||१४. आश्वमेधिकपर्व ||
आश्वमेधिकपर्व -अध्याय ००१
||श्रीः ||
१४. १. अध्यायः १
अश्वमेधपर्व ||१ ||
Mahabharata -Ashvamedhika Parva -Chapter Topics
गङ्गायां भीष्मायोदकदानानन्तरं बन्धुशोकविषण्णं
युधिष्ठिरंप्रति धृतराष्ट्रेण समाश्वासनम् ||१ ||
तथा विदुरवचनानादरेण स्वस्यैतादृशानर्थप्राप्तिकथनम् ||२ ||
Mahabharata -Ashvamedhika Parva -Chapter Text
श्रीवेदव्यासाय नमः |
नारायणं नमस्कृत्य नरं चैव नरोत्तमम् |
देवीं सरस्वतीं व्यासं ततो जयमुदीरयेत् ||१४-१-१ (९२३६७)
वैशम्पायन उवाच. १४-१-२क्ष् (७७३०)
कृतोदकस्तु राजानं धृतराष्ट्रं युधिष्ठिरः |
पुरस्कृत्य महाबाहुरुत्तताराकुलेन्द्रियः ||१४-१-२ (९२३६८)
उत्तीर्य तु महाबाहुर्बाष्पव्याकुललोचनः |
पपात तीरे गङ्गाया व्याधविद्ध इव द्विपः ||१४-१-३ (९२३६९)
तं सीदमानं जग्राह भीमः कृष्णेन चोदितः |
मैवमित्यब्रवीच्चैनं कृष्णः परबलार्दनः ||१४-१-४ (९२३७०)
तमार्तं पतितं भूमौ श्वसन्तं च पुनः पुनः |
तदृशुः पार्थिवा राजन्धर्मपुत्रं युधिष्ठिरम् ||१४-१-५ (९२३७१)
त दृष्ट्वा दीनमनसं गतसत्वं नरेश्वरम् |
भूयः शोकसमाविष्टाः पाण्डवाःक समुपाविशन् ||१४-१-६ (९२३७२)
राजा तु धृतराष्ट्रस्तं तथा दीनो महाभुजम् |
वाक्यमाह महाबुद्धिः प्रज्ञाचक्षुर्नरेश्वरम् ||१४-१-७ (९२३७३)
उत्तिष्ठ कुरुशार्दूल कुरु कार्यमनन्तरम् |
क्षत्रधर्मेण कौन्तेय जितेयमवनी त्वया ||१४-१-८ (९२३७४)
भुङ्क्ष सार्धं भ्रातृभिस्तां सुहृद्भिश्च जनेश्वर |
शोचितव्यं न पश्यामि त्वया धर्मभृतांवर ||१४-१-९ (९२३७५)
शोचितव्यं मया चैव गान्धार्या च महीपते |
ययोः पुत्रशतं नष्टं स्वप्नलब्धं यथा धनम् ||१४-१-१० (९२३७६)
अश्रुत्वा हितकामस्य विदुरस्य महात्मनः |
वाक्यानि सुमहार्थानि परितप्यामि दुर्मतिः ||१४-१-११ (९२३७७)
उक्तवान्विदुरो यन्मां धर्मात्मा दिव्यदर्शनः |
दुर्योधनापराधेन कुलं ते विनशिष्यति ||१४-१-१२ (९२३७८)
स्वस्ति चेदिच्छसे राजन्कुलस्य कुरु मे वचः |
वध्यतामेष दुष्टात्मा मन्दो राजा सुयोधनः ||१४-१-१३ (९२३७९)
कर्णश्च शकुनिश्चैव नैनं पश्यतु कर्हिचित् |
द्यूतसङ्घातमप्येषामप्रमादेन वारय ||१४-१-१४ (९२३८०)
अभिषेचय राजानं धर्मात्मानं युधिष्ठिरम् |
स पालयिष्यति वशी धर्मेण पृथिवीमिमाम् ||१४-१-१५ (९२३८१)
अथ नेच्छसि राजानं कुन्तीपुत्रं युधिष्ठिरम् |
' विनाशमुपयास्तन्ति तव पुत्रा न संशयः.'
मेढीभूतः स्वयं राज्यं प्रतिगृह्णीष्व पार्थिव ||१४-१-१६ (९२३८२)
समं सर्वेषु भूतेषु वर्तमानं नराधिप |
अनुजीवन्तु सर्वे त्वां ज्ञातयो ज्ञातिवर्धंन ||१४-१-१७ (९२३८३)
एवं ब्रुवति कौन्तेय विदुरे दीर्घदर्शिनि |
दुर्योधनमहं पापमन्ववर्तं वृथामतिः ||१४-१-१८ (९२३८४)
अश्रुत्वा तस्य धीरस्य वाक्यानि मधुराण्यहम् |
फलं प्राप्य महद्दुःखं निमग्नः शोकसागरे ||१४-१-१९ (९२३८५)
वृद्धौ हि तेऽद्य पितरौ पश्य नौ दुःखितौ नृप |
न शोचितव्यं भवता पश्यामीह जनाधिप ||||१४-१-२० (९२३८६)
इति श्रीमन्महाभारते आश्वमेधिकपर्वणि अश्वमेधपर्वणि
प्रथमोऽध्यायः ||१ ||
Mahabharata -Ashvamedhika Parva -Chapter Footnotes
७-१-१ कृतोदकं त्विति झ.पाठः ||
७-१-२ उत्ततार गङ्गात इति शेषः ||
आश्वमेधिकपर्व -अध्याय ००२
||श्रीः ||
१४. २. अध्यायः २
अश्वमेधपर्व ||१ ||
Mahabharata -Ashvamedhika Parva -Chapter Topics
धृतराष्ट्रेण समाश्वासनेपि तूष्णीं तिष्ठन्तो युधिष्ठिरस्य
कृष्णेन परिसान्त्वनम् ||१ ||
पुनर्भीष्मद्रोणकर्णमारणानुस्मरण विषादेनारण्यगमनाय
कृष्णानुज्ञानमाकाङ्क्षमाणस्य युधिष्ठिरस्य व्यासेनि परिसान्त्वनम्
||२ ||
Mahabharata -Ashvamedhika Parva -Chapter Text
वैशम्पायन उवाच |
एवमुक्तस्तु राजाऽसौ धृतराष्ट्रेण धीमता |
तूष्णींबभूव मेधावी तमुवाचाथ केशवः ||१४-२-१ (९२३८७)
अतीव मनसा शोकः क्रियमाणो जनाधिप |
सन्तपयति चैतस्य पूर्वप्रेतान्पितामहान् ||१४-२-२ (९२३८८)
यजस्व विविधैर्यज्ञैर्बहुभिः स्वाप्तदक्षिणैः |
देवांस्तर्पय सोमेन स्वधया च पितॄनपि ||१४-२-३ (९२३८९)
अतिथीनन्नपानेन कामैरन्यैरकिञ्चनान् |
' त्वद्विधस्य महाबुद्धे नैतदद्योपपद्यते.'
विदितं वेदितव्यं ते कर्तव्यमपि ते कृतम् ||१४-२-४ (९२३९०)
श्रुताश्च राजधर्मास्ते भीष्माद्भागीरथीसुतात् |
कृष्णद्वैपायनाच्चैव नारदाद्विदुरात्तथा ||१४-२-५ (९२३९१)
नेमामर्हसि मूढानां वृत्तिं त्वमनुवर्तितुम् |
पितृपैतामहं वृत्तमास्थाय धुरमुद्वह ||१४-२-६ (९२३९२)
युक्तं हि यशसा क्षात्रं स्वर्गं प्राप्तुमसंशयम् |
नहि कश्चिद्धि शूरणां निहतोऽत्र पराङ्मुखः ||१४-२-७ (९२३९३)
त्यज शोकं महाराज भवितव्यं हि तत्तथा |
न शक्यास्ते पुनर्द्रष्टुं त्वया येऽस्मिन्रणे हताः ||१४-२-८ (९२३९४)
एतावदुक्त्वा गोविन्दो धर्मराजं युधिष्ठिरम् |
विरराम महातेजास्तमुवाच युधिष्ठिरः ||१४-२-९ (९२३९५)
गोविन्द मयि या प्रीतिस्तव सा विदिता मम |
सौहृदेन तथा प्रेम्णा सदा मय्यनुकम्पसे ||१४-२-१० (९२३९६)
प्रियं तु मे स्यात्सुमहत्कृतं चक्रगदाधर |
श्रीमन्प्रीतेन मनसाक सर्वं यादवनन्दन ||१४-२-११ (९२३९७)
यदि मामनुजानीयाद्भवान्गन्तुं तपोवनम् |
' कृतकृत्यो भविष्यामि इति मे निश्चिता मतिः' ||१४-२-१२ (९२३९८)
न हि शान्तिं प्रपश्यामि पातयित्वा पितामहम् |
' नृशंसः पुरुषव्याघ्रं गुरुं वीर्यबलान्वितम्.'
कर्णं च पुरुषव्याघ्नं सङ्ग्रामेष्वपलायिनम् ||१४-२-१३ (९२३९९)
कर्मणा येन मुच्येयमस्मात्क्रूरादरिंदम |
कर्मणा तद्विधत्स्वेह येन शुध्यति मे मनः ||१४-२-१४ (९२४००)
तमेवंवादिनं पार्थं व्यासः प्रोवाच धर्मवित् |
सान्त्वयन्सुमहातेजाः शुभं वचनमर्थवत् ||१४-२-१५ (९२४०१)
सुकृता ते मतिस्तात पुनर्बाल्येन मुह्यसे |
किमाकाशे वयं सर्वे प्रलपामो मुहुर्मुहुः ||१४-२-१६ (९२४०२)
विदिताः क्षत्रधर्मास्ते येषां युद्धेन जीविका |
तथा प्रवृत्तो नृपतिर्नाधिबन्धेन युज्यसे ||१४-२-१७ (९२४०३)
मोक्षधर्माश्च निखिला याथातथ्येन ते श्रुताः |
' यथा वै कामजां मायां परित्युक्तं त्वमर्हसि ||' १४-२-१८ (९२४०४)
असकृच्चापि सन्देहाश्छिन्नास्ते कामजा मया |
अश्रद्दधानो दुर्मेधा लुप्तस्मृतिरसि ध्रुवम् ||१४-२-१९ (९२४०५)
मैवं भव न ते युक्तमिदमज्ञानमीदृशम् ||१४-२-२० (९२४०६)
प्रायश्चित्तानि सर्वाणि विदितानि च तेऽनघ |
राजधर्माश्च ते सर्वे दानधर्माश्च ते श्रुताः ||१४-२-२१ (९२४०७)
स कथं सर्वधर्मज्ञः सर्वागमविशारदः |
परिमुह्यसि भूयस्त्वमज्ञानादिव भारत ||||१४-२-२२ (९२४०८)
इति श्रीमन्महाभारते आश्वमेधिकपर्वणि अश्वमेधपर्वणि
द्वितीयोऽध्यायः ||२ ||
Mahabharata -Ashvamedhika Parva -Chapter Footnotes
७-२-१६ पुनर्बाह्मेन मुह्यसे इति क.ट.पाठः ||
१६ ||
आश्वमेधिकपर्व -अध्याय ००३
||श्रीः ||
१४. ३. अध्यायः ३
अश्वमेधपर्व ||१ ||
Mahabharata -Ashvamedhika Parva -Chapter Topics
व्यासेन युधिष्ठिरंप्रति पुरुषकर्मणामीश्वरप्रेरणायत्ततया
दोषानापादकत्वकथनपूर्वकं तदभ्युपगमेनापि
पापापनोदायाश्वमेधादिविधानम् ||१ ||
युधिष्ठिरेण स्वस्य तावद्द्रव्याभावनिवेदने व्यासेन तंप्रति हिमवति
गिरौ विद्यमानमरुत्तयागावशिष्टद्रव्यानयनेनाश्वमेधकरणचोदना
||२ ||
Mahabharata -Ashvamedhika Parva -Chapter Text
व्यास उवाच |
युधिष्ठिर तव प्रज्ञा न सम्यगिति मे मतिः |
न हि कश्चित्स्वयं मर्त्यः स्ववशः कुरुते क्रियाम् ||१४-३-१ (९२४०९)
ईश्वरेण च युक्तोऽयं साध्वसाधु च मानवः |
करोत्यसुकरं कर्म तत्रका परिदेवना ||१४-३-२ (९२४१०)
आत्मानं मन्यसे चाथ पापकर्माणमन्ततः |
शृणु तत्र यथा पापमपकृत्येत भारत ||१४-३-३ (९२४११)
तपोभिः क्रतुभिश्चैव दानेन च युधिष्ठिर |
तरन्ति नित्यं पुरुषा ये स्म पापानि कुर्वते ||१४-३-४ (९२४१२)
यज्ञेन तपसा चैव दानेन च नराधिप |
पूयन्ते नरशार्दूल नरा दुष्कृतकारिणः ||१४-३-५ (९२४१३)
असुराश्च सुराश्चैव पुण्यहेतोर्मखक्रियाम् |
प्रवर्तन्ते महात्मानस्तस्माद्यज्ञः परायणम् ||१४-३-६ (९२४१४)
यज्ञैरेव महात्मानो बभूवुरधिकाः सुराः |
ततो देवाः क्रियावन्तो दानवानभ्यधर्षयन् ||१४-३-७ (९२४१५)
राजसूयाश्वमेधौ च सर्वमेधं च भारत |
नरमेधं च नृपते त्वमाहर युधिष्ठिर ||१४-३-८ (९२४१६)
यजस्व वाजिमेधेन विधिवद्दक्षिणावता |
बहुकामान्नवित्तेन रामो दाशरथिर्यथा ||१४-३-९ (९२४१७)
यथा च भरतो राजा दौष्यन्तिः पृथिवीपतिः |
शाकुन्तलो महावीर्यस्तव पूर्वपितामहः ||१४-३-१० (९२४१८)
युधिष्ठिर उवाच. १४-३-११क्ष् (७७३१)
असंशयं वाजिमेधः पारयेत्पृथिवीमपि |
अभिप्रायस्तु मे कश्चित्तं त्वं श्रोतुमिहार्हसि ||१४-३-११ (९२४१९)
इमं ज्ञातिवधं कृत्वा सुमहान्तं द्विजोत्तम |
' अहमाराधयिष्यामि कथं शोकपरायणः.'
दानमल्पं न शक्नोमि दातुं वित्तं च नास्ति मे ||१४-३-१२ (९२४२०)
न तु बालानिमान्दीनानुत्सहे वसु याचितुम् |
तथैवाद्रविणान्कृच्छ्रे वर्तमानान्नृपात्मजान् ||१४-३-१३ (९२४२१)
स्वयं विनाश्य पृथिवीं यज्ञार्थं द्विजसत्तम |
करमाहारयिष्यामि कथं शोकपरायणः ||१४-३-१४ (९२४२२)
दुर्योधनापराधेनि वसुधायां नराधिपाः |
प्रनष्टा योजयित्वाऽस्मानकीर्त्या मुनिसत्तम ||१४-३-१५ (९२४२३)
दुर्योधनेन पृथिवी क्षपिता जयकारणात् |
कोशश्चापि विशीर्णोसौ धार्तराष्ट्रस्य दुर्मतेः ||१४-३-१६ (९२४२४)
पृथिवी दक्षिणा चात्र वाजिमेधे महाक्रतौ |
विद्वद्भिः परिदृष्टोऽयं शिष्टो विधिविपर्ययः ||१४-३-१७ (९२४२५)
न च प्रतिनिधिं कर्तुं चिकीर्षामि तपोधन |
अत्र मे भगवन्सम्यक्साचिव्यं कर्तुमर्हसि ||१४-३-१८ (९२४२६)
एवमुक्तस्तु पार्थेन कृष्णद्वैपायनस्तदा |
मुहूर्तमनुसञ्चिन्त्य धर्मराजानमब्रवीत् ||१४-३-१९ (९२४२७)
कोशश्चापि विशीर्णोऽयं परिपूर्णो भविष्यति |
विद्यते द्रविणं पार्थ गिरौ हिमवति स्थितम् ||१४-३-२० (९२४२८)
उत्सृष्टं ब्राह्मणैर्यज्ञे मरुत्तस्य महीपते |
तदानयस्व कौन्तेय पर्याप्तं तद्भविष्यति ||१४-३-२१ (९२४२९)
युधिष्ठिर उवाच. १४-३-२२क्ष् (७७३२)
कथं यज्ञे मरुत्तस्य द्रविणं तत्समाचितम् |
कस्मिंश्च काले स नृपो बभूव ददतांवर ||१४-३-२२ (९२४३०)
व्यास उवाच. १४-३-२३क्ष् (७७३३)
यदि शुश्रूषसे पार्थ शृणु कारंधमं नृपम् |
यस्मिन्काले महावीर्यः स राजाऽऽसीन्महाधनः ||||१४-३-२३ (९२४३१)
इति श्रीमन्महाभारते आश्वमेधिकपर्वणि अश्वमेधपर्वणि
तृतीयोऽध्यायः ||३ ||
Mahabharata -Ashvamedhika Parva -Chapter Footnotes
७-३-१८ प्रतिनिधिमनुकल्पम् ||
आश्वमेधिकपर्व -अध्याय ००४
||श्रीः ||
१४. ४. अध्यायः ४
अश्वमेधपर्व ||१ ||
Mahabharata -Ashvamedhika Parva -Chapter Topics
व्यासेन युधिष्ठिरंप्रति संवर्तमरुत्तीयोपाख्यानकथनारम्भः ||१ ||
मरुत्तेन राज्ञा हिमवदुत्तरपार्श्वे सौवणैंरेव
कुण्डभाडाद्युपकरणैर्यज्ञारम्भः ||१ ||
Mahabharata -Ashvamedhika Parva -Chapter Text
युधिष्ठिर उवाच |
शुश्रूषे तस्य धर्मज्ञ राजर्षेः परिकीर्तनम् |
द्वैपायन मरुत्तस्य कथां प्रब्रूहि मेऽनघ ||१४-४-१ (९२४३२)
व्यास उवाच. १४-४-२क्ष् (७७३४)
आसीत्कृतयुगे तात मनुर्दण्डिधरः प्रभुः |
तस्य पुत्रो महोष्वासः प्रजातिरभवन्नृपः ||१४-४-२ (९२४३३)
प्रजातेरभवत्पुत्रः क्षुत इत्यभिविश्रुतः |
क्षुतस्य पुत्र इक्ष्वाकुर्महीपालोऽभवत्प्रभुः ||१४-४-३ (९२४३४)
तस्य पुत्रशतं राजन्नासीत्परमधार्मिकम् |
तांस्तु सर्वान्महीपालानिक्ष्वाकुरकरोत्प्रभुः ||१४-४-४ (९२४३५)
तेषां ज्येष्ठस्तु विंशोऽभूत्प्रतिमानं धनुष्मताम् |
विंशस्य पुत्रः कल्याणो विविंशो नाम भारत ||१४-४-५ (९२४३६)
विविंशस्य सुता राजन्बभूवुर्दश पञ्च च |
सर्वे धनुषि विक्रान्ता ब्रह्मण्याः सत्यवादिनः ||१४-४-६ (९२४३७)
दानधर्मरताः शान्ताः सततं प्रियवादिनः |
तेषां ज्येष्ठः खनीनेत्रः स तान्सर्वानपीडयत् ||१४-४-७ (९२४३८)
खनीनेत्रस्तु विक्रान्तो जित्वा राज्यमकण्टकम् |
नाशकद्रक्षितुं राज्यं नान्वरज्यन्त तं प्रजाः ||१४-४-८ (९२४३९)
तमपास्य च तद्राज्ये तस्य पुत्रं सुवर्चसम् |
अभ्यषिञ्चन्त राजेन्द्र मुदिता ह्यभवंस्तदा ||१४-४-९ (९२४४०)
स पितुर्विक्रियां दृष्ट्वा राज्यान्निरसनं च तत् |
नियतो वर्तयामास प्रजाहितचिकीर्षया ||१४-४-१० (९२४४१)
ब्रह्मण्यः सत्यवादी च शुचिः शमदमान्वितः |
प्रजास्तं चान्वरज्यन्त धर्मनित्यं मनस्विनम् ||१४-४-११ (९२४४२)
तस्य धर्मप्रवृत्तस्य व्यशीर्यत्कोशवाहनम् |
तं क्षीणकोशं सामन्ताः समन्तात्पर्यपीडयन् ||१४-४-१२ (९२४४३)
स पीड्यमानो बहुभिः क्षीणकोशाश्ववाहनः |
आर्तिमार्च्छत्परां राजा सह भृत्यैः पुरेण च ||१४-४-१३ (९२४४४)
न चैनमभिहन्तुं ते शक्नुवन्ति बलक्षये |
सम्यग्वृत्तो हि राजा स धर्मनित्यो युधिष्ठिर ||१४-४-१४ (९२४४५)
यदा तु परमामार्तिं गतोऽसौ सपुरो नृपः |
ततः प्रदध्मौ स करं प्रादुरासीत्ततो बलम् ||१४-४-१५ (९२४४६)
ततस्तानजयत्सर्वान्प्रातिसीमान्नराधिपान् |
एतस्मात्कारणाद्राजन्विश्रुतः स करंधमः ||१४-४-१६ (९२४४७)
आवीक्षित्तस्य पुत्रोऽभूत्त्रेतायुगमुखे पुरा |
इन्द्रादनवरः श्रीमान्देवैरपि सुदुर्जयः ||१४-४-१७ (९२४४८)
' कारंधम इति ख्यातो बभूव जगतीपतिः.'
तस्य सर्वे महीपाला वर्तन्ते स्म वशे तदा |
स हि सम्राडभूत्तेषां वृत्तेन च बलेन च ||१४-४-१८ (९२४४९)
अविक्षिन्नाम धर्मात्मा शौर्येणेन्द्रसमोऽभवत् |
यज्ञशीलो धर्मरतिर्धृतिमान्संयतेन्द्रियः ||१४-४-१९ (९२४५०)
तेजसाऽऽदित्यसदृशः क्षमया पृथिवीसमः |
बृहस्पतिसमो बुद्ध्या हिमवानिव सुस्थिरः ||१४-४-२० (९२४५१)
कर्मणा मनसा वाचा दमेन प्रशमेन च |
मनांस्याराधयामास प्रजानां स महीपतिः ||१४-४-२१ (९२४५२)
य ईजे हयमेधानां शतेन विधिवत्प्रभुः |
याजयामास यं विद्वान्स्वयमेवाङ्गिराः प्रभुः ||१४-४-२२ (९२४५३)
तस्य पुत्रोऽतिचक्राम पितरं गुणवत्तया |
मरुत्तो नाम धर्मज्ञश्चक्रवर्ती महायशाः |
नागायुतसमप्राणः साक्षाद्विष्णुरिवापरः ||१४-४-२३ (९२४५४)
स यक्ष्यमाणो धर्मात्मा शातकुम्भमयान्युत |
कारयामास शुभ्राणि भाजनानि सहस्रशः ||१४-४-२४ (९२४५५)
मेरुं पर्वतमासाद्य हिमवत्पार्श्व उत्तरे |
काञ्चनः सुमहान्पादस्तत्र कर्म चकार सः ||१४-४-२५ (९२४५६)
ततः कुण्डानि पात्रीश्च पिठराण्यासंनानि च |
चक्रुः सुवर्णकर्तारो येषां सङ्ख्या न विद्यते ||१४-४-२६ (९२४५७)
तस्यैव च समीपे तु यज्ञवाटो बभूव ह |
ईजे तत्र स धर्मात्मा विदिवत्पृथिवीपतिः |
मरुत्तः सहितैः सर्वैः प्रजापालैर्नराधिपः ||||१४-४-२७ (९२४५८)
इति श्रीमन्महाभारते आश्वमेधिकपर्वणि अश्वमेधपर्वणि
चतुर्थाऽध्यायः ||४ ||
Mahabharata -Ashvamedhika Parva -Chapter Footnotes
७-४-१ शुश्रूषे श्रोतुमिच्छामि ||
७-४-२१ पूर्वजानां महीपतिरिति क.थ.पाठः ||
७-४-२५ दैवं तत्र समासाद्येति क.थ.पाठः ||
आश्वमेधिकपर्व -अध्याय ००५
||श्रीः ||
१४. ५. अध्यायः ५
अश्वमेधपर्व ||१ ||
Mahabharata -Ashvamedhika Parva -Chapter Topics
अङ्गीरसः पुत्रेण संवर्तेनाकारणवैरिणः स्वाग्रजन्मनो
बृहस्पतेरुपद्रवासहनेन सर्वस्वत्यागपूर्वकमरण्यप्रवेशः ||१ ||
इन्द्रेण स्वातिशायिनि मरुत्ते राजनि स्पर्धया बृहस्पतिसाचिव्येन
ततोप्यतिशयलिप्सया मरुत्तपुरोहितस्य बृहस्पतेर्भेदोपायेन
वशीकरणम् ||२ ||
बृहस्पतिनेन्द्रंप्रति मरुत्तस्य स्वेनायाजनप्रतिज्ञानम् ||३ ||
Mahabharata -Ashvamedhika Parva -Chapter Text
युधिष्ठिर उवाच |
पथंवीर्यः समभवत्स राजा ददतांवरः |
कथं च जातरूपेण समयुज्यत वै नृपः ||१४-५-१ (९२४५९)
क्व च तत्सांप्रतं द्रव्यं भगवन्नवतिष्ठते |
कथं च शक्यमस्माभिस्तदवाप्नुं तचपोधन ||१४-५-२ (९२४६०)
व्यास उवाच. १४-५-३क्ष् (७७३५)
असुराश्चैव देवाश्च दक्षस्यासन्प्रजापतेः |
अपत्यं बहुलं तात तेऽस्पर्धन्त परस्परम् ||१४-५-३ (९२४६१)
तथैवाङ्गिरसः पुत्रौ पितृतुल्यौ बभूवतुः |
बृहस्पतिर्बृहत्तेजाः संवर्तश्च तपोधनः ||१४-५-४ (९२४६२)
तावति स्पर्धिनौ राजन्पृथगास्तां परस्परम् |
बृहस्पतिः स संवर्तं बाधते स्म पुनःपुनः ||१४-५-५ (९२४६३)
स बाध्यमानः सततं भ्रात्रा ज्येष्ठेन भारत |
अर्थानुत्सृज्य दिग्वासा वने वासमरोचयत् ||१४-५-६ (९२४६४)
वासवोऽप्यसुरान्सर्वान्विजित्य च निपात्य च |
इन्द्रत्वं प्राप्य लोकेषु ततो वव्रे पुरोहितम् ||१४-५-७ (९२४६५)
पुत्रमङ्गिरसो ज्येष्ठं विप्रज्येष्ठं बृहस्पतिम् |
याज्यस्त्वङ्गिरसः पूर्वमासीद्राजा करंधमः ||१४-५-८ (९२४६६)
वीर्येणाप्रतिमो लोके वृत्तेन च बलेन च |
शतक्रतुरिवौजस्वी धर्मात्मा संशितव्रतः. १४-५-९ (९२४६७)
वाहनं यस्य योधाश्च मित्राणि विविधानि च |
शयनानि च मुख्यानि महार्हाणि च सर्वशः ||१४-५-१० (९२४६८)
ध्यानादेवाभवद्राजन्मुखवातेन सर्वशः |
स गुणैः पार्थिवान्सर्वान्वशे चक्रे नराधिपः ||१४-५-११ (९२४६९)
संजीव्य कालमिष्टं च सशरीरो दिवं गतः |
बभूव तस्य पुत्रस्तु ययातिरिव धर्मवित् ||१४-५-१२ (९२४७०)
अविक्षिन्नाम शत्रुंजित्स वशे कृतवान्महीम् |
विक्रमेण गुणैश्चैव पितेवासीत्स पार्थिवः ||१४-५-१३ (९२४७१)
तस्य वासवतुल्योऽभून्मरुत्तो नाम वीर्यवान् |
पुत्रस्तमनुरक्ताऽभूत्पृथिवी सागराम्बरा ||१४-५-१४ (९२४७२)
स्पर्धते स स्म सततं देवराजेन नित्यदा |
वासवोऽपि मरुत्तेनि स्पर्धते पाण्डुनन्दन ||१४-५-१५ (९२४७३)
शुचिः स गुणवानासीन्मरुत्तः पृथिवीपतिः |
यतमानोपि यं शक्रो न विशेषयति स्म ह ||१४-५-१६ (९२४७४)
सोऽशक्नुवन्विशेषाय समाहूय बृहस्पतिम् |
उवाचेदं वचो देवैः सहितो हरिवाहनः ||१४-५-१७ (९२४७५)
बृहस्पते मरुत्तस्य मा स्म कार्षीः कथञ्चन |
दैवं कर्माथ पित्र्यं वा कर्तासि मम चेत्प्रियम् ||१४-५-१८ (९२४७६)
अहं हि त्रिषु लोकेषु सुराणां च बृहस्पते |
इन्द्रत्वं प्राप्तवानेको मरुत्तस्तु महीपतिः ||१४-५-१९ (९२४७७)
कथं ह्यमर्त्यं ब्रह्मंस्त्वं याजयित्वा सुराधिपम् |
याजयेर्मृत्युसंयुक्तं मरुत्तमविशङ्कया ||१४-५-२० (९२४७८)
मां वा वृणीष्व भद्रं ते मरुत्तं वा महीपतिम् |
परित्यज्य मरुत्तं वा यथाजोषं भजस्व माम् ||१४-५-२१ (९२४७९)
एवमुक्तः स करकव्य देवराज्ञा बृहस्पतिः |
मुहूर्तमिव सञ्चिन्त्य देवराजानमब्रवीत् ||१४-५-२२ (९२४८०)
त्वं भूतानामधिपतिस्त्वयि लोकाः प्रतिष्ठिताः |
नमुचेर्विश्वरूपस्य निहन्ता त्वं बलस्य च ||१४-५-२३ (९२४८१)
त्वमाजहर्थ् देवानामेको वीरश्रियं पराम् |
त्वं बिभर्षि भुवं द्यां च सदैव बलसूदन ||१४-५-२४ (९२४८२)
परोहित्यं कथं कृत्वा तव देवगणेश्वर |
याजयेयमहं मर्त्यं मरुत्तं पाकशासन ||१४-५-२५ (९२४८३)
समाश्वसिहि देवेन्द्र नाहं मर्त्यस्य कर्हिचित् |
ग्रहीष्यामि स्रुवं यज्ञे शृणु चेदं वचो मम ||१४-५-२६ (९२४८४)
हिरण्यरेता नोष्णः स्यात्परिवर्तेत मेदिनी |
भासं तु न रविः कुर्यान्न तु सत्यं चलेन्मयि ||१४-५-२७ (९२४८५)
व्यास उवाच. १४-५-२८क्ष् (७७३६)
बृहस्पतिवचःक श्रुत्वा शक्रो विगतमत्सरः |
प्रशस्यैनं विवेशाथ स्वमेव भवनं तदा ||||१४-५-२८ (९२४८६)
इति श्रीमन्महाभारते आश्वमेधिकपर्वणि अश्वमेधपर्वणि
पञ्चमोऽध्यायः ||५ ||
आश्वमेधिकपर्व -अध्याय ००६
||श्रीः ||
१४. ६. अध्यायः ६
अश्वमेधपर्व ||१ ||
Mahabharata -Ashvamedhika Parva -Chapter Topics
बृहस्पतिना इन्द्रे स्वेन मरुत्तस्यायाजनप्रतिज्ञानश्रवणामर्षिणा
मरुत्तेनि स्वयाजनप्रार्थेन तत्प्रत्याख्यानम् ||१ ||
ततः प्रतिनिवृत्तस्य मरुत्तस्य मध्येमार्गं नारदसमागमः ||२ ||
नारदचोदनया मरुत्तेन वाराणसीद्वारे स्वेन स्थापितकुणपावलोकनेन
प्रलायमानं संवर्तं प्रत्यनुगमनम् ||३ ||
संवर्तेन तत्प्रतिनिवर्तनाय पांसुकदमप्रक्षेपेप्यनिवर्तमानं
तमवलोक्यं विजने न्यग्रोधमूले समुपवेशः ||४ ||
Mahabharata -Ashvamedhika Parva -Chapter Text
व्यास उवाच |
अत्राप्युदाहरन्तीमममितिहासं पुरातनम् |
बृहस्पतेश्च संवादं मरुत्तस्य च धीमतः ||१४-६-१ (९२४८७)
देवराजस्य समयं कृतमाङ्गिरसेन ह |
श्रुत्वा मरुत्तो नृपतिर्मन्युमाहारयत्परम् ||१४-६-२ (९२४८८)
सङ्कल्प्य मनसा यज्ञं करंधमसुतात्मजः |
बृहस्पतिमुपागम्य वाग्मी वचनमब्रवीत् ||१४-६-३ (९२४८९)
भगवन्यन्मया पूर्वमभिगम्य तपोधन |
कृतोऽभिसन्धिर्यज्ञस्य भवतो वचनाद्गुरो ||१४-६-४ (९२४९०)
तमहं यष्टुमिच्छामि सम्भाराः सम्भृताश्च मे |
याज्योस्मि भवतः साधो तत्प्राप्नुहि विधत्स्व च ||१४-६-५ (९२४९१)
बृहस्पतिरुवाच. १४-६-६क्ष् (७७३७)
न कामये याजयितुं त्वामहं पृथिवीपते |
वृतोस्मि देवराजेन प्रतिज्ञातं च तस्य मे ||१४-६-६ (९२४९२)
मरुत्त उवाच. १४-६-७क्ष् (७७३८)
पित्र्यमस्मि तव क्षेत्रं बहुमन्ये च ते भृशम् |
तवास्मि याज्यातां प्राप्तो भजमानं भजस्व माम् ||१४-६-७ (९२४९३)
बृहस्पतिरुवाच. १४-६-८क्ष् (७७३९)
अमर्त्यं याजयित्वाऽहं याजयिष्ये कथं नरम् |
मरुत्त गच्छ वा मा वा निवृत्तोस्म्यद्य याजनात् ||१४-६-८ (९२४९४)
न त्वां याजयितास्म्यद्य वृणु यं त्वमिहेच्छसि |
उपाध्यायं महाबाहो यस्ते यज्ञं करिष्यति ||१४-६-९ (९२४९५)
व्यास उवाच. १४-६-१०क्ष् (७७४०)
एवमुक्तस्तु नृपतिर्मरुत्तो व्रीडितोऽभवत् |
प्रत्यागच्छन्सुसंविग्नो ददर्श पथि नारदम् ||१४-६-१० (९२४९६)
देवर्षिणा समागम्य नारदेनि स पार्थिवः |
विधिवत्प्राञ्जलिस्तस्थावथैनं नारदोऽब्रवीत् ||१४-६-११ (९२४९७)
राजर्षे नातिहृष्टोसि कच्चित्क्षेमं तवानघ |
क्व गतोसि कुतश्चेदमप्रीतिस्थानमागतम् ||१४-६-१२ (९२४९८)
श्रोतव्यं चेन्मया राजन्ब्रूहि मे पार्थिवर्षभ |
व्यपनेष्यामि ते मन्युं सर्वयत्नैर्नराधिप ||१४-६-१३ (९२४९९)
एवमुक्तो मरुत्तः स नारदेन महर्षिणा |
विप्रलम्भमुपाध्यायात्सर्वज्ञे तं न्यवेदयत् ||१४-६-१४ (९२५००)
मरुत्त उवाच. १४-६-१५क्ष् (७७४१)
गतोस्म्यङ्गिरसः पुत्रं देवाचार्यं बृहस्पतिम् |
यज्ञार्थमृत्विजं प्रष्टुं स च मां नाभ्यनन्दत ||१४-६-१५ (९२५०१)
प्रत्याख्यातश्च तेनाहं जीवितुं नाद्य कामये |
परित्यक्तश्च गुरुणा दूषितश्चास्मि नारद ||१४-६-१६ (९२५०२)
व्यास उवाच. १४-६-१७क्ष् (७७४२)
एवमुक्तस्तु राज्ञा स नारदः प्रत्युवाच ह |
आविक्षितं महाराज वाचा संजीवयन्निव ||१४-६-१७ (९२५०३)
राजन्नङ्गिरसः पुत्रः संवर्तो नाम धार्मिकः |
चङ्कमीति दिशः सर्वा दिग्वासा मोहयन्प्रजाः ||१४-६-१८ (९२५०४)
तं गच्च यदि याज्यं त्वां न वाञ्छति बृहस्पतिः |
प्रसन्नस्त्वां महातेजाः संवर्तो याजयिष्यति ||१४-६-१९ (९२५०५)
मरुत्त उवाच. १४-६-२०क्ष् (७७४३)
संजीवितोऽहं भवता वाक्येनानेन नारद |
पश्येयं क्व नु संवर्तं शंस मे वदतांवर ||१४-६-२० (९२५०६)
कथं च तस्मै वर्तेयं कथं मां न परित्यजेत् |
प्रत्याख्यातश्च तेनापि नाहं जीवितुमुत्सहे ||१४-६-२१ (९२५०७)
नारद उवाच. १४-६-२२क्ष् (७७४४)
उन्मत्तवेषं बिभ्रत्स चङ्क्रमीति यथासुखम् |
वाराणसीं तु नगरीमभीक्ष्णमुपसेवते ||१४-६-२२ (९२५०८)
तस्या द्वारं समासाद्य न्यसेथाः कुणपं क्वचित् |
तं दृष्ट्वा यो निवर्तेत संवर्तः स महीपते ||१४-६-२३ (९२५०९)
तं पृष्ठतोऽनुगच्छेथा यत्र गच्छेत्स वीर्यवान् |
तमेकान्ते समासाद्य प्राञ्जलिः शरणं व्रजेः ||१४-६-२४ (९२५१०)
पृच्छेत्त्वां यदि केनाहं तवाख्यात इति स्म ह |
ब्रूयास्त्वं नारदेनेति स कुत्र इति शत्रुहन् ||१४-६-२५ (९२५११)
स चेत्त्वामनुयुञ्जीत ममानुगमनेप्सया |
शंसेथा वह्निमारूढं मामपि त्वमशङ्कया ||१४-६-२६ (९२५१२)
व्यास उवाच. १४-६-२७क्ष् (७७४५)
स तथेति प्रतिश्रुत्य पूजयित्वा च नारदम् |
अभ्यनुज्ञाय राजर्षिर्ययौ वाराणसीं पुरीम् ||१४-६-२७ (९२५१३)
तत्र गत्वा यथोक्तं स पुर्या द्वारे महायशाः |
कुणपं स्थापयामास नारदस्य वचः स्मरन् ||१४-६-२८ (९२५१४)
यौगपद्येनि विप्रश्च पुरीद्वारमथाविशत् |
ततः स कुणपं दृष्ट्वा सहसा संन्यवर्तत ||१४-६-२९ (९२५१५)
स तं निवृत्तमालक्ष्य प्राञ्जलिः पृष्ठतोऽन्वगात् |
आविक्षितो महीपालः संवर्तमुपशिक्षितुम् ||१४-६-३० (९२५१६)
स च तं विजने दृष्ट्वा पांसुभिः कदेमेन च |
श्लेष्मणा चैव राजानं ष्ठीवनैश्च समाकिरत् ||१४-६-३१ (९२५१७)
स तथा बाध्यमानो वै संवर्तेन महीपतिः |
अन्वगादेव तमृषिं प्राञ्जलिः सम्प्रसादयन् ||१४-६-३२ (९२५१८)
ततो निवर्त्य संवर्तः परिश्रान्त उपाविशत् |
शीतलच्छायमासाद्य न्यग्रोधं बहुशाखिनम् ||||१४-६-३३ (९२५१९)
इति श्रीमन्महाभारते आश्वमेधिकपर्वणि अश्वमेधपर्वणि
षष्ठोऽध्यायः ||६ ||
Mahabharata -Ashvamedhika Parva -Chapter Footnotes
७-६-१३ मन्युं दैन्यम् ||
आश्वमेधिकपर्व -अध्याय ००७
||श्रीः ||
१४. ७. अध्यायः ७
अश्वमेधपर्व ||१ ||
Mahabharata -Ashvamedhika Parva -Chapter Topics
संवर्तमरुत्तसंवादः ||१ ||
संवर्तेन समयबन्धनपूर्वकं मरुत्तंप्रति याजनप्रतिज्ञानम् ||२ ||
Mahabharata -Ashvamedhika Parva -Chapter Text
संवर्त उवाच |
कथमस्मि त्वया ज्ञातः केन वा कथितोस्मि ते |
एतदाचक्ष्व मे तत्त्वमिच्छसे चेन्मम प्रियम् ||१४-७-१ (९२५२०)
सत्यं ते ब्रुवतः सर्वे सम्पत्स्यन्ते मनोरथाः |
मिथ्या च ब्रुवतो मूर्धा शतधा ते स्फुटिष्यति ||१४-७-२ (९२५२१)
मरुत्त उवाच. १४-७-३क्ष् (७७४६)
नारदेन भवान्मह्यमाख्यातो ह्यटता पथि |
गुरुपुत्रो ममेति त्वं ततो मे प्रीतिरुत्तमा ||१४-७-३ (९२५२२)
संवर्त उवाच. १४-७-४क्ष् (७७४७)
सत्यमेतद्भवानाह स मां जानाति सत्रिणम् |
कथयस्व तदेतन्मे क्वनु सम्प्रति नारदः ||१४-७-४ (९२५२३)
मरुत उवाच. १४-७-५क्ष् (७७४८)
भवन्तं कथयित्वा तु मम देवर्षिसत्तमः |
ततो मामभ्यनुज्ञाय प्रविष्टो हव्यवाहनम् ||१४-७-५ (९२५२४)
व्यास उवाच. १४-७-६क्ष् (७७४९)
श्रुत्वा तु पार्थिवस्यैत्संवर्तः प्रमुदं गतः |
एतावदहमप्येवं शक्नुयामिति सोऽब्रवीत् ||१४-७-६ (९२५२५)
ततो मरुत्तमुन्मत्तो वाचा निर्भर्त्सयन्निव |
रूक्षया ब्राह्मणि राजन्पुनः पुनरथाब्रवीत् ||१४-७-७ (९२५२६)
वातप्रधानेन मया स्वचित्तवशवर्तिना |
एवं विकृतरूपेण कथं याजितुमिच्छसि ||१४-७-८ (९२५२७)
भ्राता मम समर्थश्च वासवेन च सङ्गतः |
वर्तते याजने चैव तेन कर्माणि कारय ||१४-७-९ (९२५२८)
गार्हस्थ्यं चैव याज्याश्च सर्वा गृह्याश्च देवताः |
पूर्वजेन ममाक्षिप्तं शरीरं वर्जितं त्विदम् ||१४-७-१० (९२५२९)
नाहं तेनाननुज्ञातस्त्वामाविक्षित कर्हिचित् |
याजयेयं कथंचिद्वै स हि पूज्यतमो मम ||१४-७-११ (९२५३०)
स त्वं बृहस्पतिं गच्च तमनुज्ञाप्य चाव्रज |
ततोऽहं याजयिष्ये त्वां यदि यष्टुमिहेच्छसि ||१४-७-१२ (९२५३१)
मरुत्त उवाच. १४-७-१३क्ष् (७७५०)
बृहस्पतिं गतः पूर्वमहं संवर्ते तच्छृणु |
न मां कामयते याज्यं मुनिर्वासववारितः ||१४-७-१३ (९२५३२)
अमरं याज्यमासाद्य याजयिष्ये न मानुषम् |
शक्रेण प्रतिषिद्धोऽहं मरुत्तं मा स्म याजये ||१४-७-१४ (९२५३३)
स्पर्धते हि मया विप्र सदा हि स तु पार्थिवः |
एवमस्त्विति चाप्युक्तो भ्रात्रा ते बलसूदनः ||१४-७-१५ (९२५३४)
स मामधिगतं प्रेम्णा याज्यत्वे न बुभूषति |
देवराजं समाश्रित्य तद्विद्धि मुनिपुङ्गव ||१४-७-१६ (९२५३५)
सोहमिच्छामि भवता सर्वस्वेनापि याजितुम् |
कामये समतिक्रान्तुं वासवं त्वत्कृतैर्गुणैः ||१४-७-१७ (९२५३६)
न हि मे वर्तते बुद्धिर्गन्तुं ब्रह्मन्बृहस्पतिम् |
प्रत्याख्यातो हि तेनास्मि तथाऽनपकृते सति ||१४-७-१८ (९२५३७)
संवर्त उवाच. १४-७-१९क्ष् (७७५१)
चिकीर्षसि यथाकामं सर्वमेतत्त्वयि ध्रुवम् |
यदि सर्वानभिप्रायान्कर्तासि मम पार्थिव ||१४-७-१९ (९२५३८)
याज्यमानं मया हि त्वां बृहस्पतिपुंरदरौ |
द्विषेतां समभिक्रुद्धावेतदेकं समर्थये ||१४-७-२० (९२५३९)
स्थैर्यमत्र कथं मे स्यात्स त्वं निःसंशयं कुरु |
कुपितस्त्वां न हीदानीं भस्म कुर्या सवान्धवम् ||१४-७-२१ (९२५४०)
मरुत्त उवाच. १४-७-२२क्ष् (७७५२)
यावत्तपेत्सहस्रांशुस्तिष्ठेरंश्चापि पर्वताः |
तावल्लोकान्न लभेयं त्यजेयं सङ्गतं यदि ||१४-७-२२ (९२५४१)
मा चापि शुभबुद्धित्वं लभेयमिह कर्हिचित् |
विषयैः सङ्गतं चास्तु त्यजेयं सङ्गतं यदि ||१४-७-२३ (९२५४२)
संवर्त उवाच. १४-७-२४क्ष् (७७५३)
आविक्षित शुभा बुद्धिर्वर्ततां तव कर्मसु |
याजनं हि ममाप्येव वर्तते हृदि पार्थिव ||१४-७-२४ (९२५४३)
अभिधास्ते च ते राजन्नक्षयं द्रव्यमुत्तमम् |
येन देवान्सग्धर्वाञ्शक्रं चाभिभविष्यसि ||१४-७-२५ (९२५४४)
न तु मे वर्तते बुद्धिर्धने याज्येषु वा पुनः |
विप्रियं तु करिष्यामि भ्रातुश्चेन्द्रस्य चोभयो ||१४-७-२६ (९२५४५)
गमयिष्यामि शक्रेण समतामपि ते ध्रुवम् |
प्रियं च ते करिष्यामि सत्यमेतद्ब्रवीमि ते ||||१४-७-२७ (९२५४६)
इति श्रीमन्महाभारते आश्वमेधिकपर्वणि अश्वमेधपर्वणि
सप्तमोऽध्यायः ||७ ||
Mahabharata -Ashvamedhika Parva -Chapter Footnotes
७-७-१ मे सत्यं जीवितं चेत्प्रियंतवेति क.थ.पाठः ||
७-७-४ सत्रिणं कपटवेषच्छन्नम् ||
७-७-६ अहमप्येनं कुर्यामिति तमब्रवीदिति क.थ.पाठः ||
७-७-८ मधुप्रयोगदानेन स्वचित्तपरिवर्तिनेति क.थ.पाठः ||
७-७-२३ भोगेषु सम्यग्भोगांश्च त्यजेयमिति क.थ.पाठः ||
आश्वमेधिकपर्व -अध्याय ००८
||श्रीः ||
१४. ८. अध्यायः ८
अश्वमेधपर्व ||१ ||
Mahabharata -Ashvamedhika Parva -Chapter Topics
संवर्तेन मरुत्तंप्रति हिमवत्संनिहिते मुञ्जवतिगिरौ महादेवस्य
निवासकथनपूर्वकं स्वोक्तनामशतकेन स्तुत्या तत्प्रसादनेन यागाय
तन्नत्यबहुसुवर्णहरणचोदना ||१ ||
संवर्तेनि तदाहरणेन शिल्पिभिर्यागोपयोगिभाण्डनिर्मापणम् ||२ ||
इन्द्रेण तच्छ्रवणनिर्विण्णस्य बृहस्पतेः समीपं प्रत्यागमनम् ||३ ||
Mahabharata -Ashvamedhika Parva -Chapter Text
संवर्त उवाच |
गिरेर्हिमवतः पृष्ठे मुञ्जवान्नाम पर्वतः |
तप्यते यत्र भगवांस्तपो नित्यमुपापतिः ||१४-८-१ (९२५४७)
वनस्पतीनां मूलेषु शृङ्गेषु विषमेषु च |
गुहासु शैलराजस्य यथाकामं यथासुखम् ||१४-८-२ (९२५४८)
उमासहायो भगवान्यत्र नित्यं महेश्वरः |
आस्ते शूली महातेजा नानाभूतगणावृतः ||१४-८-३ (९२५४९)
तत्र रुद्राश्च साध्याश्च विश्वेऽथ वसवस्तथा |
यमश्च वरुणश्चैव कुबेरश्च सहानुगः ||१४-८-४ (९२५५०)
भूतानि च पिशाचाश्च नासत्यावपि चाश्विनौ |
गन्धर्वाप्सरसश्चैव यक्षा देवर्षयस्तथा ||१४-८-५ (९२५५१)
आदित्या मरुतश्चैव यातुधानाश्च सर्वशः |
उपासन्ते महात्मानं बहुरूपमुपापतिम् ||१४-८-६ (९२५५२)
रमते भगवांस्तत्र कुबेरानुचरैः सह |
विकृतैर्विकृताकारैः क्रीडद्भिः पृथिवीपते ||१४-८-७ (९२५५३)
श्रिया ज्वलन्दृश्यते वै बालादित्यसमद्युतिः |
न रूपं शक्यते तस्य संस्थानं वा कदाचन |
निर्देष्टुं प्राणिभिः कैश्चित्प्राकृतैर्मांसलोचनैः ||१४-८-८ (९२५५४)
नोष्णं न शिशिरं तत्र न वायुर्न च भास्करः |
न जारा क्षुत्पिपासे वा न मृत्युर्न भयं नृप ||१४-८-९ (९२५५५)
तस्य शैलस्य पार्श्वेषु सर्वेषु जयतांवर |
धातवो जातरूपस्य रश्मयः सवितुर्यथा ||१४-८-१० (९२५५६)
रक्ष्यन्ते ते कुबेरस्य सहायैरुद्यतायुधैः |
चिकीर्षद्भिः प्रियं राजन्कुबेरस्य महात्मनः ||१४-८-११ (९२५५७)
' तत्र गत्वा समन्वास्य महायोगेश्वरं शिवम् |
कुरु प्रणामं राजर्षे भक्त्या परमया यतुः ||' १४-८-१२ (९२५५८)
तस्मै भगवते कृत्वा नमः शर्वाय वेधसे |
' एभिस्तं नामभिर्देवं सर्वविद्याधरं स्तुहि ||' १४-८-१३ (९२५५९)
रुद्राय शितिकण्ठाय सुरूपाय सुवर्चसे |
कपर्दिने करालाय हर्यक्ष्णे वरदाय च ||१४-८-१४ (९२५६०)
त्र्यक्ष्णे पूष्णो दन्तभिदे वामनाय शिवाय च |
याम्यायाव्यक्तरूपाय सद्वृत्ते शङ्कराय च ||१४-८-१५ (९२५६१)
क्षेम्याय हरिकेशाय स्थाणवे पुरुषाय च |
हरिनेत्राय मुण्डाय क्रुद्धायोत्तरणाय च ||१४-८-१६ (९२५६२)
भास्वराय सुतीर्थाय देवदेवाय रंहसे |
उष्णीषिणे सुवक्त्राय सहस्राक्षाय मीढुषे ||१४-८-१७ (९२५६३)
गिरिशाय प्राशान्ताय यतये चीरवाससे |
बिल्वदण्डाय सिद्धाय सर्वदण्डधराय च ||१४-८-१८ (९२५६४)
मृगव्याधाय महते धन्विनेऽथ भवाय च |
वराय सोमवक्त्राय सिद्धमन्त्राय चक्षुषे ||१४-८-१९ (९२५६५)
हिरण्यबाहवे राजन्नुग्राय पतये दिशाम् |
लेलिहानाय गोष्ठाय सिद्धमन्त्राय वृष्णये ||१४-८-२० (९२५६६)
पशूनां पतये चैव भूतानां पतये नमः |
वृषाय मातृभक्ताय सेनान्ये मध्यमाय च ||१४-८-२१ (९२५६७)
' अभिवक्त्राय पतये सर्वदेवमयाय च.'
स्रुवहस्ताय पतये धन्विने भार्गवाय च |
अजाय कृष्णनेत्राय विरूपाक्षाय चैव ह ||१४-८-२२ (९२५६८)
तीक्ष्णदंष्ट्राय तीक्ष्णाय वैश्वानरमुखाय च |
महात्मने चानङ्गाय सर्वाय पतये विशाम् ||१४-८-२३ (९२५६९)
' तथा रुद्राय पतये पृथवे कृत्तिवाससे.'
विलोहिताय दीप्ताय दीप्ताक्षाय महौजसे |
वसुरेतःसुवपुषे पृथवे कृत्तिवाससे ||१४-८-२४ (९२५७०)
कपालमालिने चैव सुवर्णमुकुटाय च |
महादेवाय कृष्णाय त्र्यम्बकायानघाय च ||१४-८-२५ (९२५७१)
क्रोधनायानृशंसाय मृदवे बाहुशालिने |
दण्डिने तप्ततपसे तथैवाक्रूरकर्मणे ||१४-८-२६ (९२५७२)
सहस्रशिरसे चैव सहस्रचरणाय च |
नमः स्वधास्वरूपाय बहुरूपाय दंष्ट्रिणे ||१४-८-२७ (९२५७३)
पिनाकिनं महादेवं महाभोगिनमव्ययम् |
त्रिशूलहस्तं वरदं त्र्यम्बकं भुवनेश्वरम् ||१४-८-२८ (९२५७४)
त्रिपुरघ्नं त्रिनयनं त्रिलोकेशं महौजसम् |
प्रभवं सर्वभूतानां दातारं धरणीधरम् ||१४-८-२९ (९२५७५)
ईशानं शङ्करं सर्वं शिवं विश्वेश्वरं भवम् |
उमापतिं पशुपतिं विश्वरूपं महेश्वरम् ||१४-८-३० (९२५७६)
विरूपाक्षं दशभुजं विष्यन्दं गोवृषध्वजम् |
उग्रं स्थाणुं शिवं रौद्रं शर्वं गौरीशमीश्वरम् ||१४-८-३१ (९२५७७)
शितिकण्ठमजं शुक्रं पृथुं पृथुहरं वरम् |
विश्वरूपं विरूपाक्षं बहुरूपमुपापतिम् ||१४-८-३२ (९२५७८)
प्रणम्य शिरसा देवमनङ्गाङ्गहरं हरम् |
शरण्यं शरणं याहि महादेवं चतुर्मुखम् ||१४-८-३३ (९२५७९)
' विरोचमानं वपुषा दिव्याभरणभूषितम् |
अनाद्यन्तमजं शंभुं सर्वव्यापिनमीश्वरम् ||१४-८-३४ (९२५८०)
निस्त्रैगुण्यं निरुद्वेगं निर्मलं निधिमोजसाम् |
प्रणम्य प्राञ्जलिः शर्वं प्रयामि शरणं हरम् ||१४-८-३५ (९२५८१)
सम्मान्यं निश्चलं नित्यमकारुण्यमलेपनम् |
अध्यात्मवेदमासाद्य प्रयामि शरणं मुहुः ||१४-८-३६ (९२५८२)
यस्य नित्यं विदुः स्थानं मोक्षमध्यात्मचिन्तकाः |
योगीशं तत्वमार्गस्थाः कैवल्यं पदमक्षरम् ||१४-८-३७ (९२५८३)
यं विदुः सङ्गिनं मुक्ताः सामान्यं समदर्शिनः |
तं प्रपद्ये जगद्योनिमयोनिं निर्गुणात्मकम् ||१४-८-३८ (९२५८४)
असृजद्यस्तु भूतादीन्सप्त लोकान्सनातनान् |
स्थितः सत्योपरि स्थाणुस्तं प्रपद्ये सनातनम् ||१४-८-३९ (९२५८५)
भक्तानां सुलभं तं हि दुर्लभं दूरपातिनाम् |
अदूरस्थममुं देवं प्रकृतेः परतः स्थितम् ||१४-८-४० (९२५८६)
नमामि सर्वलोकस्थं व्रजामि शरणं शिवम्.'
एवं कृत्वा नमस्तस्मै महादेवाय रंहसे |
महात्मने क्षितिपते तत्सुवर्णमवाप्स्यसि ||१४-८-४१ (९२५८७)
' लभन्ते गाणपत्यं च तदेकाग्रा हि मानवाः |
किं पुनः स्वर्णिभाण्डानि तस्मात्त्वं गच्छ मा चिरं ||१४-८-४२ (९२५८८)
महत्तरं हि ते लाभं हस्त्यश्वोष्ट्रादिभिः सह.'
सुवर्णमाहरिष्यन्तस्तत्र गच्छन्तु ते नराः ||१४-८-४३ (९२५८९)
व्यास उवाच. १४-८-४४क्ष् (७७५४)
इत्युक्तः स वचस्तस्य चक्रे कारन्धमात्मजः |
' गङ्गाधरं नमस्कृत्य लब्धवान्धनमुत्तमम् ||१४-८-४४ (९२५९०)
कुबेर इव तत्प्राप्य महादेवप्रसादतः.'
ततोऽतिमानुषं सर्वं चक्रे यज्ञस्य संविधिम् ||१४-८-४५ (९२५९१)
सौवर्णानि च भाण्डानि संचक्रुस्तत्र शिल्पिनः |
' शालाश्च सर्वसम्भारांस्तत्र संवर्तशासनात् ||' १४-८-४६ (९२५९२)
बृहस्पतिस्तु तां श्रुत्वा मरुत्तस्य महीपतेः |
समृद्धिमति देवेभ्यः सन्तापमकरोद्भृशम् ||१४-८-४७ (९२५९३)
सन्तप्यमानो वैवर्ण्यं कृशत्वं चागमत्परम् |
भविष्यति हि मे शत्रुः संवर्तो वसुमानिति ||१४-८-४८ (९२५९४)
तं श्रुत्वा भृशसंतप्तं देवराजो बृहस्पतिम् |
अभिगम्यामरवृतः प्रोवाचेदं वचस्तदा ||||१४-८-४९ (९२५९५)
इति श्रीमन्महाभारते आश्वमेधिकपर्वणि अश्वमेधपर्वणि
अष्टमोऽध्यायः ||८ ||
आश्वमेधिकपर्व -अध्याय ००९
||श्रीः ||
१४. ९. अध्यायः ९
अश्वमेधपर्व ||१ ||
Mahabharata -Ashvamedhika Parva -Chapter Topics
बृहस्पतिना इन्द्रंप्रति स्वानुजेन संवर्तेन मरुत्तस्य
याजनकथनपूर्वकं तद्विघटनचोदना ||१ ||
अग्निना मरुत्तमेत्य याजनाय बृहस्पतिस्वीकरणरूपेन्द्रसन्देशकथनम्
||२ ||
तथा पुनरिन्द्रमेत्य मरुत्तेन स्वसंदेशापरिग्रहणनिवेदनम् ||३ ||
तथा इन्द्रेण पुनर्मरुत्ते स्वसन्देशनिवेदनचोदने
संवर्ततपोभयात्तदनङ्गीकरणम् ||४ ||
Mahabharata -Ashvamedhika Parva -Chapter Text
इन्द्र उवाच |
कच्चित्सुखं स्वपिषि त्वं बृहस्पते
कच्चिन्मनोज्ञाः परिचारकास्ते |
कच्चिद्देवानां सुखकामोसि विप्र
कच्चिद्देवास्त्वां परिपालयन्ति ||१४-९-१ (९२५९६)
बृहस्पतिरुवाच. १४-९-२क्ष् (७७५५)
सुखं शये शयने देवराज
तथा मनोज्ञाः परिचारका मे |
तथा देवानां सुखकामोस्मि नित्यं
देवाश्च मां सुभृशं पालयन्ति ||१४-९-२ (९२५९७)
इन्द्र उवाच. १४-९-३क्ष् (७७५६)
कुतो दुःखं मानसं देहजं वा
पाण्डुर्विवर्णश्च कुतस्त्वमद्य |
आचक्ष्व मे ब्राह्मण यावदेता-
न्निहन्मि सर्वांस्तव दुःखकर्तॄन् ||१४-९-३ (९२५९८)
बृहस्पतिरुवाच. १४-९-४क्ष् (७७५७)
मरुत्तमाहुर्मघवन्यक्ष्यमाणं
महायज्ञेनोत्तमदक्षिणेन |
संवर्तो याजयतीति मे श्रुतं
तदिच्छामि न स तं याजयेत् ||१४-९-४ (९२५९९)
इन्द्र उवाच. १४-९-५क्ष् (७७५८)
सर्वान्कामाननुयातोसि विप्र
त्वं देवानां मन्त्रयसे पुरोधाः |
उभौ च ते जरामृत्यू व्यतीतौ
किं संवर्तस्तव कर्ताऽद्य विप्र ||१४-९-५ (९२६००)
बृहस्पतिरुवाच. १४-९-६क्ष् (७७५९)
देवैः सह त्वमसुरान्सम्प्रणुद्य
जिघांससे चाप्युत सानुबन्धान् |
यंयं समृद्धं पश्यसि तत्रतत्र
दुःखं सपत्नेषु समृद्धिभावः ||१४-९-६ (९२६०१)
अतोस्मि देवेन्द्र विवर्णरूपः
सपत्नो मे वर्धते तन्निशम्य |
सर्वोपायैर्मघवन्संनियच्छ
संवर्तं वा पार्थिवं वा मरुत्तम् ||१४-९-७ (९२६०२)
इन्द्र उवाच. १४-९-८क्ष् (७७६०)
एहि गच्छ प्रहितो जातवेदो
बृहस्पतिं परिदातुं मरुत्ते |
अयं वै त्वां याजयिता बृहस्पति-
स्तथाऽमरं चैव करिष्यतीति ||१४-९-८ (९२६०३)
अग्निरुवाच. १४-९-९क्ष् (७७६१)
अहं गच्छामि तव शक्राद्य दूतो
बृहस्पतिं परिदातुं मरुत्ते |
वाचं सत्यां पुरुहूतस्य कर्तुं
बृहस्पतेश्चापचितिं चिकीर्षुः ||१४-९-९ (९२६०४)
व्यास उवाच. १४-९-१०क्ष् (७७६२)
ततः प्रायाद्धूमकेतुर्महात्मा
वनस्पतीन्वीरुधश्चावमृद्गन् |
कामाद्धिमान्ते परिवर्तमानः
काष्ठातिगो मातरिश्वेव नर्दन् ||१४-९-१० (९२६०५)
मरुत उवाच. १४-९-११क्ष् (७७६३)
आश्वर्यमद्य पश्यामि रूपिणं वह्निमागतम् |
आसनं सलिलं पाद्यं गां चोपानय वै मुने ||१४-९-११ (९२६०६)
अग्निरुवाच. १४-९-१२क्ष् (७७६४)
आसनं सलिलं पाद्यं प्रतिनन्दामि तेऽनघ |
इन्द्रेण तु समादिष्टं विद्धि मां दूतमागतम् ||१४-९-१२ (९२६०७)
मरुत उवाच. १४-९-१३क्ष् (७७६५)
कच्चिच्छ्रीमान्देवराजः सुखी च
कच्चिच्चास्मान्प्रीयते धूमकेतो |
कच्चिद्देवा अस्य वशे यथाव-
त्प्रब्रूहि त्वं मम कार्त्स्न्येन देव ||१४-९-१३ (९२६०८)
अग्निरुवाच. १४-९-१४क्ष् (७७६६)
शक्रो भृशं सुसुखी पार्थिवेन्द्र
प्रातिं चेच्छत्यजरां वै त्वया सः |
देवाश्च सर्वे वशगास्तस्य राज-
न्संदेशं त्वं शृणु मे देवराज्ञः ||१४-९-१४ (९२६०९)
यदर्थं मां प्राहिणोत्त्वत्सकाशं
बृहस्पतिं परिदातुं मरुत्ते |
अयं गुरुर्याजयतां नृप त्वां
मर्त्यं सन्तममरं त्वां करोतु ||१४-९-१५ (९२६१०)
मरुत उवाच. १४-९-१६क्ष् (७७६७)
संवर्तोऽयं याजयिता द्विजो मां
बृहस्पतेरञ्जलिरेष तस्य |
न चैवासौ याजयित्वा महेन्द्रं
मर्त्यं सन्तं याजयन्नद्य शोभेत् ||१४-९-१६ (९२६११)
अग्निरुवाच. १४-९-१७क्ष् (७७६८)
ये वै लोका देवलोके महान्तः
सम्प्राप्स्यसे तान्देवराजप्रसादात् |
त्वां चेदसौ याजयेद्वै बृहस्पति-
र्नूनं स्वर्गं त्वं जयेः कीर्तियुक्तः ||१४-९-१७ (९२६१२)
तथा लोका मानुषा ये च दिव्याः
प्रजापतेश्चापि ये वै महान्तः |
तेते जिता देवराज्यं च कृत्स्नं
बृहस्पतिर्याजयेच्चेन्नरेन्द्र ||१४-९-१८ (९२६१३)
संवर्त उवाच. १४-९-१९क्ष् (७७६९)
मा स्मैव त्वं पुनरागाः कथंचि-
द्बृहस्पतिं परिदातुं मरुत्ते |
मा त्वां धक्ष्ये चक्षुषा दारुणेन
संक्रुद्धोऽहं पावक त्वं निबोधः ||१४-९-१९ (९२६१४)
व्यास उवाच. १४-९-२०क्ष् (७७७०)
ततो देवानगमद्धूमकेतु-
दीहाद्भीतो व्यथितोऽश्वत्थपर्णवत् |
तं वै दृष्ट्वा प्राह शक्रो महात्मा
बृहस्पतेः सन्निधौ हव्यवाहम् ||१४-९-२० (९२६१५)
यस्त्वं गतः प्रहितो जातवेदो
बृहस्पतिं परिदातुं मरुत्ते |
तत्किं प्राह स नृपो यक्ष्यमाणः
कच्चिद्वचः प्रतिगृह्णाति तच्च. १४-९-२१ (९२६१६)
अग्निरुवाच. १४-९-२२क्ष् (७७७१)
न ते वाचं रोचयते मरुत्तो
बृहस्पतेरञ्जलिं प्राहिणोत्सः |
संवर्तो मां याजयितेत्युवाच
पुनः पुनः स मया याच्यमानः ||१४-९-२२ (९२६१७)
उवाचेदं मानुषा ये च दिव्या |
प्रजापतेर्ये च लोका महान्तः |
तांश्चेल्लभेयं संविदं तेन कृत्वा
तथापि नेच्छेयमिति प्रतीतः ||१४-९-२३ (९२६१८)
इन्द्र उवाच. १४-९-२४क्ष् (७७७२)
पुनर्गत्वा पार्थिवं त्वं समेत्य
वाक्यं मदीयं प्रापय स्वार्थयुक्तम् |
पुनर्यद्युक्तो न करिष्यते वच-
स्त्वत्तो वज्रं सम्प्रहर्तास्मि तस्मै ||१४-९-२४ (९२६१९)
अग्निरुवाच. १४-९-२५क्ष् (७७७३)
गन्धर्वराड्यात्वयं तत्र दूतो
बिभेम्यहं वासव तत्र गन्तुम् |
संरब्धो मामब्रवीत्तीक्ष्णरोषः
संवर्तो वाक्यं चरितब्रह्मचर्यः ||१४-९-२५ (९२६२०)
यद्यागच्छेः पुनरेवं कथंचि-
द्बृहस्पतिं परिदातुं मरुत्ते |
दहेयं त्वां चक्षुषा दारुणेन
संक्रुद्ध इत्येतदवैहि शक्र ||१४-९-२६ (९२६२१)
शक्र उवाच. १४-९-२७क्ष् (७७७४)
त्वमेवान्यान्दहसे जातवेदो
न हि त्वदन्यो विद्यते भस्मकर्ता |
त्वत्संस्पर्शात्सर्वलोको बिभेति
अश्रद्धेयं वदसे हव्यवाह ||१४-९-२७ (९२६२२)
अग्निरुवाच. १४-९-२८क्ष् (७७७५)
दिवं देवेन्द्र पृथिवीं च सर्वां
संवेष्टयेस्त्वं स्वबलेनैव शक्र |
एवंविधस्येह सतस्तवासौ
कथं वृत्रस्त्रिदिवं प्राग्जहार ||१४-९-२८ (९२६२३)
इन्द्र उवाच. १४-९-२९क्ष् (७७७६)
नगण्डिकाकारयोगं करेऽणुं
न चारिसोमं प्रपिबामि वह्ने |
न क्षीणशक्तौ प्रहारामि वज्रं
को मे सुखाय प्रहरेत मर्त्यः ||१४-९-२९ (९२६२४)
प्रव्रजयेयं कालकेयान्पृथिव्या-
मपाकर्षन्दानवानन्तरिक्षात् |
दिवः प्रह्लादमवसानमानयं
को मेऽसुखाय प्रहरेत मानवः ||१४-९-३० (९२६२५)
अग्निरुवाच. १४-९-३१क्ष् (७७७७)
यत्र शर्यातिं च्यवनो याजयिष्य-
न्सहाश्विभ्यां सोममगृह्णदेकः |
तं त्वं क्रुद्धः प्रत्यषेधीः पुरस्ता-
च्छर्यातियज्ञं स्म तं महेन्द्र ||१४-९-३१ (९२६२६)
वज्रं गृहीत्वा च पुरन्दर त्वं
सम्प्राहार्षीश्च्यवनस्यातिघोरम् |
स ते विप्रः सह वज्रेणि बाहु-
मपागृह्णात्तपसा जातमन्युः ||१४-९-३२ (९२६२७)
ततो रोषात्सर्वतो घोररूपं
सपत्नं ते जनयामास भूयः |
मदं नाम्ना चासुरं विश्वरूपं
यं त्वं दृष्ट्वा चक्षुषी संन्यमीलः ||१४-९-३३ (९२६२८)
हनुरेका जगतीस्था तथैका
दिवं गता महतो दानवस्य |
सहस्रं दन्तानां शतयोजनानां
सुतीक्ष्णानां घोररूपं बभूव ||१४-९-३४ (९२६२९)
वृत्ताः स्थूला रजतस्तम्भवर्णा
दंष्ट्राश्चतस्रो द्वे शते योजनानाम् |
स त्वां दन्तान्विदशन्नभ्यधाव-
ज्जिघांसया शूलमुद्यम्य घोरम् ||१४-९-३५ (९२६३०)
तं नापश्यस्त्वं तदा घोररूपं
सर्वे वै त्वां ददृशुर्दर्शनीयम् |
यस्माद्भीतः प्राञ्जलिस्त्वं महर्षि-
मागच्छेथाः शरणं दानवघ्न ||१४-९-३६ (९२६३१)
क्षात्राद्बलाद्ब्रह्मबलं गरीयो
न ब्रह्मतः किञ्चिदन्यद्गरीयः |
सोहं जानन्ब्रह्मतेजो यथाव-
न्न संवर्त गन्तुमिच्छामि शक्र ||||१४-९-३७ (९२६३२)
इति श्रीमन्महाभारते आश्वमेधिकपर्वणि अश्वमेधपर्वणि
नवमोऽध्यायः ||९ ||
Mahabharata -Ashvamedhika Parva -Chapter Footnotes
७-९-२९ नाहं दौर्बल्याद्वृत्रेण जित इति वक्तं स्वसामर्थ्यमिन्द्रो
वह्निप्रति वदति नगण्डिकाकारयोगं करेणुम् | नगं पर्वतं डीयते
विहायसा गच्छतीति डीः पक्षी अल्पो डीर्डिका मक्षिकामशकादिस्तस्या
आकारेण योगोस्यास्तीत्येवंरूपं अणुं सूक्ष्मं करेकुर्वे. कृञश्छान्दसं
भौवादिकत्वम्. करेणेतिपाठे करोमीत्यध्याहारः. पार्थोधिं
करे कर्तुमगस्त्य इवाहं पर्वतमपि मशकीकर्तुं
समर्थोस्मीत्यर्थः. कुतस्तर्हि वृत्रस्त्वां नाराधितवानित्यत आह न
चारिसोमं प्रपिबामि वह्ने. अरिसोमं शत्रुदत्तं सोमम्. त्वयैव स
कुती न निर्जित इत्यत आह न क्षीणशक्तौ प्रहरामि वज्रमित्यादिना
न दण्डकान्नारकान्नो कलिङ्गान्न करूशान्सोमं प्रपिबामि वह्ने. न
दुर्बलायावसृजामि वज्रं को मे सुखी यः प्रहरेन्मनुष्यः इति
क.थ.पाठः ||
आश्वमेधिकपर्व -अध्याय ०१०
||श्रीः ||
१४. १०. अध्यायः १०
अश्वमेधपर्व ||१ ||
Mahabharata -Ashvamedhika Parva -Chapter Topics
इन्द्रण गन्धर्वमुखात्स्वेन याजनाय बृहस्पतिवरणं चोदितेनापि
मरुत्तेन तदनङ्गीकारे यज्ञविघाताय साटोपं यज्ञवाटं प्रत्यागमनम्
||१ ||
संवर्तेन मरुत्तप्रार्थनया विद्याबलेनेन्द्रादीनां संस्तम्भनम् ||२ ||
ततः संवर्तानुवर्तिनेन्द्रेण सभानिर्मापणादिना यज्ञनिर्वर्तनपूर्वकं
देवेः सह हविर्ग्रहणम् ||३ ||
व्यासेनैव युधिष्ठिरंप्रति
मरुत्तयज्ञप्रवृत्तिप्रकारकथनपूर्वकं
तच्छिष्टद्रव्याहरमएनाश्वमेधकरणविधानम् ||४ ||
Mahabharata -Ashvamedhika Parva -Chapter Text
इन्द्र उवाच |
एवमेतद्ब्रह्मबलं गरीयो
न ब्राह्मणात्किञ्चिदन्यद्ररीयः |
आविक्षितस्य तु बलं न मृष्ये
वज्रमस्मै प्रहरिष्यामि घोरम् ||१४-१०-१ (९२६३३)
धृतराष्ट्र गच्छ प्रहितो मरुत्तं
संवर्तेन सङ्गतं तं वदस्व
बृहस्पतिं त्वमुपशिक्षस्व राज-
न्वज्रं वा ते प्रहरिष्यामि घोरम् ||१४-१०-२ (९२६३४)
व्यास उवाच. १४-१०-३क्ष् (७७७८)
ततो गत्वा धृतराष्ट्रो नरेन्द्रं
प्रोवाचेदं वचनं वासवस्य ||१४-१०-३ (९२६३५)
गन्धर्वं मां धृतराष्ट्रं निबोध
त्वामागतं वक्तुकामं नरेन्द्र |
ऐन्द्रं वाक्यं शृणु मे राजसिंह
यत्प्राह लोकाधिपतिर्महात्मा ||१४-१०-४ (९२६३६)
बृहस्पतिं याजकं त्वं वृणीष्व
वज्रं वा ते प्रहरिष्यामि घोरम् |
वचश्चेदेतन्न करिष्यसे मे
प्राहैतदेतावदचिन्त्यकर्मा ||१४-१०-५ (९२६३७)
मरुत्त उवाच. १४-१०-६क्ष् (७७७९)
त्वं चैवैतद्वेत्थ पुरन्दरश्च
विश्वेदेवा वसवश्चाश्विनौ च |
मित्रद्रोहे निष्कृतिर्नास्ति लोके
महत्पापं ब्रह्महत्यासमं तत् ||१४-१०-६ (९२६३८)
बृहस्पतिर्याजयतां महेन्द्रं
देवश्रेष्ठं वज्रभृतां वरिष्ठम् |
संवर्तो मां याजयिताऽद्य राज-
न्न ते वाक्यं तस्य वा रोचयामि ||१४-१०-७ (९२६३९)
गन्धर्व उवाच. १४-१०-८क्ष् (७७८०)
घोरो नादः श्रूयतां वासवस्य
नभस्तले गर्जतो राजसिंह |
व्यक्तं वज्रं मोक्ष्यते ते महेन्द्रः
क्षेमं राजंश्चिन्त्यतामेष कालः ||१४-१०-८ (९२६४०)
व्यास उवाच. १४-१०-९क्ष् (७७८१)
इत्येवमुक्तो धृतराष्ट्रेण राज-
ञ्श्रुत्वा नादं नदतो वासवस्य |
तपोनित्यं धर्मविदां वरिष्ठं
संवर्तं तं ज्ञापयामास कार्यम् ||१४-१०-९ (९२६४१)
मरुत्त उवाच. १४-१०-१०क्ष् (७७८२)
पश्यात्मानं प्लवमानं त्वमारा-
दध्वा दूरं तेन न दृश्यतेऽद्य |
प्रपद्येऽहं शर्म विप्रेन्द्र त्वत्तः
प्रयच्छ तस्मादभयं विप्रमुख्य ||१४-१०-१० (९२६४२)
अयमायाति वे वज्री दिशो विद्योतयन्दस |
अमानुषेण घोरेणि सदस्यास्त्रासिता हि नः ||१४-१०-११ (९२६४३)
संवर्त उवाच. १४-१०-१२क्ष् (७७८३)
भयं शक्राद्व्येतु ते राजसिंह
प्रणोत्स्येऽहं भयमेतत्सुघोरम् |
संस्तम्भिन्या विद्यया क्षिप्रमेव
मा भैस्त्वमस्याभिभवात्प्रतीतः ||१४-१०-१२ (९२६४४)
अहं संस्तम्भयिष्यामि मा भैस्त्वं शक्रतो नृप |
यर्वेषामेव देवानां क्षयितान्यायुधानि मे ||१४-१०-१३ (९२६४५)
दिशो वज्रं व्रजतां वायुरेतु
वर्षं भूत्वा वर्षतां काननेषु |
आपः प्लवन्त्वन्तरिक्षे वृथा च
सौदामनी दृश्यते माऽपि भैस्त्वम् ||१४-१०-१४ (९२६४६)
वह्निर्देवस्त्रातु वा सर्वतस्ते
कामान्सर्वान्वर्षतु वासवो वा |
वज्रं तथा स्थापयतां वधाय
महाघोरं पुवमानं जलौघैः ||१४-१०-१५ (९२६४७)
मरुत्त उवाच. १४-१०-१६क्ष् (७७८४)
घोरः शब्दः श्रूयते वै महास्वनो
वज्रस्यैष सहितो मारुतेन |
आत्मा हि मे प्रव्यथते मुहुर्मुहु-
र्न मे स्वास्थ्यं जायते चाद्य विप्र ||१४-१०-१६ (९२६४८)
संवर्त उवाच. १४-१०-१७क्ष् (७७८५)
वज्रादुग्राद्व्येतु भयं तवाद्य
वातो भूत्वा व्रजतु नरेन्द्र वज्रम् |
भयं त्वक्त्वा वरमन्यं वृणीष्व
कं ते कामं तपसा साधयामि ||१४-१०-१७ (९२६४९)
मरुत्त उवाच. १४-१०-१८क्ष् (७७८६)
इन्द्रः साक्षात्सहसाऽभ्येतु विप्र
हविर्यज्ञे प्रतिगृह्णातु चैव |
स्वंस्वं हविश्चैव जुषन्तु देवा
हुतं सोमं प्रतिगृह्णन्तु चैव ||१४-१०-१८ (९२६५०)
संवर्त उवाच. १४-१०-१९क्ष् (७७८७)
अयमिन्द्रो हरिभिरायाति राज-
न्देवैः सर्वैस्त्वरितैः स्तूयमानः |
मन्त्राहूतो यज्ञमिमं मयाऽद्य
पश्यश्वैनं मन्त्रविस्रस्तकायम् ||१४-१०-१९ (९२६५१)
व्यास उवाच. १४-१०-२०क्ष् (७७८८)
ततो देवैः सहितो देवराजो
रथे युङ्क्त्वा तान्हरीन्वाजिमुख्यान् |
आयाद्यज्ञमथ राज्ञः पिपासु-
राविक्षितस्याप्रमेयस्य सोमम् ||१४-१०-२० (९२६५२)
तमायान्तं सहितं देवसङ्घैः
प्रत्युद्ययौ सपुरोधा मरुत्तः |
चक्रे पूजां देवराजाय चाग्र्यां
यथाशास्त्रं विधिवत्प्रीयमाणः ||१४-१०-२१ (९२६५३)
संवर्त उवाच. १४-१०-२२क्ष् (७७८९)
सुस्वागतं ते पुरुहूतेह विद्व-
न्यज्ञोऽप्ययं सन्निहिते त्वयीन्द्र |
शोशुभ्यते बलवृत्रघ्न भूयः
पिबस्व सोमं सुतमुद्यतं मया ||१४-१०-२२ (९२६५४)
मरुत्त उवाच. १४-१०-२३क्ष् (७७९०)
शिवेन मां पश्य नमश्च तेऽस्तु
प्राप्तो यज्ञः सफलं जीवितं मे |
अयं यज्ञं कुरुते मे सुरेन्द्र
बृहस्पतेरवरो जन्मना च. १४-१०-२३ (९२६५५)
इन्द्र उवाच. १४-१०-२४क्ष् (७७९१)
जानामि ते गुरुमेनं तपोधनं
बृहस्पतेरनुजं तिग्मतेजसम्
यस्याह्वानादागतोऽहं नरेन्द्र
प्रीतिर्मेऽद्य त्वयि मन्युः प्रनष्टः ||१४-१०-२४ (९२६५६)
संवर्त उवाच. १४-१०-२५क्ष् (७७९२)
यदि प्रीतस्त्वमसि वै देवराज
तस्मात्स्वयं शाधि यज्ञे विधानम् |
स्वयं सर्वान्कुरु भागान्सुरेन्द्र
जानात्वयं सर्वलोकश्च देव ||१४-१०-२५ (९२६५७)
व्यास उवाच. १४-१०-२६क्ष् (७७९३)
एवमुक्तस्त्वाङ्गिरसेन शक्रः
समादिदेश स्वयमेव देवान् |
सभाः क्रियन्तामावसथाश्च मुख्याः
सहस्रशश्चित्रभूताः समृद्धाः ||१४-१०-२६ (९२६५८)
क्लृप्ताः स्थूणाः कुरुतारोहणानि
गन्धर्वाणामप्सरसां च शीघ्रम् |
यत्र नृत्येरन्नप्सरसः समस्ताः
स्वर्गोपमः क्रियतां यज्ञवाटः ||१४-१०-२७ (९२६५९)
इत्युक्तास्ते चक्रुराशु प्रतीता
दिवौकसः शक्रवाक्यान्नरेन्द्र |
ततो वाक्यं प्राह राजानमिन्द्रः
प्रीतो राजन्पूज्यमानो मरुत्तम् ||१४-१०-२८ (९२६६०)
एष त्वयाऽहमिह राजन्समेत्य
ये चाप्यन्ते तव पूर्वे नरेन्द्र |
सर्वाश्चान्या देवताः प्रीयमाणा
हविस्तुभ्यं प्रतिगृह्णन्तु राजन् ||१४-१०-२९ (९२६६१)
आग्नेयं वै लोहितमालभन्तां
वैश्वदेवं बहुरूपं हि राजन् |
निलं चोक्षाणं मेद्यमप्यालभन्तां
चलच्छिश्नं सम्प्रदिष्टं द्विजाग्र्याः ||१४-१०-३० (९२६६२)
ततो यज्ञो ववृधे तस्य राज-
न्यत्र देवाः स्वयमन्नानि जह्रुः |
यस्मिञ्शक्रो ब्राह्मणैः पूज्यमानः
सदस्योऽभूद्धरिमान्देवराजः ||१४-१०-३१ (९२६६३)
ततः संवर्तश्चैत्यगतो माहात्मा
यथा वह्निः प्रज्वलितो द्वितीयः |
हवींष्युच्चैराह्वयन्देवसङ्घा-
ञ्जुहावाग्नौ मन्त्रवत्सुप्रतीतः ||१४-१०-३२ (९२६६४)
ततः पीत्वा बलभित्सोममग्र्यं
ये चाप्यन्ते सोमपा देवसङ्घाः |
सर्वेऽनुज्ञाताः प्रययुः पार्थिवेन
यथाजोषं तर्पिताः प्रीतिमन्तः ||१४-१०-३३ (९२६६५)
ततो राजा जातरूपस्य राशी-
न्पदेपदे कारयामास हृष्टः |
द्विजातिभ्यो विसृजन्भूरि वित्तं
रराज वित्तेश इवारिहन्ता ||१४-१०-३४ (९२६६६)
ततो वित्तं विविधं सन्निधाय
यथोत्साहं कारयित्वा च कोशम् |
अनुज्ञातो गुरुणां संनिवृत्त्य
शशास गामखिलां सागरान्ताम् ||१४-१०-३५ (९२६६७)
एवंगुणः सम्बभूवेह राजा
यस्य क्रतौ तत्सुवर्णं प्रभूतम् |
तत्त्वं समादाय नरेन्द्र वित्तं
यजस्व देवांस्तपनीयैर्विधानैः ||१४-१०-३६ (९२६६८)
वैशम्पायन उवाच. १४-१०-३७क्ष् (७७९४)
ततो राजा पाण्डवो हृष्टरूपः
श्रुत्वा वाक्यं सत्यवत्याः सुतस्य |
मनश्चक्रे तेन वित्तेन यष्टुं
ततोऽमात्यैर्मन्त्रयामास भूयः ||||१४-१०-३७ (९२६६९)
इति श्रीमन्महाभारते आश्वमेधिकपर्वणि अश्वमेधपर्वणि
दशमोऽध्यायः ||१० ||
Mahabharata -Ashvamedhika Parva -Chapter Footnotes
७-१०-६ मित्रद्रोहे निष्कृतिर्वै यथेह नास्तीति सदैववाद इति
क.ट.थ.पाठः ||
७-१०-८ क्षमं राजन्निति क.ट.थ.पाठः ||
७-१०-१० विलोभ्यि च्छित्त्वा मत्प्रतिष्ठा द्विनेन्द्राः इति क.ट.थ ||.
आश्वमेधिकपर्व -अध्याय ०११
||श्रीः ||
१४. ११. अध्यायः ११
अश्वमेधपर्व ||१ ||
Mahabharata -Ashvamedhika Parva -Chapter Topics
कृष्णेन युधिष्ठिरंप्रति इन्द्रवृत्रासुरयुद्धप्रकारकथनम् ||१ ||
Mahabharata -Ashvamedhika Parva -Chapter Text
वैशम्पायन उवाच |
इत्युक्ते नृपतौ तस्मिन्व्यासेनाद्भुतकर्मणा |
वासुदेवो महातेजास्ततो वचनमाददे ||१४-११-१ (९२६७०)
तं नृपं दीनमनसं निहतज्ञातिबान्धवम् |
उपप्लुतमिवादित्यं सधूममिव पावकम् ||१४-११-२ (९२६७१)
निर्विण्णमनसं पार्थं ज्ञात्वा वृष्णिकुलोद्वहः |
आश्वासनन्धर्मसुतं प्रवक्तुमुपचक्रमे ||१४-११-३ (९२६७२)
वासुदेव उवाच. १४-११-४क्ष् (७७९५)
सर्वं जिह्मं मृत्युपदमजिह्मं ब्रह्मणः पदम् |
एतावान्ज्ञानविषयः किं प्रलापः करिष्यति ||१४-११-४ (९२६७३)
नैव तेऽनुष्ठितं कर्म नैव ते शत्रवो जिताः |
कथं शत्रुं शरीरस्तमात्मनो नावबुध्यसे ||१४-११-५ (९२६७४)
अत्र ते वर्तयिष्यामि यथाधर्मं यथाश्रुतम् |
इन्द्रस्य सह वृत्रेण यथा युद्धमवर्तत ||१४-११-६ (९२६७५)
वृत्रेण पृथिवी व्याप्ता पुरा किल नराधिप |
दृष्ट्वा स पृथिवीं व्याप्तां गन्धस्य विषये हृते |
धराहरणदुर्गन्धो विषयः समपद्यत ||१४-११-७ (९२६७६)
शतक्रतुश्चुकोपाथ गन्धस्य विषये हृते |
वृत्रस्य सततः क्रुद्धो घोरं वज्रमवासृजत् ||१४-११-८ (९२६७७)
स वध्यमानो वज्रेण सुभृशं भूरितेजसा |
विवेश सहसा तोयं जग्राह विषयं ततः ||१४-११-९ (९२६७८)
अप्सु वृत्रगृहीतासु रसे च विषये हृते |
शतक्रतुरतिक्रुद्धस्तत्र वज्रमवासृजत् ||१४-११-१० (९२६७९)
स वध्यमानो वज्रेण तस्मिन्नमिततेजसा |
विवेश सहसा ज्योतिर्जग्राह विषयं ततः ||१४-११-११ (९२६८०)
व्याप्ते ज्योतिषि वृत्रेण रूपेऽथ विषये हृते |
शतक्रतुरतिक्रुद्धस्तत्र वज्रमवासृजत् ||१४-११-१२ (९२६८१)
स वद्यमानो वज्रेण तस्मिन्नमिततेजसा |
विवेश सहसा वायुं जग्राह विषयं ततः ||१४-११-१३ (९२६८२)
व्याप्ते वायौ तु वृत्रेण स्पर्शेऽथ विषये हृते |
शतक्रतुरतिक्रुद्धस्तत्र वज्रमवासृजत् ||१४-११-१४ (९२६८३)
स वध्यगानो वज्रेण तस्मिन्नमिततेजसा |
आकाशमभिदुद्राव जग्राह विषयं ततः ||१४-११-१५ (९२६८४)
आकाशे वृत्रभूतेऽथ शब्दे च विषये हृते |
शतक्रतुरभिक्रुद्धस्तत्र वज्रमवासृजत् ||१४-११-१६ (९२६८५)
स वध्यमानो वज्रेण तस्मिन्नमिततेजसा |
विवेश सहसा शक्रं जग्राह विषयं ततः ||१४-११-१७ (९२६८६)
तस्य वृत्रगृहीतस्य मोहः समभवन्महान् |
रथन्तरेण तं साम्ना वसिष्ठः प्रत्यबोधयत् ||१४-११-१८ (९२६८७)
ततो वृत्रं शरीरस्थं जघान भरतर्षभ |
शतक्रतुरदृश्येन वज्रेणेतीह नः श्रुतम् ||१४-११-१९ (९२६८८)
इदं धर्म्यं रहस्यं वै शक्रेणोक्तं महर्षिषु |
ऋषिभिश्च मम प्रोक्तं तन्निबोध जनाधिप ||||१४-११-२० (९२६८९)
इति श्रीमन्महाभारते आश्वमेधिकपर्वणि अश्वमेधपर्वणि
एकादशोऽध्यायः ||११ ||
Mahabharata -Ashvamedhika Parva -Chapter Footnotes
७-११-२ उपप्लुतं राहुग्रस्तम् ||
७-११-४ जिह्मं कामादि | मृत्युपदं संसारप्रापकम्. अजिह्मं
शमादि. ब्रह्मणः पदं मोक्षस्य प्रापकम्. ज्ञानविषयो हेयोपादेयतया
ज्ञातव्योर्थः. आर्जवं ब्रह्मणः पदमिति झ.ध.पाठः ||
७-११-७ धराहरणनिस्सार इति क.थ.पाठः ||
आश्वमेधिकपर्व -अध्याय ०१२
||श्रीः ||
१४. १२. अध्यायः १२
अश्वमेधपर्व ||१ ||
Mahabharata -Ashvamedhika Parva -Chapter Topics
कृष्णेन युधिष्ठिरंप्रति शारीरमानसभेदनेन
व्याधेर्द्वैविध्याभिधानपूर्वकं तत्परिहारोपायकथनम् ||१ ||
Mahabharata -Ashvamedhika Parva -Chapter Text
वासुदेव उवाच |
द्विवोधो जायते व्याधिः शारीरो मानसस्तथा |
परस्परं तयोर्जन्म निर्द्वन्द्वं नोपपद्यते ||१४-१२-१ (९२६९०)
शरीरे जायते व्याधिः शरीरः स निगद्यते |
मानसे जायते व्याधिर्मानसस्तु निगद्यते ||१४-१२-२ (९२६९१)
शीतोष्णे चैव वायुश्च गुणा राजञ्शरीरजाः |
तेषां गुणानां साम्यं चेत्तदाहुः स्वस्थलक्षणम् ||१४-१२-३ (९२६९२)
उष्णेन बाध्यते शीतं शीतेनोष्णं च बाध्यते ||१४-१२-४ (९२६९३)
सत्वं रजस्तमश्चेति त्रय आत्मगुणाः स्मृताः |
तेषां गुणानां साम्यं चेत्तदाहुः स्वस्थलक्षणम् ||१४-१२-५ (९२६९४)
तेषामन्यतमोत्सेके विधानमुपदिश्यते |
हर्षेण बाध्यते शोको हर्षः शोकेन बाध्यते ||१४-१२-६ (९२६९५)
कश्चिद्दुःखे वर्तमानः सुखस्य स्मर्तुमिच्छति |
कश्चित्सुखे वर्तमानो दुःखस्य स्मर्तुमिच्छति ||१४-१२-७ (९२६९६)
स त्वं न दुःखी दुःखस्य न सुखी सुसुखस्य वा |
स्मर्तुमिच्छसि कौन्तेय दैवं हि बलवत्तरम् |
अथवा ते स्वभावोऽयं येन पार्थावकृष्यसे ||१४-१२-८ (९२६९७)
दृष्ट्वा सभागतां कृष्णामेकवस्त्रां रजस्वलाम् |
मिषतां पाण्डवेयानां न तस्य स्मर्तुमिच्छसि ||१४-१२-९ (९२६९८)
प्रव्राजनं च नगरादजिनैश्च विवासनम् |
महारण्यनिवासश्च न तस्य स्मर्तुमिच्छसि ||१४-१२-१० (९२६९९)
जटासुरात्परिक्लेशश्चित्रसेनेन चाहवः |
सैन्धवाच्च परिक्लेशो न तस्य स्मर्तुमिच्छसि ||१४-१२-११ (९२७००)
पुनरज्ञातचर्यायां कीचकेन पदा वधः |
याज्ञसेन्यास्तथा पार्थ न तस्य स्मर्तुमिच्छसि ||१४-१२-१२ (९२७०१)
यच्च ते द्रोणभीष्माभ्यां युद्धमासीदरिंदम |
मनसैकेन योद्धव्यं तत्ते युद्धमुपस्थितम् ||१४-१२-१३ (९२७०२)
तस्मादभ्युपगन्तव्यं युद्धाय भरतर्षभ |
परमव्यक्तरूपस्य पारं युक्त्या स्वकर्मभिः ||१४-१२-१४ (९२७०३)
यत्र नैव शरैः कार्यं न भृत्यैर्न च बन्धुभिः |
आत्मनैकेन योद्धव्यं तत्ते युद्धमुपस्थितम् ||१४-१२-१५ (९२७०४)
तस्मिन्ननिर्जिते युद्धे कामवस्थां गमिष्यसि |
एतज्ज्ञात्वा तु कौन्तेय कृतकृत्यो भविष्यसि ||१४-१२-१६ (९२७०५)
एथां बुद्धिं विनिश्चित्य भूतानामागतिं गतिम् |
पितृपैतामहे वृत्ते शाधि राज्यं यथोचितम् ||||१४-१२-१७ (९२७०६)
इति श्रीमन्महाभारते आश्वमेधिकपर्वणि अश्वमेधपर्वणि
द्वादशोऽध्यायः ||१२ ||
Mahabharata -Ashvamedhika Parva -Chapter Footnotes
७-१२-३ शीतोष्णे कफपित्ते वायुर्वातः तेषां साम्ये स्वास्थ्यं वैषम्ये
व्याधिर्भवतीत्यर्थः ||
७-१२-४ शीतोष्णयोरन्यतराविक्यजं दोष
मितरवर्धकेनौषधादिनापनयेदित्यर्थः ||
७-१२-१२ कीचकेन पराभव इति क.पाठः ||
७-१२-१५ आत्मना मनसा ||
आश्वमेधिकपर्व -अध्याय ०१३
||श्रीः ||
१४. १३. अध्यायः १३
अश्वमेधपर्व ||१ ||
Mahabharata -Ashvamedhika Parva -Chapter Topics
कामस्य शक्तिकथनेन दुर्जयत्वकथनपूर्वकं तज्जयोपायकथनम् ||१ ||
Mahabharata -Ashvamedhika Parva -Chapter Text
वासुदेव उवाच |
न बाह्यं द्रव्यमुत्सृज्य सिद्धिर्भवति भारत |
शारीरं द्रव्यमुत्सृज्य सिद्धिर्बवति वा न वा ||१४-१३-१ (९२७०७)
बाह्यद्रव्यविमुक्तस्य शारीरेषु च गृह्यतः |
यो धर्मो यत्सुखं चैव द्विषतामस्तु तत्तव ||१४-१३-२ (९२७०८)
द्व्यक्षरस्तु भवेन्मृत्युस्त्र्यक्षरं ब्रह्म शाश्वतम् |
ममेति द्व्यक्षरो मृत्युर्नममेति च शाश्वतम् ||१४-१३-३ (९२७०९)
ब्रह्ममृत्यू ततो राजन्नात्मन्येव व्यवस्थितौ |
अदृश्यमानौ भूतानि योधयेतामसंशयम् ||१४-१३-४ (९२७१०)
अविनाशोऽस्य तत्त्वस्य नियतो यदि भारत |
भित्त्वा शरीरं भूतानामहिंसां प्रतिपद्यते ||१४-१३-५ (९२७११)
लब्ध्वा हि पृथिवीं कृत्स्नां सहस्थावरजङ्गमाम् |
ममत्वं यस्य नैव स्यात्किं तया स करिष्यति ||१४-१३-६ (९२७१२)
अथवा वसतः पार्थ वने वन्येन जीवतः |
ममता यस्य वित्तेषु मृत्योरांस्ये स वर्तते ||१४-१३-७ (९२७१३)
ब्राह्यान्तराणां शत्रूणां स्वभावं पश्य भारत |
यन्न पश्यति तद्भूतं मुच्यते स महाभयात् ||१४-१३-८ (९२७१४)
कामात्मानं न प्रशंसन्ति लोके
नेहाकामा काचिदस्ति प्रवृत्तिः |
सर्वे कामा मनसोऽङ्ग प्रभूता
यान्पण्डितः संहरते विचिन्त्य |
भूयोभूयो जन्मनोऽभ्यासयोगा-
द्योगी योगं सारमार्गं विचिन्त्य ||१४-१३-९ (९२७१५)
दानं च वेदाध्ययनं तपश्च
काम्यानि कर्माणि च वैदिकानि |
व्रतं यज्ञान्नियमान्ध्यानयोगा-
न्कामेन यो नारभते विदित्वा |
यद्यच्चायं कामयते स धमो
नयो धर्मो नियमस्तस्य मूलम् ||१४-१३-१० (९२७१६)
अत्र गाथाः कामगीताः कीर्तयन्ति पुराविदः |
शृणु सङ्कीर्त्यमानास्ता अखिलेन युधिष्ठिर ||१४-१३-११ (९२७१७)
काम उवाच. १४-१३-१२क्ष् (७७९६)
नाहं शक्योऽनुपायेन हन्तुं भूतेन केनचित् ||१४-१३-१२ (९२७१८)
यो मां प्रयतते हन्तुं ज्ञात्वा प्रहरणे बलम् |
तस्य तस्मिन्प्रहरणे पुनः प्रादुर्भवाम्यहम् ||१४-१३-१३ (९२७१९)
यो मां प्रयतते हन्तुं यज्ञैर्विविधदक्षिणैः |
जङ्गमेष्विव धर्मात्मा पुनः प्रादुर्भवाम्यहम् ||१४-१३-१४ (९२७२०)
यो मां प्रयतते हन्तुं वेदैर्वेदान्तसाधनैः |
स्थावरेष्विव भूतात्मा तस्य प्रादुर्भवाम्यहम् ||१४-१३-१५ (९२७२१)
यो मां प्रयतते हन्तुं धृत्या सत्यपराक्रमः |
भावो भवामि तस्याहं स च मां नावबुध्यते ||१४-१३-१६ (९२७२२)
यो मां प्रयतते हन्तुं तपसा संशितव्रतः |
ततस्पपसि तस्यथ पुनः प्रादुर्भवाम्यहम् ||१४-१३-१७ (९२७२३)
यो मां प्रयतते हन्तुं मोक्षमास्थाय पण्डितः |
तस्य मोक्षरतिस्थस्य नृत्यामि च हसामि च |
अवध्यः सर्वभूतानामहमेकः सनातनः ||१४-१३-१८ (९२७२४)
तस्मात्त्वमपि तं कामं यज्ञैर्विविधदक्षिणैः |
धर्मे कुरु महाराज तत्र ते स भविष्यति ||१४-१३-१९ (९२७२५)
मा ते व्यथाऽस्तु निहतान्बन्धून्वीक्ष्य पुनःपुनः |
न शक्यास्ते पुनर्द्रष्ट्रं येऽहतास्मिन्रणाजिरे ||१४-१३-२० (९२७२६)
स त्वमिष्ट्वा महायज्ञैः समृद्धैराप्तदक्षिणैः |
कीर्तिं लोके परां प्राप्य गतिमग्र्यां गमिष्यसि ||||१४-१३-२१ (९२७२७)
इति श्रीमन्महाभारते आश्वमेधिकपर्वणि अश्वमेधपर्वणि
त्रयोदशोऽध्यायः ||१३ ||
Mahabharata -Ashvamedhika Parva -Chapter Footnotes
७-१३-१ न बाह्यस्य राज्यादेरर्थस्य त्यागात्त्यग्गी भवति किन्तु
शरीरं कामादिकं त्यक्त्वैव सिद्धिर्मोक्षः नवेति शुष्कवैराग्यवतो
विवेकशून्यस्य सिद्ध्यभावं सूचयति | उत्सृज्य सिद्धिर्भवति
भारतेतिक.ध.पाठः ||
७-१३-२ गृद्ध्य सक्तस्य यो धर्मः सः अधर्मएव यत्सुखं तद्दुःखमेव ||
७-१३-३ मम त्वं संसारहेतुः तदभावो ब्रह्मप्राप्तिहेतुरित्यर्थः ||
आश्वमेधिकपर्व -अध्याय ०१४
||श्रीः ||
१४. १४. अध्यायः १४
अश्वमेधपर्व ||१ ||
Mahabharata -Ashvamedhika Parva -Chapter Topics
व्यासनारदकृष्णादिभिर्बन्धुनिधनपरिशोचिनो युधिष्ठिरस्य
समाश्वासनेन तत्रान्तर्धानम् ||१ ||
युधिष्ठिरेण भीष्मिदीनामौर्ध्वदेहिकदानेन हास्तिननगरप्रवेशः ||२ ||
Mahabharata -Ashvamedhika Parva -Chapter Text
वैशम्पायन उवाच |
एवं बहुविधैर्वाक्यैर्मुनिभिस्तैस्तपोधनैः |
समाश्वस्त राजर्षिर्हितबन्धुर्युधिष्ठिरः ||१४-१४-१ (९२७२८)
सोऽनुनीतो भगवता विष्टरश्रवसा स्वयम् |
द्वैपायनेन कृष्णेनि देवस्थानेन चाभिभूः ||१४-१४-२ (९२७२९)
नारदेनाथ भीमेन नकुलेन च पार्थिव |
कृष्णया सहदेवेन विजयेन च धीमता ||१४-१४-३ (९२७३०)
अन्यैश्च पुरुषव्याघ्रैर्ब्राह्मणैः शास्त्रदृष्टिभिः |
व्यजहाच्छोकजं दुःखं सन्तापं चैव मानसम् ||१४-१४-४ (९२७३१)
अर्चयामास देवांश्च ब्राह्मणांश्च युधिष्ठिरः |
कृत्वाऽथ प्रेतकार्याणि सर्वेषां कुरुनन्दनः |
अन्वशासच्च धर्मात्मा पृथिवीं सागराम्बराम् ||१४-१४-५ (९२७३२)
प्रशान्तचेताः कौरव्यः स्वराज्यं प्राप्य केवलम् |
व्यासं च नारदं चैव तांश्चान्यानब्रवीन्नृपः ||१४-१४-६ (९२७३३)
आश्वासितोऽहं प्राग्वृद्धैर्भवद्भिर्मुनिपुङ्गवैः |
न सूक्ष्ममपि मे किञ्चिद्व्यलीकमिह विद्यते ||१४-१४-७ (९२७३४)
अर्थश्च सुमहान्प्राप्तो येन यक्ष्यामि देवताः |
पुरस्कृत्याद्य भवतः समानेष्यामहे मखम् ||१४-१४-८ (९२७३५)
हिमवन्तं त्वया गुप्ता गमिष्यामः पितामह |
बह्वाश्चर्यो हि देशः स श्रूयते द्विजसत्तम ||१४-१४-९ (९२७३६)
तथा भगवता चित्रं कल्याणं बहु भाषितम् |
देवर्षिणा नारदेन देवस्थानेन चैव ह ||१४-१४-१० (९२७३७)
नाभागधेयः पुरुषः कश्चिदेवंविधान्गुरून् |
लभते व्यसनं प्राप्य सुहृदः साधुसम्मतान् ||१४-१४-११ (९२७३८)
वैशम्पायन उवाच. १४-१४-१२क्ष् (७७९७)
एवमुक्तास्तु ते राज्ञा सर्व एव महर्षयः |
अभ्यनुज्ञाप्य राजानं तथोभौ कृष्णफल्गुनौ ||१४-१४-१२ (९२७३९)
पश्यतामेव सर्वेषां तत्रैवादर्शनं ययुः |
ततो धर्मसुतो राजा तत्रैवोपाविशत्प्रभुः ||१४-१४-१३ (९२७४०)
एवं नातिमहान्कालः स तेषां संन्यवर्तत |
कुर्वतां शौचकार्याणि भीष्मस्य निधने तदा |
महादानानि विप्रेभ्यो ददतामौर्ध्वदेहिकम् ||१४-१४-१४ (९२७४१)
भीष्मकर्णपुरोगाणां कुरूणां कुरुसत्तम |
सहितो धृतराष्ट्रेण स ददावौर्ध्वदेहिकम् ||१४-१४-१५ (९२७४२)
ततो दत्त्वा बहुधनं विप्रेभ्यः पाण्डवर्षभः |
धृताराष्ट्रं पुरुस्कृत्य विवेश गजसाह्वयम् ||||१४-१४-१६ (९२७४३)
इति श्रीमन्महाभारते आश्वमेधिकपर्वणि अश्वमेधपर्वणि
चतुर्दशोऽध्यायः ||१४ ||
आश्वमेधिकपर्व -अध्याय ०१५
||श्रीः ||
१४. १५. अध्यायः १५
अश्वमेधपर्व ||१ ||
Mahabharata -Ashvamedhika Parva -Chapter Topics
वैशंपायेन जनमेजयंप्रति युधिष्ठिरस्य प्रजापालनकाले
प्रजादीनामभ्युदयप्रकारवर्णनम् ||१ ||
Mahabharata -Ashvamedhika Parva -Chapter Text
' वैशम्पायन उवाच |
स समाश्वास्य पितरं प्रज्ञाचक्षुषमीश्वरम् |
अन्वशासत धर्मात्मा पृथिवीं भ्रातृभिः सह ||१४-१५-१ (९२७४४)
यथा मनुर्महाराजो रामो दाशरथिर्यथा |
तथा भरतसिंहोऽपि पालयामास मेदिनीम् ||१४-१५-२ (९२७४५)
नाधर्म्यमभवत्तत्र सर्वो धर्मरुचिर्जनः |
बभूव नरशार्दूल यथा कृतयुगे तथा ||१४-१५-३ (९२७४६)
कलिमासन्नमाविष्टं निवार्य नृपनन्दनः |
भ्रातृभिः सहितो धीमान्बभौ धर्मबलोद्धतः ||१४-१५-४ (९२७४७)
ववर्ष भगवान्देवः काले देशे यथेप्सितम् |
निरामयं जगदभूत्क्षुत्पिपासे न किञ्चन ||१४-१५-५ (९२७४८)
आधिर्नास्ति मनुष्याणां व्यसने नाभवन्मतिः |
ब्राह्म्णप्रमुखा वर्णास्ते स्वधर्मोत्तराः शुभाः ||१४-१५-६ (९२७४९)
धर्मसत्यप्रधानाश्च सत्यं सद्विषयान्वितम् |
धर्मासनस्थः सद्भिः स स्त्रीबालातुरवृद्धकान् |
वर्णक्रमान्पूर्णभृतान्साकल्याद्रक्षणोद्यतः ||१४-१५-७ (९२७५०)
अवृत्तिवृत्तिदानाद्यैर्यज्ञाद्यैर्व्याधितैरपि |
आमुष्मिकं भयं नास्ति लौकिकं कृतमेव ||१४-१५-८ (९२७५१)
स्वर्गलोकोपमो लोकस्तदा तस्मिन्प्रशासति |
बभूव सुखमेवाग्रं तद्विशिष्टतरं परम् ||१४-१५-९ (९२७५२)
नार्यः पतिव्रताः सर्वा रूपवत्यः स्वलंकृताः |
यथोक्तवृत्ताः स्वगुणैर्बभूवुः प्रीतिहेतवः ||१४-१५-१० (९२७५३)
पुमांसः पुण्यशीलाढ्याः स्वंस्वं धर्ममनुव्रताः |
सुखिनः सूक्ष्ममप्येनो न कुर्वन्ति कदाचन ||१४-१५-११ (९२७५४)
सर्वे नरांश्च नार्यश्च सततं प्रियवादिनः |
अजिह्ममनसः शुक्ला बभूवुः श्रमवर्जिताः ||१४-१५-१२ (९२७५५)
भूषिताः कुण्डलैर्हारैः कटकैः कटिसूत्रकैः |
सुवाससः सुगन्धाढ्याः प्रायशः पृथिवीतले ||१४-१५-१३ (९२७५६)
सर्वे ब्रह्मविदो विप्राः सर्वत्र परिनिष्ठिताः |
वलीपलितहीनास्तु सुखिनो दीर्घदर्शिनः ||१४-१५-१४ (९२७५७)
इच्छा न जायतेऽन्यत्र वर्णेषु न च सङ्करः |
मनुष्याणां महाराज मर्यादा सुव्यवस्थिता ||१४-१५-१५ (९२७५८)
तस्मिञ्शासति राजेन्द्रे मृगव्यालसरीसृपाः |
अन्योन्यमपि चान्येषु न बाधन्ते कदाचन ||१४-१५-१६ (९२७५९)
गावः सुक्षीरभूयिष्ठाः सुस्ववालमुखोदराः |
अपीडिताः कर्षकाद्यैर्हृतव्याधिकवत्सकाः ||१४-१५-१७ (९२७६०)
अवन्ध्यकाला मनुजाः पुरुषार्थेषु च क्रमात् |
विषयेष्वनिषिद्धेषु वेदशास्त्रेषु चोद्यताः ||१४-१५-१८ (९२७६१)
सुवृत्ता वृषभाः पुष्टा रसनाभाः सुखोदयाः ||१४-१५-१९ (९२७६२)
अतीव मधुरः शब्दः स्पर्शश्चातिसुखं रसम् |
करूपं दृष्टिक्षमं रम्यं मनोज्ञं गन्धवद्बभौ ||१४-१५-२० (९२७६३)
धर्मार्थकामसंयुक्तं मोक्षाभ्युदयसाधनम् |
प्रह्लादजननं पुण्यं सम्बभूवाथ मानसम् ||१४-१५-२१ (९२७६४)
स्थावरा बहुपुष्पाढ्याः फलच्छायावहास्तथा |
सुस्पर्शा विषहीनाश्च सुपत्रत्वक्प्ररोहिणः ||१४-१५-२२ (९२७६५)
मनोनुकूलाः सर्वेषां चेष्टाभूतापवर्जिताः |
तथा बभूव राजर्षिस्तद्वृत्तमभवद्भुवि ||१४-१५-२३ (९२७६६)
सर्वलक्षणसम्पन्नाः पाण्डवा धर्मचारिणः |
ज्येष्ठानुवर्तिनः सर्वे बभूवुः प्रियदर्शनाः ||१४-१५-२४ (९२७६७)
सिंहोरस्का जितक्रोधास्तेजोबलसमन्विताः |
आजानुबाहवः सर्वे दानशीला जितेन्द्रियाः ||१४-१५-२५ (९२७६८)
तेषु शासत्सु धरणीमृतवः स्वगुणैर्बभुः |
सुखोदयाय वर्तन्ते ग्रहास्तारागणैः सह ||१४-१५-२६ (९२७६९)
मही च सस्यबहुला सर्वरत्नगुणोदया |
कामधुग्धेनुवद्भोगान्फलन्ति स्म सहस्रधा ||१४-१५-२७ (९२७७०)
मन्वादिभिः कृताः पूर्वं मर्यादा मानवेषु याः |
अनतिक्रम्य ताः सर्वाः कुलेषु समयानि च |
अन्वशासत राजानो धर्मपुत्रप्रियंकराः ||१४-१५-२८ (९२७७१)
महाकुलानि धर्मिष्ठा वर्धयन्तो विशेषतः |
मनुप्रणीतया वृत्त्या तेऽन्वशासनसुन्धराम् ||१४-१५-२९ (९२७७२)
राजवृत्तिर्हि सा शश्वद्धर्मिष्ठाऽभून्महीतले |
प्रायो लोकमतिस्तान राजवृत्तानुगामिनी ||१४-१५-३० (९२७७३)
एवं भारतवर्षं स्वं राजा स्वर्गं सुरेन्द्रवत् |
शशास जिष्णुना सार्धं गोत्रां गाण्डीवधन्वन' ||||१४-१५-३१ (९२७७४)
इति श्रीमन्महाभारते आश्वमेधिकपर्वणि अश्वमेधपर्वणि
पञ्चदशोऽध्यायः ||१५ ||
Mahabharata -Ashvamedhika Parva -Chapter Footnotes
७-१५-३१ शशास विष्णुना सार्धं गुप्तो गाण्डीवधन्वनेति थ.पाठः ||
आश्वमेधिकपर्व -अध्याय ०१६
||श्रीः ||
१४. १६. अध्यायः १६
अश्वमेधपर्व ||१ ||
Mahabharata -Ashvamedhika Parva -Chapter Topics
वैशम्पायनेन कुरुविजयानन्तरं हास्तिनपुरे
कृष्णार्जुनविहारप्रकारवर्णनम् ||१ ||
कृष्णेनार्जुनंप्रति युधिष्ठिरे स्वस्य
निजनगरजिगमिषानिवेदनचोदना ||२ ||
Mahabharata -Ashvamedhika Parva -Chapter Text
जनमेजय उवाच |
विजिते पाण्डवेयैस्तु प्रशान्ते च द्विजोत्तम |
राष्ट्रे ते चत्रतुर्वीरौ वासुदेवधनंजयौ ||१४-१६-१ (९२७७५)
वैशम्पायन उवाच. १४-१६-२क्ष् (७७९८)
विजिते पाण्डवै राजन्प्रशान्ते च विशाम्पतौ |
राष्ट्रे बभूवतुर्हृष्टौ वासुदेवधनंजयौ ||१४-१६-२ (९२७७६)
विजह्राते मुदा युक्तौ दिवि देवश्वराविव |
तौ वनेषु विचित्रेषु पर्वतेषु ससानुषुः ||१४-१६-३ (९२७७७)
तीर्थेषु चैव पुण्येषु पल्वलेषु नदीषु च |
चंक्रम्यमाणौ संहृष्टावश्विनाविव नन्दने ||१४-१६-४ (९२७७८)
इन्द्रप्रस्थे महात्मानौ रेमाते कृष्णपाण्डवौ |
प्रविश्य तां सभां रम्यां विजह्राते च भारत ||१४-१६-५ (९२७७९)
तत्र युद्धकथाश्चित्राः परिक्लेशांश्च पार्थिव |
कथायोगे कथायोगे कथयामासतुः सदा ||१४-१६-६ (९२७८०)
ऋषीणां देवतानां च वंशांस्तावाहतुः सदा |
प्रीयमाणौ महात्मानौ पुराणावृषिसत्तमौ ||१४-१६-७ (९२७८१)
मधुरास्तु कथाश्चित्राश्चित्रार्थपदनिश्चयाः |
निश्चयज्ञः स पार्थाय कथयामास केशवः ||१४-१६-८ (९२७८२)
पुत्रशोकाभिसंतप्तं ज्ञातीनां च सहस्रशः |
कथाभिः शमयामास पार्तं शौरिर्जनार्दनः ||१४-१६-९ (९२७८३)
स तमाश्वास्य विधिवद्विधानज्ञो महातपाः |
अपहृत्यात्मनो भारं विशश्रामेव सात्वतः ||१४-१६-१० (९२७८४)
ततः कथान्ते गोविन्दो गुडाखेशमुवाच ह |
सान्त्वयञ्श्लक्ष्णया वाचा हेतुयुक्तमिदं वचः ||१४-१६-११ (९२७८५)
विजितेयं धरा कृत्स्ना सव्यसाचिन्परंतप |
त्वद्बाहुबलामाश्रित्य राज्ञा धर्मसुतेन ह ||१४-१६-१२ (९२७८६)
असपत्नां महीं भुङ्क्ते धर्मराजो युधिष्ठिरः |
भीमसेनानुभावेन यमयोश्च नरोत्तम ||१४-१६-१३ (९२७८७)
धर्मेणि राज्ञा धर्मज्ञ प्राप्तं राज्यमकण्टकम् |
धर्मेण निहतः सङ्ख्ये स च राजा सुयोधनः ||१४-१६-१४ (९२७८८)
अधर्मरुचयो लुब्धाः सदा चाप्रियवादिनः |
धार्तराष्ट्रा दुरात्मानः सानुबन्धा निपातिताः ||१४-१६-१५ (९२७८९)
प्रशान्तामखिलां पार्थ पृथिवीं पृथिवीपतिः |
भुङ्क्ते धर्मसुतो राजा त्वया गुप्तः कुरूद्वह ||१४-१६-१६ (९२७९०)
रमे चाहं त्वया सार्धमरण्येष्वपि पाण्डव |
किमु यत्र जनोऽयं वै पृथा चामित्रकर्मन ||१४-१६-१७ (९२७९१)
यत्र धर्मसुतो राजा यत्र यत्र भीमो महाबलः |
यत्र माद्रवतीपुत्रौ रतिस्तत्र परा मम ||१४-१६-१८ (९२७९२)
तथैव स्वर्गलोकेषु सभोद्देशेषु कौरव |
रमणीयेषु पुष्णेषु सहितस्य त्वयाऽनध ||१४-१६-१९ (९२७९३)
कालो महांस्त्वतीतो मे शूरसूनुमपश्यतः |
बलदेवं च कौरव्यं तथाऽन्यान्वृष्णिपुङ्गवान् ||१४-१६-२० (९२७९४)
सोहं गन्तुमभीप्सामि पुरीं द्वारावतीं प्रति |
रोचतां गमनं तुभ्यं ममापि पुरुषर्षभ ||१४-१६-२१ (९२७९५)
उक्तो बहुविधं राजा तत्रतत्र युधिष्ठिरः |
सह भीष्मेण यद्युक्तमस्माभिः शोकर्शितः ||१४-१६-२२ (९२७९६)
शिष्टो युधिष्ठिरोऽस्माभिः शास्ता सन्नपि पाण्डवः |
तेन तत्तु वचः सम्यग्गृहीतं सुमहात्मना ||१४-१६-२३ (९२७९७)
धर्मपुत्रे हि धर्मज्ञे कृतज्ञे सत्यवादिनि |
सत्यं धर्मो मतिश्चाग्र्या स्थितिश्च सततं स्थिरा ||१४-१६-२४ (९२७९८)
तत्र गत्वा महात्मानं यदि ते रोचतेऽर्जुन |
अस्मद्गमनसंयुक्तं वचो ब्रूहि जनाधिपम् ||१४-१६-२५ (९२७९९)
न हि तस्याप्रियं कुर्यां प्राणत्योगेऽप्युपस्थिते |
कुतो गन्तुं महाबाहो पुरीं द्वारावतीं प्रति ||१४-१६-२६ (९२८००)
सर्वं त्विदमहं पार्त त्वत्प्रीतिहितकाम्यया |
ब्रवीमि सत्यं कौरव्य न मिथ्यैतत्कथञ्चन ||१४-१६-२७ (९२८०१)
प्रयोजनं च निर्वृत्तमिह वासेन मेऽर्जुन |
धार्तराष्ट्रो हतो राजा सबलः सपदानुगः ||१४-१६-२८ (९२८०२)
पृथिवी च वशे तात धर्मपुत्रस्य धीमतः |
स्थिता समुद्रवसना सशैलवनकानना ||१४-१६-२९ (९२८०३)
चिता रत्नैर्बहुविधैः कुरुराजस्य पाण्डव |
धर्मेण राजा धर्मज्ञः पातु सर्वां वसुन्धराम् ||१४-१६-३० (९२८०४)
उपास्यमानो मुनिभिः सिद्धैश्चापि महात्मभिः |
स्तूयमानश्च सततं बन्दिभिर्भरतर्षभ ||१४-१६-३१ (९२८०५)
तं मया सह गत्वाऽद्य राजानं कुरुवर्धनम् |
आपृच्छ कुरुशार्दूल गमनं द्वारकां प्रति ||१४-१६-३२ (९२८०६)
इदं शरीरं वसु यच्च मे गृहे
निवेदितं पार्थ सदा युधिष्ठिरे |
प्रियश्च मान्यश्च हि मे युधिष्ठिरः
सदा कुरूणामधिपो महामतिः ||१४-१६-३३ (९२८०७)
प्रयोजनं चापि निवासकारणे
न विद्यते मे त्वदृते नृपात्मज |
स्थिता हि पृथ्वी तव पार्थ शासने
गुरोः सुवृत्तस्य युधिष्ठिरस्य च ||१४-१६-३४ (९२८०८)
इतीदमुक्तः स तदा महात्मना
जनार्दनेनामितविक्रमोऽर्जुनः |
तथेति दुःखादिव वाक्यमैरय-
ज्जनार्दनं सम्प्रतिपूज्य पार्थिव ||||१४-१६-३५ (९२८०९)
इति श्रीमन्महाभारते आश्वमेधिकपर्वणि अश्वमेधपर्वणि
षोडशोऽध्यायः ||१६ ||
Mahabharata -Ashvamedhika Parva -Chapter Footnotes
७-१६-४ शैलेषु गह्वरारण्ये पल्वलेष्विति क.थ.पाठः ||
आश्वमेधिकपर्व -अध्याय ०१७
||श्रीः ||
१४. १७. अध्यायः १७
अथानुगीतापर्व ||२ ||
Mahabharata -Ashvamedhika Parva -Chapter Topics
अर्जुनेन कृष्णंप्रति पूर्वोपदिष्टगीतार्थस्य विस्मरणोक्त्या
पुनस्तदुपदेशप्रार्थना ||१ ||
कृष्णेनार्जुनंप्रति स्वस्मै ब्राह्मणोक्तसिद्धकाश्यपसंवादानुवादः ||२ ||
Mahabharata -Ashvamedhika Parva -Chapter Text
जनमेजय उवाच |
सभायां वसतोस्तत्र निहत्यारीन्महात्मनोः |
केशवार्जुनयोः का नु कथा समभवद्द्विज ||१४-१७-१ (९२८१०)
वैशम्पायन उवाच. १४-१७-२क्ष् (७७९९)
कृष्णेन सहितः पार्थः स्वं राज्यं प्राप्य केवलम् |
तस्यां सभायां दिव्यायां विजहार मुदा युतः ||१४-१७-२ (९२८११)
तत्र कञ्चित्सभोद्देशं स्वर्गोद्देशसमं नृप |
यदृच्छया तौ मुदितौ जग्मतुः स्वजनावृतौ ||१४-१७-३ (९२८१२)
ततः प्रतीतः कृष्णेन सहितः पाण्डवोऽर्जुनः |
निरीक्ष्य तां सभां रम्यामिदं वचनमब्रवीत् ||१४-१७-४ (९२८१३)
विदितं मे महाबाहो सङ्ग्रामे समुपस्थिते |
महात्म्यं देवकीपुत्र तच्च ते रूपमैश्वरम् ||१४-१७-५ (९२८१४)
यत्तु तद्भवता प्रोक्तं पुरा केशव सौहृदात् |
तत्सर्वं पुरुषव्याघ्र नष्टं मे व्यग्रचेतसः ||१४-१७-६ (९२८१५)
मम कौतूहलं त्वस्ति तेष्वर्थेषु पुनः पुनः |
भवांस्तु द्वारकां गन्ता नचिरादिव माधव ||१४-१७-७ (९२८१६)
वैशम्पायन उवाच. १४-१७-८क्ष् (७८००)
एवमुक्तस्तु तं कृष्णः फाल्गुनं प्रत्यभाषत |
परिष्वज्य महातेजा वचनं वदतांवरः ||१४-१७-८ (९२८१७)
वासुदेव उवाच. १४-१७-९क्ष् (७८०१)
श्रावितस्त्वं मया गुह्यं ज्ञापितश्च सनातनम् |
धर्मं स्वरूपिणं पार्त सर्वलोकांश्च शाश्वतान् ||१४-१७-९ (९२८१८)
अबुद्ध्या यन्न गृह्णीतास्तन्मे सुमहदप्रियम् |
न च साऽद्य पुनर्भूयः स्मृतिर्मे सम्भविष्यति ||१४-१७-१० (९२८१९)
नूनमश्रद्दधानोऽसि दुर्मेधा ह्यसि पाण्डव |
न च शक्यं पुनर्वक्तुमशेषेण धनंजय ||१४-१७-११ (९२८२०)
स हि धर्मः सुपर्याप्तो ब्रह्मणः पदवेदने |
न शक्यं तन्मया भूयस्तथा वक्तुमशेषतः ||१४-१७-१२ (९२८२१)
परं हि ब्रह्म कथितं योगयुक्तेन तन्मया |
इतिहासं तु वक्ष्यामि तस्मिन्नर्थे पुरातनम् ||१४-१७-१३ (९२८२२)
यथा तां बुद्धिमास्थाय गतिमग्र्यां गमिष्यसि |
शृणु धर्मभृतांश्रेष्ठ गदतः सर्वमेव मे ||१४-१७-१४ (९२८२३)
आगच्छद्ब्राह्मणः कश्चित्स्वर्गलोकादरिंदम |
ब्रह्मलोकाच्च दुर्धर्षः सोस्माभिः पूजितोऽभवत् ||१४-१७-१५ (९२८२४)
अस्माभिः परिपृष्ठश्च यदाह भरतर्षभ |
दिव्येन विधिना पार्थ तच्छृणुष्वाविचारयन् ||१४-१७-१६ (९२८२५)
ब्राह्मण उवाच. १४-१७-१७क्ष् (७८०२)
मोक्षधर्मं समाश्रित्य कृष्ण यन्माऽनुपृच्छसि |
भूतानामनुकम्पार्थं मन्मोहच्छेदनं विभो ||१४-१७-१७ (९२८२६)
तत्तेऽहं सम्प्रवक्ष्यामि यथावन्मधुसूदन |
शृणुष्वावहितो भूत्वा गदतो मम माधव ||१४-१७-१८ (९२८२७)
कश्चिद्विप्रस्तपोयुक्तः काश्यपो धर्मवित्तमः |
आससाद द्विजं कंचिद्धर्माणामागतागमम् ||१४-१७-१९ (९२८२८)
गतागमं सुबहुशो ज्ञानविज्ञानपारगम् |
लोकतत्त्वार्थकुशलं ज्ञातरं सुखदुःखयोः ||१४-१७-२० (९२८२९)
जातिस्मरणतत्त्वज्ञं कोविदं पापपुण्ययोः |
द्रष्टारमुच्चनीचानां कर्मभिर्देहिनां गतिम् ||१४-१७-२१ (९२८३०)
चरन्तं मुक्तवत्सिद्धं प्रशान्तं संयतेन्द्रियम् |
दीप्यमानं श्रिया ब्राह्मया क्रममाणं च सर्वशः ||१४-१७-२२ (९२८३१)
अन्तर्धानगतिज्ञं च श्रुत्वा तत्त्वेन काश्यपः |
तथैवान्तर्हितैः सिद्धैर्यान्तं चक्रधरैः सह ||१४-१७-२३ (९२८३२)
सम्भाषमाणमेकान्ते समासीनं च तैः सह |
यदृच्छया च गच्छन्तमसक्तं पवनं यथा ||१४-१७-२४ (९२८३३)
तं समासाद्य मेधावी स तदा द्विजसत्तमः |
चरणौ धर्मकामो वै स तस्य सुसमाहितः |
प्रतिपदे यथान्यायं भक्त्या परमया युतः ||१४-१७-२५ (९२८३४)
विस्मितश्चाद्भुतं दृष्ट्वा काश्यपस्तं द्विजोत्तमम् |
परिचारेण महता गुरुं तं पर्यतोषयत् ||१४-१७-२६ (९२८३५)
उपपन्नं च तत्सर्वं श्रुतचारित्रसंयुतम् |
भौमेनातोषयच्चैनं गुरुवृत्तिं समास्थितः ||१४-१७-२७ (९२८३६)
तस्मै तुष्टः स शिष्याय यत्प्रसन्नोऽब्रवीद्गुरुः |
सिद्धिं परामभिप्रेक्ष्य शृणु मत्तो जनार्दन ||१४-१७-२८ (९२८३७)
सिद्ध उवाच. १४-१७-२९क्ष् (७८०३)
विविधैः कर्मभिस्तात पुण्ययोगैश्च केवलैः |
गच्छन्तीह गतिं मर्त्या देवलोके च वा स्थितिम् ||१४-१७-२९ (९२८३८)
न क्वचित्सुखमत्यन्तं न क्वचिच्छाश्वती स्थितिः |
स्थानाच्च महतो भ्रंशो दुःखलब्दात्पुनः पुनः ||१४-१७-३० (९२८३९)
अशुभा गतयः प्राप्ताः कष्टा मे पापसेवनात् |
काममन्युपरीतेन तृष्णया मोहितेन च ||१४-१७-३१ (९२८४०)
पुनः पुनश्च मरणं जन्म चैव पुनः पुनः |
आहारा विविधा भुक्ताःपीता नानाविधाःस्तनाः ||१४-१७-३२ (९२८४१)
मातरो विविधा दृष्टाः पितरश्च पृथग्विधाः |
सुखानि च विचित्राणि दुःखानि च मयाऽनघ ||१४-१७-३३ (९२८४२)
प्रियैर्विवासो बहुशः संवासश्चाप्रियैः सह |
धननाशश्च सम्प्राप्तो लब्ध्वा दुःखेन तद्धनम् ||१४-१७-३४ (९२८४३)
अवमानाः सुकष्टाश्च परतः स्वजनात्तथा |
शारीरा मानसा वाऽपि वेदना भृशदारुणाः ||१४-१७-३५ (९२८४४)
प्राप्ता विमाननाश्चोग्रा वधबन्धाश्च दारुणाः |
पतनं निरये चैव यातनाश्च यमक्षये ||१४-१७-३६ (९२८४५)
जरारोगाश्च सततं व्यसनानि च भूरिशः |
लोकेऽस्मिन्ननुभूतानि द्वन्द्वजानि भृशं मया ||१४-१७-३७ (९२८४६)
ततः कदाचिन्निर्वेदान्निकारान्निकृतेन च |
लोकतन्त्रं परित्यक्तं दुःखार्तेन भृशं मया ||१४-१७-३८ (९२८४७)
लोकेऽस्मिन्ननुभूयाहमिमं मार्गमनुष्ठितः |
ततः सिद्धिरियं प्राप्ता प्रसादादात्मनो मया |
नाहं पुनरिहागन्ता लोकानालोकयाम्यहम् ||१४-१७-३९ (९२८४८)
आसिद्धेराप्रजासर्गादात्मनोपि गतीः शुभाः |
उपलब्धा द्विजश्रेष्ठ तथेयं सिद्धिरुत्तमा ||१४-१७-४० (९२८४९)
इतः परं गमिष्यामि ततः परतरं पुनः |
ब्रह्मणः पदमव्यक्तं मा तेऽभूतत्र संशयः ||१४-१७-४१ (९२८५०)
नाहं पुनरिहागन्ता मर्त्यलोकं परन्तप |
प्रीतोस्मि ते महाप्राज्ञ ब्रूहि किं करवाणि ते ||१४-१७-४२ (९२८५१)
यदीप्सुरुपपन्नस्त्वं तस्य कालोऽयमागतः |
अभिजाने च तदहं यदर्थं मामुपागतः ||१४-१७-४३ (९२८५२)
अचिरात्तु गमिष्यामि येनाहं त्वामचूचुदम् |
भृशं प्रीतोस्मि भवतश्चारित्रेण विचक्षण ||१४-१७-४४ (९२८५३)
परिपृच्छ यावद्भवतो भाषे यद्यत्तवेप्सितम् ||१४-१७-४५ (९२८५४)
बहुमन्ये च ते बुद्धिं भृशं सम्पूजयामि च |
येनाहं भवता बुद्धो मेधावी ह्यसि काश्यप ||||१४-१७-४६ (९२८५५)
इति श्रीमन्महाभारते आश्वमेधिकपर्वणि अनुगीतापर्वणि
सप्तदशोऽध्यायः ||१७ ||
Mahabharata -Ashvamedhika Parva -Chapter Footnotes
७-१७-१९ आगतागमं प्राप्तशास्त्ररहस्यमूहापोहकुशलमित्यर्थः ||
७-१७-४३ बहुमन्ये भृशं पूजये | अहमन्तर्धानगतोऽपि यतस्त्वया
ज्ञातः ||
आश्वमेधिकपर्व -अध्याय ०१८
||श्रीः ||
१४. १८. अध्यायः १८
अश्वमेधपर्व ||१ ||
Mahabharata -Ashvamedhika Parva -Chapter Topics
ब्राह्मणेन कृष्णंप्रति प्राणिनां
जननमरणादिप्रतिपादकसिद्धकश्यपसंवादनुवादः ||१ ||
Mahabharata -Ashvamedhika Parva -Chapter Text
वासुदेव उवाच |
ततस्तस्योपसङ्गृह्य पादौ प्रश्नान्सुदुर्वचान् |
पप्रच्छ तांश्च धर्मान्स प्राह धर्मभृतांवरः ||१४-१८-१ (९२८५६)
काश्यप उवाच. १४-१८-२क्ष् (७८०४)
कथं शरीराच्च्यवते कथं चैवोपपद्यते |
कथं कष्टाच्च संसारात्संसरन्परिमुच्यते ||१४-१८-२ (९२८५७)
आत्मानं वा कथं युक्त्वा तच्छरीरं विमुञ्चति |
शरीरे च विनिर्मुक्तो कथमन्यत्प्रपद्यते ||१४-१८-३ (९२८५८)
कथं शुभाशुभे चायं कर्मणी स्वकृते नरः |
उपभुङ्क्ते क्व वा कर्म विदेहस्योपतिष्ठते ||१४-१८-४ (९२८५९)
ब्राह्मण उवाच. १४-१८-५क्ष् (७८०५)
एवं सञ्चोदितः सिद्धः प्रश्नांस्तान्प्रत्यभाषत |
आनुपूर्व्येण वार्ष्णेय तन्मे निगदतः शृणुः ||१४-१८-५ (९२८६०)
सिद्ध उवाच. १४-१८-६क्ष् (७८०६)
' अस्मिन्नेवाशु फलदा आयुष्यास्तु क्रियाःस्मृताः |
आयुःकीर्तिकराणीह यानि कृत्यानि सेवते |
शरीरग्रहणेऽन्यस्मिंस्तेषु क्षीणेषु सर्वशः ||१४-१८-६ (९२८६१)
आयुःक्षयपरीतात्मा विपरीतानि सेवते |
बुद्धिर्व्यावर्तते चास्य विनाशे प्रत्युपस्थिते ||१४-१८-७ (९२८६२)
सत्त्वं बलं च कालं चाविदित्वा चात्मनस्तथा |
अतिवेलमुपाश्नाति स्वविरुद्धान्यनात्मवान् ||१४-१८-८ (९२८६३)
यदाऽयमतिकष्टानि सर्वाण्युपनिषेवते |
अत्यर्थमपि वा भुङ्क्ते न वा भुङ्क्ते कदाचन ||१४-१८-९ (९२८६४)
दुष्टान्नामिषपानं च यदन्योन्यविरोधि च |
गुरु चाप्यमितं भुङ्क्ते नातिजीर्णे दिवा पुनः ||१४-१८-१० (९२८६५)
व्यायाममतिमात्रं च व्यावाय चोपसेवते |
सततं कर्मलोभाद्वा प्राप्तं वेगं विधारयेत् ||१४-१८-११ (९२८६६)
रसाभियुक्तमन्नं वा दिवास्वप्नं च सेवते |
अपक्वानागते काले स्वयं दोषान्प्रकोपयेत् ||१४-१८-१२ (९२८६७)
स्वदोषकोपनाद्रोगं लभते मरणान्तिकम् |
अपि वोद्बन्धनादीनि परीतानि व्यवस्यति ||१४-१८-१३ (९२८६८)
तस्य तैः कारणैर्जन्तोः शरीरं च्यवते तदा |
जीवितं प्रोच्यमानं तद्यथावदुपधारय ||१४-१८-१४ (९२८६९)
ऊष्मा प्रकुपितः काये तीव्रवायुसमीरितः |
शरीरमनुपर्येत्य सर्वान्प्राणान्रुणद्धि वै ||१४-१८-१५ (९२८७०)
अत्यर्थं बलवानूष्मा शरीरे परिकोपितः |
भिनत्ति जीवस्थानानि तानि कर्मणि विद्धि च ||१४-१८-१६ (९२८७१)
ततः सवेदनः सद्यो जीवः प्रच्यवते क्षरन् |
शरीरं त्यजते जन्तुश्छिद्यमानेषु मर्मसु |
वेदनाभिः परीतात्मा तद्विद्धि द्विजसत्तम ||१४-१८-१७ (९२८७२)
जनीमरणसंविग्राः सततं सर्वजन्तवः |
दृश्यन्ते संत्यजन्तश्च शरीराणि द्विजर्षभ ||
गर्भसंक्रमणे चापि गर्भाणापुपसर्पणे |
तादृशीमेव लभते वेदनां मानवः पुनः ||१४-१८-१८ (९२८७३)
भिन्नसंधिरथ क्लेदमद्भिः स लभते नरः ||१४-१८-२० (९२८७४)
यथा पञ्चसु भूतेषु सम्भूतत्वं नियच्छति |
शैत्यात्प्रकुपितः काये तीव्रवायुसमीरितः ||१४-१८-२१ (९२८७५)
यः स पञ्चसु भूतेषु प्राणापाने व्यवस्थितः |
स गच्छत्यूर्ध्वगो वायुः कृच्छ्रान्मुक्त्वा शरीरिणः |
शरीरं च जहात्येवं निरुच्छ्वासश्च दृश्यते ||१४-१८-२२ (९२८७६)
स निरूष्मा निरुच्छ्वासो निःश्रीको गतचेतनः |
कर्मणा सम्परित्यक्तो मृत इत्युच्यते नरः ||१४-१८-२३ (९२८७७)
स्रोतोभिर्यैर्विजानाति इन्द्रियार्थाञ्शरीरभृत् |
तैरेव न विजानाति प्राणानाहारसम्भवान् ||१४-१८-२४ (९२८७८)
तत्रैव कुरुते काये यः स जीवः सनातनः ||१४-१८-२५ (९२८७९)
तथा यद्यद्भवेन्मुक्तं सन्निपाते क्वचित्क्वचित् |
तत्तन्मर्म विजानीहि शास्त्रदृष्टं हि तत्तथा ||१४-१८-२६ (९२८८०)
तेषु मर्मसु भिन्नेषु ततः स समुदीरयन् |
आविश्य हृदयं जन्तोः सत्त्वं चाशु रुणद्धि वै ||१४-१८-२७ (९२८८१)
ततः सचेतनो जन्तुर्नाभिजानाति किञ्चन |
तमसा संवृतज्ञानः संवृतेष्वेव मर्मसु |
स जीवो निरदिष्ठानश्चाल्यते मातरिश्वना ||१४-१८-२८ (९२८८२)
ततः स तं महोच्छ्वासं भृशमुच्छ्वस्य दारुणम् |
निष्क्रमन्कम्पयत्याशु तच्छरीरमचेतनम् ||१४-१८-२९ (९२८८३)
स जीवः प्रच्युतः कायात्कर्मभिः स्वैः समावृतः |
अङ्कितः स्वैः शुभैः पुण्यैः पापैर्वाऽप्युपपद्यते ||१४-१८-३० (९२८८४)
ब्राह्मणा ज्ञानसम्पन्ना यथावच्छ्रुतनिश्चयाः |
इतरं कृतपुण्यं वा तं विजानन्ति लक्षणैः ||१४-१८-३१ (९२८८५)
यथान्धकारे खद्येतं दीप्यमानं ततस्ततः |
चक्षुष्मन्तः प्रपश्यन्ति तथा च ज्ञानचक्षुषः ||१४-१८-३२ (९२८८६)
पश्यन्त्येवंविधं सिद्धा जीवं दिव्येन चक्षुषा |
च्यवन्तं जायमानं च योनिं चानुप्रवेशितम् ||१४-१८-३३ (९२८८७)
तस्य स्थानानि दृष्टानि विविधानीह शास्त्रतः |
कर्मभूमिरियं भूमिर्यत्र तिष्ठन्ति जन्तवः ||१४-१८-३४ (९२८८८)
ततः शुभाशुभं कृत्वा लभन्ते सर्वदेहिनः |
इहैवोच्चावचान्भोगान्प्राप्नुवन्ति स्वकर्मभिः ||१४-१८-३५ (९२८८९)
इहैवाशुभकर्माणः कर्मभिर्निरयं गताः |
अवाग्गतिरियं कष्टा यत्र पच्यन्ति मानवाः |
तस्मात्सुदुर्लभो मोक्षो रक्ष्यश्चात्मा ततो भृशम् ||१४-१८-३६ (९२८९०)
ऊर्ध्वं तु जन्तवो गत्वा येषु स्थानेष्ववस्थिताः |
कीर्त्यमानानि तानीह तत्त्वतः संनिबोध मे ||१४-१८-३७ (९२८९१)
तच्छ्रुत्वा नैष्ठिकीं बुद्धिं बुद्ध्येथाः कर्मनिश्चयम् |
तारारूपाणि सर्वाणि यत्रैतच्चन्द्रमण्डलम् ||१४-१८-३८ (९२८९२)
यत्र विभ्राजते लोके स्वभासा सूर्यमण्डलम् |
स्थानान्येतानि जानीहि जनानां पुण्यकर्मणाम् ||१४-१८-३९ (९२८९३)
कर्मक्षयाच्च ते सर्वे च्यवन्ते वै पुनः पुनः |
तत्रापि च विशेषोस्ति दिवि नीचोच्चमध्यमः ||१४-१८-४० (९२८९४)
न च तत्रापि संतोषो दृष्ट्वा दीप्ततरां श्रियम् |
इत्येता गतयः सर्वाः पृथक्ते समुदीरिताः ||१४-१८-४१ (९२८९५)
उपपत्तिं तु वक्ष्यामि गर्भस्याहमतः परम् |
तथावत्तां निगदतः शृणुष्वावहितो द्विज ||||१४-१८-४२ (९२८९६)
इति श्रीमन्महाभारते आश्वमेधिकपर्वणि अनुगीतापर्वणि
अष्टादशोऽध्यायः ||१८ ||
Mahabharata -Ashvamedhika Parva -Chapter Footnotes
७-१८-१० दुष्टान्नं विषमान्नं विते क.ट.पाठः ||
७-१८-१२ अपक्वाशं गते काले स्वयं दोषप्रकोपनमिति क.ठ.थ.पाठः ||
७-१८-१९ गर्भसङ्क्रमणे गर्भस्थदेहप्रवेशे ||
७-१८-२१ श्लेष्मा प्रकुपित इति क.थ.पाठः ||
७-१८-२४ स्नोतोभिरिन्द्रियैः ||
आश्वमेधिकपर्व -अध्याय ०१९
||श्रीः ||
१४. १९. अध्यायः १९
अश्वमेधपर्व ||१ ||
Mahabharata -Ashvamedhika Parva -Chapter Topics
ब्राह्मणेन कृष्णंप्रति जीवस्य
गर्भप्रवेशादिप्रतिपादककाश्यपसिद्धसंवादानुवादः ||१ ||
Mahabharata -Ashvamedhika Parva -Chapter Text
ब्राह्मण उवाच |
शुभानामशुभानां च नेह नाशोस्ति कर्मणाम् |
प्राप्यप्राप्यानुपच्यन्ते क्षेत्रेक्षेत्रे तथातथा ||१४-१९-१ (९२८९७)
यथा प्रसूयमानस्तु फली दद्यात्फलं बहु |
तथा स्याद्विपुलं पुण्यं शुद्धेन मनसा कृतम् ||१४-१९-२ (९२८९८)
पापं चापि तथैव स्यात्पापेन मनसा कृतम् |
पुरोधाय मनो हीह कर्मण्यात्मा प्रवर्तते ||१४-१९-३ (९२८९९)
यथा कर्मसमाविष्टः काममन्युसमावृतः |
नरो गर्भं प्रविशति तत्रापि शृणु चोत्तरम् ||१४-१९-४ (९२९००)
शुक्रं शोणितसंसृष्टं स्त्रिया गर्भाशयं गतम् |
क्षेत्रं कर्मजमाप्नोति शुभं वा यदि वाऽशुभम् ||१४-१९-५ (९२९०१)
सौक्ष्म्यादव्यक्तयावाच्च न च क्वचन सज्जति |
सम्प्राप्य ब्राह्मणः कायं तस्मात्तद्ब्रह्म शाश्वतम् ||१४-१९-६ (९२९०२)
तद्बीजं सर्वभूतानां तेन जीवन्ति जन्तवः ||१४-१९-७ (९२९०३)
स जीवः सर्वभूतानां गर्भमाविश्य भागशः |
दधाति चेतना सद्यः प्राणस्थानेष्ववस्थितः |
ततः स्पन्दयतेऽङ्गानि स गर्भश्चेतनान्वितः ||१४-१९-८ (९२९०४)
यथा लोहस्य विष्यन्दो निषिक्तो बिम्बविग्रहम् |
उपैति तद्वज्जानीहि गर्भे जीवप्रवेशनम् ||१४-१९-९ (९२९०५)
लोहपिण्डं यथा वह्निः प्रविश्य ह्यतितापयेत् |
तथा त्वमपि जानीहि गर्भे जीवोपपादनम्. १४-१९-१० (९२९०६)
यथा च दीपः शरणं दीप्यमानः प्रकाशयेत् |
एवमेव शरीराणि प्रकाशयति चेतनः ||१४-१९-११ (९२९०७)
यद्यच्च कुरुते कर्म शुभं वा यदि वाऽशुभम् |
पूर्वदेहकृतं सर्वमवश्यमुपभुज्यते ||१४-१९-१२ (९२९०८)
ततस्तु क्षीयते चैव पुनश्चान्यत्प्रचीयते |
यावत्तु मोक्षयोगस्थं धर्मं नैवावबुध्यते ||१४-१९-१३ (९२९०९)
तत्ते धर्मं प्रवक्ष्यामि सुखी भवति येन वै |
आवर्तमानो जातीषु यथाऽन्योन्यासु सत्तम ||१४-१९-१४ (९२९१०)
दानं व्रतं ब्रह्मचर्यं यथोक्तव्रतधारणम् |
दमः प्रशान्तता चैव भूतानां चानुकम्पनम् ||१४-१९-१५ (९२९११)
संयमश्चानृशंस्य च परस्वादानवर्जनम् |
व्यलीकानामकरणं भूताना मनसा भुवि ||१४-१९-१६ (९२९१२)
मातापित्रोश्च शुश्रूषा देवतातितिपूजनम् |
गुरुपूजा घृणा शौचं नित्यमिन्द्रयसंयमः ||१४-१९-१७ (९२९१३)
प्रवर्तनं शुभानां च तत्सतां व्रतमुच्यते |
ततो धर्मः प्रभवति यः प्रजाः पाति शाश्वतीः ||१४-१९-१८ (९२९१४)
' सद्भिराचरितो धर्मः सदाचारे प्रतिष्ठितः |
उभयार्थो भवत्येव स्वर्गार्थो मोक्षतस्तथा ||' ||१४-१९-१९ (९२९१५)
एवं सत्सु सदा पश्येत्तत्रछाप्येषा ध्रुवा स्थितिः |
आचारो धर्ममाचष्टे यस्मिन्सन्तो व्यवस्थिताः ||१४-१९-२० (९२९१६)
तेषु तत्कर्म निक्षिप्तं यः स धर्मः सनातनः |
यस्तं समभिपद्येत न स दुर्गतिमाप्नुयात् ||१४-१९-२१ (९२९१७)
अतो नियम्यते लोकः प्रच्यवन्धर्मवर्त्मसु |
यश्च योगी च मुक्तश्च स ऐतेभ्यो विशिष्यते ||१४-१९-२२ (९२९१८)
वर्तमानस्य धर्मेण पुरुषस्य यथा तथा |
संसारतारणं ह्यस्य कालेन महता भवेत् ||१४-१९-२३ (९२९१९)
एवं पूर्वकृतं कर्म सर्वो जन्तुः प्रपद्यते |
सर्वं तत्कारणं येन निकृतोऽप्यमिहागतः ||१४-१९-२४ (९२९२०)
शरीरग्रहणं चास्य केन पूर्वं प्रकल्पितम् |
इत्येवं संशये लोके तच्च वक्ष्याम्यतः परम् ||१४-१९-२५ (९२९२१)
शरीरमात्मनः कृत्वा सर्वलोकपितामहः |
त्रैलोक्यमसृजद्ब्रह्मा कृत्स्नं स्थावरजङ्गमम् ||१४-१९-२६ (९२९२२)
ततः प्रधानमसृजच्चेतनां तु शरीरिणाम् |
यया सर्वमिदं व्याप्तं यां लोके परमां विदुः ||१४-१९-२७ (९२९२३)
इदं तत्क्षरमित्युक्तं परं त्वमृतमक्षरम् |
त्रयाणां मिथुनं सर्वमेकैकस्य पृथक्पृथक् ||१४-१९-२८ (९२९२४)
असृजत्सर्वभूतानि पूर्वदृष्टः प्रजापतिः |
स्थावराणि च भूतानि इत्येषा पौर्विकी श्रुतिः ||१४-१९-२९ (९२९२५)
तस्य कालपरीमाणमकरोत्स पितामहः |
भूतेषु परिवृत्तिं च पनरावृत्तिमेव च ||१४-१९-३० (९२९२६)
यथा तु कश्चिन्मेधावी दृष्टात्मा पूर्वजन्मनि |
यत्प्रवक्ष्यामि तत्सर्वं यथावदुपपद्यते ||१४-१९-३१ (९२९२७)
सुखदुःखे यथा सम्यगनित्ये यः प्रपश्यति |
कायं चामेध्यसंस्थानं विनाशं कर्मसंहितम् ||१४-१९-३२ (९२९२८)
यच्च किञ्चित्सुखं तच्च दुःखं दृष्टमिति स्मरन् |
संसारसागरं घोरं तरिष्यति सुदुस्तरम् ||१४-१९-३३ (९२९२९)
जनीमरणरोगैश्च समाविष्टः प्रधानवित् |
चेतनाव्तसु चैतन्यं समं भूतेषु पश्यति ||१४-१९-३४ (९२९३०)
निर्विद्यते ततः कश्चिन्मार्गमाणः परं पदम् |
तस्योपदेशं वक्ष्यामि याथातथ्येन सत्तम ||१४-१९-३५ (९२९३१)
शाश्वतस्याव्ययस्याथ् यदस्य ज्ञानमुत्तमम् |
प्रोच्यमानं मया विप्र निबोधदमशेषतः ||||१४-१९-३६ (९२९३२)
इति श्रीमन्महाभारते आश्वमेधिकपर्वणि अनुगीतापर्वणि
एकोविंशोऽध्यायः ||१९ ||
Mahabharata -Ashvamedhika Parva -Chapter Footnotes
७-१९-२ फली वृक्षः | ७-१९-८ तथापि तेजसा सम्यक्प्राणस्थाने
इति थ. पाठः ||
७-१९-९ यथा स्वर्णद्रवः स्वल्पोति कृत्स्नां ताम्रप्रतिमां
स्वर्णमयीमिव करोत्येवं गर्भे जीवप्रवेशनं | शरीरे सूक्ष्मस्यापि
चैतन्यस्य व्याप्तिरित्याद्यस्य परिहारः ||
७-१९-२८ क्षरं जडम् ||
आश्वमेधिकपर्व -अध्याय ०२०
||श्रीः ||
१४. २०. अध्यायः २०
अश्वमेधपर्व ||१ ||
Mahabharata -Ashvamedhika Parva -Chapter Topics
कृष्णेनार्जुनंप्रति
मोक्षसाधनादिप्रतिपादकसिद्धकाश्यपसंवादरूपानुगीतोपदेशः ||१ ||
Mahabharata -Ashvamedhika Parva -Chapter Text
ब्राह्मण उवाच |
यः स्यादेकान्त आसीनस्तूष्णीं किञ्चिदचिन्तयन् |
पूर्वंपूर्वं परित्यज्य स निरारम्भको भवेत् ||१४-२०-१ (९२९३३)
सर्वमित्रः सर्वसहः शमे रक्तो जितेन्द्रियः |
व्यपेतभयमन्युश्च कामहा मुच्यते नरः ||१४-२०-२ (९२९३४)
आत्मवत्सर्वभूतेषु यश्चरेन्नियतः शुचिः |
' नित्यमेव यथान्यायं यश्चरेन्नियतेन्द्रियः.'
