ञाय कुरवः प्रयान्त्यादाय गोधनम् |
किं न शक्यं च तैः कर्तुं यदहं तत्र नाभवम् ||१० ||४-३८-१० (२९९४५)
पश्ययुरद्य मे वीर्यं कुरवस्ते समागताः |
किंनु पार्थोऽर्जुनः साक्षादिति मंस्यन्ति मां परे ||११ ||४-३८-११ (२९९४६)
वैशंपयान उवाच. ४-३८-१२क्ष् (३१४७)
तस्य तद्वचनं श्रुत्वा स्त्रीषु चात्मप्रशंसनम् |
नामर्षयत पाञ्चाली बीभत्सोः परिकीर्तनम् ||१२ ||४-३८-१२ (२९९४७)
श्रुत्वा तदर्जुनो वाक्यमुत्तरेण प्रभाषितम् |
अतीतसमये काले प्रियां भार्यामभाषत ||१३ ||४-३८-१३ (२९९४८)
द्रुपदस्य सुतां राज्ञः पाञ्चालीं रूपसंमताम् |
सत्यार्जवगुणोपेतां भर्तुः प्रियहितैषिणीम् |
उवाच रहसि प्रीतः कृष्णां सर्वार्थकोविदः ||१४ ||४-३८-१४ (२९९४९)
उत्तरां ब्रूहि पाञ्चालि गत्वा क्षिप्रं शुचिस्मिते ||१५ ||४-३८-१५ (२९९५०)
इयं किल पुरा युद्धे खाण्डवे सव्यसाचिनः |
सारथिः पाण्डुपुत्रस्य पार्थस्य तु बृहन्नला |
महाञ्जयो भवेद्युद्धे सा चेद्यन्ता बृहन्नला ||१६ ||४-३८-१६ (२९९५१)
वैशम्पायन उवाच. ४-३८-१७क्ष् (३१४८)
सा चोदिता तदा ह्येन ह्यर्जुनेन शुचिस्मिता |
पाञ्चाली च तदाऽऽगम्य उत्तराया निवेशनम् ||१७ ||४-३८-१७ (२९९५२)
ज्ञात्वा तु समयान्मुक्तं चन्द्रं राहुमुखादिव |
युधिष्ठिरं धर्मपरं सत्यार्जवपथे स्थितम् ||१८ ||४-३८-१८ (२९९५३)
अमर्षयन्ती तद्दुःखं कृष्णा कमललोचना |
उत्तरामाह वचनं सखीमध्ये विलासिनीम् ||१९ ||४-३८-१९ (२९९५४)
योऽयं युवा वारणयूथपोपमो बृहन्नलाऽस्मीति जनोऽभ्यभाषत |
पुराऽपि पार्थस्य स सारथिस्तदा धनुर्धराणां प्रवरस्य मन्ये ||२०
||४-३८-२० (२९९५५)
एतेन वा सारथिना तदाऽर्जुनः सदेवगन्धर्वमहासुरोरगान् |
सर्वाणि भूतान्यजयस्तस वीर्यवानतर्पयच्चापि हिरण्यरेतसम् ||२१
||४-३८-२१ (२९९५६)
यदस्य संस्थामपि तस्य संयुगे जानामि वीर्यं परवीरमध्यगम् |
संगृह्य रश्मीनपि चास्य वीर्यवानादाय चापं प्रययौ रथे स्थितः
||२२ ||४-३८-२२ (२९९५७)
न सर्वभूतानि न देवदानवा न चापि सर्वे कुरवः समागताः |
धनं हरेयुस्तव जातु धन्विनो बृहन्नला तूत्तरसारथिर्यदि ||२३
||४-३८-२३ (२९९५८)
धनुष्यनवमश्चासीत्तस्य शिष्यो महात्मनः |
सुदृष्टपूर्वो हि मया चरन्त्या पाण्डवालये ||२४ ||४-३८-२४ (२९९५९)
स चानेन सहायेन खाण्डवं चादहत्पुरा |
अर्जुनस्य तदाऽनेन संगृहीता हयोत्तमाः ||२५ ||४-३८-२५ (२९९६०)
तेन सारथिना पार्थः सर्वभूतानि सर्वशः |
अजयत्खाण्डवप्रस्थे न हि यन्ताऽस्ति तादृशः ||२६ ||४-३८-२६ (२९९६१)
वैशम्पायन उवाच. ४-२८-२७क्ष् (३१४९)
ततः सैरन्ध्रिसहिता उत्तरा भ्रातुरब्रवीत् |
अभ्यर्थयैनां सारथ्ये वीर शीघ्रं बृहन्नलाम् ||२७ ||४-३८-२७ (२९९६२)
शिक्षितैषा हि सारथ्ये नर्तने गीतवादिते |
सैरन्ध्य्राह महाप्राज्ञा स्तुवन्ती वै बृहन्नलाम् ||२८ ||४-३८-२८ (२९९६३)
उत्तर उवाच. ४-३८-२९क्ष् (३१५०)
सैरन्ध्रि जानासि मम व्रतं हि क्लीबेन पुंसा न हि संवदाम्यहम् |
सोहं न शक्ष्यामि बृहन्नलां शुभे वक्तुं स्वयं यच्छ हयान्ममेति
||२९ ||४-३८-२९ (२९९६४)
सैरन्ध्र्युवाच. ४-३८-३०क्ष् (३१५१)
भयकाले तु संप्राप्ते न व्रतं नाव्रतं पुनः |
यथा दुःखं प्रतरति कर्तुं युक्तं चरेद्बुधः |
इति धर्मविदः प्राहुस्तस्माद्वाच्या बृहन्नला ||३० ||४-३८-३० (२९९६५)
येयं कुमारी सुश्रोणी भगिनी ते यवीयसी |
अस्यास्तु वचनं वीर करिष्यति न संशयः ||३१ ||४-३८-३१ (२९९६६)
यदि ते सारथिः सा स्यात्कुरून्सर्वान्न संशयः |
जित्वा गाश्च समादाय ध्रुवमागमनं भवेत् ||३२ ||४-३८-३२ (२९९६७)
वैशम्पायन उवाच. ४-३८-३३क्ष् (३१५२)
एवमुक्तः स सैरन्ध्र्या भगिनीं प्रत्यभाषत |
गच्छ त्वमनवद्याङ्गि तामानय बृहन्नलाम् ||३३ ||४-३८-३३ (२९९६८)
सा प्राद्रवत्काञ्चनमाल्यधारिणी ज्येष्ठेन भ्रात्रा प्रहिता यशस्विनी |
भ्रातुर्नियोगं तु निशम्य सुभ्रुः शुभानना हाटकवज्रभूषिता ||३४
||४-३८-३४ (२९९६९)
सा वज्रमुक्तामणिहेमकुण्डला मृदुक्रमा भ्रातृनियोगचोदिता |
प्रदक्षिणावर्ततनुः शिखण्डिनी पद्मानना पद्मदलायताक्षी ||३५
||४-३८-३५ (२९९७०)
तन्वी समाङ्गी मृदुमन्द्रलोचना मात्स्यस्य राज्ञो दुहिता विलासिनी |
सा नर्तनागारमरालपक्ष्मा शतह्रदा मेघमिवान्वपद्यत ||३६
||४-३८-३६ (२९९७१)
सा नागनासोपमसंहितोरूरनिन्दिता वेदिविलग्नमध्या |
आसाद्य तस्थौ वरमाल्यधारिणी पार्थं शुभा नागवधूरिव द्विपम्
||३७ ||४-३८-३७ (२९९७२)
तामागतामायतताम्रलोचनामवेक्ष्य पार्थः समयेऽभ्यभाषत ||३८ ||
४-३८-३८ (२९९७३)
किमागता काञ्चनमाल्यधारिणी सुगात्रि किंचित्त्वरिताऽसि सुभ्रु |
किं ते मुखं सुन्दरि न प्रसन्नमाचक्ष्व शीघ्रं मम चारुहासिनि
||३९ ||४-३८-३९ (२९९७४)
वैशम्पायन उवाच. ४-३८-४०क्ष् (३१५३)
सा वज्रवैडूर्यविकारकुण्डला विनिद्रपद्मोत्पलपन्नगन्धिनी |
प्रसन्नताराधिपसंनिभानना पार्थे कुमारी वचनं बभाषे ||४०
||४-३८-४० (२९९७५)
उत्तरोवाच. ४-३८-४१क्ष् (३१५४)
हरन्ति वित्तं कुरवाः पितुर्मे शतं सहस्राणि गवां बृहन्नले |
सा भ्रातुरश्वान्मम संयमस्व पुरा परे दूरतरं हरन्ति गाः ||४१
||४-३८-४१ (२९९७६)
सैरन्ध्रिराख्याति बृहन्नले त्वां सुशिक्षिता संग्रहणे रथाश्वयोः |
अहं मरिष्यामि न मेऽत्र संशयो मया वृता तत्र न चेद्गमिष्यसि
||४२ ||४-३८-४२ (२९९७७)
वैशम्पायन उवाच. ४-३८-४३क्ष् (३१५५)
तथा नियुक्तो नरदेवकन्यया नरोत्तमः प्रीतमना धनञ्जयः |
उवाच पार्थः शुभमन्द्रया गिरा शुभाननां शुक्लदतीं शुचिस्मिताम्
||४३ ||४-३८-४३ (२९९७८)
गच्छामि यत्रेच्छसि चारुहासिनि हुताशनं प्रज्वलितं विशामि वा |
इच्छामि तेऽहं वरगात्रि जीवितं करोमि किं ते प्रियमद्य सुन्दरि |
न मत्कृते द्रक्ष्यसि तत्पुरं प्रिये वैवस्वतं प्रेतपतेर्महाभयम्
||४४ ||४-३८-४४ (२९९७९)
वैशम्पायन उवाच | ४-३८-४५क्ष् (३१५६)
एतावदुक्त्वा कुरुवीरपुङ्गवो विलासिनीं शुक्लदतीं शुचिस्मिताम् |
बृहन्नलारूपविभूषिताननो विराटपुत्रस्य समीपमाव्रजत् ||४५
||४-३८-४५ (२९९८०)
तथा व्रजन्तं वरभूषणैर्वृतं महाप्रभं वारणयूथपोपमम् |
गजेन्द्रबाहुं कमलायतेक्षणं कवाटवक्षस्थलमुन्नतांसम् ||४६
||४-३८-४६ (२९९८१)
तमागतं पार्थममित्रकर्शनं महाबलं नागमिव प्रमाथिनम् |
वैराटिरामन्त्र्य ततो बृहन्नलां गवां निनीषन्पदमुत्तरोऽब्रवीत्
||४७ ||४-३८-४७ (२९९८२)
तमाव्रजन्तं त्वरितं प्रभिन्नमिव कुञ्जरम् |
अन्वगच्छद्विशालाक्षी गजं गजवधूरिव ||४८ ||४-३८-४८ (२९९८३)
दूरादेव तु संप्रेक्ष्य राजपुत्रोऽभ्यभाषत |
त्वया सारथिना पार्थः खाण्डवेऽग्निमतर्पयत् ||४९ ||४-३८-४९ (२९९८४)
पृथिवीं चाजयत्कृत्स्नां कुन्तीपुत्रो धनञ्जयः |
सैरन्ध्री त्वां ममाचष्ट सा हि जानाति पाण्डवान् ||५० ||४-३८-५० (२९९८५)
देवेन्द्रसारथिर्वीरो मातलिः ख्यातविक्रमः |
सुमहो जामदग्नेश्च विष्णोर्यन्ता च दारुकः ||५१ ||४-३८-५१ (२९९८६)
सुमन्त्रो वा दाशरथेः सूर्ययन्ता तथाऽरुणः |
सर्वे सारथयः ख्याता न बृहन्नलया समाः ||५२ ||४-३८-५२ (२९९८७)
इत्युक्तोऽहं च सैरन्ध्र्या तेन त्वामाह्वयामि वै |
आहुता त्वं मया सार्धं योद्धुं याहि बृहन्नले ||५३ ||४-३८-५३ (२९९८८)
दूराद्दूरतरं गावो भवन्ति कुरुभिर्हृताः |
तथोक्ता प्रत्युवाचेदं राजपुत्रं बृहन्नला ||५४ ||४-३८-५४ (२९९८९)
का शक्तिर्मम सारथ्यं कर्तुं संग्राममूर्धनि |
नृत्तं वा यदि वा गीतं वादित्रं वा पृथग्विधम् |
तत्करिष्यामि भद्रं ते सारथ्यं तु कुतो मम ||५५ ||४-३८-५५ (२९९९०)
उत्तर उवाच. ४-३८-५६क्ष् (३१५७)
त्वं नर्तको वा यदि वाऽपि गायकः क्षिप्रं तनुत्रं परिधत्स्व भानुमत् |
अभीक्ष्णमाहुस्तव कर्म पौरुषं स्त्रियः प्रशंसन्ति ममाद्य चान्तिके
||५६ ||४-३८-५६ (२९९९१)
वैशम्पायन उवाच. ४-३८-५७क्ष् (३१५८)
इत्येवमुक्त्वा नृपसूनुसत्तमस्तदा स्मयित्वाऽर्जुनमभ्यनन्दयत् |
अथोत्तरः पारशवं शताक्षिमत्सुवर्णचित्रं परिगृह्य भानुमत्
||५७ ||४-३८-५७ (२९९९२)
बृहन्नलायै प्रददौ स्वयं तदा विराटपुत्रः परवीरघातिने |
तदाज्ञया मात्स्यसुतस्य वीर्यवानकर्तुकामेव समाददे तदा ||५८
||४-३८-५८ (२९९९३)
बृहन्नलोवाच. ४-३८-५९क्ष् (३१५९)
यद्यस्ति च रणे शौर्यं शक्यः स्याद्द्विषतां वधः |
अहं त्वामभिगच्छामि यत्र त्वं यासि तत्र भो ||५९ ||४-३८-५९ (२९९९४)
वैशम्पायन उवाच. ४-३८-६०क्ष् (३१६०)
ततः स नर्मसंयुक्तमकरोत्पाण्डवो बहु |
उत्तरायाः प्रमुखतः सर्वं जानन्नरिन्दमः ||६० ||४-३८-६० (२९९९५)
तमाददानं प्रमदा जहासिरे ह्यधोमुखं वीरवरोऽभ्यधारयत् |
ततस्तिरश्चीनकृतं सपत्नहा ह्यधोमुखं कवचमथाभ्यकर्षत
||६१ ||४-३८-६१ (२९९९६)
सम्यक्प्रजानन्नपि सत्यविक्रमो ह्यज्ञातवत्सर्वकुरुप्रवीरः |
ऊर्ध्वं क्षिपन्वीरतरोऽभ्यधारयत्पुनश्च यन्ता कवचं धनञ्जयः
||६२ ||४-३८-६२ (२९९९७)
एवंप्रकाराणि बहूनि कुर्वति तस्मिन्कुमार्यः प्रमदा जहासिरे |
तथापि कुर्वन्तममित्रकर्शनं नैवोत्तरः पर्यभवद्धनञ्जयम्
||६३ ||४-३८-६३ (२९९९८)
तं राजपुत्रः समनाहयत्स्वयं जाम्बूनदान्तेन शुभेन वर्मणा |
कृशानुतप्तप्रतिमेन भास्वता जाज्वल्यमानेन सहस्ररश्मिना ||६४
||४-३८-६४ (२९९९९)
अथास्य शीघ्रं प्रसमीक्ष्य भोजयद्रथे हयान्काञ्चनजालसंवृतान् |
सुवर्णजालान्तरयोक्तभूषणं सिंहं च सौवर्णमुपाश्रयद्रथे ||६५
||४-३८-६५ (३००००)
धनूंषि च विचित्राणि बाणांश्च रुचिरान्बहून् |
आयुधानि च वै तत्र रथोपस्थे च स न्यसत् ||६६ ||४-३८-६६ (३०००१)
आरुह्य प्रययौ वीरः सबृहन्नलसारथिः |
अथोत्तरा च कन्याश्च स ख्यश्चैवाब्रुवंस्तदा ||६७ ||४-३८-६७ (३०००२)
बृहन्नले आनयेथा वासांसि रुचिराणि नः |
पाञ्चालिकार्थं सूक्ष्माणि रत्नानि विविधानि च |
विजित्य संग्रामगतान्भीष्मद्रोणमुखान्कुरून् ||६८ ||४-३८-६८ (३०००३)
अथ ता ब्रुवतीः कन्याः सहिताः कुरुनन्दनः |
प्रत्युवाच हसन्पार्थो मेघदुन्दुभिनिस्वनः ||६९ ||४-३८-६९ (३०००४)
यद्युत्तरोऽयं संग्रामे विजेष्यति महारथान् |
अथाहरिष्ये वासांसि सूक्ष्माण्याभरणानि च ||७० ||४-३८-७० (३०००५)
वैशम्पायन उवाच. ४-३८-७१क्ष् (३१६१)
अथोत्तरो वर्म महाप्रभावं सुवर्णवैडूर्यपरिष्कृतं शुभम् |
आमुच्य वीरः प्रययौ रथोत्तमं धनञ्जयं सारथिनं प्रगृह्य
||७१ ||४-३८-७१ (३०००६)
तमुत्तरं प्रेक्ष्य रथोत्तमे स्थितं बृहन्नलां चैव महाजनस्तदा |
स्त्रियश्च कन्याश्च द्विजाश्च सुव्रताः प्रदक्षिणं
मङ्गलिनोऽभ्यपूजयन् ||७२ ||४-३८-७२ (३०००७)
यदर्जुनस्यर्षभतुल्यगामिनः पुराऽभवत्खाण्डवदाहमङ्गलम् |
कुरून्समासाद्य रणे बृहन्नले सहोत्तरेणास्तु तवाद्य मङ्गलम् ||७३
||||४-३८-७३ (३०००८)
इति श्रीमन्महाभारते विराटपर्वणि ग्रोग्रहणपर्वणि
अष्टत्रिंशोऽध्यायः ||३८ ||
Mahabharata -Virata Parva -Chapter Footnotes
४-३८-३५ शिखण्डिनी मयूरपिच्छालंकारवती ||
३५ ||
विराटपर्व -अध्याय ०३९
||श्रीः ||
४. ३९. अध्यायः ३९
Mahabharata -Virata Parva -Chapter Topics
उत्तरेण कुरुसेनावलोकनमात्रेण रथादवस्कन्द्य भयात्पलायनम् ||१ ||
तमनुधाविनाऽर्जुनेन तस्य केशपाशे ग्रहणेन परिसान्त्वनपूर्वकं
पुना रथारोपणम् ||२ ||
तथा तेन सह गाण्डीवाद्यानयनाय शमींप्रति गमनम् ||३ ||
Mahabharata -Virata Parva -Chapter Text
४-३९-० (३०००९)
वैशम्पायन उवाच. ४-३९-०क्ष् (३१६२)
स राजधान्य निर्याय वैराटिरकुतोभयः |
प्रयाहीत्यब्रवीत्सूतं यत्र ते कुरवो गताः ||१ ||४-३९-१ (३००१०)
समवेतान्कुरून्सर्वाञ्जिगीषूनवजित्य वै |
गाश्चैताः क्षिप्रमादाय पुनरेष्याम्यहं पुरम् ||२ ||४-३९-२ (३००११)
ततस्तांश्चोदयामास सदश्वान्पाण्डुनन्दनः ||३ ||४-३९-३ (३००१२)
ते हया नरसिंहेन चोदिता वातरंहसः |
आलिखन्त इवाकाशमूहुः काञ्चनमालिनः ||४ ||४-३९-४ (३००१३)
नातिदूरमथो गत्वा मात्स्यपुत्रधनञ्जयौ |
अवैक्षेतामवित्रस्तौ कुरूणां बलिनां बलम् ||५ ||४-३९-५ (३००१४)
श्मशानमभितो गत्वा शूरौ ददृशतुःकुरून् ||६ ||
तदनीकं महत्तेषां विस्तृतं सागरोपमम् | ४-३९-६ (३००१५)
सर्पमाणमिवाकाशे वनं बहुलपादपम् ||७ ||
ददृशे पार्थिवो रेणुर्जनितस्तेन सर्पता. ४-३९-७ (३००१६)
दृष्टिप्रणाशो भूतानां दिवस्पृक्कुरुसत्तम ||८ ||
तदनीकमथो वीक्ष्य गजाश्वरथसंकुलम् | ४-३९-८ (३००१७)
कर्णदुर्योधनकृपैर्गुप्तं शान्तनवेन च |
द्रोणेन सह पुत्रेण महेष्वासेन धीमता ||९ ||४-३९-९ (३००१८)
हृष्टरोमा भयोद्विग्नो निमील्य स्वदृशौ तदा |
कम्पमानशरीरश्च पार्थं वैराटिरब्रवीत् ||१० ||४-३९-१० (३००१९)
नोत्सहे कुरुभिर्योद्धुं रोमहर्षं हि पश्य मे |
बहुप्रवीरमत्युग्रं देवैरपि दुरासदम् |
प्रतियोद्धुं न शक्नोमि कुरुसैन्यं भयानकम् ||११ ||४-३९-११ (३००२०)
नाशंसे भारतीं सेनां प्रवेष्टुं भीमकार्मुकाम् |
देवैरपि सहेन्द्रेण न शक्यं किंपुनर्नरैः ||१२ ||४-३९-१२ (३००२१)
रथनागाश्वकलिलं पत्तिध्वजसमाकुलम् |
दृष्ट्वैव हि परानीकं मनः प्रव्यथतीव मे ||१३ ||४-३९-१३ (३००२२)
यत्र द्रोणश्च भीष्मश्च कृपः कर्णो विविंशतिः |
अश्वत्थामा विकर्णश्च सोमदत्तश्च बाह्लिकः |
दुर्योधनस्तथा राजा वीरो दुर्मर्षणः परः ||१४ ||४-३९-१४ (३००२३)
नीतिमन्तो महेष्वासाः सर्वे युद्धविशारदाः |
मत्ता इव महानागा युक्तध्वजपताकिनः ||१५ ||४-३९-१५ (३००२४)
नीतिमन्तो महेष्वासाः सर्वार्थकृतनिश्चयाः |
ताञ्जेतुं समरे शूरान्दुर्बुद्धिरहमागतः ||१६ ||४-३९-१६ (३००२५)
दृष्ट्वैव हि कुरून्सर्वान्व्यूढानीकान्प्रहारिणः |
हृषितानि च रोमाणि कश्मलेनाहतं मनः ||१७ ||४-३९-१७ (३००२६)
वैशम्पायन उवाच. ४-३९-१७क्ष् (३१६३)
दृष्ट्वा तु महतीं सेनां कुरूणां दृढधन्विनाम् |
परिदेवयते मन्दः सकाशे सव्यसाचिनः ||१८ ||४-३९-१८ (३००२७)
त्रिगर्तान्मे पिता यातः शून्ये वै प्रणिधाय माम् |
सर्वां सेनामुपादाय न मे सन्तीह सैनिकाः ||१९ ||४-३९-१९ (३००२८)
अहमेको बहून्बालः कृतास्त्रानकृतश्रमः |
प्रतियोद्धुं न शक्नोति निवर्तय बृहन्नले ||२० ||४-३९-२० (३००२९)
वैशम्पायन उवाच. ४-३९-२१क्ष् (३१६४)
तं तथा वादिनं तत्र बीभत्सुः प्रत्यभाषत |
संप्रहस्य पुनस्तं वै सर्वलोकमहारथः ||२१ ||४-३९-२१ (३००३०)
भयेन दीनरूपोऽसि द्विषतां हर्षवर्धनः |
न च तावत्कृतं किंचित्परैः कर्म रणाजिरे ||२२ ||४-३९-२२ (३००३१)
स्वयमेव च मामात्थ नय मां कौरवान्प्रति |
सोहं त्वां तत्र नेष्यामि यत्रैते बहुला ध्वजाः ||२३ ||४-३९-२३ (३००३२)
मध्यमामिषगृध्रूनां कुरूणामाततायिनाम् |
नेष्यामि त्वां महाबाहो मा त्वं हि विमना भव |
समुद्रमिव गम्भीरं कुरुसैन्यमरिन्दम ||२४ ||४-३९-२४ (३००३३)
स्त्रीसकाशे प्रतिज्ञाय पुरुषाणां हि शृण्वताम् |
विकत्थमानो निर्यात्वा ब्रूषि किं नात्र युद्ध्यसे ||२५ ||४-३९-२५ (३००३४)
तथा स्त्रीषु प्रतिश्रुत्य पौरुषं पुरुषेषु च |
रथमारुह्य निर्यात्वा किमर्थं नावबुध्यसे ||२६ ||४-३९-२६ (३००३५)
न चेद्विजित्य गास्त्वं हि नगरं प्रतियास्यसि |
प्रहसिष्यन्ति वीरास्त्वां नरा नार्यश्च संगताः ||२७ ||४-३९-२७ (३००३६)
अहमप्यस्मि सैरन्ध्र्या स्तुतः सारथ्यकर्मणि |
नाहं शक्नोम्यनिर्जित्य गाः प्रयातुं पुरं प्रति ||२८ ||४-३९-२८ (३००३७)
स्तोत्रेण चैव सैरन्ध्र्यास्तव वाक्येन चोदितः |
कथं न युद्ध्येयमहं कुरूनेतान्स्थिरो भव ||२९ ||४-३९-२९ (३००३८)
उत्तर उवाच. ४-३९-३०क्ष् (३१६५)
कामं हरन्तु मात्स्यानां भूयांसः कुरवो धनम् |
प्रहसन्तु च मां नार्यो नरा वाऽपि बृहन्नले ||३० ||४-३९-३० (३००३९)
संग्रामेण न मे कार्यं गावो गच्छन्तु चापि मे |
नगरं च प्रवेक्ष्यामि पश्यतस्ते बृहन्नले ||३१ ||४-३९-३१ (३००४०)
वैशम्पायन उवाच. ४-३९-३२क्ष् (३१६६)
इत्युक्त्वा प्राद्रवद्भीतो रथात्प्रस्कन्द्य कुण्डली |
त्यक्त्वा मानं सुसंत्रस्तो विसृज्य सशरं धनुः ||३२ ||४-३९-३२ (३००४१)
अर्जुन उवाच. ४-३९-३३क्ष् (३१६७)
नैष शूरैः स्मृतो धर्मः क्षत्रियस्य पलायनम् |
श्रेयो हि मरणं युद्धे न भीतस्य पलायनम् ||३३ ||४-३९-३३ (३००४२)
वैशम्पायन उवाच. ४-३९-३४क्ष् (३१६८)
एवमुक्त्वा तु कौरव्यः सोऽवप्लुत्य रथोत्तमात् |
तमन्वधावद्धावन्तं राजपुत्रं धनञ्जयः |
दीर्घां वेणीं विधून्वानः साधु रक्ते च वाससी ||३४ ||४-३९-३४ (३००४३)
विक्रमन्तं पदन्यासैर्नमयन्तं च भूतलम् |
विधूय वेणीं धावन्तमजानन्तोऽर्जुनं तदा |
सैनिकाः प्राहसन्केचिद्योषिद्रूपमवेक्ष्य तम् ||३५ ||४-३९-३५ (३००४४)
तं च शीघ्रं प्रधावन्तं संप्रेक्ष्य कुरवोऽब्रुवन् |
कोऽयं धावत्यसङ्गेन पूर्वं मुक्त्वा रथोत्तमम् ||३६ ||४-३९-३६ (३००४५)
क एष वेषसंच्छन्नो भस्मनेव हुताशनः |
किंचिदस्य यथा पुंसः किंचिदस्य यथा स्त्रियः ||३७ ||४-३९-३७ (३००४६)
इत्येवं सैनिकाः प्राहुर्द्रोणस्तानिदमब्रवीत् |
आचार्यः कुरुपाण्डूनां मतौ शुक्राङ्गिरोपमः ||३८ ||४-३९-३८ (३००४७)
किं विचारेण वः कार्यमेतेनानुसृतेन वा |
धावन्तमनुधावंश्च निर्भयो भयविप्लुतम् |
वेणीकलापं निर्धूय प्रविभाति नरर्षभः ||३९ ||४-३९-३९ (३००४८)
आकारमर्जुनस्येव क्लीबरूपं बिभर्ति च |
रूपेण पार्थसदृशः स्त्रीवेषसमलंकृतः ||४० ||४-३९-४० (३००४९)
तदेवैतच्छिरोग्रीवं तौ बाहू परिघोपमौ |
तत्तदेवास्य विक्रान्तं नायमन्यो धनञ्जयात् ||४१ ||४-३९-४१ (३००५०)
अमरेष्विव देवेन्द्रो मनुष्येषु धनञ्जयः |
एकः कोस्मानुपायायादन्यो लोके धनञ्जयात् ||४२ ||४-३९-४२ (३००५१)
द्रोणेन चैवमुक्तस्तु कर्णः प्रोवाच बुद्धिमान् |
एकः पुत्रो विराटस्य शून्ये संनिहितः पुरे ||४३ ||४-३९-४३ (३००५२)
स एष किल निर्यातो बालभावान्न पौरुषात् |
क्लीबं वै सारथिं कृत्वा निर्यातो नगराद्बहिः ||४४ ||४-३९-४४ (३००५३)
छन्नं सत्रेण वै नूनं जानीध्वं यान्तमर्जुनम् |
ते हि नः प्रतिसंयातुं संग्रामे न हि शक्नुयुः |
कथमेकतरस्तेषां समस्तान्योधयेत्कुरून् ||४५ ||४-३९-४५ (३००५४)
उत्तरः सारथिं कृत्वा निर्यातो नगराद्बहिः |
स नो मन्ये ध्वजं दृष्ट्वा भीत एष पलायति ||४६ ||४-३९-४६ (३००५५)
कृप उवाच. ४-३९-४७क्ष् (३१६९)
नूनं तमेव धावन्तं जिघृक्षति धनञ्जयः |
सारथिं ह्युत्तरं कृत्वा स्वयं योद्धुमिहेच्छति ||४७ ||४-३९-४७ (३००५६)
वैशम्पायन उवाच. ४-३९-४८क्ष् (३१७०)
इति स्म कुरवः सर्वे विमृशन्तः पृथक्पृथक् |
न च व्यवसितुं वीरा अर्जुनं शक्नुवन्ति ते ||४८ ||४-३९-४८ (३००५७)
दुर्योधन उवाचेदं सैनिकान्रथसत्तमान् |
अर्जुनो वासुदेवो वा रामः प्रद्युम्न एव वा |
ते हि नः प्रतिसंयातुं संग्रामे न हि शक्नुयुः ||४९ ||४-३९-४९ (३००५८)
अन्यो वै क्लीबरूपेण यद्यागच्छेद्गवां पदम् |
शस्त्रैस्तीक्ष्णैरर्पयित्वा पातयिष्यामि भूतले |
कथमेकतरस्तेषां समस्तान्योधयेत्कुरून् ||५० ||४-३९-५० (३००५९)
वैशम्पायन उवाच. ४-३९-५१क्ष् (३१७१)
छन्नं तथा तं वेषेण पाण्डवं प्रेक्ष्य सैनिकाः |
अर्जुनेति च नेत्येव न व्यवस्यन्ति ते पुनः |
इति स्म कुरवः सर्वे विमृशन्तः पुनः पुनः ||५१ ||४-३९-५१ (३००६०)
दृढेवधी महासत्त्वः शक्रतुल्यपराक्रमः |
अद्यागच्छति चेद्योद्धुं सर्वं संशयितं बलम् ||५२ ||४-३९-५२ (३००६१)
न चाप्यन्यतरं तत्र व्यवस्यन्ति धनञ्जयात् ||५३ ||४-३९-५३ (३००६२)
उत्तरं तु प्रधावन्तमनुद्रुत्य धनञ्जयः |
गत्वा शतपदं तूर्णं केशपक्षे परामृशत् ||५४ ||४-३९-५४ (३००६३)
मा मा गृहाण भद्रं ते दासोऽहं ते बृहन्नले |
इति वादिनमेवाशु धावन्तं तरसाऽग्रहीत् |
विराटपुत्रं बीभत्सुर्बलवानरिमर्दनः ||५५ ||४-३९-५५ (३००६४)
सोऽर्जुनेन परामृष्टः पर्यदेवयदार्तवत् |
बहुलं कृपणं चैव वित्तं प्रावेदयद्बहु ||५६ ||४-३९-५६ (३००६५)
सुवर्णमणिमुक्तानां यद्यदिच्छसि दद्मि ते |
हस्तिनोश्वान्रथान्गावः स्त्रियश्च समलङ्कृताः ||५७ ||४-३९-५७ (३००६६)
शातकुम्भस्य शुद्धस्य श्रेष्ठस्य रजतस्य च |
ददामि शतनिष्कं ते मुञ्च मां त्वं बृहन्नले ||५८ ||४-३९-५८ (३००६७)
षष्टिं स्वलंकृताः कन्या ग्राममेकं ददामि ते |
मुञ्च मां त्वं भृशं दीनं विह्वलं भयकम्पितम् ||५९ ||४-३९-५९
(३००६८)
मणीनष्टौ च वैडूर्यान्हेमबद्धान्महाप्रभान् |
हेमदण्डप्रतिच्छन्नं रथं युक्तं तु वाजिभिः ||६० ||४-३९-६० (३००६९)
मत्तांश्च दश मातङ्गान्मुञ्च मां त्वं बृहन्नले |
गमिष्यामि पुरं षण्ड द्रष्टुं मातरमद्य ताम् ||६१ ||४-३९-६१ (३००७०)
एकोऽहमेव मे मातुः कुमारः किं ब्रुवे ततः |
विधिरेवंविधे काले त्वद्वशं कुरुते हि माम् ||६२ ||४-३९-६२ (३००७१)
मात्स्यस्य पुत्रो बालोऽहं तेन चास्मि सुपोषितः |
मातृपार्श्वशयानोऽहमस्पृष्टातपवायुमान् ||६३ ||४-३९-६३ (३००७२)
अदृष्टबालयुद्धोऽहं कुतस्ते कुरवः कुतः |
मातृपार्श्वं गमिष्यामि मुञ्च मां त्वं बृहन्नले ||६४ ||४-३९-६४
(३००७३)
प्रलयार्णवसंकाशं दृश्यते कौरवं बलम् ||६५ ||४-३९-६५ (३००७४)
स्त्रीणां मध्येऽहमज्ञानाद्वीर्यशौर्याङ्कितां गिरम् |
उक्तो यौवनगर्वेण को जेतुं शक्नुयात्कुरून् |
अमुक्त्वा मां यदि नयेर्मरिष्यामि तवाग्रतः ||६६ ||४-३९-६६ (३००७५)
वैशम्पायन उवाच. ४-३९-६७क्ष् (३१७२)
एवमादीनि वाक्यानि विलपन्तमचेतसम् |
प्रसभं पुरुषव्याघ्रो रथस्यान्तिकमानयत् ||६७ ||४-३९-६७ (३००७६)
अथैनमब्रवीत्पार्थो भयार्तं नष्टचेतसम् ||६८ ||४-३९-६८ (३००७७)
अहं योत्स्यामि कौरव्यैर्हयान्संयच्छ मेति माम् |
आददानः किमर्थं त्वं पलायनपरोऽभवः ||६९ ||४-३९-६९ (३००७८)
युध्यस्व कौरवैः सार्धं विजयस्ते भविष्यति |
यस्य यन्तास्म्यहं युद्धे संयच्छामि हयोत्तमान् |
राज्ञो वा राजपुत्रस्य तस्य युद्धे जयो ध्रुवम् ||७० ||४-३९-७० (३००७९)
सर्वथोत्तर युध्यस्व यन्त्रा सह मया कुरून् |
जित्वा महीं यशः प्राप्य भोक्ष्यसे सकलामिमाम् ||७१ ||४-३९-७१ (३००८०)
हतो वा प्राप्ससे स्वर्गं न श्रेयस्ते पलायनम् ||७२ ||४-३९-७२ (३००८१)
अद्य सर्वान्कुरूञ्जित्वा यथा जयमवाप्स्यसि |
तथाऽहं प्रयतिष्येऽत्र सहायोऽत्र मतो ह्यहम् ||७३ ||४-३९-७३ (३००८२)
यदि नोत्सहसे योद्धुं शत्रुभिः शत्रुकर्शन |
एहि मे त्वं हयान्यच्छ युध्यमानस्य शत्रुभिः ||७४ ||४-३९-७४ (३००८३)
प्रयाह्येतद्रथानीकं मद्बाहुपरिरक्षितः |
अप्रधृष्यतमं घोरं गुप्तं घोरैर्महारथैः |
मा भैस्त्वं राजपुत्राग्र्य क्षत्रियोसि परंतप ||७५ ||४-३९-७५ (३००८४)
अहं तैः कुरुभिर्योत्स्ये प्रत्यानेष्यामि ते पशून् |
प्रविशैतद्रथानीकमप्रधृष्यं दुरासदम् ||७६ ||४-३९-७६ (३००८५)
यन्ता भव नरश्रेष्ठ योत्स्येऽहं कुरुभिः सह |
शूरान्समरचण्डांश्च नयिष्ये यमसादनम् ||७७ ||४-३९-७७ (३००८६)
वैशम्पायन उवाच. ४-३९-७८क्ष् (३१७३)
एवं ब्रुवाणो वैराटिं बीभत्सुरपराजितः |
समाश्वास्य भयार्तं तमुत्तरं भरतर्षभः ||७८ ||४-३९-७८ (३००८७)
इतस्ततो विवेष्टन्तमकामं भयपीडितम् |
रथमारोपमायास पार्थः परपुरंजयः ||७९ ||४-३९-७९ (३००८८)
तमारोप्य रथोपस्थे विलपन्तं धनञ्जयः |
गाण्डीवं धनुरादातुमुपायात्तां शमीं प्रति. ४-३९-८० (३००८९)
उत्तरं तं समाश्वास्य कृत्वा यन्तारमर्जुनः ||८० ||||४-३९-८१ (३००९०)
इति श्रीमन्महाभारते विराटपर्वणि गोग्रहणपर्वणि
एकोनचत्वारिंशोऽध्यायः ||३९ ||
विराटपर्व -अध्याय ०४०
||श्रीः ||
४. ४०. अध्यायः ४०
Mahabharata -Virata Parva -Chapter Topics
उत्तरेणार्जनचोदनया शमीमारुह्य धनुरादानम् ||१ ||
Mahabharata -Virata Parva -Chapter Text
४-४०-० (३००९१)
वैशम्पायन उवाच. ४-४०-०क्ष् (३१७४)
तं दृष्ट्वा क्लीबरूपेण रथस्थं रथिपुङ्गवम् |
शमीमभिमुखं यान्तं रथमारोप्य चोत्तरम् ||४-४०-१ (३००९२)
द्रोणभीष्मादयः शूराः कुरूणां रथिसत्तमाः |
वित्रस्तमनसश्चासन्धनञ्जयकृताद्भयात् ||४-४०-२ (३००९३)
तानवेक्ष्य हतोत्साहानुत्पातानपि चाद्भुतान् |
गुरुः शस्त्रभृतांश्रेष्ठो भारद्वाजोऽभ्यभाषत ||४-४०-३ (३००९४)
स्वराश्च वाताः संयान्ति रूक्षाः परुषनिस्वनाः |
भस्मवर्षप्रकाशेन तमसा संवृतं नभः ||४-४०-४ (३००९५)
रूक्षवर्णाश्च जलदा दृश्यन्तेऽद्भुतदर्शनाः |
निःसरन्ति च कोशेभ्यः शस्त्राणि विविधानि च ||४-४०-५ (३००९६)
शिवाश्च विनदन्त्येता दीप्तायां दिशि दारुणाः |
हयाश्चाश्रूणि मुञ्चन्ति ध्वजाः कम्पन्त्यकम्पिताः ||४-४०-६ (३००९७)
यादृशान्यत्र दृश्यन्ते रूपाणि विविधानि च |
यत्ता भवन्तस्तिष्ठन्तु युद्धं स्यात्समुपस्थितम् ||४-४०-७ (३००९८)
रक्षध्वमपि राजानं व्यूहध्वं वाहिनीमपि |
वैशसं च प्रतीक्षध्वं रक्षध्वं चापि गोधनम् ||४-४०-८ (३००९९)
एष वीरो महेष्वासः सर्वशस्त्रभृतांवरः |
आगतः क्लीबवेषेण पार्थो नास्त्यत्र संशयः ||४-४०-९ (३०१००)
एतावदुक्त्वा वचनं भीष्ममालोक्य चाब्रवीत् ||४-४०-१० (३०१०१)
नदीज लङ्केशवनारिकेतुर्नगाह्वयो नाम नगारिसूनुः |
गत्या सुरेशः क्वचिदङ्गनेव गुरुर्बभाषे वचनं तदानीम्
||४-४०-११ (३०१०२)
वैशम्पायन उवाच. ४-४०-१२क्ष् (३१७५)
इत्युक्त्वा संज्ञया द्रोणस्तूष्णीमासीद्विशांपते |
भारद्वाजवचः श्रुत्वा गाङ्गेयः संज्ञयाऽब्रवीत् ||४-४०-१२ (३०१०३)
अतीतं चक्रमस्माकं विषयान्तरमागताः |
अतीतः समयश्चोक्त अस्माभिर्यः सभातले |
न भयं शत्रुतः कार्यं शङ्कां त्यज नरर्षभ ||४-४०-१३ (३०१०४)
देवव्रतेनैवमुक्ते वचने हितकारिणा |
दुर्योधनमथालोक्य संज्ञया द्रोण अब्रवीत् ||४-४०-१४ (३०१०५)
एष वीरो महेष्वासः सर्वशस्त्रभृतांवरः |
आगतः क्लीबरूपेण पार्थो नास्त्यत्र संशयः ||४-४०-१५ (३०१०६)
एष पार्थो हि विक्रान्तः सव्यसाची परन्तपः |
ये जेतारो महीपानाममुना कुरवो हताः ||४-४०-१६ (३०१०७)
यस्मिञ्जाते मही कृत्स्ना निर्भरोच्छ्वासिताऽभवत् |
येन मे दक्षिणा दत्ता बद्ध्वा द्रुपदमोजसा ||४-४०-१७ (३०१०८)
विद्ध्वा वियद्गतं लक्ष्यं विनिर्जित्य च पार्थिवान् |
निर्जिता येन पाञ्चाली पुरा येन स्वयंवरे ||४-४०-१८ (३०१०९)
खाण्डवे येन संतृप्तो वह्निर्जित्वा सुरासुरान् |
परिणीता सुभद्रा च येन निर्जित्य यादवान् ||४-४०-१९ (३०११०)
निर्जितो येन युद्धेन त्रिपुरारिः स्मरार्दनः ||४-४०-२० (३०१११)
गत्वा त्रिविष्टपं येन जितेन्द्रा दानवा युधि |
निवातकवचा राजन्दानवानां त्रिकोटयः |
निर्जिताः कालकेयाश्च हिरण्यपुरवासिनः ||४-४०-२१ (३०११२)
येन त्वं मोचितो बद्धश्चित्रसेनेन तद्वने ||४-४०-२२ (३०११३)
येन गत्वोत्तरं मेरोरानिनाय महद्धनम् |
याजितो धर्मसूनुश्च नृपान्सर्वान्विजित्य च ||४-४०-२३ (३०११४)
यस्मिञ्शौर्यं च वीर्यं च तेजो धैर्यं पराक्रमः |
औदार्यं चैव गाम्भीर्यं श्रीर्ह्रीर्धर्मो दयाऽऽर्जवम् |
एवमादिगुणोपेतः सोयं पार्थो न संशयः ||४-४०-२४ (३०११५)
नाजित्वा विनिवर्तेत सर्वानपि मरुद्गणान् ||४-४०-२५ (३०११६)
क्लेशितश्च वने शूरो वासवेन च शिक्षितः |
अमर्षवशमापन्नो योत्स्यते नात्र संशयः |
न ह्यस्य प्रतियोद्धारमन्यं पश्यामि कौरव ||४-४०-२६ (३०११७)
महादेवोपि पार्थेन श्रूयते युद्धतोषितः |
किरातवेषप्रच्छन्नो गिरौ हिमवति प्रभुः ||४-४०-२७ (३०११८)
इत्येवंवादिनं द्रोणं कर्णः क्रुद्धोऽभ्यभाषत ||४-४०-२८ (३०११९)
सदा भवान्फल्गुनस्य गुणानस्मासु कत्थसे |
न चार्जुनः कलापूर्णो मम दुर्योधनस्य वा ||४-४०-२९ (३०१२०)
दुर्योधन उवाच. ४-४०-३०क्ष् (३१७६)
यद्येष पार्थो राधेय कृतं कार्यं भवेन्मम |
ज्ञाताः पुनश्चरिष्यन्ति द्वादशान्यांश्च वत्सरान् ||४-४०-३० (३०१२१)
अथवा कश्चिदेवान्यः क्लीबरूपेण देवराट् |
शरैरेनं सुनिशितैः पातयिष्यामि भूतले ||४-४०-३१ (३०१२२)
वैशम्पायन उवाच. ४-४०-३२क्ष् (३१७७)
तस्मिन्वदति तां वाचं धार्तराष्ट्रे परन्तपे |
भीष्मो द्रोणः कृपो द्रौणिः पौरुषं तदपूजयन् ||४-४०-३२ (३०१२३)
तां शमीमभिसंगम्य पार्थो वैराटिमब्रवीत् |
सुखसंवर्धितं पित्रा समराणामकोविदम् ||४-४०-३३ (३०१२४)
एहि भूमिंजयारुह्य वैराटे महतीं शमीम् |
समादिष्टो मया क्षिप्रं धनुर्गाण्डीवमानय ||४-४०-३४ (३०१२५)
नेमानीष्वासनानीह सोढुं शक्ष्यन्ति मे बलम् |
नालं भारं गुरुं भेत्तुं कुञ्जरं वा प्रमर्दितुम् ||४-४०-३५ (३०१२६)
मम वा बाहुविक्षेपं शत्रूनिह विजेष्यतः |
नेच्छामि तैरहं कर्तुं कर्म वैजयिकं त्विह ||४-४०-३६ (३०१२७)
अतिसूक्ष्माणि ह्रस्वानि सर्वाणि च मृदूनि च |
आयुधानि महाबाहो तवैतानि महाबल ||४-४०-३७ (३०१२८)
तस्माद्भूमिंजयारुह्य शमीमेतां पलाशिनीम् |
अस्यां हि पाण्डुपुत्राणां धनूंषि निहितात्युत ||४-४०-३८ (३०१२९)
युधिष्ठिरस्य भीमस्य बीभत्सोर्यमयोस्तथा |
ध्वजा शराश्च शूराणां दिव्यानि कवचानि च ||४-४०-३९ (३०१३०)
अत्रैव तु महावीर्यं धनुः पार्थस्य गाण्डिवम् |
एकं शतसहस्रेण संमितं राष्ट्रवर्धनम् ||४-४०-४० (३०१३१)
व्यायामसहमत्यर्थं तृणराजसमं महत् |
सर्वायुधमहामात्रं सर्वारिक्षयकारकम् ||४-४०-४१ (३०१३२)
सुवर्णविकृतं दिव्यं श्लक्ष्णमायतमव्रणम् |
अलं भारं गुरुं सोढुं वारुणं च सुदर्शनम् ||४-४०-४२ (३०१३३)
तादृशान्येव सर्वाणि बलवन्ति दृढानि च |
युधिष्ठिरस्य भीमस्य बीभत्सोर्यमयोस्तथा |
प्रथितानि विशिष्टानि दुर्दशानि भवन्त्युत ||४-४०-४३ (३०१३४)
उत्तर उवाच. ४-४०-४४क्ष् (३१७८)
शरीरमिह चासक्तं शम्यां शुष्कं पुरा किल |
तदहं राजपुत्रः सन्स्पृशेयं पाणिना कथम् ||४-४०-४४ (३०१३५)
न मामेवंविधं कर्म कारयस्व बृहन्नले |
कथं वा शक्यते कर्तुं बुद्ध्या त्वं मन्यसे कथं ||४-४०-४५ (३०१३६)
नैवंविधं मया युक्तमालब्धुं क्षत्रयोनिना |
महता राजपुत्रेण मन्त्रयज्ञविदा सता ||४-४०-४६ (३०१३७)
स्पृष्टवन्तं शरीरं मां शववाहमिवाशुचिम् |
कथं वा व्यवहार्यं वै कुर्वीथास्त्वं बृहन्नले ||४-४०-४७ (३०१३८)
वैशम्पायन उवाच. ४-४०-४८क्ष् (३१७९)
तमुवाच ततः शूरः पार्थं परपुंरजयः |
दायादं सर्वमत्स्यानां कुले जातं विशारदम् ||४-४०-४८ (३०१३९)
जानामि त्वां महाप्राज्ञ शुभं जात्या कुलेन च |
कथं नु पापकं कर्म ब्रूयां त्वाऽहं परन्तप ||४-४०-४९ (३०१४०)
व्यवहार्यश्च राजेन्द्र शुद्धश्चैव भविष्यसि |
धनूंष्येतानि मा भैस्त्वं शरीरं नात्र विद्यते ||४-४०-५० (३०१४१)
दायादं मत्स्यराजस्य कुले जातं मनस्विनम् |
कथं वा नन्दितं कर्म कारये त्वां नृपात्मज ||४-४०-५१ (३०१४२)
वैशम्पायन उवाच. ४-४०-५२क्ष् (३१८०)
एवमुक्तः स पार्थेन रथात्प्रस्कन्द्य कुण्डली |
आरुरोह शमीवृक्षं वैराटिरवशस्तदा ||४-४०-५२ (३०१४३)
तमन्वशासच्छत्रुघ्नो रथे तिष्ठन्धनञ्जयः |
अवरोपय वृक्षाग्राद्धनूंष्येतानि माचिरम् ||४-४०-५३ (३०१४४)
सोपहृत्य महार्हाणि धनूंषि पृथुवक्षसाम् |
परिवेष्टनपत्राणि विमुच्य समुपानयत् ||४-४०-५४ (३०१४५)
परिवेष्टनमेतेषां सर्वं मुञ्चस्व माचिरम् |
तेषां संनहनीयानि परिमुच्य परन्तपः |
अपश्यत्तत्र गाण्डीवं चतुर्भिरपरैः सह ||४-४०-५५ (३०१४६)
तेषां विमुच्यमानानां धनुषामर्कवर्चसाम् |
विनिश्चेरुः प्रभा दिव्या ग्रहाणामुदयेष्विव ||४-४०-५६ (३०१४७)
स तेषां रूपमालेक्य भोगिनामिव दृम्भताम् |
हृष्टरोमा भयोद्विग्रः प्रवेपिततनुस्तदा ||४-४०-५७ (३०१४८)
अर्जुनेन समाश्वस्तः किंचिद्धृष्टो नृपात्मजः |
तेषां संदर्शनाभ्यासं स्पर्शाभ्यासं पुनः पुनः ||५८ ||४-४०-५८ (३०१४९)
आमील्य पुनरुन्मील्य स्पृष्ट्वास्पृष्ट्वा चकार सः |
सम्यग्घुण्टस्तदाऽऽश्वस्तः क्षणेन समपद्यत ||५९ ||४-४०-५९ (३०१५०)
संस्पृश्य तानि चापानि भानुमन्ति बृहन्ति च |
वैराटिरर्जुनं राजन्निदं वचनमब्रवीत् ||६० ||||४-४०-६० (३०१५१)
इति श्रीमन्महाभारते विराटपर्वणि गोग्रहणपर्वणि
चत्वारिंशोऽध्यायः ||४० ||
Mahabharata -Virata Parva -Chapter Footnotes
४-४०-११ नगारिसूनुः | एषोऽङ्गनावेषधरः किरीटी जित्वाऽव
यं नेष्यति चाद्य गा व इति झो पाठः. हे नदीज गाङ्गेय भीष्म,
लङ्केशस्य रावणस्य वनं तस्यारिर्नाशको हनूमान् स केतुर्ध्वजो यस्य
सः लङ्केशवनारिकेतुः | नगो ' वृक्षस्तदाह्लयः वृक्षनामा. अर्जुन
इत्यर्थः. शैलवृक्षौ नगावगावित्यमरः. नगारिरिन्द्रस्तस्य
सूनुः | किरीटी तन्नामा यं जित्वा वः युष्माकं गाः धेनूः नेष्यति तं
दुर्योधनं अव पालय ||
११ ||