अमानी निरभीमानः सर्वतो मुक्त एव सः ||१४-२०-३ (९२९३५)
जीवितं मरणं चोभे सुखदुःखे तथैव च |
लाभालाभे प्रियद्वेष्ये यः समः स च मुच्यते ||१४-२०-४ (९२९३६)
न कस्यचित्स्पृहयते नावजानाति किचन |
निर्द्वन्द्वो वीतरागात्मा सर्वथा मुक्त एव सः ||१४-२०-५ (९२९३७)
अनमित्रश्च निर्बन्धुरनपत्यश्च यः क्वचित् |
त्यक्तधर्मार्थकामश्च निराराङ्क्षी च मुच्यते ||१४-२०-६ (९२९३८)
नैव धर्मी न चाधर्मी पूर्वोपचितहा च यः |
क्षीणधातुः प्रशान्तात्मा निर्द्वंद्वः स विमुच्यते ||१४-२०-७ (९२९३९)
अकर्मा चाविकाङ्क्षश्च पश्येज्जगदशाश्वतम् |
अस्वस्तमवशं नित्यं जन्ममृत्युजरायुतम् ||१४-२०-८ (९२९४०)
वैराग्यबुद्धिः सततं तावद्दोषव्यपेक्षकः |
आत्मबन्धविनिर्मोक्षं स करोत्यचिरादिव ||१४-२०-९ (९२९४१)
अगन्धमरसस्पर्शमशब्दमपरिग्रहम् |
अरूपमनभिज्ञेयं दृष्ट्वाऽऽत्मानं विमुच्यते ||१४-२०-१० (९२९४२)
पञ्चभूतगुणैर्हीनममूर्तिमदलेपकम् |
अगुणं गुणभोक्तारं यः पश्यति स मुच्यते ||१४-२०-११ (९२९४३)
विहाय सर्वसङ्कल्पान्बुद्ध्या शारीरमानसान् |
शनैर्निर्वाणमाप्नोति निरिन्धन इवानलः ||१४-२०-१२ (९२९४४)
सर्वसंस्कारनिर्मुक्तो निर्द्वन्द्वो निष्परिग्रहः |
तपसा इन्द्रियग्रामं यश्चरेन्मुक्त एव सः ||१४-२०-१३ (९२९४५)
विमुक्तः सर्वसंस्कारैस्ततो ब्रह्मि सनातनम् |
परमाप्नोति संशान्तमचलं नित्यमक्षरम् ||१४-२०-१४ (९२९४६)
अतः परं प्रवक्ष्यामि योगशास्त्रमनुत्तमम् |
यज्ज्ञात्वा सिद्धमात्मानं लोके पश्यन्ति योगिनः ||१४-२०-१५ (९२९४७)
तस्योपदेशं वक्ष्यामि यथावत्तन्निबोध मे |
यैर्योगैर्भावयन्नित्यं पश्यत्यात्मानमात्मनि ||१४-२०-१६ (९२९४८)
इन्द्रियाणि तु संहृत्य मन आत्मनि धारयेत् |
तीव्रं तप्त्वा तपः पूर्वं मोक्षयोगं समाचरेत् ||१४-२०-१७ (९२९४९)
तपस्वी नित्यसङ्कल्पो दम्भाहङ्कारवर्जितः |
मनीषी मनसा विप्रः पश्यत्यात्मानमात्मनि ||१४-२०-१८ (९२९५०)
स चेच्छक्रोत्ययं साधुर्योक्तुमात्मानमात्मनि |
तत एकान्तशीलः स पश्यत्यात्मानमात्मनि ||१४-२०-१९ (९२९५१)
संयतः सततं युक्त आत्मवान्विजितेन्द्रियः |
यथा य आत्मनाऽऽत्मानं सम्प्रयुक्तः प्रपश्यति ||१४-२०-२० (९२९५२)
यथाहि पुरुषः स्वप्ने दृष्ट्वा पश्यत्यसाविति |
तथारूपमिवात्मानं साधुयुक्तः प्रपश्यति ||१४-२०-२१ (९२९५३)
इषीकां च यथा मुञ्जात्कश्चिन्निष्कृष्य दर्शयेत् |
योगी निष्कृष्य चात्मानं तथा पश्यति देहतः ||१४-२०-२२ (९२९५४)
मुञ्जं शरीरमित्याहुरिषीकामात्मनि श्रिताम् |
एतन्निदर्शनं प्रोक्तं योगविद्भिरनुत्तमम् ||१४-२०-२३ (९२९५५)
यदा हि युक्तमात्मानं सम्यक् पश्यति देहभूत् |
न तस्येहेश्वरः कश्चित्त्रैलोक्यस्यापि यः प्रभुः ||१४-२०-२४ (९२९५६)
अन्यान्याश्चैव तनवो यथेष्टं प्रतिपद्यते |
विनिर्भिद्य जरां मृत्युं न शोचति न हृष्यति ||१४-२०-२५ (९२९५७)
देवानामपि देवत्वं युक्तः कारयते वशी |
ब्रह्म चाव्ययमाप्नोति हित्वा देहमशाश्वतम् ||१४-२०-२६ (९२९५८)
विनश्यत्सु च लोकेषु न भयं तस्य जायते |
क्लिश्यमानेषु भूतेषु न स क्लिश्यति केनचित् ||१४-२०-२७ (९२९५९)
दुःखशोकमलैर्घोरैः सङ्गस्नेहसमुद्भवैः |
न विचाल्यति युक्तात्मा निस्पृहः शान्तमानसः ||१४-२०-२८ (९२९६०)
नैनं शस्त्राणि विध्यन्ते न मृत्युश्चास्य विद्यते |
नातः सुखतरं किञ्चिल्लोके क्वचन दृश्यते ||१४-२०-२९ (९२९६१)
सम्यग्युक्त्वा स आत्मानमात्मन्येव प्रतिष्ठिते |
विनिवृत्तजरादुःखः सुखं स्वपिति चापि सः ||१४-२०-३० (९२९६२)
देहान्यथेष्टमभ्येति हित्वेमां मानुषीं तनुम् |
निर्वेदस्तु न कर्तव्यो भुञ्जानेन कथञ्चन ||१४-२०-३१ (९२९६३)
सम्यग्युक्तो यदात्मानमात्मन्येव प्रपश्यति |
तदैव न स्पृहयते साक्षादपि शतक्रतोः ||१४-२०-३२ (९२९६४)
योगमेकान्तशीलस्तु यथा विन्दति तच्छृणु |
दृष्टपूर्वां दिशं चिन्त्य यस्मिन्संनिवसेत्परे ||१४-२०-३३ (९२९६५)
पुरस्याभ्यन्तरे तस्य मनः स्थाप्यं न बाह्यतः |
पुरस्याभ्यन्तरे तिष्ठन्यस्मिन्नावसथे वसेत |
तस्मिन्नावसथे धार्यं सबाद्याभ्यन्तरं मनः ||१४-२०-३४ (९२९६६)
प्रचिन्त्यावसथे कृत्स्नं यस्मिन्काये स पश्यति |
तस्मिन्काये मनश्चास्य न च किञ्चन बाह्यतः ||१४-२०-३५ (९२९६७)
सन्नियम्येन्द्रियग्रामं निर्घोषं निर्जने वने |
कायमभ्यन्तरं कृत्स्नमेकाग्रः परिचिन्तयेत् ||१४-२०-३६ (९२९६८)
इन्तांस्तालु च जिह्वां च गलं ग्रीवां तथैव च |
हृदयं चिन्तयेच्चापि तथा हृदयबन्धनम् ||१४-२०-३७ (९२९६९)
इत्युक्तः स मया शिष्यो मेधावी मधुसूदन |
पप्रच्छ पुनरेवेमं मोक्षधर्मं सुदुर्वचम् ||१४-२०-३८ (९२९७०)
भुक्तं भुक्तमिदं कोष्ठे कथमन्नं विपच्यते |
कथं रसत्वं व्रजति शोणितत्वं कथं पुनः ||१४-२०-३९ (९२९७१)
तथा मांसं च मेदश्च स्नाय्वस्थीनि च पोषयेत् |
कथमेतानि सर्वाणि शरीराणि शरीरिणाम् ||१४-२०-४० (९२९७२)
वर्धन्ते वर्धमानस्य वर्धते च कथं बलम् |
निरासनं निष्कसनं मलानां च पृथक् पृथक् ||१४-२०-४१ (९२९७३)
कुतो वाऽयं प्रश्वसिति उच्छ्वसित्यपि वा पुनः |
कं च देशमधिष्ठाय तिष्ठत्यात्माऽयमात्मनि ||१४-२०-४२ (९२९७४)
जीवः कथं वहति च चेष्टमानः कलेवरम् |
किंवर्णं कीदृशं चैव निवेशयति वै मनः ||१४-२०-४३ (९२९७५)
याथातथ्येन भगवन्वक्तुमर्हसि मेऽनघ |
इति सम्परिपृष्टोऽहं तेन विप्रेणि माधव ||१४-२०-४४ (९२९७६)
प्रत्यब्रवं महाबाहो यथाश्रुतमरिंदम |
यथा स्वकोष्ठे प्रक्षिप्य भाण्डं भाण्डमना भवेत् ||१४-२०-४५ (९२९७७)
तथा स्वकाये प्रक्षिप्य मनोद्वारैरनिश्चलैः |
आत्मानं तत्र मार्गेत प्रमादं परिवर्जयेत् ||१४-२०-४६ (९२९७८)
एवं सततमुद्युक्तः प्रीतात्मा नचिरादिव |
आसादयति तद्ब्रह्म यद्दृष्ट्वा स्यात्प्रधानवित् ||१४-२०-४७ (९२९७९)
न त्वसौ चक्षुषा ग्राह्यो न च सर्वैरपीन्द्रियैः |
मनसैव प्रदीपेन महानात्मा प्रदृश्यते ||१४-२०-४८ (९२९८०)
सर्वतः पाणिपादान्तः सर्वतोक्षिशिरोमुखः |
सर्वतः श्रुतिमाँल्लोके सर्वमावृत्य तिष्ठति ||१४-२०-४९ (९२९८१)
जीवो निष्क्रान्तमात्मानं शरीरात्सम्प्रपश्यति |
स तमुत्सृज्य देहं स्वं पारयेद्ब्रह्म केवलम् ||१४-२०-५० (९२९८२)
आत्मानमालोकयति मनसा प्रहसन्निव |
तदेवमाश्रयं कृत्वा मोक्षं याति ततो मयि ||१४-२०-५१ (९२९८३)
इदं सर्वरहस्यं ते मया प्रोक्तं द्विजोत्तम |
आपृच्छे साधयिष्यामि गच्छ विप्र यथासुखम् ||१४-२०-५२ (९२९८४)
इत्युक्तः स तदा कृष्ण मया शिष्यो महातपाः |
अगच्छत यथाकामं ब्राह्मणश्छिन्नसंशयः ||१४-२०-५३ (९२९८५)
वासुदेव उवाच. १४-२०-५४क्ष् (७८०७)
इत्युक्त्वा स तदा वाक्यं मां पार्थ द्विजसत्तमः |
मोक्षधर्माश्रितं सम्यक् तत्रैवान्तरधीयत ||१४-२०-५४ (९२९८६)
कच्चिदेतत्त्वया पार्थ श्रुत्मेकाग्रचेतसा |
तदापि हि रथस्थस्त्वं श्रुतवानेतदेव हि ||१४-२०-५५ (९२९८७)
नैतत्पार्थ सुविज्ञेयं व्यामिश्रेणेति मे मतिः |
नरेणाकृतसङ्गेन विशुद्धेनान्तरात्मना ||१४-२०-५६ (९२९८८)
सुरहस्यमिदं प्रोक्तं देवानां भरतर्षभ |
कच्चित्त्विदं श्रुतं पार्थ मनुष्येणेह कर्हिचित् ||१४-२०-५७ (९२९८९)
न ह्येतच्छ्रोतुमर्होऽन्यो मनुष्यस्त्वामृतेऽनघ |
नैतदन्येनि विज्ञेयं व्यामिश्रेणान्तरात्मना ||१४-२०-५८ (९२९९०)
क्रियावद्भिर्हि कौन्तेय देवलोकः समावृतः |
न चैतदिष्टं देवानां मर्त्यैरुपरि वर्तनम् ||१४-२०-५९ (९२९९१)
परा हि सा गतिः पार्थ यत्तद्ब्रह्म सनातनम् |
यत्रामृतत्वं प्राप्नोति त्यक्त्वा दुःखं सदा सुखी ||१४-२०-६० (९२९९२)
इमं धर्मं समास्थाय येऽपि स्युः पापयोनयः |
स्त्रियो वैश्यास्तथा शूद्रास्तेऽपि यान्ति परां गतिम् ||१४-२०-६१ (९२९९३)
किं पुनर्ब्रह्मणाः पार्थ क्षत्रिया वा बहुश्रुताः |
स्वधर्मरतयो नित्यं ब्रह्मलोकपरायणः ||१४-२०-६२ (९२९९४)
हेतुमच्चैतदुद्दिष्टमुपायाश्चास्य साधने |
सिद्धिं फलं च मोक्षश्च दुःखस्य च विनिर्णियः ||१४-२०-६३ (९२९९५)
नातः परं सुखं त्वन्यत्किंचित्स्याद्भरतर्षभ |
श्रुतवाञ्श्रद्दधानश्च पराक्रान्तश्च पाण्डव ||१४-२०-६४ (९२९९६)
यः परित्यज्यते मर्त्यो लोकसारमसरवत् |
एतैरुपायैः स क्षिप्रं परां गतिमवाप्नुते ||१४-२०-६५ (९२९९७)
एतावदेव वक्तव्यं नान्तो भूयोस्ति किञ्चन |
षण्मासान्नित्ययुक्तस्य योगः पार्थ प्रवर्तते ||||१४-२०-६६ (९२९९८)
इति श्रीमन्महाभारते आश्वमेधिकपर्वणि अनुगीतापर्वणि विंशोऽध्यायः
||२० ||
Mahabharata -Ashvamedhika Parva -Chapter Footnotes
७-२०-२ सर्वमित्रोऽद्रोही | सर्वसहः क्षमी ||
७-२०-६ अनमित्रः शत्रुहीनः ||
७-२०-११ अमूर्तिमदहेतुकमिति झ.पाठः ||
आश्वमेधिकपर्व -अध्याय ०२१
||श्रीः ||
१४. २१. अध्यायः २१
Mahabharata -Ashvamedhika Parva -Chapter Topics
कृष्णेनार्जुनंप्रति
भूतप्राणादिसृष्ट्यादिप्रतिपादकब्राह्मणदंपतिसंवादानुवादः ||१ ||
Mahabharata -Ashvamedhika Parva -Chapter Text
वासुदेव उवाच |
अत्राप्युदाहरन्तीममितिहासं पुरातनम् |
दंपत्योः पार्थ संवादो योऽभकवद्भरतर्षभ ||१४-२१-१ (९२९९९)
ब्राह्मणी ब्राह्मणं कंचिज्ज्ञानविज्ञानपारगम् |
दृष्ट्वा विविक्त आसीनं भार्या भर्तारमब्रवीत् ||१४-२१-२ (९३०००)
कं नु लोकं गमिष्यामि त्वामहं पतिमाश्रिता |
न्यस्तकर्माणमासीनं कीनाशमविचक्षणम् ||१४-२१-३ (९३००१)
भार्याः पतिकृताँल्लोकानाप्नुवन्तीति नः श्रुतम् |
त्वामहं पतिमासाद्य कां गमिष्यामि वै गतिम् ||१४-२१-४ (९३००२)
एवमुक्तः स शान्तात्मा तामुवाच हसन्निव |
सुभगे नाभ्यसूयामि वाक्यस्यास्य तवानघे ||१४-२१-५ (९३००३)
ग्राह्यं दृश्यं तथा श्राव्यं यदिदं कर्म विद्यते |
एतदेव व्यवस्यन्ति कर्म कर्मेति कर्मिणः ||१४-२१-६ (९३००४)
मोहमेव निगच्छन्ति कर्मिणो ज्ञानवर्जिताः |
नैष्कर्म्य न च लोकेऽस्मिन्मौर्तमित्युपलभ्यते ||१४-२१-७ (९३००५)
कर्मणा मनसा वाचा शुभं वा यदि वाऽशुभम् |
जन्मादिमूर्तिभेदानां कर्म भूतेषु वर्तते ||१४-२१-८ (९३००६)
रक्षोभिर्वध्यमानेषु दृश्यश्राव्येषु कर्मसु |
आत्मस्थमात्मना तेन दृष्टमायतनं मया ||१४-२१-९ (९३००७)
यत्र तद्ब्रह्म निर्द्वन्द्वं यत्र सोमः सहाग्निना |
व्यवायं कुरुते नित्यं धीरो भूतानि धारयन् ||१४-२१-१० (९३००८)
यत्रि ब्रह्मादयो युक्तास्तदक्षरमुपासते |
विद्वांसः सुव्रता यत्र शान्तात्मानो जितेन्द्रियाः ||१४-२१-११ (९३००९)
घ्राणेन न तदाघ्रेयं नास्वाद्यं चैव जिह्वया |
स्पर्शनेन तदस्पृश्यं मनसा त्ववगम्यते ||१४-२१-१२ (९३०१०)
चक्षुषा न विषह्यं च यत्किञ्चिच्छ्रवणात्परम् |
अगन्धमरसस्पर्शमरूपं शब्दवर्जितम् |
यतः प्रवर्तते तन्त्रं यत्र चैतत्प्रतिष्ठितम् ||१४-२१-१३ (९३०११)
प्राणोऽपानः समानश्च व्यानश्चोदान एव च |
तत एव प्रवर्न्तते तदेव प्रविशन्ति च ||१४-२१-१४ (९३०१२)
समानव्यानयोर्मध्ये प्राणापानौ विचेरतुः |
तस्मिन्सुप्ते प्रलीयेते समानो व्यान एव च ||१४-२१-१५ (९३०१३)
अपनाप्राणयोर्मध्ये उदानो व्याप्य तिष्ठति |
तस्माच्छयानं पुरुषं प्राणापानौ न मुञ्चतः ||१४-२१-१६ (९३०१४)
प्राणोनोपहते यत्तु तमुदानं प्रचक्षते |
तस्मात्तपो व्यवस्यन्ति तद्भवं ब्रह्मवादिनः ||१४-२१-१७ (९३०१५)
तेषामन्योन्यसक्तानां सर्वेषां देहचारिणाम् |
अग्निर्वैश्वानरो मध्ये सप्तधा विहितोऽन्तरा ||१४-२१-१८ (९३०१६)
घ्राणं जिह्वा च चक्षुश्च त्वक्च श्रोत्रं च पञ्चमम् |
मनो बुद्धिश्च सप्तैता जिह्वा वैश्वानरार्चिषः ||१४-२१-१९ (९३०१७)
घ्रेयं दृश्यं च पेयं च स्पृश्यं श्राव्यं तथैव च |
मन्तव्यमवबोद्धव्यं ताः सप्त समिधो मताः ||१४-२१-२० (९३०१८)
घ्राता भक्षयिता द्रष्टा स्प्रष्टा श्रोता च पञ्चमः |
मन्ता बोद्धा च स्प्तैते भवन्ति परमर्त्विजः ||१४-२१-२१ (९३०१९)
घ्रेये पेये च दृश्ये च स्पृश्ये श्राव्ये तथैव च |
मन्तव्येऽप्यथ बोद्धव्ये सुभगे पश्य सर्वदा ||१४-२१-२२ (९३०२०)
हवींष्याग्निषु होतारः सप्तधा सप्तसप्तसु |
सम्यक्प्रक्षिप्य विद्वांसो जनयन्ति स्वयोनिषु ||१४-२१-२३ (९३०२१)
पृथिवी वायुराकाशमापो ज्योतिश्च पञ्चमम् |
मनो बुद्धिश्च सप्तैता योनिरित्येव शब्दिताः ||१४-२१-२४ (९३०२२)
हविर्भूतगुणाः सर्वे प्रविशन्त्यग्नियं मुखम् |
अन्तर्वासमुषित्वा च जायन्ते स्वासु योनिषु ||१४-२१-२५ (९३०२३)
तत्रैव च निरुध्यन्ते प्रलये भूतभावने |
ततः संजायते गन्धस्ततः संजायते रसः ||१४-२१-२६ (९३०२४)
ततः संजायते रूपं ततः स्पर्शोऽभिजायते |
ततः संजायते शब्दः संशयस्तत्र जायते |
ततः संजायते निष्ठा जन्मैतत्सप्तधा विदुः ||१४-२१-२७ (९३०२५)
अनेनैव प्रकारेण प्रगृहीतं पुरातनैः |
पूर्णाहुतिभिरापूर्णास्ते पूर्यन्ते हि तेजसा ||||१४-२१-२८ (९३०२६)
इति श्रीमन्महाभारते आश्वमेधिकपर्वणि अनुगीतापर्वणि
एकविंशोऽध्यायः ||२१ ||
Mahabharata -Ashvamedhika Parva -Chapter Footnotes
७-२१-३ कर्म अग्निहोत्रादिकं न्यस्तं चेन तम् | कीनाशं कर्कशं
मयि निरनुक्रोशम्. अविचक्षणं मम अनन्यगतिकत्वमजानन्तम् ||
७-२१-७ मौख्यमित्युपलभ्यते इति थ.द.पाठः ||
७-२१-१७ तत्परं ब्रह्मवादिन इति द.पाठः ||
आश्वमेधिकपर्व -अध्याय ०२२
||श्रीः ||
१४. २२. अध्यायः २२
अश्वमेधपर्व ||१ ||
Mahabharata -Ashvamedhika Parva -Chapter Topics
कृष्णेनार्जुनंप्रति
दशेन्द्रियगुणादिप्रतिपादकब्राह्मणदंपतिसंवादानुवादः ||१ ||
Mahabharata -Ashvamedhika Parva -Chapter Text
ब्राह्मण उवाच |
अत्राप्युदाहरन्तीममितिहासं पुरातनम् |
निबोध दशहोतृणां विधानमिह यादृशम् ||१४-२२-१ (९३०२७)
श्रोत्रं त्वक्चक्षुषी जिह्वा नासिका चरणौ करौ |
उपस्थं पायुरिति वाग्घोतृणि दश भामिनि ||१४-२२-२ (९३०२८)
शब्दस्पर्शौ रूपरसौ गन्धो वाक्यं क्रिया गतिः |
रेतोमूत्रपुरीषाणां त्यागो दश हवींषि च ||१४-२२-३ (९३०२९)
दिशो वायू रविश्चन्द्रः पृथ्व्यग्नी विष्णुरेव च |
इन्द्रः प्रजापतिर्मित्रमग्नयो दश भामिनि ||१४-२२-४ (९३०३०)
दशेन्द्रियाणि होतृणि हवींषि दश भामिनि |
विषया नाम समिधो हूयन्ते तु दशाग्निषु ||१४-२२-५ (९३०३१)
चित्तं स्रुवश्च वित्तं च पवित्रं ज्ञानमुत्तमम् |
सुविभक्तमिदं पूर्वं जगदासीदिति श्रुतम् ||१४-२२-६ (९३०३२)
' ततो विविक्ता वित्तासीत्सा वित्तं पर्यवेक्षते.'
सर्वमेवात्र विज्ञेयं चित्ते ज्ञानमवेक्षता |
रेतः शरीरभृत्काये विज्ञाता तु शरीरभृत् ||१४-२२-७ (९३०३३)
शरीरभृद्गार्हपत्यस्तस्मादग्निः प्रणीयते |
मनश्चाहवनीयस्तु तस्मिन्प्रक्षिप्यते हविः ||१४-२२-८ (९३०३४)
ततो वाचस्पतिर्जज्ञे तं मनः पर्यवेक्षते |
रूपं भवति वै वक्त्रं तदनुद्रवते मनः ||१४-२२-९ (९३०३५)
ब्राह्मण्युवाच. १४-२२-१०क्ष् (७८०८)
कस्माद्वागभवत्पूर्वं कस्मात्पश्चान्मनोऽभवत् |
मनसा चिन्तितं पूर्वं वाक्यं समभिपद्यते ||१४-२२-१० (९३०३६)
केन विज्ञानयोगेन मतिश्चित्तं समास्थिता |
समुन्नीता नाध्यगच्छत्को वै तां प्रतिबाधते ||१४-२२-११ (९३०३७)
ब्राह्मण उवाच. १४-२२-१२क्ष् (७८०९)
तन्मनस्थः पतिर्भूत्वा तस्मात्प्रेहन्निवायति |
तां मतिं मनसः प्राहुर्मनस्तस्मादपेक्षते ||१४-२२-१२ (९३०३८)
प्रश्नं तु वाङ्मनसयोर्यस्मात्त्वमनुपृच्छसि |
तस्मात्ते वर्तयिष्यामि तयोरेव समाह्वयम् ||१४-२२-१३ (९३०३९)
उभे वाङ्मनसी गत्वा भूतात्मानमपृच्छताम् |
आवयोः श्रेष्ठमाचक्ष्व च्छिन्धि नौ संशयं विभो ||१४-२२-१४ (९३०४०)
मन इत्येवि भगवांस्तदा प्राह सरस्वतीम् |
अहं वै कामधुक्तुभ्यमिति तं प्राह वागथ ||१४-२२-१५ (९३०४१)
ब्राह्मण उवाच. १४-२२-१६क्ष् (७८१०)
स्थावरं जङ्गमं चैव विद्ध्युभे मनसी मम |
स्थावरं मत्सकाशे वै जङ्गमं विषये तव ||१४-२२-१६ (९३०४२)
यस्तु ते विषये गच्छन्मन्त्रो वर्णः स्वरोपि वा |
तन्मनो जङ्गमं नाम तस्मादसि गरीयसी ||१४-२२-१७ (९३०४३)
तस्माद्भवितुमर्हामि स्वयमभ्येत्य शोभने |
तस्मादुच्छ्वासमासाद्य प्रवक्ष्यामि सरस्वति ||१४-२२-१८ (९३०४४)
प्राणापानावन्तरे यद्वाग्वै नित्यं स्म तिष्ठति |
प्रीयमाणा महाभागे विना प्राणांश्च मामपि |
प्रजापतिमुपाधावत्प्रसीद भगवन्निति ||१४-२२-१९ (९३०४५)
ततः प्राणः प्रादुरभूद्वाचमाप्याययन्पुनः |
तस्मादुच्छ्वासमासाद्य न वाग्वदति कर्हिचित् ||१४-२२-२० (९३०४६)
घोषिणी जातनिर्घोषा नित्यमेव प्रवर्तते |
तयोरपि च घोषिण्या निर्घोर्षैव गरीयसी ||१४-२२-२१ (९३०४७)
गौरिव प्रस्रवत्यर्थान्रसमुत्तमशालिनी |
सततं स्यन्दते ह्येषा शाश्वतं ब्रह्मवादिनी ||१४-२२-२२ (९३०४८)
दिव्यादिव्यप्रभावेन भारती गौः शुचिस्मिते |
एतयोरन्तरं पश्य सूक्ष्मयोर्यतमानयोः ||१४-२२-२३ (९३०४९)
ब्राह्मण्युवाच. १४-२२-२४क्ष् (७८११)
अनुत्पन्नेषु वाक्येषु चोद्यमाना सिसृक्षया |
किंन्नु पूर्वं तदा देवी व्याजहार सरस्वती ||१४-२२-२४ (९३०५०)
ब्राह्मण उवाच. १४-२२-२५क्ष् (७८१२)
प्राणेन य सम्भवते शरीरे
प्राणादपानं प्रतिपद्यते च |
उदानभूता च विसृज्य देहं
व्यानेन सर्वं दिवमावृणोति ||१४-२२-२५ (९३०५१)
ततः समाने प्रतितिष्ठतीह
इत्येव पूर्वं प्रजजल्प वागपि |
तस्मान्मनः स्थावरत्वाद्विशिष्टं
तथा देवी जङ्गमत्वाद्विशिष्टाः ||||१४-२२-२६ (९३०५२)
इति श्रीमन्महाभारते आश्वमेधिकपर्वणि अनुगीतापर्वणि
द्वाविंशोऽध्यायः ||२२ ||
Mahabharata -Ashvamedhika Parva -Chapter Footnotes
७-२२-२२ मासमुत्तमशालिनीति क.ट.थ.पाठः ||
आश्वमेधिकपर्व -अध्याय ०२३
||श्रीः ||
१४. २३. अध्यायः २३
अश्वमेधपर्व ||१ ||
Mahabharata -Ashvamedhika Parva -Chapter Topics
कृष्णेनार्जुनंप्रति पृथग्घ्राणादीन्द्रियगुणप्रतिपादनपूर्वकं
तेषां मनसा सह विवादप्रतिपादकब्राह्मणदंपतिसंवादानुवादः ||१ ||
Mahabharata -Ashvamedhika Parva -Chapter Text
ब्राह्मण उवाच |
अत्राप्युदाहरन्तीममितिहासं पुरातनम् |
सुभगे सप्तहोतॄणां विधानमिह यादृशम् ||१४-२३-१ (९३०५३)
घ्राणश्चक्षुश्च जिह्वा च त्वक् श्रोत्रं चैव पञ्चमम् |
मनो बुद्धिश्च सप्तैते होतारः पृथगाश्रिताः ||१४-२३-२ (९३०५४)
सूक्ष्माकाशे समं प्राप्ते न पश्यन्तीतरेतरम् |
एतद्वै सप्तहोतृत्वं स्वभावाद्विद्धि शोभने ||१४-२३-३ (९३०५५)
ब्राह्मण्युवाच. १४-२३-४क्ष् (७८१३)
सूक्ष्मे तु काशे सम्प्राप्ते कथं नान्योन्यदर्शिनः |
कथं स्वभावाद्भगवन्नेतदाचक्ष्व मे प्रभो ||१४-२३-४ (९३०५६)
ब्राह्मण उवाच. १४-२३-५क्ष् (७८१४)
गुणज्ञानेषु विज्ञानं गुणज्ञानामभिज्ञता |
परस्परं गुणानेते नाभिजानन्ति कर्हिचित् ||१४-२३-५ (९३०५७)
जिह्वा चक्षुस्तथा श्रोत्रं त्वङ्मनो बुद्धिरेव च |
न गन्धानधिगच्छन्ति घ्राणस्तानधिगच्छति ||१४-२३-६ (९३०५८)
घ्राणं चक्षुस्तथा क्षोत्रं त्वङ्मनो बुद्धिरेव च |
न रसानधिगच्छन्ति जिह्वा तानधिगच्छति ||१४-२३-७ (९३०५९)
घ्राणं जिह्वा तथा श्रोत्रं त्वङ्मनो बुद्धिरेव च |
न रूपाण्यधिगच्छन्ति चक्षुस्तान्यधिगच्छति ||१४-२३-८ (९३०६०)
घ्राणं जिह्वा ततश्चक्षुः श्रोत्रं बुद्धिर्मनस्तथा |
न स्पर्शानधिगच्छन्ति त्वक्च तानधिगच्छति ||१४-२३-९ (९३०६१)
घ्राणं जिह्वा च चक्षुश्च त्वङ्मनो बुद्धिरेव च |
न शब्दानधिगच्छन्ति श्रोत्रं तानधिगच्छति ||१४-२३-१० (९३०६२)
घ्राणं जिह्वा च चक्षुश्च त्वक् श्रोत्रं बुद्धिरेव च |
सङ्कल्पान्नाधिगच्छन्ति मनस्तानधिगच्छति ||१४-२३-११ (९३०६३)
घ्राणं जिह्वा च चक्षुश्च त्वक् श्रोत्रं मन एव च |
न निष्ठामधिगच्छन्ति बुद्धिस्तामधिगच्छति ||१४-२३-१२ (९३०६४)
अत्राप्युदाहरन्तीममितिहासं पुरातनम् |
इन्द्रियाणां च संवादं मनसश्चैव भामिनि ||१४-२३-१३ (९३०६५)
मन उवाच. १४-२३-१४क्ष् (७८१५)
नाघ्राति मामृते घ्राणं रसं जिह्वा न वेत्ति च |
रूपं चक्षुर्न गृह्णाति त्वक् स्पर्सं नावबुध्यते ||१४-२३-१४ (९३०६६)
न श्रोत्रं बुध्यते शब्दं मया हीनं कथञ्चन |
प्रवरं सर्वबूतानामहमस्मि सनातनम् ||१४-२३-१५ (९३०६७)
अगाराणीव शून्यानि शान्तार्चिष इवाग्नयः |
इन्द्रियाणि न भासन्ते मया हीनानि नित्यशः ||१४-२३-१६ (९३०६८)
काष्ठानीवार्द्रशुष्काणि यतमानैरपीन्द्रियैः |
गुणार्थान्नाधिगच्छन्ति मामृते सर्वजन्तवः ||१४-२३-१७ (९३०६९)
इन्द्रियाण्यूचुः. १४-२३-१८क्ष् (७८१६)
एवमेतद्भवेत्सत्यं यथैतन्मन्यते भवान् |
ऋतेऽस्मानस्मदर्थांस्त्वं भोगान्भुङ्क्ते भवान्यदि ||१४-२३-१८ (९३०७०)
यद्यस्मासु प्रलीनेषु तप्रणं प्राणधारणम् |
भोगान्भुङ्क्ते भवान्सत्यं यथैतन्मन्यते तथा ||१४-२३-१९ (९३०७१)
अथवाऽस्मासु लीनेषु तिष्ठत्सु विषयेषु च |
यदि सङ्कल्पमात्रेण भुङ्क्ते भोगान्यथार्थवत् ||१४-२३-२० (९३०७२)
अथ चेन्मन्यसे सिद्धिमस्मदर्थेषु नित्यदा |
घ्राणेन रूपमादत्स्व रसमादत्स्व चक्षुषा ||१४-२३-२१ (९३०७३)
श्रोत्रेण गन्धानादत्स्व स्पर्शानादत्स्व जिह्वया |
त्वचा च शब्दमादत्स्व बुद्ध्या स्पर्शमथापि च ||१४-२३-२२ (९३०७४)
बलवन्तो ह्यनियमा नियमा दुर्बलीयसाम् |
भोगानपूर्वानादत्स्व नोच्छिष्टं भोक्तुमर्हति ||१४-२३-२३ (९३०७५)
यथा हि शिष्यः शास्तारं श्रुत्यर्थमभिधावति |
ततः श्रुतमुपादाय श्रुतार्थमुपतिष्ठति ||१४-२३-२४ (९३०७६)
विषयानेवमस्माभिर्दर्शितानभिमन्यसे |
अनुभूतानतीतांश्च स्वप्ने जागरणे तथा ||१४-२३-२५ (९३०७७)
वैमनस्यं गतानां च जन्तूनामल्पचेतसाम् |
अस्मदर्थे कृते दृश्यते प्राणधारणम् ||१४-२३-२६ (९३०७८)
बहूनपि हि सङ्कल्पान्मत्वा स्वप्नानुपास्य च |
बुभुक्षया पीड्यमानो विषयानेन धावति ||१४-२३-२७ (९३०७९)
अगारमद्वारमिव प्रविश्य
सङ्कल्पभोगान्विषयानविन्दन् |
प्राणक्षये शान्तिमुपैति नित्यं
दारुक्षयेऽग्निर्ज्वलितो यथैव ||१४-२३-२८ (९३०८०)
कामं तु नष्टेषु गुणेषु सङ्गः
कामं च नान्योन्यगुणोपलब्धिः |
अस्मान्विना नास्ति तपोपलब्धि-
स्तामप्यृते त्वां न भजेत्प्रहर्षः ||||१४-२३-२९ (९३०८१)
इति श्रीमन्महाभारते आश्वमेधिकपर्वणि अनुगीतापर्वणि
त्रयोविंशोऽध्यायः ||२३ ||
आश्वमेधिकपर्व -अध्याय ०२४
||श्रीः ||
१४. २४. अध्यायः २४
Mahabharata -Ashvamedhika Parva -Chapter Topics
कृष्णेनार्जुनंप्रति प्राणापानादीनां
स्वस्वश्रैष्ठ्यप्रकारकविवादादिप्रतिपादकब्राह्मणदंपतिसंवादानुवादः
||१ ||
Mahabharata -Ashvamedhika Parva -Chapter Text
ब्राह्मण उवाच |
अत्राप्युदाहरन्तीममितिहासं पुरातनम् |
सुभगे पञ्चहोतॄणां विधानमिह यादृशम् ||१४-२४-१ (९३०८२)
प्राणापानवुदानश्च समानो व्यान एव च |
पञ्चहोतॄंस्तथैतान्वै परं भावं विदुर्बुधाः ||१४-२४-२ (९३०८३)
ब्राह्मण्युवाच. १४-२४-३क्ष् (७८१७)
स्वबावात्सप्तहोतार इति मे पूर्विका मतिः |
यथा वै पञ्च होतारः परो भावस्तदुच्यताम् ||१४-२४-३ (९३०८४)
ब्राह्मण उवाच. १४-२४-४क्ष् (७८१८)
प्राणेन सम्भृतो वायुरपानो जायते ततः |
अपाने सम्भृतो वायुस्ततो व्यानः प्रवर्तते ||१४-२४-४ (९३०८५)
व्यानेन सम्भृतो वायुस्ततोदानः प्रवर्तते |
उदाने सम्भृतो वायुः समानो नाम जायते ||१४-२४-५ (९३०८६)
तेऽपृच्छन्त पुरो गत्वा पूर्वजातं पितामहम् |
यो नः श्रेष्ठस्तमाचक्ष्व स नः श्रेष्ठो भविष्यति ||१४-२४-६ (९३०८७)
ब्रह्मोवाच. १४-२४-७क्ष् (७८१९)
यस्मिन्प्रलीने प्रलयं व्रजन्ति
सर्वे प्राणाः प्राणभृतां शरीरे |
यस्मिन्प्रवृत्ते च पुनश्चरन्ति
स वै श्रेष्ठो गच्छत यत्र कामः ||१४-२४-७ (९३०८८)
प्राण उवाच. १४-२४-८क्ष् (७८२०)
मयि प्रलीने प्रलयं व्रजन्ति
सर्वे प्राणाः प्राणभृतां शरीरे |
मयि प्रवृत्ते च पुनश्चरन्ति
श्रेष्ठो ह्यहं पश्यत मां प्रलीनम् ||१४-२४-८ (९३०८९)
ब्राह्मण उवाच. १४-२४-९क्ष् (७८२१)
प्रामः प्रालीयत ततः पुनश्च प्रचचार ह |
समानश्चाप्युदानश्च वचो ब्रूतां पुनः शुभे ||१४-२४-९ (९३०९०)
न त्वं सर्वमिदं व्याप्य तिष्ठसीह यथा वयम् |
न त्वं श्रेष्ठो हि नः प्राण अपानो हि वशे तव |
प्रचचार पुनः प्राणस्ततोऽपानोऽभ्यभाषत ||१४-२४-१० (९३०९१)
उपान उवाच. १४-२४-११क्ष् (७८२२)
मयि प्रलीने प्रलयं व्रजन्ति
सर्वे प्राणाः प्राणभृतां शरीरे
मयि प्रवृत्ते च पुनश्चरन्ति
श्रेष्ठो ह्यहं पश्यत मां प्रलीनम् ||१४-२४-११ (९३०९२)
ब्राह्मण उवाच. १४-२४-१२क्ष् (७८२३)
व्यानश्च तमुदानश्चि भाषमाणमथोचतुः |
अपान न त्वं श्रेष्ठोसि प्राणो हि वशगस्तव ||१४-२४-१२ (९३०९३)
अपानः प्रचचाराथ व्यानस्तं पुनरब्रवीत् |
श्रेष्ठोऽहमस्मि सर्वेषां श्रूयतां येन हेतुना ||१४-२४-१३ (९३०९४)
मयि प्रलीने प्रलयं व्रजन्ति
सर्वे प्राणाः प्राणभृतां शरीरे |
मयि प्रवृत्ते च पुनश्चरन्ति
श्रेष्ठो ह्यहं पश्यत मां प्रलीनम् ||१४-२४-१४ (९३०९५)
ब्राह्मण उवाच. १४-२४-१५क्ष् (७८२४)
प्रालीयत ततो व्यानः पुनश्च प्रचचार ह |
प्राणापानावुदानस्च समानश्च तमब्रुवन् ||१४-२४-१५ (९३०९६)
न त्वं श्रेष्ठोसि नो व्यान समानस्तु वशे तव |
प्रचचार पुनर्व्यानः समानः पुनरब्रवीत् |
श्रेष्ठोऽहमस्मि सर्वेषां श्रूयतां येन हेतुना ||१४-२४-१६ (९३०९७)
मयि प्रलीने प्रलयं व्रजन्ति
सर्वे प्राणाः प्राणभृतां शरीरे |
मयि प्रवृत्ते च पुनश्चरन्ति
श्रेष्ठो ह्यहं पश्यत मां प्रलीनम् ||१४-२४-१७ (९३०९८)
' ततः समानः प्रालिल्ये पुनश्च प्रचचार ह |
प्राणापानावुदानस्च व्यानश्चैव तमब्रवीत् |
न त्वं समान श्रेष्ठोसि व्यान एव वशे तव ||' १४-२४-१८ (९३०९९)
समानः प्रचचाराथ उदानस्तमुवाच ह |
श्रेष्ठोऽहमस्मि सर्वेषां श्रूयतां येन हेतुना ||१४-२४-१९ (९३१००)
मयि प्रलीने प्रलयं व्रजन्ति
सर्वे प्राणाः प्राणभृतां शरीरे |
मयि प्रवृत्ते च पुनश्चरन्ति
श्रेष्ठो ह्यहं पश्यत मां प्रलीनम् ||१४-२४-२० (९३१०१)
ततः प्रालीयतोदानः पुनश्च प्रचचार ह |
प्राणापानौ समानश्च व्यानश्चैव तमब्रुवन् |
उदानि न त्वं श्रेष्ठोसि व्यानि एव वशे तव ||१४-२४-२१ (९३१०२)
ब्राह्मण उवाच. १४-२४-२२क्ष् (७८२५)
ततस्तानब्रवीत्सर्वान्स्मयमानः प्रजापतिः |
सर्वे श्रेष्ठा न च श्रेष्ठाः सर्वे चान्योन्यकाङ्क्षिणः ||१४-२४-२२
(९३१०३)
सर्वे स्वविषये श्रेष्ठाः सर्वे चान्योन्यधर्मिणः |
इति तानब्रवीत्सर्वान्समवेतान्प्रजापतिः ||१४-२४-२३ (९३१०४)
एकः स्थिरश्चराश्चान्ये विशेषात्पञ्च वायवः |
एक एव च सर्वात्मा बहुधाऽप्युपचीयते ||१४-२४-२४ (९३१०५)
परस्परस्य सुहृदो भावयन्तः परस्परम् |
स्वस्ति व्रजत भद्रं वो धारयध्वं परस्परम् ||||१४-२४-२५ (९३१०६)
इति श्रीमन्महाभारते आश्वमेधिकपर्वणि अनुगीतापर्वणि
चतुर्विशोऽध्यायः ||२४ ||
Mahabharata -Ashvamedhika Parva -Chapter Footnotes
७-२४-२४ बहुधाप्युपलीयते इति क.थ.पाठः ||
आश्वमेधिकपर्व -अध्याय ०२५
||श्रीः ||
१४. २५. अध्यायः २५
Mahabharata -Ashvamedhika Parva -Chapter Topics
कृष्णेनार्जुनंप्रति ब्राह्ममेन
ब्राह्मणींप्रत्युक्तसृष्ट्यादिप्रतिपादकनारददेवमतसंवादानुवादः
||१ ||
Mahabharata -Ashvamedhika Parva -Chapter Text
ब्राह्मण उवाच |
अत्राप्युदाहरन्तीममितिहासं पुरातनम् |
नारदस्य च संवादमृषेर्देवमतस्य च ||१४-२५-१ (९३१०७)
देवमत उवाच. १४-२५-२क्ष् (७८२६)
जन्तोः संजायमानस्य किंनु पूर्वं प्रवर्तते |
प्राणोऽपानः समानो वा व्यानो वोदान एव च ||१४-२५-२ (९३१०८)
नारद उवाच. १४-२५-३क्ष् (७८२७)
येनायं सृज्यते जन्तुस्ततोऽन्यः पूर्वमेति तम् |
प्राणद्वन्द्वं हि विज्ञेयं तिर्यगूर्ध्वमधश्च यत् ||१४-२५-३ (९३१०९)
देवमत उवाच. १४-२५-४क्ष् (७८२८)
केनायं सृज्यते जन्तुः कश्चान्यः पूर्वमेति तम् |
प्राणद्वन्द्वं च मे ब्रूहि तिर्यगूर्ध्वमधश्च यत् ||१४-२५-४ (९३११०)
नारद उवाच. १४-२५-५क्ष् (७८२९)
सङ्कल्पाज्जायते हर्षः शब्दादपि च जायते |
रसात्संजायते चापि रूपादपि च जायते ||१४-२५-५ (९३१११)
' स्पर्शात्संजायते चापि गन्धादपि च जायते.'
शुक्राच्छोणितसंसृष्टात्पूर्वं प्राणः प्रवर्तते |
प्राणेन विकृते शुक्रे ततोऽपानः प्रवर्तते ||१४-२५-६ (९३११२)
शुक्रात्संजायते चापि रसादपि च जायते |
एतद्रूपमुदानस्य हर्षो मिथुनमन्तरा ||१४-२५-७ (९३११३)
कामात्संजायते शुक्रं शुक्रात्संजायते रजः |
समानव्यानजनिते सामान्ये शुक्रशोणिते ||१४-२५-८ (९३११४)
प्राणापानाविदं द्वन्द्वमवाक् चोर्ध्वं च गच्छतः |
व्यानः समानश्चैवोभौ तिर्यग्द्वन्द्वत्वमुच्यते ||१४-२५-९ (९३११५)
अग्निर्वै देवताः सर्वा इति देवस्य शासनात् |
संजायते हि प्राणेषु ज्ञानं बुद्धिसमन्वितम् ||१४-२५-१० (९३११६)
तस्य धूमस्तमोरूपं रजो भस्म सुतेजसः |
सर्वं संजायते तस्य यत्र प्रक्षिप्यते हविः ||१४-२५-११ (९३११७)
हविः समानो व्यानश्च इति यज्ञविदो विदुः |
प्राणापानावाज्यभागौ तयोर्मध्ये हुताशनः ||१४-२५-१२ (९३११८)
एतद्रूपमुदानस्य परमं ब्राह्मणा विदुः |
निर्द्वन्द्वमिति यत्त्वेतत्तन्मे निगदतः शृणुः ||१४-२५-१३ (९३११९)
अहोरात्रमिदं द्वन्द्वं तयोर्मध्ये हुताशनः |
एतद्रूपमुदानस्य परमं ब्राह्मणा विदुः ||१४-२५-१४ (९३१२०)
' उभे सत्यानृते द्वन्द्वं तयोर्मध्ये हुताशनः |
एतद्रूपमुदानस्य परमं ब्राह्मणा विदुः ||' १४-२५-१५ (९३१२१)
सच्चासच्चैव तद्द्वन्द्वं तयोर्मध्ये हुताशनः |
एतद्रूपमुदानस्य परमं ब्राह्मणा विदुः ||१४-२५-१६ (९३१२२)
' उभे शुभाशुभे द्वन्द्वं तयोर्मध्ये हुताशनः |
एतद्रूपमुदानस्य परमं ब्राह्मणा विदुः ||' १४-२५-१७ (९३१२३)
ऊर्ध्वं समानो व्यानश्च व्यस्यते कर्म तेन तत् |
द्वितीयं तु समानेन पुनरेव व्यवस्यते ||१४-२५-१८ (९३१२४)
शान्त्यर्थं वामदेव्यं च शान्तिर्ब्रह्म सनातनम् |
एतद्रूपमुदानस्य परमं ब्राह्मणा विदुः ||||१४-२५-१९ (९३१२५)
इति श्रीमन्महाभारते आश्वमेधिकपर्वणि अनुगीतापर्वणि
पञ्चविशोऽध्यायः ||२५ ||
Mahabharata -Ashvamedhika Parva -Chapter Footnotes
७-२५-१८ पूर्वंसमानो व्यानोऽथ व्यस्यते तेन कर्मकृत् इति क.ट.पाठः ||
आश्वमेधिकपर्व -अध्याय ०२६
||श्रीः ||
१४. २६. अध्यायः २६
अथानुगीतापर्व २
Mahabharata -Ashvamedhika Parva -Chapter Topics
कृष्णेन युधिष्ठिरंप्रति
कर्तृकर्मादिप्रतिपादकब्राह्मणदंपतिसंवादानुवादः ||१ ||
Mahabharata -Ashvamedhika Parva -Chapter Text
ब्राह्मण उवाच |
अत्राप्युदाहरन्तीममितिहासं पुरातनम् |
चातुर्होत्रविधानस्य विदानमिह यादृशम् ||१४-२६-१ (९३१२६)
तस्य सर्वस्य विधिवद्विधानमुपदेक्ष्यते |
शृणु मे गदतो भद्रे रहस्यमिदमुद्भुतम् ||१४-२६-२ (९३१२७)
करणं कर्म कर्ता च मोक्ष इत्येव भामिनि |
चत्वार एते होतारो यैरिदं जगदावृतम् ||१४-२६-३ (९३१२८)
होतॄणां साधनं चैव शृणु सर्वमशेषतः |
घ्राणं जिह्वा च चक्षुश्च त्वक्च श्रोत्रं च पञ्चमम् |
मनो बुद्धिश्च सप्तैते ज्ञेयाः कारणहेतवः ||१४-२६-४ (९३१२९)
गन्धो रसश्च रूपं च शब्दः स्पर्शश्च पञ्चमः |
मन्तव्यमवबोद्धव्यं सप्तैते कर्महेतवः ||१४-२६-५ (९३१३०)
घ्राता भक्षयिता द्रष्टा स्प्रष्टा श्रोता च पञ्चमः |
मन्ता बोद्धा च सप्तैते विज्ञेयाः कर्तृहेतवः ||१४-२६-६ (९३१३१)
स्वगुणान्भक्षयन्त्येते गुणवन्तः शुभाशुभान् |
असन्तो निर्गुणाश्चैते सप्तैते मोक्षहेतवः ||१४-२६-७ (९३१३२)
विदुषां बुध्यमानानां स्वंस्वं स्थानं यथाविधि |
गुणास्ते देवता भूत्वा सततं भुञ्जते हविः ||१४-२६-८ (९३१३३)
' अदन्हवींषि चान्नानि ममत्वेन विहन्यते.'
आत्मार्थे पाचयन्नन्नं ममत्वेनोपहन्यते ||१४-२६-९ (९३१३४)
अभक्ष्यभक्षणं चैव मद्यपानं च हन्ति तम् |
स चान्नं हन्ति तं चान्नं स हत्वा हन्यते पुनः ||१४-२६-१० (९३१३५)
हन्ता ह्यन्नमिदं विद्वान्पुनर्जनयतीश्वरः |
न चान्नाज्जायते तस्मिन्सूक्ष्मो नाम व्यतिक्रमः ||१४-२६-११ (९३१३६)
मनसा मन्यते यच्च यच्च वाचा निगद्यते |
श्रोत्रेण श्रूयते यच्च चक्षुषा यच्च दृश्यते ||१४-२६-१२ (९३१३७)
स्पर्शेन स्पृश्यते यच्च घ्राणेन घ्रायते च यत् |
मनस्येतानि संयम्य हवींष्येतानि सर्वशः ||१४-२६-१३ (९३१३८)
गुणवत्पावको मह्यं दीप्यतेऽन्तःशरीरगः |
योगयज्ञः प्रवृत्तो मे ज्ञानं ब्रह्ममयो हविः
. प्राणस्तोत्रोऽपानशस्त्रः सर्वत्यागसुदक्षिणः ||१४-२६-१४ (९३१३९)
कर्ताऽनुमन्ता ब्रह्मात्मा होताऽध्वर्युः कृतस्तुतिः
ऋतं प्रशास्ता तच्छस्त्रमपवर्गोऽस्य दक्षिणा ||१४-२६-१५ (९३१४०)
ऋचश्चाप्यत्र शंसन्ति नारायणविदो जनाः |
नारायणाय देवाययदविन्दन्पशून्पुरा ||१४-२६-१६ (९३१४१)
तत्र सामानि गायन्ति तत्र चाहुर्निदर्शनम् |
देवं नारायणं भीरु सर्वात्मानं निबोध तम् ||||१४-२६-१७ (९३१४२)
इति श्रीमन्महाभारते आश्वमेधिकपर्वणि अनुगीतापर्वणि
षडिंशोऽध्यायः ||२६ ||
Mahabharata -Ashvamedhika Parva -Chapter Footnotes
७-२६-११ अद्यमन्नमदन्नह्नि पुनरिति क.पाठः ||
७-२६-१४ दीप्यते हव्यवाहन इति क.ट.थ.पाठः ||
आश्वमेधिकपर्व -अध्याय ०२७
||श्रीः ||
१४. २७. अध्यायः २७
अथानुगीतापर्व-२
Mahabharata -Ashvamedhika Parva -Chapter Topics
कृष्णेन युधिष्ठिरंप्रति प्रजापतिना एकेनैव शब्देन
परब्रह्मोपदेशे देवर्ष्यादीनां स्वस्वयोग्यतानुसारेण
नानार्थावगमप्रतिपादकब्राह्मणदंपतिसंवादानुवादः ||१ ||
Mahabharata -Ashvamedhika Parva -Chapter Text
ब्राह्मण उवाच |
एकः शास्ता न द्वितीयोस्ति शास्ता
यो हृच्छयस्तमहमनु ब्रवीमि |
तेनैव युक्तः प्रवणादिवोदकं
यथा नियुक्तोस्मि तथा वहामि ||१४-२७-१ (९३१४३)
एको गुरुर्नास्ति ततो द्वितीयो
यो हृच्छयस्तमहमनु ब्रवीमि |
तेनानुशिष्टा गुरुणा सदैव
पुरा हता दानवाः सर्व एव ||१४-२७-२ (९३१४४)
एको बन्धुर्नास्ति ततो द्वितीयो
यो हृच्छयस्तमहमनु ब्रवीमि |
तेनानुशिष्टा बान्धवा बन्धुमन्तः
सप्तर्षयः पार्थ दिवि प्रभान्ति ||१४-२७-३ (९३१४५)
एकः श्रोता नास्ति ततो द्वितीयो
यो हृच्छयस्तमहमनु ब्रवीमि |
तस्मिन्गुरौ गुरुवासं निरुष्यट
शक्रो गतः सर्वलोकामरत्वम् ||१४-२७-४ (९३१४६)
एको द्वेष्टा नास्ति ततो द्वितीयो
यो हृच्छयस्तमहमनु ब्रवीमि |
तेनानुशिष्टा गुरुणा सदैव
लोके द्विष्टाः पन्नगाः सर्व एव ||१४-२७-५ (९३१४७)
अत्राप्युदाहरन्तीममितिहासं पुरातनम् |
प्रजापतौ पन्नगानां देवर्षीणां च संविदम् ||१४-२७-६ (९३१४८)
देवर्षयश्च नागाश्चाप्यसुराश्च प्रजापतिम् |
पर्यपृच्छन्नुपासीनं श्रेयोः नः प्रोच्यतामिति ||१४-२७-७ (९३१४९)
तेषां प्रोवाच भगवाञ्श्रेयः समनुपृच्छताम् |
ओमित्येकाक्षरं ब्रह्म ते श्रुत्वा प्राद्रवन्दिशः ||१४-२७-८ (९३१५०)
तेषां प्रद्रवमाणानामुपदेशं च शृण्वताम् |
सर्पाणां दंशने भावः प्रवृत्तः पूर्वमे तु ||१४-२७-९ (९३१५१)
असुराणां प्रवृत्तस्तु दंभभावः स्वभावजः |
दानं देवा व्यवसिता दममेव महर्षयः ||१४-२७-१० (९३१५२)
एकं शास्तारमासाद्य शब्देनैकेन संस्कृताः |
नानाव्यवसिताः सर्वे सर्पदेवर्षिदानवाः ||१४-२७-११ (९३१५३)
शृणोत्ययं प्रोच्यमानं गृह्णाति च यथातथम् |
पृच्छतस्तदतो भूयो गुरुरन्यो न विद्यते ||१४-२७-१२ (९३१५४)
तस्य चानुमते कर्म ततः पश्चात्प्रवर्तते |
गुरुर्बन्धुश्च शास्ता च द्वेष्टा च हृदि संश्रिताः ||१४-२७-१३ (९३१५५)
पापेन विचरँल्लोके पापचारी भवत्ययम् |
शुभेन विचरँल्लोके शुभचारी भवत्युत ||१४-२७-१४ (९३१५६)
कामचारी तु कामेन य हन्द्रियसुखे रतः |
ब्रह्मचारी सदैवैष य इन्द्रियजये रतः ||१४-२७-१५ (९३१५७)
अपेतव्रतकर्मा तु केवलं ब्रह्मणि स्थितः |
ब्रह्मभूतश्चरँल्लोके ब्रह्मचारी भवत्ययम् ||१४-२७-१६ (९३१५८)
ब्रह्मैव समिधस्तस्य ब्रह्माग्निर्ब्रह्मसंस्तरः |
आपो ब्रह्म गुरुर्ब्रह्म स ब्रह्मणि समाहितः ||१४-२७-१७ (९३१५९)
एतदेवेदृशं सूक्ष्मं ब्रह्मचर्यं विदुर्बुधाः |
विदित्वा चान्वपद्यन्त क्षेत्रज्ञेनानुदर्शिताः ||||१४-२७-१८ (९३१६०)
इति श्रीमन्महाभारते आश्वमेधिकपर्वणि अनुगीतापर्वणि
सप्तविंशोऽध्यायः ||२७ ||
Mahabharata -Ashvamedhika Parva -Chapter Footnotes
७-२७-१ एकः शास्ता न द्वितीयोस्ति कश्चिद्यथा नियुक्तोऽस्मि तथा
चरामि | हृद्येष तिष्ठन्पुरुषः शास्ति शास्ता तेनानुयुक्तः
प्रवणादिवोदकमिति क.ट.द.पाठः ||
७-२७-७ देवाश्च ऋषयश्चेति द्वन्द्वः ||
७-२७-८ प्राद्रवन्प्रतिपेदिरे | दिशो बहून्मार्गान् ||
७-२७-१३ गुरुर्बोद्धा च श्रोता च द्वेष्टा च हृदि निःसृत इति
झ.पाठः ||
आश्वमेधिकपर्व -अध्याय ०२८
||श्रीः ||
१४. २८. अध्यायः २८
अथानुगीतापर्व-२
Mahabharata -Ashvamedhika Parva -Chapter Topics
कृष्णने युधिष्ठिरंप्रति
विद्याब्रह्मणोररण्यत्वरूपणपरब्राह्मणदंपतिसंवादानुवादः ||१ ||
Mahabharata -Ashvamedhika Parva -Chapter Text
ब्राह्मण उवाच |
संकल्पदंशमशकं शोकहर्षहिमातपम् |
मोहान्धकारतिमिरं लोभव्याधिसरीसृपम् ||१४-२८-१ (९३१६१)
विषयैकात्ययाध्वानं कामक्रोधकिरातकम् |
तदतीत्य महादुर्गं प्रविष्टोस्मि महद्वनम् ||१४-२८-२ (९३१६२)
ब्राह्मण्युवाच. १४-२८-३क्ष् (७८३०)
क्व तद्वनं महाप्राज्ञ के वृक्षाः सरितश्च काः |
कियन्तः पर्वताश्चैव कियत्यध्यनि तद्वनम् ||१४-२८-३ (९३१६३)
ब्राह्मण उवाच. १४-२८-४क्ष् (७८३१)
नैतदस्ति पृथग्भावः किञ्चिनद्यत्ततः सुखम् |
नैतदस्त्यपृथग्भावः किञ्चिद्दुःखतरं ततः ||१४-२८-४ (९३१६४)
तस्माद्ध्रस्वतरं नास्ति न ततोस्ति महत्तरम् |
नास्ति तस्माद्दुःखतरं नास्त्यन्यत्तत्समं सुखम् ||१४-२८-५ (९३१६५)
न तत्राविश्यि शोचन्ति न प्रहृष्यन्ति च द्विजाः |
न च बिभ्यति केभ्यश्चिन्नैभ्यो बिभ्यति केचन ||१४-२८-६ (९३१६६)
तस्मिन्वने सप्त महाद्रुमाश्च
फलानि सप्तातिथयश्च सप्त |
सप्ताश्रमाः सप्त समाधयश्च
दीक्षाश्च सप्तैतदरण्यरूपम् ||१४-२८-७ (९३१६७)
पञ्चवर्णानि दिव्यानि पुष्पाणि च फलानि च |
सृजन्तः पादपास्तत्र व्याप्य तिष्ठन्ति तद्वन्म् ||१४-२८-८ (९३१६८)
सुवर्णानि द्विवर्णानि पुष्पाणि च फलानि च |
सृजन्तः पादपास्तत्र व्याप्य तिष्ठन्ति तद्वनम् ||१४-२८-९ (९३१६९)
' शङ्कराणि त्रिवर्णानि पुष्पाणि च फलानि च |
सृजन्तः पादपास्तत्र व्याप्य तिष्ठन्ति तद्वनम्' १४-२८-१० (९३१७०)
सुरभीणि द्विवर्णानि पुष्पाणि च फलानि च |
सृजन्तः पादपास्तत्र व्याप्य तिष्ठन्ति तद्वनम् ||१४-२८-११ (९३१७१)
सुरभीण्येकवर्णानि पुष्पाणि च फलानि च |
सृजन्तः पादपास्तत्र व्याप्य तिष्ठन्ति तद्वनम् ||१४-२८-१२ (९३१७२)
बहून्यव्यक्तवर्णानि पुष्पाणि च फलानि च |
विसृजन्तौ महावृक्षौ तद्वनं व्याप्य तिष्ठतः ||१४-२८-१३ (९३१७३)
एको वह्निः सुमना ब्राह्मणोत्र
पञ्चेन्द्रियाणि समिधश्चात्र सन्ति |
तेभ्यो वृक्षाःक सप्त फलन्ति दीक्षा
गुणाः फलान्यतिथयः फलाशाः ||१४-२८-१४ (९३१७४)
आतिथ्यं प्रतिगृह्णन्ति तत्र सप्त महर्षयः |
अर्चितेषु प्रलीनेषु तेष्वन्यद्रोचते वनम् ||१४-२८-१५ (९३१७५)
प्रज्ञावृक्षं मोक्षफलं शान्तिच्छायासमन्वितम् |
ज्ञानाश्रयं तृप्तितोयमन्तःक्षेत्रज्ञभास्करम् ||१४-२८-१६ (९३१७६)
येऽधिगच्छन्ति तत्सन्तस्तेषां नास्ति पुनर्भवः |
ऊर्ध्वं चाधश्च तिर्यक्च तस्य नान्तोऽधिगम्यते ||१४-२८-१७ (९३१७७)
सप्त स्त्रियस्तत्र चरन्ति सत्या-
स्त्ववाङ्मुखा भानुमत्यो जनित्र्यः |
ऊर्ध्वं रसानाददते प्रजाभ्यः
सर्वान्यथा नित्यमनित्यता च ||१४-२८-१८ (९३१७८)
तत्रैव प्रतितिष्ठन्ति पुनस्तत्रोदयन्ति च |
सप्त सप्तर्षयः सिद्धा वसिष्ठप्रमुखैः सह ||१४-२८-१९ (९३१७९)
यशो वर्चो भगश्चैव विजयः सिद्धतेजसः |
एतमेवानुवर्तन्ते सप्त ज्योतींषि भास्करम् ||१४-२८-२० (९३१८०)
ऋषयः पर्वताश्चैव सन्ति तत्र समासतः |
नद्यश्च परितो वारि वहन्त्यो ब्रह्मिसम्भवम् ||१४-२८-२१ (९३१८१)
नदीनां सङ्गमश्चैव वैताने समुपहरे |
स्वात्मतृप्ता यतो यान्ति साक्षादेव पितामहम् ||१४-२८-२२ (९३१८२)
कृशाशाः सुव्रताः शान्तास्तपसा दग्धकिल्बिषाः |
आत्मन्यात्मानमावेश्य ब्राह्मणास्तमुपासते ||१४-२८-२३ (९३१८३)
शमिमप्यत्र शंसन्ति विद्यारण्यविदो जनाः |
तदरण्यमभिप्रेत्य यथातत्वमजायत ||१४-२८-२४ (९३१८४)
एतदेवेदृशं पुण्यमरण्यं ब्राह्मणा विदुः |
विदित्वा चानुतिष्ठन्ति क्षेत्रज्ञेनानुदर्शिना ||||१४-२८-२५ (९३१८५)
इति श्रीमन्महाभारते आश्वमेधिकपर्वणि अनुगीतापर्वणि
अष्टाविंशोऽध्यायः ||२८ ||
Mahabharata -Ashvamedhika Parva -Chapter Footnotes
७-२८-७ सप्तर्षयः सप्त तथेन्धनानि इति क.थ.पाठः ||
७-२८-९ चतुर्वर्णानि दिव्यानीति क.थ.पाठः ||
७-२८-१३ सृजन्तः पादपास्तत्र व्याप्य तिष्ठन्ति तद्वनमिति
क.ट.थ.पाठः ||
७-२८-१९ तत्रोपयन्ति चेति झ.पाठः | तेच सप्तर्षयः सिद्धा इति
क.थ.पाठः ||
७-२८-२० भगश्चोजो विजयः सिद्धितेजसी इति क.थ.पाठः ||
७-२८-२४ ऋचमप्यत्र पश्यन्ति विद्यारण्येति क.थ.पाठः ||
७-२८-२५ विदित्वा नानुपश्यन्ति क्षेत्रज्ञा नानुदर्शनमिति क.थ.पाठः ||
आश्वमेधिकपर्व -अध्याय ०२९
||श्रीः ||
१४. २९. अध्यायः २९
अथानुगीतापर्व-२
Mahabharata -Ashvamedhika Parva -Chapter Topics
कृष्णेनार्जुनंप्रति यागीयहिंसाया
अधर्म्यत्वाभावप्रतिपादकाध्वर्युयतिसंवादानुवादः ||१ ||
Mahabharata -Ashvamedhika Parva -Chapter Text
ब्राह्मण उवाच |
गन्धान्न जिघ्रामि रासान्न वेद्मि
रूपं न पश्यामि न च स्पृशामि |
न चापि शब्दान्विविधाञ्शृणोमि
न चापि सङ्कल्पमुपैमि कञ्चित् ||१४-२९-१ (९३१८६)
अर्थानिष्टान्कामयते स्वभावः
सर्वान्द्वेष्यान्प्रद्विषते स्वभावः |
कामद्वेषानुद्भवतः स्वभावा-
त्प्राणापानौ जन्तुदेहान्निवेश्य ||१४-२९-२ (९३१८७)
तेभ्यश्चान्यांस्तेषु नित्यांश्च भावा-
न्भूतात्मानं अक्षयेऽहं शरीरे |
तस्मिंस्तिष्ठन्नास्मि सक्तः कथंचि-
त्कामक्रोधाभ्यां जरया मृत्युना च ||१४-२९-३ (९३१८८)
अकामयानस्य च सर्वकामा-
नविद्विषाणस्य च सर्वदोषान् |
न मे स्वभावेषु भवन्ति लेपा-
स्तोयस्य बिन्दोरिव पुष्करेषु ||१४-२९-४ (९३१८९)
नित्यस्य चैतस्य भवन्ति नित्या
निरीक्ष्यमाणस्य बहून्स्वभावान् |
न सज्जते कर्मसु भोगजालं
दिवीव सूर्यस्य मयूखजालम् ||१४-२९-५ (९३१९०)
अत्राप्युदाहरन्तीममितिहासं पुरातनम् |
अध्वर्युयतिसंवादं तं निबोध यशस्विनि ||१४-२९-६ (९३१९१)
प्रोक्ष्यमाणं पशुं दृष्ट्वा यज्ञकर्मण्यथाब्रवीत् |
यतिरध्वर्युमासीनो हिंसोयमिति कुत्सयन् ||१४-२९-७ (९३१९२)
तमध्वर्युः प्रत्युवाच नायं छागो विनश्यति |
श्रेयसा योक्ष्यते जन्तुर्यज्ञाच्छ्रुतिरियं तथा ||१४-२९-८ (९३१९३)
यो ह्यस्य पार्थिवो भागः पृथिवीं स गमिष्यति |
यदस्य वारिजं किञ्चिदपस्तत्सम्प्रवेक्ष्यति ||१४-२९-९ (९३१९४)
सूर्यं चक्षुर्दिशः श्रोत्रे प्राणोऽस्य दिवमेव च |
आगमे वर्तमानस्य नमे दोषोस्ति कश्चन ||१४-२९-१० (९३१९५)
यतिरुवाच. १४-२९-११क्ष् (७८३२)
प्राणैर्वियोगे च्छागस्य यदि श्रेयः प्रपश्यसि |
छागार्थे वर्तते यज्ञो भवतः किं प्रयोजनम् ||१४-२९-११ (९३१९६)
अनु त्वां मन्यते माता अनु त्वां मन्यते पिता |
मन्त्रविज्ञानमुन्नीय परिवर्ते विशेषतः ||१४-२९-१२ (९३१९७)
एवमेवानुमन्येरंस्तान्भवान्द्रष्टुमर्हति |
तेषामनुमतिं श्रुत्वा शक्या कर्तुं विचारणा ||१४-२९-१३ (९३१९८)
अध्वर्युरुवाच. १४-२९-१४क्ष् (७८३३)
प्राणा अप्यस्य च्छागस्य प्रापितास्ते स्वयोनिषु |
शरीरं केवलं शिष्टं निश्चेष्टमिति मे मतिः ||१४-२९-१४ (९३१९९)
इन्धनस्य तु तुल्येन शरीरेणि विचेतसा |
हिंसा हि यष्टुकामानामिन्धनं पशुसंज्ञितम् ||१४-२९-१५ (९३२००)
अहिंसा सर्वधर्माणामिति वृद्धानुशासनम् |
यदहिंस्रं भवेत्कर्म तत्कार्यमिति विद्महे ||१४-२९-१६ (९३२०१)
अहिंसेति प्रतिज्ञेयं यदि वक्ष्याम्यतः परम् |
शक्यं बहुविधं वक्तुं भवता कार्यदूषणम् ||१४-२९-१७ (९३२०२)
अहिंसा सर्वभूतानां नित्यमस्मासु रोचते |
प्रत्यक्षतः साधयामो न परोक्षमुपास्महे ||१४-२९-१८ (९३२०३)
अध्वर्यरुवाच. १४-२९-१९क्ष् (७८३४)
भूमेर्गन्धगुणान्भुङ्क्ष्व पिबस्यापोमयान्रसान् |
ज्योतिषां पश्यते रूपं स्पृशस्यनिलजान्गुणान् ||१४-२९-१९ (९३२०४)
शृणोष्याकाशजाञ्शब्दान्मनसा मन्यसे मतिम् |
सर्वाण्येतानि भूतानि प्राणा इति च मन्यसे ||१४-२९-२० (९३२०५)
प्राणादाने निवृत्तोसि हिंसायां वर्तते भवान् |
नास्ति चेष्टा विना हिंसां किं वा त्वं मन्यसे द्विज ||१४-२९-२१ (९३२०६)
यतिरुवाच. १४-२९-२२क्ष् (७८३५)
अक्षरं च क्षरं चैव द्वैधीभावोऽयमात्मनः |
अक्षरं तत्र सद्भावः स्वभावः क्षर उच्यते ||१४-२९-२२ (९३२०७)
प्राणो जिह्वा मनः सत्त्वं सद्भावो रजसा सह |
भावैरेतैर्विमुक्तस्य निर्द्वन्द्वस्य निराशिषः ||१४-२९-२३ (९३२०८)
समस्य सर्वभूतेषु निर्ममस्य जितात्मनः |
समन्तात्परिमुक्तस्य न भयं विद्यते क्वचित् ||१४-२९-२४ (९३२०९)
अध्वर्युरुवाच. १४-२९-२५क्ष् (७८३६)
सद्भिरेवेह संवादः कार्यो मतिमतांवर |
भवतो हि मतं श्रुत्वा प्रतिभाति मतिर्मम ||१४-२९-२५ (९३२१०)
भगवन्भगवद्बुद्ध्या प्रतिबुद्धो ब्रवीम्यहम् |
व्रतं मन्त्रकृतं कर्तुर्नापराधोस्ति मे द्विज ||१४-२९-२६ (९३२११)
ब्राह्मण उवाच. १४-२९-२७क्ष् (७८३७)
उपपत्त्या यतिस्तूष्णीं वर्तमानस्ततः परम् |
अध्वर्युरपि निर्मोहः प्रचचार महामखे ||१४-२९-२७ (९३२१२)
एवमेतादृशं मोक्षं सुसूक्ष्मं ब्राह्मणा विदुः |
विदित्वा चानुतिष्ठन्ति क्षेत्रज्ञेनार्थदर्शिना ||||१४-२९-२८ (९३२१३)
इति श्रीमन्महाभारते आश्वमेदिकपर्वणि अनुगीतापर्वणि
एकोनत्रिंशोऽध्यायः ||२९ ||
Mahabharata -Ashvamedhika Parva -Chapter Footnotes
७-२९-२ सर्वानेतान्द्वेष्टि चैव स्वभाव इति क.ट.पाठः
. जन्तुदेहानिहैत्येति क.ट.पाठः ||
७-२९-३ नास्ति शक्यः कथंचिदिति क.ट.थ.पाठः ||
७-२९-१२ अत्र त्वां मन्यतां भ्राता पिता माता सखेति च
. मन्त्रयस्वैनमुन्नीय परवन्तं विशेषत इति झ.द.पाठः ||
७-२९-१९ भूमेरिति नानुपहत्य भूतानि भोगः सम्भवतीति
न्यायाज्जीवतोऽपरिहार्यैव हिंसेत्यर्थः ||
७-२९-२१ किं कथं त्वं मन्यसेऽहिंसामिति शेषः ||
७-२९-२६ मतं मन्तुं क्रतुं कर्तुमिति थ.पाठः ||
आश्वमेधिकपर्व -अध्याय ०३०
||श्रीः ||
१४. ३०. अध्यायः ३०
अथानुगीतापर्व-२
Mahabharata -Ashvamedhika Parva -Chapter Topics
ब्राह्मणेन स्वभार्यांप्रति हिंसाया अकर्तव्यत्वे महर्षिवचसां
प्रमाणीकरणोपयोगितया परशुरामचरित्रकथनारम्भः ||१ ||
रामेण कार्तवीर्ये निहते तदनुयायिभिर्जमदग्नेर्हनम् ||२ ||
ततः क्रुद्धेन रामेण त्रिःसप्तकृत्वः सर्वक्षत्रियहनने तत्पितृभी
रामस्य परिसान्त्वप्रयतनम् ||३ ||
Mahabharata -Ashvamedhika Parva -Chapter Text
ब्राह्मण उवाच |
अत्राप्युदाहरन्तीममितिहासं पुरातनम् |
कार्तवीर्यस्य संवादं समुद्रस्य च भामिनि ||१४-३०-१ (९३२१४)
कार्तवीर्यार्जुनो नाम राजा बाहुसहस्रवान् |
येन सागरपर्यन्ता धनुषा निर्जिता मही ||१४-३०-२ (९३२१५)
स कदाचित्समुद्रान्ते विचरन्बलदर्पितः |
अवीकिरच्छरशतैः समुद्रमिति नः श्रुतम् ||१४-३०-३ (९३२१६)
तं समुद्रो नमस्कृत्य कृताञ्जलिरुवाचह |
मा मुञ्च वीर नाराचान्ब्रूहि किं करवाणि ते ||१४-३०-४ (९३२१७)
मदाश्रयाणि भूतानि त्वद्विसृष्टैर्महेषुभिः |
वध्यन्ते राजशार्दूल तेभ्यो देह्यभयं विभो ||१४-३०-५ (९३२१८)
अर्जुन उवाच. १४-३०-६क्ष् (७८३८)
मत्समो यदि संग्रामे शरासनधरः क्वचित् |
विद्यते तं समाचक्ष्व यः समो मे महामृधे ||१४-३०-६ (९३२१९)
समुद्र उवाच. १४-३०-७क्ष् (७८३९)
महर्षिर्जमदग्निस्ते यदि राजन्पुरा श्रुतः |
तस्य पुत्रस्तवातिथ्यं यथावत्कर्तुमर्हति ||१४-३०-७ (९३२२०)
ततः स राजा प्रययौ क्रोधेन महता वृतः |
स तमाश्रममागम्य राममेवान्वपद्यत ||१४-३०-८ (९३२२१)
स रामप्रतिकूलानि चकार सह बन्धुभिः |
आयासं जनयामास रामस्य च महात्मनः ||१४-३०-९ (९३२२२)
ततस्तेजः प्रजज्वाल रामस्यामिततेजसः |
प्रदहन्रिपुसैन्यानि तदा कमललोचने ||१४-३०-१० (९३२२३)
ततः परशुमादाय स तं बाहुसहस्रिणम् |
चिन्छेद सहसा रामो बहुशाखमिव द्रुमम् ||१४-३०-११ (९३२२४)
तं हतं पतितं दृष्ट्वा समेताः सर्वबान्धवाः |
असीनादाय शक्तीर्श्च भार्गवं पर्यधावयन् ||१४-३०-१२ (९३२२५)
रामोऽपि धनुरादाय रथमारुह्य सत्वरः |
विसृजञ्शरवर्षाणि व्यधमत्पार्थिवं बलम् ||१४-३०-१३ (९३२२६)
ततस्तु क्षत्रियाः केचिज्जमदग्निं निहत्य च |
विविशुर्गिरिदुर्गाणि मृगाः सिंहार्दिता इव ||१४-३०-१४ (९३२२७)
तेषां स्वविहितं कर्म तद्भयान्नानुतिष्ठताम् |
प्रजा वृषलतां प्राप्ता ब्राह्मणानामदर्शनात् ||१४-३०-१५ (९३२२८)
एवं ते द्रविडाऽभीराः पुण्ड्राश्च शबरैः सह |
वृषलत्वं परिगता व्युत्थानात्क्षत्रधर्मतः ||१४-३०-१६ (९३२२९)
ततश्च हतवीरासु क्षत्रियासु पुनः पुनः |
द्विजैरुत्पादितं क्षत्रं जामदग्न्यो न्यकृन्तत ||१४-३०-१७ (९३२३०)
एकविंशतिमे याते रामं वागशरीरिणी |
दिव्या प्रोवाच मधुरा सर्वलोकपरिश्रुता ||१४-३०-१८ (९३२३१)
रामराम निवर्तस्व कं गुणं तात पश्यसि |
क्षत्रबन्धूनिमान्प्राणैर्विप्रयोज्य पुनः पुनः ||१४-३०-१९ (९३२३२)
तथैव तं महात्मानमृचीकप्रमुखास्तदा |
पितामहा महाभाग निवर्तस्वेत्यथाब्रुवन् ||१४-३०-२० (९३२३३)
पितुर्वधममृष्यंस्तु रामः प्रोवाच तानृषीन् |
नार्हन्तीह भवन्तो मां निवारयितुमित्युत ||१४-३०-२१ (९३२३४)
पितर ऊचुः. १४-३०-२२क्ष् (७८४०)
नार्हसे क्षत्रबन्धूंस्त्वं निहन्तुं जयतांवर |
नेह युक्तं त्वया हन्तुं ब्राह्मणेन सता नृपान् ||||१४-३०-२२ (९३२३५)
इति श्रीमन्महाभारते आश्वमेधिकपर्वणि अनुगीतापर्वणि त्रिंशोऽध्यायः
||३० ||
Mahabharata -Ashvamedhika Parva -Chapter Footnotes
७-३०-१५ तेषामुपरतं कर्मेति ट.पाठः ||
७-३०-१६ व्युत्थानात्क्षत्रधर्मिण इति झ.पाठः ||
आश्वमेधिकपर्व -अध्याय ०३१
||श्रीः ||
१४. ३१. अध्यायः ३१
अथानुगीतापर्व-२
Mahabharata -Ashvamedhika Parva -Chapter Topics
परशुरामंप्रति तत्पितृभिः
क्षत्रियवधान्निवर्तनायालर्कोपाख्यानकथनम् ||१ ||
रामेण तच्छ्रवणाद्धिंसातो निवर्त्य तपश्चरणम् ||२ ||
Mahabharata -Ashvamedhika Parva -Chapter Text
पितर ऊचुः |
अत्राप्युदाहरन्तीममितिहासं पुरातनम् |
श्रुत्वा च तत्तथा कार्यं भवता द्विजसत्तम ||१४-३१-१ (९३२३६)
अलर्को नाम राजर्षिरभवत्सुमहातपाः |
धर्मज्ञः सत्यवादी च महात्मा सुदृढव्रतः ||१४-३१-२ (९३२३७)
स सागरान्तां धनुषा विनिर्जित्य महीमिमाम् |
कृत्वा सुदुष्करं कर्म मनः सूक्ष्मे समादधे ||१४-३१-३ (९३२३८)
स्थितस्य वृक्षमूलेऽथ तस्य चिन्ता बभूव ह |
उत्सृय सुमहद्राज्यं सूक्ष्मं प्रति महामते ||१४-३१-४ (९३२३९)
अलर्क उवाच. १४-३१-५क्ष् (७८४१)
मनसो मे बलं जातं मनो जित्वा ध्रुवो जयः |
अन्यत्र बाणानस्यामि शत्रुभिः परिवारितः ||१४-३१-५ (९३२४०)
यदिदं चापलात्कर्म सर्वान्मर्त्यांश्चिकीर्षति |
मनः प्रति सुतीक्ष्णाग्रानहं मोक्ष्यामि सायकान् ||१४-३१-६ (९३२४१)
मन उवाच. १४-३१-७क्ष् (७८४२)
नेमे बाणास्तरिष्यन्ति मामलर्क कथञ्चन |
तवैव मर्म भेत्स्यन्ति भिन्नमर्मा मरिष्यसि ||१४-३१-७ (९३२४२)
अन्यान्बाणान्समीक्षस्व यैस्त्वं मां सूदयिष्यसि |
तत्छ्रुत्वा स विचिन्त्याथ ततो वचनमब्रवीत् ||१४-३१-८ (९३२४३)
आघ्राय सुबहून्गन्धांस्तानेव प्रतिगृध्यति |
तस्माद्ध्राणं प्रति शरान्प्रतिमोक्ष्याम्यहं शितान् ||१४-३१-९ (९३२४४)
घ्राण उवाच. १४-३१-१०क्ष् (७८४३)
नेमे बाणास्तरिष्यन्ति मामलर्क कथञ्चन |
तवैव मर्म भेत्स्यन्ति भिन्नमर्मा मरिष्यसि ||१४-३१-१० (९३२४५)
अन्यान्याणान्समीक्षस्व यैस्त्वं मां सूदयिष्यसि |
तच्छ्रुत्वा स विचिन्त्याथ ततो वचनमब्रवीत् ||१४-३१-११ (९३२४६)
इयं स्वादून्रसान्भुक्त्वा तानेव प्रति गृध्यति |
तस्माज्जिह्वां प्रति शरान्प्रतिमोक्ष्याम्यहं शितान् ||१४-३१-१२ (९३२४७)
जिह्वोवाच. १४-३१-१३क्ष् (७८४४)
नेमे वाणास्तरिष्यन्ति मामलर्क कथञ्चन |
तवैव मर्म भेत्स्यन्ति ततो हास्यसि जीवितम् ||१४-३१-१३ (९३२४८)
अन्यान्वाणान्समीक्षस्व यैस्त्वं मां सूदयिष्यसि |
तच्छ्रुत्वा स विचिन्त्याथ ततो वचनमब्रवीत् ||१४-३१-१४ (९३२४९)
स्पृष्ट्वा त्वग्विविधान्स्पर्शांस्तानेव प्रतिगृध्यति |
तस्मात्त्वचं पाटयिष्ये विविधैः कङ्कपत्रिभिः ||१४-३१-१५ (९३२५०)
त्वगुवाच. १४-३१-१६क्ष् (७८४५)
नेमे बाणास्तरिष्यन्ति मामलर्क कथञ्चन |
तवैव मर्म भेत्स्यन्ति भिन्नमर्मा मरिष्यसि ||१४-३१-१६ (९३२५१)
अन्यान्बाणान्समीक्षस्व यैस्त्वं मां सूदयिष्यसि |
तच्छ्रुत्वा स विचिन्त्याथ ततो वचनमब्रवीत् ||१४-३१-१७ (९३२५२)
श्रुत्वा तु विविधाञ्शब्दांस्तानेव प्रतिगृध्यति |
तस्माच्छ्रोत्रं प्रति शरान्प्रति मुञ्चाम्यहं शितान् ||१४-३१-१८ (९३२५३)
श्रोत्रमुवाच. १४-३१-१९क्ष् (७८४६)
नेमे बाणास्तरिष्यन्ति मामलर्क कथञ्चन |
तवैव मर्म भेत्स्यन्ति ततो हास्यति जीवितम् ||१४-३१-१९ (९३२५४)
अन्यान्बाणान्समीक्षस्व यैस्त्वं मां सूदयिष्यसि |
तच्छ्रुत्वा स विचिन्त्याथ ततो वचनमब्रवीत् ||१४-३१-२० (९३२५५)
दृष्ट्वा रूपाणि बहुशस्तान्येव प्रतिगृध्यति |
तस्माच्चक्षुर्हनिष्यामि निशितैः सायकैरहम् ||१४-३१-२१ (९३२५६)
चक्षुरुवाच. १४-३१-२२क्ष् (७८४७)
नेमे बाणास्तरिष्यन्ति मामलर्क कथञ्चन |
तवैव मर्म भेत्स्यन्ति भिन्नमर्मा मरिष्यसि ||१४-३१-२२ (९३२५७)
अन्यान्बाणान्समीक्षस्व यैस्त्वं मां सूदयिष्यति
तच्छ्रुत्वा स विचिन्त्याथ ततो वचनमब्रवीत् ||१४-३१-२३ (९३२५८)
इयं निष्ठा बहुविधा प्रज्ञया त्वद्यवस्यति |
तस्माद्बुद्धिं प्रति शरान्प्रतिमोक्ष्याम्यहं शितान् ||१४-३१-२४ (९३२५९)
बुद्धिरुवाच. १४-३१-२५क्ष् (७८४८)
नेमे बाणास्तरिष्यन्ति मामलर्क कथञ्चन |
तवैव मर्म भेत्स्यन्ति भिन्नमर्मा मरिष्यसि |
अन्यान्बाणान्समीक्षस्व यैस्त्वं मां सूदयिष्यसि ||१४-३१-२५ (९३२६०)
पितर ऊचुः. १४-३१-२६क्ष् (७८४९)
ततोऽलर्कस्तपो घोरं तत्रैवास्थाय दुष्करम् |
नाध्यगच्छत्परं शक्त्या बाणमेतेषु सप्तसु ||१४-३१-२६ (९३२६१)
सुसमाहितचेतास्तु स ततोऽचिन्तयत्प्रभुः |
स विचिन्त्य चिरं कालमलर्को द्विजसत्तम |
नाध्यगच्छत्परं श्रेयो योगान्मतिमतांवरः ||१४-३१-२७ (९३२६२)
स एकाग्रं मनः कृत्वा निश्चलो योगमास्थितः |
इन्द्रियाणि जघानाशु बाणेनैकेन वीर्यवान् ||१४-३१-२८ (९३२६३)
योगेनात्मानमाविश्य सिद्धिं परमिकां गतः |
विस्मितश्चापि राजर्षिरिमां गाथां जगाद ह ||१४-३१-२९ (९३२६४)
अहो कष्टं यदस्माभिः सर्वं बाह्यमनुष्ठितम् |
भोगतृष्णासमायुक्तैः पूर्वं राज्यमुपासितम् |
इति पश्चान्मया ज्ञातं योगान्नास्ति परं सुखम् ||१४-३१-३० (९३२६५)
इति त्वमनुजानीहि राम मा क्षत्रियान्वधीः |
तषो घोरमुपातिष्ठ ततः श्रेयोऽभिपत्स्यसे ||१४-३१-३१ (९३२६६)
इत्युक्तः पितृभिः सोथ तपो घोरं समास्थितः |
जामदग्न्यो महाभागे सिद्धिं च परमां गतः ||||१४-३१-३२ (९३२६७)
इति श्रीमन्महाभारते आश्वमेधिकपर्वणि अनुगीतापर्वणि
एकत्रिंशोऽध्यायः ||३१ ||
Mahabharata -Ashvamedhika Parva -Chapter Footnotes
७-३१-१ अत्र हिंसाया अकार्यत्वे. १ | |
७-३१-५ अन्यत्र बाह्यशत्रुभ्य इति शेषः | शत्रुभिरिन्द्रियाख्यवैरिभिः ||
५ ||
आश्वमेधिकपर्व -अध्याय ०३२
||श्रीः ||
१४. ३२. अध्यायः ३२
अथानुगीतापर्व-२
Mahabharata -Ashvamedhika Parva -Chapter Topics
ब्राह्मणेन स्वभार्यांप्रति
कामक्रोधादिपरित्यागपूर्वकं भगवदवबोधस्य
परमपुरुषार्थसाधनतावबोधकाम्बरीषगीतगाथाकथनम् ||१ ||
Mahabharata -Ashvamedhika Parva -Chapter Text
ब्राह्मण उवाच |
त्रयो वै रिपवो लोके नवधा गुणतः स्मृताः |
हर्षः स्तंभोतिमानश्च त्रयस्ते सात्विका गुणाः ||१४-३२-१ (९३२६८)
शोकः क्रोधाभिसंरम्भो राजसास्ते गुणाः स्मृताः |
स्वप्नस्तन्द्रा च मोहश्च त्रयस्ते तामसा गुणाः ||१४-३२-२ (९३२६९)
एतान्निकृत्य धृतिमान्बाणसङ्घैरतन्द्रितः |
जेतुं परानुत्सहते प्रशान्तात्मा जितेन्द्रियः ||१४-३२-३ (९३२७०)
अत्र गाथाः कीर्तयन्ति पुराकल्पविदो जनाः |
अम्बरीषेण या गीता राज्ञा राज्यं प्रशासता ||१४-३२-४ (९३२७१)
समुदीर्णेषु दोषेषु बाध्यमानेषु साधुषु |
जग्राह तरसा राज्यमम्बरीष इति श्रुतिः ||१४-३२-५ (९३२७२)
स निगृह्यात्मनो दोषान्साधून्समभिपूज्य च |
जगाम महतीं सिद्धिं गाथाश्चेमा जगाद ह ||१४-३२-६ (९३२७३)
भूयिष्ठं विजिता दोषा निहताः सर्वशत्रवः |
एको दोषो वरिष्ठश्च वध्यः स न हतो मया ||१४-३२-७ (९३२७४)
यत्प्रयुक्तो जन्तुरयं वैतृष्ण्यं नाधिगच्छति |
तृष्णार्त इव निम्नानि धावमानो न बुध्यते ||१४-३२-८ (९३२७५)
अकार्यमपि येनेह प्रयुक्तः सेवते नरः |
तं लोभमसिभिस्तीक्ष्णैर्निकृत्य सुखमेधते ||१४-३२-९ (९३२७६)
लोभाद्धि जायते तृष्णा ततश्चिन्ता प्रवर्तते |
स लिप्समानो लभते भूयिष्ठं राजसान्गुणान् |
तदवाप्तौ तु लभते भूयिष्ठं तामसान्गुणान् ||१४-३२-१० (९३२७७)
स तैर्गुणैः संहतदेहबन्धनः |
पुनःपनर्जायति कर्म चेहते |
जन्मक्षये भिन्नविकीर्मदेहो
मृत्युं पुनर्गच्छति जन्मनैव ||१४-३२-११ (९३२७८)
तस्मादेतं सम्यगवेक्ष्य लोभं
निगृह्य धृत्याऽऽत्मनि राज्यमिच्छेत् |
एतद्राज्यं नान्यदस्तीह राज्य-
मात्मैव राजा विदितो यथावत् ||१४-३२-१२ (९३२७९)
इति राज्ञाऽम्बरीषेण गाथा गीता यशस्विना |
आधिराज्य पुरस्कृत्य लोभमेकं निकृन्तता ||||१४-३२-१३ (९३२८०)
इति श्रीमन्महाभारते आश्वमेधिकपर्वणि अनुगीतापर्वणि
द्वात्रिंशोऽध्यायः ||३२ ||
Mahabharata -Ashvamedhika Parva -Chapter Footnotes
७-३२-१ गुणतः वृत्तिभेदात् ||
७-३२-२ अभिसंरम्भो द्वेषाभिनिवेशः ||
७-३२-३ निकृत्य च्छित्त्वा | बाणसंघैः शमादिभिः ||
७-३२-११ पुनर्जायति चेह तत्फलम् | फलक्षये भिन्नविदीर्णदेहः
पुनर्मृत्यु गच्छति चैव जन्मनीति क.थ.पाठः ||
७-३२-१२ नान्यदस्तीति विद्या यैश्चैव राजा विजितो मयैक इति
क.थ.पाठः ||
आश्वमेधिकपर्व -अध्याय ०३३
||श्रीः ||
१४. ३३. अध्यायः ३३
अथानुगीतापर्व-२
Mahabharata -Ashvamedhika Parva -Chapter Topics
ब्राह्मणेन स्वभार्यांप्रति ममतावर्जनस्य पुरुषार्थसाधनतायां
दृष्टान्ततया ब्राह्मणजनकसंवादानुवादः ||१ ||
Mahabharata -Ashvamedhika Parva -Chapter Text
ब्राह्मणि उवाच |
अत्राप्युदाहरन्तीममितिहासं पुरातनम् |
ब्राह्मणस्य च संवादं जनकस्य च भामिनि ||१४-३३-१ (९३२८१)
ब्राह्मणं जनको राजा सन्नं कस्मिंश्चिदागसि |
विषये मे न वस्तव्यमिति शिष्ट्यर्थमब्रवीत् ||१४-३३-२ (९३२८२)
इत्युक्तः प्रत्युवाचाथ ब्राह्मणो राजसत्तमम् |
आचक्ष्व विषयं राजन्यावांस्तव वशे स्थितः ||१४-३३-३ (९३२८३)
सोऽन्यस्य विषये राज्ञो वस्तुमिच्छाम्यहं विभो |
वचस्ते कर्तुमिच्छामि यथाशास्त्रं महीपते ||१४-३३-४ (९३२८४)
इत्युक्तस्तु तदा राजा ब्राह्मणेन यशस्विना |
मुहुरुष्णं विनिःस्वस्य न किञ्चित्प्रत्यभाषत ||१४-३३-५ (९३२८५)
तमासीनं ध्यायमानं राजानममितौजसम् |
कश्मलं सहसाऽगच्छद्भानुमन्तमिव ग्रहः ||१४-३३-६ (९३२८६)
समाश्वास्य ततो राजा विगते कश्यमे तदा |
ततो मूहूर्तादिव तं ब्राह्मणं वाक्यमब्रवीत् ||१४-३३-७ (९३२८७)
पितृपैतामहे राज्ये वश्ये जनपदे सति |
विषयं नाधिगच्छामि विचिन्वन्पृथिवीमहम् ||१४-३३-८ (९३२८८)
नाध्यगच्छं यदा पृथ्व्यां मिथिला मार्गिता मया |
नाध्यगच्छं यदा तस्यां स्वप्रजा मार्गिता मया ||१४-३३-९ (९३२८९)
नाध्यगच्छं यदा तस्यां तदा मे कश्मलोऽभवत् |
ततो मे कश्मलस्यान्ते मतिः पुनरुपस्थिता ||१४-३३-१० (९३२९०)
तदा न विषयं मन्ये सर्वो वा विषयो मम |
आत्माऽपि चायं न मम सर्वा वा पृथिवी मम ||१४-३३-११ (९३२९१)
यथा मम तथाऽन्येषामिति मन्ये द्विजोत्तम |
उष्यतां यावदुत्साहो भुज्यतां यावदिष्यते ||१४-३३-१२ (९३२९२)
ब्राह्मण उवाच. १४-३३-१३क्ष् (७८५०)
पितृपैतामहे राज्ये वश्ये जनपदे सति |
ब्रूहि कां मतिमास्थाय ममत्वं वर्जितं त्वया ||१४-३३-१३ (९३२९३)
कां वै बुद्धिं समाश्रित्य सर्वो वै विषयस्तव |
नावैषि विषयं येन सर्वो वा विषयस्तव ||१४-३३-१४ (९३२९४)
जनक उवाच. १४-३३-१५क्ष् (७८५१)
अन्तवन्त इहारम्भा विदिताः सर्वकर्मसु |
नाध्यगच्छमहं तस्मान्ममेदमिति यद्भवेत् ||१४-३३-१५ (९३२९५)
कस्येदमिति कस्य स्वमिति वेदवचस्तथा |
नाध्यगच्छमहं बुद्ध्या ममेदमिति यद्भवेत् ||१४-३३-१६ (९३२९६)
एतां बुद्धिं समाश्रित्य ममत्वं वर्जितं मया |
शृणु बुद्धिं च यां ज्ञात्वा सर्वत्र विषयो मम ||१४-३३-१७ (९३२९७)
नाहमात्मार्थमिच्छामि गन्धान्घ्राणगतानपि |
तस्मान्मे निर्जिता भूमिर्वशे तिष्ठति नित्यदा ||१४-३३-१८ (९३२९८)
नाहमात्मार्थमिच्छामि रसानास्येऽपि वर्ततः |
आपो मे निर्जितास्तस्माद्वशे तिष्ठन्ति नित्यदा ||१४-३३-१९ (९३२९९)
नाहमात्मार्थमिच्छामि रूपं ज्योतिश्च चक्षुषः |
तस्मान्मे निर्जितं ज्योतिर्वशे तिष्ठति नित्यदा ||१४-३३-२० (९३३००)
नाहमात्मार्थमिच्छामि स्पर्शांस्त्वचि गताश्च ये |
तस्मान्मे निर्जितो वायुर्वशे तिष्ठति नित्यदा ||१४-३३-२१ (९३३०१)
नाहमात्मार्थमिच्छामि शब्दाञ्श्रोत्रगतानपि |
आकाशं मे जितं तस्माद्वशे तिष्ठति नित्यदा ||१४-३३-२२ (९३३०२)
नाहमात्मार्थमिच्छामि मनो नित्यं मनोन्तरे |
मनो मे निर्जितं तस्माद्वशे तिष्ठति नित्यदा ||१४-३३-२३ (९३३०३)
देवेभ्यश्च पितृभ्यश्च भूतेभ्योऽतिथिभिः सह |
इत्यर्थं सर्व एवेति समारम्भा भवन्ति वै ||१४-३३-२४ (९३३०४)
ततः प्रहस्य जनकं ब्राह्मणः पुनरब्रवीत् |
त्वज्जिज्ञासार्थमद्येह विद्धि मां धर्ममागतम् ||१४-३३-२५ (९३३०५)
त्वमस्य ब्रह्मिनाभस्य दुर्वारस्यानिवर्तिनः |
सत्वनेमिनिरुद्धस्य चक्रस्यैकः प्रवर्तकः ||||१४-३३-२६ (९३३०६)
इति श्रीमन्महाभारते आश्वमेधिकपर्वणि अनुगीतापर्वणि
त्र्यस्त्रिंशोऽध्यायः ||३३ ||
Mahabharata -Ashvamedhika Parva -Chapter Footnotes
७-३३-१ अत्र लोभे निकृन्तनीये ||
७-३३-२ क्लान्तं कस्मिंश्चिदागमे इति द.पाठः ||
क्षान्तं कस्मिंश्चिदागमे इति क.ठ.थ.पाठः | शिष्यार्थमब्रवीदिति
पाठान्तरम् ||
आश्वमेधिकपर्व -अध्याय ०३४
||श्रीः ||
१४. ३४. अध्यायः ३४
अथानुगीतापर्व-२
Mahabharata -Ashvamedhika Parva -Chapter Topics
ब्राह्मणेन ब्राह्मणींप्रति स्वमाहात्म्यप्रकाशनम् ||१ ||
Mahabharata -Ashvamedhika Parva -Chapter Text
ब्राह्मण उवाच |
नाहं तथा भूरु चरामि लोके
यथा त्वं मां तर्जयसे स्वबुद्ध्या |
विप्रोस्मिं मुक्तोस्मि वनेचरोस्मि
गृहस्थधर्मा व्रतवांस्तथाऽस्मि ||१४-३४-१ (९३३०७)
नाहमस्मि यता मां त्वं पश्यसे च शुभाशुभे |
मया व्याप्तमिदं सर्वं यत्किञ्चिज्जगतीगतम् ||१४-३४-२ (९३३०८)
ये केचिज्जन्तवो लोके जङ्गमाः स्थावराश्च ह |
तेषां मामन्तकं विद्धि दारुणामिव पावकम् ||१४-३४-३ (९३३०९)
राज्ये पृथिव्यां सर्वस्यामथवापि त्रिविष्टपे |
तथा बुद्धिरियं वेत्ति बुद्धिरेव धनं मम ||१४-३४-४ (९३३१०)
एकः पन्था ब्राह्मणानां येन गच्छन्ति तद्विदः |
गृहेषु वनवासेषु गुरुवासेषु भिक्षुषु ||१४-३४-५ (९३३११)
लिङ्गैर्बहुभिरव्यग्रैरेका बुद्धिरुपास्यते |
नानालिङ्गाश्रमस्थानां येषां बुद्धिः शमात्मिका ||१४-३४-६ (९३३१२)
ते भावमेकमायान्ति सरितः सागरं यथा |
बुद्ध्याऽयं गम्यते मार्गः शरीरेणि न गम्यते |
आद्यन्तवन्ति कर्माणि शरीरं कर्मबन्धनम् ||१४-३४-७ (९३३१३)
तस्मान्मे सुभगे नास्ति परलोककृतं भयम् |
तद्भावभावनिरता ममैवात्मानमेष्यसि ||||१४-३४-८ (९३३१४)
इति श्रीमन्महाभारते आश्वमेधिकपर्वणि अनुगीतापर्वणि
चतुस्त्रिंशोऽध्यायः ||३४ ||
Mahabharata -Ashvamedhika Parva -Chapter Footnotes
७-३४-३ तेषामन्तर्गतं विद्धि इति क.ध.पाठः ||
७-३४-७ विद्ध्यान्तवन्ति कर्माणीति क.थ.पाठः ||
७-३४-८ तस्मात्ते सुभगे इति झ.पाठः | मद्भावभावनिरता
मामेवैष्यस्यथात्मनेति क.पाठः ||
आश्वमेधिकपर्व -अध्याय ०३५
||श्रीः ||
१४. ३५. अध्यायः ३५
अथानुगीतापर्व-२
Mahabharata -Ashvamedhika Parva -Chapter Topics
कृष्णेनार्जुनंप्रति ब्राह्मणीब्राह्मणशब्दनिर्दिष्टयोः क्रमेणि
बुद्धिमनस्त्वकथनम् ||१ ||
Mahabharata -Ashvamedhika Parva -Chapter Text
ब्राह्मण उवाच |
नेदमल्पात्मना शक्यं वेदितुं वाऽकृतात्मना |
बहु चाल्पं च संक्षिप्तं विस्तृतं च मतं मम ||१४-३५-१ (९३३१५)
उपायं तं मम ब्रूहि येनैषा लभ्यते मतिः |
तन्मन्ये कारणं कर्म यत एषा प्रवर्तते ||१४-३५-२ (९३३१६)
ब्राह्मण उवाच. १४-३५-३क्ष् (७८५२)
अरणीं ब्राह्मणीं विद्धि गुरुरस्योत्तरारणिः |
तपःश्रुतेभिमथिनी ज्ञानाग्निर्जायते ततः ||१४-३५-३ (९३३१७)
ब्राह्मणयुवाच. १४-३५-४क्ष् (७८५३)
यदिदं ब्रह्मणो लिङ्गं क्षेत्रज्ञ इति संज्ञितम् |
ग्रहीतुं येन यच्छक्यं लक्षणं तस्य तद्वद ||१४-३५-४ (९३३१८)
ब्राह्मण उवाच. १४-३५-५क्ष् (७८५४)
अलिङ्गो निर्गुणश्चैव कारणं नास्य विग्रहे |
उपायमेव वक्ष्यामि येन गृह्येत भावना ||१४-३५-५ (९३३१९)
सम्यगप्युपदिष्टस्य ह्यमृतस्येव तृप्यसे |
कर्मबुद्धिरबुद्धित्वाज्ज्ञानलिङ्गान्निपातितः. १४-३५-६ (९३३२०)
इदं कार्यमिदं नेति न मोक्षेषूपदिश्यते |
पश्यतः शृण्वतो बुद्धिरात्मनैवोपजायते ||१४-३५-७ (९३३२१)
यावन्त इह शक्येरंस्तावतोंऽसान्प्रकल्पयेत् |
अव्यक्तान्व्यक्तरूपांश्च शतशोऽथ सहस्रशः ||१४-३५-८ (९३३२२)
सर्वानुमानयुक्तांश्च सर्वान्प्रत्यक्षहेतुकान् |
यतः परं न विद्येत ततोऽभ्यासे भविष्यति ||१४-३५-९ (९३३२३)
श्रीभगवानुवाच. १४-३५-१०क्ष् (७८५५)
ततस्तु तस्या ब्राह्मण्या मतिः क्षेत्रज्ञसंशये |
क्षेत्रज्ञानेन परतः क्षेत्रज्ञोऽन्यः प्रवर्तते ||१४-३५-१० (९३३२४)
अर्जुन उवाच. १४-३५-११क्ष् (७८५६)
क्व नु सा ब्राह्मणि कृष्ण क्व चासौ ब्राह्मणर्षभः |
याभ्यां सिद्धिरियं प्राप्ता तावुभौ वद मेऽच्युत ||१४-३५-११ (९३३२५)
श्रीभगवानुवाच. १४-३५-१२क्ष् (७८५७)
मनो मे ब्राह्मणं विद्धि बुद्धिं मे विद्धि ब्राह्मणीम् |
क्षेत्रज्ञ इति यश्चोक्तः सोऽहमेव धनंजय ||||१४-३५-१२ (९३३२६)
इति श्रीमन्महाभारते आश्वमेधिकपर्वणि अनुगीतापर्वणि
पञ्चत्रिंशोऽध्यायः ||
Mahabharata -Ashvamedhika Parva -Chapter Footnotes
७-३५-६ सम्यगुपायो दृष्टश्च भ्रमरैरिव लक्ष्यत इति झ.पाठः ||
आश्वमेधिकपर्व -अध्याय ०३६
||श्रीः ||
१४. ३६. अध्यायः ३६
अथानुगीतापर्व-२
Mahabharata -Ashvamedhika Parva -Chapter Topics
कृष्णेनार्जुनंप्रति
परब्रह्मस्वरूपतत्प्राप्तिसाधनादिप्रतिपादकगुरुशिष्यसंवादानुवादः
||१ ||
Mahabharata -Ashvamedhika Parva -Chapter Text
अर्जुन उवाच |
ब्रह्म यत्परमं ज्ञेयं तन्मे व्याख्यातुमर्हसि |
भतो हि प्रसादेन सूक्ष्मे मे रमते मतिः ||१४-३६-१ (९३३२७)
वासुदेव उवाच. १४-३६-२क्ष् (७८५८)
अत्राप्युदाहरन्तीममितिहासं पुरातनम् |
संवादं मोक्षसंयुक्तं शिष्यस्य गुरुणा सह ||१४-३६-२ (९३३२८)
कश्चिद्ब्राह्मणमासीनमाचार्यं संशितव्रतम् |
शिष्यः पप्रच्छ मेधावी किंस्विच्छ्रेयः परंतप ||१४-३६-३ (९३३२९)
भगवन्तं प्रपन्नोऽहं निःश्रेयसपराणः |
याचे त्वां शिरसा विप्र यद्ब्रूयां ब्रूहि तन्मम ||१४-३६-४ (९३३३०)
तमेवंवादिनं पार्थ शिष्यं गुरुरुवाच ह |
कथयस्व प्रवक्ष्यामि यत्र ते संशयो द्विज ||१४-३६-५ (९३३३१)
इत्युक्तः स कुरुश्रेष्ठ गुरुणा गुरुवत्सलः |
प्राञ्जलिः परिपप्रच्छ यत्तच्छृणु महामते ||१४-३६-६ (९३३३२)
शिष्य उवाच. १४-३६-७क्ष् (७८५९)
कुतश्चाहं कुतश्च त्वं तत्सत्यं ब्रूहि यत्परम् |
कुतो जातानि भूतानि स्थावराणि चराणि च ||१४-३६-७ (९३३३३)
केन जीवन्ति भूतानि तेषामायुश्च किं परम् |
किं सत्यं किं तपो विप्र के गुणाः सद्भिरीरिताः ||१४-३६-८ (९३३३४)
के पन्थानः शिवाश्च स्युः किं सुखं कि च दुष्कृतम् |
एतान्मे भगवन्प्रश्नान्याथातथ्येन सुव्रत ||१४-३६-९ (९३३३५)
वक्तुमर्हसि विप्रर्षे यथावदिह तत्त्वतः |
त्वदन्यः कश्च न प्रश्नानेतान्वक्तुमिहार्हति ||१४-३६-१० (९३३३६)
ब्रूहि धर्मविदां श्रेष्ठ परं कौतूहलं मम |
मोक्षधर्मार्थकुशलो भवाँल्लोकषु गीयते ||१४-३६-११ (९३३३७)
सर्वसंशयसंच्छेत्ता त्वदन्यो न च विद्यते |
संसारभीरवश्चैव मोक्षकामास्तथा वयम् ||१४-३६-१२ (९३३३८)
वासुदेव उवाच. १४-३६-१३क्ष् (७८६०)
तस्मै सम्प्रतिपन्नाय यथावत्परिपृच्छते |
शिष्याय गुणयुक्ताय शान्ताय गुरुवर्तिने ||१४-३६-१३ (९३३३९)
छायाभूताय दान्ताय यतते ब्रह्माचारिणे |
तान्प्रश्नानब्रवीत्पार्थ मेधावी स धृतव्रतः |
गुरुः कुरुकुलश्रेष्ठ सम्यक्सर्वानरिंदम ||१४-३६-१४ (९३३४०)
गुरुरुवाच. १४-३६-१५क्ष् (७८६१)
ब्रह्मणोक्तमिदं धर्ममृषिप्रवरसेवितम् |
वेदविद्यासमावाप्तं तत्त्वभूतार्थभावनम् ||१४-३६-१५ (९३३४१)
ज्ञानं त्वेव परं विद्यः संन्यासं तप उत्तमम् |
यस्तु वेद निराबाधं ज्ञानतत्त्वं विनिश्चयात् |
सर्वबूतस्थमात्मानं स सर्वगतिरिष्यते ||१४-३६-१६ (९३३४२)
ये विद्वान्सहसंवासं विवासं चैव पश्यति |
तथैवैकत्वनानात्वे स दुःखात्परिमुच्यते ||१४-३६-१७ (९३३४३)
यो न कामयते किञ्चिन्न किञ्चिदभिमन्यते |
इह लोकस्थ एवैष ब्रह्मभूयाय कल्पते ||१४-३६-१८ (९३३४४)
प्रधानगुणतत्त्वज्ञः सर्वभूतविधानवित् |
निर्ममो निरहङ्कारो मुच्यते नात्र संशयः ||१४-३६-१९ (९३३४५)
अव्यक्तबीजप्रभवो बुद्धिस्कन्धमयो महान् |
महाहङ्कारविटप इन्द्रियाङ्कुरकोटरः ||१४-३६-२० (९३३४६)
महाभूतविशेषश्च विशेषप्रतिशाखवान् |
सदापर्णः सदापुष्पः शुभाशुभफलोदयः ||१४-३६-२१ (९३३४७)
आजीवः सर्वभूतानां ब्रह्मबीजः सनातनः |
एतज्ज्ञात्वा च तत्त्वानि ज्ञानेन परमासिना |
छित्त्वा चामरतां प्राप्य जहाति मृत्युजन्मनी ||१४-३६-२२ (९३३४८)
भूतभव्यभविष्यादिधर्मकामार्थनिश्चयम् |
सिद्धसङ्घपरिज्ञातं पुराकल्पं सनातनम् ||१४-३६-२३ (९३३४९)
प्रवक्ष्येऽहं महाप्राज्ञ पदमुत्तममद्य ते |
बुद्ध्वा यदिहं संसिद्धा भवन्तीह मनीषिणः ||१४-३६-२४ (९३३५०)
उपगम्यर्षयः पूर्वं जिज्ञासन्तः परस्परम् |
प्रजापतिभरद्वाजौ गौतमो भार्गवस्तथा ||१४-३६-२५ (९३३५१)
वसिष्ठः कश्यपश्चैव विश्वामित्रोऽत्रिरेव च |
मार्गान्सर्वान्परिक्रम्य परिश्रान्तः स्वकर्मभिः ||१४-३६-२६ (९३३५२)
ऋषिमाङ्गिरसं वृद्धं पुरस्कृत्य तु ते द्विजाः |
ददृशुर्ब्रह्मभवने ब्रह्माणं वीतकल्मषम् ||१४-३६-२७ (९३३५३)
तं प्रणम्य महात्मानं सुखासीनं महर्षयः |
पप्रच्छुर्विनयोपेता नैःश्रेयसमिदं परम् ||१४-३६-२८ (९३३५४)
कथं कर्म कृतं साधु कथं मुच्येत किल्बिषात् |
के नो मार्गाः शिवाश्च स्युः किं सत्यं किं च दुष्कृतं ||१४-३६-२९
(९३३५५)
कौ चोभौ कर्मणां मार्गौ प्राप्नुयुर्दक्षिणोत्तरौ |
निरयं चापवर्गं च भूतानां प्रभवाप्ययौ ||१४-३६-३० (९३३५६)
इत्युक्तः स मुनिश्रेष्ठैर्यदाह प्रपितामहः |
तत्तेऽहं सम्प्रवक्ष्यामि शृणु शिष्य यथागमम् ||१४-३६-३१ (९३३५७)
ब्रह्मोवाच. १४-३६-३२क्ष् (७८६२)
सत्याद्भूतानि जातानि स्थावराणि चराणि च |
तपसा तानि जीवन्ति जीवितं तद्धि सुव्रतम् |
स्वां योनिं पुनरागम्य वर्तते स्वेन कर्मणा ||१४-३६-३२ (९३३५८)
सत्यं हि गुणसंयुक्तं नियतं पञ्चलक्षणम् ||१४-३६-३३ (९३३५९)
ब्रह्म सत्यं तपः सत्यं सत्यं चैव प्रजापतिः |
सत्याद्भूतानि जातानि सत्यं भूतमयं जगत् ||१४-३६-३४ (९३३६०)
तस्मात्सत्याश्रया विप्रा नित्यं योगपरायणाः |
अतीक्रोधसंतापा नियता धर्मसेतवः ||१४-३६-३५ (९३३६१)
अन्योन्यनियतान्वैद्यान्धर्मसेतुप्रवर्तकान् |
तानहं सम्प्रवक्ष्यामि शाश्वताँल्लोकभावनान् ||१४-३६-३६ (९३३६२)
चातुर्विद्यं तथा वर्णांश्चातुराश्रमिकान्पृथक् |
धर्ममेकं चतुष्पादं नित्यमाहुर्मनीषिणः ||१४-३६-३७ (९३३६३)
पन्थानं वः प्रवक्ष्यामि शिवं क्षेमकरं द्विजाः |
नियतं ब्रह्मभावाय यातं पूर्वं मनीषिभिः ||१४-३६-३८ (९३३६४)
गदन्तस्तु ममाद्येह पन्थानं दुर्विदं परैः |
निबोधत महाभागा निखिलेन परं पदम् ||१४-३६-३९ (९३३६५)
ब्रह्मचर्यमिहैवाहुराश्रमं प्रथमं पदम् |
गार्हस्थ्यं तु द्वितीयं स्याद्वानप्रस्थमतः परम् |
ततः परं तु विज्ञेयमध्यात्मं परमं पदम् ||१४-३६-४० (९३३६६)
ज्योतिराकाशमादित्यो वायुरिन्द्रः प्रजापतिः |
नोपैति यावदध्यात्मं तावदेतान्न पश्यति ||१४-३६-४१ (९३३६७)
तस्योपायं प्रवक्ष्यामि पुरस्तात्तं निबोधत |
फलमूलानिलभुजां मुनीनां वसतां वने ||१४-३६-४२ (९३३६८)
वानप्रस्थं द्विजातीनां त्रयाणामुपदिश्यते |
सर्वेषामेव वर्णानां गृहस्थोऽयं विशिष्यते ||१४-३६-४३ (९३३६९)
श्रद्धालक्षणमित्येकं धर्मं धीराः प्रचक्षते |
' नैष्ठिकोऽथ यतिर्वाऽपि विरक्तो ब्रह्मदर्शनः ||' १४-३६-४४ (९३३७०)
इत्येवं देवयाना वः पन्थानः परिकीर्तिताः |
सद्भिरध्यासिता धीरैः कर्मभिर्धर्मसेतवः ||१४-३६-४५ (९३३७१)
एतेषां पृथगध्यास्ते यो धर्मं संशितव्रतः |
कालात्पश्यति भूतानां सदैव प्रभवाप्ययौ ||१४-३६-४६ (९३३७२)
अतस्तत्त्वानि वक्ष्यामि याथातथ्येन हेतुना |
विषयस्थानि सर्वाणि वर्तमानानि भागशः ||१४-३६-४७ (९३३७३)
महानात्मा तथाऽव्यक्तमहंकारस्तथैव च |
इन्द्रियाणि दशैकं च महाभूतानि पञ्च च ||१४-३६-४८ (९३३७४)
विशेषाः पञ्चभूतानामित्येषा वैदिकी श्रुतिः |
चतुर्विंशतिरेषा वस्तत्वानां परिकीर्तिता ||१४-३६-४९ (९३३७५)
तत्वानामथ यो वेद सर्वेषां प्रभवाप्ययौ |
स धीरः सर्वभूतेषु न मोऽहमधिगच्छति ||१४-३६-५० (९३३७६)
तत्त्वानि यो वेदयते यथातथं
गुणांश्च सर्वानखिलाश्च देवताः |
विधूतपाप्मा प्रविमुच्य बन्धनं
स सर्वलोकानमलान्समश्नुते ||||१४-३६-५१ (९३३७७)
इति श्रीमन्महाभारते आश्वमेधिकपर्वणि अनुगीतापर्वणि
षट्त्रिंशोऽध्यायः ||
Mahabharata -Ashvamedhika Parva -Chapter Footnotes
७-३६-१० कश्च कोऽपि ||
७-३६-२९ कथं कर्म क्रियात्साद्यु इति झ
. झ.पाठः. क्रियात्कुर्वीत. के. नोऽस्माकम् ||
७-३६-४३ गार्हस्थ्यं तद्विधीयते इति झ.पाठः ||
आश्वमेधिकपर्व -अध्याय ०३७
||श्रीः ||
१४. ३७. अध्यायः ३७
अथानुगीतापर्व-२
Mahabharata -Ashvamedhika Parva -Chapter Topics
ब्रह्मणा कश्यपादिमहर्षीन्प्रति तमोगुणकार्यनिरूपणम् ||१ ||
Mahabharata -Ashvamedhika Parva -Chapter Text
ब्रह्मोवाच |
तदव्यक्तमनुद्रिक्तं सर्वव्यापि ध्रुवं स्थिरम् |
नवद्वारं पुरं विद्यात्त्रिगुणं पञ्चधातुकम् ||१४-३७-१ (९३३७८)
एकादशपरिक्षेपं मनोव्याकरणात्मकम् |
बुद्धिस्वामिकमित्येतत्परमेकादशं भवेत् ||१४-३७-२ (९३३७९)
त्रीणि स्रोतांसि यान्यस्मिन्नाप्यायन्ते पुनःपुनः |
प्रनाड्यस्तिस्र एवैताः प्रवर्न्तते गुणात्मिकाः ||१४-३७-३ (९३३८०)
तमो रजस्तथा सत्वं गुणानेतान्प्रचक्षते |
अन्योन्यमिथुनाः सर्वे तथाऽन्योन्यानुजीविनः ||१४-३७-४ (९३३८१)
अन्योन्यापाश्रयाश्चापि तथाऽन्योन्यानुवर्तिनः |
अन्योन्यव्यतिषक्ताश्च त्रिगुणाः पञ्चधातवः ||१४-३७-५ (९३३८२)
तमसो मिथुनं सत्वं सत्वस्य मिथुनं रजः |
रजसश्चापि सत्वं स्यात्सत्वस्य मिथुनं तमः ||१४-३७-६ (९३३८३)
नियम्यते तमो यत्र रजस्तत्र निवर्तते |
नियम्यते रजो यत्र सत्वं तत्र प्रवर्तते ||१४-३७-७ (९३३८४)
नैशात्मकं तमो विद्यात्त्रिगुणं मोहसंज्ञितम् |
अधर्मलक्षणं चैव नियतं पापकर्मसु |
तामसं रूपमेतत्तु दृश्यते चापि सङ्गतम् ||१४-३७-८ (९३३८५)
प्रकृत्यात्मकमेवाहू रजः पर्यायकारकम् |
सत्त्वे तु सर्वभूतेषु दृश्यमुत्पत्तिलक्षणम् ||१४-३७-९ (९३३८६)
प्रकाशं सर्वभूतेषु लाघवं श्रद्धधानता |
सात्विकं रूपमेवं तु लाघवं साधुसंमितम् ||१४-३७-१० (९३३८७)
एतेषां गुणतत्त्वानि वक्ष्यन्ते तत्त्वहेतुभिः |
समासव्यासयुक्तानि तत्त्वतस्तानि बोधत ||१४-३७-११ (९३३८८)
सम्मोहो ज्ञानमत्यागः कर्मणामविनिर्णयः |
स्वप्नः स्तंभो भयं लोभः शोकः सुकृतदूषणम् ||१४-३७-१२ (९३३८९)
अस्मृतिश्चाविपाकश्च नास्तिक्यं भिन्नवृत्तिता |
निर्विशेषत्वमन्धत्वं जघन्यगुणवृत्तिता ||१४-३७-१३ (९३३९०)
अकृते कृतमानित्वमज्ञाने ज्ञानमानिता |
अमैत्री विकृतो भावो ह्यश्रद्धा मूढभावना ||१४-३७-१४ (९३३९१)
अनार्जवमसंज्ञत्वं कर्म पापमचेतना |
गुरुत्वं सन्नभावत्वमवशित्वमवाग्गतिः ||१४-३७-१५ (९३३९२)
सर्व एते गुणा वृत्तास्तामसाः सम्प्रकीर्तिताः |
ये चान्ये विहिता भावा लोकेऽस्मिन्भावसंज्ञिताः ||१४-३७-१६ (९३३९३)
तत्रतत्र नियम्यन्ते सर्वे ते तामसा गुणाः |
परिवादकथा नित्यं मेवब्राह्मणवैरिता ||१४-३७-१७ (९३३९४)
अत्यागश्चातिमानश्च मोहो मन्युस्तथाऽक्षमा |
मत्सरश्चैव भूतेषु तामसं वृत्तमिष्यते ||१४-३७-१८ (९३३९५)
वृथारम्भा हि ये केचिद्वृथा दानानि यानि च |
वृथाभक्षणमित्येतत्तामसं वृत्तमिष्यते ||१४-३७-१९ (९३३९६)
अतिवादोऽतितिक्षा च मात्सर्यमभिमानिता |
अश्रद्दधानता चैव तामसं वृत्तमिष्यते ||१४-३७-२० (९३३९७)
एवंविधाश्च ये केचिल्लोकेऽस्मिन्पापकर्मिणः |
मनुष्या भिन्नमर्यादास्ते सर्वे तामसाः स्मृताः ||१४-३७-२१ (९३३९८)
तेषां योनीः प्रवक्ष्यामि नियताः पापकर्मिणाम् |
अवाङ्निरयभावा ये तिर्यङ्निरयगामिनः. १४-३७-२२ (९३३९९)
स्थावराणि च भूतानि पशवो वाहनानि च |
क्रव्यादा दंदशूकाश्च कृमिकीटविहङ्गमाः ||१४-३७-२३ (९३४००)
अब्जाता जन्तवश्चैव सर्वे चापि चतुष्पदाः |
उन्मत्ता बधिरा मूका ये चान्ये पापरोगिणः ||१४-३७-२४ (९३४०१)
मग्नास्तमसि दुर्वृत्ताः स्वकर्मकृतलक्षणाः |
अवाक्स्रोतस इत्येते मग्नास्तमसि तामसाः ||१४-३७-२५ (९३४०२)
तेषामुत्कर्षमुद्रेकं वक्ष्याम्यहमतः परम् |
यथा ते सुकृतां लोकाँल्लभन्ते पुण्यकर्मिणः ||१४-३७-२६ (९३४०३)
अन्यथा प्रतिपन्नास्तु विवृद्धा ये च कर्मसु |
स्वकर्मनिरतानां च ब्राह्मणानां शुभैषिणाम् ||१४-३७-२७ (९३४०४)
संस्कारेणोर्ध्वमायान्ति यतमानाः सलोकताम् |
स्वर्गे गच्छन्ति देवानामित्येषा वैदिकी श्रुतिः ||१४-३७-२८ (९३४०५)
अन्यथा प्रतिपन्नास्ते विबुद्धाः स्वेषु कर्मसु |
पुनरावृत्तिधर्माणस्ते भवन्तीह मानुषाः ||१४-३७-२९ (९३४०६)
पापयोनिं समापन्नाश्चण्डाला मूकचूचुकाः ||
वर्णान्पर्यायशश्चापि प्राप्नुवन्त्युत्तरोत्तरम् ||१४-३७-३० (९३४०७)
शूद्रयोनिमतिक्रम्य ये चान्ये तामसा गुणाः |
स्रोतोमध्ये समागम्य वर्तन्ते तामसे गुणे ||१४-३७-३१ (९३४०८)
अभिष्वङ्गस्तु कामेषु महामोह इति स्मृतः |
ऋषयो मुनयो देवा मुह्यन्त्यत्र सुखेप्सवः ||१४-३७-३२ (९३४०९)
तमोमोहो महामोहस्तामिस्रो ह्यन्धसंज्ञितः |
मरणं त्वन्धतामिस्रस्तामिस्रः क्रोध उच्यते ||१४-३७-३३ (९३४१०)
वर्णतो गुणतश्चैव योनितश्चैव तत्त्वतः |
सर्वमेततमो विप्राः कीर्तितं वो यथाविधि ||१४-३७-३४ (९३४११)
को न्वेतद्बुध्यते साधु को न्वेतत्साधु पश्यति |
अतत्त्वे तत्त्वदर्शी यस्तमसस्तच्च लक्षणम् ||१४-३७-३५ (९३४१२)
तमोगुणा बहुविधाः प्रकीर्तिता
यथावदुक्तं च तमः परावरम् |
नरो हि यो वेद गुणानिमान्सदा
स तामसैः सर्वगुणैः प्रमुच्यते ||||१४-३७-३६ (९३४१३)
इति श्रीमन्महाभारते आश्वमेधिकपर्वणि अनुगीतापर्वणि
सप्तत्रिंशोऽध्यायः ||३७ ||
Mahabharata -Ashvamedhika Parva -Chapter Footnotes
७-३७-२४ अण्डजा जन्तव इति झ.पाठः ||
७-३७-३० चूचुकाः स्खलद्गिरः | पुष्पचूचुका इति क.पाठः ||
७-३७-३२ कामेषु स्त्र्याद्यर्थेषु | अभिष्वङ्ग आसक्तिः ||
आश्वमेधिकपर्व -अध्याय ०३८
||श्रीः ||
१४. ३८. अध्यायः ३८
अथानुगीतापर्व-२
Mahabharata -Ashvamedhika Parva -Chapter Topics
ब्रह्मण महर्षीन्प्रति रजोगुणकार्यनिरूपणम् ||१ ||
Mahabharata -Ashvamedhika Parva -Chapter Text
ब्रह्मोवाच |
रजोऽहं वः प्रवक्ष्यामि याथातथ्येन सत्तमाः |
निबोधत महाभागा गुणवृत्तं च राजसम् ||१४-३८-१ (९३४१४)
संतापो रूपमायासः सुखदुःखे हिमातपौ |
ऐश्वर्यं विग्रहः सिद्धिर्हेतुवादोऽरतिः क्षमा ||१४-३८-२ (९३४१५)
बलं शौर्यं मदो रोषो व्यायामकलहावपि |
ईर्ष्येप्सा पैशुनं युद्धं ममत्वं परिपालनम् ||१४-३८-३ (९३४१६)
वधबन्धपरिक्लेशाः क्रयो विक्रय एव च |
निकृन्त च्छिन्धि भिन्धीति परवर्मावकर्तनम् ||१४-३८-४ (९३४१७)
उग्रं दारुणमाक्रोशः परवित्तानुरागिता |
लोकचिन्ताऽनुचिन्ता च मत्सरः परिभाषणम् ||१४-३८-५ (९३४१८)
वृथाशास्त्रं मृषावादो विकल्पपरिभाषणम् |
निन्दा स्तुतिः प्रशंसा च प्रतापः परिधर्षणम् ||१४-३८-६ (९३४१९)
परिचर्या च शुश्रूषा सेवा तृष्णा व्यपाश्रयः ||
व्यूहो नयः प्रमादश्च परिवादः परिग्रहः ||१४-३८-७ (९३४२०)
संस्कारा ये च लोकेषु प्रवर्तन्ते पृथक्पृथक् |
नृषु नारीषु भूतेषु द्रव्येषु शरणेषु च ||१४-३८-८ (९३४२१)
संतापोऽप्रत्ययश्चैव व्रतानि नियमाश्च ये |
प्रधानमाशीर्युक्तं च सततं मे भवत्विति ||१४-३८-९ (९३४२२)
स्वाहाकारो नमस्कारः स्वधाकारो वषट्क्रिया |
याजनाध्यापने चोभे यजनाध्ययने अपि ||१४-३८-१० (९३४२३)
दानं प्रतिग्रहश्चैव प्रायश्चित्तानि मङ्गलम् |
इदं मे स्यादिदं मे स्यात्स्नेहो गुणसमुद्भवः ||१४-३८-११ (९३४२४)
अभिद्रोहस्तथा माया निकृतिर्मान एव च |
स्तैन्यं हिंसा जुगुप्सा च परितापः प्रजागरः ||१४-३८-१२ (९३४२५)
दम्भो दर्पोऽथ रागश्च भक्तिः प्रीतिः प्रमोदनम् |
द्यूतं च जनवादश्च सम्बन्धाः स्त्रीकृताश्च ये ||१४-३८-१३ (९३४२६)
नृत्यवादित्रगीतानां प्रसङ्गा ये च केचन |
सर्व एते गुणा विप्रा राजसाः सम्प्रकीर्तिताः ||१४-३८-१४ (९३४२७)
भूतभव्यभविष्याणां भावानां भुवि भावनाः |
त्रिवर्गनिरता नित्यं धर्मोऽर्थः काम इत्यपि ||१४-३८-१५ (९३४२८)
कामवृत्ताः प्रमोदन्ते सर्वकामसमृद्धिभिः |
अर्वाक्स्रोतस इत्येते मनुष्या रजसा वृताः ||१४-३८-१६ (९३४२९)
अस्मिँलोके प्रमोदन्ते जायमानाः पुनःपनः |
प्रेत्यभाविकमीहन्ते हलौकिकमेव च |
ददति प्रतिगृह्णन्ति तर्पयन्त्यथ जुह्वति ||१४-३८-१७ (९३४३०)
रजोगुणा वो बहुधानुकीर्तिता
यथावदुक्तं गुणवृत्तमेव च |
नरोपि यो वेद गुणानिमान्सदा
स राजसैः सर्वगुणैर्विमुच्यते ||||१४-३८-१८ (९३४३१)
इति श्रीमन्महाभारते आश्वमेधिकपर्वणि अनुगीतापर्वणि
अष्टत्रिंशोऽध्यायः ||३८ ||
Mahabharata -Ashvamedhika Parva -Chapter Footnotes
७-३८-२ संघातो रूपमायास इति क.ट.थ.पाठः ||
७-३८-५ उग्रं निष्टुरं दारुणं हिंस्रत्वम् ||
७-३८-६ परिभाषणं धिक्कृत्य भाषणम् ||
७-३८-७ व्यूहः व्यवहाररचनाकौशलम् ||
७-३८-८ शरणेषु रक्षितृषु ||
७-३८-९ अप्रत्ययः अविश्वासः ||
७-३८-१२ परितापः स्वजनकैवल्यनिमित्तो दाहः | पाठान्तरे परिवादः
सर्वनिन्दा ||
७-३८-१४ प्रसङ्गा येन केनचिदिति क.थ.पाठः ||
७-३८-१६ अर्वाक् स्वर्गादधः भूमेरुपरि स्रोतः प्रवाहो येषां ते तथा ||
७-३८-१७ प्रेत्यभाविकं जन्मान्तरीयं कुशलम् ||
आश्वमेधिकपर्व -अध्याय ०३९
||श्रीः ||
१४. ३९. अध्यायः ३९
अथानुगीतापर्व-२
Mahabharata -Ashvamedhika Parva -Chapter Topics
ब्रह्मणा महर्षीन्प्रति सत्वगुणकार्यनिरूपणम् ||१ ||
Mahabharata -Ashvamedhika Parva -Chapter Text
ब्रह्मोवाच |
अतः परं प्रवक्ष्यामि तृतीयं गुणमुत्तमम् |
सर्वभूतहितं लोके सतां धर्ममनिन्दितम् ||१४-३९-१ (९३४३२)
आनन्दः प्रीतिरुद्रेकः प्राकाश्यं सुखमेव च |
अकार्पण्यमसंरम्भः संतोषः श्रद्दधानता ||१४-३९-२ (९३४३३)
क्षमा धृतिरहिंसा च समता सत्यमार्जवम् |
अक्रोधश्चानसूया च शौचं दाक्ष्यं पराक्रमः ||१४-३९-३ (९३४३४)
मुधाज्ञानं मुधावृत्तं मुधासेवा मुदाश्रमः |
एवं यो युक्तधर्मः स्यात्सोमुत्रात्यन्तमश्नुते ||१४-३९-४ (९३४३५)
निर्ममो निरहङ्कारो निराशीः सर्वतः समः |
अकामहत इत्येव सतां धर्मः सनातनः ||१४-३९-५ (९३४३६)
विश्रंभो ह्रीस्तितिक्षा च त्यागः शौचमतन्द्रिता |
आनृशंस्यमसंमोहो दया भूतेष्वपैशुनम् ||१४-३९-६ (९३४३७)
हर्षस्तुष्टिर्विस्मयश्च विनयः साधुवृत्तिता |
शान्तिकर्मविशुद्धिश्च भावशुद्धिर्विमोचनम् ||१४-३९-७ (९३४३८)
उपेक्षा ब्रह्मचर्यं च परित्यागश्च सर्वशः |
निर्ममत्वमनाशीष्ट्वमपरिक्षतधर्मता ||१४-३९-८ (९३४३९)
मुधादानं मुधायज्ञो मुधाधीतं मुधाव्रतम् |
मुधाप्रतिग्रहश्चैव मधाध्रमो मुधातपः ||१४-३९-९ (९३४४०)
एवंवृत्तास्तु ये केचिल्लोकेऽस्मिन्सत्वसंश्रयाः |
ब्राह्मणा ब्रह्मयोनिस्थास्ते धीराः साधुदर्शिनः ||१४-३९-१० (९३४४१)
हित्वा सर्वाणि पापानि निःशोका ह्यजरामराः |
दिव्यं प्राप्य तु ते धीराः कुर्वते वै ततस्तनूः ||१४-३९-११ (९३४४२)
ईशित्वं च वशित्वं च लघुत्वं चाणुता तथा |
विकुर्वते महात्मानो देवास्त्रिदिवगा इव ||१४-३९-१२ (९३४४३)
ऊर्ध्वस्रोतस इत्येते देवा वैकारिकाः स्मृताः |
विकुर्वन्तः प्रकृत्या वै दिवं प्राप्तास्ततस्ततः ||१४-३९-१३ (९३४४४)
यद्यदिच्छन्ति तत्सर्वं भजन्ते विभजन्ति च |
इत्येतत्सात्विकं वृत्तं कथितं वो द्विजर्षभाः |
एतद्विज्ञाय लभते विधिवद्यद्यदिच्छति ||१४-३९-१४ (९३४४५)
प्रकीर्तिताः सत्त्वगुणा विशेषतो
यथावदुक्तं गुणवृत्तमेव च |
नरस्तु यो वेद गुणानिमान्सदा
गुणान्स भुङ्क्ते न गुणैः स युज्यते ||||१४-३९-१५ (९३४४६)
इति श्रीमन्महाभारते आश्वमेधिकपर्वणि अनुगीतापर्वणि
एकोनचत्वारिंशोऽध्यायः ||३९ ||
Mahabharata -Ashvamedhika Parva -Chapter Footnotes
७-३९-७ हर्षः पुत्रजन्मादिजं सुखम् | तुष्टिरलबुद्धिः. शान्तिकर्मणि
मुक्त्युपाये शुद्धिः आर्जवेन प्रवृत्तिः ||
७-३९-८ उपेक्षा औदासीन्यम् ||
आश्वमेधिकपर्व -अध्याय ०४०
||श्रीः ||
१४. ४०. अध्यायः ४०
अथानुगीतापर्व-२
Mahabharata -Ashvamedhika Parva -Chapter Topics
ब्रह्मणा महर्षीन्प्रति सत्वादिगुणत्रयनिरूपणम् ||१ ||
Mahabharata -Ashvamedhika Parva -Chapter Text
ब्रह्मोवाच |
नैव शक्या गुणा वक्तुं पृथक्त्वेनैव सर्वशः |
अविच्छिन्नानि दृश्यन्ते रजः सत्वं तमस्तथा ||१४-४०-१ (९३४४७)
अन्योन्यमनुरज्यन्ते ह्यन्योन्येनानुजीविनः |
अन्योन्यापाश्रयाः सर्वे तथाऽन्योन्यानुवर्तिनः ||१४-४०-२ (९३४४८)
यावत्सत्वं रजस्तावद्वर्तते नात्र संशयः |
यावत्तमश्च सत्वं च रजस्तावदिहोच्यते ||१४-४०-३ (९३४४९)
संहत्य कुर्वते यात्रां सहिताः सङ्घचारिणः |
सङ्घातवृत्तयो ह्येते वर्तन्ते हेत्वहेतुभिः ||१४-४०-४ (९३४५०)
उद्रेकव्यतिरिक्तानां तेषामन्योन्यवर्तिनाम् |
वक्ष्यते तद्यथाऽन्यूनं व्यतिरिक्तं च सर्वशः ||१४-४०-५ (९३४५१)
व्यतिरिक्तं तमो यत्र तिर्यग्भावगतं भवेत् |
अल्पं तत्रथ रजो ज्ञेयं सत्वमल्पतरं तथा ||१४-४०-६ (९३४५२)
उद्रिक्तं च रजो यत्र मध्यस्रोतोगतं भवेत् |
अल्पं तत्र तमो ज्ञेयं सत्वमल्पतरं तथा ||१४-४०-७ (९३४५३)
उद्रिक्तं च यदा सत्वमूर्ध्वस्रोतोगतं भवेत् |
अल्पं तत्र तमो ज्ञेयं रजश्चाल्पतरं तथा ||१४-४०-८ (९३४५४)
सत्वं वैकारिकी योनिरिन्द्रियाणां प्रकाशिका |
न हि सत्वात्परो भावः कश्चिदन्यो विधीयते ||१४-४०-९ (९३४५५)
ऊर्ध्वं गच्छन्ति सत्वस्था मध्ये तिष्ठन्ति राजसाः |
जघन्यगुणसंयुक्ता यान्त्यधस्तामसा जनाः ||१४-४०-१० (९३४५६)
तमः शूद्रे रजः क्षत्रे ब्राह्मणे सत्वमुत्तमम् |
इत्येवं त्रिषु वर्णेषु विवर्तन्ते गुणास्त्रयः ||१४-४०-११ (९३४५७)
दूरादपि हि दृश्यनते सहिताः सङ्घचारिणः |
तमः सत्वं रजश्चैव पृथक्त्वेनानुशुश्रुम ||१४-४०-१२ (९३४५८)
दृष्ट्वा त्वादित्यमुद्यन्तं कुचोराणां भयं भवेत् |
अध्वगाः परितप्येयुरुष्णतो दुःखभागिनः ||१४-४०-१३ (९३४५९)
आदित्यः सत्वमुद्दिष्टः कुचोरास्तु तथा तमः |
परितापोऽध्वगानां च रजसो गुण उच्यते ||१४-४०-१४ (९३४६०)
प्राकाश्यं सत्वमादित्यः संतापो रजसो गुणः |
उपप्लवस्तु विज्ञेयस्तामसस्तस्य पर्वसु ||१४-४०-१५ (९३४६१)
एवं ज्योतिष्षु सर्वेषु प्रवर्तन्ते गुणास्त्रयः ||
पर्यायेण च वर्न्तते तत्रतत्र तथातथा ||१४-४०-१६ (९३४६२)
स्थावरेषु तु भावेषु तिर्यग्भावगतं तमः |
राजसास्तु विवर्तन्ते स्नेहभावस्तु सात्विकैः ||१४-४०-१७ (९३४६३)
अहस्त्रिधा तु विज्ञेयं त्रिधा रात्रिर्विधीयते |
मासार्दमासवर्षाणि ऋतवः सन्धयस्तथा ||१४-४०-१८ (९३४६४)
त्रिधा दानानि दीयन्ते त्रिधा यज्ञः प्रवर्तते |
त्रिधा लोकास्त्रिधा देवास्त्रिधा विद्यास्त्रिधा गतिः ||१४-४०-१९ (९३४६५)
भूतं भव्यं भविष्यं च धर्मोऽर्थः काम एव च |
प्राणापानावुदानश्चाप्येत एव त्रयो गुणाः ||१४-४०-२० (९३४६६)
पर्यायेण प्रवर्तन्ते तत्रतत्र तथातथा |
यत्किञ्चिदिह लोकेऽस्मिन्सर्वमेते त्रयो गुणाः ||१४-४०-२१ (९३४६७)
त्रयो गुणाः प्रवर्तन्ते ह्यव्यक्ता नित्यमेव तु |
सत्वं रजस्तमश्चैव गुणसर्गः सनातनः ||१४-४०-२२ (९३४६८)
तमोऽव्यक्तं शिवं धाम रजो योनिः सनातनः |
प्रकृतिर्विकारः प्रलयः प्रधानं प्रभवाप्ययौ ||१४-४०-२३ (९३४६९)
अनुद्रिक्तमनूनं वाऽप्यकम्पमचलं ध्रुवम् |
सदसच्चैव तत्सर्वमव्यक्तं त्रिगुणं स्मृतम् |
ज्ञेयानि नामधेयानि नरैरद्यात्मचिन्तकैः ||१४-४०-२४ (९३४७०)
अव्यक्तनामानि गुणांश्च तत्त्वतो
यो वेद सर्वाणि गतीश्च केवलाः |
विमुक्तदेहः प्रविभागतत्त्ववि-
त्स मुच्यते सर्वगुणैर्निरामयः ||||१४-४०-२५ (९३४७१)
इति श्रीमन्महाभारते आश्वमेधिकपर्वणि अनुगीतापर्वणि
चत्वारिंशोऽध्यायः ||४० ||
आश्वमेधिकपर्व -अध्याय ०४१
||श्रीः ||
१४. ४१. अध्यायः ४१
अथानुगीतापर्व-२
Mahabharata -Ashvamedhika Parva -Chapter Topics
ब्रह्मणा महर्षीन्प्रति महदहङ्कारतत्वनिरूपणम् ||१ ||
Mahabharata -Ashvamedhika Parva -Chapter Text
ब्रह्मोवाच |
अव्यक्तात्पूर्वमुत्पन्नो महानात्मा महामतिः |
आदिर्गुणानां सर्वेषां प्रथमः सर्ग उच्यते ||१४-४१-१ (९३४७२)
महानात्मा मतिर्विष्णुर्जिष्णुः शंभुश्च वीर्यवान् |
बुद्धिः प्रज्ञोपलब्धिश्च तता ख्यातिर्धृतिःस्मृतिः. १४-४१-२ (९३४७३)
पर्यायवाचकैः शब्दैर्महानात्मा विभाव्यते |
तं जानन्ब्राह्मणो विद्वान्प्रमोहं नाधिगच्छति ||१४-४१-३ (९३४७४)
सर्वतःपाणिपादं च सर्वतोक्षिशिरोमुखम् |
सर्वतःश्रुतिमल्लोके सर्वं व्याप्यवतिष्ठति ||१४-४१-४ (९३४७५)
महाप्रभावः पुरुषः सर्वस्य हृदि निष्ठितः |
अणिमा लघिमा प्राप्तिरीशानो ज्योतिरव्ययः ||१४-४१-५ (९३४७६)
तत्र बुद्धिमतां लोके सद्भावनिरताश्च ये |
ध्यानिनो नित्ययोगाश्च सत्यसन्धा जितेन्द्रियाः ||१४-४१-६ (९३४७७)
ज्ञानवन्तश्च ये केचिदलुब्धा जितमन्यवः |
प्रसन्नमनसो धीरा निर्ममा निरहंक्रियाः ||१४-४१-७ (९३४७८)
विमुक्ताः सर्व एवैते महत्त्वमुपयान्त्युत |
आत्मनो महतो वेद यः पुण्यां गतिमुत्तमाम् ||१४-४१-८ (९३४७९)
अहङ्कारात्प्रसूतानि महाभूतानि पञ्च वै |
पृथिवी वायुराकाशमापो ज्योतिश्च पञ्चमम् ||१४-४१-९ (९३४८०)
तेषु भूतानि युज्यन्ते महाभूतेषु पञ्चसु |
ते शब्दस्पर्शरूपेषु रसगन्धक्रियासु च ||१४-४१-१० (९३४८१)
महाभूतविनाशान्ते प्रलये प्रत्युपस्थिते |
सर्वप्राणभृतां धीरा महदुत्पद्यते भयम् ||१४-४१-११ (९३४८२)
स धीरः सर्वलोकेषु न मोहमधिगच्छति |
विष्णुरेवादिसर्गेषु स्वयंभूर्भवति प्रभुः ||१४-४१-१२ (९३४८३)
एवं हि यो वेद गुहाशयं प्रभुं
परं पुराणं पुरुषं विश्वरूपम् |
हिरण्मयं बुद्धिमतां परां गतिं
स बुद्धिमान्बुद्धिमतीत्य तिष्ठति ||१४-४१-१३ (९३४८४)
य उत्पन्नो महान्पूर्वमहङ्कारः स उच्यते |
अहमित्येव सम्भूतो द्वितीयः सर्ग उच्यते ||१४-४१-१४ (९३४८५)
अहङ्कारश्च भूतादिर्वैकारिक इति स्मृतः |
तेजसश्चेतना धातुः प्रजासर्गः प्रजापतिः ||१४-४१-१५ (९३४८६)
देवानां प्रभवो देवो मनसश्च त्रिलोककृत् |
अहमित्येव तत्सर्वमभिमानः स उच्यते ||१४-४१-१६ (९३४८७)
अध्यात्मज्ञानतृप्तानां मुनीनां भावितात्मनाम् |
स्वाध्यायक्रतुसिद्धानामेष लोकः सनातनः ||१४-४१-१७ (९३४८८)
अहङ्कारेणाहरतो गुणानिमा-
न्भूतादिरेवं सृजते स भूतकृत् |
वैकारिकः सर्वमिदं विचेष्टते
स्वतेजसा रञ्जयते जगत्तथा ||||१४-४१-१८ (९३४८९)
इति श्रीमन्महाभारते आश्वमेधिकपर्वणि अनुगीतापर्वणि
एकचत्वारिंशोऽध्यायः ||४१ ||
आश्वमेधिकपर्व -अध्याय ०४२
||श्रीः ||
१४. ४२. अध्यायः ४२
अथानुगीतापर्व-२
Mahabharata -Ashvamedhika Parva -Chapter Topics
ब्रह्मणा महर्षीन्प्रत्यहङ्कारतत्वाद्भूतादिसृष्टिप्रकारकथनम् ||१ ||
Mahabharata -Ashvamedhika Parva -Chapter Text
ब्रह्मोवाच |
अहङ्कारात्प्रसूतानि महाभूतानि पञ्च वै |
पृथिवी वायुराकाशमापो ज्योतिश्च पञ्चमम् ||१४-४२-१ (९३४९०)
तेषु भूतानि मुह्यन्ति महाभूतेषु पञ्चसु |
शब्दस्पर्शनरूपेषु रसगन्धक्रियासु च ||१४-४२-२ (९३४९१)
महाभूतविकारान्ते प्रलये प्रत्युपस्थिते |
सर्वप्राणभूतां धीरा महदुत्पद्यते भयम् ||१४-४२-३ (९३४९२)
यद्यस्माज्जायते भूतं तत्र तत्प्रविलीयते |
लीयन्ते प्रतिलोमानि जायन्ते चोत्तरोत्तरम् ||१४-४२-४ (९३४९३)
ततः प्रलीने सर्वस्मिन्भूते स्थावरजङ्गमे |
स्मृतिमन्तस्तदा धीरा न लीयन्ते कदाचन ||१४-४२-५ (९३४९४)
शब्दः स्पर्शस्तथा रूपं रसो गन्धश्च पञ्चमः |
क्रियाः करणयुक्ताः स्युरनित्या मोहसंज्ञिताः ||१४-४२-६ (९३४९५)
लोभप्रजनसम्भूता निर्विशेषा ह्यकिञ्चनाः |
मांसशोणितसङ्घाता अन्योन्यस्योपजीविनः ||१४-४२-७ (९३४९६)
बहिरात्मान इत्येते दीनाः कृपणजीविनः |
प्राणापानावुदानश्च समानो व्यान एव च ||१४-४२-८ (९३४९७)
अन्तरात्मनि चाप्येते नियताः पञ्च वायवः |
वाङ्मनोबुद्धिरित्येभिः सार्धमष्टात्मकं जगत् ||१४-४२-९ (९३४९८)
त्वग्घ्राणश्रोत्रचक्षूंषि रसना वाक्च संयताः |
विशुद्धं च मनो यस्य बुद्धिश्चाव्यभिचारिणी ||१४-४२-१० (९३४९९)
अष्टौ यस्याग्नयो ह्येते दहन्तेऽहङ्क्रियाः सदा |
स तद्ब्रह्म शुभं याति तस्माद्भूयो न विद्यते ||१४-४२-११ (९३५००)
एकादश च यान्याहुरिन्द्रियाणि विशेषतः |
अहङ्कारात्प्रसूतानि तानि वक्ष्यामि नामतः ||१४-४२-१२ (९३५०१)
श्रोत्रं त्वक् चक्षुषी जिह्वा नासिका चैव पञ्चमी |
पादौ पायुरुपस्थश्च हस्तौ वाग्दशमी भवेत् ||१४-४२-१३ (९३५०२)
इन्द्रियग्राम इत्येष मन एकादशं भवेत् |
एतं ग्रामं जयेत्पूर्वं ततो ब्रह्म प्रकाशते ||१४-४२-१४ (९३५०३)
बुद्धीन्द्रियाणि पञ्चाहुः पञ्च कर्मेन्द्रियाणि च |
श्रोत्रादीन्यपि पञ्चाहुर्बुद्धियुक्तानि तत्त्वतः ||१४-४२-१५ (९३५०४)
अविशेषाणि चान्यानि कर्मयुक्तानि यानि तु |
उभयत्र मनो ज्ञेयं बुद्धिस्तु द्वादशी भवेत् ||१४-४२-१६ (९३५०५)
इत्युक्तानीन्द्रियाण्येतान्येकादश यथाक्रमम् |
मन्यन्ते कृतमित्येवं विदित्वा तानि पण्डिताः ||१४-४२-१७ (९३५०६)
' त्रीणि स्थानानि भूतानां चतुर्थं नोपपद्यते.'
स्थलमापस्तथाऽऽकाशं जन्म चापि चतुर्विधम् ||१४-४२-१८ (९३५०७)
अण्डजोद्भिज्जसंस्वेदजरायुजमथापि च |
चतुर्धा जन्म इत्येतद्भूतग्रामस्य लक्ष्यते ||१४-४२-१९ (९३५०८)
अपराण्यथ भूतानि खेचराणि तथैव च |
अण्डजानि विजानीयात्सर्वांश्चैव सरीसृपान् ||१४-४२-२० (९३५०९)
स्वेदजाः कृमयः प्रोक्ता जन्तवश्च यथाक्रमम् |
जन्मद्वितीयमित्येतज्जघन्यतरमुच्यते ||१४-४२-२१ (९३५१०)
भित्त्वा तु पृथिवीं यानि जायन्ते कालपर्ययात् |
उद्भिज्जानि च तान्याहुर्भूतानि द्विजसत्तमाः ||१४-४२-२२ (९३५११)
द्विपादबहुपादानि तिर्यग्गतिमतीनि च |
जरायुजानि भूतानि विकृतान्यपि सत्तमाः ||१४-४२-२३ (९३५१२)
द्विविधा खलु विज्ञेया ब्रह्मयोनिः सनातना |
तपः कर्म च यत्पुण्यमित्येष विदुषां नयः ||१४-४२-२४ (९३५१३)
विविधं कर्म विज्ञेयमिज्या दानं च तन्मखे |
वेदस्याध्ययनं पुण्यमिति वृद्धानुशासनम् ||१४-४२-२५ (९३५१४)
एतद्यो वेत्ति विधिवत्स मुक्तः स्याद्द्विजर्षभाः |
विमुक्तः सर्वपापेभ्य इति चैव निबोधत ||१४-४२-२६ (९३५१५)
' अतः परं प्रवक्ष्यामि सर्वं विविधमिन्द्रियम् ||' १४-४२-२७ (९३५१६)
आकाशं प्रथमं भूतं श्रोत्रमध्यात्ममुच्यते |
अधिभूतं तथा शब्दो दिशश्चात्राधिदैवतम् ||१४-४२-२८ (९३५१७)
द्वितीयं मारुतं भूतं त्वगध्यात्मं च विश्रुतम् |
स्प्रष्टव्यमधिभूतं तु विद्युत्तत्राधिदैवतम् ||१४-४२-२९ (९३५१८)
तृतीयं ज्योतिरित्याहुश्चक्षुरध्यात्ममिष्यते |
अधिभूतं ततो रूपं सूर्यस्तत्राधिदैवतम् ||१४-४२-३० (९३५१९)
चतुर्थमापो विज्ञेयं जिह्वा चाध्यात्ममिष्यते |
अधिभूतं रसश्चात्र सोमस्तत्राधिदैवतम् ||१४-४२-३१ (९३५२०)
पृथिवी पञ्चमं भूतं घ्राणश्चाध्यात्ममुच्यते |
अधिभूतं तथा गन्धो वायुस्तत्रादिदैवतम् ||१४-४२-३२ (९३५२१)
एषु पञ्चसु भूतेषु चतुष्टयविधिः स्मृतः |
अतः परं प्रवक्ष्यामि सर्वं त्रिविधमिन्द्रियम् ||१४-४२-३३ (९३५२२)
पादावध्यात्ममित्याहुर्ब्राह्मणास्तत्वदर्शिनः |
अधिभूतं तु गन्तव्यं विष्णुस्तत्राधिदैवतम् ||१४-४२-३४ (९३५२३)
अवाग्गतिरपानश्च पायुरध्यात्ममिष्यते |
अधिभूतं विसर्गश्च मित्रस्तत्राधिदैवतम् ||१४-४२-३५ (९३५२४)
प्रजनः सर्वभूतानामुपस्थोऽध्यात्ममुच्यते |
अधिभूतं तथा शुक्रं दैवतं च प्रजापतिः ||१४-४२-३६ (९३५२५)
हस्तावध्यात्ममित्याहुरद्यात्मविदुषो जनाः |
अधिभूतं च कर्माणि शक्रस्तत्राधिदैवतम् ||१४-४२-३७ (९३५२६)
वैश्वदेवी मनःपूर्वा वागध्यात्ममिहोच्यते |
वक्तव्यमधिभूतं च वह्निस्तत्राधिदैवतम् ||१४-४२-३८ (९३५२७)
अध्यात्मं मन इत्याहुः पञ्चभूतात्मचारकम् |
अधिभूतं च सङ्कल्पश्चन्द्रमाश्चाधिदैवतम् ||१४-४२-३९ (९३५२८)
अहङ्कारस्तथाऽध्यात्मं सर्वसंसारकारणम् |
अभिमानोऽधिभूतं च रुद्रस्तत्राधिदैवतम् ||१४-४२-४० (९३५२९)
अध्यात्मं बुद्धिरित्याहुः षडिन्द्रियविचारिणी |
अधिभूतं तु विज्ञेयमहस्तत्राधिदैवतम् ||१४-४२-४१ (९३५३०)
यथावदध्यात्मविधिरेष वः कीर्तितो मया |
ज्ञानमस्य हि धर्मज्ञाः प्राप्तं ज्ञानवतामिह ||१४-४२-४२ (९३५३१)
इन्द्रियाणीन्द्रियार्थाश्च महाभूतानि पञ्च च |
सर्वाण्येतानि संधाय मनसा सम्प्रधारयेत् ||१४-४२-४३ (९३५३२)
क्षीणे मनसि सर्वस्मिन्न जन्मसुखमिष्यते |
ज्ञानसम्पन्नसत्त्वानां तत्सुखं विदुषां मतम् ||१४-४२-४४ (९३५३३)
अतः परं प्रवक्ष्यामि सूक्ष्मभावकरीं शिवाम् |
निवृत्तिं सर्वभूतेषु मृदुना दारुणेन वा ||१४-४२-४५ (९३५३४)
गुणागुणमनासङ्गमेकचर्यमनन्तरम् |
एतद्ब्राह्मणजं वृत्तमाहुरेकपदं सुखम् ||१४-४२-४६ (९३५३५)
विद्वान्कूर्म इवाङ्गानि कामान्संहृत्य सर्वशः |
विरजाः सर्वतो मुक्तो यो नरः स सुखी सदा ||१४-४२-४७ (९३५३६)
कामानात्मनि संयम्य क्षीणतृष्णः समाहितः |
सर्वभूतसुहृन्मैत्रो ब्रह्मभूयाय कल्पते ||१४-४२-४८ (९३५३७)
इन्द्रियाणां निरोधेन सर्वेषां विषयैषिणाम् |
मुनेर्जनपदत्यागादध्यात्माग्निः समिध्यते ||१४-४२-४९ (९३५३८)
यथाऽग्निरिन्धनैरिद्धो महाज्योतिः प्रकाशते |
तथेन्द्रियनिरोधेन महानात्मा प्रकाशतदे ||१४-४२-५० (९३५३९)
यदा पश्यति भूतानि प्रसन्नात्माऽत्मनो हृदि |
स्वयंज्योतिस्तदासूक्ष्मात्सूक्ष्मं प्राप्नोत्यनुत्तमम् ||१४-४२-५१ (९३५४०)
अग्नी रूपं रसं स्रोतो वायुः स्पर्शनमेव च |
मही गन्धधरा घ्राणमाकाशः श्रवणं तथा |
' दृश्यमादित्यमेवाहुरध्यात्मविदुषो जनाः ||' १४-४२-५२ (९३५४१)
रोगशोकसमाविष्टं पञ्चस्रोतःसमावृतम् |
पञ्चभूतसमायुक्तं नवद्वारं द्विदैवतम् ||१४-४२-५३ (९३५४२)
रजस्वलमथादृश्यं त्रिगुणं सप्तधातुकम् |
संसर्गाभिरतं मूढं शरीरमिति धारणा ||१४-४२-५४ (९३५४३)
दुश्चरं जीवलोकेऽस्मिन्सत्वं प्रति समाश्रितम् |
एतदेव हि लोकेऽस्मिन्कालचक्रं प्रवर्तते ||१४-४२-५५ (९३५४४)
एतन्महार्णवं घोरमगाधं मोहसंझितम् |
विसृजन्संक्षिपेच्चैव मोहयन्स्वापयञ्जगत् ||१४-४२-५६ (९३५४५)
कामं क्रोधं भयं लोभमभिद्रोहमथानृतम् |
इन्द्रियाणां निरोधेन सतस्त्यजति दुस्त्यजान् ||१४-४२-५७ (९३५४६)
यस्यैते निर्जिता लोके त्रिगुणाः पञ्चधातवः |
व्योम्नि तस्य परं स्थानमानन्तमथ लक्ष्यते ||१४-४२-५८ (९३५४७)
पञ्चेन्द्रियमहाकूलां मनःस्रोतोभयावहाम् |
नदीं मोहह्रदां तीर्त्वा कामक्रोधावुभौ जयेत् ||१४-४२-५९ (९३५४८)
स सर्वदोषनिर्मुक्तस्ततः पश्यति तत्परम् |
मनो मनसि सन्धाय पश्यन्नात्मानमात्मनि ||१४-४२-६० (९३५४९)
सर्ववित्सर्वभूतेषु द्रक्ष्यत्यात्मानमात्मनि |
एकधा बहुधा चैव विकुर्वाणस्ततस्ततः ||१४-४२-६१ (९३५५०)
ध्रुवं पश्यति रूपाणि दीपाद्दीपशतं यथा |
स वै विष्णुश्च मित्रश्च वरुणोऽग्निः प्रजापतिः ||१४-४२-६२ (९३५५१)
स हि धाता विधाता च स प्रभुः सर्वतोमुखः |
हृदयं सर्वभूतानां महानात्मा प्रकाशते ||१४-४२-६३ (९३५५२)
तं विप्रसङ्घाश्च सुरासुराश्च
यक्षाः पिशाचाः पितरो वयांसि |
रक्षोगणा भूतगणाश्च सर्वे
महर्षयश्चैव सदा स्तुवन्ति ||||१४-४२-६४ (९३५५३)
इति श्रीमन्महाभारते आश्वमेधिकपर्वणि अनुगीतापर्वणि
द्विचत्वारिंशोऽध्यायः ||४२ ||
Mahabharata -Ashvamedhika Parva -Chapter Footnotes
७-४२-७ लोकप्रजनसंयुक्ता इति क.ट.पाठः ||
७-४२-९ इत्युक्ता इति क.पाठः ||
७-४२-२५ जातस्याध्ययनं पुण्यमिति झ.पाठः ||
७-४२-६४ पितरश्च सिद्धा इति क.पाठः ||
आश्वमेधिकपर्व -अध्याय ०४३
||श्रीः ||
१४. ४३. अध्यायः ४३
अथानुगीतापर्व-२
Mahabharata -Ashvamedhika Parva -Chapter Topics
ब्रह्मणा महर्षीन्प्रति मनुष्येषु क्षत्रियाणां
रजोगुणकार्यबलप्रधानतया तेषां सत्वप्रधानब्राह्मणरक्षणस्य
कर्तव्यत्वकथनप्रसङ्गेन तत्तज्जातिश्रेष्ठवस्तुकथनम् ||१ ||
Mahabharata -Ashvamedhika Parva -Chapter Text
ब्रह्मोवाच |
मनुष्याणां तु राज्यः क्षत्रियो मध्यमो गुणः |
कुञ्जरो वाहनानां च सिंहश्चारण्यवासिनाम् ||१४-४३-१ (९३५५४)
अविः पशूनां सर्वेषामहिस्तु बिलवासिनाम् |
गवां गोवृषभश्चैव स्त्रीणां पुरुष एव च ||१४-४३-२ (९३५५५)
न्यग्रोधो जम्बुवृक्षश्च पिप्पलः शाल्मलिस्तथा |
शिंशपा मेषशृङ्गश्च तथा कीचकवेणवः ||१४-४३-३ (९३५५६)
एते द्रुमाणां राजानो गणानां मरुतस्तथा |
हिमवान्पारियात्रश्च सह्यो विन्ध्यस्त्रिकूटवान् ||१४-४३-४ (९३५५७)
श्वेतो नीलश्च भासश्च राष्ट्रवांश्चैव पर्वतः |
भृशस्कन्धो महेन्द्रश्च माल्यवान्पर्वतस्तथा ||१४-४३-५ (९३५५८)
एते पर्वतराजानो गणानां मरुतस्तथा |
सूर्यो ग्रहाणामधिपो नक्षत्राणां च चन्द्रमाः ||१४-४३-६ (९३५५९)
यमः पितॄणामधिपः सरितामथ सागरः |
अंभसां वरुणो राजा मरुतामिन्द्र उच्यते ||१४-४३-७ (९३५६०)
अर्कोऽधिपतिरुष्णानां ज्योतिषामिन्दुरुच्यते |
अग्निर्भूतपतिर्नित्यं ब्राह्मणानां बृहस्पतिः ||१४-४३-८ (९३५६१)
ओषधीनां पतिः सोमो विष्णुर्बलवतां वरः |
त्वष्टाऽधिनां पतिः सोमो विष्णुर्बलवतां वरः. १४-४३-९ (९३५६२)
दक्षिणानां तथा यज्ञो वेदानामृच एव च |
दिशामुदीची विप्राणां सोमो राजा प्रतापवान् ||१४-४३-१० (९३५६३)
कुबेरः सर्वरत्नानां देवतानां पुरंदरः |
एष भूताधिपः सर्गः प्रजानां च प्रजापतिः ||१४-४३-११ (९३५६४)
सर्वेषामेव भूतानामहं ब्रह्ममयो महान् |
भूतं परतरं मत्तो विष्णोर्वाऽपि न विद्यते ||१४-४३-१२ (९३५६५)
राजाधिराजः सर्वेषां विष्णुर्ब्रह्ममयो महान् |
ईश्वरं तं विजानीमः स विभुः स प्रजापतिः ||१४-४३-१३ (९३५६६)
नरकिन्नरयक्षाणां गन्धर्वोरगरक्षसाम् |
देवदानवनागानां सर्वेषामीश्वरो हि सः ||१४-४३-१४ (९३५६७)
भगदेवानुयातानां सर्वासां वामलोचना |
माहेश्वरी महादेवी प्रोच्यते पार्वती हि सा ||१४-४३-१५ (९३५६८)
उमां देवीं विजानीध्वं नारीणामुत्तमां शुभाम् |
रतीनां वसुमत्यस्तु स्त्रीणामप्सरसस्तथा ||१४-४३-१६ (९३५६९)
धर्मिकामाश्च राजानो ब्राह्मणा धर्मसेतवः |
तस्माद्राजा द्विजातीनां प्रयतेतेह रक्षणे ||१४-४३-१७ (९३५७०)
राज्ञां हि विषये येषामवसीदन्ति साधवः |
हीनास्ते स्वगुणैः सर्वैः प्रेत्यावाङ्मार्गगामिनः ||१४-४३-१८ (९३५७१)
राज्ञां हि विषये येषां साधवः परिरक्षिताः |
तेऽस्मिँल्लोके प्रमोदन्ते प्रेत्य चानन्दमेव च ||१४-४३-१९ (९३५७२)
प्राप्नुवन्ति महात्मान इति वित्त द्विजर्षभाः |
अत ऊर्ध्वं प्रवक्ष्यामि नियतं धर्मलक्षणम् ||१४-४३-२० (९३५७३)
अहिंसालक्षणो धर्मो हिंसा चाधर्मलक्षणा |
प्रकाशलक्षणा देवा मनुष्याः कर्मलक्षणाः ||१४-४३-२१ (९३५७४)
शब्दलक्षणमाकाशं वायुस्तु स्पर्शलक्षणः |
ज्योतिषां लक्षणं रूपमापश्च रसलक्षणाः ||१४-४३-२२ (९३५७५)
धारिणी सर्वभूतानां पृथिवी गन्धलक्षणा |
स्वरव्यञ्जनसंस्कारा भारती शब्दलक्षणा ||१४-४३-२३ (९३५७६)
मनसो लक्षणं चिन्ता तथोक्ता बुद्धिरन्वयात् |
मनसा चिन्तितानर्थान्बुद्ध्या चेह व्यवस्यति ||१४-४३-२४ (९३५७७)
बुद्धिर्हि व्यवसायेन लक्ष्यते नात्र संशयः |
लक्षणं मनसो ध्यानमव्यक्तं साधुलक्षणम् ||१४-४३-२५ (९३५७८)
प्रवृत्तिलक्षणो योगो ज्ञानं संन्यासलक्षणम् |
तस्माज्ज्ञानं पुरस्कृत्य संन्यसेदिह बुद्धिमान् ||१४-४३-२६ (९३५७९)
संन्यासी ज्ञानसंयुक्तः प्राप्नोति परमां गतिम् |
अतीतो द्वन्द्वमभ्येति तमोमृत्युजरातिगः ||१४-४३-२७ (९३५८०)
धर्मलक्षणसंयुक्तमुक्तं वो विधिवन्मया |
गुणानां ग्रहणं सम्यग्वक्ष्याम्यहमतः परम् ||१४-४३-२८ (९३५८१)
पार्तिवो यस्तु गन्धो वै घ्राणेन हि स गृह्यते |
प्राणस्यश्च तथा वायुर्गन्धज्ञाने विधीयते ||१४-४३-२९ (९३५८२)
अपां धातू रसो नित्यं जिह्वया स तु गृह्यते |
जिह्वास्थश्च तथा सोमो रसज्ञाने विधीयते ||१४-४३-३० (९३५८३)
तेजसस्तु गुणो रूपं चक्षुषा तच्च गृह्यते |
चक्षुःस्थश्च ततादित्यो रूपज्ञाने विधीयते ||१४-४३-३१ (९३५८४)
वायव्यस्तु सदा स्पर्शस्त्वचा प्रज्ञायते च सः |
त्वक्स्थश्चैव सदा वायुः स्पर्सने स विधीयते ||१४-४३-३२ (९३५८५)
आकाशस्य गुणो घोषः श्रोत्रेण च स गृह्यते |
श्रोत्रस्थाश्च दिशः सर्वाः शब्दज्ञाने प्रकीर्तिताः ||१४-४३-३३ (९३५८६)
मनसश्च गुणश्चिन्ता प्रज्ञया स तु गृह्यते |
हृदिस्थश्चेतनो धातुर्मनोज्ञाने विधीयते ||१४-४३-३४ (९३५८७)
बुद्धिरध्यवसायेन ध्यानेन च महांस्तथा |
निश्चित्य ग्रहणाद्व्यक्तमव्यक्तं नात्र संशयः ||१४-४३-३५ (९३५८८)
अलिङ्गग्रहणो नित्यः क्षेत्रज्ञो निर्गुणात्मकः |
तस्मादलिङ्गः क्षेत्रज्ञः केवलं ज्ञानलक्षणः ||१४-४३-३६ (९३५८९)
अव्यक्तं क्षेत्रमुद्दिष्टं गुणानां प्रभवाप्ययम् |
सदा पश्याम्यहं लीनं विजानामि शृणोमि च ||१४-४३-३७ (९३५९०)
पुरुषस्तद्विजानीते तस्मात्क्षेत्रज्ञ उच्यते |
गुणवृत्तं तथा कृत्स्नं क्षेत्रज्ञः परिपश्यति ||१४-४३-३८ (९३५९१)
आदिमद्यावसानं तत्सृज्यमानमचेतनम् |
न गुणा विदुरात्मानं सृज्यमानाः पुनःपुनः ||१४-४३-३९ (९३५९२)
न सत्यं वेद वै कश्चित्क्षेत्रज्ञस्त्वेव विन्दति |
गुणानां गुणभूतानां यत्परं परतो महत् ||१४-४३-४० (९३५९३)
तस्माद्गुणांश्च तत्वं च परित्यज्येह तत्ववित् |
क्षीणदोषो गुणान्हित्वा क्षेत्रज्ञं प्रविशत्यथ ||१४-४३-४१ (९३५९४)
निर्द्वन्द्वो निर्नमस्कारो निःस्वधाकार एव च |
अचलश्चानिकेतश्च क्षेत्रज्ञः स परो विधिः ||||१४-४३-४२ (९३५९५)
इति श्रीमन्महाभारते आश्वमेधिकपर्वणि अनुगीतापर्वणि
त्रिचत्वारिंशोऽध्यायः ||४३ ||
Mahabharata -Ashvamedhika Parva -Chapter Footnotes
७-४३-२ आखुश्च बिलवासिनामिति क.थ.पाठः ||
७-४३-७ राजासत्त्वानां मित्र उच्यत इति क.ट.थ ||.
७-४३-८ उष्णानां देवानामिन्द्र उच्यत इति क.ट.थ.पाठः ||
७-४३-१५ भगदेवाः कामुकास्तैरनुयातानामनुसृतानां स्त्रीणां सर्वासां
मध्ये माहेश्वरी वामलोचनेति सम्बन्धः ||
भद्रादेवाभिजातानां सर्वेषां वारिजेक्षणेति क.ट.पाठः ||
७-४३-१६ रतीनां प्रीतिसुखानाम् | वसुमत्यः
धनवत्यः. धनलाभगर्वितं यत्प्रीतिसुखं तदेव महदित्यर्थः ||
७-४३-१७ वर्णक्रमाश्च राजान इति क.ट.थ.पाठः ||
७-४३-२५ लक्षणं महतो ध्यानमिति क.पाठः ||
आश्वमेधिकपर्व -अध्याय ०४४
||श्रीः ||
१४. ४४. अध्यायः ४४
अथानुगीतापर्व-२
Mahabharata -Ashvamedhika Parva -Chapter Topics
ब्रह्मणा महर्षीन्प्रति स्वस्वजातिषु श्रेष्ठवस्तु प्रतिपादनपूर्वकं
ज्ञानस्याविनाशित्वकथनेन तस्यैव श्रेयःसाधनत्वोक्तिः ||१ ||
Mahabharata -Ashvamedhika Parva -Chapter Text
ब्रह्मोवाच |
यदादिमध्यपर्यन्तं ग्रहणोपायमेव च |
नामलक्षणसंयुक्तं सर्वं वक्ष्यामि तत्त्वतः ||१४-४४-१ (९३५९६)
अहः पूर्वं ततो रात्रिर्मासाः शुक्लादयः स्मृताः |
श्रवणादीनि ऋक्षाणि ऋतवः शिशिरादयः ||१४-४४-२ (९३५९७)
भूमिरादिस्तु गन्धानां रसानामाप एव च |
रूपाणामादिरग्निस्तु स्पर्शादिर्वायुरुच्यते ||१४-४४-३ (९३५९८)
शब्दस्यादिस्तथाऽऽकाशमेष भूतकृतो गुणः |
अतः परं प्रवक्ष्यामि भूतानामादिमुत्तमम् ||१४-४४-४ (९३५९९)
आदित्यो ज्योतिषामादिरग्निर्भूतादिरुच्यते |
सावित्री सर्वविद्यानां देवतानां प्रजापतिः ||१४-४४-५ (९३६००)
ओङ्कारः सर्ववेदानां वचसां प्राण एव च |
यदस्मिन्नियतं लोके सर्वं सावित्रमुच्यते ||१४-४४-६ (९३६०१)
गायत्री च्छन्दसामादिः प्रजानां सर्ग उच्यते |
गावश्चतुष्पदामादिर्मनुष्याणां द्विजातयः ||१४-४४-७ (९३६०२)
श्येनः पतत्रिणामादिर्यज्ञानां हुतमुत्तमम् |
प्रसर्पिणां तु सर्वेषां ज्येष्ठः सर्पो द्विजोत्तमाः ||१४-४४-८ (९३६०३)
कृतमादिर्युगानां च सर्वेषां नात्र संशयः |
हिरण्यं सर्वरत्नानामोषधीनां यवास्तथा ||१४-४४-९ (९३६०४)
सर्वेषां भक्ष्यभोज्यानामन्नं परममुच्यते |
द्रवाणां चैव सर्वेषां पेयानामाप उत्तमाः ||१४-४४-१० (९३६०५)
स्थावराणां तु भूतानां सर्वेषामविशेषतः |
ब्रह्मक्षेत्रं सदा पुण्यं प्लक्षः प्रवरजः स्मृतः ||१४-४४-११ (९३६०६)
अहं प्रजापतीनां च सर्वेषां नात्र संशयः |
मम विष्णुरचिन्त्यात्मा स्वयंभूरिति संस्मृतः ||१४-४४-१२ (९३६०७)
पर्वतानां महामेरुः सर्वेषामग्रजः स्मृतः |
दिशां च प्रदिशां चोर्ध्वं दिक्पूर्वा प्रथमा तथा ||१४-४४-१३ (९३६०८)
तथा त्रिपथगा गङ्गा नदीनामग्रजा स्मृता |
तथा सरोदपाननां सर्वेषां सागरोऽग्रजः ||१४-४४-१४ (९३६०९)
देवदानवभूतानां पिशाचोरगरक्षसाम् |
नरकिन्नरयक्षाणां सर्वेषामीश्वरः प्रभुः ||१४-४४-१५ (९३६१०)
आदिर्विश्वस्य जगतो विष्णुर्ब्रह्ममयो महान् |
ततः परतरं यस्मात्त्रैलोक्ये नेह विद्यते ||१४-४४-१६ (९३६११)
आश्रमाणां च सर्वेषां गार्हस्थ्यं नात्र संशयः |
लोकानामादिरव्यक्तं सर्वस्यान्तस्तदेव च ||१४-४४-१७ (९३६१२)
अहान्यस्तमयान्तानि उदयान्ता च शर्वरी |
सुखस्यान्तं सदा दुःखं दुःखस्यान्तं सदा सुखम ||१४-४४-१८ (९३६१३)
सर्वे क्षयान्ता निचयाः पतनान्ताः समुच्छ्रयाः |
संयोगाश्च वियोगान्ता मरणान्तं च जीवितम् ||१४-४४-१९ (९३६१४)
सर्वं कृतं विनाशान्तं जातस्य मरणं ध्रुवम् |
अशाश्वतं हि लोकेऽस्मिन्सदा स्थावरजङ्गमम् ||१४-४४-२० (९३६१५)
इष्टं दत्तं तपोऽधीतं व्रतानि नियमाश्च ये |
सर्वमेतद्विनाशान्तं ज्ञानस्यान्तो न विद्यते ||१४-४४-२१ (९३६१६)
तस्माज्ज्ञानेन शुद्धेन प्रशान्तात्मा जितेन्द्रियः |
निर्ममो निरहंकारो मुच्यते सर्वपाप्मभिः ||||१४-४४-२२ (९३६१७)
इति श्रीमन्महाभारते आश्वमेधिकपर्वणि अनुगीतापर्वणि
चतुश्चत्वारिशोऽध्यायः ||४४ ||
Mahabharata -Ashvamedhika Parva -Chapter Footnotes
७-४४-२ श्रविष्ठादीनि सर्वाणिति क.ट.थ.पाठः ||
७-४४-३ रूपाणां ज्योतिरादित्य इति झ.पाठः ||
७-४४-८ हुतं अग्नौ ब्राह्मणे वा देवतोद्देशेन दत्तम् ||
७-४४-११ ब्रह्मवृक्षः सदा पुण्यः इति क.थ.पाठः ||
७-४४-१४ सरोदपाननां सरसां कूपादीनां च
. संधिरार्षः. तथाचाश्वो वाहनानां सर्वेषां सागरोग्रज इति
क.पाठः ||
७-४४-१५ ईश्वरः रुद्रः ||
आश्वमेधिकपर्व -अध्याय ०४५
||श्रीः ||
१४. ४५. अध्यायः ४५
अथानुगीतापर्व-२
Mahabharata -Ashvamedhika Parva -Chapter Topics
ब्रह्मणा महर्षीन्प्रति शरीरस्य कालचक्रवत्सर्वनाशकत्वोक्तिपूर्वकं
गृहस्थध्रमानुष्ठानस्य श्रेयःसाधनत्वोक्तिः ||१ ||
Mahabharata -Ashvamedhika Parva -Chapter Text
ब्रह्मोवाच |
बुद्धिसारं मनस्तम्भमिन्द्रियग्रामबन्धनम् |
महाभूतारविष्कम्भं निमेषपरिवेष्टनम् ||१४-४५-१ (९३६१८)
जराशोकसमाविष्टं व्याधिव्यसनसञ्चरम् |
देशकालविचारीदं श्रमव्यायामनिःस्वनम् ||१४-४५-२ (९३६१९)
अहोरात्रपरिक्षेपं शीतोष्णपरिमण्डलम् |
सुखदुःखान्तसंश्लेषं क्षुत्पिपासावकीलकम् ||१४-४५-३ (९३६२०)
छायातपविलेखं च निमेषोन्मेषविह्वलम् |
शोकमोहजराकीर्णं वर्तमानमचेतनम् ||१४-४५-४ (९३६२१)
मासार्धमासगुणितं विषमं लोकसञ्चरम् |
तमोनिचयपङ्कं च रजोवेगप्रवर्तकम् ||१४-४५-५ (९३६२२)
सत्त्वालङ्कारदीप्तं च गुणसंघातमण्डलम् |
विरतिग्रहणाभीकं शोकसंहारवर्तनम् ||१४-४५-६ (९३६२३)
क्रियाकारणसंयुक्तं रागविस्तारमायतम् |
लोभेप्सापरिविक्षोभं विविक्तज्ञानसम्भवम् ||१४-४५-७ (९३६२४)
भयमोहपरीवारं भूतसंमोहकारकम् |
आनन्दप्रीतिचारं च कामक्रोधपरिग्रहम् ||१४-४५-८ (९३६२५)
महदादिविशेषान्तमव्यक्तं प्रभवाप्ययम् |
मनोजवनमश्रान्तं कालचक्रं प्रवर्तते ||१४-४५-९ (९३६२६)
एतद्द्वन्द्वसमायुक्तं कालचक्रमचेतनम् |
विसृजेत्संक्षिपेच्चापि बोधयेत्स्वापयेज्जगम् ||१४-४५-१० (९३६२७)
कालचक्रप्रवृत्तिं च निवृत्तिं चैव तत्त्वतः |
यस्तु वेद नरो नित्यं न स भूतेषु मुह्यति ||१४-४५-११ (९३६२८)
विमुक्तः सर्वसङ्क्लेशैः सर्वद्वन्द्वातिगो मुनिः |
विमुक्तः सर्वपापेभ्यः प्राप्नोति परमां गतिम् ||१४-४५-१२ (९३६२९)
गृहस्थो ब्रह्मचारी च वानप्रस्थोऽथ भिक्षुकः |
चत्वार आश्रमाः प्रोक्ताः सर्वे गार्हस्थ्यमूलकाः ||१४-४५-१३ (९३६३०)
यः कश्चिदिह लोकेऽस्मिन्नाश्रमः परिकीर्तितः |
तस्यान्तगमनं श्रेयः कीर्तिरेषा सनातनी ||१४-४५-१४ (९३६३१)
संस्कारैः संस्कृतः पूर्वं यथावच्चरितव्रतः |
जातौ गुणविशिष्टायां समावर्तेत वेदवित् ||१४-४५-१५ (९३६३२)
स्वदारनिरतो नित्यं शिष्टाचारो जितेन्द्रियः |
पञ्चभिश्च महायज्ञैः श्रद्दधानो यजेदिह ||१४-४५-१६ (९३६३३)
देवतातिथिशिष्टाशी निरतो वेदकर्मसु |
इज्याप्रदानयुक्तश्च यथाशक्ति यथाविधि ||१४-४५-१७ (९३६३४)
न पाणिपादचपलो न नेत्रचपलो मुनिः |
न च वागङ्गचपल इति शिष्टस्य गोचरः ||१४-४५-१८ (९३६३५)
नित्यं यज्ञोपवीती स्याच्छुक्लवासाः शुचिव्रतः |
नियतो यमदानाभ्यां सदा शिष्टैश्च संविशेत् ||१४-४५-१९ (९३६३६)
जितशिश्नोदरो मैत्रः शिष्टाचारसमन्वितः |
वैणवीं धारयेद्यष्टिं सोदकं च कमण्डलुम् ||१४-४५-२० (९३६३७)
' त्रीणि धारयते नित्यं कमण्डलुमतन्द्रितः |
एकमाचमनार्थाय एकं वै पादधावनम् |
एकं शौचविधानार्थमित्येतत्त्रितयं तथा ||' १४-४५-२१ (९३६३८)
अधीत्याध्यापनं कुर्यात्तथा यजनयाजने |
दानं प्रतिग्रहं वाऽपि षङ्गुणां वृत्तिमाचरेत् ||१४-४५-२२ (९३६३९)
त्रीणि कर्माणि जानीत ब्राह्मणानां तु जीविकाः |
याजनाध्यापने चोभे शुद्धाच्चापि प्रतिग्रहः ||१४-४५-२३ (९३६४०)
अथ शेषाणि चान्यानि त्रीणि कर्माणि यानि तु |
दानमध्ययनं यज्ञो धर्मयुक्तानि तानि तु ||१४-४५-२४ (९३६४१)
तेष्वप्रमादं कुर्वीत त्रिषु कर्मसु धर्मवित् |
दान्तो मैत्रः क्षमायुक्तः सर्वभूतसमो मुनिः ||१४-४५-२५ (९३६४२)
सर्वमेतद्यथाशक्ति विप्रो निर्वर्तयञ्शुचिः |
एवं युक्तो जयेत्स्वर्गं गृहस्थः संशितव्रतः ||||१४-४५-२६ (९३६४३)
इति श्रीमन्महाभारते आश्वमेधिकपर्वणि अनुगीतापर्वणि
पञ्चचत्वारिंशोऽध्यायः ||४५ ||
Mahabharata -Ashvamedhika Parva -Chapter Footnotes
७-४५-१ इन्द्रियग्रामवर्धनमिति क.ट.थ.पाठः ||
७-४५-८ अनन्तप्रतिसारं चेति ट.पाठः ||
७-४५-१० मोहयेत्सामरं जगदिति क.ट.थ.पाठः ||
आश्वमेधिकपर्व -अध्याय ०४६
||श्रीः ||
१४. ४६. अध्यायः ४६
अथानुगीतापर्व-२
Mahabharata -Ashvamedhika Parva -Chapter Topics
ब्रह्मणा महर्षीन्प्रति ब्रह्मचारिवनस्थधर्मनिरूपणपूर्वकं
तदनुष्ठानस्य श्रेयःसाधनत्वोक्तिः ||१ ||
Mahabharata -Ashvamedhika Parva -Chapter Text
ब्रह्मोवाच |
एवमेतेन मार्गेण पूर्वोक्तेन यथाविधि |
अधीतवान्यथाशक्ति तथैव ब्रह्मचर्यवान् ||१४-४६-१ (९३६४४)
स्वधर्मनिरतो विद्वान्सर्वेन्द्रिययतो मुनिः |
गुरोः प्रियहिते युक्तः सत्यधर्मपरः शुचिः ||१४-४६-२ (९३६४५)
गुरुणा समनुज्ञातो भुञ्जीतान्नमकुत्सयन् |
हविष्यभैक्ष्यभुक् चापि स्थानासनविहारवान् ||१४-४६-३ (९३६४६)
द्विकालमग्निं जुह्वानः शुचिर्भूत्वा समाहितः |
धारयीत सदा दण्डं बैल्वं पालाशमेव वा ||१४-४६-४ (९३६४७)
क्षौमं कार्पासिकं वाऽपि मृगाजिनमथापि वा |
सर्वं काषायरक्तं वा वासो वाऽपि द्विजस्य ह ||१४-४६-५ (९३६४८)
मेखला च भवेन्मौञ्जी जटो नित्योदकस्तथा |
यज्ञोपवीती स्वाध्यायी अलुप्तनियतव्रतः ||१४-४६-६ (९३६४९)
पूताभिश्च तथैवाद्भिः सदा दैवततर्पणम् |
भावेन नियतः कुर्वन्ब्रह्मचारी प्रशस्यते ||१४-४६-७ (९३६५०)
एवं युक्तो जयेत्स्वर्गमूर्ध्वरेताः समाहितः |
न संसरति जातीषु परमं स्थानमाश्रितः ||१४-४६-८ (९३६५१)
संस्कृतः सर्वसंस्कारैस्तथैव ब्रह्मचर्यवान् |
ग्रामान्निष्क्रम्य चारण्ये मुनिः प्रव्रजितो वसेत् ||१४-४६-९ (९३६५२)
चर्मवल्कलसंवासी सायं प्रातरुपस्पृशेत् |
अरण्यगोचरो नित्यं न ग्रामं प्रविशेत्पुनः ||१४-४६-१० (९३६५३)
अर्चयन्नतिथीन्काले दद्याच्चापि प्रतिश्रयम् |
फलपत्रावरैर्मूलैः श्यामाकेन च वर्तयन् ||१४-४६-११ (९३६५४)
स नित्यमुदकं वायुं सर्वं वानेयमाश्रयेत् |
प्राश्नीयादानुपूर्व्येण यथादीक्षमतन्द्रितः ||१४-४६-१२ (९३६५५)
समूलफलशाकाद्यैरर्चेदतिथिमागतम् |
यद्भक्षः स्यात्ततो दद्याद्भिक्षां नित्यमतन्द्रितः ||१४-४६-१३ (९३६५६)
देवतातिथिपूर्वं च सदा प्राश्नीत वाग्यतः |
अस्कन्दितमनाश्चैव लघ्वाशी देवताश्रयः ||१४-४६-१४ (९३६५७)
दान्तो मैत्रः क्षमायुक्तः कशाञ्शमश्रु च धारयन् |
जुह्वन्स्वाध्यायशीलश्च सत्यधर्मपरायणः ||१४-४६-१५ (९३६५८)
न्यस्तदेहः सदा दक्षो वननित्यः समाहितः |
एवं युक्तो जयेत्स्वर्गं वानप्रस्थो जितेन्द्रियः ||१४-४६-१६ (९३६५९)
गृहस्थो ब्रह्मचारी च वानप्रस्थोऽथवा पुनः |
य इच्छेन्मोक्षमास्थातुमुत्तमां वृत्तिमाश्रयेत् ||१४-४६-१७ (९३६६०)
अभयं सर्वभूतेभ्यो दत्त्वा नैष्कर्म्यमाचरेत् |
सर्वभूतहितो मैत्रः सर्वेन्द्रिययतो मुनिः ||१४-४६-१८ (९३६६१)
अयाचितमसंक्लृप्तमुपपन्नं यदृच्छया |
कृत्वा प्राह्णे चरेद्भैक्ष्यं विधूमे भुक्तवज्जने ||१४-४६-१९ (९३६६२)
वृत्ते शरावसम्पाते भैक्ष्यं लिप्सेत मोक्षवित् |
लाभेन च न हृष्येत नालाभे विमना भवेत् |
न चातिभिक्षां भिक्षेत केवलं प्राणयात्रिकः ||१४-४६-२० (९३६६३)
यात्रार्थी कालमाकाङ्क्षंश्चरेद्भैक्ष्यं समाहितः |
लाभं साधारणं नेच्छेन्न भुञ्जीताभिपूजितः ||१४-४६-२१ (९३६६४)
अभिपूजितलाभाद्वि विजुगुप्सेत भिक्षुकः |
भुक्तान्यन्नानि तिक्तानि कषायकटुकानि च ||१४-४६-२२ (९३६६५)
नास्वादयीत भुञ्जानो रसांश्च मधुरांस्तथा |
यात्रामात्रं च भुञ्जीत केवलं प्राणधारणम् ||१४-४६-२३ (९३६६६)
असंरोधेन भूतानां वृत्तिं लिप्सेत मोक्षवित् |
न चान्यमन्नं लिप्सेत भिक्षमाणः कथञ्चन ||१४-४६-२४ (९३६६७)
न सन्निकाशयेद्धर्मं विविक्ते चारजाश्चरेत् |
शून्यागारमण्यं वा वृक्षमूलं नदीं तथा ||१४-४६-२५ (९३६६८)
प्रतिश्रयार्थं सेवेत पार्वतीं वा पुनर्गुहाम् |
ग्रामैकरात्रिको ग्रीष्मे वर्षास्वेकत्र वा वसेत् ||१४-४६-२६ (९३६६९)
अध्वा सूर्येणि निर्दिष्टः कीटवच्च चरेन्महीम् |
दयार्तं चैव भूतानां समीक्ष्य पृथिवीं चरेत् ||१४-४६-२७ (९३६७०)
सञ्चयांश्च न कुर्वीत स्नेहवासं च वर्जयेत् |
पूताभिरद्भिर्नित्यं वै कार्यं कुर्वीत मोक्षवित् ||१४-४६-२८ (९३६७१)
उपस्पृशेदुद्दृताभिरद्भिश्च पुरुषः सदा |
अहिंसा ब्रह्मचर्यं च सत्यमार्जवमेव च ||१४-४६-२९ (९३६७२)
अक्रोधश्चानसूया च दमो नित्यमपैशुनम् |
अष्टस्वेतेषु युक्तः स्याद्व्रतेषु नियतेन्द्रियः ||१४-४६-३० (९३६७३)
अपापमशठं वृत्तमजिह्मं नित्यमाचरेत् |
जोषयेत सदा भोज्यं ग्रासमागतमस्पृहः ||१४-४६-३१ (९३६७४)
यात्रामात्रं च भुञ्जीत केवलं प्राणयात्रिकम् |
धर्मलब्धमथाश्नीयान्न काममनुवर्तयेत् ||१४-४६-३२ (९३६७५)
ग्रासादाच्छादनादन्यन्न गृह्णीयात्कथञ्चन |
यावदाहारयेत्तावत्प्रतिगृह्णीत नाधिकम् ||१४-४६-३३ (९३६७६)
परेभ्यो न प्रतिग्राह्यं न च देयं कदाचन |
दैन्यभावाच्च भूतानां संविभज्य सदा बुधः ||१४-४६-३४ (९३६७७)
नाददीत परस्वानि न गृह्णीयान्न याचयेत् |
न किञ्चिद्विषयं भुक्त्वा स्पृहयेत्तस्य वै पुनः ||१४-४६-३५ (९३६७८)
मृदमापस्तथाऽन्नानि पत्रपुष्पफलानि च |
असंवृतानि गृह्णीयात्प्रवृत्तानि च कार्यवान् ||१४-४६-३६ (९३६७९)
न शिल्पजीविकां जीवेद्द्विरन्नं नोत कामयेत् |
न द्वेष्टा नोपदेष्टा च भवेच्च निरुपस्कृतः ||१४-४६-३७ (९३६८०)
श्रद्धापूतानि भुञ्जीत निमित्तानि च वर्जयेत् |
मुधावृत्तिरसक्तश्च सर्वभूतैरसंधितः ||१४-४६-३८ (९३६८१)
आशीर्युक्तानि सर्वाणि हिंसायुक्तानि यानि च |
लोकसङ्ग्रहधर्मं च नैव कुर्यान्न कारयेत् ||१४-४६-३९ (९३६८२)
सर्वभावानतिक्रम्य लघुमात्रः परिव्रजेत् |
समः सर्वेषु भूतेषु स्थावरेषु चरेषु च ||१४-४६-४० (९३६८३)
परं नोद्वेजयेत्कञ्चिन्न च कस्यचिदुद्विजेत् |
विश्वास्यः सर्वभूतानामग्र्यो मोक्षविदुच्यते ||१४-४६-४१ (९३६८४)
अनागतं च न ध्यायेन्नातीतमनुचिन्तयेत् |
वर्तमानमुपेक्षेत कालाकाङ्क्षी समाहितः ||१४-४६-४२ (९३६८५)
न चक्षुषा न मनसा न वाचा दूषयेत्क्वचित् |
न प्रत्यक्षं परोक्षं वा किञ्चिद्दुष्टं समाचरेत् ||१४-४६-४३ (९३६८६)
इन्द्रियाण्युपसंहृत्य कूर्मोऽङ्गानीव सर्वशः |
क्षीणेन्द्रियमनोबुद्धिर्निरीहः सर्वतत्त्ववित् ||१४-४६-४४ (९३६८७)
निर्द्वन्द्वो निर्नमस्कारो निःस्वाहाकार एव च |
निर्ममो निरहङ्कारो निर्योगक्षेम आत्मवान् ||१४-४६-४५ (९३६८८)
निराशीर्निर्गुणः शान्तो निरासक्तो निराश्रयः |
आत्मसङ्गी च तत्त्वज्ञो मुच्यते नात्र संशयः ||१४-४६-४६ (९३६८९)
अपादपाणिपृष्ठं तदशिरस्कमनूदरम् |
अभिन्नगुणकर्माणं केवलं विमलं स्थिरम् ||१४-४६-४७ (९३६९०)
अगन्धमरसस्पर्शमरूपाशब्दमेव च |
अनुगम्यमनासक्तममांसमपि चैव यत् ||१४-४६-४८ (९३६९१)
निशाचिन्तमव्ययं दिव्यं गृहस्थमपि सर्वदा |
सर्वभूतस्थमात्मानं ये पश्यन्ति न ते मृताः ||१४-४६-४९ (९३६९२)
न तत्र क्रमते बुद्धिर्नेन्द्रियाणि न देवताः |
वेदा यज्ञाश्च लोकाश्च न तपो न व्रतानि च ||१४-४६-५० (९३६९३)
यत्र ज्ञानवतां प्राप्तिलिङ्गग्रहणा स्मृता |
तस्मादलिङ्गधर्मज्ञो धर्मतत्त्वमुपाचरेत् ||१४-४६-५१ (९३६९४)
गूढधर्माश्रितो विद्वान्विज्ञानचरितं चरेत् |
अमूढो मूढरूपेण चरेद्धर्ममदूषयन् ||१४-४६-५२ (९३६९५)
यथैनमवमन्येरन्परे सततमेव हि |
तथावृत्तश्चरेच्छान्तः सतां धर्मानकुत्सयन् ||१४-४६-५३ (९३६९६)
य एवं वृत्तसम्पन्नः स मुनिः श्रेष्ठ उच्यते |
इन्द्रियाणीन्द्रियार्थांश्च महाभूतानि पञ्च च ||१४-४६-५४ (९३६९७)
मनो बुद्धिरहङ्कारमव्यक्तं पुरुषं तथा |
एतत्सर्वं प्रसङ्ख्याय यथावत्तत्त्वनिश्चयात् ||१४-४६-५५ (९३६९८)
ततः स्वर्गमवाप्नोति विमुक्तः सर्वबन्धनैः |
एतावदन्तवेलायां परिसङ्ख्याय तत्त्ववित् ||१४-४६-५६ (९३६९९)
ध्यायेदेकान्तमास्थाय मुच्यतेऽथ निराश्रयः |
निर्मुक्तः सर्वसङ्गेभ्यो वायुराकाशगो यथा ||१४-४६-५७ (९३७००)
क्षीणकोशो निरातङ्कस्तथेदं प्राप्नुयात्परम् ||||१४-४६-५८ (९३७०१)
इति श्रीमन्महाभारते आश्वमेधिकपर्वणि अनुगीतापर्वणि
षट्चत्वारिंशोऽध्यायः ||४६ ||
आश्वमेधिकपर्व -अध्याय ०४७
||श्रीः ||
१४. ४७. अध्यायः ४७
अथानुगीतापर्व-२
Mahabharata -Ashvamedhika Parva -Chapter Topics
ब्रह्मणा महर्षीन्प्रति संन्यासज्ञानतपसां
परमपुरुषार्थसाधनत्वोक्तिः ||१ ||
Mahabharata -Ashvamedhika Parva -Chapter Text
ब्रह्मोवाच |
संन्यासं तप इत्याहुर्वृद्धा निश्चितवादिनः |
ब्राह्मणा ब्रह्मयोनिस्था ज्ञानं ब्रह्म परं विदुः ||१४-४७-१ (९३७०२)
अतिदूरात्मकं ब्रह्म वेदविद्याव्यपाश्रयम् |
निर्द्वन्द्वं निर्गुणं नित्यमचिन्त्यगुणमुत्तमम् ||१४-४७-२ (९३७०३)
ज्ञानेन तपसा चैव धीराः पश्यन्ति तत्परम् |
निर्णिक्तमनसः पूता व्युत्क्रान्तरजसोऽमलाः ||१४-४७-३ (९३७०४)
तपसा क्षेममध्वानं गच्छन्ति परमेश्वरम् |
संन्यासनिरता नित्यं ये च ब्रह्मविदो जनाः ||१४-४७-४ (९३७०५)
तपः प्रदीप इत्याहुराचारो धर्मसाधकः |
ज्ञानं वै परमं विद्यात्संन्यासं तप उत्तमम् ||१४-४७-५ (९३७०६)
यस्तु वेद निराबाधं ज्ञानं तत्त्वविनिश्चयात् |
सर्वभूतस्थमात्मानं स सर्वविदिहोच्यते ||१४-४७-६ (९३७०७)
यो विद्वान्सहवासं च विवासं चैव पश्यति |
तथैवेकत्वनानात्वे स दुःखात्प्रतिमुच्यते ||१४-४७-७ (९३७०८)
यो न कामयते किञ्चिन्न किञ्चिदवमन्यते |
इह लोकस्थ एवैष ब्रह्मभूयाय कल्पते ||१४-४७-८ (९३७०९)
प्रधानगुणतत्त्वज्ञः सर्व भूतविधानवित् |
निर्ममो निरहङ्कारो मुच्यते नात्र संशयः ||१४-४७-९ (९३७१०)
निर्द्वन्द्वो निर्नमस्कारो निःस्वधाकार एव च |
निर्गुणं नित्यमद्वन्द्वं प्रशमेनैव गच्छति ||१४-४७-१० (९३७११)
हित्वा गुणमयं सर्वं कर्म जन्तुः शुभाशुभम् |
उभे सत्यानृते हित्वा मुच्यते नात्र संशयः ||१४-४७-११ (९३७१२)
अव्यक्तबीजप्रभवो बुद्धिस्कन्धमयो महान् |
महाहङ्कारविटप इन्द्रियान्तरकोटरः ||१४-४७-१२ (९३७१३)
महाभूतविशाखश्च विशेषप्रतिशाखवान् |
सदापत्रः सदापुष्पः शुभाशुभफलोदयः ||१४-४७-१३ (९३७१४)
आजीव्यः सर्वभूतानां ब्रह्मवृक्षः सनातनः |
एनं छित्त्वा च भित्त्वा च तत्त्वज्ञानासिना बुधः ||१४-४७-१४ (९३७१५)
हित्वा सङ्गमयान्पाशान्मृत्युजन्मजरोदयान् |
निर्ममो निरहङ्कारो मुच्यते नात्र संशयः ||१४-४७-१५ (९३७१६)
द्वाविमौ पक्षिणौ नित्यौ संक्षेपौ चाप्यचेतनौ |
एताभ्यां तु परो योन्यश्चेतनावान्स उच्यते ||१४-४७-१६ (९३७१७)
अचेतनः सत्वसङ्ख्याविमुक्तः
सत्त्वात्परं चेतयतेऽन्तरात्मा |
स क्षेत्रवित्सर्वसङ्ख्यातबुद्धि-
र्गुणातिगो मुच्यते सर्वपापैः ||||१४-४७-१७ (९३७१८)
इति श्रीमन्महाभारते आश्वमेधिकपर्वणि अनुगीतापर्वणि
सप्तचत्वारिंशोऽध्यायः ||४७ ||
Mahabharata -Ashvamedhika Parva -Chapter Footnotes
७-४७-१५ हित्वा चामरतां प्राप्य जह्याद्यो मृत्युजन्मनीति क.ठ.थ
. पाठः ||
७-४७-१६ पक्षिणौ जीवेश्वरौ ||
७-४७-१७ अचेतनस्तत्वसंघातयुक्तस्तत्वात्परं चेतयतेन्तरात्मा
. स क्षेत्रज्ञस्तत्वसंघातबुद्धिर्गुणातिगो मुच्यते मृत्युपाशादिति
क.थ.पाठः ||
आश्वमेधिकपर्व -अध्याय ०४८
||श्रीः ||
१४. ४८. अध्यायः ४८
अथानुगीतापर्व-२
Mahabharata -Ashvamedhika Parva -Chapter Topics
ब्रह्मणा महर्षीन्प्रति योगिनां चातुर्विध्यादिकथनपूर्वकं
मुमुक्षुवेद्यनानार्थकथनम् ||१ ||
Mahabharata -Ashvamedhika Parva -Chapter Text
ब्रह्मोवाच |
केचिद्ब्रह्ममयं वृक्षं केचिद्ब्रह्ममयं वनम् |
केचित्परममव्यक्तं केचित्परमनामयम् |
मन्यन्ते सर्वमप्येतदव्यक्तप्रभवाव्ययम् ||१४-४८-१ (९३७१९)
उच्छ्वासमात्रमपि चेद्योऽन्तकाले समो भवेत् |
आत्मानमुपसङ्म्य सोमृतत्वाय कल्पते ||१४-४८-२ (९३७२०)
निमेषमात्रमपि चेत्संयम्यात्मानमात्मनि |
गच्छत्यात्मप्रसादेन विदुषां प्राप्तिमव्ययाम् ||१४-४८-३ (९३७२१)
प्राणायामैरथ प्राणान्संयम्य स पुनःपुनः |
दशद्वादशभिर्वापि चतुर्विंशात्समन्ततः ||१४-४८-४ (९३७२२)
एवं पूर्वं प्रसन्नात्मा लभते यद्यदिच्छति |
अव्यक्तात्सत्वमुद्रिक्तममृतत्वाय कल्पते ||१४-४८-५ (९३७२३)
सत्वात्परतरं नान्यत्प्रशंसन्तीह तद्विदः |
अनुमानाद्विजानीमः पुरुषं सत्वसंश्रयम् |
न शक्यमन्यथा गन्तुं पुरुषं द्विजसत्तमाः ||१४-४८-६ (९३७२४)
क्षमा धृतिरहिंसा च समता सत्यमार्जवम् |
ज्ञानं त्यागोथ संन्यासः सात्विकं वृत्तमिष्यते ||१४-४८-७ (९३७२५)
एतेनैवानुमानेन मन्यन्ते वै मनीषिणः |
सत्वं च पुरुषश्चैव तत्र नास्ति विचारणा ||१४-४८-८ (९३७२६)
आहुरेके च विद्वांसो ये ज्ञाने सुप्रतिष्ठिताः |
क्षेत्रज्ञसत्वयोरैक्यमित्येतन्नोपपद्यते ||१४-४८-९ (९३७२७)
पृथग्भूतस्तथा नित्यमित्येतदविचारितम् |
पृथग्भावश्च विज्ञेयः सहजश्चापि तत्त्वतः ||१४-४८-१० (९३७२८)
तथैवैकत्वनानात्वमिष्यते विदुषां नयः |
मशकोदुम्बरे चैक्यं पृथक्त्वमपि दृश्यते ||१४-४८-११ (९३७२९)
मत्स्यो यथाऽन्यः स्यादप्सु सम्प्रयोगस्तथा तयोः |
सम्बन्धस्तोयबिन्दूनां पर्णैः कोकनदस्य च ||१४-४८-१२ (९३७३०)
गुरुरुवाच. १४-४८-१३क्ष् (७८६३)
इत्युक्तवन्तस्ते विप्रास्तदा लोकपितामहम् |
पुनः संशयमापन्नाः पप्रच्छुर्मुनिसत्तमाः ||||१४-४८-१३ (९३७३१)
इति श्रीमन्महाभारते आश्वमेधिकपर्वणि अनुगीतापर्वणि
अष्टचत्वारिंशोऽध्यायः ||४८ ||
Mahabharata -Ashvamedhika Parva -Chapter Footnotes
७-४८-२ भोक्तुः कालेन वै भवेदिति ट.पाठः ||
७-४८-१३ उक्तं विद्यते येषु ते उक्तवन्तः उक्तमर्थं
सम्यगवधृतवन्त इत्यर्थः ||
आश्वमेधिकपर्व -अध्याय ०४९
||श्रीः ||
१४. ४९. अध्यायः ४९
अथानुगीतापर्व-२
Mahabharata -Ashvamedhika Parva -Chapter Topics
महर्षिभिर्ब्रह्मणंप्रति धर्मविषये
नानाविधवादिविप्रतिपत्तिप्रदर्शनपूर्वकं
तत्प्रयुक्तस्वीयसंशयनिवर्तनप्रार्थना ||१ ||
Mahabharata -Ashvamedhika Parva -Chapter Text
ऋषय ऊचुः |
को वा स्विदिह धर्माणामनुष्ठेयतमो मतः |
व्याहतामिव पश्यामो धर्मस्य विविधां गतिम् ||१४-४९-१ (९३७३२)
ऊर्द्ध्वं देहाद्वदन्त्येके नैतदस्तीति चापरे |
केचित्संशयितं सर्वं निःसंशयमथापरे ||१४-४९-२ (९३७३३)
अनित्यं नित्यमित्येके नास्त्यस्तीत्यपि चापरे |
त्रिधेत्येके द्विधेत्येके व्याकीर्णमिति चापरे ||१४-४९-३ (९३७३४)
मन्यन्ते ब्राह्मणा एव ब्रह्मज्ञास्तत्त्वदर्शिनः |
एकमेके पृथक्चान्ये बहुत्वमिति चापरे ||१४-४९-४ (९३७३५)
देशकालावुभौ केचिन्नैतदस्तीति चापरे |
जटाजिनधराश्चान्ये मुण्डाः केचिदसंवृताः ||१४-४९-५ (९३७३६)
अश्नानं केचिदिच्छन्ति स्नानमप्यपरे जनाः |
मन्यन्ते ब्राह्मणा देवा ब्रह्मज्ञास्तत्त्वदर्शिनः ||१४-४९-६ (९३७३७)
आहारं केचिदिच्छन्ति केचिच्चानशने रताः |
कर्म केचित्प्रशंसन्ति प्रशान्ति चापरे जनाः ||१४-४९-७ (९३७३८)
केचिन्मोक्षं प्रशंसन्ति केचिद्भोगान्पृथग्विधान् |
धनानि केचिदिच्छन्ति निर्धनत्वमथापरे |
उपास्य साधनं त्वेके नैतदस्तीति चापरे ||१४-४९-८ (९३७३९)
अहिंसानिरताश्चान्ये केचिद्धिंसापरायणाः |
पुण्येन यशसा चान्ये नैतदस्तीति चापरे ||१४-४९-९ (९३७४०)
सद्भावनिरताश्चान्ये केचित्संशयिते स्थिताः |
दुःखादन्ये सुखादन्ये ध्यानमित्यपरे जनाः ||१४-४९-१० (९३७४१)
यज्ञ इत्यपरे विप्राः प्रदानमिति चापरे |
तपस्त्वन्ये प्रशंसन्ति स्वाध्यायमपरे जनाः ||१४-४९-११ (९३७४२)
ज्ञानं संन्यासमित्येके स्वभावं भूतचिन्तकाः |
सर्वमेके प्रशंसन्ति न सर्वमिति चापरे ||१४-४९-१२ (९३७४३)
एवं व्युत्थापिते धर्मे बहुधा विप्रबोधिते |
निश्चयं नाधिगच्छामः श्रेयः किमिति सत्तम ||१४-४९-१३ (९३७४४)
इदं श्रेय इदं श्रेय इत्येवं व्युस्थितो जनः |
यो हि यस्मिन्रतो धर्म स तं पूजयते सदा ||१४-४९-१४ (९३७४५)
तेन नोऽविहिता प्रज्ञा मनश्च बहुलीकृतम् |
एतदाख्यातमिच्छामः श्रेयः किमिति सत्तम ||१४-४९-१५ (९३७४६)
अतः परं तु यद्गुह्यं तद्भवान्वक्तुमर्हति |
सत्वक्षेत्रज्ञयोश्चापि सम्बन्धः केन हेतुना ||१४-४९-१६ (९३७४७)
एवमुक्तः स तैर्विप्रैर्भगवाँल्लोकभावनः |
तेभ्यः शशंस धर्मात्मा याथातथ्येन बुद्धिमान् ||||१४-४९-१७ (९३७४८)
इति श्रीमन्महाभारते आश्वमेधिकपर्वणि अनुगीतापर्वणि
एकोनपञ्चशोऽध्यायः ||४९ ||
Mahabharata -Ashvamedhika Parva -Chapter Footnotes
७-४९-१ न कर्मणेति कुर्वन्नेवेह
कर्माणीत्युभयविधश्रुतिदर्शनान्मुह्यामहे इति भावः ||
७-४९-२ ऊर्ध्वं देहात् देहनाशादूर्ध्वमपि आत्मास्तीत्येके वदन्तीति
सम्बन्धः | नैतदिति लोकायताः. सर्वं संशयितमिति स्याद्वादिनः
सप्तभङ्गीनयज्ञाः. निःसंशयमिति प्रातिस्विकं सर्वं तैर्तिकाः ||
७-४९-३ अनित्यं सर्वं सृष्टिप्रलययुक्तमिति तार्किकादयः | नित्यं
प्रवाहनित्यमिति मीमांसकाः. नास्तीति शून्यवादिनः. अस्ति परंतु
क्षणिकमिति सौगताः ||
७-४९-६ अस्नानं नैष्ठिकब्रह्मचर्यम् | स्नानं गार्हस्थ्यम् ||
७-४९-८ साधनं ध्यानादिकमुपास्य कृत्वापि नैतदस्तीति
पश्चात्सर्वमपवदन्ति ||
७-४९-९ पुण्येन पुण्यार्थमेव यतेतेत्यन्ये | एतत्पुण्यं नास्त्येवेत्यन्ये
लोकायताः ||
७-४९-१० संशयिते कृतमस्ति नवेति संदिग्धे पथि
. दुःखात् दुःखनिवृत्त्यर्थं सुखात्सुखप्राप्त्यर्थं ध्यानं
कर्तव्यम्. निष्काममेवेत्यपरे ||
७-४९-११ सत्यमेके प्रशंसन्ति असत्यमिति चापरे इति थ.पाठः ||
७-४९-१२ ज्ञानं संन्यासं संन्यासैकप्राप्यम्
. भूतचिन्तकाः वस्तुतत्त्वविचारकाः. स्वभावं
साधनपौष्कल्यम्. साधनपौष्कल्यस्वाभाव्यादेव ज्ञानमुत्पद्यते
आश्रमान्तरेपि न संन्यासमात्रेणेत्याहुः ||
७-४९-१५ अविहिता अशिक्षिता | आख्यातं त्वयेति शेषः ||
आश्वमेधिकपर्व -अध्याय ०५०
||श्रीः ||
१४. ५०. अध्यायः ५०
अथानुगीतापर्व-२
Mahabharata -Ashvamedhika Parva -Chapter Topics
ब्रह्मणा महर्षिन्प्रति धर्मप्रदर्शनपूर्वकं
तदनुष्ठानसहकृतज्ञानस्यैव दृष्टान्तप्रदर्शनेन
परमपुरुषार्थसाधनत्वोक्तिः ||१ ||
Mahabharata -Ashvamedhika Parva -Chapter Text
ब्रह्मोवाच |
हन्त वः सम्प्रक्ष्यामि यन्मां पृच्छथ सत्तमाः |
गुरुणा शिष्यमासाद्य यदुक्तं तन्निबोधत ||१४-५०-१ (९३७४९)
समस्तमिह तच्छ्रुत्वा सम्यगेवावधार्यताम् |
अहिंसा सर्वभूतानामेतत्कृत्यतमं मतम् ||१४-५०-२ (९३७५०)
एतत्पदमनुद्विग्नं वरिष्ठं धर्मलक्षणम् |
ज्ञानं निःश्रेय इत्याहुर्वृद्धा निश्चितदर्शिनः |
तस्माज्ज्ञानेन शुद्धेन मुच्यते सर्वकिल्बिषैः ||१४-५०-३ (९३७५१)
हिंसापराश्च ये केचिद्ये च नास्तिकवृत्तयः |
लोभमोहसमायुक्तास्ते वै निरयगामिनः ||१४-५०-४ (९३७५२)
आशीर्युक्तानि कर्माणि कुर्वते ये त्वतन्द्रिताः |
तेऽस्मिन्लोके प्रमोदन्ते जायमानाः पुनः पुनः ||१४-५०-५ (९३७५३)
कुर्वते ये तु कर्माणि श्रद्धधाना विपश्चितः |
अनाशीर्योगसंयुक्तास्ते धीराः साधुदर्शिनः ||१४-५०-६ (९३७५४)
अतः परं प्रवक्ष्यामि सत्वक्षेत्रज्ञयोर्यथा |
संयोगो विप्रयोगश्च तन्निबोधत सत्तमाः ||१४-५०-७ (९३७५५)
विषयो विषयित्वं च सम्बन्धोऽयमिहोच्यते |
विषयी पुरुषो नित्यं सत्वं च विषयः स्मृतः ||१४-५०-८ (९३७५६)
व्याख्यातं पूर्वकल्पेनि मशकोदुम्बरं यथा |
भुज्यमानं न जानीते नित्यं सत्वमचेतनम् |
यस्त्वेवं तं विजानीते यो भुङ्क्ते यश्च भुज्यते ||१४-५०-९ (९३७५७)
अनित्यं द्वन्द्वसंयुक्तं सत्वमाहुर्मनीषिणः |
निर्द्वन्द्वो निष्कलो नित्यः क्षेत्रज्ञो निर्गुणात्मकः ||१४-५०-१० (९३७५८)
समः संज्ञानुगश्चैव स सर्वत्र व्यवस्थितः |
न सज्जते सदा सत्वमापः पुष्करपर्णवत् ||१४-५०-११ (९३७५९)
सर्वैरपि गुणैर्विद्वान्व्यतिषक्तो न लिप्यते |
जलबिन्दुर्यथा लोलः पद्मिनीपत्रसंस्थितः ||१४-५०-१२ (९३७६०)
एवमेवाप्यसंयुक्तः पुरुषः स्यान्न संशयः |
द्रव्यमात्रमभूत्सत्वं पुरुषस्येति निश्चयः ||१४-५०-१३ (९३७६१)
यथा द्रव्यं च कर्ता च संयोगोऽप्यनयोस्तथा |
यथा प्रदीपमादाय कश्चित्तमसि गच्छति |
तथा सत्त्वप्रदीपेन गच्छन्ति परमर्षयः ||१४-५०-१४ (९३७६२)
यावद्द्रव्यं गुणस्तावत्प्रदीपः सम्प्रकाशते |
क्षीणे द्रव्ये गुणे ज्योतिरन्तर्धानाय गच्छति ||१४-५०-१५ (९३७६३)
व्यक्तः सत्वगुणस्त्वेवं पुरुषो द्रव्यमुच्यते |
एतद्विप्रा विजानीत हन्त भूयो ब्रवीमि वः ||१४-५०-१६ (९३७६४)
सहस्रेणापि दुर्मेधा न बुद्धिमधिगच्छति |
चतुर्थेनाप्यथांशेन बुद्धिमान्सुखमेधते ||१४-५०-१७ (९३७६५)
एवं धर्मस्य विज्ञेयं संसाधनमुपायतः |
उपायज्ञो हि मेधावी सुखमत्यन्तमश्नुते ||१४-५०-१८ (९३७६६)
यथाऽध्वानमपाथेयः प्रपन्नो मनुजः क्वचित् |
क्लेशेन याति महता विनश्यत्यन्तराऽपि च ||१४-५०-१९ (९३७६७)
तथा कर्मसु विज्ञेयं फलं भवति वा न वा |
पुरुषस्यात्मनिःश्रेयः शुभाशुभनिदर्शनम् ||१४-५०-२० (९३७६८)
यथा च दीर्घमध्वानं पद्म्यामेव प्रपद्यते |
अदृष्टपूर्वं सहसा तत्त्वदर्शनवर्जितः ||१४-५०-२१ (९३७६९)
तमेव च यथाऽध्वानं रथेनेहाशुगामिना |
गच्छत्यश्वप्रयुक्तेन तथा बुद्धिमतां गतिः ||१४-५०-२२ (९३७७०)
ऊर्ध्वं पर्वतमारुह्य नान्ववेक्षेत भूतलम् |
रथेन रथिनं पश्येत्क्लिश्यमानमचेतनम् ||१४-५०-२३ (९३७७१)
यावद्रथपथस्तावद्रथेन स तु गच्छति |
क्षीणे रथपदे विद्वान्रथमुत्सृज्य गच्छति ||१४-५०-२४ (९३७७२)
एवं गच्छति मेधावी तत्त्वयोगविधानवित् |
परिज्ञाय गुणज्ञश्च उत्तरादुत्तरोत्तरम् ||१४-५०-२५ (९३७७३)
यथाऽर्णवं महाघोरमप्लवः सम्प्रगाहते |
बाहुभ्यामेव सम्मोहाद्वधं वाञ्छत्यसंशयम् ||१४-५०-२६ (९३७७४)
नावा चापि यथा प्राज्ञो विभागज्ञः स्वरित्रया |
अश्रान्तः सलिलं गहाच्छीध्रं संतरते ह्रदम् ||१४-५०-२७ (९३७७५)
तीर्णो गच्छेत्परं पारं नावमुत्सृज्य निर्ममः |
व्याख्यातं पूर्वकल्पेन यथा रथपदातिनोः ||१४-५०-२८ (९३७७६)
स्नेहात्सम्मोहमापन्नो नावि दाशो यथा तथा |
ममत्वेनाभिभूतः संस्तत्रैव परिवर्तते ||१४-५०-२९ (९३७७७)
नावं न शक्यमारुह्य स्थले विपरिवर्तितुम् |
तथैव रथमारुह्य नाप्सु चर्या विधीयते ||१४-५०-३० (९३७७८)
एवं कर्म कृतं वित्त विषयस्थं पृथक्पृथक् |
यथा कर्म कृतं लोके तथा तदुपपद्यते ||१४-५०-३१ (९३७७९)
यन्नैव गन्धि नो रस्यं न रूपस्पर्सशब्दवत् |
मन्यते न मनो बुद्ध्या तत्प्रधानं प्रचक्षते ||१४-५०-३२ (९३७८०)
तत्र प्रधानमव्यक्तमव्यक्तस्य गुणो महान् |
महप्रधानभूतस्य गुणोऽहङ्कार एव च ||१४-५०-३३ (९३७८१)
अहङ्कारात्तु सम्भूतो महाभूतकृतो गुणः |
पृथक्त्वेन हि भूतानां विषया वै गुणाःस्मृताः ||१४-५०-३४ (९३७८२)
बीजधर्मं यथाऽव्यक्तं तथैव प्रसवात्मकम् |
बीजधर्मा महानात्मा प्रसवश्चेति नः श्रुतम् ||१४-५०-३५ (९३७८३)
बीजधर्मात्साहङ्कारात्प्रसवश्च पुनःपुनः |
बीजप्रसवधर्माणि महाभूतानि पञ्च वै ||१४-५०-३६ (९३७८४)
बीजधर्मिण इत्याहुः प्रसवं च प्रकुर्वते |
विशेषाः पञ्चभूतानां तेषां वित्त विशेषणम् ||१४-५०-३७ (९३७८५)
तत्रैकगुणमाकाशं द्विगुणो वायुरुच्यते |
त्रिगुणं ज्योतिरित्याहुरापश्चापि चतुर्गुणाः ||१४-५०-३८ (९३७८६)
पृथ्वी पञ्चगुणा ज्ञेया चरस्थावरसङ्कुला |
सर्वभूतकरी देवी शुभाशुभनिदर्शिनी ||१४-५०-३९ (९३७८७)
शब्दः स्पर्शस्तथा रूपं रसो गन्धश्च पञ्चमः |
एते पञ्चगुणा भूमेर्विज्ञेया द्विजसत्तमाः ||१४-५०-४० (९३७८८)
पार्थिवश्च सदा गन्धो गन्धश्च बहुधा स्मृतः |
तस्य गन्धस्य वक्ष्यामि विस्तरेण बहून्गुणान् ||१४-५०-४१ (९३७८९)
इष्टश्चानिष्टगन्धश्च मधुरोऽम्लः कटुस्तथा |
निर्हारी संहतः स्निग्धो रूक्षो विशद एव च ||१४-५०-४२ (९३७९०)
एवं दशविधो ज्ञेयः पार्थिवो गन्ध इत्युत |
शब्दः स्पर्शस्तथा रूपं द्रवश्चापां गुणाः स्मृताः ||१४-५०-४३ (९३७९१)
रसज्ञानं तु वक्ष्यामि रसस्तु बहुधा स्मृतः |
मधुरोऽम्लः कटुस्तिक्तः कषायो लवणस्तथा ||१४-५०-४४ (९३७९२)
एवं षड्विधविस्तारो रसो वारिमयः स्मृतः |
शब्दः स्पर्शस्तथा रूपं त्रिगुणं ज्योतिरुच्यते ||१४-५०-४५ (९३७९३)
ज्योतिषश्च गुणो रूपं रूपं च बहुधा स्मृतम् |
शुक्लं कृष्णं तथा रक्तं नीलं पीतारुणं तथा ||१४-५०-४६ (९३७९४)
ह्रस्वं दीर्घं कृशं स्थूलं चतुरश्राणुवृत्तकम् |
एवं द्वादशविस्तारं तेजसो रूपमुच्यते ||१४-५०-४७ (९३७९५)
विज्ञेयं ब्राह्मणैर्वृद्धैर्धर्मज्ञैः सत्यवादिभिः |
शब्दस्पर्शौ च विज्ञेयौ द्विगुणो वायुरुच्यते ||१४-५०-४८ (९३७९६)
वायोश्चापि गुणः स्पर्शः स्पर्सश्च बहुधा स्मृतः |
उष्णः शीतः सुखो दुःखः स्निग्धो विशद एव च ||१४-५०-४९ (९३७९७)
कठिनश्चिक्वणः श्लक्ष्णः पिच्छिलो दारुणो मृदुः |
एवं द्वादशविस्तारो वायव्यो गुण उच्यते ||१४-५०-५० (९३७९८)
विधिवद्ब्राह्मणैः सिद्धैर्मन्त्रज्ञैस्तत्त्वदार्शिभिः ||१४-५०-५१ (९३७९९)
तत्रैकगुणमाकाशं शब्द इत्येव च स्मृतः |
तस्य शब्दस्यि वक्ष्यामि विस्तरेण बहून्गुणान् ||१४-५०-५२ (९३८००)
षड्जर्षभः सगान्धारो मध्यमः पञ्चमस्तथा |
अतः परं तु विज्ञेयो निषादो धैवतस्तथा |
इष्टश्चानिष्टशब्दश्च संहतः प्रतिभानवान् ||१४-५०-५३ (९३८०१)
एवं बहुविधो ज्ञेयः शब्द आकाशसम्भवः |
आकाशमुत्तमं भूतमहङ्कारस्ततः परः ||१४-५०-५४ (९३८०२)
अहङ्कारात्परा बुद्धिर्बुद्धेरात्मा ततः परः |
तस्मात्तु परमव्यक्तमव्यक्तात्पुरुषः परः ||१४-५०-५५ (९३८०३)
परावरज्ञो भूतानां विधिज्ञः सर्वकर्मणाम् |
सर्वभूतात्मभूतात्मा यं प्राप्यानन्त्यमश्नुते ||||१४-५०-५६ (९३८०४)
इति श्रीमन्महाभारते आश्वमेधिकपर्वणि अनुगीतापर्वणि
पञ्चाशोऽध्यायः ||५० ||
आश्वमेधिकपर्व -अध्याय ०५१
||श्रीः ||
१४. ५१. अध्यायः ५१
अथानुगीतापर्व-२
Mahabharata -Ashvamedhika Parva -Chapter Topics
कृष्णेनार्जुनंप्रति
मुक्त्युपायप्रतिपादकगुरुशिष्यसंवादानुवादसमापनपूर्वकं स्वस्य
निजनगरजिगमिषानिवेदनम् ||१ ||
Mahabharata -Ashvamedhika Parva -Chapter Text
ब्रह्मोवाच |
भूतानामथ पञ्चानामथेषामीश्वरं मनः |
नियमे च विसर्गे च भूतानां मन एव च ||१४-५१-१ (९३८०५)
अधिष्ठातृमनो नित्यं भूतानां महतां तथा |
बुद्धिरैश्वर्यमाचष्टे क्षेत्रज्ञश्च स उच्यते ||१४-५१-२ (९३८०६)
इनद्रियाणि मनो युङ्क्ते सदश्वानिव सारथिः |
इन्द्रियाणि मनो बुद्धिः क्षेत्रज्ञे युज्यते सदा ||१४-५१-३ (९३८०७)
महदश्वसमायुक्तं बुद्धिसंयमनं रथम् |
समारुह्य स भूतात्मा समन्तात्परिधावति ||१४-५१-४ (९३८०८)
इन्द्रियग्रामसंयुक्तो मनःसारथिरेव च |
बुद्धिसंयमनो नित्यं महान्ब्रह्ममयो रथः ||१४-५१-५ (९३८०९)
एवं यो वेत्ति विद्वान्वै सदा ब्रह्ममयं रथम् |
स धीरः सर्वलोकेषु न मोहमधिगच्छति ||१४-५१-६ (९३८१०)
अव्यक्तादिविशेषान्तं सहस्थावरजङ्गमम् ||
सूर्यचन्द्रप्रभालोकं ग्रहनक्षत्रमण्डितम् ||१४-५१-७ (९३८११)
नदीपर्वतजालैश्च सर्वतः परिभूषितम् |
विविधाभिस्तथा चाद्भिः सततं समलंकृतम् ||१४-५१-८ (९३८१२)
अजितं सर्वभूतानां सर्वप्राणभृतां गतिः |
एतद्ब्रह्मवनं नित्यं तस्मिंश्चरति क्षेत्रवित् ||१४-५१-९ (९३८१३)
लोकेऽस्मिन्यानि सत्वानि त्रसानि स्थावराणि च |
तान्येवाग्रे प्रलीयन्ते पश्चाद्भूतकृता गुणाः |
गुणेभ्यः पञ्च भूतानि एष भूतसमुच्छ्रयः ||१४-५१-१० (९३८१४)
देवा मनुष्या गन्धर्वाः पिशाचासुरराक्षसाः |
सर्वे स्वभावतः सृष्टा न क्रियाभ्यो न कारणात् ||१४-५१-११ (९३८१५)
एते विश्वसृजो विप्रा जायन्तीह पुनः पुनः |
तेभ्यः प्रसूतास्तेष्वेव महाभूतेषु पञ्चसु |
प्रलीयन्ते यथाकालमूर्मयः सागरे यथा ||१४-५१-१२ (९३८१६)
विश्वसृग्भ्यस्तु भूतेभ्यो महाभूतास्तु सर्वशः |
भूतेब्यश्चापि पञ्चभ्यो भुक्तो गच्छेत्परां गतिम् ||१४-५१-१३ (९३८१७)
प्रजापतिरिदं सर्वं मनसैवासृजत्प्रभुः |
तथैव देवानृषयस्तपसा प्रतिपेदिरे ||१४-५१-१४ (९३८१८)
तपसश्चानुपूर्व्येण फलमूलाशिनस्तथा |
त्रैलोक्यं तपसा सिद्धाः पश्यन्तीह समाहिताः ||१४-५१-१५ (९३८१९)
औषधान्यगदादीनि नानाविद्याश्च सर्वशः |
तपसैव प्रसिद्ध्यन्ति तपोमूलं हि साधनम् ||१४-५१-१६ (९३८२०)
यद्दुरापं दुराम्नायं दुराधर्षं दुरन्वयम् |
तत्सर्वं तपसा साध्यं तपो हि दुरतिक्रमम् ||१४-५१-१७ (९३८२१)
सुरापो ब्रह्महा स्तेनो भ्रूणहागुरुतल्पगः |
तपसैव सुतप्तेन मुच्यते किल्बिषात्ततः ||१४-५१-१८ (९३८२२)
मनुष्याः पितरो देवाः पशवो मृगपक्षिणः |
यानि चान्यानि भूतानि चराणि स्थावराणि च ||१४-५१-१९ (९३८२३)
तपःपरायणा नित्यं सिद्ध्यन्ते तपसा सदा |
तथैव तपसा देवा महाभागा दिवं गताः ||१४-५१-२० (९३८२४)
आशीर्युक्तानि कर्माणि कुर्वते ये त्वतन्द्रिताः |
अहङ्कारसमायुक्तास्ते सकाशे प्रजापतेः ||१४-५१-२१ (९३८२५)
ध्यानयोगेन शुद्वेन निर्ममा निरहंकृताः |
आप्नुवन्ति महात्मानो महान्तं लोकमुत्तमम् ||१४-५१-२२ (९३८२६)
ध्यानयोगमुपागम्य प्रसन्नमतयः सदा |
सुखोपचयमव्यक्तं प्रविशन्त्यात्मवित्तमाः ||१४-५१-२३ (९३८२७)
ध्यानयोगादुपागम्य निर्ममा निरहंकृताः |
अव्यक्तं प्रविशन्तीह महतां लोकमुत्तमम् ||१४-५१-२४ (९३८२८)
अव्यक्तादेव सम्भूताः समयज्ञा गताः पुनः |
तमोरजोभ्यां निर्मुक्ताः सत्वमास्थाय केवलम् ||१४-५१-२५ (९३८२९)
निर्मुक्तः सर्वपापेभ्यः सर्वं त्यजति निष्कलः |
क्षेत्रज्ञ इति तं विद्याद्यस्तं वेद स वेदवित् ||१४-५१-२६ (९३८३०)
चित्तं चित्तादुपागम्य मुनिरासीत संयतः |
यच्चित्तस्तन्मना भूत्वा ग्राह्यमेतत्सनातनम् ||१४-५१-२७ (९३८३१)
अव्यक्तादिविशेषान्तमविद्यालक्षणं स्मृतम् |
निबोधत तथा ज्ञानं गुणैर्लक्षणमित्युत ||१४-५१-२८ (९३८३२)
द्व्यक्षरस्तु भवेन्मृत्युस्त्र्यक्षरं ब्रह्म शाश्वतम् |
ममेति च भवेन्मृत्युर्न ममेति च शाश्वतम् ||१४-५१-२९ (९३८३३)
कर्म केचित्प्रशंसन्ति मन्दबुद्धितया नराः |
ये तु वृद्धा महात्मानो न प्रशंसन्ति कर्म ते ||१४-५१-३० (९३८३४)
कर्मणा जायते जन्तुर्मूर्तिमान्षोडशात्मकः |
पुरुषं ग्रसते विद्या तद्ग्राह्यममृताशिनम् ||१४-५१-३१ (९३८३५)
तस्मात्कर्मसु निःस्नेहा ये केचित्पारदर्शिनः |
विद्यामयोऽयं पुरुषो न तु कर्ममयः स्मृतः ||१४-५१-३२ (९३८३६)
य एवममृतं नित्यमग्राह्यं शश्वदक्षरम् ||
वश्यात्मानमसंश्लिष्टं यो वेद न मृतो भवेत् ||१४-५१-३३ (९३८३७)
अपूर्वमकृतं नित्यं य एनमविचारिणम् |
य एवं विन्देदात्मानमग्राह्यममृताशनम् |
अग्राह्यो ह्यमृतो भवति स एभिः कारणैर्ध्रुवः ||१४-५१-३४ (९३८३८)
आयोज्य सर्वसंस्कारान्संयम्यात्मानमात्मनि |
स तद्ब्रह्म शुभं वेत्ति यस्माद्भूयो न विद्यते ||१४-५१-३५ (९३८३९)
प्रसादे चैव सत्वस्य प्रसादं समवाप्नुयात् |
लक्षणं हि प्रसादस्य यथा स्यात्स्वप्नदर्शनम् ||१४-५१-३६ (९३८४०)
गतिरेषा तु मुक्तानां ये ज्ञानपरिनिष्ठिताः |
प्रवृत्तयश्च याः सर्वाः पश्यन्ति परिणामजाः ||१४-५१-३७ (९३८४१)
एषा गतिर्विरक्तानामेष धर्मः सनातनः |
एषा ज्ञानवतां प्राप्तिरेतद्वृत्तमनिन्दितम् ||१४-५१-३८ (९३८४२)
समेन सर्वभूतेषु निस्पृहेण निराशिषा |
शक्या गतिरियं गन्तुं सर्वत्र समदर्शिना ||१४-५१-३९ (९३८४३)
एतद्वः सर्वमाख्यातं मया विप्रर्षिसत्तमाः |
एवमाचरत क्षिप्रं ततः सिद्धिमवाप्स्यथ ||१४-५१-४० (९३८४४)
गुरुरुवाच. १४-५१-४१क्ष् (७८६४)
इत्युक्तास्ते तु मुनयो गुरुणा ब्रह्मणा तथा |
कृतवन्तो महात्मानस्ततो लोकमवाप्नुवन् ||१४-५१-४१ (९३८४५)
त्वमप्येतन्महाभाग मयोक्तं ब्रह्मणो वचः |
सम्यगाचर शुद्धात्भंस्ततः सिद्धिमवाप्स्यसि ||१४-५१-४२ (९३८४६)
वासुदेव उवाच. १४-५१-४३क्ष् (७८६५)
इत्युक्तः स तदा शिष्यो गुरुणा धर्ममुत्तमम् |
चकार सर्वं कौन्तेय ततो मोक्षमवाप्तवान् ||१४-५१-४३ (९३८४७)
कृतकृत्यश्च स तदा शिष्यः कुरुकुलोद्वह |
तत्पदं समनुप्राप्तो यत्र गत्वा न शोचति ||१४-५१-४४ (९३८४८)
अर्जुन उवाच. १४-५१-४५क्ष् (७८६६)
को न्वसौ ब्राह्मणः कृष्ण कश्च शिष्यो जनार्दन |
श्रोतव्यं चेन्मयैतद्वै तत्त्वमाचक्ष्व मे विभो ||१४-५१-४५ (९३८४९)
वासुदेव उवाच. १४-५१-४६क्ष् (७८६७)
अहं गुरुर्महाबाहो मनः शिष्य च विद्धि मे |
त्वत्प्रीत्या गुह्यमेतच्च कथितं ते धनंजय ||१४-५१-४६ (९३८५०)
मयि चेदस्ति ते प्रीतिर्नित्यं कुरुकुलोद्वह |
अध्यात्ममेतच्छ्रुत्वा त्वं सम्यगाचर सुव्रत ||१४-५१-४७ (९३८५१)
ततस्त्वं सम्यगाचीर्णो धर्मेऽस्मिन्नरिकर्शन |
सर्वपापविनिर्मुक्तो मोक्षं प्राप्स्यसि केवलम् ||१४-५१-४८ (९३८५२)
पूर्वमप्येतदेवोक्तं युद्धकाल उपस्थिते |
मया तव महाबाहो तस्मादत्र मनः कुरु ||१४-५१-४९ (९३८५३)
मया तु भरतश्रेष्ठ चिरदृष्टः पिता प्रभुः |
तमहं द्रष्टमिच्छामि सम्मते तव फल्गुन ||१४-५१-५० (९३८५४)
वैशम्पायन उवाच. १४-५१-५१क्ष् (७८६८)
इत्युक्तवचनं कृष्णं प्रत्युवाच धनंजयः |
' यदिष्टं कुरु सर्वेषामीश्वरोऽस्मान्प्रपालय ||१४-५१-५१ (९३८५५)
नमस्ते सर्वलोकात्मन्नारायण परात्पर |
मनोमलात्तपोशक्यं कर्म चाविद्यया हतम् |
दानमप्यर्थदोषेणि नाम तस्मात्कलौ स्मरेत् ||१४-५१-५२ (९३८५६)
यदि गन्तुं कृता बुद्धिर्वासुदेव नमोस्तु ते.'