४-४०-४६ आलब्धुं स्प्रष्टुम् ||
४६ ||
||
चत्वारिंशोऽध्यायः ||
विराटपर्व -अध्याय ०४१
||श्रीः ||
४. ४१. अध्यायः ४१
Mahabharata -Virata Parva -Chapter Topics
पाण्डवकार्मुकाद्यवलोकनविस्मितेनोत्तरकुमारेणार्जुनंप्रति
तत्तदायुधवर्णनपूर्वकं तत्तत्स्वामिनां प्रश्नः ||१ ||
Mahabharata -Virata Parva -Chapter Text
४-४१-० (३०१५२)
उत्तर उवाच. ४-४१-०क्ष् (३१८१)
सारथे किमिदं दिव्यं नागो वा यदि वा धनुः |
सौवर्णान्यत्र पद्मानि शतपत्राणि भागशः |
कुशाग्निप्रतितप्तानि भानुमन्ति बृहन्ति च ||४-४१-१ (३०१५३)
बिन्दवश्चात्र सौवर्णा मणिप्रोताः समन्ततः |
शशिसूर्यप्रभाः पृष्ठे भान्ति रुक्मपरिष्कृताः ||४-४१-२ (३०१५४)
पुष्पाण्यत्र सुवर्णानि शतपत्राणि भागशः |
विस्मापनीयरूपं च भीमं भीमप्रदर्शनम् ||४-४१-३ (३०१५५)
नीलोत्पलनिभं कस्य शातकुम्भपरिष्कृतम् |
ऋषभा यस्य सौवर्णाः पृष्ठे तिष्ठन्ति शृङ्गिणः ||४-४१-४ (३०१५६)
तालप्रमाणं कस्येदं मणिरुक्मविभूषितम्
हाटकस्य सुवर्णस्य यस्मिञ्शाखामृगा दश ||४-४१-५ (३०१५७)
दुरानमं महादीर्घं सुरूपं दुष्प्रधर्षणम् |
कस्येदमीदृशं चित्रं धनुः सर्वे च दंशिताः ||४-४१-६ (३०१५८)
चन्द्रार्कविमलाभासः सुरूपाः सुप्रदर्शनाः |
हंसाः पृष्ठं श्रिता यस्य कुशाग्निप्रतिमार्चिषः |
शार्ङ्गगाण्डीवसदृशं कस्येदं सारथे धनुः ||४-४१-७ (३०१५९)
चतुर्तं काञ्चनवपुर्भाति विद्युद्गणोपमम् |
नीलोपलिप्तमच्छिदं जातरूपमयं धनुः |
मत्स्यश्चास्य हिरण्यस्य पृष्ठे तिष्ठन्ति दंशिताः ||४-४१-८ (३०१६०)
शक्रचापोपमं दिव्यं कस्येदं सारथे धनुः |
उच्छ्रितं फणिवद्दिव्यं सारवत्त्वाद्दुरानमम् ||४-४१-९ (३०१६१)
सहस्रगोधाः सौवर्णा द्वीपिनश्च चतुर्दश |
बर्हिणश्चात्र सौवर्णाः शतचन्द्रार्कभूषिताः |
जाम्बूनदविचित्राङ्गं कस्येदं पञ्चमं धनुः ||४-४१-१० (३०१६२)
कस्येमे क्षुरनाराचाः सहस्रं लोमवापिनः |
प्रक्षिप्तास्तीक्ष्णतुण्डाग्रा उपासङ्गे हिरण्मये ||४-४१-११ (३०१६३)
हारिद्रवर्णाः कस्येमे शिता पञ्चशतं शराः |
आशीविषसमस्पर्शाः शिताश्चाजिंहगा दृढाः ||४-४१-१२ (३०१६४)
विपाठाः पृथवः कस्य गृध्रपत्रार्धवाजिताः |
वराहकर्णास्तीक्ष्णाग्राः कस्येमे रुचिराः शराः ||४-४१-१३ (३०१६५)
वज्राशनिसमस्पर्शा वैश्वानरशिखार्चिषः |
सुवर्णपुङ्खास्तीक्ष्णाग्राः कस्य सप्तशतं शराः ||४-४१-१४ (३०१६६)
कस्यायं सायको दीर्घो गव्ये कोशे च दंशितः |
कस्य दण्डो दृढः श्लक्ष्णो रुचिरोऽयं प्रकाशते ||४-४१-१५ (३०१६७)
वैयाघ्रकोशः कस्यायं दिव्यः शङ्खो महाप्रभः |
कस्यार्थमसयश्चैते पञ्च शार्दूललक्षणाः ||४-४१-१६ (३०१६८)
कस्यायं निर्मलः खङ्गो द्वीपिचर्मनिवासितः |
नीलोत्पलसवर्णोऽयं कस्य खङ्गः पृथुर्महान् ||४-४१-१७ (३०१६९)
मृगेन्द्रचर्मावसितस्तीक्ष्णधारः सुनिर्मलः |
ऋषभाजिनकोशस्तु कस्य खङ्गो महानयम् ||४-४१-१८ (३०१७०)
यस्यापिधाने दृश्यन्ते सूर्याः पञ्च परिष्कृताः |
कस्यायं विपुलः खङ्गः शृङ्गत्सरुमनोहरः ||४-४१-१९ (३०१७१)
निहितः पार्षते कोशे तैलधौतः समाहितः |
प्रमाणवर्णयुक्तश्च कस्य खङ्गो महानयम् |
एतेन प्रतिविद्धः सञ्जीवेत्कश्चिन्न कुञ्जरः ||४-४१-२० (३०१७२)
निर्दिशस्व यथामार्गं मया पृष्टा बृहन्नले |
विस्मयो मे परो जातो दृष्ट्वा सर्वमिदं महत् ||||४-४१-२१ (३०१७३)
इति श्रीमन्महाभारते विराटपर्वणि गोग्रहणपर्वणि
एकचत्वारिंशोऽध्यायः ||४१ ||
विराटपर्व -अध्याय ०४२
||श्रीः ||
४. ४२. अध्यायः ४२
Mahabharata -Virata Parva -Chapter Topics
अर्जुनेनोत्तरंप्रति युधिष्ठिराद्यायुधानां पृथक्पृथङ्निर्देशेन
तत्तत्स्वामिकत्वकथनम् ||१ ||
Mahabharata -Virata Parva -Chapter Text
४-४२-० (३०१७४)
वैशम्पायन उवाच. ४-४२-०क्ष् (३१८२)
अत्तरेणैवमुक्तस्तु पार्थो वैराटिमब्रवीत् |
मृद्व्या प्रत्याययन्वाचा भीतं शङ्कावशं गतम् ||४-४२-१ (३०१७५)
अर्जुन उवाच. ४-४२-२क्ष् (३१८३)
अत्त्वया प्रथमं पृष्टं शत्रुसेनाङ्गमर्दनम् |
पार्थस्येदं धनुर्दिव्यं गाण्डीवमिति विश्रुतम् ||४-४२-२ (३०१७६)
अभेद्यमभयं श्रीमद्दिव्यमच्छेद्यमव्रणम् |
सर्वायुधमहामात्रं शातकुम्भमयं धनुः ||४-४२-३ (३०१७७)
एतच्छतसहस्रेण संमितं राष्ट्रवर्धनम् |
देवदानवगन्धर्वैः पूजितं शाश्वतीः समाः ||४-४२-४ (३०१७८)
येन देवासुरान्पार्थः सर्वान्विषहते रणे |
एतद्वर्षसहस्रं तु ब्रह्मा पूर्वमधारयत् ||४-४२-५ (३०१७९)
उमापतिश्चतुःषष्टिं शक्रोऽशीतिं च पञ्च च |
सोमः पञ्चसहस्राणि तथा च वरुणः शतम् ||४-४२-६ (३०१८०)
तस्माच्च वरुणादग्निः प्रेम्णा प्राहृत्य तच्छुभम् |
अग्निना प्रातिभाव्येन दत्तं पार्थाय गाण्डिवम् |
पञ्चषष्टिं च वर्षाणि कौन्तेयो धारयिष्यति ||४-४२-७ (३०१८१)
एवंवीर्यं महावेतेतच्च धनुरुत्तमम् |
नीलोत्पलसमं राज्ञः कौरव्यस्य महात्मनः ||४-४२-८ (३०१८२)
बिन्दवश्चात्र सौवर्णाः पृष्ठे साधुनियोजिताः |
विश्रुतं भीमसेनस्य जातरूपग्रहं दृढम् ||४-४२-९ (३०१८३)
सहस्रगोधाः सौवर्णा द्वीपिनश्च चतुर्दश |
ऋषभा यत्र सौवर्णाः पृष्ठे तिष्ठन्ति शृङ्गिणः ||४-४२-१० (३०१८४)
येन भीमोऽजयत्कृत्स्नां दिशं प्राचीं परंतपः |
पृष्ठे विभक्ताः शोभन्ते कुशाग्निप्रतिदीपिताः ||४-४२-११ (३०१८५)
पूजितं सुरमर्त्येषु प्रथितं धनुरुत्तमम् |
तालप्रमाणं भीमस्य रत्नरुक्मविभूषितम् ||४-४२-१२ (३०१८६)
दुरानमं महद्दीर्घं सुरूपं दुष्प्रधर्षणम् |
बर्हिणश्चात्र सौवर्णाः शतचन्द्रकभूषणाः ||४-४२-१३ (३०१८७)
नकुलस्य धनुस्त्वेतन्माद्रीपुत्रस्य धीमतः |
एतेन सदृशं चित्रं धनुरेतद्यवीयसः |
हारिद्रवर्णं राज्ञस्तु कौरव्यस्य महात्मनः ||४-४२-१४ (३०१८८)
विपाठा भीमसेनस्य गिरीणामपि दारणाः |
सुप्रभाः सुमहाकायास्तीक्ष्णाग्राः सुतरां दृढाः |
भीमेन प्रहिता ह्येते वारणानां निवारणाः ||४-४२-१५ (३०१८९)
सुवर्णदण्डरुचिराः कालदण्डोपमाः शुभाः |
नकुलस्य शरा ह्येते वज्राशनिसमप्रभाः ||४-४२-१६ (३०१९०)
यांश्च त्वं पृच्छसे दीप्तान्समधारान्समाहितान् |
वराहकर्णास्तीक्ष्णाग्राः सहदेवस्य ते शराः ||४-४२-१७ (३०१९१)
यस्त्वयं सायको दीर्घो गव्ये कोशे च दंशितः |
पार्थस्यायं महाघोरः सर्वभारसहो महान् ||४-४२-१८ (३०१९२)
यस्त्वयं निर्मलः खङ्गो द्वीपिचर्मणि दंशितः |
राज्ञो युधिष्ठिरस्यायं कुन्तीपुत्रस्य धीमतः | ४-४२-१९ (३०१९३)
वैयाघकोशो भीमस्य पञ्चशार्दूललक्षणः |
वारणानां सुदृप्तानां शिक्षितः स्कन्धशातने ||४-४२-२० (३०१९४)
नीलोत्पलसवर्णाभः खङ्गः पार्थस्य धीमतः |
मृगेन्द्रचर्मपिहितस्तीक्ष्णधारः सुनिर्मलः ||४-४२-२१ (३०१९५)
दर्शनीयः सुतीक्ष्णाग्रः कुन्तीपुत्रस्य धीमतः |
अर्जुनस्यैष निस्त्रिंशः परसैन्याग्रदूषणः ||४-४२-२२ (३०१९६)
यस्त्वयं पार्षते कोशे निक्षिप्तो रुचिरत्सरुः ||
नकुलस्यैष निस्त्रिंशो वैश्वानरसमप्रभः ||४-४२-२३ (३०१९७)
यस्त्वयं पिङ्गलः खङ्गश्चित्रो मणिमयत्सरुः |
सहदेवस्य खङ्गोऽयं भारसाहोऽतिदंशितःक |
भीमस्यायं महादण्डः सर्वामित्रविनाशनः ||४-४२-२४ (३०१९८)
वैशम्पायन उवाच. ४-४२-२४क्ष् (३१८४)
भेदतो ह्यर्जुनस्तूर्णं कथयामास तत्त्वतः |
आयुधानि कलापांश्च निस्त्रिंशांश्चातुलप्रभान् ||||४-४२-२५ (३०१९९)
इति श्रीमन्महाभारते विराटपर्वणि गोग्रहणपर्वणि
द्विचत्वारिंशोऽध्यायः ||४२ ||
विराटपर्व -अध्याय ०४३
||श्रीः ||
४. ४३. अध्यायः ४३
Mahabharata -Virata Parva -Chapter Topics
अर्जुनेनोत्तरंप्रति स्वस्यार्जुनत्वकथनपूर्वकं कङ्कादीनां
युधिष्ठिरादित्वकथनम् ||१ ||
तत्प्रत्ययार्थं स्वनामदशककथनपूर्वकं तन्निर्वचनम् ||२ ||
Mahabharata -Virata Parva -Chapter Text
४-४३-० (३०२००)
वैशम्पायन उवाच. ४-४३-०क्ष् (३१८५)
एतस्मिन्नन्तरे पार्थं न मूढात्मा व्यजानत |
विराटपुत्रः प्रभुखे पप्रच्छ पुनरेव तम् ||४-४३-१ (३०२०१)
सुवर्णरुचिराण्येषामायुधानि महात्मनाम् |
रुचिराणि प्रकाशन्ते पार्थानामाशुकारिणाम् ||४-४३-२ (३०२०२)
क्वनु ते पाण्डवाः शूराः संग्रामेष्वपराजिताः |
येषामिमानि दीप्तानि श्रिया दीप्यन्ति भान्ति च. ४-४३-३ (३०२०३)
कस्मिन्वसन्ति देशे च धर्मज्ञा बन्धुवत्सलाः |
क्व धर्मराजः कौन्तेयो धर्मपुत्रो युधिष्ठिरः ||४-४३-४ (३०२०४)
धर्मशीलश्च धर्मात्मा धर्मवान्धर्मवित्सुधीः |
धर्माध्यक्षो धर्मपुत्रो धर्मज्ञो धर्ममूर्तिमान् ||४-४३-५ (३०२०५)
धर्मनिष्ठो धर्मकर्ता धर्मगोप्ता सुधर्मकृत् |
सत्यार्जवक्षमाधारो घृणी धर्मपरायणः ||४-४३-६ (३०२०६)
भीमसेनार्जुनौ चापि सर्वे ते मातुला मम |
नकुलः सहदेवो वा सर्वास्त्रकुशलौ रणे ||४-४३-७ (३०२०७)
सर्व एव महात्मानः सर्वामित्रविनाशनाः |
राज्यमक्षैः पराजित्य नः श्रूयन्ते वनं गताः ||४-४३-८ (३०२०८)
द्रौपदी चापि पाञ्चाली स्त्रीरत्नमिति मे श्रुता |
जिता चाक्षैस्तदा कृष्णा तानेवान्वगमद्वने ||४-४३-९ (३०२०९)
उत्सृज्य राज्यं धर्म्यं ते नः श्रूयन्ते वनं गताः ||४-४३-१० (३०२१०)
पाण्डवान्यदि जानीषे क्वनु ते धर्मचारिणः |
क्वनु वा निवसन्तीति सत्यं ब्रूहि बृहन्नले ||४-४३-११ (३०२११)
किमर्थमागतान्यत्र शस्त्रास्त्राणि महात्मनाम् |
कथं ज्ञातानि भवता तथा मे ब्रूहि शोभने ||४-४३-१२ (३०२१२)
वैशम्पायन उवाच. ४-४३-१३क्ष् (३१८६)
ततः प्रहस्य बीभत्सुः कौन्तेयः श्वेतवाहनः |
उवाच राजपुत्रं तमुत्तरं शृणु मे वचः ||४-४३-१३ (३०२१३)
मा भैस्त्वं राजशार्दूल सर्वं ते वर्णयाम्यहम् |
नात्र भेतव्यमद्यापि राजपुत्र यथातथा ||४-४३-१४ (३०२१४)
वयं ते पाण्डवा नाम वनवासस्य पारगाः |
अतीते द्वादशे वर्षे च्छन्नवासमिहोषिताः |
तस्मादशङ्कितमनाः शृणुष्वावहितोत्तर ||४-४३-१५ (३०२१५)
अहमस्म्यर्जुनो नाम कङ्को नाम युधिष्ठिरः |
भीमसेनस्तु वललः पितुस्ते रसपाचकः |
अश्वबन्धस्तु नकुलः सहदेवस्तु गोपतिः ||४-४३-१६ (३०२१६)
सैरन्ध्रीं द्रौपदीं विद्धि यदर्थे कीचको हतः |
भीमसेनेन दुर्वृत्तः सहभ्रातृभिराहवे ||४-४३-१७ (३०२१७)
श्रुत्वैतद्वचनं जिष्णोर्विस्मयस्फारितेक्षणः |
पश्यन्ननिमिषः पार्थं शनैर्वाचमुवाच ह ||४-४३-१८ (३०२१८)
उत्तर उवाच. ४-४३-१९क्ष् (३१८७)
दश पार्थस्य नामानि श्रूयन्ते मे कथासु च |
प्रब्रूयास्तानि यदि मे श्रद्दध्यां सर्वमेव ते ||४-४३-१९ (३०२१९)
अर्जुन उवाच. ४-४३-२०क्ष् (३१८८)
अहं तर्हि तवाचक्षे दश नामानि तानि मे |
वैराटे शृणु तानि त्वं यानि पूर्वं श्रुतानि ते |
ईशानो विदधे देवस्त्रिदिवस्येश्वरो दिवि ||४-४३-२० (३०२२०)
अर्जुनः फल्गुनो जिष्णुः किरीटी श्वेतवाहनः |
बीभत्सुर्विजयः पार्थः सव्यसाची धनञ्जयः |
एतानि मम नामानि स्थापितानि सुरोत्तमैः ||४-४३-२१ (३०२२१)
उत्तर उवाच. ४-४३-२२क्ष् (३१८९)
गुणतो दश नामानि समवेतानि पाण्डवे |
चरन्ति लोके ख्यातानि विदितानि ममावघ ||४-४३-२२ (३०२२२)
केनासि विजयो नाम केनासि श्वेतवाहनः |
सव्यसाची च केनासि जिष्णुर्बीभत्सुरेव च ||४-४३-२३ (३०२२३)
अर्जुनः फल्गुनः पार्थः किरीटी केन सारथे |
धनञ्जयश्च केनासि शीघ्रं वद बृहन्नले ||४-४३-२४ (३०२२४)
श्रुता मे तस्य वीरस्य केवला नामहेतवः |
इतस्ततश्चलत्येतन्मनो मे चञ्चलं त्वयि |
अर्जुनो वा भवान्नेति वद शीघ्रं बृहन्नले ||४-४३-२५ (३०२२५)
अर्जुन उवाच. ४-४३-२६क्ष् (३१९०)
सर्वाञ्जित्वा जनपदान्धनं चाच्छिद्य सर्वशः |
मध्ये धनस्य तिष्ठन्तं तन्मामाहुर्धनञ्जयम् ||४-४३-२६ (३०२२६)
अभिप्रयामि संग्रामे यदाऽहं युद्धदुर्मदान् |
अजित्वा न निविर्तेयं तेन वै विजयं विदुः ||४-४३-२७ (३०२२७)
श्वेताः काञ्चनसन्नाहा रथे युज्यन्ति मे हयाः |
शत्रुभिर्युध्यमानस्य तेनाहं श्वेतवाहनः ||४-४३-२८ (३०२२८)
किरीटं सूर्यसंकाशं भ्राजते मे शिरोगतम् |
रणमध्ये रथस्थस्य सूर्यपावकसन्निभम् ||४-४३-२९ (३०२२९)
अच्छेद्यं रुचिरं चित्रं जाम्बूनदपरिष्कृतम् |
इन्द्रदत्तमनाहार्यं तेनाहुर्मां किरीटिनम् ||४-४३-३० (३०२३०)
न कुर्यां कर्म बीभत्सं युध्यमानः कदाचन |
तेन देवमनुष्येषु बीभत्सुरिति मां विदुः ||४-४३-३१ (३०२३१)
उभौ मे तुल्यकर्माणौ गाण्डीवस्य विकर्षणे |
भुजौ मे भवतः सङ्ख्ये परसैन्यविनाशिनौ |
तयोः सव्योऽधिकस्तस्मात्सव्यसाचीति मां विदुः ||४-४३-३२ (३०२३२)
पृथिव्यां सागरान्तायां वर्णो मे दुर्लभः समः |
शुद्धत्वाद्रुपवत्त्वाच्च तेन मामार्जुनं विदुः ||४-४३-३३ (३०२३३)
उत्तराभ्यां तु पूर्वाभ्यां फल्गुनीभ्यामहं दिवा |
जातो हिमवतः पृष्ठे तेन मां फल्गुनं विदुः ||४-४३-३४ (३०२३४)
यो ममाङ्गे व्रणं कुर्याद्धातुर्ज्येष्ठस्य पश्यतः |
युधिष्ठिरस्य रुधिरं दर्शयेद्वा कदाचन |
पराभवमहं तस्य कुले कुर्यां न संशयः ||४-४३-३५ (३०२३५)
योत्स्यामि तैरहं सर्वैर्न मे तेभ्यः पराभवः |
तेन देवमनुष्येषु जिष्णुर्नामास्मि विश्रुतः ||४-४३-३६ (३०२३६)
माता मम पृथा नाम तेन मां पार्थमब्रुवन् ||४-४३-३७ (३०२३७)
देवदानवगन्धर्वपिशाचोरगराक्षसान् |
अहं पुरा रणे जित्वा खाण्डवेऽग्निमतर्पयम् ||४-४३-३८ (३०२३८)
हुताशनं तर्पयित्वा सहितः शार्ङ्गधन्वना |
[ त्रिविष्टपगतौ* दृष्ट्वा पितामहमहेश्वरौ ||४-४३-३९ (३०२३९)
मूर्च्छया पतितं भूमावागतौ देवसत्तमौ |
दृष्ट्वा तौ वरदौ देवौ संज्ञां लब्ध्वोत्थितः पुनः ||४-४३-४० (३०२४०)
मूर्ध्ना हि प्रणतं भूमौ तौ देवौ वरदौ वरौ |
कृष्णेत्येकादशं नाम प्रीत्या मे चक्रतुस्तदा |
तुष्टौ च मम वीर्येण कर्मणा चाभिराधितौ ||४-४३-४१ (३०२४१)
सर्वदेवैः परिवृतौ भूयो मां स्वयमूचतुः |
वरं तात वृणीष्वेति यं प्रार्थयसि पाण्डव ||४-४३-४२ (३०२४२)
ततोऽहमस्त्राण्यलभं दिव्यानि च दृढानि च |
ब्राह्मं पाशुपतं चैव स्थूणाकर्णं च दुर्जयम् |
ऐन्द्रं वारुणमाग्नेयं वायव्यमथ वैष्णवम् ||४-४३-४३ (३०२४३)
ततोऽहमजयं भूयो रथेनैन्द्रेण दुर्जयान् |
मातलिं सारथिं कृत्वा निवातकवचान्रणे |
अवध्यकवचांन्देवैर्वरदृप्तान्महासुरान् ||४-४३-४४ (३०२४४)
तिस्रः कोटीर्दानवानां संयुगेष्वनिवर्तिनाम् |
एको निर्जित्य संग्रामे भूयो देवानतोषयम् ||४-४३-४५ (३०२४५)
ततो मे भगवानिन्द्रः किरीटमददात्स्वयम् |
देवाश्च शङ्खमददुः शत्रुसैन्यनिवारणम् ||४-४३-४६ (३०२४६)
अहं पारे समुद्रस्य हिरण्यपुरवासिनाम् |
हत्वा षष्टिं सहस्राणि जयं संप्राप्तवान्रणे ||४-४३-४७ (३०२४७)
असंभ्रान्तो रथे तिष्ठन्सहस्रेषु शतेषु च |
शत्रुमध्ये दुराधर्षो न मुह्यन्ति च मे दिशः ||४-४३-४८ (३०२४८)
अहं गन्धर्वराजेन ह्रियमाणं सुयोधनम् |
भ्रातृभिः सहितं तात गन्धर्वैः समरे जितम् |
चतुर्दश सहस्राणि हत्वा चैनममोचयम् ||४-४३-४९ (३०२४९)
एतानि मम नामानि योऽहन्यहनि कीर्तयेत् |
तं न पश्यन्ति सत्त्वानि न तं निघ्नन्ति शत्रवः ||४-४३-५० (३०२५०)
अद्य पश्य महाबाहो मम वीर्यं सुदुःसहम् |
मा भैर्विगतसंत्रासः कुरूनेतान्समागतान् ||४-४३-५१ (३०२५१)
सुयोधनस्य मिषतः कर्णस्य च कृपस्य च |
पितामहस्य भीष्मस्य द्रौणेर्द्रोणस्य च स्वयम् |
सर्वानेव कुरूञ्जित्वा प्रत्यानेष्यामि ते पशून्] ||||४-४३-५२ (३०२५२)
इति श्रीमन्महाभारते विराटपर्वणि गोग्रहणपर्वणि
त्रिचत्वारिंशोऽध्यायः ||४३ ||
Mahabharata -Virata Parva -Chapter Footnotes
४-४३-३१ बीभत्सुरिति भदि कल्याणे सुखे चेत्यस्य सनि रूपम् ||
४-४३-३२ सव्येन वामेनापि हस्तेन सचितुं ज्याकर्षणादिक्रियायां
संबद्धुं शीलमस्येति सव्यसाची ||
४-४३-३३ अर्जुन इति ऋज गतिस्थानार्जनोपार्जनेष्वित्यत उनन्प्रत्यये
भवति | दीप्तिमत्त्वात्समत्वात् शुद्धकर्मकरत्वाच्चार्जुन इत्यर्थः ||
४-४३-३४ उत्तराभ्यां फल्गुनीभ्यां नक्षत्राभ्यामिति झो पाठः
. नक्षत्रान्यां ताराभ्यां तत्र स्थिते चन्द्र इत्यर्थः ||
||
त्रिचत्वारिंशोऽध्यायः ||
४३ ||
विराटपर्व -अध्याय ०४४
||श्रीः ||
४. ४४. अध्यायः ४४
Mahabharata -Virata Parva -Chapter Topics
उत्तरेण बृहन्नलाया अर्जुनत्वविज्ञानेन
तंप्रत्यज्ञानमूलकभूतपूर्वस्वापराधक्षमापनम् ||१ ||
अर्जुनेनोत्तरंप्रति स्वस्य क्लैब्यप्राप्तिहेतुकथनम् ||२ ||
तथोत्तरस्य सारथीकरणापूर्वकं रथारोहणेन रणायाभियानम् ||३ ||
Mahabharata -Virata Parva -Chapter Text
४-४४-० (३०२५३)
वैशम्पायन उवाच. ४-४४-०क्ष् (३१९१)
ततः पार्थं स वैराटिः प्राञ्जलिस्त्वभ्यवादयत् |
अहं भूमिंजयो नाम प्रणतोस्मि धनंजय ||४-४४-१ (३०२५४)
दिष्ट्या त्वां पार्थ पश्यामि स्वागतं ते धनंजय |
लोहिताक्ष महाबाहो नागराजवरोपम ||४-४४-२ (३०२५५)
यदज्ञानादवोचं त्वां प्रमादेन नरोत्तम |
अकृत्वा हृदये सर्वं क्षन्तुमर्हसि तन्मम ||४-४४-३ (३०२५६)
यतस्त्वया कृतं पूर्वं चित्रं कर्म सुदुष्करम् |
अतो भयं व्यपेतं मे प्रीतिश्च परमा त्वयि ||४-४४-४ (३०२५७)
दासोऽहं ते भविष्यामि पश्य मामनुकम्पया ||४-४४-५ (३०२५८)
या प्रतिज्ञा कृता पूर्वं तव सारथ्यकारणात् |
सेयं प्रतिज्ञा पूर्णा मे हर्षश्चार्जुन जायते ||४-४४-६ (३०२५९)
देवेन्द्रतनयस्येह सारथिः स्यां महामृधे |
इति पूर्वं कृताऽस्माभिः प्रतिज्ञा युद्धदुर्मद ||४-४४-७ (३०२६०)
प्रतिज्ञा मम संपूर्णा तव सारथ्यकारणात् |
मनस्स्वास्थ्यं च मे जातं जातं भाग्यं च मे महत् ||४-४४-८ (३०२६१)
आस्थाय विपुलं वीर रथं सारथिना मया |
दुर्योधनं च जित्वाऽऽजौ निवर्तय पशून्मम ||४-४४-९ (३०२६२)
अर्जुन उवाच. ४-४४-१०क्ष् (३१९२)
प्रीतोस्मि राजपुत्राद्य न भयं विद्यते तव |
सर्वान्नुदामि ते शत्रून्रणे रणविशारद ||४-४४-१० (३०२६३)
स्वस्थो भव महान्युद्धे पश्य मां शत्रुभिः सह |
युध्यमानं विमर्देऽस्मिन्कुर्वाणं भैरवं रवम् ||४-४४-११ (३०२६४)
गाण्डीवं देवदत्तं च शरान्कनकभूषणान् |
एतान्सर्वानुपासङ्गान्क्षिप्रं बध्नीहि मे रथे |
एकं चाहर निस्त्रिंशं जातरूपपरिष्कृतम् ||४-४४-१२ (३०२६५)
अहं वै कुरुभिर्योत्स्ये मोक्षयिष्यामि ते पशून् |
तोषयिष्यामि राजानं प्रवेक्ष्यामि पुरं पुनः ||४-४४-१३ (३०२६६)
संकल्पागाधपरिधं बाहुप्राकारतोरणम् |
त्रिदण्डतूणसंबाधं नैकध्वजसमाकुलम् ||४-४४-१४ (३०२६७)
ज्याक्षेपनिनदारावं नेमीनिनददुन्दुभिः |
शरजालवितानाढ्यमाक्ष्वेडितमहास्वनम् |
नगरं ते मया गुप्तं रथोपस्थं भविष्यति ||४-४४-१५ (३०२६८)
अधिष्ठितो मया सङ्ख्ये रथो गाण्डीवधन्विना |
अजय्यः शत्रुसैन्यानां वैराटे व्येतु ते भयम् ||४-४४-१६ (३०२६९)
उत्तर उवाच. ४-४४-१७क्ष् (३१९३)
बहुना किं प्रलापेन शृणु मे परमं वचः |
नाहं बिभेमि कौन्तेय साक्षादपि शतक्रतोः ||४-४४-१७ (३०२७०)
यमवायुकुबेरेभ्यो द्रोणभीष्मशतादपि |
बिभेमि नाहमेतेभ्यो जानामि त्वां स्थिरं युधि |
केशवेनापि संग्रामे साक्षादिन्द्रेण वा समम् ||४-४४-१८ (३०२७१)
इदं तु चिन्तयन्नेव परिमुह्यामि केवलम् |
निश्चयं नाधिगच्छामि नावगच्छामि किंचन ||४-४४-१९ (३०२७२)
एवं वराङ्गरूपस्य लक्षणैः सूचितस्य च |
केन कर्मविपाकेन क्लीबत्वं त्वामुपागतम् ||४-४४-२० (३०२७३)
मन्ये त्वां क्लीबरूपेण चरन्तं शूलपाणिनम् |
गन्धर्वराजप्रतिमं देवं वाऽपि शतक्रतुम् ||४-४४-२१ (३०२७४)
अर्जुन उवाच. ४-४४-२२क्ष् (३१९४)
भ्रातुर्नियोगाञ्ज्येष्ठस्य संवत्सरमिदं व्रतम् |
चरामि ब्रह्मचर्यं वै सत्यमेतद्ब्रवीमि ते ||४-४४-२२ (३०२७५)
नास्मि क्लीबो महाबाहो परवान्धर्मसंयुतः |
उर्वशीशापसंभूतं क्लैब्यं समुपसंस्थितम् ||४-४४-२३ (३०२७६)
पुराऽहमाज्ञया भ्रातुर्ज्येष्ठस्यास्मि सुरालयम् |
प्राप्तवानुर्वशी दृष्टा सुधर्मायां मया तदा ||४-४४-२४ (३०२७७)
नृत्यन्तीं परमं रूपं बिभ्रतीं वज्रिसन्निधौ |
अपश्यं तामनिमिषं कूटस्थामन्वयस्य मे ||४-४४-२५ (३०२७८)
रात्रौ समागता मह्यं शयनं रन्तुमिच्छया |
अहं तामभिवाद्यैव मातृसत्कारमाचरम् ||४-४४-२६ (३०२७९)
सा च मामशपत्क्रुद्धा शिखण्डी त्वं भवेति वै |
श्रुत्वा तमिन्द्रो मामाह मा भैस्त्वं पार्थ षण्डता ||४-४४-२७ (३०२८०)
उपकारो भवेत्तुभ्यमज्ञातवसतौ पुरा |
इतीन्द्रो मामनुग्राह्य ततः प्रेषितवान्वृषा ||४-४४-२८ (३०२८१)
तदिदं समनुप्राप्तं व्रतं चीर्णं मयाऽनघ |
समाप्तव्रतमुत्तीर्णं विद्धि मां त्वं नृपात्मज ||४-४४-२९ (३०२८२)
उत्तर उवाच. ४-४४-३०क्ष् (३१९५)
परमोऽनुग्रहो मेऽद्य यत्प्रतर्को न मे वृथा |
न हीदृशाः क्लीबरूपा भवन्ति तु नरोत्तमाः ||४-४४-३० (३०२८३)
सहायवानस्मि रणे युद्ध्येयममरैरपि |
साध्वसं तत्प्रनष्टं मे किं करोमि ब्रवीहि मे ||४-४४-३१ (३०२८४)
अहं ते संग्रहीष्यामि हयाञ्शत्रुनिर्बहण |
शिक्षितो ह्यस्मि सारथ्ये निष्ठितः पुरुषर्षभ ||४-४४-३२ (३०२८५)
दारुको वासुदेवस्य यथा शक्रस्य मातलिः |
तथा मां विद्धि सारथ्ये शिक्षितं नरपुङ्गव ||४-४४-३३ (३०२८६)
अश्वा ह्येते महाबाहो तवैवाहवदुर्जयाः |
योग्या रथवरे युक्ताः प्राणवन्तो जितश्रमाः ||४-४४-३४ (३०२८७)
यस्य यातेन पश्यन्ति भूमौ क्षिप्तं पदंपदम् |
दक्षिणां यो धुरं वोढा सुग्रीवोण समो हयः ||४-४४-३५ (३०२८८)
योऽयं हयो धुर्यवरो वामां वहति शोभनः |
तं मन्ये मेघपुष्पस्य जवेन सदृशं हयम् ||४-४४-३६ (३०२८९)
योऽयं वहति वै पार्ष्णिं दक्षिणामञ्चितोद्यतः |
वलाहकादभिमतस्तेजसा वीर्यवत्तरः ||४-४४-३७ (३०२९०)
योऽयं काञ्चनसन्नाहो वामं वहति शोभनः |
धुर्यं शैब्यस्य तं मन्ये जवेन बलवत्तरम् ||४-४४-३८ (३०२९१)
त्वामेवायं रथो वोढुं संग्रामेऽर्हति धन्विनम् |
त्वं चे ||रथमास्थाय योद्धुमर्हो मतो मम |
शर्वशत्रुभिरायातो देवराज इवासुरैः ||४-४४-३९ (३०२९२)
वैशम्पायन उवाच. ४-४४-४०क्ष् (३१९६)
ततो रथादवस्कन्द्य वीर्यवानरिमर्दनः |
प्रणम्य देवान्गाण्डीवमादाय रुरुचे श्रिया ||४-४४-४० (३०२९३)
ततो विमुच्य बाहुभ्यां सङ्खचूडानि पाण्डवः |
तौ च दुन्दुभिसन्नादौ प्रतिबद्ध्य तलावुभौ ||४-४४-४१ (३०२९४)
इन्द्रदत्ते च ते दिव्ये उद्धृत्यामुच्य कुण्डले |
श्लक्ष्णान्केशान्मृदून्स्निग्धाञ्श्वेतेनोद्ग्रथ्य वाससा ||४-४४-४२ (३०२९५)
अथासौ प्राङ्मुखो भूत्वा शुचिः प्रयतमानसः |
अभिदध्यौ महाबाहुः सर्वास्त्राणि रथोत्तमे ||४-४४-४३ (३०२९६)
ऊचुश्च पार्थं सर्वाणि प्राञ्जलीनि नृपात्मजम् |
इमानि स्मो महोदार किङ्कराणीन्द्रनन्दन ||४-४४-४४ (३०२९७)
प्रणिपत्य ततः पार्थः समालभ्य च पाणिना |
सर्वाणि मानसानीह भवतेत्यभ्यभाषत ||४-४४-४५ (३०२९८)
प्रतिगृह्य ततोऽस्त्राणि प्रह्लष्टवदनोऽभवत् |
अधिज्यं तरसा कृत्वा गाण्डीवं व्याक्षिपद्धनुः ||४-४४-४६ (३०२९९)
तस्य विक्षिप्यमाणस्य धनुषोऽभून्महास्वनः |
यथा शैलस्य महतः शैलानाक्षिप्य जघ्रुषः ||४-४४-४७ (३०३००)
सनिर्घाताऽभवद्भूमिर्दिक्षु वायुर्ववौ भृशम् |
भ्रान्तद्विजं खमभवत्प्राकम्पन्त महाद्रुमाः ||४-४४-४८ (३०३०१)
तं शब्दं कुरवो राजन्विस्फोटमशनेरिव |
तार्क्ष्यं शब्दमिव श्रुत्वा वित्रेसुर्दीनमानसाः ||४-४४-४९ (३०३०२)
यथेन्द्रो व्याक्षिपद्भीमं विस्फोटमशनेर्भुवि |
तथाऽर्जुनो धनुःश्रेष्ठं बाहुभ्यामाक्षिपद्बली ||४-४४-५० (३०३०३)
महाशनिमहाशब्दसदृशो ज्यास्वनो महान् |
शत्रून्वीरांश्च संतर्ज्य निग्रहस्थो रथे स्थितः ||४-४४-५१ (३०३०४)
उत्तर उवाच. ४-४४-५२क्ष् (३१९७)
एकस्त्वं पाण्डवश्रेष्ठ बहूनोतान्महारथान् |
कथं जेष्यसि संग्रामे सर्वशस्त्रास्त्रपारगान् ||४-४४-५२ (३०३०५)
असहायो.सि कोन्तेय ससहायाश्च कौरवाः |
अत एव महाबाहो भीतस्तिष्ठामि तेऽग्रतः ||४-४४-५३ (३०३०६)
वैशम्पायन उवाच. ४-४४-५४क्ष् (३१९८)
उवाच पार्थो मा भैषीः प्रहस्य स्वनवत्तदा ||४-४४-५४ (३०३०७)
युध्यमानस्य मे वीर गन्धर्वैः सुमहाबलैः |
सहायो घोषयात्रायां कस्तदासीत्सखा मम ||४-४४-५५ (३०३०८)
तथा प्रतिभये तस्मिन्देवदानवसंकुले |
खाण्डवे युध्यमानस्य कस्तदासीत्सखा मम ||४-४४-५६ (३०३०९)
निवातकवचैः सार्धं पौलोमैश्च महाबलैः |
युध्यतो देवराजार्थे कः सहायस्तदाऽभवत् ||४-४४-५७ (३०३१०)
स्वयंवरे तु पाञ्चाल्या राजभिः सह संयुगे |
युध्यतो बहुभिस्तात कः सहायस्तदाऽभवत् ||४-४४-५८ (३०३११)
उपजीव्य गुरुं द्रोणं शुक्रं वैश्रवणं यमम् |
वरुणं पावकं चैव कृपं कृष्णं च माधवम् |
पिनाकपाणिनं चैव कथमेतान्न योधये ||४-४४-५९ (३०३१२)
रथं वाहय मे शीघ्रं व्येतु ते मानसो ज्वरः ||||४-४४-६० (३०३१३)
इति श्रीमन्महाभारते विराटपर्वणि गोग्रहणपर्वणि
चतुश्चत्वारिंशोऽध्ययः ||४४ ||
विराटपर्व -अध्याय ०४५
||श्रीः ||
४. ४५. अध्यायः ४५
Mahabharata -Virata Parva -Chapter Topics
अर्जुनेन युद्धप्रस्थानसमये उत्तररथात्सिंहध्वजस्यावरोपणपूर्वकं
स्वध्यानसंनिहितस्य हनुमद्ध्वजस्य रथे स्थापनम् ||१ ||
तथा स्वशङ्खादिशब्दश्रवणवित्रस्तस्योत्तरस्य समाश्वासनपूर्वकं
रणायाभियानम् ||२ ||
Mahabharata -Virata Parva -Chapter Text
४-४५-० (३०३१४)
वैशम्पायन उवाच. ४-४५-०क्ष् (३१९९)
उत्तरं सांरथिं कृत्वा शमीं कृत्वा प्रदक्षिणम् |
आयुधं सर्वमादाय ततः प्रायाद्धनञ्जयः ||४-४५-१ (३०३१५)
ध्वजं च सिंहं मात्स्यस्य भ्रातॄणामायुधानि च |
प्रणिधाय शमीमध्ये प्रयातुमुपचक्रमे ||४-४५-२ (३०३१६)
ततः काञ्चनलाङ्गूलं ध्वजं वानरलक्षणम् |
दिव्यं मायामयं युक्तं विहितं विश्वकर्मणा |
मनसा चिन्तयामास प्रसादं पावकस्य च ||४-४५-३ (३०३१७)
स च तच्चिन्तितं ज्ञात्वा ध्वजे भूतान्ययोजयत् |
रथे वानरमुच्छ्रित्य गाण्डीवं व्याक्षिपद्धनुः ||४-४५-४ (३०३१८)
सपताकं विचित्राङ्गं सोपासङ्गं महाबलम् |
खात्पपात रथे तूर्णं दिव्यरूपं मनोरमम् ||४-४५-५ (३०३१९)
रथमास्थाय बीभत्सुः कौन्तेयः श्वेतवाहनः |
बद्धासिः सतलत्राणः प्रगृहीतशरासनः |
ततः प्रायादुदीचीं स कपिप्रवरकेतनः ||४-४५-६ (३०३२०)
सैन्याभ्याशं स संप्राप्य गृहीत्वा शङ्खमुत्तमम् |
स्वनवन्तं महाशब्दं देवदत्तं धनञ्जयः |
शशाङ्करूपं बीभत्सुः प्राध्मापयदरिंदमः ||४-४५-७ (३०३२१)
[ शशाङ्ककुन्दधवलं मुखे निक्षिप्य वासविः |
उच्छ्वसद्गण्डयुगलं सिराल्याचितफालकम् ||४-४५-८ (३०३२२)
आरक्तनिम्ननयनं ह्रस्वस्थूलशिरोधरम् |
अतिश्लिष्टोदरोरस्कं तिर्यगाननशोभितम् ||४-४५-९ (३०३२३)
यावत्स्वशक्तिसामग्र्यं त्रैलोक्यं क्षोभयन्निव |
मरुद्भिर्दशभिश्चैव प्राध्मापयदरिंदमः ] ||४-४५-१० (३०३२४)
शङ्खशब्दोस्य सोत्यर्थं श्रूयते कालमेघवत् ||४-४५-११ (३०३२५)
तस्य शङ्खस्य शब्देन धनुपो निस्वनेन च |
वानरस्य निनादेन रथनेमिस्वनेन च |
जङ्गमस्य भयं घोरमकरोत्पाकशासनिः ||४-४५-१२ (३०३२६)
शङ्खशब्देन पार्थस्य मुखेनाश्वाः पतन्क्षितौ |
उत्तरश्चापि संत्रस्थो रथोपस्थ उपाविशत् ||४-४५-१३ (३०३२७)
अथाश्वान्रश्मिभिः पार्थः समुद्यम्य परंतपः |
अभ्राजत रथोपस्थे भानुर्मेराविवोत्तरे ||४-४५-१४ (३०३२८)
शङ्खघोषेण वित्रस्तं ज्याघातेन च मूर्छितम् |
उत्तरं संपरिष्वज्य समाश्वासयदर्जुनः ||४-४५-१५ (३०३२९)
मा भैस्त्वं राजपुत्राग्र्य क्षत्रियोसि परन्तप |
कथं पुरुषशार्दूल शत्रुमध्ये विषीदसि ||४-४५-१६ (३०३३०)
श्रुतास्ते शङ्खशब्दाश्च भेरीशब्दाश्च सर्वशः |
कुञ्जराणां च निनदा व्यूढानीकेषु नित्यशः ||४-४५-१७ (३०३३१)
स त्वं कथमिवानेन शङ्खशब्देन भीषितः |
विपण्णरूपो वित्रस्तः पुरुषः प्राकृतो यथा ||४-४५-१८ (३०३३२)
उत्तर उवाच. ४-४५-१९क्ष् (३२००)
श्रुता मे शङ्खशब्दाश्च भेरीशब्दाश्च नित्यशः |
कुञ्जराणां च निनदा व्यूढानीकेषु तिष्ठतः ||४-४५-१९ (३०३३३)
नैवंविधाः शङ्खशब्दाः पुरा जातु मया श्रुताः |
ध्वजस्य चापि रूपं मे दृष्टपूर्वं नहीदृशम् |
धनुषश्चापि घोषश्च श्रुतपूर्वो न मे क्वचित् ||४-४५-२० (३०३३४)
अस्य शङ्खस्य शब्देन धनुषो निस्वनेन च |
अमानुषाणां शब्देन भूतानां निस्वसेन च |
रथनेमिप्रणादेन मनो कमे मुह्यते भृशम् ||४-४५-२१ (३०३३५)
व्याकुलाश्च दिशः सर्वा हृदयं व्यथतीव च |
ध्वजेन पिहिताः सर्वा दिशो न प्रतिभान्ति मे |
गाण्डीवस्य च शब्देन कर्णौ मे बधिरीकृतौ ||४-४५-२२ (३०३३६)
वैशम्पायन उवाच. ४-४५-२३क्ष् (३२०१)
पुनर्ध्वजं पुनः शङ्खं धनुश्चैव पुनः पुनः |
स मूढचेता वैराटिरर्जुनं समुदैक्षत ||४-४५-२३ (३०३३७)
स मुहूर्तं प्रयातं तु पार्थो वैराटिमब्रवीत् ||४-४५-२४ (३०३३८)
स्थिरो भव महाबाहो संज्ञां चात्मानमानय |
एकान्ते रथमास्थाय पद्भ्यां त्वमवपीड्य च |
दृढं च रश्मीन्संयच्छ शङ्खं ध्मास्याम्यहं पुनः ||
४-४५-२५ (३०३३९)
एवमुक्त्वा महाबाहुः सव्यसाची परन्तपः |
ततः शङ्खमुपाध्मासीद्दारयन्निव पर्वतान् |
गुहा गिरीणां च तदा दिशः शैलांस्तथैव च ||४-४५-२६ (३०३४०)
ज्याघोषं तलघोषं च कृत्वा भूतान्यमोहयत् |
उत्तरश्चापि संलीनो रथोपस्थ उपाविशत् |
तं समाश्वासयामास पुनरेव धनञ्जयः | ४-४५-२७ (३०३४१)
तस्य शङ्खस्य शब्देन रथनेमिस्वनेन च |
गाण्डीवस्य च शब्देन पृथिवी समकम्पत ||||४-४५-२८ (३०३४२)
इति श्रीमन्महाभारते विराटपर्वणि गोग्रहणपर्वणि
पञ्चचत्वारिंशोऽध्यायः ||४५ ||
विराटपर्व -अध्याय ०४६
||श्रीः ||
४. ४६. अध्यायः ४६
Mahabharata -Virata Parva -Chapter Topics
द्रोणेनार्जुनशङ्खनादादिना तस्यार्जुनत्वनिर्धारणेन दुर्योधनंप्रति
तन्निवेदनपूर्वकं दुर्निमित्तप्रदर्शनम् ||१ ||
Mahabharata -Virata Parva -Chapter Text
४-४६-० (३०३४३)
वैशम्पायन उवाच. ४-४६-०क्ष् (३२०२)
भारद्वाजस्ततो द्रोणः सर्वशस्त्रभृतांवरः |
राजानं चाह संप्रेक्ष्य दुर्योधनमरिंदमः ||४-४६-१ (३०३४४)
यथा रथस्य निर्घोषो यथा शङ्ख उदीर्यते |
कम्पते च यथा भूमिर्नैषोन्यः सव्यसाचिनः ||४-४६-२ (३०३४५)
औत्पातिकमिदं राजन्निमित्तं भवतीह नः |
न हि पश्यामि विजयं सैन्येऽस्माकं परन्तप ||४-४६-३ (३०३४६)
शस्त्राणि न प्रकाशन्ते न प्रहृष्यन्ति वाहनाः |
अग्नयश्च न भासन्ते सुसमिद्धा न शोभनाः ||४-४६-४ (३०३४७)
प्रत्यादित्यं च नः सर्वे मृगा घोरा नदन्ति च |
शकुनाश्चापसव्याश्च वेदयन्ति महाभयम् ||४-४६-५ (३०३४८)
गोमायुरेष सैन्यानां रुदन्मध्येन धावति |
चाषा नदन्ति चाकाशे वेदयन्तो महद्भयम् ||४-४६-६ (३०३४९)
भवतां चैव रोमाणि प्रहृष्टानीव लक्षये ||४-४६-७ (३०३५०)
अनुष्णाङ्गाश्च संस्विन्ना जृम्भन्ते चाप्यभीक्ष्णशः |
विष्कम्भन्ति च मातङ्गा मुञ्चन्त्यश्रूणि वाजिनः |
सदा मूत्रं पुरीषं च उत्सृजन्ति पुनः पुनः ||४-४६-८ (३०३५१)
लोहितार्द्रा च पृथिवी दिशः सर्वाः प्रधूमिताः |
न च सूर्यः प्रतपति महद्वेदयते भयम् ||४-४६-९ (३०३५२)
हस्तिनश्चापि वित्रस्ता योधाश्चापि वितत्रसुः |
पराभूता च वः सेना न कश्चिद्योद्भुमिच्छति ||४-४६-१० (३०३५३)
विषण्णमुखभूयिष्ठाः सर्वे योधा विचेतसः |
दिशं ते दक्षिणां सर्वे विप्रेक्षन्ते पुनः पुनः ||४-४६-११ (३०३५४)
मृगाश्च पक्षिणश्चैव सव्यमेव पतन्ति नः |
वादित्रोद्धृष्टघोषाश्च न च गाढं स्वनन्ति च |
ध्वजाग्रेषु निलीयन्ते वायसास्तन्न शोभनम् ||४-४६-१२ (३०३५५)
यथा मेघस्य निनदो गम्भीरस्तूर्णमायतः |
श्रूयते रथनिर्घोषो नायमन्यो धनञ्जयात् ||४-४६-१३ (३०३५६)
अश्वानां स्वनतां शब्दो वहतां पाकशासनिम् |
वानरस्य रथे दिव्यो निस्वनः श्रूयते महान् ||४-४६-१४ (३०३५७)
शङ्खशब्देन पार्थस्य कर्णौ मे बधिरीकृतौ |
सर्वसैन्यं च वित्रस्तं नायमन्यो धनञ्जयात् ||४-४६-१५ (३०३५८)
राजानमग्रतः कृत्वा दुर्योधनमरिन्दमम् |
गाः प्रस्थाप्य च तिष्ठामो व्यूढानीकाः प्रहारिणः |
प्रविभज्य त्रिधा सेनां समुच्छ्रित्य ध्वजानपि ||४-४६-१६ (३०३५९)
शितैर्बाणैः प्रताप्येमां चमूमेष धनञ्जयः |
मूर्ध्नि सर्वनरेन्द्राणां वामपादं करिष्यति ||४-४६-१७ (३०३६०)
न ह्येष शक्यो बीभत्सुर्जेतुं देवासुरैरपि |
दिक्षु गुल्मा निवेश्यन्तां यत्ता योत्स्यामहेऽर्जुन ||||४-४६-१८ (३०३६१)
इति श्रीमन्महाभारते विराटपर्वणि गोग्रहणपर्वणि
षट्चत्वारिंशोऽध्यायः ||४६ ||
विराटपर्व -अध्याय ०४७
||श्रीः ||
४. ४७. अध्यायः ४७
Mahabharata -Virata Parva -Chapter Topics
द्रोणवचनादर्जुनस्यार्जुनत्वावधारणेन विषादात्तूष्णींभूतेषु स्वीयेषु
दुर्योधनेन द्रोणानादरपूर्वकं तान्प्रति समरप्रोत्साहनम् ||१. .