गच्छावो नगरं कृष्ण गजसाह्वयमद्य वै ||१४-५१-५३ (९३८५७)
समेत्य तत्रि राजानं धर्मात्मानं युधिष्ठिरम् |
समनुज्ञाप्य राजानं स्वां पुरीं यातुमर्हसि ||||१४-५१-५४ (९३८५८)
इति श्रीमन्महाभारते आश्वमेधिकपर्वणि अनुगीतापर्वणि
एकपञ्चाशोऽध्यायः ||५१ ||
Mahabharata -Ashvamedhika Parva -Chapter Footnotes
७-५१-१३ महाभूतानि गच्छतीति क.ट.थ.पाठः ||
७-५१-३१ विममो यः स पुरुष इति क.पाठः ||
७-५१-३५ अपोह्य सर्वान्संकल्पान्संयतात्मानमात्मनीति थ.पाठः ||
आश्वमेधिकपर्व -अध्याय ०५२
||श्रीः ||
१४. ५२. अध्यायः ५२
Mahabharata -Ashvamedhika Parva -Chapter Topics
अनुगीतोपदेशानन्तरं कृष्णार्जुनाभ्यां हास्तिनपुरंप्रति प्रस्थानम् ||१ ||
तत्र मध्येमार्गमर्जुनेन कृष्णंप्रति स्तुतिपूर्वकं व्यासनारदादिभ्यः
स्वस्य कृष्णयाथात्म्यावगतिनिवेदनम् ||२ ||
ततः कृष्णेन सहार्जुनेन हास्तिनपुरमेत्य धृतराष्ट्रादिभ्यः
पादाभिवादनम् ||३ ||
ततो युधिष्ठिराद्यनुमत्या सुभद्रामानीय सहसात्यकिना द्वारकांप्रति
प्रस्थानम् ||४ ||
Mahabharata -Ashvamedhika Parva -Chapter Text
वैशम्पायन उवाच |
ततोऽभ्यनोदयत्कृष्णो युज्यतामिति दारुकम् |
मुहूर्तादिव चाचष्ट युक्तमित्येव दारुकः ||१४-५२-१ (९३८५९)
तथैव चानुयात्राणि चोदयामास पाण्डवः |
सन्नह्यध्वं प्रयास्यामो नगर गजसाह्वयम् ||१४-५२-२ (९३८६०)
इत्युक्ताः सैनिकास्ते तु सज्जीभूता विशाम्पते |
आचख्युः सज्जमित्येवं पार्थायामिततेजसे ||१४-५२-३ (९३८६१)
ततस्तौ रथमास्थाय प्रयातौ कृष्णपाण्डवौ |
विकुर्वाणौ कताश्चित्राः प्रीयमाणौ विशाम्पते ||१४-५२-४ (९३८६२)
रथस्थं तु महातेजा वासुदेवं धनञ्जयः |
पुनरेवाब्रवीद्वाक्यमिदं भरतसत्तम ||१४-५२-५ (९३८६३)
त्वत्प्रसादाज्ज्यः प्राप्तो राज्ञा वृष्णिकुलोद्वह |
निहताः शत्रवश्चापि प्राप्तं राज्यमकण्टकम् ||१४-५२-६ (९३८६४)
नाथवन्तश्च भवता पाण्डवा मधुसूदन |
भवन्तं प्लवमासाद्य तीर्णाः स्म कुरुसागरम् |
' भक्तांस्त्वमाश्रितानस्मान्पालयामुत्र चेह च.' १४-५२-७ (९३८६५)
विश्वकर्मन्नमस्तेऽस्तु विश्वात्मन्विश्वसत्तम |
तथा त्वामभिजानामि तथा चाहं भवान्मतः ||१४-५२-८ (९३८६६)
त्वत्तेजःसम्भवो नित्यं हुताशो मधुसूदन |
रतिः क्रीडामयी तुभ्यं माया ते रोदसी विभो ||१४-५२-९ (९३८६७)
त्वयि सर्वमिदं विश्वं यदिदं स्थाणु जङ्गमम् |
त्वं हि सर्वं विकुरुषे भूतग्रामं चतुर्विधम् ||१४-५२-१० (९३८६८)
पृथिवीं चान्तरिक्षं च तथा स्थावरजङ्गमम् |
हसिंतं तेऽमला ज्योत्स्ना ऋतवश्चेन्द्रियाणि ते ||१४-५२-११ (९३८६९)
प्राणो वायुः सततगः क्रोधो मृत्युः सनातनः |
प्रसादे चापि पद्मा श्रीर्नित्यं त्वयि महामते ||१४-५२-१२ (९३८७०)
रतिस्तुष्टिर्धृतिः क्षान्तिर्मतिः कान्तिश्चराचरम् |
त्वमेवेह युगान्तेषु निधनं प्रोच्यसेऽनध ||१४-५२-१३ (९३८७१)
सुदीर्घेणापि कालेन न ते शक्या गुणा मया |
आत्मा च परमो वक्तुं नमस्ते नलिनेक्षण ||१४-५२-१४ (९३८७२)
विदितो मे सुदुर्धर्ष नारदाद्देवलात्तथा |
कृष्णद्वैपायनाच्चेव तथा कुरुपितामहात् ||१४-५२-१५ (९३८७३)
त्वयि सर्वं समासक्तं त्वमेवैको जनेश्वरः |
यच्चानुग्रहसंयुक्तमेतदुक्तं त्वयाऽनघ ||१४-५२-१६ (९३८७४)
एतत्सर्वमहं सम्यगाचरिष्ये जनार्दन |
इदं चाद्भुतमत्यन्तं कृतमस्मत्प्रियेप्सया ||१४-५२-१७ (९३८७५)
यत्पापो निहतः सङ्ख्ये कौरव्यो धृतराष्ट्रजः |
त्वया दग्धं हि तत्सैन्यं मया विजितमाहवे ||१४-५२-१८ (९३८७६)
भवता तत्कृतं कर्म येनावाप्तो जयो मया |
दुर्योधनस्य सङ्ग्रामे तव बुद्धिपराक्रमैः ||१४-५२-१९ (९३८७७)
कर्णस्य च वधोपायो यथावत्सम्प्रदर्शितः |
सैन्धवस्य च पापस्य भूरिश्रवस एव च ||१४-५२-२० (९३८७८)
' तस्मात्त्वमेव सञ्चिन्त्य हितं कुरु यथा तथा.'
अहं च प्रीयमाणेन त्वया देवकिनन्दन |
यदुक्तस्तत्करिष्यामि न हि मेऽत्र विचारणा ||१४-५२-२१ (९३८७९)
राजानं च समासाद्य धर्मात्मानं युधिष्ठिरम् |
चोदयिष्यामि धर्मज्ञ गमनार्थं तवानघ ||१४-५२-२२ (९३८८०)
आहृतं हि ममैतत्ते द्वारकागमनं प्रभो |
अचिरादेव द्रष्टा त्वं मातुलं मे जनार्दन |
बलदेवं च दुर्धर्षं तथाऽन्यान्वृष्णिपुङ्गवान् ||१४-५२-२३ (९३८८१)
एवं सम्भाषमाणौ तौ प्राप्तौ वारणसाह्वयम् |
तथा विविशतुश्चोभौ सम्प्रहृष्टनराकुलम् ||१४-५२-२४ (९३८८२)
तौ गत्वा धृतराष्ट्रस्य गृहं शक्रगृहोपमम्. १४-५२-२५ (९३८८३)
ददृशाते महाराज धृतराष्ट्रं जनेश्वरम् ||१४-५२-२५ (९३८८४)
विदुरं च महाबुद्धिं राजानं च युधिष्ठिरम् |
भीमसेनं च दुर्धर्षं माद्रीपुत्रौ च पाण्डवौ ||१४-५२-२६ (९३८८५)
धृतराष्ट्रमुपासीनं युयुत्सुं चापराजितम् |
गान्धारीं च महाप्रज्ञां पृथा कृष्णां च भामिनीम् ||१४-५२-२७ (९३८८६)
सुभद्राद्याश्च ताः सर्वा भरतानां स्त्रियस्तथा |
ददृशाते स्त्रियः सर्वा गान्धारीपरिचारिकाः ||१४-५२-२८ (९३८८७)
ततः समेत्य राजानं धृतराष्ट्रमरिंदमौ |
निवेद्य नामधेये स्वे तस्य पादावगृह्णताम् ||१४-५२-२९ (९३८८८)
गान्धार्याश्च पृथायाश्च धर्मराजस्य चैव हि |
भीमस्य च महात्मानौ तथा पादावगृह्णताम् ||१४-५२-३० (९३८८९)
क्षत्तारं चापि सङ्गृह्य पृष्ट्वा कुशलमव्ययम् |
' परिष्वज्य महात्मानं वेश्यापुत्रं महारथम्.'
तैः सार्धं नृपतिं वृद्धं ततस्तौ पर्युपासताम् ||१४-५२-३१ (९३८९०)
ततो निशि महाराजो धृतराष्ट्रः कुरूद्वहान् |
जनार्दनं च मेधावी व्यसर्जयत वै गृहान् ||१४-५२-३२ (९३८९१)
तेऽनुज्ञाता नृपतिना ययुः स्वं स्वं निवेशनम् |
धनंजयगृहानेव ययौ कृष्णस्तु वीर्यवान् ||१४-५२-३३ (९३८९२)
तत्रार्चितो यथान्यायं सर्वकामैरुपस्थितः |
कृष्णः सुष्वाप मेधावी धनंजयसहायवान् ||१४-५२-३४ (९३८९३)
प्रभातायां तु शर्वर्यां कृत्वा पौर्वाह्णिकीं क्रियाम् |
धर्मराजस्य भनं जग्मतुः परमार्चितौ |
यत्रास्ते स सहामात्यो धर्मराजो महाबलः ||१४-५२-३५ (९३८९४)
तौ प्रविश्य महात्मानौ तद्गृहं परमार्चितम् |
धर्मराजं ददृशतुर्देवराजमिवाश्विनौ ||१४-५२-३६ (९३८९५)
समासाद्य तु राजानं वार्ष्णेयकुरुपुङ्गवौ |
निषीदतुरनुज्ञातौ प्रीयमाणेन तेन तौ ||१४-५२-३७ (९३८९६)
ततः स राजा मेधावी विवक्षू प्रेक्ष्य तावुभौ |
प्रोवाच वदतां श्रेष्ठो वचनं राजसत्तमः ||१४-५२-३८ (९३८९७)
विवक्षू हि युवां मन्ये वीरौ यदुकुरूद्वहौ |
ब्रूतं कर्तास्मि सर्वं वां नचिरान्मा विचार्यताम् ||१४-५२-३९ (९३८९८)
इत्युक्तः फल्गुनस्तत्र धर्मराजानमब्रवीत् |
विनीतवदुपागम्य वाक्यं वाक्यविशारदः ||१४-५२-४० (९३८९९)
अयं चिरोषितो राजन्वासुदेवः प्रतापवान् |
भवन्तं समनुज्ञाप्य पितरं द्रष्टुमिच्छति ||१४-५२-४१ (९३९००)
स गच्छेदभ्यनुज्ञातो भवता यदि मन्यसे |
आनर्तनगरीं वीरस्तदनुज्ञातुमर्हसि ||१४-५२-४२ (९३९०१)
युधिष्ठिर उवाच. १४-५२-४३क्ष् (७८६९)
पुण्डरीकाक्ष भद्रं ते गच्छ त्वं मदुसूदन |
पुरीं द्वारवतीमद्य द्रष्टुं शूरसुतं प्रभो ||१४-५२-४३ (९३९०२)
रोचते मे महाबाहो गमनं तव केशव |
मातुलश्चिरदृष्टो मे त्वया देवी च देवकी ||१४-५२-४४ (९३९०३)
समेत्यि मातुलं गत्वा बलदेवं च मानद |
पूजयेथा महाप्राज्ञ मद्वाक्येन यथाऽर्हतः ||१४-५२-४५ (९३९०४)
स्मरेथाश्चापि मां नित्यं भीमं च बलिनां वरम् |
फाल्गुनं सहदेवं च नकुलं चैव मानद ||१४-५२-४६ (९३९०५)
आनर्तानवलोक्य त्वं पितरं च महाभुजः |
वृष्णींश्च पुनरागच्छेर्हयमेधे ममानघ ||१४-५२-४७ (९३९०६)
स गच्छ रत्नान्यादाय विविधानि वसूनि च |
यच्चप्यन्यन्मनोज्ञं ते तदप्यादत्स्व सात्वत ||१४-५२-४८ (९३९०७)
इयं च वसुधा कृत्स्ना प्रसादात्तव केशव |
अस्मानुपागता वीर निहताश्चापि शत्रवः ||१४-५२-४९ (९३९०८)
स्वर्गापवर्गविषयं त्वद्भक्तानां न दुर्लभम् |
संसारगहने चेद्धपापाग्निप्रशमाम्बुद ||' १४-५२-५० (९३९०९)
एवं ब्रुवति कौरव्ये धर्मराजे युधिष्ठिरे |
वासुदेवो वरः पुंसामिदं वचनमब्रवीत् ||१४-५२-५१ (९३९१०)
तवैव रत्नानि धनं च केवलं
धरा तु कृत्स्ना तु महाभुजाद्य वै |
यदस्ति चान्यद्द्रविणं गृहे मम
त्वमेव तस्येश्वर नित्यमीश्वरः ||१४-५२-५२ (९३९११)
तथेत्यथोक्तः प्रतिपूजितस्तदा
गदाग्रजो धर्मसुतेन वीर्यवान् |
पितृष्वसारं त्ववदद्यथाविधि
सम्पूजितश्चाप्यगमत्प्रदक्षिणम् ||१४-५२-५३ (९३९१२)
तया स सम्यक् प्रतिनन्दितस्तत-
स्तथैव सर्वैर्विदुरादिभिस्तथा |
विनिर्ययौ नागपुराद्गदाग्रजो
रथेन दिव्येन चतुर्भुजः स्वयम् ||१४-५२-५४ (९३९१३)
रथे सुभद्रामधिरोप्य भामिनीं
युधिष्ठिरस्यानुमते जनार्दनः |
पितृष्वसुश्चापि तथा महाभुजो
विनिर्ययौ पौरजनाभिसंवृतः ||१४-५२-५५ (९३९१४)
तमन्वयाद्वानरवर्यकेतनः
ससात्यकिर्माद्रवतीसुतावपि |
अगाधबुद्धिर्विदुरश्च माधवं
स्वयं च भीमो गजराजविक्रमः ||१४-५२-५६ (९३९१५)
निवर्तयित्वा कुरुराष्ट्रवर्धनां-
स्ततः स सर्वान्विदुरं च वीर्यवान् |
जनार्दनो दारुकमाह सत्वरः
प्रचोदयाश्वानिति सात्यकिं तथा ||१४-५२-५७ (९३९१६)
ततो ययौ शत्रुगणप्रमर्दनः
शिनिप्रवीरानुगतो जनार्दनः |
यथा निहत्यारिगणं शतकतु-
र्दिवं तथाऽऽनर्तपुरीं प्रतापवान् ||||१४-५२-५८ (९३९१७)
इति श्रीमन्महाभारते आश्वमेधिकपर्वणि अनुगीतापर्वणि
द्विपञ्चसोऽध्यायः ||५२ ||
आश्वमेधिकपर्व -अध्याय ०५३
||श्रीः ||
१४. ५३. अध्यायः ५३
Mahabharata -Ashvamedhika Parva -Chapter Topics
कुरुपुराद्द्वारकां गच्छता कृष्णेन मध्येमार्गं दृष्टेनोदङ्केन
सह संवादः ||१ ||
तथा कौरवादिविनाशे स्वोपेक्ष्याया हेतुत्वधिया स्वंप्रति
शापदानोद्यतोदङ्कपरिसान्त्वनाय तंप्रति तत्वकथनोपक्रमः ||२ ||
Mahabharata -Ashvamedhika Parva -Chapter Text
वैशम्पायन उवाच |
तथा प्रयान्तं वार्ष्णेयं द्वारकां भरतर्षभाः |
परिष्वज्य न्यवर्तन्त सानुयात्राः परंतपाः ||१४-५३-१ (९३९१८)
पुनःपुनश्च वार्ष्णेयं पर्यष्वजत फल्गुनः |
आचक्षुर्विषयाच्चैनं स ददर्श पुनःपुनः ||१४-५३-२ (९३९१९)
कृच्छ्रेणैव तु तां पार्तो गोविन्दे विनिवेशिताम् |
संजहार ततो दृष्टिं कृष्णश्चाप्यपराजितः ||१४-५३-३ (९३९२०)
तस्य प्रयाणे यान्यासन्निमित्तानि महात्मनः |
बहून्यद्भुतरूपाणि तानि मे गदतः शृणु ||१४-५३-४ (९३९२१)
वायुर्वेगेन महता रथस्य पुरतो ववौ |
कुर्वन्निःशर्करं मार्गं विरजस्कमकण्टकम् ||१४-५३-५ (९३९२२)
ववर्ष वासवश्चैव तोयं शुचि सुगन्धि च |
दिव्यानि चैव पुष्पाणि पुरतः शाङ्गधन्वनः ||१४-५३-६ (९३९२३)
स प्रयातो महाबाहुः समेषु मरुधन्वसु |
ददर्शाथ मुनिश्रेष्ठमुदङ्कममितौजसम् ||१४-५३-७ (९३९२४)
' महर्षिं सिद्धतपसं सर्वलोकान्तविश्रुतम्.'
स तं सम्पूज्य तेजस्वी मुनिं पृथुललोचनः |
पूजितस्तेन च तदा पर्यपृच्छदनामयम् ||१४-५३-८ (९३९२५)
स पृष्टः कुशलं तेन सम्पूज्य मधुसूदनम् |
उदङ्को ब्राह्मणश्रेष्ठस्ततः पप्रच्छ माधवम् ||१४-५३-९ (९३९२६)
कच्चिच्छौरे त्वया गत्वा कुरुपाण्डवसद्म तत् |
कृतं सौभ्रात्रमचलं तन्मे व्याख्यातुमर्हसि ||१४-५३-१० (९३९२७)
अपि सन्धाय तान्वीरानुपावृत्तोसि केशव |
सम्बन्दिनःक स्वदयितान्सततं वृष्णिपुङ्गव ||१४-५३-११ (९३९२८)
कच्चित्पाण्डुसुताः पञ्च धृतराष्ट्रस्य चात्मजाः |
लोकेषु विहरिष्यन्ति त्वया सह परंतप ||१४-५३-१२ (९३९२९)
स्वराष्ट्रे ते च राजानः कच्चित्प्राप्स्यन्ति वै सुखम् |
कौरवेषु प्रशान्तेषु त्वया नाथेन केशव ||१४-५३-१३ (९३९३०)
या मे सम्भावना तात त्वयि नित्यमवर्तत |
अपि सा सफला तात कृता ते भरतान्प्रति ||१४-५३-१४ (९३९३१)
श्रीभगवानुवाच. १४-५३-१५क्ष् (७८७०)
कृतो यत्नो मया पूर्वं सौशाम्ये कौरवान्प्रति |
नाशक्यन्त यदा साम्ये ते स्थापयितुमञ्जसा. १४-५३-१५ (९३९३२)
न दिष्टमप्यतिक्रान्तुं शक्यं बुद्ध्या बलेन वा |
महर्षे विदितं भूयः सर्वमेतत्तवानघ ||१४-५३-१६ (९३९३३)
तेऽत्यक्रामन्मतिं मह्यं भीष्मस्य विदुरस्य च |
ततो यमक्षयं जग्मुः समासाद्येतरेतरम् ||१४-५३-१७ (९३९३४)
पञ्चैव पाण्डवाः शिष्टा इतमित्रा हतात्मजाः |
धार्तराष्ट्राश्च निहताः सर्वे ससुतबान्धवाः ||१४-५३-१८ (९३९३५)
इत्युक्तवचने कृष्णे भृशं क्रोधसमन्वितः |
उदङ्क इत्युवाचैनं रोषादुत्फुल्ललोचनः ||१४-५३-१९ (९३९३६)
यस्माच्छक्तेन ते कृष्ण न त्राताः कुरुपुङ्गवाः |
सम्बन्धिनः प्रियास्तस्माच्छप्स्येऽहं त्वामसंशयम् ||१४-५३-२० (९३९३७)
न च ते प्रसभं यस्मात्ते निगृह्य निवारिताः |
तस्मान्मन्युपरीतस्त्वां शप्स्यामि मधुसूदन ||१४-५३-२१ (९३९३८)
त्वया शक्तेन हि सता मिथ्याचारेणि माधव |
ते परीताः कुरुश्रेष्ठा नश्यन्तः स्म ह्युपेक्षिताः ||१४-५३-२२ (९३९३९)
वासुदेव उवाच. १४-५३-२३क्ष् (७८७१)
शृणु मे विस्तरेणेदं यद्वक्ष्ये भृगुनन्दन |
गृहाणानुनयं चापि तपस्वी ह्यसि भार्गवम् ||१४-५३-२३ (९३९४०)
श्रुत्वा च मे तदध्यात्मं मुञ्चेथाः शापमद्य वै |
न च मां तपसाऽल्पेन शक्तोऽभिभवितुं पुमान् ||१४-५३-२४ (९३९४१)
न च ते तपसो नाशमिच्छामि तपतां वर |
तपस्ते सुमहद्दीप्तं गुरवश्चापि तोषिताः ||१४-५३-२५ (९३९४२)
कौमारं ब्रह्मचर्यं ते जानामि द्विजसत्तम |
दुःखार्जितस्य तपसस्तस्मान्नेच्चामि तेऽव्ययम् ||||१४-५३-२६ (९३९४३)
इति श्रीमन्महाभारते आश्वमेधिकपर्वणि अनुगीतापर्वणि
त्रिपञ्चाशोऽध्यायः ||५३ ||
Mahabharata -Ashvamedhika Parva -Chapter Footnotes
७-५३-१५ सौशाम्ये सौरस्ये ||
७-५३-२२ परीताः परितः प्राप्ताः ||
७-५३-२३ अनुनयं शिक्षाम् ||
७-५३-२४ मे मत्तः ||
आश्वमेधिकपर्व -अध्याय ०५४
||श्रीः ||
१४. ५४. अध्यायः ५४
Mahabharata -Ashvamedhika Parva -Chapter Topics
कृष्णेनोदङ्कंप्रति स्वमाहात्म्यप्रकाशनपूर्वकं कुरूणां
स्ववचनातिक्रमणादिरूपस्वापराधेनैव निधनोक्तिः ||१ ||
Mahabharata -Ashvamedhika Parva -Chapter Text
उदङ्क उवाच |
ब्रूहि केशव तत्त्वेन त्वमध्यात्ममनिन्दितम् |
श्रुत्वा श्रेयोऽभिधास्यामि शापं वा ते जनार्दन ||१४-५४-१ (९३९४४)
वासुदेव उवाच. १४-५४-२क्ष् (७८७२)
तमो रजश्च सत्वं च विद्धि भावान्मदाश्रयान् |
' स्थितिसृष्टिलयाध्यक्षो विष्णुब्रह्मेशसंज्ञितः ||१४-५४-२ (९३९४५)
कदाचित्तमसा रुद्रो विष्णुः सत्त्वगुणे स्थितः |
रजस्यपि तथा ब्रह्मा स्वगुणान्यगुणानुभौ ||१४-५४-३ (९३९४६)
प्रणवात्मा च शब्दादींस्त्रिगुणात्मा चराचरम्.'
तथा रुद्रान्वसून्वाऽपि विद्धि मत्प्रभवान्द्विज ||१४-५४-४ (९३९४७)
मयि सर्वाणि भूतानि सर्वभूतेषु चाप्यहम् |
स्थित इत्यभिजानीहि मा ते भूदत्र संशयः ||१४-५४-५ (९३९४८)
तथा दैत्यगणान्सर्वान्यक्षगन्धर्वराक्षसान् |
नागानप्सरसश्चैव विद्धि मत्प्रभवान्द्विज ||१४-५४-६ (९३९४९)
सदसच्चैव यत्प्राहुरव्यक्तं व्यक्तमेव च |
अक्षरं च क्षरं चैव सर्वमेतन्मदात्मकम् ||१४-५४-७ (९३९५०)
ये चाश्रमेषु वै धर्माश्चतुर्षु विहिता मुने |
वैदिकानि च कर्माणि विद्धि सर्वं मदात्मकम् ||१४-५४-८ (९३९५१)
असच्च सच्चैव च यद्विश्वं सदसतः परम् |
ततः परतरं नास्ति देवदेवात्सनातनात् ||१४-५४-९ (९३९५२)
ओंकारप्रभवान्वेदान्विद्धि मां त्वं भृगूद्वह |
यूपं सोमं चरुं होमं त्रिदशाप्यायनं मखे ||१४-५४-१० (९३९५३)
होतारमपि हव्यं च विद्धिं मां भृगुनन्दन |
अध्वर्युः कल्पकृच्चापि हविः परमसंस्कृतम् ||१४-५४-११ (९३९५४)
उद्गाता चापि मां स्तौति गीतघोषैर्महाध्वरे |
प्रायश्चित्तेषु मां ब्रह्मञ्शान्तिमङ्गलवाचकाः ||१४-५४-१२ (९३९५५)
स्तुवन्ति विश्वकर्माणं सततं द्विजसत्तम |
मम विद्धि सुतं धर्ममग्रजं द्विजसत्तम ||१४-५४-१३ (९३९५६)
मानसं दयितं विप्र सर्वभूतदयात्मकम् |
तत्राहं वर्तमानैश्च निवृत्तैश्चैव मानवैः ||१४-५४-१४ (९३९५७)
बह्वीः संसरमाणो वै योनीर्वर्तामि सत्तम |
लोकसरंक्षणार्थाय धर्मसंस्थापनाय च ||१४-५४-१५ (९३९५८)
तैस्तैर्वेषैश्च रूपैश्च त्रिषु लोकेषु भार्गव |
अहं विष्णुरहं ब्रह्मा शक्रोऽथ प्रभवाप्ययः ||१४-५४-१६ (९३९५९)
भूतग्रामस्य सर्वस्य स्रष्टा संहार एव च |
अधर्मे वर्तमानानां सर्वेषामहमच्युतः ||१४-५४-१७ (९३९६०)
धर्मस्य सेतुं बध्नामि चलिते चलिते युगे |
तास्ता योनीः प्रविश्याहं प्रजानां हितकाम्यया ||१४-५४-१८ (९३९६१)
यदा त्वहं देवयोनौ वर्तामि भृगुनन्दन |
तदाऽहं देववत्सर्वमाचरामि न संशयः ||१४-५४-१९ (९३९६२)
यदा गन्धर्वयोनौ तु वर्तामि भृगुनन्दन |
तदा गन्धर्ववच्चेष्टा सर्वाश्चेष्टामि भार्गव ||१४-५४-२० (९३९६३)
नागयोनौ यदा चैव तदा वर्तामि नागवत् |
यक्षराक्षसयोन्योस्तु यथावद्विचराम्यहम् ||१४-५४-२१ (९३९६४)
मानुष्ये वर्तमाने तु कृपणं याचिता मया |
न च ते जातसम्मोहा वचोऽगृह्णन्त मोहिताः ||१४-५४-२२ (९३९६५)
भयं च महदुद्दिश्य त्रासिताः कुरवो मया |
क्रुद्धेन भूत्वा तु पुर्यथावदनुदर्शिताः ||१४-५४-२३ (९३९६६)
तेऽधर्मेणेह संयुक्ताः परीताःक कालधर्मणा |
धर्मेण निहता युद्धे गताः स्वर्गं न संशयः ||१४-५४-२४ (९३९६७)
लोकेषु पाण्डवाश्चैव गताः ख्यातिं द्विजोत्तम |
एतत्ते सर्वमाख्यातं यन्मां त्वं परिपृच्छसि ||||१४-५४-२५ (९३९६८)
इति श्रीमन्महाभारते आश्वमेधिकपर्वणि अनुगीतापर्वणि
चतुःपञ्चाशोऽध्यायः ||५४ ||
Mahabharata -Ashvamedhika Parva -Chapter Footnotes
७-५४-८ दैवतानि च कर्माणि विद्धि सर्वान्गुणान्ममेति ट.थ.पाठः ||
७-५४-१० ओंकारप्रमुखानिति झ.पाठः ||
७-५४-११ अध्वर्युः कल्पन इति ट.थ.पाठः ||
७-५४-१२ गतमोक्षे महाध्वरे इति ट.थ.पाठः ||
७-५४-१४ सर्वभूतगुणात्मकमिति क.ट.थ | पाठः ||
७-५४-१९ पुनस्त्वहं देवयोनाविति ट.थ.पाठः ||
आश्वमेधिकपर्व -अध्याय ०५५
||श्रीः ||
१४. ५५. अध्यायः ५५
Mahabharata -Ashvamedhika Parva -Chapter Topics
कृष्णेनोदङ्काय विश्वरूपप्रदर्शनपूर्वकं पिपासाकाले
जललाभरूपवरदानम् ||१ ||
कृष्णेनोदङ्कायामृतदानं चोदितेनेन्द्रेण कदाचिद्वनमध्ये
पिपासुमुदङ्कंप्रति चण्डालवेषेण जलस्वीकारप्रार्थने उदङ्केन
चण्डालत्वबुद्ध्या तदधिक्षेपः ||२ ||
पश्चात्तस्य तिरोधानेन परितप्यन्तमुदङ्कंप्रति तत्र
संनिहितेन कृष्णेनेन्द्रकृतवञ्चनानिवेदनपूर्वकं मरुप्रदेशे
जललाभरूपवरदानम् ||३ ||
Mahabharata -Ashvamedhika Parva -Chapter Text
उदङ्क उवाच |
अभिजानामि जगतः कर्तारं त्वां जनार्दन |
नूनं भवत्प्रसादोऽयमिति मे नास्ति संशयः ||१४-५५-१ (९३९६९)
चित्तं च सुप्रसन्नं मे त्वद्भावगतमच्युत |
विनिवृत्तश्च मे कोप इति विद्धि परंतप ||१४-५५-२ (९३९७०)
यदि त्वनुग्रहं कञ्चित्त्वत्तोऽर्हामि जनार्दन |
द्रष्टुमिच्छामि ते रूपं वैष्णवं तन्निदर्शय ||१४-५५-३ (९३९७१)
वैशम्पायन उवाच. १४-५५-४क्ष् (७८७३)
ततः स तस्मै प्रीतात्मा दर्शयामास तद्वपुः |
शाश्वतं वैष्णवं धीमान्ददृशे यद्धनंजयः ||१४-५५-४ (९३९७२)
स ददर्श महात्मानं विश्वरूपं महाभुजम् |
सहस्रसूर्यप्रतिमं दीप्तिमत्पावकोपमम् |
सर्वमाकाशमावृत्य तिष्ठन्तं सर्वतोमुखम् ||१४-५५-५ (९३९७३)
तद्दृष्ट्वा परमं रूपं विष्णोर्वैष्णवमद्भुतम् |
विस्मयं च ययौ विप्रस्तं दृष्ट्वा परमेश्वरम् ||१४-५५-६ (९३९७४)
उदङ्क उवाच. १४-५५-७क्ष् (७८७४)
' नमोनमस्ते सर्वात्मन्नारायण परात्मक |
परमात्मन्पद्मनाभ पुण्डरीकाक्ष माधव ||१४-५५-७ (९३९७५)
हिरण्यगर्भरूपाय संसारोत्तारणाय च |
पुरुषाय पुराणाय शान्तश्यामाय ते नमः ||१४-५५-८ (९३९७६)
अविद्यातिमिरादित्यं भवव्याधिमहौषधिम् |
संसारार्णवसारं त्वां प्रणमामि गतिर्भव ||१४-५५-९ (९३९७७)
सर्ववेदैकवेद्याय सर्ववेदमयाय च |
वासुदेवाय नित्याय नमो भक्तप्रियाय ते ||१४-५५-१० (९३९७८)
दयया दुःखमोहान्मां सुमुद्धर्तुमिहार्हसि |
कर्मभिर्बहुभिः पापैर्बद्धं पाहि जनार्दन ||' १४-५५-११ (९३९७९)
विश्वकर्मन्नमस्तेऽस्तु विश्वात्मन्विश्वकसम्भव |
पद्म्यां ते पृथिवी व्याप्ता शिरसा चावृतं नभः ||१४-५५-१२ (९३९८०)
द्यावापृथिव्योर्यन्मध्यं जठरेण तवावृतम् |
भुजाभ्यामावृताश्चाशास्त्वमिदं सर्वमच्युत ||१४-५५-१३ (९३९८१)
संहरस्व पुनर्देव रूपमक्षय्यमुत्तमम् |
पुनस्त्वां स्वेन रूपेण द्रष्टुमिच्छामि शाश्वतम् ||१४-५५-१४ (९३९८२)
वैशम्पायन उवाच. १४-५५-१५क्ष् (७८७५)
तमुवाच प्रसन्नात्मा गोविन्दो जनमेजय |
वरं वृणीष्वेति तदा तमुदङ्कोऽब्रवीदिदम्. १४-५५-१५ (९३९८३)
पर्याप्त एष एवाद्य वरस्त्वत्तो महाद्युते |
यत्ते रूपमिदं कृष्ण पश्यामि प्रभवाप्ययम् ||१४-५५-१६ (९३९८४)
तमब्रकवीत्पुनः कृष्णो मा त्वमत्र विचारय
. अवश्यमेतत्कर्तव्यममोघं दर्शनं मम ||१४-५५-१७ (९३९८५)
उदङ्कक उवाच. १४-५५-१८क्ष् (७८७६)
अवश्यं करणीयं च यद्येतन्मन्यसे विभो |
तोयमिच्छामि यत्रेष्टं मरुष्वेतद्धि दुर्लभम् ||१४-५५-१८ (९३९८६)
ततः संहृत्य तत्तेजः प्रोवाचोदङ्कमीश्वरः |
एष्टव्ये सति चिन्त्योऽहमित्युक्त्वा द्वारकां ययौ ||१४-५५-१९ (९३९८७)
ततः कदाचिद्भगवानुदङ्कस्तोयकाङ्क्षया |
तृषितः परिचक्राम मरौ सस्मार चाच्युतम् ||१४-५५-२० (९३९८८)
ततो दिग्वाससं धीमान्मातङ्गं मलपङ्किनम् |
अपश्यत मरौ तस्मिञ्श्वयूथपरिवारितम् ||१४-५५-२१ (९३९८९)
भीषणं बद्धनिस्त्रिंशं बाणकार्मुकधारिणम् |
तस्याधःस्रोतसोऽपश्यद्वारि भूरि द्विजोत्तमः ||१४-५५-२२ (९३९९०)
स्मरन्नेव च तं प्राह मातङ्गः प्रहसन्निव |
एह्युदङ्क प्रतीच्छस्व मत्तो वारि भृगूद्वह |
कृपा हि मे सुमहती त्वां दृष्ट्वा तृट्समाश्रितम् ||१४-५५-२३ (९३९९१)
इत्युक्तस्तेन स मुनिस्तत्तोयं नाभ्यनन्दन |
चिक्षेप च स तं धीमान्वाग्भिरुग्राभिरच्युतम्. १४-५५-२४ (९३९९२)
पुनःपुनश्च मातङ्ग पिबस्वेति तमब्रवीत् |
न चापिबत्स सक्रोधः क्षुभितेनान्तरात्मना ||१४-५५-२५ (९३९९३)
स तथा निश्चयात्तेन प्रत्याख्यातो महात्मना |
श्वभिः सह महाराज तत्रैवान्तरधीयत ||१४-५५-२६ (९३९९४)
उदङ्कस्तं तथा दृष्ट्वा ततो व्रीडितमानसः |
मेने प्रलब्धमात्मानं कृष्णेनामित्रघातिना ||१४-५५-२७ (९३९९५)
अथ तेनैव मार्गेण शङ्कचक्रगदाधरः |
आजगाम महाबाहुरुदङ्कश्चैनमब्रवीत् ||१४-५५-२८ (९३९९६)
न युक्तं तादृशं दातुं त्वया पुरुषसत्तम |
सलिलं विप्रमुख्येभ्यो मातङ्गस्रोतसा विभो ||१४-५५-२९ (९३९९७)
इत्युक्तवचनं तं तु महाबुद्धिर्जनार्दनः |
उदङ्कं श्लक्ष्णया वाचा सान्त्वयन्निदमब्रवीत् ||१४-५५-३० (९३९९८)
यादृशेनेह रूपेण योग्यं दातुं धृतेन वै |
तादृशं खलु ते दत्तं यच्च त्वं नावबुध्यथाः ||१४-५५-३१ (९३९९९)
मया त्वदर्थमुक्तो वै वज्रपाणिः पुरंदरः |
उदङ्कायामृतं देहि तोयरूपमिति प्रभुः ||१४-५५-३२ (९४०००)
स मामुवाच देवेन्द्र न मर्त्योऽमर्त्यतां व्रजेत् |
अन्यमस्मै वरं देहीत्यसकृद्भृगुनन्दन ||१४-५५-३३ (९४००१)
अमृतं देयमित्येव मयोक्तः स शचीपतिः |
स मां प्रसाद्य देवेन्द्रः पुनरेवेदमब्रवीत् ||१४-५५-३४ (९४००२)
यदि देयमवश्यं वै मातङ्गोऽहं महामते |
भूत्वाऽमृतं प्रदास्यामि भार्गवाय महात्मने ||१४-५५-३५ (९४००३)
यद्येवं प्रतिगृह्णाति भार्गवोऽमृतमद्य वै |
प्रदातुमेष गच्छामि भार्गवस्यामृतं विभो |
प्रत्याख्यातस्त्वहं तेन दास्यामि न कथञ्चन ||१४-५५-३६ (९४००४)
स तथा समयं कृत्वा तेन रूपेण वासवः |
उपस्थितस्त्वया चापि प्रत्याख्यातोऽमृतं ददत् |
चाण्डालरूपी भगवान्सुमहांस्ते व्यतिक्रमः ||१४-५५-३७ (९४००५)
यत्तु शक्यं मया कर्तुं भूय एव तवेप्सितम् |
तोयेप्सां तव दुर्धर्षां करिष्ये सफलामहम् ||१४-५५-३८ (९४००६)
येष्वहःसु च ते ब्रह्मन्सलिलेप्सा भविष्यति |
तदा मरौ भविष्यन्ति जलपूर्णाः पयोधराः ||१४-५५-३९ (९४००७)
रसवच्च प्रदास्यन्ति तोयं ते भृगुनन्दन |
उदङ्गमेघा इत्युक्ताः ख्यातिं यास्यन्ति चापि ते ||१४-५५-४० (९४००८)
इत्युक्तः प्रीतिमान्विप्रः कृष्णेन स बभूव ह |
अद्याप्युदङ्कमेघाश्च मरौ वर्षन्ति भारत ||||१४-५५-४१ (९४००९)
इति श्रीमन्महाभारते आश्वमेधिकपर्वणि अनुगीतापर्वणि
पञ्चपश्चाशोऽध्यायः ||५५ ||
Mahabharata -Ashvamedhika Parva -Chapter Footnotes
७-५५-३ ते रूपमैश्वरमिति झ.पाठः ||
७-५५-१९ एष्टव्ये जलेऽपेक्षिते सति ||
७-५५-२१ मातङ्गं चण्डालविशेषम् ||
७-५५-२२ अधः पाददेशे स्रोतसो दृतेर्वारीति संबन्धः | ततः
शङ्कितमानस इति क.ट.थ.पाठः ||
७-५५-२४ चिक्षेप निन्दितवान् ||
७-५५-२७ प्रलब्धं वञ्चितम् ||
आश्वमेधिकपर्व -अध्याय ०५६
||श्रीः ||
१४. ५६. अध्यायः ५६
अश्वमेधपर्व ||१ ||
Mahabharata -Ashvamedhika Parva -Chapter Topics
वैशम्पायनेन जनमेजयंप्रत्युदङ्कोपाख्यानकथनारम्भः ||१ ||
उदङ्ककृतपरिचर्याविशेषतुष्टेन गौतमेन तस्मै प्रीत्यतिशयेन
चिरादपि गृहगमनायाभ्यननुज्ञानम् ||२ ||
कदाचन गुरुशासनेन काष्ठमारमाहृतवतोदङ्केन
काष्ठलग्नजरापलितनिजकेशावलोकनेन परिदेवनम् ||३ ||
ततस्तदबोधितनिजरोदनहेतुना गुरुणा तस्मै निजतनयाप्रतिपादनम् ||४ ||
ततस्तेन गुरुपत्नीनिदेशेन कुण्डलयाचनाय सौदासंप्रति गमनम् ||५ ||
Mahabharata -Ashvamedhika Parva -Chapter Text
जनमेजय उवाच |
उदङ्कः केन तपसा संयुक्तो वै महामनाः |
यः शापं दातुकामोऽभूद्विष्णवे प्रभविष्ववे ||१४-५६-१ (९४०१०)
वैशम्पायन उवाच. १४-५६-२क्ष् (७८७७)
उदङ्को महता युक्तस्तपसा जनमेजय |
गुरभक्तः स तेजस्वी नान्यत्किञ्चिदपूजयत् ||१४-५६-२ (९४०११)
सर्वेषामृषिपुत्राणामेष आसीन्मनोरथः |
औदङ्कीं गुरुवृत्तिं वै प्राप्नुयामेति भारत ||१४-५६-३ (९४०१२)
गौतमस्य तु शिष्याणां बहूनां जनमेजय |
उदङ्केऽभ्यधिका प्रीतिः स्नेहश्चैवाभवत्तदा ||१४-५६-४ (९४०१३)
स तस्य दमशौचाभ्यां विक्रान्तेन च कर्मणा |
सम्यक्चैवोपचारेण गौतमः प्रीतिमानभूत् ||१४-५६-५ (९४०१४)
अथ शिष्यसहस्राणि समनुज्ञाय गौतमः |
उदङ्कं परया प्रीत्या नाभ्यनुज्ञातुमैच्छत ||१४-५६-६ (९४०१५)
तं क्रमेण जरा तात प्रतिपेदे महामुनिम् |
न चान्वबुध्यत तदा स मुनिर्गुरुवत्सलः ||१४-५६-७ (९४०१६)
ततः कदाचिद्राजेन्द्र काष्ठान्यानयितुं ययौ |
उदङ्कः काष्ठभारं च महान्तं समुपानयत् ||१४-५६-८ (९४०१७)
स तद्भाराभिभूतात्मा काष्ठभारमरिंदम |
निचिक्षेप क्षितौ राजन्परिश्रान्तो बुभुक्षितः ||१४-५६-९ (९४०१८)
तस्य काष्ठे विलग्नाऽभूज्जटा रूप्यसमप्रभा |
ततः काष्ठैः सह तदा पपात धरणीतलम् ||१४-५६-१० (९४०१९)
ततः स भारनिष्पिष्टः क्षुधाविष्टश्च भारत |
दृष्ट्वा तां वयसोऽवस्थां रुरोदार्तस्वरं तदा ||१४-५६-११ (९४०२०)
ततो गुरुसुता तस्य पद्मपत्रनिभानना |
जग्राहाश्रूणि सुश्रोणी करेण पृथुलोचना |
पितुर्नियोगाद्भावज्ञा शिरसाऽवनता तदा ||१४-५६-१२ (९४०२१)
तस्या निपेततुर्दग्धौ करौ तैरश्रुबिन्दुभिः |
न हि तानश्रुपातांस्तु शक्ता धारयितुं मही |
गौतमस्त्वब्रवीद्विप्रमुदङ्कं प्रीतमानसः ||१४-५६-१३ (९४०२२)
कस्मात्तात तवाद्येह शोकोत्तरमिदं मनः |
स स्वैरं ब्रूहि विप्रर्षे श्रोतुमिच्छामि तत्त्वतः ||१४-५६-१४ (९४०२३)
उदङ्क उवाच. १४-५६-१५क्ष् (७८७८)
भवद्गतेन मनसा भवत्प्रियचिकीर्षया |
भवद्भक्तिगतेनेह भवद्भावानुगेन च ||१४-५६-१५ (९४०२४)
जरेयं नाघबुद्धा मे नाभिज्ञातं सुखं च मे |
शतवर्षोषितं मां हि न त्वमन्यनुजानिथाः ||१४-५६-१६ (९४०२५)
भवता त्वभ्यनुज्ञाताः शिष्याः प्रत्यवरा मम |
उपपन्ना द्विजश्रेष्ठ शतशोऽथ सहस्रशः ||१४-५६-१७ (९४०२६)
गौतम उवाच. १४-५६-१८क्ष् (७८७९)
त्वत्प्रीतियुक्तेन मया गुरुशुश्रूषया तव |
व्यतिक्रामन्महाकालो नावबुद्धो द्विजर्षभ ||१४-५६-१८ (९४०२७)
किं त्वद्य यदि ते श्रद्धा गमनं प्रति भार्गव |
अनुज्ञां प्रतिगृह्य त्वं स्वगृहान्गच्छ माचिरम् ||१४-५६-१९ (९४०२८)
उदङ्क उवाच. १४-५६-२०क्ष् (७८८०)
गुर्वर्तं कं प्रयच्छामि ब्रूहि त्वं द्विजसत्तम |
तमुपाहृत्य गच्छेयमनुज्ञातस्त्वया विभो ||१४-५६-२० (९४०२९)
गौतम उवाच. १४-५६-२१क्ष् (७८८१)
दक्षिणापरितोषो वै गुरूणां सद्भिरुच्यते |
तवि ह्याचरतो धर्मं तुष्टोऽहं वै न संशयः |
इत्थं च परितुष्टं मां विजानीहि भृगूद्वह ||१४-५६-२१ (९४०३०)
युवा षोडशवर्षो हि यद्यद्य भविता भवान् |
ददानि पत्नीं कन्यां च स्वां ते दुहितरं द्विज |
एतामृतेऽङ्गना नान्या त्वत्तेजोऽर्हति सेवितुम् ||१४-५६-२२ (९४०३१)
ततस्तां प्रतिजग्राह युवा भूत्वा यशस्विनीम् |
गुरुणा चाभ्यनुज्ञातो गुरुपत्नीमथाब्रवीत् ||१४-५६-२३ (९४०३२)
किं भवत्यै प्रयच्छामि गुर्वर्थं विनियुङ्क्ष माम् |
प्रियं हितं च काङ्क्षामि प्राणैरपि धनैरपि ||१४-५६-२४ (९४०३३)
यद्दुर्लभं हि लोकेऽस्मिन्रत्नमत्यद्भुतं महत् |
तदानयेयं तपसा न हि मेऽत्रास्ति संशयः ||१४-५६-२५ (९४०३४)
अहल्योवाच. १४-५६-२६क्ष् (७८८२)
परितुष्टाऽस्मि ते विप्र नित्यं भक्त्या तवानघ |
पर्याप्तमेतद्भद्रं ते गच्छ तात यथेप्सितम् ||१४-५६-२६ (९४०३५)
वैशम्पायन उवाच. १४-५६-२७क्ष् (७८८३)
उदङ्कस्तु महाराज पुनरेवाब्रवीद्वचः |
आज्ञापयस्व मां मातः कर्तव्यं च तव प्रियम् ||१४-५६-२७ (९४०३६)
अहल्योवाच. १४-५६-२८क्ष् (७८८४)
सौदासपत्न्या विधृते दिव्ये ये मणिकुण्डले |
ते समानय भद्रं ते गुर्वर्थः सुकृतो भवेत् ||१४-५६-२८ (९४०३७)
वैशम्पायन उवाच. १४-५६-२९क्ष् (७८८५)
स तथेति प्रतिश्रुत्य जगाम जनमेजय |
गुरुपत्नीप्रियार्थं वै ते समानयितुं तदा ||१४-५६-२९ (९४०३८)
स जगाम ततः शीघ्रमुदङ्को ब्राह्मणर्षभः |
सौदासं पुरुषादं वै भिक्षितुं मणिकुण्डले ||१४-५६-३० (९४०३९)
गौतमस्त्वब्रवीत्पत्नीमुदङ्को नात्र दृश्यते |
इति पृष्टा तमाचष्ट कुण्डलार्थे गतं च सा ||१४-५६-३१ (९४०४०)
ततः प्रोवाच पत्नीं स न ते सम्यगिदं कृतम् |
शप्तः स पार्थिवो नूनं ब्राह्मणं तं वधिष्यति ||१४-५६-३२ (९४०४१)
अहल्योवाच. १४-५६-३३क्ष् (७८८६)
अजानन्त्या नियुक्तः स भगवन्ब्राह्मणो मया |
भवत्प्रसादान्न भयं किञ्चित्तस्य भविष्यति ||१४-५६-३३ (९४०४२)
इत्युक्तः प्राह तां पत्नीमेवमस्त्विति गौतमः |
उदङ्कोऽपि वने शून्ये राजानं तं ददर्श ह ||||१४-५६-३४ (९४०४३)
इति श्रीमन्महाभारते आश्वमेधिकपर्वणि अनुगीतापर्वणि
षट्पञ्चाशोऽध्यायः ||५६ ||
Mahabharata -Ashvamedhika Parva -Chapter Footnotes
७-५६-११ निष्पिष्टः चूर्णीभूत इव | कवेरार्तस्य धीमत इति
क.ट.थ.पाठः ||
७-५६-१६ अभ्यनुजानिथाः अभ्यन्वजानीथा अभ्यनुज्ञातवानसि ||
७-५६-२६ नित्यं भगवता सहेति क.थ.पाठः ||
आश्वमेधिकपर्व -अध्याय ०५७
||श्रीः ||
१४. ५७. अध्यायः ५७
Mahabharata -Ashvamedhika Parva -Chapter Topics
शापाद्राक्षसत्वं गतेन सौदासेनोदङ्कभक्षणोद्यमे उदङ्केन पुनः
प्रत्यागमनप्रतिज्ञापूर्वकं तम्प्रति कुण्डलयाचनम् ||१ ||
उदङ्केन सौदासवचसा तत्पत्नींप्रति कुण्डलयाचने तया तम्प्रति
मणिकुण्डलमहिमादिकथनपूर्वकं राजाभिज्ञानानयनचोदना ||२ ||
Mahabharata -Ashvamedhika Parva -Chapter Text
वैशम्पायन उवाच |
स तं दृष्ट्वा तथाभूतं राजानं घोरदर्शनम् |
दीर्घश्मश्रुधरं नॄणां शोणितेन समुक्षितम् ||१४-५७-१ (९४०४४)
चकार न व्यथां विप्रो राजा त्वेनमथाब्रवीत् |
प्रत्युत्थाय महातेजा भयकर्ता यमोपमः ||१४-५७-२ (९४०४५)
दिष्ट्या त्वमसि कल्याण षष्ठे काले ममान्तिकम् |
भक्ष्यं मृगयमाणस्य सम्प्राप्तो द्विजसत्तम ||१४-५७-३ (९४०४६)
उदङ्ग उवाच. १४-५७-४क्ष् (७८८७)
राजन्गुर्वर्थिनं विद्धि चरन्तं मामिहागतम् |
न च गुर्वर्थमुद्युक्तं हिंस्यमाहुर्मनीषिणः ||१४-५७-४ (९४०४७)
राजोवाच. १४-५७-५क्ष् (७८८८)
षष्ठे काले ममाहारो विहितो द्विजसत्तम |
न शक्यस्त्वं समुत्स्रष्टुं क्षुधितेन मयाऽद्य वै ||१४-५७-५ (९४०४८)
उदङ्क उवाच. १४-५७-६क्ष् (७८८९)
एवमस्तु महाराजि समयः क्रियतां तु मे |
गुर्वर्थमभिनिर्वर्त्य पुनरेष्यामि ते वशम् ||१४-५७-६ (९४०४९)
संश्रुतश्च मया योऽर्थो गुरवे राजसत्तम |
त्वदधीनः स राजेन्द्र तं त्वां भिक्षे नरेश्वर ||१४-५७-७ (९४०५०)
ददासि विप्रमुख्येभ्यस्त्वं हि रत्नानि नित्यदा |
दाता च त्वं नरव्याघ्र पात्रभूतः क्षिताविह |
पात्रं प्रतिग्रहे चापि विद्धि मां नृपसत्तम ||१४-५७-८ (९४०५१)
उपाहृत्य गुरोरर्थं त्वदायत्तमरिंदम |
समयेनेह राजेन्द्र पुनरेष्यामि ते वशम् ||१४-५७-९ (९४०५२)
सत्यं ते प्रतिजानामि नात्र मिथ्या कथञ्चन |
अनृतं नोक्तपूर्वं मे स्वैरेष्वपि कुतोऽन्यथा ||१४-५७-१० (९४०५३)
सौदास उवाच. १४-५७-११क्ष् (७८९०)
यदि मत्तस्तवायत्तो गुर्वर्थः कृत एव सः |
यदि चास्ति प्रतिग्राह्यं साम्प्रतं तद्वदस्व मे ||१४-५७-११ (९४०५४)
उदङ्क उवाच. १४-५७-१२क्ष् (७८९१)
प्रतिग्राह्यो मतो मे त्वं सदैव पुरुषर्षभ |
सोहं त्वामनुसम्प्राप्तो भिक्षितुं मणिकुण्डले ||१४-५७-१२ (९४०५५)
सौदास उवाच. १४-५७-१३क्ष् (७८९२)
पत्न्यास्ते मम विप्रर्षे उचिते मणिकुण्डले |
वरयार्थं त्वमन्यं वै तं ते दास्यामि सुव्रत ||१४-५७-१३ (९४०५६)
उदङ्ग उवाच. १४-५७-१४क्ष् (७८९३)
अलं ते व्यपदेशेन प्रमाणं यदि ते वयम् |
प्रयच्छ कुण्डले मह्यं सत्यवाग्भव पार्थिव ||१४-५७-१४ (९४०५७)
वैशम्पायन उवाच. १४-५७-१५क्ष् (७८९४)
इत्युक्तस्त्वब्रवीद्राजा तमुदङ्कं पुनर्वचः |
गच्छ मद्वचनाद्देवीं ब्रूहि देहीति सत्तम ||१४-५७-१५ (९४०५८)
सैवमुक्ता त्वया नूनं मद्वाक्येन शुचिव्रता |
प्रदास्यति द्विजश्रेष्ठ कुण्डले ते न संशयः ||१४-५७-१६ (९४०५९)
उदङ्क उवाच. १४-५७-१७क्ष् (७८९५)
क्व पत्नी भवतः शक्या मया द्रष्टुं नरेश्वर |
स्वयं वाऽपि भवान्पत्नीं किमर्थं नोपसर्पति ||१४-५७-१७ (९४०६०)
सौदास उवाच. १४-५७-१८क्ष् (७८९६)
तां द्रक्ष्यति भवानद्य कास्मिंश्चिद्वननिर्झरे |
षष्ठे काले न हि मया सा शक्या द्रष्टुमद्य वै ||१४-५७-१८ (९४०६१)
वैशम्पायन उवाच. १४-५७-१९क्ष् (७८९७)
उदङ्कस्तु तथोक्तः स जगाम भरतर्षभ |
मदयन्तीं च दृष्ट्वा स ज्ञापयत्स्वप्रयोजनम् ||१४-५७-१९ (९४०६२)
सौदासवचनं श्रुत्वा ततः सा पृथुलोचना |
प्रत्युवाच महावुद्धिमुदङ्कं जनमेजय ||१४-५७-२० (९४०६३)
एवमेतन्महाब्रह्मन्नानृतं वदसेऽनघ |
अभिज्ञानं तु किञ्चित्त्वं समानयितुमर्हसि ||१४-५७-२१ (९४०६४)
इमे हि दिव्ये मणिकुण्डले मे
देवाश्च यक्षाश्च महर्षयश्च |
तैस्तैरुपायैरपहर्तुकामा-
श्छिद्रेषु नित्यं परितर्कयन्ति ||१४-५७-२२ (९४०६५)
निक्षिप्तमेतद्भुवि पन्नगास्तु
रत्नं समासाद्य परामृशेयुः |
यक्षास्तथोच्छिष्टधृतं सुराश्च
निद्रावशाद्वा परिधर्षयेयुः ||१४-५७-२३ (९४०६६)
छिद्रेष्वेतेष्विमे नित्यं ह्रियते द्विजसत्तम |
देवराक्षसनागानामप्रमत्तेनि धार्यते ||१४-५७-२४ (९४०६७)
एते दिवापि भासेते रात्रौ च द्विजसत्तम |
नक्तं नक्षत्रताराणां प्रभामाक्षिप्य वर्ततः ||१४-५७-२५ (९४०६८)
एते ह्यामुच्य भगन्क्षुत्पिपासाभयं कुतः |
विषाग्निश्वापदेभ्यश्च भयं जातु न विद्यते ||१४-५७-२६ (९४०६९)
ह्रस्वेन चैते आमुक्ते भवतो ह्रस्वके तदा |
अनुरूपेण चामुक्ते जायेते तत्प्रमाणके ||१४-५७-२७ (९४०७०)
एवंविधे ममैते वै कुण्डले परमार्चिते |
त्रिषु लोकेषु विज्ञाते तदभिज्ञानमानय ||||१४-५७-२८ (९४०७१)
इति श्रीमन्महाभारते आश्वमेधिकपर्वणि अनुगीतापर्वणि
सप्तपञ्चाशोऽध्यायः ||५७ ||
Mahabharata -Ashvamedhika Parva -Chapter Footnotes
७-५७-२४ छिद्रेष्वेतेष्विमे इति पूर्वान्वयि | नागानां नागैः ह्रियेत
इति सम्बन्धः ||
आश्वमेधिकपर्व -अध्याय ०५८
||श्रीः ||
१४. ५८. अध्यायः ५८
Mahabharata -Ashvamedhika Parva -Chapter Topics
उदङ्केनाभिज्ञाननिवेदनेनि मदयन्तीतः कुण्डलग्रहणपूर्वकं
प्रतिनिवर्तनम् ||१ ||
मध्येमार्गं क्षुधाविष्टेन तेन बिल्वतरुमारुह्य शाखायां
कुण्डलासञ्जनपूर्वकं फलपातनाय शाखाचालनम् ||२ ||
तत्र पतत्फलघट्टनेन कुण्डलयोरधःपतने केनचिदुरगवरेण
तदपहृत्य नागलोकगमनम् ||३ ||
तत इन्द्रसाहाय्याद्भूविदारणेन नागलोकंगतेनोदङ्केन तत्राश्ववचसा
तदपानदेशधमने तन्निर्गतधूमपटलनिरुद्धैः सर्पैरुदङ्काय
कुण्डलप्रत्यर्पणम् ||४ ||
तत उदङ्केन गुरुपत्न्यै कुण्डलप्रदानम् ||५ ||
Mahabharata -Ashvamedhika Parva -Chapter Text
वैशम्पायन उवाच |
स मित्रसहमासाद्य अभिज्ञानमयाचत |
तस्मै ददावभिज्ञानं स चेक्ष्वाकुवरस्तदा ||१४-५८-१ (९४०७२)
सौदास उवाच. १४-५८-२क्ष् (७८९८)
न चैवैषा गतिः क्षेम्या न चान्या विद्यते गतिः |
एतन्मे तत्वमाज्ञाय प्रयच्छ मणिकुण्डले ||१४-५८-२ (९४०७३)
इत्युक्तस्तामुदङ्कस्तु भर्तुर्वाक्यमथाब्रवीत् |
श्रुत्वा च सा तदा प्रादात्ततस्ते मणिकुण्डले ||१४-५८-३ (९४०७४)
अवाप्य कुण्डले ते तु राजानं पुनरब्रवीत् |
किमेतद्गुह्यवचनं श्रोतुमिच्छामि पार्थिव ||१४-५८-४ (९४०७५)
सौदास उवाच. १४-५८-५क्ष् (७८९९)
प्रजाविसर्गाद्विप्रान्वै क्षत्रियाः पूजयन्ति ह |
विप्रेभ्यश्चापि बहवो दोषाः प्रादुर्भवन्ति नः ||१४-५८-५ (९४०७६)
सोहं द्विजेभ्यः प्रणतो विप्राद्दोषमवाप्तवान् |
गतिमन्यां न पश्यामि मदयन्तीसहायवान् ||१४-५८-६ (९४०७७)
न चान्यामपि पश्यामि गतिं गतिमतांवर |
स्वर्गद्वारस्य गमने स्थाने चेह द्विजोत्तम ||१४-५८-७ (९४०७८)
न हि राज्ञा विशेषेण विरुद्धेन द्विजातिभिः |
शक्यं हि लोके स्थातुं वै प्रेत्य वा सुखमेधितुम् ||१४-५८-८ (९४०७९)
तदिष्टे ते मया दत्ते एते स्वे मणिकुण्डले |
यः कृतस्तेऽद्य समयः सफलं तं कुरुष्य मे ||१४-५८-९ (९४०८०)
उदङ्क उवाच. १४-५८-१०क्ष् (७९००)
राजंस्तथेह कर्तास्मि पुनरेष्यामि ते वशम् |
प्रश्नं च कञ्चित्प्रष्टुं त्वां व्यवसिष्ये परंतप ||१४-५८-१० (९४०८१)
सौदास उवाच. १४-५८-११क्ष् (७९०१)
ब्रूहि विप्र यथाकामं प्रतिवक्तास्मि ते वचः |
छेत्तास्मि संशयं तेऽद्य न मेऽत्राश्ति विचारणा ||१४-५८-११ (९४०८२)
उदङ्क उवाच. १४-५८-१२क्ष् (७९०२)
प्राहुर्वाक्संयतं विप्रं धर्मनैपुणदर्शिनः |
मित्रेषु यश्च विषमः स्तेन इत्येव तं विदुः ||१४-५८-१२ (९४०८३)
स बवान्मित्रतामद्य सम्प्राप्तो मम पार्थिव |
स मे बुद्धिं प्रयच्छस्व सम्मतां पुरुषर्षभ ||१४-५८-१३ (९४०८४)
अवाप्तार्थोऽहमद्येह भवांश्च पुरुषादकः |
भवत्सकाशमागन्तुं क्षमं मम न वेति वै ||१४-५८-१४ (९४०८५)
सौदास उवाच. १४-५८-१५क्ष् (७९०३)
क्षमं चेदिह वक्तव्यं मया द्विजवरोत्तम |
मत्समीपं द्विजश्रेष्ट नागन्तव्यं कथञ्चन ||१४-५८-१५ (९४०८६)
एवं तव प्रपश्यामि श्रेयो भृगुकुलोद्वह |
आगच्छतो हि ते विप्रि भवेन्मृर्त्युन संशयः ||१४-५८-१६ (९४०८७)
वैशम्पायन उवाच. १४-५८-१७क्ष् (७९०४)
इत्युक्तः स तदा राजा क्षमं बुद्धिमता हितम् |
अनुज्ञाप्य स राजानमहल्यां प्रति जग्मिवान् ||१४-५८-१७ (९४०८८)
गृहीत्वा कुण्डले दिव्ये गुरुपत्न्याः प्रियंकरः |
जवेन महता प्रायाद्गौतमस्याश्रमं प्रति ||१४-५८-१८ (९४०८९)
यथा तयो रक्षणं च मदयन्त्याऽभिभाषितम् |
तथा ते कुण्डले बध्वा तदा कृष्णाजिनेऽनयत् ||१४-५८-१९ (९४०९०)
स कस्मिंश्चित्क्षुधाविष्टः फलभारसमन्वितम् |
बिल्वं ददर्श विप्रर्षिरारुरोह च तं ततः ||१४-५८-२० (९४०९१)
शाखास्वासज्य तस्यैव कृष्णाजिनमरिंदम |
पातयामास बिल्वानि तदा स द्विजपुङ्गवः ||१४-५८-२१ (९४०९२)
अथ पातयमानस्य बिल्वापहृतचक्षुषः |
न्यपतंस्तानि बिल्वानि तस्मिन्नेवाजिने विभो ||१४-५८-२२ (९४०९३)
यस्मिंस्ते कुण्डले बद्धे तदा द्विजवरेण वै |
बिल्वप्रहारैस्तस्याथ व्यशीर्यद्बन्धनं ततः ||१४-५८-२३ (९४०९४)
सकुण्डलं तदजिनं पपात सहसा तरोः |
विशीर्णबन्धने तस्मिन्गते कृष्णाजिने महीम् ||१४-५८-२४ (९४०९५)
अपश्यद्भुजगः कश्चित्ते तत्र मणिकुण्डले |
ऐरावतकुलोद्भूतः शीघ्रो भूत्वा तदा हि सः ||१४-५८-२५ (९४०९६)
विदश्यास्येन वल्मीकं विवेशाथ स कुण्डले |
ह्रियमाणे तु दृष्ट्वा स कुण्डले भुजगेन ह ||१४-५८-२६ (९४०९७)
पपात वृक्षात्सोद्वेगो दुःखात्परमकोपनः |
स दण्डकाष्ठमादाय वल्मीकमखनत्तदा ||१४-५८-२७ (९४०९८)
[अहानि त्रिंशदव्यग्रः पञ्च चान्यानि भारत.]
क्रोधामर्षाभिसंतप्तस्तदा ब्राह्मणिसत्तमः ||१४-५८-२८ (९४०९९)
तस्य वेगमसह्यं तमसहन्ती वसुन्धरा |
दण्डकाष्ठाभिनुन्नाङ्गी चचाल भृशमाकुला |
ततः खनत एवाथ विप्रर्षेर्धरणीतलम्
नागलोकस्य पन्थानं कर्तुकामस्य निश्चयात् ||१४-५८-२९ (९४१००)
रथेन हरियुक्तेन तं देशमुपजग्मिवान् |
वज्रपाणिर्महातेजास्तं ददर्श द्विजोत्तमम् ||१४-५८-३० (९४१०१)
वैशम्पायन उवाच. १४-५८-३१क्ष् (७९०५)
स तु तं ब्राह्मणो भूत्वा तस्य दुःखेन दुःखितः |
उदङ्कमब्रवीद्वाक्यं नैतच्छक्यं त्वयेति वै ||१४-५८-३१ (९४१०२)
इतो हि नागलोको वै योजनानि सहस्रशः |
न दण्डकाष्ठसाध्यं च मन्ये कार्यमिदं तव ||१४-५८-३२ (९४१०३)
उदङ्क उवाच. १४-५८-३३क्ष् (७९०६)
नागलोके यदि ब्रह्मन्न शक्ये कुण्डले मया |
प्राप्तुं प्राणान्विमोक्ष्यामि पश्यतस्ते द्विजोत्तम ||१४-५८-३३ (९४१०४)
वैशम्पायन उवाच. १४-५८-३४क्ष् (७९०७)
यदा स नाशकत्तस्य निश्चयं कर्तुमन्यथा |
वज्रपाणिस्तदा दण्डं वज्रास्त्रेण युयोज ह ||१४-५८-३४ (९४१०५)
ततो वज्रप्रहारैस्तैर्दार्यमाणा वसुन्धर |
नागलोकस्य पन्थानमकरोज्जनमेजय ||१४-५८-३५ (९४१०६)
स तेन मार्गेण तदा नागलोकं विवेश ह |
ददर्श नागलोकं च योजनानि सहस्रशः ||१४-५८-३६ (९४१०७)
प्रकारनिचयैर्दिव्यैर्मणिमुक्तास्वलङ्कृतैः |
उपपन्नं महाभाग शातकुम्भमयैस्तथा ||१४-५८-३७ (९४१०८)
वापीः स्फटिकसोपाना नदीस्च विमलोदकाः |
ददर्श वृक्षांश्च बहून्नानाद्विजगणायुतान् ||१४-५८-३८ (९४१०९)
तस्य लोकस्य च द्वारं स ददर्श भृगूद्वहः |
पञ्चयोजनविस्तारमायतं शतयोजनम् ||१४-५८-३९ (९४११०)
नागलोकमुदङ्कस्तु प्रेक्ष्य दीनोऽभवत्तदा |
निराशश्चाभवत्तत्र कुण्डलाहरणे पुनः ||१४-५८-४० (९४१११)
तत्र प्रोवाच तुरगस्तं कृष्णश्वेतवालधिः |
ताम्रास्यनेत्रः कौरव्यः प्रज्वलन्निव तेजसा ||१४-५८-४१ (९४११२)
धमस्वापानमेतन्मे ततस्त्वं विप्र लप्स्यसे |
ऐरावतसुतेनेहि तव्रानीते हि कुण्डले ||१४-५८-४२ (९४११३)
मा जुगुप्सां कृथाः पुत्र त्वमत्रार्थे कथञ्चन ||
त्वयैतद्धि समाचीर्णं गौतमस्याश्रमे तदा ||१४-५८-४३ (९४११४)
उदङ्ग उवाच. १४-५८-४४क्ष् (७९०८)
कथं भवन्तं जानीयामुपाध्यायाश्रमं प्रति |
यन्मया चीर्णपूर्वं हि श्रोतुमिच्छामि तद्ध्यहम् ||१४-५८-४४ (९४११५)
अश्व उवाच. १४-५८-४५क्ष् (७९०९)
गुरोर्गुरु मां जानीहि ज्वलन्तं जातवेदसम् |
त्वया ह्यहं सदा विप्र गुरोरर्थेऽभिपूजितः ||१४-५८-४५ (९४११६)
विधिवत्सततं विप्र शुचिना भृगुनन्दन |
तस्माच्छ्रेयो विधास्यामि तवैवं कुरु माचिरम् ||१४-५८-४६ (९४११७)
इत्युक्तस्तु तथाऽकार्षीदुदङ्कश्चित्रभानुना |
ताम्रार्चिः प्रीतिमांश्चापि प्रजज्वाल दिधक्षया ||१४-५८-४७ (९४११८)
ततोऽस्य रोमकूपेभ्यो ध्मायमानस्य भारत |
घनः प्रादुरभूद्धूमो नागलोकभयावहः ||१४-५८-४८ (९४११९)
तेन धूमेन महता वर्धमानेन भारत |
नागलोके महाराज न प्राज्ञायत किञ्चन ||१४-५८-४९ (९४१२०)
हाहाकृतमभूत्सर्वमैरावतिनिवेशनम् |
वासुकिप्रमुखानां च नागानां जनमेजय ||१४-५८-५० (९४१२१)
न प्राकाशन्त वेश्मानि धूमरुद्धानि भारत |
नीहारसंवृतानीव वनानि गिरयस्तथा ||१४-५८-५१ (९४१२२)
ते धूमरक्तनयना वह्नितेजोभितापिताः |
आजग्मुर्निश्चयं ज्ञातुं भार्गवस्य महात्मनः ||१४-५८-५२ (९४१२३)
श्रुत्वा च निश्चयं तस्य महर्षेरतितेजसः |
सम्भ्रान्तनयनाः सर्वे पूजां चक्रुर्यथाविधि ||१४-५८-५३ (९४१२४)
सर्वे प्राञ्जलयो नागा वृद्धबालपुरोगमाः |
शिरोभिः प्रणिपत्योचुः प्रसीद भगवन्निति ||१४-५८-५४ (९४१२५)
प्रसाद्य ब्राह्मणं ते तु पाद्यमर्घ्यं निवेद्य च |
प्रायच्छन्कुण्डले दिव्ये पन्नगाः परमार्चिते ||१४-५८-५५ (९४१२६)
ततः स पूजितो नागैस्तदोदङ्कः प्रतापवान् |
अग्निं प्रदक्षिणं कृत्वा जगाम गुरुसद्म तत् ||१४-५८-५६ (९४१२७)
स गत्वा त्वरितो राजन्गौतमस्य निवेशनम् |
प्रायच्छत्कुण्डले दिव्ये गुरुपत्न्यास्तदाऽनघ ||१४-५८-५७ (९४१२८)
वासुकिप्रमुकानां च नागानां जनमेजय |
सर्वं शशंस गुरेव यथावद्द्विजसत्तमः ||१४-५८-५८ (९४१२९)
एवं महात्मना तेन त्रींलोकाञ्जनमेजय |
परिक्रम्याहृते दिव्ये ततस्ते मणिकुण्डले ||१४-५८-५९ (९४१३०)
एवंप्रभावः स मुनिरुदङ्को भरतर्षभ |
परेण तपसा युक्तो यन्मां त्वं परिपृच्छसि. ||१४-५८-६० (९४१३१)
इति श्रीमन्महाभारते आश्वमेधिकपर्वणि अनुगीतापर्वणि
अष्टपञ्चासोऽध्यायः ||५८ ||
Mahabharata -Ashvamedhika Parva -Chapter Footnotes
७-५८-१ मित्रसहः सौदासः अभिज्ञानं श्लोकरूपं ज्ञापकम् | ७-५८-२
एषा रक्षोयोनिरूपा. अन्या इतो मुक्तिरूपा ||
७-५८-१० ततोदंकाय वै प्रादात्तस्मै ते मणिकुण्डले इति क.ट.थ.पाठः ||
७-५८-१२ निवृत्तिस्मि परं तपेति झ.पाठः ||
७-५८-१६ प्राप्तवान्सङ्गतिं मित्रं धर्मनैपुण्यदर्शनादिति
क.ट.थ.पाठः ||
७-५८-१६ तत्रैव तु प्रवक्ष्यामि श्रेयो भृगुकुलोद्वहेति क.ट.थ.पाठः ||
७-५८-२६ आस्येन कुण्डले विदश्य धृत्वा वल्मीकं विवेशेति सम्बन्धः ||
आश्वमेधिकपर्व -अध्याय ०५९
||श्रीः ||
१४. ५९. अध्यायः ५९
Mahabharata -Ashvamedhika Parva -Chapter Topics
उदङ्काय वरदानात्परं द्वारकामागच्छता कृष्णेन मध्ये
रैवतकप्रवेशः ||१ ||
रैवतकोत्सववर्णनम् ||२ ||
ततः कृष्णेन स्वभवनमेत्य मातापितृभ्यामभिवादनम् ||३ ||
Mahabharata -Ashvamedhika Parva -Chapter Text
जनमेजय उवाच |
उदङ्कस्य वरं दत्त्वा गोविन्दो द्विजत्तम |
अत ऊर्ध्वं महाबाहुः किं चकार महायशाः ||१४-५९-१ (९४१३२)
वैशम्पायन उवाच. १४-५९-२क्ष् (७९१०)
उदङ्काय वरं दत्त्वा प्रायात्सात्यकिना सह |
द्वारकामेव गोविन्दः शीघ्रवेगैर्महाहयैः ||१४-५९-२ (९४१३३)
सरांसि सरितश्चैव वनानि च गिरींस्तथा |
अतिक्रम्याससादाथ रम्यां द्वारवतीं पुरीम् ||१४-५९-३ (९४१३४)
वर्तमाने महाराज महे रैवतकस्य च |
उपायात्पुण्डरीकाक्षो युयुधानानुगस्तदा ||१४-५९-४ (९४१३५)
अलङ्कृतस्तु स गिरिर्नानारूपैर्विचित्रितैः |
बभौ रत्नमयैः कोशैः संवृतः पुरुर्षर्षभ ||१४-५९-५ (९४१३६)
काञ्चनस्रग्भिरग्र्याभिः सुमनोभिस्तथैव च |
वासोभिश्च महाशैलः कल्पवृक्षैस्तथैव च ||१४-५९-६ (९४१३७)
दीपवृक्षैश्च सौवर्णैरभीक्ष्णमुपशोभितः |
गुहानिर्झरदेशेषु दिवाभूतो बभूव ह ||१४-५९-७ (९४१३८)
एताकाभिर्विचित्राभिः सघण्टाभिः समन्ततः |
पुंभिः स्त्रीभिश्च संघुष्टः प्रगीत इव चाभवत् |
अतीव प्रेक्षणीयोऽभून्मेरुर्मुनिगणैरिव ||१४-५९-८ (९४१३९)
मत्तानां हृष्टरूपाणां स्त्रीणां पुंसां च भारत |
गायतां पर्वतेन्द्रस्य दिविस्पृगिव निःस्वनः ||१४-५९-९ (९४१४०)
प्रमत्तमत्तसम्मत्तक्ष्वेडितोद्धुष्टसंकुलः |
तथा किलकिलाशब्दैर्भूधरोऽभून्मनोहरः ||१४-५९-१० (९४१४१)
विपणापणवान्रम्यो भक्ष्यभोज्यविहारवान् |
वस्त्रमाल्योत्करयुतो वीणावेणुमृदङ्गवान् ||१४-५९-११ (९४१४२)
सुरामैरेयमिश्रेण भक्ष्यभोज्येन चैव ह |
दीनान्धकृपणादिभ्यो दीयमानेन चानिशम् |
बभौ परमकल्याणो महस्तस्य महागिरेः ||१४-५९-१२ (९४१४३)
पुण्यावसथवान्वीरैः पुण्यकृद्भिर्निषेवितः |
विहारो वृष्णिवीराणां महे रैवतस्य ह ||१४-५९-१३ (९४१४४)
स नानावेश्मसंकीर्णो देवलोक इवाबभौ |
तदा च कृष्णसान्निध्यान्मुदा देवगणैर्युतः ||१४-५९-१४ (९४१४५)
' स्तुवन्त्यन्तर्हिता देवा गन्धर्वाश्च सहर्षिभिः |
साधकः सर्वधर्माणामसुराणां विनाशकः ||१४-५९-१५ (९४१४६)
त्वं स्रष्टा सृज्यमाधारं कारणं धर्मवेदवित् |
त्वया सत्क्रियते देव ज जानीमोऽत्र मायया ||१४-५९-१६ (९४१४७)
केवलं त्वाऽभिजानीमः शरणं परमेश्वरम् |
ब्रह्मादीनां च गोविन्द सान्निध्वं शरणं नमः ||१४-५९-१७ (९४१४८)
इति स्तुते मानुषैश्च पूजिते देवकीसुते.'