Mahabharata -Virata Parva -Chapter Text
४-४७-० (३०३६२)
वैशम्पायन उवाच. ४-४७-०क्ष् (३२०३)
ततो दुर्योधनो राजा समरे भीष्ममब्रवीत् |
द्रोणं च रथिशार्दूलं कृपं च सुमहाबलम् ||४-४७-१ (३०३६३)
उक्तोऽयमर्थ आचार्य मया कर्णेन चासकृत् |
पुनरेव च वक्ष्यामि न हि तृप्यामि तद्ब्रुवन् ||४-४७-२ (३०३६४)
पराजितैर्विवस्तव्यं तैश्च द्वादशवत्सरान् |
वने जनपदेऽज्ञातैरेष एव पणो हि नः ||४-४७-३ (३०३६५)
तेषां न तावन्निर्वृत्तो वत्सरः स त्रयोदशः |
अज्ञातवासे बीभत्सुरथास्माभिः परिश्रुतः ||४-४७-४ (३०३६६)
अनिर्वृत्ते तु निर्वासे यदि बीभत्सुरागतः |
पुनर्द्वादशवर्षाणि वने वत्स्यन्ति पाण्डवाः ||४-४७-५ (३०३६७)
लोभाद्वा ते न जानीयुरस्मान्वा मोह आविशत् |
हीनातिरिक्तमेतेषां भीष्मो वेदितुमर्हति ||४-४७-६ (३०३६८)
अर्थानां हि पुनर्द्वैधे नित्यं भवति संशयः |
अन्यथा चिन्तितो ह्यर्थः पुनर्भवति चान्यथा ||४-४७-७ (३०३६९)
उत्तरं मार्गमाणानां मात्स्यसेनां युयुत्सताम् |
यदि बीभत्सुरायातः किंतु कृत्यमतः परम् ||४-४७-८ (३०३७०)
त्रिगर्तानां कृतं कार्यं पाण्डवानां च मार्गणम् |
विप्रकारैर्हि मात्स्येन सुशर्मा बाधित पुरा ||४-४७-९ (३०३७१)
तेषां भयाभिपन्नानां वस्तानां त्राणभिच्छताम् |
अभयं याचमानानां तदाऽस्माभिः परिश्रुतम् ||४-४७-१० (३०३७२)
प्रथमं वैर्ग्रहीतव्यं मात्स्यानां गोधनं महत् |
अष्टम्याश्चापराह्णे तु इति नस्तैः समाहितम् ||४-४७-११ (३०३७३)
नवम्यां पुनरस्माभिः सूर्यस्योदयनं प्रति |
इमा गावो ग्रहीतव्या याते मत्स्ये गवांपदम् ||४-४७-१२ (३०३७४)
इत्येवं निश्चयोऽस्माकं मन्त्रोऽभून्नागसाह्वये |
पाण्डवानां परिज्ञाने सर्वेषां नः परस्परम् ||४-४७-१३ (३०३७५)
ते वा गाश्च नयिष्यन्ति यदि वा स्युः पराजिताः |
अस्मान्वाऽप्यतिसन्धाय कुर्युर्मात्स्येन संगतिम् ||४-४७-१४ (३०३७६)
अथवा तानुपादाय मात्स्यो जानपदैः सह |
सर्वथा सेनया सार्धमस्मानेष युयुत्सति ||४-४७-१५ (३०३७७)
तेषामेको महावीर्यः कश्चिदेव पुनःसरः |
अस्माञ्जेतुमिहायातो मात्स्यो वाऽपि स्वयं भवेत् ||४-४७-१६ (३०३७८)
यद्येष राजा मात्स्यानां यदि बीभत्सुरागतः |
सर्वैर्योद्धव्यमस्माभिरिति नः समयः कृतः ||४-४७-१७ (३०३७९)
अथ कस्मात्थिता ह्येते रथेषु रथिसत्तमाः |
भीष्मद्रोणकृपाः कर्णो विकर्णो द्रौणिरेव च |
संभ्रान्तमनसः सर्वे प्राप्ते ह्यस्मिन्धनञ्जये ||४-४७-१८ (३०३८०)
नान्यत्र युद्धाच्छ्रेयोस्ति तथाऽऽत्मा प्रणिधीयताम् |
सर्वलोकेन वा युद्धं देवैर्वाऽस्तु सवासवैः ||४-४७-१९ (३०३८१)
अनाच्छिन्ने धनेऽस्माकमथ शक्रेण वज्रिणा |
यमेन वाऽपि संग्रामे को हास्तिनपुरं व्रजेत् ||४-४७-२० (३०३८२)
शरैरभिप्रणुन्नानां भग्नानां गहने वने |
को हि जीवेत्पदातीनां भवेदश्वेषु संशयः ||४-४७-२१ (३०३८३)
आचार्यं पृष्ठतः कृत्वा तथा नीतिर्विधीयताम् |
जानामि च मतं तेषामतस्त्रासयतीव नः ||४-४७-२२ (३०३८४)
अर्जुने चापि संप्रीतिमधिकामुपलक्षये |
तथा दृष्ट्वा हि बीभत्सुमुपायान्तं प्रशंसति |
यथा सेना न भज्येत तथा नीतिर्विधीयताम् ||४-४७-२३ (३०३८५)
अदेशिका ह्यरण्येऽस्मिन्कृच्छ्रे शत्रुवशं गता |
यथा न विभ्रमेत्सेना तथा नीतिर्विधीयताम् ||४-४७-२४ (३०३८६)
अश्वानां हेषितं श्रुत्वा का प्रशंसा भवेत्परे |
स्थाने वाऽपि व्रजन्तो वा सदा हेषन्ति वाजिनः ||४-४७-२५ (३०३८७)
सदा च वायवो वान्ति नित्यं वर्षति वासवः |
स्तनयित्नोश्च निर्घोषः श्रूयते बहुशस्तथा ||४-४७-२६ (३०३८८)
भीषयन्पाण्डवेयेभ्यो भवान्सर्वानिमाञ्जनान् |
प्रमुखे सर्वसैन्यानामबद्धं बहु भाषते ||४-४७-२७ (३०३८९)
यथैवाश्वान्मार्गमाणास्तानेवाभिपरीप्सवः |
हेषितानीव शृण्वन्ति तदिदं भवतस्तथा ||४-४७-२८ (३०३९०)
किमत्र कार्यं पार्थस्य कथं वा स प्रशस्यते |
अन्यत्र कामाद्द्वेषाद्वा रोषाद्वाऽस्मासु केवलम् ||४-४७-२९ (३०३९१)
आचार्या वै कारुणिकाः प्राज्ञाश्चापायदर्शिनः |
नैते महाहवे घोरे संप्रष्टव्याः कथंचन ||४-४७-३० (३०३९२)
प्रासादेषु विचित्रेषु गोष्ठीपानाशनेषु च |
कथा विचित्राः कुर्वाणाः पण्डितास्तत्र सोभनः ||४-४७-३१ (३०३९३)
बहून्याश्चर्यरूपाणि कुर्वते जनसंसदि |
इष्वस्त्रे चापसंधाने पण्डितास्तत्र शोभनाः ||४-४७-३२ (३०३९४)
परेषां विवरज्ञाने मनुष्याचरितेषु च |
अन्नसंस्कारदोषेषु पण्डितास्तत्र शोभनाः ||४-४७-३३ (३०३९५)
पण्डितान्पृष्ठतः कृत्वा परेषां गुणवादिनः |
विधीयतां तथा नीतिर्यथा वध्येत वै परः ||४-४७-३४ (३०३९६)
गावश्चैताः प्रतिष्ठन्तां सेनां व्यूहन्तु माचिरम् |
आरक्षाश्च विधीयन्तां यत्र योत्स्यामहे परैः ||||४-४७-३५ (३०३९७)
इति श्रीमन्महाभारते विराटपर्वणि गोग्रहणपर्वणि
सप्तचत्वारिंशोऽध्यायः ||४७ ||
Mahabharata -Virata Parva -Chapter Footnotes
४-४७-११ सप्तम्याश्चापराह्णे त्विति नवम्यां पुनरस्माभिरिति च थो पाठः ||
||
सप्तचत्वारिंशोऽध्यायः ||
४७ ||
विराटपर्व -अध्याय ०४८
||श्रीः ||
४. ४८. अध्यायः ४८
Mahabharata -Virata Parva -Chapter Topics
कर्णेनात्मश्लाघनपूर्वकमर्जुनपराभवनमिथ्याप्रतिज्ञानम् ||१ ||
Mahabharata -Virata Parva -Chapter Text
४-४८-० (३०३९८)
कर्ण उवाच. ४-४८-०क्ष् (३२०४)
सर्वानायुष्मतो भीतान्संत्रस्तानिव लक्षये |
अयुद्धमनसश्चैव सर्वांश्चैवानवस्थितान् ||४-४८-१ (३०३९९)
यद्येष जामदग्न्यो वा यदि वेन्द्रः पुरंदरः |
वासुदेवेन सहितो यदि बीभत्सुरागतः |
अहमेनं निरोत्स्यामि वेलेव वरुणालयम् ||४-४८-२ (३०४००)
रुक्मपुङ्खाः प्रसन्नाग्रा मुक्ता हस्तवता मया |
छादयन्तु शारः सूर्यं पार्थस्यायुर्निरोधकाः ||४-४८-३ (३०४०१)
मम चापप्रमुक्तानां शराणां नतपर्वणाम् |
निवृत्तिर्गच्छतां नास्ति सर्पाणां श्वसतामिव ||४-४८-४ (३०४०२)
शराणां पुङ्खसक्तानां मौर्व्याऽभिहतयोर्भृशम् |
श्रूयते तलयोः शब्दो भेर्योराहतयोरिव ||४-४८-५ (३०४०३)
एकैकं चतुरः पञ्च क्वचित्पष्टिं क्वचिच्छतम् |
हतान्पश्यत मात्स्यानामिषुभिर्निहतान्रथान् ||४-४८-६ (३०४०४)
मद्बाहुमुक्तैरिषुभिस्तैलधौतैः पतत्रिभिः |
खद्योतैरिव संपृक्तमन्तरिक्षं विराजताम् ||४-४८-७ (३०४०५)
ध्वजाग्राद्वानरस्तस्य भल्लेनाभिहतो मया |
अद्यैव पततां भूमौ विनदन्भैरवान्रवान् ||४-४८-८ (३०४०६)
शत्रोर्मयाभिपन्नानां भूतानां ध्वजवासिनाम् |
दिशः प्रतिष्ठमानानामस्तु शब्दो दिवं गतः ||४-४८-९ (३०४०७)
क्रुद्धेनास्त्रं मया मुक्तं निर्दहेत्पृथिवीमिमाम् |
स्थितं संग्रामशिरसि पार्थमेकाकिनं किमु ||४-४८-१० (३०४०८)
समाहितश्च बीभत्सुर्वर्षाण्यष्टौ च पञ्च च |
जातस्नेहश्च युद्धस्य मयि संदर्शयिष्यति ||४-४८-११ (३०४०९)
पात्रीभूतस्तु कौन्तेयो ब्राह्मणो गुणवानिव |
शरमालां स गृह्णातु मत्प्रसृष्टां स्वधामिव ||४-४८-१२ (३०४१०)
एष चापि महेष्वासस्त्रिषु लोकेषु विश्रुतः |
अहं चापि नरश्रेष्ठादर्जुनान्नावमः क्वचित् ||४-४८-१३ (३०४११)
मम हस्तप्रमुक्तानां शराणां नतपर्वणाम् |
निवृत्तिर्गच्छतां नास्ति वैश्वानरशिखार्चिषाम् ||४-४८-१४ (३०४१२)
इतश्चेतश्च मुक्तानां शराणां नतपर्वणाम् |
तुगुलः श्रूयतां नादः षट्पदां गायतामिव ||४-४८-१५ (३०४१३)
अन्तरा संपतद्भिस्तु गृध्रपत्रैः शिलाशितैः |
शलभानामिवाकाशे छाया संप्रति दृश्यताम् ||४-४८-१६ (३०४१४)
अद्य मत्कार्मुकोत्सृष्टाः शिताः पार्थस्य मर्मगाः |
शरीरमुपसर्पन्तु वल्मीकमिव पन्नगाः ||४-४८-१७ (३०४१५)
बर्हिबर्हिणराजानां बर्हिणां बर्हिणामिव |
पततां पततां घोषः पततां पततामिव ||४-४८-१८ (३०४१६)
अद्य त्वहमृणान्मोक्ष्ये यन्मया तत्प्रतिश्रुतम् |
धार्तराष्ट्रस्य तत्काले निहत्य समरेऽर्जुनम् ||४-४८-१९ (३०४१७)
इन्द्राशनिसमस्पर्शं महेन्द्रसमविक्रमम् |
अर्दयिष्याम्यहं पार्थमुल्काभिरिव कुञ्जरम् ||४-४८-२० (३०४१८)
शरजालमहाज्वालमसिशक्तिगदेन्धनम् |
निर्दहन्तमनीकानि शमयिष्येऽर्जुनानलम् ||४-४८-२१ (३०४१९)
रथादतिरथं लोके सर्वशस्त्रभृतांवरम् |
विवशं पार्थमादास्ये गरुत्मानिव पन्नगम् ||४-४८-२२ (३०४२०)
क्षुद्रकैर्विविधैर्भल्लैर्निपतद्भिश्च मामकैः |
संमूढचेताः कौन्तेयः कर्तव्यं नाभिपद्यताम् ||४-४८-२३ (३०४२१)
अद्य दुर्योधनस्याहं शोकं हृदि चिरं स्थितम् |
समूलमपनेष्यामि हरन्पार्थशिरः शरैः ||४-४८-२४ (३०४२२)
अद्य मत्कार्मुकोत्सृष्टैर्भल्लैश्च नतपर्वभिः |
हताश्वं विरथं पार्थं पौरुषे पर्यवस्थितम् |
निश्वसन्तं यथा नागमद्य पश्यन्तु कौरवाः ||४-४८-२५ (३०४२३)
जामदग्न्यान्मया लब्धं दिव्यास्रमृषिसत्तमात् |
तदुपाश्रित्य वीर्यं च युध्येयमपि वासवम् ||४-४८-२६ (३०४२४)
ध्वजाग्रे वानरस्तिष्ठन्भल्लेन निहतो मया |
अद्यैव पततां भूमौ विनदन्भैरवान्रवान् ||४-४८-२७ (३०४२५)
कामं गच्छन्तु कुरवो गाः प्रगृह्य परंतपाः |
रथेषु वाऽपि तिष्ठन्तो युद्धं पश्यन्तु मामकम् ||||४-४८-२८ (३०४२६)
इति श्रीमन्माहाभारते विराटपर्वणि गोग्रहणपर्वणि
अष्टचत्वारिंशोऽध्यायः ||४८ ||
Mahabharata -Virata Parva -Chapter Footnotes
४-४८-१८ बर्हिणां बहिणामिव एकैकस्य पृष्ठेपृष्ठे गच्छतां
मयूराणां मयूराणामिव बर्हिबर्हिणराजानां बर्हिणो मयूरस्य बर्हिणैः
शरमूले पत्ररूपेण स्थितमयूरपत्रैः राजानां राजमानानां
. राजृदीप्ताविति धातोः कर्त्रर्थे पचाद्यचि कृते रूपनिष्पत्तिः
. पततां पततां एकैकस्य शरस्य पृष्ठे पृष्ठे निपततां
शराणां घोषः पततां मालारूपेण निपतमानानां पततां पक्षिणां
घोष इव अखिलैः श्रूयतामिति योग्यक्रियाध्याहारेण संबन्धः | यद्वा
बर्हिणां बर्हवतां उत्पन्नबर्हाणामित्यर्थः | बर्हिणं मयूराणामिव
पततां पततां पुंखानुपुंखतया क्षणेक्षणे पततां पततां शराणां
घोषः पततां पक्षिणां घोष इव पततां दिशिदिशि पततामिति
लोडन्तक्रिया. सर्वैः श्रूयतामिति भावः | बर्हिबर्हिणवाजानामिति टो
थो धो पाठः ||
१८ ||
||
अष्टचत्वारिंशोऽध्यायः ||
४८ ||
विराटपर्व -अध्याय ०४९
||श्रीः ||
४. ४९. अध्यायः ४९
Mahabharata -Virata Parva -Chapter Topics
कृपेणार्जुनचरित्रप्रशंसनपूर्वकं कर्णगर्हणम् ||१ ||
तथा स्वेषु एकैकेनार्जुनस्य दुर्जयत्वकथनपूर्वकं
संभूयाभियाननिर्धारणम् ||२ ||
Mahabharata -Virata Parva -Chapter Text
४-४९-० (३०४२७)
वैशम्पायन उवाच. ४-४९-०क्ष् (३२०५)
तस्य तद्वचनं श्रुत्वा नीतिशास्त्रविशारदः |
आचार्यः कुरुवीराणां कृपः शारद्वतोऽब्रवीत् ||४-४९-१ (३०४२८)
सदैव तव राधेय युद्धे क्रूरतरा मतिः |
नार्थानां प्रकृतिं वेत्सि नानुबन्धमवेक्षसे ||४-४९-२ (३०४२९)
नया हि बहवः सन्ति शास्त्राण्याश्रित्य चिन्तिताः |
तेषां युद्धं सुपापिष्ठं वेदयन्ति पुराविदः ||४-४९-३ (३०४३०)
देशकालेन संयुक्तं युद्धं विजयदं भवेत् |
हीनकालं तदेवेह अनर्थायोपकल्पते ||४-४९-४ (३०४३१)
देशे काले च विक्रान्तं कल्याणाय विधीयते |
आनुकूल्येन कार्याणामुत्तरं तु विधीयते ||४-४९-५ (३०४३२)
भारं हि रथकारस्य न व्यवस्यन्ति पण्डिताः |
परिचिन्त्य तु पार्थेन संनिपातो न नः क्षमः ||४-४९-६ (३०४३३)
एको हि शत्रून्समरे समर्थः प्रतिबाधितुम् |
एकः कुरूनभ्यरक्षदेकश्चाग्निमतर्पयत् ||४-४९-७ (३०४३४)
एकश्च पञ्च वर्षाणि ब्रह्मचर्यमधारयत् |
एकः सुभद्रामारोप्य द्वैरथे कृष्णमाह्वयम् ||४-४९-८ (३०४३५)
सैन्धवं वनवासे तु जित्वा कृष्णामथानयत् |
एकश्च पञ्च वर्षाणि शक्रादस्राण्यशिक्षत ||४-४९-९ (३०४३६)
एकः सपत्नाञ्जित्वा तु कुरूणामकरोद्यशः |
एको गन्धर्वराजानं चित्रसेनमरिन्दमः |
विजिग्ये तरसा सङ्ख्ये सेनां चास्य सुदुर्जयाम् ||४-४९-१० (३०४३७)
पाञ्चाली श्रीमती प्राप्ता क्षत्रं जित्वा स्वयंवरे |
आदाय गतवान्पार्थो भवान्क्वनु गतस्तदा ||४-४९-११ (३०४३८)
तथा निवातकवचाः कालकेयाश्च दानवाः |
दैवतैरप्यवध्यास्ते एकेन युधि पातिताः ||४-४९-१२ (३०४३९)
एकेन हि त्वया कर्ण किं नामेह कृतं पुरा |
एकैकेन यथा तेषां भूमिपाला वशे कृताः ||४-४९-१३ (३०४४०)
इन्द्रोपि हि न पार्थेन संयुगे योद्धुमर्हति |
यस्तेनाशंसते योद्धुं कर्तव्यं तस्य भेषजम् ||४-४९-१४ (३०४४१)
आशीविषस्य क्रुद्धस्य पाणिमुद्यम्य दक्षिणम् |
अवमुच्य प्रदेशिन्या दंष्ट्रामादातुमिच्छसि ||४-४९-१५ (३०४४२)
अथवा कुञ्जरं मत्तमेकमेकचरं वने |
निरङ्कुशं समारुह्य नगरं यातुमिच्छसि ||४-४९-१६ (३०४४३)
समिद्धं पावकं चापि घृतमेदोवसाहुतम् |
घृताक्तश्चीरवासास्त्वं मध्येनोत्सर्तुमिच्छसि ||४-४९-१७ (३०४४४)
आत्मानं यः समाबध्य कण्ठे बद्ध्वा तथा शिलाम् |
समुद्रं प्रतरेद्दोर्भ्यां तत्र किं कर्ण पौरुषम् ||४-४९-१८ (३०४४५)
अकृतास्त्रः कृतास्त्रं वै बलवन्तं सुदुर्बलः |
तादृशं कर्ण यः पार्थं योद्धुमिच्छेत्स दुर्मतिः ||४-४९-१९ (३०४४६)
अस्माभिरेव निकृतो वर्षाणीह त्रयोदश |
सिंहः पाशविनिर्मुक्तो न नः शेषं करिष्यति ||४-४९-२० (३०४४७)
एकान्ते पार्थमासीनं कूपेऽग्निमिव संवृतम् |
अज्ञानादभ्यवस्कन्द्य प्राप्ताः स्मो भयमुत्तमम् ||४-४९-२१ (३०४४८)
उत्सृष्टं तूलराशौ तु एकोऽग्निं शमयेत्कथम् |
सह युद्ध्यामहे पार्थमागतं युद्धदुर्मदम् ||४-४९-२२ (३०४४९)
यत्ता वयं पराक्रान्ता व्यूढानीकाः प्रहारिणः |
युद्धायावस्थितं पार्थमागतं पाकशासनिम् ||४-४९-२३ (३०४५०)
यत्ताः सर्वे रथश्रेष्ठं परिवार्य समन्ततः |
षड्रथाः परिकीर्यन्तां वज्रपाणिमिवासुराः ||४-४९-२४ (३०४५१)
द्रोणो दुर्योधनो भीष्मो भवान्द्रौणिस्तथा वयम् |
सर्वे युद्ध्यामहे पार्थं कर्ण मा साहसं कृथाः ||४-४९-२५ (३०४५२)
न ह्यसंगत्य समरे पार्थं जेष्यामहे वयम् |
संगत्य समरे पार्थं सर्वे जेष्यमाहे वयम् ||२६ ||||४-४९-२६ (३०४५३)
इति श्रीमन्महाभारते विराटपर्वणि गोग्रहणपर्वणि
एकोनपञ्चाशोऽध्यायः ||४९ ||
Mahabharata -Virata Parva -Chapter Footnotes
४-४९-६ भारं हीति | यथा रथकारेण दिव्योऽयं मया निर्मितो
रथः सुदृढाङ्गः अनेन त्वं देवानपि सर्वथा जेष्यसीत्युक्ते
तद्वचसि भारं दत्त्वा देशकालानुकूल्यमनपेक्ष्यैव न
व्यवस्यन्ति. योद्धुमेति शेषः. एवं त्वद्वचसि भारं दत्त्वा
देशाद्यानुकूल्यमनवेक्ष्य कथमस्माभिर्योद्धव्यम्. तवतु वचनं
रथकारवचनवदर्शशून्यमिति भावः ||
६ ||
४-४९-१० एकः संयमिनीं जित्वा इति धो पाठः ||
१० ||
||
एकोनपञ्चाशोऽध्यायः ||
४९ ||
विराटपर्व -अध्याय ०५०
||श्रीः ||
४. ५०. अध्यायः ५०
Mahabharata -Virata Parva -Chapter Topics
कृपेण स्वगर्हणममृष्यता कर्णेन तदुपालम्भः ||१ ||
तदसहिष्णुनाऽश्वत्थाम्ना समर्मोद्धाटनं कर्णदुर्योधनोपालम्भः ||२ ||
Mahabharata -Virata Parva -Chapter Text
४-५०-० (३०४५४)
वैशम्पायन उवाच. ४-५०-०क्ष् (३२०६)
कृपस्य वचनं श्रुत्वा कर्णो राजन्युधांपतिः |
पुनः प्रोवाच संरब्धो गर्हयन्ब्राह्मणं कृपम् ||४-५०-१ (३०४५५)
कर्ण उवाच. ४-५०-२क्ष् (३२०७)
लक्षयाम्यहमाचार्यं भयाद्भक्तिं गतं रिपौ |
भीतेन हि न योद्धव्यमहं योत्स्ये धनञ्जयम् ||२ ||४-५०-२ (३०४५६)
ननु वारुणमाग्नेयं याम्यं वायव्यमेव च |
अस्त्रं ब्रह्मशिरश्चैव सत्वहीनस्य ते वृथा ||४-५०-३ (३०४५७)
मित्रकार्यं कृतमिदं पितापुत्रैर्महारथैः |
भर्तृपिण्डश्च निर्विष्टो यथेष्टं गन्तुमर्हथ ||४-५०-४ (३०४५८)
भिक्षां हरस्व नित्यं त्वं यज्ञाननुचरस्व च |
आमन्त्रणानि भुङ्क्षाद्य माऽस्मान्युद्धेन भीषय ||४-५०-५ (३०४५९)
भार्गवास्त्रं मया मुक्तं निर्दहेत्पृथिवीमिमाम् |
किं पुनः पाण्डुपुत्राणामेकमर्जुनमाहवे ||४-५०-६ (३०४६०)
आगमिष्यन्ति पदवीं मात्स्याः पाण्डवमाश्रिताः |
कीचकानां तु बलिनां शत्रुसेनावमर्दिनाम् ||४-५०-७ (३०४६१)
तानहं निहनिष्यामि भवता गम्यतां गृहम् |
किं वेदवादिनां कार्यं परस्नेहानुभाषिणाम् ||४-५०-८ (३०४६२)
तस्य तद्वचनं श्रुत्वा अश्वत्थामा प्रतापवान् |
उवाच वदतांश्रेष्ठो दुर्योधनमवेक्ष्य च ||४-५०-९ (३०४६३)
न च तावञ्जिता गावो न च सीमान्तरं गताः |
न हास्तिनपुरं प्राप्तास्त्वं च कर्ण विकत्थसे ||४-५०-१० (३०४६४)
बहूनि धर्मशास्त्राणि पठन्ति द्विजसत्तमाः |
तेषु किंस्विदिदं दृष्टं द्यूते जीयेत यन्नृपः ||४-५०-११ (३०४६५)
संग्रामान्विपुलाञ्जित्वा लब्धा च विपुलं धनम् |
विजित्य च महीं कृत्स्नां नेह कत्थन्ति पण्डिताः ||४-५०-१२ (३०४६६)
पचत्यग्निरवाक्यस्तु तूष्णीं भाति दिवाकरः |
तूष्णीं धारयते लोकान्वसुधा सचराचरान् ||४-५०-१३ (३०४६७)
चातुर्वर्ण्यस्य कर्माणि विहितानि महर्षिभिः |
धनं यैरधिगन्तव्यं यच्च कुर्वन्न दुष्यति ||४-५०-१४ (३०४६८)
अधीत्य ब्राह्मणो वेदान्याजयेत यजेत वा |
क्षत्रियो धनमाहृत्य यजेतैव न याजयेत् ||४-५०-१५ (३०४६९)
वैश्योऽधिगम्य वित्तानि वार्ताकर्माणि कारयेत् ||४-५०-१६ (३०४७०)
शूद्रः शुश्रूषणं कुर्यात्रिषु वर्णेषु नित्यशः |
वन्दनायोगविधिभिर्वैतसीं वृत्तिमाश्रितः ||४-५०-१७ (३०४७१)
वर्तमाना यथाशास्त्रं प्राप्य चापि महीमिमाम् |
प्रकुर्वन्ति महाभागा यज्ञान्सुविपुलानपि ||४-५०-१८ (३०४७२)
का जातिस्तेषु सूतेयं केऽपि मन्त्राः क्रियाश्च काः |
केयं वर्णेषु या राज्ञो वक्तृभोक्तृनियन्तृषु ||४-५०-१९ (३०४७३)
वैशम्पायन उवाच. ४-५०-२०क्ष् (३२०८)
दुर्योधनमभिप्रेक्ष्य कर्णं च कुरुसंसाद |
अश्वत्थामा भृशं क्रुद्धो दुर्योधनमतर्जयत् ||४-५०-२० (३०४७४)
प्राप्य द्यूतेन को राज्यं क्षत्रियः स्तोष्टुर्महति |
तथा नृशंसरूपोयं धार्तराष्ट्रश्च निर्घृणः ||४-५०-२१ (३०४७५)
तथाऽधिगम्य वित्तानि को विकत्थेद्विचक्षणः |
निकृत्या वञ्चनायोगैश्चरन्वैतंसिको यथा ||४-५०-२२ (३०४७६)
कतमद्द्वैरथं युद्धं यत्राजैषीर्धनञ्जयम् |
नकुलं सहदेवं वा धनं येषां त्वया हृतम् ||४-५०-२३ (३०४७७)
युधिष्ठिरो जितः कस्मिन्भीमश्च बलिनांवरः |
इन्द्रप्रस्थं त्वया कस्मिन्संग्रामे निर्जितं पुरा ||४-५०-२४ (३०४७८)
तथैव कतमद्युद्धं यस्मिन्कृष्णा जिता त्वया |
एकवस्त्रा सभां नीता क्षुद्रकर्मन्रजस्वला ||४-५०-२५ (३०४७९)
मूलमेषां महत्कृत्तं सारार्थी चन्दनं यथा |
क्षुद्रं कर्म समास्थाय तत्र किं विदुरोऽब्रवीत् ||४-५०-२६ (३०४८०)
यथाशक्ति मनुष्याणाममर्षं लक्षयामहे |
अन्येषामपि सत्वानामपि कीटपिपीलिकैः ||४-५०-२७ (३०४८१)
द्रौपद्याः संपरिक्लेशं न क्षन्तुं पाण्डवोऽर्हति |
क्षयाय धार्तराष्ट्राणां प्रादुर्भूतो धनञ्जयः ||४-५०-२८ (३०४८२)
त्वं पुनः पण्डितो भूत्वा ह्याचार्यं क्षेप्तुमिच्छसि |
वैरान्तकरणो जिष्णुर्न नः शेषं करिष्यति ||४-५०-२९ (३०४८३)
नैव देवा न गन्धर्वा नासुरा न च राक्षसाः |
भयादिह न युद्ध्येरन्पाण्डुपुत्रेण धीमता ||४-५०-३० (३०४८४)
यं यमेकोपि संक्रुद्धः संग्रामे निपतिष्यति |
वृक्षं गरुडवद्वेगाद्विनिहत्यान्तमेष्यति ||४-५०-३१ (३०४८५)
त्वत्तो विशिष्टं वीर्येण धनुष्यमरराट्समम् |
वासुदेवसमं युद्धे तं पार्थं को न पूजयेत् ||४-५०-३२ (३०४८६)
देवं दैवेन युद्ध्येत मानुपेण च मानुपम् |
अस्त्रं ह्यस्त्रेण यो हन्यात्कोऽर्जुनेन समः पुमान् ||४-५०-३३ (३०४८७)
पुत्रादनवमः शिष्य इति धर्मविदो विदुः |
एतेनापि निमित्तेन प्रियो द्रोणस्य पाण्डवः ||४-५०-३४ (३०४८८)
यथा त्वमकरोर्द्यूतमिन्द्रप्रस्थं यथाऽहरः |
यथाऽनैषीः सभां कृष्णां तथा युध्यस्व पाण्डवं ||४-५०-३५ (३०४८९)
अयं ते मातुलः प्राज्ञः क्षत्रधर्मस्य कोविदः |
दुर्द्यूतदेवी गान्धारः शकुनिर्युद्ध्यतामिह ||४-५०-३६ (३०४९०)
नाक्षान्क्षिपति गाण्डीवं न कृतं द्वापरं न च |
ज्वलतो निशितान्बाणांस्तांस्तान्क्षिपति गाण्डिवं ||४-५०-३७ (३०४९१)
न हि गाण्डीवनिर्मुक्ता गृध्रपक्षाः सुतेजनाः |
नान्तरेष्ववतिष्ठन्ते गिरीणामपि दारणाः ||४-५०-३८ (३०४९२)
अन्तकः पवनो मृत्युस्तथाऽग्निर्बडवामुखः |
कुर्युरेते क्वचिच्छेषं न तु क्रुद्धो धनञ्जयः ||४-५०-३९ (३०४९३)
यथा सभायां द्यूतं त्वं मातुलेन महाकरोः |
तथा युद्धस्व संग्रामे सौबलेन सुरक्षितः ||४-५०-४० (३०४९४)
युद्ध्यतां काममाचार्यो नाहं योत्स्ये धनञ्जयम् |
मत्स्यो ह्यस्माभिरायोध्यो यद्यागच्छेद्गवांपदम् ||||४-५०-४१ (३०४९५)
इति श्रीमन्महाभारते विराटपर्वणि गोग्रहणपर्वणि पञ्चाशोऽध्यायः
||५० ||
Mahabharata -Virata Parva -Chapter Footnotes
४-५०-१४ यदुक्तं ब्राह्मणानां भोजनादावेव कौशलं न युद्ध इति
तत्र तवापि वैश्यत्वान्न युद्धे सामर्थ्यमस्तीति दर्शयिष्यन्वर्णानां
कर्माणि विभजते चातुर्वर्ण्यस्येत्यादिना ||
१४ ||
४-५०-२२ वैतंसिको व्याधः ||
२२ ||
४-५०-२६ अनृतं द्यूतं कुर्वता धार्तराष्ट्रेण धर्मस्य मूलं कृत्तं
छिन्नं | तत्र तदा विदुरः किमब्रवीत् क्षयमूलं द्यूतमिति तत्स्मरेति
शेषः ||
२६ ||
४-५०-३७ चकारात् त्रेतानि समुच्चीयते | कृतादयो
द्यूतशास्त्रप्रसिद्धाः पाशकाः ||
३७ ||
||
पञ्चाशोऽध्यायः ||
५० ||
विराटपर्व -अध्याय ०५१
||श्रीः ||
४. ५१. अध्यायः ५१
Mahabharata -Virata Parva -Chapter Topics
कर्णकृतद्रोणकृपाधिक्षेपसंक्रुद्धमश्वत्थामानं प्रति भीष्मेण
द्रोणादिप्रशंसनपूर्वकं परिसान्त्वनम् ||१ ||
दुर्योधनेन भीष्मकर्णाभ्यां सह कृपद्रोणक्षमापनम् ||२ ||
Mahabharata -Virata Parva -Chapter Text
४-५१-० (३०४९६)
वैशम्पायन उवाच. ४-५१-०क्ष् (३२०९)
ततः शान्तनवस्तत्र धर्मार्थकुशलं हितम् |
दुर्योधनमिदं वाक्यमब्रवीत्कुरुसंसदि ||४-५१-१ (३०४९७)
साधु पश्यति वै द्रोणः कृपः साध्वनुपश्यति |
आचार्यपुत्रः सहजं निश्चितं साधु भाषते ||४-५१-२ (३०४९८)
कर्णस्तु क्षत्रधर्मेण केवलं योद्धुमिच्छति |
आचार्यो नावमन्तव्यः पुरुषेण विजानता |
देशकालौ तु संप्रेक्ष्य योद्धव्यमिति मे मतिः ||४-५१-३ (३०४९९)
यस्य सूर्यसमाः पञ्च सपत्नाः स्युः प्रहारिणः |
कथमभ्युदये तेषां न प्रमुह्येत पण्डितः ||४-५१-४ (३०५००)
स्वार्थे सर्वे विमुह्यन्ति येऽपि धर्मविदो जनाः |
तस्मात्तत्वं न जानाति यत्तु कार्यं नराधिपः ||४-५१-५ (३०५०१)
धार्तराष्ट्रोपि दुर्बुद्धिः पश्यन्नपि धनञ्जयम् |
नैव पश्यति नाघ्राति मन्दः क्रोधवशं गतः ||४-५१-६ (३०५०२)
वैशम्पायन उवाच. ४-५१-७क्ष् (३२१०)
एवमुक्त्वा तु राजानं पुनर्द्रौणिमुवाच ह |
प्राञ्जलिर्भरतश्रेष्ठः साम्ना बुद्धिमतांवरः ||४-५१-७ (३०५०३)
कर्णो हि यदवोचत्त्वां तेजस्संजननाय तत् |
आचार्यपुत्रः क्षमतां महत्कार्यमुपस्थितम् ||४-५१-८ (३०५०४)
नायं कालो विरोधस्य कौन्तेये समुपस्थिते |
क्षन्तव्यं भवता सर्वमाचार्येण कृपेण च ||४-५१-९ (३०५०५)
भवतां हि कृतास्त्रत्वं यथाऽऽदित्ये प्रभा तथा |
यथा चन्द्रमसो लक्ष्मीः सर्वथा नापकृष्यते |
एवं भवत्सु ब्राह्मण्यं ब्रह्मास्त्रं च प्रतिष्ठितम् ||४-५१-१० (३०५०६)
चत्वार एकतो वेदाः क्षात्रमेकत्र दृश्यते |
नैतत्समस्तमुभयं कस्मिंश्चिदनुशुश्रुम |
अन्यत्र भारताचार्यात्सुपुत्रादिति मे मतिः ||४-५१-११ (३०५०७)
वेदान्ताश्च पुराणानि इतिहासं पुरातनम् |
जामदग्न्यमृते राजन्को द्रोणादधिको भवेत् ||४-५१-१२ (३०५०८)
ब्रह्मास्त्रं चैव वेदाश्च नैतदन्यत्र दृश्यते ||४-५१-१३ (३०५०९)
आचार्यपुत्रः क्षमतां नायं कालो विभेदने |
सर्वे संहत्य युद्ध्यामः पाकशासनिमागतम् ||४-५१-१४ (३०५१०)
बलस्य व्यसनानीह यान्युक्तानि मनीषिभिः |
मुख्यो भेदोहि तेषां तु पापिष्ठो विदुषां मतः ||४-५१-१५ (३०५११)
अश्वत्थामोवाच. ४-५१-१६क्ष् (३२११)
नैवं न्याय्यमिदं वाच्यमस्माकं पुरुषर्षभ |
किंतु रोषपरीतेन गुरुणा भाषिता गुणाः ||४-५१-१६ (३०५१२)
शत्रोरपि गुणा ग्राह्या दोषा वाच्या गुरोरपि |
सर्वथा सर्वयत्नेन पुत्रे शिष्ये हितं वदेत् ||४-५१-१७ (३०५१३)
आचार्य एष क्षमतां शान्तिरत्र विधीयताम् |
अभिद्यमाने तु गुरौ निवृत्तं रोषकारितम् ||४-५१-१८ (३०५१४)
वैशम्पायन उवाच. ४-५१-१९क्ष् (३२१२)
ततो दुर्योधनो द्रोणं क्षमयामास भारत |
सह कर्णेन भीष्मेण कृपं चैव महाबलम् ||४-५१-१९ (३०५१५)
द्रोण उवाच. ४-५१-२०क्ष् (३२१३)
यदेतत्प्रथमं वाक्यं भीष्मः शान्तनवोऽब्रवीत् |
तेनैवाहं प्रसन्नो वै परमत्र विधीयताम् ||४-५१-२० (३०५१६)
यथा दुर्योधनं पार्थो नोपसर्पति संगरे |
साहसाद्यदि वा मोहात्तथा नीतिर्विधीयताम् ||४-५१-२१ (३०५१७)
वनवासे ह्यनिर्वृत्ते दर्शयेन्न धनञ्जयः |
धनं चालभमानोऽत्र नाद्य तत्क्षन्तुमर्हति ||४-५१-२२ (३०५१८)
यथा नायं समायुञ्ज्याद्धार्तराष्ट्रं कथंचन |
न च सेनां पराजय्यात्तथा नीतिर्विधीयताम् ||४-५१-२३ (३०५१९)
उक्तं दुर्योधनेनापि पुरस्ताद्वाक्यमीदृशम् |
तदनुस्मृत्य गाङ्गेय यथावद्वक्तुमर्हसि ||||४-५१-२४ (३०५२०)
इति श्रीमन्महाभारते विराटपर्वणि गोग्रहणपर्वणि
एकपञ्चाशोऽध्यायः ||५१ ||
Mahabharata -Virata Parva -Chapter Footnotes
४-५१-२१ यथा दुर्योधनो राजा न गच्छेत्कांचिदापदमिति टो थो पाठः
. यथा नायशसा युक्तो धार्तराष्ट्रः कथंचनेति धो पाठः ||
२१ ||
||
एकपञ्चाशोऽध्यायः ||
५१ ||
विराटपर्व -अध्याय ०५२
||श्रीः ||
४. ५२. अध्यायः ५२
Mahabharata -Virata Parva -Chapter Topics
भीष्मेण दुर्योधनंप्रति हेतूपन्यासपूर्वकं युधिष्ठिरंप्रति
श्रुतवनवासादिकालस्य परिसमाप्तिकथनम् ||१ ||
भीष्मेणार्जुनपराक्रमप्रशंसनपूर्वकं पाण्डवैः सह संधिविधानेपि
दुर्योधनेन तत्प्रतिषेधनम् ||२ ||
भीष्मेण द्रोणवचनाद्गोभिः सह दुर्योधनस्य प्रस्थापनपूर्वकं
सेनाया व्यूहीकरणेन समराभियानम् ||३ ||
Mahabharata -Virata Parva -Chapter Text
४-५२-० (३०५२१)
भीष्म उवाच. ४-५२-०क्ष् (३२१४)
कलाः काष्ठाश्च युज्यन्ते मुहूर्ताश्च दिनानि च |
अर्धमासाश्च मासाश्च नक्षत्राणि ग्रहास्तथा ||४-५२-१ (३०५२२)
ऋतवश्चापि युज्यन्ते तथा संवत्सरा अपि |
एवं कालविभागेन कालचक्रं प्रवर्तते ||४-५२-२ (३०५२३)
तेषां कालातिरेकेण ज्योतिषां च व्यतिक्रमात् |
पञ्चमे पञ्चमे वर्षे द्वौ मासावधिमासकौ ||४-५२-३ (३०५२४)
एषामभ्यधिका मासाः पञ्च च द्वादश क्षपाः |
त्रयोदशानां वर्षाणामिति मे वर्तते मतिः ||४-५२-४ (३०५२५)
पूर्वेद्युरेव निर्वृत्तस्ततो बीभत्सुरागतः ||४-५२-५ (३०५२६)
सर्वं यथावच्चरितं यद्यदेभिः प्रतिश्रुतम् |
एवमेतद्भ्रुवं ज्ञात्वा ततो बीभत्सुरागतः ||४-५२-६ (३०५२७)
सर्वे पञ्च महात्मानः सर्वे धर्मार्थकोविदाः |
येषां युधिष्ठिरो राजा कस्माद्धर्मेऽपराध्नुयुः ||४-५२-७ (३०५२८)
कामात्क्रोधाच्च लोभाच्च कामक्रोधभयादपि |
स्नेहाद्वा यदि वा मोहाद्धर्मं नात्येति धर्मजः ||४-५२-८ (३०५२९)
अलुब्धाश्चैव कौन्तेयाः कृतवन्तश्च दुष्करम् |
न चापि केवलं राज्यमिच्छेयुस्ते ह्यधर्मतः ||४-५२-९ (३०५३०)
तदैव ते हि विक्रान्तुमीषुः कौरवनन्दनाः |
धर्मपाशनिबद्धास्तु न चेलुः क्षत्रियव्रतात् ||४-५२-१० (३०५३१)
यश्चानृत इति ख्यातः स च गच्छेत्पराभवम् |
वृणुयुर्माणं पार्था नानृतत्वं कथंचन ||४-५२-११ (३०५३२)
प्राप्ते तु काले स्वानर्थान्नोत्सृजेयुर्नरर्षभाः |
अपि वज्रभृता गुप्तांस्तथावीर्या हि पाण्डवाः ||४-५२-१२ (३०५३३)
प्रतियुद्ध्येम समरे सर्वशस्त्रभृतांवरम् ||४-५२-१३ (३०५३४)
तस्माद्यदत्र कल्याणं लोके सद्भिरनुष्ठितम् |
तत्संविधीयतां शीघ्रं मा वो ह्यर्थोऽभ्यगात्परम् ||४-५२-१४ (३०५३५)
न हि पश्यामि संग्रामे कदाचिदपि कौरव |
एकान्तसिद्धिं राजेन्द्र संप्राप्तश्च धनञ्जयः ||४-५२-१५ (३०५३६)
संप्रवृत्ते तु संग्रामे भावाभावौ जयाजयौ |
अवश्यमेकं स्पृशतो दृष्टमेतदसंशयम् ||४-५२-१६ (३०५३७)
तस्माद्युद्धोपचरितं कर्म वा धर्मसंहितम् |
क्रियतामाशु राजेन्द्र संप्राप्तश्च धनञ्जयः ||४-५२-१७ (३०५३८)
एको हि समरे पार्थः पृथिवीं निर्दहेच्छरैः |
भ्रातृभिः सहितो भूत्वा किं पुनः कौरवान्रणे |
तस्मात्सन्धिं कुरुश्रेष्ठ कुरुष्व यदि मन्यसे ||४-५२-१८ (३०५३९)
दुर्योधन उवाच. ४-५२-१९क्ष् (३२१५)
नाहं राज्यं प्रदास्यामि पाण्डवेभ्यः पितामह |
ग्रामं सेनां च दासांश्च स्वल्पं द्रव्यमपि प्रभो |
युद्धोपचारिकं यत्तु तत्सर्वं संविधीयताम् ||४-५२-१९ (३०५४०)
वैशम्पायन उवाच. ४-५२-२०क्ष् (३२१६)
भीष्मस्योपरते वाक्ये तथा दुर्योधनस्य च |
प्राप्तमर्थ्यं च यद्वाक्यं द्रोणश्वाह द्विजोत्तमः ||४-५२-२० (३०५४१)
यत्तु युद्धोपचरितं भवेद्वा धर्मसंहितम् |
कस्त्वया सदृशो लोके भूयस्त्वं वक्तुमर्हसि ||४-५२-२१ (३०५४२)
अत्र या मामिका बुद्धिः श्रूयतां यदि रोचते |
सर्वथा हि मया श्रेयो वक्तव्यं कुरुनन्दन ||४-५२-२२ (३०५४३)
राजा बलचतुर्भागं क्षिप्रमादाय गच्छतु |
ततोऽपरश्चतुर्भागो गाः समादाय गच्छतु |
वयं चार्धेन सैन्यस्य प्रतियोत्स्याम पाण्डवम् ||४-५२-२३ (३०५४४)
अहं भीष्मश्च कर्णश्च अश्वत्थामा कृपस्तथा |
प्रतियोत्स्याम बीभत्सुमागतं कृतनिश्चयम् ||४-५२-२४ (३०५४५)
एवं राजा सुगुप्तः स्यान्न क्लैब्यं गन्तुमर्हति |
मत्स्यं वा पुनरायातमथवापि शतक्रतुम् |
अहमावारयिष्यामि वेलेव मकरालयम् ||४-५२-२५ (३०५४६)
वैशम्पायन उवाच. ४-५२-२६क्ष् (३२१७)
तद्वाक्यं रुरुचे तेषां द्रोणेनोक्तं महात्मना |
तथाहि कृतवान्राजा कौरवाणामनन्तरम् ||४-५२-२६ (३०५४७)
भीष्मः प्रस्थाप्य राजानं गोधनं तदनन्तरम् |
सेनामुख्यान्व्यवस्थाप्य व्यूहितुं संप्रचक्रमे ||४-५२-२७ (३०५४८)
द्रोणस्योपरते वाक्ये भीष्मः प्रोवाच बुद्धिमान् |
आचार्य मध्ये तिष्ठ त्वमश्वत्थामा तु सव्यतः |
कृपः शारद्वतो धीमान्पार्श्वं रक्षतु दक्षिणम् ||४-५२-२८ (३०५४९)
विकर्णश्च महावीर्यो दुर्मुखश्च परन्तपः |
शकुनिः सौबलश्चैव दुःसहश्च महाबलः |
द्रोणस्य पार्श्वमजिताः पालयन्तु महाबलाः ||४-५२-२९ (३०५५०)
अग्रतः सूतपुत्रस्तु कर्णस्तिष्ठतु दंशितः |
अहं सर्वस्य सैन्यस्य पश्चात्स्थास्यामि पालयन् ||४-५२-३० (३०५५१)
सर्वे महारथाः शूरा महेष्वासा महाबलाः |
युद्ध्यन्तु पाण्डवश्रेष्ठमागतं यत्नतो युधि ||४-५२-३१ (३०५५२)
वैशम्पायन उवाच. ४-५२-३२क्ष् (३२१८)
अभेद्यं परसैन्यानां व्यूहं व्यूह्य कुरूत्तमः |
वज्रगर्भं व्रीहिमुखं पद्मचन्द्रार्धमण्डलम् ||४-५२-३२ (३०५५३)
तस्य व्यूहस्य पश्चार्धे भीष्मश्चाथोद्यतायुधः |
सौवर्णं तालमुच्छ्रित्य रथे तिष्ठन्नशोभत ||||४-५२-३३ (३०५५४)
इति श्रीमन्महाभारते विराटपर्वणि गोग्रहणपर्वणि
द्विपञ्चाशोऽध्यायः ||५२ ||
Mahabharata -Virata Parva -Chapter Footnotes
४-५२-१८ तस्माद्यद्धोचितं कर्मेति धो पाठः ||
१८ ||
४-५२-३२ पद्मगर्भमिति थो पाठः ||
३२ ||
||
द्विपञ्चाशोऽध्यायः ||
५२ ||
विराटपर्व -अध्याय ०५३
||श्रीः ||
४. ५३. अध्यायः ५३
Mahabharata -Virata Parva -Chapter Topics
इन्द्रेण सुदर्शननामनि कामगामिनि प्रासादे
देवगणसमारोपणपूर्वकमर्जुनकुरुरणावलोकनाय गगनाङ्कणावतरणम्
||१ ||
Mahabharata -Virata Parva -Chapter Text
४-५३-० (३०५५५)
वैशम्पायन उवाच. ४-५३-०क्ष् (३२१९)
ततः सुदर्शनं नाम प्रासादं हरिवाहनः |
सर्वान्देवान्समारोष्य प्रययो यत्र पाण्डवः ||४-५३-१ (३०५५६)
स्थूणाराजिसहस्रं तु यत्र मध्ये प्रतिष्ठितम् |
तत्र सूर्यपथेऽतिष्ठद्विमला महती सभा ||४-५३-२ (३०५५७)
आदित्या वसवो रुद्रा अश्विनौ च मरुद्गणाः |
तत्र श्वेतानि चक्राणि काञ्चनस्फाटिकानि च ||४-५३-३ (३०५५८)
तथा चित्राणि छत्राणि दिव्यरूपाणि भारत |
मणिरत्नविचित्राणि नानारूपाणि भागशः |
आकाशे सह दृश्यन्ते भानुमन्ति शुभानि च ||४-५३-४ (३०५५९)
अग्नेरिन्द्रस्य सोमस्य यमस्य वरुणस्य च |
तथा धातुर्विधातुश्च मित्रस्य धनदस्य च |
रुद्रस्य विष्णो सवितुस्त्रिदशानां तथैव च ||४-५३-५ (३०५६०)
काञ्चनानि च दामानि विविधाश्चोत्तमस्रजः |
दिव्यपुष्पाभिसवीतास्तत्र चित्राणि भेजिरे ||४-५३-६ (३०५६१)
तस्मिंस्तु राजन्प्रासादे दिव्यरत्नविभूषिते |
दिव्यगन्धसमायुक्ताः स्रजो दिव्याश्चकाशिरे ||४-५३-७ (३०५६२)
दिव्यश्च वायुः प्रववौ गन्धमादाय सर्वशः |
ऋतवः पुष्पमादाय समतिष्ठन्त भारत ||४-५३-८ (३०५६३)
प्रजानां पतयः सप्त सप्त चैव महर्षभः |
तत्र देवर्षयश्चैव देवराजं दिवौकसः |
इन्द्रेण सहिताः सर्वे त्रिदशाश्च व्यवस्थिताः ||४-५३-९ (३०५६४)
न पङ्को न रजस्तत्र प्रविवेश कथंचन |
आदित्यश्च विरूक्षोत्र नातिवेलमिवातपत् ||४-५३-१० (३०५६५)
दिव्यगन्धं समादाय वायुस्तत्राभिगच्छति |
आकाशं च दिशः सर्वा दर्शनीयमदृश्यत ||४-५३-११ (३०५६६)
तत्र देवाः समारुह्य तं दिव्यं सर्वतःप्रभम् |
अम्बरे विमलेऽतिष्ठन्प्रासादं कामगामिनम् ||४-५३-१२ (३०५६७)
तत्र राजर्षयश्चैव समारुह्य दिवौकसः |
श्वेतो राजा वसुमनास्तथा भद्रः प्रदर्शनः ||४-५३-१३ (३०५६८)
नृगो ययातिर्नहुपो मान्धात भरतः कुरुः |
अष्टकश्च शिबिश्चोभौ स च राजा पुरूरवाः ||४-५३-१४ (३०५६९)
डम्भोद्भवः कार्तवीर्यो ह्यर्जुनः सगरस्तथा |
दिलीपः केरलः पूरुः शर्यातिः सोमकस्तदा ||४-५३-१५ (३०५७०)
हरिश्चन्द्रश्च तेजस्वी रघुर्दशरथस्तथा |
भगीरथश्च राजर्षिः सर्वे च जनमेजय ||४-५३-१६ (३०५७१)
पाण्डुश्चैव महाराजश्चामरव्यजनोज्ज्वलः |
छत्रेण ध्रियमाणेन राजसूयश्रिया वृतः ||४-५३-१७ (३०५७२)
एते चान्ये च बहवः पुण्यशीलाः शुचिव्रताः |
कीर्तिमन्तो महावीर्यास्तत्रैवासन्दिवि स्थिताः ||४-५३-१८ (३०५७३)
गणाश्चाप्सरसां सर्वे गन्धर्वाश्चापि सर्वशः |
दैत्यराक्षसयक्षाश्च सुपर्णाः पन्नगास्तथा ||४-५३-१९ (३०५७४)
वासवप्रमुखाः सर्वे देवाश्च सगणेश्वराः |
आसंस्तत्र समारूढाः संग्रामं तं दिदृक्षवः ||४-५३-२० (३०५७५)
४-५३-२१ (३०५७६)
इत्यम्बरे व्यवस्थाय प्रासादस्था दिवौकसः |
एकस्य च बहूनां च युद्धं द्रुष्टुं व्यवस्थिताः ||
विराटपर्व -अध्याय ०५४
||श्रीः ||
४. ५४. अध्यायः ५४
Mahabharata -Virata Parva -Chapter Topics
सेनामध्ये दुर्योधनमनवलोकयताऽर्जुनेनोत्तरंप्रति तत्पदवीमनु
रथयापनचोदना ||१ ||
तथा बाणाभ्यां द्रोणाद्यभिवादनपूर्वकं ताभ्यामेव कर्णमूले
कुशलप्रश्नः ||२ ||
द्रोणेन तत्कौशलश्लाघनम् ||३ ||
Mahabharata -Virata Parva -Chapter Text
४-५४-० (३०५७७)
वैशम्पायन उवाच. ४-५४-०क्ष् (३२२०)
तथा व्यूढेष्वनीकेषु कौरवेयैर्महारथैः |
उपायादर्जुनंस्तूर्णं रथघोषेण नादयन् ||४-५४-१ (३०५७८)
ददृशुस्ते ध्वजाग्रं वै शुश्रुवुश्च रथस्वनम् |
दोधूयमानस्य भृशं गाण्डीवस्य च निस्वनम् ||४-५४-२ (३०५७९)
त्रिकोशमात्रं गत्वा तु पाण्डवः श्वेतवाहनः |
संनामुखमभिप्रेक्ष्य पार्थो वैराटिमब्रवीत् ||४-५४-३ (३०५८०)
राजानं नात्र पश्यामि रथानीके व्यवस्थितम् |
दक्षिणं पक्षमादाय कुरुवो यान्त्युदङ्भुंखाः ||४-५४-४ (३०५८१)
उत्सृज्यैतद्रथानीकं महेष्वासाभिरक्षितम् |
गवाग्रमभितो याहि यावत्पश्यामि मे रिपुम् ||४-५४-५ (३०५८२)
गवाग्रमभितो गत्वा गाश्चैवाशु निवर्तय |
यावदेते निवर्तन्ते कुरवो जवमास्थिताः |
तावदेव पशून्सर्वान्निवर्तिष्ये तवाभिभो ||४-५४-६ (३०५८३)
वैशम्पायन उवाच. ४-५४-७क्ष् (३२२१)
इत्युक्त्वा समरे पार्थो वैराटिमपराजितः |
सव्यं पक्षमनुप्राप्य जवेनाश्वानचोदयत् ||४-५४-७ (३०५८४)
ततोऽभ्यवादयत्पार्थो भीष्मं शान्तनवं कृपम् |
द्वाभ्यांद्वाभ्यां तथाऽऽचार्यं द्रोणं प्रथमतः क्रमात् ||४-५४-८ (३०५८५)
द्रोणं कृपं च भीष्मं च पृषत्कैरभ्यवादयत् |
ततस्तत्सर्वमालोक्य द्रोणो वचनमब्रवीत् ||४-५४-९ (३०५८६)
महारथमनुप्राप्तं दृष्ट्वा गाण्डीवधन्विनम् |
न कश्चिद्योद्भिमिच्छेत न च गुप्तं स्वजीवितम् |
अयं वीरश्च शूरश्च दुर्धर्षश्चैव संयुगे ||४-५४-१० (३०५८७)
एतद्ध्वजाग्रं पार्थस्य दूरतः प्रतिदृश्यते |
मेघःक सविद्युत्स्तनितो रोरवीति च वानरः ||४-५४-११ (३०५८८)
आस्थाय च रथं याति गाण्डीवं विक्षिपन्धनुः ||४-५४-१२ (३०५८९)
अश्वानां स्तनतां शब्दो वहतां पाकशासनिम् |
रथस्याम्बुधरस्येव श्रूयते भृशदारुणः ||४-५४-१३ (३०५९०)
दारयन्निव तेजस्वी वसुधां वासवात्मजः |
एष दृष्ट्वा रथानीकमस्माकमरिमर्दनः. ४-५४-१४ (३०५९१)
श्रीमान्वदान्यो धृतिमान्तत्करोति च पाण्डवः ||
इमौ बाणावनुप्राप्तौ पादयोः प्रत्युपस्थितौ | ४-५४-१५ (३०५९२)
रथस्याग्रे निखातौ मे चित्रपुङ्खावजिह्मगौ ||
इमौ चाप्यपरौ बाणावभितः कर्णमूलयोः | ४-५४-१६ (३०५९३)
संस्पृशन्तावतिक्रान्तौ पृष्ट्वेवानामयं भृशम् ||
चिरदृष्टोऽयमस्माभिर्धर्मज्ञो बान्धवप्रियः | ४-५४-१७ (३०५९४)
अतीव ज्वलते लक्ष्म्या पाण्डुपुत्रः प्रतापवान् ||
निरुष्य च वने वामं कृत्वा कर्म सुदुष्करम् | ४-५४-१८ (३०५९५)
अभिवादयते पार्थः पूजयन्मामरिंदमः ||
अमर्षेण हि संपूर्णो दुःखेन प्रतिबोधितः. ४-५४-१९ (३०५९६)
अद्येमां भारतीं सेनामेको नाशयते ध्रुवम् ||
द्व्यधिकं दशमुष्य वत्सराणां स्वजनेनाविदितस्त्रयोदशं च |
४-५४-२० (३०५९७)
ज्वलते रथमास्थितः किरीटी तम इव रात्रिजमभ्युदस्य सूर्यः ||
रथी शरी चारुमाली निषङ्गी शङ्खी पताकी कवची किरीटी.