शक्रसद्मप्रतीकाशो बभूव स हि शैलराट् ||१४-५९-१८ (९४१४९)
ततः सम्पूज्यमानः स विवेश भवनं शुभम् |
गोविन्दः सात्यकिश्चैव जग्मतुर्भवनं स्वकम् ||१४-५९-१९ (९४१५०)
विवेश च प्रहृष्टात्मा चिरकालप्रवासतः |
कृत्वा नसुकरं कर्म दानवेष्विव वासवः ||१४-५९-२० (९४१५१)
उपायान्तं तु वार्ष्णेयं भोजवृष्ण्यन्धकास्तथा |
अभ्यगच्चन्महात्मानं देवा इव शतक्रतुम् ||१४-५९-२१ (९४१५२)
स तानभ्यर्च्य मेधावी पृष्ट्वा च कुशलं तदा |
अभ्यवादयत प्रीतः पितरं मातरं तदा ||१४-५९-२२ (९४१५३)
ताभ्यां स सम्परिष्वक्तः सान्त्वितश्च महाभुजः |
उपोपविष्टैः सर्वैस्तैर्वृष्णिभिः परिवारितः ||१४-५९-२३ (९४१५४)
स विश्रान्तो महातेजाः कृतपादावनेजनः |
कथयामास तत्सर्वं पृष्टः पित्रा महाहवम् ||||१४-५९-२४ (९४१५५)
इति श्रीमन्महाभारते आश्वमेधिकपर्वणि अनुगीतापर्वणि
एकोनषष्टितमोऽध्यायः ||५९ ||
Mahabharata -Ashvamedhika Parva -Chapter Footnotes
७-५९-४ महे उत्सवे ||
७-५९-७ दीपभूतो बभूवहेति क.थ.पाठः ||
७-५९-१० प्रमत्ताः क्रीडाद्यासत्तयानवहिताः | मत्ताः मद्यादिना. सम्मता
हृष्टाः ||
७-५९-२३ सात्यकिश्च महाभुज इति क.पाठः ||
आश्वमेधिकपर्व -अध्याय ०६०
||श्रीः ||
१४. ६०. अध्यायः ६०
Mahabharata -Ashvamedhika Parva -Chapter Topics
कृष्णेन वसुदेवादीन्प्रति कुरुपाण्डवयुद्धप्रकारकथनम् ||१ ||
Mahabharata -Ashvamedhika Parva -Chapter Text
वसुदेव उवाच |
श्रुतवानस्मि वार्ष्णेय सङ्ग्रामं परमाद्भुतम् |
नराणां वदतां पुत्र कथोद्धातेषु नित्यशः ||१४-६०-१ (९४१५६)
त्वं तु प्रत्यक्षदर्शी च कार्यज्ञश्च महाभुजः |
तस्मात्प्रब्रूहि सङ्ग्रामं याथातथ्येन मेऽनघ ||१४-६०-२ (९४१५७)
यथा तदभवद्युद्धं पाण्डवानां महात्मनाम् |
भीष्मकर्णकृपद्रोणशल्यादिभिरनुत्तमम् ||१४-६०-३ (९४१५८)
अन्येषां क्षत्रियाणां च कृतास्त्राणामनेकशः |
नानावेषाकृतिमतां नानादेशनिवासिनाम् ||१४-६०-४ (९४१५९)
वैशम्पायन उवाच. १४-६०-५क्ष् (७९११)
इत्युक्तः पुण्डरीकाक्षः पित्रा मातुस्तदाऽन्तिके |
शशंस कुरुवीराणां सङ्ग्रामे निधनं यथा ||१४-६०-५ (९४१६०)
वासुदेव उवाच. १४-६०-६क्ष् (७९१२)
अत्यद्भुतानि कर्माणि क्षत्रियाणां महात्मनाम् |
बहुलत्वान्न सङ्ख्यातुं शक्यान्यब्दशतैरपि ||१४-६०-६ (९४१६१)
प्राधान्यतस्तु गदतः समासेनैव मे शृणु |
कर्माणि पृथिवीशानां यथावदमरद्युते ||१४-६०-७ (९४१६२)
भीष्मः सेनापतिरभूदेकादशचमूपतिः |
कौरव्यः कौरवेन्द्राणां देवानामिव पावकिः ||१४-६०-८ (९४१६३)
शिखण्डी पाण्डुपुत्राणां नेता सप्तचमूपतिः |
बभूव रक्षितो धीमाञ्श्रीमता सव्यसाचिना ||१४-६०-९ (९४१६४)
तेषां तदभवद्युद्धं दशाहानि महात्मनाम् |
कुरूणां पाण्डवानां च सुमहद्रोमहर्षणम् ||१४-६०-१० (९४१६५)
अयुध्यमानं गाङ्गेयं शिखण्डी तं महाद्युतिम् |
जघान बहुभिर्बाणैः सह गाण्डीवधन्वना ||१४-६०-११ (९४१६६)
अकरोत्स ततः कालं शरतल्पगतो मुनिः |
अयनं दक्षिणं हित्वा सम्प्राप्ते चोत्तरायणे ||१४-६०-१२ (९४१६७)
ततः सेनापतिरभूद्द्रोणोऽस्त्रविदुषांवरः |
प्रवीरः कौरवेन्द्रस्य काव्यो दैत्यपतेरिव ||१४-६०-१३ (९४१६८)
अक्षौहिणीभिः शिष्टाभिर्नवभिर्द्विजसत्तमः |
संवृतः समरश्लाघी गुप्तः कृपसुतादिभिः ||१४-६०-१४ (९४१६९)
धृष्टद्युम्नस्त्वभून्नेता पाण्डवानां महास्त्रवित् |
गुप्तो भीमेन मेधावी मित्रेण वरुणो यथा ||१४-६०-१५ (९४१७०)
स च सेनापरिवृतो द्रोणप्रेप्सुर्महामनाः |
पितुर्निकारान्संस्मृत्य रणे कर्माकरोन्महत् ||१४-६०-१६ (९४१७१)
तस्मिंस्ते पृथिवीपाला द्रोणपार्षतसङ्गरे |
नानादिगागता वीराः प्रायशो निधनं गताः ||१४-६०-१७ (९४१७२)
दिनानि पञ्च तद्युद्धमभूत्परमदारुणम् |
ततो द्रोणः परिश्रान्तो धृष्टद्युम्नवशं गतः ||१४-६०-१८ (९४१७३)
ततः सेनापतिरभूत्कर्णो दौर्योधने बले |
अक्षौहिणीभिः शिष्टाभिर्वृतः पञ्चभिराहवे ||१४-६०-१९ (९४१७४)
तिस्रस्तु पाण्डुपुत्राणां चम्वो बीभत्सुपालिताः |
हतप्रवीरभूयिष्ठा बभूवुः समवस्थिताः ||१४-६०-२० (९४१७५)
ततः पार्थं समासाद्य पतङ्ग इव पावकम् |
पञ्चत्वमगमत्सौतिर्द्वितीयेऽहनि दारुणः ||१४-६०-२१ (९४१७६)
हते कर्णे तु कौरव्या निरुत्साहा हतौजसः |
अक्षौहिणीभिस्तिसृभिर्मद्रेशं पर्यवारयन् ||१४-६०-२२ (९४१७७)
हतिवाहनभूयिष्ठाः पाण्डिवास्तु युधिष्ठिरम् |
अक्षौहिण्या निरुत्साहाः शिष्टया पर्यवारयन् ||१४-६०-२३ (९४१७८)
अवधीन्मद्रराजानं कुरुराजो युधिष्ठिरः |
तस्मिंस्तदाऽर्धदिवसे कृत्वा कर्म सुदुष्करम् ||१४-६०-२४ (९४१७९)
हते शल्ये तु शकुनिं सहदेवो महामनाः |
आहर्तारं कलेस्तस्य जगानामितविक्रमः ||१४-६०-२५ (९४१८०)
निहते शकुनौ राजा धार्तराष्ट्रः सुदुर्मनाः |
अपाक्रामद्गदापाणिर्हतभूयिष्ठसैनिकः ||१४-६०-२६ (९४१८१)
तमन्वधावत्संक्रुद्धो भीमसेनः प्रतापवान् |
ह्रदे द्वैपायने चापि सलिलस्थं ददर्श तम् ||१४-६०-२७ (९४१८२)
इतशिष्टेन सैन्येन समन्तात्पर्यवार्य तम् |
अथोपविविशुर्हृष्टा ह्रदस्थं पञ्च पाण्डवाः ||१४-६०-२८ (९४१८३)
विगाह्य सलिलं त्वाशु वाग्बाणैर्भृशविक्षतः |
उत्थाय स गदापाणिर्युद्धाय समुपस्थितः ||१४-६०-२९ (९४१८४)
ततः स निहतो राजा धार्तराष्ट्रो महारणे |
भीमसेनेन विक्रम्य पश्यतां पृथिवीक्षिताम् ||१४-६०-३० (९४१८५)
ततस्तत्पाण्डवं सैन्यं प्रसुप्तं शिबिरे निशि |
निहतं द्रोणपुत्रेण पितुर्वधममृष्यता ||१४-६०-३१ (९४१८६)
हतपुत्रा हतबला हतमित्रा मया सह |
युयुधानसहायेन पञ्च शिष्टास्तु पाण्डवाः ||१४-६०-३२ (९४१८७)
सहैव कृपभोजाभ्यां द्रौणिर्युद्धादमुच्यत |
युयुत्सुश्चापि कौरव्यो मुक्तः पाण्डवसंश्रयात् ||१४-६०-३३ (९४१८८)
निहते कौरवेन्द्रे तु सानुबन्धे सुयोधने |
विदुरः संजयश्चैव धर्मराजमुपस्थितौ ||१४-६०-३४ (९४१८९)
एवं तदभवद्युद्दमहान्यष्टादश प्रभो |
यत्र ते पृथिवीपाला निहताः स्वर्गमावसन् ||१४-६०-३५ (९४१९०)
वैशम्पायन उवाच. १४-६०-३६क्ष् (७९१३)
शृण्वतां तु महाराज कथां तां रोमहर्षणीम् |
दुःखशोकपरिक्लेशा वृष्णीनामभवंस्तदा ||||१४-६०-३६ (९४१९१)
इति श्रीमन्महाभारते आश्वमेधिकपर्वणि अनुगीतापर्वणि
षष्टितमोऽध्यायः ||६० ||
Mahabharata -Ashvamedhika Parva -Chapter Footnotes
७-६०-११ ततः शिखण्डी गाङ्गेयं युध्यमानं महाहवे | इति झ.पाठः ||
आश्वमेधिकपर्व -अध्याय ०६१
||श्रीः ||
१४. ६१. अध्यायः ६१
Mahabharata -Ashvamedhika Parva -Chapter Topics
कृष्णेन सभायां वसुदेवंप्रति अभिमन्युनिधनाकथने सुभद्रया
तंप्रति तत्कथनचोदनापूर्वकं शोकान्मोहावेशेन भुवि निपतनम्
||१ ||
ततः कृष्णेन वसुदेवपरिसान्त्वनम् ||२ ||
Mahabharata -Ashvamedhika Parva -Chapter Text
वैशम्पायन उवाच |
कथयन्नेव तु तदा वासुदेवः प्रतापवान् |
महाभारतयुद्धं तत्कथान्ते पितुरग्रतः ||१४-६१-१ (९४१९२)
अभिमन्योर्वधं वीरः सोत्यक्रामन्महामतिः |
अप्रियं वसुदेवस्य माभूदिति महामनाः ||१४-६१-२ (९४१९३)
मा दौहित्रवधं श्रुत्वा वसुदेवो महात्ययम् |
दुःखशोकाभिसंतप्तो भवेदिति महामतिः ||१४-६१-३ (९४१९४)
सुभद्रा तु तमुत्क्रान्तमात्मजस्य वधं रणे |
आचक्ष्व कृष्ण सौभद्रवधमित्यपतद्भुवि ||१४-६१-४ (९४१९५)
तामपश्यन्निपतितां वसुदेवः क्षितौ तदा |
दृष्ट्वैव च पपातोर्व्यां सोऽपि दुःखेन मूर्छितः ||१४-६१-५ (९४१९६)
तषः स दौहित्रवदाद्दुःखशोकसमाहतः |
वसुदेवो महाराज कृष्णं वाक्यमथाब्रवीत् ||१४-६१-६ (९४१९७)
ननु त्वं पुण्डरीकाक्ष सत्यवाग्भुवि विश्रुतः |
यद्दौहित्रवधं मेऽद्य न ख्यापयसि शत्रुहन् ||१४-६१-७ (९४१९८)
तद्भागिनेयनिधनं तत्त्वेनाचक्ष्व मे प्रभो |
सदृशाक्षस्तव कथं शत्रुभिर्निहतो रणे. १४-६१-८ (९४१९९)
दुर्भरं बत वार्ष्णेय कालेऽप्राप्ते नृभिः सह |
यत्र मे हृदयं दुःखाच्छतधा न विदीर्यते ||१४-६१-९ (९४२००)
किमब्रवीत्त्वां सङ्ग्रामे सुभद्रां मातरं प्रति |
मां चापि पुण्डरीकाक्षि चपलाक्षः प्रियो मम ||१४-६१-१० (९४२०१)
आहवं पृष्ठतः कृत्वा कच्चिन्न निहतः परैः |
कच्चिन्मुखं न गोविन्द तेनाजौ विकृतं कृतम् ||१४-६१-११ (९४२०२)
स हि कृष्ण महातेजाः श्लाघन्निव ममाग्रतः |
बालभावेन विजयमात्मनोऽकथयत्प्रभुः. १४-६१-१२ (९४२०३)
कच्चिन्न निकृतो बालो द्रोणकर्णाकृपादिभिः |
धरण्यां निहतः शेते तन्ममाचक्ष्वि केशव ||१४-६१-१३ (९४२०४)
स हि द्रोणं च भीष्मं च कर्णं च बलीनां वरम् |
स्पर्धते स्म रणे नित्यं दुहितुः पुत्रको मम ||१४-६१-१४ (९४२०५)
एवंविधं बहु तदा विलपन्तं सुदुःखितम् |
पितरं दुःखिततरं गोविन्दो वाक्यमब्रवीत् ||१४-६१-१५ (९४२०६)
न तेनि विकृतं वक्त्रं कृतं सङ्ग्राममूर्धनि |
न पृष्ठतः कृतश्चापि सङ्ग्रामस्तेन दुस्तरः ||१४-६१-१६ (९४२०७)
निहत्य पृथिवीपालान्सहस्रशतसङ्घशः |
खेदितो द्रोणकर्णाभ्यां दौःशासनिवशं गतः ||१४-६१-१७ (९४२०८)
एको ह्येकेन सततं युध्यमानो यदि प्रभो |
न स शक्येत सङ्ग्रामे निहन्तुमपि वज्रिणा ||१४-६१-१८ (९४२०९)
समाहूते च सङ्ग्रामे पार्थे संशप्तकैस्तदा |
पर्यवार्यत संक्रुद्धैः स द्रोणादिभिराहवे ||१४-६१-१९ (९४२१०)
ततः शत्रुवधं कृत्वा सुमहान्तं रेणे पितः |
दौहित्रस्तव वार्ष्णेय दौःशासनिवशं गतः ||१४-६१-२० (९४२११)
नूनं च स गतः स्वर्गं जहि शोकं महामते |
न हि व्यसनमासाद्य सीदन्ति कृतबुद्धयः ||१४-६१-२१ (९४२१२)
द्रोणकर्णप्रभृतयो येन प्रतिसमासिताः |
रणे महेन्द्रप्रतिमाः स कथं नाप्नुयाद्दिवम् ||१४-६१-२२ (९४२१३)
स शोकं जहि जुर्धर्ष मा च मन्युवशं गमः |
शस्त्रपूतां हि स गतिं गतः परपुरंजयः ||१४-६१-२३ (९४२१४)
तस्मिंस्तु निहते वीरे सुभद्रेयं स्वसा मम |
दुःखार्ताऽथो सुतं प्राप्य कुररीव ननाद ह ||१४-६१-२४ (९४२१५)
द्रौपदीं च समासाद्य पर्यतप्यत दुःखिता |
आर्ये क्व दारकाः सर्वे द्रष्टुमिच्छामि तानहम् ||१४-६१-२५ (९४२१६)
अस्यास्तु वचनं श्रुत्वा सर्वास्ताः कुरुयोषितः |
भुजाभ्यां परिगृह्यैनां चुक्रुशुः परमार्तवत् ||१४-६१-२६ (९४२१७)
उत्तरां चाब्रवीद्भद्रे भर्ता स क्व नु ते गतः |
क्षिप्रमागमनं मह्यं तस्य त्वं वेदयस्व ह ||१४-६१-२७ (९४२१८)
ननु नामाद्य वैराटि श्रुत्वा मम गिरं सदा |
भवनान्निष्पतत्याशु कस्मान्नाभ्येति ते पतिः ||१४-६१-२८ (९४२१९)
अभिमन्योऽनुशयिनो मातुलास्ते महारथाः |
कुशलं चाब्रुवन्सर्वे त्वां युयुत्सुमिहागतम् ||१४-६१-२९ (९४२२०)
आचक्ष्व मेऽद्य सङ्ग्रामं यथापूर्वमरिन्दम |
कस्मादेवं विलपतीं नाद्येह प्रतिभाषसे. १४-६१-३० (९४२२१)
एवमादि तु वार्ष्णेय्यास्तस्यास्तत्परिदेवितम् |
श्रुत्वा पृथा सुदुःखार्ता शनैर्वाक्यमथाब्रवीत् ||१४-६१-३१ (९४२२२)
सुभद्रे वासुदेवेन तथा सात्यकिना रणे |
पित्रा च लालितो बालः स हतः कालधर्मणा ||१४-६१-३२ (९४२२३)
ईदृशो मर्त्यधर्मोऽयं मा शुचो यदुनन्दिनि |
पुत्रो हि तव दुर्धर्षः सम्प्राप्तः परमां गतिम् ||१४-६१-३३ (९४२२४)
कुले महति जातासि क्षत्रियाणां महात्मनाम् |
मा शुचश्चपलाक्षं त्वं पद्मपत्रनिभेक्षणे ||१४-६१-३४ (९४२२५)
उत्तरां त्वमवेक्षस्व गुर्विणीं मा शुचः शुभे |
पुत्रमेषा हि तस्याशु जनयिष्यति भामिनी ||१४-६१-३५ (९४२२६)
एवमाश्वासयित्वैनां कुन्ती यदुकुलोद्वह |
विहाय शोकं दुर्धर्षं श्राद्धमस्य ह्यकल्पयत् ||१४-६१-३६ (९४२२७)
समनुज्ञाप्य धर्मज्ञं राजानं भीममेव च |
यमौ यमोपमौ चैव ददौ दानान्यनेकशः ||१४-६१-३७ (९४२२८)
ततः प्रदाय बह्वीर्गा ब्राह्मणेभ्यो यदूद्वह |
समाहृष्य तु वार्ष्णेयी वैराटीमब्रवीदिदम् ||१४-६१-३८ (९४२२९)
वैराटि नेह संतापस्त्वया कार्यो ह्यनिन्दिते |
भर्तारं प्रति सुश्रोणि गर्भस्थं रक्ष वै शिशुम् ||१४-६१-३९ (९४२३०)
एवमुक्त्वा ततः कुन्ती विरराम महाद्युते |
तामनुज्ञाप्य चैवेमां सुभद्रां समुपानयम् ||१४-६१-४० (९४२३१)
एवं स निधनं प्राप्तो दौहित्रस्तव मानद |
संतापं त्यज दुर्धर्ष मा च शोके मनः कृथाः ||||१४-६१-४१ (९४२३२)
इति श्रीमन्महाभारते आश्वमेधिकपर्वणि अनुगीतापर्वणि
एकषष्टितमोऽध्यायः ||६१ ||
Mahabharata -Ashvamedhika Parva -Chapter Footnotes
७-६१-११ कच्चिद्दुःखेन गोविन्दि तत्राजौ विमुखीकृतः इति थ.पाठः ||
७-६१-१९ समाहृते च सङ्ग्रामादिति झ.पाठः | पर्यवार्यत
सतुष्टैरिति थ.पाठः ||
आश्वमेधिकपर्व -अध्याय ०६२
||श्रीः ||
१४. ६२. अध्यायः ६२
Mahabharata -Ashvamedhika Parva -Chapter Topics
वसुदेवादिभिरभिमन्यवे श्राद्धदानम् ||१ ||
व्यासेन हास्तिनपुरमेत्य उत्तरादिपरिसान्त्वपूर्वकं
युधिष्ठिरंप्रत्यश्वमेधसंचोदनेनि पुनरन्तर्धानम् ||२ ||
Mahabharata -Ashvamedhika Parva -Chapter Text
वैशम्पायन उवाच |
एतच्छ्रुत्वा तु पुत्रस्य वचः शूरात्मजस्तदा |
विहाय शोकं धर्मात्मा ददौ श्राद्धमनुत्तमम् ||१४-६२-१ (९४२३३)
तथैव वासुदेवश्च स्वस्त्रीयस्य महात्मनः |
दयितस्यि पितुर्नित्यमकरोदौर्ध्वदेहिकम् ||१४-६२-२ (९४२३४)
षष्टिं शतसहस्राणि ब्राह्मणानां महौजसाम् |
विधिवद्भोजयामास भोज्यं सर्वगुणान्वितम् ||१४-६२-३ (९४२३५)
आच्छाद्य च महाबाहुर्धनतृष्णामपानुदत् |
ब्राह्मणानां तदा कृष्णस्तदभूद्रोमहर्षणम् ||१४-६२-४ (९४२३६)
सुवर्णं चैव गाश्चैव शयनाच्छादनानि च |
दीयमानं तदा विप्रः प्रभूतमिति चाब्रुवन् ||१४-६२-५ (९४२३७)
वासुदेवोऽथ दाशार्हो बलेदेवः ससात्यकिः |
अभिमन्योस्तदा श्राद्धमकुर्वन्सत्यकस्तदा |
अतीव दुःखसंतप्ता न शमं चोपलेभिरे ||१४-६२-६ (९४२३८)
तथैव पाण्डवा वीरा नगरे नागसह्वये |
नोपागच्छन्त वै शान्तिमभिमन्युविनाकृताः ||१४-६२-७ (९४२३९)
सुबहूनि च राजेन्द्र दिवसानि विराटजा |
नाभुङ्क्त पतिदुःखार्ता तदभूत्करुणं महत् ||१४-६२-८ (९४२४०)
धियमाणे तु तस्मिंस्तु गर्भे कुक्षिस्थ एव च |
आजगाम ततो व्यासो ज्ञात्वा दिव्येन चक्षुषा ||१४-६२-९ (९४२४१)
समागम्याब्रवीमान्पृथां पृथुललोचनाम् |
उत्तरां च महातेजाःइ शोकः संत्यज्यतामयम् ||१४-६२-१० (९४२४२)
जनिष्यते महातेजाः पुत्रस्तव यशस्विनि |
प्रभावाद्वासुदेवस्य मम व्याहरणादपि |
पाण्डवानामयं चान्ते पालयिष्यति मेदिनीम् ||१४-६२-११ (९४२४३)
धनञ्जयं च सम्प्रेक्ष्य धर्मराजस्य शृण्वतः |
व्यासो वाक्यमुवाचेदं हर्षयन्निव भारत ||१४-६२-१२ (९४२४४)
पौत्रस्तव महाभागो जनिष्यति महामनाः |
पृथ्वीं सागरपर्यन्तां पालयिष्यति धर्मतः ||१४-६२-१३ (९४२४५)
तस्माच्छोकं कुरुश्रेष्ठ जहि त्वमरिकर्शन |
विचार्यमत्र न हि ते सत्यमेतद्भविष्यति ||१४-६२-१४ (९४२४६)
यच्चापि वृष्णिवीरेणि कृष्णेन कुरुनन्दन |
पुरोक्तं तत्तथा भावि मा तेऽत्रास्तु विचारणा ||१४-६२-१५ (९४२४७)
विबुधानां गतो लोकानक्षयानात्मनिर्जितान् |
न स शोच्यस्त्वया वीरो न चान्यैः कुरुभिस्तथा ||१४-६२-१६ (९४२४८)
एवं पितामहेनोक्तो धर्मात्मा स धनञ्जयः |
त्यक्त्वा शोकं महाराज हृष्टरूपोऽभवत्तदा ||१४-६२-१७ (९४२४९)
पिताऽपि तव धर्मेज्ञ गर्भे तस्मिन्महामते |
अवर्धत यथाकामं शुक्लपक्षे यथा शसी ||१४-६२-१८ (९४२५०)
ततः संचोदयामास व्यासो धर्मात्मजं नृपम् |
अश्वमेधं प्रति तदा ततः सोऽन्तर्हितोऽभवत् ||१४-६२-१९ (९४२५१)
धर्मराजोपि मेधावी श्रुत्वा व्यासस्य तद्वचः |
वित्तोपनयने तात चकार गमने मतिम् ||||१४-६२-२० (९४२५२)
इति श्रीमन्महाभारते आश्वमेधिकपर्वणि अनुगीतापर्वणि
द्विषष्टितमोऽध्यायः ||६२ ||
आश्वमेधिकपर्व -अध्याय ०६३
||श्रीः ||
१४. ६३. अध्यायः ६३
Mahabharata -Ashvamedhika Parva -Chapter Topics
युधिष्ठिरेण व्यासाज्ञया भीमादिभिः सहालोच्य यज्ञार्थं
धनाहरणाय सहभ्रात्रादिभिर्हिमवत्पार्श्वप्रति प्रस्थानम् ||१ ||
Mahabharata -Ashvamedhika Parva -Chapter Text
जनमेजय उवाच |
श्रुत्वैतद्वचनं ब्रह्मन्व्यासेनोक्तं महात्मना |
अश्वमेधं प्रति तदा किं भूयः प्रचकार ह ||१४-६३-१ (९४२५३)
रत्नं च यन्मरुत्तेनि निहितं वसुधातले |
तदवाप कथं चेति तन्मे ब्रूहि द्विजोत्तम ||१४-६३-२ (९४२५४)
वैशम्पायन उवाच. १४-६३-३क्ष् (७९१४)
श्रुत्वा द्वैपायनवचो धर्मिराजो युधिष्ठिरः |
भ्रातॄन्सर्वान्समानाय्य काले वचनमब्रवीत् ||१४-६३-३ (९४२५५)
अर्जुनं भीमसेनं च माद्रीपुत्रौ यमावपि |
श्रुतं वो वचनं वीराः सौहृदाद्यन्महात्मना ||१४-६३-४ (९४२५६)
कुरूणां हितकामेन प्रोक्तं कृष्णेन धीमता |
तपोवृद्धेनि महता सुहृदां भूतिमिच्छता ||१४-६३-५ (९४२५७)
गुरुणा धर्मशीलेन व्यासेनाद्भुतकर्मणा |
भीष्मेण च महाप्राज्ञ गोविन्देनि च धीमता ||१४-६३-६ (९४२५८)
संस्मृत्य तदहं सम्यक्कर्तुमिच्छामि पाण्डवाः |
आयत्यां च तदात्वे च सर्वेषां तद्धि नो हितम् ||१४-६३-७ (९४२५९)
अनुबन्धे च कल्याणं यद्वचो ब्रह्मवादिनः |
इयं हि वसुधा सर्वा क्षीणरत्ना कुरूद्वहाः ||१४-६३-८ (९४२६०)
तच्चाचष्ट तदा व्यासो मरुत्तस्य धनं नृपाः |
यद्येतद्वो बहुमतं मन्यध्वं वा क्षमं यदि |
तदानयामहे सर्वे कतं वा भीम मन्यसे ||१४-६३-९ (९४२६१)
इत्युक्तवाक्ये नृपतौ तदा कुरुकुलोद्वह |
भीमसेनो नृपश्रेष्ठं प्राञ्जलिर्वाक्यमब्रवीत् ||१४-६३-१० (९४२६२)
रोचते मे महाबाहो यदिदं भाषितं त्वया |
व्यासाख्यातस्य वित्तस्य समुपानयनं प्रति ||१४-६३-११ (९४२६३)
तत्प्राप्नुयामहे धर्माद्यद्धनं काङ्क्षितं प्रभो |
कृतमेव महाराज भवेदिति मतिर्मम ||१४-६३-१२ (९४२६४)
ते वयं प्रणिपातेन गिरीशस्य महात्मनः |
तदानयामि भद्रं ते समभ्यर्च्य कपर्दिनम् ||१४-६३-१३ (९४२६५)
' तं विभुं देवदेवेशं शूलपाणिं त्रिलोचनम् |
अनादिनिधनं शंभुं नमस्यामि महेश्वरम् ||' १४-६३-१४ (९४२६६)
लोकनाथं गणाध्यक्षं तस्यैवानुचरांश्चि तान् |
प्रसाद्यार्थमवाप्स्यामो नूनं वाग्बुद्धिकर्मभिः ||१४-६३-१५ (९४२६७)
रक्षन्ते ये च तद्द्रव्यं किन्नरा रौद्रदर्शनाः |
ते च वश्या भविष्यन्ति प्रसन्ने वृषभध्वजे ||१४-६३-१६ (९४२६८)
' स हि देवः प्रसन्नात्मा भक्तानां परमेश्वरः |
ददात्यमरतां चापि किं पुनः काञ्चनं प्रभुः ||१४-६३-१७ (९४२६९)
वनस्थास्य पुरा जिष्णोरस्त्रं पाशुपतं महत् |
रौद्रं ब्रह्मसिरश्चादात्प्रसन्नः किं पुनर्धनम् ||१४-६३-१८ (९४२७०)
वयं सर्वे हि तद्भक्ताः स चास्माकं प्रसीदति |
तत्प्रसादादिदं राज्यं प्राप्तं कौरवनन्दन ||१४-६३-१९ (९४२७१)
अभिमन्योर्वधे वृत्ते प्रतिज्ञाते धनञ्जये |
जयद्रथवधार्थाय स्वप्ने लोकगुरुर्निशि |
प्रसाद्य लब्धवानस्त्रमर्जुनः सहकेशवः ||१४-६३-२० (९४२७२)
तत्र प्रभातां रजनीं फल्गुनस्याग्रतः प्रभुः |
जघान सैन्यं शूलेन प्रत्यक्षं सव्यसाचिनः ||१४-६३-२१ (९४२७३)
कस्तां सेनां महाराज मनसाऽपि प्रधर्षयेत् |
द्रोणिकर्णबलैर्युक्तां महेष्वासैः प्रहारिभिः |
ऋते देवान्महेष्वासाद्बहुरूपान्महेश्वरात् ||१४-६३-२२ (९४२७४)
तस्यैव च प्रसादेव निहतास्तव शत्रवः |
अश्वमेधस्य संसिद्धिं तव सम्पादयिष्यति.' १४-६३-२३ (९४२७५)
श्रुत्वैवं वदतस्तस्य वाक्यं भीमस्य भारत |
प्रीतो धर्मात्मजो राजा बभूवातीव भारत |
अर्जुनप्रमुखाश्चापि तथेत्येवाब्रुवन्वचः ||१४-६३-२४ (९४२७६)
कृत्वा तु पाण्डवाः सर्वे रत्नाहरणनिश्चयम् |
सेनामाज्ञापयामासुर्नक्षत्रेऽहनि च ध्रुवे ||१४-६३-२५ (९४२७७)
ततो ययुः पाण्डुसुता ब्राह्मणान्स्वस्ति वाच्य च |
अर्चयित्वा सुरश्रेष्ठं पूर्वमेव महेश्वरम् ||१४-६३-२६ (९४२७८)
मोदकैः पायसेनाथ मांसापूपैस्तथैव च |
आशास्य च महात्मानं प्रययुर्मुदिता भृशम् ||१४-६३-२७ (९४२७९)
तेषां प्रयास्यतां तत्र मङ्गलानि शुभान्यथ |
प्राहुः प्रहृष्टमनसो द्विजाग्र्या नागराश्च ते ||१४-६३-२८ (९४२८०)
ततः प्रदक्षिणीकृत्य शिरोभिः प्रणिपत्य च |
ब्राह्मणानग्निसहितान्प्रययुः पाण्डुनन्दनाः ||१४-६३-२९ (९४२८१)
समनुज्ञाप्य राजानं पुत्रशोकसमाहतम् |
धृतराष्ट्रं सभार्यं वै पृथां च पृथुलोचनाम् ||१४-६३-३० (९४२८२)
मूले निक्षिप्य कौरव्यं युयुत्सुं धृतराष्ट्रजम् |
सम्पूज्यमानाः पौरैश्च ब्राह्मणैश्च मनीषिभिः |
' प्रययुः पाण्डवा वीरा नियमस्थाः शुचिव्रताः' ||१४-६३-३१ (९४२८३)
इति श्रीमन्महाभारते आश्वमेधिकपर्वणि अनुगीतापर्वणि
त्रिषष्टितमोऽध्यायः ||६३ ||
आश्वमेधिकपर्व -अध्याय ०६४
||श्रीः ||
१४. ६४. अध्यायः ६४
Mahabharata -Ashvamedhika Parva -Chapter Topics
युधिष्ठिरेण हिमवद्गिरिमेत्य सेनानिवेशनम् ||१ ||
तत्र ब्राह्मणचोदनया तैः सहोपवासादिव्रताचरणपूर्वकं निशायापनम्
||२ ||
Mahabharata -Ashvamedhika Parva -Chapter Text
वैशम्पायन उवाच |
ततस्ते प्रययुर्हृष्टाः प्रहृष्टनरवाहनाः |
रथघोषेण महता पूरयन्तो वसुन्धराम् ||१४-६४-१ (९४२८४)
संस्तूयमानाः स्तुतिभिः सूतमागधबन्दिभिः |
स्वेन सैन्येन संवीता यथाऽऽदित्याः स्वरश्मिभिः ||१४-६४-२ (९४२८५)
पाण्डुरेणातपत्रेण ध्रियमाणेन मूर्धनि |
बभौ युधिष्ठिरस्तत्र पौर्णमास्यामिवोडुराट् ||१४-६४-३ (९४२८६)
जयाशिषः प्रहृष्टानां नराणां पथि पाण्डवः |
प्रत्यगृह्णाद्यथान्यायं यथावत्पुरुषर्षभः ||१४-६४-४ (९४२८७)
तथैव सैनिका राजन्राजानमनुयान्ति ये |
तेषां हलहलाशब्दो दिवं स्तब्ध्वा व्यतिष्ठत ||१४-६४-५ (९४२८८)
सरांसि सरितश्चैव वनान्युपवनानि च |
अत्यक्रामन्महाराजो गिरिं चाप्यन्वपद्यत ||१४-६४-६ (९४२८९)
स्मिन्देशे च राजेन्द्र यत्र तद्द्रव्यमुत्तमम् |
चक्रे निवेशनं राजा पाण्डवः सहसैनिकैः |
शिवे देशे समे चैव तदा भरतसत्तम ||१४-६४-७ (९४२९०)
अग्रतो ब्राह्मणान्कृत्वा तपोविद्यादमान्वितान् |
पुरोहितं च कौरव्य वेदवेदाङ्गपारगम् ||१४-६४-८ (९४२९१)
आग्निवेश्यं च राजानो ब्राह्मणाः सपुरोधसः |
कृत्वा शान्तिं यथान्यायं सर्वशः पर्यवारयन् ||१४-६४-९ (९४२९२)
कृत्वा तु मध्ये राजानममात्यांश्च यथाविधि |
षट्पदं नवसङ्ख्यानं निवेशं चक्रिरे जनाः ||१४-६४-१० (९४२९३)
मत्तानां वारणेन्द्राणां निवेशं च यथाविधि |
कारयित्वा स राजेन्द्रो ब्राह्मणानिदमब्रवीत् ||१४-६४-११ (९४२९४)
अस्मिन्कार्ये द्विजश्रेष्ठा नक्षत्रे दिवसे शुभे |
यथा भवन्तो मन्यन्ते कर्तुमर्हन्ति तत्तथा ||१४-६४-१२ (९४२९५)
न नः कालात्ययो वै स्यादिहैव परिलम्बताम् |
इति निश्चित्य विप्रेन्द्राः क्रियतां यदनन्तरम् ||१४-६४-१३ (९४२९६)
श्रुत्वैतद्व********* ब्राह्मणाः सपुरोधसः |
इदमूचुर्वचो हृष्टा धर्मराजप्रियेप्सवः ||१४-६४-१४ (९४२९७)
अद्यैव नक्षत्रिमहश्च पुण्यं
यतामहे श्रेष्ठतमक्रियासु |
तपोभिरद्येह वसाम राज-
न्नुपोष्यतां चापि भवद्भिरद्य ||१४-६४-१५ (९४२९८)
श्रुत्वा तु तेषां द्विजसत्तमानां
कृतोपवासा रजनीं नरेन्द्राः. १४-६४-१६ (९४२९९)
ऊषुः प्रतीताः कुशसंस्तरेषु
यथाऽध्वरे प्रज्वलिता हुताशाः ||१४-६४-१७ (९४३००)
ततो निशा सा व्यगमन्महात्मनां
संशृण्वतां विप्रसमीरिता गिरः |
ततः प्रभाते विमले द्विजर्षभा
वचोऽब्रुवन्धर्मसुतं नराधिपम् ||||१४-६४-१८ (९४३०१)
इति श्रीमन्महाभारते आश्वमेधिकपर्वणि अनुगीतापर्वणि
चतुःषष्टितमोऽध्यायः ||६४ ||
Mahabharata -Ashvamedhika Parva -Chapter Footnotes
७-६४-२५ ध्रुवे नक्षत्रे रोहिण्यामुत्तरात्रये च | अहनि वारे ध्रुवे
रविवारे.क उत्तरार्केऽमृतसिद्धयोगे इत्यर्थः ||
७-६४-३१ मूले वंशस्याद्ये | कुन्तीधृतराष्ट्रसमीपे इत्यर्थः ||
७-६४-६३ त्रिषष्टितमोऽध्यायः ||
आश्वमेधिकपर्व -अध्याय ०६५
||श्रीः ||
१४. ६५. अध्यायः ६५
Mahabharata -Ashvamedhika Parva -Chapter Topics
युधिष्ठिरेण विधिवन्नानाषलिहरणादिना
सपरिचरमहेश्वरपतितोषणेन विविधकनकभाण्डाहरणेन
पुनर्नगरंप्रत्यागमनम् ||१ ||
Mahabharata -Ashvamedhika Parva -Chapter Text
ब्राह्मणा ऊचुः |
क्रियतामुपहारोऽद्य त्र्यम्बकस्य महात्मनः |
दत्त्वोपहारं नृपते ततः स्वार्थं यतामहे ||१४-६५-१ (९४३०२)
वैशम्पायन उवाच. १४-६५-२क्ष् (७९१५)
श्रुत्वा तु वचनं तेषां ब्राह्मणानां युधिष्ठिरः |
गिरीशस्य यथान्यायमुपहारमुपाहरत् ||१४-६५-२ (९४३०३)
आज्येन तर्पयित्वाऽग्निं विधिवत्संस्कृतेन च |
मन्त्रसिद्धं चरुं कृत्वा पुरोधाः स ययै तदा ||१४-६५-३ (९४३०४)
स गृहीत्वा सुमनसो मन्त्रपूता जनाधिप |
मोदकैः पायसेनाथ मांसैश्चोपाहरद्बलिंम् ||१४-६५-४ (९४३०५)
सुमनोभिश्च चित्राभिर्लाजैरुच्चावचैरपि |
सर्वं स्विष्टकृतं हुत्वा विधिवद्वेदपारगः |
किंकराणां ततः पश्चाच्चकार बलिमुत्तमम् ||१४-६५-५ (९४३०६)
यक्षेन्द्राय कुबेराय माणिभद्राय चैव ह |
तथाऽन्येषां च यक्षाणां भूतानां पतयश्च ये ||१४-६५-६ (९४३०७)
कृसरेण च मांसेन निवापैस्तिलसंयुतैः |
ओदनं कुम्भशः कृत्वा पुरोधाः समुपाहरत् ||१४-६५-७ (९४३०८)
ब्राह्मणेभ्यः सहस्राणि गवां दत्वा तु भूमिपः |
नक्तंचराणां भूतानां व्यादिदेश बलि तदा ||१४-६५-८ (९४३०९)
धूपगन्धनिरुद्धं तत्सुमनोभिश्च संवृतम् |
शुशुभे स्थानमत्यर्थं देवदेवस्य पार्थिवः ||१४-६५-९ (९४३१०)
कृत्वा पूजां तु रुद्रस्य गणानां चैव सर्वशः |
ययौ व्यासं पुरस्कृत्य नृपो रत्ननिधिं प्रति ||१४-६५-१० (९४३११)
पूजयित्वा धनाध्वक्षं प्रणिपत्याभिवाद्य च |
सुमनोभिर्विचित्राभिरपूपैः कृसरेण च ||१४-६५-११ (९४३१२)
शङ्खादींश्च निधीन्सर्वान्निधिपालांश्च सर्वशः |
अर्चयित्वा द्विजाग्र्या स्वस्ति वाच्य च वीर्यवान् १४-६५-१२ (९४३१३)
तेषां पुण्याहघोषेण तेजसा समवस्थितः |
प्रीतिमान्स कुरुश्रेष्ठः खानयामासं तं निधिम् ||१४-६५-१३ (९४३१४)
ततः पात्री सकरका बहुरूपा मनोरमाः |
भृङ्गाराणि कटाहानि कलशान्वर्धमानकान् ||१४-६५-१४ (९४३१५)
बहूनि च विचित्राणि भाजनानि सहस्रशः |
उद्धारयामास तदा धर्मराजो युधिष्ठिरः ||१४-६५-१५ (९४३१६)
तेषां रक्षणमप्यासीन्महान्करपुटस्तथा |
नद्धं च भाजनं राजंस्तुलार्धमभवन्नृप ||१४-६५-१६ (९४३१७)
वाहनं पाण्डुपुत्रस्य तत्रासीत्तु विशांपते |
षष्टिरुष्ट्रसहस्राणि शतानि द्विगुणा हयाः ||१४-६५-१७ (९४३१८)
वारणाश्च महाराज सहस्रशतसंमिताः |
शकटानि रथाश्चैव तावदेव करेणवः |
स्वराणां पुरुषाणां च परिसङ्ख्या न विद्यते ||१४-६५-१८ (९४३१९)
एतद्वित्तं तदभवद्यदुद्दध्रे युधिष्ठिरः |
षोडशाष्टौ चतुर्विंशत्सहस्रं भारलक्षणम् ||१४-६५-१९ (९४३२०)
एतेष्वादाय तद्द्रव्यं पुनरभ्यर्च्य पाण्डवः |
महादेवं प्रति ययौ पुरं नागाहयं प्रति ||१४-६५-२० (९४३२१)
द्वैपायनाभ्यनुज्ञातः पुरस्कृत्य पुरोहितम् |
गोरुते गोरुते चैव न्यवसत्पुरुषर्षभः ||१४-६५-२१ (९४३२२)
सा पुराऽभिमुखा राजन्नुवाह महती चमूः |
कृच्छ्राद्द्रविणभारार्ता हर्षयन्ती कुरूद्वहान् ||||१४-६५-२२ (९४३२३)
इति श्रीमन्महाभारते आश्वमेधिकपर्वणि अनुगीतापर्वणि
पञ्चषष्टितमोऽध्यायः ||६५ ||
Mahabharata -Ashvamedhika Parva -Chapter Footnotes
७-६५-१४ पात्रीः महान्ति ओदनोद्धरणपात्राणि | करका
अल्पघटाः. भृङ्गाराणि गडुकान्. वर्धमानकान् शरावाणि ||
७-६५-१६ करपटः करसंपुटाकारं द्विजलभाजनं उष्ट्रादिवाह्यम्
संदूख इति प्रसिद्धम् ||
आश्वमेधिकपर्व -अध्याय ०६६
||श्रीः ||
१४. ६६. अध्यायः ६६
Mahabharata -Ashvamedhika Parva -Chapter Topics
कृष्णेन बलभद्द्रसुमद्रादिभिः सह यज्ञार्थं हास्तिनपुरं
प्रत्यागमनम् ||१ ||
तत उत्तरायां परिक्षितो परिक्षितो जननम् ||२ ||
भश्वत्थामास्त्रेण जननकालएव शवभूतस्य तस्योज्जीवनाय
कुन्त्यादिभिः श्रीकृष्णंप्रति प्रार्थना ||३ ||
Mahabharata -Ashvamedhika Parva -Chapter Text
वैशम्पायन उवाच |
एतस्मिन्नेव काले तु वासुदेवोऽपि वीर्यवान् |
उपायाद्वृष्णिभिः सार्दं पुरं वारणसाह्वयम् ||१४-६६-१ (९४३२४)
समयं वाजिमेधस्य विदित्वा पुरुषर्षभः |
यथोक्तो धर्मपुत्रेण प्रव्रजन्स्वपुरीं प्रति ||१४-६६-२ (९४३२५)
रौक्मिणेयेन सहितो युयुधानेन चैव ह |
चारुदेष्णेन सांबेनि गदेन कृतवर्मणा ||१४-६६-३ (९४३२६)
सारणेन च वीरेण निशठेनोन्मुखेन च |
बलदेवं पुरस्कृत्य सुभद्रासहितस्तदा ||१४-६६-४ (९४३२७)
द्रौपदीमुत्तरां चैव पृथां चाप्यवलोककः |
समाश्वासयितुं चापि क्षत्रिया निहतेश्वराः ||१४-६६-५ (९४३२८)
तानागतान्समीक्ष्यैव धृतराष्ट्रो महीपतिः |
प्रत्यगृह्णाद्यथान्यायं विदुरश्च महामनाः ||१४-६६-६ (९४३२९)
तत्रैव न्यवसत्कृष्णः स्वर्चितः पुरुषोत्तमः |
विदुरेणि महातेजास्तथैव च युयुत्सुना ||१४-६६-७ (९४३३०)
वसत्सु वृष्णिवीरेषु तत्राथ जनमेजय |
जज्ञे तव पिता राजन्परिक्षित्परवीरहा ||१४-६६-८ (९४३३१)
स तु राजा महाराज ब्रह्मास्त्रेणावपीडितः |
शवो बभूव निश्चेष्टो हर्षशोकविवर्धनः ||१४-६६-९ (९४३३२)
हृष्टानां सिंहनादेन जनानां तत्र निःस्वनः |
आविवश दिशःसर्वाः पुनरेवाभ्युपागमत् ||१४-६६-१० (९४३३३)
ततः सोतित्वरः कृष्णो विवेशान्तःपुरं तदा |
युयुधानद्वितीयो वै व्यथितेन्द्रियमानसः ||१४-६६-११ (९४३३४)
ततस्त्वरितमायान्तीं ददर्शं स्वां पितृष्वसाम् |
क्रोशन्तीमभिधावेति वासुदेवं पुनःपुनः ||१४-६६-१२ (९४३३५)
पृष्ठतो द्रौपदीं चैव सुभद्रां च यशस्विनीम् |
विक्रोशन्त्यश्च करुणं पाण्डवानां स्त्रियो नृप ||१४-६६-१३ (९४३३६)
ततः कृष्णं समासाद्य कुन्ती भोजसुता तदा |
प्रोवाच राजशार्दूल बाष्पगद्गदया गिरा ||१४-६६-१४ (९४३३७)
वासुदेव महाबाहो सुप्रजा देवकी त्वया |
त्वं नो गतिः प्रतिष्ठा च त्वदायत्तमिदं कुलम् ||१४-६६-१५ (९४३३८)
यदुप्रवीर योऽयं ते स्वस्त्रीयस्यात्मजः प्रभो |
अश्वत्थाम्ना हतो जातस्तमुज्जीवय केशव ||१४-६६-१६ (९४३३९)
त्वया ह्येतत्प्रतिज्ञातमैषीके यदुनन्दन |
अहं संजीवयिष्यामि मृतं जातमिति प्रभो ||१४-६६-१७ (९४३४०)
सोयं जातो मृतस्तात पश्यैनं पुरुषर्षभ |
उत्तरां च सुभद्रां च द्रौपदीं मां च माधव ||१४-६६-१८ (९४३४१)
धर्मपुत्रं च भीमं च फल्गुनं नकुलं तथा |
सहदेवं च दुर्धर्षं सर्वान्नस्त्रातुमर्हसि ||१४-६६-१९ (९४३४२)
अस्मिन्प्राणाः समायत्ताः पाण्डवानां ममैव च |
पाण्डोश्च पिण्डो दाशार्ह तथैव श्वशुरस्य मे ||१४-६६-२० (९४३४३)
अभिमन्योश्च भद्रं ते प्रियस्य सदृशस्य च |
प्रियमुत्पादयाद्य त्वं प्रेतस्यापि जनार्दन ||१४-६६-२१ (९४३४४)
उत्तरा हि पुरोक्तं वै कथयत्यरिसूदन |
अभिमन्योर्वचः कृष्ण प्रियत्वात्तन्न संशयः ||१४-६६-२२ (९४३४५)
अब्रवीत्किल दाशार्ह वैराTI.Arजुनिस्तदा |
मातुलस्य कुलं भद्रे तव पुत्रो गमिष्यति ||१४-६६-२३ (९४३४६)
गत्वा वृष्णयन्धककुलं धनुर्वेदं ग्रहीष्यति |
अस्त्राणि च विचित्राणि नितीशास्त्रं च केवलं ||१४-६६-२४ (९४३४७)
इत्येतत्प्रणयात्तात सौभद्रः परवीरहा |
कथयामास दुर्धर्षस्तथा चैतन्न संशयः ||१४-६६-२५ (९४३४८)
तास्त्वां वयं प्रणम्येह याचामो मधुसूदन |
कुलस्यास्य हितार्तं च कुरु कल्याणमुत्तमम् ||१४-६६-२६ (९४३४९)
एवमुक्त्वा तु वार्ष्णेयं पृथा पृथुललोचना |
उद्धृत्य बाहू दुःखार्ता ताश्चान्याः प्रापतन्भुवि ||१४-६६-२७ (९४३५०)
अब्रुवंश्च महाराज सर्वाः सास्राविलेक्षणाः |
स्वस्त्रीयो वासुदेवस्य मृतो जात इति प्रभो ||१४-६६-२८ (९४३५१)
एवं गते ततः कुन्तीं पर्यगृह्णाज्जनार्दनः |
भूमौ निपतितां चैनां सान्त्वयामास भारत ||||१४-६६-२९ (९४३५२)
इति श्रीमन्महाभारते आश्वमेधिकपर्वणि अनुगीतापर्वणि
षट्षष्टितमोऽध्यायः ||६६ ||
आश्वमेधिकपर्व -अध्याय ०६७
||श्रीः ||
१४. ६७. अध्यायः ६७
Mahabharata -Ashvamedhika Parva -Chapter Topics
सुभद्रया श्रीकृष्णंप्रति तन्महिमसंस्तवनपूर्वकं
परिक्षिदुज्जीवनप्रार्थना ||१ ||
Mahabharata -Ashvamedhika Parva -Chapter Text
वैशम्पायन उवाच |
उत्थितायां पृथायां तु सुभद्रा भ्रातरं तदा |
दृष्ट्वा चुक्रोश दुःखार्ता वचनं चेदमब्रवीत् ||१४-६७-१ (९४३५३)
पुण्डरीकाक्ष पश्य त्वं पौत्रं पार्थस्य धीमतः |
परिक्षीणेषु कुरुषु परिक्षीणां गतायुषम् ||१४-६७-२ (९४३५४)
इषीका द्रोणपुत्रेणि भीमसेनार्थमुद्यता |
सोत्तरायां निपतिता विजये मयि चैव ह ||१४-६७-३ (९४३५५)
सेयं ज्वलन्ती हृदये मयि तिष्टति केशव |
यन्न पश्यामि दुर्धर्ष सहपुत्रं तु तं प्रभो ||१४-६७-४ (९४३५६)
किंनु वक्ष्यति धर्मात्मा धर्मराजो युधिष्ठिरः |
भीमसेनार्जुनौ चापि माद्रवत्याः सुतौ च तौ ||१४-६७-५ (९४३५७)
श्रुत्वाऽभिमन्योस्तनयं जातं च मृतमेव च |
मुषिता इव वार्ष्णेय द्रोणपुत्रेण पाण्डवाः ||१४-६७-६ (९४३५८)
अभिमन्युः प्रियः कृष्ण पितॄणां नात्र संशयः |
ते श्रुत्वा किंनु वक्ष्यन्ति द्रोणपुत्रास्त्रनिर्जिताः ||१४-६७-७ (९४३५९)
भविता नः परं दुःखं किंनु मन्ये जनार्दन |
अभिमन्योः सुतं कृष्ण मृतं जातमरिंदम ||१४-६७-८ (९४३६०)
साऽहं प्रसादये कृष्ण त्वामद्य शिरसा नता |
पृथेयं द्रौपदी चैव ताः पश्य पुरुषोत्तम ||१४-६७-९ (९४३६१)
यदा द्रोणसुतो गर्भान्पाण्डूनां हन्ति माधव |
तदा किल त्वया द्रौणिः क्रुद्धेनोक्तोऽरिमर्दन ||१४-६७-१० (९४३६२)
अकामं त्वां करिष्यामि ब्रह्मबन्धो नराधम |
अहं संजीवयिष्यामि किरीटितनयात्मजम् ||१४-६७-११ (९४३६३)
इत्येद्वचनं श्रुत्वा जानानाऽहं बलं तव |
प्रसादये त्वां दुर्धर्ष जीवतामभिमन्युजः ||१४-६७-१२ (९४३६४)
यद्येतत्त्वं प्रतिश्रुत्य न करोषि वच शुभम् |
सकलं वृष्णिशार्दूल मृतां मामवधारय ||१४-६७-१३ (९४३६५)
अभिमन्योः सुतो वीर न संजीवति यद्ययम् |
जीवति त्वयि दुर्धर्ष किं करिष्याम्यहं त्वया ||१४-६७-१४ (९४३६६)
संजीवयैनं दुर्धर्ष मृतं त्वमभिमन्युजम् |
सदृशाक्षसुतं वीर सस्यं वर्षन्निवांम्बुदः ||१४-६७-१५ (९४३६७)
त्वं हि केशव धर्मात्मा सत्यवान्सत्यविक्रमः |
स तां वाचमृतां कर्तुमर्हसि त्वमरिंदम ||१४-६७-१६ (९४३६८)
इच्छन्नपि हि लोकांस्त्रीञ्जीवयेथा मृतानिमान् |
किं पुनर्दयितं जातं स्वस्रीयस्यात्मजं मृतम् ||१४-६७-१७ (९४३६९)
प्रभावज्ञाऽस्मि ते कृष्ण तस्मात्त्वां याचयाम्यहम् |
कुरुष्व पाण्डुपुत्राणामिमं परमनुग्रहम् ||१४-६७-१८ (९४३७०)
स्वसेति वा महाबाहो हतपुत्रेति वा पुनः |
प्रपन्ना मामियं चेति दयां कर्तुमिहार्हसि ||||१४-६७-१९ (९४३७१)
इति श्रीमन्महाभारते आश्वमेधिकपर्वणि अनुगीतापर्वि
सप्तषष्टितमोऽध्यायः ||६७ ||
Mahabharata -Ashvamedhika Parva -Chapter Footnotes
७-६७-४ घृतेन सिक्तैरिति शेषः ||
आश्वमेधिकपर्व -अध्याय ०६८
||श्रीः ||
१४. ६८. अध्यायः ६८
Mahabharata -Ashvamedhika Parva -Chapter Topics
कृष्णेन परिक्षित्सूतिकागृहप्रवेशनम् ||१ ||
तत्रोत्तरया कृष्णसमीपे बहुधा विलापपूर्वकं पुत्रोज्जीवनप्रार्थना ||२ ||
Mahabharata -Ashvamedhika Parva -Chapter Text
वैशम्पायन उवाच |
एवमुक्तस्तु राजेन्द्र केशिहा दुःखमुर्च्छितः |
तथेति व्याजहारोच्चैर्ह्लादयन्निव तं जनम् ||१४-६८-१ (९४३७२)
वाक्येनैतेन हि तदा तं जनं पुरुषर्षभः |
ह्लादयामास स विभुर्घर्मार्तं सलिलैरिव ||१४-६८-२ (९४३७३)
ततः स प्राविशत्तूर्णं जन्मवेश्म पितुस्तव |
अर्चितं पुरुषव्याघ्र सितैर्माल्यैर्यथाविधि ||१४-६८-३ (९४३७४)
अपां कुम्भैः सुपूर्णैश्च विन्यस्तैः सर्वतोदिशम् |
घृतेन तिन्दुकालातैः सर्षपैश्च महाभुज ||१४-६८-४ (९४३७५)
अस्त्रैश्च विमलैर्न्यस्तैः पावकैश्च समन्ततः |
वृद्धाभिश्चापि रामाभिः परिवारार्थमावृतः |
दक्षैश्च परितो धीर भिषग्भिः कुशलैस्तथा ||१४-६८-५ (९४३७६)
ददर्श च स तेजस्वी रक्षोघ्रान्यपि सर्वशः |
द्रव्याणि स्थापितानि स्म विधिवत्कुशलैर्जनैः ||१४-६८-६ (९४३७७)
तथायुक्तं च तद्दृष्ट्वा जन्मवेश्म पितुस्तव |
हृष्टोऽभवद्धृषीकेशः साधुसाध्विति चाब्रवीत् ||१४-६८-७ (९४३७८)
तथा ब्रुवति वार्ष्णेये प्रहृष्टवदने तदा |
द्रौपदी त्वरिता गत्वा वैराटीं वाक्यमब्रवीत् ||१४-६८-८ (९४३७९)
अयमायाति ते भर्तुर्मातुलो मधुसूदनः |
पुराणर्षिरचिन्त्यात्मा समीपमपराजितः ||१४-६८-९ (९४३८०)
साऽपि बाष्पकलां वाचं निगृह्याश्रूपि चैव ह |
असंवीताऽभवद्देवी देववत्कृष्णमीयुषी ||१४-६८-१० (९४३८१)
सा तथा दूयमानेन हृदयेन तपस्विनी |
दृष्ट्वा गोविन्दमायान्तं कृपणं पर्यदेवयत् ||१४-६८-११ (९४३८२)
पुण्डरीकाक्ष पश्यावां बालेन हि विनाकृतौ |
अभिमन्युं च मां चैव हठात्तुल्यं जनार्दन ||१४-६८-१२ (९४३८३)
वार्ष्णेयमधुहन्वीर शिरसा त्वां प्रसादये |
द्रोणपुत्रास्त्रनिर्दग्धं जीवयैनं ममात्मजम् ||१४-६८-१३ (९४३८४)
यदि स्म धर्मराज्ञा वा भीमसेनेन वा पुनः |
त्वया वा पुण्डरीकाक्ष वाक्यमुक्तमिदं भवेत् ||१४-६८-१४ (९४३८५)
अजानतीमिषीकेयं जनित्रीं हन्त्विति प्रभो |
अहमेव विनष्टा स्यां नायमेवं गतो भवेत् ||१४-६८-१५ (९४३८६)
गर्भस्थस्यास्य बालस्य ब्रह्मास्त्रेण निपातनम् |
कृत्वा नृशंसं दुर्बुद्धिर्द्रौणिः किं फलमश्नुते ||१४-६८-१६ (९४३८७)
सा त्वां प्रसाद्य शिरसा याचे शत्रुनिबर्हण |
प्राणांस्त्यक्ष्यामि गोविन्द नायं संजीवते यदि ||१४-६८-१७ (९४३८८)
अस्मिन्हि बहवः साधो ये ममासन्मनोरथाः |
ते द्रोणपुत्रेण हताः किंनु जीवामि केशव ||१४-६८-१८ (९४३८९)
आसीन्मम मतिः कृष्ण पूर्णोत्सङ्गा जनार्दन |
अभिवादयिष्ये हृष्टेति तदिदं वितथीकृतम् ||१४-६८-१९ (९४३९०)
चपलाक्षस्य दायादे मृतेऽस्मिन्पुरुषर्षभ |
विफला मे कृताः कृष्ण हृदि सर्वे मनोरथाः ||१४-६८-२० (९४३९१)
चपलाक्षः किलातीव प्रियस्ते मधुसूदन |
सुतं पश्य त्वमस्यैनं ब्रह्मास्त्रेण निपातितम् ||१४-६८-२१ (९४३९२)
कृतघ्नोऽयं नृशंसोऽयं यथाऽस्य जनकस्तथा |
यः पाण्डवीं श्रियं त्यक्त्वा गतोऽद्य यमसादनं ||१४-६८-२२ (९४३९३)
मया चैतत्प्रतिज्ञातं रणमूर्धनि केशव |
अभिमन्यौ हते वीर त्वामेष्याम्यचिरादिति ||१४-६८-२३ (९४३९४)
तच्च नाकरवं कृष्ण नृशंसा जीवितप्रिया |
इदानीं मां गतां तत्र किंनु वक्ष्यति फाल्गुनिः ||||१४-६८-२४ (९४३९५)
इति श्रीमन्महाभारते आश्वमेधिकपर्वणि अनुगीतापर्वणि
अष्टषष्टितमोऽध्यायः ||६८ ||
Mahabharata -Ashvamedhika Parva -Chapter Footnotes
७-६८-१९ पुत्रोत्सङ्गा जनार्दनेति झ.पाठः ||
आश्वमेधिकपर्व -अध्याय ०६९
||श्रीः ||
१४. ६९. अध्यायः ६९
Mahabharata -Ashvamedhika Parva -Chapter Topics
कृष्णेन सशपथं संस्पर्शनेन परिक्षितः समुज्जीवनम् ||१ ||
Mahabharata -Ashvamedhika Parva -Chapter Text
वैशम्पायन उवाच |
सैवं विलप्य करुणं सोन्मादेव तपस्विनी |
उत्तरा न्यपतद्भूमौ कृपणा पुत्रगृद्धिनी ||१४-६९-१ (९४३९६)
तां तु दृष्ट्वा निपतितां हतपुत्रपरिच्छदाम् |
चुक्रोश कुन्ती दुःखार्ता सर्वाश्च भरतास्त्रियः ||१४-६९-२ (९४३९७)
मुहूर्तमिव राजेन्द्र पाण्डवानां निवेशनम् |
अप्रेक्षणीयमभवदार्तस्वनविनादितम् ||१४-६९-३ (९४३९८)
सा मुहूर्तं च राजेन्द्र पुत्रशोकाभिपीडिता |
कश्मलाभिहता वीर वैराटी त्वभवत्तदा ||१४-६९-४ (९४३९९)
प्रतिलभ्य तु सा संज्ञामुत्तरा भरतर्षभ |
अङ्कमारोप्य तं पुत्रमिदं वचनमब्रवीत् ||१४-६९-५ (९४४००)
धर्मज्ञस्य सुतः संस्त्वं न धर्ममवबुध्यसे |
यस्त्वं वृष्णिप्रवीरस्य कुरुषे नाभिवादनम् ||१४-६९-६ (९४४०१)
पुत्र गत्वा मम वचो ब्रूयास्त्वं पितरं त्विदम् |
दुर्मरं प्राणिनां वीर काले प्राप्ते कथञ्चन ||१४-६९-७ (९४४०२)
याऽहं त्वया विनाऽद्येह पत्या पुत्रेण चैव ह |
मरणं नाभिगच्छामि हतस्वस्तिरकिञ्चना ||१४-६९-८ (९४४०३)
अथवा धर्मराज्ञाऽहमनुज्ञाता महाभुजः |
भक्षयिष्ये विषं घोरं प्रवेक्ष्ये वा हुताशनम् ||१४-६९-९ (९४४०४)
अथवा दुर्भरं तात यदिदं मे सहस्रधा |
पतिपुत्रविहीनाया हृदयं न विदीर्यते ||१४-६९-१० (९४४०५)
उत्तिष्ठ पुत्र पस्येमां दुःखितां प्रपितामहीम् |
आर्तामुपप्लुतां दीनां निमग्नां शोकसागरे ||१४-६९-११ (९४४०६)
आर्यां च पश्य पाञ्चालीं सात्वतीं च तपस्विनीम् |
मां च पश्य सुदुःखार्तां व्याधविद्धां मृगीमिव ||१४-६९-१२ (९४४०७)
उत्तिष्ठ पश्य वदनं लोकनाथस्य धीमतः |
पुण्डरीकपलाशाक्षं पुरेव चपलेक्षणः ||१४-६९-१३ (९४४०८)
एवं विप्रलपन्तीं तु दृष्ट्वा निपतितां पुनः |
उत्तरां तां स्त्रियः सर्वाः पुनरुत्थापयन्त्युत ||१४-६९-१४ (९४४०९)
उत्थाय च पुनर्धैर्यात्तदा मत्स्यपतेः सुता |
प्राञ्जलिः पुण्डरीकाक्षं भूमावेवाभ्यवादयत् ||१४-६९-१५ (९४४१०)
श्रुत्वा स तस्या विपुलं विलापं पुरुषर्षभः |
उपस्पृश्य ततः कृष्णो ब्रह्मास्त्रं प्रत्यसंहरत् ||१४-६९-१६ (९४४११)
प्रतिजज्ञे च दाशार्हस्तस्य जीवितमच्युतः |
अब्रवीच्च विशुद्धात्मा सर्वं विश्रावयज्जगत् ||१४-६९-१७ (९४४१२)
न ब्रवीम्युत्तरे मिथ्या सत्यमेतद्भविष्यति |
एष संजीवयाम्येनं पश्यतां सर्वदेहिनाम् ||१४-६९-१८ (९४४१३)
नोक्तपूर्वं मया मिथ्या स्वैरेष्वपि कदाचन |
न च युद्धात्परावृत्तस्तथा संजीवतामयम् ||१४-६९-१९ (९४४१४)
यथा मे दयितो धर्मो ब्राह्मणश्च विशेषतः |
अभिमन्योः सुतो जातो मृतो जीवत्वयं तथा ||१४-६९-२० (९४४१५)
यथाऽहं नाभिजानामि विजये तु कदाचन |
विरोधं तेन सत्येन मृतो जीवत्वयं शिशुः ||१४-६९-२१ (९४४१६)
यथा सत्यं च धर्मश्च मयि नित्यं प्रतिष्ठितौ |
तथा मृतः शिशुरयं जीवतादभिमन्युजः ||१४-६९-२२ (९४४१७)
यथा कंसश्च केशी च धर्मेण निहतौ मया |
तेन सत्येन बालोऽयं पुनः संजीवतामिह ||१४-६९-२३ (९४४१८)
इत्युक्त्वा वासुदेवोऽथ तं बालं भरतर्षभ |
' पादेन कमलाभेन ब्रह्मरुद्रार्चितेन च |
पस्पर्श पुण्डरीकाक्ष आपादतलमस्तकम् ||१४-६९-२४ (९४४१९)
स्पृष्टमात्रस्तु कृष्णेन स बालो भरतर्षभ |
शनैःशनैर्महाराज प्रापद्यत स चेतनाम् ||' १४-६९-२५ (९४४२०)
शनैःशनैर्महाराज प्रास्पन्दत सचेतनः ||||१४-६९-२६ (९४४२१)
इति श्रीमन्महाभारते आश्वमेधिकपर्वणि अनुगीतापर्वणि
एकोनसप्ततितमोऽध्यायः ||६९ ||
Mahabharata -Ashvamedhika Parva -Chapter Footnotes
७-६९-६ धर्मजस्य सुत इति क.थ.पाठः ||
आश्वमेधिकपर्व -अध्याय ०७०
||श्रीः ||
१४. ७०. अध्यायः ७०
Mahabharata -Ashvamedhika Parva -Chapter Topics
कृष्णेनाभिमन्युसुतस्य पदप्रवृत्तिनिमित्तकथनपूर्वकं नामकरणम्
||१ ||
अत्रान्तरे युधिष्ठिरादीनां स्वर्णभारानयनेन
हस्तिनपुरंप्रत्यागमनश्रवणेन कृष्णादिभिस्तत्प्रत्युद्यानम् ||२ ||
Mahabharata -Ashvamedhika Parva -Chapter Text
वैशम्पायन उवाच |
ब्रह्मास्त्रं तु यदा राजन्कृष्णेन प्रतिसंहृतम् |
तदा तद्वेश्म ते पित्रा तेजसाऽभिविदीपितम् ||१४-७०-१ (९४४२२)
ततो रक्षांसि सर्वाणि नेशुस्त्यक्त्वा गृहं तु तत् |
अन्तरिक्षे च वागासीत्साधु केशव साध्विति ||१४-७०-२ (९४४२३)
तदस्त्रं ज्वलितं चापि पितामहमगात्तदा |
ततः प्राणान्पुनर्लेभे पिता तव नरेश्वर ||१४-७०-३ (९४४२४)
व्यचेष्टत च बालोसौ यथोत्साहं यताबलम् |
बभूवुर्मुदिता राजंस्ततस्ता भरतस्त्रियः ||१४-७०-४ (९४४२५)
ब्राह्मणा वाचयामासुर्गोविन्दस्यैव शासनात् |
ततस्ता मुदिताः सर्वाः प्रशशंसुर्जनार्दनम् ||१४-७०-५ (९४४२६)
स्त्रियो भरतसिंहानां नावं लब्ध्वेव पारगाः |
कुन्ती द्रुपदपुत्री च सुभद्रा चोत्तरा तथा |
स्त्रियश्चान्या नृसिंहानां बभूवुर्हृष्टमानसाः ||१४-७०-६ (९४४२७)
तत्र मल्ला नटाश्चैव ग्रन्थिकाः सौख्यशायिकाः |
सूतमागधसङ्घाश्चाप्यस्तुवंस्तं जनार्दनम् ||१४-७०-७ (९४४२८)
कुरुवंशस्तवाख्याभिराशीर्भिर्भरतर्षभ |
' सभाजयत संहृष्टो महाराज महाजनः ||' १४-७०-८ (९४४२९)
उत्थाय तु यथाकालमुत्तरा यदुनन्दनम् |
अभ्यवादयत प्रीता सह पुत्रेण भारत ||१४-७०-९ (९४४३०)
ततस्तस्यै ददौ प्रीतो बहुरत्नं विशेषतः |
तथैव वृष्णिशार्दूलो नाम चास्याकरोत्प्रभुः |
पितुस्तव महाराज सत्यसन्धो जनार्दनः ||१४-७०-१० (९४४३१)
परिक्षीणे कुले यस्माज्जातोऽयमभिमन्युजः |
परिक्षिदिति नामास्य भवत्वित्यब्रवीत्तदा ||१४-७०-११ (९४४३२)
सोऽवर्धत यथाकालं पिता तव जनाधिप |
मनःप्रह्लादनश्चासीत्सर्वलोकस्य भारत ||१४-७०-१२ (९४४३३)
मासजातस्तु ते वीर पिता भवति भारत |
अथाजग्मुः सुबहुलं रत्नमादाय पाण्डवाः ||१४-७०-१३ (९४४३४)
' मेरुकूटनिभान्भाण्डान्कलशान्भाजनानि च |
कृताकृतं महद्भीममादाय पुरुषोत्तमाः ||१४-७०-१४ (९४४३५)
भारतैर्वाहनैस्तत्र गोरुते गोरुते पथि |
निवसन्तो ययुर्देवं स्मरन्तः परमेष्ठिनः ||१४-७०-१५ (९४४३६)
नासीत्तत्र नृपः कश्चिदभारार्तो नृपं विना |
भीमादयोऽपि यज्ञार्थं वहन्ते किं पुनर्जनाः ||' १४-७०-१६ (९४४३७)
तान्समीपगताञ्श्रुत्वा निर्ययुर्वृष्णिपुङ्गवाः |
अलञ्चक्रुश्च माल्यौघैर्नगरं नागसाह्वयम् ||१४-७०-१७ (९४४३८)
पताकाभिर्विचित्राभिर्ध्वजैश्च विविधैरपि |
वेश्मानि समलञ्चक्रुः पौराश्चापि जनेश्वरः ||१४-७०-१८ (९४४३९)
देवतायतनानां च पूजाः सुविविधास्तथा |
संदिदेशाथ विदुरः पाण्डुपुत्रप्रियेप्सया ||१४-७०-१९ (९४४४०)
राजमार्गाश्च तत्रासन्सुमनोभिरलङ्कृताः |
शुशुभे तत्पुरं चापि समुद्रौघनिभस्वनम् ||१४-७०-२० (९४४४१)
नर्तकैश्चापि नृत्यद्भिर्गायकानां च निःस्वनैः |
आसीद्वैश्रवणस्येव निवासस्तत्पुरं तदा ||१४-७०-२१ (९४४४२)
बन्दिभिश्च नरै राजन्स्त्रीसहायैश्च सर्वशः |
तत्रतत्र विविक्तेषु समन्तादुपशोभितम् ||१४-७०-२२ (९४४४३)
पताका धूयमानाश्च समन्तान्मातरिश्वना |
अदर्शयन्निव तदा कुरून्वै दक्षिणोत्तरान् ||१४-७०-२३ (९४४४४)
अघोषयंस्तदा चाप पुरुषा राजमार्गतः |
सर्वरात्रविहारोऽद्य रत्नाभरणलक्षणः ||||१४-७०-२४ (९४४४५)
इति श्रीमन्महाभारते आश्वमेधिकपर्वणि अनुगीतापर्वणि
सप्ततितमोऽध्यायः ||७० ||
Mahabharata -Ashvamedhika Parva -Chapter Footnotes
७-७०-५ वाचयामासुः स्वस्तीति शेषः ||
७-७०-७ ग्रम्थिकाः दैवज्ञाः सुखावहं सौख्यं शयनं इति
पृच्छन्ति ते सौख्यशायिकाः ||
७-७०-८ कुरुवंशस्य स्तवं आचक्षते ताभिः कुरुवंशस्तवाख्याभिः ||
७-७०-९ उत्थाय तु यथाकाममिति क.ट.थ.पाठः ||
७-७०-१० तस्य कृष्णो ददौ हृष्टो बहुरत्नं विशेषतः | तथान्ये
वृष्णिशार्दूला इति झ.पाठः ||
आश्वमेधिकपर्व -अध्याय ०७१
||श्रीः ||
१४. ७१. अध्यायः ७१
Mahabharata -Ashvamedhika Parva -Chapter Topics
कृष्णादिभिः प्रत्युद्गम्यमानैर्युधिष्ठिरादिभिः स्वर्णभारपुरस्कारेण
हास्तिनपुरप्रवेशः ||१ ||
ततस्तत्रोपागतेन व्यासेन युधिष्ठिरंप्रत्यश्वमेधप्रशंसनपूर्वकं
तत्करणविधानम् ||२ ||
युधिष्ठिरेणाश्वमेधे स्वयं दीक्षास्वीकारं प्रार्थितेन कृष्णेन
सहेतुकथनं तम्प्रत्येव दीक्षास्वीकारविधानम् ||३ ||
Mahabharata -Ashvamedhika Parva -Chapter Text
वैशम्पायन उवाच |
तान्समीपगताञ्श्रुत्वा पाण्डवाञ्शत्रुकर्शनः |
वासुदेवः सहामात्यः प्रययौ ससुहृद्गणः |
ते समेत्य यथान्यायं प्रत्युद्याता दिदृक्षया ||१४-७१-१ (९४४४६)
ते समेत्य तथाधर्मं पाण्डवा वृष्णिभिः सह |
विविशुः सहिता राजन्पुरं वारणसाह्वयम् ||१४-७१-२ (९४४४७)
विशतस्तस्य सैन्यस्य खुरनेमिस्वनेन ह |
द्यावापृथिव्यौ खं चैव सर्वमासीत्समावृतम् ||१४-७१-३ (९४४४८)
ते कोशानग्रतः कृत्वा विविशुः स्वं पुरं तदा |
पाण्डवाः प्रीतमनसः सामात्याः ससुहृद्गणाः ||१४-७१-४ (९४४४९)
ते समेत्य यथान्यायं धृतराष्ट्रं जनाधिपम् |
कीर्तयन्तः स्वनामानि तस्य पादौ ववन्दिरे ||१४-७१-५ (९४४५०)
धृतराष्ट्राभ्यनुज्ञाता गान्धारीं सुबलात्मजाम् |
कुन्तीं च राजशार्दूल तदा भरतसत्तम ||१४-७१-६ (९४४५१)
विदुरं यूजयित्वा च वैश्यापुत्रं समेत्य च |
पूज्यमानाः स्म ते वीरा व्यरोचन्त विशाम्पते ||१४-७१-७ (९४४५२)
ततस्तत्परमाश्चर्यं विचित्रं महदद्भुतम् |
शुश्रुवुस्ते तदा वीराः पितुस्ते जन्म भारत ||१४-७१-८ (९४४५३)
तदुपश्रुत्य तत्कर्म वासुदेवस्य धीमतः |
पूजार्हं पूजयामासुः कृष्णं देवकीनन्दनम् ||१४-७१-९ (९४४५४)
ततः कतिपयाहस्य व्यासः सत्यवतीसुतः |
आजगाम महातेजा नगरं नागसाह्वयम् ||१४-७१-१० (९४४५५)
तस्य सर्वे यथान्यायं पूजा चक्रुः कुरूद्वहाः |
सह वृष्ण्यन्धकव्याघ्रैरुपासांचक्रिरे तदा ||१४-७१-११ (९४४५६)
तत्र नानाविधाकाराः कथाः समभिकीर्त्य वै |
युधिष्ठिरो धर्मसुतो व्यासं वचनमब्रवीत् ||१४-७१-१२ (९४४५७)
भवत्प्रसादाद्भगवन्यदिदं रत्नमाहृतम् |
उपयोक्तुं तदिच्छामि वाजिमेधे महाक्रतौ ||१४-७१-१३ (९४४५८)
तमनुज्ञातुमिच्छामि भवता मुनिसत्तम |
त्वदधीना वयं सर्वे कृष्णस्य च महात्मनः ||१४-७१-१४ (९४४५९)
व्यास उवाच. १४-७१-१५क्ष् (७९१६)
अनुजानामि राजंस्त्वां क्रियतां यदनन्तरम् |
यजस्व वाजिमेधेन विधिवद्दक्षिणावता ||१४-७१-१५ (९४४६०)
अश्वमेधो हि राजेन्द्र पावनः सर्वपाप्मनाम् |
तेनेष्ट्वा त्वं विपात्मा वै भविता नात्र संशयः ||१४-७१-१६ (९४४६१)
इत्युक्तः स तु धर्मात्मा कुरुराजो युधिष्ठिरः |
अश्वमेधस्य कौरव्य चकाराहरणे मतिम् ||१४-७१-१७ (९४४६२)
समनुज्ञाप्य तत्सर्वं कृष्मद्वैपायनं नृपः |
वासुदेवमथाभ्येत्य वाग्मी वचनमब्रवीत् ||१४-७१-१८ (९४४६३)
देवकी सुप्रजा देवी त्वया पुरुषसत्तम |
यद्ब्रूयां त्वां महाबाहो तत्कृथास्त्वमिहाच्युत ||१४-७१-१९ (९४४६४)
त्वत्प्रभावार्जितान्भोगानश्नीम यदुनन्दन |
पराक्रमेण बुद्ध्या च त्वयेयं निर्जिता मही ||१४-७१-२० (९४४६५)
दीक्षयस्व त्वमात्मानं त्वं हि नः परमो गुरुः |
त्वयीष्टवति दाशार्ह विपाप्मा भविता ह्यहम् ||१४-७१-२१ (९४४६६)
त्वं हि यज्ञो गुरुश्च त्वं धर्मज्ञस्त्वं प्रजापतिः |
त्वं गतिः सर्वभूतानामिति मे निश्चिता मतिः ||१४-७१-२२ (९४४६७)
वासुदेव उवाच. १४-७१-२३क्ष् (७९१७)
त्वमेवैतन्महाबाहो कर्तुमर्हस्यरिंदम |
त्वं गतिः सर्वभूतानामिति मे निश्चिता मतिः ||१४-७१-२३ (९४४६८)
त्वं चाद्यि कुरुवीराणां धर्मेण हि विराजसे |
गुणीभूताः स्म ते राजंस्त्वं नो राजन्गुरुर्मतः |
यजस्व मदनुज्ञातः प्राप्य एष क्रतुस्त्वया ||१४-७१-२४ (९४४६९)
युनक्तु नो भवान्कार्ये यत्र वाञ्छसि भारत |
सत्यं ते प्रतिजानामि सर्वं कर्तास्मि तेऽनघ ||१४-७१-२५ (९४४७०)
भीमसेनार्जुनौ चैव तथा माद्रवतीसुतौ |
इष्टवन्तो भविष्यन्ति त्वयीष्टवति पार्थिवे ||||१४-७१-२६ (९४४७१)
इति श्रीमन्महाभारते आश्वमेधिकपर्वणि अनुगीतापर्वणि
एकसप्ततितमोऽध्यायः ||७१ ||
Mahabharata -Ashvamedhika Parva -Chapter Footnotes
७-७१-७ वैश्यापुत्रं युयुत्सुम् ||
७-७१-१६ पावनः नाशकः ||
आश्वमेधिकपर्व -अध्याय ०७२
||श्रीः ||
१४. ७२. अध्यायः ७२
Mahabharata -Ashvamedhika Parva -Chapter Topics
व्यासेन युधिष्ठिरंप्रति पृथिवीसंचाराय मेध्याश्वोत्सर्जनचोदना ||१ ||
तथाऽश्वरक्षणेऽर्जुनस्य नियोजनम् ||२ ||
Mahabharata -Ashvamedhika Parva -Chapter Text
वैशम्पायन उवाच |
एवमुक्तस्तु कृष्णेन धर्मपुत्रो युधिष्ठिरः |
व्यासमामन्त्र्य् मेधावी ततो वाचनमब्रवीत् ||१४-७२-१ (९४४७२)
यदा कालं भवान्वेत्ति हयमेधस्य तत्त्वतः |
दीक्षयस्व तदा मां त्वं त्वय्यायत्तो हि मे क्रुतुः ||१४-७२-२ (९४४७३)
व्यास उवाच. १४-७२-३क्ष् (७९१८)
अयं पैलोथ कौन्तेय याज्ञवल्क्यस्तथैव च |
विधानं यद्यथा कालं तत्कर्तारौ न संशयः ||१४-७२-३ (९४४७४)
चैत्र्यां हि पौर्णमास्यां तु तव दीक्षा भविष्यति |
सम्भाराः सम्भ्रियन्तां च यज्ञार्थं पुरुषर्षभ ||१४-७२-४ (९४४७५)
अश्वविद्याविदश्चैव सूता विप्राश्च तद्विदः |
मेध्यमश्वं परीक्षन्तां तव यज्ञार्थसिद्धये ||१४-७२-५ (९४४७६)
तमुत्सृज यथाशास्त्रं पृथिवीं सागराम्बराम् |
सपर्येतु यशो नाम्ना तव पार्थिव वर्धयन् ||१४-७२-६ (९४४७७)
इत्युक्तः स तथेत्युक्त्वा पाण्डवः पृथिवीपतिः |
चकार सर्वं राजेन्द्र यथोक्तं ब्रह्मवादिना ||१४-७२-७ (९४४७८)
सम्भारश्चैव राजेन्द्र सर्वे सङ्कल्पितास्तता ||१४-७२-८ (९४४७९)
स सम्भारान्समाहृत्य नृपो धर्मसुतस्तदा |
न्यवेदयदमेयात्मा कृष्णद्वैपायनाय वै ||१४-७२-९ (९४४८०)
ततोऽब्रवीन्महातेजा व्यासो धर्मात्मजं नृपम् |
यथाकालं यथायोगं सज्जाः स्म तव दीक्षणे ||१४-७२-१० (९४४८१)
स्फ्यश्च कूर्चश्च सौवर्णो यच्चान्यदपि कौरव |
यत्तु योग्यं भवेत्किञ्चिद्रौक्मं तत्क्रियतामिति ||१४-७२-११ (९४४८२)
अश्वश्चोत्सृज्यतामद्य पृथ्व्यामथ यथाक्रमम् |
सुगुप्तं चरतां चापि यथाशास्त्रं यथाविधि ||१४-७२-१२ (९४४८३)
युधिष्ठिर उवाच. १४-७२-१३क्ष् (७९१९)
अयमश्वो यता ब्रह्मन्नुत्सृष्टः पृथिवीमिमाम् |
चरिष्यति यथाकामं तत्र वै संविदीयताम् ||१४-७२-१३ (९४४८४)
पृथिवीं पर्यटन्तं हि तुरगं कामचारिणम् |
कः पालयेदिति मुने तद्भवान्वक्तुमर्हति ||१४-७२-१४ (९४४८५)
इत्युक्तः स तु राजेन्द्र कृष्णद्वैपायनोऽब्रवीत् |
भीमसेनादवरजः श्रेष्ठः सर्वधनुष्मताम् |
जिष्णुः सहिष्णुर्धृष्णुस्च स एनं पालयिष्यति ||१४-७२-१५ (९४४८६)
शक्तः स हि महीं जेतुं निवातकवचान्तकः |
तस्मिन्ह्यस्त्राणि दिव्यानि दिव्यं संहननं तथा |
दिव्यं धनश्चेषुधी च स एनमनुयास्यति ||१४-७२-१६ (९४४८७)
स हि धर्मार्थकुशलः सर्वविद्याविशारदः |
यथाशास्त्रं नृपश्रेष्ठ चारयिष्यति ते हयम् ||१४-७२-१७ (९४४८८)
राजपुत्रो महाबाहुः श्यामो राजीवलोचनः |
अभिमन्योः पिता वीरः स एनमनुयास्यति ||१४-७२-१८ (९४४८९)
भीमसेनोपि तेजस्वी कौन्तेयोऽमितविक्रमः |
समर्थो रक्षितुं राष्ट्रं नकुलश्च विशाम्पते ||१४-७२-१९ (९४४९०)
सहदेवस्तु कौरव्य समायास्यति बुद्धिमान् |
कुटुम्बतन्त्रं विधिवत्सर्वमेव महायशाः ||१४-७२-२० (९४४९१)
स तु सर्वं यथान्यायमुक्त कुरुकुलोद्वहः |
चकार फल्गुनं चापि संदिदेश हयं प्रति ||१४-७२-२१ (९४४९२)
युधिष्ठिर उवाच. १४-७२-२२क्ष् (७९२०)
एह्यर्जुन त्वया वीर हयोऽयं परिपाल्यताम् |
त्वमर्हो रक्षितुं ह्येनं नान्यः कश्चन मानवः ||१४-७२-२२ (९४४९३)
ये चापि त्वां महाबाहो प्रत्युद्यान्ति नराधिपाः |
तैर्विग्रहो यथा न स्यात्तथा कार्यं त्वयाऽनघ ||१४-७२-२३ (९४४९४)
आख्यातव्यश्च भता यज्ञोऽयं मम सर्वशः |
पार्थिवेभ्यो महाबाहो समये गम्यतामिति ||१४-७२-२४ (९४४९५)
वैशम्पायन उवाच. १४-७२-२५क्ष् (७९२१)
एवमुक्त्वा स धर्मात्मा भ्रातरं सव्यसाचिनम् |
भीमं च नकुलं चैव पुरगुप्तौ समादधत् ||१४-७२-२५ (९४४९६)
कुटुम्बतन्त्रे च तदा सहदेवं युधांपतिम् |
अनुमान्य महीपालं धृतराष्ट्रं युधिष्ठिरः ||||१४-७२-२६ (९४४९७)
इति श्रीमन्महाभारते आश्वमेधिकपर्वणि अनुगीतापर्वणि
द्विसप्ततितमोऽध्यायः ||७२ ||
Mahabharata -Ashvamedhika Parva -Chapter Footnotes
७-७२-११ स्फ्यः काष्ठखङ्गः स चात्र सौवर्णः | कूर्च आसनार्थं
कुशमुष्टिः सोऽप्यत्र सौवर्णः ||
७-७२-१२ सुगुप्तं सुरक्षितं यथा स्यात्तथा ||
आश्वमेधिकपर्व -अध्याय ०७३
||श्रीः ||
१४. ७३. अध्यायः ७३
Mahabharata -Ashvamedhika Parva -Chapter Topics
अर्जुनेन युधिष्ठिरनियोगाद्ब्राह्मणैः क्षत्रियैश्च सह
प्रथममुत्तरदिश्यश्वसञ्चारणेन रक्षणाय तदनुसरणम् ||१ ||
Mahabharata -Ashvamedhika Parva -Chapter Text
वैशम्पायन उवाच |
दीक्षाकाले तु सम्प्राप्ते ततस्ते सुमहर्त्विजः |
विधिवद्दीक्षयामासुरश्वमेधाय पार्थिवम् ||१४-७३-१ (९४४९८)
कृत्वा स पशुमेधांश्च दीक्षितः पाण्डुनन्दनः |
धर्मराजो महातेजाः सहर्त्विग्भिर्व्यरोचत ||१४-७३-२ (९४४९९)
हयश्च हयमेधार्थं स्वयं स ब्रह्मवादिना |
उत्सृष्टः शास्त्रविधिना व्यासेनामिततेजसा ||१४-७३-३ (९४५००)
स राजा राजधर्मेण दीक्षितो विबभौ तदा |
हेममाली रुक्मकण्ठः प्रदीप्त इव पावकः ||१४-७३-४ (९४५०१)
कृष्णाजिनी दण्डपाणिः क्षौमवासाः स धर्मजः |
विबभौ द्युतिमान्भूयः प्रजापतिरिवाध्वरे ||१४-७३-५ (९४५०२)
तथैवास्यर्त्विजः सर्वे तुल्यवेषा विशांपते |
बभूवुरर्जुनश्चापि प्रदीप्त इव पावकः ||१४-७३-६ (९४५०३)
श्वेताश्वः कपिकेतुश्च ससाराश्वं धनञ्जयः |
विधिवत्पृथिवीपाल धर्मराजस्य शासनात् ||१४-७३-७ (९४५०४)
**क्षिपन्गाण्डिवं राजन्बद्धगोधाङ्गुलित्रवान् |
तमश्वं पृथिवीपाल मुदा युक्तः ससार च ||१४-७३-८ (९४५०५)
अनुमार्गं तदा राजन्नागमत्तत्पुरं विभो |
द्रष्टुकामं कुरुश्रेष्ठं प्रयास्यनतं धनञ्जयम् ||१४-७३-९ (९४५०६)
तेषामन्योन्यसम्मर्दादूष्मेव समाजायत |
दिदृक्षूणां हयं तं च तं चैव हयसारिणम् ||१४-७३-१० (९४५०७)
ततः शब्दो महाराज दिशः खं प्रतिपूरयन् |
बभूव प्रेक्षतां नॄमां कुन्तीपुत्रं धनंजयम् ||१४-७३-११ (९४५०८)
एष गच्छति कौन्तेयस्तुरगश्चैव दीप्तिमान् |
समन्वेति महाबाहुः संस्पृशन्धनुरुत्तमम् ||१४-७३-१२ (९४५०९)
एवं शुश्राव वदतां गिरो जिष्णुरुदारधीः |
स्वस्ति तेऽस्तु व्रजारिष्टं पुनश्चैहीति भारत ||१४-७३-१३ (९४५१०)
अथापरे मनुष्येन्द्र पुरुषा वाक्यमब्रुवन् |
नैनं पश्याम सम्मर्दे धनुरेतत्प्रदृश्यते ||१४-७३-१४ (९४५११)
एतद्धि भीमनिर्ह्रादं विश्रुतं गाण्डिवं धनुः |
स्वस्ति गच्छत्वरिष्टो वै पन्थानमकुतोभयम् |
निवृत्तमेनं द्रक्ष्यामः पुनरेष्यति च ध्रुवम् ||१४-७३-१५ (९४५१२)
एवमाद्या मनुष्याणां स्त्रीणां च भरतर्षभ |
शुश्राव मधुरा वाचः पुनःपुनरुदारधीः ||१४-७३-१६ (९४५१३)
याज्ञवल्क्यस्य शिष्यश्च कुशलो यज्ञकर्मणि |
प्रायात्पार्थेन सहितः शान्त्यर्थं वेदपारगः ||१४-७३-१७ (९४५१४)
ब्राह्मणाश्च महीपाल बहवो वेदपारगाः |
अनुजग्मुर्महात्मानं क्षत्रियाश्च विशाम्पते |
विधिवत्पृथिवीपाल धर्मराजस्य शासनात् ||१४-७३-१८ (९४५१५)
पाण्डवैः पृथिवीमश्वो निर्जितामस्त्रतेजसा |
चचार स महाराज यथादेशं च सत्तम ||१४-७३-१९ (९४५१६)
तत्र युद्धानि वृत्तानि यान्यासन्पाण्डवस्य ह |
तानि वक्ष्यामि ते वीर विचित्राणि महान्ति च ||१४-७३-२० (९४५१७)
स हयः पृथिवीं राजन्प्रदक्षिणमवर्तत |
ससारेत्तरतः पूर्वं तन्निबोध महीपते ||१४-७३-२१ (९४५१८)
अवमृद्रन्स राष्ट्राणि पार्थिवानां हयोत्तमः |
शनैस्तदा परिययौ श्वेताश्वश्च महारथः ||१४-७३-२२ (९४५१९)
तत्र सङ्गणना नास्ति राज्ञामयुतशस्तदा |
येऽयुध्यन्त महाराज क्षत्रिया हतबान्धवाः ||१४-७३-२३ (९४५२०)
किराता यवना राजन्बहवोऽसिधनुर्धराः |
म्लेच्छाश्चान्ये बहुविधाः पूर्वं ये निकृता रणे ||१४-७३-२४ (९४५२१)
आर्याश्च पृथिवीपालाः प्रहृष्टनरवाहनाः |
समीयुः पाण्डुपुत्रेण बहवो युद्धदुर्मदाः ||१४-७३-२५ (९४५२२)
एवं वृत्तानि युद्धानि तत्रतत्र महीपते |
अर्जुनस्य महीपालैर्नानादेशसमागतैः ||१४-७३-२६ (९४५२३)
यान्यत्र हयतो राजन्प्रवृत्तानि महान्ति च |
तानि युद्धानि वक्ष्यामि कौन्तेयस्य तवानघ ||||१४-७३-२७ (९४५२४)
इति श्रीमन्महाभारते आश्वमेधिकपर्वणि अनुगीतापर्वणि
त्रिसप्ततितमोऽध्यायः ||७३ ||
Mahabharata -Ashvamedhika Parva -Chapter Footnotes
७-७३-९ आकुमारं तदा राजन् इति झ.पाठः ||
७-७३-१७ शिष्यः सोमश्रवाः ||
आश्वमेधिकपर्व -अध्याय ०७४
||श्रीः ||
१४. ७४. अध्यायः ७४
Mahabharata -Ashvamedhika Parva -Chapter Topics
अर्जुनेन त्रैगर्तानां पराजयः ||१ ||
Mahabharata -Ashvamedhika Parva -Chapter Text
वैशम्पायन उवाच |
त्रिगर्तैरभवद्युद्धं कृतवैरैः किरीटिनः |
महारथसमाज्ञातैर्हतानां पुत्रनप्तृभिः ||१४-७४-१ (९४५२५)
ते समाज्ञाय सम्प्राप्तं यज्ञियं तुरगोत्तम*****
विषयान्तं ततो वीरा दंशिताः पर्यवारयन् ||१४-७४-२ (९४५२६)
रथिनो बद्धतूणीराः सदश्वैः समलङ्कृतैः |
परिवार्य हयं राजन्ग्रहीतुं सम्प्रचक्रमुः ||१४-७४-३ (९४५२७)
ततः किरीटी सञ्चिन्त्य तेषां तत्र चिकीर्षितम् |
वारयामास तान्वीरान्सान्त्वपूर्वमरिंदमः ||१४-७४-४ (९४५२८)
तदनादृत्य ते सर्वे शरैरभ्यहनंस्तदा |
तमोरजोभ्यां संछन्नांस्तान्किरीटी न्यवारयत् ||१४-७४-५ (९४५२९)
तानव्रवीत्ततो जिष्णुः प्रहसन्निव भारत |
निवर्तध्वमधर्मज्ञाः श्रेयो जीवितमेव च ||१४-७४-६ (९४५३०)
स हि वीरः प्रयास्यन्वै धर्मराजेन वारितः |
हतबान्धवा न ते पार्त हन्तव्याः पार्थिवा इति ||१४-७४-७ (९४५३१)
स तदा तद्वचः श्रुत्वा धर्मराजस्य धीमतः |
तान्निवर्तध्वमित्याह न न्यवर्तन्ति चापि ते ||१४-७४-८ (९४५३२)
ततस्त्रिगर्तराजानं सूर्यवर्माणमाहवे |
विनद्य शरजालेनि प्रजहास धनंजयः ||१४-७४-९ (९४५३३)
ततस्ते रथघोपेण रथनेमिस्वनेन च |
पूरयन्तो दिशः सर्वा धनंजयमुपाद्रवन् ||१४-७४-१० (९४५३४)
सूर्यवर्मा ततः पार्ते शराणां नतपर्वणाम् |
शतान्यमुञ्चद्राजेन्द्र लघ्वस्त्रमभिदर्शयन् ||१४-७४-११ (९४५३५)
तथैवान्ये महेष्वासा ये च तस्यानुयायिनः |
मुमुचुः शरवर्षाणि धनंजयवधैषिणः ||१४-७४-१२ (९४५३६)
स ताञ्ज्यामुखनिर्मुक्तैर्बहुभिः सुबहूञ्शरान् |
चिच्छेद पाण्डवो राजंस्ते भूमौ न्यपतंस्तदा ||१४-७४-१३ (९४५३७)
केतुवर्मा तु तेजस्वी तस्यैवावरजो युवा |
युयुधे भ्रातुरर्थाय पाण्डवेन यशस्विना ||१४-७४-१४ (९४५३८)
तमापतन्तं सम्प्रेक्ष्य केतुवर्माणमाहवे |
अभ्यघ्नन्निशितैर्बाणैर्बीभत्सुः परवीरहा ||१४-७४-१५ (९४५३९)
केतुवर्मण्यभिहते धृतवर्मा महारथः |
रथेनाशु समुत्पत्य शरैर्जिष्णुमवाकिरत् ||१४-७४-१६ (९४५४०)
तस्य तां शीघ्रतामीक्ष्य तुतोषातीव वीर्यवान् |
गुडाकेशो महादेजा बालस्य धृतवर्मणः ||१४-७४-१७ (९४५४१)
न संदधानं ददृशे नाददानं च तं तदा |
किरन्तमेवं स शरान्ददृशे पाकशासनिः ||१४-७४-१८ (९४५४२)
स तु तं पूजयामास धृतवर्माणमाहवे |
मनसा तु मुहूर्तं वै रणे समभिहर्षयन् ||१४-७४-१९ (९४५४३)
' न विव्याध रणे क्रुद्धः कुन्तीपुत्रो हसन्निव |
सौभद्रस्येव तत्कर्म दृष्ट्वा बालस्य विस्मितः ||१४-७४-२० (९४५४४)
तं पन्नगमिव क्रुद्धं कुरुवीरः स्मयन्निव |
प्रीतिपूर्वं महाबाहुः प्राणैर्न व्यपरोपयत् ||१४-७४-२१ (९४५४५)
स तथा रक्ष्यमाणो वै पार्थेनामिततेजसा |
धृतवर्मा शरं दीप्तं मुमोच विजये तदा ||१४-७४-२२ (९४५४६)
स तेन विजयस्तूर्णमासीद्विद्धः करे भृशम् |
मुमोच गाण्डिवं मोहात्तत्पपाताथ भूतले ||१४-७४-२३ (९४५४७)
धनुषः पततस्तस्य सव्यसाचिकराद्विभो |
बभूव सदृशं रूपं शक्रचापस्य भारत ||१४-७४-२४ (९४५४८)
तस्मिन्निपतिते दिव्ये महाधनुषि पार्थिवः |
चकार सस्वनं हासं धृतवर्मा महाहवे ||१४-७४-२५ (९४५४९)
ततो रोषार्दितो जिष्णुः प्रमृज्य रुधिरं करात् |
धनुरादत्त तद्दिव्यं शरवर्षैर्ववर्ष च ||१४-७४-२६ (९४५५०)
ततो हलहलाशब्दो दिवस्पृगभवत्तदा |
नानाविधानां भूतानां तत्कर्माणि प्रशंसताम् ||१४-७४-२७ (९४५५१)
ततः सम्प्रेक्ष्य संक्रुद्धं कालान्तकयमोपमम् |
जिष्णुं त्रैगर्तका योधाः परीताः पर्यवारयन् ||१४-७४-२८ (९४५५२)
अभिसृत्य परीप्सार्थं ततस्ते धृतवर्मणः |
परिवव्रुर्गुडाकेशं तत्राक्रुद्ध्यद्धनंजयः ||१४-७४-२९ (९४५५३)
ततो योधाञ्जघानाशु तेषां स दश चाष्ट च |
महेन्द्रवज्रप्रतिमैरायसैर्बहुभिः शरैः ||१४-७४-३० (९४५५४)
तान्सम्प्रभग्नान्सम्प्रेक्ष्य त्वरमाणो धनंजयः |
शरैराशीविषाकारैर्जघान स्वनवद्धसन् ||१४-७४-३१ (९४५५५)
ते भग्नमनसः सर्वे त्रैगर्तकमहारथाः |
दिशोऽभिदुद्रुवू राजन्धनंजयशरार्दिताः ||१४-७४-३२ (९४५५६)
' हतावशिष्टा हि पराः पार्थं दृष्टपराक्रमाः.'
तमूचुः पुरुषव्याघ्रं संशप्तकनिषूदनम् ||१४-७४-३३ (९४५५७)
तवास्म किंकराः सर्वे सर्वे वै वशगास्तव |
आज्ञापयस्वः नः पार्थ प्रह्वान्प्रेष्यानवस्थितान् |
करिष्यामः प्रियं सर्वं तव कौरवनन्दन ||१४-७४-३४ (९४५५८)
एतदाज्ञाय वचनं सर्वांस्तानब्रवीत्तदा |
जीवितं रक्षत नृपाः शासनं प्रतिगृह्यताम् ||||१४-७४-३५ (९४५५९)
इति श्रीमन्महाभारते आश्वमेधिकपर्वणि अनुगीतापर्वणि
चतुःसप्ततितमोऽध्यायः ||७४ ||
आश्वमेधिकपर्व -अध्याय ०७५
||श्रीः ||
१४. ७५. अध्यायः ७५
Mahabharata -Ashvamedhika Parva -Chapter Topics
अर्जुनेन प्राग्ज्योतिषपुरमेत्याश्वरक्षणाय भगदत्तसुतेन
यज्ञदत्तेन सहायोधनम् ||१ ||
Mahabharata -Ashvamedhika Parva -Chapter Text
वैशम्पायन उवाच |
प्राग्ज्योतिषमथाभ्येत्य व्यचरत्स हयोत्तमः |
भगदत्तात्मजस्तत्र निर्ययौ रणकर्कशः ||१४-७५-१ (९४५६०)
सहयं पाण्डुपुत्रं तु विषयान्तमुपागतम् |
युयुधे भरतश्रेष्ठ यज्ञदत्तो महीपतिः ||१४-७५-२ (९४५६१)
सोभिनिर्याय नगराद्भगदत्तसुतो नृपः |
अश्वमायान्तमुन्मथ्य नगराभिमुखो ययौ ||१४-७५-३ (९४५६२)
तमालक्ष्य महाबाहुः कुरूणामृषभस्तदा |
गाण्डीवं विक्षिपंस्तूर्णं सहसा समुपाद्रवत् ||१४-७५-४ (९४५६३)
ततो गाण्डीवनिर्मुक्तैरिषुभिर्मोहितो नृपः |
हयमुत्सृज्य तं वीरस्ततः पार्थमुपाद्रवत् ||१४-७५-५ (९४५६४)
पुनः प्रविश्य नगरं दंशितः स नृपोत्तमः |
आरुह्य नागप्रवरं निर्ययौ युद्धकाङ्क्षया ||१४-७५-६ (९४५६५)
पाण्डुरेणातपत्रेण ध्रियमाणेन मूर्धनि |
दोधूयता चामरेण श्वेतेन च महारथः ||१४-७५-७ (९४५६६)
ततः पार्थं समासाद्य पाण्डवानां महारथम् |
आह्वयामास बीभत्सुं बाल्यान्मोहाच्च संयुगे ||१४-७५-८ (९४५६७)
स वारणं नगप्रख्यं प्रभिन्नकरटामुखम् |
प्रेषयामास संक्रुद्धः श्वेताश्वं प्रति पार्थिवः ||१४-७५-९ (९४५६८)
विक्षरन्तं महामेघं परवारणवारणम् |
शस्त्रवत्कल्पितं सङ्ख्ये विवशं युद्धदुर्मदम् ||१४-७५-१० (९४५६९)
प्रचोद्यमानः स गजस्तेन राज्ञा महाबलः |
तदाऽङ्कशेन विबभावुत्पतिष्यन्निवाम्बरम् ||१४-७५-११ (९४५७०)
तमापतन्तं सम्प्रेक्ष्य क्रुद्धो राजन्धनंजयः |
भूमिष्ठो वारणगतं योधयामास भारत ||१४-७५-१२ (९४५७१)
यज्ञदत्तस्ततः क्रुद्धो मुमोचाशु धनंजये |
तोमरानग्निसङ्काशाञ्शलभानिव वेगितान् ||१४-७५-१३ (९४५७२)
अर्जुनस्तानसम्प्राप्तान्गाण्डीवप्रभवैः शरैः |
द्विधा त्रिधा च चिच्छेद खगमान्खगमैस्तदा ||१४-७५-१४ (९४५७३)
स तान्दृष्ट्वा तथा छिन्नांस्तोमरान्भगदत्तजः |
इषूनसक्तांस्त्वरितः प्राहिणोत्पाण्डवं प्रति ||१४-७५-१५ (९४५७४)
ततोऽर्जुनस्तूर्णतरं रुक्मपुङ्खानजिह्मगान् |
प्रेषयामास संक्रुद्धो भगदत्तात्मजं प्रति ||१४-७५-१६ (९४५७५)
स तैर्विद्धो महातेजा यज्ञदत्तो महामृधे |
भृशाहतः पपातोर्व्यां न त्वेनमजहात्स्मृतिः ||१४-७५-१७ (९४५७६)
ततः स पुनरारुह्य वारणप्रवरं रणे |
अव्यग्रः प्रेषयामास जयार्थी विजयं प्रति ||१४-७५-१८ (९४५७७)
तस्मै बाणांस्ततो जिष्णुर्निर्मुक्ताशीविषोपमान् |
प्रेषयामास संक्रुद्धो ज्वलितज्वलनोपमान् ||१४-७५-१९ (९४५७८)
स तैर्विद्धो महानागो विस्रवन्रुधिरं बभौ |
हिमवानिव शैलेन्द्रो बहुप्रस्रवणस्तदा ||||१४-७५-२० (९४५७९)
इति श्रीमन्महाभारते आश्वमेधिकपर्वणि अनुगीतापर्वणि
पञ्चसप्ततितमोऽध्यायः ||७५ ||
Mahabharata -Ashvamedhika Parva -Chapter Footnotes
७-७५-२ वज्रदत्तो महीपतिरिति झ.पाठः ||
७-७५-२० गैरिकाक्तमिवाम्भोद्रिर्बहुप्रस्रवणं तदा इति झ.पाठः ||
आश्वमेधिकपर्व -अध्याय ०७६
||श्रीः ||
१४. ७६. अध्यायः ७६
Mahabharata -Ashvamedhika Parva -Chapter Topics
अर्जुनेन भगदत्तात्मजपराजयः ||१ ||
Mahabharata -Ashvamedhika Parva -Chapter Text
एवं त्रिरात्रमभवत्तद्युद्धं भरतर्षभ |
अर्जुनस्य नरेन्द्रेण वृत्रेणेव शतक्रतोः ||१४-७६-१ (९४५८०)
ततश्चतुर्थे दिवसे यज्ञदत्तो महाबलः |
जहास सस्वनं हासं वाक्यं चेदमताब्रवीत् ||१४-७६-२ (९४५८१)
अर्जुनार्जुन तिष्ठस्व न मे जीवन्विमोक्ष्यसे |
त्वां निहत्य करिष्यामि पितुस्तोयं यथाविधि ||१४-७६-३ (९४५८२)
त्वया वृद्धो मम पिता भगदत्तः पितुः सखा |
हतो वृद्धोऽपि बाधित्वा शिशुं मामद्य योधय ||१४-७६-४ (९४५८३)
इत्येवमुक्त्वा संक्रुद्धो यज्ञदत्तो नराधिपः |
प्रेषयामास कौरव्य वारणं पाण्डवं प्रति ||१४-७६-५ (९४५८४)
सम्प्रेष्यमाणो नागेन्द्रो यज्ञदत्तेन धीमता |
उत्पतिष्यन्निवाकाशमभिदुद्राव पाण्डवम् ||१४-७६-६ (९४५८५)
अग्रहस्तसुमुक्तेन शीकरेण स नागराट् |
समौक्षति गुडाकेशं शैलं नील इवाम्बुदः ||१४-७६-७ (९४५८६)
स तेन प्रेषितो राज्ञा मेघवद्विनदन्मुहुः |
मुखाडम्बरसंह्रादैरभ्यद्रवत फल्गुनम् ||१४-७६-८ (९४५८७)
स नृत्यन्निव नागेन्द्रो यज्ञदत्तप्रचोदितः |
आससाद द्रुतं राजन्कौरवाणां महारथम् ||१४-७६-९ (९४५८८)
तमायान्तमथालक्ष्य यज्ञदत्तस्य वारणम् |
गाण्डीवमाश्रित्य बली न व्यकम्पत शत्रुहा ||१४-७६-१० (९४५८९)
चुक्रोध बलवच्चापि पाण्डवस्तस्य भूपतेः |
कार्यविघ्नमनुस्मृत्यि पूर्ववैरं च भारत ||१४-७६-११ (९४५९०)
ततस्तं वारणं क्रुद्धः शरजालेन पाण्डवः |
निवारयामास तदा वेलेव मकरालयम् ||१४-७६-१२ (९४५९१)
स नागप्रवरः श्रीमानर्जुनेन निवारितः |
तस्थौ शरैर्विनुन्नाङ्गः श्वाविच्छललितो यथा ||१४-७६-१३ (९४५९२)
निवारितं गजं दृष्ट्वा भगदत्तसुतो नृपः |
उत्ससर्ज शितान्बाणानर्जुने क्रोधमूर्छितः ||१४-७६-१४ (९४५९३)
अर्जुनस्तु महाबाहुः शरैररिनिघातिभिः |
वारयामास तान्बाणांस्तदद्भुतमिवाभवत् ||१४-७६-१५ (९४५९४)
ततः पुनरभिक्रुद्धो राजा प्राग्ज्योतिषाधिपः |
प्रेषयामास नागेन्द्रं बलवत्पर्वतोपमम् ||१४-७६-१६ (९४५९५)
तमापतन्तं सम्प्रेक्ष्य बलवान्पाकशासनिः |
नाराचमग्निसङ्काशं प्राहिणोद्वारणं प्रति ||१४-७६-१७ (९४५९६)
स तेन वारणो राजन्मर्मस्वभिहतो भृशम् |
पपात सहसा भूमौ वज्ररुग्ण इवाचलः ||१४-७६-१८ (९४५९७)
स पतञ्शुशुभे नागो धनंजयशराहतः |
विशन्निव महाशैलो महीं वज्रप्रपीडितः ||१४-७६-१९ (९४५९८)
तस्मिन्निपतिते नागे यज्ञदत्तस्य पाण्डवः |
तं न भेतव्यमित्याह ततो भूमिगतं नृपम् ||१४-७६-२० (९४५९९)
अब्रवीद्धि महातेजाः प्रस्थितं मां युधिष्ठिरः |
राजानस्ते न हन्तव्या धनंजय कथञ्चन ||१४-७६-२१ (९४६००)
सर्वमेतन्नरव्याघ्र भवत्येतावता कृतम् |
योधाश्चापि न हन्तव्या धनंजय रणे त्वया ||१४-७६-२२ (९४६०१)
वक्तव्याश्चापि राजानः सर्वे सह सुहृज्जनैः |
युधिष्ठिरस्याश्वमेधो भवद्भिरनुभूयताम् ||१४-७६-२३ (९४६०२)
इति भ्रातृवचः श्रुत्वा न हन्मि त्वां नराधिप |
उत्तिष्ठ न भयं तेऽस्ति स्वस्तिमान्गच्छ पार्थिव ||१४-७६-२४ (९४६०३)
आगच्छेथा महाराज परां चैत्रीमुपस्थिताम् |
तदाऽश्वमेधो भविता धर्मिराजस्य धीमतः ||१४-७६-२५ (९४६०४)
एवमुक्तः स राजा तु भगदत्तात्मजस्तदा |
तथेत्वेवाब्रवीद्वाक्यं पाण्डवेनाभिनिर्जितः ||||१४-७६-२६ (९४६०५)
इति श्रीमन्महाभारते आश्वमेधिकपर्वणि अनुगीतापर्वणि
षट्सप्ततितमोऽध्यायः ||७६ ||
Mahabharata -Ashvamedhika Parva -Chapter Footnotes
७-७६-१३ शललितः शलाकाप्रोतः ||
आश्वमेधिकपर्व -अध्याय ०७७
||श्रीः ||
१४. ७७. अध्यायः ७७
Mahabharata -Ashvamedhika Parva -Chapter Topics
अश्वानुसरणवशास्सिन्धुदेशं गतेनार्जुनेन सैन्धवैःसह
महाऽऽयोधनम् ||१ ||
बाणगणावकीर्णस्यार्जुनस्य कराद्गाण्डीवस्या धःपतने
देवर्ष्यादिभिर्जपादिना तस्य तेजोदीपनम् ||२ ||
ततः पुनरर्जुनेन तैः स***योधनम् ||३ ||
Mahabharata -Ashvamedhika Parva -Chapter Text
वैशम्पायन उवाच |
' जित्वा प्रसाद्य राजानं भगदत्तसुतं तदा |
विसृज्य याते तुरगे सैन्धवान्प्रति भारत ||' १४-७७-१ (९४६०६)
सैन्धवैरभवगद्युद्धं ततस्तस्य किरीटिनः |
हतशेषैर्महाराज हतानां च सुतैरपि ||१४-७७-२ (९४६०७)
तेऽवतीर्णमुपश्रुत्य विषयं श्वेतवाहनम् |
प्रत्युद्ययुरमृष्यन्ते राजानः पाण्डवर्षभम् ||१४-७७-३ (९४६०८)
अश्वं च तं परामृश्य विषयान्ते विषोपमात् |
न भयं चक्रिरे पार्थाद्भीमसेनादनन्तरात् ||१४-७७-४ (९४६०९)
तेऽविदूराद्धनुष्पाणिं यज्ञियस्य हयस्य च |
बीभत्सुं प्रत्यपद्यन्त् पदातिनमवस्थितम् ||१४-७७-५ (९४६१०)
ततस्ते तं महावीर्या राजानः पर्यवारयन् |
जिगीषन्तो नरव्याघ्रं पूर्वं विनिकृता युधि ||१४-७७-६ (९४६११)
ते नामान्यपि गोत्राणि कर्मणि विविधानि च |
कीर्तयन्तस्तदा पार्थं शरवर्षैरवाकिरन् ||१४-७७-७ (९४६१२)
ते किरन्तः शरव्रातान्वारणप्रतिवारणान् |
रणे जयमभीप्सन्तः कौन्तेयं पर्यवारयन् ||१४-७७-८ (९४६१३)
ते समीक्ष्य च तं कृष्णमुग्रकर्माणमाहवे |
सर्वे युयुधिरे वीरा रथस्थास्तं पदातिनम् ||१४-७७-९ (९४६१४)
ते तमाजघ्निरे वीरं निवातकवचान्तकम् |
संशप्तकनिहन्तारं हन्तारं सैन्धवस्य च ||१४-७७-१० (९४६१५)
ततो रथसहस्रेण गजानामयुतेन च |
***ष्ठकीकृत्य बीभत्सुं प्रहृष्टमनसोऽभवन् ||१४-७७-११ (९४६१६)
** स्मरन्तो वधं वीराः सिन्धुराजस्य चाहवे |
जयद्रथस्य कौरव्य समरे सव्यसाचिना ||१४-७७-१२ (९४६१७)
ततः पर्जन्यवत्सर्वे शरवृष्टीरवासृजन् |
तैः कीर्णः शुशुभे पार्थो रविर्मेघान्तरे यथा ||१४-७७-१३ (९४६१८)
स शरैः समवच्छन्नश्चकाशे पाण्डवर्षभः |
पञ्चरान्तरसञ्चारी शकुन्त इव भारत ||१४-७७-१४ (९४६१९)
ततो हाहाकृतं सर्वं कौन्तेय शरपीडिते |
त्रैलोक्यमभवद्राजन्रविरासीद्रजोरुणः ||१४-७७-१५ (९४६२०)
ततो ववौ महाराज मारुतो रोमहर्षणः |
राहुरग्रसदादित्यं पर्वणीव विशाम्पते ||१४-७७-१६ (९४६२१)
उल्काश्च जघ्निरे सूर्यं विकीर्यन्त्यः समन्ततः |
वेपथुश्चाभवद्राजन्कैलासस्य महागिरेः ||१४-७७-१७ (९४६२२)
मुमुचुः श्वासमत्युष्णं दुःखशोकसमन्विताः |
सप्तर्षयो जातभयास्तथा देवर्षयोपि च ||१४-७७-१८ (९४६२३)
शशं चाशु विनिर्भिद्य मण्डलं शशिनोऽपतन् |
विपरीता दिशश्चापि सर्वा धूमाकुलास्तथा ||१४-७७-१९ (९४६२४)
रासभारुणसङ्काशा धनुष्मन्तः सविद्युतः |
आवृत्य गगनं मेघा मुमुचुर्मांसशोणितम् ||१४-७७-२० (९४६२५)
एवमासीत्तदा वीरे शरवर्षेण संवृते |
फल्गुने भरतश्रेष्ठ तदद्भुतमिवाभवत् ||१४-७७-२१ (९४६२६)
तस्य तेनावकीर्णस्य शरजालेन सर्वतः |
मोहात्पपात गाण्डीवमावापश्च करादपि ||१४-७७-२२ (९४६२७)
तस्मिन्मोहमनुप्राप्ते शरजालं महत्तदा |
सैन्धवा मुमुचुस्तूर्णं गतसत्वे महारथे ||१४-७७-२३ (९४६२८)
ततो मोहं समापन्नं ज्ञात्वा पार्थं द्विवौकसः |
सर्वे वित्रस्तमनसस्तस्य शान्तिकृतोऽभवन् ||१४-७७-२४ (९४६२९)
ततो देवर्षयः सर्वे तथा सप्तर्षयोपि च |
ब्रह्मर्षचस्च विजयं जेपुः पार्थस्य धीमतः ||१४-७७-२५ (९४६३०)
ततः प्रदीपिते देवैः पार्थतेजसि पार्थिव |
तस्थावचलवद्धीमान्सङ्ग्रामे परमास्त्रवित् ||१४-७७-२६ (९४६३१)
विचकर्ष धनुर्दिव्यं ततः कौरवनन्दनः |
यन्त्रस्येवेह शब्दोऽभून्महांस्तस्य पुनः पुनः ||१४-७७-२७ (९४६३२)
ततः स शरवर्षाणि प्रत्यमित्रान्प्रति प्रभुः |
ववर्ष धनुषा पार्थो वर्षाणीव पुरंदरः ||१४-७७-२८ (९४६३३)
ततस्ते सैन्धवा योधाः सर्व एव सराजकाः |
नादृश्यन्त शरैः कीर्णाः शलभैरिव पादपाः ||१४-७७-२९ (९४६३४)
तस्य शब्देन वित्रेसुर्भयार्ताश्च विदुद्रुवुः |
मुमुचुस्चाश्रु शोकार्ताः शुशुचुश्चापि सैन्धवाः ||१४-७७-३० (९४६३५)
तांस्तु सर्वान्नरव्याघ्रः सैन्धवान्व्यचरद्बली |
अलातचक्रवद्राजञ्शरजालैः समार्पयत् ||१४-७७-३१ (९४६३६)
तदिन्द्रजालप्रतिमं बाणजालममित्रहा |
विसृज्य दिक्षु सर्वासु महेन्द्रि इव वज्रभृत् ||१४-७७-३२ (९४६३७)
मेघजालनिभं सैन्यं विदार्य शरवृष्टिभिः |
विबभौ कौरवश्रेष्ठः शरदीव दिवाकरः ||||१४-७७-३३ (९४६३८)
इति श्रीमन्महाभारते आश्वमेधिकपर्वणि अनुगीतापर्वणि
सप्तसप्ततितमोऽध्यायः ||७७ ||
Mahabharata -Ashvamedhika Parva -Chapter Footnotes
७-७७-१९ उत्काः शशं चन्द्रस्थं विनिर्भिद्य शशिनो मण्डलं प्रति
अपतन्निति अनुवृत्त्या सम्बन्धः ||
७-७७-२० रासभारुणे वर्णविशेषः ||
७-७७-२२ आवापो हस्तावापः ||
आश्वमेधिकपर्व -अध्याय ०७८
||श्रीः ||
१४. ७८. अध्यायः ७८
Mahabharata -Ashvamedhika Parva -Chapter Topics
अर्जुनसमागमनश्रवणमात्रेण जयद्रथसुते मृते दुश्शलया
तत्सुतमानीयार्जुनंप्रत्यभियानम् ||१ ||
ततोऽर्जुनेन दुश्शलाप्रार्थनया तस्यां बहुमानेन च युद्धादुपरमः ||२ ||
Mahabharata -Ashvamedhika Parva -Chapter Text
वैशम्पायन उवाच |
ततो गाण्डीवभृच्छूरो युद्धाय समुपस्थितः |
विबभौ युधि दुर्धर्षो हिमवानचलो यथा ||१४-७८-१ (९४६३९)
ततस्ते सैन्धवा योधाः पुनरेव व्यवस्थिताः |
व्यमुञ्चन्त सुसंरब्धाः शरवर्षाणि भारत ||१४-७८-२ (९४६४०)
तान्प्रहस्य महाबाहुः पुनरेव व्यवस्थितान् |
ततः प्रोवाच कौन्तेयो मुमूर्षञ्श्लक्ष्णया गिरा ||१४-७८-३ (९४६४१)
युध्यध्वं परया शक्त्या यतध्वं विजये मम |
कुरुध्वं सर्वकार्याणि महद्वो भयमागतम् ||१४-७८-४ (९४६४२)
एष योत्स्यामि सर्वांस्तु निवार्य शरवागुराम् |
तिष्ठध्वं युद्धमनसो दर्पं शमयितास्मि वः ||१४-७८-५ (९४६४३)
एतावदुक्त्वा कौरव्यो रोषाद्गाण्डीवभृत्तदा |
ततोऽथ वचनं स्मृत्वा भ्रातुर्ज्येष्ठस्य भारत ||१४-७८-६ (९४६४४)
न हन्तव्या रणे तात क्षत्रिया विजिगीषवः |
जेतव्याश्चेति यत्प्रोक्तं धर्मराज्ञा महात्मना |
चिन्तयामास स तदा फल्गुनः पुरुषर्षभः ||१४-७८-७ (९४६४५)
इत्युक्तोऽहं नरेन्द्रेण न हन्तव्या नृपा इति |
कथितं न मृषेदं स्याद्धर्मराजवचः शुभम् ||१४-७८-८ (९४६४६)
न हन्येरंश्च राजानो राज्ञश्चाज्ञा कृता भवेत् |
इति सञ्चिन्त्य स तदा फल्गुनः पुरुषर्षभः ||१४-७८-९ (९४६४७)
प्रोवाच वाक्यं धर्मज्ञः सैन्धवान्युद्धदुर्मदान् |
बालांस्त्रियो वा युष्माकं न हनिष्ये व्यवस्थितान् ||१४-७८-१० (९४६४८)
यश्च वक्ष्यति सङ्ग्रामे तवास्मीति पराजितः |
एतच्छ्रुत्वा वचो मह्यं कुरुध्वं हितमात्मनः ||१४-७८-११ (९४६४९)
ततोऽन्यथा कृच्छ्रगता भविष्यथ मयाऽर्दिताः |
एवमुक्त्वा तु तान्वीरान्युयुधे कुरुपुङ्गवः ||१४-७८-१२ (९४६५०)
अत्वरावानसम्भ्रान्तः संक्रुद्धैर्विजिगीषुभिः |
शतं शतसहस्राणि शराणां नतपर्वणाम् ||१४-७८-१३ (९४६५१)
मुमुचुः सैन्धवा राजंस्तदा गाण्डीवधन्वनि |
शरानापततः क्रूरानाशीविषविषोपमान् |
चिच्छेद निशितैर्बाणैरन्तरा स धनंजयः ||१४-७८-१४ (९४६५२)
छित्त्वा तु तानाशु चैव कङ्कपत्राञ्शिलाशितान् |
एकैकमेषां समरे बिभेद निशितैः शरैः ||१४-७८-१५ (९४६५३)
ततः प्रास्रांश्च शक्तीस्च पुनरेव धनंजये |
जयद्रथं हतं स्मृत्वा चिक्षिपुः सैन्धवा नृपाः ||१४-७८-१६ (९४६५४)
तेषां किरीटी सङ्कल्पं मोघं चक्रे महाबलः |
सर्वांस्तानन्तरा च्छित्त्वा तदा चुक्रोश पाण्डवः |
तथैवापततां तेषां योधानां जयगृद्धिनाम्. १४-७८-१७ (९४६५५)
तथैवापततां तेषां योधानां यजगृद्धिनाम् |
शिरांसि पातयामास भल्लैः सन्नतपर्वभिः ||१४-७८-१८ (९४६५६)
तेषां प्रद्रवतां चापि पुनरेवाभिधावताम् |
निवर्ततां च शब्दोऽभूत्पूर्णस्येव महोदधेः ||१४-७८-१९ (९४६५७)
ते वध्यमानास्तु तदा पार्थेनामिततेजसा |
यथाप्राणं यथोत्साहं योधयामासुरर्जुनम् ||१४-७८-२० (९४६५८)
ततस्ते फल्गुनेनाजौ शरैः सन्नतपर्वभिः |
कृता विसंज्ञा भूयिष्ठा क्लान्तवाहनसैनिकाः ||१४-७८-२१ (९४६५९)
तांस्तु सर्वान्परिग्लानान्विदित्वा धृतराष्ट्रजा |
दुःशला बालमादाय नप्तारं प्रययौ तदा ||१४-७८-२२ (९४६६०)
सुरथस्य सुतं वीरं रथेनाथागमत्तदा |
शान्त्यर्थं सर्वयोधानामभ्यगच्छत पाण्डवम् ||१४-७८-२३ (९४६६१)
सा धनंजयमासाद्य रुरोदार्तस्वरं तदा |
धनंजयोपि तां दृष्ट्वा धनुर्विससृजे प्रभुः ||१४-७८-२४ (९४६६२)
समुत्सृज्य धनुः पार्थो विधिवद्भगिनी तदा |
प्राह किं करवाणीति सा च तं प्रत्युवाच ह ||१४-७८-२५ (९४६६३)
एष ते भरतश्रेष्ठ स्वस्त्रीयस्यात्मजः शिशुः |
अभिवादयते पार्थ तं पश्य पुरुषर्षभ ||१४-७८-२६ (९४६६४)
इत्युक्तस्तस्य पितरं स पप्रच्छार्जुनस्तथा |
क्वासाविति ततो राजन्दुःशला वाक्यमब्रवीत् ||१४-७८-२७ (९४६६५)
पितृशोकाभिसंतप्तो विषादार्तोऽस्य वै पिता |
पञ्चत्वमगमद्वीरो यथा तन्मे निशामय ||१४-७८-२८ (९४६६६)
स पूर्वं पितरं श्रुत्वा हतं युद्धे त्वयाऽनघ |
त्वामागतं च संश्रुत्य युद्धाय हयसारिणम् |
पितुश्च मृत्युदुःखार्तोऽजहात्प्राणान्धनंजय ||१४-७८-२९ (९४६६७)
प्राप्तो बीभत्सुरित्येव नाम श्रुत्वैव तेऽनघ |
विषादार्तः पपातोर्व्यां ममार च ममात्मजः ||१४-७८-३० (९४६६८)
तं दृष्ट्वा पतितं तत्र ततस्तस्यात्मजं प्रभो |
गृहीत्वा समनुप्राप्ता त्वामद्य शरणैपिणी ||१४-७८-३१ (९४६६९)
इत्युक्त्वाऽऽर्तस्वरं सा तु मुमोच धृतराष्ट्रजा |
दीना दीनं स्थितं पार्थमब्रवीच्चाप्यधोमुखम् ||१४-७८-३२ (९४६७०)
स्वसारं समवेक्षस्व स्वस्रीयात्मजमेव च |
कर्तुमर्हसि धर्मज्ञ दयां कुरुकुलोद्वह |
विस्मृत्य कुरुराजानं तं च मन्दं जयद्रथम् ||१४-७८-३३ (९४६७१)
अभिमन्योर्यथा जातः परिक्षित्परवीरहा |
तथाऽयं सुरथाज्जातो मम पौत्रो महाभुज ||१४-७८-३४ (९४६७२)
तमादाय नरव्याघ्र सम्प्रप्तास्मि तवान्तिकम् |
शमार्थं सर्वयोधानां शृणु चेदं वचो मम ||१४-७८-३५ (९४६७३)
आगतोऽयं महाबाहो तस्य मन्दस्य पुत्रकः |
प्रसादमस्य बालस्य तस्मात्त्वं कर्तुमर्हसि ||१४-७८-३६ (९४६७४)
एष प्रसाद्य शिरसा प्रशमार्थमरिंदम |
याचते त्वां महाबाहो शमं गच्छ धनंजय ||१४-७८-३७ (९४६७५)
बालस्य हतबन्धोश्च पार्थ किञ्चिदजानतः |
प्रसादं कुरु धर्मज्ञ मा मन्युवशमन्वगाः ||१४-७८-३८ (९४६७६)
तमनार्थं नृशंसं च विस्मृत्यास्य पितामहम् |
आगस्कारिणमत्यर्तं प्रसादं कर्तुमर्हसि ||१४-७८-३९ (९४६७७)
एवं ब्रुवत्यां करुणं दुःशलायां धनंजयः |
संस्मृत्य देवीं गान्धारीं धृतराष्ट्रं च पार्थिवम् |
उवाच दुःखशोकार्तः क्षत्रधर्मं व्यगर्हयत् ||१४-७८-४० (९४६७८)
' धिक्तं दुर्योधनं क्षुद्रं राज्यलुब्धं च मानिनम्.'