४-५४-२१ (३०५९८)
खङ्गी च धन्वी च विराजतेऽयं शिखीव यज्ञेषु घृतेन सिक्तः
||||४-५४-२२ (३०५९९)
इति श्रीमन्महाभारते विराटपर्वणि गोग्रहणपर्वणि
चतुःपञ्चाशोऽध्यायः ||५४ ||
विराटपर्व -अध्याय ०५५
||श्रीः ||
४. ५५. अध्यायः ५५
Mahabharata -Virata Parva -Chapter Topics
अर्जुनेन सेनामध्ये सुयोधनानवलोकनेन तस्य गवामादानेन
गमनसंभावनया रथेन गवाग्रं प्रत्यभियानम् ||१ ||
भीष्मेण पार्थभावविज्ञानात्सेनया सह तमनुधावनम् ||२ ||
गवान्तिकमुपगतवताऽर्जुनेन तद्रक्षिणां बाणगणैरभिहननेन गवां
विनिवर्तनम् ||३ ||
Mahabharata -Virata Parva -Chapter Text
४-५५-० (३०६००)
वैशम्पायन उवाच. ४-५५-०क्ष् (३२२२)
तमदूरमुपायान्तं दृष्ट्वा पाण्डवमर्जुनम् |
नारयः प्रेक्षितुं शेकुस्तपन्तं हि यथा रविम् ||४-५५-१ (३०६०१)
स तं दृष्ट्वा रथानीकं पार्थः सारथिमब्रवीत् |
इषुपातमात्रे सेनायाः स्थापयाश्वानरिंदम |
यावत्समीक्षे व्यूहेऽस्मिन्मम शत्रुं सुयोधनम् ||४-५५-२ (३०६०२)
रक्तवैडूर्यविकृतं मणिप्रवरभूषितम् |
परं जानाम्यहं तस्य ध्वजं दूरात्समुच्छ्रितम् ||४-५५-३ (३०६०३)
यद्येनमिह पश्यामि दुर्बुद्धिमतिमानिनम् |
यमाय प्रेषयिष्यामि सहायः स्याद्यदीश्वरः ||४-५५-४ (३०६०४)
सर्वानन्याननादृत्य दृष्ट्वा तमतिमानिनम् |
सिंहः क्षुद्रमृगस्येव पतिष्ये तस्य मूर्धनि ||४-५५-५ (३०६०५)
हनिष्यामि तमेवाद्य शरैर्गाण्डीवनिःसृतैः |
तस्मिन्हते भविष्यन्ति सर्व एव पराजिताः ||४-५५-६ (३०६०६)
शरैश्च शमयिष्येऽहं धार्तराष्ट्रं ससौबलम् |
असभ्यानां च वक्तारं कुरूणां किल किल्विषम् ||४-५५-७ (३०६०७)
राजानं नेह पश्यामि निरापिषमिदं बलम् |
अभिद्रेव ह राजानं व्यक्तमित्यत्र निर्भयः ||४-५५-८ (३०६०८)
आस्थितो मध्यमाचार्योप्यश्वत्थामाऽप्यनन्तरम् |
कृपकर्णौ पुरस्तात्तु महेष्वासौ व्यवस्थितौ ||४-५५-९ (३०६०९)
भूरिश्रवाः सोमदत्तो बाह्लीकश्च जयद्रथः |
दक्षिणं पक्षमाश्रित्य स्थिता युद्धविशारदाः ||४-५५-१० (३०६१०)
साल्वराजो द्युमत्सेनो वृषसेनश्च सौबलः |
दशार्णश्चैव कालिङ्गो वामं पक्षं समाश्रितः ||४-५५-११ (३०६११)
पृष्ठतः कुरुमुख्यश्च भीष्मस्तिष्ठति दंशितः |
सोऽर्धसैन्येन बलवान्सर्वेषां नः पितामहः ||४-५५-१२ (३०६१२)
दुर्योधनं न पश्यामि क्व नु राजा स तिष्ठति |
उत्सृंज्यैतद्रथानीकं याहि यत्र सुयोधनः ||४-५५-१३ (३०६१३)
तं हत्वा संनिवर्तिष्ये गाः स आदाय गच्छति |
गवाग्रमभितो याहि यत्र राजा भविष्यति ||४-५५-१४ (३०६१४)
वैशम्पायन उवाच. ४-५५-१५क्ष् (३२२३)
इत्युक्त्वा समरे पार्थो वैराटिमपराजितः |
संस्पृशानो धनुर्दिव्यं त्वरमाणोऽगमत्तदा ||४-५५-१५ (३०६१५)
ततो भीष्मोऽब्रवीद्वाक्यं कुरुमध्ये परंतपः |
चिरदृष्टोऽयमस्माभिर्धर्मज्ञो बान्धवप्रियः | ४-५५-१६ (३०६१६)
अतीव ज्वलते लक्ष्म्या पाकशासनिरागतः |
एष दुर्योधनं पार्थो मार्गते निकृतिं स्मरन् ||४-५५-१७ (३०६१७)
सेनामत्यर्थमालोक्य त्वरते ग्रहणेऽस्य च |
मृगं सिंह इवादातुमीक्षते पाकशासनिः ||४-५५-१८ (३०६१८)
नैषोऽन्तरेण राजानं बीभत्सुः स्थातुमर्हति |
तस्य पार्ष्णि ग्रहीष्यामो जवेनाभिप्रधावतः ||४-५५-१९ (३०६१९)
न ह्येनमभिसंक्रुद्धमेको युद्ध्येत संयुगे |
अन्यो देवान्महादेवात्कृष्णाद्वा देवकीसुतात् |
आचार्याच्च सपुत्राद्वा भारद्वाजान्महारथात् ||४-५५-२० (३०६२०)
किं नो गावः करिष्यन्ति द्रव्यं वा विपुलं तथा |
दुर्योधनः पार्थगतः पुरा प्राणान्विमुञ्चति ||४-५५-२१ (३०६२१)
वैशम्पायन उवाच. ४-५५-२२क्ष् (३२२४)
इत्युक्त्वा समरे भीष्मः सेनया सह कौरवः |
अन्वधावत्तदा पार्थं धार्तराष्ट्रस्य रक्षणे ||४-५५-२२ (३०६२२)
विक्रोशमात्रं यात्वा तु पार्थो वैराटिमब्रवीत् |
इषुपातमात्रे सेनायाः स्थापयाश्वानरिंदम ||४-५५-२३ (३०६२३)
एतदग्रं गवां दृष्टं मन्दं वाहय सारथे |
याह्युत्तरेण सेनाया गाश्चैव प्रविभज्य च ||४-५५-२४ (३०६२४)
परिक्षिप्य गवां यूथमत्र योत्स्ये सुयोधनम् |
गच्छन्ति सत्वरा गावः सगोपाः परिमोचय ||४-५५-२५ (३०६२५)
तत्र गत्वा पशून्वीर सगोपान्परिमोचय |
अन्तरेण च सेनायाः प्राङ्मुखो गच्छ चोत्तर ||४-५५-२६ (३०६२६)
इमे त्वतिरथाः सर्वे मम वीर्यपराक्रमम् |
पश्यन्तु कुरवो युद्धे महेन्द्रस्येव दानवाः ||४-५५-२७ (३०६२७)
वैशम्पायन उवाच. ४-५५-२८क्ष् (३२२५)
ततः स रथिनां श्रेष्ठो नाम विश्राव्य चात्मनः |
निशिताग्राञ्शरांस्तीक्ष्णान्मुमोचांतकसन्निभान् ||४-५५-२८ (३०६२८)
शलभैरिव चाकाशं धाराभिरिव पर्वतम् |
निरावकाशमभवच्छरैः क्षिप्तैः किरीटिना ||४-५५-२९ (३०६२९)
विकीर्यमाणास्तु शरैस्ते योधा धार्तराष्ट्रिकाः |
गाश्चैव न च पश्यन्ति पार्थमुक्तैरजिह्मगैः ||४-५५-३० (३०६३०)
सा चापि बहुला सेना पार्थबाणाभिपीडिता |
नापश्यद्विवृतां भूमिं नान्तरिक्षं दिशोपि वा ||४-५५-३१ (३०६३१)
अर्जुनस्तु तदा हृष्टो दर्शयन्वीर्यमात्मनः |
पीडयामास सैन्यानि गाण्डीवप्रसृतैः शरैः ||४-५५-३२ (३०६३२)
तेषां नैवापयाने च नाभियाने भवन्मतिः |
शीघ्रतामेव पार्थस्य पूजयन्तस्तु विस्मिताः ||४-५५-३३ (३०६३३)
चन्द्रावदातं सामुद्रं कुरुसैन्यभयंकरम् |
ततः शङ्खमुपाध्मासीद्द्विषतां रोमहर्षणम् |
ज्याघोषं तलघोषं च कृत्वा भूतान्यमोहयत् ||४-५५-३४ (३०६३४)
तस्य शङ्खस्य शब्देन धनुषो निस्वनेन च |
शब्देनामानुषाणां च भूतानां ध्वजवासिनाम् |
वियद्गतानां देवानां मानुषाणां रवेण च ||४-५५-३५ (३०६३५)
ऊर्ध्वं पुच्छं विधून्वाना हेममाणाः समन्ततः |
गावः सवत्साः संत्रस्ता निवृत्ता दक्षिणां दिशं ||४-५५-३६ (३०६३६)
ततः स समरे शूरो बीभत्सुः शत्रुपूगहा |
गोपालांश्चोदयामास गावश्चोदयतेति च ||४-५५-३७ (३०६३७)
उत्तरं चाह बीभत्सुर्हर्षयन्पाण्डुनन्दनः |
गवामग्रं समीक्षस्व गश्चैवाशु निवर्तय ||४-५५-३८ (३०६३८)
यावदेते निवर्तन्ते कुरवो जवमास्थिताः |
याह्युत्तरेण गाश्चैताः सैन्यानां च नृपात्मज ||४-५५-३९ (३०६३९)
पश्यन्तु कुरवः सर्वे मम वीर्यपराक्रमम् ||४-५५-४० (३०६४०)
वैशम्पायन उवाच |
ते लाभमिव मन्वानाः कुरवोऽर्जुनमाहव. ४-५५-४१क्ष् (३२२६)
दृष्टवा यान्तमदूरस्थं क्षिप्रमभ्यपतन्रथैः ||
हस्त्यश्वपरिवारेण महताऽभिविराजता. ४-५५-४१ (३०६४१)
योधैः प्रासासिहस्तैश्च चापबाणोद्यतायुधैः ||
तान्यनीकान्यशोभन्त कुरूणामाततायिनाम्. ४-५५-४२ (३०६४२)
संसर्पन्त इवाकाशे विद्युत्वन्तो वलाहकाः ||
तानि दृष्ट्वाऽप्यनीकानि निवर्तितरथानि च. ४-५५-४३ (३०६४३)
पार्थोऽपि वायुवद्धोरं सैन्याग्रं व्यधुनोच्छरैः ||
तां शत्रुसेनां तरसा प्रणुद्य गाश्चापि जित्वा धनुषा परेण.
४-५५-४४ (३०६४४)
दुर्योधनायाभिमुखं प्रयान्तं कुरुप्रवीराः सहसाऽभ्यगच्छन् ||
गोषु प्रयातासु जवेन मात्स्यान्किरीटिनं प्रीतियुतं च दृष्ट्वा.
४-५५-४५ (३०६४५)
पशून्समादाय ततो निवृत्ता गोपाः समस्ताः प्रययुश्च राष्ट्रम् ||||
४-५५-४६ (३०६४६)
इति श्रीमन्महाभारते विराटपर्वणि गोग्रहणपर्वणि
पञ्चपञ्चासोऽध्यायः ||५५ ||
विराटपर्व -अध्याय ०५६
||श्रीः ||
४. ५६. अध्यायः ५६
Mahabharata -Virata Parva -Chapter Topics
अर्जुनेनोत्तरंप्रति
द्रोणकर्णादिरथानामसाधारणध्वजचिह्नप्रदर्शनपूर्वकं
तत्तन्नामनिर्देशेन तत्तत्पराक्रमवर्णनम् ||१ ||
Mahabharata -Virata Parva -Chapter Text
४-५६-० (३०६४७)
वैशम्पायन उवाच. ४-५६-०क्ष् (३२२७)
ततस्त्रीणि सहस्राणि रथानां च धनुष्मताम् |
घोराणि कुरुवीराणां पर्यकीर्यन्त भारत ||४-५६-१ (३०६४८)
कर्णो रथसहस्रेण प्रत्यगृह्णाद्धनञ्जयम् |
भीष्मः शान्तनवो धीमान्सहस्रेण पुरस्कृतः ||४-५६-२ (३०६४९)
तथा रथसहस्रेण भ्रातृभिः परिवारितः |
पश्चाद्दुर्योधनोऽतिष्ठद्यशसा च श्रिया ज्वलन् ||४-५६-३ (३०६५०)
अतिष्ठन्निवकाशेषु पादाताः सह वाजिभिः |
भीमरूपाश्च मातङ्गास्तोमराङ्कुशचोदिताः ||४-५६-४ (३०६५१)
तानि दृष्ट्वा ह्यनीकानि विततानि महात्मनाम् |
वैराटिमुत्तरं तं तु प्रत्यभाषत पाण्डवः ||४-५६-५ (३०६५२)
जाम्बूनदमयी वेदी ध्वजाग्रे यस्य दृश्यते |
शोणाश्चाश्वा रथे युक्ता द्रोण एष प्रकाशते ||४-५६-६ (३०६५३)
आचार्यो निपुणो धीमान्ब्रह्मविच्छूरसत्तमः |
आहवे चाप्रतिद्वन्द्वो दूरपाती महारथः ||४-५६-७ (३०६५४)
सुप्रसन्नो महावीरः कुरुष्वैनं प्रदक्षिणम् |
अत्रैव चाविरोधेन एष धर्मः सनातनः ||४-५६-८ (३०६५५)
यदि मे प्रहरेद्द्रोणः शरीरे मे प्रहृष्यतः |
ततोऽस्मिन्प्रहरिष्यामि नान्यथा बुद्धिरस्ति मे ||४-५६-९ (३०६५६)
भारताचार्यमुख्येन ब्राह्मणेन महात्मना |
तेन मे युध्यमानस्य मन्दं वाहय सारथे ||४-५६-१० (३०६५७)
ध्वजाग्रे सिंहलाङ्गूलो दिक्षु सर्वासु शोभते |
भारताचार्यपुत्रस्तु सोऽश्वत्थामा विराजते ||४-५६-११ (३०६५८)
ध्वजाग्रं दृश्यते यत्र बालसूर्यसमप्रभम् |
दुर्जयः सर्वसैन्यानां देवैरपि सवासवैः |
तेन मे युध्यमानस्य मन्दं वाहय सारथे ||४-५६-१२ (३०६५९)
ध्वजाग्रे गोवृषो यस्य काञ्चनोऽभिविराजते |
आचार्यवरमुख्यस्तु कृप एष महारथः ||४-५६-१३ (३०६६०)
द्रोणेन च समो वीर्ये पितुर्मे परमः सखा |
तेन मे युध्यमानस्य मन्दं वाहय सारथे ||४-५६-१४ (३०६६१)
यस्य काञ्चनकम्बूभिर्हस्तिकक्ष्यापरिष्कृतः |
ध्वजः प्रकाशते दूराद्रथे विद्युद्गणोपमः ||४-५६-१५ (३०६६२)
एष वैकर्तनः कर्णः प्रतिमानं धनुष्मताम् |
दृढवैरी सदाऽस्माकं नित्यं कटुकभाषणः ||४-५६-१६ (३०६६३)
यस्याश्रयबलादेव धार्तराष्ट्रः ससौबलः |
अस्मान्निरस्य राज्याच्च पुनरद्यापि योत्स्यति ||४-५६-१७ (३०६६४)
एष वै स्पर्धते नित्यं मया सह सुदुर्जयः |
जामदग्न्यस्य रामस्य शिष्यो ह्येष महारथः ||४-५६-१८ (३०६६५)
सर्वास्त्रकुशलः कर्णः सर्वशस्त्रभृतांवरः |
युद्धेऽप्रतिमवीर्यश्च दृढवेधी पराक्रमी ||४-५६-१९ (३०६६६)
अद्याहं युद्धमेतेन करिष्ये सूतबन्धुना |
द्रष्टा त्वमावयोर्युद्धं बलिवासवयोरिव ||४-५६-२० (३०६६७)
महारथेन शूरेण सूतपुत्रेण धन्विना |
तेन मे युध्यमानस्य शीघ्रं वाहय सारथे ||४-५६-२१ (३०६६८)
यस्य चैव रथोपस्थे नागो मणिमयो ध्वजः |
एष दुर्योधनस्तत्र कौरवो यशसा वृतः ||४-५६-२२ (३०६६९)
लब्धलक्षो दृढं वेधी लघुहस्तः प्रतापवान् |
तेन मे युध्यमानस्य शीघ्रं वाहय सारथे ||४-५६-२३ (३०६७०)
यस्तु श्वेतावदातेन पञ्चतालेन केतुना |
वैडूर्यमयदण्डेन तालवृक्षेण राजते ||४-५६-२४ (३०६७१)
हस्तावापी बृहद्धन्वा सेनां तिष्ठति हर्षयन् |
रामेण जामदग्न्येन द्वैरथेनाजितः पुरा ||४-५६-२५ (३०६७२)
शीघ्रश्च लगुवेधी च लघुहस्तः प्रतापवान् |
एष शान्तनवो भीष्मः सर्वेषां नः पितामहः ||४-५६-२६ (३०६७३)
ककुदः सर्वसैन्यानां सर्वशस्त्रभृतांवरः |
जयश्रियाऽवबद्धस्तु सुयोधनवशानुगः |
पश्चादेष प्रयातव्यो न मे विघ्नकरो भवेत् ||४-५६-२७ (३०६७४)
इत्येतांस्त्वरितः पार्थः कथयित्वा तु चोत्तरे |
रूपतश्चिह्नतश्चैव युद्धाय त्वरते पुनः ||||४-५६-२८ (३०६७५)
इति श्रीमन्महाभारते विराटपर्वणि गोग्रहणपर्वणि
षट्पञ्चाशोऽध्यायः ||५६ ||
Mahabharata -Virata Parva -Chapter Footnotes
४-५६-९ शरीरे प्रहरिष्यतः इति नान्यया युद्धमस्ति मे इति चो धो पाठः ||
९ ||
विराटपर्व -अध्याय ०५७
||श्रीः ||
४. ५७. अध्यायः ५७
Mahabharata -Virata Parva -Chapter Topics
अर्जुनस्य भीष्मद्रोणादिभिः सह युद्धम् ||१ ||
अर्जुनेन कर्णस्य पराभवः ||२ ||
Mahabharata -Virata Parva -Chapter Text
४-५७-० (३०६७६)
वैशम्पायन उवाच. ४-५७-०क्ष् (३२२८)
अश्वत्थामा ततस्तत्र कर्णं संप्रेक्ष्य वीर्यवान् |
उवाच स्मयमानोऽसौ सूतपुत्रमरिन्दमम् ||४-५७-१ (३०६७७)
कर्ण यस्त्वं सभामध्ये बह्वबद्धं विकत्थसे |
न मे युधि समोऽस्तीति तदिदं प्रत्युपस्थितम् ||४-५७-२ (३०६७८)
एषोऽन्तक इव क्रुद्धः सर्वभूतावमर्दनः |
संग्रामशिरसो मध्ये दृम्भते केसरी यथा ||४-५७-३ (३०६७९)
शूरोसि यदि संग्रामे दर्शयस्व सभां विना ||४-५७-४ (३०६८०)
यद्यशक्तोसि संग्रामे पार्थेनाद्भुतकर्मणा |
पुनरेव सभां गत्वा धार्तराष्ट्रेण धीमता |
मातुलं परिगृह्याशु मन्त्रयस्व यथासुखम् ||४-५७-५ (३०६८१)
वैशम्पायन उवाच. ४-५७-६क्ष् (३२२९)
एवमुक्तस्तथा कर्णः क्रोधादुद्वृत्य लोचने |
द्रोणपुत्रमिदं वाक्यमुवाच कुरुसन्निधौ ||४-५७-६ (३०६८२)
नाहं बिभेमि बीभत्सोर्न कृष्णाद्देवकीसुतात् |
पाण्डवेभ्योपि सर्वेभ्यः क्षत्रधर्ममनुव्रतः ||४-५७-७ (३०६८३)
सत्वाधिकानां पुंसां तु धनुर्वेदोपजीविनाम् |
गर्जतां जायते दर्पः स्वरश्च न विषीदति ||४-५७-८ (३०६८४)
पश्यत्वाचार्यपुत्रो मामर्जुनेनातिरंहसा |
युध्यमानं सुसंयुक्तं जयो वै मय्यवस्थितः ||४-५७-९ (३०६८५)
वैशम्पायन उवाच. ४-५७-१०क्ष् (३२३०)
ततः प्रहस्य बीभत्सुः कौन्तेयः श्वेतवाहनः |
दिव्यमस्त्रं विकुर्वाणः प्रत्ययाद्रथिसत्तमः ||४-५७-१० (३०६८६)
महात्मानं मन्दबुद्धिर्निश्वसन्धृतराष्ट्रजः |
उवाच स महाराज राजा दुर्योधनस्तदा ||४-५७-११ (३०६८७)
न विद्मो ह्यर्जुनं तत्र वसन्तं मत्स्यवेश्मनि |
तेनेदं कर्ण मत्स्यानामग्रहीष्म धनं बहु ||४-५७-१२ (३०६८८)
एवं चेत्तर्हि गच्छामो विसृजन्तो धनं बहु |
अयशो नातिवर्तेत लोकयोरुभयोरपि ||४-५७-१३ (३०६८९)
किं च युद्धात्परं नास्ति क्षत्रियाणां सुखावहम् |
तस्मात्पार्थेन संग्रामं कुर्महे न पलायनम् ||४-५७-१४ (३०६९०)
एतावदुक्त्वा राजा वै ह्यभियानमियेष सः |
तथा दशसहस्राणि वीराणां हि धनुष्मताम् |
अभ्यद्रवंस्तदा पार्थं शलभा इव पावकम् ||४-५७-१५ (३०६९१)
वर्मिता वाजिनस्तत्र संभृताश्च पदातिभिः |
भीमरूपाश्च मातङ्गास्तोमराङ्कुशपाणिभिः | ४-५७-१६ (३०६९२)
अधिष्ठिताः सुसंयत्तैर्हस्तिशिक्षाविशारदैः |
अभ्यद्रवन्सुसंक्रुद्धाश्चापहस्तोद्यतायुधाः ||४-५७-१७ (३०६९३)
पञ्च चैनं रथोदग्रास्त्वरिताः पर्यवारयन् |
द्रोणो भीष्मश्च कर्णश्च कुरुराजश्च वीर्यवान् ||४-५७-१८ (३०६९४)
अश्वत्थामा महाबाहुर्धनुर्वेदपरायणः |
इषूंश्च सम्यगस्यन्तो जीमूता इव वार्षिकाः ||४-५७-१९ (३०६९५)
ते लाभमिव मन्वानाः प्रत्यगृह्णन्धनंजयम् |
शरौघानभिवर्षन्तो नादयन्तो दिशो दश ||४-५७-२० (३०६९६)
ततः प्रहस्य बीभत्सुः कौन्तेयः श्वेतवाहनः |
दिव्यमस्त्रं प्रकुर्वाणः प्रत्ययाद्रथिसत्तमान् ||४-५७-२१ (३०६९७)
यथा रश्मिभिरादित्यः प्रच्छादयति मेदिनीम् |
तथा गाण्डीवनिर्मुक्तैः शरैराच्छादयद्दिशः ||४-५७-२२ (३०६९८)
न रथानां न चाश्वानां न ध्वजानां न वर्मिणाम् |
अतिविद्धैः शितैर्बाणैरासीदद्व्यङ्गुलिरन्तरम् ||४-५७-२३ (३०६९९)
दैवयोगाद्धि पार्थस्य हयानामुत्तरस्य च |
शिक्षाबलोपपन्नत्वादस्त्राणां वै परिक्रमात् |
ध्वजगाण्डीवयोश्चापि दैव्या शक्त्या च मायया ||४-५७-२४ (३०७००)
इतस्ततश्च संयाने दूरे वाऽप्यथवाऽन्तिके |
दुर्गे विषमजाते वा स्थले निम्ने तथा क्षितौ |
न च रुध्येद्गतिस्तस्य रथस्य मनसो यथा ||४-५७-२५ (३०७०१)
समरेषु तु विद्वांसस्तस्य तांस्तान्परिक्रमान् |
वीर्यमत्यद्भुतं दृष्ट्वा तथा पार्थस्य तद्बलम् |
त्रेसुरेवं परे भीताः पराङ्मुखरथा अपि. ४-५७-२६ (३०७०२)
कालाग्निमिव बीभत्सुं निर्दहन्तमिव प्रजाः |
नारयः प्रेक्षितुं शेकुर्ज्वलन्तमिव पावकम् ||४-५७-२७ (३०७०३)
तानि भिन्नान्यनीकानि रेजुरर्जुनमार्गणैः |
तिग्मांशोश्च घनाभ्राणि व्याप्तानीव गभस्तिभिः ||४-५७-२८ (३०७०४)
अशोकाना वनानीव सञ्चितैः कुसुमैः शुभैः |
पार्थः संरञ्जयामास रुधिरेणाकुलं बलम् ||४-५७-२९ (३०७०५)
सहस्रशोऽर्जुनशरैश्छिन्नान्युच्चावचानि च |
छत्राणि च पताकाश्च खेऽभ्युवाह सदागतिः ||४-५७-३० (३०७०६)
ये ह्यर्जुनबलत्रस्ताः परिपेतुर्दिशो दश |
रथात्तं देशमुत्सृज्य पार्थच्छिन्नयुगा हयाः ||४-५७-३१ (३०७०७)
निकृत्तपूर्वचरणास्ते निपेतुः शितैः शरैः |
शिरोभिः प्रथमं जग्मुर्मेदिनीं जघनैर्हयाः ||४-५७-३२ (३०७०८)
चक्षुर्नासाविषाणेषु दन्तवेष्टेषु च द्विपान् |
मर्मस्वन्येषु चाहत्य तथा निघ्नन्गजोत्तमाः ||४-५७-३३ (३०७०९)
कौरवाणां गजानां च शरीरैर्गतचेतसाम् |
क्षणेन संवृता भूमिर्मेघैरिव नभस्थलम् ||४-५७-३४ (३०७१०)
अस्त्रैर्दिव्यैर्महाबाहुरर्जुनः प्रहसन्निव |
बडबामुखसंभूतः कालाग्निरिव संवृतः ||४-५७-३५ (३०७११)
यथा युगान्तसमये सर्वं स्थावरजङ्गमम् |
कालपक्वमशेषेण धक्ष्येदुग्रशिखः शिखी ||४-५७-३६ (३०७१२)
तद्वत्पार्थोऽस्रतेजोभिर्धनुषो निस्वनेन च |
दैवाद्वीर्याच्च बीभत्सुस्तस्मिन्दौर्योधने बले ||४-५७-३७ (३०७१३)
रणे शक्तिममित्राणां प्रणीयोपनिनाय सः |
चेष्टां प्रायेण भूतानां रात्रिः प्राणभृतामिव ||४-५७-३८ (३०७१४)
सोऽतीयात्सहसा शत्रून्सहसा तेऽभिपेदिरे |
शीघ्रादूरं दृढामोघमस्त्रमस्यातिमानुषम् |
दृष्ट्वा ते कौरवा भीता अतिमानुषविक्रमम् ||४-५७-३९ (३०७१५)
खगपत्राभिसंवीतैः खाविष्टैः खगमैरिव |
अर्जुनस्य खमावव्रे लोहितप्राणपैः खगैः ||४-५७-४० (३०७१६)
अर्जुनेन विनिर्मुक्ताः शरा गाण्डीवधन्वना |
तार्क्ष्यवेगा इवाकाशे ससञ्जुः परमर्मसु ||४-५७-४१ (३०७१७)
वर्माणि सारथिश्चैव हेमजालानि वाजिनाम् |
किरीटं सूर्यसंकाशं वैयाघ्रमथ चर्म च ||४-५७-४२ (३०७१८)
ततः सर्वाणि गात्राणि रथस्य द्विषतां शरैः |
नीहारेणेव भूतानि छन्नानीह चकाशिरे ||४-५७-४३ (३०७१९)
सकृदेव न तं शेकुः कथमभ्यसितुं परे |
अनभ्यस्तः पुनस्तैर्हि रथः सोभिपपात तान् ||४-५७-४४ (३०७२०)
तच्छरा द्विट्शरीरेषु यथा च न ससञ्जिरे |
द्विधाऽनीकेषु बीभत्सोर्न ससञ्ज रथस्तथा ||४-५७-४५ (३०७२१)
स तद्धि क्षोभयामास विगाह्यारिबलं रथी |
अनन्तवेगो भुजगः क्रीडन्निव महार्णवे ||४-५७-४६ (३०७२२)
अस्यतो नित्यमत्यर्थं सर्वघोषाधिकस्तथा |
संनादः श्रूयते भूतैर्धनुषश्च किरीटिनः ||४-५७-४७ (३०७२३)
संच्छिन्नास्तत्र मातङ्गा बाणैरल्पान्तरान्तरैः |
संस्यूतास्तत्र दृश्यन्ते मेघा इव गभस्तिभिः ||४-५७-४८ (३०७२४)
दिशोऽनुभ्रमतः सर्वा सव्यदक्षिणमस्यतः |
सततं दृश्यते युद्धे सायकासनमण्डलम् ||४-५७-४९ (३०७२५)
पतन्त्यरूपेषु यथा चक्षूंषि न कदाचन |
नालक्ष्येषु शराः पेतुस्तस्य गाण्डीवधन्वनः ||४-५७-५० (३०७२६)
महागजसहस्रस्य युगपन्मृद्गतो वनम् |
कौन्तेयरथमार्गस्तु रणे घोरतरोऽभवत् ||४-५७-५१ (३०७२७)
नूनं पार्थजयैषित्वाच्छक्रः सर्वामरैः सह |
हन्त्यस्मानिति मन्यन्ते पार्थेनैवार्दिताः परे ||४-५७-५२ (३०७२८)
घ्नन्तमत्यर्थमहितान्सव्यसाचिनमाहवे |
कालमर्जुनरूपेण ग्रसन्तमिव च प्रजाः ||४-५७-५३ (३०७२९)
कुरुसेनाशरीराणि पार्थेनानाहतान्यपि |
पेतुः पार्थहतानीव पार्थकर्मानुदर्शनात् ||४-५७-५४ (३०७३०)
ओषधीनां शिरांसीव कालपक्तिसमन्वयात् |
अवनेमुः कुरूणां हि शिरांस्यर्जुनजाद्भयात् ||४-५७-५५ (३०७३१)
चकार चार्जुनः क्रोधाद्विमुखान्रुषितानपि ||४-५७-५६ (३०७३२)
अर्जुनेनापि भिन्नानि बलाग्नाणि पुनः क्वचित् |
चक्रुर्लोहितधाराभिर्धरणीं लोहितोत्तराम् ||४-५७-५७ (३०७३३)
लोहितेनापि संपृक्तैः पांसुभिः पवनोद्धतैः |
तेनैव च समुद्धूतैः सूक्ष्मैर्लोहितबिन्दुभिः ||४-५७-५८ (३०७३४)
लोहितार्द्रैः प्रहरणैः प्रभग्ना लोहितोक्षिताः |
लोहितेषु निमग्नास्ते निहताश्च किरीटिना ||४-५७-५९ (३०७३५)
बभूवुर्लोहितास्तत्र भृशमादित्यरश्मयः |
आकाशं तत्क्षणेनासीत्सन्ध्याभ्रमिव लोहितं ||४-५७-६० (३०७३६)
अप्यस्तं प्राप्य चादित्यो निवर्तेत न पाण्डवः |
निवर्तन्ते न जित्वारिं नित्यजल्पविचक्षणाः ||४-५७-६१ (३०७३७)
तान्सर्वान्समरे शूरान्पौरुषे पर्यवस्थितान् |
दिव्यैरस्त्रैरमोघात्मा सर्वानार्च्छद्धनुर्धरान् ||४-५७-६२ (३०७३८)
स तु द्रोणं त्रिसप्तत्या नाराचानां समार्पयत् |
अशीत्या शकुनिं चैव द्रौणिमप्याशु सप्तभिः ||४-५७-६३ (३०७३९)
दुःसहं दशभिर्बाणैरर्जुनः समविध्यत |
दुश्यासनं द्वादशभिः कृपं शारद्वतं त्रिभिः |
भीष्मं शान्तनवं षष्ट्या प्रत्यविध्यत्स्तनान्तरे ||४-५७-६४ (३०७४०)
स कर्णं कर्णिनाऽविध्यत्पीतेन निशितेन च |
वासविर्द्विषतां मध्ये विव्याध परमेषुणा ||४-५७-६५ (३०७४१)
स कर्णं सतनुत्राणं निर्भिद्य निशितः शरः |
अगच्छद्दानयन्भूमिं चोदितो दृढधन्वना ||४-५७-६६ (३०७४२)
ततोऽस्य वाहान्व्यहनच्चतुर्भिश्चतुरः क्षुरैः |
सारथेश्च शिरः कायादपाहरदरिन्दमः |
अर्धचन्द्रेण चिच्छेद चापं तस्य करे स्थितम् ||४-५७-६७ (३०७४३)
तस्मिन्विद्धे महाभागे कर्णे सर्वास्त्रपारगे |
हताश्वसूते विरथे ततोऽनीकमभज्यत ||||४-५७-६८ (३०७४४)
इति श्रीमन्महाभारते विराटपर्वणि गोग्रहणपर्वणि
सप्तपञ्चाशोऽध्यायः ||५७ ||
विराटपर्व -अध्याय ०५८
||श्रीः ||
४. ५८. अध्यायः ५८
Mahabharata -Virata Parva -Chapter Topics
अर्जुनेन रणे विकर्णादिपराभवनपूर्वकं कर्णानुजहननम् ||१ ||
अर्जुनपराजितेन कर्णेन रणाङ्कणादपयानम् ||२ ||
Mahabharata -Virata Parva -Chapter Text
४-५८-० (३०७४५)
वैशम्पायन उवाच. ४-५८-०क्ष् (३२३१)
तत्प्रभग्नं बलं सर्वं विपुलौघस्वनं तथा |
भीष्ममासाद्य संतस्थौ वेलामिव महोदधिः ||४-५८-१ (३०७४६)
तानि सर्वाणि गाङ्गेयः समाश्वास्य परंतपः |
ततो व्यूह्य महाबाहुः समरेष्वपराजितः ||४-५८-२ (३०७४७)
रथनागाश्वकलिकं युयुजे युद्धकोविदः |
अभेद्यं पंरसैन्यानां शूरैरपि समीक्षितम् ||४-५८-३ (३०७४८)
आचार्यदुर्योधनसूतपुत्रैः कृपेण भीष्मेण च पालितानि |
अवध्यकल्पानि दुरासदानि रथाश्वमातङ्गसमाकुलानि च ||४-५८-४ (३०७४९)
तेषामनीकानि किरीटमाली व्यूढानि दृष्ट्वा विपुलध्वजानि |
गाण्डीवधन्वा द्विषतां निहन्ता वैराटिमामन्त्र्य ततोऽभ्युवाच
||४-५८-५ (३०७५०)
सुसंगृहीतैरथ रश्मिभिस्त्वं हयान्नियम्य प्रसमीक्ष्य यत्तः |
संप्रेषयाशु प्रतिवीरमेनं वैकर्तनं योधयितुं वृणोमि ||४-५८-६
(३०७५१)
यां हस्तिकक्ष्यां बहुधा विचित्रां स्तम्भे रथे पश्यसि दर्शनीयाम् |
विवर्तमानां ज्वलनप्रकाशां वैकर्तनस्यैतदनीकमग्र्यम् ||४-५८-७ (३०७५२)
एतेन शीघ्रं प्रतिपादयेमान् श्वेतान्हयान्काञ्चनजालकक्ष्यान् |
सर्वं जवं तत्र विदर्शयिष्ये ह्यासादयैतद्रथवीरवृन्दम्
||४-५८-८ (३०७५३)
गजो गजनेव हि योद्धुकामो मया सदा काङ्क्षति सूतपुत्रः |
तमेव मां प्रापय सूतपुत्रं दुर्योधनोपाश्रयजातदर्पम् |
तं पातयिष्यामि रथस्य मध्ये सहस्रनेत्रोऽशनिनेव वृत्रम् ||
४-५८-९ (३०७५४)
वैशम्पायन उवाच. ४-५८-१०क्ष् (३२३२)
स तैर्हयैर्जातजवैर्बृहद्भिः पुत्रो विराटस्य हिरण्यकक्ष्यै |
विध्वंसयंस्तद्रथिनामनीकं ततोऽवहत्पाण्डवमाजिमध्ये ||४-५८-१० (३०७५५)
तमापतन्तं परमेण तेजसा समीक्ष्य वैकर्तनमभ्यरक्षन् |
अभ्यद्रवंस्ते रथवीरवृन्दा व्याघ्रेण चाक्रान्तमिवर्षभं रणे
||४-५८-११ (३०७५६)
चित्राङ्गदश्चित्ररथश्च वीरः संग्रामजिद्दुःसहचित्रसेनौ |
विविंशतिर्दुर्मुखदुर्जयौ च विकर्णदुःशासनसौबलाश्च |
शोणो निषेधश्च तमन्वयुस्ते वैकर्तनं शीघ्रतरं युवानः ||
४-५८-१२ (३०७५७)
पुत्रा ययुस्ते सहसोदराश्च वैकर्तनं पार्थगतं समीक्ष्य |
प्रगृह्य चापानि महाबला रणे धनंजयं पर्यकिरञ्शरार्चिभिः
||४-५८-१३ (३०७५८)
तेषां धनुर्ज्याकृतनैकतन्त्रीं प्रासोपवीणां शरसङ्घकोणाम् |
कराग्रयन्त्रां स्थिरचापदण्डां वीणामुपावादयदाशु पार्थः ||४-५८-१४
(३०७५९)
तस्मिंस्तु युद्धे तुमुले प्रवृत्ते पार्थं विकर्णोऽतिरथं रथेन |
विपाठवर्षेण कुरुप्रवीरो भीमेन भीमानुजमाससाद ||४-५८-१५ (३०७६०)
ततो विकर्णस्य धनुर्विकृत्य जाम्बुनदेनोपहितं दृढज्यम् |
न्यपातयत्तद्ध्वजमस्य विद्ध्वा छिन्नध्वजः सोऽप्यपयाञ्जवेन
||४-५८-१६ (३०७६१)
तं शात्रवाणां गणवाधितारं कर्माणि कुर्वाणममानुपाणि |
शत्रुंतपो वैरममृष्यमाणः समार्पयत्कूर्मनखेन पार्थम्
||४-५८-१७ (३०७६२)
स तेन राज्ञाऽतिरथेन विद्धो विगाहमानो ध्वजिनीं पेरपाम् |
शत्रुंतपं पञ्चभिराशु विद्ध्वा ततोऽस्य सूतं दशभिर्जघान
||४-५८-१८ (३०७६३)
ततः स विद्धो भरतर्षभेण बाणेन कायावरणातिगेन |
गतासुराजौ निपपात राजन्नगो नगाग्रादिव वातरुग्णः ||४-५८-१९ (३०७६४)
रथर्षभास्ते तु रथर्षभेण वीरा रणे वीरतरेण भग्नाः |
चकम्पिरे वातवशेन काले प्रकम्पितानीव महावनानि ||४-५८-२० (३०७६५)
हताश्च पार्थेन नरप्रवीरा भूमौ युवानः सुष्रुषुः सुवेषाः |
वसुप्रदा वासवतुल्यवीर्याः पराजिता वासवजेन सङ्ख्ये |
सुवर्णकार्ष्णायसवर्भनद्धा नागा यथा हैमवते प्रवृद्धाः ||
४-५८-२१ (३०७६६)
तथा स शत्रून्समरे विनिघ्नन् गाण्डीवधन्वा पुरुषप्रवीरः |
चचार सङ्ख्ये विदिशो दिशश्च दहन्निवाग्निर्वनमातपान्ते
||४-५८-२२ (३०७६७)
सुजीर्णपर्णानि यथा वसन्ते विशातयित्वा तु रजो नुदन्खे |
तथा सपत्नान्विकिरन्किरीटी चचार सङ्ख्येऽतिरथो रथेन
||४-५८-२३ (३०७६८)
शोणाश्ववाहस्य हयान्निहत्य वैकर्तनभ्रातुरदीनसत्वः |
एकेन संग्रामजितः शरेण शिरो जहाराथ किरीटमाली ||४-५८-२४ (३०७६९)
तस्मिन्हते भ्रातरि सूतपुत्रो वैकर्तनो वीर्यमदप्रतापी |
प्रगृह्य दन्ताविव नागराजो महाबलः सिंहमिवाजगाम ||४-५८-२५ (३०७७०)
स पाण्डवं द्वादशभिः पृषत्कैर्वैकर्तनः पार्थमुपाजघान् |
विव्याध गात्रेषु हयांश्च सर्वान्विराटपुत्रं च शरैर्विजघ्ने
||४-५८-२६ (३०७७१)
तमापतन्तं समरे किरीटी वैकर्तनं सर्वसमृद्धतेजाः |
प्रच्छादयामास महाधनुष्मान्न्यषेधयच्छत्रुगणांश्च वीरः
||४-५८-२७ (३०७७२)
निहत्य कर्णस्य ततः किरीटी पुरश्चरांश्चापि च पृष्ठगोपान् |
समीपमभ्यागमदप्रमेयो वितत्य पक्षौ गरुडो यथोरगम् ||४-५८-२८ (३०७७३)
तावुत्तमौ सर्वधनुर्धराणां महाबलौ सर्वसपत्नसाहौ |
कर्णं च पार्थं च निशम्य युद्धे दिदृक्षमाणाः कुरवोऽवतस्थुः
||४-५८-२९ (३०७७४)
तं पाण्डवः स्पष्टमुदीर्णकोपं कृतागसं कर्णमुदीक्ष्य कोपात् |
क्षणेन साश्वं सरथं ससूतमन्तर्दधे मेघ इवातिवृष्ट्या
||४-५८-३० (३०७७५)
ततः सयुग्याः सरथाः सनागा योधा विनेदुर्भरतर्षभाणाम् |
अन्तर्हितं भीष्ममुखाः समीक्ष्य किरीटिना कर्णरथं पृषत्कैः
||४-५८-३१ (३०७७६)
स चापि तानर्जुनबाहुमुक्ताञ्शराञ्शरौघैः प्रतिहत्य तूर्णम् |
बभौ महात्मा सधनुः सबाणः सविष्फुलिङ्गोऽग्निरिवाथ कर्णः
||४-५८-३२ (३०७७७)
ततस्तु जज्ञे करतालघोषः सशङ्खभेरीपणवाकुलस्तु |
प्रक्ष्वेलितास्फोटितसिंहनादैर्वैकर्तनं पूजयतां कुरूणाम् ||४-५८-३३
(३०७७८)
आधूतलाङ्गूलमहापताकं रथोत्तमं श्रेष्ठतमं कुरूणाम् |
ततः सगाण्डीवकृतप्रणादं किरीटिनं प्रेक्ष्य ननाद कर्णः
||४-५८-३४ (३०७७९)
पार्थोपि वैकर्तनमर्दयित्वा साश्वं सकेतुं सरथं ससूतम् |
ननाद हर्षात्सहसा किरीटी पितामहं द्रोणकृपौ च दृष्ट्वा
||४-५८-३५ (३०७८०)
सिषेच पार्थं बहुभिः शरौघैर्वैकर्तनः संयति तीक्ष्णवेगैः |
वैकर्तनश्चापि किरीटमाली प्रच्छादयामास शितैः शरौघैः
||४-५८-३६ (३०७८१)
तयोरमोघन्सृजतोः शरौघानस्त्रज्ञयोरास महान्विमर्दः |
राहुप्रमुक्ताविव चन्द्रसूर्यौ क्षणान्तरेणानुददर्श लोकः ||४-५८-३७
(३०७८२)
हतास्तु पार्थेन रथप्रवीरा भूमौ युवानः सुपुपुः सुकेशाः |
सुवर्णलोहायसवर्मगात्रा वृक्षा यथा हैमवते निकृत्ताः ||४-५८-३८
(३०७८३)
तथा स शत्रून्समरे विनिघ्नन्गाण्डीवधन्वा व्यधमत्सपत्नान् |
चचार सङ्ख्ये विदिशो दिशश्च दहन्निवाग्निर्वनमातपान्ते
||४-५८-३९ (३०७८४)
सुशीर्णपर्णानि यथा वसन्ते विधूनयन्वायुरिवाल्पसारान् |
तथा सपत्नान्विधमन्किरीटी चचार सङ्ख्येऽतिरथो रथेन
||४-५८-४० (३०७८५)
शत्रूनिवेन्द्रः समरे किरीटी विद्रावयंस्तद्रथवीरबृन्दम् |
प्राच्छादयच्चरुकिरीटमाली वरेषुभिः शत्रुगणाननेकान् ||४-५८-४१ (३०७८६)
कर्णं तदोवाच किरीटमाली शूरः कुरूणां प्रवरोऽभिगर्जन् ||
४-५८-४२ (३०७८७)
कर्ण यस्त्वं सभामध्ये बह्वबद्धं प्रभाषसे |
न मे युधि समोस्तीति तदिदं प्रत्युपस्थितम् ||४-५८-४३ (३०७८८)
सभायां पौरुषं प्रोच्य धर्ममुत्सृज्य केवलम् |
कर्तुमिच्छसि यत्कर्म तन्मन्ये दुष्करं त्वया. ४-५८-४४ (३०७८९)
यत्त्वया कथितं पूर्वं नास्ति मत्सम इत्यपि |
तत्सत्यं कुरु राधेय कुरुमध्ये मया सह ||४-५८-४५ (३०७९०)
सभायां यस्तु पाञ्चालीं क्लिश्यमानां तदा त्वया |
दृष्टवानस्मि तस्याद्य फलमश्रुहि केवलम् ||४-५८-४६ (३०७९१)
धर्मपाशनिबद्धेन यन्मया मर्षितं तव |
तस्य पापस्य राधेय फलं प्राप्नुहि दुर्मते ||४-५८-४७ (३०७९२)
एहि कर्ण मया सार्धमिहाद्य कुरु वैशसम् |
प्रेक्षका कुरवः सन्तु सर्वे ते सहसैनिकाः ||४-५८-४८ (३०७९३)
इदानीमेव तावत्त्वमपयातो रणान्मम |
कस्माज्जीवसि राधेय निहतस्त्वनुजस्तव ||४-५८-४९ (३०७९४)
यो भ्रातरं पातयित्वा कस्त्यक्त्वा च रणाजिरम् |
त्वदन्यः पुरुषः सत्सु ब्रूयादेवं व्यवस्थितः ||४-५८-५० (३०७९५)
कर्ण उवाच. ४-५८-५१क्ष् (३२३३)
ब्रवीषि वाचा यत्पार्थ कर्मणा तत्समाचर |
विशेषितो हि त्वं वाचा कर्मणाप्रतिमं भुवि ||४-५८-५१ (३०७९६)
यत्त्वया मर्षितं पूर्वं तदशक्तेन मर्षितम् |
इति गृह्णीम ते पार्थ तमदृष्ट्वा पराक्रमम् ||४-५८-५२ (३०७९७)
धर्मपाशनिबद्धेन यत्त्वया मर्षितं पुरा |
तथैव बद्धमात्मानमबद्ध इति मन्यसे ||४-५८-५३ (३०७९८)
न हि तावद्वने वासो यथोक्तं चरितस्त्वया |
क्लिष्टस्त्वमर्थलोभात्तु समयं छेत्तुमिच्छसि ||४-५८-५४ (३०७९९)
यदि चेन्द्रः स्वयं पार्थ तव युद्ध्येत कारणात् |
तथाऽपिन व्यथा काचिन्मम स्याद्विक्रमिष्यतः ||४-५८-५५ (३०८००)
अयं कौन्तेयकामस्ते नचिरात्समुपस्थितः |
योत्स्यसे हि मया सार्धमत्र पश्यामि ते बलम् ||४-५८-५६ (३०८०१)
वैशम्पायन उवाच. ४-५८-५७क्ष् (३२३४)
इति कर्णो ब्रुवन्नेव बीभत्सुमपराजितम् |
अभ्ययाद्विसृजन्बाणान्कायावरणभेदिनः ||४-५८-५७ (३०८०२)
प्रतिजग्राह तान्पार्थः प्रीयमाणो महारथः ||४-५८-५८ (३०८०३)
शरवर्षेण महता पर्जन्य इव वृष्टिमान् |
अभीयाय हि बीभत्सुर्गाण्डीवं विक्षिपन्धनुः ||४-५८-५९ (३०८०४)
जिघांसुः समरे कर्णं विससर्ज शरान्बहून् |
तान्कर्णः प्रतिजग्राह वायुवेगमिवाचलः ||४-५८-६० (३०८०५)
तयोर्दैवासुरसमः सन्निपातोऽभवन्महान् |
किरतोः शरजालानि कृत्स्नं व्योम निरन्तरं ||४-५८-६१ (३०८०६)
उत्पेतुर्मेघजालानि घोररूपाणि सर्वशः |
ववर्ष च रजो भौमं कर्णपार्थसमागमे ||४-५८-६२ (३०८०७)
न स्म सूर्यः प्रतपति न च वाति समीरणः |
शरप्रच्छादितं व्योम छायाभूतमिवाभवत् ||४-५८-६३ (३०८०८)
गाण्डीवस्य च निर्घोषः कर्णस्य धनुषस्तथा |
दह्यतामिव वेणूनामासीत्परमदारुणः ||४-५८-६४ (३०८०९)
अर्जुनस्तु हयान्नागान्रथांश्च विनिपातयन् |
क्षोभयामास तत्सैन्यं कर्णं विव्याध चासकृत् ||४-५८-६५ (३०८१०)
ततः पार्थो महाबाहुः कर्णस्य धनुरच्छिनत् |
छिन्नधन्वा ततः कर्णः शक्तिं चिक्षेप वेगवान्
तां शक्तिं समरे पार्थश्चिच्छेद निशितैः शरैः ||४-५८-६६ (३०८११)
ततो निपेतुर्बहुशो राधेयस्य पदानुगाः |
तांश्च गाण्डीवनिर्मुक्तैः प्राहिणोद्यमसादनम् ||४-५८-६७ (३०८१२)
अशेरतावृत्य महीं समग्रां पार्थेषुमार्गे निहता द्विपेन्द्राः |
हिरण्यकक्ष्यां शरजालचित्रा यथा नगाः पावकजालनद्धाः ||४-५८-६८
(३०८१३)
तं शत्रुसेनाङ्गनिबर्हणानि कर्माणि कुर्वाणममानुषाणि |
वैकर्तनः पूर्वममृष्यमाणः समार्पयल्लक्ष्यमिवाशु पार्थम्
||४-५८-६९ (३०८१४)
ततश्चतुर्भिस्तुरगान्विकृष्य विव्याध कर्णोऽथ धनंजयस्य |
षङ्भिश्च सूतं दशभिर्हयांश्च षष्ट्या च पार्थं त्रिभिरस्य
केतुम् ||४-५८-७० (३०८१५)
सविष्फुलिङ्गोज्ज्वलभीमघोषः कोपेन्धनः केतुशिखः शरार्चिः |
कर्णाग्निरस्त्रानिलभीमवातो बभौ दिधक्षन्निव पार्थकक्षम्
||४-५८-७१ (३०८१६)
स्वनेमिशङ्खस्वनभीमघोषश्चलत्पताकोज्ज्वलभीमविद्युत् |
पार्थाम्बुदः शस्त्रशराम्बुधारः कर्णानलं संशमयांचकार
||४-५८-७२ (३०८१७)
तेनातिविद्धः समरे किरीटी प्रबोधितः सिंह इव प्रसुप्तः |
गाण्डीवधन्वा प्रवरः कुरूणां प्रतत्वरे कर्णवधाय जिष्णुः
||४-५८-७३ (३०८१८)
स ब्राह्ममस्त्रं समरे किरीटी प्रादुश्चकाराद्भुतवीर्यकर्मा |
सन्तापयन्कर्णरथं शरौघैर्लोकानिमान्त्सूर्य इवांशुमाली ||४-५८-७४
(३०८१९)
स हस्तिनेवाभिहतो गजेन्द्रः प्रगृह्य भल्लान्निशितान्निषङ्गात् |
आकर्णपूर्णे तु धनुर्विकृष्य विव्याध बाणैरथ सूतपुत्रम्
||४-५८-७५ (३०८२०)
अथास्य बाहू सशिरो ललाटं ग्रीवामुरः स्कन्धभुजान्तरं च |
कर्णस्य पार्थो युधि निर्बिभेद वज्रैरिवाद्रिं भगवान्महेन्द्रः
||४-५८-७६ (३०८२१)
स पार्थमुक्तानविषह्य बाणान् गजो गजेनेव जितस्तरस्वी |
विहाय संग्रामशिरोपयातो वैकर्तनः पार्थशराभितप्तः ||७७
||||४-५८-७७ (३०८२२)
इति श्रीमन्महाभारते विराटपर्वणि गोग्रहणपर्वणि
अष्टपञ्चाशोऽध्यायः ||५८ ||
Mahabharata -Virata Parva -Chapter Footnotes
४-५८-२३ वायुर्यथा खे आकाशे रजो नुदन् चरति तथेत्यध्याहारेण योजना ||
२३ ||
४-५८-३० कर्णमुदीक्ष्य हर्षादिति धो पाठः ||
३० ||
विराटपर्व -अध्याय ०५९
||श्रीः ||
४. ५९. अध्यायः ५९
Mahabharata -Virata Parva -Chapter Topics
द्रोणार्जुनयोर्युद्धवर्णनम् ||१ ||
अर्जुनबाणाहतिविषपणे द्रोणे अश्वत्थाम्ना
तद्रक्षणायार्जुनप्रत्यभियानम् ||२ ||
अत्रान्तरेऽर्जुनदत्तावकाशेन द्रोणेन रणादपयानम् ||३ ||
Mahabharata -Virata Parva -Chapter Text
४-५९-० (३०८२३)
वैशम्पायन उवाच. ४-५९-०क्ष् (३२३५)
जितं वैकर्तनं दृष्ट्वा पार्थो वैराटिमब्रवीत् |
स्थिरो भव त्वं संग्रामे जयोऽस्माकं नृपात्मजः ||४-५९-१ (३०८२४)
यावच्छङ्खमुपाध्यास्ये द्विषतां रोमहर्षणम् |
अविक्लबमसंभ्रान्तमव्यक्तहृदयेक्षणम्. ४-५९-२ (३०८२५)
याहि शीघ्रं यतो द्रोणो ममाचार्यो रणे स्थितः ||
तथा संक्रीडमानस्य अर्जुनस्य रणाजिरे. ४-५९-३ (३०८२६)
बलं सत्वं च तेजश्च लाघवं च व्यवर्धत ||
तच्चाद्भुतमभिप्रेक्ष्य भयमुत्तरमाविशत् ||४-५९-४ (३०८२७)
उत्तर उवाच. ४-५९-५क्ष् (३२३६)
अस्त्राणां तव दिव्यानां शरौघान्क्षिपतः शितान् |
मनो मे मुह्यतेऽत्यर्थं तव दृष्ट्वा पराक्रमम् ||४-५९-५ (३०८२८)
द्वैधीभूतं मनो मह्यं भयाद्भरतसत्तम |
अदृष्टपूर्वं पश्यामि तव गाण्डीवनिस्वनम् ||४-५९-६ (३०८२९)
तव बाहुबलं चैव धनुः कर्षयतो बहु |
तव तेजो दुराधर्षं यथा विष्णोस्त्रिविक्रमे ||४-५९-७ (३०८३०)
वैशम्पायन उवाच. ४-५९-८क्ष् (३२३७)
तमुत्तरश्चित्रमवेक्ष्य गाण्डिवं शरांश्च मुक्तान्सहसा किरीटिना |
भीतोऽब्रवीदर्जुनमाजिमध्ये नाहं तवाश्वान्विषहे नियन्तुम् ||४-५९-८
(३०८३१)
तमब्रवीत्किंचिदिव प्रहस्य गाण्डीवधन्वा द्विषतां निहन्ता |
मया सहायेन कुतोऽस्ति ते भयं प्रेह्युत्तराश्वाननुमन्त्र्य वाहय
||४-५९-९ (३०८३२)
वैशम्पायन उवाच. ४-५९-१०क्ष् (३२३८)
आश्वासितस्तेन धनंजयेन वैराटिरश्वान्प्रतुतोदय शीघ्रम् |
धनंजयश्चापि विकृष्य चापं विष्फारयामास महेन्द्रकल्पः
||४-५९-१० (३०८३३)
उत्तरं चैव बीभत्सुरब्रवीत्पुनरर्जुनः |
न भेतव्यं मया सार्धं तात संग्राममूर्धनि ||४-५९-११ (३०८३४)
राजपुत्रोऽसि ते भद्रं कुले महति मात्स्यके |
जातस्त्वं क्षत्रियकुले न विषीदितुमर्हसि ||४-५९-१२ (३०८३५)
धृतिं कृत्वा सुविपुलां राजपुत्र रथं मम |
युध्यमानस्य संग्रामे राजभिः सह वाहय ||४-५९-१३ (३०८३६)
उक्त्वा तमेवं बीभत्सुरर्जुनः पुनरब्रवीत् |
पाण्डवो रथिनां श्रेष्ठो भारद्वाजं समीक्ष्य तु ||४-५९-१४ (३०८३७)
यत्रैषा काञ्चनी वेदिर्दृश्यतेऽग्निशिखोपमा |
उच्छ्रिता काञ्चने दण्डे पताकाभिरलंकृता ||४-५९-१५ (३०८३८)
तत्र मां वह भद्रं ते द्रोणं योत्स्यामि सत्तमम् |
भारद्वाजेन योत्स्येऽहमाचार्येण महात्मना ||४-५९-१६ (३०८३९)
अमी शोणाः प्रकाशन्ते तुरगाः साधुवाहिनः |
मुक्ता रथवरे तस्य सर्वशिक्षाविशारदाः ||४-५९-१७ (३०८४०)
यतो रथवरे शूरः सर्वशस्त्रभृतांवरः |
स्निग्धवैडूर्यसंकाशस्ताम्राक्षः प्रियदर्शनः ||४-५९-१८ (३०८४१)
आदित्य इव तेजस्वी बलवीर्यसमन्वितः |
सर्वलोकधनुःश्रेष्ठः सर्वलोकेषु पूजितः |
अङ्गिरोशनसोस्तुल्यो नये बुद्धिमतांवरः ||४-५९-१९ (३०८४२)
चत्वारो निखिला वेदाः साङ्गोपाङ्गाः सलक्षणाः |
धनुर्वेदश्च कार्त्स्न्येन ब्राह्मं चास्त्रं प्रतिष्ठितम् ||४-५९-२० (३०८४३)
पुराणमितिहासश्च अर्थविद्या च मानवम् |
भारद्वाजे समस्तानि सर्वाण्येतानि सांप्रतम् ||४-५९-२१ (३०८४४)
क्षमा दमश्च सत्यं च तेजो मार्दवमार्जवम् |
प्रतिष्ठिता गुणा यस्मिन्बहवो द्विजसत्तमे ||४-५९-२२ (३०८४५)
यस्याहमिष्टः सततं मम चेष्टः सदा च सः |
क्षत्रधर्मं पुरस्कृत्य तेन योत्स्ये हि सांप्रतम् ||४-५९-२३ (३०८४६)
आचार्यं प्रापयेदानीं ममोत्तर महारथम् |
अपरं पश्य संग्राममद्भुतं मम तस्य च ||४-५९-२४ (३०८४७)
उत्तरस्त्वेवमुक्तोऽश्वांश्चोदयामास तं प्रति |
आजगामार्जुनरथो भारद्वाजरथं प्रति ||४-५९-२५ (३०८४८)
तमापतन्तं वेगेन पाण्डवं सरथं रणे |
द्रोणोप्यभ्यद्रवत्पार्थं मतो मत्तमिव द्विपम् ||४-५९-२६ (३०८४९)
स तु रुक्मरथं दृष्ट्वा कौन्तेयः समभिद्रुतम् |
आचार्यं तं महाबाहुः प्राञ्जलिर्वाक्यमब्रवीत् ||४-५९-२७ (३०८५०)
उषिताः स्मो वने वासं प्रतिकर्मचिकीर्षवः |
कोपं नार्हसि नः कर्तुं सदा समरदुर्जय ||४-५९-२८ (३०८५१)
अहं तु ताडितः पूर्वं प्रहरेयं तवानघ |
इति मे वर्तते बुद्धिस्तद्भवान्क्षन्तुमर्हति ||४-५९-२९ (३०८५२)
ततः प्राध्मापयच्छङ्खं भेरीपटहवादितम् |
व्यक्षोभत बलं सर्वमुद्धूतमिव सागरम् ||४-५९-३० (३०८५३)
वैशम्पायन उवाच. ४-५९-३१क्ष् (३२३९)
ततस्तु प्राहिणोद्द्रोणः शरानथ स विंशतिम् |
अप्राप्तानेव तान्पार्थश्चिच्छेद कृतहस्तवान् ||४-५९-३१ (३०८५४)
ततः शरसहस्रेण रथं पार्थस्य वीर्यवान् |
अवाकिरत्ततो द्रोणः शीघ्रहस्तं प्रदर्शयन् ||४-५९-३२ (३०८५५)
एवं प्रववृते युद्धं भारज्वाजकिरीटिनोः ||४-५९-३३ (३०८५६)
अश्वाञ्शोणान्महावेगान्हंसवर्णैस्तु वाजिभिः |
मिश्रितान्समरे दृष्ट्वा व्यस्मयन्त पृथग्जनाः ||४-५९-३४ (३०८५७)
रथं रथेन पार्थस्य समाहत्य परंतपः |
हर्षयुक्तस्तदाऽऽचार्यः प्रत्यगृह्णात्स पाण्डवम् ||४-५९-३५ (३०८५८)
समाश्लिष्टाविवान्योन्यं द्रोणपाण्डवयोर्ध्वजौ |
दृष्ट्वा प्राकम्पत मुहुर्भारतानां महाचमूः ||४-५९-३६ (३०८५९)
तत्तु युद्धं प्रववृते ह्याचार्यस्यार्जुनस्य च |
विमुञ्चतोः शरानुग्रान्विशिखान्दीप्ततेजसः ||४-५९-३७ (३०८६०)
तौ वीरौ वीर्यसंपन्नौ दृष्ट्वा समरमूर्धनि |
आचार्यशिष्यौ रथिनौ कृतवीर्यौ तरस्विनौ ||४-५९-३८ (३०८६१)
उभौ विश्रुतकर्माणावुभौ श्रमगतौ जये |
उभावतिरथौ लोके ह्युभौ परपुंरजयौ |
क्षिपन्तौ शरजालानि क्षत्रियान्मोह आविशत् ||४-५९-३९ (३०८६२)
व्यस्मयन्त नराः सर्वे द्रोणार्जुनसमागमे |
नराणां ब्रुवतां वाक्यं श्रूयते स महास्वनः ||४-५९-४० (३०८६३)
द्रोणं हि समरे कोऽन्यो योद्धुमर्हत्यथार्जुनात् |
रौद्रः क्षत्रियधर्मोऽयं गुरं वै यदयोधयत् ||४-५९-४१ (३०८६४)
इत्यब्रुवञ्जनास्तत्र संग्रामशिरसि स्थिताः |
तौ समीक्ष्य तु संरब्धौ सन्निकृष्टौ महारथौ ||४-५९-४२ (३०८६५)
छाद्येतां शरौघैस्तावन्योन्यमुपराजितौ |
संयुगे संचकाशेतां कालसूर्याविवोदितौ ||४-५९-४३ (३०८६६)
विष्फार्य च महाचापं हेमपृष्ठं दुरासदम् |
संरब्धस्तु तदा द्रोणः प्रत्ययुध्यत फल्गुनम् ||४-५९-४४ (३०८६७)
स सायकमयैर्जालैरर्जुनस्य रथं प्रति |
भानुमद्भिः शिलाधौतैर्बाणैः प्राच्छादयद्दिशः ||४-५९-४५ (३०८६८)
अर्जुनस्तु तदा द्रोणं महावेगैर्महारथः |
विव्याध शतशो बाणैर्धाराभिरिव पर्वतम् ||४-५९-४६ (३०८६९)
कालमेघ इवोष्णान्ते फल्गुनः समवाकिरत् ||४-५९-४७ (३०८७०)
तस्य जाम्बूनदमयैश्चितरैश्चापच्युतैः शरैः |
प्राच्छादयद्रथश्रेष्ठं भारद्वाजोऽर्जुनस्य वै ||४-५९-४८ (३०८७१)
तथैव दिव्यं गाण्डीवं धनुरानम्य चार्जुनः |
शत्रुघ्नं वेगवत्सृष्टं भारसाधनमुत्तमम् ||४-५९-४९ (३०८७२)
शोभते स्म महावाहुर्गाण्डीवं विक्षिपन्धनुः |
शरांश्च विसृजंश्चित्रान्सुवर्णविकृतान्बहून् ||४-५९-५० (३०८७३)
प्राच्छादयदमेयात्मा भारद्वाजरथं प्रति |
द्रोणचापविनिर्मुक्तान्बाणान्बाणैरवारयत् ||४-५९-५१ (३०८७४)
सरथोऽप्यचरत्पार्थः प्रेक्षणीयो महारथः |
युगपद्दिक्षु सर्वासु सर्वतोऽस्त्राण्यवासृजम् ||४-५९-५२ (३०८७५)
आददानं शरान्घोरान्संदधानं च पाण्डवम् |
विसृजन्तं च क्रौन्तेयं न स्म पश्यन्ति लाघवाम् ||४-५९-५३ (३०८७६)
एकच्छायमिवाकाशं बाणैश्चक्रे समन्ततः |
नादृश्यत ततो द्रोणो नीहारेणेव पर्वतः ||४-५९-५४ (३०८७७)
मरीचिविकचस्येव राजन्भानुमतो वपुः |
आसीत्पार्थस्य सुमहद्वपुः शरशतार्चितम् ||४-५९-५५ (३०८७८)
क्षिपतः शरजालानि कौन्तेयस्य महात्मनः |
तान्विधूय शरान्घोरान्द्रोणोऽपि समितिंजयः |
बभासे तिमिरं व्योम्नि विधूय सविता यथा ||४-५९-५६ (३०८७९)
अग्निचक्रोपमं घोरं मण्डलीकृतमाहवे |
विकृष्य सुमहच्चापं मेघस्तनितनिस्वनम् |
असकृत्मुञ्चतो बाणान्ददृशुः कुरवो युधि ||४-५९-५७ (३०८८०)
दिक्षु सर्वासु विपुलः शुश्रुवेऽथ जनैस्तदा |
द्रोणस्यापि धनुर्घोषो विद्युत्स्तनितनिस्वनः |
अभवद्विस्मयकरः सैन्यानां भरतर्षभ ||४-५९-५८ (३०८८१)
तप्तजाम्बूनदमयैर्दीप्तैरग्निसमैः शरैः |
प्राच्छादयदमेयात्मा दिशः सूर्यस्य च प्रभाम् ||४-५९-५९ (३०८८२)
ततः काञ्चनपङ्खानां शराणां नतपर्वणाम् |
वियद्गतानां चरतां दृश्यन्ते बहवो व्रजाः ||४-५९-६० (३०८८३)
शरासनात्तु द्रोणस्य प्रभवन्ति स्म सायकाः |
एको दीर्घ इवाभान्तः प्रदृश्यन्ते महाशराः |
आकाशे समदृश्यन्त हंसानामिव पङ्क्तयः ||४-५९-६१ (३०८८४)
एवं सुवर्णविकृतान्विमुञ्चन्तौ शरान्बहून् |
आकाशं संवृतं वीरावुल्काभिरिव चक्रतुः ||४-५९-६२ (३०८८५)
तयोः शराश्च विबभुः कङ्कबर्हिणवाससः |
पङ्क्त्यः शरदि मत्तानां सारसानामिवाम्बरे ||४-५९-६३ (३०८८६)
तत्तु युद्धं महाघोरं तयोः संरब्धयोरभूत् |
अत्यद्भुतमचिन्त्यं च वृत्रवासवयोरिव ||४-५९-६४ (३०८८७)
महागजाविवासाद्य विषाणाग्रैः परस्परम् |
शरैः पूर्णायतोत्सृष्टैरन्योन्यमभिजघ्नतुः ||४-५९-६५ (३०८८८)
अथ त्वाचार्यमुख्येन शरान्सृष्टाञ्शिलाशितान् |
अवारयच्छितैर्बाणैरर्जुनो जयतांवरः ||४-५९-६६ (३०८८९)
दर्शयन्नैन्द्रमात्मानमुग्रमुग्रुपराक्रमः |
इषुभिस्तूर्णमाकाशं बहुभिश्च समावृणोत्. ४-५९-६७ (३०८९०)
जिघांसन्तं नरव्याघ्रमर्जुनं भीमदर्शनम् |
विव्याध निशितैर्द्रोणः शरैः सन्नतपर्वभिः ||४-५९-६८ (३०८९१)
हृष्टः समभवद्द्रोणो रणशौण्डः प्रतापवान् |
अर्जुनेन समं क्रीडञ्शरैः सन्नतपर्वभिः ||४-५९-६९ (३०८९२)
तौ व्यदारयतां शूरौ सन्नद्धौ रणशोभिनौ |
उदीरयन्तौ दिव्यानि ब्राह्माद्यस्त्राणि भागशः ||४-५९-७० (३०८९३)
पार्थस्तु समरे शूरो दर्शयन्वीर्यमात्मनः |
स मह्यस्त्रैर्महात्मानं द्रोणं प्राच्छादयच्छरैः ||४-५९-७१ (३०८९४)
अस्त्रैरस्त्राणि संवार्य पार्थो द्रोणमवारयत् ||४-५९-७२ (३०८९५)
तयोरासीत्संप्रहारः क्रुद्धयोर्नरसिंहयोः |
अमृष्यमाणयोः सङ्ख्ये बलिवासवयोरिव ||४-५९-७३ (३०८९६)
दर्शयेतां महास्राणि भारद्वाजार्जुनौ रणे ||४-५९-७४ (३०८९७)
ऐन्द्रं वायव्यमाग्नेयमस्त्रमस्त्रेण पाण्डवः |
मुक्तंमुक्तं द्रोणचापाद्ग्रमते स्म पुनः पुनः ||४-५९-७५ (३०८९८)
एवं शूरौ महेष्वासौ विसृजन्तौ शिलाशितान् |
एकच्छायमकुर्वातां गगनं शरवृष्टिभिः ||४-५९-७६ (३०८९९)
ततोऽर्जुनेन मुक्तानां पततां च शरीरिपु |
पर्वतेष्विव वज्राणां शराणां श्रूयते स्वनः ||४-५९-७७ (३०९००)
ततो नागा रथाश्वाश्च सादिनश्च विशांपते |
शोणिताक्ताश्च दृश्यन्ते पुष्पिता इव किंशुकाः ||४-५९-७८ (३०९०१)
बाहुभिश्च सकेयूरैर्निकृत्तैश्च महारथैः |
सुवर्णाचित्रैः कवचैर्ध्वजैश्च विनिपातितैः ||४-५९-७९ (३०९०२)
योधैश्च निहतैस्तत्र पार्थबाणाभिपीडितैः |
बलमासीत्सुसंभ्रान्तं द्रोणार्जुनसमागमे ||४-५९-८० (३०९०३)
विधृन्वानौ तु तौ वीरौ धनुषी भारसाधने |
प्राच्छादयेतामन्योन्यं दिधक्षन्तौ वरेषुभिः ||४-५९-८१ (३०९०४)
अथान्तरिक्षे नादोऽभूद्द्रोणं तत्र प्रशंसताम् |
दुष्करं कृतवान्द्रोणो यदर्जुनमयोधयत् ||४-५९-८२ (३०९०५)
प्रमाथिनं महावीर्यं दृढमुष्टिं दुरासदम् |
जेतारं सर्वदैत्यानां सर्वेषां च महारथम् ||४-५९-८३ (३०९०६)
अविभ्रमं च शिक्षां च लाघवं दूरपातनम् |
पार्थस्य समरे दृष्ट्वा द्रोणस्यासीच्च विस्मयः ||४-५९-८४ (३०९०७)
तत्प्रवृत्तं चिरं घोरं तयोर्युद्धं महात्मनोः |
अवर्तत महारौद्रं लोकसंक्षोभकरकम् ||४-५९-८५ (३०९०८)
अथ गाण्डीवमुद्यम्य दिव्यं धनुरमर्षणः |
विचकर्ष रणे पार्थो बाहुभ्यां भरतर्षभः ||४-५९-८६ (३०९०९)
तस्य बाणमयं वर्षे शलभानामिवाभवत् |
न च बाणान्तरे तस्य वायुः शक्नोति सर्पितुम् ||४-५९-८७ (३०९१०)
अभीक्ष्णं संदधानस्य बाणानुत्सृजतस्तथा |
नान्तरं ददृशे किंचित्पार्थस्यापततोपी च ||४-५९-८८ (३०९११)
युद्धे तु कृतशीघ्रास्त्रे वर्तमाने सुदारुणे |
शीघ्राच्छीघ्रतरं पार्थः शरानन्यानुदैरयत् ||४-५९-८९ (३०९१२)
ततः शरसहस्राणि शराणां नतपर्वणाम् |
युगपत्प्रापतंस्तत्र द्रोणस्य रथमन्तिकात् ||४-५९-९० (३०९१३)
विकीर्यमाणे द्रोणे तु शरैर्गाण्डीवधन्वना ||
हाहाकारो महानासीत्सैन्यानां भरतर्षभ ||४-५९-९१ (३०९१४)
पाण्डवस्य तु शीघ्रास्त्रं मघवा समपूजयत् |
गन्धर्वाप्सरसश्चैव ये च तत्र समागताः ||४-५९-९२ (३०९१५)
द्रोणं युद्धार्णवे मग्नं दृष्ट्वा पुत्रः प्रतापवान् |
ततो वृन्देन महता रथिनां रथियूथपः |
आचार्यपुत्रस्तु शरैः पाण्डवं प्रत्यवारयत् ||४-५९-९३ (३०९१६)
अश्वत्थामा तु तत्कर्म हृदयेन महात्मनः |
पूजयामास पार्थस्य कोपं चास्य तदाऽकरोत् ||४-५९-९४ (३०९१७)
स भन्युवशमापन्नः पार्थमभ्यद्रवद्रणे |
किरञ्शरसहस्राणि पर्जन्य इव वृष्टिमान् ||४-५९-९५ (३०९१८)
आवृत्य च महाबाहुर्यतो द्रोणस्ततोऽभवत् |
अन्तरं प्रददौ पार्थो द्रोणस्य व्यपसर्पितुम् ||४-५९-९६ (३०९१९)
स तु लब्धान्तरस्तूर्णमपायाञ्जवनैर्हयैः |
छिन्नवर्मध्वजरथो निकृत्तः परमेषुभिः ||४-५९-९७ (३०९२०)
पराजिते तदा द्रोणे द्रोणपुत्रः समागतः |
सदण्ड इव रक्ताक्षः कृतान्तः समरे स्थितः ||||४-५९-९८ (३०९२१)
इति श्रीमन्महाभारते विराटपर्वणि गोग्रहणपर्वणि
एकोनषष्टितमोऽध्यायः ||५९ ||
विराटपर्व -अध्याय ०६०
||श्रीः ||
४. ६०. अध्यायः ६०
Mahabharata -Virata Parva -Chapter Topics
अर्जुनेन द्रोणिपराभवनम् ||१ ||
Mahabharata -Virata Parva -Chapter Text
४-६०-० (३०९२२)
वैशम्पायन उवाच. ४-६०-०क्ष् (३२४०)
तं पार्थः प्रतिजग्राह वायुवेगमिवाचलः |
शरजालेन महता वर्षमाण इवाम्बुदः ||४-६०-१ (३०९२३)
तयोर्देवासुरसमः सन्निपातो महानभूत् |
किरतोः शरजालानि वृत्रवासवयोरिव ||४-६०-२ (३०९२४)
न स्म सूर्यस्तदा भाति न च वाति समीरणः |
शरगाढे कृते व्योम्नि छायाभूतमिवाभवत् ||४-६०-३ (३०९२५)
महांश्चटचटाशब्दो योधयोर्युध्यमानयोः |
दह्यतामिव वेणूनामासीत्परमदारुणः ||४-६०-४ (३०९२६)
हयांस्तस्यार्जुनः सङ्ख्ये कृतवानल्पतेजसाः |
ते राजन्न प्रजानन्ति दिशं कांचन मोहिताः ||४-६०-५ (३०९२७)
ततो द्रौणिर्महावीर्यः पार्थस्य विचरिष्यतः |
विवरं सूक्ष्ममालोक्य ज्यां नुनोद क्षुरेण सः ||४-६०-६ (३०९२८)
तदस्यापूजयन्देवाः कर्म दृष्ट्वाऽतिमानुषम् |
न शक्तोऽन्यः पुमान्स्थातुमृते द्रौणेर्धनंजयम् ||४-६०-७ (३०९२९)
ततो द्रौणिर्धनुर्व्यस्य व्यपक्रम्य नरर्षभः |
पुनरप्यभ्यहन्पार्थं हृदये कङ्कपत्रिभिः | ४-६०-८ (३०९३०)
ततः पार्थो महाबाहुः प्रहसन्स्वनवत्तदा |
योजयामास च तदा मौर्व्या गाण्डीवमोजसा ||४-६०-९ (३०९३१)
तं दृष्ट्वा ऋद्धमायान्तं प्रभिन्नमिव कुञ्जरम् |
ऋद्धः समाह्वयामास द्रौणिर्युद्धाय भारत ||४-६०-१० (३०९३२)
ततोऽर्धचन्द्रपाहृत्य तेन पार्थः समाहतः |
चिच्छेद तस्य चापं च सूतं चाश्वं च तेजसा |
विव्याध निशितैश्चापि शरैराशीविपोपमैः ||४-६०-११ (३०९३३)
सोऽन्यं रथं समास्थाय प्रत्यायाद्रथिपुङ्गवः |
वारणेनेव मत्तेन मत्तो वारणयूथपः ||४-६०-१२ (३०९३४)
ततः प्रववृते युद्धं पृथिव्यामेकवीरयोः |
रणमध्ये द्वयोरेव सुमहद्रोमहर्षणम् ||४-६०-१३ (३०९३५)
तौ वीरौ कुरवः सर्वे ददृशुर्विस्मयान्विताः |
युध्यमानौ महात्मानौ द्विरदाविव संगतौ ||४-६०-१४ (३०९३६)
तौ समाजघ्नतुर्वीरौ परस्परजयैषिणौ |
शरै राशीविषाकारैर्ज्वलद्भिरिव पावकैः ||४-६०-१५ (३०९३७)
अक्षयाविषुधी दिव्यौ पाण्डवस्य महात्मनः |
तेन पार्थो रणे शूरस्तस्थौ गिरिरिवाचलः ||४-६०-१६ (३०९३८)
अश्वत्थाम्नः पुनर्बाणाः क्षिप्रमभ्यस्यतो रणे |
जग्मुः परिक्षयं शीघ्रमभूत्तेनाधिकोऽर्जुनः ||||४-६०-१७ (३०९३९)
इति श्रीमन्महाभारते विराटपर्वणि गोग्रहणपर्वणि षष्टितमोऽध्यायः
||६० ||
विराटपर्व -अध्याय ०६१
||श्रीः ||
४. ६१. अध्यायः ६१
Mahabharata -Virata Parva -Chapter Topics
अर्जुनेन युगपद्द्रोणादिभिः सह यद्धम् ||१ ||
Mahabharata -Virata Parva -Chapter Text
४-६१-० (३०९४०)
वैशम्पायन उवाच. ४-६१-०क्ष् (३२४१)
एतस्मिन्नन्तरे तत्र महावीर्यपराक्रमः |
आजगाम महाबाहुः कृपः शस्त्रभृतांवरः |
अर्जुनं प्रतियोद्धुं वै युद्धकामो महारथः. ४-६१-१ (३०९४१)
अथं द्रौणे रथं त्यक्त्वा कृपस्य रथमुत्तमम् |
आजगामार्जुनस्तूर्णं सूर्यवैश्वानरप्रभम् ||४-६१-२ (३०९४२)
तौ वीर सूर्यसंकाशौ योत्स्यमानौ महारथौ |
वाषिकाविव जीमूतौ व्यरोचेतां व्यवस्थितौ ||४-६१-३ (३०९४३)
श्रगृह्य गाण्डिवं लोके विश्रुतं पुनरर्जुनः |
अभ्ययाद्भरतश्रेष्ठो विनिघ्नञ्शरमालया ||४-६१-४ (३०९४४)
कृपश्च धनुरादाय तथैवार्जुनमभ्यगाम् ||४-६१-५ (३०९४५)
प्रगृह्य बलवच्चापं नाराचान्रक्तभोजनान् |
कृपः पार्थाय चिक्षेप शंतशोऽथ सहस्रशः ||४-६१-६ (३०९४६)
जीमूत इव धर्मान्ते शरवर्पं विमुञ्चति |
नन्दयन्सुहृदः सर्वान्प्रत्ययुध्यत फल्गुनम् ||४-६१-७ (३०९४७)
विकृष्य बलवच्चापं पाण्डवोऽमितविक्रमः |
चचार समरे पार्थश्चित्रमार्गान्विदर्शयन् ||४-६१-८ (३०९४८)
सर्वाश्चैव दिशो बाणैः प्रदिशश्च महाबलः |
एकच्छायमिवाकाशं सर्वतः कृतवान्प्रभुः ||४-६१-९ (३०९४९)
प्राच्छादयदमेयात्मा पार्थः शरशतैः कृपम् |
उद्गतः समरे मेघो धाराभिरिव पर्वतम् ||४-६१-१० (३०९५०)
स शरैरर्पितः ऋद्धः शितैरग्निशिखोपमैः |
कृपो बभूव समरे विधूमोऽग्निरिव ज्वलंम् ||४-६१-११ (३०९५१)
ततः शरसहस्रेण पार्थमप्रतिमौजसम् |
अर्दयित्वा महाबाहुर्ननाद समरे कृपः ||४-६१-१२ (३०९५२)
ततः कनकपुङ्खेन शरेण नतपर्वणा |
बिभेद समरे पार्थः कृपस्य ध्वजमुत्तमम् ||४-६१-१३ (३०९५३)
ततः पश्चान्महातेजा नाराचान्सूर्यसन्निभान् |
जग्राह समरे पार्थो भूयो बहुशिलीमुखान् ||४-६१-१४ (३०९५४)
तैस्तदातीं महाबाहुः कृपस्य रथरक्षिणः |
जघान क्षत्रियश्रेष्ठो युध्यमानान्महारथान् ||४-६१-१५ (३०९५५)
चन्द्रकेतुः सुकेतुश्च चित्राश्वो मणिमांस्तद |
मुञ्जमौलिश्च विक्रान्तो हेमवर्णो भयावहः ||४-६१-१६ (३०९५६)
सुरथोऽतिरथश्चैव सुपेणोऽरिष्ट एव च |
नृकेतुश्च सहानीकास्ते निषेदुर्गतासवः ||४-६१-१७ (३०९५७)
तान्निहत्य ततः पार्थो निमेपादिव भारत |
पुनरन्यान्समाधत्त त्रयोदश शिलीमुखान् ||४-६१-१८ (३०९५८)
अथास्य युगमेकेन चतुर्भिश्चतुरो हयान् |
षष्ठेन तु शिरः सङ्ख्ये कृपस्य रथसारथेः ||४-६१-१९ (३०९५९)
त्रिभिस्त्रिवेणुं बलवान्द्वाभ्यामक्षं महाबलः |
द्वादशेन तु भल्लेन कृपस्य सशरं धनुः ||४-६१-२० (३०९६०)
छित्त्वा वज्रनिकाशेन फल्गुनः प्रहसन्निव |
त्रयोदशेनेन्द्रसमः प्रत्यविध्यत्स्तनान्तरे ||४-६१-२१ (३०९६१)
स छिन्नधन्वा विरथो हताश्वो हतसारथिः |
अथ शक्तिं परामृश्य सूर्यवैश्वानरप्रभाम् |
चिक्षेप सहसा क्रुद्धः पार्थायाद्भुतकर्मणे ||४-६१-२२ (३०९६२)
तामर्जुनस्तथारूपां शक्तिं हेमपरिष्कृताम् |
रुरोध सायकैस्तीक्ष्णैरर्धचन्द्रमुखैश्च ताम् ||४-६१-२३ (३०९६३)
आपतन्तीं महोल्काभां चिच्छेद दशभिः शरैः |
सापतद्दशधा भूमौ पार्थेन निहता शरैः ||४-६१-२४ (३०९६४)
शक्त्यां तु विनिकृत्तायां विरथः शरपीडितः |
गदापाणिरवप्लुत्य रथात्तूर्णममित्रहा |
गदां चिक्षेप सहसा पार्थायामिततेजसे ||४-६१-२५ (३०९६५)
सा च मुक्ता गदा गुर्वी रूपेणास्य परिष्कृता |
अर्जुनस्य शरैर्नुन्ना प्रतिमार्गं जगाम सा ||४-६१-२६ (३०९६६)
अथ खङ्गं समुद्धृत्य शतचन्द्रं च भानुमत् |
इयेष पाण्डवं हन्तुं कृपो लघुपराक्रमः ||४-६१-२७ (३०९६७)
स शरद्वत्सुतस्तूर्णं महाचार्यः सुशिक्षितः |
खेचरेव चचारकैः क्रमाच्चर्मासिधृग्भुवि ||४-६१-२८ (३०९६८)
ततः क्षुरप्रैः कौन्तेयो दशभिः खङ्गचर्मणी |
निमेषादिव चिच्छेद तदद्भुतमिवाभवत् ||४-६१-२९ (३०९६९)
विषण्णवदमस्तत्र विनाशात्खङ्गचर्मणोः |
दन्तैर्दन्तच्छदान्दष्ट्वा चुकोप हृदि दीर्घवत् ||४-६१-३० (३०९७०)
भवत्विति पुनश्चोक्त्वा युद्धापगमनोद्यतः |
अश्वत्थाम्नस्तु स रथं कृपः समभिपुप्लुवे |
स्वस्रीयस्य महातेजा जग्राह च धनुः पुनः ||४-६१-३१ (३०९७१)
एतस्मिन्नन्तरे क्रुद्धो भीष्मो द्रोणमथाब्रवीत् |
दृष्ट्वा कृपं फल्गुनेन पीडितं चोर्जितं च तम् ||४-६१-३२ (३०९७२)
एकैकमस्मान्संग्रामे पराजयति फल्गुनः |
अहं द्रोणश्च कर्णश्च द्रौणिर्गौतम एव च |
अन्ये च बहवः शूरा वयं जेष्याम वासविम् ||४-६१-३३ (३०९७३)
समागम्य ततः सर्वे भीष्मद्रोणमुखा रथाः |
अर्जुनं सहसा युक्ताः प्रत्ययुध्यन्त भारत ||४-६१-३४ (३०९७४)
स सायकमयैर्जालैः सर्वतस्तान्महारथान् |
प्राच्छादयच्छरौघैस्तान्नीहार इव पर्वतान् ||४-६१-३५ (३०९७५)
नदद्भिश्च महानागैर्हेषमाणैश्च वाजिभिः |
भेरीशङ्खनिनादैश्च स शब्दस्तुमुलोऽभवत् ||४-६१-३६ (३०९७६)
नागाश्वकायान्निर्भिद्य लौहानि कवचानि च |
पार्थस्य शरवर्षाणि न्यपतञ्शतशः क्षितौ ||४-६१-३७ (३०९७७)
त्वरमाणः शरानस्यन्पाण्डवस्तु प्रकाशते |
मध्यंदिनगतोऽर्चिष्माञ्छरदीव दिवाकरः ||४-६१-३८ (३०९७८)
अविषह्य शरान्सर्वे पार्थचापच्युपान्रणे |
उदक्प्रयान्ति विध्वस्ता रथेभ्यो रथिनस्तदा |
सादिनश्चाश्वपृष्ठेभ्यो भूमौ चापि पदातयः ||४-६१-३९ (३०९७९)
शरैस्तु ताड्यमानानां कवचानां महात्मनाम् |
ताम्रराजतलौहानां प्रादुरासीन्महास्वनः ||४-६१-४० (३०९८०)
छन्नमायोधनं जज्ञे शरीरैर्गतचेतसाम् |
श्रान्त्या गलितशस्त्राणां पततामश्वसादिनाम् ||४-६१-४१ (३०९८१)
शून्यान्कुर्वन्रथोपस्थान्मानवैरास्तृणोन्महीम् |
प्रनृत्यन्निव संग्रामे चापहस्ते धनंजयः ||४-६१-४२ (३०९८२)
शिरांस्यपातयत्सङ्ख्ये क्षत्रियाणां नरर्षभः |
श्रुत्वा गाण्डीवनिर्घोषं विष्णूजितमिवाशने |
त्रस्तानि सर्वसैन्यानि व्यलीयन्त च भागश ||४-६१-४३ (३०९८३)
कुण्डलोष्णीषधारीणि जातरूपस्रजानि च |
पतितानि स्म दृश्यन्ते शिरांसि करणमूर्धनि ||४-६१-४४ (३०९८४)
विशिखोन्मथितैर्गात्रैर्बाहुभिश्च सकार्मुकैः |
सहस्ताभरणैश्चान्यैः प्रच्छन्ना भाति मेदिनी ||४-६१-४५ (३०९८५)
शिरसां पात्यमानानां समरे निशितैः शरैः |
अश्मवृष्टिरिवाकाशादभवद्भरतर्षभ ||४-६१-४६ (३०९८६)
दर्शयित्वा तदाऽऽत्मानं रौद्रं रौद्रपराक्रमः |
जघान समरे शूराञ्छतशोऽथ सहस्रशः ||४-६१-४७ (३०९८७)
तथावरुद्धश्चारण्ये दशवर्षाणि त्रीणि च |
क्रोधाग्निमुत्ससर्जाजौ धार्तराष्ट्रेषु पाण्डवः ||४-६१-४८ (३०९८८)
तस्य तद्दहतः सैन्यं दृष्ट्वा चास्य पराक्रमम् |
सर्वे शान्तिपरा योधा धार्तराष्ट्रस्य भारत ||४-६१-४९ (३०९८९)
यथा नलवनं नागः प्रभिन्नः षष्टिहायनः |
एवं सर्वानपामृद्रादर्जुनः शस्त्रतेजसा ||४-६१-५० (३०९९०)
विद्राव्य च ततः सैन्यं त्रासयित्वा महारथान् |
अर्जुनो जयतांश्रेष्ठः पर्यावर्तत भारत ||४-६१-५१ (३०९९१)
तस्य मार्गान्विचरतो निघ्नतश्च रणाजिरे |
प्रावर्तत नदी घोरा शोणितान्त्रतरङ्गिणी ||४-६१-५२ (३०९९२)
अस्थिशैवालसंबाधां संग्रामे पार्थनिर्मिताम् |
शरचापप्लवां घोरां मांसशोणितकर्दमाम् ||४-६१-५३ (३०९९३)
रथोडुपां चान्त्रसर्पां केशशैवालशाड्वलाम् |
करवालासिपाठीनां चामरोष्णीषफेनिलाम् ||४-६१-५४ (३०९९४)
अश्वग्रीवामहावर्तां कबन्धजलमानुषाम् |
काककङ्करुतां तीव्रां सारसक्रौञ्चनादिताम् ||४-६१-५५ (३०९९५)
सिंहनादमहानादां शङ्खस्वनमहास्वनाम् |
वीरोत्तमाङ्गपद्माढ्यां शरचापमहानलाम् ||४-६१-५६ (३०९९६)
पदातिमत्स्यकलुषां गजशीर्षककच्छपाम् |
गोमायुगसंघुष्टां मांसमञ्जाभिकर्दमाम् ||४-६१-५७ (३०९९७)
प्रावर्तयन्नदीं घोरां पिशाचगणसेविताम् |
अपारामनिवासां च रक्तोदां सर्वतो वृताम् ||४-६१-५८ (३०९९८)
अभीक्ष्णमकरोत्पार्थो नदीमुत्तमशोणिताम् |
गजवर्ममहाद्वीपामश्वदेहमहाशिलाम् ||४-६१-५९ (३०९९९)
पदातिदेहसंघाटां रथावलिमहातरुम् |
केशशाद्वलसंछन्नां सुतरां भीतिदां नृणाम् ||४-६१-६० (३१०००)
अगाधरक्तोदवहां यमसागरगामिनीम् |
दुस्तरां भीरुमर्त्यानां शूराणां सुतरां नृप |
प्रावर्तयन्नदीमेवं भीषणां पाकशासनिः ||४-६१-६१ (३१००१)
तस्याददानस्य शरान्सन्दधानस्य मुञ्चतः |
विकर्षतश्च गाण्डीवं न किंचिद्ददृशेऽन्तरम् ||||४-६१-६२ (३१००२)
इति श्रीमन्महाभारते विराटपर्वणि गोग्रहणपर्वणि एकषष्टितमोऽध्यायः ||
Mahabharata -Virata Parva -Chapter Footnotes
४-६१-२८ स्वेचरः इवेतिच्छेदः ||
विराटपर्व -अध्याय ०६२
||श्रीः ||
४. ६२. अध्यायः ६२
Mahabharata -Virata Parva -Chapter Topics
रणाय भीष्मार्जुनयोः समागमे देवैस्तयोः प्रशंसनम् ||१ ||
Mahabharata -Virata Parva -Chapter Text
४-६२-० (३१००३)
वैशम्पायन उवाच. ४-६२-०क्ष् (३२४२)
एवं विद्राव्य तत्सैन्यं पार्थो भीष्ममुपाद्रवत् |
त्रस्तेषु सर्वसैन्येषु कौरव्यस्य महात्मनः ||४-६२-१ (३१००४)
बाणान्धनुषि संधाय चतुरः पाकशासनिः |
भीष्मं च प्राहिणोद्भीतस्तं द्वाभ्यामभ्यवादयत् ||४-६२-२ (३१००५)
तस्य कर्णान्तिकं गत्वा द्वावब्रूतां च कौशलम् |
सोऽप्याशीरवदद्भीष्मः कौन्तेयो जयतामिति ||४-६२-३ (३१००६)
नरसिंहमुपायान्तं जिगीषन्तं परान्रणे |
वृषसेनोऽभ्ययात्तूर्णं योद्धुकामो धनंजयम् ||४-६२-४ (३१००७)
वैकर्तनात्मजो वीरः संग्रामे लोकविश्रुतः |
शौर्यवीर्यादिभिः कर्णाद्बिम्बाद्विम्ब इवोद्धृतः ||४-६२-५ (३१००८)
आत्मना युध्यतस्तस्य वृषसेनस्य पाण्डवः |
मुहूर्तं तस्य तद्दृष्ट्वा हस्तलाघवपौरुषे |
तुतोष च ततः पार्थो वृषसेनपराक्रमम् ||४-६२-६ (३१००९)
तस्य पार्थस्तदा क्षिप्रं क्षुरधारेण कार्मुकम् |
न्यकृन्यद्गृध्रपत्रेण जाम्बूनदपरिष्कृतम् ||४-६२-७ (३१०१०)
अथैनं पञ्चभिर्भूयः प्रत्यविध्यत्स्तनान्तरे |
स पार्थबाणाभिहतो रथात्प्रस्कन्द्य दुद्रुवे ||४-६२-८ (३१०११)
दुःशासनो विकर्णश्च शकुनिश्च विविंशतिः |
आयान्तं भीमधन्वानं पर्यकीर्यन्त पाण्डवम् ||४-६२-९ (३१०१२)
तेषां पार्थो रणे क्रुद्धः शरैः सन्नतपर्वभिः |
युगं ध्वजं शरासं च चिच्छेद तरसा रणे ||४-६२-१० (३१०१३)
ते निकृत्तध्वजाः सर्वे छिन्नकार्मुकवेष्टनाः |
रणमध्यादपययुः पार्थबाणाभिपीडिताः ||४-६२-११ (३१०१४)
ततः प्रहस्य बीभत्सुर्वैराटिमिदमब्रवीत् |
एतं मे प्रापयेदानीं तालं सौवर्णमुच्छ्रितम् ||४-६२-१२ (३१०१५)
मेघमध्ये यथा विद्युदुज्ज्वलन्ती पुनः पुनः |
असौ शान्तनवो भीष्मस्तत्र याहि परंतप ||४-६२-१३ (३१०१६)
अस्राणि तस्य दिव्यानि दर्शयिष्यामि संयुगे |
घोररूपाणि चित्राणि लघूनि च गुरूणि च ||४-६२-१४ (३१०१७)
अस्माकं पोषको नित्यमाबाल्यान्मत्स्यभूमिप |
श्रेयस्कामी सदाऽस्माकं योगक्षेमकरः सदा ||४-६२-१५ (३१०१८)
तस्याङ्के विर्धितो बाल्ये तद्योत्स्येऽनेन सांप्रतम् |
अस्माकं धार्तराष्ट्राणां शमकामो दिवानिशम् ||४-६२-१६ (३१०१९)
वैशम्पायन उवाच. ४-६२-१७ (३१०२०)
तस्य तद्वचनं श्रुत्वा वैराटिः पार्थसारथिः |
वाहयच्चोदितस्तेन रथं भीष्मरथं प्रति ||४-६२-१७ (३१०२१)
तं रथं चोदितं दृष्ट्वा फल्गुनस्य रथोत्तमम् |
वायुनेव महामेघं सहसाऽभिसमीरितम् |
तं प्रत्ययाच्च गाङ्गेयो रथेनादित्यवर्चसा ||४-६२-१८ (३१०२२)
आयान्तमर्जुनं दृष्ट्वा भीष्मः परपुंजयः |
प्रत्युञ्जगाम युद्धार्थी महर्षभमिवर्षभः ||४-६२-१९ (३१०२३)
तथा हि गुप्त एतेषां दुराधर्षः पितामहः |
हन्यमानेषु योघेषु धनंजयमुपाद्रवत् ||४-६२-२० (३१०२४)
प्रगृह्य कार्मुकश्रेष्ठं जातरूपपरिष्कृतम् |
शरानादाय तीक्ष्णाग्रान्मर्मदेहप्रमाथिनः ||४-६२-२१ (३१०२५)
पाण्डुरेणातपत्रेण ध्रियमाणेन मूर्धनि |
शुशुभे स नरव्याघ्रो गिरिः सूर्योत्तरे यथा ||४-६२-२२ (३१०२६)
प्राध्माप्य शङ्खं गाङ्गेयो धार्तराष्ट्रान्प्रहर्षयन् |
प्रदक्षिणमुपावृत्य बीभत्सुं प्रत्यवारयत् ||४-६२-२३ (३१०२७)
तमवेक्ष्य समायान्तं कौन्तेयः परवीरहा |
प्रत्यगृह्णादमेयात्मा प्रियातिथिमिवागतम् |
देवदत्तं महाशङ्खं प्रदध्मौ युधि वीर्यवान् ||४-६२-२४ (३१०२८)
तौ शङ्खनादावत्यर्थं भीष्मपाण्डवयोस्तदा |
नादयामासतुर्द्यां च खं च भूमिं च सर्वशः ||४-६२-२५ (३१०२९)
अन्तरिक्षे च जल्पन्ति सर्वे देवाः सवासवाः |
यदर्जुनः कुरून्सर्वान्प्राकृन्तच्छस्रतेजसा ||४-६२-२६ (३१०३०)
कुरुश्रेष्ठाविमौ वीरौ रणे भीष्मधनंजयौ |
सर्वास्त्रकुशलौ वीरावप्रमत्तौ रणे सदा ||४-६२-२७ (३१०३१)
उभौ देवमनुष्येषु विश्रुतौ स्वपराक्रमैः |
उभौ परमसंरब्धावुभौ दीप्तधनुर्धरौ ||४-६२-२८ (३१०३२)
समागतौ नरव्याघ्रौ व्याघ्राविव तरस्विनौ |
उभौ सदृशकर्माणौ सूर्यस्याग्नेश्च भारत ||४-६२-२९ (३१०३३)
वासुदेवस्य सदृशौ कार्तवीर्यसमावुभौ |
उभौ विश्रुतकर्माणावुभौ शूरौ महाबलौ |
सर्वास्त्रविदुषां श्रेष्ठौ सर्वशस्त्रभृतां वरौ ||४-६२-३० (३१०३४)
अग्नेरिन्द्रस्य सोमस्य यमस्य वरुणस्य च ||
अनयोः सदृशं वीर्यं मित्रस्य वरुणस्य च ||४-६२-३१ (३१०३५)
को वा कुन्तीसुतं युद्धे द्वैरथेनोपयास्यति |
ऋते शान्तनवादन्यः क्षत्रियो भुवि विद्यते ||४-६२-३२ (३१०३६)
इति संपूजयामासुर्भीष्मं दृष्ट्वाऽर्जुनं गतम् |
तं रणे संप्रहृष्यन्तं दृष्ट्वा देवाः सवासवाः ||४-६२-३३ (३१०३७)
अथ बहुविधतूर्यशङ्खयोषैर्विविधरवैः सह सिंहनादमिश्रैः |
कुरुवृषभमपूजयत्कुरूणां बलममराधिपसैन्यसप्रभं तत्
||||४-६२-३४ (३१०३८)
इति श्रीमन्महाभारते विराटपर्वणि गोग्रहणपर्वणि द्विषष्टितमोऽध्यायः ||
विराटपर्व -अध्याय ०६३
||श्रीः ||
४. ६३. अध्यायः ६३
Mahabharata -Virata Parva -Chapter Topics
अर्जुनेन भीष्मपराजयः ||१ ||
Mahabharata -Virata Parva -Chapter Text
४-६३-० (३१०३९)
वैशम्पायन उवाच. ४-६३-०क्ष् (३२४३)
ततो भीष्मः शरानष्टौ ध्वजे पार्थस्य वीर्यवान् |
समार्पयन्महावेगाज्ज्वलतः पन्नगानिव ||४-६३-१ (३१०४०)
ते ध्वजं पाण्डुपुत्रस्य समासाद्य पतत्रिणः |
ध्वजस्थं कपिमाजघ्नुः ध्वजाग्रनिलयांश्च तान् ||४-६३-२ (३१०४१)
सारथिं च हयांश्चास्य विव्याध दशभिः शरैः |
उरस्यताडयत्पार्थं त्रिभिरेवायसैः शरैः ||४-६३-३ (३१०४२)
ततोऽर्जुनः शरैस्तीक्ष्णैर्विद्ध्वा कुरुपितामहम् |
ध्वजं च सारथिं चापि विव्याध दशभिः शरैः ||४-६३-४ (३१०४३)
तद्युद्धमभवद्धोरं रोमहर्षणमद्भुतम् |
भीष्मस्य सह पार्थेन बलिवासवयोरिव ||४-६३-५ (३१०४४)
सन्ततं शरजालाभिराकाशं समपद्यत |
अम्बुदैरिव धाराभिस्तयोः कार्मुकनिःसृतैः ||४-६३-६ (३१०४५)
भल्लैर्भल्लाः समाहत्य कुरुपाण्डवयो रणे |
अन्तरिक्षे व्यराजन्त खद्योताः प्रावृषीव हि ||४-६३-७ (३१०४६)
अग्निवक्रोपमं घोरं मण्डलीकृतमाहवे |
गाण्डीवमभवञ्जिष्णोः सव्यं दक्षिणमस्यतः ||४-६३-८ (३१०४७)
पर्वतं वारिधाराभिश्छादयन्निव तोयदः |
अर्जुनश्छादयद्भीष्मं शरवर्षैरनेकशः ||४-६३-९ (३१०४८)
तां समुद्रमिवोद्धूतां शरवृष्टिं समुद्यताम् |
व्यधमत्सायकैर्भीष्मः सोर्जुनं च न्यवारयत् ||४-६३-१० (३१०४९)
ततस्तानि विसृष्टानि शरजालानि सङ्घशः |
आहतानि व्यशीर्यन्तं अर्जुनस्य रथं प्रति ||४-६३-११ (३१०५०)
ततः कनकपुङ्खाग्रैः शितैः संनतपर्वभिः |
पतद्भिः खगवाजैश्च द्यौरासीत्संवृता शरैः ||४-६३-१२ (३१०५१)
ततः प्रासृजदुग्राणि शरजालानि पाण्डवः |
तावन्ति शरजालानि भीष्मः पार्थाय प्राहिणोत् ||४-६३-१३ (३१०५२)
साश्वं ससूतं सरथं स पार्थं समाचिनोद्भारतो वत्सदन्तैः |
प्रच्छादयामास दिशश्च सर्वा नभश्च बाणैस्तपनीयपुङ्खैः
||४-६३-१४ (३१०५३)
ततो देवर्षिगन्धर्वाः साधुसाध्वित्यपूजयन् |
दुष्करं कृतवान्भीष्मो यदर्जुनमवारयत् ||४-६३-१५ (३१०५४)
बलवानर्जुनो दक्षः क्षिप्रकारी च पाण्डवः |
कोऽन्यः समर्थः पार्थस्य वेगं धारयितुं रणे ||४-६३-१६ (३१०५५)
ऋते शान्तनवाद्भीष्मात्कृष्णाद्वा देवकीसुतात् |
आचार्यवरमुख्याद्वा भारद्वाजान्महाबलात् ||४-६३-१७ (३१०५६)
अस्त्रैरस्त्राणि संवार्य क्रीडतः पुरुषोत्तमौ |
चक्षूंषि सर्वभूतानां मोदयन्तौ महाबलौ ||४-६३-१८ (३१०५७)
प्राजापत्यं तथैवैन्द्रमाग्नेयं च सुदारुणम् |
कौबेरं वारुणं चैव याम्यं वायव्यमेव च |
प्रयुञ्जानौ महात्मानौ समरे तौ विरेजतुः ||४-६३-१९ (३१०५८)
विस्मितान्यथ भूतानि तौ दृष्ट्वा संयुगे तदा |
साधु पार्थ महाबाहो साधु भीष्मेति चाब्रुवन् ||४-६३-२० (३१०५९)
नैतदन्यो मनुष्येषु प्रदर्शयितुमाहवे |
महास्राणां संप्रयोगं समरे भीष्मपार्थयोः ||४-६३-२१ (३१०६०)
एवं सर्वास्त्रविदुषोरस्त्रयुद्धमवर्तत ||४-६३-२२ (३१०६१)
अथ जिष्णुरुदावृत्य शितधारेण कार्मुकम् |
न्यकृन्तद्गृध्रपत्रेण शातकुम्भपरिष्कृतम् ||४-६३-२३ (३१०६२)
निमेषान्तरमात्रेण भीष्मोऽन्यत्कार्मुकं रणे |
समादाय नरव्याघ्रः सज्यं चक्रे महाबलः ||४-६३-२४ (३१०६३)
शरांश्च सुबहुन्क्रुद्धो मुमोचाशु धनंजये |
अर्जुनोपि शरांस्तीक्ष्णान्भीष्माय निशितान्बहून् |
चिक्षेप च महातेजास्तथा भीष्मश्च पाण्डवे ||४-६३-२५ (३१०६४)
तयोर्दिव्यास्त्रविदुषोरस्यतोरनिशं शरान् |
न विशेषस्तदा राजन्दृश्यते सुमहात्मनोः ||४-६३-२६ (३१०६५)
अथावृणोद्दश दिशः शरैरतिरथस्तदा |
किरीटमाली कौन्तेयः शूरं शान्तनवं तथा ||४-६३-२७ (३१०६६)
अतीव पाण्डवो भीष्मं भीष्मश्चातीव पाण्डवम् |
बभूव तत्र सङ्घेऽस्मिन्लोके राजंस्तदद्भुतम् ||४-६३-२८ (३१०६७)
पाण्डवेन हताः शूरा भीष्मस्य रथरक्षिणः |
शेरते स्म महाबाहो कौन्तेयस्याभितो रथम् ||४-६३-२९ (३१०६८)
ततो गाण्डीवनिर्मुक्ता निरमित्रं चिकीर्षवः |
असक्ताः पुङ्खसंसक्ताः श्वेतवाहनपत्रिणः ||४-६३-३० (३१०६९)
निष्पतन्तो रथात्तस्य धौता हैरण्यवाससः |
आकाशे प्रत्यदृश्यन्त हंसानामिव पङ्क्तयः ||४-६३-३१ (३१०७०)
तस्य तद्दिव्यमस्त्रं हि प्रगाढं चित्रमस्यतः |
प्रेक्षन्ते स्मान्तरिक्षस्थाः सर्वे देवाः सवासवाः ||४-६३-३२ (३१०७१)
तं दृष्ट्वा परमप्रीतो गन्धर्वश्चित्रमद्भुतम् |
शशंस देवराजाय चित्रसेनः प्रतापवान् ||४-६३-३३ (३१०७२)
पश्येमानरिनिर्दारान्संसक्तानिव गच्छतः |