यत्कृते बान्धवाः सर्वे मया नीता यमक्षयम् ||१४-७८-४१ (९४६७९)
इत्युक्त्वा बहु सान्त्वादि प्रसादमकरोज्जयः |
परिष्वज्य च तां प्रीतो विससर्ज गृहान्प्रति ||१४-७८-४२ (९४६८०)
दुःशला चापि तान्योधान्निवार्य महतो रणात् |
सम्पूज्य पार्थं प्रययौ गृहानेव शुभानना ||१४-७८-४३ (९४६८१)
एवं निर्जित्य तान्वीरान्सैन्धवान्स धनंजयः |
अन्वधावत धावन्तं हयं कामविचारिणम् ||१४-७८-४४ (९४६८२)
ततो मृगमिवाकाशे यथा देवः पिनाकधृक् |
ससार तं तथा वीरो विधिवद्यज्ञियं हयम् ||१४-७८-४५ (९४६८३)
स च वाजी यथेष्टेन तांस्तान्देशान्यथाक्रमम् |
विचचार यथाकामं कर्म पार्थस्य वर्धयन् ||१४-७८-४६ (९४६८४)
क्रमेण स हयस्त्वेवं विचरन्पुरुषर्षभ |
मणलूरपतेर्देशमुपायात्सहपाण्डवः ||||१४-७८-४७ (९४६८५)
इति श्रीमन्महाभारते आश्वमेधिकपर्वणि अनुगीतापर्वणि
अष्टसप्ततितमोऽध्यायः ||७८ ||
Mahabharata -Ashvamedhika Parva -Chapter Footnotes
७-७८-४७ भणिपूरपतेरिति झ.पाठः ||
आश्वमेधिकपर्व -अध्याय ०७९
||श्रीः ||
१४. ७९. अध्यायः ७९
अश्वमेधपर्व ||१ ||
Mahabharata -Ashvamedhika Parva -Chapter Topics
अर्जुनेन मणलूरपुरं प्रति गमनम् ||१ ||
तथा पितृभक्त्या विनयेनागतं चित्राङ्गदायां जातं स्वात्मजं
बभ्रुवाहनंप्रति क्षत्रधर्मपरित्यागजरोषादुपालम्भः ||२ ||
तमसहमानया उलूप्या नागलोकादेत्य बभ्रुवाहनस्यार्जुनेन सह
युद्धप्रोत्साहनम् ||३ ||
बभ्रुवाहनेन स्वशरागाढाभिधातेन निपतिते पार्थे पितृमारणशोकेन
मोहाधिगमः ||४ ||
ततश्चित्राङ्गदया रणाङ्गणमेत्य बहुधा विलापः ||५ ||
Mahabharata -Ashvamedhika Parva -Chapter Text
वैशम्पायन उवाच |
श्रुत्वा तु नृपतिः प्राप्तं पितरं बभ्रुवाहनः |
निर्ययौ विनयेनाथ ब्राह्मणार्यपुरःसरः ||१४-७९-१ (९४६८६)
मणलूरेश्वरं त्वेवमुपयातं धनंजयः |
नाभ्यनन्दत्स मेधावी क्षत्रधर्ममनुस्मरन् ||१४-७९-२ (९४६८७)
उवाच च स धर्मात्मा समन्युः फल्गुनस्तदा |
प्रक्रियेयं न ते युक्ता बहिस्त्वं क्षत्रधर्मतः ||१४-७९-३ (९४६८८)
संरक्ष्यमाणं तुरगं यौधिष्ठिरमुपागतम् |
यज्ञियं विषयान्ते मां नायोत्सीः किंनु पुत्रक ||१४-७९-४ (९४६८९)
धिक्त्वामस्तु सुदुर्बुद्धिं क्षत्रधर्माविशारदम् |
यो मां युद्धाय सम्प्राप्तं साम्नैव प्रत्यगृह्णथाः ||१४-७९-५ (९४६९०)
न त्वया पुरुषार्थो हि कश्चिदस्तीह जीवता |
यस्त्वं स्त्रीवद्युधा प्राप्तं मां साम्ना प्रत्यगृह्णथाः ||१४-७९-६ (९४६९१)
यद्यहं न्यस्तशस्त्रस्त्वामागच्छेयं सुदुर्मते |
प्रक्रियेयं भवेद्युक्ता तावतव नराधम ||१४-७९-७ (९४६९२)
तमेवमुक्तं भर्त्रा तु विदित्वा पन्नगात्मजा |
अमृष्यमाणा भित्त्वोर्वीमुलूपी समुपागमत् ||१४-७९-८ (९४६९३)
सा ददर्श तत पुत्रं विमृशन्तमधोमुखम् |
संतर्ज्यमानमसकृत्पित्रा युद्धार्थिना विभो ||१४-७९-९ (९४६९४)
ततः सा चारुसर्वाङ्गी समुपेत्योरगात्मजा |
उलूपी प्राह वचनं क्षत्रधर्मविशारद ||१४-७९-१० (९४६९५)
उलूपीं मां निबोध त्वं मातरं पन्नगात्मजाम् |
कुरुष्व वचनं पुत्र धर्मस्ते भविता परः ||१४-७९-११ (९४६९६)
युध्यस्वैनं कुरुश्रेष्ठं धनंजयमरिन्दमम् ||
एवमेष हि ते प्रीतो भविष्यति न संशयः ||१४-७९-१२ (९४६९७)
एवमुद्धार्षितो राजा स मात्रा बभ्रुवाहनः |
मनश्चक्रे महातेजा युद्धाय भरतर्षभ ||१४-७९-१३ (९४६९८)
सन्नह्य काञ्चनं वर्म शिरस्त्राणं च भानुमत् |
तूणीरशतसंबाधमारुरोह रथोत्तमम् ||१४-७९-१४ (९४६९९)
सर्वोपकरणोपेतं युक्तमश्वैर्मनोजवैः |
सचक्रोपस्करं श्रीमान्हेमभाण्डपरिष्कृतम् ||१४-७९-१५ (९४७००)
परमार्चितमुच्छ्रित्य ध्वजं हंसं हिरण्मयम् |
प्रययौ पार्थमुद्दिश्य स राजा बभ्रुवाहनः ||१४-७९-१६ (९४७०१)
ततोऽभ्योत्य हयं वीरो यज्ञियं पार्थरक्षितम् |
ग्राहयामास पुरुषैर्हयशिक्षाविशारदैः ||१४-७९-१७ (९४७०२)
गृहीतं वाजिनं दृष्ट्वा प्रीतात्मा स धनंजयः |
पुत्रं रथस्थं भूमिष्ठः संन्यवारयदाहवे ||१४-७९-१८ (९४७०३)
स तत्र राजा तं वीरं शरसङ्घैरनेकशः |
अर्दयामास निशितैराशीविषविषोपमैः ||१४-७९-१९ (९४७०४)
तयोः समभवद्युद्धं पितुः पुत्रस्यक चातुलम् |
देवासुररणप्रख्यमुभयोः प्रीयमाणयोः ||१४-७९-२० (९४७०५)
किरीटिनं प्रविव्याघ शरेणानतपर्वणा |
जत्रुदेशे नरव्याघ्रं प्रहसन्बभ्रुवाहनः ||१४-७९-२१ (९४७०६)
सोभ्यगात्सहपुङ्खेन वल्मीकमिव पन्नगः |
विनिर्भद्य च कौन्तेयं प्रविवेशि महीतलम् ||१४-७९-२२ (९४७०७)
स गाढवेदनो धीमानालम्ब्य धनुरुत्तमम् |
दिव्यं तेजः समाविश्य प्रमीत इव सोभवत् ||१४-७९-२३ (९४७०८)
स संज्ञामुपलभ्याथ प्रशस्य पुरुषर्षभः |
पुत्रं शक्रात्मजो वाक्यमिदमाह महाद्युतिः ||१४-७९-२४ (९४७०९)
साधुसाधु महाबाहो वत्स चित्राङ्गदात्मज |
सदृशं कर्म ते दृष्ट्वा प्रीतिमानस्मि पुत्रक ||१४-७९-२५ (९४७१०)
विमुञ्चाम्येष ते बाणान्पुत्र युद्धे स्थिरो भव |
इत्येवमुक्त्वा नाराचैरभ्यवर्षदमित्रहा ||१४-७९-२६ (९४७११)
तान्स गाण्डीवनिर्मुक्तान्वज्राशनिसमप्रभान् |
नाराचानच्छिनद्राज भल्लैः सर्वांस्त्रिधा द्विधा ||१४-७९-२७ (९४७१२)
तस्य पार्थः शरैर्दिव्यैर्ध्वजं हेमपरिष्कृतम् |
सुवर्णतालप्रतिमं क्षुरेणापाहरद्रथात् ||१४-७९-२८ (९४७१३)
हयांश्चास्य महाकायान्महावेगानरिंदम |
चकार राजन्निर्जावान्प्रहसन्निव पाण्डवः ||१४-७९-२९ (९४७१४)
स रथादवतीर्याथ राजा परमकोपनः |
पदातिः पितरं क्रुद्धो योधयामास पाण्डवम् ||१४-७९-३० (९४७१५)
सम्प्रीयमाणः पार्थानामृषभः पुत्रविक्रमात् |
नात्यर्थं पीडयामास पुत्रं वज्रधरात्मजः ||१४-७९-३१ (९४७१६)
स हन्यमानोऽभिमुखं पितरं बभ्रुवाहनः |
शरैराशीविषाकारैः पुनरेवार्दयद्बली ||१४-७९-३२ (९४७१७)
ततः स बाल्यात्पितरं विव्याध हृदि पत्रिणा |
निशेतेन सुपुङ्खेन बलवद्बभ्रुवाहनः ||१४-७९-३३ (९४७१८)
स बाणस्तेजसा दीप्तो ज्वलन्निव हुताशनः |
विवेश पाण्डवं राजन्मर्म भित्त्वाऽतिदुःखकृत् ||१४-७९-३४ (९४७१९)
स तेनातिभृशं विद्धः पुत्रेण कुरुनन्दनः |
महीं जगाम मोहार्तस्ततो राजन्धनंजयः ||१४-७९-३५ (९४७२०)
तस्मिन्निपतिते वीरे कौरवाणां धुरंधरे |
सोपि मोहं जगामाथ ततश्चित्राङ्गदासुतः.ष १४-७९-३६ (९४७२१)
व्यायम्य संयुगे राजा दृष्ट्वा च पितरं हतम् |
पूर्वमेव स बाणौर्घर्गाढविद्धोऽर्जुनेन ह |
पपात सोपि धरणीमालिङ्ग्य रणमूर्धनि ||१४-७९-३७ (९४७२२)
भर्तारं निहतं दृष्ट्वा पुत्रं च पतितं भुवि |
चित्राङ्गदा परित्रस्ता प्रविवेश रणाजिरे ||१४-७९-३८ (९४७२३)
शोकसंतप्तहृदया रुदती वेपती भृशम्. १४-७९-३९ (९४७२४)
मणलूरपतेर्माता ददर्श निहतं पतिम् ||||१४-७९-४० (९४७२५)
इति श्रीमन्महाभारते आश्वमेधकपर्वणि अनुगीतापर्वणि
एकोनाशीतितमोऽध्यायः ||७९ ||
Mahabharata -Ashvamedhika Parva -Chapter Footnotes
७-७९-२३ प्रमीतइव मृतइव ||
७-७९-२५ पुत्रं प्रशस्येति संबन्धः ||
७-७९-३९ पतिमर्जुनम् ||
आश्वमेधिकपर्व -अध्याय ०८०
||श्रीः ||
१४. ८०. अध्यायः ८०
अश्वमेधपर्व ||१ ||
Mahabharata -Ashvamedhika Parva -Chapter Topics
चित्राङ्गदया रणाङ्गणनिपतितपतिपुत्रदर्शनजशोकातिरेकेण
मोहाधिगमः ||१ ||
तथा संज्ञोपलम्भे उलूपींप्रत्युपालम्भ गर्भवचनम् ||२ ||
ततश्चिराल्लुब्धसंज्ञेन बभ्रुवाहनेनात्मोपालम्भनपूर्वकं
प्रायोपवेशनम् ||३ ||
Mahabharata -Ashvamedhika Parva -Chapter Text
वैशम्पायन उवाच |
ततो बहुतरं भीरर्विलप्य कमलेक्षणा |
मुमोह दुःखसंतप्ता पपात च महीतले ||१४-८०-१ (९४७२६)
प्रतिलभ्य च सा संज्ञां देवी दिव्यवपुर्धरा |
उलूपीं पन्नगसुतां दृष्ट्वेदं वाक्यमब्रवीत् ||१४-८०-२ (९४७२७)
उलूपि पश्य भर्तारं शयानं नितं रणे |
त्वत्कृते मम पुत्रेण बाणेन समितिंजयम् ||१४-८०-३ (९४७२८)
ननु त्वमार्यधर्मज्ञा ननु चासि पतिव्रता |
यत्त्वत्कृतेऽयं पतितः पतिस्ते निहतो रणे ||१४-८०-४ (९४७२९)
किंनु मन्देऽपकराद्धोऽयं यदि तेऽद्य धनंजयः |
क्षमस्व याच्यमाना वै जीवयस्व धनंजयम् ||१४-८०-५ (९४७३०)
ननु त्वमार्ये धर्मज्ञे त्रैलोक्यविदिता शुभे |
यद्धातयित्वा पुत्रेण भर्तारं नानुशोचसि ||१४-८०-६ (९४७३१)
नाहं शोचामि तनयं हतं पन्नगनन्दिनि |
पतिमेव तु शोचामि यस्यातिथ्यमिदं कृतम् ||१४-८०-७ (९४७३२)
इत्युक्त्वा सा तदा देवीमुलूपीं पन्नगात्मजाम् |
भर्तारमभिगम्येदमित्युवाच यशस्विनी ||१४-८०-८ (९४७३३)
उत्तिष्ठ कुरुमुख्यस्य प्रियमुख्य मम प्रिय |
अयमश्वो महाबाहो मयो ते परिमोक्षितः ||१४-८०-९ (९४७३४)
ननु त्वया नाम विभो धर्मराजस्य यज्ञियः |
अयमश्वोऽनुसर्तव्यः स शेषे किं महीतले ||१४-८०-१० (९४७३५)
त्वयि प्राणा ममायत्ताः कुरूणां कुरुनन्दन |
स कस्मात्प्राणदोऽन्येषां प्राणान्संत्यक्तवानसि ||१४-८०-११ (९४७३६)
उलूपि साधु पश्येमं पतिं निपतितं भुवि |
पुत्रं चेमं समुत्साद्य घातयित्वा न शोचसि ||१४-८०-१२ (९४७३७)
कामं स्वपितु बालोऽयं भूमौ मृत्युवशं गतः |
लोहिताक्षो गुडाकेशो विजयः साधु जीवतु ||१४-८०-१३ (९४७३८)
नापराधोऽस्ति सुभगे नराणां बहुभार्यता |
प्रमदानां भवत्येष मा ते भूद्बुद्धिरीदृशी ||१४-८०-१४ (९४७३९)
सख्यं चैतत्कृतं धात्रा शश्वदव्ययमेव तु |
सख्यं समभिजानीहि सत्यं सङ्गतमस्तु ते ||१४-८०-१५ (९४७४०)
पुत्रेम घातयित्वैनं पतिं यदि न मेऽद्य वै |
जीवन्तं दर्शयस्यद्य परित्यक्ष्यामि जीवितम् ||१४-८०-१६ (९४७४१)
साऽहं दुःखान्विता देवि पतिपुत्रविनाकृता |
इहैव प्रायमाशिष्ये प्रेक्षन्त्यास्ते न संशयः ||१४-८०-१७ (९४७४२)
इत्युक्त्वा पन्नगसुतां सपत्नी चैत्रवाहनी |
ततः प्रायमुपासीना तूष्णीमासीज्जनाधिप ||१४-८०-१८ (९४७४३)
ततो विलप्य विरता भर्तुः पादौ प्रगृह्य सा |
उपविष्टा भवद्दीना सोच्छ्वासं पुत्रमीक्षती ||१४-८०-१९ (९४७४४)
ततः संज्ञां पुनर्लब्ध्वा स राजा बभ्रुवाहनः |
मातरं तामथालोक्य रणभूमावथाब्रवीत् ||१४-८०-२० (९४७४५)
इतो दुःखतरं किंनु यन्मे माता सुखैधिता |
भूमौ निपतितं वीरमनुशेते मृतं पतिम् ||१४-८०-२१ (९४७४६)
निहन्तारं रणेऽरीणां सर्वशस्त्रभृतां वरम् |
मया विनिहतं सङ्ख्ये प्रेक्षते दुर्मरं बत ||१४-८०-२२ (९४७४७)
अहोऽस्या हृदयं देव्या दृढं यन्न विदीर्यते |
व्यूढोरस्कं महाबाहुं प्रेक्षन्त्या निहतं पतिम् ||१४-८०-२३ (९४७४८)
दुर्मरं पुरुषेणेह मन्ये काले ह्यनागते |
यत्र नाहं न मे माता न वियुक्तौ स्वजीवितात् ||१४-८०-२४ (९४७४९)
हाहा धिक्कुरुवीरस्य किरीटं काञ्चनं भुवि |
अपविद्धं हतस्येह मया पुत्रेम पश्यत ||१४-८०-२५ (९४७५०)
भोभो पश्यत मे वीरं पितरं ब्राह्मणा भुवि |
शयानं वीरशयने मया पुत्रेण पातितम् ||१४-८०-२६ (९४७५१)
ब्राह्मणाः कुरुमुख्यस्य ये मुक्ता हयसारिणः |
कुर्वन्ति शान्तिं कामस्य रणे योऽयं मया हतः ||१४-८०-२७ (९४७५२)
व्यादिशन्तु च किं विप्राः प्रायश्चित्तमिहाद्य मे |
आनृशंसस्य पापस्य पितृहन्तू रणाजिरे ||१४-८०-२८ (९४७५३)
दुश्चरा द्वादश समा हत्वा पितरमद्य वै |
ममेह सुनृशंसस्य संवीतस्यास्य चर्मणा ||१४-८०-२९ (९४७५४)
शिरःकपाले चास्यैव भुञ्जतः पितुरद्य मे |
प्रायश्चित्तं हि नास्त्यन्यद्धत्वाऽद्य पितरं मम ||१४-८०-३० (९४७५५)
पश्य नागोत्तमसुते भर्तारं निहतं मया |
कृतं प्रियं मया तेऽद्य निहत्य समरेऽर्जुनम् ||१४-८०-३१ (९४७५६)
सोऽहमद्य गमिष्यामि गतिं पितृनिषेविताम् |
न शक्नोम्यात्मनाऽऽत्मानमहं दारयितुं शुभे ||१४-८०-३२ (९४७५७)
सा त्वं मयि मृते मातस्तथा गाण्डीवधन्वनि |
भव प्रीतिमती देवि सत्येनात्मानमालभे ||१४-८०-३३ (९४७५८)
इत्युक्त्वा स ततो राजा दुःखशोकसमाहतः |
उपस्पृश्य महाराज दुःखाद्वचनमब्रवीत् ||१४-८०-३४ (९४७५९)
शृण्वन्तु सर्वभूतानि स्थावराणि चराणि च |
त्वं च मातर्यथा सत्यं ब्रवीमि भुजगोत्तमे ||१४-८०-३५ (९४७६०)
यदि नोत्तिष्ठति जयः पिता मे नरसत्तमः |
अस्मिन्नेव रणोद्देशे शोषयिष्ये कलेवरम् ||१४-८०-३६ (९४७६१)
नहि मे पितरं हत्वा निष्कृतिर्विद्यते क्वचित् |
नरकं प्रतिपत्स्यामि ध्रुवं गुरुवधार्दितः ||१४-८०-३७ (९४७६२)
वीरं हि क्षत्रियं हत्वा गोशतेन प्रमुच्यते |
पितरं तु निहत्यैवं दुर्लभा निष्कृतिर्मम ||१४-८०-३८ (९४७६३)
एत एको महातेजाः पाण्डुपुत्रो धनंजयः |
पिता च मम धर्मात्मा तस्य मे निष्कृतिः कुतः ||१४-८०-३९ (९४७६४)
इत्येवमुक्त्वा नृपते धनंजयसुतो नृपः |
उपस्पृश्याभवत्तूष्णीं प्रायोपेतो महामतिः ||||१४-८०-४० (९४७६५)
इति श्रीमन्महाभारते आश्वमेधिकपर्वणि अनुगीतापर्वणि
अशीतितमोऽध्यायः ||८० ||
Mahabharata -Ashvamedhika Parva -Chapter Footnotes
७-८०-२७ कामस्यति कां अस्येति च्छेदः ||
आश्वमेधिकपर्व -अध्याय ०८१
||श्रीः ||
१४. ८१. अध्यायः ८१
अश्वमेधपर्व ||१ ||
Mahabharata -Ashvamedhika Parva -Chapter Topics
बभ्रुवाहने प्रायोपविष्टे उलूप्या
स्मरणमात्रसंनिहितसंजीवनमणिनार्जुनस्य समुद्धोधनम् ||१ ||
ततः सुप्तोत्थितेनेव तेन बभ्रुवाहनंप्रति चित्राङ्गदादीनां
रणाङ्गणागमने कारणप्रश्ने तेनोलूपींप्रति प्रश्नचोदना ||२ ||
Mahabharata -Ashvamedhika Parva -Chapter Text
वैशम्पायन उवाच |
प्रायोपविष्टे नृपतौ मणलूरेश्वरे तदा |
पितृशोकसमाविष्टे सह मात्रा परंतप ||१४-८१-१ (९४७६६)
उलूपी चिन्तयामास तदा संजीवनं मणिम् |
स चोपातिष्ठत तदा पन्नगानां परायणम् ||१४-८१-२ (९४७६७)
तं गृहीत्वा तु कौरव्य नागराजपतेः सुता |
मनःप्रह्लादनीं वाचं सैनिकानामथाब्रवीत् ||१४-८१-३ (९४७६८)
उत्तिष्ठ मा शुचः पुत्र नैव जिष्णुस्त्वया हतः |
अजेयः पुरुषैरेष तथा देवैः सवासवैः ||१४-८१-४ (९४७६९)
मया तु मोहनी नाम मायैषा सम्प्रदर्शिता |
प्रियार्थं पुरुषेन्द्रस्य पितुस्तेऽद्य यशस्विनः ||१४-८१-५ (९४७७०)
जिज्ञासुर्ह्येष पुत्रस्य बलस्य तव कौरव |
सङ्ग्रामे युद्ध्यतो राजन्नागतः परवीरहा ||१४-८१-६ (९४७७१)
तस्मादसि मया पुत्र युद्धाय परिचोदितः |
मा पापमात्मनः पुत्र शङ्केथा ह्यण्वपि प्रभो ||१४-८१-७ (९४७७२)
ऋषिरेष महानात्मा पुराणः शाश्वतोऽक्षरः |
नैनं शक्तो हि सङ्ग्रामे जेतुं शक्रोऽपि पुत्रक ||१४-८१-८ (९४७७३)
अयं तु मे मणिर्दिव्यः समानीतो विशांपते |
मृतान्मृतान्पन्नगेन्द्रान्यो जीवयति नित्यदा ||१४-८१-९ (९४७७४)
एनमस्योरसि त्वं च स्थापयस्व पितुः प्रभो |
संजीवितं तदा पार्थं स त्वं द्रष्टासि पाण्डवम् ||१४-८१-१० (९४७७५)
इत्युक्तः स्थापयामास तस्योरसि मणिं तदा |
पार्थस्यामिततेजाः स पितुः स्नेहादपापकृत् ||१४-८१-११ (९४७७६)
तस्मिन्न्यस्ते मणौ वीरो जिष्णुरुज्जीवितः प्रभुः |
चिरसुप्त हवोत्तस्थौ मृष्टलोहितलोचनः ||१४-८१-१२ (९४७७७)
तमुत्थितं महात्मानं लब्धसंज्ञं मनस्विनम् |
समीक्ष्य पितरं स्वस्थं ववन्दे बभ्रुवाहनः ||१४-८१-१३ (९४७७८)
उत्थिते पुरुषव्याघ्रे पुनर्लक्ष्मीवति प्रभो |
दिव्याः सुमनसः पुण्या ववृषे पाकशासनः ||१४-८१-१४ (९४७७९)
अनाहता दुन्दुभयो विनेदुर्मघनिःस्वनाः |
साधुसाध्विति चाकाशे बभूव सुमहान्स्वनः ||१४-८१-१५ (९४७८०)
उत्थाय च महाबाहुः पर्याश्वस्तो धनंजयः ||
बभ्रुवाहनमालिङ्ग्य समाजिघ्रत मूर्धनि ||१४-८१-१६ (९४७८१)
ददर्श चापि दूरेऽस्य मातरं शोककर्शिताम् |
उलूप्या सह तिष्ठन्तीं ततोऽपृच्छद्धनंजयः ||१४-८१-१७ (९४७८२)
किमिदं लक्ष्यते सर्वं शोकविस्मयहर्षवत् |
रणाजिरममित्रघ्न यदि जानासि शंस मे ||१४-८१-१८ (९४७८३)
जननी च किमर्थं ते रणभूमिमुपागता |
नागेन्द्रदुहिता चेयमुलूपी किमिहागता ||१४-८१-१९ (९४७८४)
जानाम्यहमिदं युद्धं त्वया मद्वचनात्कृतम् |
स्त्रीणामागमने हेतुमहमिच्छामि वेदितुम् ||१४-८१-२० (९४७८५)
तमुवाच तथा पृष्टो मणलूरपतिस्तदा |
प्रसाद्य शिरसा विद्वानुलूपी पृच्छ्यतामिति ||||१४-८१-२१ (९४७८६)
इति श्रीमन्महाभारते आश्वमेधिकपर्वणि अनुगीतापर्वणि
एकाशीतितमोऽध्यायः ||८१ ||
आश्वमेधिकपर्व -अध्याय ०८२
||श्रीः ||
१४. ८२. अध्यायः ८२
अश्वमेधपर्व ||१ ||
Mahabharata -Ashvamedhika Parva -Chapter Topics
उलूप्यार्जुनंप्रति चित्राङ्गदादीनां समराङ्गणागमने कारणाभिधानम् ||१ ||
तथा बभ्रुवाहनेन तस्य पराजये विस्तरेण हेतुकथनम् ||२ ||
Mahabharata -Ashvamedhika Parva -Chapter Text
अर्जुन उवाच |
किमागमनकृत्यं ते कौरव्यकुलनन्दिनि |
मणलूरपतेर्मातुस्तथैव च रणाजिरे ||१४-८२-१ (९४७८७)
कच्चित्कुशलकामासि राज्ञोऽस्य भुजगात्मजे |
मम वा चपलापाङ्गि कच्चित्वं शुभमिच्छसि ||१४-८२-२ (९४७८८)
कच्चित्ते पृथुलश्रोणि नाप्रियं प्रियदर्शने |
अकार्षमहमज्ञानादयं वा बभ्रुवाहनः ||१४-८२-३ (९४७८९)
कच्चिन्नु राजपूत्री ते सपत्नी चैत्रवाहनी |
चित्राङ्गदा वरारोहा नापराध्यति किञ्चन ||१४-८२-४ (९४७९०)
तमुवाचोरगपतेर्दुहिता प्रहसन्त्यथ |
न मे त्वमपराद्धोसि न हि मे बभ्रुवाहनः |
न जनित्री तथाऽस्येयं मम यो प्रेष्यवत्थिता ||१४-८२-५ (९४७९१)
श्रूयतां यद्यथा चेदं मया सर्वं विचेष्टितम् |
न मे कोपस्त्वया कार्यः शिरसा त्वां प्रसादये ||१४-८२-६ (९४७९२)
त्वत्प्रियार्थं हि कौरव्य कृतमेतन्मया विभो |
यत्तच्छृणु महाबाहो निखिलेन धनंजय ||१४-८२-७ (९४७९३)
महाभारतयुद्धे यत्त्वया शान्तनवो नृपः |
अधर्मेण हतः पार्थ तस्यैषा निष्कृतिः कृता ||१४-८२-८ (९४७९४)
न हि भीष्मस्त्वया वीर युद्ध्यमानो हि पातितः |
शिखण्डिना तु संयुक्तस्तमाश्रित्य हतस्त्वया ||१४-८२-९ (९४७९५)
तस्य शान्तिमकृत्वा त्वं त्यजेथा यदि जीवितम् |
कर्मणा तेन पापेन पतेथा निरये ध्रुवम् |
एषा तु विहिता शान्तिः पुत्राद्यां प्राप्तवानसि ||१४-८२-१० (९४७९६)
वसुभिर्वसुधापाल गङ्गया च महामते |
पुरा हि श्रुतमेतत्ते वसुभिः कथितं मया ||१४-८२-११ (९४७९७)
गङ्गायास्तीरमाश्रित्य हते शान्तनवे नृप |
आप्लुत्य देवा वसवः समेत्य च महानदीम् |
इदमूचुर्वचो घोरं भागीरथ्या मते तदा ||१४-८२-१२ (९४७९८)
एष शान्तनवो भीष्मो निहतः सव्यसाचिना |
अयुद्ध्यमानः सङ्ग्रामे संसक्तोऽन्येन भामिनि ||१४-८२-१३ (९४७९९)
तदनेनानुषङ्गेण वयमद्य धनञ्जयम् |
शापेन योजयामेति तथाऽस्त्विति च साऽब्रवीत् ||१४-८२-१४ (९४८००)
तदहं पितुरावेद्य प्रविश्य व्यथितेन्द्रिया |
अभवं स च तच्छ्रुत्वा विषादमगमत्परम् ||१४-८२-१५ (९४८०१)
पिता तु मे वसून्गत्वा त्वदर्थे समयाचत |
पुनः पुनः प्रसाद्यैतांस्त एनमिदमब्रुवन् ||१४-८२-१६ (९४८०२)
पुत्रस्तस्य महाभाग मणलूरेश्वरो युवा |
स एनं रणमध्यस्थः शरैः पातयिता भुवि ||१४-८२-१७ (९४८०३)
एवं कृते स नागेन्द्र मुक्तशापो भविष्यति |
गच्छेति वसुभिश्चोक्तो मम चेदं शशंस सः ||१४-८२-१८ (९४८०४)
तच्छ्रुत्वा त्वं मया तस्माच्छापादसि विमोक्षितः |
न हि त्वां देवराजोऽपि समरेषु पराजयेत् ||१४-८२-१९ (९४८०५)
आत्मा पुत्रः स्मृतस्तस्मात्तेनेहासि पराजितः |
न हि दोषो मम मतः कथं वा मन्यसे विभो ||१४-८२-२० (९४८०६)
इत्येवमुक्तो विजयः प्रसन्नात्माऽब्रवीदिदम् |
सर्वं मे सुप्रियं देवि यदेतत्कृतवत्यसि ||१४-८२-२१ (९४८०७)
इत्युक्त्वा सोऽब्रवीत्पुत्रं मणलूरपतिं जयः |
चित्राङ्गदायाः शृण्वन्त्याः कौरव्यदुहितुस्तदा ||१४-८२-२२ (९४८०८)
युधिष्ठिरस्याश्वमेधः परिचैत्रीं भविष्यति |
तत्रागच्छेः सहामात्यो मातृभ्यां सहितो नृप ||१४-८२-२३ (९४८०९)
इत्येवमुक्तः पार्थेन स राजा बभ्रुवाहनः |
उवाच पितरं धीमानिदमस्राविलेक्षणः ||१४-८२-२४ (९४८१०)
उपयास्यामि धर्मज्ञ भवतः सासनादहम् |
अश्वमेधे महायज्ञे द्विजातिपरिवेषकः ||१४-८२-२५ (९४८११)
मम त्वनुग्रहार्थाय प्रविशस्व पुरं स्वकम् |
भार्याभ्यां सह धर्मज्ञ माभूत्तेऽत्र विचारणा ||१४-८२-२६ (९४८१२)
उषित्वेह निशामेकां सुखं स्वभवने प्रभो |
पुनरश्वानुगमनं कर्तासि जयतांवर ||१४-८२-२७ (९४८१३)
इत्युक्ताः स तु प्रत्रेण तदा वानरकेतनः |
स्मयन्प्रोवाच कौन्तेयस्तदा चित्राङ्गदासुतम् ||१४-८२-२८ (९४८१४)
विदितं ते महाबाहो यथा दीक्षां चराम्यहम् |
न स तावत्प्रवेक्ष्यामि पुरं ते पृथुलोचन ||१४-८२-२९ (९४८१५)
यथाकामं व्रजत्येष यज्ञियाश्वो नरर्षभ |
स्वस्ति तेऽस्तु गमिष्यामि न स्थानं विद्यते मम ||१४-८२-३० (९४८१६)
वैशम्पायन उवाच. १४-८२-३१क्ष् (७९२२)
स तत्र विधिवत्तेन पूजितः पाकशासनिः. १४-८२-३१ (९४८१७)
भार्याभ्यामभ्यनुज्ञातः प्रायाद्भरतसत्तमः ||||१४-८२-३२ (९४८१८)
इति श्रीमन्महाभारते आश्वमेधिकपर्वणि अनुगीतापर्वणि
द्व्यशीतितमोऽध्यायः ||८२ ||
आश्वमेधिकपर्व -अध्याय ०८३
||श्रीः ||
१४. ८३. अध्यायः ८३
अश्वमेधपर्व ||१ ||
Mahabharata -Ashvamedhika Parva -Chapter Topics
अर्जुनेनास्वानुसरणवशान्मगधदेशगमनम् ||१ ||
तत्र जरासंधपौत्रस्य मेघसंधेः पराजयपूर्वकं तत्रतत्र
म्लेच्छादिपराजयः ||२ ||
Mahabharata -Ashvamedhika Parva -Chapter Text
वैशम्पायन उवाच |
स तु वाजी समुद्रान्तां पर्येत्य वसुधामिमाम् |
निवृत्तोऽभिमुखो राजन्येन वारणसाह्वयम् ||१४-८३-१ (९४८१९)
अनुगच्छंश्च तुरगं निवृत्तोऽथ किरीटभृत् |
यदृच्छया समापेदे पुरं राजगृहं तदा ||१४-८३-२ (९४८२०)
तमभ्याशगतं दृष्ट्वा सहदेवात्मजः प्रभो |
क्षत्रधर्मे स्थितो वीरः समरायाजुहाव ह ||१४-८३-३ (९४८२१)
ततः पुरात्स निष्क्रम्य रथी धन्वी शरी तली |
मेघसन्धिः पदातिं तं धनंजयमुपाद्रवत् ||१४-८३-४ (९४८२२)
आसाद्य च महातेजा मेघसन्धिर्धनंजयम् |
बालभावान्महाराज प्रोवाचेदं न कौशलात् ||१४-८३-५ (९४८२३)
किमयं चार्यते वाजी सित्रीमध्य इव भारत |
हयमेनं हरिष्यामि प्रयतस्व विमोक्षणे ||१४-८३-६ (९४८२४)
अदत्तानुनयो युद्धे यदि त्वं पितृभिर्मम |
करिष्यामि तवातिथ्यं प्रहर प्रहरामि च ||१४-८३-७ (९४८२५)
इत्युक्तः प्रत्युवाचैनं प्रहसन्निव पाण्डवः |
विघ्नकर्ता मया वार्य इति मे व्रतमाहितम् ||१४-८३-८ (९४८२६)
भ्रात्रा ज्येष्ठेन नृपते तवापि विदितं ध्रुवम् |
प्रहरस्व यथाशक्ति न मन्युर्विद्यते मम ||१४-८३-९ (९४८२७)
इत्युक्तः प्राहरत्पूर्वं पाण्डवं मगधेस्वरः |
किरञ्शरसहस्राणि वर्षाणीव सहस्रदृक् ||१४-८३-१० (९४८२८)
ततो गाण्डीवभृच्छूरो गाण्डीवप्रहितैः शरैः |
चकार मोघांस्तान्बाणान्सयत्नान्भरतर्षभ ||१४-८३-११ (९४८२९)
स मोघं तस्य बाणौघं कृत्वा वानरकेतनः |
शरात्मुमोच ज्वलितान्दीप्तास्यानिव पन्नगान् ||१४-८३-१२ (९४८३०)
ध्वजे पताकादण्डेषु रथे यन्त्रे हयेषु च |
अन्येषु च रथाङ्गेषु न शरीरे न सारथौ ||१४-८३-१३ (९४८३१)
संरक्ष्यमाणः पार्थेन शरीरे सव्यसाचिना |
मन्यमानः स्ववीर्यं तन्मागधः प्राहिणोच्छरान् ||१४-८३-१४ (९४८३२)
ततो गाण्डीवधन्वा तु मागधेन भृशाहतः |
बभौ वसन्तसमये पलासः पुष्पितो यथा ||१४-८३-१५ (९४८३३)
अवध्यमानः सोऽभ्यघ्नन्मागधः पाण्डवर्षभम् |
तेन तस्थौ स कौरव्य लोकवीरस्य दर्शने ||१४-८३-१६ (९४८३४)
सव्यसाची तु संक्रुद्धो विकृष्य बलवद्धनुः |
हयांश्चकार निर्जीवान्सारथेश्च शिरोऽहरत् ||१४-८३-१७ (९४८३५)
धनुश्चास्य महच्चित्रं क्षुरेण प्रचकर्त ह |
हस्तावापं पताकां च ध्वजं चास्यन्यपातयत् ||१४-८३-१८ (९४८३६)
स राजा व्यथितो व्यश्वो विधनुर्हतसारथिः |
गदामादाय कौन्तेयमभिद्रद्राव वेगवान् ||१४-८३-१९ (९४८३७)
तस्यापतत एवाशु गदां हेमपरिष्कृताम् |
शरैश्चकर्त बहुधा बहुभिर्गृध्रवाजितैः ||१४-८३-२० (९४८३८)
सा गदा शकलीभूता विशीर्णिमणिबन्धना |
व्याली विमुच्यमानेन पपात धरणीतले ||१४-८३-२१ (९४८३९)
विरथं विधनुष्कं च गदया परिवर्जितम् |
' नैच्छत्ताडयितुं धीमानर्जुनः समराग्रणीः ||१४-८३-२२ (९४८४०)
तत एनं विमनसं क्षत्रधर्मे व्यवस्थितम् ||'
सान्त्वपूर्वमिदं वाक्यमब्रवीत्कपिकेतनः ||१४-८३-२३ (९४८४१)
पर्याप्तः क्षत्रधर्मोऽयं दर्शितः पुत्र गम्यताम् |
बह्वेतत्समरे कर्म तव बालस्य पार्थिव ||१४-८३-२४ (९४८४२)
युधिष्ठिरस्य संदेशो न हन्तव्या नृपा इति |
तेन जीवसि राजंस्त्वमपराद्धोऽपि मे रणे ||१४-८३-२५ (९४८४३)
इति मत्वा तदाऽऽत्मानं प्रत्यादिष्टं स्म मागधः |
तथ्यमित्यभिगम्यैनं प्राञ्जलिः प्रत्यपूजयत् ||१४-८३-२६ (९४८४४)
परिजितोस्मि भद्रं ते नाहं योद्धुमिहोत्सहे |
यद्यत्कृत्यं मया तेऽद्य तद्ब्रूहि कृतमेव तु ||१४-८३-२७ (९४८४५)
तमर्जुनः समाश्वास्य पुनरेवेदमब्रवीत् |
आगन्तव्यं परां चैत्रीमश्वमेधे नृपस्य नः ||१४-८३-२८ (९४८४६)
इत्युक्तः स तथेत्युक्त्वा पूजयमास तं हयम् |
फल्गुनं च युधिश्रेष्ठं विदिवत्सहदेवजः ||१४-८३-२९ (९४८४७)
ततो यथेष्टमगमत्पुनरेव स कौरवः |
ततः समुद्रतीरेण वङ्गान्पुण्ड्रान्सकेरलान् ||१४-८३-३० (९४८४८)
तत्रतत्र च भूरीणि म्लेच्छसैन्यान्यनेकशः |
विजिग्ये धनुषा राजन्गाण्डीवेन धनंजयः ||||१४-८३-३१ (९४८४९)
इति श्रीमन्महाभारते आश्वमेधिकपर्वणि अनुगीतापर्वणि
त्र्यशीतितमोऽध्यायः ||८३ ||
Mahabharata -Ashvamedhika Parva -Chapter Footnotes
७-८३-७ अदत्तानुनयः अशिक्षितः ||
७-८३-२० गृध्रवाजितैः गृध्रपक्षयुतैः ||
आश्वमेधिकपर्व -अध्याय ०८४
||श्रीः ||
१४. ८४. अध्यायः ८४
अश्वमेधपर्व ||१ ||
Mahabharata -Ashvamedhika Parva -Chapter Topics
दक्षिणां दिशमुपागतेनार्जुनेन चेदीशितुः शिशुपालात्मजस्य
पूजापरिग्रहणम् ||१ ||
तथा काशिकोसलादिदेशाधिपतिपराजयपूर्वकं गान्धारदेशगमनम् ||२ ||
Mahabharata -Ashvamedhika Parva -Chapter Text
वैशम्पायन उवाच |
मागधेनार्चितो राजन्पाण्डवः श्वेतवाहनः |
दक्षिणां दिशमास्थाय चारयामास तं हयम् ||१४-८४-१ (९४८५०)
ततः स पुनरावर्त्य हयः कामचरो बली |
आससाद पुरीं रम्यां चेदीनां शुक्तिसाह्वयाम् ||१४-८४-२ (९४८५१)
शरभेणार्चितस्तत्र शिशुपालसुतेन सः |
युद्धपूर्वं तदा तेन पूजया च महाबलः ||१४-८४-३ (९४८५२)
ततोऽर्चितो ययौ राजंस्तदा स तुरगोत्तमः |
काशीनङ्गान्कोसलांश्च किरातानाथ तङ्गणात् ||१४-८४-४ (९४८५३)
पूजां तत्र यथान्यायं प्रतिगृह्य धनंजयः |
पुनरावृत्त्य कौन्तेयो दशार्णानगमत्तदा ||१४-८४-५ (९४८५४)
तत्र चित्राङ्गदो नाम बलवानरिमर्दनः |
तेन युद्धमभूत्तस्य विजयस्यातिभैरवम् ||१४-८४-६ (९४८५५)
तं चापि वशमानीय किरीटी पुरुषर्षभः |
निषादराज्ञो विषयमेकलव्यस्य जग्मिवान् ||१४-८४-७ (९४८५६)
एकलव्यसुतश्चैनं युद्धेनि जगृहे तदा |
तत्र चक्रे निषादैः स सग्रामं रोमहर्षणम् ||१४-८४-८ (९४८५७)
ततस्तमपि कौन्तेयः समरेष्वपराजितः ||
जिगाय युधि दुर्धर्षो यज्ञविघ्नार्थमागतम् ||१४-८४-९ (९४८५८)
स तं जित्वा महाराज नैषादिं पाकशासनिः |
अर्चितः प्रययौ भूयो दक्षिणं सलिलार्णवम् ||१४-८४-१० (९४८५९)
तत्रापि द्रवीडैरान्ध्रै रौद्रैर्माहिषकैरपि |
तथा कोल्लगिरेयैश्च युद्धमासीन्किरीटिनः ||१४-८४-११ (९४८६०)
तांश्चापि विजयो जित्वा नातितीव्रेण कर्मणा |
तुरङ्गमवशेनाथ सुराष्ट्रानभितो ययौ |
गोकर्णमथ चासाद्य प्रभासमपि जग्मिवान् ||१४-८४-१२ (९४८६१)
ततो द्वारवतीं रम्यां वृष्णिवीराभिपालिताम् |
आससाद हयः श्रीमान्कुरुराजस्य यज्ञियः ||१४-८४-१३ (९४८६२)
तमुन्मथ्य हयश्रेष्ठं यादवानां कुमारकाः |
प्रययुस्तांस्तदा राजन्नुग्रसेनो न्यवारयत् ||१४-८४-१४ (९४८६३)
ततः पुराद्विनिष्क्रम्य वृष्ण्यन्धकपतिस्तदा |
सहितो वासुदेवेन मातुलेन किरीटिनः ||१४-८४-१५ (९४८६४)
तौ समेत्य कुरुश्रेष्ठं विधिवत्प्रीतिपूर्वकम् |
परया भारतश्रेष्ठं पूजया समवस्थितौ |
ततस्ताभ्यामनुज्ञातो यतयौ येन हयो गतः ||१४-८४-१६ (९४८६५)
ततः स पश्चिमं देशं समुद्रस्य तदा हयः |
क्रमेणि व्यचरत्स्फीतं ततः पञ्चनदं ययौ ||१४-८४-१७ (९४८६६)
तस्मादपि स कौरव्य गन्धारविषयं हयः |
विचचार यथाकामं कौन्तेयानुगतस्तदा ||१४-८४-१८ (९४८६७)
ततो गान्धारराजेन युद्धमासीत्किरीटिनः |
घोरं शकुनिपुत्रेण पूर्ववैरानुसारिणा ||||१४-८४-१९ (९४८६८)
इति श्रीमन्महाभारते आश्वमेधिकपर्वणि अनुगीतापर्वणि
चतुरशीतितमोऽध्यायः ||८४ ||
आश्वमेधिकपर्व -अध्याय ०८५
||श्रीः ||
१४. ८५. अध्यायः ८५
अश्वमेधपर्व ||१ ||
Mahabharata -Ashvamedhika Parva -Chapter Topics
अर्जुनेन शकुनितनयपराजयपूर्वकं तत्सेनावमर्दनम् ||१ ||
ततः शकुनिभार्यया तेन स्वसुतवधसंभावनया
रणाङ्गणमेत्यार्जुनस्य प्रसादनम् ||२ ||
अर्जुनेन गान्धारीगौरवात्तत्संमाननपूर्वकं तत्तनयसमाश्वासनम् ||३ ||
Mahabharata -Ashvamedhika Parva -Chapter Text
वैशम्पायन उवाच |
शकुनस्तनयो वीरो गान्धाराणां महारथः |
प्रत्युद्ययौ गुडाकेशं सैन्येन महता वृतः |
हस्त्यश्वरथयुक्तेन पताकाध्वजमालिना ||१४-८५-१ (९४८६९)
अमृष्यमाणास्ते योधा नृपस्य शकुनेर्वधम् |
अभ्ययुः सहिताः पार्थं प्रगृहीतशरासनाः ||१४-८५-२ (९४८७०)
स तानुवाच धर्मात्मा बीभत्सुरपराजितः |
युधिष्ठिरस्य वचनं न च ते जगृहुर्हितम् ||१४-८५-३ (९४८७१)
वार्यमाणास्तु पार्थेन सान्त्वपूर्वममर्षिताः |
परिवार्य हयं जग्मुस्ततश्चुक्रोध पाण्डवः ||१४-८५-४ (९४८७२)
ततः शिरांसि दीप्ताग्रैस्तेषां चिच्छेद पाण्डवः |
क्षुरैर्गाण्डीवनिर्मुक्तैर्नातियत्नादिवार्जुनः ||१४-८५-५ (९४८७३)
ते वध्यमानाः पार्थेनि हयमुत्सृज्य संप्रमात् |
न्यवर्तन्त महाराज शरवर्षार्दिता भृशम् ||१४-८५-६ (९४८७४)
वितुद्यमानस्तैश्चापि गान्धारैः पाण्डुनन्दनः |
आदिस्यादिश्य तेजस्वी परानेतानवारयत् ||१४-८५-७ (९४८७५)
वध्यमानेषु तेष्वाजौ गान्धारेषु समन्ततः |
स राजा शकुनेः पुत्रः पाण्डवं प्रत्यवारयत् ||१४-८५-८ (९४८७६)
तं युध्यमानं राजानं क्षत्रधर्मे व्यवस्थितम् |
पार्थोऽब्रवीन्न मे वध्या राजानो राजसासनात् ||१४-८५-९ (९४८७७)
अलं युद्धेन ते वीर न तेऽस्त्वद्य पराजयः |
इत्युक्तस्तदनादृत्य वाक्यमज्ञानमोहितः |
स शक्रसमकर्माणं समावाकिरदाशुगैः ||१४-८५-१० (९४८७८)
तस्य् पार्थः शिरस्त्राणमर्धचन्द्रेण पत्रिणा |
अपाहरदमेयात्मा जयद्रथशिरो यथा ||१४-८५-११ (९४८७९)
तं दृष्ट्वा विस्मयं जग्मुर्गान्धाराः सर्व एव ते |
इच्छता तेन न हतो राजेत्यपि च ते विदुः ||१४-८५-१२ (९४८८०)
गान्धारराजपुत्रस्तु पलायनकृतक्षणः |
ययौ तैरेव सहितस्त्रस्तैः क्षुद्रमृगैरिव. १४-८५-१३ (९४८८१)
तेषां तु तरसा पार्थस्तत्रैव परिदावताम् |
प्रजहारोत्तमाङ्गानि भल्लैः सन्नतपर्वभिः ||१४-८५-१४ (९४८८२)
उच्छ्रितांस्तु भुजान्केचिन्नाबुध्यन्त शरैर्हृतान् |
शरैर्गाण्डीवनिर्मुक्तैः पृथुभिः पार्थचोदितैः ||१४-८५-१५ (९४८८३)
सम्भ्रान्तनरनागाश्वमपतद्विद्रुतं बलम् |
हतविद्रुतभूयिष्ठमावर्तत मुहुर्मुहुः ||१४-८५-१६ (९४८८४)
नाभ्यदृस्यन्त वीरस्य केचिदग्रेऽग्र्यकर्मणः |
रिपवः पात्यमाना वै ये सहेरन्महाशरान् ||१४-८५-१७ (९४८८५)
ततो गान्धारराजस्य मन्त्रिवृद्धपुरःसरा |
जननी निर्ययौ भीता पुरस्कृत्यार्घ्यमुत्तमम् ||१४-८५-१८ (९४८८६)
सा न्यवारयदव्यग्रा तं पुत्रं युद्धदुर्मदम् |
प्रसादयामास च तं जिष्णुमक्लिष्टकारिणम् ||१४-८५-१९ (९४८८७)
तां पूजयित्वा बीभत्सुः प्रसादमकरोत्प्रभुः |
शकुनेश्चापि तनयं सान्त्वयन्निदमब्रवीत् ||१४-८५-२० (९४८८८)
न मे प्रियं महाबाहो यत्ते बुद्धिरियं कृता |
प्रतियोद्धुममित्रघ्न भ्रातैव त्वं ममानघ ||१४-८५-२१ (९४८८९)
गान्धारीं मातरं स्मृत्वा धृतराष्ट्रकृतेन च |
तेन जीवसि राजंस्त्वं निहतास्त्वनुगास्तव ||१४-८५-२२ (९४८९०)
मैवं भूः शाम्यतां वैरं मा तेऽभूद्बुद्धिरीदृशी
आगन्तव्यं परां चैत्रीमश्वमेधे नृपस्य नः ||१४-८५-२३ (९४८९१)
इत्युक्त्वाऽनुययौ पार्थो हयं तं कामचारिणम् |
ते न्यवर्तन्त गान्धारा हतशिष्टाः स्वकं पुरम् ||||१४-८५-२४ (९४८९२)
इति श्रीमन्महाभारते आश्वमेधिकपर्वणि अनुगीतापर्वणि
पञ्चाशीतितमोऽध्यायः ||८५ ||
आश्वमेधिकपर्व -अध्याय ०८६
||श्रीः ||
१४. ८६. अध्यायः ८६
अश्वमेधपर्व ||१ ||
Mahabharata -Ashvamedhika Parva -Chapter Topics
चारमुखादर्जुनस्य तुरगसंचारणात्पुनर्नगरं
प्रत्यागमनश्रवणहृष्टस्य युधिष्ठिरस्य निदेशाद्भीमेन
यज्ञशालादिनिर्मापणम् ||१ ||
तथा नानादेशेभ्यो ब्राह्मणाद्यानयनपूर्वकं
तेषामन्नदानादिव्यवस्थाकरणम् ||२ ||
Mahabharata -Ashvamedhika Parva -Chapter Text
वैशम्पायन उवाच |
न्यवर्तत ततो वाजी येन नागाह्वयं पुरम् |
तं निवृत्तं तु शुश्राव चारेणैव युधिष्ठिरः |
श्रुत्वाऽर्जुनं कुशलिनं स च हृष्टमनाऽभवत् ||१४-८६-१ (९४८९३)
विजयस्य च तत्कर्म गान्धारविषये तदा |
श्रुत्वा चान्येषु देशेषु स सुप्रीतोऽभवत्तदा ||१४-८६-२ (९४८९४)
एतस्मिन्नेव काले तु द्वादशीं माघमासिकीम् |
इष्टं गृहीत्वा नक्षत्रं धर्मराजो युधिष्ठिरः ||१४-८६-३ (९४८९५)
समानीय महातेजाः सर्वान्भ्रातॄन्महीपतिः |
भीमं च नकुलं चैव सहदेवं च कौरव ||१४-८६-४ (९४८९६)
प्रोवाचेदं वचः काले तदा धर्मभृतांवरः |
आमन्त्र्य वदतां श्रेष्ठो भीमं प्रहरतां वरम् ||१४-८६-५ (९४८९७)
आयाति भीमसेनासौ सहाश्वेन तवानुजः |
यथा मे पुरुषाः प्राहुर्ये धनंजयसारिणः ||१४-८६-६ (९४८९८)
उपस्थितश्च कालोऽयमभितो वर्तते हयः |
माघी च पौर्णमासीयं मासः शेषो वृकोदर ||१४-८६-७ (९४८९९)
तत्प्रस्थाप्यन्तु विद्वांसो ब्राह्मणा वेदपारगाः |
वाजिमेधार्थसिद्ध्यर्थं देशं पश्यन्तु यज्ञियम् ||१४-८६-८ (९४९००)
इत्युक्तः स तु तच्चक्रे भीमो नृपतिशासनम् |
हृष्टः श्रुत्वा गुडोकेशमायान्तं पुरुषर्षभम् ||१४-८६-९ (९४९०१)
ततो ययौ भीमसेनः प्राज्ञैः स्थपतिभिः सह |
ब्राह्मणानग्रतः कृत्वा कुशलान्यज्ञकर्मणि ||१४-८६-१० (९४९०२)
तं ससालचयं श्रीमत्सप्रतोलीसुघट्टितम् |
मापयामास कौरव्यो यज्ञवाटं यताविधि ||१४-८६-११ (९४९०३)
प्रासादशतसम्बन्धं मणिप्रवरकुट्टिमम् |
' सदः स पत्नीसदनं साग्नीध्रमपि चोत्तरम्.'
कारयामास विदिवद्धेमरत्नविभूषितम् ||१४-८६-१२ (९४९०४)
स्तंभान्कनकचित्रांश्च तोरणानि बृहन्ति च |
यज्ञायतनदेशेशु दत्त्वा शुद्धं च काञ्चनम् ||१४-८६-१३ (९४९०५)
अन्तःपुराणां राज्ञां च नानादेशसमीयुषाम् |
कारयामास धर्मात्मा तत्रतत्र यथाविधि ||१४-८६-१४ (९४९०६)
ब्राह्मणानां न वेश्मानि नानादेशसमीयुषाम् |
कारयामास कौन्तेयो विधिवत्तान्यनेकशः ||१४-८६-१५ (९४९०७)
तथा सम्प्रेषयामास दूतान्नृपतिशासनात् |
भीमसेनो महाबाहो राज्ञामक्लिष्टकर्मणाम् ||१४-८६-१६ (९४९०८)
ते प्रियार्थं कुरुपतेराययुर्नृपसत्तम |
रत्नान्यनेकान्यादाय स्त्रियोऽश्वानायुधानि च ||१४-८६-१७ (९४९०९)
तेषां निर्विशतां तेषु शिबिरेषु महात्मनाम् |
नर्दतः सागरस्येव दिवस्पृगभवत्स्वनः ||१४-८६-१८ (९४९१०)
' प्रत्युद्गम्य नमस्कृत्य ब्राह्मणांश्च न्यवेदयत् ||' १४-८६-१९ (९४९११)
तेषामभ्यागतानां च स राजा कुरुवर्धनः |
व्यादिदेशान्नपानानि शय्याश्चाप्यतिमानुषाः ||१४-८६-२० (९४९१२)
वाहनानां च विविधाः शालाः शालीक्षुगोरसैः |
उपेता भरतश्रेष्ठो व्यादिदेश स धर्मराट् ||१४-८६-२१ (९४९१३)
' वर्णाः पृथक्सन्निविष्टा ह्युत्तरोत्तरपूजिताः' .
तथा तस्मिन्महायज्ञे धर्मराजस्य धीमतः |
समाजग्मुर्मुनिगणा बहवो ब्रह्मवादिनः ||१४-८६-२२ (९४९१४)
ये च द्विजातिप्रवरास्तत्रासन्पृथिवीपते |
समाजग्मुः सशिष्यांस्तान्प्रतिजग्राह कौरवः ||१४-८६-२३ (९४९१५)
सर्वांश्च ताननुययौ यावदावसथान्प्रति |
स्वयमेव महातेजा दंभं त्यक्त्वा युधिष्ठिरः ||१४-८६-२४ (९४९१६)
ततः कृत्वा स्थपतयः शिल्पिनोऽन्ये च ये तदा |
कृत्स्नं यज्ञविधिं राजन्धर्मराजे न्यवेदयन ||१४-८६-२५ (९४९१७)
तच्छ्रुत्वा धर्मराजस्तु कृतं सर्वमतन्द्रितः |
हृष्टरूपोऽभवद्राजन्सह भ्रातृभिरादृतः ||१४-८६-२६ (९४९१८)
तस्मिन्यज्ञे प्रवृत्ते तु वाग्मिनो हेतुवादिनः |
हेतुवादान्बहूनाहुः परस्परजिगीषवः ||१४-८६-२७ (९४९१९)
ददृशुस्तं नृपतयो यज्ञस्य विधिमुत्तमम् |
देवेन्द्रस्येव विहितं भीमसेनेन भारत ||१४-८६-२८ (९४९२०)
ददृशुस्तोरणान्यत्र शातकुंभमयानि ते |
शय्यासनविहारांश्च सुबहून्रत्नसंचयान् ||१४-८६-२९ (९४९२१)
घटान्पात्रीः कटाहानि कलशान्वर्धमानकान् |
न हि किञ्चिदसौवर्णमपश्यन्वसुधाधिपाः ||१४-८६-३० (९४९२२)
यूपांश्च शास्त्रपठितान्दारवान्हेमभूषितान् |
उपक्लृप्तान्यथाकालं विधिवद्भूरिवर्चसः ||१४-८६-३१ (९४९२३)
स्थलजाक जलजा ये च पशवः केचन प्रभो |
सर्वानेव समानीतानपश्यंस्तत्र ते नृपाः ||१४-८६-३२ (९४९२४)
गाश्चैव महिषीश्चैव तथा वृद्धस्त्रियोपि च |
औदकानि च सत्वानि श्वापदानि वयांसि च ||१४-८६-३३ (९४९२५)
जरायुजाण्डजातानि स्वेदजान्युद्भिदानि च |
पर्वतानूपजातानि भूतानि ददृशुश्च ते ||१४-८६-३४ (९४९२६)
एवं प्रमुदितं सर्वं पशुगोधनधान्यतः |
यज्ञवाटं नृपा दृष्ट्वा परं विस्मयमागताः ||१४-८६-३५ (९४९२७)
' अनिशं दीयते च स्म तत्र भोज्यं पृथग्विधम् ||'
ब्राह्मणानां विशां चैव बहुमृष्टान्नमृद्धिमत् ||१४-८६-३६ (९४९२८)
पूर्णे शतसहस्रे तु विप्राणां तत्रि भुञ्जताम् |
दुन्दुभिर्मेघनिर्घोषो मुहुर्मुहुरताड्यत |
विननादासकृच्चापि दिवसेदिवसे गते ||१४-८६-३७ (९४९२९)
एवं स ववृते यज्ञो धर्मराजस्य धीमतः |
अन्नस्य सुबहून्राजन्नुत्सर्गान्पर्वतोपमान् |
दधिकुल्याशाच ददृशुः सर्पिषश्च ह्रदाञ्जनाः ||१४-८६-३८ (९४९३०)
जंबूद्वीपो हि सकलो नानजनपदायुतः |
राजन्नदृस्यतैकस्थो राज्ञस्तस्य महामखे ||१४-८६-३९ (९४९३१)
तत्र जातिसहस्राणि पुरुषाणां ततस्ततः |
गृहीत्वा धमाजग्मुर्बहूनि भरतर्षभ ||१४-८६-४० (९४९३२)
स्रग्विणश्तापि ते सर्वे सुमुष्टमणिकुण्डलाः |
पर्यवेषन्द्विजातींस्ताञ्शतशोऽथ सहस्रशः ||१४-८६-४१ (९४९३३)
विविधान्यन्नपानानि पुरुषा येऽनुयायिनः |
ते वै नृपोपभोज्यानि ब्राह्मणानां ददुश्च ह ||||१४-८६-४२ (९४९३४)
इति श्रीमन्महाभारते आश्वमेधिकपर्वणि अनुगीतापर्वणि
षडशीतितमोऽध्यायः ||८६ ||
Mahabharata -Ashvamedhika Parva -Chapter Footnotes
७-८६-३ इष्टं नक्षत्रं पुष्यम् ||
७-८६-८ प्रस्थाप्यन्तु प्रस्थापयन्तु | स्वार्थे णिच्. प्रतिष्ठन्त्वित्यर्थः ||
आश्वमेधिकपर्व -अध्याय ०८७
||श्रीः ||
१४. ८७. अध्यायः ८७
अश्वमेधपर्व ||१ ||
Mahabharata -Ashvamedhika Parva -Chapter Topics
कृष्णेन बलरामादिभिः सह युधिष्ठिराश्वमेधाय
हास्तिनपुरंप्रत्यागमनम् ||१ ||
तथा युधिष्ठिरंप्रति नानादेशेभ्य आगमिष्यतां राज्ञामप्रमादेन
यथोचितपूजाया मणलूरादागमिष्यतो बभ्रुवाहनस्य संमाननस्य च
कर्तव्यताप्रतिपादकार्जुनसंदेशनिवेदनम् ||२ ||
Mahabharata -Ashvamedhika Parva -Chapter Text
वैशम्पायन उवाच |
समागतान्वेदविदो राज्ञश्च पृथिवीश्वरान् |
दृष्ट्वा युधिष्ठिरो राजा भीमसेनमभाषत ||१४-८७-१ (९४९३५)
उपयाता नरव्याघ्रा य एते पृथिवीश्वराः |
एतेषां क्रियतां पूजा पूजार्हा हि नराधिपाः ||१४-८७-२ (९४९३६)
इत्युक्तः स तथा चक्रे नरेन्द्रेण यशस्विना |
भीमसेनो महातेजा यमाभ्यां सह पाण्डवः ||१४-८७-३ (९४९३७)
अथाभ्यगच्छद्गोविन्दो वृष्णिभिः सह धर्मजम् |
बलदेवं पुरस्कृत्य सर्वप्राणभूतां वरः ||१४-८७-४ (९४९३८)
युयुधानेन सहितः प्रद्युम्नेन गदेन च |
निशठेनाथ सांबेन तथैव कृतवर्मणा ||१४-८७-५ (९४९३९)
तेषामपि परां पूजां चक्रे भीमो महारथः |
विविशुस्ते च वेश्मानि रत्नवन्ति च सर्वशः ||१४-८७-६ (९४९४०)
युधिष्ठिरसमीपे तु कथान्ते मधुसूदनः |
अर्जुनं कथयामास बहुसङ्ग्रामकर्शितम् ||१४-८७-७ (९४९४१)
स तं प्रपच्छ कौन्तेयः पुनःपुनररिंदमम् |
धर्मजः शक्रजं जिष्णुं समाचष्ट जगत्पतिः ||१४-८७-८ (९४९४२)
आगमद्द्वारकावासी समाप्तः पुरुषो नृप |
योऽद्राक्षीत्पाण्डवश्रेष्ठ बहुसङ्ग्रामकर्शितम् ||१४-८७-९ (९४९४३)
समीपे च महाबाहुमाचष्ट च मम प्रभो |
कुरु कार्याणि कौन्तेय हयमेधार्थसिद्धये ||१४-८७-१० (९४९४४)
इत्युक्तः प्रत्युवाचैनं धर्मराजो युधिष्ठिरः |
दिष्ट्या स कुशली जिष्णुरुपायाति च माधव ||१४-८७-११ (९४९४५)
यदिदं संदिदेशास्मिन्पाण्डवानां बलाग्रणीः |
तदाख्यातमिहेच्छामि भवता यदुनन्दन ||१४-८७-१२ (९४९४६)
इत्युक्तो धर्मराजेन वृष्ण्यन्धकपतिस्तदा |
प्रोवाचेदं वचो वाग्मी धर्मात्मानं युधिष्ठिरम् ||१४-८७-१३ (९४९४७)
इदमाह महाराज पार्थवाक्यं नरेश्वरः |
वाच्यो युधिष्ठिरः कृष्ण काले वाक्यमिदं मम ||१४-८७-१४ (९४९४८)
आगमिष्यन्ति राजानः सर्वे वै कौरवर्षभ |
प्राप्तानां महतां पूजा कार्या ह्येतत्क्षमं हि नः ||१४-८७-१५ (९४९४९)
इत्येतद्वचनाद्राजा विज्ञाप्यो मम मानद |
तथा चात्ययिकं न स्याद्यदर्घाहरणेऽभवत् ||१४-८७-१६ (९४९५०)
कर्तुमर्हति तद्राजा भवांश्चाप्यनुमन्यताम् |
राजद्वेषान्न नश्येयुरिमा राजन्पुनः प्रजाः ||१४-८७-१७ (९४९५१)
इदमन्यच्च कौन्तेय वचः स पुरुषोऽब्रवीत् |
धनंजयस्य नृपते तन्मे निगदतः शृणु ||१४-८७-१८ (९४९५२)
उपयास्यति यज्ञं नो मणलूरपतिर्नृपः |
पुत्रो मम महातेजा दयितो बभ्रुवाहनः ||१४-८७-१९ (९४९५३)
तं भवान्मदपेक्षार्थं विधिवत्प्रतिपूजयेत् |
स तु भक्तोऽनुरक्तश्च मम नित्यमिति प्रभो ||१४-८७-२० (९४९५४)
इत्येतद्वचनं श्रुत्वा धर्मराजो युधिष्ठिरः |
अभिनन्द्यास्य तद्वाक्यमिदं वचनमब्रवीत् ||||१४-८७-२१ (९४९५५)
इति श्रीमन्महाभारते आश्वमेधिकपर्वणि अनुगीतापर्वणि
सप्ताशीतितमोऽध्यायः ||८७ ||
Mahabharata -Ashvamedhika Parva -Chapter Footnotes
७-८७-७ भोजराजन्यानां वर्धनः ||
७-८७-८ जानुनोरधस्थः पश्चाद्भागीयो मांसलः प्रदेशः पिण्डिका
. ते उभे अस्याधिके स्वदेशादधोभागपर्यन्तं बहुलमालम्बमाने ||
आश्वमेधिकपर्व -अध्याय ०८८
||श्रीः ||
१४. ८८. अध्यायः ८८
अश्वमेधपर्व ||१ ||
Mahabharata -Ashvamedhika Parva -Chapter Topics
युधिष्ठिरेणि पाण्डवेषु चतुर्भ्योऽर्जुनस्यैव
विशेषतोऽध्वसंचारादिपरिक्लेशसूचकशारीरालक्षणप्रश्ने
कृष्णेन तंप्रति तत्कथनम् ||१ ||
मेध्याश्वस्य पृथ्वीसंचारणाय गतेनार्जुनेन सहाश्वेन पुनर्नगरं
प्रत्यागमनम् ||३ ||
Mahabharata -Ashvamedhika Parva -Chapter Text
युधिष्ठिर उवाच |
श्रुतं प्रियमिदं कृष्ण यत्त्वमर्हसि भाषितुम् |
तन्मेऽमृतरसं पुण्यं मनो ह्लादयति प्रभो ||१४-८८-१ (९४९५६)
बहूनि किल युद्धानि विजयस्य नराधिपैः |
पुनरासन्हृषीकेश तत्रतत्रेति न श्रुतम् ||१४-८८-२ (९४९५७)
किंनिमित्तं स नित्यं हि पार्थः सुखविवर्जितः |
अतीव विजयो धीमानिति मे दूयते मनः ||१४-८८-३ (९४९५८)
संचिन्तयामि कौन्तेयं रहो जिष्णुं जनार्दन |
अतीव दुःखभागी स सततं पाण्डुनन्दनः ||१४-८८-४ (९४९५९)
किंनु तस्य शरीरेऽस्ति सर्वलक्षणपूजिते |
अनिष्टं लक्षणं कृष्ण येन दुःखान्युपाश्नुते ||१४-८८-५ (९४९६०)
अतीवासुखभोगी स सततं कुन्तिनन्दनः |
न हि पश्यामि बीभत्सोर्निन्द्यं गात्रेषु किंचन |
श्रोतव्यं चेन्मयैतद्वै तन्मे व्याख्यातुमर्हसि ||१४-८८-६ (९४९६१)
इत्युक्तः स हृषीकेशो ध्यात्वा सुमहदन्तरम् |
राजानं भोजराजन्यवर्धनो विष्णुरब्रवीत् ||१४-८८-७ (९४९६२)
न ह्यस्य नृपते किञ्चिदनिष्टमुपलक्षये |
ऋते पुरुषसिंहस्य पिण्डिकेऽस्याधिके यतः ||१४-८८-८ (९४९६३)
स ताभ्यां पुरुषव्याघ्रो नित्यमध्वसु वर्तते |
न चान्यदनुपश्यामि येनासौ दुःखभाजनम् ||१४-८८-९ (९४९६४)
इत्युक्तः पुरुषश्रेष्ठस्तदा कृष्णेन धीमता |
प्रोवाच वृष्णिशार्दूलमेवमेतदिति प्रभो ||१४-८८-१० (९४९६५)
कृष्णा तु द्रौप्दी कृष्णं तिर्यक्सासूयमैक्षत
प्रतिजग्राह तस्यास्तं प्रणयं चापि केशिहा |
प्रख्युः सखा हृषीकेशः साक्षादिव धनंजयः ||१४-८८-११ (९४९६६)
तत्र भीमादयस्ते तु करवो याजकाश्च ये |
रेमुः श्रुत्वा विचित्रां तां धनंजयकथां शुभाम् ||१४-८८-१२ (९४९६७)
तेषां कथयतामेव पुरुषोऽर्जुनसंकथाः |
उपायाद्वचनाद्दूतो विजयस्य महात्मनः ||१४-८८-१३ (९४९६८)
सोभिगम्य कुरुश्रेष्ठं नमस्कृत्य च बुद्धिमान् |
उपायातं नरव्याघ्रं फल्गुनं प्रत्यवेदयत् ||१४-८८-१४ (९४९६९)
तच्छ्रुत्वा नृपतिस्तस्य हर्षबाष्पाकुलेक्षणः |
प्रियाख्याननिमित्तं वै ददौ बहुधनं तदा ||१४-८८-१५ (९४९७०)
ततो द्वितीये दिवसे महाञ्शब्दो व्यवर्धत |
आगच्छति नरव्याघ्रे कौरवाणां धुरंधरे ||१४-८८-१६ (९४९७१)
ततो रेणुः समुद्भुतो विबभौ तस्य वाजिनः |
अभितो वर्तमानस्य यथोच्चैःश्रवसस्तथा ||१४-८८-१७ (९४९७२)
तत्र हर्षकरीर्वाचो नराणां शुश्रुवेऽर्जुनः |
दिष्ट्याऽसि पार्थ कुशली धन्यो राजा युधिष्ठिरः ||१४-८८-१८ (९४९७३)
कोन्योहि पृथिवीं कृत्स्नां जित्वाहि युधि पार्थिवान्
चारयित्वा हयश्रेष्ठमुपागच्छेदृतेऽर्जुनात् ||१४-८८-१९ (९४९७४)
ये व्यतीता महात्मानो राजानः सगरादयः |
तेषामपीदृशं कर्म न कदाचन शुश्रुम ||१४-८८-२० (९४९७५)
नैतदन्ये करिष्यन्ति भविष्या वसुधाधिपाः |
यत्त्वं कुरुकुलश्रेष्ठ दुष्करं कृतवानसि ||१४-८८-२१ (९४९७६)
इत्येवं वदतां तेषां पुंसां कर्णसुखा गिरः |
शृण्वन्विवेश धर्मात्मा फल्गुनो यज्ञसंस्तरम् ||१४-८८-२२ (९४९७७)
ततो राजा सहामात्यः कृष्णश्च यदुनन्दनः |
धृतराष्ट्रं पुरस्कृत्य तं प्रत्युद्ययतुस्तदा ||१४-८८-२३ (९४९७८)
सोऽभिवाद्य पितुः पादौ धर्मराजस्य धीमतः |
भीमादींश्चापि संपूज्य पर्यष्वजत केशवम् ||१४-८८-२४ (९४९७९)
तैः समेत्यार्चितस्तांश्च प्रत्यर्च्याथ यथाविधि |
विशश्राम महाबाहुस्तीरं लब्ध्वेव पारगः ||||१४-८८-२५ (९४९८०)
इति श्रीमन्महाभारते आश्वमेधिकपर्वणि अनुगीतापर्वणि
अष्टाशीतितमोऽध्यायः ||८८ ||
आश्वमेधिकपर्व -अध्याय ०८९
||श्रीः ||
१४. ८९. अध्यायः ८९
अश्वमेधपर्व ||१ ||
Mahabharata -Ashvamedhika Parva -Chapter Topics
बभ्रुवाहनेनोलूपीचित्राङ्गदाभ्यां सह यागदिदृक्ष्या हास्तिनपुरं
प्रत्यागमनम् ||१ ||
ततः स्वयं समागतव्यासाज्ञय युधिष्ठिरेण ऋत्विग्भिः
सहाश्वमेधोपक्रमः ||२ ||
Mahabharata -Ashvamedhika Parva -Chapter Text
वैशम्पायन उवाच |
एतस्मिन्नेव काले तु स राजा बभ्रुवाहनः |
मातृभ्यां सहितो धीमान्कुरूनभ्याजगाम ह ||१४-८९-१ (९४९८१)
तत्र वृद्धान्यथावत्स कुरूनन्यांश्च पार्थिवान् |
अभिवाद्य महाबाहुस्तैश्चापि प्रतिनन्दितः |
प्रविवेश पितामह्याः कुन्त्या भवनमुत्तमम् ||१४-८९-२ (९४९८२)
स प्रविश्य महाबाहुः पाण्डवानां निवेशनम् |
पितामहीमभ्यवन्दत्साम्ना परमवल्गुना ||१४-८९-३ (९४९८३)
तथा चित्राङ्गदा देवी कौरवस्यात्मजाऽपि च |
पृथां कृष्णां च सहिते विनयेनोपजग्मतुः |
सुभद्रां च यथान्यायं याश्चान्याः कुरुयोषितः ||१४-८९-४ (९४९८४)
ददौ कुन्ती ततस्ताभ्यां रत्नानि विविधानि च |
द्रौपदी च सुभद्रा च याश्चाप्यन्या यदुस्त्रियः ||१४-८९-५ (९४९८५)
ऊषतुस्तत्र ते देव्यौ महार्ङशयनासने |
सुपूजिते स्वयं कुन्त्या पार्थस्य हितकाम्यया ||१४-८९-६ (९४९८६)
स च राजा महातेजाः पूजितो बभ्रुवाहनः |
धूतराष्ट्रं महीपालमुपतस्थे यताविधि ||१४-८९-७ (९४९८७)
युधिष्ठिरं च राजानं भीमदींश्चापि पाण्डवान् |
उपागम्य महातेजा विनयेनाभ्यवादयत् ||१४-८९-८ (९४९८८)
स तैः प्रेम्या परिष्वक्तः पूजितश्च यथाविधि |
धनं चास्मै ददुर्भूरि प्रीयमाणा महारथाः ||१४-८९-९ (९४९८९)
तथैव च महीपालः कृष्णं चक्रगदाधरम् |
प्रद्युम्न इव गोविन्दं विनयेनोपतस्थिवान् ||१४-८९-१० (९४९९०)
तस्मै कृष्णो ददौ राज्ञे महार्हमतिपूजितम् |
रथं हेमपरिष्कारं दिव्याश्वयुजमुत्तमम् ||१४-८९-११ (९४९९१)
धर्मराजश्च भीमश्च फल्गुनश्च यमौ तथा |
पृथक्पृथक् च ते चैनं मानार्थाभ्यामयोजयन् ||१४-८९-१२ (९४९९२)
ततस्तृतीये दिवसे सत्यवत्यात्मजो मुनिः |
युधिष्ठिरं समभ्येत्य वाग्मी वचनमब्रवीत् ||१४-८९-१३ (९४९९३)
अद्यप्रभृति कौन्तेय यज्ञस्य समयो हि ते |
मुहूर्तो यज्ञियः प्राप्तश्चोदयन्तीह याजकाः ||१४-८९-१४ (९४९९४)
अहीनो नाम राजेन्द्र क्रतुस्तेऽयं विकल्पवान् |
बहुत्वात्काञ्चनस्यास्य ख्यातो बहुसुवर्णकः ||१४-८९-१५ (९४९९५)
एवमत्र महाराज दक्षिणाभिर्गुणीकुर |
श्रीस्त्वां व्रजतु ते राजन्ब्राह्मणा ह्यत्र कारणम् ||१४-८९-१६ (९४९९६)
त्रीनश्वमेधानत्र त्वं सम्प्राप्य बहुदक्षिणान् |
ज्ञातिवध्याकृतं पापं प्रहास्यति नराधिप ||१४-८९-१७ (९४९९७)
पवित्रं परमं चैतत्पावनानां च पावनम् |
यदश्वमेधावभृथं प्राप्स्यसे कुरुनन्दन ||१४-८९-१८ (९४९९८)
इत्युक्तः स तु तेजस्वी व्यासेनामितबुद्धिना |
दीक्षां विवेश धर्मात्मा वाजिमेधाप्तये ततः ||१४-८९-१९ (९४९९९)
ततो यज्ञं महाबाहुर्वाजिमेधं महाक्रतुम् |
बह्वन्नदक्षिणं राजा सर्वकामगुणान्वितम् ||१४-८९-२० (९५०००)
तत्र वेदविदो राजंश्चक्रुः कर्माणि याजकाः |
परिक्रामन्ति शास्त्रज्ञा यतावद्द्विजसत्तमाः ||१४-८९-२१ (९५००१)
न तेषां स्खलितं किञ्चिदासीदपहुतं तथा |
क्रमयुक्तं च युक्तं च चक्रुस्तत्र द्विजर्षभाः ||१४-८९-२२ (९५००२)
कृत्वा प्रवर्ग्यं धर्मज्ञा यथावद्द्विजसत्तमाः |
चक्रस्ते विधिवद्राजंस्तथैवाभिषवं द्विजाः ||१४-८९-२३ (९५००३)
अभिषूय ततो राजन्सोमं सोमपसत्तमाः |
सवनान्यानुपूर्व्येण चक्रुः सास्त्रानुसारिणः ||१४-८९-२४ (९५००४)
न तत्र कृपणः कश्चिन्न दरिद्रो बभूव ह |
क्षुधितो दुःखितो वाऽपि प्राकृतो वाऽपि मानवः ||१४-८९-२५ (९५००५)
भोजनं भोजनार्थिभ्यो दापयामास शत्रुहा |
भीमसेनो महातेजाः सततं राजशासनात् ||१४-८९-२६ (९५००६)
संस्तरे कुशलाश्चापि सर्वकार्याणि याजकाः |
दिवसेदिवसे चक्रुर्यथाशास्त्रानुदर्शात् ||१४-८९-२७ (९५००७)
नाषडङ्गविदत्रासीत्सदस्यस्तस्य धीमतः |
नाव्रतो नानुपाध्यायो न च वादाविचक्षणः ||१४-८९-२८ (९५००८)
ततो यूपोच्छ्रये प्राप्ते षड् बैल्वान्भरतर्षभ |
खादिरान्बिल्वसमितांस्तावतः सर्ववर्णिनः ||१४-८९-२९ (९५००९)
देवदारुमयौ द्वौ तु यूपौ कुरुपतेर्मखे |
श्लेष्मातकमयं चैकं याजकाः समकल्पयन् ||१४-८९-३० (९५०१०)
' सर्वानेतान्यथाशास्त्रं याजकाः समकारयन्.'
शोभार्थं चापरान्यूपान्काञ्चनान्भरतर्षभ |
स भीमः कारयामास धर्मराजस्य शासनात् ||१४-८९-३१ (९५०११)
ते व्यराजन्त राजर्षे वासोभिरुपशोभिताः |
महेन्द्रानुगता देवा यथा सप्तर्षिभिर्दिवि ||१४-८९-३२ (९५०१२)
इष्टकाः काञ्चनीश्चात्र चयनार्तं कृता विभो |
शुशुभे चयनं तच्च दक्षस्येव प्रजापतेः ||१४-८९-३३ (९५०१३)
चतुश्चित्यश्च तस्यासीदष्टादशकरात्मकः |
स रुक्मपक्षो निचितस्त्रिकोणो गरुडाकृतिः ||१४-८९-३४ (९५०१४)
ततो नियुक्ताः पशवो यथाशास्त्रं मनीषिभिः |
तं तं देवं समुद्दिश्य पक्षिणः पशवश्च ये ||१४-८९-३५ (९५०१५)
ऋषभाः शास्त्रपठितास्तथा जलचराश्च ये |
सर्वांस्तानभ्ययुञ्जंस्ते तत्राग्निचयकर्मणि ||१४-८९-३६ (९५०१६)
यूपेषु नियता चासीत्पशूनां त्रिशती तथा |
अश्वरत्नोत्तरा यज्ञे कौन्तेयस्य महात्मनः ||१४-८९-३७ (९५०१७)
स यज्ञः शुशुभे तस्य साक्षाद्देवर्षिसंकुलः |
गन्धर्वगणसंकीर्णः शोभितोऽप्सरसां गणैः ||१४-८९-३८ (९५०१८)
स किंपुरुषसंकीर्णः किंनरैश्चोपशोभितः |
सिद्धविप्रनिवासैश्च समन्तादभिसंवृतः ||१४-८९-३९ (९५०१९)
तस्मिन्सदसि नित्यास्तु व्यासशिष्या द्विजर्षभाः |
सर्वशास्त्रप्रणेतारः कुशला यज्ञकर्मसु ||१४-८९-४० (९५०२०)
नारदश्च बभूवात्र तुंबुरुश्च महाद्युतिः |
विश्वावसुश्चित्रसेनस्तथाऽन्ये गीतकोविदाः ||१४-८९-४१ (९५०२१)
गन्धर्वा गीतकुशला नृत्येषु च विशारदाः |
रमयन्ति स्म तान्विप्रान्यज्ञकर्मान्तरेषु वै ||||१४-८९-४२ (९५०२२)
इति श्रीमन्महाभारते आश्वमेधिकपर्वणि अनुगीतापर्वणि
एकोननवतितमोऽध्यायः ||८९ ||
Mahabharata -Ashvamedhika Parva -Chapter Footnotes
७-८९-१५ अहीनः अह्नां सोमयागानां बहूनां समूहोऽहीनः | न हीनः
द्रव्यादिना इति वा ||
७-८९-२३ अभिषव सोमवल्ल्याः कण्डनम् ||
७-८९-२४ सोमं सोमवल्लीरसम् | सवनानि प्रातःसवनादीनि ||
७-८९-२७ संस्तरे इष्टकानां चयनाख्ये स्थण्डिलरचने ||
७-८९-२९ वर्णिनः पलाशकाष्ठमयाः ||
आश्वमेधिकपर्व -अध्याय ०९०
||श्रीः ||
१४. ९०. अध्यायः ९०
अश्वमेधपर्व ||१ ||
Mahabharata -Ashvamedhika Parva -Chapter Topics
युधिष्ठिरेणाश्वमेधसमापनानन्तरं राज्ञां यथोचितं
संमानपूर्वकं स्वस्वदेशान्प्रति प्रस्थापनम् ||१ ||
Mahabharata -Ashvamedhika Parva -Chapter Text
वैशम्पायन उवाच |
श्रपयित्वा पशूनन्यान्विधिवद्द्विजसत्तमाः |
तं तुरङ्गं यथाशास्त्रमालभन्त द्विजातयः ||१४-९०-१ (९५०२३)
ततः संज्ञप्य तुरगंक विधिवद्याजकर्षभाः |
उपसंवेशयांचक्रुस्ततस्तां द्रुपदात्मजाम् |
कलाभिस्तिसृभी राजन्यथाविधि मनस्विनीम् ||१४-९०-२ (९५०२४)
उद्धृत्य तु वपां तस्य यथाशास्त्रं द्विजातयः |
श्रपयामासुरव्यग्रा विधिवद्भरतर्षभ ||१४-९०-३ (९५०२५)
तं वपाधूमगन्धं तु धर्मराजः सहानुजैः |
उपाजिघ्रद्यथासास्त्रं सर्वपापापहं तदा ||१४-९०-४ (९५०२६)
शिष्टान्यङ्गानि यान्यासंस्तस्याश्वस्य नराधिप |
तान्यग्रौ जुहुवुर्धीराः समस्ताः षोडशर्त्विजः ||१४-९०-५ (९५०२७)
संस्थाप्यैवं तस्य राज्ञस्तं यज्ञं शक्रतेजसः |
व्यासः सशिष्यो भगवान्वर्धयामास तं नृपम् ||१४-९०-६ (९५०२८)
ततो युधिष्ठिरः प्रादात्सदस्येभ्यो यथाविधि |
कोटीः सहस्रं निष्काणां व्यासाय तु वसुंधराम् ||१४-९०-७ (९५०२९)
प्रतिगृह्य धरां राजन्व्यासः सत्यवतीसुतः |
अब्रवीद्भरतश्रेष्ठं धर्मराजं युधिष्ठिरम् ||१४-९०-८ (९५०३०)
वसुधा भवतस्त्वेषां संन्यस्ता राजसत्तम |
निष्क्रयो दीयतां मह्यं ब्राह्मणा हि धनार्थिना ||१४-९०-९ (९५०३१)
युधिष्ठिरस्तु तान्विप्रान्प्रत्युवाच महामनाः |
भ्रातृभिः सहितो धीमान्मध्ये राज्ञां महात्मनाम् ||१४-९०-१० (९५०३२)
अश्वमेधे महायज्ञे पृथिवी दक्षिणा स्मृता |
अर्जुनेन जिता चेयमृत्विग्भ्यः प्रापिता मया ||१४-९०-११ (९५०३३)
वनं प्रवेक्ष्ये विप्राग्र्या विभजध्वं महीमिमाम् |
चतुर्धा पृथिवीं कृत्वा चातुर्होत्रप्रमाणतः ||१४-९०-१२ (९५०३४)
नाहमादातुमिच्छामि ब्रह्मस्वं द्विजसत्तमाः ||
इदं नित्यं मनो विप्रा भ्रातॄणां चैव मे सदा ||१४-९०-१३ (९५०३५)
इत्युक्तवति तस्मिंस्तु भ्रातरो द्रौपदी च सा |
एवमेतदिति प्राहुस्तदभूद्रोमहर्षणम् ||१४-९०-१४ (९५०३६)
ततोऽन्तरिक्षे वागासीत्साधुसाध्विति भारत |
तथैव द्विजसङ्घानां शंसतां विबभौ स्वनः ||१४-९०-१५ (९५०३७)
द्वैपायनस्तथा कृष्णः पुनरेव युधिष्ठिरम् |
प्रोवाच मध्ये विप्राणामिदं सम्पूजयन्मुनिः ||१४-९०-१६ (९५०३८)
दत्तैषा भवता मह्यं तां ते प्रतिददाम्यहम् |
हिरण्यं दीयतामेभ्यो ब्राह्मणेभ्यो धराऽस्तु ते ||१४-९०-१७ (९५०३९)
ततोऽब्रवीद्वासुदेवो धर्मराजं युधिष्ठिरम् |
यथाऽऽह भगवान्व्यासस्तथा त्वं कर्तुमर्हसि ||१४-९०-१८ (९५०४०)
इत्युक्तः स कुरुश्रेष्ठः प्रीतात्मा भ्रातृभिः सह |
कोटिं कोटिं गवां प्रादाद्दक्षिणां त्रिगुणीकृताम् ||१४-९०-१९ (९५०४१)
न करिष्यति तल्लोके कश्चिदन्यो नराधिपः |
यत्कृतं कुरुराजेन मरुत्तस्यानुकुर्वता ||१४-९०-२० (९५०४२)
प्रतिगृह्य तु तद्द्रव्यं कृष्णद्वैपायनो मुनिः |
ऋत्विग्भ्यः प्रददौ विद्वांश्चतुर्धा व्यभजंश्च ते ||१४-९०-२१ (९५०४३)
धरण्या निष्क्रयं दत्त्वा तद्धिरण्यं युधिष्ठिरः |
दूतपापो जितस्वर्गो मुमुदे भ्रातृभिः सह ||१४-९०-२२ (९५०४४)
ऋत्विजस्तमपर्यन्तं सुवर्णनिचयं तथा |
व्यभजन्त द्विजातिभ्यो यथोत्साहं यथासुखम् ||१४-९०-२३ (९५०४५)
यज्ञवाटे च यत्किञ्चिद्धिरण्यं सवि भूषणम् |
तोरणानि च यूपांश्च घटान्पात्रीस्तथेष्टकाः |
युधिष्ठिराभ्यनुज्ञाताः सर्वं तद्व्यभजन्द्विजाः ||१४-९०-२४ (९५०४६)
अनन्तरं द्विजातिभ्यः क्षत्रिया जह्रिरे वसु |
तथा विट्शूद्रसङ्घाश्च तथाऽन्ये म्लेच्छजातयः |
' कालेन महता जह्रुस्तत्सुवर्णं ततस्ततः ||' १४-९०-२५ (९५०४७)
ततस्ते ब्राह्मणाः सर्वे मुदिता जग्मुरालयान् |
तर्पिता वसुना तेन धर्मिराजेन धीमिता ||१४-९०-२६ (९५०४८)
स्वमंशं भगवान्व्यासः कुन्त्यै पादाभिवादितः |
प्रददौ तस्य महतो हिरण्यस्य महाद्युतिः ||१४-९०-२७ (९५०४९)
श्वशुरात्प्रीतिदायं तं प्राप्य सा प्रीतमानसा |
चकार पुण्यकं तेन सुमहत्सङ्घशः पृथा ||१४-९०-२८ (९५०५०)
गत्वा त्ववभृथं राजा विपाप्मा भ्रातृभिः सह |
सभाज्यमानः शुशुभे महेन्द्रस्त्रिदशैरिव ||१४-९०-२९ (९५०५१)
पाण्डवाश्च महीपालैः समेतैरभिसंवृताः |
अशोभन्त महाराज ग्रहस्तारागणैरिव ||१४-९०-३० (९५०५२)
राजभ्योपि ततः प्रादाद्रत्नानि विविधानि च |
गजानश्वानलङ्कारान्त्रियो वासांसि काञ्चनम् ||१४-९०-३१ (९५०५३)
तद्धनौघमपर्यन्तं पार्थः पार्थिवमण्डले |
विसृजञ्शुशुभे राजन्यथा वैश्रवणस्तथा ||१४-९०-३२ (९५०५४)
आनीय च तथा वीरं राजानं बभ्रुवाहनम् |
प्रदाय विपुलं वित्तं गृहात्प्रास्थापयनत्तदा ||१४-९०-३३ (९५०५५)
दुःशलायाश्च तं पौत्रं बालकं भरतर्षभ |
स्वराज्येऽथ पितुर्धामान्स्वसुः प्रीत्या न्वयेशयत् ||१४-९०-३४ (९५०५६)
नृपतींश्चैव तान्सर्वान्सुविभक्तान्सुपूजितान् |
प्रस्थापयामास वशी कुरुराजो युधिष्ठिरः ||१४-९०-३५ (९५०५७)
गोविन्दं च महात्मानं बलदेवं महाबलम् |
तथाऽन्यान्वृष्णिवीरांश्च प्रद्युम्नाद्यान्सहस्रशः ||१४-९०-३६ (९५०५८)
पूजयित्वा महाराज यथाविधि महाद्युतिः |
भ्रातृभिः सहितो राजा प्रास्थापरयदरिंदमः ||१४-९०-३७ (९५०५९)
एवं बभूव यज्ञः स धर्मिराजस्य धीमतः |
बह्वन्नधनरत्नौघः सुरामैरेयसागरः ||१४-९०-३८ (९५०६०)
सर्पिःपङ्का ह्रदा यत्र बभूवुश्चान्नपर्वताः |
रसालकर्दमा नद्यो बभूवुर्भरतर्षभ ||१४-९०-३९ (९५०६१)
भक्ष्यखाण्डवरागाणां क्रियतां भुज्यतां तथा |
पशूनां वध्यतां चैव नान्तं ददृशिरे जनाः ||१४-९०-४० (९५०६२)
मत्तप्रमत्तमुदितं सुप्रीतयुवतीजनम् |
मृदङ्गशङ्खनादैस्च मनोरममभूत्तदा. १४-९०-४१ (९५०६३)
दीयतां भुज्यतां चापि तत्र शब्दो महानभूत् |
दीयतां दीयतां चेति दिवारात्रमवारितम् ||१४-९०-४२ (९५०६४)
तं महोत्सवसंकाशं हृष्टपुष्टजनाकुलम् |
कथयन्ति स्म पुरुषा नानादेशनिवासिनः ||१४-९०-४३ (९५०६५)
वर्षित्वा धनधाराभिः कामै रत्नै रसैस्तथा |
विपाप्मा भरतश्रेष्ठः कृतार्थः प्राविशत्पुरम् ||||१४-९०-४४ (९५०६६)
इति श्रीमन्महाभारते आश्वमेधिकपर्वणि अनुगीतापर्वणि
नवतितमोऽध्यायः ||९० ||
Mahabharata -Ashvamedhika Parva -Chapter Footnotes
७-९०-२ संज्ञप्य हिंसित्वा तुरगम् | तस्य समीपे तिसृभिः कलाभिः
कलनाभिः मन्त्रद्रव्यश्रद्दाख्याभिरुपेतां द्रौपदीं उपसंवेशयां
चक्रुः ||
७-९०-५ अङ्गानि हृदयजिह्वावक्षआदीनी ||
७-९०-६ संस्थाप्य समाप्य ||
७-९०-७ तुशब्दश्चार्थे | तेन सर्वेभ्यो वसुधरां ददावित्यर्थः ||
७-९०-२५ अनन्तरं द्विजातिभ्यः विप्रेषु गृहीत्वा निवृत्तेषु शिष्टात्
क्षत्रियादयो गहीतवन्त इत्यर्थः ||
७-९०-३८ मैरेयं वृक्षजं मद्यम् ||
७-९०-४० पिप्पलीशुण्ठीयुक्तो मुद्गयूषः खाण्डवः स एव शर्कारयुक्तो रागः
आश्वमेधिकपर्व -अध्याय ०९१
||श्रीः ||
१४. ९१. अध्यायः ९१
अश्वमेधपर्व ||१ ||
Mahabharata -Ashvamedhika Parva -Chapter Topics
वैशम्पायनेन जनमेजयंप्रति नकुलाख्यानकथनारम्भः ||१ ||
अश्वमेधावसाने बिलान्निस्सृतेन कनकपार्श्वेन केनचिन्नकुलेन
सदस्यान्प्रति उञ्छवृत्तिब्राह्मणस्य सक्तुप्रस्थदानप्रशंसनपूर्वकं
युधिष्ठिराश्वमेधगार्हणम् ||२ ||
. तथा सदस्यचोदनया तत्कथनोपक्रमः ||३ ||
Mahabharata -Ashvamedhika Parva -Chapter Text
जनमेजय उवाच |
पितामहस्य मे यज्ञे धर्मराजस्य धीमतः |
यदाश्चर्यमभूत्किञ्चित्तद्भवान्वक्तुमर्हति ||१४-९१-१ (९५०६७)
वैशम्पायन उवाच. १४-९१-२क्ष् (७९२३)
श्रूयतां राजशार्दूल महदाश्चर्यमुत्तमम् |
अश्वमेधे महायज्ञे निवृत्ते यदभूत्प्रभो ||१४-९१-२ (९५०६८)
तर्पितेषु द्विजाग्र्येषु ज्ञातिसम्बन्धिबन्धुषु |
दीनान्धकृपणे वाऽपि तदा भरतसत्तम ||१४-९१-३ (९५०६९)
घुष्यमाणे महादाने दिक्षु सर्वासु भारत |
पतत्सु पुष्पवर्षेषु धर्मराजस्य मूर्धनि ||१४-९१-४ (९५०७०)
बिलान्निस्सृत्य नकुलो रुक्मपार्श्वस्तदाऽनघः |
वज्राशनिसमं नादममुञ्चद्वसुधाधिप ||१४-९१-५ (९५०७१)
सकृदुत्सृज्य तन्नादं त्रासयानो मृगद्विजान् |
मानुपं वचनं प्राह पुष्पोपरिशयो महान् ||१४-९१-६ (९५०७२)
सक्तुप्रस्थेन वो नायं यज्ञस्तुल्यो नराधिपाः |
उच्छवृत्तेर्वदान्यस्य कुरुक्षेत्रनिवासिनः ||१४-९१-७ (९५०७३)
तस्य तद्वचनं श्रुत्वा नकुलस्य विशांपते |
विस्मयं परमं जग्मुः सर्वे ते ब्राह्मणर्षभाः ||१४-९१-८ (९५०७४)
ततः समेत्य नकुलं पर्यपृच्छन्त ते द्विजाः ||
कुतस्त्वं समनुप्राप्तो यज्ञं साधुसमागमम् ||१४-९१-९ (९५०७५)
किं बलं परमं तुभ्यं श्रुतं किं परायणम् |
कथं भवन्तं विद्याम यो नो यज्ञं विगर्हसे ||१४-९१-१० (९५०७६)
अविलुप्यागमं कृत्स्नं विविधैर्यज्ञियैः कृतम् |
यथागमं यथान्यायं कर्तव्यं च तथा कृतम् ||१४-९१-११ (९५०७७)
पूजार्हाः पूजिताश्चात्र विधिवच्छास्त्रदर्शात् |
मन्त्राहुतिहुतश्चाग्निर्दत्तं देयममत्सरम् ||१४-९१-१२ (९५०७८)
तुष्टा द्विजातयश्चात्र दानैर्बहुविधैरपि |
क्षत्रियाश्चि सुयुद्धेन श्राद्धैश्चापि पितामहाः ||१४-९१-१३ (९५०७९)
पालनेन विशस्तुष्टाः कामैस्तुष्टा वरस्त्रियः |
अनुक्रोशैस्तता शूद्रा दानशेषैः पृथग्जनाः ||१४-९१-१४ (९५०८०)
ज्ञातिसम्बन्धिनस्तुष्टाः शौचेन च नृपस्य नः |
देवा हविर्भिः पुण्यैस्च रक्षणैः शरणागताः ||१४-९१-१५ (९५०८१)
यदत्र तथ्यं तद्ब्रूहि सत्यंसत्यं द्विजातिषु |
यथाश्रुतं यथादृष्टं पृष्टो ब्राह्मणकाम्यया ||१४-९१-१६ (९५०८२)
श्रद्धेयवाक्यः प्राज्ञस्त्वं दिव्यं रूपं बिभर्षि च |
समागतश्च विप्रैस्त्वं तद्भवान्वक्तुमर्हति ||१४-९१-१७ (९५०८३)
इति पृष्टो द्विजैस्तैः स प्रहसन्नकुलोऽब्रवीत् |
नैषा मृषामया वाणी प्रोक्ता दर्पेण वा द्विजाः ||१४-९१-१८ (९५०८४)
यन्मयोक्तमिदं वाक्यं युष्माभिश्चाप्युपश्रुतम् |
सक्तुप्रस्थेन वो नायं यज्ञस्तुल्यो द्विजर्षभाः ||१४-९१-१९ (९५०८५)
इत्यवश्यं मयैतद्वो वक्तव्यं द्विजसत्तमाः |
शृणुताव्यग्रमनसः शंसतो मे यथातथम् ||१४-९१-२० (९५०८६)
अनुभूतं च दृष्टं च यन्मयाऽद्भुतमुत्तमम् |
उञ्छवृत्तेर्वदान्यस्य कुरुक्षेत्रनिवासिनः ||१४-९१-२१ (९५०८७)
स्वर्गं येन द्विजाः प्राप्तः सभार्यः ससुतस्नुषः |
यथा चार्धं शरीरस्य ममेदं काञ्चनीकृतम् ||||१४-९१-२२ (९५०८८)
इति श्रीमन्महाभारते आश्वमेधिकपर्वणि अनुगीतापर्वणि
एकनवतितमोऽध्यायः ||९१ ||
Mahabharata -Ashvamedhika Parva -Chapter Footnotes
७-९१-५ नीलाक्षस्तत्र नकुल इति झ.पाठः ||
७-९१-६ धृष्टो बिलशयो महान् इति झ.पाठः ||
७-९१-२२ ममेदं यत्रेति शेषः ||
आश्वमेधिकपर्व -अध्याय ०९२
||श्रीः ||
१४. ९२. अध्यायः ९२
अश्वमेधपर्व ||१ ||
Mahabharata -Ashvamedhika Parva -Chapter Topics
नकुलेन युधिष्ठिरादीन्प्रति
सकुटुम्बस्योञ्छवृत्तेर्ब्राह्मणस्य धर्मपुरुषाय
सक्तुप्रस्तदानमहिमवर्णनपूर्वकंपुनस्तत्रैवान्तर्धानम् ||१ ||
Mahabharata -Ashvamedhika Parva -Chapter Text
नकुल उवाच |
हन्त वः कथयिष्यामि दानस्य फलमुत्तमम् |
न्यायलब्धस्य सूक्ष्मस्य विप्रदत्तस्य यद्द्विजाः ||१४-९२-१ (९५०८९)
धर्मक्षेत्रे कुरुक्षेत्रे धर्मज्ञैर्बहुभिर्वृते |
उञ्छवृत्तिर्द्विजः कश्चित्कापोतिरभवत्पुरा ||१४-९२-२ (९५०९०)
सभार्यः सहपुत्रेण सस्नुषस्तपसि स्थितः |
बभूव शुक्लवृत्तः स धर्मात्मा नियतेन्द्रियः ||१४-९२-३ (९५०९१)
षष्ठे काले सदा विप्रो भुङ्क्ते तैः सह संवृतः ||१४-९२-४ (९५०९२)
षष्ठे काले कदाचित्तु तस्याहारो न विद्यते |
भुङ्क्तेऽन्यस्मिन्कदाचित्स षष्ठे काले द्विजोत्तमः ||१४-९२-५ (९५०९३)
कपोतधर्मिणस्तस्य दुर्भिक्षे सति दारुणे |
नाविद्यत तदा विप्राः संचयस्तन्निबोधत ||१४-९२-६ (९५०९४)
क्षीणाषैदिसमावापो द्रव्यहीनोऽभवत्तदा |
कालेकालेऽस्य सम्प्राप्ते नैव विद्येत भोजनम् ||१४-९२-७ (९५०९५)
क्षुधापरिगताः सर्वे प्रातिष्ठन्त तदा तु ते |
उञ्छं तदा शुक्लपक्षे मध्यं तपति भास्करे ||१४-९२-८ (९५०९६)
उष्णार्तश्च क्षुधार्तश्च विप्रस्तपसि संस्थितः |
उञ्छमप्राप्तवानेव ब्राह्मणः क्षुच्छ्रमान्वितः ||१४-९२-९ (९५०९७)
स तथैव क्षुधाविष्टः सार्धं परिजनेन ह |
क्षपयामास तं कालं कृच्छ्रप्राणो द्विजोत्तमः ||१४-९२-१० (९५०९८)
अथ षष्ठे गते काले यवप्रस्थमुपार्जयन् |
यवप्रस्थं तु तं सक्तूनकुर्वन्त तपस्विनः ||१४-९२-११ (९५०९९)
कृतजप्याह्निकास्ते तु हुत्वा चाग्निं यथाविधि |
कुडवंकुडवं सर्वे व्यभजन्त तपस्विनः ||१४-९२-१२ (९५१००)
अथागच्छद्द्विजः कश्चिदतिथिर्भुञ्जतां तदा |
ते तं दृष्ट्वाऽतिथिं प्राप्तं प्रहृष्टमनसोऽभवन् ||१४-९२-१३ (९५१०१)
तेऽभिवाद्य सुखप्रश्नं पृष्ट्वा तमतिथिं तदा |
विशुद्धमनसो दान्ताः श्रद्धादमसमन्विताः ||१४-९२-१४ (९५१०२)
अनसूया गतक्रोधाः साधवो वीतमत्सराः |
त्यक्तमानमदक्रोधा धर्मज्ञा द्विजसत्तमाः ||१४-९२-१५ (९५१०३)
सब्रह्यचर्यं गोत्रं ते तस्य ख्यात्वा परस्परम् |
कुटीं प्रवेशयामासुः क्षुधार्तमतिथिं तदा ||१४-९२-१६ (९५१०४)
इदमर्घ्यं च पाद्यं च बृसी चेयं तवानघ |
शुचयः सक्तवश्चेमे नियमोपार्जिताः प्रभो |
प्रतिगृह्णीष्व भद्रं ते मया दत्ता द्विजर्षभ ||१४-९२-१७ (९५१०५)
इत्युक्तः प्रतिगृह्याथ सक्तूनां कुडवं द्विजः |
भक्षयामास राजेन्द्र न च तुष्टिं जगाम सः ||१४-९२-१८ (९५१०६)
स उञ्छवृत्तिस्तं प्रेक्ष्य क्षुधापरिगतं द्विजम् |
आहारं चिन्तयामास कथं तुष्टो भवेदिति ||१४-९२-१९ (९५१०७)
तस्य भार्याऽब्रवीद्वाक्यं मद्भागो दीयतामिति |
गच्छत्वेष यथाकामं परितुष्टो द्विजोत्तमः ||१४-९२-२० (९५१०८)
इति ब्रुवन्तीं तां साध्वीं भार्यां स द्विजसत्तमः |
क्षउधापरिगतां ज्ञात्वा तान्सक्तून्नाभ्यनन्दत ||१४-९२-२१ (९५१०९)
आत्मानुमानतो विद्वान्स तु विप्रर्षभस्तदा |
जानन्वृद्धां क्षुधार्तां च श्रान्तां ग्लानां तपस्विनीम् |
त्वगस्थिभूता वेपन्तीं ततो भार्यामुवाच ह ||१४-९२-२२ (९५११०)
अपि कीटपतङ्गानां मृगाणां चैव शोभने |
स्त्रियो रक्ष्याश्च पोष्पाश्च न त्वेवं वक्तुमर्हसि ||१४-९२-२३ (९५१११)
अनुकंप्यो नरः पत्न्या पुष्टो रक्षित एव च |
प्रपतेद्यशसो दीप्तात्स च लोकान्न चाप्नुयात् ||१४-९२-२४ (९५११२)
धर्मकामार्थकार्याणि शुश्रूषाकुलसंततिः |
दारेष्वदीनो धर्मस्च पितॄणामात्मनस्तथा ||१४-९२-२५ (९५११३)
न वेत्ति कर्मतो भार्यारक्षणे योऽक्षमः पुमान् |
अयशो महदाप्नोति नारकांश्चैव गच्छति ||१४-९२-२६ (९५११४)
इत्युक्ता सा ततः प्राह धर्मार्थौ नौ समौ द्विज |
सक्तुप्रस्थचतुर्भागं गृहाणेमं प्रसीद मे ||१४-९२-२७ (९५११५)
सत्यं रतिश्च धर्मश्च स्वर्गश्च गुणनिर्जितः |
स्त्रीणां पतिसमाधीनं काङ्क्षितं च द्विजर्षभ ||१४-९२-२८ (९५११६)
ऋतुर्मातु पितुर्बीजं दैवतं परमं पतिः |
भर्तुः प्रसादान्नारीणां रतिपुत्रफलं तथा ||१४-९२-२९ (९५११७)
पालनाद्धि पतिस्त्वं मे भर्ताऽसि भरणाच्च मे |
पुत्रप्रदानाद्वरदस्तस्मात्सक्तून्प्रयच्छ मे ||१४-९२-३० (९५११८)
जरापरिगतो वृद्धः क्षुधार्तो दुर्बलो भृशम् |
उपवासपरिश्रान्तो यदा त्वमपि कर्शितः ||१४-९२-३१ (९५११९)
इत्युक्तः स तया सक्तून्प्रगृह्येदं वचोऽब्रवीत् |
द्विजि सक्तूनिमान्भूयः प्रतिगृह्णीष्व सत्तम ||१४-९२-३२ (९५१२०)
स तान्प्रगृह्य भुक्त्वा च न तुष्टिमगमद्द्विजः |
तमुञ्छवृत्तिरालक्ष्य ततश्चिन्तापरोऽभवत् ||१४-९२-३३ (९५१२१)
पुत्र उवाच. १४-९२-३४क्ष् (७९२४)
सक्तूनिमान्प्रगृह्य त्वं देहि विप्राय सत्तम |
इत्येव सुकृतं मन्ये तस्मादेतत्करोम्यहम् ||१४-९२-३४ (९५१२२)
भवान्हि परिपाल्यो मे सर्वदैव प्रयत्नतः |
साधूनां काङ्क्षितं यस्मात्पितुर्वृद्धस्य पालनम् ||१४-९२-३५ (९५१२३)
पुत्रार्थो विहितो ह्येष वार्धके परिपालनम् ||
श्रुतिरेषा हि विप्रर्षे त्रिषु लोकेषु शाश्वती ||१४-९२-३६ (९५१२४)
प्राणाधारणमात्रेण शक्यं कर्तुं तपस्त्वया |
प्राणो हि परमो धर्मः स्थितो देहेषु देहिनाम् ||१४-९२-३७ (९५१२५)
पितोवाच. १४-९२-३८क्ष् (७९२५)
अपि वर्षसहस्री त्वं बाल एव मतो मम |
उत्पाद्य पुत्रं हि पिता कृतकृत्यो भवेत्सुतात् ||१४-९२-३८ (९५१२६)
बालानां क्षुद्बलवती जानाम्येतदहं प्रभो |
वृद्धोऽहं धारयिष्यामि त्वं बली भव पुत्रक ||१४-९२-३९ (९५१२७)
जीर्णेन वयसा पुत्र न मां क्षुद्बाधतेऽपि च |
दीर्घकालं तपस्तप्तं न मे मरणतो भयम् ||१४-९२-४० (९५१२८)
पुत्र उवाच. १४-९२-४१क्ष् (७९२६)
अपत्यमस्मि ते पुंसस्त्राणात्पुत्र इति स्मृतः |
आत्मा पुत्रः स्मृतस्तस्मात्त्राह्यात्मानमिहात्मना ||१४-९२-४१ (९५१२९)
पितोवाच. १४-९२-४२क्ष् (७९२७)
रूपेण सदृशस्त्वं मे शीलेन च दमेन च |
परीक्षितश्च बहुधा सक्तूनादद्मि ते सुत ||१४-९२-४२ (९५१३०)
इत्युक्त्वाऽऽदाय तान्सक्तून्प्रीतात्मा द्विजसत्तमः |
प्रहसन्निव विप्राय स तस्मै प्रददौ तदा ||१४-९२-४३ (९५१३१)
भुक्त्वा तानपि सक्तून्स नैव तुष्टो बभूव ह |
उच्छवृत्तिस्तु धर्मात्मा व्रीडामनुजगाम ह ||१४-९२-४४ (९५१३२)
तं वै वधूः स्थिता साध्वी ब्राह्मणिप्रियकाम्यया |
सक्तूनादाय संहृष्टा श्वशुरं वाक्यमब्रवीत् ||१४-९२-४५ (९५१३३)
संतानात्तव संतानं मम विप्र भविष्यति |
सक्तूनिमानतिथये गृहीत्वा सम्प्रयच्छ मे ||१४-९२-४६ (९५१३४)
तव प्रसादान्निर्वृत्ता मम लोकाः किलाक्षयाः |
पुत्रेण तानवाप्नोति यत्र गत्वा न शोचति ||१४-९२-४७ (९५१३५)
धर्माद्या हि यथा त्रेता वह्नित्रेता तथैव च |
तथैव पुत्रपौत्राणां स्वर्गस्त्रेता किलाक्षयः ||१४-९२-४८ (९५१३६)
पितॄणात्तारयति पुत्र इत्यनुशुश्रुम |
पुत्रपौत्रैश्च नियतं सादुलोकानुपाश्नुते ||१४-९२-४९ (९५१३७)
श्वशुर उवाच. १४-९२-५०क्ष् (७९२८)
वातातपविशीर्णाङ्गीं त्वां विवर्णां निरीक्ष्य वै |
कर्शितां सुव्रताचारे क्षुधाविह्वलचेतसम् ||१४-९२-५० (९५१३८)
कथं सक्तून्ग्रहीष्यामि भूत्वा धर्मोपघातकः |
कल्याणवृत्ते कल्याणि नैव त्वं वक्तुमर्हसि ||१४-९२-५१ (९५१३९)
षष्ठे काले व्रतवतीं शौचशीलतपोन्विताम् |
कृच्छ्रवृत्तिं निराहारां द्रक्ष्यामि त्वां कथं शुभे ||१४-९२-५२ (९५१४०)
बाला क्षुधार्ता नारी च रक्ष्या त्वं सततं मया |
उपवासपरिश्रान्ता त्वं हि बान्धवनन्दिनी ||१४-९२-५३ (९५१४१)
स्नुषोवाच. १४-९२-५४क्ष् (७९२९)
गुरोर्मम गुरुस्त्वं वै यतो दैवतदैवतम् |
देवातिदेवस्तस्मात्त्वं सक्तूनादत्स्व मे प्रभो ||१४-९२-५४ (९५१४२)
देहः प्राणश्च धर्मश्च शुश्रूषार्थमिदं गुरोः |
तव विप्र प्रसादेन लोकान्प्राप्स्यामहे शुभान् ||१४-९२-५५ (९५१४३)
अवेक्ष्या इति कृत्वाऽहं दृढभक्तेति वा द्विज |
चिन्त्या ममेयमिति वा सक्तूनादानुमर्हसि ||१४-९२-५६ (९५१४४)
श्वशुर उवाच. १४-९२-५७क्ष् (७९३०)
अनेन नित्यं साध्वी त्वं शीलवृत्तेन शोभसे |
या त्वं धर्मव्रतोपेता गुरुवृत्तिमवेक्षसे ||१४-९२-५७ (९५१४५)
तस्मात्सक्तून्ग्रहीष्यामि वधु नार्हसि वञ्चनाम् |
गणयित्वा महाभागे त्वां हि धर्मभृतां वरे ||१४-९२-५८ (९५१४६)
इत्युक्त्वा तानुपादाय सक्तून्प्रादाद्द्विजातये |
ततस्तुष्टोऽभवद्विप्रस्तस्य साधोर्महात्मनः ||१४-९२-५९ (९५१४७)
प्रीतात्मा स तु तं वाक्यमिदमाह द्विजर्षभम् |
वाग्मी तदा द्विजश्रेष्टो धर्मः पुरुषविग्रहः ||१४-९२-६० (९५१४८)
शुद्धेनि तव दानेन न्यायोपात्तेन धर्मतः |
यथाशक्ति विसृष्टेन प्रीतोस्मि द्विजसत्तम ||१४-९२-६१ (९५१४९)
अहो दानं घुष्यते ते स्वर्गे स्वर्गनिवासिभिः |
गगनात्पुष्पवर्षं च पश्येदं पतितं भुवि ||१४-९२-६२ (९५१५०)
सुरर्षिदेवगन्धर्वा ये च देवपुरःसराः |
स्तुवन्तो देवदूताश्च स्थिता दानेन विस्मिताः ||१४-९२-६३ (९५१५१)
ब्रह्मर्षयो विमानस्था ब्रह्मलोकचरश्च ये |
काङ्क्षन्ते दर्शनं तुभ्यं दिवं व्रज द्विजर्षभ ||१४-९२-६४ (९५१५२)
पितृलोकगताः सर्वे तारिताः पितरस्त्वया |
अनागताश्च बहवः सुबहूनि युगान्युत ||१४-९२-६५ (९५१५३)
ब्रह्मचर्येण दानेन यज्ञेनि तपसा तथा |
अगह्वरेण धर्मेण तस्माद्गच्च दिवं द्विज ||१४-९२-६६ (९५१५४)
श्रद्धया परया यरत्वं तपश्चरसि सुव्रत |
तस्माद्देवास्तवानेन प्रीता ब्राह्मणसत्तम ||१४-९२-६७ (९५१५५)
सर्वमेतद्धि यस्मात्ते दत्तं शुद्धेन चेतसा |
कृच्छ्रकाले ततः स्वर्गो विजितः कर्मणा त्वया ||१४-९२-६८ (९५१५६)
क्षुधा निर्णुदति प्रज्ञां धर्मबुद्धिं व्यपोहति |
क्षुधापरिगतज्ञानो धृतिं त्यजति चैव ह ||१४-९२-६९ (९५१५७)
बुभुक्षां जयते यस्तु स स्वर्गं जयते ध्रुवम् |
यदा दानरुचिः स्याद्वै तदा धर्मो न सीदति ||१४-९२-७० (९५१५८)
अनवेक्ष्य सुतस्नेहं कलत्रस्नेहमेव च |
धर्ममेव गुरं ज्ञात्वा तृष्णा न गणिता त्वया ||१४-९२-७१ (९५१५९)
द्रव्यागमो नृणां सूक्ष्मः पात्रे दानं ततः परम् |
कालः परतरो दानाच्छ्रद्धा चैव ततः परा ||१४-९२-७२ (९५१६०)
स्वर्गद्वारं सुसूक्ष्मं हि नरैर्माहान्नि दृश्यते |
सङ्गर्गलं लोभकीलं रागगुप्तं दुरासदम् ||१४-९२-७३ (९५१६१)
तं तु पश्यन्ति पुरुषा जितदक्रोधा जितेन्द्रियाः |
ब्राह्मणास्तपसा युक्ता यथाशक्ति प्रदायिनः ||१४-९२-७४ (९५१६२)
सहस्रशक्तिश्च शतं शतशक्तिर्दशापि च |
दद्यादपश्च यः शक्त्या सर्वे तुल्यफलाः स्मृताः ||१४-९२-७५ (९५१६३)
रन्तिदेवो हि नृपतिरपः प्रादादकिंचनः |
शुद्धेन मनसा विप्र नाकपृष्ठं ततो गतः ||१४-९२-७६ (९५१६४)
न धर्मः प्रीयते तात दानैर्दत्तैर्महाफलैः |
न्यायलब्धैर्यथा सूक्ष्मैः श्रुद्धापूतैः स तुष्यति ||१४-९२-७७ (९५१६५)
गोप्रदानसहस्राणि द्विजेभ्योऽदान्नृगो नृपः |
एकां दत्त्वा स पारक्यां नरकं समपद्यत ||१४-९२-७८ (९५१६६)
आत्ममांसप्रदानेन शिबोरौशीनरो नृपः |
प्राप्य पुण्यकृताँल्लोकान्मोदत दिवि सुव्रतः ||१४-९२-७९ (९५१६७)
विभवेन नृणां पुण्यं यच्छत्त्या स्वार्जितं न तत् |
न यज्ञैर्विविधैर्विप्र यथान्यायेन संचितैः ||१४-९२-८० (९५१६८)
क्रोधाद्दानफलं हन्ति लोभात्स्वर्गं न गच्छति |
न्यायवृत्तिर्हि तपसा दानवित्स्वर्गमश्नुते ||१४-९२-८१ (९५१६९)
न राजसूयैर्बहुभिरिष्टा विपुलदक्षिणैः ||
न चाश्वमेधैर्बहुभिः फलं सममिदं तव ||१४-९२-८२ (९५१७०)
सक्तुप्रस्थेन विजितो ब्रह्मलोकस्त्वयाऽक्षयः |
विरजो ब्रह्मसदनं गच्छ विप्र यतासुखम् ||१४-९२-८३ (९५१७१)
सर्वेषां वो द्विजश्रेष्ठ दिव्यं यानमुपस्थितम् |
आरोहत यथाकामं धर्मोस्मि द्विज पश्य माम् ||१४-९२-८४ (९५१७२)
बाधितो हि त्वया देहो लोके कीर्तिः स्थिरा च ते |
सभार्यः सहपुत्रश्च सस्नुषश्च दिवं व्रज ||१४-९२-८५ (९५१७३)
इत्युक्तवाक्ये धर्मे तु यानमारुद्य स द्विजः |
सदारः ससुतश्चैव सस्नुषश्च दिवं गतः ||१४-९२-८६ (९५१७४)
तस्मिन्विपरे गते स्वर्गं ससुते सस्नुषे तदा |
भार्याचतुर्थे धर्मज्ञे ततोऽहं निःसृतो बिलात् ||१४-९२-८७ (९५१७५)
ततस्तु सक्तुगन्धेन क्लेदेन सलिलस्य च |
दिव्यपुष्पविमर्दाच्च साधोर्दानलवैश्च तैः ||१४-९२-८८ (९५१७६)
विप्रस्य तपसा तस्य शिरो मे काञ्चनीकृतम् |
तस्य सत्याभिसन्धस्य सक्तुदानेन चैव ह ||१४-९२-८९ (९५१७७)
शरीरार्धं च मे विप्राः शातकुंभमयं कृतम् |
पश्यतेमं सुविपुलं तपसा तस्य धीमतः ||१४-९२-९० (९५१७८)
कथमेवंविधं स्याद्वै पार्श्वमन्यदिति द्विजाः |
तपोवनानि यज्ञांश्च हृष्टोऽभ्योमि पुनः पुनः. १४-९२-९१ (९५१७९)
यज्ञं त्वहमिमं श्रुत्वा रुरुराजस्य धीमतः |
आशया परया प्राप्तो न चाहं काञ्चनीकृतः ||१४-९२-९२ (९५१८०)
ततो मयोक्तं तद्वाक्यं प्रहस्य ब्राह्मणर्षभाः |
सक्तुप्रस्थेन यज्ञोऽयं संमितो नेति सर्वथा ||१४-९२-९३ (९५१८१)
सक्तुप्रस्थलवैस्तैर्हि तदाऽहं काञ्चनीकृतः |
न हि यज्ञो महानेष सदृशस्तैर्मतो मम ||१४-९२-९४ (९५१८२)
इत्युक्त्वा नकुलः सर्वान्यज्ञे द्विजवरांस्तदा |
जगामादर्सनं तेषां विप्रास्ते च ययुर्गृहान् ||१४-९२-९५ (९५१८३)
एतत्ते सर्वमाख्यातं मया परपुरंजय |
यदाश्चर्यमभूत्तत्र वाचिमेधे महाक्रतौ ||१४-९२-९६ (९५१८४)
न विस्मयस्ते नृपते यज्ञे कार्यः कथञ्चन |
ऋषिकोटिसहस्राणि तपोभिर्ये दिवं गताः ||१४-९२-९७ (९५१८५)
अद्रोहः सर्वभूतेषु संतोषः शीलमार्जवम् |
तपो दमश्च सत्यं च प्रदानं चेति संमितम् ||||१४-९२-९८ (९५१८६)
इति श्रीमन्महाभारते आश्वमेधिकपर्वणि अनुगीतापर्वणि
द्विनवतितमोऽध्यायः ||९२ ||
Mahabharata -Ashvamedhika Parva -Chapter Footnotes
७-९२-२ कपोतवदेकैकं कणमादत्ते स कापोतिः ||
७-९२-८ उंछं कणश आदानं कर्तुमिति शेषः | शुक्लस्य ज्येष्ठस्य
पक्षे ||
७-९२-५६ अवेक्ष्या पालनीया | चिन्त्या परीक्षणीया ||
७-९२-५८ हे वरे श्रेष्ठे महाभागे त्वां धर्मभृतां मध्ये गणयित्वा
सक्तून् ग्रहीष्यामीत्यन्वयः ||
७-९२-८४ तारितो हि त्वयेति झ.पाठः ||
आश्वमेधिकपर्व -अध्याय ०९३
||श्रीः ||
१४. ९३. अध्यायः ९३
Mahabharata -Ashvamedhika Parva -Chapter Topics
जनमेजयेन नकुलेन यज्ञनिन्दाकारणं पृष्टेन वैशम्पायनेन
तंप्रति सत्यदानतपोभिरेव स्वर्गादिसिद्धौ पशुहिंसाहेतुयज्ञस्य
नातिप्रशस्ततरत्वमिति नकुलाभिप्रायवर्णनम् ||१ ||
Mahabharata -Ashvamedhika Parva -Chapter Text
जनमेजय उवाच |
यज्ञे सक्ता नृपतयस्तपःसका महर्षयः |
शान्तिव्यवस्थिता विप्राः शमे दम इति प्रभो ||१४-९३-१ (९५१८७)
तस्माद्यज्ञफलैस्तुल्यं न किञ्चिदिह दृश्यते |
इति मे वर्तते बुद्धिस्तथा चैतदसंशयम् ||१४-९३-२ (९५१८८)
यज्ञैरिष्ट्वा तु बहवो राजानो द्विजसत्तमाः |
इह कीर्ति परां प्राप्य प्रेत्य स्वर्गमितो गताः ||१४-९३-३ (९५१८९)
देवराजः सहस्राक्षः क्रतुभिर्भूरिदक्षिणैः |
देवराज्यं महातेजाःक प्राप्तवानखिलं विभुः ||१४-९३-४ (९५१९०)
अतो युधिष्ठिरो राजा भीमार्जुनपुरःसरः |
सदृशो देवराजेन समृद्ध्या विक्रमेण च ||१४-९३-५ (९५१९१)
अथ कस्मात्स नकुलो गर्हयामास तं क्रतुम् |
अश्वमेधं महायज्ञं राज्ञस्तस्य महात्मनः ||१४-९३-६ (९५१९२)
वैशम्पायन उवाच. १४-९३-७क्ष् (७९३१)
यज्ञस्य विधिमग्र्यं वै फलं चापि नराधिप |
गदतः शृणु मे राजन्यथावदिह भारत ||१४-९३-७ (९५१९३)
पुरा शक्रस्य यजतः सर्व ऊचुर्महर्षयः |
ऋत्विक्षु कर्मव्यग्रेषु वितते यज्ञकर्मणि ||१४-९३-८ (९५१९४)
हूयमाने तथा वह्नौ होत्रा गुणसमन्विते |
देवष्वाहूयमानेषु स्थितेषु परमर्षिषु ||१४-९३-९ (९५१९५)
सुप्रतीतैस्तथा विप्रैः स्वागमैः सुस्वरैर्नृप |
अश्रान्तैश्चापि लघुभिरध्वर्युवृषभैस्तथा ||१४-९३-१० (९५१९६)
आलम्भसमये तस्मिन्गृहीतेषु पशुष्वथ |
महर्षयो महाराज बभूवुः कृपयाऽन्विताः ||१४-९३-११ (९५१९७)
ततो दीनान्पशून्दृष्ट्वा ऋषयस्ते तपोधनाः |
ऊचुः शक्रं समागम्य नायं यज्ञविधिः शुभः ||१४-९३-१२ (९५१९८)
अपरिज्ञानमेतत्ते महान्तं धर्ममिच्छतः |
सन्ति यज्ञे बहुगुणा विधिदृष्टाः पुरंदर ||१४-९३-१३ (९५१९९)
धर्मोपघातकस्त्वेष समारंभस्तव प्रभो |
नायं धर्मकृतो यज्ञो न हिंसा धर्म उच्यते ||१४-९३-१४ (९५२००)
आगमेनैव ते यज्ञं कुर्वन्तु यदि चेच्छसि |