चित्ररूपमिदं जिष्णोर्दिव्यमस्त्रमुदीर्यतः ||४-६३-३४ (३१०७३)
नेदं मनुष्याः श्रद्दध्युर्न हीदं तेषु विद्यते |
सौराणां च महास्राणां विचित्रोऽयं समागमः ||४-६३-३५ (३१०७४)
मध्यन्दिनगतं सूर्यं प्रतपन्तमिवाम्बरे |
न शक्नुवन्ति सैन्यानि पाण्डवं प्रसमीक्षितुम् ||४-६३-३६ (३१०७५)
उभौ विश्रुतकर्माणावुभौ शूरौ महीक्षिताम् |
उभौ विचित्रकर्माणावुभौ युधि दुरासदौ ||४-६३-३७ (३१०७६)
इत्युक्तो देवराजस्तु पार्थभीष्मसमागमम् |
पूजयामास दिव्येन पुष्पवर्षेण भारत ||४-६३-३९अ[अश्वत्थामा
ततोऽभ्येत्य द्रुतं कर्णमभाषत |
अहमेको हनिष्यामि समेतान्सर्वपाण्डवान् ||४-६३-३८ (३१०७७)
इति कर्म समक्षं मे सभामध्ये त्वयोदितम् |
न तु तत्कृतमेकस्माद्भीतो धावसि सूतज ||४-६३-४० (३१०७८)
वैचित्रवीर्यजाः सर्वे त्वामाश्रित्य पृथासुतान् |
जेतुमिच्छन्ति संग्रामे भवान्युध्यस्व फल्गुनम् ||४-६३-४१ (३१०७९)
अश्वत्थामोदितं वाक्यं श्रुत्वा दुर्योधनस्तदा |
प्रत्युवाच रुषा द्रौणिं कर्णप्रियचिकीर्षया ||४-६३-४२ (३१०८०)
मा मानभङ्गं विप्रेन्द्र कुरु विश्रुतकर्मणः |
मानभङ्गेन राज्ञां तु बलहानिर्भविष्यति ||४-६३-४३ (३१०८१)
शूरा वदन्ति संग्रामे वाचा कर्माणि कुर्वते |
पराक्रमन्ति संग्रामे स्वस्य वीर्यानुसारतः ||४-६३-४४ (३१०८२)
तस्मात्तं नार्हति भवान्गर्हितुं शूरसंमतम् |
राज्ञैवमुक्तः स द्रौणिर्गतरोषोऽभवत्तदा ||] ४-६३-४५ (३१०८३)
ततो भीष्मः शान्तनवो बाणान्पार्श्वे समार्पयत् |
अस्यतः प्रतिसन्धाय विवृतं सव्यसाचिनः ४-६३-४६ (३१०८४)
ततः प्रसह्य बीभत्सुः पृथुधारेण कार्मुकम् |
न्यकृन्तद्गृध्रपत्रेण भीष्मस्यामिततेजसः ||४-६३-४७ (३१०८५)
अथैनं दशभिः पश्चात्प्रत्यविध्यत्स्तनान्तरे |
यतमानं पराक्रान्तं कुन्तीपुत्रो धनञ्जयः ||४-६३-४८ (३१०८६)
स पीडितो महाबाहुर्गृहीत्वा रथकूबरम् |
गोङ्गेयो युधि दुर्धर्षस्तस्थौ दीप इवातुरः ||४-६३-४९ (३१०८७)
तं विसंज्ञमपोवाह संयन्ता रथवाजिनाम् |
उपदेशमनुस्मृत्य रक्षमाणो महारथम् ||४-६३-५० (३१०८८)
पराक्रमे च शौर्ये च वीर्ये सत्त्वे बले रणे |
शस्त्रास्त्रेषु च सर्वेषु लाघवे दूरपातने ||४-६३-५१ (३१०८९)
यस्य नास्ति समो लोके पितृदत्तवरश्च यः |
जितश्रमो जितारातिर्निस्तन्द्रिः खेदवर्जितः |
यः स्वेच्छामरणः शूरः पितृशुश्रूषणे रतः ||४-६३-५२ (३१०९०)
दुर्योधनहितार्थाय युद्ध्वा पार्थेन संगरे |
पृथासुतहितार्थाय पराजित इवाभवत् ||||४-६३-५३ (३१०९१)
इति श्रीमन्महाभारते विराटपर्वणि गोग्रहणपर्वणि त्रिषष्टितमोऽध्यायः ||
विराटपर्व -अध्याय ०६४
||श्रीः ||
४. ६४. अध्यायः ६४
Mahabharata -Virata Parva -Chapter Topics
अर्जुनेन द्रोणादिपञ्चरथान्प्रत्यभियानम् ||१ ||
Mahabharata -Virata Parva -Chapter Text
४-६४-० (३१०९२)
वैशम्पायन उवाच. ४-६४-०क्ष् (३२४४)
भीष्मं विजित्य संग्रामे कुरूणां मिषतां रणे |
ततो युद्धमनाः प्रायात्पार्थः पञ्च महारथान् ||४-६४-१ (३१०९३)
आददानश्च नाराचान्विमृशन्निषुधी अपि |
संस्पृशानश्च गाण्डीवं भूयः कर्णं समभ्यगाम् ||४-६४-२ (३१०९४)
द्रौणिरुवाच. ४-६४-३क्ष् (३२४५)
कर्ण यत्तत्सभामध्ये बह्वबद्धं प्रभाषसे |
न मे युधि समोऽस्तीति तदिदं प्रत्युपस्थितम् ||४-६४-३ (३१०९५)
एषोऽन्तक इव क्रुद्धः सर्वभूतावमर्दनः |
अदूरात्प्रत्युपस्थाय जृम्भते केसरी यथा |
न पलायस्व शूरश्चेत्स्थित्वा युध्यस्व फल्गुनम् ||४-६४-४ (३१०९६)
कर्ण उवाच. ४-६४-५क्ष् (३२४६)
नाहं बिभेमि बीभत्सोः कृष्णाद्वा देवकीसुतात् |
पाण्डवेभ्योपि सर्वेभ्यः क्षत्रधर्ममनुव्रतः ||४-६४-५ (३१०९७)
सत्वाधिकानां शूराणां धनुर्वेदोपजीविनाम् |
दर्शनाञ्जायते दर्पः स्वरश्च न विषीदति ||४-६४-६ (३१०९८)
पश्यत्वाचार्यपुत्रो मामर्जुनेन समं युधि |
युध्यमानं सुसंयुक्तं दैवं तु दुरतिक्रमम् ||४-६४-७ (३१०९९)
अश्वत्थामोवाच. ४-६४-८क्ष् (३२४७)
को दोषः कर्ण शूराणां वाचा साकं हि पौरुषम् |
विद्यते यदि तल्लोके गुणोत्तरमिहोच्यते ||४-६४-८ (३११००)
युव्यस्व त्वमभीः पार्थं प्रपलायस्व मा रणात् |
उक्तं वचः स्मरन्कर्ण नाहमित्यादि संयुगे ||४-६४-९ (३११०१)
वैशम्पायन उवाच. ४-६४-१०क्ष् (३२४८)
तं समन्ताद्रथाः पञ्च परिवार्य धनञ्जयम् |
त इषून्सम्यगस्यन्तो मुमुक्षन्तोपि जीवितात् ||४-६४-१० (३११०२)
ते लाभमिव मन्वानाः क्षिप्रमार्च्छन्धनञ्जयम् |
शरौघान्सम्यगस्यन्तो जीमूता इव वार्षिकाः ||४-६४-११ (३११०३)
बहुभिर्निशितैर्बाणैर्विविधैर्लोमवापिभिः |
आद्रवन्प्रत्यवस्थाय प्रत्यविध्यन्धनञ्जयम् ||४-६४-१२ (३११०४)
ततः प्रहस्य बीभत्सुः सर्वशस्त्रभृतांवरः |
दिव्यमस्त्रं विकुर्वाणः प्रत्ययाद्रथसत्तमान् ||४-६४-१३ (३११०५)
यथा रश्मिभिरादित्यः प्रच्छादयति मेदिनीम् |
एवं गाण्डीवनिर्मुक्तैः शरैः प्राच्छादयद्दिशः ||४-६४-१४ (३११०६)
न रथानां न नगानां न ध्वजानां न वाजिनाम् |
अविद्धं निशितैर्बाणैरासीद्द्यूङ्गुलमन्तरम् ||४-६४-१५ (३११०७)
सर्वे शान्तिपरा योधाः स्वचित्तं नाभिजझिरे |
हस्तिनोऽश्वाश्च वित्रस्ता व्यवलीयन्त भारत ||४-६४-१६ (३११०८)
यथा नलवनं नागः प्रभिन्नः षाष्टिहायनः |
एवं सर्वानपामृद्गादर्जुनः शस्त्रतेजसा ||४-६४-१७ (३११०९)
गाण्डीवस्य तु घोषेण पृथिवी समकम्पत |
मनांसि धार्तराष्ट्राणामप्यकृन्तद्धनञ्जयः ||४-६४-१८ (३१११०)
ततो विगाह्य सैन्यानां मध्यं शस्त्रभृतांवरः |
सारथिं समरे शूरस्त्वभ्यभाषत वीर्यवान् ||४-६४-१९ (३११११)
संनियम्य हयानेतान्मन्दं वाहय सारथे |
आचार्यपुत्रं समरे योधयिष्येऽपराजितम् ||४-६४-२० (३१११२)
पुरा ह्येष मया युक्तः स मे भवति पृष्ठतः ||
एवमुक्तेऽर्जुनेनासावश्वत्थामरथं प्रति. ४-६४-२१ (३१११३)
विराटपुत्रो जवनान्भृशमश्वानचोदयत् ||४-६४-२२ (३१११४)
कर्ण उवाच |
एषोपयाति बीभत्सुर्व्यथितो गाढवेदनः. ४-६४-२३क्ष् (३२४९)
तं तु तत्रैव यास्यामि नासौ मुच्येत जीवितात् ||४-६४-२३ (३१११५)
द्रोण उवाच. ४-६४-२४क्ष् (३२५०)
नासौ भयेन निर्यातो महात्मा पाकशासनिः |
नैवं भीता निवर्तन्ते न पुनर्गाढवेदनाः ||४-६४-२४ (३१११६)
यद्येनमभिसंरब्धं पुनरेवाभियास्यसि |
बहून्यस्त्राणि जानीते न पुनर्मोक्ष्यते भवान् ||४-६४-२५ (३१११७)
दिष्ट्या दुर्योधनो मुक्तो दिष्ट्या गावः पलायिताः |
मुक्तो दिष्ट्या च संग्रामे किं रणेन करिष्यसि ||४-६४-२६ (३१११८)
क्रोशमात्रमपाक्रम्य बलमन्वानयामहे |
अन्वागतबलाः पार्थं पुनरेवाभियास्यथ ||||४-६४-२७ (३१११९)
इति श्रीमन्महाभारते विराटपर्वणि गोग्रहणपर्वणि
चतुःषष्टितमोऽध्यायः ||
विराटपर्व -अध्याय ०६५
||श्रीः ||
४. ६५. अध्यायः ६५
Mahabharata -Virata Parva -Chapter Topics
अर्जुनेनोत्तरंप्रति भीष्मादिसकाशे रथप्रापणप्रेरणापूर्वकं
तदाप्यायनाय स्वपराक्रमप्रकथनम् ||१ ||
तदा दुःशासनादिपराभवनपूर्वकं भीष्मादिभिः सहायोधनम् ||२ ||
Mahabharata -Virata Parva -Chapter Text
४-६५-० (३११२०)
वैशम्पायन उवाच. ४-६५-०क्ष् (३२५१)
कर्णं पराजितं दृष्ट्वा पार्थो वैराटिमब्रवीत् |
एतं मां प्रापयेदानीं रथवृन्दं प्रहारिणाम् ||४-६५-१ (३११२१)
यत्र शान्तनवो भीष्मः सर्वेषां नः पितामहः |
सुयुद्धं काङ्क्षमाणो वै रथे तिष्ठति दंशितः ||४-६५-२ (३११२२)
तालो वै काञ्चनो यत्र वज्रवैडूर्यभूषितः |
अतीव समरे भाति मातरिश्वप्रकम्पितः ||४-६५-३ (३११२३)
दारुणं प्रहरिष्यामि रथबृन्दानि धन्विनाम् |
आदास्याम्यहमेतेषां धनुर्ज्यावेष्टनानि च ||४-६५-४ (३११२४)
अस्यन्तं दिव्यमस्त्राणि चित्रमुत्तर पश्यसि ||४-६५-५ (३११२५)
शतह्रदां जृम्भमाणां मेघस्थां प्रावृषीव च |
सुवर्णपृष्ठं गाण्डीवं पश्यन्तु कुरवो मम ||४-६५-६ (३११२६)
दक्षिणेनाथ वामेन कतमेन स्विदस्यति |
इति मां शत्रवः सर्वे न विज्ञास्यन्ति सारथे ||४-६५-७ (३११२७)
अस्त्रोदकां हयावर्तां नागनक्रां रथह्रदाम् |
नदीं प्रस्कन्दयिष्यामि परलोकापहारिणीम् ||४-६५-८ (३११२८)
पाणिपादशिरःपृष्ठबाहुशङ्खचराचरम् |
वनं कुरूणां छेत्स्यामि भल्लैः सन्नतपर्वभिः ||४-६५-९ (३११२९)
तूणीशयाः सुपुङ्खाग्रा विशिखा दुन्दुभिस्वनाः |
मया प्रमुक्ताः संग्रामे कुरून्धक्ष्यन्ति सायकाः ||४-६५-१० (३११३०)
ध्वजवृक्षं शरतृणं नागाश्वश्वापदाकुलम् |
रथसिंहगणैर्युक्तं धनुर्वल्लिसमाकुलम् |
वनमादीपयिष्यामि कुरूणामस्त्रतेजसा ||४-६५-११ (३११३१)
जयतो भारतीं सेनामेकस्य मम संयुगे |
शतं मार्गा भविष्यन्ति पावकस्येव कानने ||४-६५-१२ (३११३२)
मया चक्रमिवाविद्धं सैन्यं द्रक्ष्यसि केवलम् |
तानहं रथनीडेभ्यः परलोकाय शात्रवान् |
एकः प्रद्रावयिष्यामि चक्रपाणिरिवासुरान् ||४-६५-१३ (३११३३)
असंभ्रान्तो रथे तिष्ठन्समेषु विषमेषु च |
मार्गमावृत्य तिष्ठन्तमपि भेत्स्यामि पर्वतम् ||४-६५-१४ (३११३४)
अहमिन्द्रस्य संग्रामे द्विषतो बलदर्पितान् |
मातलिं सारथिं कृत्वा निवातकवचान्रणे |
हतवान्सर्वतः सर्वान्धावतो युध्यतस्तदा ||४-६५-१५ (३११३५)
निवातकवचान्हत्वा गाण्डीवास्त्रैः सहस्रशः |
परं पारे समुद्रस्य हिरण्यपुरमारुजम् ||४-६५-१६ (३११३६)
हत्वा षष्टिसहस्राणि रथानामुग्रधन्विनाम् |
पौलोमान्कालकेयांश्च समरे भृशदारुणान् |
असुरानहनं घोरान्रौद्रेणास्त्रेण सारथे ||४-६५-१७ (३११३७)
अहमिन्द्राद्दृढां मुष्टिं ब्रह्मणः क्षिप्रहस्तताम् |
प्रगाढनिपुणं चित्रमतिवृद्धं प्रजापतेः ||४-६५-१८ (३११३८)
रौद्रं रुद्रादहं वेद्मि वारुणं वरुणादपि |
सौर्यं सूर्यादहं वेद्मि याम्यं दण्डधरादपि ||४-६५-१९ (३११३९)
अस्त्रमाग्नेयमग्नेश्च वायव्यं मातरिश्वनः |
अन्यैर्देवैरहं प्राप्तः को मां विषहते पुमान् ||४-६५-२० (३११४०)
अद्य गाण्डीवनिर्मुक्तैःशरौघै रोमहर्षणैः |
कुरूणां पातयिष्यामि रथवृन्दानि धन्विनाम् ||४-६५-२१ (३११४१)
वैशम्पायन उवाच. ४-६५-२२क्ष् (३२५२)
एवमाश्वासितस्तेन वैराटिः सव्यसाचिना |
व्यगाहत रथानीकं भीमं भीष्मस्य वाजिभिः ||४-६५-२२ (३११४२)
रथिसिंहमनाधृष्यं जिगीषन्तं परान्रणे |
अभ्यधावत्तदैवोग्रो ज्यां विकर्षन्धनञ्जयः ||४-६५-२३ (३११४३)
दुःशासनोऽभ्ययात्तूर्णमर्जुनं भरतर्षभः ||४-६५-२४ (३११४४)
अन्येऽपि चित्राभरणा युवानो मृष्टकुण्डलाः |
अभ्ययुर्भीमधन्वानो मौवी पर्यस्य बाहुभिः ||४-६५-२५ (३११४५)
दुःशासनो विकर्णश्च वृषसेनो विविशतिः |
अभीता भीमधन्वानं पाण्डवं पर्यवारयन् ||४-६५-२६ (३११४६)
तस्य दुःशासनः षष्टिं वामपार्श्वे समार्पयत् |
अस्यतः प्रतिसन्धाय कुन्तीपुत्रस्य धीमतः ||४-६५-२७ (३११४७)
पुनश्चैव स भल्लेन विद्ध्वा वैराटिमुत्तरम् |
द्वितीयेनार्जुनं वीरं प्रत्यविध्यत्स्तनान्तरे ||४-६५-२८ (३११४८)
तस्य जिष्णुरुदावृत्य क्षुरधारेण कार्मुकम् |
प्राकृन्तद्गृध्रपत्रेण जातरूपपरिष्कृतम् ||४-६५-२९ (३११४९)
अथैनं पञ्चभिर्बाणैः प्रत्यविध्यत्स्तनान्तरे |
सोपयातो रथोपस्थात्पार्थबाणाभिपीडितः ||४-६५-३० (३११५०)
सर्वा दिशश्चाभ्यपतद्बीभत्सुरपाराजितः |
तं विकर्णः शरैस्तीक्ष्णैर्गृध्रपक्षैः शिलाशितैः |
विव्याध परवीरध्नमर्जुनं धृतराष्ट्रजः ||४-६५-३१ (३११५१)
ततस्तमपि कौन्तेयः शरेण नतपर्वणा |
ललाटेऽभ्यहनद्गाढं स विद्धः प्राद्रवद्भयात् ||४-६५-३२ (३११५२)
ततः पार्थमुपाद्रुत्य दुस्सहः सविविंशतिः |
अवाकिरच्छरैस्तीक्ष्णैः परीप्सन्भ्रातरं रणे ||४-६५-३३ (३११५३)
तावुभौ गृध्रपत्राभ्यां निशिताभ्यां धनञ्जयः |
विव्याध युगपद्व्यग्रस्तयोर्वाहानसूदयत् ||४-६५-३४ (३११५४)
तौ हताश्वौ तु विद्धाङ्गौ धृतराष्ट्रात्मजावुभौ |
अभिपत्य रथैरन्यैरपनीतौ पदानुगैः ||४-६५-३५ (३११५५)
व्यद्रावयदशेषांश्च धृतराष्ट्रसुतांस्तदा |
विद्राव्य च रणे पार्थो रणभूमिं व्यराजयत् ||४-६५-३६ (३११५६)
किरीटमाली कौन्तेयो लब्धलक्षः प्रतापवान् |
पातयन्नुत्तमाङ्गानि बाहूश्च परिघोपमान् ||४-६५-३७ (३११५७)
अशेरत महावीराः शतशो रुक्ममालिनः ||४-६५-३८ (३११५८)
कमलदिनकरेन्दुसन्निभैः सितदशनैः सुमुखाक्षिनासिकैः |
रुचिरमकरकुण्डलैर्मही पुरुषशिरोभिरथास्तृता बभौ ||४-६५-३९
(३११५९)
सुनसं चारुदीप्ताश्चं क्लृप्तश्मश्रु स्वलंकृतम् |
अदृश्यत शिरश्छिन्नमनेकं हेमकुण्डलम् ||४-६५-४० (३११६०)
एवं तत्प्रहतं सैन्यं समन्तात्प्रद्रुतं भयात् ||४-६५-४१ (३११६१)
अथ दुर्योधनः कर्णः सौबलः शकुनिस्तदा |
द्रोणश्च द्रोणपुत्रश्च कृपश्चातिरथो रणे ||४-६५-४२ (३११६२)
सहिता विजयं तत्र योधयन्तो महारथाः |
विष्फारयन्तश्चापानि बलवन्ति महाबलाः ||४-६५-४३ (३११६३)
ततः कीर्णपताकेन रथेनादित्यवर्चसा |
पुनरावृत्य मार्गस्थं ददृशुर्वानरध्वजम् ||४-६५-४४ (३११६४)
ते महास्त्रैर्महेष्वासाः परिवार्य धनञ्जयम् |
अभ्यवर्षन्सुसंक्रुद्धा महामेघा इवाचलम् ||४-६५-४५ (३११६५)
शरौघान्सम्यगस्यन्तो जीमूता इव शारदाः |
युद्धे तस्थुर्महावीर्याः प्रतपन्तः किरीटिनम् ||४-६५-४६ (३११६६)
इषुभिर्बहुभिस्तूर्णं निशितैर्लोमवापिभिः |
अदूरात्प्रत्यवस्थाय पाण्डवं समयोधयन् ||४-६५-४७ (३११६७)
ततः प्रहस्य बीभत्सुस्तमैन्द्रं पञ्चवार्षिकम् |
अस्त्रमादित्यसंकाशं गाण्डीवे समयोजयत् ||४-६५-४८ (३११६८)
नाक्षणां न च चक्राणां न रथानां न वाजिनाम् |
अङ्गुलाद्दव्यङ्गुलाद्वापि विवृतं प्रत्यदृश्यत ||४-६५-४९ (३११६९)
यथा रश्मिभिरादित्यो वृणुते सर्वतो दिशम् |
एवं किरीटिना मुक्तं सर्वं प्राच्छादयञ्जगत् ||४-६५-५० (३११७०)
यथा बलाहके विद्युत्पावको वा शिलोच्चये |
तथा गाण्डीवमभवच्चक्राभुधमिवाततम् ||४-६५-५१ (३११७१)
यथा वर्षति पर्जन्यो विद्युत्पतति पर्वते |
विस्फूर्जिता दिशः सर्वा ज्वलद्गाण्डीवमावृणोत् ||४-६५-५२ (३११७२)
त्रस्ताश्च रथिनःक सर्वे चैन्द्रमस्त्रं विकुर्वति |
सर्वे शान्तिपरा योधाः स्वचित्तं नाभिजझिरे |
सहिता द्रोणभीष्माभ्यां प्रमोहगतचेतनाः ||४-६५-५३ (३११७३)
तानि सर्वाणि सैन्यानि भग्नानि भरतर्षभ |
प्राद्रवन्त दिशः सर्वा भयाद्वै सव्यसाचिनः ||||४-६५-५४ (३११७४)
इति श्रीमन्महाभारते विराटपर्वणि गोग्रहणपर्वणि
पञ्चषष्टितमोऽध्यायः ||
विराटपर्व -अध्याय ०६६
||श्रीः ||
४. ६६. अध्यायः ६६
Mahabharata -Virata Parva -Chapter Topics
अर्जुनेन भीतमुत्तरंप्रति समाश्वासनपूर्वकं दुर्योधनंप्रति
रथयापनचोदना ||१. . तथा स्वबाणाभिघातासहनेन पलायमानं
तंप्रति सोपहासमाह्वानम् ||२ ||
Mahabharata -Virata Parva -Chapter Text
४-६६-० (३११७५)
अर्जुन उवाच. ४-६६-०क्ष् (३२५३)
दक्षिणामेव तु दिशं हयानुत्तर वाहय |
पुरा सार्थी भवत्येषामयं शब्दोऽत्र तिष्ठताम् ||४-६६-१ (३११७६)
अश्चत्थाम्नः प्रतिरथं प्राचीमुद्याहि सारथे |
अचिराद्द्रष्टुमिच्छामि गुरुपुत्रं यशस्विनम् ||४-६६-२ (३११७७)
वैशम्पायन उवाच. ४-६६-३क्ष् (३२५४)
मोहयित्वा तु तान्सर्वान्धनुर्घोषेण पाण्डवः |
प्रसव्यं चैवमावृत्य क्रोशार्धं प्राद्रवत्तदा ||४-६६-३ (३११७८)
यथा सततगो वायुः सुपर्णश्चापि शीघ्रगः |
तथा पार्थरथः शीघ्रमाकाशे पर्यवर्तत ||४-६६-४ (३११७९)
मुहूर्तोपरते शब्दे प्रतियाते धनञ्जये |
हस्त्यश्वरथपादातं पुरस्कृत्य महारथाः ||४-६६-५ (३११८०)
द्रोणभीष्ममुखाः सर्वे सैन्यानां जघने ययुः |
यत्ताः पार्थमपश्यन्तः सहिताः शरविक्षताः ||४-६६-६ (३११८१)
सैनिका ऊचुः | ४-६६-७क्ष् (३२५५)
दिष्ट्या दुर्योधनो मुक्तः सैन्यं भूयिष्ठमागतम् |
क्रोशमात्रमतिक्रम्य बलमन्वानयामहे |
यात यत्र वनं गुल्मं नदीमन्वश्मकां प्रति ||४-६६-७ (३११८२)
वैशम्पायन उवाच. ४-६६-८क्ष् (३२५६)
अथ दुर्योधनो दृष्ट्वा भग्नं स्वं बलमाहवे |
अमृष्यमाणः क्रोधेन प्रतिमार्गन्धनञ्जयम् ||४-६६-८ (३११८३)
न्यवर्तत कुरुश्रेष्ठ स्वेनानीकेन संवृतः |
वार्यमाणो दुराधर्षैर्भीष्मद्रोणकृपैर्भृशम् ||४-६६-९ (३११८४)
ततोऽर्जुनश्चित्रमुदारवेगं समीक्ष्य गाण्डीवमुवाच वाक्यम् |
भोगीन्द्रकल्पं भुवनेषु रूढमभेद्यमच्छेद्यमदाह्यमाजौ
||४-६६-१० (३११८५)
इदं त्विदानीमनयं कुरूणां शिवं धनुः शत्रुनिबर्हणं च |
अत्याशुगं वेगवदाशुकर्तृ अवारणीयं महते रणाय ||४-६६-११ (३११८६)
प्रदारणं शत्रुवरूथिनीनामनीकजित्संयति वज्रकल्पम् |
वैधव्यदं शत्रुनितम्बिनीनां मुखप्रदं कौरववंशजानाम्
||४-६६-१२ (३११८७)
प्रयाहि यत्रैष सुयोधनो हि तं पातयिष्यामि शरैः सुतीक्ष्णैः |
आचार्यपुत्रं च सुयोधनं च पितामहं सूतसुतं च सङ्ख्ये |
द्रोणं कृपं चैव निवार्य सर्वाञ्शिरो हरिष्यामि सुयोधनस्य ||
४-६६-१३ (३११८८)
वैशम्पायन उवाच. ४-६६-१४क्ष् (३२५७)
तदुत्तरश्चित्रमुदारवेगं धनुश्च दृष्ट्वा निशिताञ्शरांश्च |
भीतोऽब्रवीदर्जुनमाजिमध्ये नाहं तवाश्वान्विषहे नियन्तुम् ||४-६६-१४
(३११८९)
तमब्रवीन्मात्स्यसुतं प्रहस्य गाण्डीवधन्वा द्विषतां निहन्ता |
मया सहायेन कुतो भयं ते प्रेह्युत्तराश्वानुपमन्त्रयस्व ||४-६६-१५ (३११९०)
आश्वासितस्तेन धनञ्जयेन वैराटिरश्वानतुदञ्जवेन |
विष्फारयंस्तद्धनुरुग्रवेगं युयुत्समानः पुनरेव जिष्णुः ||४-६६-१६
(३११९१)
गाण्डीवशब्देन तु तत्रतत्र भूमौ निषेदुर्बहवोऽतिवेलम् |
शङ्खस्य शब्देन तु वानरस्य शब्देन ते योधवराः समन्तात्
||४-६६-१७ (३११९२)
अर्जुन उवाच. ४-६६-१८क्ष् (३२५८)
एषोऽतिमानी धृतराष्ट्रपुत्रः सेनामुखे सर्वसमृद्धतेजाः |
पराजयं नित्यममृष्यमाणो निवर्तते युद्धमनाः पुरस्तात् ||४-६६-१८
(३११९३)
तमेव याहि प्रसमीक्ष्य युक्तः सुयोधनं तत्र सहानुजं च ||
४-६६-१९ (३११९४)
वैशम्पायन उवाच. ४-६६-२०क्ष् (३२५९)
तमापतन्तं प्रसमीक्ष्य सर्वे कुरुप्रवीराः सहसाऽभ्यगच्छन् |
प्रहस्य वीरः स तु तानतीत्य दुर्योधने द्वौ निचखान बाणौ
||४-६६-२० (३११९५)
तेनार्दितो नाग इव प्रभिन्नः पार्थेन विद्धो धृतराष्ट्रपुत्रः |
युयुत्समानोऽतिरथेन सङ्ख्ये स्वयं विगृह्यार्जुनमाससाद ||४-६६-२१
(३११९६)
स भीमधन्वानमुदग्रवेगो धनञ्जयं शत्रुशतैरजेयम् |
आकर्णपूर्णायतचोदितेन भल्लेन विव्याध ललाटमध्ये ||४-६६-२२ (३११९७)
स तेन बाणेन समर्पितेन जाम्बूनदाभेन सुसंहितेन |
रराज पार्थो रुधिरं क्षरन्वै यथैकरश्मिर्भगवान्दिवार्कः
||४-६६-२३ (३११९८)
अथास्य बाणेन विदारितस्य प्रादुर्वभूवास्रमजस्रमुष्णम् |
सा तस्य जाम्बूनदपुष्पचित्रा मालेव धाराऽभिविराजते स्म ||४-६६-२४
(३११९९)
स तेन बाणाभिहतस्तरस्वी दुयोधनेनोद्धतमन्युवेगः |
शरानुपादाय विषाग्निकल्पान्विव्याध राजानमदीनसत्वः ||४-६६-२५ (३१२००)
दुर्योधनश्चापि तमुग्रतेजाः पार्थश्च दुर्योधनमेकवीरः |
अन्योन्यमाजौ पुरुषप्रवीरौ सम समाजघ्नतुराजमीढौ ||४-६६-२६ (३१२०१)
ततः प्रभिन्नेन महागजेन महीधराभेन पुनर्विकर्णः |
रथैश्चतुर्भिर्गजपादरक्षैः कुन्तीसुतं पाण्डवमभ्यधावत्
||४-६६-२७ (३१२०२)
तमापतन्तं त्वरितं गजेन्द्रं धनञ्जयः कुम्भललाटमध्ये |
आकर्णपूर्णेन दृढायसेन बाणेन विव्याध भृशं तु वीरः
||४-६६-२८ (३१२०३)
पार्थेन सृष्टः स तु गृध्रपत्रो ह्यापुङ्खदेशं प्रविवेश नागम् |
विदार्य शैलप्रवरप्रकाशं यथाऽशनिः पर्वतमिन्द्रसृष्टः
||४-६६-२९ (३१२०४)
शरप्रतप्तः स तु नागराजः प्रवेपिताङ्गो व्यथितान्तरात्मा |
संसीदमानो निपपात भूमौ वज्राहतं शृङ्गमिवाचलस्य ||४-६६-३०
(३१२०५)
निपातिते दन्तिवरे पृथिव्यां त्रासाद्विकर्णः सहसाऽवतीर्य |
तूर्णं पदान्यष्टशतानि गत्वा विविंशतेः स्यन्दनमारुरोह ||४-६६-३१
(३१२०६)
निहत्य नागं तु शरेण तेन वज्रोपमेनाद्रिवरप्रकाशम् |
तथाविधेनैव शरेण पार्थो दुर्योधनं वक्षसि निर्बिभेद
||४-६६-३२ (३१२०७)
हते गजे राजनि चैव भिन्ने भग्ने विकर्णे च सपादरक्षे |
गाण्डीवमुक्तैर्विशिखैः प्रभिन्नास्ते योधमुख्याः सहसा प्रजग्मुः
||४-६६-३३ (३१२०८)
दृष्ट्वैव बाणेन हतं च नागं योधांश्च सर्वान्नृपतिर्निरीक्ष्य |
रथं समावृत्य कुरग्नवीरो रणात्प्रदुद्राव यतो न पार्थः
||४-६६-३४ (३१२०९)
तं भीतरूपं त्वरितं व्रजन्तं दुर्योधनं शत्रुगणावमर्दी |
अन्वाह्वयद्योद्धुमनाः किरीटी बाणाभिविद्धं रुधिरं वमन्तम् ||४-६६-३५
(३१२१०)
तस्मिन्महेष्वासवरेऽतिविद्धे धनञ्जयेनाप्रतिमेन युद्धे |
सर्वाणि सैन्यानि भयार्दितानि त्रासं ययुः पार्थमुदीक्ष्य तानि
||४-६६-३६ (३१२११)
ततस्तु ते शान्तिपराश्च सर्वे दृष्ट्वाऽर्जुनं नागमिव प्रभिन्नम् |
उच्चैर्नदन्तं बलमत्तमाजौ मध्ये स्थितं सिंहमिवर्षभाणाम्
||४-६६-३७ (३१२१२)
गाण्डीवशब्देन तु पाण्डवस्य योधा निपेतुः सहसा रथेभ्यः |
भयार्दिताः पार्थशराभितप्ताः सिंहाभिपन्ना इव वारणेन्द्राः
||४-६६-३८ (३१२१३)
संरक्तनेत्रः पुनरिन्द्रकर्मा वैकर्तनं द्वादशभिः पृषत्कैः |
वित्रास्य तेषां द्रवतां समैक्षद्दुःशासनं चैकरथेन पार्थः
||४-६६-३९ (३१२१४)
कर्णोऽब्रवीत्पार्थशराभितप्तो दुर्योधनं दुष्प्रसहं च दृष्ट्वा |
दृष्टोऽर्जुनोऽयं प्रतियाम शीघ्रं श्रेयो विधास्याम इतो गतेन
||४-६६-४० (३१२१५)
मन्ये त्वया तात कृतं च कार्यं यदर्जुनोऽस्माभिरिहाद्य दृष्टः |
भूयो वनं गच्छतु सव्यसाची पश्यामि पूर्णं समयं न तेषाम्
||४-६६-४१ (३१२१६)
वैशम्पायन उवाच. ४-६६-४२क्ष् (३२६०)
शरार्दितास्ते युधि पाण्डवेन प्रससुरन्योन्यमथाह्वयन्तः |
कर्णोऽब्रवीदापतत्येष जिष्णुर्दुर्योधनं संपरिवार्य यामः
||४-६६-४२ (३१२१७)
सर्वास्त्रविद्वारणयूथपाभः काले प्रहर्ता युधि शात्रवाणाम् |
अयं च पार्थः पुनरागतो नो मूलं च रक्ष्यं भरतर्षभाणाम्
||४-६६-४३ (३१२१८)
समीक्ष्य पार्थं तरसाऽऽपतन्तं दुर्योधनः कालमिवात्तशस्त्रम् |
भयार्तरूपः शरणं प्रपेदे द्रोणं च कर्णं च कृपं च भीष्मम्
||४-६६-४४ (३१२१९)
तं भीतरूपं शरणं व्रजन्तं दुर्योधनं शत्रुसहो निषङ्गी |
इत्यब्रवीत्प्रीतमनाः किरीटी बाणाभितप्तं रुधिरं वमन्तम् ||४-६६-४५ (३१२२०)
विहाय कीर्तिं च यशश्च लोके युद्धात्परावृत्य पलायसे किम् |
न नन्दयिष्यन्ति तवाहतानि तूर्याणि युद्धादवरोपितस्य ||४-६६-४६ (३१२२१)
न भोक्ष्यसे सोऽद्य महीं समग्रां यानानि वस्त्राण्यथ भोजनानि |
कल्याणगन्धीनि च चन्दनानि युद्धात्परावृत्य तु भोक्ष्यसे किम् |
सुवर्णमाल्यानि च कुण्डलानि हारांश्च वैडूर्यकृतोपधानान् ||
४-६६-४७ (३१२२२)
च्युतरा युद्धान्न तु शङ्खशब्दास्तथा भविष्यन्ति तवाद्य पाप |
न भोगहेतोर्वरचन्दनं च स्त्रियश्च मुख्या मधुरप्रलापाः |
युद्धात्प्रयातस्य नरेन्द्रसूनो परे च लोके फलिता न चेह ||
४-६६-४८ (३१२२३)
युधिष्ठिरस्यास्मि निदेशकारी पार्थस्तृतीयो युधि च स्थिरोस्मि |
तदर्थमावृत्य मुखं प्रयच्छनरेन्द्रवृत्तं स्मर धार्तराष्ट्रः
||४-६६-४९ (३१२२४)
मोघं तवैतद्भुवि नामधेयं दुर्योधनेतीह कृतं पुरस्तात् |
दुर्योधनस्त्वं प्रथितोसि नाम्ना सुयोधनः सन्निकृतिप्रधानः |
४-६६-५० (३१२२५)
न ते पुरस्तादथ पृष्ठतो वा पश्यामि दुर्योधन रक्षितारम् |
परीप्स युद्धेन कुरुप्रवीर प्राणान्मया बाणबलाभितप्तान् ||||४-६६-५१
(३१२२६)
इति श्रीमन्महाभारते विराटपर्वणि गोग्रहणपर्वणि
षट्षष्टितमोऽध्यायः ||
Mahabharata -Virata Parva -Chapter Footnotes
४-६६-५० सुयोधनस्त्वं निकृतिप्रधान इति खो पाठः ||
५० ||
विराटपर्व -अध्याय ०६७
||श्रीः ||
४. ६७. अध्यायः ६७
Mahabharata -Virata Parva -Chapter Topics
सोपहासमर्जुनसमाहूतेन दुर्योधनेन पुनः परावृत्याभियानम् ||१ ||
भीष्मादिभिस्तद्रक्षणाय परितोऽवस्थानम् ||२ ||
अर्जुनेन तैः सह चिरं प्रयुध्य पश्चात्संमोहनास्त्रप्रयोगः ||३ ||
उत्तरेणार्जुनचोदनयाऽस्त्रमोहितानां द्रोणादीनां वस्त्रापहरणम् ||४ ||
अर्जुनेन बाणैर्भीष्माद्यभिवादनम् ||५ ||
Mahabharata -Virata Parva -Chapter Text
वैशम्पायन उवाच |
आहूयमानस्तु स तेन सङ्ख्ये महात्मना वै धृ
निवर्तितश्चापि गिराङ्कुशेन गजो मदोन्मत्त इवाङ्कुशेन ||४-६७-१ (३१२२७)
सोमृष्यमाणो वचसाऽभिमृष्टो महारथेनातिरथस्तरस्वी |
ततः स पर्याववृते रथेन भोगी यथा पादतलाभिमृष्टः
||४-६७-२ (३१२२८)
ततो दुर्योधनः क्रुद्धो विक्षिपन्धनुरुत्तमम् |
धृतिं कृत्वा सुविपुलां प्रत्युवाच पनञ्जयम् ||४-६७-३ (३१२२९)
सोहमिन्द्रादभिक्रुद्धान्न बिभेमीह भारत |
भुक्त्वा सुविपुलं राज्यं वित्तानि च सुखानि च |
किमर्थं युद्धसमये पलापिष्ये नरोत्तम ||४-६७-४ (३१२३०)
एवमुक्त्वा महाराजः प्रत्ययुध्यत भारत |
संन्यवर्तत शीघ्राश्वस्तोत्रार्दित इव द्विपः ||४-६७-५ (३१२३१)
आक्रान्तभोगस्तेजस्वी धनुर्वक्र इवोरगः |
रथं रथेन संगम्य योधयामास पाण्डवम् ||४-६७-६ (३१२३२)
तं प्रेक्ष्य कर्णः परिवर्तमानं निवृत्य संस्तम्भितसर्वगात्रम् |
दुर्योधनं दक्षिणतोऽन्वरक्षत्पार्थान्महाबाहुरधिज्यधन्वा
||४-६७-७ (३१२३३)
गान्धारराजः शकुनिर्निवृत्य द्रौणिश्च सर्वास्त्रविदां वरिष्ठः |
ररक्षतुः कौरवमभ्युपेत्य पार्थान्नृवीरौ युधि सव्यतश्च
||४-६७-८ (३१२३४)
भीष्मस्ततः शान्तनवो विवृत्य हिरण्यकक्ष्यांस्त्वरया तुरंगान् |
दुर्योधनं पश्चिमतो ररक्ष पार्थान्महाबाहुरधिज्यधन्वा ||४-६७-९
(३१२३५)
द्रोणः कृपश्चैव विविंशतिश्च दुःशासनश्चैव निवृत्य शीघ्रम् |
सर्वे पुरस्तात्प्रणिधाय बाणान्दुर्योधनार्थं त्वरिताऽभ्युपेयुः
||४-६७-१० (३१२३६)
सर्वाण्यनीकानि निवर्तितानि संप्रेक्ष्य पूर्णौघनिभानि पार्थः |
हंसो महामेघमिवापतन्तं धनञ्जयः प्रत्यपतत्तरस्वी ||४-६७-११ (३१२३७)
ते सर्वतः संपरिवार्य पार्थमस्त्राणि दिव्यानि समाददानाः |
ववर्षुरभ्येत्य शरैः समग्रैर्मेघा यथा भूधरमम्बुवेगैः
||४-६७-१२ (३१२३८)
ततोऽस्रमस्त्रेण निवार्य तेषां गाण्डीवधन्वा कुरुपुङ्गवानाम् |
संमोहनं शत्रुसहोऽन्यदस्त्रं प्रादुश्चकारैन्द्रमवारणीयम्
||४-६७-१३ (३१२३९)
ततो दिशश्चानुदिशो निवार्य शरैः सुघोरैर्निशितैः सुपुङ्खैः |
गाण्डीवशब्देन मनांसि तेषां महाबलं प्रवथयांचकार ||४-६७-१४ (३१२४०)
ततः पुनर्भीमरवं निगृह्य दोर्भ्यां महाशङ्खमुदारघोषम् |
व्यनादयन्संप्रदिशो दिशः खं भुवं च पार्थो द्विषतां निहन्ता
||४-६७-१५ (३१२४१)
संमोहनास्त्रप्रभवैः शरौघैर्विनष्टदेहाश्च निपत्य योधाः |
निःसत्ववेगाः कुरुराजसैन्याः कुडयोपमास्तस्थुरनीहमानाः ||४-६७-१६ (३१२४२)
ते शङ्खनादेन कुरुप्रवीराः संमोहिताः पार्थसमीरितेन |
उत्सृज्य चापानि दुरासदानि सर्वे तदा मोहपरा बभूवुः ||४-६७-१७ (३१२४३)
ततो विसंज्ञानि परेषु पार्थः संस्मृत्य संदेशमथोत्तरायाः |
निर्याहि वाहादिति मात्स्यपुत्रमुवाच यावत्कुरवो विसंज्ञाः ||४-६७-१८ (३१२४४)
आचार्यशारद्वतयोः सुशुक्ले कर्णस्य पीतं रुचिरं च वस्त्रम् |
द्रौणेश्च राज्ञश्च तथैव नीले वस्त्रे समादत्स्व नरप्रवीर
||४-६७-१९ (३१२४५)
भीष्मस्य संज्ञां तु तथैव मन्ये जानाति मेऽस्त्रप्रतिघातमेषः |
एतस्य वाहान्कुरु सव्यतस्त्वमेवं प्रयातव्यममूढसंज्ञैः ||४-६७-२०
(३१२४६)
रश्मीन्समुत्सृज्य ततो महात्मा रथादवप्लुत्य विराटपुत्रः |
वस्त्राण्युपादाय महारथानां नानाविधान्यद्भुतवर्णकानि ||४-६७-२१ (३१२४७)
महान्ति चीनांशुदुकूलकानि पट्टांशुकानि विविधानि मनोज्ञकानि |
हारांश्च राज्ञां मणिभूषणानि सुवर्णनिष्काभरणानि मारिष
||४-६७-२२ (३१२४८)
माणिक्यबाह्वङ्गदकङ्कणानि अन्यानि राज्ञां मणिभूषणानि |
वस्त्राण्युपादाय महारथानां तूर्णं पुनः खं रथमारुरोह ||४-६७-२३
(३१२४९)
राज्ञश्च सर्वान्कृतसंनिकाशान्संमोहनास्त्रेण विसंज्ञकल्पान् |
नासाग्रविन्यस्तकराङ्गुलीकः पार्थो जहास स्मयमानचेताः ||४-६७-२४ (३१२५०)
ततोऽन्वशात्तांश्चतुरः सदश्वान्पुत्रो विराटस्य हिरण्यकक्ष्यान् |
ते तद्व्यतीयुर्द्विषतामनीकं श्वेता वहन्तोऽर्जुनमाजिमध्यात्
||४-६७-२५ (३१२५१)
तथा प्रयान्तं पुरुषप्रवीरं भीष्मः शरैरभ्यहनत्तरस्वी |
स चापि भीष्मस्य हयान्निहत्य विव्याध भीष्मं दशभिः पृषत्कैः
||४-६७-२६ (३१२५२)
ततोऽर्जुनो भीष्ममपास्य युद्धे विद्ध्वाऽस्य यन्तारमरिष्टधन्वा |
तस्थौ विमुक्तो रथवृन्दमध्याद्राहुं विदार्येव सहस्ररश्मिः
||४-६७-२७ (३१२५३)
लब्ध्वा तु संज्ञां पुरुषप्रवीरः पार्थं निरीक्ष्याथ महेन्द्रकल्पम् |
रणात्प्रमुक्तं पुरुषप्रवीरं स धार्तराष्ट्रस्त्वरितो बभाषे
||४-६७-२८ (३१२५४)
अयं कथंचिद्भवतो विमुक्तस्तं वै प्रबध्नीत यथा न मुच्येत् |
तमब्रवीच्छान्तनवः प्रहस्य क्व ते गता बुद्धिरभूत्क्क वीर्यम्
||४-६७-२९ (३१२५५)
शान्तिं परां प्राप्य यथा स्थितस्त्वमुत्सृज्य बाणांश्च धनुश्च चित्रम् |
न त्वेव बीभत्सुरलं नृशंसं कर्तुं न पापेऽस्य मनो निविष्टम्
||४-६७-३० (३१२५६)
जह्यान्न धर्मं त्रिदिवस्य हेतोः सर्वे तु तस्मान्न हता रणेऽस्मिन् |
क्षिप्रं कुरून्याहि कुरुप्रवीर विजित्य गाश्च प्रतियातु पार्थः
||४-६७-३१ (३१२५७)
संमोहनास्त्रप्रतिमोहिताः स्थ यूयं न जानीथ धनापहारम् |
पश्यामि वस्त्राभरणानि राजन्विराटपुत्रेण समाहृतानि ||४-६७-३२ (३१२५८)
नृपेषु सर्वेषु च मोहितेषु हन्तुं यदीच्छेत्स हनिष्यतीति |
तदा तु धर्मात्मतया नृवीरो न चाहनद्वो बलभित्तनूजः ||४-६७-३३
(३१२५९)
भाग्येन युष्मानवधीन्न पार्थः संधिं कुरूणामनुमन्यमानः |
तद्यात यूयं सहसैनिकैस्तैर्हतावशिष्टैर्गजसाह्वयं पुरुम्
||४-६७-३४ (३१२६०)
वैशम्पायन उवाच. ४-६७-३५क्ष् (३२६१)
दुर्योधनस्तस्य निशम्य वाक्यं पितामहस्यात्महितं प्रशस्य |
अतीतकामो युधि सोऽत्यमर्षी राजा विनिश्वस्य बभूव तूष्णीम्
||४-६७-३५ (३१२६१)
तद्भीष्मवाक्यं हि निशम्य सर्वे धनञ्जयाग्निं च विवर्धमानम् |
निवर्तनायैव मतिं निदध्युर्दुर्योधनं तं परिरक्षमाणाः ||४-६७-३६
(३१२६२)
तान्प्रस्थितान्प्रीतमनाः समर्थो धनञ्जयः सर्वकुरुप्रवीरः |
आमन्त्र्य वीरोऽनुययौ मुहूर्तं गाण्डीवघोषेण विनद्य लोकम् ||४-६७-३७
(३१२६३)
तेषामनीकानि निरीक्ष्य पार्थो विकीर्णयानध्वजकार्मुकाणि |
गाण्डीवधन्वा प्रहसन्कुरूणां शङ्ख प्रदध्मौ बलवान्बलेन
||४-६७-३८ (३१२६४)
ते शङ्खशब्दं तुमुलं निशम्य ध्वजस्य शब्दं च ततोऽन्तरिक्षे |
गाण्डीवशब्देन मुहुर्मुहुस्ते भीता ययुः सर्वधनं विहाय ||४-६७-३९ (३१२६५)
तानर्जुनो दूरतरं विभज्य धनं च सर्वं निखिलं निवर्त्य |
आपृच्छ्य तान्दूरमनुप्रयात्वा धनञ्जयस्तत्र कुरून्महात्मा |
गुरूंश्च सर्वानभिवाद्य बाणैर्न्यवर्ततोदग्रमनाः शरैः सह ||
४-६७-४० (३१२६६)
पितामहं शान्तनवं महात्मा द्वाभ्यां शराभ्यामभिवाद्य वीरः |
द्रोणं कृपं चैव कुरूंश्च मान्याञ्शरैश्च सर्वानभिवाद्य सङ्ख्ये |
दुर्योधनस्योत्तमरत्नचित्रं चिच्छेद पार्थो मकुटं शरौघैः ||
४-६७-४१ (३१२६७)
अराजवंशस्य किमर्थमेतन्नित्यं न धार्यं मकुटं त्वयेति |
संपातितं भूमितले सरत्नं प्रीतस्तुतो मात्स्यसुतो बभूव ||४-६७-४२ (३१२६८)
धनञ्जयं नागमिव प्रभिन्नं विजित्य शत्रून्परिवर्तमानम् |
गास्ता विजित्याभिमुखं प्रयान्तं न शक्नुवन्तः कुरवः प्रयाताः
||४-६७-४३ (३१२६९)
धनञ्जयं सिंहमिवात्तशस्त्रं गा वै विजित्याभिमुखं प्रयान्तम् |
उदीक्षितुं पार्थिवास्ते न शेकुर्यथैव मध्याह्नगतं हि सूर्यम्
||४-६७-४४ (३१२७०)
रक्तानि वासांसि च तानि गृह्य रणोत्कटो नाग इव प्रभिन्नः |
जित्वा च वैराटिमुवाच पार्थः प्रहृष्टरूपो रथिनां वरिष्ठः
||४-६७-४५ (३१२७१)
आवर्तयाश्वान्पशवो जितास्ते याताः परे प्रैहि पुरं प्रहृष्टः |
उद्धुष्यतां ते विजयोऽद्य शीघ्रं गात्रं तु ते सेवतु माल्यगन्धः |
माता तु ते नन्दतु बान्धवाश्च त्वामद्य दृष्ट्वा समुदीर्णहर्षम् ||||
४-६७-४६ (३१२७२)
इति श्रीमन्महाभारते विराटपर्वणि गोग्रहणपर्वणि सप्तष्टितमोऽध्यायः ||
Mahabharata -Virata Parva -Chapter Footnotes
४-६७-११ पूर्णौघनिभानि पूर्वनदीप्रवाहसदृशानि ||
११ ||
४-६७-१६ अनीहमानाः अचेष्टमानाः ||
१६ ||
४-६७-१८ यावद्विसंज्ञास्तावन्निर्याहीत्यध्याहारेण योजना ||
१८ ||
४-६७-१९ आदस्त्व गृहाण ||
१९ ||
४-६७-२० अमूढसंज्ञैः अस्माभिरिति शेषः | सव्यतस्त्वमेवं हि
धममाहुर्जितस्येति धो पाठः ||
२० ||
४-६७-२५ संनिकाशान् कृतं कृतकं प्रतिमादि निश्चेष्टतया
तत्सदृशानित्यर्थः ||
२५ ||
४-६७-४५ हिमत्वा च वैराटिमुवाचेति पाठान्तरम् ||
४५ ||
विराटपर्व -अध्याय ००
||श्रीः ||
४. ६८. अध्यायः
Mahabharata -Virata Parva -Chapter Topics
अर्जुनेनोत्तरंप्रति युधिष्ठिरादितत्वप्रकाशनप्रतिषेधनम् ||१ ||
तथा श्मशानमेत्य शमीतरौ गाण्डिवादिनिधानपूर्वकं
पुनर्बृहन्नलावेषपरिग्रहेण सारथ्यकरणम् ||२ ||
उत्तरेणार्जुनचोदनया स्वजयोद्धोषणाय नगरंप्रति दूतप्रेषणम् ||३ ||
Mahabharata -Virata Parva -Chapter Text
४-६८-० (३१२७३)
वैशम्पायन उवाच. ४-६८-०क्ष् (३२६२)
ततो विजित्य संग्रामे कुरुगोवृषभेक्षणः |
समानयामास तदा विराटस्य धनं महत् ||४-६८-१ (३१२७४)
मतषु च प्रभग्नेषु धार्तराष्ट्रेषु सर्वशः |
वनान्निष्क्रम्य गहनाद्बहवः कुरुसैनिकाः |
भयात्संत्रस्तमनसः समाजग्मुस्ततस्ततः ||४-६८-२ (३१२७५)
मुक्तकेशाः प्रदृश्यन्ते स्थिताः प्राञ्जलयस्तदा |
क्षुत्पिणसापरिश्रान्ता विदेशस्था विचेतसः |
ऊचुः प्राञ्जलयः सर्वे पार्थ किं करवामहे ||४-६८-३ (३१२७६)
प्राणानन्तर्मनोयातान्प्रयाचिष्यामहे वयम् |
वयं चार्जुन ते दासा ह्यनुरक्ष्या ह्यनाथकाः ||४-६८-४ (३१२७७)
अर्जुन उवाच. ४-६८-५क्ष् (३२६३)
अनाथान्दुःखितान्दीनान्कृशान्वृद्धान्पराजितान् |
न्यस्तशस्त्रान्निराशांश्च नाहं हन्मि कृताञ्जलीन् ||४-६८-५ (३१२७८)
भवन्तो यान्तु विस्रब्धा निर्भया अमृता यथा |
मम पादरजोलक्ष्म्या जीवन्तु सुचिरं भुवि ||४-६८-६ (३१२७९)
तस्य तामभयां वाचं श्रुत्वा योधाः समागताः |
आयुः कीर्तियशोभिस्ते तमाशीर्भिरवर्धयन् ||४-६८-७ (३१२८०)
ततो निवृत्ताः कुरवो यग्नाश्च दिवमास्थिताः |
प्रयाताः सर्वतस्तत्र नमस्कृत्य धनञ्जयम् ||४-६८-८ (३१२८१)
एवं दत्ताभयास्तेन ततो याताः कुरून्प्रति ||४-६८-९ (३१२८२)
स कर्म कृत्वा परमार्यकर्मा निहत्य शत्रून्द्विषतां निहन्ता |
यातो महामेघ इवातपान्ते विद्राव्य पार्थः कुरुसैन्यमेकः ||४-६८-१० (३१२८३)
तं मात्स्यपुत्रं द्विषतां निहन्ता वचोऽब्रवीत्संपरिगृह्य राजन् ||
४-६८-११ (३१२८४)
पितुः सकाशे तव तात सर्वे वसन्ति पार्था विदितं त्वयेति |
तान्मास्म शंसीर्नगरं प्रविश्य भीतः प्रणश्येत्स च मत्स्यराजः
||४-६८-१२ (३१२८५)
मया जिता सा ध्वजिनी कुरूणां मया हि गावो विजिता द्विषद्भ्यः |
एवं तु कामं नगरं प्रविश्य त्वमात्मना कर्म कृतं ब्रवीहि
||४-६८-१३ (३१२८६)
र उवाच | ४-६८-१४क्ष् (३२६४)
यत्ते कृतं कर्म न वारणीयं तत्कर्म कर्तुं मम नास्ति शक्तिः |
न त्वां प्रवक्ष्यामि पितुः सकाशे यावन्न मां वक्ष्यसि सव्यसाचिन्
||४-६८-१४ (३१२८७)
पायन उवाच. ४-६८-१५क्ष् (३२६५)
स शत्रुसेनां तरसा विजित्य आच्छिद्य सर्वं तु धनं कुरूणाम् |
श्मशानमागम्य पुनः शमीं तामभ्येत्य तस्थौ शरविक्षताङ्गः
||४-६८-१५ (३१२८८)
ततः स वह्निप्रतिमो महाकपिः सहैव भूतैर्दिवमुत्पपात |
तथा च माया विहिता बभूव सा ध्वजं च सिंहं युयुजे रथे पुनः
||४-६८-१६ (३१२८९)
निधाय तच्चायुधमाजिमर्दनः कुरूत्तमानामिषुधीन्ध्वजांस्तथा |
प्रायात्स मात्स्यो नगरं प्रवेष्टुं किरीटिना सारथिना महात्मा ||४-६८-१७
(३१२९०)
पार्थश्च कृत्वा परमार्यकर्म निहत्य शत्रून्द्विषतां निहन्ता |
विधाय भूयश्च तथैव वेषं जग्राह रश्मीन्पुनरुत्तरस्य |
बृहन्नलारूपमथो विधाय प्रायात्य मात्स्यो नगरं प्रवेष्टुम् ||
४-६८-१८ (३१२९१)
वैशम्पायन उवाच. ४-६८-१९क्ष् (३२६६)
ततो निवृत्ताः कुरवः प्रभग्नाः शममास्थिताः |
परस्परमवेक्ष्यैव जग्मुस्ते हृतवाससः ||४-६८-१९ (३१२९२)
पन्थानमुपसंगम्य फल्गुनो वाक्यमब्रवीत् |
राजपुत्र प्रपद्यस्व धनानीमानि सर्वशः |
गोकुलानि महाबाहो वीरगोपालकैः सह ||४-६८-२० (३१२९३)
ततोऽपराह्णे यास्यामो विराटनगरं प्रति |
आश्वास्य पाययित्वा च परिप्लाव्य च वाजिनः. ४-६८-२१ (३१२९४)
गच्छन्तु त्वरितं दूता गोपालाः प्रेषितास्त्वया |
नगरे प्रियमाख्यातुं घोषयन्तु च ते जयम् ||४-६८-२२ (३१२९५)
उत्तरस्त्वरमाणोऽथ दूतानाज्ञापयत्ततः |
वचनादर्जुनस्यैव ह्याचक्षध्वं जयं मम ||४-६८-२३ (३१२९६)
४-६८-२४ (३१२९७)
मया जिता सा ध्वजिनी कुरुणं
मया च गावो विजिता द्विषद्भ्यः |
एवं तु कामं नगरं प्रविश्य
मयाऽऽत्मना कर्म कृतं ब्रवीत ||
विराटपर्व -अध्याय ०६९
||श्रीः ||
४. ६९. अध्यायः ६९
Mahabharata -Virata Parva -Chapter Topics
विराटेन युधिष्ठिरादिभिः सह सुशर्मादिजयानन्तरं पुसंप्रत्यागमनम्
||१. . तथा उत्तरस्य कुरुविजयाय सहबृहन्नलया गमनश्रवणेन
तद्रक्षणाय सेनाचोदना ||२ ||
अत्रान्तरे विराटाय दूतैरुत्तरजनिवेदनम् ||३ ||
Mahabharata -Virata Parva -Chapter Text
४-६९-० (३१२९८)
वैशम्पायन उवाच. ४-६९-०क्ष् (३२६७)
स विजित्य धनं चापि विराटो वाहिनीपतिः |
प्राविशन्नगरं हृष्टश्चतुर्भिः सह पाण्डवैः ||४-६९-१ (३१२९९)
जित्वा त्रिगर्तान्संग्रामे गाश्चैवानाय्य केवलाः |
अशोभत महाराजः सह पार्थैः श्रिया वृतः ||४-६९-२ (३१३००)
तमासनगत वीरं सुहृदां प्रीतिवर्धनम् |
तपतस्थुः प्रकृतयः समन्ताद्ब्राह्मणैः सह ||४-६९-३ (३१३०१)
सभाजितः सभासद्भिः प्रतिनन्द्य स मत्स्यराट् |
विसर्जयामास तदा द्विजांश्च प्रकृतीस्तथा ||४-६९-४ (३१३०२)
ततः स राजा मात्स्यानां विराटो वाहिनीपतिः |
प्रविश्यान्तःपुरं रम्यं स्त्रीशतैरुपशोभितम् |
उत्तरं तत्र नापश्यत्क्व यात इति चाब्रवीत् ||४-६९-५ (३१३०३)
आचख्युस्तत्र संहृष्टाः स्त्रियः कन्याश्च वेश्मनि |
अन्तःपुरचराश्चैव कुरुभिर्गोधनं हृतम् ||४-६९-६ (३१३०४)
ताञ्जेतुमभिसंरब्ध एक एवातिसाहसात् |
बृहन्नलासहायश्च निर्यातः पृथिवींजयः ||४-६९-७ (३१३०५)
उपयातानतिरथान्द्रोणं शान्तनवं कृपम् |
कर्णं दुर्योधनं चैव द्रोणपुत्रं च षड्रथान् ||४-६९-८ (३१३०६)
ततो विराटः परमाभितप्तः
पुत्रं निशम्यैकरथेन यातम् |
बृहन्नलासारथिमाजिमर्दनं
प्रोवाच सर्वानथ मन्त्रिमुख्यान् ||४-६९-९ (३१३०७)
गवां शतसहस्राणि उभिभूय ममात्मजम् |
कुस्वः कालयन्ति स्म सर्वे युद्धविशारदाः ||४-६९-१० (३१३०८)
तस्माद्गच्छतु मे योधा बलेन महता वृताः |
उत्तरस्य परीप्सार्थं ये त्रिगर्तैरविक्षताः ||४-६९-११ (३१३०९)
वैशम्पायन उवाच. ४-६९-१२क्ष् (३२६८)
हयांश्च नागांश्च रथांश्च शीघ्रं
वादित्रसङ्घांश्च ततः प्रभूतान् |
प्रस्थापयामास सुतस्य हेतो-
र्विचित्रचित्राभरणोपपन्नान् ||४-६९-१२ (३१३१०)
एवं स राजा मात्स्यानां महानक्षोहिणीपतिः |
व्यादिदेशाथ स क्षिप्रं वाहिनीं चतुरङ्गिणीम् ||४-६९-१३ (३१३११)
कुमारमाशु जानीत यदि जीवति वा नवा |
यस्य यन्ता गतः षण्डो मन्येऽहं स न जीवति ||४-६९-१४ (३१३१२)
तमब्रवीद्धर्मसुतो विराट-
मार्तं विदित्वा कुरुभिः प्रतप्तम् |
बृहन्नला सारथिश्चेन्नरेन्द्र
परे न नेष्यन्ति तवाद्य गाश्च ||४-६९-१५ (३१३१३)
सर्वान्महीपान्सहितान्कुरूंश्च
तथैव देवासुरनागयक्षान् |
अलं विजेतुं समरे सुतस्ते
अनुष्ठितः सारथिना हि तेन ||४-६९-१६ (३१३१४)
सर्वथा कुरवश्चापि ये चान्ये वसुधाधिपाः |
त्रिगर्तान्निर्जिताञ्श्रुत्वा न स्थास्यन्ति कथंचन ||४-६९-१७ (३१३१५)
वैशम्पायन उवाच. ४-६९-१८क्ष् (३२६९)
अथोत्तरेण प्रहिता दूतास्ते शीघ्रगामिनः |
विराटनगरं प्राप्य जयं प्रावेदयंस्तदा ||४-६९-१८ (३१३१६)
राजानं वृतमाचख्युर्मन्त्रिभिर्जयमुत्तमम् |
पराजयं कुरूणां च उपायान्तं तथोत्तरम् ||४-६९-१९ (३१३१७)
सर्वा विनिर्जिता गावः कुरवश्च पराजिताः |
उत्तरः सह सूतेन कुशली च परंतपः ||४-६९-२० (३१३१८)
कङ्क उवाच. ४-६९-२१क्ष् (३२७०)
दिष्ट्या ते निर्जिता गावः कुरवश्च पराजिताः |
दिष्ट्या ते विजयी पुत्रः श्रूयते पार्थिवर्षभः ||४-६९-२१ (३१३१९)
नाद्भुतं त्विह मन्येऽहं यत्ते पुत्रोऽजयत्कुरून् |
ध्रुव एव जयस्तस्य यस्य यन्ता बृहन्नला ||४-६९-२२ (३१३२०)
देवेन्द्रसारथिश्चैव मातलिः ख्यातविक्रमः |
कृष्णस्य सारथिश्चैव न बृहन्नलया समौ ||४-६९-२३ (३१३२१)
वैशम्पायन उवाच. ४-६९-२४क्ष् (३२७१)
ततो विराटो नृपतिः संप्रहृष्टतनूरुह |
श्रुत्वा तु विजयं तस्य कुमारस्यामितौजसः |
संतोषयित्वा दूतांस्तान्धनरत्नैश्च सर्वशः ||४-६९-२४ (३१३२२)
गते त्वनुजने तस्मिन्दूतवाक्यं निशम्य च |
उत्तरस्य जयात्प्रीतो विराटः प्रत्यभाषत ||४-६९-२५ (३१३२३)
राजमार्गाः क्रियन्तां वै पताकाभिरलंकृताः |
पुष्पोपहारैरर्च्यतां देवताश्चापि सर्वशः ||४-६९-२६ (३१३२४)
कुमारा योधमुख्याश्च गणिकाश्च स्वलंकृताः |
वादित्राणि च सर्वाणि प्रत्युद्यान्तु सुतं मम ||४-६९-२७ (३१३२५)
भवन्तु ते लब्धजये सुते मे
पौराश्च मर्त्याश्च परे च नार्यः |
ते शुक्लवस्त्राः प्रभवन्तु मार्गे
सुगन्धमाल्याभरणाश्च नार्यः ||४-६९-२८ (३१३२६)
भजन्तु सर्वा गणिकाः सुतं मे
नार्यश्च कन्याः सहसैनिकाश्च |
स्वलंकृतास्ताः सुभगाः सुवेषाः
पुत्रस्य पन्थानमनुव्रजन्तु ||४-६९-२९ (३१३२७)
घण्टापणवकाः शीघ्रं मत्तमारुह्य कुञ्जरम् |
शृङ्गाटकेषु सर्वेषु समाख्यान्तु जयं मम् ||४-६९-३० (३१३२८)
उत्तरा च कुमारीभिर्बह्वाभरणभूषिता |
सखीं विजितसंग्रामां प्रत्युद्यातु बृहन्नलाम् ||४-६९-३१ (३१३२९)
श्रुत्वा तु वचनं तस्य पार्थिवस्य महात्मन |
तथैव चक्रुः संहृष्टाः पौराः स्वस्तिकपाणयः ||४-६९-३२ (३१३३०)
मूताश्च सर्वे सहमागधाश्च
हृष्टा विराटस्य पुरे जनौघाः |
भेर्यश्च तूर्याणि च वारिजाश्च
वेपैः परार्ध्यैः प्रमदाजनाश्च ||४-६९-३३ (३१३३१)
वन्दिप्रवादाः पणवादिकाश्च
तथैव वाद्यानि च वंशशब्दाः |
कांस्यं सतालं मधुरं च गीत-
मादाय नार्यो नगरान्निरीयुः ||४-६९-३४ (३१३३२)
प्रत्युद्ययुः पुत्रमनन्तवीर्यं
ते ब्राह्मणाः शान्तिपराः प्रधानाः |
स्वाध्यायवेदाध्ययनक्रमज्ञाः
स्वस्तिक्रियागीतजपप्रधानाः ||||४-६९-३५ (३१३३३)
इति श्रीमन्महाभारते विराटपर्वणि गोग्रहणपर्वणि
एकोनसप्ततितमोऽध्यायः ||
विराटपर्व -अध्याय ०७०
||श्रीः ||
४. ७०. अध्यायः ७०
Mahabharata -Virata Parva -Chapter Topics
उत्तरजयश्रवणहृष्टेन विराटेन युधिष्ठिरेण सह द्यूतदेवनम् ||१ ||
विराटेनोत्तरप्रशंसने कङ्केन बृहन्नलया कुरुपराजयकथनम् ||२ ||
ततो रुष्टेन विराटेन कङ्कस्य कर्णमूलेऽक्षेणाभिहननम् ||३ ||
सैरन्ध्र्या क्षतात्प्रस्रवतो रक्तस्य निजोत्तरीयेण ग्रहणम् ||४ ||
तथा विराटेन तद्ग्रहणकारणप्रश्ने तत्कथनम् ||५ ||
Mahabharata -Virata Parva -Chapter Text
४-७०-० (३१३३४)
वैशम्पायन उवाच | ४-७०-०क्ष् (३२७२)
प्रस्थाप्य सेनां कन्याश्च गणिकाश्च स्वलंकृताः |
मत्स्यराजो महाराजः प्रहृष्ट इदमब्रवीत् ||४-७०-१ (३१३३५)
व्रिगर्ताः कुरवः सर्वे संग्रामे निर्जिता मया |
प्रविश्यान्तःपुरं हृष्टा द्यूतं दीव्याम ब्राह्मण ||४-७०-२ (३१३३६)
अक्षानाहर सैरन्ध्रि आसनं चोपकल्पय |
आदाय व्यजनं त्वं च पार्श्वतोऽनन्तरा भव ||४-७०-३ (३१३३७)
तं तथावादिनं दृष्ट्वा पाण्डवः प्रत्यभापत |
न देवितव्यं हृष्टेन कितवेनेति नः श्रुतम् ||४-७०-४ (३१३३८)
न त्वामद्य मुदा युक्तमहं देवितुमुत्सहे |
प्रियं तु ते चिकीर्पामि वर्ततां यदि रोचते |
द्यूतं कर्तुं न वाञ्छामि नरेन्द्र जनसंसदि ||४-७०-५ (३१३३९)
विराट उवाच. ४-७०-६क्ष् (३२७३)
स्त्रियो गावो हिरण्यं च यच्चान्यद्वसु किंचन |
न मे किंचित्त्वया कार्यमन्तरेणापि देवितम् ||४-७०-६ (३१३४०)
कङ्क उवाच. ४-७०-७क्ष् (३२७४)
किं ते द्यूतेन राजेन्द्र बहुदोषेण मानद |
देवने बहवो दोषास्तस्मात्तत्परिवर्जयेत् ||४-७०-७ (३१३४१)
श्रुतो वा यदि वा दृष्टो धर्मराजो युधिष्ठिरः |
स राज्यं धनमक्षय्यं पणमेकममन्यत ||४-७०-८ (३१३४२)
कृष्णां च भार्यां दयितां भ्रातॄंश्च त्रिदशोपमान् |
निःसंशयं स कितवः पश्चात्तप्यति पाण्डवः ||४-७०-९ (३१३४३)
विविधानां च रत्नानां धनानां च पराजये |
अभीप्सितविनाशश्च वाक्पारुष्यमनन्तरम् ||४-७०-१० (३१३४४)
अविश्वास्यं बुधैर्नित्यमेकाह्ना द्रव्यनाशनम् |
द्यूते हारितवान्सर्वं तस्माद्द्यूतं न रोचये ||४-७०-११ (३१३४५)
अथवा मन्यसे राजन्दीव्याव यदि रोचते |
एवमाभाष्य वाक्यैस्तु क्रीडतस्तौ नरोत्तमौ ||४-७०-१२ (३१३४६)
प्रवर्तमाने द्यूते तु मात्स्यः पाण्डवमब्रवीत् ||४-७०-१३ (३१३४७)
पश्य पुत्रेण मे युद्धे तादृशाः कुरवो जिताः |
कुरवोऽतिरथाः सर्वे देवैरपि सुदुर्जयाः ||४-७०-१४ (३१३४८)
ततोऽब्रवीद्धर्मराजो द्यूते मात्स्यं युधिष्ठिरः |
दिष्ट्या ते विजिता गावः कुरवश्च पराजिताः ||४-७०-१५ (३१३४९)
अत्यद्भुततमं मन्ये उत्तरश्चेत्कूरूञ्जयेत् |
यन्ता बृहन्नला यस्य स कथंचिद्विजेष्यते ||४-७०-१६ (३१३५०)
ततो विराटः क्षुभितो मन्युना च परिप्लुतः |
उवाच वचनं क्रुद्धः परिव्राजमनन्तरम् ||४-७०-१७ (३१३५१)
तादृशेन तु योधेन महेष्वासेन धीमता |
कुरवो निर्जिता युद्धे तत्र किं ब्राह्मणाद्भुतम् ||४-७०-१८ (३१३५२)
युधिष्ठिर उवाच. ४-७०-१९क्ष् (३२७५)
समं षण्डेन मे पुत्रं ब्रह्मबन्धो प्रशंससि |
वाच्यावाच्यं न जानीषे नूनं मामवमन्यसे ||४-७०-१९ (३१३५३)
विराट उवाच. ४-७०-२०क्ष् (३२७६)
समं षण्डेन मे पुत्रं ब्रह्मबन्धो प्रशंससि |
वाच्यावाच्यं न जानीषे नूनं मामवमन्यसे ||४-७०-२० (३१३५४)
पुमांसो बहवो दृष्टाः सूताश्च बहवो मया |
विक्रम्य यन्ता योद्धा च न मे दृष्टः कदाचन ||४-७०-२१ (३१३५५)
विप्रियं न चरेद्राज्ञामनुकूलं प्रियं वदेत् |
आचरन्विप्रियं राज्ञां न जातु सुखमेधते ||४-७०-२२ (३१३५६)
वयस्यत्वात्तु ते सर्वमपराधमिमं क्षमे |
नेदृशीं प्रवदर्वाचं यदि जीवितुमिच्छसि ||४-७०-२३ (३१३५७)
वैशम्पायन उवाच. ४-७०-२४क्ष् (३२७७)
ततोऽब्रवीत्पुनः कङ्कः प्रहस्य कुरुवर्धनः |
बृहन्नलाया सजेन्द्र धुष्यतां नगरे जयः ||४-७०-२४ (३१३५८)
उत्तरेण तु सारथ्यं कृतं नूनं भविष्यति |
निमित्तं किंचिदुत्पन्नं तर्कश्चापि दृढो मम |
यतो जानामि राजेन्द्र नान्यथा तद्भविष्यति ||४-७०-२५ (३१३५९)
कुरवोऽपि महावीर्या देवैरपि सुदुर्जयाः |
ससोमवरुणादित्यैः सयक्षेशहुताशनैः ||४-७०-२६ (३१३६०)
यत्र शान्तनवो भीष्मो द्रोणकर्णौ सुदुर्जयौ |
अश्वत्थामा विकर्णश्च सोमदत्तो जयद्रथः ||४-७०-२७ (३१३६१)
भूरिश्रवाः शलो भूरिर्जलसन्धिश्च वीर्यवान् |
दुर्योधनो दुष्प्रसहो दुःशासनविविंशती ||४-७०-२८ (३१३६२)
वृषसेनोऽश्ववेगश्च वायुवेगसुवर्चसौ |
बाह्लीकः शूरसेनश्च युयुत्सुश्च परन्तपः ||४-७०-२९ (३१३६३)
सौबलः शकुनिश्चैव द्युमत्सेनश्च साल्वराट् |
अन्ये च बहवः शूरा नानाजनपदेश्वराः ||४-७०-३० (३१३६४)
कृपेणाचार्यमुख्येन सहिताः कुरवो नृपाः |
सञ्जकार्मुकनिस्त्रिंशा रथिनो रथयूथपाः |
अन्ये चैव महावीर्या राजपुत्रा महारथाः ||४-७०-३१ (३१३६५)
मरुद्गणैः परिवृतः साक्षादपि पुरंदरः |
तद्बलं न जयेत्क्रुद्धो भीष्मद्रोणादिभिर्वृतम् ||४-७०-३२ (३१३६६)
कस्तद्बृहन्नलादन्यो मनुष्यः प्रतियोत्स्यति |
यस्य बाहुबले तुल्यो न भविष्यति कश्चन ||४-७०-३३ (३१३६७)
अतीव समरं दृष्ट्वा हर्षो यस्याभिवर्धते |
किमेवं पुरुषो लोको दिवि वा भुवि विद्यते ||४-७०-३४ (३१३६८)
वैशम्पायन उवाच. ४-७०-३५क्ष् (३२७८)
तेन संक्षुभितो राजा दीर्यमाणेन चेतसा |
अब्रवीद्वचनं क्रूरमजानन्वै युधिष्ठिरम् ||४-७०-३५ (३१३६९)
कङ्ख मा ब्रूहि मे वाक्यं प्रतिकूलं द्विजोत्तम |
बहुशः प्रतिषिद्धस्त्वं न च वाचं नियच्छसि ||४-७०-३६ (३१३७०)
नियन्ता चेन्न विद्येत न कश्चिद्धर्ममाचरेत् |
इति प्रक्षुभितो राजा सोऽक्षेणाभ्यहनद्भृशम् ||४-७०-३७ (३१३७१)
तस्य तक्षकभोगाभं बाहुमुत्क्षिप्य दक्षिणम् |
विराटः प्राहनत्क्रुद्धः कर्णमाश्रित्य दक्षिणम् ||४-७०-३८ (३१३७२)
मुखे युधिष्ठिरं कोपान्मैवमित्यवभर्त्सयन् |
बलवत्प्रतिविद्धस्य नस्तः शोणितमास्रवत् ||४-७०-३९ (३१३७३)
अक्षेणाभिहतो राजा विराटेन युधिष्ठिरः |
तूष्णीमासीन्महाबाहुः कृष्णां पश्यन्सुदुःखिताम् ||४-७०-४० (३१३७४)
तस्य रक्तोत्पलनिभं शिरसः शोणितं तदा |
प्रावर्तत महाबाहोरभिघातान्महात्मनः ||४-७०-४१ (३१३७५)
तदप्राप्तं महीं पार्थः पाणिभ्यां समधारयत् |
अवैक्षत च धर्मात्मा द्रौपदीं पार्श्वतः स्थिताम् ||४-७०-४२ (३१३७६)
सा वेदनामभिज्ञाय भर्तुश्चित्तवशानुगा |
सा विषण्णा च भीता च क्रुद्धा च द्रुपदात्मजा ||४-७०-४३ (३१३७७)
बाष्पं नियम्य कृच्छ्रेण भर्तुर्निःश्रेयसैषिणी |
उत्तरीयेण सूक्ष्मेण तूर्णं जग्राह शोणितम् ||४-७०-४४ (३१३७८)
निगृह्य रक्तं वस्त्रेण सैरन्ध्री दुःखमोहिता |
सौवर्णं गृह्य भृङ्गारं शोणितं तदपामृजत् |
युधिष्ठिरस्य राजेन्द्र द्रुपदेन्द्रसुता तदा ||४-७०-४५ (३१३७९)
विराट उवाच. ४-७०-४६क्ष् (३२७९)
सैरन्ध्रि किमिदं रक्तमुत्तरीयेण गृह्यते |
कोत्र हेतुर्विशालाक्षि तन्मप्राचक्ष्व तत्वतः ||४-७०-४६ (३१३८०)
सैरन्ध्र्युवाच. ४-७०-४७क्ष् (३२८०)
रक्तबिन्दनि यावन्ति कङ्कस्य धरणीतले |
तावद्वर्षाणि राष्ट्रे ते अनावृष्टिर्भविष्यति ||४-७०-४७ (३१३८१)
एतन्निमित्तं मात्स्येन्द्र कङ्कस्य रुधिरं मया |
गृहीतमुत्तरीयेण विनाशो मा भवेत्तव ||४-७०-४८ (३१३८२)
यतीशं यो विहन्येत तस्यायुर्विनशिष्यति |
यो यतीशं नियम्येत सहस्रं यातना यमे ||४-७०-४९ (३१३८३)
यतौ रक्तं दर्शयति यावत्पांसुरगृह्यत |
तावन्तः पितृलोकस्थाः पितरः प्रपतन्त्यधः ||४-७०-५० (३१३८४)
इति ज्ञात्वा विराटेन्द्र धृतं रक्तं च वाससा |
मया तव हितार्थाय त्वयि प्रणयकारणात् ||||४-७०-५१ (३१३८५)
इति श्रीमन्महाभारते विराटपर्वणि गोग्रहणपर्वणि सप्ततितमोऽध्यायः ||
Mahabharata -Virata Parva -Chapter Footnotes
४-७०-१० धनानां च विना ||||.
वाक्पारुष्यं चाभवदिति शेषपूरणेन योजना ||
१० ||
४-७०-१९ किं किमपि ||
१९ ||
४-७०-४७ धरणीतले पतेयुरिति शेषः ||
४७ ||
४-७०-४८ नियम्येत नियमयेत् तस्येति शेषः ||
४९ ||
४-७०-५० अगृह्यत गृह्येत रक्तेनेति ||
५० ||
४-७०-५१ इतीममर्थम् ||
५१ ||
विराटपर्व -अध्याय ०७१
||श्रीः ||
४. ७१. अध्यायः ७१
Mahabharata -Virata Parva -Chapter Topics
अर्जुनकुरुयुद्धदिदृक्षया समागतैर्देवैरर्जुनं श्लाघमानैः
सद्भिः पुनः स्वर्गंप्रति गमनम् ||१ ||
उत्तरेण सवादिन्नगोषं पौरैः प्रत्युद्गम्यमानेन स्वनगरप्रवेशनम् ||२ ||
Mahabharata -Virata Parva -Chapter Text
४-७१-० (३१३८६)
जनमेजय उवाच. ४-७१-०क्ष् (३२८१)
युद्धं तु मानुषं द्रष्टुमागतास्त्रिदशाः पुरा |
किमकुर्वन्त ते पश्चात्कथयस्व ममानघ ||४-७१-१ (३१३८७)
वैशम्पायन उवाच. ४-७१-२क्ष् (३२८२)
वासवप्रमुखाः सर्वे देवाः सर्षिपुरोगमाः |
यक्षगन्धर्वसङ्घाश्च गणा अप्सरसां तथा ||४-७१-२ (३१३८८)
युद्धं तु मानुषं दृष्ट्वा कुरूणां फल्गुनस्य च |
एकस्य च बहूनां च रौद्रमत्युग्रदर्शनम् ||४-७१-३ (३१३८९)
अस्त्राणामथ दिव्यानां प्रयोगानथ संग्रहान् |
लघु सुष्ठु च चित्रं च कृतीनां च प्रयत्नतः ||४-७१-४ (३१३९०)
भीष्मं शारद्वतं द्रोणं कर्णं गाण्डीवधन्वना |
जितानन्यान्भूमिपालान्दृष्ट्वा जग्मुर्दिवौकसः ||४-७१-५ (३१३९१)
सर्वे ते परितुष्टाश्च प्रशस्य च मुहुर्मुहुः |
असङ्गतिना तेन विमानेनाशुगामिना |
प्रतिजग्मुरसङ्गास्ते त्रिदिवं च दिवौकसः ||४-७१-६ (३१३९२)
[*कुरवो निर्जिताः सर्वे भीष्मद्रोणकृपादयः |
अजय्यास्त्रिदशैः सर्वैः सेन्द्रैः सर्वैः सुरासुरैः |
पार्थेनैकेन संग्रामे विस्मयो नो महानहो ||४-७१-७ (३१३९३)
कस्मिन्मुहूर्ते संजातः कस्य धर्मस्य वा फलम् ||४-७१-८ (३१३९४)
किमाश्चर्यं फल्गुनेऽस्मिन्यो रुद्रेण न्ययोधयत् |
निवातकवचानाजौ यस्त्रिंशत्कोटिसंमितान् ||४-७१-९ (३१३९५)
तस्य चैतत्किमाश्चर्यं स्तुवन्त इति ते सुराः |
जग्मुः सुरालयं हृष्टा विस्मयाविष्टचेतसः ||] ४-७१-१० (३१३९६)
कुरवोऽर्जुनबाणैश्च ताडिताः शरविक्षताः |
कुरूनभिमुखां याताः समग्रबलवाहनाः ||४-७१-११ (३१३९७)
विराटनगराच्चैव गजाश्वरथसंकुलाः |
योधैः क्षत्रियदायादैर्बलवद्भिरधिष्ठिताः ||४-७१-१२ (३१३९८)
विराटप्रहिता सेना नगराच्छीघ्रयायिनी |
उत्तरं सह सूतेन प्रत्ययात्तमरिन्दमम् ||४-७१-१३ (३१३९९)
तस्मिंस्तूर्यशताकीर्णे हस्त्यश्चरथसंकुले |
प्रहर्षः स्त्रीकुमाराणां तुमुलः समपद्यत ||४-७१-१४ (३१४००)
अर्जुनस्तु ततो दृष्ट्वा सैन्यरेणुं समुत्थितम् |
सैन्यध्वजं निशम्याथ वैराटिं समभाषत ||४-७१-१५ (३१४०१)
नगरे तुमुलः शब्दो रेणुश्चाक्रमते नभः |
किंनु खल्वपयातास्ते कुरवो नगरं गताः ||४-७१-१६ (३१४०२)
ते चैव निर्जिताऽस्माभिर्महेष्वासाः सुतेजसः |
आमुञ्च कवचं वीर चोदयस्व च वाजिनः |
जवेनाभिप्रपद्यस्व विराटनगरं प्रति ||४-७१-१७ (३१४०३)
न तावत्तलनिर्घोषं गाण्डीवस्य च निस्वनम् |
ध्वजं वा दर्शयिष्यामि अथवा स्वजनो भवेत् ||४-७१-१८ (३१४०४)
उत्तर उवाच. ४-७१-१९क्ष् (३२८३)
सेनाग्रमेतन्मात्स्यानां गणिकाश्च स्वलंकृताः |
कन्या रथेषु दृश्यन्ते योधा विविधवाससः ||४-७१-१९ (३१४०५)
उत्तरामत्र पश्यामि सखीभिः परिवारिताम् |
अनीकिन्यः प्रदृश्यन्ते हस्तिनोश्वाश्च वर्मिताः ||४-७१-२० (३१४०६)
रथिनश्च पदाताश्च बहवो न च शस्त्रिणः |
विराटवचनात्सर्वे संहृष्टाः प्रतिभान्ति मे |
न च मेऽत्र प्रतीघातश्चित्तस्य स्वजने यथा ||४-७१-२१ (३१४०७)
वैशम्पायन उवाच. ४-७१-२२क्ष् (३२८४)
ततः शीघ्रं समासाद्य उत्तरं स्वजनो बहु |
परस्परममित्रघ्नं सस्वजे तं समागतम् ||४-७१-२२ (३१४०८)
जना ऊचुः. ४-७१-२३क्ष् (३२८५)
प्रीतिमान्पुरुषव्याघ्रो हर्षयुक्तः पुनः पुनः |
दिष्ट्या जयसि भद्रं ते दिष्ट्या सूतो बृहन्नलाः |
दिष्ट्या संग्राममागम्य भयं तव न किंचन ||४-७१-२३ (३१४०९)
उत्तर उवाच. ४-७१-२४क्ष् (३२८६)
अजैषीदेष जाञ्जिष्णुः कुरूनेकरथो रणे |
एतस्यक बाहुवीर्यं तद्येन गावो जिता मया |
कुरवो निर्जिता यस्मात्सग्रामेऽमिततेजसः ||४-७१-२४ (३१४१०)
अकार्षीदेष तत्कर्म देवपुत्रोपमो युवा |
एष तत्पुरुषव्याघ्रो विक्षोभ्य कुरुमण्डलम् |
गावः प्रसह्य विजिता रणे मां चाभ्यपालयत् ||४-७१-२५ (३१४११)
वैशम्पायन उवाच. ४-७१-२६क्ष् (३२८७)
उत्तरस्य वचः श्रुत्वा शंसमानस्य चार्जुनम् |
चोदिता राजपुत्रेण जयं मङ्गलवादिनः ||४-७१-२६ (३१४१२)
ततो गन्धैश्च माल्यैश्च धूपैश्च वसुसंभृतैः |
कन्याः पार्थममित्रघ्नं किरन्त्यः समपूजयन् ||४-७१-२७ (३१४१३)
आपूर्यमाणो माल्यैश्च गन्धैश्च विविधैः शुभैः |
संपूज्यमानो लोकेन नगरद्वारमागमत् ||४-७१-२८ (३१४१४)
भेर्यश्च तूर्याणि च वेणवश्च
विचित्रवेषाः प्रमदाजनाश्च |
पुरो विराटस्य महाबलस्य
निष्क्रम्य भूमिंजयमभ्यनन्दनम् ||४-७१-२९ (३१४१५)
प्रशस्यमानस्तु जयेन तत्र
पुत्रो विराटस्य न हृष्यति स्म |
संभाष्यमाणस्तु जयेन तत्र
सोऽन्तर्मनाः पाण्डवमीक्षमाणः ||४-७१-३० (३१४१६)
पुत्र्यै विराटस्य ततो वराणि
वस्त्राण्यदात्पाण्डुसुतः सखीभ्यः |
सभाजयंश्चापि समागतास्ता
दृष्ट्वा जयं तच्च बलं कुमार्यः ||||४-७१-३१ (३१४१७)
इति श्रीमन्महाभारते विराटपर्वणि गोग्रहणपर्वणि एकसप्ततितमोऽध्यायः ||
Mahabharata -Virata Parva -Chapter Footnotes
४-७१-७ *इमे श्लोकाः थो पुस्तकमात्रे वर्तन्ते |
विराटपर्व -अध्याय ०७२
||श्रीः ||
४. ७२. अध्यायः ७२
Mahabharata -Virata Parva -Chapter Topics
उत्तरेण राजाभ्यनुज्ञयाऽन्तःपुरमेत्य तदभिवादनम् ||१ ||
युधिष्ठिरघ्रणावलोकनभीतोत्तरचोदनया विराटेन
युधिष्ठिरक्षमापनम् ||२ ||
ततोऽर्जुनस्यान्तःप्रवेशः ||३ ||
उत्तरस्यैव जेतृत्वभ्रमहृष्टेन विराटेन तत्प्रशंसनम् ||४ ||
तेन तंतपि कस्यचिद्देवपुत्रस्यैव जेतृत्वकथनम् ||५ ||
ततोऽर्जुनेनोत्तराप्रभृतिभ्यः कुरुवस्त्रप्रदानम् ||६ ||
Mahabharata -Virata Parva -Chapter Text
४-७२-० (३१४१८)
वैशम्पायन उवाच. ४-७२-०क्ष् (३२८८)
सभाज्यमानः पौरैश्च स्त्रीभिर्जानपदैरपि |
आसाद्यान्तःपुरद्वारं पित्रे संप्रत्यवेदयत् ||४-७२-१ (३१४१९)
ततो द्वाःस्थः समासाद्य प्रणिपत्य कृताञ्जलिः |
वर्धयित्वा जयाशीर्भिरिदं वचनमब्रवीत् ||४-७२-२ (३१४२०)
राजन्पृथुयशस्तुभ्यं जित्वा शत्रून्समागतः |
उत्तरः सह सूतेन द्वारि तिष्ठति वारितः ||४-७२-३ (३१४२१)
कुमारो योधमुख्यैस्च गणिकाभिस्च संवृतः |
पौरजानपदैर्युक्तः पूज्यमानो जयाशिषाः ||४-७२-४ (३१४२२)
ततो हृष्टो महीपालः क्षत्तारमिदमब्रवीत् |
प्रवेशयोभौ तौ तूर्णं दर्शनेप्सुरहं तयोः ||४-७२-५ (३१४२३)
क्षत्तारं कुरुराजस्तु शनैः कर्ण उपाजपत् |
उत्तरः प्रविशत्वेको न प्रवेश्या बृहन्नलाः ||४-७२-६ (३१४२४)
तस्य हि महाबाहोर्व्रतं नित्यं महात्मनः |
यो ममाङ्गे व्रणं कुर्याच्छोणितं वा प्रदर्शयेत् |
अन्यत्र संग्रामगतान्न स जीवेत्कथंचन ||४-७२-७ (३१४२५)
व्यक्तं भृसं सुसंक्रुद्धो मां दृष्ट्वैव सशोणितम् |
विराटमिह सामात्यं हन्यात्सबलावाहनम् ||४-७२-८ (३१४२६)
इन्द्रं वापि कुबेरं वा यमं वा वरुणं तथा |
मम शोणितकर्तारं मृद्गीयात्किं पुनर्नरम् ||४-७२-९ (३१४२७)
क्षणमात्रं तु तत्रैव द्वारि तिष्ठतु वीर्यवान् |
इति प्रोवाच धर्मात्मा युधिष्ठिर उदारधीः ||४-७२-१० (३१४२८)
इत्युक्त्वा क्षमया युक्तो धर्मराजो घृणान्वितः |
सभायां सह मात्स्येन तूष्णीमुपविवेश ह ||४-७२-११ (३१४२९)
ततो राजसुतो ज्येष्ठः प्राविशत्पृथिवींजयः |
ववन्दे स पितुः पादौ कङ्कं चाप्युपतिष्ठत ||४-७२-१२ (३१४३०)
पश्यन्युधिष्ठिरं दृष्ट्या वक्रया चरणौ पितुः |
अभिवाद्य ततो दृष्ट्वा कङ्कस्य रुधिरप्लुतम् |
हृदयेऽदह्यत तदा मृत्युग्रस्त इवोत्तरः ||४-७२-१३ (३१४३१)
ततो रुधिरसिक्ताङ्गमनेकाग्रमनागसम् |
भूमावेकान्त आसीनं सैरन्ध्र्या समुपासितम् |
ततः पप्रच्छ राजानं त्वरमाण इवोत्तरः ||४-७२-१४ (३१४३२)
केनायं ताडितः कङ्कः केन पापमिदं कृतम् |
को वा जिगमिषुर्मृत्युं केन स्पृष्टः पदोरगः ||४-७२-१५ (३१४३३)
श्रोत्रियो ब्राह्मणश्रेष्ठ इन्द्रासनरतिक्षमः |
पूजनीयोऽभिवाद्यश्च न प्रबाध्योऽयमीदृशः ||४-७२-१६ (३१४३४)
वैशम्पायन उवाच. ४-७२-१७क्ष् (३२८९)
स पुत्रस्य वचः श्रुत्वा विराटो राष्ट्रवर्धनः |
प्रत्युवाचोत्तरं वाक्यं साध्वसाद्ध्वस्तमानसः ||४-७२-१७ (३१४३५)
पुत्र ते विजयं श्रुत्वा प्रहृष्टोऽहं मुदा भृशम् |
अक्षक्रीडनयाऽनेन कालक्षेपमकारिषम् ||४-७२-१८ (३१४३६)
तत्राजयत्कुरून्सर्वानुत्तरो राष्ट्रवर्धनः |
इत्युक्तं हि मया पुत्र नेति कङ्को बृहन्नला |
अजयत्सा कुरून्सर्वानिति मामब्रवीन्मुहुः ||४-७२-१९ (३१४३७)
प्रशंसिते मया पुत्र विजये तव विश्रुते |
बृहन्नलाया विजयं कङ्कोऽस्तुवत वै रुषा ||४-७२-२० (३१४३८)
मया प्रशस्यमाने तु त्वयि पण्डं प्रशंसति |
बृहन्नलाप्रशंसाभिरभ्यसूयमहं तदा |
ताडितोऽयं मया पुत्र दुरात्मा शत्रुपक्षकृत् ||४-७२-२१ (३१४३९)
ताडितोऽयं यतिः कङ्क इत्युक्तं तद्वचोत्तरः |
श्रुत्वा पितुर्भृशं क्रुद्धः पितरं वाक्यमब्रवीत् ||४-७२-२२ (३१४४०)
अकार्यं ते कृतं राजन्क्षिप्रमेष प्रसाद्यताम् |
मा त्वा ब्रह्मविषं घोरं समूलमुपनिर्दहेत् ||४-७२-२३ (३१४४१)
यावन्न क्षयमायाति कुलं सर्वमशेषनः |
स्फीतं वृद्धं च मात्स्यानामयं तावत्प्रसाद्यताम् ||४-७२-२४ (३१४४२)
प्रणम्य पादयोरस्य दण्डवत्क्षितिमण्डले |
प्रगृह्य पादौ पाणिभ्यामयं तावत्प्रसाद्यताम् ||४-७२-२५ (३१४४३)
दक्षेण पाणिना स्पृष्ट्वा शपे त्वां क्षपितं मया |
इति यावद्वदेत्कङ् अयं तावत्प्रसाद्यताम् ||४-७२-२६ (३१४४४)
स पुत्रस्य वचः श्रुत्वा विराटः साध्वसाकुलः |
क्षमयामास कौन्तेयं छन्नं ब्राह्मणवर्चसा ||४-७२-२७ (३१४४५)
क्षमयन्तं तु राजानं पाण्डवः प्रत्यभाषत |
चिरं क्षान्तं मया राजन्मन्युर्मम न विद्यते ||४-७२-२८ (३१४४६)
यदि स्म तत्पतेद्भूमौ रुधिरं मम पार्थिव |
सराष्ट्रस्त्वमिहोच्छेदमापद्येथा नरर्षभ ||४-७२-२९ (३१४४७)
न दूषयामि राजेन्द्र यस्तु हन्याददूषकम् |
फलं तस्य महाराज क्षिप्रं दारुणमाप्नुयात् ||४-७२-३० (३१४४८)
वैशम्पायन उवाच. ४-७२-३१क्ष् (३२९०)
शोणिते तु व्यतिक्रान्ते प्रविवेश बृहन्नला |
अभिवाद्य महाराजं कङ्कं चाप्युपतिष्ठत ||४-७२-३१ (३१४४९)
क्षमयित्वा तु कौरव्यं रणादुत्तरमागतम् |
परिष्वज्य दृढं राजा प्रवेश्य भवनोत्तमम् |
प्रशशंस ततो मात्स्यः शृण्वतः सव्यसाचिनः ||४-७२-३२ (३१४५०)
विराट उवाच. ४-७२-३३क्ष् (३२९१)
त्वया दायादवानस्मि कैकेयीनन्दिवर्धन |
त्वया मे सदृशः पुत्रो न भूतो न भविष्यति ||४-७२-३३ (३१४५१)
पदं पदसहस्रेण यश्चरन्नापराध्नुयात् |
तेन कर्णेन ते तात कथमासीत्समागमः ||४-७२-३४ (३१४५२)
रणे यं प्रेक्ष्य सीदन्ति हृतवीर्यपराक्रमाः |
कृपेन तेन ते तात कथमासीत्समागमः ||४-७२-३५ (३१४५३)
यस्य तद्विश्रुतं लोके महद्वृत्तमनुत्तमम् |
पितुः कृते कृतं घोरं ब्रह्मचर्यमनुत्तमम् ||४-७२-३६ (३१४५४)
योऽयोधीत्समरे रामं जामदग्न्यं प्रतापिनम् |
भीष्मोसौ पुरुषव्याघ्र न च युद्धे पराजितः ||४-७२-३७ (३१४५५)
पराक्रमी च दुर्धर्षो विद्वाञ्शूरो जितेन्द्रियः |
दृढवेधी क्षिप्रकारी विश्रुतः सर्वकर्मसु ||४-७२-३८ (३१४५६)
तेन ते सह भीष्मेण कुरुवृद्धेन संयुगे |
युद्धमासीत्कथं तात सर्वमेतद्ब्रवीहि मे ||४-७२-३९ (३१४५७)
पर्वतं यो विनिर्भिन्द्याद्राजपुत्रो वरेषुभिः |
दुर्योधनेन ते तात कथमासीत्समागमः ||४-७२-४० (३१४५८)
आचार्यो वृष्णिरीराणां पाञ्चालानां च यः प्रभुः |
कुरूणां पाण्डवानां च सर्वक्षत्रस्य यो गुरुः ||४-७२-४१ (३१४५९)
सर्वशस्त्रभृतां श्रेष्ठः सर्वलोकेषु विश्रुतः |
तेन द्रोणेन ते तात कथमासीत्समागमः ||४-७२-४२ (३१४६०)
आचार्यपुत्रो यः शूरो द्रोणादनवमो रणे |
तेन वीरेण ते तात कथमासीत्समागमः ||४-७२-४३ (३१४६१)
सर्वे चैव महावीर्या धार्तराष्ट्रः महारथाः |
तैस्तैर्वीरैश्च ते तात कथमासीत्समागमः ||४-७२-४४ (३१४६२)
उत्तर उवाच. ४-७२-४५क्ष् (३२९२)
न मया निर्जिता गावो न मया कुरवो जिताः |
कृतं च कर्म तत्सर्वं देवपुत्रेण केनचित् ||४-७२-४५ (३१४६३)
स हि भीतं द्रवन्तं मां भीष्मद्रोणमुखान्कुरून् |
दृष्ट्वा विषण्णं संग्रामे देवपुत्रो न्यवारयत् ||४-७२-४६ (३१४६४)
स हि तिष्ठन्रथोपस्थे वज्रपाणिनिभो युवा |
तेन ते निर्जिता गावस्तेन ते कुरवो जिताः ||४-७२-४७ (३१४६५)
तस्य तत्कर्म वीरस्य न मया तात तत्कृतम् |
स हि शारद्वतं द्रोणं द्रोणपुत्रं च वीर्यवान् |ट
सूतपुत्रं च भीष्मं च चकार विमुखाञ्शरैः ||४-७२-४८ (३१४६६)
दुर्योदनं च समरे प्रभिन्नमिव कुञ्जरम् |
प्रभग्नमब्रवीद्भीतं राजपुत्रं महाबलम् ||४-७२-४९ (३१४६७)
न हास्तिनपुरे त्राणं तव पश्यामि किंचन |
न हास्तिनपुरे भोगा भोक्तुं शक्याः पलायता ||४-७२-५० (३१४६८)
व्यायामेन परीप्सस्व जीवितं कौरवात्मज |
न मोक्ष्यसे पलायंस्त्वं लोके युद्धमना भव |
पृथिवीं भोक्ष्यसे जित्वा हतो वा स्वर्गमाप्स्यसि ||४-७२-५१ (३१४६९)
स निवृत्तो नरव्याघ्रो मुञ्चन्वज्रनिभाञ्शरान् |
सचिवैः संवृतो राजा भीष्मद्रोणकृपादिभिः |
ततो मे रोमहर्षोऽभूदूरुस्तम्भश्च मेऽभवत् ||४-७२-५२ (३१४७०)
यदभूद्धनसंकाशमनीकं व्यधमच्छरैः |
तत्प्रपुद्य रथानीकं सिंहदर्पसमो युवा |
तान्कुरुन्द्रावयद्राजन्रणे नाग इव श्वसन् ||४-७२-५३ (३१४७१)
एकेन तेन शूरेण षड्रथाः परिनिर्जिताः |
शार्दूलेनेव मत्तेन मृगास्तृणचरा यथा ||४-७२-५४ (३१४७२)
हयानां च गजानां च शूराणां च धनुष्मताम् |
निहतानि सहस्राणि भग्ना च कुरुवाहिनी ||४-७२-५५ (३१४७३)
सूतपुत्रं शतैर्विद्ध्वा हयान्हत्वा महारथः |
अस्त्रेण मोहयित्वा तं रक्तवस्त्रं समाददे ||४-७२-५६ (३१४७४)
चतुर्भिः पुनरानर्च्छद्भीष्मं शान्तनवं शरैः |
स तं विद्ध्वा हयांश्चाशु नास्य वस्त्रं समाददे ||४-७२-५७ (३१४७५)
दुर्योधनं च बलवान्बाणैर्विव्याध सप्तभिः |
तं स विद्ध्वा हयांश्चास्य पीतवस्त्रं समाददे ||४-७२-५८ (३१४७६)
द्रोणं कृपं च बलवान्सोमदत्तं जयद्रथम् |
भूरिश्रवसमिन्द्राभं शकुनिं च महारथम् ||४-७२-५९ (३१४७७)
त्रिभिस्त्रिभिः स विद्ध्वा तु दुःशासनमुखानपि |
विविधानि च वस्त्राणि महार्हाण्याजहार सः ||४-७२-६० (३१४७८)
द्वाभ्यां शराभ्यां विद्ध्वाऽथ तथाऽऽचार्यसुतं रणे |
चापं छित्त्वा विकर्णस्य नीले चादत्त वाससी ||४-७२-६१ (३१४७९)
विराट उवाच. ४-७२-६२क्ष् (३२९३)
क्व स वीरो महाबाहुर्देवपुत्रो महायशाः |
यो ममामोचयत्पुत्रं कुरुभिर्ग्रस्तमाहवे ||४-७२-६२ (३१४८०)
इच्छामि तममित्रघ्नं दुष्टुमर्चितुमेव च |
येन मे त्वं च गावश्च मोक्षिता देवसूनुना ||४-७२-६३ (३१४८१)
तस्मै दास्यामि तां पुत्रीं ग्रामांश्चैव तु हाटकान् |
स्फुरितं कटिसूत्रं च स्त्रीसहस्रशतानि च ||४-७२-६४ (३१४८२)
उत्तर उवाच. ४-७२-६५क्ष् (३२९४)
अन्तर्धानं गतस्तात देवपुत्रः प्रतापवान् |
अद्य श्वो वा परश्वो वा मन्ये प्रादुर्भविष्यति ||४-७२-६५ (३१४८३)
वैशम्पायन उवाच. ४-७२-६६क्ष् (३२९५)
एवमाख्यायमानस्तु छन्नं सत्रेण पाण्डवम् |
वसन्तं तं तु नाज्ञासीद्विराटः पार्थमर्जुनम् ||४-७२-६६ (३१४८४)
ततः पार्थोऽभ्यनुज्ञातो विराटेन महात्मना |
सह पुत्रेण मात्स्यस्य मन्त्रयित्वा धनंजयः ||४-७२-६७ (३१४८५)
इत्येवं ब्रूहि राजानं विराटं समुपस्थितम् |
इत्युक्त्वा सहसा पार्थः प्रविश्यान्तःपुरं शुभम् |
ददौ वस्त्राणि रन्तानि विराटदुहितुः स्वयम् ||४-७२-६८ (३१४८६)
उत्तरा तु महार्हाणि वस्त्राण्याभरणानि च |
प्रगृह्य तानि सर्वाणि प्रीता सानुचराऽभवत् ||||४-७२-६९ (३१४८७)
इति श्रीमन्महाभारते विराटपर्वणि गोग्रहणपर्वणि द्विसप्ततितमोऽध्यायः ||
Mahabharata -Virata Parva -Chapter Footnotes
४-७२-५ क्षत्तारं सारथिम् ||
५ | ४-७२-६ कर्ण उपाजपत् कर्णे इति च्छेदः ||
६ ||
४-७२-७ ममाङ्ग इति मम युधिष्ठिरस्य | संग्रामाय गतात् गमनात् ||
७ ||
४-७२-१३ रुधिरप्लुतं रुधिरत्रावम् ||
१३ ||
४-७२-१४ अनेकाग्रं व्यग्रम् | युधिष्ठिरं दृष्ट्वा राजानं
पप्रच्छेत्यन्वयः ||
१४ ||
४-७२-२२ तद्वचः इति च्छेदः संधिरार्षः ||
२२ ||
४-७२-३० तस्येति | स इति शेषः. स हन्ता तस्य स्वकृतहननस्य ||
३० | ४-७२-३१ उपतिष्ठत उपातिष्ठत असेवत ||
३१ ||
४-७२-३३ दायादवान्पुत्रवान् ||
३३ | ४-७२-३४ पदसहस्रेण लक्ष्यसहस्रार्थम् | हेत्वर्थे
तृतीया. युगपत्सहस्रलक्ष्याणि वेद्धुमित्यर्थः. चरन् बाणैः | पदं
एकमपि लक्ष्यं नापराध्नुयात् लक्ष्यात् च्युतसायको न भवेदित्यर्थः ||
३४ ||
४-७२-४७ तिष्ठन् अयुध्यतेति शेषः ||
४७ ||
४-७२-५२ स निवृत्तोऽभूदित्यन्वयः ||
५२ ||
४-७२-५३ सिंहेन दर्पे रामः | द्रावयत् ||||||||||.