विधिदृष्टेन यज्ञेन धर्मस्ते सुमहान्भवेत् ||१४-९३-१५ (९५२०१)
यज्ञं बीजैः सहस्राक्ष त्रिवर्षपरमोषितेः |
एष धर्मो महाञ्शक्र चिन्तयानोसि गम्यते ||१४-९३-१६ (९५२०२)
शतक्रतुस्तु तद्वाक्यमृषिभिस्तत्त्वदर्शिभिः |
उक्तं न प्रतिजग्राह मानमोहवशं गतः ||१४-९३-१७ (९५२०३)
तेषां विवादः सुमहाञ्शक्रयज्ञे तपस्विनाम् |
जङ्गमैः स्थावरैर्वाऽपि यष्टव्यमिति भारत ||१४-९३-१८ (९५२०४)
ते तु खिन्ना विवादेन ऋषयस्तत्त्वदर्शिनः |
अभिसंधाय शक्रेण पप्रच्छुर्नृपतिं वसुम् ||१४-९३-१९ (९५२०५)
धर्मसंशयमापन्नान्सत्यं ब्रूहि महामते |
महाभाग कथं यज्ञेष्वागमो नृपसत्तम |
यष्टव्यं पशुभिर्मेध्यैरथो बीजैरजैरिति ||१४-९३-२० (९५२०६)
तच्छ्रुत्वा तु वसुस्तेषामविचार्य बलाबलम् |
यथोपनीतैर्यष्टव्यमिति प्रोवाच पार्थिवः ||१४-९३-२१ (९५२०७)
एवमुक्त्वा स नृपतिः प्रविवेश रसातलम् |
उक्त्वेह वितथं राजंश्चेदीनामीश्वरः प्रभुः ||१४-९३-२२ (९५२०८)
तस्मान्नि वाच्यं ह्येकेन बहुज्ञेनापि संशये |
प्रजापतिमपाहाय स्वयंभुवमृते प्रभुम् ||१४-९३-२३ (९५२०९)
तेन दत्तानि दानानि पापेनाशुद्धबुद्धिना |
तानि सर्वाण्यनादृत्य नश्यन्ति विपुलान्यपि ||१४-९३-२४ (९५२१०)
तस्याधर्मप्रवृत्तस्य हिंसकस्य दुरात्मनः |
दानेन कीर्तिर्भवति न प्रेत्येह च दुर्मतेः ||१४-९३-२५ (९५२११)
अन्यायोपगतं द्रव्यमभीक्ष्णं यो ह्यपण्डितः |
धर्माभिकाङ्क्षी त्यजति न स धर्मफलं लभेत् ||१४-९३-२६ (९५२१२)
धर्मवैतंसिको यस्तु पापात्मा पुरुषाधमः |
ददाति दानं विप्रेभ्यो लोकविश्वासकारणम् ||१४-९३-२७ (९५२१३)
पापेन कर्मणा विप्रो धनं प्राप्य निरङ्कुशः |
रागमोहान्वितः सोन्ते कलुषां गतिमश्नुते ||१४-९३-२८ (९५२१४)
अपि संचयबुद्धिर्हि लोभमोहवशं गतः |
यज्ञं करोति भूतानि पापेनाशुद्धबुद्धिना ||१४-९३-२९ (९५२१५)
एवं लब्ध्वा धनं मोहाद्यो हि दद्याद्यजेत वा |
न तस्य स फलं प्रेत्य भुंक्ते पापधनागमात् ||१४-९३-३० (९५२१६)
उञ्छं मूलं फलं शाकमुदपात्रं तपोधनाः |
दानं विभवतो दत्त्वा नराः स्वर्यान्ति धार्मिकाः ||१४-९३-३१ (९५२१७)
एष धर्मो महायोगो दानं भूतदया तथा |
ब्रह्मचर्यं तथा सत्यमनुक्रोशो धृतिः क्षमा ||१४-९३-३२ (९५२१८)
सनातनस्य धर्मस्य फलमेतत्सनातनम् |
श्रूयन्ते हि पुरावृत्ता विश्वामित्रादयो नृपाः ||१४-९३-३३ (९५२१९)
विश्वामित्रोसितश्चैवं जनसश्च महीपतिः |
कक्षसेनार्ष्टिसेनौ च सिन्धुद्वीपश्च पार्थिवः ||१४-९३-३४ (९५२२०)
एते चान्ये च बहवः सिद्धिं परमिकां गताः |
नृपाः सत्यैश्च दानैश्च न्यायलब्धैस्तपोधनाः ||१४-९३-३५ (९५२२१)
ब्राह्मणाः क्षत्रिया वैश्याः शूद्रा ये चाश्रितास्तपः |
दानधर्माग्निना शुद्धास्ते स्वर्गं यान्ति भारत ||१४-९३-३६ (९५२२२)
||इती श्रीमन्महाभारते आश्वमेधिकपर्वणि अनुगीतापर्वणि
त्रिनवतितमोऽध्यायः ||९३ ||
Mahabharata -Ashvamedhika Parva -Chapter Footnotes
७-९३-१३ नहि यज्ञे पशुगणाः इति झ.पाठः ||
७-९३-१६ त्रिवर्षपरमोषितैः पुराणैः ||
७-९३-२० बीजै रसैरिति झ | पाठः ||
आश्वमेधिकपर्व -अध्याय ०९४
||श्रीः ||
१४. ९४. अध्यायः ९४
अश्वमेधपर्व ||१ ||
Mahabharata -Ashvamedhika Parva -Chapter Topics
वैशम्पायनेन जनमेजयंप्रति पशुहिंसां विनैव ध्यानदानादिभिरेव
यज्ञफलसंसिद्धौ दृष्टान्ततयाऽगस्त्ययज्ञप्रकारकथनम् ||१ ||
Mahabharata -Ashvamedhika Parva -Chapter Text
जनमेजय उवाच |
धर्मागतेन त्यागेन भगवन्सर्वमस्ति चेत् |
एतन्मे सर्वमाचक्ष्व कुशलो ह्यसि भाषितुम् ||१४-९४-१ (९५२२३)
तस्योञ्छवृत्तेर्यद्वृत्तं सक्तुदाने फलं महत् |
कथितं तु मम ब्रह्मंस्तथ्यमेतदसंशयम् ||१४-९४-२ (९५२२४)
कथं हि सर्वयज्ञेषु निश्चयः परमो भवेत् |
एतदर्हसि मे वक्तुं निखिलेन द्विजर्षभ ||१४-९४-३ (९५२२५)
वैशम्पायन उवाच. १४-९४-४क्ष् (७९३२)
अत्राप्युदाहरन्तीममितिहासं पुरातनम् |
अगस्त्यस्य महायज्ञे पुरावृत्तमरिंदम ||१४-९४-४ (९५२२६)
पुराऽगस्त्यो महातेजा दीक्षां द्वादशवार्षिकीम् |
प्रविवेश महाराज सर्वभूतहिते रतः ||१४-९४-५ (९५२२७)
तत्राग्निकल्पा होतार आसन्सत्रे महात्मनः |
मूलाहाराः फलाहाराश्चाश्मकुट्टा मरीचिपाः ||१४-९४-६ (९५२२८)
परिपृष्टिका वैघसिकाः प्रसङ्ख्यानास्तथैव च |
यतयो भिक्षवश्चात्र बभूवुः पर्यवस्थिताः ||१४-९४-७ (९५२२९)
सर्वे प्रत्यक्षधर्माणो जितक्रोधा जितेन्द्रियाः |
दमे स्थिताश्च सर्वे ते हिंसादंभविवर्जिताः ||१४-९४-८ (९५२३०)
वृत्ते शुद्धे स्थिता नित्यमिन्द्रियैश्चाप्यबाधिताः |
उपातिष्ठन्त तं यज्ञं यजन्तस्ते महर्षयः ||१४-९४-९ (९५२३१)
यथाशक्त्या भगवता तदन्नं समुपार्जितम् |
तस्मिन्सत्रे तु यद्वृत्तं यद्योग्यं च तदाऽभवत् ||१४-९४-१० (९५२३२)
तथा ह्यनेकैर्मुनिभिर्महान्तः क्रतवः कृताः |
एवंविधे त्वगस्त्यस्य वर्तमाने तथाऽध्वरे |
न ववर्ष सहस्राक्षस्तदा भरतसत्तम ||१४-९४-११ (९५२३३)
ततः कर्मान्तरे राजन्नगस्त्यस्य महात्मनः |
कथेयमभिनिर्वृत्ता मुनीनां भावितात्मनाम् ||१४-९४-१२ (९५२३४)
अगस्त्यो यजमानोसौ ददात्यन्नं विमत्सरः |
न च वर्षति पर्जन्यः कथमन्नं भविष्यति ||१४-९४-१३ (९५२३५)
सत्रं चेदं महद्विप्रा मुनेर्द्वादशवार्षिकम् |
न वर्षिष्यति देवश्च वर्षाण्येतानि द्वादश ||१४-९४-१४ (९५२३६)
एतद्भवन्तः संचिन्त्य महर्षेरस्य धीमतः |
अगस्त्यस्यातितपसः कर्तुमर्हन्त्यनुग्रहम् ||१४-९४-१५ (९५२३७)
इत्येवमुक्ते वचने ततोऽगस्त्यः प्रतापवान् |
प्रोवाच वाक्यं स तदा प्रसाद्य शिरसा मुनीन् ||१४-९४-१६ (९५२३८)
यदि द्वादशवर्षाणि न वर्षिष्यति वासवः |
चिन्तायज्ञं करिष्यामि विधिरेष सनातनः ||१४-९४-१७ (९५२३९)
यदि द्वादशवर्षाणि न वर्षिष्यति वासवः |
स्पर्शयज्ञं करिष्यामि विधिरेष सनातनः ||१४-९४-१८ (९५२४०)
यदि द्वादशवर्षाणि न वर्षिष्यति वासवः |
व्यायामेनाहरिष्यामि यज्ञानेतान्यतव्रतः ||१४-९४-१९ (९५२४१)
बीजयज्ञो मयाऽयं वै बहुवर्षसमाचितः |
बीजैर्हितं करिष्यामि नात्र विघ्नो भविष्यति ||१४-९४-२० (९५२४२)
नेदं शक्यं वृथा कर्तुं मम सत्रं कथञ्चन |
वर्षिष्यतीह वा देवो नवा वर्षं भविष्यति ||१४-९४-२१ (९५२४३)
अथवाऽभ्यर्थनामिन्द्रो न करिष्यति कामतः |
स्वयमिन्द्रो भविष्यामि जीवयिष्यामि च प्रजाः ||१४-९४-२२ (९५२४४)
यो यदाहारजातश्च स तथैव भविष्यति |
विशेषं चैव कर्तास्मि पुनः पुनरतीव हि ||१४-९४-२३ (९५२४५)
अद्येह स्वर्णमभ्येतु यच्चान्यद्वसु दुर्लभम् |
त्रिषु लोकेषु यच्चास्ति तदिहागम्यतां स्वयम् ||१४-९४-२४ (९५२४६)
दिव्याश्चाप्सरसां सङ्घा गन्धर्वाश्च सकिन्नराः |
विश्वावसुश्च ये चान्ये तेऽप्युपासन्तु मे मखम् ||१४-९४-२५ (९५२४७)
उत्तरेभ्यः कुरुभ्यश्च यत्किंचिद्वसु विद्यते |
सर्वं तदिह यज्ञेषु स्वयमेवोपतिष्ठतु ||१४-९४-२६ (९५२४८)
स्वर्गः स्वर्गसदश्चैवक धर्मश्च स्वयमेव तु |
इत्युक्ते सर्वमेवैतदभवत्तपसा मुनेः |
तस्य दीप्ताग्निमहसस्त्वगस्त्यस्यातितेजसः ||१४-९४-२७ (९५२४९)
ततस्ते मुनयो हृष्टा ददृशुस्तपसो बलम् |
विस्मिता वचनं प्राहुरिदं सर्वे महार्थवत् ||१४-९४-२८ (९५२५०)
प्रीताः स्म तव वाक्येन न त्विच्छामस्तपोवनम् |
तैरेव यज्ञैस्तुष्टाः स्य न्यायेनेच्छामहे वयम् ||१४-९४-२९ (९५२५१)
यज्ञं दीक्षां तथा होमान्यच्चान्यन्मृगयामहे |
' तयोस्संधर्षितैर्यज्ञैर्नान्यतो मृगयामहे ||' १४-९४-३० (९५२५२)
न्यायेनोपार्जिताहाराः स्वकर्माभिरता वयम् |
वेदांश्च ब्रह्मचर्येण न्यायतः प्रार्थयामहे ||१४-९४-३१ (९५२५३)
न्यायेनोत्तरकालं च गृहेभ्यो निःसृता वयम् |
धर्मदृष्टैर्विधिद्वारैस्तपस्तप्स्यामहे वयम् ||१४-९४-३२ (९५२५४)
भवतः सम्यगिष्टा तु बुद्धिर्हिसाविवर्जिता |
एतामहिंसा यज्ञेषु ब्रूयास्त्वं सततं प्रभो ||१४-९४-३३ (९५२५५)
प्रीतास्ततो भविष्यामो वयं तु द्विजसत्तम |
विसर्जिताः समाप्तौ च सत्रादस्माद्व्रजामहे ||१४-९४-३४ (९५२५६)
तथा कथयतां तेषां देवराजः पुरंदरः |
ववर्ष सुमहातेजा दृष्ट्वा तस्य तपोबलम् ||१४-९४-३५ (९५२५७)
आसमाप्तेश्च यज्ञस्य तस्यामितपराक्रमः |
निकामवर्षी पर्जन्यो बभूव जनमेजय ||१४-९४-३६ (९५२५८)
प्रसादयामास च तमगस्त्यं त्रिदशेश्वरः |
स्वयमभ्येत्य राजर्षे पुरस्कृत्य बृहस्पतिम् ||१४-९४-३७ (९५२५९)
ततो यज्ञसमाप्तौ तान्विससर्ज महामुनीन् |
अगस्त्यः परमप्रीतः पूजयित्वा यथाविधि ||||१४-९४-३८ (९५२६०)
इति श्रीमन्महाभारते आश्वमेधिकपर्वणि अनुगीतापर्वि
चतुर्नवतितमोऽध्यायः ||९४ ||
Mahabharata -Ashvamedhika Parva -Chapter Footnotes
७-९४-६ मरीचिपाश्चन्द्रमरीचिपानमातृप्ताः ||
७-९४-७ परिपृष्टं चेदेव गृह्णन्ति नान्यथा मे परिपृष्टिकाः
. प्रसंख्यानास्तत्कालमात्रसंग्रहाः ||
७-९४-१७ चिन्तायज्ञं मानसं यज्ञम् | संकल्पमात्रेणैव
देवानृषीश्च तर्पयिष्यामीत्यर्थ ||
७-९४-१८ स्पर्शयज्ञं उपाहृतद्रव्यस्य व्ययमकृत्वा तत्स्पर्शेनैव
तांस्तर्पयिष्यामि | एवं दृष्टियज्ञोपि ज्ञेयः ||
७-९४-१९ व्यायामेन शरीरक्लेशेन | ध्येयात्मना हरिष्यामि हति झ.पाठः ||
७-९४-२९ न त्विच्छामस्तपोव्ययमिति झ.पाठः ||
आश्वमेधिकपर्व -अध्याय ०९५
||श्रीः ||
१४. ९५. अध्यायः ९५
अश्वमेधपर्व ||१ ||
Mahabharata -Ashvamedhika Parva -Chapter Topics
वैशम्पायनेन जनमेजयंप्रति नकुलस्य निजस्वरूपकथनपूर्वकं
तस्य नकुलत्वप्राप्तिविमोक्षकारणाभिधानम् ||१ ||
Mahabharata -Ashvamedhika Parva -Chapter Text
नमेजय उवाच |
कोसौ नकुलरूपेण शिरसा काञ्चनेन वै |
प्राह मानुषवद्वाचमेतत्पृष्टो वदस्व मे ||१४-९५-१ (९५२६१)
वैशम्पायन उवाच. १४-९५-२क्ष् (७९३३)
एतत्पूर्वं न पृष्टोऽहं न चास्माभिः प्रभाषितम् |
श्रूयतां नकुलो योसौ यथा वाक्तस्य मानुषी ||१४-९५-२ (९५२६२)
श्राद्धं संकल्पयामास जमदग्निः पुरा किल |
होमधेनुस्तमागाच्च स्वयमेव दुदोह ताम् ||१४-९५-३ (९५२६३)
तत्पयः स्थपयामास नवे भाण्डे दृढे शुचौ |
क्रोधो नकुलरूपेण पिठरं पर्यकर्षयत् ||१४-९५-४ (९५२६४)
जिज्ञासुस्तमृषिश्रेष्टं किं कुर्याद्विप्रिये कृते |
इति सञ्चिन्त्य दुर्मेधा धर्षयामास तत्पयः ||१४-९५-५ (९५२६५)
तमाज्ञाय मुनिः क्रोधं नैवास्य स चुकोप ह |
स तु क्रोधस्ततो राजन्ब्राह्मणीं मूर्तिमास्थितः ||१४-९५-६ (९५२६६)
जितोस्मीति भृगुश्रेष्ठ भृगवो ह्यतिरोषणाः |
लोके मिथ्याप्रवादोयं यत्त्वयाऽस्मि विनिर्जितः ||१४-९५-७ (९५२६७)
वशे स्थितोऽहं त्वय्यह्य क्षमावति महात्मनि |
बिभेमि तपसः साधो प्रसादं कुरु मे प्रभो ||१४-९५-८ (९५२६८)
जमदग्निरुवाच. १४-९५-९क्ष् (७९३४)
साक्षाद्दृष्टोसि मे क्रध गच्छ त्वं विगतज्वरः |
न त्वयापकृतं मेऽद्य न च मे मन्युरस्ति वै ||१४-९५-९ (९५२६९)
यान्समुद्दिश्य संकल्पः पयसोस्य कृतो मया |
पितरस्ते महाभागास्तेभ्यो बुद्ध्यस्व गम्यताम् ||१४-९५-१० (९५२७०)
इत्युक्तो जातसंत्रासस्तत्रैवान्तरधीयत |
पितॄणामभिषङ्गाच्च नकुलत्वमुपागतः ||१४-९५-११ (९५२७१)
स तान्प्रसादयामास शापस्यान्तो भवेदिति |
तैश्चाप्युक्तः क्षिपन्धर्मं सापस्यान्तमवाप्स्यति ||१४-९५-१२ (९५२७२)
तैश्चोक्तो यज्ञियान्देशान्धर्मारण्यं तथैव च |
जुगुप्समानो धावन्स तं यज्ञं समुपासदत् ||१४-९५-१३ (९५२७३)
धर्मपुत्रमथाक्षिप्य सक्तुप्रस्थेन तेन सः |
मुक्तः सापात्ततः क्रोधो धर्मो ह्यासीद्युधिष्ठिरः ||१४-९५-१४ (९५२७४)
एवमेतत्तदा वृत्तं यज्ञे तस्य महात्मनः |
पश्यतां चापि नस्तत्र नकुलोऽन्तर्हितस्तदा. ||१४-९५-१५ (९५२७५)
इति श्रीमन्महाभारते आश्वमेधिकपर्वणि अनुगीतापर्वणि
पञ्चनवतितमोऽध्यायः. | ९५ ||समाप्तमनुगीतापर्व. -------
Mahabharata -Ashvamedhika Parva -Chapter Footnotes
७-९५-४ पिठरं पात्रं | तत्पयः पीतवानित्यर्थः. तच्च
क्रोधस्वरूपेण पिठरं धर्म आविशदिति झ. पाठः ||
आश्वमेधिकपर्व -अध्याय ०९६
||श्रीः ||
१४. ९६. अध्यायः ९६
अथ वैष्णवधर्मपर्व ||३ ||
Mahabharata -Ashvamedhika Parva -Chapter Topics
युधिष्ठिरेण कृष्णंप्रति वैष्णवधर्मप्रशंसनपूर्वकं
तत्कथनप्रार्थना ||१ ||
वसिष्ठादिभिस्तच्छुश्रूषया तत्समीपोपसर्पणम् ||२ ||
कृष्णेन युधिष्ठिरादीन्प्रति वैष्णवधर्मप्रशंसनपूर्वकं
स्वमहिमानुबोधनम् ||३ ||
Mahabharata -Ashvamedhika Parva -Chapter Text
जनमेजय उवाच |
अश्वमेधे पुरावृत्ते केशवं केशिसूदनम् |
धर्मसंशयमुद्दिश्य किमपृच्छत्पितामहः ||१४-९६-१ (९५२७६)
वैशम्पायन उवाच. १४-९६-२क्ष् (७९३५)
पश्चिमेनाश्वमेधेन यदा स्नातो युधिष्ठिरः |
तदा राजा नमस्कृत्य केशवं पुनरब्रवीत् ||१४-९६-२ (९५२७७)
भववन्वैष्णवा धर्माः किंफलाः किंपरायणाः |
किं धर्ममधिकृत्याथ भवतोत्पादिताः पुरा ||१४-९६-३ (९५२७८)
यदि तेहमनुग्राह्यः प्रियोस्मि मधुसूदन |
श्रोतव्या यदि मे कृष्ण तन्मे कथय सुव्रत ||१४-९६-४ (९५२७९)
पवित्रा किल ते धर्माः सर्वपापप्रणाशनाः |
सर्वधर्मोत्तमाः पुण्या भगवंस्त्वन्मुखोद्गताः ||१४-९६-५ (९५२८०)
याञ्श्रुत्वा ब्रह्महा गोघ्नो मातृहा गुरुतल्पगः |
पाकर्भेदी कृतघ्नश्च सुरापो ब्रह्मविक्रयी ||१४-९६-६ (९५२८१)
मित्रविश्वासघाती च वीरहा भ्रूणहा तथा |
तपोविक्रयिणश्चैव दानविक्रयिणस्तथा ||१४-९६-७ (९५२८२)
आत्मविक्रमयिणो मूढा जीवेद्यश्च विकर्मभिः |
पापाः शठा नैकृतिका डांभिका दूषकास्तथा ||१४-९६-८ (९५२८३)
रसभेदकरा ये च ये च स्युर्ब्रह्मघातकाः |
शूद्रप्रेष्यकराश्चोरा विप्रा ये च पुरोहिताः ||१४-९६-९ (९५२८४)
निक्षेपहारिणः स्त्रीघ्नास्तथा ये पारदारिकाः |
एते चान्ये च पापा ये मुच्यन्तेतेऽपि किल्बिषात् ||१४-९६-१० (९५२८५)
तानाचक्ष्व सुरश्रेष्ठ त्वद्भक्तस्य ममाच्युत ||१४-९६-११ (९५२८६)
वैशम्पायन उवाच. १४-९६-१२क्ष् (७९३६)
इत्येवं कथिते देवे धर्मपुत्रेण संसदि |
वसिष्ठाद्यास्तपोयुक्ता मुनयस्तत्वदर्शिनः ||१४-९६-१२ (९५२८७)
श्रोतुकामाः परं गुह्यं वैष्णवं धर्ममुत्तमम् |
तथा भागवताश्चैव ततस्तं पर्यवारयन् ||१४-९६-१३ (९५२८८)
युधिष्ठिर उवाच. १४-९६-१४क्ष् (७९३७)
तत्वतस्तव भावेन पादमूलमुपागतम् |
यदि जानासि मां भक्तं स्निग्धं वा भक्तवत्सल ||१४-९६-१४ (९५२८९)
धर्मगुह्यानि सर्वाणि वेत्तुमिच्छामि तत्वतः |
धर्मान्कथय मे देव यद्यनुग्रहभागहम् ||१४-९६-१५ (९५२९०)
श्रुता मे मानवा धर्मा वासिष्ठाः काश्यपास्तथा |
गार्गीया गौतमीयाश्च तथा गोपालकस्य च ||१४-९६-१६ (९५२९१)
पराशरकृताः पूर्वा मैत्रेयस्य च धीमतः |
औमा माहेश्वराश्चैव नन्दिधर्माश्च पावनाः ||१४-९६-१७ (९५२९२)
ब्रह्मणा कथिता ये च कौमाराश्च श्रुता मया |
धूमायनकृता धर्माः काण्डवैश्वानरा अपि ||१४-९६-१८ (९५२९३)
भार्गवा याज्ञवल्क्याश्च मार्कण्डेयकृता अपि |
भारद्वाजकृता ये च बृहस्पतिकृताश्च ये ||१४-९६-१९ (९५२९४)
कुणेश्च कुणिबाहोश्च विश्वामित्रकृताश्च ये |
सुमन्तुजैमिनिकृताः शाकुनेयास्तथैव च ||१४-९६-२० (९५२९५)
पुलस्त्यपुलहोद्गीताः पावकीयास्तथैव च |
अगस्त्यगीता मौद्गल्याः शाण्डिल्याः शलभायनाः ||१४-९६-२१ (९५२९६)
वालखिल्यकृता ये च ये च सप्तर्षिभिस्तथा |
आपस्तंबकृता धर्माः शङ्खस्य लिखितस्य च ||१४-९६-२२ (९५२९७)
प्राजापत्यास्तथा याम्या माहेन्द्राश्च श्रुता मया |
वैयाघ्रव्यासकीयाश्च विभण्डककृताश्च ये ||१४-९६-२३ (९५२९८)
नारदीयाः श्रुता धर्माः कापोताश्च श्रुता मया |
तथा विदुरवाक्यानि भृगोरङ्गिरसस्तथा ||१४-९६-२४ (९५२९९)
क्रौञ्चा मृदङ्गगीताश्च सौर्या हारीतकाश्च ये |
ये पिशङ्गकृताश्चापि कातपायाः सुवालकाः ||१४-९६-२५ (९५३००)
उद्दालककृता धर्मा औशनस्यास्तथैव च |
वैशम्पायनगीताश्च ये चान्येऽप्येवमादितः ||१४-९६-२६ (९५३०१)
एतेभ्यः सर्वधर्मेभ्यो देव त्वन्मुखनिस्सृताः |
पावनात्वात्पवित्रत्वाद्विशिष्टा इति मे मतिः ||१४-९६-२७ (९५३०२)
तस्माद्धि त्वां प्रपन्नस्य त्वद्भक्तस्य च केशव |
युष्मदीयान्वरान्धर्मान्पुण्यान्कथय मेच्युत ||१४-९६-२८ (९५३०३)
वैशम्पायन उवाच. १४-९६-२९क्ष् (७९३८)
एवं पृष्टस्तु धर्मज्ञो धर्मपुत्रेण केशवः |
उवाच धर्मान्सूक्ष्मार्थान्धर्मपुत्रस्य हर्षितः ||१४-९६-२९ (९५३०४)
एवं ते यस्य कौन्तेय यत्नो धर्मेषु सुव्रत |
तस्य ते दुर्लभो लोके न कश्चिदपि विद्येत ||१४-९६-३० (९५३०५)
धर्मः श्रुतो वा दृष्टो वा कथितो वा कृतोपि वा |
अनुमोदितो वा राजेन्द्र नयतीन्द्रपदं नरम् ||१४-९६-३१ (९५३०६)
धर्मः पिता च माता च धर्मो नाथः सुहृत्तथा |
धर्मो भ्राता सखा चैव धर्मः स्वामी परंतप ||१४-९६-३२ (९५३०७)
धर्मादर्थश्च कामश्च धर्माद्भोगाः सुखानि च |
धर्मार्दैश्वर्यमेवाग्र्यं धर्मात्स्वर्गगतिः परा ||१४-९६-३३ (९५३०८)
धर्मोयं सेवितः शुद्धस्त्रायते महतो भयात् |
धर्माद्द्विजत्वं देवत्वं धर्मः पावयते नरम् ||१४-९६-३४ (९५३०९)
यदा च क्षीयते पापं कालेन पुरुषस्य तु |
तदा संजायते बुद्धिर्धर्मं कर्तुं युधिष्ठिर ||१४-९६-३५ (९५३१०)
जन्मान्तरसहस्रैस्तु मनुष्यत्वं हि दुर्लभम् |
तद्गत्वापीह यो धर्मं न करोति स्ववञ्चितः ||१४-९६-३६ (९५३११)
कुत्सिता ये दरिद्राश्च विरूपा व्याधितास्तथा |
परद्वेष्याश्च मूर्खाश्च न तैर्धर्मः कृतः पुरा ||१४-९६-३७ (९५३१२)
ये च दीर्घायुषः शूराः पण्डिता भोगिनस्तथा ||
नीरोगा रूपसंपन्नास्तैर्धर्मः सुकृतः पुरा ||१४-९६-३८ (९५३१३)
एवं धर्मः कृतः शुद्धो नयते गतिमुत्तमाम् |
अधर्मं सेवते यस्तु तिर्यग्योन्यां पतत्यसौ ||१४-९६-३९ (९५३१४)
इदं रहस्यं कौन्तेय शृणु धर्ममनुत्तमम् |
कथयिष्ये परं धर्मं तव भक्तस्य पाण्डव ||१४-९६-४० (९५३१५)
इष्टस्त्वमसि मेऽत्यर्थं प्रपन्नश्चापि मां सदा |
परमार्थमपि ब्रूयां किं पुनर्धर्मसंहिताम् ||१४-९६-४१ (९५३१६)
इदं मे मानुषं जन्म कृतमात्मनि मायया |
धर्मसंस्थापनार्थाय दुष्टानां नाशनाय च ||१४-९६-४२ (९५३१७)
मानुष्यं भावमापन्नं ये मां गृह्णन्त्यवज्ञया |
संसारान्तर्हि ते मूढास्तिर्यग्योनिष्वनेकशः ||१४-९६-४३ (९५३१८)
ये च मां सर्वभूतस्थं पश्यन्ति ज्ञानचक्षुषा |
मद्भक्तांस्तान्सदा युक्तान्मत्समीपं नयाम्यहम् ||१४-९६-४४ (९५३१९)
मद्भक्ता न विनश्यन्ति मद्भक्ता वीतकल्मषाः |
मद्भाक्तानां तु मानुष्ये सफल जन्म पाण्डवा ||१४-९६-४५ (९५३२०)
अपि पापेष्वभिरता मद्भक्ताः पाण्डुनन्दन |
मुच्यन्ते पातकैः सर्वैः पद्मपत्रमिवांभसा ||१४-९६-४६ (९५३२१)
जन्मान्तरसहस्रेषु तपसा भावितात्मनाम् |
भक्तिरुत्पद्यते तात मनुष्याणां न संशयः ||१४-९६-४७ (९५३२२)
यच्च रूपं परं गुह्यं कूटस्तमचलं ध्रुवम् |
न दृश्यते तता देवैर्मद्भक्तैर्दृश्यते यथा ||१४-९६-४८ (९५३२३)
अपरं यच्च मे रूपं पर्रादुर्भावेषु दृश्यते |
तदर्चयन्ति सर्वार्थैः सर्वभूतानि पाण्डव ||१४-९६-४९ (९५३२४)
कल्पकोटिसहस्रेषु व्यतीतेष्वागते च |
दर्शयामीह तद्रूपं यच्च पश्यन्ति मे सुराः ||१४-९६-५० (९५३२५)
स्तित्युत्पत्त्यव्ययकरं यो मां ज्ञात्वा प्रपद्यते |
अनुगृह्णाम्यहं तं वै संसारान्मोचयामि च ||१४-९६-५१ (९५३२६)
अहमादिर्हि देवानां सृष्टा ब्रह्मादयो मया |
प्रकृतिं स्वामवष्टभ्य जगत्सर्वं सृजाम्यहम् ||१४-९६-५२ (९५३२७)
तमोमूलोहमव्यक्तो रजोमध्ये प्रतिष्ठितः |
ऊर्ध्वं सत्त्वं विना लोभं ब्रह्मादिस्तंबपर्यतः ||१४-९६-५३ (९५३२८)
मूर्धानं मे विद्धि दिवं चन्द्रादित्यौ च लोचने |
गावोग्निर्बाह्मणो वक्त्रं मारुतः श्वसनं च मे ||१४-९६-५४ (९५३२९)
दिशो मे बाहवश्चाष्टौ नक्षत्राणि च भूषणम् |
अन्तरिक्षमुरो विद्धि सर्वभूतावकाशकम् |
मार्गो मेघानिलाभ्यां तु यन्ममोदरमव्ययम् ||१४-९६-५५ (९५३३०)
पृथिवीमण्डलं यद्वै द्वीपार्णवनगैर्युतम् |
सर्वसंधारणोपेतं पादौ मम युधिष्ठिर ||१४-९६-५६ (९५३३१)
स्थितो ह्येकगुणः खेऽहं द्विगुणश्चास्मि मारुते |
त्रिगुणोग्नौ स्थितोहं वै सलिले च चतुर्गुणः ||१४-९६-५७ (९५३३२)
शब्दाद्या ये गुणाः पञ्च महाभूतेषु पञ्चसु |
तन्मात्रासंस्थितः सोहं पृथिव्यां पञ्चधास्थितः ||१४-९६-५८ (९५३३३)
अहं सहस्रसीर्षस्तु सहस्रवदनेक्षणः |
सहस्रबाहूदरधृक्सहस्रोरुः सहस्रपात् ||१४-९६-५९ (९५३३४)
धृत्वोर्वीं सर्वतः सम्यगत्यतिष्ठं दशांगुलम् |
सर्वभूतात्मभूतस्थः सर्वव्यापी ततोस्म्यहम् ||१४-९६-६० (९५३३५)
अचिन्त्योहमनन्तोहमजरोहमजो ह्यहम् |
अनाद्योऽहमवध्योहमप्रमेयोहमव्ययः ||१४-९६-६१ (९५३३६)
निर्गुणोहं निगूढात्मा निर्द्वन्द्वो निर्ममो नृप |
निष्कलो निर्विकारोहं निदानममृतस्य तु ||१४-९६-६२ (९५३३७)
सुधा चाहं स्वधा चाहं स्वाहा चाहं नराधिप |
तेजसा तपसा चाहं भूतग्रामं चतुर्विधम् ||१४-९६-६३ (९५३३८)
स्नेहपाशैर्गुणबद्ध्वा धारयाम्यात्ममायया |
चातुराश्रमधर्मेहं चातुर्होत्रफलाशनः |
चतुर्मूर्तिश्चतुर्यज्ञश्चतुराश्रमभावनः ||१४-९६-६४ (९५३३९)
संहृत्याहं जगत्सर्वं कृत्वा वै गर्भमात्मनः |
शयामि दिव्ययोगेन प्रलयेषु युधिष्ठिर ||१४-९६-६५ (९५३४०)
सहस्रयुगपर्यन्तां ब्राह्मीं रात्रिं महार्णवे |
स्थित्वा सृजामि भूतानि जङ्गमानि स्थिराणि च ||१४-९६-६६ (९५३४१)
कल्पे कल्पे च भूतानि संहरामि सृजामि च |
न च मां तानि जानन्ति मायया मोहितानि मे ||१४-९६-६७ (९५३४२)
मम चैवान्धकारस्य मार्गितव्यस्य नित्यशः |
प्रशान्तस्येव दीपस्य गतिर्नैपोपलभ्यते ||१४-९६-६८ (९५३४३)
न तदस्ति क्वचिद्राजन्यत्राहं न प्रतिष्ठितः |
न च तद्विद्यते भूतं मयि यन्न प्रतिष्ठितम् ||१४-९६-६९ (९५३४४)
यावन्मित्रं भवेद्भूतं स्थूलं सूक्ष्ममिदं जगत् |
दीवभूतो ह्यहं तस्मिंस्तावन्मात्रं प्रतिष्ठितः ||१४-९६-७० (९५३४५)
किंचात्र बहुनोक्तेन सत्यमेतद्ब्रवीमि ते |
यद्भूतं यद्भविष्यच्च तत्सर्वमहमेव तु ||१४-९६-७१ (९५३४६)
मया सृष्टानि भूतानि मन्मयानि च भारत |
मामेव न विजानन्ति मायया मोहितानि वै ||१४-९६-७२ (९५३४७)
एवं सर्वं जगदिदं सदेवासुरमानुषम् |
मत्तः प्रभवते राजन्मय्येव प्रविलीयते ||||१४-९६-७३ (९५३४८)
इति श्रीमन्महाभारते आश्वमेधिकपर्वणि वैष्णवधर्मपर्वणि
षण्णवतितमोऽध्यायः ||९६ ||
Mahabharata -Ashvamedhika Parva -Chapter Footnotes
७-९६-१क्ष् एतदारभ्यापर्वसमाप्ति विद्यमानास्त्रयोविंशत्यध्याया
दाक्षिणात्यकोशेष्वेव दृश्यन्ते नत्वौत्तराहपाठे. ७-९६-२
पञ्चमेनाश्वमेधेनेति ट.पाठः. |
७-९६-१८ शूद्रायनकृता धर्मा इति क.पाठः ||
७-९६-२३ वैभीतककृताश्च ये इति ट.पाठः ||
७-९६-३१ राजेन्द्र पुनाति ह नरं सदेति ट.पाठः ||
आश्वमेधिकपर्व -अध्याय ०९७
||श्रीः ||
१४. ९७. अध्यायः ९७
Mahabharata -Ashvamedhika Parva -Chapter Topics
कृष्णेन युधिष्ठिरंप्रति चातुर्वर्ण्यधर्मनिरूपणम् ||१ ||
Mahabharata -Ashvamedhika Parva -Chapter Text
वैशम्पायन उवाच |
एवमात्मोद्भवं सर्वं यगदुद्दिश्य केशवः |
धर्मान्धर्मात्मजस्याथ पुण्यानकथयत्प्रभुः ||१४-९७-१ (९५३४९)
शृणु पाण्डव तत्वेन पवित्रं पापनाशनम् |
कथ्यमानं मया पुण्यं धर्मशास्त्रफलं महत् ||१४-९७-२ (९५३५०)
यः शृणोति शुचिर्भूत्वा एकचित्तस्तपोयुतः |
स्वर्ग्यं यशस्यामायुष्यं धर्मं ज्ञेयं युधिष्ठिर ||१४-९७-३ (९५३५१)
श्रद्दधानस्य तस्येह यत्पापं पूर्वसंचितम् |
विनश्यत्याशु तत्सर्वं मद्भक्तस्य विशेषतः ||१४-९७-४ (९५३५२)
वैशम्पायन उवाच. १४-९७-५क्ष् (७९३९)
एवं श्रुत्वा वचः पुण्यं सत्यं केशवभाषितम् |
प्रहृष्टमनसो भूत्वा चिन्तयन्तोऽद्भुतं परम् ||१४-९७-५ (९५३५३)
देवब्रह्मर्षयः सर्वे गन्धर्वाप्सरसस्तथा |
भूता यक्षग्रहाश्चैव गुह्यका भुजगास्तथा ||१४-९७-६ (९५३५४)
वालखिल्या महात्मानो योगिनस्तत्वदर्शिनः |
तथा भागवताश्चापि पञ्चकालमुपासकाः ||१४-९७-७ (९५३५५)
कौतूहलसमाविष्टाः प्रहृष्टैन्द्रियमानसाः |
श्रोतुकामाः परं धर्मं वैष्णवं धर्मशासनम् |
हृदि कर्तुं च तद्वाक्यं प्रणेमुः शिरसा नताः ||१४-९७-८ (९५३५६)
ततस्तान्वासुदेवेन दृष्टान्दिव्येन चक्षुषा |
विमुक्तपापानालोक्य प्रणम्य शिरसा हरिम् |
पप्रच्छ केशवं धर्मं धर्मपुत्रः प्रतापवान् ||१४-९७-९ (९५३५७)
युधिष्ठिर उवाच. १४-९७-१०क्ष् (७९४०)
कीदृशी ब्राह्मणस्याथ क्षत्रियस्यापि कीदृशी |
वैश्यस्य कीदृशी देव गतिः शूद्रस्य कीदृशी ||१४-९७-१० (९५३५८)
कथं बध्येत पाशेन ब्राह्मणस्तु यमालये |
क्षत्रियो वाथ वैश्यो वा शूद्रो वा बध्यते कथम् |
एतत्कर्मफलं ब्रूहि लोकनाथ नमोस्तु ते ||१४-९७-११ (९५३५९)
वैशम्पायन उवाच. १४-९७-१२क्ष् (७९४१)
पृष्टोऽथ केशवो ह्येवं धर्मपुत्रेण धीमता |
उवाच संसारगतिं चातुर्वर्ण्यस्य कर्मजाम् ||१४-९७-१२ (९५३६०)
भगवानुवाच. १४-९७-१३क्ष् (७९४२)
शृणु वर्णक्रमेणैव धर्मं धर्मभृतां वर |
नास्ति किंचिन्नरश्रेष्ठ ब्राह्मणस्य तु दुष्कृतम् ||१४-९७-१३ (९५३६१)
शिखांयज्ञोपवीता ये सन्ध्यां ये चाप्युपासते |
यैश्च पूर्णाहुतिः प्राप्ता विधिवज्जुह्वते च ये ||१४-९७-१४ (९५३६२)
वैश्वदेवं च ये चक्रुः पूजयन्त्यतिथींश्च ये |
नित्यं स्वाध्यायशीलाश्च जपयज्ञपराश्च ये ||१४-९७-१५ (९५३६३)
सायंप्रातर्हुताशाश्च शूद्रभोजनवर्जिताः |
डंभानृतविमुक्ताश्च स्वदारनिरताश्च ये |
पञ्चयज्ञपरा ये च येऽग्निहोत्रमुपासते ||१४-९७-१६ (९५३६४)
दहन्ति दुष्कृतं येषां हूयमानास्त्रयोऽग्नयः |
नष्टदुष्कृतकर्माणो ब्रह्मलोकं व्रजन्ति ते ||१४-९७-१७ (९५३६५)
ब्रह्मलोके पुनः कामं गन्धर्वैर्ब्रह्मगायकैः |
उद्गीयमानाः प्रयतैः पूज्यमानाः स्वयंभुवा |
ब्रह्मिलोके प्रमोदन्ते यावदाभूतसंप्लुवम् ||१४-९७-१८ (९५३६६)
क्षत्रियोपि स्थितो राज्ये स्वधर्मपरिपालकः |
सम्यक्प्रजाः पालयिता षड्भागनिरतः सदा ||१४-९७-१९ (९५३६७)
यज्ञदानरतो धीरः स्वदारनिरतः सदा |
शास्त्रानुसारी तत्वज्ञः प्रजाकार्यपरायणः ||१४-९७-२० (९५३६८)
विप्रेभ्यः कामदो नित्यं भृत्यानां भरणे रतः |
सत्यसन्धः शुचिर्नित्यं लोभडंभविवर्जितः |
क्षत्रियोप्युत्तमां याति गतिं देवनिषेविताम् ||१४-९७-२१ (९५३६९)
तत्र दिव्याप्सरोभिस्तु गन्धर्वैश्च विशेषतः |
सेव्यमानो महातेजाः क्रीडते शक्रपूजितः ||१४-९७-२२ (९५३७०)
चतुर्थगानि वै त्रिंशत्क्रीडित्वा तत्र देववत् |
इह मानुष्यलोके तु चतुर्वेदी द्विजो भवेत् ||१४-९७-२३ (९५३७१)
कृषिगोपालनिरतो धर्मानवेषणतत्परः. १४-९७-२४ (९५३७२)
दानधर्मेपि निरतो विप्रशुश्रूषकस्तथा ||१४-९७-२४ (९५३७३)
सत्यसन्धः शुचिर्नित्यं लोभडंभविवर्जितः |
ऋजुः स्वदारनिरतो हिंसाद्रोहविवर्जितः ||१४-९७-२५ (९५३७४)
वणिग्धर्मान्नमुञ्चन्वै देवब्राह्मणपूजकः |
वैश्यः स्वर्गतिमाप्नोति पूज्यमानोप्सरोगणैः ||१४-९७-२६ (९५३७५)
चतुर्युगानि वै त्रिंशत्क्रीडित्वा दश पञ्च च |
इह मानुष्यलोके च राजा भवति वीर्यवान् ||१४-९७-२७ (९५३७६)
सुवर्णकोट्यः पञ्चाशद्रत्नानां च शतं तथा |
हस्त्यश्वरश्वसंयुक्तो महाभोगांश्च सेवते ||१४-९७-२८ (९५३७७)
त्रयाणामपि वर्णानां शुश्रूषानिरतः सदा |
विशेषतस्तु विप्राणां दासवद्यस्तु तिष्टति ||१४-९७-२९ (९५३७८)
अयाचितप्रदाता च सत्यशौचसमन्वितः |
गुरुदेवार्चनरतः परदारविवर्जितः ||१४-९७-३० (९५३७९)
परपीडामकृत्वैव भत्यवर्गं बिभर्ति यः |
शूद्रोपि स्वर्गमाप्नोति जीवानामभयप्रदः ||१४-९७-३१ (९५३८०)
स स्वर्गकलोके क्रीडित्वा वर्षकोटिं महातपाः |
इह मानुषलोके तु वैश्यो धनपतिर्भवेत् ||१४-९७-३२ (९५३८१)
एवं धर्मात्परं नास्ति महत्संसारमोक्षणम् |
न च धर्मात्पर किंचित्पापकर्मव्यपोहनम् ||१४-९७-३३ (९५३८२)
तस्माद्धर्मः सदा कार्यो मानुष्यं प्राप्य दुर्लभम् |
न हि धर्मानुरक्तानां लोके किंचन दुर्लभम् ||१४-९७-३४ (९५३८३)
स्वयंभुविहितो धर्मो यो यस्येह नरेश्वर |
स तेन क्षपयेत्पापं सम्यगाचरितेन च ||१४-९७-३५ (९५३८४)
सहजं यद्भदेत्कर्म न तत्त्याज्यं हि केनचित् |
स एव तस्य धर्मो हि तेन सिद्धिं स गच्छति ||१४-९७-३६ (९५३८५)
विगुणोपि स्वधर्मस्तु पापकर्म व्यपोहति |
एवमेव तु धर्मोपि क्षीयते पापवर्धनात् ||१४-९७-३७ (९५३८६)
युधिष्ठिर उवाच. १४-९७-३८क्ष् (७९४३)
भगवन्देवदेवेश श्रोतुं कौतूहलं हि मे |
शुभस्याप्यशुभस्यापि क्षयवृद्धी यथाक्रमम् ||१४-९७-३८ (९५३८७)
भगवानुवाच. १४-९७-३९क्ष् (७९४४)
शृणु पार्थिव तत्सर्वं धर्मसूक्ष्मं सनातनम् |
दुर्विज्ञेयतमं नित्यं यत्र मग्ना महाजनाः ||१४-९७-३९ (९५३८८)
यथैव शीतमुदकमुष्णेन बहुना वृतम् |
भवेत्तु तत्क्षणादुष्णं शीतत्वं च विनश्यति ||१४-९७-४० (९५३८९)
यथोष्णं वा भवेदल्पं शीतेन बहुना वृतम् |
शीतलं च भवेत्सर्वमुष्णत्वं च विनश्यति ||१४-९७-४१ (९५३९०)
एवं च यद्भवेद्भूरि सुकृतं वाऽपि दुष्कृतम् |
तदल्पं क्षपयेच्छीघ्रं नात्र कार्या विचारणा ||१४-९७-४२ (९५३९१)
समत्वे सति राजेन्द्र तयोः सुकृतपापयोः |
गूहितस्य भवेद्वृद्धिः कीर्तितस्य भवेत्क्षयः ||१४-९७-४३ (९५३९२)
ख्यापनेनानुतापेन प्रायः पापं विनश्यति |
तथा कृतस्तु राजेन्द्र धर्मो नश्यति मानद ||१४-९७-४४ (९५३९३)
तावुभौ गूहितौ सम्यग्वृद्धिं यातो न संशयः |
तस्मात्सर्वप्रयत्नेन न पापं गूहयेद्बुधः ||१४-९७-४५ (९५३९४)
तस्मादेतत्प्रयत्नेनि कीर्तयेत्क्षयकारणात् |
तस्मात्संकीर्तयेत्पापं नित्यं धर्मं च गूहयेत् ||||१४-९७-४६ (९५३९५)
इति श्रीमन्महाभारते आश्वमेधिकपर्वणि वैष्णवधर्मपर्वणि
सप्तनवतितमोऽध्यायः ||९७ ||
आश्वमेधिकपर्व -अध्याय ०९८
||श्रीः ||
१४. ९८. अध्यायः ९८
अश्वमेधपर्व ||१ ||
Mahabharata -Ashvamedhika Parva -Chapter Topics
कृष्णेन युधिष्ठिरंप्रति जन्मदानजीवितानां
वैयर्थ्यापादकाधर्मकथनम् ||१ ||
तथा दानानां सात्विकत्वादिकथनपूर्व तत्तत्फलानां
त्रैविध्यादिप्रतिपादनम् ||२ ||
तथा दानपात्रलक्षणनिरूपणम् ब्राह्मणमहिमानुवर्णनं च ||३ ||
Mahabharata -Ashvamedhika Parva -Chapter Text
वैशम्पायन उवाच |
एवं श्रुत्वा वचस्तस्य धर्मपुत्रोऽच्युतस्य तु |
पप्रच्छ पुनरप्यन्यं धर्मं धर्मात्मजो हरिम् ||१४-९८-१ (९५३९६)
वृथा च कति जन्मानि वृथा दानानि कानि च |
वृथा च जीवितं केषां नराणां पुरुषोत्तम ||१४-९८-२ (९५३९७)
कीदृशासु ह्यवस्थासु दानं दत्तं जनार्दन |
इह लोकेऽनुभवति पुरुषः पुरुषोत्तम ||१४-९८-३ (९५३९८)
गर्भस्थः किं समश्नाति किं बाल्ये वाऽपि केशव |
यौवनस्थेऽपि किं कृष्ण वार्धके वाऽपि किं भवेत् ||१४-९८-४ (९५३९९)
सात्विकं कीदृशं दानं राजसं कीदृशं भवेत् |
तामसं कीदृशं देव तर्पयिष्यति किं प्रभो ||१४-९८-५ (९५४००)
उत्तमं कीदृशं दानं तेषां वा किं फलं भवेत् |
किं दानं नयति ह्यूर्ध्वं किं गतिं मध्यमां नयेत् |
गतिं जघन्यामथवा देवदेव ब्रवीहि मे ||१४-९८-६ (९५४०१)
एतदिच्छामि विज्ञातुं परं कौतूहलं हि मे |
त्वदीयं वचनं सत्यं पुण्यं च मधुसूदन ||१४-९८-७ (९५४०२)
वैशम्पायन उवाच. १४-९८-८क्ष् (७९४५)
एवं धर्मं प्रयत्नेन पृष्टः पाण्डुसुतेन वै |
उवाच वासुदेवोऽथ धर्मान्धर्मात्मजस्य तु ||१४-९८-८ (९५४०३)
भगवानुवाच. १४-९८-९क्ष् (७९४६)
शृणु राजन्यथान्यायं वचनं तथ्यमुत्तमम् |
कथ्यमानं मया पुण्यं सर्वपापव्यपोहनम् ||१४-९८-९ (९५४०४)
वृथा च दश जन्मानि चत्वारि च नराधिप |
वृथा दानानि पञ्चाशत्पञ्चैव च यथाक्रमम् ||१४-९८-१० (९५४०५)
वृथा च जीवितं येषां ते च षट् परिकीर्तिताः |
अनुक्रमेण वक्ष्यामि तानि सर्वाणि पार्थिव ||१४-९८-११ (९५४०६)
धर्मघ्नानां वृथा जन्म लुब्धानां पापिनां तथा |
वृथा पाकं च येऽश्नन्ति परदाररताश्च ये |
पाकभेदकरा ये च ये च स्युः सत्यवर्जिताः ||१४-९८-१२ (९५४०७)
मृष्टमश्नाति यश्चैकः क्लिस्यमानैस्तु बान्धवैः |
पितरं मातरं चैव उपाध्यायं गुरुं तथा |
मातुलं मातुलानीं च यो निहन्याच्छपेत वा ||१४-९८-१३ (९५४०८)
ब्राह्मणश्चैव यो भूत्वा सन्ध्योपासनवर्जितः |
निस्स्वाहो निस्स्वधश्चैव शूद्राणामन्नभुग्द्विजः ||१४-९८-१४ (९५४०९)
मम वा शंकरस्याथ ब्रह्मणो वा युधिष्ठिर |
अथवा ब्राह्मणानां तु ये न भक्ता नराधमाः |
वृथाजन्मान्यथैतेषां पापिनां विद्धि डव ||१४-९८-१५ (९५४१०)
अश्रद्धयाऽपि यद्दत्तमवामानेन वाऽपि यत् |
डंभार्थमपि यद्दत्तं यत्पाषण्डिहृतं नृप ||१४-९८-१६ (९५४११)
शूद्राचाराय यद्दत्तं यद्दत्त्वा चानुकीर्तितम् |
रोषयुक्तं तु यद्दत्तं यद्दत्तमनुशोचितम् ||१४-९८-१७ (९५४१२)
डंभार्जितं च यद्दत्तं यच्च वाऽप्यनृतार्जितम् |
ब्राह्मणस्वं च यद्दत्तं चौर्येणाप्यार्जितं च यत् ||१४-९८-१८ (९५४१३)
अभिशास्ताहृतं यत्तु यद्दत्तं पतिते द्विजे |
निर्ब्रह्माभिहृतं यत्तु यद्दत्तं सर्वयाचकैः ||१४-९८-१९ (९५४१४)
व्राप्यैस्तु यद्धृतं दानमारूढपतितैश्च यत् |
यद्दत्तं स्वैरिणीभर्तुः श्वशुराननुवर्तिने ||१४-९८-२० (९५४१५)
यद्ग्रामयाचकहृतं यत्कृतघ्नहृतं तथा |
उपपातकिने दत्तं देवविक्रयिणे च यत् ||१४-९८-२१ (९५४१६)
स्त्रीजिताय च यद्दत्तं यद्दत्तं राजसेविने |
गणकाय च यद्दत्तं यच्च कारणिकाय च ||१४-९८-२२ (९५४१७)
वृषलीपतये दत्तं यद्दत्तं शस्त्रजीविने |
भृतकाय च यद्दत्तं व्यालग्राहिहृतं च यत् ||१४-९८-२३ (९५४१८)
पुरोहिताय यद्दत्तं चिकित्सकहृतं च यत् |
यद्वणिंक्कर्मिणे दत्तं क्षुद्रमन्त्रोपजीविने ||१४-९८-२४ (९५४१९)
यच्छूद्रजीविने दत्तं यच्च देवलकाय च |
देवद्रव्याशिने यच्च यद्दत्तं चित्रकर्मिणे ||१४-९८-२५ (९५४२०)
रङ्गोपजीविने दत्तं यच्च मांसोपजीविने |
सेवकाय च यद्दत्तं यद्दत्तं ब्राह्मणब्रुवे ||१४-९८-२६ (९५४२१)
अदेशिने च यद्दत्तं दत्तं वार्धुषिकाय च |
यदनाचारिणे दत्तं यत्तु दत्तमनग्रये ||१४-९८-२७ (९५४२२)
असन्ध्योपासिने दत्तं यच्छूद्रग्रामवासिने |
यन्मिथ्यालिङ्गिने दत्तं दत्तं सर्वाशिने च यत् ||१४-९८-२८ (९५४२३)
नास्तिकाया च यद्दत्तं धर्मविक्रयिणे च यत् |
वराकाय च यद्दत्तं यद्दत्तं कूटसाक्षिणे ||१४-९८-२९ (९५४२४)
ग्रामकूटाय यद्दत्तं दानं पार्तिवपुङ्गव |
वृथा भवति तत्सर्वं नात्र कार्या विचारणा ||१४-९८-३० (९५४२५)
विप्राणामधरा एते लोलुपा ब्राह्मणाधमाः |
नात्मानं तारयन्त्येते न दातारं युधिष्ठिर ||१४-९८-३१ (९५४२६)
एतेभ्यो दत्तमात्राणि दानानि सुबहून्यपि |
वृथा भवन्ति राजेन्द्र भस्मन्याज्याहुतिर्यथा ||१४-९८-३२ (९५४२७)
एतेषु यत्फलं किंचिद्भविष्यति कथंचन |
राक्षसाश्च पिशाचाश्च तद्विलुंपन्ति हर्षिताः ||१४-९८-३३ (९५४२८)
वृथा ह्येतानि दत्तानि कथितानि समासतः |
जीवितं तु वृथा येषां चच्छृणुष्व युधिष्ठिर ||१४-९८-३४ (९५४२९)
ये मां न प्रतिपद्यन्ते शङ्करं वा नराधमाः |
ब्रैह्मणान्वा महीदेवान्वृथा जीवन्ति ते नराः ||१४-९८-३५ (९५४३०)
हेतुशास्त्रेषु ये सक्ताः कुदृष्टिपथमाश्रिताः |
देवान्निन्दन्त्यनाचारा वृथा जीवन्ति ते नराः ||१४-९८-३६ (९५४३१)
कुशलैः कृतशास्त्राणि पठित्वा ये नराधमाः |
विप्रान्निन्दन्ति यज्ञांश्च वृथा जीवन्ति ते नराः ||१४-९८-३७ (९५४३२)
ये दुर्गां वा कुमारं वा वायुमग्निं जलं रविम् |
पितरं मातरं चैव गुरुमिन्द्रं निशाकरम् |
मूढा निन्दन्त्यनाचारा वृथा जीवन्ति ते नराः ||१४-९८-३८ (९५४३३)
विद्यमाने धने यस्तु दानधर्मविवर्जितः |
मृष्टमश्नाति यश्चैको वृथा जीवति सोपि च ||१४-९८-३९ (९५४३४)
वृथा जीवितमाख्यातं दानकालं ब्रवीमि ते ||१४-९८-४० (९५४३५)
तमोनिविष्टचित्तेन दत्तं दानं तु यद्भवेत् |
तदस्य फलमश्नाति नरो गर्भगतो नृप ||१४-९८-४१ (९५४३६)
ईर्ष्यामत्सरसंयुक्तो डंभार्थं चार्थकारणात् |
ददाति दानं यो मर्त्यो बालभावे तदश्नुते ||१४-९८-४२ (९५४३७)
भोक्तं भोगमशक्तस्तु व्याधिभिः पीडितो भृशम् |
ददाति दानं यो मर्त्यो वृद्धभावे तदश्नुते ||१४-९८-४३ (९५४३८)
श्रद्धायुक्तः शुचिः स्नातः प्रसन्नेन्द्रियमानसः |
ददाति दानं यो मर्त्यो यौवने स तदश्नुते ||१४-९८-४४ (९५४३९)
स्वयं नीत्वा तु यद्दानं भक्त्या पात्रे प्रदीयते |
तत्सार्वकालिकं विद्धि दानमामरणान्तिकम् ||१४-९८-४५ (९५४४०)
राजसं सात्विकं चापि तामसं च युधिष्ठिर |
दानं दानफलं चैव गतिं च त्रिविधां शृणु ||१४-९८-४६ (९५४४१)
दानं दातव्यमित्येव मतिं कृत्वा द्विजाय वै |
उपकारवियुक्ताय यद्दत्तं तद्धि सात्विकम् ||१४-९८-४७ (९५४४२)
श्रोत्रियाय दरिद्राय बहुभृत्याय पाण्डव |
दीयते यत्प्रहृष्टेन तत्सात्विकमुदाहृतम् ||१४-९८-४८ (९५४४३)
वेदाक्षरविहीनाय यत्तु पूर्वोपकारिणे |
समृद्धाय च यद्दत्तं तद्दानं राजसं स्मृतम् ||१४-९८-४९ (९५४४४)
संबन्धिने च यद्दत्तं प्रमत्ताय च पाण्डव |
फलार्थिभिरपात्राय तद्दानं राजसं स्मृतम् ||१४-९८-५० (९५४४५)
वैश्वदेवविहीनाय दानमश्रोत्रियाय च |
दीयते तस्करायापि तद्दानं तामसं स्मृतम् ||१४-९८-५१ (९५४४६)
सरोषमवधूतं च क्लेशयुक्तमवज्ञया |
सेवकाय च यद्दतं तत्तामसमुदाहृतम् ||१४-९८-५२ (९५४४७)
देवाः पितृगणाश्चैव मुनयश्चाग्नयस्तथा |
सात्विकं दानमश्नन्ति तुष्यन्ति च नरेश्वर ||१४-९८-५३ (९५४४८)
दानवा दैत्यसङ्गाश्च ग्रहा यक्षाः सराक्षसाः |
राजसं दानमश्नन्ति वर्जितं पितृदैवतैः ||१४-९८-५४ (९५४४९)
पिशाचाः प्रेतसङ्घाश्च कश्मला ये मलीमसाः |
तामसं दानमश्नन्ति गतिं च त्रिविधां शृणु ||१४-९८-५५ (९५४५०)
सात्विकानां तु दानानामुत्तमं फलमश्नुते |
मध्यमं राजसानां तु तामसानां तु पश्चिमम् ||१४-९८-५६ (९५४५१)
अभिगम्योपनीतानां दानानामुत्तमं फलम् |
मध्यमं तु समाहूय जघन्यं याचते फलम् ||१४-९८-५७ (९५४५२)
अयाचितप्रदाता यः स याति गतिमुत्तमाम् |
समाहूय तु यो दद्यान्मध्यमां स गतिं व्रजेत् |
याचितो यश्च वै दद्याज्जघन्यां स गतिं व्रजेत् ||१४-९८-५८ (९५४५३)
उत्तमा दैविकी ज्ञेया मध्यमा मानुषी गतिः |
गतिर्जघन्या तिर्यक्षु गतिरेषा त्रिधा स्मृता ||१४-९८-५९ (९५४५४)
पात्रभूतेषु विप्रेषु संस्थितेष्वाहिताग्निषु |
यत्तु निक्षिप्यते दानमक्षयं संप्रकीर्तितम् ||१४-९८-६० (९५४५५)
श्रोत्रियाणां दरिद्राणां भरणं कुरु पार्थिव |
समृद्धानां द्विजातीनां कुर्यास्तेषां तु रक्षणम् ||१४-९८-६१ (९५४५६)
दरिद्रान्वित्तहीनांश्च प्रदानैः सुष्ठु पूजय |
आतुरस्यैषधैः कार्यं नीरुजस्य किमौषधैः ||१४-९८-६२ (९५४५७)
पापं प्रतिग्रहीतारं प्रदातुरपगच्छति |
प्रतिग्रहीतुर्यत्पुण्यं प्रदातारमुपैति तत् |
तस्माद्दानं सदा कार्यं परत्र हितमिच्छता ||१४-९८-६३ (९५४५८)
वेदविद्यावदातेषु सदा शूद्रान्नवर्जिषु |
प्रयत्नेन विधातव्यो महादानमयो निधिः ||१४-९८-६४ (९५४५९)
येषां दाराः प्रतीक्षन्ते सहस्रस्येव लम्भनम् |
भुक्तशेषस्य भक्तस्य तान्निमन्त्रय पाण्डव ||१४-९८-६५ (९५४६०)
आमन्त्र्य तु निराशानि न कर्तव्यानि भारत |
कुलानि सुदरिद्राणि तेषामाशा हता भवेत् ||१४-९८-६६ (९५४६१)
मद्भक्ता ये नरश्रेष्ठ मद्गता मत्परायणाः |
मद्याजिनो मन्नियमास्तान्प्रयत्नेन पूजयेत् ||१४-९८-६७ (९५४६२)
तेषां तु पावनायाहं नित्यमेव युधिष्ठिर |
उभे सन्ध्येऽधितिष्ठामि ह्यस्कन्नं तद्व्रतं मम ||१४-९८-६८ (९५४६३)
तस्मादष्टाक्षरं मन्त्रं मद्भक्तैर्वीतकल्मषैः |
सन्ध्याकाले तु जप्तव्यं सततं चात्मशुद्धये ||१४-९८-६९ (९५४६४)
अन्येषामपि विप्राणां किल्बिषं हि विनश्यति |
उभे सन्ध्येप्युपासीत तस्माद्विप्रो विशुद्धये. १४-९८-७० (९५४६५)
दैवे श्राद्धेपि विप्रः स नियोक्तव्योऽजुगुप्सया |
जुगुप्सितस्तु यः श्राद्धं दहत्यग्निरिवेन्धनम् ||१४-९८-७१ (९५४६६)
भारतं मानवो धर्मो वेदाः साङ्गाश्चिकित्सितम् |
आज्ञासिद्धानि चत्वारि न हन्तव्यानि हेतुभिः ||१४-९८-७२ (९५४६७)
न ब्राह्मणान्परीक्षेत दैवे कर्मणि धर्मवित् |
महान्भवेत्परीवादो ब्राह्मणानां परीक्षणे ||१४-९८-७३ (९५४६८)
ब्राह्मणानां परीवादं यः कुर्यात्स नराधमः |
रासभानां शुनां योनिं गच्छेत्पुरुषदूषकः ||१४-९८-७४ (९५४६९)
श्वत्वं प्राप्नोति निन्दित्वा परीवादात्खरो भवेत् |
कृमिर्भवत्यभिभवात्कीटो भवति मत्सरात् ||१४-९८-७५ (९५४७०)
दुर्वृत्ता वा सुवृत्ता वा प्राकृता वा सुसंस्कृताः |
ब्राह्मणा नावमन्तव्या भस्मच्छन्ना इवाग्नयः ||१४-९८-७६ (९५४७१)
क्षत्रियं चैव सर्पं च ब्राह्मणं च बहुश्रुतम् |
नावमन्येत मेधावी कृशानपि कदाचन ||१४-९८-७७ (९५४७२)
एतत्त्रयं हि पुरुषं निर्दहेदवमानितम् |
तस्मादेतत्प्रयत्नेन नावमन्येत बुद्धिमान् ||१४-९८-७८ (९५४७३)
यथा सर्वास्ववस्थासु पावको दैवतं महत् |
तथा सर्वास्ववस्थासु ब्राह्मणो दैवतं महत् ||१४-९८-७९ (९५४७४)
व्यङ्गाः काणाश्च कुब्जाश्च वामनाङ्गास्तथैव च |
सर्वे दैवे नियोक्तव्या व्यामिश्रा वेदपारगैः ||१४-९८-८० (९५४७५)
मन्युं नोत्पादयेत्तेषां न चारिष्टं समाचरेत् |
मन्युप्रहरणा विप्रा न विप्राः शश्त्रपाणयः ||१४-९८-८१ (९५४७६)
मन्युना घ्नन्ति ते शत्रून्वज्रेणेन्द्र इवासुरान् |
ब्राह्मणो हि महद्दैवं जातिमात्रेण जायते ||१४-९८-८२ (९५४७७)
ब्राह्मणः सर्वभूतानां धर्मकोशस्य गुप्तये |
किं पुनर्ये च कौन्तेय सन्ध्यां नित्यमुपासते ||१४-९८-८३ (९५४७८)
यस्यास्येन समश्नन्ति हव्यानि त्रिदिवौकसः |
कव्यानि चैव पितरः किं भूतमधिकं ततः ||१४-९८-८४ (९५४७९)
उत्पत्तिरेव विप्रस्य मूर्तिधर्मस्य शाश्वती |
स हि धर्मार्थमुत्पन्नो ब्रह्मभूयाय कल्पते ||१४-९८-८५ (९५४८०)
स्वमेव ब्राह्मणो भुङ्क्ते स्वं वस्ते स्वं ददाति च |
आनृशंस्याद्ब्राह्मणस्य भुञ्जते हीतरे जनाः |
तस्मात्ते नावमन्तव्या मद्भक्ता हि द्विजाः सदा ||१४-९८-८६ (९५४८१)
आरण्यकोपनिषदि ये तु पश्यन्ति मां द्विजाः |
निगूढं निष्कलावस्थं तान्प्रयत्नेन पूजय ||१४-९८-८७ (९५४८२)
स्वगृहे वा प्रवासे वा दिवारात्रमथापि वा |
श्रद्धया ब्राह्मणाः पूज्या मद्भक्ता ये च पाण्डव ||१४-९८-८८ (९५४८३)
नास्ति विप्रसमं दैवं नास्ति विप्रसमो गुरुः |
नास्ति विप्रात्परो बन्धुर्नास्ति विप्रात्परो निधिः |
नास्ति विप्रात्परं तीर्थं न पुण्यं ब्राह्मणात्परम्. १४-९८-८९ (९५४८४)
न पवित्रं परं विप्रान्न द्विजात्पावनं परम् |
नास्ति विप्राप्तरो धर्मो नास्ति विप्रात्परा गतिः ||१४-९८-९० (९५४८५)
पापकर्मसमाक्षिप्तं पतन्तं नरके नरम् |
त्रायते पात्रमप्येकं पात्रभूते तु तद्द्विजे ||१४-९८-९१ (९५४८६)
बालाहिताग्नयो ये च शान्ताः शूद्रान्नवर्जिताः |
मामर्चयन्ति तद्भक्तास्तेभ्यो दत्तमिहाक्षयम् ||१४-९८-९२ (९५४८७)
प्रदानैः पूजितो विप्रो वन्दितो वापि संस्कृतः |
सम्भाषितो वा दृष्टो वा मद्भक्तो दिवमुन्नयेत् ||१४-९८-९३ (९५४८८)
ये पठन्ति नमस्यन्ति ध्यायन्ति पुरुषास्तु माम् |
स तान्स्पृष्ट्वा च दृष्ट्वा च नरः पापैः प्रमुच्यते ||१४-९८-९४
(९५४८९)
मद्भक्ता मद्गतप्राणा मद्गीता मत्परायणाः |
बीजयोनिविशुद्धा यै श्रोत्रियाः संयतेन्द्रियाः |
शूद्रान्नविरता नित्यं ते पुनन्तीह दर्शनात् ||१४-९८-९५ (९५४९०)
स्वंय नीत्वा विशेषेण दानं तेषां गृहेष्वथ |
निवापयेत्तु यद्भक्त्या तद्दानं कोटिसंमितम् ||१४-९८-९६ (९५४९१)
जाग्रतः स्वपतो वापि प्रवासेषु गृहेष्वथ |
हृदये न प्रणश्यामि यस्य विप्रस्य भावतः ||१४-९८-९७ (९५४९२)
स पूजितो वा दृष्टो वा स्पृष्टो वापि द्विजोत्तमः |
सम्भाषितो वा राजेन्द्र पुनात्येव नरं सदा ||१४-९८-९८ (९५४९३)
एवं सर्वास्ववस्थासु सर्वदानानि पाण्डव |
मद्भक्तेभ्यः प्रदत्तानि स्वर्गमार्गप्रदानि वै ||||१४-९८-९९ (९५४९४)
इति श्रीमन्महाभारते आश्वमेधिकपर्वणि वैष्णवधर्मपर्वणि
अष्टनवतितमोऽध्यायः ||९८ ||
आश्वमेधिकपर्व -अध्याय ०९९
||श्रीः ||
१४. ९९. अध्यायः ९९
Mahabharata -Ashvamedhika Parva -Chapter Topics
कृष्णेन युधिष्ठिरंप्रति बीजयोन्योः शुद्ध्यशुद्धिनिरूपणम् ||१ ||
तथा गायत्रीमहिमानुवर्णनम् ||२ ||
ब्राह्मणमहिमप्रशंसनम् | ब्राह्मणावमन्तॄणां नारकयातनानुवर्णनं
च ||३ ||
Mahabharata -Ashvamedhika Parva -Chapter Text
वैशम्पायन उवाच |
श्रुत्वैवं सात्विकं दानं राजसं तामसं तथा |
पृथक्पृथक्त्वेन गतिं फलं चापि पृथक्पृथक् ||१४-९९-१ (९५४९५)
अवितृप्तः प्रहृष्टात्मा पुण्यं धर्मामृतं पुनः |
युधिष्ठिरो धर्मरतः केशवं पुनरब्रवीत् ||१४-९९-२ (९५४९६)
बीजयोनिविशुद्धानां लक्षणानि वदस्व मे |
बीजदोषेण लोकेश जायन्ते च कथं नराः ||१४-९९-३ (९५४९७)
आचारदोषं देवेशं वक्तुगर्हस्यशेषतः ||
ब्राह्मणानां विशेषं च गुणदोषौ च केशव ||१४-९९-४ (९५४९८)
चातुर्वर्ण्यस्य कुत्स्नस्य वर्तमानाः प्रतिग्रहे |
केन विप्रा विशेषेण तरन्ते तारयन्ति च |
एतान्कथय देवेश त्वद्भक्तस्य नमोस्तु ते ||१४-९९-५ (९५४९९)
भगवानुवाच. १४-९९-६क्ष् (७९४७)
शृणु राजन्यथावृत्तं बीजयोनिं शुभाशुभम् |
येन तिष्ठति लोकोयं विनश्यति च पाण्डव ||१४-९९-६ (९५५००)
अविप्लुतब्रह्मचर्यो यस्तु विप्रो यथाविधि |
स बीजं नाम विज्ञेयं तस्य बीजं शुभं भवेत् ||१४-९९-७ (९५५०१)
कन्या चाक्षतयोनिः स्यात्कुलीना पितृमातृतः |
ब्राह्मणादिषु विवाहेषु परिणीता यथाविधि |
सा प्रशस्ता वरारोहा तस्या योनिः प्रशस्यते ||१४-९९-८ (९५५०२)
मनसा कर्मणा वाचा या गच्छेत्परपूरुषम् |
योनिस्तस्या नरश्रेष्ठ गर्भाधानं न चार्हति ||१४-९९-९ (९५५०३)
स्वैरिण्या यस्तु पापात्मा संतानार्थमिहेच्छति |
स कुलान्पातयत्याशु दशपूर्वान्दशापरान् ||१४-९९-१० (९५५०४)
दुष्टयोनौ तु यो मोहाद्रेतः सिञ्चति मूढधीः |
तद्रेतसा समुत्पन्नः षडङ्गविदपि द्विजः |
साधुभिः स बहिष्कार्यः श्वापाक इव पार्थिवा ||१४-९९-११ (९५५०५)
कर्मणा मनसा वाचा या भवेत्स्वैरचारिणी |
सा कुलघ्रीति विज्ञेया तस्यां जातः श्वपाचकः ||१४-९९-१२ (९५५०६)
दैवे पित्र्ये तथा दाने भोजने सहभाषणे |
शयने सहसंबन्धे न योग्या दृष्टयोनिजाः ||१४-९९-१३ (९५५०७)
न तस्माद्दुष्टयोन्यां तु गर्भमुत्पादयेद्बुधः |
मोहेन कुरुते यस्तु कुलं हन्ति त्रिपूरुषम् ||१४-९९-१४ (९५५०८)
कानीकनश्च सहोञश्च तथोभौ कुण्डगोलकै |
आरूढपतिताज्जातः परितस्यापि यः सुतः |
षडेते विप्रचण्डाला निकृष्टाः श्वपचादपि ||१४-९९-१५ (९५५०९)
यो यत्र तत्र वा रेतः सिक्त्वा शूद्रासु वा चरेत् |
कामचारी स पापात्मा बीजं तस्याशुभं भवेत् ||१४-९९-१६ (९५५१०)
अशुद्धं तद्भवेद्बीजं शुद्धां योनि न चार्हति |
दूषयत्यपि तां योनिं शुना लीढं हविर्यथा ||१४-९९-१७ (९५५११)
शूद्रयोनौ पतेद्बीजं हाहाशब्दं द्विजन्मनः |
कुर्यात्पुरीषगर्तेषु पतितोऽस्मीति दुःखितः ||१४-९९-१८ (९५५१२)
मामधःपातयन्नेष पापात्मा काममोहितः |
अधोगतिं प्रजोत्क्षिप्रमिति शप्त्वा पतेत्तु तत् ||१४-९९-१९ (९५५१३)
आत्मा हि शुक्लमुद्दिष्टं दैवतं परमं महत् |
तस्मात्सर्वप्रयत्नेन निरुन्ध्याच्छुक्लमात्मनः ||१४-९९-२० (९५५१४)
आयुस्तेजो बलं वीर्यं प्रज्ञा श्रीश्च महद्यशः |
पुण्यं च मत्प्रियत्वं च लभते ब्रह्मचर्यया ||१४-९९-२१ (९५५१५)
अविप्लुतब्रह्मचर्यैर्गृहस्थश्रममाश्रितैः |
पञ्चयज्ञपरैर्धर्मः स्थाप्यते पृथिवीतले ||१४-९९-२२ (९५५१६)
सायंप्रातस्तु ये सन्ध्यां सम्यङ्नित्यमुपासते |
नावं वेदमयीं कृत्वा तरन्ते तारयन्ति च ||१४-९९-२३ (९५५१७)
यो जपेत्पावनीं देवीं गायत्रीं वेदमातरम् |
न सीदेत्प्रतिगृह्णानः पृथिवीं च ससागराम् ||१४-९९-२४ (९५५१८)
ये चास्य दुःस्थिताः केचिद्ग्रहाः सूर्यादयो दिवि |
ते चास्य सौम्या जायन्ते शिवाः शुभकरास्तथा ||१४-९९-२५ (९५५१९)
यत्र यत्र स्थिताश्चैव दारुणाः पिशिताशनाः |
घोररूपा महाकाया धर्षयन्ति न तं द्विजम् ||१४-९९-२६ (९५५२०)
पुनन्तीह पृथिव्यां च चीर्णवेदव्रता नराः |
चतुर्णामपि वेदानां सा हि राजन्गरीयसी ||१४-९९-२७ (९५५२१)
अचीर्णिव्रतवेदा ये विकर्मफलमाश्रिताः |
ब्राह्ममा नाममात्रेण तेऽपि पूज्या युधिष्ठिर |
किं पुनर्यस्तु सन्ध्ये द्वे नित्यमेवोपतिष्ठते ||१४-९९-२८ (९५५२२)
शीलमध्ययनं दानं शौचं मार्दवमार्जवम् |
तस्माद्वेदाद्विशिष्टानि मनुराह प्रजापतिः ||१४-९९-२९ (९५५२३)
भूर्भुवस्स्वरिति ब्रह्म यो वेदनिरतो द्विजः |
स्वदारनिरतो दान्तः स विद्वान्स च भूसुरः ||१४-९९-३० (९५५२४)
सन्ध्यामुपासते ये वै नित्यमेव द्विजोत्तमाः |
ते यान्ति नरशार्दूल ब्रह्मलोकं न संशयः ||१४-९९-३१ (९५५२५)
सावित्रीमात्रसारोपि वरो विप्रः सुयन्त्रितः |
नायन्त्रितश्चतुर्वेदी सर्वाशी सर्वविक्रयी ||१४-९९-३२ (९५५२६)
सावित्रीं चैव वेदांश्च तुलयाऽतोलयन्पुरा |
सदेवर्षिगणाश्चैव सर्वे ब्रह्मपुरस्सराः |
चतुर्णामपि वेदानां सा हि राजन्गरीयसी ||१४-९९-३३ (९५५२७)
यथा विकसिते पुष्पे मधु गृह्णन्ति षट्पदाः |
एवं गृहीता सावित्री सर्ववेदे च पाण्डवः ||१४-९९-३४ (९५५२८)
तस्मात्तु सर्ववेदानां सावित्री प्राण उच्यते |
निर्जीवा हीतरे वेदा विना सावित्रिया नृपः ||१४-९९-३५ (९५५२९)
नायन्त्रितश्चतुर्वेदी शीलभ्रष्टः स कुत्सितः |
शीलवृत्तसमायुक्तः सावित्रीपाठको वरः ||१४-९९-३६ (९५५३०)
सहस्रपरमां देवीं शतमध्यां दशावराम् |
सावित्रीं जप कौतेय सर्वपापप्रणाशिनीम् ||१४-९९-३७ (९५५३१)
युधिष्ठिर उवाच. १४-९९-३८क्ष् (७९४८)
त्रैलोक्यनाथ हे कृष्ण सर्वभूतात्मको ह्यसि |
नानायोगपर श्रेष्ठ तुष्यसे केन कर्मणा ||१४-९९-३८ (९५५३२)
भागवानुवाच. १४-९९-३९क्ष् (७९४९)
यदि भारसहस्रं तु गुग्गुल्वादि प्रधूपयेत् |
करोति चेन्नमस्कारमुपहारं च कारयेत् ||१४-९९-३९ (९५५३३)
स्तौति यः स्तुतिभिर्मां च ऋग्यजुस्सामभिः सदा |
न तोषयति चेद्धिप्रान्नाहं तुष्यामि भारत ||१४-९९-४० (९५५३४)
ब्राह्मणे पूजिते नित्यं पूजितोस्मि न संशयः |
आक्रुष्टे चाहमाक्रुष्टो भवामि भरतर्षभ ||१४-९९-४१ (९५५३५)
परा मयि गतिस्तेषां पूजयन्ति द्विजं हि ये |
यदहं द्विजरूपेण वसामि वसुधातले ||१४-९९-४२ (९५५३६)
यस्तान्पूजयति प्राज्ञो मद्गतेनान्तरात्मना |
तमहं स्वेन रूपेण पश्यामि नरपुङ्गव ||१४-९९-४३ (९५५३७)
कुब्जाः काणा वामनाश्च दरिद्रा व्याधितास्तथा |
नावमान्या द्विजाः प्राज्ञैर्मम रूपा हि ते द्विजाः ||१४-९९-४४ (९५५३८)
ये केचित्सागरान्तायां पृथिव्यां द्विजसत्तमाः |
मम रूपं हि तेष्वेवमर्चितेष्वर्चितोऽस्म्यहम् ||१४-९९-४५ (९५५३९)
बहवस्तु न जानन्ति नरा ज्ञानबहिष्कृताः |
यदहं द्विजरूपेण वसामि वसुधातले ||१४-९९-४६ (९५५४०)
अवमन्यन्ति ये विप्रान्स्वधर्मान्पातयन्ति ते |
प्रेषणैः प्रेषयन्ते च शुश्रूषां कारयन्ति च ||१४-९९-४७ (९५५४१)
मृतांश्चात्र परत्रेमान्यमदूता महाबलाः |
निकृन्तन्ति यथाकामं सूत्रमार्गेण शिल्पिनः ||१४-९९-४८ (९५५४२)
आक्रोशपरिवादाभ्यां ये रमन्ते द्विजातिषु |
तान्मृतान्यमलोकस्थान्निपात्य पृथिवीतले ||१४-९९-४९ (९५५४३)
आक्रम्योरसि पादेन क्रूरः संरक्तलोचनः |
अग्निवर्णैस्तु संदंशैर्यमो जिह्वां समुद्धरेत् ||१४-९९-५० (९५५४४)
ये च विप्रान्निरीक्षन्ते पापाः पापेन चक्षुषा |
अब्रह्मण्याः श्रुतेर्बाह्या नित्यं ब्रह्मद्विषो नराः ||१४-९९-५१ (९५५४५)
तेषां घोरा महाकाया वक्रतुण्डा महाबलाः |
उद्धरन्ति मुहूर्तेन स्वगाश्चक्षुर्यमाज्ञया ||१४-९९-५२ (९५५४६)
यः प्रहारं द्विजेन्द्राय दद्यात्कुर्याच्च शोणितम् |
अस्थिभङ्गं च यः कुर्यात्प्राणैर्वा विप्रयोजयेत् |
सोनुपूर्व्येण यातीमान्नरकानेकविंशतिम् ||१४-९९-५३ (९५५४७)
शूलमारोप्यते पश्चाज्ज्वलने परिपच्यते |
बहुवर्षसहस्राणि पच्यमानस्त्ववाक्छिराः |
नावमुच्येत दुर्मेदा न तस्य क्षीयते गतिः ||१४-९९-५४ (९५५४८)
ब्राह्मणान्वा विचार्यैव व्रजन्तै वधकाङ्क्षया |
शतर्वषसहस्राणि तामिस्रे परिपच्यते ||१४-९९-५५ (९५५४९)
उत्पाद्य शोणितं गात्रात्संरंभमतिपूर्वकम् |
सपर्ययेण यातीमान्नरकानेकविंशतिम् ||१४-९९-५६ (९५५५०)
तस्मान्नाकुशलं ब्रूयान्न शुष्कां गतिमीरयेत् |
न ब्रूयात्परुषां वाणीं न चैवैनानतिक्रमेत् ||१४-९९-५७ (९५५५१)
ये विप्राञ्श्लक्ष्णया वाचा पूजयन्ति नरोत्तमाः |
अर्चितश्च स्तुतश्चैव तैर्भवामि न संशयः ||१४-९९-५८ (९५५५२)
तर्जयन्ति च ये विप्रान्क्रोशयन्ति च भारत |
आक्रुष्टस्तर्जितश्चाहं तैर्भवामि न संशयः ||१४-९९-५९ (९५५५३)
यश्चन्दनैश्चागरुधूपदीपै-
रभ्यर्चयेत्काष्ठमयीं ममार्चाम् |
तेनार्चितो नैव भवामि सम्य-
ग्विप्रार्चनादस्मि समर्चितोऽहम् ||१४-९९-६० (९५५५४)
विप्रप्रसादाद्धरणीधरोऽहं
विप्रप्रसादादसुराञ्जयामि |
विप्रप्रसादाच्च सदक्षिणोऽहं
विप्रप्रसादादजितोऽहमस्मि ||||१४-९९-६१ (९५५५५)
इति श्रीमन्महाभारते आश्वमेधिकपर्वणि वैष्णवधर्मपर्वणि
एकोनशततमोऽध्यायः ||९९ ||
आश्वमेधिकपर्व -अध्याय १००
||श्रीः ||
१४. १००. अध्यायः १००
Mahabharata -Ashvamedhika Parva -Chapter Topics
कृष्णेन युधिष्ठिरंप्रति
सुकृतिदुष्कृतिजनप्राप्यवैवस्वतपुरमार्गादिप्रतिपादनपूर्वकं
तेषां तद्गमनप्रकारानुवर्णनम् ||१ ||
Mahabharata -Ashvamedhika Parva -Chapter Text
युधिष्ठिर उवाच |
देवदेवेश दैत्यघ्नि परं कौतूहलं हि मे |
एतत्कथय सर्वज्ञ त्वद्भक्तस्य च केशव |
मानुषस्य च लोकस्य धर्मलोकस्य चान्तरम् ||१४-१००-१ (९५५५६)
कीदृशं किंप्रमाणं वा किमधिष्ठानमेव च |
तरन्ति मानुषा देव केनोपायेन माधव ||१४-१००-२ (९५५५७)
त्वगस्थिमांसनिर्मुक्ते पञ्चभूतविवर्जिते |
कथयस्व महादेव सुखदुःखमशेषतः ||१४-१००-३ (९५५५८)
जीवस्य कर्मलोकेषु कर्मभिस्तु शुभाशुभैः |
अनुबद्धस्य तैः पाशैर्नीयमानस्य दारुणैः ||१४-१००-४ (९५५५९)
मृत्युदूतैर्दुराधर्षैर्घोरैर्घोरपरक्रमैः |
वध्यस्याक्षिप्यमाणस्य विद्रुतस्य यमाज्ञया ||१४-१००-५ (९५५६०)
पुण्यपापकृदातिष्ठेत्सुखदुःखमशेषतः |
यमदूतैर्द्रुराधर्षैर्नीयते वा कथं पुनः |
किं वा तत्र गता देव कर्म कुर्वन्ति मानवाः ||१४-१००-६ (९५५६१)
कथं धर्मपरा यान्ति देवताद्विजपूजकाः |
कतं वा पापकर्माणो यान्ति प्रेतपुरं नराः ||१४-१००-७ (९५५६२)
किं रूपं किं प्रमाणं वा वर्णः को वाऽस्य केशव |
जीवस्य गच्छतो नित्यं यमलोकं ब्रवीहि मे ||१४-१००-८ (९५५६३)
भगवानुवाच. १४-१००-९क्ष् (७९५०)
शृणु राजन्यथावृतं यन्मां त्वं परिपृच्छसि |
तत्तेऽहं कथयिष्यामि मद्भक्तस्य नरेश्वर ||१४-१००-९ (९५५६४)
षडशीतिसहस्राणि योजनानां युधिष्ठिर |
मानुष्यस्य च लोकस्य यमलोकस्य चान्तरम् ||१४-१००-१० (९५५६५)
न तत्र वृक्षच्छाया वा न तटाकं सरोपि वा |
न वाप्यो दीर्घिका वाऽपि न कूपो वा युधिष्ठिर ||१४-१००-११ (९५५६६)
न मण्टपं सभा वाऽपि न प्रपा न निकेतनम् |
न पर्वतो नदी वाऽपि न भूमेर्विवरं क्वचित् ||१४-१००-१२ (९५५६७)
न ग्रामो नाश्रमो वाऽपि नोद्यानं वा वनानि च |
न किंचिदाश्रयस्थानं पथि तस्मिन्युधिष्ठिर ||१४-१००-१३ (९५५६८)
जन्तोर्हि प्राप्तकालस्य वेदनार्तस्य वै भृशम् |
कारणैस्त्यक्तदेहस्य प्राणैः कण्ठगतैः पुनः ||१४-१००-१४ (९५५६९)
शरीराच्चाल्यते जीवो ह्यवशो मातरिश्वना |
निर्गतो वायुभूतस्तु षट्कोशात्तु कलेवरात् ||१४-१००-१५ (९५५७०)
शरीरमन्यत्तद्रूपं तद्वर्णं तत्प्रमाणतः |
अदृश्यं तत्प्रविष्टस्तु सोप्यदृष्टोऽथ केनचित् ||१४-१००-१६ (९५५७१)
सोन्तरात्मा देहवतामष्टाङ्गो यस्तु संचरेत् |
छेदनाद्भेदनाद्दाहात्ताडनाद्वा न नश्यति. १४-१००-१७ (९५५७२)
नाना रूपधरैर्घौरैः प्रचण्डेश्चण्डसाधनैः |
नीयमानो दुराधर्षैर्यमदूतैर्यमाज्ञया ||१४-१००-१८ (९५५७३)
पुत्रदारमयैः पाशैः संनिरूद्धोऽवशो बलात् |
स्वकर्मभिश्चानुगतः कृतैः सुकृतदुष्कृतैः ||१४-१००-१९ (९५५७४)
आक्रन्दमानः करुणं बन्धुभिर्दुःखपीडितैः |
त्यक्त्वा बन्धुजनं सर्वं निरपेक्षस्तु गच्छति ||१४-१००-२० (९५५७५)
मातृभिः पितृभिश्चैव भ्रातृभिर्मातुलैस्तथा |
दारैः पुत्रैर्वयस्यैश्च रुदद्भिस्त्यज्यते पुनः ||१४-१००-२१ (९५५७६)
अदृश्यमानस्तैर्दीनैरश्रुपूर्णमुखेक्षणैः |
स्वशरीरं परित्यज्य वायुभूतस्तु गच्छति ||१४-१००-२२ (९५५७७)
अन्धकारमपारं तं महाघेरं तमोवृतम् |
दुःखान्तं दुष्प्रतारं च दुर्गमं पापकर्मणाम् ||१४-१००-२३ (९५५७८)
दुःसहायं दुरन्तं च दुर्निरीक्षं दुरासदम् |
दुरापमतिदुःखं च पापिष्ठानां नरोत्तम ||१४-१००-२४ (९५५७९)
ऋषिभिः कथ्यमानं तत्पारंपर्येण पार्थिव |
त्रासं जनचति प्रायः श्रूयमाणं कथास्वपि ||१४-१००-२५ (९५५८०)
अवश्यं चैव गन्तव्यं तदध्वानं युधिष्ठिर |
प्राप्तकालेन संत्यज्य बन्धून्भोगान्धनानि च ||१४-१००-२६ (९५५८१)
जरायुजैरण्डजैश्च स्वेदजैरुद्भिदैस्तथा |
जङ्गमैः स्थिरसंज्ञैश्च गन्तव्यं यमसादनम् ||१४-१००-२७ (९५५८२)
देवासुरैर्मनुष्याद्यैर्वैवस्वतवशानुगैः |
स्त्रीपुंनपुंसकैश्चापि पृथिव्यां जीवसंज्ञितैः ||१४-१००-२८ (९५५८३)
मध्यमैर्युवभिर्वाऽपि बालैर्वृद्धैस्तथैव च |
जातमात्रैश्च गर्भस्थैर्गन्तव्यः स महापथः ||१४-१००-२९ (९५५८४)
पूर्वाह्णे वाऽपराह्णे वा सन्ध्याकालेऽथवा पुनः |
प्रदोषे वाऽर्धरात्रे वा प्रत्युषे वाऽप्युपस्थिते ||१४-१००-३० (९५५८५)
प्रवासस्थैर्वनस्थैर्वा पर्वतस्थैर्जले स्थितैः |
क्षेत्रस्थैर्वा नभःस्थेर्वा गृहमध्यगतैरपि ||१४-१००-३१ (९५५८६)
भुञ्जद्भिर्वा पिबद्भिर्वा खादद्भिर्वा नरोत्तम |
आसीनैर्वा स्थितैर्वापि शयनीयगतैरपि |
जाग्रद्भिर्वा प्रसुप्तैर्वा गन्तव्यः स महापथः ||१४-१००-३२ (९५५८७)
मृत्युदूतैर्दुराधर्षैः प्रचण्डैश्चण्डसासनैः |
आक्षिप्यमाणा ह्यवशाः प्रयान्ति यमसादनम् ||१४-१००-३३ (९५५८८)
क्वचिद्भीतैः क्वचिन्मत्तैः प्रस्खलद्भिः क्वचित्क्वचित् |
क्रन्दद्भिर्वेदनार्तैस्तु गन्तव्यं यमसादनम् ||१४-१००-३४ (९५५८९)
निर्भर्त्स्यमानैरुद्विग्रैर्विधूतैर्भयविह्वलैः |
तुद्यमानशरीरैश्च गन्तव्यं तर्जितैस्तथा ||१४-१००-३५ (९५५९०)
कण्टकाकीर्णमार्गेण तप्तवालुकपांसुना |
दह्यमानैस्तु गन्तव्यं नरैर्दानविवर्जितैः ||१४-१००-३६ (९५५९१)
काष्ठोपलशिलाघातैर्दण्डोल्मुककशाङ्कुशैः |
हन्यमानैर्यमपुरं गन्तव्यं धर्मवर्जितैः ||१४-१००-३७ (९५५९२)
मेदःशोणितपूयाद्यैर्वक्त्रैर्गात्रैश्च सव्रणैः |
दग्धक्षतजकीर्णैश्च गन्तव्यं जीवघातकैः ||१४-१००-३८ (९५५९३)
वेदनार्तैस्च कूजद्भिर्विक्रोशद्भिश्च विस्वरम् |
वेदनार्तैः पतद्भिश्च गन्तव्यं जीवघातकैः ||१४-१००-३९ (९५५९४)
भग्रपादोरुहस्तङ्गैर्भग्रजङ्घाशिरोधरैः |
छिन्नकर्णोष्ठनासैश्च गन्तव्यं जीवघातकैः ||१४-१००-४० (९५५९५)
शक्तिभिर्भिण्डिपालैश्च शङ्कुतोमरसायकैः |
तुद्यमानैस्तु शूलाग्रैर्गन्तव्यं जीवघातकैः ||१४-१००-४१ (९५५९६)
श्वभिर्व्याघ्रैर्वृकैः काकैर्भक्ष्यमाणाः समन्ततः |
तुद्यमानाश्च गच्छन्ति राक्षसैर्मांसघातिभिः ||१४-१००-४२ (९५५९७)
महिषैश्च मृगैश्चापि सूकरैः पृषतैस्तथा |
भक्ष्यमाणैस्तदध्वानं गन्तव्यं मांसखादिभिः ||१४-१००-४३ (९५५९८)
सूचीसुतीक्ष्णतुण्डाभिर्मक्षिकाभिः समन्ततः |
तुद्यमानैश्च गन्तव्यं पापिष्ठैर्बालघातकैः ||१४-१००-४४ (९५५९९)
विस्रब्धं स्वामिनं मित्रं स्त्रियं वा घ्रन्ति ये नराः |
शस्त्रैर्निर्भिद्यमानैश्च गन्तव्यं यमसादनम् ||१४-१००-४५ (९५६००)
खादयन्ति च ये जीवान्दुःखमापादयन्ति च |
राक्षसैश्च श्वभिश्चैव भक्ष्यमाणा व्रजन्ति च ||१४-१००-४६ (९५६०१)
ये हरन्ति च वस्त्राणि शय्यां प्रावरणानि च |
ते यान्ति विद्रुता नग्नाः पिशाचा इव तत्पथं ||१४-१००-४७ (९५६०२)
गाश्च धान्यं हिरण्यं वा बलात्क्षेत्रं गृहं तथा |
ये हरन्ति दुरात्मानः परस्वं पापकारिणः ||१४-१००-४८ (९५६०३)
पाषाणैरुल्मुकैर्दण्डैः काष्ठघातैश्च चर्झरैः |
हन्यमानैः क्षताकीर्णैर्नन्तव्यं तैर्यमालयम् ||१४-१००-४९ (९५६०४)
ब्रह्मस्वं ये हरन्तीह नरा नरकनिर्भयाः |
आक्रोशन्तीह ये नित्यं प्रहरन्ति च ये द्विजान् ||१४-१००-५० (९५६०५)
शुष्ककण्ठा निबद्धास्ते छिन्नजिह्वाक्षिनासिकाः |
पूयशोणितदुर्गन्धा भक्ष्यमाणाश्च जंबुकैः ||१४-१००-५१ (९५६०६)
चण्डालैर्भीषणैश्चण्डैस्तुद्यमानाः समन्ततः |
क्रोशन्तः करुणं घोरं गच्छन्ति यमासादनम् ||१४-१००-५२ (९५६०७)
तत्र चापि गताः पापा विष्ठाकूपेष्वनेकशः |
जीवन्तो वर्षकोटीस्तु क्लिश्यन्ते वेदनात्ततः ||१४-१००-५३ (९५६०८)
ततश्च मुक्ताः कालेन लोके चास्मिन्नराधमाः |
विष्ठाक्रिमित्वं गच्छन्ति जन्मकोटिशतं नृप ||१४-१००-५४ (९५६०९)
विद्यमानधनैर्यैस्तु लोभडंभानृतान्वितैः |
श्रोत्रियेभ्यो न दत्तानि दानानि कुरुपुङ्गव ||१४-१००-५५ (९५६१०)
ग्रीवापाशनिबद्धास्ते हन्यमानाश्च राक्षसैः |
क्षुत्पिपासाश्रमार्तास्तु यान्ति प्रेतपुरं नराः ||१४-१००-५६ (९५६११)
अदत्तदाना गच्छन्ति शुष्ककण्ठास्यतालुकाः |
अन्नं पानीयसहितं प्रार्थयन्तः पुनःपुनः ||१४-१००-५७ (९५६१२)
स्वामिन्बुभक्षातृष्णार्ता गन्तुं नैवाद्य शक्नुमः |
ममान्नं दीयतां स्वामिन्पानीयं दीयतां मम |
इति ब्रुवन्तस्तैर्दूतैः प्राप्यन्ते वै यमालयम् ||१४-१००-५८ (९५६१३)
वैशम्पायन उवाच. १४-१००-५९क्ष् (७९५१)
तच्छ्रुत्वा वचनं विष्णोः पपात भुवि पाण्डवः |
निस्संज्ञो भयसंत्रस्तो मूर्छया समभिप्लुतः ||१४-१००-५९ (९५६१४)
ततो लब्ध्वा शनैः संज्ञां समाश्वस्तोच्युतेन सः |
नेत्रे प्रक्षाल्य तोयेन भूयः केशवमब्रवीत् ||१४-१००-६० (९५६१५)
भीतोस्म्यहं महादेव श्रुत्वा मार्गस्य विस्तरम् |
केनोपायेन तं मार्गं तरन्ति पुरुषाः सुखम् ||१४-१००-६१ (९५६१६)
भगवानुवाच. १४-१००-६२क्ष् (७९५२)
इह ये धार्मिका लोके जीवगातविवर्जिताः |
गुरुशुश्रूषणे युक्ता देवब्राह्मणपूजकाः ||१४-१००-६२ (९५६१७)
अस्मान्मानुष्यलोकात्ते समार्याः सहबान्धवाः |
यमध्वानं तु गच्छन्ति यथावत्तं निबोध मे ||१४-१००-६३ (९५६१८)
ब्राह्मणेभ्यः प्रदानानि नानारूपाणि पाण्डव |
ये प्रयच्छन्ति विप्रेभ्यस्ते सुखं यान्ति तत्फलम् ||१४-१००-६४ (९५६१९)
अन्नं ये च प्रयच्छन्ति ब्राह्मणेभ्यः सुसंस्कृतम् |
क्षोत्रियेभ्यो विशेषेण प्रीत्या परमया युताः ||१४-१००-६५ (९५६२०)
ते विमानैर्महात्मानो यान्ति चित्रैर्यमालयम् |
सेव्यमाना वरस्त्रीभिरप्सरोभिर्महापथम् ||१४-१००-६६ (९५६२१)
ये च नित्यं प्रभाषन्ते सत्यं निष्कल्मषं वचः |
ते च यान्त्यमलाभ्राभैर्विमानैर्वृषयोजितैः ||१४-१००-६७ (९५६२२)
कपिलाद्यानि पुण्यानि गोप्रदानानि ये नराः |
ब्राह्मणेभ्यः प्रयच्छन्ति श्रोत्रियेभ्यो विशेषतः ||१४-१००-६८ (९५६२३)
ते यान्त्यमलवर्णाभैर्विमानैर्वृषयोजितैः |
वैवस्वतपुरं प्राप्य ह्यप्सरोभिर्निषेविताः ||१४-१००-६९ (९५६२४)
उपानहौ च च्छत्रं च शयनान्यासनानि च |
विप्रेभ्यो ये प्रयच्छन्ति वस्त्राण्याभरणानि च ||१४-१००-७० (९५६२५)
ते यान्त्यश्वैर्वृषैर्वाऽपि कुञ्जरैरप्यलङ्कृताः |
धर्मराजपुरं रम्यं सौवर्णच्छत्रशोभिताः ||१४-१००-७१ (९५६२६)
ये च भक्ष्याणि दास्यन्ति भोज्यं पेयं तथैव च |
स्निग्धान्नान्यापि विप्रेभ्यः श्रद्धया परया युताः ||१४-१००-७२ (९५६२७)
ते यान्ति काञ्चनार्यानैः सुखं वैवस्वतालयम् |
वरस्त्रीभिर्यथाकामं सेव्यमानाः सहस्रशः ||१४-१००-७३ (९५६२८)
ये च क्षीरं प्रयच्छन्ति घृतं दधि गुडं मधु |
ब्राह्मणेभ्यः प्रयत्नेन श्रद्दधानाः सुसंस्कृताः ||१४-१००-७४ (९५६२९)
चक्रवाकप्रयुक्तैस्तु यानै रुक्ममयैः शुभैः |
यान्ति गन्धर्ववादित्रैः सेव्यमाना यमालयम् ||१४-१००-७५ (९५६३०)
ये फलानि प्रयच्छन्ति पुष्पाणि सुरभीणि च |
हंसयुक्तैर्विमानैस्तु यान्ति धर्मपुरं नराः ||१४-१००-७६ (९५६३१)
ये प्रयच्छन्ति विप्रेभ्यो विचित्रान्नं घृताप्लुतम् |
ते व्रजनत्यमलाभ्राभैर्विमानैर्वायुवेगिभिः |
पुरं तत्प्रेतनाथस्य नानाजनसमाकुलम्. १४-१००-७७ (९५६३२)
पानीयं ये प्रयच्छन्ति सर्वभूतप्रजीवनम् |
ते सुतृप्ताः सुखं यान्ति भवनैर्हंसचोदितैः ||१४-१००-७८ (९५६३३)
ये तिलं तिलधेनुं वा धृतधेनुमथापि च |
श्रोत्रियेभ्यः प्रयच्छन्ति सौम्यभावसमन्विताः ||१४-१००-७९ (९५६३४)
सूर्यमण्डलसंकाशैर्यानैस्ते यान्ति निर्मलैः |
गीयमानैस्तु गन्धर्वैर्वैवस्वतपुरं नृप ||१४-१००-८० (९५६३५)
येषां वाप्यश्च कूपाश्च तटाकानि सरांसि च |
दीर्घिकाः पुष्करिण्यश्च सजलाश्च जलाशयाः ||१४-१००-८१ (९५६३६)
यानैस्ते यान्ति चन्द्राभैर्दिव्यघण्टानिनादितैः |
चामरैस्तालवृन्तैश्च वीज्यमाना महाप्रभाः |
नित्यतृप्ता महात्मानो गच्छन्ति यमसादनम् ||१४-१००-८२ (९५६३७)
येषां देवगृहाणीह चित्राण्यायतनानि च |
मनोहराणि कान्तानि दर्शनीयानि भान्ति च ||१४-१००-८३ (९५६३८)
ते व्रजन्त्यमलाभ्राभैर्विमानैर्वायुवेगिभिः |
पुरं तत्प्रेतनाथस्य नानाजनपदाकुलम् ||१४-१००-८४ (९५६३९)
वैवस्वतं च पश्यन्ति सुखचित्तं सुखस्थितम् |
यमेन पूजिता यान्ति देवसालोक्यतां ततः ||१४-१००-८५ (९५६४०)
देवानुद्दिश्य लोकेषु प्रपासु करकोद्धृतम् |
शीतलं सलिलं रम्यं तृषितेभ्यो दिशन्ति ये |
ते तु तृप्ति परां यान्ति प्राप्य सौख्यं महापथम् ||१४-१००-८६ (९५६४१)
काष्ठपादुकदा यान्ति तदध्वानं सुखं नराः |
सौवर्णमणिपीठे तु पादं कृत्वा स्थोत्तमे ||१४-१००-८७ (९५६४२)
आरामान्वृक्षषण्डांश्च रोपयन्ति च ये नराः |
संवर्धयन्ति चाव्यग्रं फलपुष्पोपशोभितम् ||१४-१००-८८ (९५६४३)
वृक्षच्छायासु रम्यासु शीतलासु स्वलङ्कृताः |
यान्ति ते वाहनैर्दिव्यैः पूज्यमाना मुहुर्मुहुः. १४-१००-८९ (९५६४४)
सेव्यमानाः सुरूपाभिरुत्तमाभिः प्रयत्नतः |
स्त्रीभिः कनकवर्णाभिर्यथाकामं यथासुखम् ||१४-१००-९० (९५६४५)
अश्वयानं तु गोयानं हस्तियानमथापि च |
ये प्रयच्छन्ति विप्रेभ्यो विमानैः कनकोपमैः ||१४-१००-९१ (९५६४६)
सुवर्णं रजतं वाऽपि विद्रुमं मौक्तिकं तथा |
ये प्रयच्छन्ति ते यान्ति विमानैः कनकोज्ज्वलैः |
ते व्रजन्ति वरस्त्रीभिः सेव्यमाना यथासुखम् ||१४-१००-९२ (९५६४७)
भूमिदा यान्ति तं लोकं सर्वकामैः सुतर्पिताः |
उदितादित्यसंकाशैर्विमानैर्वृषयोजितैः ||१४-१००-९३ (९५६४८)
कन्यां ये च प्रयच्छन्ति विप्राय श्रोत्रियाय च |
दिव्यकन्यावृता यान्ति विमानैस्ते यमालयम् ||१४-१००-९४ (९५६४९)
सुगन्धान्गन्धसंयोगान्पुष्पाणि सुरभीणि च |
प्रयच्छन्ति द्विजाग्रेभ्यो भक्तया परमया युताः ||१४-१००-९५ (९५६५०)
सुगन्धाः धर्मपुरं यानैर्विचित्रैरप्यलङ्कृताः ||
यान्ति धर्मपुरं यानैर्विचित्रैरप्यलङ्कृताः ||१४-१००-९६ (९५६५१)
दीपया यान्ति यानैश्च द्योतयन्तो दिशो दश |
आदित्यसदृशाकारैर्दीप्यमाना इवाग्नयः ||१४-१००-९७ (९५६५२)
गृहावसथदातारो गृहैः काञ्चनवेदिकैः |
व्रजन्ति बालसूर्याभैर्धर्मराजपुरं नराः ||१४-१००-९८ (९५६५३)
जलभाजनदातारः कुण्डिकाकरकप्रदाः |
पूज्यमाना वरस्त्रीभिर्यान्ति तृप्ता महागजैः ||१४-१००-९९ (९५६५४)
पादाभ्यङ्गं शिरोभ्यह्गं पानं पादोदकं तथा |
ये प्रयच्छन्ति विप्रेभ्यस्ते यान्त्यश्वैर्यमालयम् ||१४-१००-१०० (९५६५५)
विश्रामायन्ति ये विप्राञ्श्रान्तानध्वनि कर्शितान् |
चक्रवाकप्रयुक्तेन यान्ति यानेन तेऽपि च ||१४-१००-१०१ (९५६५६)
स्वागतेन च यो विप्रान्पूजयेदासनेन च |
स गच्छति तदध्वानं सुखं परमनिर्वृतः ||१४-१००-१०२ (९५६५७)
नमो ब्रह्मण्यदेवेति यो मां दृष्ट्वाऽभिवादयेत् |
व्रतीवं प्रयतो नित्यं स सुखं तत्पदं व्रजेत् ||१४-१००-१०३ (९५६५८)
नमः सर्वसहाभ्यश्चेत्यभिख्याय दिनेदिने |
नमस्करोति नित्यं गां स सुखं याति तत्पथं ||१४-१००-१०४ (९५६५९)
नमोस्तु प्रियदत्तायेत्येवंवादी दिनेदिने |
भूमिमाक्रमते प्रातः सयनादुत्थितश्च यः ||१४-१००-१०५ (९५६६०)
सर्वकामैः स तृप्तात्मा सर्वभूषणभूषितः |
याति यानेन दिव्येन सुकं वैवस्वतालयम् ||१४-१००-१०६ (९५६६१)
अनत्तराशिनो ये तु डंभानृतविवर्जिताः |
तेऽपि सारसयुक्तेन यान्ति यानेन वै सुखम् ||१४-१००-१०७ (९५६६२)
ये चाप्येकेन भुक्तेन डंभानृतविवर्जिताः |
हंसयुक्तैर्विमानैस्तु सुखं यान्ति यमालयम् ||१४-१००-१०८ (९५६६३)
चतुर्थेन च भुक्तेन वर्तन्ते ये जितेन्द्रियाः |
यान्ति ते धर्मनगरं यानैर्बर्हिणयोजितैः ||१४-१००-१०९ (९५६६४)
तृतीयदिवसेनेह भुञ्जते ये जितेन्द्रियाः |
तेऽपि हस्तिरथं यान्ति तत्पथं कनकोज्ज्वलैः ||१४-१००-११० (९५६६५)
षष्ठान्नकालिको यस्तु वर्षमेकं तु वर्तते |
कामक्रोधवनिर्मुक्तः शुचिर्नित्यं जितेन्द्रियः |
स याति कुञ्जरस्थैस्तु जयशब्दरवैर्युतः ||१४-१००-१११ (९५६६६)
पक्षोपवासिनो यान्ति यानैः शार्दूलयोजितैः |
धर्मराजपूरं रम्यं दिव्यस्त्रीगणसेवितम् ||१४-१००-११२ (९५६६७)
ये च मासोपवासं वै कुर्वते संयतेन्द्रियाः |
तेऽपि सूर्यादयप्रख्यैर्यान्ति यानैर्यमालयम् ||१४-१००-११३ (९५६६८)
अग्निप्रवेशं यश्चापि कुरुते मद्गतात्मना |
स यात्यग्निप्रकाशेन विमानेन यमालयम् ||१४-१००-११४ (९५६६९)
गोकृते स्त्रीकृते चैव हत्वा विप्रकृतेऽपि च |
ते यान्त्यमरकन्याभिः सेव्यमाना रविप्रभाः ||१४-१००-११५ (९५६७०)
ये च कुर्वन्ति मद्भक्तास्तीर्थयात्रां जितेन्द्रियाः |
ते पन्थानं महात्मानो यानैर्यान्ति सुनिर्वृताः ||१४-१००-११६ (९५६७१)
ये यजन्ति द्विजश्रेष्ठाः क्रतुभिर्भूरिदक्षिणैः |
हंससारससंयुक्तैर्यानैस्ते यान्ति तत्पथम् ||१४-१००-११७ (९५६७२)
परपीडामकृत्वैव भृत्यान्बिभ्रति ये नराः |
तत्पथं ससुखं यान्ति विमानैः काञ्चनोज्ज्वलैः ||१४-१००-११८ (९५६७३)
ये समाः सर्वभूतेषु जीवानामभयप्रदाः |
क्रोधलोभविनिर्मुक्ता निगृहीतेन्द्रियास्तथा. १४-१००-११९ (९५६७४)
पूर्णचन्द्रप्रतीकाशैर्विमानैस्ते महाप्रभाः |
यान्ति वैवस्वतपुरं देवगन्धर्वसेविताः ||१४-१००-१२० (९५६७५)
ये मामेकान्तभावेन देवं त्र्यंबकमेव वा |
पूजयन्ति नमस्यन्ति स्तुवन्ति च दिनेदिने |
धर्मराजपुरं यान्ति यानैस्तेऽर्कसमप्रभैः ||१४-१००-१२१ (९५६७६)
पूजितास्तत्र धर्मेण स्वयं माल्यादिभिः शुभैः |
यान्त्येव धर्मलोकं वा रुद्रलोकमथापि वा ||||१४-१००-१२२ (९५६७७)
इति श्रीमन्महाभारते आश्वमेधिकपर्वणि वैष्णवधर्मपर्वणि
शततमोऽध्यायः ||१०० ||
आश्वमेधिकपर्व -अध्याय १०१
||श्रीः ||
१४. १०१. अध्यायः १०१
Mahabharata -Ashvamedhika Parva -Chapter Topics
कृष्णेन युधिष्ठिरंप्रति जलदानान्नदानफलप्रशंसनम् ||१ ||
तथाऽतिथिलक्षणकथनपूर्वकं तत्पूजाफलकथनम् ||२ ||
Mahabharata -Ashvamedhika Parva -Chapter Text
वैशम्पायन उवाच |
श्रुत्वा यमपुराध्वानं जीवानां गमनं तथा |
धर्मपुत्रः प्रहृष्टात्मा केशवं पुनरब्रवीत् ||१४-१०१-१ (९५६७८)
देवदेवेश दैत्यघ्न ऋषिसङ्घैरभिष्टुत |
भगवन्भवहञ्श्रीमन्सहस्रादित्यसन्निभ ||१४-१०१-२ (९५६७९)
सर्वसंभव धर्मज्ञ सर्वधरमप्रवर्तक |
सर्वदानफलं सौम्य कथयस्व ममाच्युत ||१४-१०१-३ (९५६८०)
दानं देयं कथं कृष्ण कीदृशाय द्विजाय वै |
कीदृशं वा तपः कृत्वा तत्फलं कुत्र भुज्यते ||१४-१०१-४ (९५६८१)
एवमुक्तो हृषीकेशो धर्मपुत्रेण धीमता |
उवाच धर्मपुत्राय पुण्यान्धर्मान्महोदयान् ||१४-१०१-५ (९५६८२)
शृणुष्वावहितो राजन्पूतं पापघ्नमुत्तमम् |
सर्वदानफलं सौम्य न श्राव्यं पापकर्मणम् ||१४-१०१-६ (९५६८३)
यच्छ्रुत्वा पुरुषः स्त्री वा नष्टपापः समाहितः |
तत्क्षणात्पूततां याति पापकर्मरतोपि वा ||१४-१०१-७ (९५६८४)
एकाहमपि कौन्तेय भूमावुत्पादितं जलम् |
सप्त तारयते पूर्वान्वितृष्णा यत्र गौर्भवेत् ||१४-१०१-८ (९५६८५)
पानीयं परमं लोके जीवानां जीवनं स्मृतम् |
पानीयस्य प्रदानेन तृप्तिर्भवति पाण्डव |
पानीयस्य गुणा दिव्याः परलोके गुणावहाः ||१४-१०१-९ (९५६८६)
तत्र पुष्पोदकी नाम नदी परमपावनी |
कामान्ददाति राजेन्द्र तोयदानां यमालये ||१४-१०१-१० (९५६८७)
शीतलं सलिलं ह्यत्र ह्यक्षय्यममृतोपमम् |
शीततोयप्रदादॄणां भवेन्नित्यं सुखावहम् ||१४-१०१-११ (९५६८८)
ये चाप्यतोयदातारः पूयस्तेषां विधीयते. १४-१०१-१२ (९५६८९)
प्रणश्यत्यंबुपानेन बुभुक्षा च युधिष्ठिर |
तृपीषस्य न चान्नेन पिपासाऽपि प्रणश्यति |
तस्मात्तोयं सदा देयं तृषितेभ्यो विजानता. १४-१०१-१३ (९५६९०)
अग्नेर्मूर्तिः क्षितेर्योनिरमृतस्य स संभवः |
अतोंभः सर्वभूतानां मूलमित्युच्यते बुधैः ||१४-१०१-१४ (९५६९१)
अद्भिः सर्वाणि भूतानि जीवन्ति प्रभवन्ति च |
तस्मात्सर्वेषु दानेषु तोयदानं विशिष्यते ||१४-१०१-१५ (९५६९२)
सर्वदानतपोयज्ञैर्यत्प्राप्यं फलमुत्तमम् |
तत्सर्वं तोयदानेन प्राप्यते नात्र संशयः ||१४-१०१-१६ (९५६९३)
ये प्रयच्छन्ति विप्रेभ्यस्त्वन्नदातं सुसंस्कृतम् |
तैस्तु दत्ताः स्वयं प्राणा भवन्ति भरतर्षभ ||१४-१०१-१७ (९५६९४)
अन्नाद्रक्तं च शुक्लं च अन्ने जीवः प्रतिष्ठितः |
इन्द्रियाणि च बुद्धिश्च पुष्णन्त्यन्नेन नित्यशः |
अन्नहीनानि सीदन्ति सर्वभूतानि पाण्डव ||१४-१०१-१८ (९५६९५)
तेजो बलं च रूपं च सत्वं वीर्यं धृतिर्द्युतिः |
ज्ञानं मेधा तथाऽऽयुश्च सर्वमन्ने प्रतिष्ठितम् ||१४-१०१-१९ (९५६९६)
देवमानवर्तिर्यक्षु सर्वलोकेषु सर्वदा |
सर्वकालं हि सर्वेषां सर्वमन्ने प्रतिष्ठितम् ||१४-१०१-२० (९५६९७)
अन्नं प्रजापते रूपमन्नं प्रजननं स्मृतम् |
सर्वभूतमयं चान्नं जीवश्चान्नमयः स्मृतः ||१४-१०१-२१ (९५६९८)
अन्नेनाधिष्ठितः प्राण अपानो व्यान एव च |
उदानश्च समानश्च धारयन्ति शरीरिणम् ||१४-१०१-२२ (९५६९९)
शयनोत्थानगमनग्रहणाकर्षणानि च
सर्वसत्वकृतं क्रम चान्नादेव प्रवर्तते ||१४-१०१-२३ (९५७००)
चतुर्विधानि भूतानि जङ्गमानि स्थिराणि च |
अन्नाद्भवन्ति राजेन्द्र सृष्टिरेषा प्रजापतेः ||१४-१०१-२४ (९५७०१)
विद्यास्थानानि सर्वाणि सर्वयज्ञाश्च पावनाः |
अन्नाद्यस्मात्प्रवर्तन्ते तस्मादन्नं परं स्मृतम् ||१४-१०१-२५ (९५७०२)
देवा रुद्रादयः सर्वे पितरोऽप्यग्नयस्तथा |
यस्मादन्नेन तुष्यन्ति तस्मादन्नं विशिष्यते ||१४-१०१-२६ (९५७०३)
यस्मादन्नात्प्रजाः सर्वाः कल्पेकल्पेऽसृजत्प्रभुः |
तस्मादन्नात्परं दानं न भूतं न भविष्यति ||१४-१०१-२७ (९५७०४)
यस्मादन्नात्प्रवर्तन्ते धर्मार्थौ काम एव च |
तस्मादन्नात्परं दानं नामुत्रेह च पाण्डव ||१४-१०१-२८ (९५७०५)
यक्षरक्षोग्रहा नागा भूतान्यन्ते च दानवाः |
तुष्यन्त्यन्नेन यस्मात्तु तस्मादन्नं परं भवेत् ||१४-१०१-२९ (९५७०६)
परान्नमुपभुञ्जनो यत्कर्म कुरुते शुभम् |
तच्छुभस्यैकभागस्तु कर्तुर्भवति भारत ||१४-१०१-३० (९५७०७)
अन्नदस्य त्रयो भागा भन्ति पुरुषर्षभ |
तस्यादन्नं प्रदातव्यं ब्राह्मणेभ्यो विशेषतः ||१४-१०१-३१ (९५७०८)
ब्राह्मणाय दरिद्राय योऽन्नं संवत्सरं नृप |
श्रोत्रियाय प्रयच्छेद्वै पाकभेदविवर्जितः ||१४-१०१-३२ (९५७०९)
डंभानृतविमुक्तस्तु परां भक्तिमुपागतः |
स्वधर्मेणार्जितफलं तस्य पुण्यफलं शृणु ||१४-१०१-३३ (९५७१०)
शतवर्षसहस्राणि कामगः कामरूपधृत् |
मोदतेऽमरलोकस्थः पूज्यमानोप्सरोगणैः |
ततश्चापि च्युतः कालान्नरलोके द्विजो भवेत् ||१४-१०१-३४ (९५७११)
अग्नभिक्षां च यो दद्याद्दरिद्राय द्विजातये |
षण्मासान्वार्षिकं श्राद्दं तस्य पुण्यफलं शृणु ||१४-१०१-३५ (९५७१२)
गोसहस्रप्रदानेन यत्पुण्यं समुदाहृतम् |
तत्प्रण्यफलमाप्नोति नरो वै नात्र संशयः ||१४-१०१-३६ (९५७१३)
अथ संवत्सरं दद्यादग्रभिक्षामयाचते |
प्रच्छद्यैव स्वयं नीत्वा तस्य पुण्यफलं शृणु ||१४-१०१-३७ (९५७१४)
कपिलानां सहस्रैस्तु यद्देयं पुण्यमुच्यते |
तत्सर्वमखिलं प्राप्य शक्रलोके महीयते ||१४-१०१-३८ (९५७१५)
स शक्रभवने रम्ये र्षिकोटिशतं नृप |
यथाकामं महातेजाः क्रीडत्यप्सरसांगणैः ||१४-१०१-३९ (९५७१६)
अन्नं च यस्तु वै दद्याद्द्विजाय नियतव्रतः |
दशवर्षामि राजेन्द्र तस्य पुण्यफलं शृणु ||१४-१०१-४० (९५७१७)
कपिला शतसहस्रस्य विधिदत्तस्य यत्फलम् |
तत्पुण्यफलमासाद्य पुरन्दरपुरं व्रजेत् ||१४-१०१-४१ (९५७१८)
स शक्रभवने रम्ये कामरूपी यथासुखम् |
शतकोटिसमा राजन्क्रीडतेऽमरपूजितः ||१४-१०१-४२ (९५७१९)
शक्रलोकावतीर्णश्च इह लोके महाद्युतिः |
चतुर्वेदी द्विजः श्रीमाञ्जायते राजपूजितः ||१४-१०१-४३ (९५७२०)
अध्वश्रान्ताय विप्राय क्षुधितायान्नकाङ्क्षिणे |
देशकालाभियाताय दीयते पाण्डुनन्दन ||१४-१०१-४४ (९५७२१)
याचतेऽन्नं न दद्याद्यो विद्यामाने धनागमे |
स लुब्धो नरकं याति कृमीणां कालसूत्रकम् ||१४-१०१-४५ (९५७२२)
तत्र नरके घोरे लोभमोहविचेतनः |
दशरव्षसहस्राणि क्लिश्यते वेदनार्दितः ||१४-१०१-४६ (९५७२३)
तस्माच्च नरकान्मुक्तः कालेन महता हि सः |
दरिद्रो मानुषे लोके चण्डालेष्वपि जायते. १४-१०१-४७ (९५७२४)
यस्तु पांसुलपादश्च दूराध्वश्रमकर्शितः |
क्षुत्पिपासाश्रमश्रान्त आर्तः खिन्नगतिर्द्विजः ||१४-१०१-४८ (९५७२५)
पृच्छन्वै ह्यन्नदातारं गृहमभ्येत्य याचयेत् |
तं पूजयेत्तु यत्नेन सोऽतिथिः स्वर्गसंक्रमः |
तस्मिंस्तुष्टे नरश्रेष्ठ तुष्टाः स्युः सर्वदेवताः ||१४-१०१-४९ (९५७२६)
न तथा हविषा होमैर्न पुष्पैर्नानुलेपनैः |
अग्नयः पार्थ तुष्यन्ति यथा ह्यतिथिपूजनात् ||१४-१०१-५० (९५७२७)
कपिलायां तु दत्तायां विधिवज्ज्येष्ठपुष्करे |
न तत्फलमवाप्नोति यत्फलं विप्रबोजनान्. १४-१०१-५१ (९५७२८)
द्विजपादोदकक्लिन्ना यावत्तिष्ठति मेदिनी |
तावत्पुष्करपत्रेण पिबन्ति पितरो जलम् ||१४-१०१-५२ (९५७२९)
देवमाल्यापनयनं द्विजोच्छिष्टापमार्जनम् |
श्रान्तसंवाहनं चैव तथा पादावसेचनम् ||१४-१०१-५३ (९५७३०)
प्रतिश्रयप्रदानं च तथा शय्यासनस्य च |
एकैकं पाण्डवश्रेष्ठ गोप्रदानाद्विशिष्यते ||१४-१०१-५४ (९५७३१)
पादोदकं पादघृतं दीपमन्नं प्रतिश्रयम् |
ये प्रयच्छन्ति विप्रेभ्यो नोपसर्पन्ति ते यमम् ||१४-१०१-५५ (९५७३२)
विप्रातिथ्ये कृते राजन्भक्त्या शुश्रूषितेऽपि च |
देवाः शुश्रूषिताः सर्वे त्रयस्त्रिंशदरिन्दम ||१४-१०१-५६ (९५७३३)
अभ्यागतो ज्ञातपूर्वो ह्यज्ञातोऽतिथिरुच्यते |
तयोः पूजां द्विजः कुर्यादिति पौराणिकी श्रुतिः ||१४-१०१-५७ (९५७३४)
पादाभ्यङ्गन्नपानैस्तु योऽतिर्थिं पूजयेन्नरः |
पूजितस्तेन राजेन्द्र भवामीह न संशयः ||१४-१०१-५८ (९५७३५)
शीघ्रं पापाद्विनिर्मुक्तो मया चानुग्रहीकृतः |
विमानेनेन्दुकल्पेन मम लोकं स गच्छति ||१४-१०१-५९ (९५७३६)
अभ्यागतं श्रान्तमनुव्रजन्ति
देवाश्च सर्वे पितरोऽग्नयश्च |
तस्मिन्द्विजे पूजिते पूजिताः स्यु-
र्गते निराशाः पितरो व्रजन्ति ||१४-१०१-६० (९५७३७)
अतिर्थिर्यस्य भग्नाशो गृहात्प्रतिनिवर्तते |
पितरस्तस्य नाश्नन्ति दशवर्षणि पञ्च च ||१४-१०१-६१ (९५७३८)
वर्जितः पितृभिर्लुब्धः स देवैरग्निभिः सह |
निरयं रौरवं गत्वा दशवर्षाणि पञ्च च |
ततश्चापि च्युतः कालादिह चोच्छिष्टभुग्भवेत् ||१४-१०१-६२ (९५७३९)
वैश्वदेवान्तिके प्राप्तमतिथिं यो न पूजयेत् |
चण्डालत्वमवाप्नोति सद्य एव न संशयः ||१४-१०१-६३ (९५७४०)
निर्वासयति यो विप्रं देशकालगतं गृहात् |
पतितस्तत्क्षणादेव जायते नात्र संशयः ||१४-१०१-६४ (९५७४१)
नरके रौरवे घोरे वर्षकोटिं स पच्यते |
ततश्चापि च्युतः कालादिह लोके नराधमः |
श्वा वै द्वादशजन्मानि जायते क्षुत्पिपासितः ||१४-१०१-६५ (९५७४२)