५३ ||
४-७२-५४ तृणचरास्तृणभक्षकाः ||
५४ ||
४-७२-६६ सत्रेण वेषान्तरेण ||
६६ ||
४-७२-६८ श्व इतो ब्रूहि राजानं विराट ||||||चेति शो पाठः ||
६८ ||
विराटपर्व -अध्याय ०७३
||श्रीः ||
४. ७३. अध्यायः ७३
Mahabharata -Virata Parva -Chapter Topics
भीमार्जुनादिभी रात्रौ युधिष्ठिरसमीपगमनम् ||१ ||
युधिष्ठिरेण सहर्षं स्वानभिभाषणे अर्जुनेन भीमंप्रति
तत्कारणप्रश्नः ||२ ||
युधिष्ठिरेण तं प्रति विराटेनाक्षताडनस्य तत्कारणत्वकथनम् ||३ ||
भीमादिभिः क्रोधाद्विराटवधाध्यवसाये युधिष्ठिरेण हेतुकथनेन
तत्प्रतिषेधनम् ||४ ||
Mahabharata -Virata Parva -Chapter Text
४-७३-० (३१४८८)
वैशम्पायन उवाच. ४-७३-०क्ष् (३२९६)
प्रदाय वस्त्राणि किरीटमाली
विराटगेहे मुदितः सखीभ्यः |
कृत्वा महर्तर्म तदाऽऽजिमध्ये
दिदृक्षया सोऽभिजगाम पार्थम् ||४-७३-१ (३१४८९)
तं प्रेक्षमाणस्त्वथ धर्मराजं
पप्रच्छ पार्थोऽथ स भीमसेनम् |
किं धर्मराजो हि यथापुरं मां
मुखं प्रतिच्छाद्य न चाह किंचित् ||४-७३-२ (३१४९०)
तमेवमुक्त्वा परिशङ्कमानं
दृष्ट्वाऽर्जुनं भीमसेनं च राजा |
तदाऽब्रवीत्तावभिवीक्ष्य राज-
न्युधिष्ठिरस्तत्परिमृज्य रक्तम् ||४-७३-३ (३१४९१)
दुरात्मना त्वय्यभिपूज्यमाने
विराटराज्ञाऽभिहतोऽस्मि पार्थ |
तस्मात्प्रहाराद्रुधिरस्य बिन्दू-
न्पश्यन्न चेमे पृथिवीं स्पृशेयुः |
इति प्रतिच्छाद्य मुखं ततोऽहं
मन्युं नियच्छन्नुपविष्ट आसम् ||४-७३-४ (३१४९२)
शुभार्ह राष्ट्रं न खिलीकृतं भवे-
द्वयं तु यस्मिन्सुखिनोऽभवाम |
क्रुद्धे तु वीरे त्वयि चाप्रतीते
राजा विराटो न लभेत शर्म ||४-७३-५ (३१४९३)
अजानता तेन च शौर्यमाजौ
छन्नस्य सत्रेण बलं च पार्थ |
इदं विराटेन मयि प्रयुक्तं
त्वां वीक्षमाणो न गतोस्मि हर्षम् ||४-७३-६ (३१४९४)
वैशम्पायन उवाच ४-७३-७क्ष् (३२९७)
तेनाप्रमेयेन महाबलेन
तस्मिंस्तथोक्ते शममास्थितेन |
तं भीमसेनो बलवानमर्षी
धनंजयं क्रुद्धमुवाच वाक्यम् ||४-७३-७ (३१४९५)
न पार्थ नित्यं क्षमकालमाह
बृहस्पतिर्ज्ञानवतां वरिष्ठः |
क्षमीह सर्वैः परिभूयतेसौ
यथा भुडङ्गो विषवीर्यहीनः ||४-७३-८ (३१४९६)
विराटमद्यैव निहत्य शीघ्रं
सपुत्रपौत्रं सकुलं ससैन्यम् |
योक्ष्यामहे धर्मसुतं च राज्ये
अद्यैव शीघ्रं त्वरिरेष मात्स्यः ||४-७३-९ (३१४९७)
अनेन पाञ्चालसुताऽथ कृष्णा
उपेक्षिता कीचकेनाभियुक्ता |
तस्मादयं नार्हति राजशब्दं
राजा भव त्वं नृप पार्थवीर्यात् ||४-७३-१० (३१४९८)
राजा कुरूणां च युधिष्ठिरोऽयं
मात्स्येषु राजा भवतु प्रवीरः
तं मात्स्यदेहं शतधा भिनद्मि
पूर्णोदकं कुम्भमिवाश्मनीह ||४-७३-११ (३१४९९)
अर्जुन उवाच. ४-७३-१२क्ष् (३२९८)
भवतः क्षमया राजन्त्सर्वे दोषाश्च नोऽभवन् |
तं मात्स्यं सबलं हत्वा सपुत्रज्ञातिबान्धवम् |
पश्चाच्चैव कुरून्सर्वान्हनिष्यामि न संशयः ||४-७३-१२ (३१५००)
भीमसेनश्च ये चान्ये तथैवेति तमब्रुवन् ||४-७३-१३ (३१५०१)
तमब्रवीद्धर्मसुतो महात्मा
क्षमी वदान्यः कुपितं च भीमम् |
न प्रत्युपस्थास्यति चेत्सदारः
प्रसादने सम्यगथास्तु वध्यः ||४-७३-१४ (३१५०२)
न हन्तव्यो दुरात्माऽयं विराटश्चापि तेऽर्जुन ||४-७३-१५ (३१५०३)
श्वः प्रभाते प्रवेक्ष्यामः सभां सिंहासनेष्वपि |
राजवेषेण संयुक्ताः स्थानमस्व स्वलंकृताः ||४-७३-१६ (३१५०४)
विराटो यदि तत्रस्थान्राजालङ्कारशोभितान् |
राजलक्षणसंपन्नान्यदि तत्र न मंस्यते |
पश्चाद्धन्यामहे पार्थ विराटं सहबान्धवम् ||४-७३-१७ (३१५०५)
इतिकर्तव्यतां सर्वे मन्त्रयित्वा तु पाण्डवाः |
न्यवसंश्चैव तां रात्रिं धर्मज्ञा धर्मवत्सलाः ||४-७३-१८ (३१५०६)
सहपुत्रेण मात्स्यः स संप्रहृष्टो नराधिपः |
तां रात्रिमवसत्प्रीतः संप्रहृष्टेन चेतसा ||||४-७३-१९ (३१५०७)
इति श्रीमन्महाभारते विराटपर्वणि गोग्रहणपर्वणि त्रिसप्ततितमोऽध्यायः ||
विराटपर्व -अध्याय ०७४
||श्रीः ||
४. ७४. अध्यायः ७४
Mahabharata -Virata Parva -Chapter Topics
कुरुविजयदिनात्परेद्युः प्रभाते युधिष्ठिरादिभी राजलक्षणधारणेन
सिंहासनादिषूपवेशनम् ||१ ||
ततः सहोत्तरेण सभामागतवता विराटेन युधिष्ठिरंप्रति
राजासनोपवेशनाक्षेपः ||२ ||
अर्जुनेन तंप्रति युधिष्ठिरस्य याथातथ्यकथनेन
तदीयगुणानुवर्णनपूर्वकं तस्य राजासनारोहणार्हत्वप्रतिपादनम् ||३ ||
Mahabharata -Virata Parva -Chapter Text
वैशम्पायन उवाच |
ततो द्वितीये दिवसे भ्रातरः पञ्च पाण्डवाः |
स्नाताः शुक्लाम्बरधराः सर्वे सुचरितव्रताः ||४-७४-१ (३१५०८)
युधिष्ठिरं पुरस्कृत्य सर्वाभरणभूषिताः |
अभिपन्ना महाभागा भ्राजमाना महारथाः ||४-७४-२ (३१५०९)
विराटस्य सभां प्राप्य भूमिपालासनेषु ते |
निषेदुः पावकप्रख्याः सत्रे धिष्ण्येष्विवाग्नयः ||४-७४-३ (३१५१०)
तेषु तत्रोपविष्टेषु विराटः पृथिवीपतिः |
तस्यां रात्र्यां व्यतीतायां प्रातःकृत्यं समाप्य च ||४-७४-४ (३१५११)
गोसुवर्णादिकं दत्त्वा ब्राह्मणेभ्यो यथाविधि |
आजगाम सभां राजा उत्तरेण सह प्रभो ||४-७४-५ (३१५१२)
स तान्दृष्ट्वा महासत्वाञ्ज्वलतः पावकानिव |
राजवेषानुपादाय पार्थिवो विस्मितोऽभवत्. ४-७४-६ (३१५१३)
किमिदं को विधिस्त्वेष भयार्त इव पार्थिवः |
पुरुषप्रवरान्दृष्ट्वा विषादमगमन्नृपः ||४-७४-७ (३१५१४)
अथ मात्स्योऽब्रवीत्कङ्खं देवराजमिव स्थितम् |
मरुद्गणैरुपासीनं त्रिदशानामिवेश्वरम् ||४-७४-८ (३१५१५)
स किलाक्षनिवापस्त्वं सभास्तारो मया कृतः |
अथ राजासने कस्मादुपविष्टोऽस्यलंकृतः ||४-७४-९ (३१५१६)
वैशम्पायन उवाच. ४-७४-१०क्ष् (३२९९)
परिहासेच्छया राज्ञो विराटस्य निशम्य तत् |
स्मयमानोऽब्रवीद्वाक्यमर्जुनः परवीरहा ||४-७४-१० (३१५१७)
इन्द्रस्यार्धासनं राजन्नयमारोढुमर्हति |
ब्रह्मण्यः श्रुतवांस्त्यागी सर्वलोकाभिपूजितः ||४-७४-११ (३१५१८)
एष विग्रहवान्धर्म एष वीर्यवतां वरः |
एष बुद्ध्याधिको लोके तपसां च परायणम् ||४-७४-१२ (३१५१९)
एषोऽस्त्रं विविधं वेत्ति त्रैलोक्ये सचराचरे |
न चैवान्यः पुमान्वेत्ति न वेत्स्यति कदाचन ||४-७४-१३ (३१५२०)
न देवा नासुराः केचिन्न मनुष्या न राक्षसाः |
गन्धर्वयक्षप्रवराः सकिन्नरमहोरगाः ||४-७४-१४ (३१५२१)
दीर्घदर्शी महातेजाः पारैजानपदप्रियः |
पाण्डवानामतिरथो यज्ञधर्मपरो वशी ||४-७४-१५ (३१५२२)
महर्षिकल्पो राजर्षिः सर्वलोकेषु विश्रुतः |
बलवान्धृतिमान्दक्षः सत्यवादी जितेन्द्रियः ||४-७४-१६ (३१५२३)
धनैश्च संचयैश्चैव शक्रवैश्रवणोपमः |
यथा मनुर्महातेजा लोकानां परिरक्षिता |
एवमेव महातेजाः प्रजानुग्रहकारकः ||४-७४-१७ (३१५२४)
अयं कुरूणामृषभः कुन्तीपुत्रो युधिष्ठिरः |
यस्य कीर्तिः स्थिता लोके सूर्यस्येवोद्यतः प्रभा ||४-७४-१८ (३१५२५)
संसरन्ति दिशः सर्वा यशसोस्य गभस्तयः |
उदितस्येव सूर्यस्य तेजसोऽनुगभस्तयः ||४-७४-१९ (३१५२६)
एनं त्रिंशत्सहस्राणि कुञ्जराणां तरस्विनाम् |
अन्वयुः पृष्ठतो राजन्यावदध्यावसत्कुरून् ||४-७४-२० (३१५२७)
त्रिंशच्चैव सहस्राणि रथानां रथिनां वरम् |
सदश्वैरुपसंपन्नाः पृष्ठतोऽनुययुस्तदा ||४-७४-२१ (३१५२८)
वाजिनां च शतं राजन्त्सहस्राण्ययुतानि च |
इममष्टशतं सूताः सुमृष्टमणिकुण्डलाः |
तुष्टुवुर्मागधैः सार्धं पुरा शक्रमिवर्षयः ||४-७४-२२ (३१५२९)
इमं नित्यपुमातिष्ठन्कुरवः किंकरास्तदा |
सर्वे च नृप राजानं धनेश्वरमिवामराः ||४-७४-२३ (३१५३०)
एष सर्वान्महीपालान्करमाहारयत्तदा |
वैश्यानिव महाराज विवशान्स्ववशानपि ||४-७४-२४ (३१५३१)
अष्टाशीतिसहस्राणि स्नातकानां महात्मनाम् |
उपजीवन्ति राजानमेनं सुचरितव्रताः ||४-७४-२५ (३१५३२)
एष वृद्धाननाथांश्च व्यङ्गान्पङ्गूश्चं वामनान् |
पुत्रवत्पालयामास प्रजाधर्मेण चाभिभूः ||४-७४-२६ (३१५३३)
एष धर्मे दमे चैव दाने सत्ये रतः सदा |
महाप्रसादो ब्रह्मण्यः सत्यवादी च पार्थिवः ||४-७४-२७ (३१५३४)
श्रीमत्संपत्प्रभावेन तप्यते यस्य कौरवः |
रगणः सह कर्णेन सौबलेन च वीर्यवान् ||४-७४-२८ (३१५३५)
गुणा न शक्याः संख्यातुमेतस्यैव नरेश्वर |
एष धर्मपरो नित्यमनृशंसः सुशीलवान् ||४-७४-२९ (३१५३६)
एवं युक्तो महाराजा पाण्डवः पुरुषर्षभः |
कथं नार्हति राजार्हमासनं पृथिवीपतिः ||||४-७४-३० (३१५३७)
इति श्रीमन्महाभारते विराटपर्वणि वैवाहिकपर्वणि
चतुःसप्ततितमोऽध्यायः ||
विराटपर्व -अध्याय ०७५
||श्रीः ||
४. ७५. अध्यायः ७५
Mahabharata -Virata Parva -Chapter Topics
अर्जुनेन विराटप्रश्नाद्वललादीनां भीमसेनादित्वकथनम् ||१ ||
उत्तरेण विराटंप्रति तत्तल्लक्षणाभिधानपूर्वकं युधिष्ठिरादीनां
निर्देशः ||२ ||
तथाऽर्जुनपराक्रमवर्णनम् ||३ ||
ततो विराटेन सप्रणामं युधिष्ठिरादिप्रसादनम् ||४ ||
Mahabharata -Virata Parva -Chapter Text
४-७५-० (३१५३८)
विराट उवाच. ४-७५-०क्ष् (३३००)
यद्येष राजा कौरव्यः कुन्तीपुत्रो युधिष्ठिरः |
कतमोऽस्यार्जुनो भ्राता भीमश्च कतमो बली ||४-७५-१ (३१५३९)
नकुलः सहदेवो वा द्रौपदी वा यशस्विनी |
यदा ह्यक्षैर्जिता ह्येते नान्तरा श्रूयते कथा ||४-७५-२ (३१५४०)
अर्जुन उवाच. ४-७५-३क्ष् (३३०१)
य एष बललोऽभूत्ते सूपकारश्च ते नृप |
एष भीमो महाभाग भीमवेगपराक्रमः ||४-७५-३ (३१५४१)
एष क्रोधवशान्हत्वा पर्वते गन्धमादने |
सौगन्धिकानि पुष्पाणि कृष्णार्थे समुपानयत् ||४-७५-४ (३१५४२)
गन्धर्व एष वै हन्ता कीचकानां दुरात्मनाम् |
व्याघ्रानृक्षान्गजांश्चैव हतवांश्च पुरे तव ||४-७५-५ (३१५४३)
हिडिम्बं च बकं चैव किर्मीरं च जटासुरम् |
हत्वा निष्कण्टकं चक्रे अरण्यं सर्वतः शुभम् ||४-७५-६ (३१५४४)
यश्चासीदश्वबन्धस्ते नकुलोऽयं परन्तप |
गोसङ्ख्यः सहदेवश्च माद्रीपुत्रौ महाबलौ ||४-७५-७ (३१५४५)
शृङ्गारवेषारणौ रूपवन्तौ मनस्विनौ |
नानारथसहस्राणां समर्थौ भरतर्षभौ ||४-७५-८ (३१५४६)
एषा पद्मपलाशाक्षी सुमध्या चारुहासिनी |
सैरन्ध्री द्रौपदी राजन्यकृते कीचका हताः ||४-७५-९ (३१५४७)
द्रुपदस्य प्रिया पुत्री धृष्ट्युम्नस्य चानुजा |
अग्निकुण्डात्समुद्भूता द्रौपदी त्ववगम्यताम् ||४-७५-१० (३१५४८)
भीम उवाच. ४-७५-११क्ष् (३३०२)
अस्त्रज्ञो दुर्लभः कश्चित्केवलं पृथिवीमनु |
धनुर्भृतामतिश्रेष्ठः कौन्तेयोयं धनंजयः ||४-७५-११ (३१५४९)
एतेन खाण्डवं तस्य ह्यकामस्य शतक्रतोः |
दग्धं नागवनं चैव सह नागैर्नराधिप ||४-७५-१२ (३१५५०)
वर्षं च शरवर्षेण वारितं दुर्जयेन वै |
करमाहारिताः सर्वे पार्थिवाः पृथिवीतले ||४-७५-१३ (३१५५१)
स्त्रीवेषं कृतवानेष तव राजन्निवेशने |
बृहन्नलेति यामाहुरर्जुनं जयतांवरम् ||४-७५-१४ (३१५५२)
उषिताःस्म सुखं सर्वे तव राजन्निवेशने |
अज्ञातवासे निभृता गर्भवास इव प्रजाः ||४-७५-१५ (३१५५३)
वैशम्पायन उवाच. ४-७५-१६क्ष् (३३०३)
यदाऽर्जुनेन ते वीराः कथिताः पञ्च पाण्डवाः |
पुनरेव च तान्पार्थान्दर्शयामास चोत्तरः ||४-७५-१६ (३१५५४)
उत्तर उवाच. ४-७५-१७क्ष् (३३०४)
य एष जाम्बूनदशुद्धगौर-
तनुर्महान्सिंह इव प्रवद्धः |
प्रचण्डघोणः पृथुदीर्घनेत्र-
स्ताम्रायताक्षः कुरुराज एषः ||४-७५-१७ (३१५५५)
अयं पुनर्मत्तगजेन्द्रगामी
प्रतप्तचामीकरशुद्धगौरः |
पृथ्वायतांसो गुरुदीर्घबाहु-
र्वृकोदरः पश्यत पश्यतैनम् ||४-७५-१८ (३१५५६)
यस्त्वेव पार्श्वेऽस्य महाधनुष्मा-
ञ्श्यामो युवा वारणयूथपोपमः |
सिंहोन्नतांसो गजराजगामी
पद्मायताक्षोऽर्जुन एष वीरः ||४-७५-१९ (३१५५७)
राज्ञः समीपे पुरुषोत्तमौ तु
यमाविमौ विष्णुमहेन्द्रकलौ |
मनुष्यलोके सकले समोऽस्ति
ययोर्न रूपे न बले न शीले ||४-७५-२० (३१५५८)
आभ्यां तु पार्श्वे कनकोत्तमाङ्गी
यैषा प्रभा मूर्तिमतीव गौरी |
नीलोत्पलाभा सुरदेवतेव
कृष्णा स्थिता मूर्तिमतीव लक्ष्मीः ||४-७५-२१ (३१५५९)
वैशम्पायन उवाच. ४-७५-२२क्ष् (३३०५)
एवं निवेद्य तान्पार्थान्पाण्डवान्पञ्च भूपतेः |
ततोऽर्जुनस्य वैराटिः कथयामास विक्रमम् ||४-७५-२२ (३१५६०)
अयं स द्विषतां मध्ये मृगाणामिव केसरी |
अचरद्रथबृन्देषु निघ्नंस्तेषां परावरान् ||४-७५-२३ (३१५६१)
अनेन विद्धा मातङ्गा महामेघोपमास्तदा |
हिरण्यकक्ष्याः संग्रामे दन्ताभ्यामगमन्महीम् ४-७५-२४ (३१५६२)
अनेन विजिता गावो निर्जिताः कुरवो युधि |
अस्य शङ्खस्य शब्देन कर्णौ मे बधिरीकृतौ ||४-७५-२५ (३१५६३)
जायते रोमर्षो मे संस्मृत्यास्य धनुर्ध्वनिम् |
ध्वजस्य वानरं भूतैराक्रोशन्तं सहानुगैः ||४-७५-२६ (३१५६४)
नाददानं शरान्घोरान्न मुञ्चन्तं शरोत्करान् |
न कार्मुकं विकर्षन्तमेनं पश्यामि संयुगे ||४-७५-२७ (३१५६५)
एतद्धनुःप्रमुक्ताश्च शराः पुङ्खानुपुङ्खिनः |
नालक्ष्येषु रणे पेतुर्नाराचा रक्तभोजनाः ||४-७५-२८ (३१५६६)
तीक्ष्णनाराचसंकृत्तशिरोबाहूरुवक्षसाम् |
कलेबराणि दृश्यन्ते योधानां साश्वसादिनां ||४-७५-२९ (३१५६७)
अनेन तटिनी तत्र शोणिताम्बुप्रवाहिनी |
प्रवर्तिता भीमरूपा यां स्मृत्वाऽद्यापि मे मनः |
प्रकम्पते चण्डवायुकम्पिता कदली यथा ||४-७५-३० (३१५६८)
अनेन राजन्वीरेण भीष्मद्रोणमुखा रथाः |
दुर्योधनेन सहिता निर्जिता भीमकर्मणा ||४-७५-३१ (३१५६९)
अयं भीतं द्रवन्तं मां देवपुत्रो न्यवारयत् |
यस्य बाहुबलेनास्मि जीवन्प्रत्यागतः पुरम् ||४-७५-३२ (३१५७०)
वैशम्पायन उवाच. ४-७५-३३क्ष् (३३०६)
तस्य तद्वचनं श्रुत्वा मात्स्यराजः प्रतापवान् |
धनंजयं परिष्वज्य पाण्डवानथ सर्वशः ||४-७५-३३ (३१५७१)
धर्मराजं नमस्कृत्य राजा राज्येऽभिषेचितम् |
नातृप्यद्दर्शने तेषां विराटो वाहिनीपतिः ||४-७५-३४ (३१५७२)
संप्रीयमाणो राजानां युधिष्ठिरमथाब्रवीत् |
दिष्ट्या भवन्तः संप्राप्ताः सर्वे कुशलिनो वनात् |
दिष्ट्या विचरितं कृच्छ्रमज्ञातं च दुरात्मभिः ||
इदं राज्यं च वः सर्वं यच्चापि वसु किंचन |
विभक्तमेतद्भवतां नोत्कण्ठां कर्तुमर्हथ |
अविभक्तं भवद्भिर्मे न सन्देहो नराधिपाः ||||४-७५-३५ (३१५७३)
इति श्रीमन्महाभारते विराटपर्वणि वैवाहिकपर्वणि
पञ्चसप्ततितमोऽध्यायः ||
विराटपर्व -अध्याय ०७६
||श्रीः ||
४. ७६. अध्यायः ७६
Mahabharata -Virata Parva -Chapter Topics
उत्तरेण विराटंप्रति युधिष्ठिरादिकृतोपकारस्मारणपूर्वकमुत्तरायाः
प्रदानेन तत्प्रसादनचोदना ||१ ||
युधिष्ठिरेणोत्तराया पुरस्कारेण सप्रणामं प्रसादयते
विराटायाभयप्रदानम् ||२ ||
Mahabharata -Virata Parva -Chapter Text
४-७६-० (३१५७४)
वैशम्पायन उवाच. ४-७६-०क्ष् (३३०७)
विराटस्य वचः श्रुत्वा पार्थिवस्य महात्मनः |
उत्तरः प्रत्युवाचेदमभिपन्नो युधिष्ठिरे ||४-७६-१ (३१५७५)
प्रसादनं प्राप्तकालं पाण्डवस्याभिरोचये |
तेजस्वी बलवाञ्शूरो राजराजेश्वरः प्रभुः ||४-७६-२ (३१५७६)
उत्तरां च स्वसारं मे पार्थस्यामित्रकर्शन |
प्रणिपत्य प्रयच्छामस्ततः शिष्टा भवामहे. ४-७६-३ (३१५७७)
वयं च सर्वे सामात्याः कुन्तीपुत्रं युधिष्ठिरम् |
प्रसाद्याभ्युपतिष्ठामो राजन्किं करवागहे ||४-७६-४ (३१५७८)
राजंस्त्वमसि संग्रामे गृहीतस्तेन मोक्षितः |
एतेषां बाहुवीर्येण गावश्च विजितास्त्वया ||४-७६-५ (३१५७९)
कुरवो निर्जिता यस्मात्संग्रामेऽमिततेजसः |
एष तत्सर्वमकरोत्कुन्तीपुत्रो युधिष्ठिरः ||४-७६-६ (३१५८०)
अर्च्याः पूज्याश्च मान्याश्च प्रत्युत्थेयाश्च पाण्डवाः |
अर्वार्हाश्चाभिवाद्याश्च प्राप्तकालं च मे मतम् ||४-७६-७ (३१५८१)
पूज्यतां पूजनीयाश्च महाभागाश्च पाण्डवाः |
न ह्येते कुपिता शेषं कुर्युराशीविषोपमाः ||४-७६-८ (३१५८२)
तस्माच्छीघ्रं प्रपद्येम कुन्तीपुत्रं युधिष्ठिरम् |
प्रसादयाम्यहं तत्र सह पार्थेर्महात्मभिः ||४-७६-९ (३१५८३)
उत्तरामग्रतः कृत्वा शिरःस्नातां कृताञ्जलिः |
जानाम्यहमिदं सर्वमेषां तु बलपौरुषम् |
कुले च जन्म महति फल्गुनस्य च विक्रमम् ||४-७६-१० (३१५८४)
वैशम्पायन उवाच. ४-७५-११क्ष् (३३०८)
उत्तरात्पाण्डवाञ्श्रुत्वा विराटो रिपुसूदनः |
उत्तरं चापि संप्रेक्ष्य प्राप्तकालमचिन्तयत् ||४-७६-११ (३१५८५)
ततो विराटः सामात्यः सहपुत्रः सबान्धवः |
उत्तरामग्रतः कृत्वा शिरःस्नातां कृताञ्जलिः |
भूमौ निपतितस्तूर्णं पाण्डवस्य समीपतः ||४-७६-१२ (३१५८६)
विराट उवाच. ४-७६-१३क्ष् (३३०९)
प्रसीदतु महाराजो धर्मपुत्रो युधिष्ठिरः |
प्रच्छन्नरूपवेषत्वान्नाग्निर्दृष्टस्तृणैर्वृतः ||४-७६-१३ (३१५८७)
शिरसाऽभिप्रपन्नोस्मि सपुत्रपरिचारकः ||४-७६-१४ (३१५८८)
यदस्माभिरजानद्भिरधिक्षिप्तो महीपतिः |
अवमत्य कृतं सर्वमज्ञानात्प्राकृते यथा |
क्षन्तुमर्हसि तत्सर्वं धर्मज्ञो धर्मवत्सल ||४-७६-१५ (३१५८९)
यदिदं मामकं राष्ट्रं पुरं राज्यं च पार्थिव |
सदण्डकोशं विसृजे तव वश्योस्मि पार्थिव |
वयं च सर्वे सामात्या भवन्तं शरणं गताः ||४-७६-१६ (३१५९०)
वैशम्पायन उवाच. ४-७६-१७क्ष् (३३१०)
तं धर्मराजः पतितं महीतले
सबन्धुवर्गं प्रसमीक्ष्य पार्थिवम् |
उवाच वाक्यं परलोकदर्शनः
प्रनष्टमन्युर्गतशोकमत्सरः ||४-७६-१७ (३१५९१)
न मे भयं पार्थिव विद्यते मयि
प्रतीतरूपोस्म्यनुचिन्त्य मानसम् |
एतत्त्वया सम्यगिहोपपादितं
द्विजैरमात्यैः सदृशैश्च पाण्डितैः |
इमां च कन्यां समलंकृतां भृशं
समीक्ष्य तुष्टोस्मि नरेन्द्रसत्तम ||४-७६-१८ (३१५९२)
क्षान्तमेतन्महाबाहो यन्मां वदसि पार्थिव |
न चैव किंचित्पश्यामि विकृतं ते नराधिप ||४-७६-१९ (३१५९३)
वैशम्पायन उवाच. ४-७६-२०क्ष् (३३११)
ततो विराटः परमामितुष्टः
समेत्य राज्ञा समयं चकार |
राज्यं च सर्वं विससर्ज तस्मै
सदण्डकोशं सपुरं महात्मा ||||४-७६-२० (३१५९४)
इति श्रीमन्महाभारते विराटपर्वणि वैवाहिकपर्वणि
षट्सप्ततितमोऽध्यायः ||
Mahabharata -Virata Parva -Chapter Footnotes
४-७६-१ अभिपन्नोऽपराधं कृतवान् ||
१ ||
४-७६-३ ततस्तुष्टा भवन्तु ते इति थो पाठः ||
३ ||
विराटपर्व -अध्याय ०७७
||श्रीः ||
४. ७७. अध्यायः ७७
Mahabharata -Virata Parva -Chapter Topics
विराटेनार्जुनंप्रति स्वकुमार्या उत्तराया भार्यात्वेन प्रतिग्रहणप्रार्थने
तंप्रत्यर्जुनेन सहेतुकथनं स्नुपात्वेन परिग्रहाङ्गीकरणम् ||१ ||
दुर्योधनेन युधिष्ठिरंप्रति दूतमुखेन
त्रयोदशवत्सरस्यासंपूर्तावेवार्जुनेनात्मप्रकाशनात्पुनर्वनवास-
विधेयतानिवेदनम् ||२ ||
युधिष्ठिरेण तंप्रति तेनैव दूतेन भीष्ममुखात्संदेहस्य
परिहरणीयताप्रतिवेदनम् ||३ ||
भीष्मेण विचार्य निर्धारणपूर्वकं संकेतकालस्य पूर्णत्वोक्तिः ||४ ||
Mahabharata -Virata Parva -Chapter Text
४-७७-० (३१५९५)
विराट उवाच. ४-७७-०क्ष् (३३१२)
यच्च वक्ष्याम्यहं तेऽद्य मा शङ्केथा युधिष्ठिर |
इदं सनगरं राष्ट्रं सजनं सवधूजनम् |
युष्यभ्यं संप्रदास्यामि भोक्ष्याम्युच्छिष्टमेव च ||४-७७-१ (३१५९६)
अहं वद्धश्चिरं राजन्भुक्तभोगश्चिरं सुखम् |
राज्यं दत्त्वा तु युष्मभ्यं प्रव्रजिष्यामि काननम् ||४-७७-२ (३१५९७)
उत्तरां प्रतिगृह्णातु सव्यसाची धनंजयः |
अयं ह्यौपयिको भर्ता तस्याः पुरुषसत्तमः ||४-७७-३ (३१५९८)
वैशम्पायन उवाच. ४-७७-४क्ष् (३३१३)
एवमुक्तो धर्मराजः पार्थपैक्षद्वनंजयम् |
ईक्षितं चार्जुनो ज्ञात्वा मात्स्यं वचनमब्रवीत् ||४-७७-४ (३१५९९)
वयं वनान्तरात्प्राप्ता न ते राज्यं गृहामहे |
किंतु दुर्योधनादीनां राज्ञां राज्यं गृहामहे ||४-७७-५ (३१६००)
प्रतिगृह्णाम्यहं राजन्स्रुषं दुहितरं तव |
युक्तो ह्यावां हि संबन्धो मात्स्यभारतवंशयोः ||४-७७-६ (३१६०१)
विराट उवाच. ४-७७-७क्ष् (३३१४)
किमर्थं पाण्डवश्रेष्ठ भार्यां दुहितरं मम |
प्रतिग्रहीतुं नेमां त्वं मया दत्तमिहेच्छसि ||४-७७-७ (३१६०२)
अर्जुन उवाच. ४-७७-८क्ष् (३३१५)
अन्तःपुरेऽहमुषितः सदा पश्यन्सुतां तव |
सहस्यं च प्रकाशं च विश्वस्ता पितृवन्मयि ||४-७७-८ (३१६०३)
प्रियो बहुमतश्चाहं नर्तने गीतवादिते |
आचार्यवच्च मां नित्यं मन्यते दुहिता तव ||४-७७-९ (३१६०४)
वयस्यया तया राजन्सह संवत्सरोषितः |
अतिशङ्का ततोऽस्थाने तव लोकस्य च प्रभो ||४-७७-१० (३१६०५)
तस्मादामन्त्रये त्वाऽद्य पुत्रार्थं मे विशांपते |
सुद्धं जितेन्द्रियं मन्ये तस्याः शुद्धिः कृता मया ||४-७७-११ (३१६०६)
स्नुषायां दुहितुर्वापि पुत्रे चात्मनि वा पुनः |
अतिशङ्कां न पश्यामि तेन शुद्धिर्भविष्यति ||४-७७-१२ (३१६०७)
अभिषङ्गादहं भीतो मिथ्याचारात्परंतप |
स्रुषार्थमुत्तरां राजन्प्रतिगृह्णामि ते सुताम् ||४-७७-१३ (३१६०८)
स्वस्त्रीयो वासुदेवस्य साक्षाद्देवसुतो यथा |
दयितश्चक्रहस्तस्य बलवानस्त्रकोविदः ||४-७७-१४ (३१६०९)
अभिमन्युर्गहाबाहुः पुत्रो मम विशांपते |
जामाता तव युक्तो वै भर्ता च दुहितुस्तव ||४-७७-१५ (३१६१०)
विराट उवाच. ४-७७-१६क्ष् (३३१६)
उपपन्नं कुरुश्रेष्ठे कुन्तीपुत्रे धनंजये |
सदैव धर्मनित्यश्च ज्ञातज्ञानश्च पाण्डवः ||४-७७-१६ (३१६११)
यत्कृत्यं मन्यसे पार्थ क्रियतां तदनन्तरम् |
सर्वे कामाः समृद्धा मे संबन्धी यस्य मेऽर्जुनः ||४-७७-१७ (३१६१२)
वैशम्पायन उवाच. ४-७७-१८क्ष् (३३१७)
एवं ब्रुवति राजेन्द्रे कुन्तीपुत्रो युधिष्ठिरः |
अन्वजानत संबन्धं समये कृष्णमात्स्ययोः ||४-७७-१८ (३१६१३)
दूतान्सर्वेषु मित्रेषु वासुदेवे च भारत |
प्रेषयामास कौन्तेयो विराटश्च महीपतिः | ४-७७-१९ (३१६१४)
प्रतिगृह्य स्नुषार्थं वै दर्शयन्व्रतमात्मनः |
शीलशौचसमाचारं लोकस्यावेद्य फल्गुनः ||४-७७-२० (३१६१५)
लोके विख्याप्य माहात्म्यं यशश्च स परंतपः |
कृतार्थः शुचिरव्यग्रस्तुष्टिमानभवत्तदा ||४-७७-२१ (३१६१६)
युधिष्ठिर उवाच. ४-७७-२२क्ष् (३३१८)
राजन्प्रीतोस्मि भद्रं ते सखा मेऽसि परन्तप |
सुखमध्युषिताः सर्वे अज्ञातास्त्वयि पार्थिव ||४-७७-२२ (३१६१७)
वैशम्पायन उवाच. ४-७७-२३क्ष् (३३१९)
विराटनगरे राजा धर्मात्मा संशितव्रतः |
पूजितश्चाभिषिक्तश्च रत्नैश्च शतशोर्चितः ||४-७७-२३ (३१६१८)
तथा ब्रुवन्तं प्रसमीक्ष्य राजा
परं प्रहृष्टः स्वजनेन तेन |
स्नेहात्परिष्वज्य नृपो भुजाभ्यां
ददौ महार्थं कुरुपाण्डवानाम् ||४-७७-२४ (३१६१९)
युद्धात्प्रयाताः कुरवो हि मार्गे
समेत्य सर्वे हितमेव तत्र |
आचार्यपुत्रः शकुनिश्च राजा
दुर्योधनः सूतपुत्रश्च कर्णः |
संमन्त्र्य राजन्सहिताः समर्थाः
समादिशन्दूतमथो समग्राः ||४-७७-२५ (३१६२०)
युधिष्ठिरश्चापि सुसंग्रहृष्टो
दुर्योधनाद्दूतमपश्यदागतम् |
स चाब्रवीद्धर्मराजं समेत्य
युधिष्ठिरं पाण्डवमुग्रवीर्यम् ||४-७७-२६ (३१६२१)
धनञ्जयेनासि पुनर्वनाय
प्रव्राजितः समये तिष्ठ पार्थः |
त्रयोदशे ह्येव किरीटमाली
संवत्सरे पाण्डवेयोऽद्य दृष्टः ||४-७७-२७ (३१६२२)
वैशम्पायन उवाच. ४-७७-२८क्ष् (३३२०)
ततोऽब्रवीद्धर्मसुतः प्रहस्य
क्षिप्रं गत्वा ब्रूहि सुयोधनं तम् |
पितामहः शान्तनवो ब्रवीतु
पूर्णो न पूर्णोऽद्य त्रयोदशो नः ||४-७७-२८ (३१६२३)
संवत्सरात्ते तु धनञ्जयेन
विष्फारितं गाण्डिवमाजिमध्ये |
पूर्णो न पूर्णो न इति ब्रवीतु
यदस्य सत्यं मम तत्प्रमाणम् ||४-७७-२९ (३१६२४)
तेनैवमुक्तः स निवृत्य दूतो
दुर्योधनं प्राप्य शशंस तत्त्वम् ||४-७७-३० (३१६२५)
समेत्य दूतेन स राजपुत्रो
दुर्योधनो मन्त्रयामास तत्र |
भीष्मेण कर्णेन कृपेण चैव
द्रोणेन भूरिश्रवसा च सार्धम् ||४-७७-३१ (३१६२६)
संमन्त्र्य रात्रौ बहुभिः सुहृद्भि-
र्भीष्मोऽब्रवीद्धार्तराष्ट्रं महात्मा |
तीर्णप्रतिज्ञेन धनंजयेन
विष्फारितं गाण्डिवमाजिमध्ये ||४-७७-३२ (३१६२७)
वैशम्पायन उवाच. ४-७७-३३क्ष् (३३२१)
नेच्छन्त्यसत्येन सुरेन्द्रलोकं
पाण्डोः सुता ब्रह्मणश्चापि लोकम् |
तथ्यं च ते पथ्यमहं ब्रवीमि
स्वर्ग्यं यशस्यं परलोकपथ्यम् ||४-७७-३३ (३१६२८)
कुन्तीसुतैस्त्वं समुपैहि सन्धिं
भुङ्क्ष्व स्वराज्यं सह पाण्डवेयैः |
युध्यस्व नोचेत्स्थिरबुद्धिराजौ
कुन्तीसुतैर्यद्यपि राज्यमिच्छेः ||४-७७-३४ (३१६२९)
आन्तं न शक्यं कपटेन भोक्तुं
राज्यं परेषां महतां बलीनाम् |
जित्वा शत्रून्भुङ्क्ष्व राज्यं समग्रं
हतो भवान्भोक्ष्यति वज्रिलोकम् ||४-७७-३५ (३१६३०)
वैशम्पायन उवाच. ४-७७-३६क्ष् (३३२२)
ततः स भागीरथिसूनुवाक्यं
निशम्य गान्धारितनूद्भवो नृपः |
उवाच भीष्मं प्रमुखे च पित्रो-
र्महीं न दद्यामणुमात्रिकामपि |
निहन्मि पाण्डूदरसंभवान्वा
हतोस्मि तैर्वा सुरलोकमेमि ||४-७७-३६ (३१६३१)
ते धार्तराष्ट्राः समयं निशम्य
तीर्णप्रतिज्ञस्य धनंजयस्य
संचिन्त्य सर्वे सहिताः सुहृद्भिः
सपार्थिवाः स्वानि गृहाणि जग्मुः ||||४-७७-३७ (३१६३२)
इति श्रीमन्महाभारते विराटपर्वणि वैवाहिकपर्वणि
सप्तसप्ततितमोऽध्यायः ||
Mahabharata -Virata Parva -Chapter Footnotes
४-७७-६ आवां आवयोः ||
६ ||
विराटपर्व -अध्याय ०७८
||श्रीः ||
४. ७८. अध्यायः ७८
Mahabharata -Virata Parva -Chapter Topics
अज्ञातवासपरिसमापनानन्तरमुपप्लाव्यनगरे वसद्भिः
पाण्डवैर्दूतमुखेन समाहूतै रामकृष्णादिभिः
सुभद्राभिमन्युप्रभृतिभिः सहोपप्लाव्यं प्रत्यागमनम् ||१ ||
तथा द्रौपदेयादिभिः सह द्रुपदादिभिरागमनम् ||२ ||
तत उत्तरयाऽभिमन्योरुद्वाहः ||३ ||
Mahabharata -Virata Parva -Chapter Text
४-७८-० (३१६३३)
वैशम्पायन उवाच. ४-७८-०क्ष् (३३२३)
ततस्त्रयोदशे वर्षे निवृत्ते पञ्च पाण्डवाः |
उपप्लाव्ये विराटस्य वासं चक्रुः पुरोत्तमे ||४-७८-१ (३१६३४)
दूतान्मित्रेषु सर्वेषु ज्ञातिसंबन्धिकेष्वपि |
प्रेषयामास कौन्तेयो विराटश्च महीपतिः ||४-७८-२ (३१६३५)
तेषु तत्रोपविष्टेषु प्रेषितेषु ततस्ततः |
तत्रागमन्महाबाहुर्वनमाली बलानुजः ||४-७८-३ (३१६३६)
तस्मिन्काले निशम्याथ दूतवाक्यं जनार्दनः |
दयितं स्वस्त्रियं पुत्रं सुभद्रायाः सुमानितम् |
अभिमन्युं समादाय रामेण सहितस्तदा ||४-७८-४ (३१६३७)
सर्वयादवमुख्यैश्च संवृतः परवीरहा |
शङ्खदुन्दुभिनिर्घोषैर्विराटनगरं ययौ ||४-७८-५ (३१६३८)
कृतवर्मा च हार्दिक्यो युयुधानश्च सात्यकिः |
अनाधृष्टिस्तथाऽक्रूरः सांबो निशठ एव च |
प्रद्युम्नश्च महाबाहुरुल्मुकश्च महाबलः ||४-७८-६ (३१६३९)
अभिमन्युमुपादाय सह मात्रा परन्तपाः |
कृष्णेन सहिताः सर्वे पाण्डवान्द्रष्टुमागताः ||४-७८-७ (३१६४०)
इन्द्रसेनादयश्चैव रथैस्तैः सुसमाहितैः |
उपेयुः सहिताः सर्वे परिसंवत्सरोषिताः ||४-७८-८ (३१६४१)
दशनागसहस्राणि हयानां द्विगुणं तथा |
रथानां नियुतं पूर्णं निखर्वं च पदातयः ||४-७८-९ (३१६४२)
वृष्ण्यन्धकाश्च शतशो भोजाश्च परमौजसः |
अन्युर्वृष्णिशार्दूलं वासुदेवं महाबलम् ||४-७८-१० (३१६४३)
वासुदेवं तथाऽऽयान्तं श्रुत्वा पाण्डुसुतास्तदा |
मात्स्येन सहिताः सर्वे प्रत्युद्याता जनार्दनम् ||४-७८-११ (३१६४४)
शङ्खदुन्दुभिनिर्घोषैर्मङ्गलैश्च जनार्दनम् |
ववन्दुर्मुदिताः सर्वे पादयोस्तस्य पाण्डवाः |
मात्स्येन सहिताः सर्वे आनन्दाश्रुपरिप्लुताः ||४-७८-१२ (३१६४५)
पाण्डवा ऊचुः. ४-७८-१३क्ष् (३३२४)
तव कृष्ण प्रसादाद्वै वर्षाण्येतानि सर्वशः |
त्रयोदशोपि दाशार्ह यथा स समयः कृतः ||४-७८-१३ (३१६४६)
उषिताः स्मो जगन्नाथ त्वं नाथो नो जनार्दन |
रक्षस्व देवदेवेश त्वामार्य शरणं गताः ||४-७८-१४ (३१६४७)
वैशम्पायन उवाच. ४-७८-१५क्ष् (३३२५)
तान्वन्दूमानान्सहसा परिष्वज्य जनार्दनः |
विराटस्य सहायांस्तान्सर्वयादवसंवृतः ||४-७८-१५ (३१६४८)
यथार्हं पूजयामास मुदा परमया युतः |
वृष्णिवीराश्च तान्सर्वान्यथार्हं प्रतिपेदिरे ||४-७८-१६ (३१६४९)
कृष्णा च देवकीपुत्रं ववन्दे पादयोस्तथा |
तामुद्यम्य सुकेशान्तां नयने परिमृज्य च |
उवाच वाक्यं देवेशः सर्वयादवसन्निधौ ||४-७८-१७ (३१६५०)
मा शोकं कुरु कल्याणि धार्तराष्ट्रान्समाहितान् |
अचिराद्धातयित्वाऽहं पार्थेन सहितः क्षितिम् ||४-७८-१८ (३१६५१)
युधिष्ठिराय दास्यामि यातु ते मानसो ज्वरः |
अभिमन्युना च पार्थेनरौक्मिणेयेन ते शपे ||४-७८-१९ (३१६५२)
सत्यमेतद्वचो मह्यमवैहि त्वमनिन्दिते |
इत्युक्त्वा तां विसृज्याथ प्रीयमाणो युधिष्ठिरम् |
अन्वास्त वृष्णिशार्दूलः सह वृष्ण्यन्धकैस्तथा ||४-७८-२० (३१६५३)
काशिराजश्च शैब्यश्च भजमानौ युधिष्ठिरम् |
अक्षौहिणीभ्यां सहितावागतौ पृथिवीपती ||४-७८-२१ (३१६५४)
अक्षौहिणीभिः पाञ्चालस्तिसृभिश्च महाबलः |
द्रौपद्याश्च सुता वीराः शिखण्डी चापराजितः ||४-७८-२२ (३१६५५)
धृष्टद्युम्नश्च दुर्धर्षः सर्वशस्त्रभृतांवरः |
उपप्लाव्यं ययुः शीघ्रं पाण्डवार्थे महाबलाः ||४-७८-२३ (३१६५६)
ततः शतसहस्राणि प्रयुतान्यर्बुदानि च |
समीपमभिवर्तन्ते योधा यौधिष्ठिरं बलम् ||४-७८-२४ (३१६५७)
समुद्रमिव धर्मान्ते स्रोतःश्रेष्ठाः पृथक्पृथक् |
आपूरयन्महीपाला यज्वानो भूरिदक्षिणैः |
वेदावभृथसंपन्नाः शूराः सर्वे तनुत्यजः ||४-७८-२५ (३१६५८)
तानागतानभिप्रेक्ष्य पार्थो ज्ञानभृतां वरः |
पूजयामास विधिवद्यथार्हं राजसत्तमान् ||४-७८-२६ (३१६५९)
पारिबर्हं ददौ कृष्णः पाण्डवानां महात्मनाम् |
स्त्रियो वासांसि रत्नानि पृथक्पृथगनेकशः ||४-७८-२७ (३१६६०)
राजानो राजपुत्राश्च निवृत्ते समये तथा |
यथांर्ह पाण्डवश्रेष्ठैरवर्तन्ताभिपूजिताः |
आसन्प्रहृष्टमनसः पारिबर्हं ददुस्तदा ||४-७८-२८ (३१६६१)
सर्वेषु समवेतेषु राजभिर्वृष्णिभिः सह |
विवाहो विधवद्राजन्ववृधे कुरुमात्स्ययोः ||४-७८-२९ (३१६६२)
ततः शङ्खा मृदङ्गाश्च गोमुखा डिण्डिमास्तदा |
अभिमन्योर्विवाहे तु नेदुर्मात्स्यस्य वेश्मनि ||४-७८-३० (३१६६३)
उच्चावचान्मृगाञ्जघ्नुर्मेध्यांश्च शतशस्तथा |
भक्ष्यान्नभोज्यपानानि प्रभूतान्यभ्यहारयन् ||४-७८-३१ (३१६६४)
गायनाख्यानशीलाश्च नटा वैतालिकास्तथा |
स्तुवन्तस्तानुपातिष्ठन्सूताश्च सह मागधैः ||४-७८-३२ (३१६६५)
स्त्रियो वृद्धास्तरुण्यश्च उत्सवे तस्य मङ्गले |
द्रौपद्यन्तःपुरे चैव विराटस्य गृहे स्त्रियः ||४-७८-३३ (३१६६६)
सुदेष्णां तु पुरस्कृत्य मत्स्यानामपि च स्त्रियः |
आजग्मुश्चारुपीनाङ्ग्यः सुमृष्टमणिकुण्डलाः ||४-७८-३४ (३१६६७)
वर्णोपपन्नास्ता नार्यो रूपवन्तयः स्वलंकृताः |
सर्वासामभवत्कृष्णा रूपेण वपुषाऽधिका ||४-७८-३५ (३१६६८)
परिवार्योत्तरां श्लाघ्यां राजपुत्रीमलंकृताम् |
सुतामिव महेन्द्रस्य पुरस्कृत्योपतस्थिरे ||४-७८-३६ (३१६६९)
भृङ्गारुं तु समादाय सौवर्णं जलपूरितम् |
पार्थस्य हस्ते सहसा सुतामिन्दीवरेक्षणाम् |
स्नुषार्थं प्राक्षिपद्वारि विराटो वाहिनीपतिः ||४-७८-३७ (३१६७०)
तां प्रत्यगृह्णाकौन्तेयः सुतस्यार्थे महामनाः |
सौभद्राश्चानवद्याङ्गो विराटतनयां तदा ||४-७८-३८ (३१६७१)
तत्रातिष्ठद्गृहीत्वा तु रूपमिन्द्रास्य धारयन् |
स्नुषां तां परिगृह्णानः कुन्तीपुत्रो युधिष्ठिरः ||४-७८-३९ (३१६७२)
द्रुपदश्च विराटश्च शिखण्डी च महाबलः |
युयुधानश्च शैब्यश्च धृष्टद्युम्नश्च सात्यकिः ||४-७८-४० (३१६७३)
सप्तैतेऽक्षौहिणीपाला यज्वानो भूरिदक्षिणाः |
पाण्डवं परिवार्यैते निवेशं चक्रिरे तदा ||४-७८-४१ (३१६७४)
तत्रस्थायां तु सेनायां मात्स्यो धर्मभृतांवरः |
प्रीतो दुहितरं गृह्य प्रददावभिमन्यवे ||४-७८-४२ (३१६७५)
प्रतिगृह्योत्तरां पार्थः पुरस्कृत्य जनार्दनम् |
विवाहं कारयामास सौभद्रस्य महात्मनः ||४-७८-४३ (३१६७६)
ततो विवाहो ववृधे स्फीतः सर्वगुणान्वितः |
सौभद्रस्याद्भुतं कर्म पितुस्तव पितुस्तदा ||४-७८-४४ (३१६७७)
धौम्यः शिष्यैः परिवृतो जुहावाग्नौ विधानतः |
अग्निं प्रदक्षिणीकुर्वन्सौभद्रः पाणिमग्रहीत् ||४-७८-४५ (३१६७८)
ततः पार्थाय संहृष्टो मात्स्यराजो धनं महत् |
तस्मै शतसहस्राणि हयानां वातरंहसाम् ||४-७८-४६ (३१६७९)
द्वे च नागशते मुख्ये धनं बहुविधं तदा |
प्रादान्मात्स्यपतिर्हृष्टः कन्याधनमनुत्तमम् ||४-७८-४७ (३१६८०)
पारिबर्हं च पार्थेभ्यः प्रददौ मत्स्यपुङ्गवः |
कृष्णेन सह कौन्तेयः प्रत्यगृह्णात्प्रभूतवत् ||४-७८-४८ (३१६८१)
कृते विवाहे तु तदा धर्मपुत्रो युधिष्ठिरः |
ब्राह्मणेभ्यो ददौ वित्तं यदुपाहरदच्युतः ||४-७८-४९ (३१६८२)
गोसहस्राणि वस्त्राणि रत्नानि विविधानि च |
भूषणानि च सर्वाणि यानानि शयनानि च ||४-७८-५० (३१६८३)
नागरान्प्रीतिभिर्दिव्यैस्तर्पयामास भूपतिः ||४-७८-५१ (३१६८४)
तन्महोत्सवसंकाशं हृष्टपुष्टजनाकुलम् |
नगरं मत्स्यराजस्य शुशुभे भरतर्षभ ||४-७८-५२ (३१६८५)
पुरोहितैरमात्यैश्च पौरैर्जानपदैः सह |
विराटो नृपतिः श्रीमान्सौभद्रायाभिमन्यवे |
तां सुतामुत्तरां दत्त्वा मुमुदे परमं तदा ||४-७८-५३ (३१६८६)
जनमेजय उवाच. ४-७८-५४क्ष् (३३२६)
वृत्ते विवाहे हृष्टात्मा यदुवाच युधिष्ठिरः |
तत्सर्वं कथयस्वेह कृतवन्तो यदुत्तरम् ||||४-७८-५४ (३१६८७)
इति श्रीमन्महाभारते शतसाहस्त्रिकायां संहितायां वैयासिक्यां
विराटपर्वणि वैवाहिकपर्वणि अष्टसप्ततितमोऽध्यायः
||||वैवाहिकपर्व समाप्तम् ||५ ||||समाप्तं च विराटपर्व ||४ ||
Mahabharata -Virata Parva -Chapter Footnotes
अतः परमुद्योगपर्व भविष्यति | तस्यायमाद्यः श्लोकः | कृत्वा
विवाहं तु कुरुप्रवीरा. स्तदाऽभिमन्योर्मुदिताः सपक्षाः. विश्रम्य
रात्रावुषसि प्रतीताः. सभां विराटस्य ततोऽभिजग्मुः ||
इदं विराटपर्व कुंभघोणस्थेन टीओ आरो कृष्णाचार्येण टीओ
आरो व्यासाचार्येण च मुंबय्यां निर्णयसागरमुद्रायन्त्रे मुद्रापितम्
. शकाब्दाः १८३१ सन १९०९.
% File name : mbhK04.itx
%--------------------------------------------
% Text title : 4 virATaparva
% Author : Veda Vyasa
% Language : sanskrit
% Subject : /hindu/philosohphy/religion
% Description/comments : Mahabharata - Southern Recension - Kumbhaghonam Edition
% Based on the `Southern Recension' of the MahAbhArata, edited by Krishnacharya
% 1906-1914
% Transliterated by : Prof. Shrinivasa Varakhedi >worked on this with the
% support of his research team members, Prof. K. V. Ramakrishnamacharyulu, Prof.
% Amba Kulakarni, Prof. Prahladachar, members of MSP Bangalore and many others
% Proofread by :
% Latest update : October 13, 2013
% Send corrections to : (sanskrit at cheerful dot c om)
%
% Site access : https://sanskritdocuments.org/
%-----------------------------------------------------
% The text is to be used for personal studies and research only.
% Any use for commercial purpose is prohibited as a 'gentleman's' agreement.
%--------------------------------------------------------
From https://sanskritdocuments.org
Questions, comments? Write to (sanskrit at cheerful dot c om) .