चण्डालोप्यतिथिः प्राप्तो देशकालेऽन्नकाङ्क्षयाः |
अभ्युद्गम्यो गृहस्थेन पूजनीयश्च सर्वदा ||१४-१०१-६६ (९५७४३)
अनर्चयित्वा योऽश्नाति लोभमोहविचेतनः |
स चण्डालत्वमापन्नो दश जन्मानि पाण्डव ||१४-१०१-६७ (९५७४४)
निराशमतिथिं कृत्वा भुञ्जनो यः प्रहृष्टवान् |
न जानाति किलात्मानं विष्ठकूपे निपातितं ||१४-१०१-६८ (९५७४५)
मोघं ध्रुवं प्रोर्णयति मोघमस्य तु पच्यते |
मोघमन्नं सदाऽश्नाति योतिथिं न च पूजयेत् ||१४-१०१-६९ (९५७४६)
साङ्गोपाङ्गांस्तु यो वेदान्पठतीह दिनेदिने |
न चातिथिं पूजयति वृथा भवति स द्विजः ||१४-१०१-७० (९५७४७)
पाकयज्ञमहायज्ञैः सोमसंस्थाभिरेव च |
ये यजन्ति न चार्चन्ति गृहेष्वतिथिमागतम् ||१४-१०१-७१ (९५७४८)
तेषां यशोभिकामानां दत्तमिष्टं च यद्भवेत् |
वृथा भवति तत्सर्वमाशया हि तया हतम् ||१४-१०१-७२ (९५७४९)
देशं कालं च पात्रं च स्वशक्तिं च निरीक्ष्य च |
अल्पं समं महद्वापि कुर्यादातिथ्यमात्मवान् ||१४-१०१-७३ (९५७५०)
सुमुखः सुप्रसन्नात्मा धीमानतिथिमागतम् |
स्वागतेनासनेनाद्भिरन्नाद्येन च पूजयेत् ||१४-१०१-७४ (९५७५१)
हितः प्रियो वा द्वेष्यो वा मूर्खः पण्डित एव वा |
प्राप्तो यो वैश्वदेवान्ते सोतिथिः स्वर्गसंक्रमः ||१४-१०१-७५ (९५७५२)
क्षुत्पिपासाश्रमार्ताय देशकालगताय च |
सत्कृत्यान्नं प्रदातव्यं यज्ञस्य फलमिच्छता ||१४-१०१-७६ (९५७५३)
भोजयेदात्मनः श्रेष्ठान्विधइवद्धव्यकव्ययोः |
अन्नं प्राणो मनुष्यणामन्नदः प्राणदो भवेत् |
तस्मादन्नं विशेषेण दातव्यं भूतिमिच्छता ||१४-१०१-७७ (९५७५४)
अन्नदः सर्वकामैस्तु सुतृप्तः सुष्ट्वलङ्कृतः |
पूर्णचन्द्रप्रकाशेन विमानेन विराजते ||१४-१०१-७८ (९५७५५)
सेव्यमानो वरस्त्रीभिर्मम लोकं स गच्छति |
क्रीडित्वा तु ततस्तस्मिन्वर्षकोटिं यथाऽमरः ||१४-१०१-७९ (९५७५६)
ततस्चापि च्युतः कालादिह लोके महायशाः |
वेदशास्त्रार्थतत्वज्ञो भोगवान्ब्राह्मणो भवेत् ||१४-१०१-८० (९५७५७)
यथाश्रद्धं तु यः कुर्यान्मनुष्येषु प्रजायते |
महाधनपतिः श्रीमान्वेदवेदाङ्गपारगः |
सर्वशास्त्रार्थतत्वज्ञो भोगवान्ब्राह्मणो भवेत् ||१४-१०१-८१ (९५७५८)
सर्वातिथ्यं तु यः कुर्याद्वर्षमेकमकल्मषः |
धर्मार्जितधनो भूत्वा पाकभेदविवर्जितः ||१४-१०१-८२ (९५७५९)
देवानिव स्वयं विप्रानर्चयित्वा पितॄनपि |
विप्रानग्राशनाशी यस्तस्य पुण्यफलं शृणु ||१४-१०१-८३ (९५७६०)
वर्षेणैकेन यावन्ति पिण्डान्यश्नन्ति ये द्विजाः |
तावद्वर्षाणि राजेन्द्र मम लोके महीयते ||१४-१०१-८४ (९५७६१)
ततश्चापि च्युतः कालादिह लोके महायशाः |
वेदसास्त्रार्थतत्वज्ञो भोगवान्ब्राह्मणो भवेत् ||१४-१०१-८५ (९५७६२)
सर्वातिथ्यं तु यः कुर्याद्यथाश्रद्धं नरेश्वर |
अकालनियमेनापि सत्यवादी जितेन्द्रियः ||१४-१०१-८६ (९५७६३)
सत्यसन्धो चितक्रोधः शाखाधर्मविवर्जितः |
अधर्मभीरुर्धर्मिष्ठो मायामात्सर्यवर्जितः ||१४-१०१-८७ (९५७६४)
श्रद्दधानः सुचिर्नित्यं पाकबेदविवर्जितः |
स विमानेन दिव्येन दिव्यरूपी महायशाः ||१४-१०१-८८ (९५७६५)
पुरन्दरपुरं याति गीयमानोप्सरोगणैः |
मन्वन्तरं तु तत्रैव क्रीडित्वा देवपूजितः |
मानुष्यलोकमागम्य भोगवान्ब्राह्मणो भवेत् ||१४-१०१-८९ (९५७६६)
दशजन्मानि विप्रत्वमाप्नुयाद्राजपूजितः |
जातिस्मरश्च भवति यत्रयत्रोपजायते ||||१४-१०१-९० (९५७६७)
इति श्रीमन्महाभारते आश्वमेधिकपर्वणि वैष्णवधर्मपर्वणि
एकाधिकशततमोऽध्यायः ||१०१ ||
आश्वमेधिकपर्व -अध्याय १०२
||श्रीः ||
१४. १०२. अध्यायः १०२
Mahabharata -Ashvamedhika Parva -Chapter Topics
कृष्णेन युधिष्ठिरंप्रति भूगोतिलकन्यादानफलप्रतिपादनम् ||१ ||
Mahabharata -Ashvamedhika Parva -Chapter Text
भगवानुवाच |
अतः परं प्रवक्ष्यामि भूमिदानमनुत्तमम् ||१४-१०२-१ (९५७६८)
यः प्रयच्छति विप्राय भूमिं रम्यां सदक्षिणाम् |
श्रोत्रियाय दरिद्राय साग्निहोत्राय पाण्डव ||१४-१०२-२ (९५७६९)
स सर्वकामतृप्तात्मा सर्वरत्नविभूषितः |
सर्वपापविनिर्मुक्तो दीप्यमानोऽर्कवत्सदा ||१४-१०२-३ (९५७७०)
बालसूर्यप्रकाशेन विचित्रध्वजशोभिना |
याति यानेन दिव्येन मम लोकं महायशाः ||१४-१०२-४ (९५७७१)
तत्र दिव्याङ्गनाभिस्तु सेव्यमानो यथासुखम् |
कामगः कामरूपी च क्रीडत्यप्सरसांगणैः ||१४-१०२-५ (९५७७२)
यावद्बिभर्ति लोकान्वै भूमिः कुरुकुलोद्वह |
तावद्भूमिप्रदः काले मम लोके महीयते ||१४-१०२-६ (९५७७३)
न हि भूमिप्रदानाद्वै दानमन्यद्विशिष्यते |
न चापि भूमिहरणात्पापमान्यद्विशिष्यते ||१४-१०२-७ (९५७७४)
दानान्यन्यानि हीयन्ते कालेन कुरुपुङ्गव |
भूमिदानस्य पुण्यस्य क्षयो नैवोपपद्यते ||१४-१०२-८ (९५७७५)
ब्राह्मणाय दरिद्राय भूमिं दत्तां तु यो नरः |
न हिंसति नरव्याघ्र तस्य पुण्यफलं शृणु ||१४-१०२-९ (९५७७६)
सप्तद्वीपसमुद्रान्ता रत्नसंचयसंकुला |
सशैलवनदुर्गाढ्या तेन दत्ता मही भवेत् ||१४-१०२-१० (९५७७७)
भूमिं दृष्ट्वा दीयमानां श्रोत्रियायाग्निहोत्रिणे |
सर्वभूतानि मन्यन्ते मां ददातीति हर्षवत् ||१४-१०२-११ (९५७७८)
सुवर्णमणिरत्नानि धनानि च वसूनि च |
सर्वदानानि वै राजन्ददाति वसुधां ददत् ||१४-१०२-१२ (९५७७९)
सागरान्सरितः शैलान्समानि विषमाणि च |
सर्वगन्धरसांश्चैव ददाति वसुधां ददत् ||१४-१०२-१३ (९५७८०)
ओषधीः फलसंपन्ना नानापुष्पसमन्विताः |
कमलोत्पलषण्डांश्च ददाति वसुधां ददत् ||१४-१०२-१४ (९५७८१)
धर्मं कामं तथा चार्थं वेदान्यज्ञांस्तथैव च |
स्वर्गमार्गगतिं चैव ददाति वसुधां ददत् ||१४-१०२-१५ (९५७८२)
अग्निष्टोमादिभिर्यज्ञैर्ये यजन्ते सदक्षिणैः |
न तत्फलं लभन्ते ते भूमिदानस्य यत्फलम् ||१४-१०२-१६ (९५७८३)
श्रोत्रिया महीं दत्त्वा यो न हिंसति पाण्डव |
तद्दानं कथयिष्यन्ति यावल्लोकाः प्रतिष्ठिताः |
तावत्स्वर्गोपभोगानां भोक्तारः पाण्डुनन्दन ||१४-१०२-१७ (९५७८४)
सस्यपूर्णां महीं यस्तु श्रोत्रियाय प्रयच्छति |
पितरस्तस्य तृप्ययन्ति यावदाभूतसंप्लुवम् ||१४-१०२-१८ (९५७८५)
मम रुद्रस्य सवितुस्त्रिदशानां तथैव च |
प्रीतये विद्धि राजेन्द्र भूमिर्दत्ता द्विजाय वै ||१४-१०२-१९ (९५७८६)
तेन पुण्येन पूतात्मा दाता भूमेर्युधिष्ठिर |
मम सालोक्यमाप्नोति नात्र कार्या विचाराणा ||१४-१०२-२० (९५७८७)
यत्किंचित्कुरुते पापं पुरुषे वृत्तिकर्शितः |
स च गोकर्णमात्रेण भूमिदानेन शुध्यति ||१४-१०२-२१ (९५७८८)
मासोपवासे यत्पुण्यं कृच्छ्रे चान्द्रायणेऽपि च |
भूमिगोकर्णमात्रेण तत्पुण्यं तु विधीयते ||१४-१०२-२२ (९५७८९)
सर्वतीर्थाभिषेके च यत्पुण्यं समुदाहृतम् |
भूमिगोकर्णमात्रेण तत्पुण्यं तु विधीयते ||१४-१०२-२३ (९५७९०)
युधिष्ठिर उवाच. १४-१०२-२४क्ष् (७९५३)
देवदेव नमस्तेऽस्तदु वासुदेव सुरेश्वर |
गोकर्णस्य प्रमाणं वै वक्तुमर्हसि तत्वतः ||१४-१०२-२४ (९५७९१)
भगवानुवाच. १४-१०२-२५क्ष् (७९५४)
शृणु गोकर्णमात्रस्य प्रमाणं पाण्डुनन्दन |
त्रिंशद्दण्डप्रमाणेन प्रमितं सर्वतो दिशम् ||१४-१०२-२५ (९५७९२)
प्रत्यक्प्रागपि राजेन्द्र तत्तथा दक्षिणोत्तरम् |
गोकर्णं तद्विदः प्राहुः प्रमाणं धरणेर्नृप ||१४-१०२-२६ (९५७९३)
सवृषं गोशतं यत्र सुखं तिष्ठत्ययन्त्रितम् |
सवत्सं कुरुशार्दूल तच्च गोकर्णमुच्यते ||१४-१०२-२७ (९५७९४)
किंकरा मृत्युदण्डाश्च कुंभीपाकाश्च दारुणाः |
घोराश्च वारुणाः पाशा नोपसर्पन्ति भूमिदम् ||१४-१०२-२८ (९५७९५)
निरया रौरवाद्याश्च तथा वैतरणी नदी |
तीव्राश्च यातनाः कृष्टा नोपसर्पन्ति भूमिदम् ||१४-१०२-२९ (९५७९६)
चित्रगुप्ताः कलिः कालः कृतान्तो मृत्युरेव च |
यमश्च भगवान्साक्षात्पूजयन्ति महीप्रदम् ||१४-१०२-३० (९५७९७)
रुद्रः प्रजापतिः शक्रः सुरा ऋषिगणास्तथा |
अहं च प्रीतिमान्राजन्पूजयामो महीप्रदम् ||१४-१०२-३१ (९५७९८)
कृशभृत्यस्य कृशगोः कृशाश्वस्य कृतातिथेः |
भूमिर्देया नरश्रेष्ठ स निधइः पारलौकिकः ||१४-१०२-३२ (९५७९९)
सीदमानकुटुंबाय श्रोत्रियायाग्निहोत्रिणे |
व्रस्थाय दरिद्राय भूमिर्देया नराधिप ||१४-१०२-३३ (९५८००)
यथा हि धात्री क्षीरेण पुत्रं वर्धयति स्वयम् |
दातारमनुगृह्णाति दत्ता ह्येवं वसुंधरा ||१४-१०२-३४ (९५८०१)
यथा बिभर्ति गौर्वत्सं सृजन्ती क्षीरमात्मनः |
तथा सर्वगुणोपेता भूमिर्वहति भूमिदम् ||१४-१०२-३५ (९५८०२)
यथा बीजनि रोहन्ति जलसिक्तानि भूपते |
तथा कामाः प्ररोहन्ति भूमिदस्य दिनेदिने ||१४-१०२-३६ (९५८०३)
यथा तेजस्तु सूर्यस्य तमः सर्वं व्यपोहति |
तथा पापं नरस्येह भूमिदानं व्यपोहति ||१४-१०२-३७ (९५८०४)
दाता दशानुगृह्णाति यो हरेद्दश हन्ति च |
अतीतान्यागतानीह कुलानि कुरुपुङ्गव ||१४-१०२-३८ (९५८०५)
आश्रुत्य भूमिदानं तु दत्त्वा यो वा हरेन्पुनः |
स बद्धो वारुणैः पाशैः क्षिप्यते पूयशोणिते ||१४-१०२-३९ (९५८०६)
स्वदत्तां परदत्तां वा यो हरेत् वसुंधराम् |
न तस्य नरकाद्धोराद्विद्यते निष्कृतिः क्वचित् ||१४-१०२-४० (९५८०७)
ब्राह्म्णस्य हृते क्षेत्रे हन्याद्द्वादश पूर्वजान् |
स गच्छेत्कृमियोनिं च न च मुच्येत जातु सः ||१४-१०२-४१ (९५८०८)
दत्त्वा भूमिं द्विजेन्द्राय यस्तामेवोपजीवति |
गवां शतसहस्रस्य हन्तुः स लभते फलम् ||१४-१०२-४२ (९५८०९)
सोधश्शिरास्तु पापात्मा कुंभीपाकेषु पच्यते |
दिव्यैर्वर्षसहस्रैस्तु कुंभीपाकाद्विजनिस्सृतः |
इह लोके भवेत्स श्वा रातजन्मनि पाण्डव ||१४-१०२-४३ (९५८१०)
दत्त्वा भूमि द्विजेन्द्राणां यस्तामेवोपजीवति |
स मूढो याति दुष्टात्मा नरकानेकविंशतिम् |
नरकेभ्यो विनिर्मुक्तः शुनां योनिं स गच्छति ||१४-१०२-४४ (९५८११)
हलकृष्टा मही देया सबीजा सस्यमालिनी |
अथवा सोदका देया दरिद्राय द्विजातये ||१४-१०२-४५ (९५८१२)
एवं दत्ता मही राजन्प्रहृष्टेनान्तरात्मना |
सर्वान्कामानवाप्नोति मनसा चिन्तितानि च ||१४-१०२-४६ (९५८१३)
बहुभिर्वसुधा दत्ता दीयते च नराधिपैः |
यस्य यस्य यदा भूमिस्तस्य तस्य तदा फलम् ||१४-१०२-४७ (९५८१४)
यः प्रयच्छति कन्यां वै सुरूपां श्रोत्रियाय वै |
स ब्रह्मदेयो राजेन्द्र तस्य पुण्यफलं शृणु ||१४-१०२-४८ (९५८१५)
बलीवर्दसहस्राणां दत्तानां धुर्यवाहिनाम् |
यत्पुण्यं लभते राजन्कन्यादानेन तत्फलम् ||१४-१०२-४९ (९५८१६)
गवां शतसहस्रस्य सम्यग्धत्तस्थ यत्फलम् |
तत्फलं समवाप्नोतिः यः प्रयच्छति कन्यकाम् ||१४-१०२-५० (९५८१७)
यावन्ति चैव रोमाणि कन्यायाः कुरुपुङ्गव |
तावद्वर्षसहस्राणि मम लोके महीयते ||१४-१०२-५१ (९५८१८)
ततश्चापि च्युतः कालादिह लोके स जायते |
षडङ्गविच्चतुर्वेदी सर्वलोकार्चितो द्विजः ||१४-१०२-५२ (९५८१९)
यः सुवर्णं दरिद्राय ब्राह्मणाय प्रयच्छति |
श्रोत्रियाय सुवृत्ताय बहुपुत्राय पाण्डव ||१४-१०२-५३ (९५८२०)
स मुक्तः सर्वपापेभ्यो बालसूर्यसमप्रभः |
विमानं दिव्यामारूढः कामगः कामभोगवान् ||
वर्षकोटिं महातेजा मम लोके महीयते ||१४-१०२-५४ (९५८२१)
ततः कालावतीर्णश्च सोस्मिँल्लोके हि जायते |
वेदवेदाङ्गविद्विप्रः कोटीधनपतिर्भवेत् ||१४-१०२-५५ (९५८२२)
यश्च रूप्यं प्रयच्छेद्वै दरिद्राय द्विजातये |
कृशवृत्तेः कृशगवे स मुक्तः सर्वकिल्बिषैः ||१४-१०२-५६ (९५८२३)
पूर्णचन्द्रप्रकाशेन विमानेन विराजता |
कामरूपि यथाकामं स्वर्गलोके महीयते ||१४-१०२-५७ (९५८२४)
ततोऽवतीर्णः कालेन लोके चास्मिन्महायशाः |
सर्वलोकार्चितः श्रीमान्राजा भवति वीर्यवान् ||१४-१०२-५८ (९५८२५)
तिलपर्वतकं यस्तु श्रोत्रियाय प्रयच्छति |
विशेषेण दरिद्राय तस्यापि शृणु यत्फलम् ||१४-१०२-५९ (९५८२६)
पुण्यं वृषायुतोत्सर्गे यत्प्रोक्तं पाण्डुनन्दन |
तत्पुण्यं समनुप्राप्य तत्क्षणाद्विरजा भवेत् ||१४-१०२-६० (९५८२७)
यथा त्वचं भुजङ्गो वै त्यक्त्वा शुद्धतनुर्भवेत् |
तता तिलप्रदानाद्वै पापं त्यक्त्वा विसुद्ध्यति ||१४-१०२-६१ (९५८२८)
तिलषण्डं प्रयुञ्जानो जांबूनदविभूषितम् |
विमानं दिव्यमारूढः पितृलोके महीयते ||१४-१०२-६२ (९५८२९)
षष्टिं वर्षसहस्राणि कामरूपी महायशाः |
तिलप्रदाता रमते पितृलोके यथासुखम् ||१४-१०२-६३ (९५८३०)
यः प्रयच्छति विप्राय तिलधेनुं नराधिप |
श्रोत्रियाय दरिद्राय शृणु तस्यापि यत्फलम् ||१४-१०२-६४ (९५८३१)
गोसहस्रप्रदानेन यत्पुण्यं समुदाहृतम् |
तत्पुण्यफलामाप्नोति तिलधेनुप्रदो नरः ||१४-१०२-६५ (९५८३२)
तिलानां कुडवैर्यस्तु तिलधेनुं प्रयच्छति |
तावत्कोटिसमा राजन्स्वर्गलोके महीयते ||१४-१०२-६६ (९५८३३)
अष्टाढकतिलैः कृत्वा तिलधेनु नराधिप |
द्वात्रिंशन्निष्कसंयुक्तं विषुवे यः प्रयच्छति |
मद्भक्त्या मद्गतात्मा वै तस्य पुण्यफलं शृणु ||१४-१०२-६७ (९५८३४)
कन्यादानसहस्रस्य विधिदत्तस्य यत्फलम् |
तत्पुण्यं समनुप्राप्तो मम लोके महीयते ||१४-१०२-६८ (९५८३५)
मम लोकावतीर्णश्च सोस्मिँल्लोकेऽभिजायते |
ऋग्यजुस्सामवेदानां पारगो ब्राह्मणर्षभः ||१४-१०२-६९ (९५८३६)
गां तु यस्तु दरिद्राय श्रोत्रियाय प्रयच्छति |
प्रसन्नां क्षीरिणीं पुण्यां सवत्सां कांस्यदोहिनीं ||१४-१०२-७० (९५८३७)
यत्किंचिद्दुष्कृतं कर्म तस्य पूर्वकृतं नृपः |
तत्सर्वं तत्क्षणादेव विनश्यति न संशयः ||१४-१०२-७१ (९५८३८)
यानं च वृषसंयुक्तं दीप्यमानं स्वलङ्कृतम् |
आरूढः कामगं दिव्यं गोलोकमधिगच्छति ||१४-१०२-७२ (९५८३९)
यावन्ति चैव रोमाणि तस्या गोस्तु नराधिप |
तावद्वर्षसहस्राणि गवां लोके महीयते ||१४-१०२-७३ (९५८४०)
गोलोकादवतीर्णस्तु लोकेऽस्मिन्ब्राह्मणो भवेत् |
सत्रयाजी वदन्यश्च सर्वराजभिरर्चितः ||१४-१०२-७४ (९५८४१)
तिलं गावः सुवर्णं चाप्यन्नं कन्या वसुंधरा |
तारयन्तीह दत्तानि ब्राह्मणेभ्यो महाभुज ||१४-१०२-७५ (९५८४२)
ब्राह्मणं वृत्तसंपन्नमाहिताग्निमलोलुपम् |
तर्पयेद्विधिवद्राजन्स निधिः पारलौकिकः ||१४-१०२-७६ (९५८४३)
आहिताग्नि दरिद्रं च श्रोत्रियं च जितेन्द्रियम् |
शूद्रान्नवर्जितं चैव द्विजं यत्नेन पूजयेत् ||१४-१०२-७७ (९५८४४)
आहिताग्निः सदा पात्रमह्निहोत्री च वेदवित् |
पात्राणामपि तत्पात्रं शूद्रान्नं यस्य नोदरे ||१४-१०२-७८ (९५८४५)
यच्च वेदमयं पात्रं यच्च पात्रं तपोमयम् |
असंकीर्णं च यत्पात्रं तत्पात्रं तारयिष्यति ||१४-१०२-७९ (९५८४६)
नित्यस्वाध्यायनिरतास्त्वसंकीर्णेन्द्रियाश्च ये |
पञ्चयज्ञपरा नित्यं पूजितास्तारयन्ति ते ||१४-१०२-८० (९५८४७)
ये क्षान्तिदान्ताः श्रुतिपूर्णकर्णा
जितेन्द्रियाः प्राणिवधै निवृत्ताः |
प्रतिग्रहे संकुचिता गृहस्था-
स्ते ब्राह्मणास्तारयितुं समर्थाः ||१४-१०२-८१ (९५८४८)
नित्योदकी नित्ययज्ञोपवीती
नित्यस्वाध्यायी वृषलान्नवर्जी |
क्रतौ गच्छन्विधिवच्चापि जुह्व-
त्स ब्राह्मणस्तारयितुं समर्थः ||१४-१०२-८२ (९५८४९)
ब्राह्मणो यस्तु मद्भक्तो मद्रागी मत्परायणः |
मयि संन्यस्तकर्मा च स विप्रस्तारयेद्ध्रुवम् ||१४-१०२-८३ (९५८५०)
द्वादशाक्षरतत्वज्ञश्चतुर्व्यूहविभागवित् |
अच्छिद्रपञ्चकालज्ञःक स विप्रस्तारयिष्यति ||||१४-१०२-८४ (९५८५१)
इति श्रीमन्महाभारते आश्वमेधिकपर्वणि वैष्णवधर्मपर्वणि
द्व्यधिकशततमोऽध्यायः ||१०२ ||
आश्वमेधिकपर्व -अध्याय १०३
||श्रीः ||
१४. १०३. अध्यायः १०३
Mahabharata -Ashvamedhika Parva -Chapter Topics
कृष्णेन युधिष्ठिरंप्रति वृषभगृहशय्यादिदानप्रशंसनम् ||१ ||
तथा गोब्राह्मणरक्षणादिनानाधर्मकथनम् ||२ ||
Mahabharata -Ashvamedhika Parva -Chapter Text
वैशम्पायन उवाच |
वासुदेवेन दानेषु कथितेषु यथाक्रमम् |
अवितृप्तश्च धर्मेषु केशवं पुनरब्रवीत् ||१४-१०३-१ (९५८५२)
देव धर्मामृतमिदं शृण्वतोपि परंतप |
न विद्यते सुरश्रेष्ठ मम तृप्तिर्हि माधव ||१४-१०३-२ (९५८५३)
अनडुत्संप्रदानस्य यत्फलं तु विधीयते |
तत्फलं कथयस्वेह तव भक्तस्य मेऽच्युत ||१४-१०३-३ (९५८५४)
यानिचान्यानिदानानित्वया नोक्तानि कानिचित् ||
तान्याचक्ष्व सुरश्रेष्ठ तेषां चानुक्रमात्फलम् ||१४-१०३-४ (९५८५५)
भगवानुवाच. १४-१०३-५क्ष् (७९५५)
पवित्रत्वात्सुपुण्यत्वात्पावनत्वात्तथैव च |
शृणु धर्मामृतं श्रेष्ठं दत्तस्यानडुहः फलम् ||१४-१०३-५ (९५८५६)
दशधेनुसमोऽनड्वानेकोपि कुरुपुङ्गव |
मेदोमांसविपुष्टाङ्गो नीरोगः कोपवर्जितः ||१४-१०३-६ (९५८५७)
युवा भद्रः सुशीलश्च सर्वदोषविवर्जितः |
धुरं धारयति क्षिप्रं दत्तो विप्राय पाण्डव ||१४-१०३-७ (९५८५८)
स तेन पुण्यदानेन वर्षकोटिं युधिष्ठिर |
यथाकामं महादेजा गवां लोके महीयते ||१४-१०३-८ (९५८५९)
यश्च दद्यादनडुहौ द्वौ युक्तौ च धुरंधरौ |
सुवृत्ताय दरिद्राय श्रोत्रियाय विशेषतः |
तस्य यत्पुण्यमाख्यातं तच्छृणुष्व युधिष्ठिर ||१४-१०३-९ (९५८६०)
सहस्रगोप्रदानेन यत्प्रोक्तं फलमुत्तमम् ||
तत्पुण्यफलमाप्नोति याति लोकान्स मामकान् ||१४-१०३-१० (९५८६१)
यावन्ति चैव रोमाणि तयोरनुडुहोर्नृप |
तावद्वर्षसहस्राणि मम लोके महीयते ||१४-१०३-११ (९५८६२)
दरिद्रायैव दातव्यं न समृद्धाय पाण्डव |
वर्षाणां हि तटाकेषु फलं नैव पयोधिषु ||१४-१०३-१२ (९५८६३)
यस्तु दद्यादनडुहं दरिद्राय द्विजातये |
स तेन पुण्यदानेन पुतात्मा कुरुपुङ्गव ||१४-१०३-१३ (९५८६४)
विमानं दिव्यमारूढो दिव्यरूपी यथासुखम् |
मम लोकेषु रमते यावदाभूतसंप्लुवम् ||१४-१०३-१४ (९५८६५)
गृहं दीपप्रभायुक्तं शय्यासनविभूषितम् |
भाजनोपस्करैर्युक्तं धनधान्यैरलङ्कृतम् |
दासीगोभूमिसंयुक्तमन्यूनं सर्वसाधनैः ||१४-१०३-१५ (९५८६६)
ब्राह्मणाय दरिद्राय श्रोत्रियाय युधिष्ठिर |
दद्यात्सदक्षिणं यस्तु तस्य पुण्यफलं शृणु ||१४-१०३-१६ (९५८६७)
देवाः पितृगणाश्चैव ह्यग्नयो ऋषयस्तथा |
प्रयच्छन्ति प्रहृष्टा वै यानमादित्यसन्निभम् ||१४-१०३-१७ (९५८६८)
तेन गच्छेच्छ्रिया युक्तो ब्रह्मलोकमनुत्तमम् |
स्त्रीसहस्रावृते रम्ये भवने तत्र काञ्चने |
मोदते ब्रह्मलोकस्थो यावदाभूतसप्लवम् ||१४-१०३-१८ (९५८६९)
शय्यं प्रस्तरणोपेतां यः प्रयच्छति पाण्डव |
अर्चयित्वा द्विजं भक्त्या वस्त्रमाल्यानुलेपनैः |
भोजयित्वा विचित्रान्नं तस्य पुण्यफलं शृणु ||१४-१०३-१९ (९५८७०)
धेनुदानस्य यत्पुण्यं विधिदत्तस्य पाण्डव |
तत्पुण्यं तमनुप्राप्य पितृलोके महीयते ||१४-१०३-२० (९५८७१)
शिल्पमध्ययनं वाऽपि विद्यां मन्त्रौषधानि च |
यः प्रयच्छति विप्राय तस्य पुण्यफलं शृणु ||१४-१०३-२१ (९५८७२)
आहिताग्निसहस्रस्य पूजितस्यैव यत्फलम् |
तत्पुण्यफलमाप्नोति यस्तु शय्यां प्रयच्चति ||१४-१०३-२२ (९५८७३)
छन्दोभिः संप्रयुक्तेन विमानेन विराजता |
सप्तर्षिलोकान्व्रजति पूज्यते ब्रह्मवादिभिः ||१४-१०३-२३ (९५८७४)
चतुर्युगानि वै त्रिंशत्क्रीडित्वा तत्र देववत् |
इह मानुष्यके लोके विप्रो भवति वेदवित् ||१४-१०३-२४ (९५८७५)
विश्रामयति यो विप्रं श्रान्तमध्वनि कर्शितम् |
कविनश्यति तदा पापं तस्य वर्षकृतं नृप ||१४-१०३-२५ (९५८७६)
अथ प्रक्षालयेत्पादौ तस्य तोयेन भक्तिमान् |
दशवर्षकृतं पापं व्यपोहति न संशयः ||१४-१०३-२६ (९५८७७)
घृतेन वाऽथ तैलेन पादौ तस्य तु पूजयेत् |
तद्द्वादसमारूढं पापमाशु व्यपोहति ||१४-१०३-२७ (९५८७८)
धेनुकाञ्चनदत्तस्य यत्पुण्यं समुदाहृतम् |
तत्पुण्यफलमाप्नोति यस्त्वेनं विप्रमर्चयेत् ||१४-१०३-२८ (९५८७९)
स्वागतेन तु यो विप्रं पूजयेदासनेन च |
प्रत्युत्थानेन वा राजन्स देवानां प्रियो भवेत् ||१४-१०३-२९ (९५८८०)
स्वागतेनाग्नयो राजन्नासनेन शतक्रतुः |
प्रत्युत्थानेन पितरः प्रीति यान्त्यतिथिप्रियाः ||१४-१०३-३० (९५८८१)
अग्निशक्रपितॄणां च तेषां प्रीत्या नराधिप |
संवत्सरकृतं पापं तस्य सद्यो विनश्यति ||१४-१०३-३१ (९५८८२)
यः प्रयच्छति विप्राय आसनं माल्यभूषितम् |
स याति मणिचित्रेण रथेनेन्द्रनिकेतनम् ||१४-१०३-३२ (९५८८३)
पुरन्दरासने तत्र दिव्यनारीविभूषितः |
षष्टिं वर्षसहस्राणि क्रीडत्यप्सरसां गणैः ||१४-१०३-३३ (९५८८४)
वाहनं यः प्रयच्छेत ब्राह्मणाय युधिष्ठिर |
स याति रत्नचित्रेण वाहनेन सुरालयम् ||१४-१०३-३४ (९५८८५)
स तत्र कामं क्रीडित्वा सेव्यमानोप्सरोगणैः |
इह राजा भवेद्राजन्नात्र कार्या विचारणा ||१४-१०३-३५ (९५८८६)
पादपं पल्लवाकीर्णं पुष्पतिं फलितं तथा |
गन्धमाल्यैरथाभ्यर्च्य वस्त्राभरणभूषितम् ||१४-१०३-३६ (९५८८७)
यः प्रयच्छति विप्राय श्रोत्रियाय सदक्षिणम् |
भोजयित्वा यथाकामं तस्य पुण्यफलं शृणु ||१४-१०३-३७ (९५८८८)
जांबूनदविचित्रेण विमानेन विराजता |
पुरन्दरपुरं याति जयशब्दरवैर्युतः ||१४-१०३-३८ (९५८८९)
ततः शक्रपुरे रम्ये तस्य कल्पकपादपः |
ददाति चेप्सितं सर्वं मनसा यद्यदिच्छति ||१४-१०३-३९ (९५८९०)
यावन्ति तस्य पत्राणि पुष्पाणि च फलानि च |
तावद्वर्षसहस्राणि शक्रलोके महीयते ||१४-१०३-४० (९५८९१)
शक्रलोकावतीर्णश्च मानुष्यं लोकमागतः |
रथाश्वगजसंपूर्णं पुरं राज्यं च वक्ष्यति ||१४-१०३-४१ (९५८९२)
स्थापयित्वा तु मद्भक्त्या यो मत्प्रतिकृति नरः |
आलयं विधिवत्कृत्वा पूजाकर्म च कारयेत् |
स्वयं वा पूजयेद्भक्त्या तस्य पुण्यफलं शृणु ||१४-१०३-४२ (९५८९३)
अश्वमेधसहस्रस्य यत्पुण्यं समुदाहृतम् |
तत्फलं समवाप्नोति मत्सालोक्यं प्रपद्यते |
न जाने निर्गमं तस्य मम लोकाद्युधिष्ठिर ||१४-१०३-४३ (९५८९४)
देवालये विप्रगृहे गोवाटे चत्वरेऽपि वा |
प्रज्वालयति यो दीपं तस्य पुण्यफलं शृणु ||१४-१०३-४४ (९५८९५)
आरुद्य काञ्चनं यानं द्योतयन्सर्वतो दिशम् |
गच्छेदादित्यलोकं स सेव्यमानः सुरोत्तमैः ||छ १४-१०३-४५ (९५८९६)
तत्र प्रकामं क्रीडित्वा वर्षकोटिं महातपाः |
इह लोके भवेद्विप्रो वेदवेदाङ्गपारगः ||१४-१०३-४६ (९५८९७)
देवालयेषु वा राजन्ब्राह्मणावसथेषु वा |
चत्वरे वा चतुष्के वा रात्रौ वा यदि वा दिवा ||१४-१०३-४७ (९५८९८)
नानागन्धर्ववाद्यानि धर्मश्रावणिकानि च |
यस्तु कारयते भक्त्या मद्गतेनान्तरात्मना ||१४-१०३-४८ (९५८९९)
तस्य देवा नरश्रेष्ठ पितरश्चापि हर्षिताः |
सुप्रीताः संप्रयच्चन्ति विमानं कामगं सुखम् ||१४-१०३-४९ (९५९००)
स च तेन पिमानेन याति देवपुरं नरः |
तत्र दिव्याप्सरोभिस्तु सेव्यमानः प्रमोदते ||१४-१०३-५० (९५९०१)
देवलोकावतीर्णस्तु सोस्मिँल्लोके नराधिप |
वेदवेदाङ्गतत्वज्ञो भोगवान्ब्राह्मणो भवेत् ||१४-१०३-५१ (९५९०२)
चत्वरे वा सभायां वा विस्तीर्णि वा सभाङ्गणे |
कृत्वाऽग्निकुण्डं विपुलं स्थण्डिलं वा युधिष्ठिर ||१४-१०३-५२ (९५९०३)
तत्राग्निं चतुरो मासाञ्ज्वालयेद्यस्तु भक्तिमाम् |
समाप्तेषु च मासेषु पौष्यादिषु ततो द्विजान् ||१४-१०३-५३ (९५९०४)
भोजयेत्पायसं मृष्टं मद्गतेनान्तरात्मना |
दक्षिणां च यथाशक्ति ब्राह्म्णेभ्यो निवेदयत् ||१४-१०३-५४ (९५९०५)
एवमग्निं तु यः कुर्यान्नित्यमेवार्चयेत्तु माम् |
तस्य पुण्यफलं यद्वै तन्निबोध युधिष्ठिर ||१४-१०३-५५ (९५९०६)
तेनाहं शङ्करश्चैव पितरो ह्यग्नयस्तथा |
यास्यामः परमां प्रीतिं नात्र कार्याविचारणा ||१४-१०३-५६ (९५९०७)
षष्टिं वर्षसहस्राणि षष्टिं वर्षशतानि च |
सोस्मत्प्रीतिकरः श्रीमान्मम लोके महीयते ||१४-१०३-५७ (९५९०८)
मम लोकावतीर्णश्च अस्मिँल्लोके महायशाः |
वेदवेदाङ्गविद्विप्रो जायते राजपूजितः ||१४-१०३-५८ (९५९०९)
यः करोति नरश्रेष्ठ भरणं ब्राह्मणस्य तु |
श्रोत्रियस्याभिजातस्य दरिद्रस्य विशेषतः |
तस्य पुण्यफलं यद्वै तन्निबोध युधिष्ठिर ||१४-१०३-५९ (९५९१०)
गवां कोटिप्रदानेन यत्पुण्यं समुदाहृतम् |
तत्सर्वफलमाप्नोति वर्षेणैकेन पाण्डव ||१४-१०३-६० (९५९११)
काञ्चनेन विचित्रेण विमानेनार्कशोभिना |
स याति मामकं लोकं दिव्यस्त्रीगणसेवितः ||१४-१०३-६१ (९५९१२)
गीयमानो वरस्त्रीभिर्वर्षाणां कोटिविंशतिम् |
क्रीडित्वा मामके तत्र सर्वदेवैरभिष्टुतः |
मानुष्यमवतीर्णस्तु वेदविद्ब्राह्मणो भवेत् ||१४-१०३-६२ (९५९१३)
करकां कर्णिकां वाऽपि महद्वा जलभाजनम् |
यः प्रयच्छति विप्राय तस्य पुण्यफलं शृणु ||१४-१०३-६३ (९५९१४)
ब्रह्मकूर्चे तु यत्पीते फलं प्रोक्तं नरादिप |
तत्पुण्यफलमाप्नोति जलभाजनदो नरः |
सुतृप्तः सर्वसौगन्धः प्रहृष्टेन्द्रियमानसः ||१४-१०३-६४ (९५९१५)
हंससारसयुक्तेन विमानेन विराजता |
स याति वारुणं लोकं दिव्यगन्धर्वसेवितम् ||१४-१०३-६५ (९५९१६)
पानीयं यः प्रयच्छेद्वै जीवानां जीवनं परम् |
ग्रीष्मे च त्रिषु मासेषु तस्य पुण्यफलं शृणु ||१४-१०३-६६ (९५९१७)
कपिलाकोटिनानस्य यत्पुण्यं तु विधीयते |
तत्पुण्यफलमाप्नोति पानीयं यः प्रयच्छति ||१४-१०३-६७ (९५९१८)
पूर्णचन्द्रप्रकासेन विमानेन विराजता |
स गच्छेच्चन्द्रभवनं सेव्यमानोप्सरोगणैः ||१४-१०३-६८ (९५९१९)
त्रिंशत्कोटियुगं तत्र दिव्यगन्धर्वसेवितः |
क्रीडित्वा मानुषे लोके चतुर्वेदी द्विजो भवेत् ||१४-१०३-६९ (९५९२०)
शिरोभ्यङ्गप्रदानेन तेजस्वी प्रियदर्शनः |
सुभगो रूपवाञ्शूरः पण्डितश्च भवेद्द्विजः ||१४-१०३-७० (९५९२१)
वस्त्रदायी तु तेजस्वी सर्वत्र प्रियदर्शनः |
सुभगो भवति श्रीमान्स्त्रीणां नित्यं मनोरमः ||१४-१०३-७१ (९५९२२)
उपानहौ च च्छत्रं च यो ददाति नरोत्तमः |
स याति रथमुख्येन काञ्चनेन विराजता |
शक्रलोकं महातेजाः सेव्यमानोप्सरोगणैः ||१४-१०३-७२ (९५९२३)
काष्ठपादुकदा यान्ति विमानैर्वृक्षनिर्मितैः |
धर्मराजपुरं रम्यं सेव्यमानाः सुरोत्तमैः ||१४-१०३-७३ (९५९२४)
दन्तकाष्ठप्रादनेन प्रियवाक्यो भवेन्नरः |
सुगन्धवदनः श्रीमान्मेदासौभाग्यसंयुतः ||१४-१०३-७४ (९५९२५)
क्षीरं दधि घृतं वाऽपि गुडं मधुरसं तथा |
ये प्रयच्छन्ति विप्रेभ्यः परां भक्तिमुपागताः ||१४-१०३-७५ (९५९२६)
ते वृषैरश्वयानैश्च श्वेतस्रग्दामभूषिताः |
उपगीयमाना गन्धर्वैर्यान्तीश्वरपुरं नराः ||१४-१०३-७६ (९५९२७)
तत्र दिव्याप्सरोभिस्तु सेव्यमाना यथासुखम् |
षष्टिवर्षसहस्राणि मोदन्ते देवसन्निभाः ||१४-१०३-७७ (९५९२८)
ततः कालावतीर्णाश्च जायन्ते त्विह मानवाः ||
प्रभूतधनधान्याश्च भोगवन्तो नरोत्तमाः ||१४-१०३-७८ (९५९२९)
वैशाखे मासि वैशाखे दिवसे पाण्डुनन्दन |
वैवस्वतं समुद्दिश्य परां भक्तिमुपागताः ||१४-१०३-७९ (९५९३०)
अभ्यर्च्य विधिवद्विप्रांस्तिलान्गुडसमन्वितान् |
ये प्रयच्छन्ति विप्रेभ्यस्तेषां पुण्यफलं शृणु ||१४-१०३-८० (९५९३१)
गोप्रदानेन यत्पुण्यं विधिवत्पाण्डुनन्दन |
तत्पुण्यं समनुप्राप्तो यमलोके महीयते |
ततश्चापि च्युतः कालादिह राजा भविष्यति ||१४-१०३-८१ (९५९३२)
तस्मिन्नेव दिने विप्रान्भोजयित्वा सुदक्षिणम् |
तोयपूर्णानि दिव्यानि भाजनानि दिशन्ति ये ||१४-१०३-८२ (९५९३३)
ते यान्त्यादित्यवर्णाभैर्विमानैर्वरुणालयम् |
तत्र दिव्याङ्गनाभिस्तु रमन्ते कामकामिनः ||१४-१०३-८३ (९५९३४)
ततोऽवतीर्णाः कालेन ते चास्मिन्मानुषे पुनः |
भोगवन्तो द्विजश्रेष्ठ भविष्यन्ति न संशयः ||१४-१०३-८४ (९५९३५)
अनन्तराशी यश्चापि वर्तते व्रतवत्सदा |
सत्यवाक्क्रोधरहितः शुचिः स्नानरतः सदा |
स विमानेन दिव्येन याति शक्रपुरं नरः ||१४-१०३-८५ (९५९३६)
तत्र दिव्याप्सरोभिस्तु वर्षकोटिं महातपाः |
क्रीडित्वा मानुषे लोके जायते वेदविद्द्विजः ||१४-१०३-८६ (९५९३७)
एकभुक्तेन यश्चापि वर्षमेकं तु वर्तते |
ब्रह्मचारी जितक्रोधः सत्यशौचसमन्वितः |
स विमानेन दिव्येन याति शक्रपुरं नरः ||१४-१०३-८७ (९५९३८)
दशकोटिसहस्राणि क्रीडित्वाऽप्सरसां गणैः |
इह मानुष्यके लोके वेदविद्ब्राह्मणो भवेत् ||१४-१०३-८८ (९५९३९)
चतुर्थकाले यो भुङ्क्ते ब्रह्मचारी जितेन्द्रियः |
वर्तते चैकवर्षं तु तस्य पुण्यफलं शृणु ||१४-१०३-८९ (९५९४०)
चित्रबर्हिणयुक्तेन विचित्रध्वजशोभिना |
याति यानेन दिव्येन स महेन्द्रपुरं नरः ||१४-१०३-९० (९५९४१)
अकृशाभिर्वरस्त्रीभिः सेव्यमानो यथासुखम् |
ततो द्वादशकोटिं स समाः सम्यक्प्रमोदते ||१४-१०३-९१ (९५९४२)
शक्रलोकावतीर्णस्तु लोके चास्मिन्नराधिप |
भवेद्वै ब्राह्मणो विद्वान्क्षमावान्वेदपारगः ||१४-१०३-९२ (९५९४३)
षष्ठकाले तु योऽश्नाति वर्षमेकमकल्मषः |
ब्रह्मचर्यव्रतैर्युक्तः शुचि क्रोधविवर्जितः |
तपोयुक्तस्य तस्याथ शृणुष्व फलमुत्तमम् ||१४-१०३-९३ (९५९४४)
अत्यादित्यप्रकाशेन विमानेनार्कसंनिभः |
स याति मम लोकान्वै दिव्यनारीनिषेवितः ||१४-१०३-९४ (९५९४५)
तत्र साध्यैर्मरुद्भिस्तु पूज्यमानो यथासुखम् |
पश्यन्नेव सदा मां तु क्रीडत्यप्सरसां गणैः ||१४-१०३-९५ (९५९४६)
पक्षोपवासं यश्चापि कुरुते मद्गतात्मना |
समाप्ते तु व्रते तस्मिंस्तर्पयेच्छ्रोत्रियान्द्विजान् ||१४-१०३-९६ (९५९४७)
सोपि गच्छति दिव्येन विमानेन महातपाः |
द्योतयनप्रभया व्योम मम लोकं प्रपद्यते |
स तत्र मोदते कामं कामरूपी यथासुखम् ||१४-१०३-९७ (९५९४८)
त्रिंशत्कोटिसमा राजन्क्रीडित्वा तत्र देववत् |
इह मानुष्यके लोके पूजनीयो द्विजो भवेत् |
त्रयाणामपि वेदानां साङ्गानां पारगे भवेत् ||१४-१०३-९८ (९५९४९)
यश्च मासोपवासं वै कुरुते मद्गतात्मना |
जितेन्द्रियो जितक्रोधोजितधीः स्नानतत्परः ||१४-१०३-९९ (९५९५०)
समाप्ते नियमे तत्र भोजयित्वा द्विजोत्तमान् |
दक्षिणां च ततो दद्यात्प्रहृष्टेनान्तरात्मना ||१४-१०३-१०० (९५९५१)
स गच्छति महातेजा ब्रह्मलोकमनु****म् |
सिंहयुक्तेन यानेन दिव्यस्त्रीगणसेवितः ||१४-१०३-१०१ (९५९५२)
स तत्र ब्रह्मणो लोके दिव्यर्षिगणसेवितः |
शतकोटिसमा राजन्यथाकामं प्रमोदते ||१४-१०३-१०२ (९५९५३)
ततः कालावतीर्णश्च सोस्मिँल्लोके द्विजो भवेत् |
षडङ्गविच्चतुर्वेदी त्रिंशज्जन्मान्यरोगवान् ||१४-१०३-१०३ (९५९५४)
यस्त्यक्त्वा सर्वकर्माणि शुचिः क्रोधविवर्जितः |
महाप्रस्तानमेकाग्नो याति मद्गतमानसः ||१४-१०३-१०४ (९५९५५)
स गच्छेदिन्द्रसदनं विमानेन महातपाः |
महामणिविचित्रेण सौवर्णन विराजता ||१४-१०३-१०५ (९५९५६)
शतकोटिसमास्तत्र सुराधिपतिपूजितः |
नाकपृष्ठे निवसति दिव्यस्त्रीगणसेवितः ||१४-१०३-१०६ (९५९५७)
शक्रलोकावतीर्णश्च मानुषेषूपजायते |
राज्ञां राजा महातेजाः सर्वलोकार्चितः प्रभुः ||१४-१०३-१०७ (९५९५८)
प्रायोपवेशं यश्चापि कुरुते मद्गतात्मना |
नमो ब्रह्मण्यदेवायेत्युक्त्वा मन्त्रं समाहितः |
अन्तःस्वस्थो जितक्रोधस्तस्य पुण्यफलं शृणु ||१४-१०३-१०८ (९५९५९)
कामगः कामरूपी च बालसूर्यसमप्रभः |
स विमानेन दिव्येन याति लोकाननामयान् ||१४-१०३-१०९ (९५९६०)
स्वर्गत्स्वर्गं महातेजा गत्वा चैव यथासुखम् |
मम लोकेषु रमते यावदाभूतसंप्लवम् ||१४-१०३-११० (९५९६१)
अग्निप्रवेशं यश्चापि कुरुते मद्गतात्मना |
सोपि यानेन दिव्येन मम लोकं प्रपद्यते ||१४-१०३-१११ (९५९६२)
तत्र सर्वगुणोपेतः पश्यन्नेव स मां सदा |
त्रिंशत्कोटिसमा राजन्मोदते मम संनिधौ |
ततोऽवतीर्णः कालेन वेदविद्ब्राह्मणो भवेत् ||१४-१०३-११२ (९५९६३)
कर्षणं साधयन्यस्तु मां प्रपन्नः शुचिव्रतः |
नमो ब्रह्मण्यदेवायेत्येतन्मन्त्रमुदाहरन् ||१४-१०३-११३ (९५९६४)
बालसूर्यप्रकाशेन विमानेन विराजता |
मम लोकं समासाद्य वर्षकोटिं प्रमोदते |
मम लोकावतीर्णश्च सोस्मिँल्लोके नृपो भवेत् ||१४-१०३-११४ (९५९६५)
निवेशयति मन्मूर्त्यामात्मानं मद्गतः शुचिः |
रुद्रदक्षिणमूर्त्यां वा चतुर्दश्यां विशेषतः ||१४-१०३-११५ (९५९६६)
सिद्धैर्ब्रह्मर्षिभिश्चैव देवलोकैश्च पूजितः |
गन्धर्वैर्भूतसङ्घैश्च गीयमानो महातपाः ||१४-१०३-११६ (९५९६७)
प्रविशेत्स महातेजा मां वा शङ्करमेव वा |
न स्यात्पुनर्भवो राजन्नात्र कार्या विचारणा ||१४-१०३-११७ (९५९६८)
गोकृते स्त्रीकृते चैव गुरुविप्रकृतेऽपि वा |
हन्यन्ते ये तु राजेन्द्र शक्रलोकं व्रजन्ति ते ||१४-१०३-११८ (९५९६९)
तत्र जांबूनदमये विमाने कामगामिनि |
मन्वन्तरं प्रमोदन्ते दिव्यनारीनिषेविताः ||१४-१०३-११९ (९५९७०)
आश्रुतस्याप्रादनेन दत्तस्य हरणेन च |
जन्मप्रभृति यद्दत्तं तत्सर्वं तु विनश्यति ||१४-१०३-१२० (९५९७१)
नाऽगोप्रदास्तत्र पयः पिबन्ति
नाभूमिदा भूमिमथाश्नुवन्ति |
यान्यान्कामान्ब्राह्मणेभ्यो ददाति
तांस्तान्कामान्स्वर्गलोके च भुङ्क्ते ||१४-१०३-१२१ (९५९७२)
यद्यदिष्टतमं द्रव्यं न्यायनोपार्जितं च यत् |
तत्तद्गुणवते देयं तदेवाक्षयमिच्छता ||१४-१०३-१२२ (९५९७३)
अनुपोष्य त्रिरात्राणि तीर्थान्यनभिगम्य च |
अदत्त्वा काञ्चनं गां दरिद्रो नाम जायते ||१४-१०३-१२३ (९५९७४)
दानं यत्तत्फलं नैव श्रोत्रियाय न दीयते |
श्रोत्रिया यत्र नाश्नन्ति न देवास्तत्र भुञ्जते ||१४-१०३-१२४ (९५९७५)
श्रोत्रियेभ्यः परं नास्ति परमं दैवतं महत् |
निधानं चापि राजेन्द्र नास्माच्छ्रोत्रियभोजनम् ||||१४-१०३-१२५ (९५९७६)
इति श्रीमन्महाभारते आश्वमेधिकपर्वणि वैष्णवधर्मपर्वणि
त्र्यधिकशततमोऽध्यायः ||
Mahabharata -Ashvamedhika Parva -Chapter Footnotes
७-१०३-६४ अहोरात्रोषितो भूत्वा पौर्णमास्यां विशेषतः | पञ्चगव्यं
पिबेत्प्रातर्ब्रह्मकूर्चविधिः स्मृतः ||
७-१०३-६६ ग्रीष्मे चतुर्षु मासेषु इति थ.पाठः ||
आश्वमेधिकपर्व -अध्याय १०४
||श्रीः ||
१४. १०४. अध्यायः १०४
Mahabharata -Ashvamedhika Parva -Chapter Topics
कृष्णेन युधिष्ठिरंप्रति पञ्चमहायज्ञनिरूपणं,
स्नानविधिनिरूपणं, वैष्णवलक्षणाभिधानं
स्वपूजायोग्ययोग्यपुष्पविवेचनं च ||१ ||
Mahabharata -Ashvamedhika Parva -Chapter Text
युधिष्ठिर उवाच |
विप्रयोगे शरीरस्य सेन्द्रियस्य विशेषतः |
अन्तरा वर्तमानस्य गतिः प्राणस्य कीदृशी ||१४-१०४-१ (९५९७७)
भगवानुवाच. १४-१०४-२क्ष् (७९५६)
शुभाशुभकृतं सर्वं प्राप्नोतीह फलं नरः |
न तु सर्वस्य भूतस्य पञ्चत्वं विद्यते नृप ||१४-१०४-२ (९५९७८)
पञ्चत्वं पाण्डवश्रेष्ठ भूरिभूतिकरं नृणाम् |
तेषां पञ्च महायज्ञान्ये कुर्वन्ति द्विजोत्तम ||१४-१०४-३ (९५९७९)
पञ्चत्वं पञ्चभिर्भूतैर्वियोगं संप्रचक्षते |
न जायते न म्रियते पुरुषः शाश्वतः सदा ||१४-१०४-४ (९५९८०)
प्रायेण मरणं नाम पापिनामेव पाण्डव |
येषां तु न गतिः पुण्या तेषां मरणमुच्यते ||१४-१०४-५ (९५९८१)
प्रायेणाकृतकृत्यस्तु मृत्योरुद्विजते जनः |
कृतकृत्याः प्रतीक्षन्ते मृत्युं प्रियमिवातिथिम् ||१४-१०४-६ (९५९८२)
युधिष्ठिर उवाच. १४-१०४-७क्ष् (७९५७)
पञ्च यज्ञाः कथं देव क्रियन्तेऽत्र द्विजातिभिः |
तेषां नाम च देवेश वक्तुमर्हस्यशेषतः ||१४-१०४-७ (९५९८३)
श्रीभगवानुवाच. १४-१०४-८क्ष् (७९५८)
शृणु पञ्च महायज्ञान्कीर्त्यमानान्युधिष्ठिर |
यैरेव ब्रह्मसालोक्यं लभ्यते गृहमेधिना ||१४-१०४-८ (९५९८४)
ऋभुजज्ञं ब्रह्मयज्ञं भूतयज्ञं च पाण्डव |
नृयज्ञं पितृयज्ञं च पञ्च यज्ञान्प्रचक्षते ||१४-१०४-९ (९५९८५)
तर्पणं ऋभुयज्ञः स्यात्स्वाध्यायो ब्रह्मयज्ञकः |
भूतयज्ञो बलिर्यज्ञो नृयज्ञोऽतिथिपूजनम् |
पितॄनुद्दिश्य यत्कर्म पितृयज्ञः प्रकीर्तितः ||१४-१०४-१० (९५९८६)
हुतं चाप्यहुतं चैव तथा प्रहुतमेव च |
प्राशितं बलिदानं च पाकयज्ञान्प्रचक्षते ||१४-१०४-११ (९५९८७)
वैश्वदेवादयो होमा हुतमित्युच्यते बुधैः |
अहुतं च भवेद्दत्तं प्रहुतं ब्राह्मणाशितम् ||१४-१०४-१२ (९५९८८)
प्राणाग्निहोत्रहोमं च प्राशितं विधिवद्विदुः |
बलिकर्म च राजेन्द्र पाकयज्ञाः प्रकीर्तिताः ||१४-१०४-१३ (९५९८९)
केचित्पञ्च महायज्ञान्पाकयज्ञान्प्रचक्षते |
अपरे ब्रह्मयज्ञादीन्महायज्ञविदो विदुः ||१४-१०४-१४ (९५९९०)
सर्व एते महायज्ञाः सर्वथा परिकीर्तिताः |
बुभुक्षितान्ब्राह्मणांस्तु यथाशक्ति न हापयेत् ||१४-१०४-१५ (९५९९१)
अहन्यहनि ये त्वेतानकृत्वा भुञ्जते स्वयम् |
केवलं मलमश्नन्ति ते नार न च संशयः ||१४-१०४-१६ (९५९९२)
तस्मात्स्नात्वा द्विजो विद्वान्कुर्यादेतान्दिनेदिने |
अतोऽन्यथा तु भुञ्जन्वै प्रायश्चित्ती भवेद्द्विजः ||१४-१०४-१७ (९५९९३)
युधिष्ठिर उवाच. १४-१०४-१८क्ष् (७९५९)
देवदेवेशक दैत्यघ्न त्वद्भक्तस्य जनार्दन |
वक्तुमर्हसि देवेश स्नानस्य च विधिं मम ||१४-१०४-१८ (९५९९४)
भगवानुवाच. १४-१०४-१९क्ष् (७९६०)
शृणु पाण्डव तत्सर्व पवित्रं पापनाशनम् |
स्नात्वा येन विधानेन मुच्यन्ते किल्बिषाद्द्विजाः ||१४-१०४-१९ (९५९९५)
मृदं च गोमयं चैव तिलं दर्भांस्तथैव च |
पुष्पाण्यपि यथान्यायमादाय तु जलं व्रजेत् ||१४-१०४-२० (९५९९६)
नद्यां स्नात्वा न च स्नायदन्यत्र द्विजसत्तम |
सति प्रभूते पयसि नाल्पे स्नायात्कदाचन ||१४-१०४-२१ (९५९९७)
गत्वोदकसमीपं तु शुचौ देशे मनोरमे |
ततो मृद्गोमयादीनि तत्र विप्रो विनिक्षिपेत् ||१४-१०४-२२ (९५९९८)
बहिः प्रक्षाल्य पादौ च द्विराचम्य प्रयत्नतः |
प्रदक्षिणं समावृत्य नमस्कुर्यात्तु तज्जलम् ||१४-१०४-२३ (९५९९९)
न च प्रक्षालयेद्विद्वांस्तीर्थमद्भिः कदाचन |
न च पादेन वा हन्याद्धस्तेनान्येन तज्जलम् ||१४-१०४-२४ (९६०००)
सर्वदेवमया ह्यापो मन्मयाः पाण्डुनन्दन |
तस्मात्तास्तु न हन्तव्यास्त्वद्भिः प्रक्षालयेत्स्थलं ||१४-१०४-२५ (९६००१)
केवलं प्रथमं मज्जेन्नाङ्गानि विमृशेद्बुधः |
तत्तु तीर्थं समासाद्य कुर्यादाचमनं पुनः ||१४-१०४-२६ (९६००२)
गोकर्णाकृतिवत्कृत्वा करं त्रिः प्रपिबेज्जलम् |
द्विस्तत्परिमृजेद्वक्त्रं पादावभ्युक्ष्य चात्मनः |
शीर्षण्यांस्तु ततः प्राणान्सकृदेवतु संस्पृशेन ||१४-१०४-२७ (९६००३)
बाहू द्वौ च ततः स्पृष्ट्वा हृदयं नाभिमेव च |
प्रत्यङ्गमुदकं स्पृष्ट्वा मूर्धानं तु पुनः स्पृशेत् ||१४-१०४-२८ (९६००४)
आपः पुनन्त्वित्युक्त्वा च पुनराचमनं चरेत् |
सोङ्कारव्याहृतीर्वाऽपि सदसस्पतिमित्यृचम् ||१४-१०४-२९ (९६००५)
आचम्य मृत्तिकाः पश्चात्त्रिधा कृत्वा समालभेत् |
ऋचेदं विष्णुरित्यङ्गमुत्तमाधममध्यमम् |
आलभ्य वारुणैः सूक्तैर्नमस्कृत्य जलं ततः ||१४-१०४-३० (९६००६)
स्रवन्ती चेत्प्रतिस्रोतः प्रत्यर्कं चान्यवारिषु |
मज्जेदोमित्युदाहृत्य न च विक्षोभयेज्जलम् ||१४-१०४-३१ (९६००७)
गोमयं च त्रिधा कृत्वा जले पूर्वं समालभेत् |
सव्याहृतीकां सप्रणवां गायत्रीं च जपेत्पुनः ||१४-१०४-३२ (९६००८)
पुनराचमनं कृत्वा मद्गतेनान्तरात्मना |
आपोहिष्ठेति तिसृभिरृग्भिः पूतेन वारिणा |
तथा तरत्समन्दीभिः सिञ्चेच्चतसृभिः क्रमात् ||१४-१०४-३३ (९६००९)
गोसूक्तेनाश्वसूक्तेन शुद्धवर्गेणि चात्मनः |
वैष्णवैर्वारुणैः सूक्तैः सावित्रैरिन्द्रदेवतैः ||१४-१०४-३४ (९६०१०)
वामदैव्येन चात्मानमन्यैर्मन्मयसामभिः |
स्थित्वाऽन्तःसलिले सूक्तं जपेद्वाचाऽघमर्षणं ||१४-१०४-३५ (९६०११)
सव्याहृतीकां सप्रणवां गायत्रीं वा ततो जपेत् |
आश्वासमोक्षात्प्रणवं जपेद्वा मामनुस्मरन् ||१४-१०४-३६ (९६०१२)
उत्प्लुत्य तीर्थमासाद्य धौते शुक्ले च वाससी ||
शुद्धे चाच्छादयेत्कक्षे न कुर्यात्परिपाशके ||१४-१०४-३७ (९६०१३)
पाशेन बद्ध्वा कक्षे यत्कुरुते कर्म वैदिकम् |
राक्षसा दानवा दैत्यास्तद्विलुंपन्ति हर्षिताः |
तस्मत्सर्वप्रयत्नेन कक्ष्यापाशं न धारयेत् ||१४-१०४-३८ (९६०१४)
ततः प्रक्षाल्य पादौ च हस्तौ चैव मृदा शनैः |
आचम्य पुनराचामेत्पुनः सावित्रिया द्विजः ||१४-१०४-३९ (९६०१५)
प्राङ्मुखोदङ्मुखो वाऽपि ध्यायन्वेदान्समाहितः |
जले जलगतः शुद्धः स्थल एव स्थलस्थितः |
उभयत्र स्थितस्तस्मादाचामेदात्मशुद्धये ||१४-१०४-४० (९६०१६)
दर्भेषु दर्भपाणिः सन्प्राङ्मुखः सुसमाहितः |
प्राणायामांस्ततः कुर्यान्मद्गतेनान्तरात्मना ||१४-१०४-४१ (९६०१७)
सहस्रकृत्वः सावित्रीं शतकृत्वस्तु वा जपेत् ||१४-१०४-४२ (९६०१८)
समाहितो जपेत्तस्मात्सावित्र्या चाभिमन्त्र्य च |
मन्देहानां विनाशाय रक्षसां विक्षिपेज्जलम् ||१४-१०४-४३ (९६०१९)
उद्वर्गोसीत्यथा चान्तःप्रायश्चित्तजलं क्षिपेत् ||१४-१०४-४४ (९६०२०)
अथादाय सुपुष्पाणि तोयमञ्जलिना द्विजः
प्रक्षिप्य प्रतिसूर्यं च व्योममुद्रां प्रकल्पयेत् ||१४-१०४-४५ (९६०२१)
ततो द्वादशकृत्वस्तु सूर्यस्येकाक्षरं जपेत् |
ततः षडक्षरादीनि षट्कृत्वः परिवर्तयेत् ||१४-१०४-४६ (९६०२२)
प्रदक्षिणं परामृश्य मुद्रया स्वमुखान्तरे |
ऊर्ध्वबाहुस्ततो भूत्वा सूर्यमीक्षेत्समाहितः ||१४-१०४-४७ (९६०२३)
तन्मण्डलस्थं मां ध्यायंस्तोजोमूर्तिं चतुर्भुजम् |
उदुत्यं च जपेन्मन्त्रं चित्रं तच्चक्षुरित्यपि ||१४-१०४-४८ (९६०२४)
सावित्रीं च यथाशत्ति जप्त्वा सूक्तं च मामकम् |
मन्मयानि च सामानि पुरुषव्रतमेव च ||१४-१०४-४९ (९६०२५)
ततश्चालोकयेदर्कं हंसः शुचिषदित्यपि |
प्रदक्षिणं समावृत्य नमस्कृत्य दिवाकरम् ||१४-१०४-५० (९६०२६)
ततस्तु तर्पयेदद्भिर्ब्रह्म्णां मां च शङ्करम् |
प्रजापतिं च देवांश्च तथा देवमुनीनपि ||१४-१०४-५१ (९६०२७)
साङ्गानपि तथा वेदानितिहासान्क्रतूनपि |
पुराणानि च सर्वाणि कुलान्यप्सरसां तथा ||१४-१०४-५२ (९६०२८)
क्रतून्संवत्सरं चैव कलाकाष्ठात्मकं तथा |
भूतग्रामांश्च भूतानि सरितः सागरांस्तथा |
शैलाञ्शैलस्थितान्देवानोषधीः सवनस्पतीः ||१४-१०४-५३ (९६०२९)
तर्पयेदुपवीती च प्रत्येकं तृप्यतामिति |
अन्वारभ्य च सव्येन पाणिना दक्षिणेन तु ||१४-१०४-५४ (९६०३०)
निवीती तर्पयेद्विद्वानृषीन्मन्त्रकृतस्तथा |
मरीच्यादीनृषींश्चैव नारदाद्यान्समाहितः ||१४-१०४-५५ (९६०३१)
प्राचीनावीत्यथैतास्तु तर्पयेद्देवताः पितॄत् |
ततस्तु कव्यवाडग्निं सों वैवस्वतं तथा ||१४-१०४-५६ (९६०३२)
ततश्चार्यमणं चापि ह्यग्निष्वात्तांस्तथैव च |
सोमपांश्चैव दर्भेषु सतिलैरेव वारिभिः |
तृप्यतामिति पश्चात्तु स पितॄंस्तर्पयेत्ततः ||१४-१०४-५७ (९६०३३)
पितॄन्पितामहांश्चैव तथैव प्रपितामहान् |
पितामहीस्तता चापि तथैव प्रपितामहीः ||१४-१०४-५८ (९६०३४)
मातरं चात्मनश्चैव गुरुमाचार्यमेव च |
पितृमातृष्वसारौ च तथा मातामहीमपि ||१४-१०४-५९ (९६०३५)
उपाध्यायान्सखीन्बन्धूञ्शिष्यर्त्विग्ज्ञातिबांधवान् |
प्रमीतानानृशंस्यार्थं तर्पयेत्तानमत्सरः ||१४-१०४-६० (९६०३६)
तर्पयित्वा तथाऽऽचम्य स्नानवस्त्रं प्रपीडयेत् |
वृत्तिं भृत्यजनस्याहुः स्नानं पानं च तद्विदः ||१४-१०४-६१ (९६०३७)
अतर्पयित्वा तान्पूर्वं स्नानवस्त्रं न पीडयेत् |
पीडयेच्चेत्पुरा मोहाद्देवाः सर्पिगणास्तथा |
पितरस्तु निराशास्ते शप्त्वा यान्ति यथागतं ||१४-१०४-६२ (९६०३८)
प्रक्षाल्य तु मृदा पादावाचम्य प्रयतः पुनः |
दर्भेषु दर्भपाणिः सन्स्वाध्यायं तु समारभेत् ||१४-१०४-६३ (९६०३९)
वेदमादौ समारभ्य ततोपर्युपरि क्रमात् |
यदधीतेऽन्वहं शक्त्या तत्स्वाध्यायं प्रचक्षते ||१४-१०४-६४ (९६०४०)
ऋचो वाऽपि यजुर्वाऽपि सामगायमथापि च |
इतिहासपुराणानि यथाशक्ति न हापयेत् ||१४-१०४-६५ (९६०४१)
उत्थाय तु नमस्कृत्य दिशो दिग्देवता अपि |
ब्रह्मणं च ततश्चाग्निं पृथिवीमोषधीस्तथा ||१४-१०४-६६ (९६०४२)
वाचं वाचस्पतिं चैव मां चैव सरितस्तथा |
नमस्कृत्य तथाऽद्भिस्तु प्रणवादि च पूर्ववत् ||१४-१०४-६७ (९६०४३)
ततो नमोऽद्भ्य इत्युक्त्वा नमस्कुर्यात्तु तज्जलम् |
घृणिः सूर्यस्तथाऽऽदित्यस्तं प्रणम्य स्वमूर्धनि ||१४-१०४-६८ (९६०४४)
ततस्त्वालोकयन्नर्कं प्रणवेन समाहितः |
ततो मामर्चयेत्पुष्पैर्मत्प्रियैरेव नित्यशः ||१४-१०४-६९ (९६०४५)
युधिष्ठिर उवाच. १४-१०४-७०क्ष् (७९६१)
त्वत्प्रियाणि प्रसूनानि त्वदधिष्ठानि माधव |
सर्वाण्याचक्ष्व देवेश त्वद्भक्तस्य ममाच्युत ||१४-१०४-७० (९६०४६)
भगवानुवाच. १४-१०४-७१क्ष् (७९६२)
शृणुष्वावहितो राजन्पुष्पाणि प्रियकृन्ति मे |
कुमुदं करवीरं च चणकं चंपकं तथा ||१४-१०४-७१ (९६०४७)
मल्लिकाजातिपुष्पं च नन्द्यावर्तं च नन्दिकम् |
पलाशपुष्पपत्राणि दूर्वा भृङ्गकमेव च ||१४-१०४-७२ (९६०४८)
वनमाला च राजेन्द्र मत्प्रियाणि विशेषतः |
सर्वेषामपि पुष्पाणां सहस्रगुणमुत्पलम् ||१४-१०४-७३ (९६०४९)
तस्मात्पद्मं तथा राजन्पद्मात्तु सतपत्रकम् |
तस्मात्सहस्रपत्रं तु पुण्डरीकं ततः परम् ||१४-१०४-७४ (९६०५०)
पुण्डरीकसहस्रात्तु तुलसी गुणतोऽधिका |
बकपुष्पं ततस्तस्मात्सौवर्णं तु ततोऽधिकम् |
सौवर्णात्तु प्रसूनाच्च मत्प्रियं नास्ति पाण्डव ||१४-१०४-७५ (९६०५१)
पुष्पाभावे तुलस्यास्तु पत्रैर्मामर्चयेत्पुनः |
पत्रालाभे तु शाखाभिः शाकालाभे शिफालवैः |
शिफाभावे मृदा तत्र भक्तिमानर्चयेत माम् ||१४-१०४-७६ (९६०५२)
वर्जनीयानि पुष्पाणि शृणु राजन्समाहितः |
किङ्किणी मुनिपुष्पं च धुर्धूरं पाटलं तथा ||१४-१०४-७७ (९६०५३)
तथाऽतिमुक्तकं चैव पुन्नागं नक्तमालिकम् |
यौधिकं क्षीरिकापुष्पं निर्गुण्डी लाङ्गुली जपा ||१४-१०४-७८ (९६०५४)
कर्णिकारं तथाऽशोकं शल्मलीपुष्पमेव च |
ककुभाः कोविदाराश्च वैभीतकमथापि च ||१४-१०४-७९ (९६०५५)
कुरण्टकप्रसूनं च कल्पकं कालकं तथा |
अङ्केलं गिरिकर्णी च नीलान्येव च सर्वशः |
एकपर्णानि चान्यानि सर्वाण्येव विवर्जयेत् ||१४-१०४-८० (९६०५६)
अर्कपुष्पाणि वर्ज्यानि अर्कपत्रस्तितानि च |
व्याघृताः पिचुमन्दानि सर्वाण्येव विवर्जयेत् ||१४-१०४-८१ (९६०५७)
अन्यैस्तु शुक्लपत्रैस्तु गन्धवद्भिर्नराधिप |
अवर्ज्यैस्तैर्यथालाभं मद्भक्तो मां समर्चयेत् ||१४-१०४-८२ (९६०५८)
युधिष्ठिर उवाच. १४-१०४-८३क्ष् (७९६३)
कथं त्वमर्चनीयोसि मूर्तयः कीदृशास्तु ते |
वैखानसाः कथं ब्रुयूः कथं वा पाञ्चरात्रिकाः ||१४-१०४-८३ (९६०५९)
भगवानुवाच. १४-१०४-८४क्ष् (७९६४)
शृणु पाण्डव तत्सर्वमर्चनाक्रममात्मनः |
स्थण्डिले पद्मकं कृत्वा चाष्टपत्रं सकर्णिकम् ||१४-१०४-८४ (९६०६०)
अष्टाक्षरविधानेन ह्यथवा द्वादशाक्षरैः |
वैदिकैरथ मन्त्रैश्च मम सूक्तेन वा पुनः ||१४-१०४-८५ (९६०६१)
स्थापितं मां ततस्तस्मिन्नर्ययित्वा विचक्षणः |
पुरुषं च ततः सत्यमत्युतं च युधिष्ठिर ||१४-१०४-८६ (९६०६२)
अनिरुद्धं च मां प्राहुर्वैखानसविदो जनाः |
अन्ये त्वेवं विजानन्ति मां राजन्पाञ्चरात्रिकाः. १४-१०४-८७ (९६०६३)
वासुदेवं च राजेन्द्र संकर्षणमथापि वा |
प्रद्युम्नं चानिरुद्धं च चतुर्मूर्तिं प्रचक्षते ||१४-१०४-८८ (९६०६४)
एताश्चान्याश्च राजेन्द्र संज्ञाभेदेन मूर्तयः |
विद्ध्यार्थान्तरा एवं मामेवं चार्चयेद्भुधः ||१४-१०४-८९ (९६०६५)
युधिष्ठिर उवाच. १४-१०४-९०क्ष् (७९६५)
त्वद्भक्ताः कीदृसा देव कानि तेषं व्रतानि च |
एतत्कथय देवेश त्वद्भक्तस्य ममाच्युत ||१४-१०४-९० (९६०६६)
भगवानुवाच. १४-१०४-९१क्ष् (७९६६)
अनन्यदेवताभक्ता चे मद्भक्तजनप्रियाः |
मामेव शरणं प्राप्ता मद्भक्तास्ते प्रकीर्तिताः ||१४-१०४-९१ (९६०६७)
स्वर्ग्याण्यपि यशस्यानि मत्प्रियाणि विशेषतः |
मद्भक्तः पाण्डवश्रेष्ठ व्रतानीमानि धारयेत् ||१४-१०४-९२ (९६०६८)
नान्यदाच्छादयेद्वस्त्रं मद्भक्तो जलतारणे |
स्वस्थस्तु न दिवा स्वप्येन्मधुमांसानि वर्जयेत् ||१४-१०४-९३ (९६०६९)
प्रदक्षिणं व्रजेद्विप्रान्गामश्वत्थं हुताशनम् |
न धावेत्पतिते वर्षे नाग्नभिक्षां च लोपयेत् ||१४-१०४-९४ (९६०७०)
प्रत्यक्षलवणं नाद्यत्सौभाञ्जनकरञ्जनौ |
ग्रासमुष्टिं गवपे दद्याद्धान्याम्लं चैव वर्जयेत् ||१४-१०४-९५ (९६०७१)
तथा पर्युषितं चापि पक्वं परगृहागतम् |
अनिवेदितं च यद्द्रव्यं तत्प्रयत्नेन वर्जयेत् ||१४-१०४-९६ (९६०७२)
विभितककरञ्जानां छायां दूरे विवर्जयेत् |
पिप्रदेवपरीवादान्न वदेत्पीडितोपि सन् ||१४-१०४-९७ (९६०७३)
सात्विका राजसाश्चापि तामसाश्चापि पाण्डव |
मामर्चयन्ति मद्भक्तास्तेषामीदृग्विदा गतिः ||१४-१०४-९८ (९६०७४)
तामसास्तिमिरं यान्ति राजसा रज एव तत् |
सात्विकाः सत्वसंपन्नाः सत्वमेव प्रयान्ति ते ||१४-१०४-९९ (९६०७५)
ये सिद्धाः सन्ति साङ्ख्येन योगसत्वबलेन च |
नभस्यादित्यचन्द्राभ्यां पश्यन्ति पदविस्तरम् ||१४-१०४-१०० (९६०७६)
एकस्तंभे नवद्वारे त्रिस्थूणे पञ्चसाक्षिके |
एतस्मिन्देहनगरे राजसस्तु सदा भवेत् ||१४-१०४-१०१ (९६०७७)
उदिते सवितर्याप्य क्रियायुक्तस्य धीमतः |
चतुर्वेदविदश्चापि देहे षड्वृषलाः स्मृताः ||१४-१०४-१०२ (९६०७८)
क्षत्रियाः सप्त विज्ञेया वैश्यास्त्वष्टौ प्रकीर्तिताः |
नियताः पाण्डवश्रेष्ठ शूद्राणामेकविंशतिः ||१४-१०४-१०३ (९६०७९)
कामः क्रोधश्च लोभश्च मोहश्च मद एव च |
महामोहश्च इत्येते देहे षड्वृषलाः स्मृताः ||१४-१०४-१०४ (९६०८०)
गर्वः स्तंभो ह्यहङ्कार ईर्ष्या च द्रोह एव च |
पारुष्यं क्रूरता चैव सप्तैत क्षत्रियाः स्मृताः ||१४-१०४-१०५ (९६०८१)
तीक्ष्णता निकृतिर्माया शाठ्यं डंभो ह्यनार्जवम् |
पैशुन्यमनृतं चैव वेश्यास्त्वष्टौ प्रकीर्तिताः ||१४-१०४-१०६ (९६०८२)
तृष्णा बुभुक्षा निद्रा च ह्यालस्यं चाघृणादयः |
आधिश्चापि विषादश्च प्रमादो हीनसत्वता ||१४-१०४-१०७ (९६०८३)
भयं विक्लबता जाड्यं पापकं मन्युरेव च |
आशा चाश्रद्दधानत्वमनवस्थाप्यमन्त्रणम् ||१४-१०४-१०८ (९६०८४)
आशौचं मलिनत्वं च शूद्रा ह्येते प्रकीर्तिताः |
यस्मिन्नेते न दृश्यन्ते स वै ब्राह्मण उच्यते ||१४-१०४-१०९ (९६०८५)
येषुयेषु हि भावेषु यत्कालं वर्तते द्विजः |
तत्कालं वै स विज्ञेयो ब्राह्मणो ज्ञानदुर्बलः ||१४-१०४-११० (९६०८६)
प्राणानायम्य यत्कालं येन मां चापि चिन्तयेत् |
तत्कालो वै द्विजो ज्ञेयः शेषकालो ह्यथेतरः ||१४-१०४-१११ (९६०८७)
तस्मात्तु सात्विको भूत्वा शुचिः क्रोधविवर्जितः |
मामर्चयेत्तु सततं मत्प्रियत्वं यदीच्छति ||१४-१०४-११२ (९६०८८)
अलोलजिह्वः समुपस्थितो धृतिं
निधाय चक्षुर्युगमात्रमेव तत |
मनश्च वाचं च निगृह्य चञ्चलं
भयान्निवृत्तो मम भक्त उच्यते ||१४-१०४-११३ (९६०८९)
ईदृशाध्यात्मिनो ये तु ब्राह्मणा नियतेन्द्रियाः |
तेषां श्राद्धेषु तृप्यन्ति तेन तृप्ताः पितामहाः ||१४-१०४-११४ (९६०९०)
धर्मो जयति नाधर्मः सत्यं जयति नानृतम् |
क्षमा जयति न क्रोधः क्षमावान्ब्राह्मणो भवेत् ||||१४-१०४-११५ (९६०९१)
इति श्रीमन्महाभारते आश्वमेधिकपर्वणि वैष्णवधर्मपर्वणि
चतुरधिकशततमोऽध्यायः ||१०४ ||
आश्वमेधिकपर्व -अध्याय १०५
||श्रीः ||
१४. १०५. अध्यायः १०५
Mahabharata -Ashvamedhika Parva -Chapter Topics
कृष्णेन युधिष्ठिरंप्रति दशधा कपिलाविभागकथनपूर्वकं
तद्दानप्रशंसनम् ||१ ||
Mahabharata -Ashvamedhika Parva -Chapter Text
वैशम्पायन उवाच |
दानपुण्यफलं श्रुत्वा तपःपुण्यफलानि च |
धर्मपुत्रः प्रहृष्टात्मा केशवं पुनरब्रवीत् ||१४-१०५-१ (९६०९२)
या चैषा कपिला देव पूर्वमुत्पादिता विभो |
होमधेनुः सदा पुण्या चतुर्वक्त्रेण माधव ||१४-१०५-२ (९६०९३)
सा कथं ब्राह्मणेभ्यो हि देया कस्मिन्दिनेऽपि वा |
कीदृशाय च विप्राय दातव्या पुण्यलक्षणा ||१४-१०५-३ (९६०९४)
कथिता कपिला प्रोक्ता स्वयमेव स्वयंभुवा |
कैर्वा देयाश्च ता देव श्रोतुमिच्छामि तत्वतः ||१४-१०५-४ (९६०९५)
वैशम्पायन उवाच. १४-१०५-५क्ष् (७९६७)
एवमुक्तो हृषीकेशो धर्मपुत्रेण संसदि |
अब्रवीत्कपिलासङ्क्यां तासां माहात्म्यमेव च ||१४-१०५-५ (९६०९६)
शृणु पाण्डव तत्वेन पवित्रं पावनं परम् |
यच्छ्रुत्वा पापकर्मा पि नरः पापात्प्रमुच्यते ||१४-१०५-६ (९६०९७)
अग्निमद्योद्भवां दिव्यामग्निज्वालासमप्रभाम् |
अग्निज्वालोज्ज्वलच्छृङ्गीं प्रदीप्ताङ्गारलोचनाम् ||१४-१०५-७ (९६०९८)
अग्निपुच्छामग्निखुरामग्निरोमप्रभान्विताम् |
तामग्नेयीमग्निजिह्वामग्निग्रीवां ज्वलत्प्रभाम् ||१४-१०५-८ (९६०९९)
भुञ्जते कपिलां ये तु शूद्रा लोभेन मोहिताः |
पतितांस्तान्विजानीयाच्चण्डालसदृशा हि ते ||१४-१०५-९ (९६१००)
न तेषां ब्राह्ममः कश्चिद्गृहे कुर्यात्प्रतिग्रहम् |
दूराच्च परिहर्तव्या महापातकिनोपि ते ||१४-१०५-१० (९६१०१)
सार्वकालं हि ते सर्वैर्वर्जिताः पितृदैवतैः |
ते सदा ह्यप्रतिग्राह्या ह्यसंभाष्याश्च पापिनः ||१४-१०५-११ (९६१०२)
पिबन्ति कपिलां यावत्तावत्तेषां पितामहाः |
अमेध्यमुपभुञ्जन्ति भूम्यां वै श्वसृगालवत् ||१४-१०५-१२ (९६१०३)
कपिलाया दधि क्षीरं घृतं तक्रमथापि वा |
ये शूद्रा उपभुञ्जन्ति तेषां गतिमिमां शृणु ||१४-१०५-१३ (९६१०४)
कपिलोपजीवी शूद्रस्तु मृतो गच्छति रौरवम् |
क्लिश्यते रौरवे घोरे वर्षकोटिशतं वसन् ||१४-१०५-१४ (९६१०५)
ततश्चापि च्युतः कालाच्छ्वानयोनिं स गच्छति |
श्वयोन्याश्च परिभ्रष्टो विष्ठायां जायते क्रिमिः ||१४-१०५-१५ (९६१०६)
विष्ठाकूपेषु पापिष्ठो दुर्गन्धेषु सहस्रशः |
तत्रतत्रोपजायेत नोत्तारं तत्रथ विन्दति ||१४-१०५-१६ (९६१०७)
ब्राह्मणश्चैव यस्तेषां गृहे कुर्यात्प्रतिग्रहम् |
ततः प्रभृति तस्यापि पितरः स्युरमेध्यपाः ||१४-१०५-१७ (९६१०८)
न तेन सार्धं सम्भाषेन्न चाप्येकासनं व्रजेत् |
स नित्यं वर्जनीयो हि दूरात्तु ब्राह्मणाधमः ||१४-१०५-१८ (९६१०९)
यस्तेन सह सम्भाषेदेकशय्यां व्रजेत् वा |
प्राजापत्यं चरेत्कृच्छ्रं स च तेन विसुद्ध्यति ||१४-१०५-१९ (९६११०)
कपिलोपजीविनः शूद्राद्यः करोति प्रतिग्रहम् |
प्रायश्चित्तं भवेत्तस्य विप्रस्यैतन्न संशयः ||१४-१०५-२० (९६१११)
ब्रह्मकूर्चं प्रकुर्वीति चान्द्रायणमथापि वा |
मुच्यते किल्बिषात्तस्मादेतेन ब्राह्मणो हि सः ||१४-१०५-२१ (९६११२)
कपिला ह्यग्निहोत्रार्थे विप्रार्थे वा स्वयंभुवा |
सर्वं तेजः समुद्धृत्य निर्मिता ब्रह्मणा पुरा ||१४-१०५-२२ (९६११३)
पवित्रं च पवित्राणां मङ्गलानां च मङ्गलम् |
पुण्यानां परमं पुण्यं कपिला पाण्डुनन्दन ||१४-१०५-२३ (९६११४)
तपसा तप एवाग्र्यं व्रातनामुत्तमं व्रतम् |
दानानां परमं दानं निदानं ह्येतदक्षयम् ||१४-१०५-२४ (९६११५)
पृथिव्यां यानि तीर्थानि पुण्यान्यायतनानि च |
पवित्राणि च रम्याणि सर्वलोकेषु पाण्डव ||१४-१०५-२५ (९६११६)
एभ्यस्तेजः समुद्धृत्य ब्रह्मणा लोककर्तृणा ||
लोकनिस्तरणायैव निर्मिताः कपिलाः स्वयम् ||१४-१०५-२६ (९६११७)
सर्वतेजोमयी ह्येषां कपिला पाण्डुनन्दन |
सदाऽमृतमयी मेध्या शुचिः पावनमुत्तमम् ||१४-१०५-२७ (९६११८)
क्षीरेण कपिलायास्तु दध्ना वा सघृतेन वा |
होतव्यान्यग्निहोत्राणि सायं प्रातर्द्विजातिभिः ||१४-१०५-२८ (९६११९)
कपिलाया घृतेनापि दध्ना क्षीरेण वा पुनः |
जुह्वते योऽग्निहोत्राणि ब्राह्मणा विधिवत्प्रभो ||१४-१०५-२९ (९६१२०)
पूजयन्त्यतिथींश्चैव परां भक्तिमुपागताः |
शूद्रान्नाद्विरता नित्यं डंभानृतविवर्जिताः ||१४-१०५-३० (९६१२१)
ते यान्त्यादित्यसङ्काशैर्विमानैर्द्विजसत्तमाः |
सूर्यमण्डलमध्येन ब्रह्मलोकमनुत्तमम् ||१४-१०५-३१ (९६१२२)
ब्रह्मणो भवने दिव्ये कामगाः कामरूपिणः |
ब्रह्मणा पूज्यमानास्तु मोदन्ते कल्पमक्षयम् ||१४-१०५-३२ (९६१२३)
एवं हि कपिला राजन्पुण्या मन्त्रामृतारणिः |
आदावेवाग्निमध्ये तु मैत्रेयी ब्रह्मनिर्मिता ||१४-१०५-३३ (९६१२४)
शृङ्गाग्रे कपिलायास्तु सर्वतीर्थानि पाण्डव |
ब्रह्मणो हि नियोगेन निवसन्ति दिनेदिने ||१४-१०५-३४ (९६१२५)
प्रातरुत्थाय यो मर्त्यः कपिलाशृङ्गमस्तकात् |
यश्च्युतामंबुधारां वै शिरसा प्रयतः शुचिः ||१४-१०५-३५ (९६१२६)
स तेन पुण्यतीर्थेन सहसा हतकिल्विषः |
जन्मत्रयकृतं पापं प्रदहत्यग्निवतृणम् ||१४-१०५-३६ (९६१२७)
मूत्रेण कपिलायास्तु यश्च प्राणानुपस्पृशेत् ||
स्नानेन तेन पुण्येन नष्टपापः स मानवः |
त्रिंशद्वर्षकृतात्पापान्मुच्यते नात्र संशयः ||१४-१०५-३७ (९६१२८)
प्रातरुत्थाय यो भक्तया प्रयच्छेत्तृणमुष्टिकम् |
तस्य नश्यति तत्पापं त्रिंशद्रात्रकृतं नृप ||१४-१०५-३८ (९६१२९)
प्रातरूत्थाय यद्भक्त्या कुर्याद्यस्मात्प्रदक्षिणम् |
प्रदक्षिणीकृता तेन पृथिवी नात्र संशयः ||१४-१०५-३९ (९६१३०)
प्रदक्षिणेन चैकेन श्रद्धायुक्तेन पाण्डव |
दशरात्रकृतं पापं तस्य तन्नश्यति ध्रुवम् ||१४-१०५-४० (९६१३१)
कपिलापञ्चगव्येन यः स्नायात्तु शुचिर्नरः |
स गङ्गाद्येषु तीर्थेषु स्नातो भवति पाण्डव ||१४-१०५-४१ (९६१३२)
तेन स्नानेन तस्यापि श्रद्दायुक्तस्य पार्थिव |
दशरात्रकृतं पापं तत्क्षणादेव नश्यति ||१४-१०५-४२ (९६१३३)
दृष्ट्वा तु कपिलां भक्त्या श्रुत्वा हुङ्कारनिस्वनम् |
व्यपोहति नरः पापमहोरात्रकृतं नृप ||१४-१०५-४३ (९६१३४)
यत्र वा तत्र वा चाङ्गे कपिलां यः स्पृशेच्छुचिः |
संवत्सरकृतं पापं विनाशयति पाण्डव ||१४-१०५-४४ (९६१३५)
गोसहस्रं तु यो दद्यादेकां च कपिलां नरः |
समं तस्य फलं प्राह ब्रह्मा लोकपितामहः ||१४-१०५-४५ (९६१३६)
यस्त्वेवं कपिलां हन्यान्नरः कश्चित्प्रमादतः |
गोसहस्रं हतं तेन भवेन्नात्र विचारणा ||१४-१०५-४६ (९६१३७)
यश्चैकां कपिलां दद्याच्छ्रोत्रियायाहिताग्नये |
गवां शतसहस्रं तु दत्तं भवति पाण्डव ||१४-१०५-४७ (९६१३८)
दश वै कपिलाः प्रोक्ताः स्वयमेव स्वयंभुवा |
यो दद्याच्छ्रोत्रियेभ्यो वै स्वर्गं गच्छति तच्छृणु ||१४-१०५-४८ (९६१३९)
प्रथमा स्वर्णकपिला द्वितीया गौरपिङ्गला |
तृतीया रक्तपिङ्गाक्षी चतुर्थीं गलपिङ्गला ||१४-१०५-४९ (९६१४०)
पञ्चमी बभ्रुवर्णाभा षष्ठी च श्वेतपिङ्गला |
सप्तमी रङ्गपिङ्गाक्षी त्वष्टमी खुरपिङ्गला ||१४-१०५-५० (९६१४१)
नवमी पाटला ज्ञेया दशमी पुच्छपिङ्गला |
दशैताः कपिलाः प्रोक्तास्तारयन्ति नरान्सदा ||१४-१०५-५१ (९६१४२)
मङ्गल्याश्च पवित्राश्च सर्वपापप्रणाशनाः |
एवमेव ह्यनड्वाहो दश प्रोक्ता नरेश्वर ||१४-१०५-५२ (९६१४३)
ब्राह्मणो वाहयेत्तांस्तु नान्यो वर्णः कथंचन |
न वाहयेच्च कपिलां क्षेत्रे वाऽध्वनि वा द्विजः ||१४-१०५-५३ (९६१४४)
वाहयेद्धुङ्कृतेनैव शाखया वा सपत्रया |
न दण्डेन न वा यष्ट्या न पाशेन न वा पुनः ||१४-१०५-५४ (९६१४५)
न क्षुत्तृष्णाश्रमश्रान्तान्वाहयेद्विकलेन्द्रियान् |
अतृप्तेषु न भुञ्जीयात्पिबेत्पीतेषु चोदकम् ||१४-१०५-५५ (९६१४६)
शुश्रूषोर्मातरश्चैताः पितरस्ते प्रकीर्तिताः |
अह्नां पूर्वत्र भागे च धुर्याणां वाहनं स्मृतम् ||१४-१०५-५६ (९६१४७)
विश्रामेन्मध्यमे भागे भागे चान्ते यथासुखम् |
यत्र च त्वरया कृत्यं संशयो यत्र वाऽध्वनि. १४-१०५-५७ (९६१४८)
वाहयेत्तत्र धुर्यांस्तु न स पापेन लिप्यते ||
भ्रूणहत्यासमं पापं तस्य स्यात्पाण्डुनन्दन. १४-१०५-५८ (९६१४९)
अन्यथा वाहयन्राजन्निरयं याति रौरवम् ||
रुधिरं पातयेत्तेषां यस्तु मोहान्नराधिप. १४-१०५-५९ (९६१५०)
तेन पापेन पापात्मा नरकं यात्यसंशयम् ||
नरकेषु च सर्वेषु समाः स्थित्वा शतंशतम्. १४-१०५-६० (९६१५१)
इह मानुष्यके लोके बलीवर्दो भविष्यति ||
तस्मात्तु मुक्तिमन्विच्छन्दद्यात्तु कपिलां नरः ||१४-१०५-६१ (९६१५२)
कपिलां वाहयेद्यस्तु वृषलो लोभमोहितः |
तेन देवास्त्रयस्त्रिंशत्पितरश्चापि वाहिताः ||१४-१०५-६२ (९६१५३)
स देवैः पितृभिर्नित्यं वध्यमानस्तु दुर्मतिः |
नरकान्नरकं घोरं गच्छेदाप्रलयं नृप ||१४-१०५-६३ (९६१५४)
ब्रह्मा रुद्रस्तथाऽग्निश्च कपिलानां गतिं गताः |
तस्मात्ते न निहन्तव्याः पूज्याश्चैव न संशयः |
निःश्वसन्ति यदा श्रान्तास्तदा हन्युस्च तत्कुलं ||१४-१०५-६४ (९६१५५)
यावन्ति तेषां रोमाणि तावद्वर्षशतं नृप |
नरकेषूपपच्यन्ते तत्र तद्वाहका नराः ||१४-१०५-६५ (९६१५६)
कपिला सर्वयज्ञेषु दक्षिणार्थं विधीयते |
तस्मात्तद्दक्षिणा देया यज्ञेष्वेव द्विजातिभिः ||१४-१०५-६६ (९६१५७)
होमार्तं चाग्निहोत्रस्य यां प्रयच्छेत्प्रयत्नतः |
श्रोत्रियाय दरिद्राय श्रान्तायामिततेजसे |
तेन दानेन पूतात्मा मम लोके महीयते ||१४-१०५-६७ (९६१५८)
यावन्ति चैव रोमाणि कपिलाङ्गे युधिष्ठिर |
तावद्वर्षसहस्राणि स्वर्गलोके महीयते ||१४-१०५-६८ (९६१५९)
सुवर्णखुरशृङ्गीं च कपिलां यः प्रयच्छति |
विषुवे चायने चापि सोऽश्वमेधफलं लभेत् |
तेनाश्वमेधतुल्येन मम लोकं स गच्छति ||१४-१०५-६९ (९६१६०)
स्वर्णशृङ्गीं रूप्यखुरां सवत्सां कांस्यदोहिनीम् |
वस्त्रैरलङ्कृतां पुष्टां गन्धैर्माल्यैश्च शोभिताम् ||१४-१०५-७०
(९६१६१)
पवित्रं हि पवित्राणां सुरव्णमिति मे मतिः |
तस्मात्सुवर्णाभरणा दातव्या साऽग्निहोत्रिणे ||१४-१०५-७१ (९६१६२)
एवं दत्त्वा तु राजेन्द्र सप्तपूर्वान्परानपि |
तारयिष्यति राजेन्द्र नात्र कार्या विचारणा ||१४-१०५-७२ (९६१६३)
अग्निष्टोमसहस्रस्य वाजपेयं च तत्समम् |
वाजपेयसहस्रस्य अश्वमेधं च तत्समम् |
अश्वमेधसहस्रस्य राजसूयं च तत्समम् ||१४-१०५-७३ (९६१६४)
कपिलानां सहस्रेण विदिदत्तेन पाण्डव |
राजसूयफलं प्राप्य मम लोके महीयते |
न तस्य पुनरावृत्तिर्विद्यते कुरुपुङ्गव ||१४-१०५-७४ (९६१६५)
प्रयच्छते यः कपिलां सवत्सां कांस्यदोहिनीम् |
सुवर्णकुरशृङ्गाङ्गीं सर्वालङ्कारशोभिताम् ||१४-१०५-७५ (९६१६६)
तैस्तैर्गुणैः कामदुघा च भूत्वा
नरं प्रदातारमुपैति सा गौः |
स्वकर्मभिश्चाप्यनुबध्यमानं
तीव्रान्धकारे नरके पतन्तम् |
महार्णवे नौरिव वायुनीता
दत्ता हि गौस्तारयते मनुष्यम् ||१४-१०५-७६ (९६१६७)
पुत्रांश्च पौत्रांश्च कुलं च सर्व-
मासप्तमं तारयते यथावत् |
यावन्मनुष्यान्पृथिवी बिभर्ति
तावत्प्रदातारमृतं परत्र ||१४-१०५-७७ (९६१६८)
यथौषधं मन्त्रकृतं नरस्य
प्रयुक्तमात्रं विनिहन्ति रोगान् |
तथैव दत्ता कपिला सुपात्रे
पापं नरस्याशु निहन्ति सर्वम् ||१४-१०५-७८ (९६१६९)
यथैव दृष्ट्वा भुजगाः सुपर्णं
नश्यन्ति दूराद्विवशा भयार्ताः |
तथैव दृष्ट्वा कपिलाप्रदाना-
न्नस्यन्ति पापानि नरस्य शीघ्रम् ||१४-१०५-७९ (९६१७०)
यथा त्वचं वै भुजगो विहाय
पुनर्नवं रूपमुपैति पुण्यम् |
तथैव मुक्तः पुरुषः स्वपापै-
र्विरज्यते वै कपिलाप्रदानात् ||१४-१०५-८० (९६१७१)
यथाऽन्धकारं भवने विलग्नं
दीप्तो हि निर्यातयति प्रदीपः |
तथा नरः पापमपि प्रलीनं
निष्क्रामयेद्वै कपिलाप्रदानात् ||१४-१०५-८१ (९६१७२)
यावन्ति रोमाणि भवन्ति तस्या
वत्सान्वितायाश्च शरीरजानि |
तावत्प्रदाता युगवर्षकोटिं
स ब्रह्मलोके रमते मनुष्यः ||१४-१०५-८२ (९६१७३)
यस्याहिताग्नेरतिथिप्रियस्य
शूद्रान्नदूरस्य जितेन्द्रियस्य |
सत्यव्रतस्याध्ययनान्वितस्य
दत्ता हि गौस्तारयते परत्र ||||१४-१०५-८३ (९६१७४)
इति श्रीमन्महाभारते आश्वमेधिकपर्वणि वैष्णवधर्मपर्वणि
पञ्चाधिकशततमोऽध्यायः ||१०५ ||
आश्वमेधिकपर्व -अध्याय १०६
||श्रीः ||
१४. १०६. अध्यायः १०६
Mahabharata -Ashvamedhika Parva -Chapter Topics
कृष्णेन युधिष्ठिरंप्रति कपिलादानप्रशंसनम् ||१ ||
ब्रह्मणाऽग्निकुण्डमध्यात्कपिलासर्जनम् | तधा रुद्रादिदेवैः कपिलायै
सर्वपूज्यत्वादिरूपवरदानम् ||२ ||
देवर्ष्यादिभइः स्वनिवासाय कपिलावयवसमाश्रयणम् ||३ ||
कृष्णेन हव्यकव्यदानकालकथनम् | तथा
श्राद्धार्हानर्हब्राह्मणविवेचनम्. तथा
स्वर्गनरकप्रापकसुकृतदुष्कृतकथनम् ||४ ||
Mahabharata -Ashvamedhika Parva -Chapter Text
वैशम्पायन उवाच |
एवं श्रुत्वा परं पुण्यं कपिलादानमुत्तमम् |
धर्मपुत्रः प्रहृष्टात्मा केशवं पुनरब्रवीत् ||१४-१०६-१ (९६१७५)
देवदेवश कपिला यदा विप्राय दीयते |
कथं सर्वेषु चाङ्गेषु तस्यास्तिष्ठन्ति देवताः ||१४-१०६-२ (९६१७६)
याश्चैताः कपिलाः प्रोक्ता दश चैव त्वया मम |
तासां कति सुरश्रेष्ठ् कपिलाः पुण्यलक्षणाः ||१४-१०६-३ (९६१७७)
कथं वाऽनुगृहीतास्ताः सुरैः पितृगणैरपि |
केन युक्ताश्च वर्णेन श्रोतुं कौतूहलं मे ||१४-१०६-४ (९६१७८)
वैशम्पायन उवाच. १४-१०६-५क्ष् (७९६८)
युधिष्ठिरेणैवमुक्तः केशवः सत्यवाक्तदा |
गुह्यानां परमं गुह्यं वक्तुमेवोपचक्रमे ||१४-१०६-५ (९६१७९)
शृणु राजन्पवित्रं वै रहस्यं धर्ममुत्तमम् ||
ग्रहणीयं सत्यमिदं न श्राव्यं हेतुवादिभिः ||१४-१०६-६ (९६१८०)
यदा वत्सस्य पादौ द्वौ प्रसवे शिरसा सह |
दृश्येते दानकालं तत्तमाहुर्मुनिसत्तमाः ||१४-१०६-७ (९६१८१)
अन्तरिक्षगतो वत्सो यावद्भूमिं न यास्यति |
गौस्तावत्पृथिवी ज्ञेया तस्माद्देया तु तादृशी ||१४-१०६-८ (९६१८२)
यावन्ति धेन्वा रोमाणि सवत्साया युधिष्ठिर |
यावत्यः सिकताश्चापि गर्भोदकपरिप्लुताः |
तावद्वर्षसहस्राणि दाता स्वर्गे महीयते ||१४-१०६-९ (९६१८३)
सुवर्णाभरणां कृत्वा सव्तसां कपिलां तिलैः |
प्रच्छाद्य तां तु दद्याद्वै सर्वरत्नैरलङ्कृताम् ||१४-१०६-१० (९६१८४)
ससमुद्रा नदी तेन सशैलवनकानना |
चतुरन्ता भवेद्दत्ता नात्र कार्या विचारणा ||१४-१०६-११ (९६१८५)
पृथिवीदानतुल्येन तेन दानेन मानवः |
संसारसागरात्तीर्णो याति लोकं प्रजापतेः ||१४-१०६-१२ (९६१८६)
ब्रह्महा भ्रूणहा गोघ्नो यदि वा गुरुतल्पगः |
महापातकयुक्तोपि एतद्दानेन शुद्ध्यति ||१४-१०६-१३ (९६१८७)
इदं पठति यः पुण्यं कपिलादानमुत्तमम् |
प्रातरुत्थाय मद्भक्त्या तस्य पुण्यफलं शृणु ||१४-१०६-१४ (९६१८८)
मनसा कर्मणा वाचा मतिपूर्वं युधिष्ठिर |
पापं रात्रिकृतं हन्यादस्याध्यायस्य पाठकः ||१४-१०६-१५ (९६१८९)
इदमावर्तमानस्तु श्राद्धे यस्तर्पयेद्द्विजान् |
तस्याप्यमृतमश्नन्ति पितरोऽत्यन्तहर्षिताः ||१४-१०६-१६ (९६१९०)
यश्चेदं शृणुयाद्भक्त्या मद्गतेनान्तरात्मना |
तस्य रात्रिकृतं सर्वुं पापमाशु प्रणश्यति ||१४-१०६-१७ (९६१९१)
अतः परं विशेषं तु कपिलानां ब्रवीमि ते |
याश्चैताः कपिलाः प्रोक्ता दश राजन्मया तव |
तासां चतस्रः प्रवराः पुण्याः पापप्रणाशनाः ||१४-१०६-१८ (९६१९२)
सुवर्णकपिला पुण्या तथा रक्ताक्षिपिङ्गला |
पिङ्गलाक्षी च या गौश्च या स्यात्पिङ्गलपिङ्गला ||१४-१०६-१९ (९६१९३)
एताश्चतस्रः प्रवराः पवित्राः पापनाशनाः |
नमस्कृता वा दृष्टा वा घ्नन्ति पापं नरस्य तु ||१४-१०६-२० (९६१९४)
यस्यैताः कपिलाः सन्ति गृहे पापप्रणाशनाः |
तत्र श्रीर्विजयः कीर्तिः स्फीता नित्यं युधिष्ठिर ||१४-१०६-२१ (९६१९५)
एतासां प्रीतिमायाति क्षीरेण तु वृषध्वजः |
दध्ना च त्रिदशाः सर्वे घृतेन तु हुताशनः ||१४-१०६-२२ (९६१९६)
पितरः पितामहाश्चैव तथैव प्रपितामहाः |
सकृद्देत्तेन तुष्यन्ति वर्षकोटिं युधिष्ठिर ||१४-१०६-२३ (९६१९७)
कपिलाया घृतं क्षीरं दधि पायसमेव वा |
श्रोत्रियेभ्यः सकृद्दत्वा नरः पापैः प्रमुच्यते ||१४-१०६-२४ (९६१९८)
उपवासं तु यः कृत्वाऽप्यहोरात्रं जितेन्द्रियः |
कपिलापञ्चगव्यं तु पीत्वा चान्द्रायणात्परम् ||१४-१०६-२५ (९६१९९)
सौम्ये मुहूर्ते तत्प्रशय शुद्धात्मा शुद्धमानसः |
क्रोधानृतविनिर्मुक्तो मद्गतेनान्तरात्मना ||१४-१०६-२६ (९६२००)
कपिलापञ्चगव्येन सुमन्त्रेण पृथक्पथक् |
यो मत्प्रतिकृतिं वाऽपि शङ्कराकृतिमेव वा |
स्नापयेद्विषुवे यस्तु सोऽश्वमेधफलं लभेत् ||१४-१०६-२७ (९६२०१)
स मुक्तपापः शुद्धात्मा यानेनांबरशोभिना |
मम लोकं व्रजेन्मुक्तो रुद्रलोकमथापि वा ||१४-१०६-२८ (९६२०२)
ब्रह्मणा तु पुरा सृष्टा कपिला काञ्चनप्रभा |
अग्निकुण्डात्परैर्मन्त्रैर्होमधेनुर्महाप्रभा ||१४-१०६-२९ (९६२०३)
सृष्टमात्रां तु तां दृष्ट्वा देवा रुद्रादयो दिवि |
सिद्धा ब्रह्मर्षयश्चैव वेदाः साङ्गाः सहाध्वरैः ||१४-१०६-३० (९६२०४)
सागराः सरितश्चैव पर्वताः सबलाहकाः |
गन्धर्वाप्सरसो यक्षाः पन्नगाश्चाप्युपस्थिताः ||१४-१०६-३१ (९६२०५)
सर्वे विस्मयमापन्नाः शिखिमध्ये महाप्रभाम् |
मन्त्रैशाच विविधैस्तां तु तुष्टुवुस्तामनेकशः ||१४-१०६-३२ (९६२०६)
कृताञ्जलिपुटाः सर्वे नातिशृङ्गीं त्रिलोचनाम् |
मूर्ध्ना प्रणम्य तां भूमौ सवत्साममृतारणिम् ||१४-१०६-३३ (९६२०७)
ऊचुः प्राञ्जलयः सर्वे चतुर्वक्त्रं पितामहम् |
आज्ञापय महादेव किं ते कुर्मः कथं विभो ||१४-१०६-३४ (९६२०८)
एवमुक्तः सुरैः सर्वैर्ब्रह्मा वचनमब्रवीत् |
भवन्तोप्यनुगृह्णन्तु दोग्ध्रीमेनां पयस्विनीम् ||१४-१०६-३५ (९६२०९)
होमधेनुरियं ज्ञेया ह्यग्नीन्संतर्पयिष्यति |
अतोऽग्निस्तर्पितः सर्वान्भवतस्तर्पयिष्यति ||१४-१०६-३६ (९६२१०)
प्रीताः क्षीरामृतेनास्या जातवीर्यपराक्रमाः |
जयिष्यथ यथाकामं दानवान्सर्व एव तु ||१४-१०६-३७ (९६२११)
जातवीर्यबलैर्युक्ताः सत्ववन्तो जितेन्द्रियाः |
असङ्ख्येयबलाः सर्वे पालयिष्यथ वै प्रजाः ||१४-१०६-३८ (९६२१२)
पालिताश्च प्रजाः सर्वा भवद्भिरिह धर्मतः |
पूजयिष्यन्ति वा नित्यं यज्ञैर्विविधदक्षिणैः ||१४-१०६-३९ (९६२१३)
एवमुक्ताः सुराः सर्वे ब्रह्मणा परमेष्ठिना |
ततः संहृष्टवदनाः कपिलायै वरं ददुः ||१४-१०६-४० (९६२१४)
देवता ऊचुः. १४-१०६-४१क्ष् (७९६९)
यस्माल्लोकहितायाद्य ब्रह्मणा त्वं विनिर्मिता |
तस्मात्पूता पवित्रा च भव पापव्यपोहिनी ||१४-१०६-४१ (९६२१५)
ये त्वां दृष्ट्वा नमस्यन्ति स्पृष्ट्वा चापि करैर्नराः |
तेषां वर्षकृतं पापं त्वद्भक्तानां प्रणश्यति ||१४-१०६-४२ (९६२१६)
अकामकृतमज्ञानमदृष्टं यच्च पातकम् |
त्वां दृष्ट्वा ये नमस्यन्ति नराः सर्वसहेति च |
तेषां तद्विलयं याति तमः सूर्योदये यथा ||१४-१०६-४३ (९६२१७)
भगवानुवाच. १४-१०६-४४क्ष् (७९७०)
इत्युक्त्वाऽस्यै वरं दत्त्वा प्रययुस्ते यथागतम् |
लोकनिस्तरणार्थाय सा च लोकांश्चचार ह ||१४-१०६-४४ (९६२१८)
तस्यामेव समुद्भूता ह्येताश्च कपिला नव |
विचरन्ति महीमेनां लोकानुग्रहकारणात् |
तस्मात्तु कपिला देया परत्र हितमिच्छता ||१४-१०६-४५ (९६२१९)
यदा च दीयते राजन्कपिला ह्यग्निहोत्रिणे |
तदा च शृङ्गयोस्तस्या विष्णुरिन्द्रश्च तिष्ठति ||१४-१०६-४६ (९६२२०)
चन्द्रवज्रधरौ चापि तिष्ठतः शृङ्गमूलयोः |
शृङ्गमध्ये तथा ब्रह्मा ललाटे गोवृषध्वजः ||१४-१०६-४७ (९६२२१)
कर्णयोरश्विनौ देवौ चक्षुषी शशिभास्करौ |
दन्तेषु मरुतो देवा जिह्वायां वाक्सरलस्वती ||१४-१०६-४८ (९६२२२)
रोमकूपेषु मुनयश्चर्मण्येव प्रजापतिः |
निश्श्वासेषु स्थिता वेदाः सषडङ्गपदक्रमाः ||१४-१०६-४९ (९६२२३)
नासापुटे स्थिता गन्धाः पुष्पाणि सुरभीणि च |
अधरे वसवः सर्वे मुखे चाग्निः प्रतिष्ठितः ||१४-१०६-५० (९६२२४)
साध्या देवाः स्थिताः कक्षे ग्रीवायां पार्वती स्थिता |
पृष्ठे च नक्षत्रगणाः ककुद्देशे नभस्स्थलम् ||१४-१०६-५१ (९६२२५)
अपाने सर्वतीर्थानि गोमूत्रे जाह्नवी स्वयम् |
इष्टतुष्टमया लक्ष्मीर्गोमये वसती तदा ||१४-१०६-५२ (९६२२६)
नासिकायां सदा देवी ज्येष्ठा वसति भामिनी |
श्रोणीतटस्थाः पितरो रमा लाङ्गूलमाश्रिता ||१४-१०६-५३ (९६२२७)
पार्श्वयोरुभयोः सर्वे विश्वेदेवाः प्रतिष्ठिताः |
तिष्ठत्युरसि तासां तु प्रीतः शक्तिधरो गुहः ||१४-१०६-५४ (९६२२८)
जानजङ्घोरुदेशेषु पञ्च तिष्ठन्ति वायवः |
खुरमध्येषु गन्धर्वाः खुराग्रेषु च पन्नगाः ||१४-१०६-५५ (९६२२९)
चत्वारः सागराः पूर्णास्तस्या एव पयोधराः |
रतिर्मेधा क्षमा स्वाहा श्रद्धा शान्तिर्धृतिः स्मृतिः. १४-१०६-५६ (९६२३०)
कीर्तिर्दीप्तिः क्रिया कान्तिस्तुष्टिः पुष्टिस्च सन्ततिः |
दिशश्च प्रदिशश्चैव सेवन्ते कपिलां सदा ||१४-१०६-५७ (९६२३१)
देवा पितृगणाश्चापि गन्धर्वाप्सरसां गणाः |
लोका द्वीपार्णवाश्चैव गङ्गाद्याः सरितस्तथा ||१४-१०६-५८ (९६२३२)
देवाः पितृगणाश्चापि वेदाः साङ्गाः सहाध्वरैः |
वेदोक्तैर्विविधैर्मन्त्रैः स्तुवन्ति हृषितास्तथा ||१४-१०६-५९ (९६२३३)
विद्याधराश्च ये सिद्धा भूतास्तारागणास्तथा |
पुष्पवृष्टिं च वर्षन्ति प्रनृत्यन्ति च हर्षिताः ||१४-१०६-६० (९६२३४)
ब्रह्मणोत्पादिता देवी वह्निकुण्डान्महाप्रभा |
नमस्ते कपिले पुण्ये सर्वदेवैर्नमस्कृते ||१४-१०६-६१ (९६२३५)
कपिलेऽथ महासत्वे सर्वतीर्थमये शुभे |
दातारं स्वजनोपेतं ब्रह्मलोकं नय स्वयम् ||१४-१०६-६२ (९६२३६)
अहो रत्नमिदं पुण्यं सर्वदुःखघ्नमुत्तमम् |
अहो धर्मार्जितं शुद्धमिदमग्र्यं महाधनम् |
इत्याकाशस्थितस्ते तु सर्वदेवा जपन्ति च ||१४-१०६-६३ (९६२३७)
तस्याः प्रतिग्रहीता च भुङ्क्ते यावद्द्विजोत्तमः |
तावद्देवगणाः सर्वे कपिलामर्चयन्ति च |
स्वर्णशृङ्गीं रूप्यखुरां गन्धैः पुष्पैः सुपूजिताम् ||१४-१०६-६४ (९६२३८)
वस्त्राभ्यामहताभ्यां तु यावत्तिष्ठत्यलङ्कृता |
तावद्यदिच्छेत्कपिला मन्त्रपूता सुसंस्कृता |
भूलोकवासिनः सर्वान्ब्रह्मलोकं नयेत्स्वयम् ||१४-१०६-६५ (९६२३९)
भूरश्वः कनकं गावो रूप्यमश्वं तिला यवाः |
दीयमानानि विप्राय प्रहृष्यन्ति दिनेदिने ||१४-१०६-६६ (९६२४०)
अथ त्वश्रोत्रियेभ्यो वै तानि दत्तानि पाण्डव |
तथा निन्दन्त्यथात्मानमशुभं किंनु नः कृतं ||१४-१०६-६७ (९६२४१)
अहो रक्षःपिशाचैश्च लुप्यमानाः समन्ततः |
यास्यामो निरयं शीघ्रमिति शोचन्ति तानि वै ||१४-१०६-६८ (९६२४२)
एतान्यपि द्विजेभ्यो वै श्रोत्रियेभ्यो विशेषतः |
दीयमानानि वर्धन्ते दातारं तारयन्ति च ||१४-१०६-६९ (९६२४३)
युधिष्ठिर उवाच. १४-१०६-७०क्ष् (७९७१)
देवदेवेश दैत्यघ्न कालः को हव्यकव्ययोः |
के तत्रि पूजामर्हन्ति वर्जनीयाश्च के द्विजाः ||१४-१०६-७० (९६२४४)
भगवानुवाच. १४-१०६-७१क्ष् (७९७२)
दैवं पूर्वाह्णिकं ज्ञेयं पैतृकं चापराह्णिकम् |
कालहीनं च यद्दानं तद्दानं राजसं विदुः ||१४-१०६-७१ (९६२४५)
अवघुष्टं च यद्भुक्तमनृतेन च भारत |
परामृष्टं शुना वाऽपि तद्भागं राक्षसं विदुः ||१४-१०६-७२ (९६२४६)
यावन्तः पतिता विप्रा जडोन्मत्तादयोपि च |
दैवे च पित्र्ये ते विप्रा राजन्नार्हन्ति सत्क्रियां ||१४-१०६-७३ (९६२४७)
क्लीबः प्लङ्गी च कृष्ठी च राजयक्ष्मान्वितश्च यः |
अपस्मारी च यश्चापि पित्र्ये नार्हति सत्कृतिम् ||१४-१०६-७४ (९६२४८)
चिकित्सका देवलका मिथ्यानियमधारिणः |
सोमविक्रयिणश्चापि श्राद्धे नार्हन्ति सत्कृतिम् ||१४-१०६-७५ (९६२४९)
एकोद्दिष्टे च ये चान्नं भुञ्जते विधिवद्द्बिजाः |
चान्द्रायणमकृत्वा ते पुनर्नार्हन्ति सत्कृतिम् ||१४-१०६-७६ (९६२५०)
गायका नर्तकाश्चैव प्लवका वादकास्तथा |
कथका यौधिकाश्चैव श्राद्धे नार्हन्ति सत्कृतिम् ||१४-१०६-७७ (९६२५१)
अनग्नयश्च ये विप्राः शवनिर्यातकाश्च ये |
स्तेनाश्चापि विकर्मस्था राजन्नार्हन्ति सत्कृतिम् ||१४-१०६-७८ (९६२५२)
अपरिज्ञातपूर्वाश्च गणपुत्राश्च ये द्विजाः |
पुत्रिकापुत्रकाश्चापि श्राद्धे नार्हन्ति सत्कृतिम् ||१४-१०६-७९ (९६२५३)
रणकर्ता च यो विप्रो यश्च वाणिज्यको द्विजः |
प्राणिविक्रयवृत्तिश्च श्राद्धे नार्हन्ति सत्कृतिम् ||१४-१०६-८० (९६२५४)
चीर्णव्रतगुणैर्युक्ता नित्यं स्वाध्यायतत्पराः |
सावित्रीज्ञाः क्रियावन्तस्ते श्राद्धे सत्कृतिक्षमाः ||१४-१०६-८१ (९६२५५)
श्राद्धस्य ब्राह्मणः कालः प्राप्तं दघि घृतं तथा |
दर्भाः सुमनसः क्षेत्रं तत्काले श्राद्धदो भवेत् ||१४-१०६-८२ (९६२५६)
चारित्रनिरता राजन्कृशा ये कृशवृत्तयः |
अर्थिनश्चोपगच्छन्ति तेभ्यो दत्तं महत्फलम् ||१४-१०६-८३ (९६२५७)
तपस्विनश्च ये विप्रास्तथा भैक्षचराश्च ये |
अर्थिनः केचिदिच्छन्ति तेषां दत्तं महत्फलम् ||१४-१०६-८४ (९६२५८)
एवं धर्मभूतां श्रेष्ठ ज्ञात्वा सर्वात्मना तदा |
र्श्रोत्रियाय दरिद्राय प्रयच्छानुपकारिणे ||१४-१०६-८५ (९६२५९)
दानं यत्ते प्रियं किंचिच्छ्रोत्रियाणां च यत्प्रियम् |
तत्प्रयच्छस्व धर्मज्ञ यदीच्छसि तदक्षयम् ||१४-१०६-८६ (९६२६०)
निरयं ये च गच्छन्ति तच्छृणुष्व युधिष्ठिर ||१४-१०६-८७ (९६२६१)
गुर्वर्थं वा भयार्थं वा नोचेदन्यत्र पाण्डव |
वदन्ति येऽनृतं विप्रास्ते वै निरयगामिनः ||१४-१०६-८८ (९६२६२)
परदारापहर्तारः परदारामिमर्शकाः |
परारप्रयोक्तारस्तें वै निरयगामिनः ||१४-१०६-८९ (९६२६३)
सूचकाः संधिभेत्तारः परद्रव्योपजीविनः |
अकृतज्ञाश्च मित्राणां ते वै निरयगामिनः ||१४-१०६-९० (९६२६४)
वर्णाश्रमाणां ये बाह्याः पाषण्डाश्चैव पापिनः |
उपासते च तानेव ते सर्वे नरकालयाः ||१४-१०६-९१ (९६२६५)
वेदविक्रयिणश्चैव वेदानां चैव दूषकाः |
वेदानां लेखकाश्चैव ते वै निरयगामिनः ||१४-१०६-९२ (९६२६६)
रसविक्रयिणो राजन्विषविक्रयिणश्च ये |
क्षीरविक्रयिणश्चापि ते वै निरयगामिनः ||१४-१०६-९३ (९६२६७)
चण्डालेभ्यश्च ये क्षीरं प्रयच्छन्ति नराधमाः |
अर्थार्थमथवा स्नेहात्ते वै निरयगामिनः ||१४-१०६-९४ (९६२६८)
पशूनां दमक**यैव तथा नासानुवेधकाः
पुंस्त्वहिंसाकरस्चैव ते वै निरयगामिनः ||१४-१०६-९५ (९६२६९)
अदातारः समर्था ये द्रव्याणां लोभकारणात् |
दीनानन्धान्न पश्यन्ति ते वै निरयगामिनः ||१४-१०६-९६ (९६२७०)
क्षान्तान्दान्तान्कृशान्प्राज्ञान्दीर्घकालं सहोषितान् |
त्यजन्ति कृतकृत्या ये ते वा निरयगामिनः ||१४-१०६-९७ (९६२७१)
बालानामपि वृद्धानां श्रान्तानां चापि ये नराः |
अदत्त्वाऽश्नान्ति मृष्टान्नं ते वै निरयगामिनः ||१४-१०६-९८ (९६२७२)
एते पूर्वर्षिभिः प्रोक्ता नरा निरयगामिनः |
ये स्वर्गं समनुप्राप्तास्ताञ्शृणुष्व युधिष्ठिर ||१४-१०६-९९ (९६२७३)
दानेन तपसा चैव सत्येन च दमेन च |
ये धर्ममनुवर्तन्ते ते नराः स्वर्गगामिनः ||१४-१०६-१०० (९६२७४)
शुश्रूषयाऽप्युपाध्यायाच्छ्रुतमादाय पाण्डव |
ये प्रतिग्रहनिस्स्नेहास्ते नराः स्वर्गगामिनः ||१४-१०६-१०१ (९६२७५)
मधुमांसासवेभ्यस्तु निवृत्ता व्रतवत्तु ये |
परदारनिवृत्ता ये ते नराः स्वर्गगामिनः ||१४-१०६-१०२ (९६२७६)
मातरं पितरं चैव शुश्रूषन्ति च ये नराः |
भ्रहातॄणामपि सस्नेहास्ते नराः स्वर्गगामिनः ||१४-१०६-१०३ (९६२७७)
ये तु भोजनकाले तु निर्याताश्चातिथिप्रियाः |
द्वाररोधं न कुर्वन्ति ते नराः स्वर्गगामिनः ||१४-१०६-१०४ (९६२७८)
वैवाहिकं तु कन्यानां दरिद्राणां च ये नराः |
कारयन्ति च कुर्वन्ति ते नराः स्वर्गगामिनः ||१४-१०६-१०५ (९६२७९)
रसानामथ बीजानामोषधीनां तथैव च |
दातारः श्रद्धयोपेतास्ते नराः स्वर्गगामिनः ||१४-१०६-१०६ (९६२८०)
क्षेमाक्षेमं च मार्गेषु समानि विषमाणि च |
अर्थिनां ये च वक्ष्यन्ति ते नराः स्वर्गगामिनः ||१४-१०६-१०७ (९६२८१)
पर्वद्वये चतुर्दश्यामष्टम्यां संध्ययोर्द्वयोः |
आर्द्रायां जन्मनक्षत्रे विषुवे श्रवणेऽथवा |
ये ग्राम्यधर्मविरतास्ते नराः स्वर्गगाप्तिनः ||१४-१०६-१०८ (९६२८२)
हव्यकव्यविधानं च नरकस्वर्गगामिनौ |
धर्माधर्मौ च कथितौ किं भूयः श्रोतुमिच्छसि ||||१४-१०६-१०९ (९६२८३)
इति श्रीमन्महाभारते आश्वमेधिकपर्वणि वैष्णवधर्मपर्वणि
षडधिकशततमोऽध्यायः ||१०६ ||
आश्वमेधिकपर्व -अध्याय १०७
||श्रीः ||
१४. १०७. अध्यायः १०७
Mahabharata -Ashvamedhika Parva -Chapter Topics
कृष्णेन युधिष्ठिरंप्रति साक्षाद्ब्रह्महत्याया अकरणेपि
तत्तुल्यफलकदुष्कृतकथनम्. १ | |
तथा अभोज्यान्नानां पापिनां लक्षणकथनम् ||२ ||
Mahabharata -Ashvamedhika Parva -Chapter Text
युधिष्ठिर उवाच |
इदं मे तत्वतो देव वक्तुमर्हस्यशेषतः |
हिंसामकृत्वा यो मर्त्यो ब्रह्महत्यामवाप्नुयात् ||१४-१०७-१ (९६२८४)
भगवानुवाच. १४-१०७-२क्ष् (७९७३)
ब्राह्मणं स्वयमाहूय भिक्षार्थं वृत्तिकर्शितम् |
ब्रूयान्नास्तीति यः पश्चात्तमाहुर्ब्रह्मघातकम् ||१४-१०७-२ (९६२८५)
मध्यस्थस्येह विप्रस्य योऽनूचानस्य भारत |
वृत्तिं हरति दुर्बुद्धइस्तमाहुर्ब्रह्मघातकम् ||१४-१०७-३ (९६२८६)
आश्रमे वाऽऽलये वाऽपि ग्रामे वा नगरेऽपि वा |
अग्निं यः प्रक्षिपेत्क्रुद्धस्तमाहुर्ब्रह्मघातकम् ||१४-१०७-४ (९६२८७)
गोकुलस्य तृषार्तस्य जलान्ते वसुधाधिप |
उत्पादयति यो विघ्नं तमाहुर्ब्रह्मघातकम् ||१४-१०७-५ (९६२८८)
यः प्रवृत्तां श्रुतिं सम्यक्छास्त्रं वा मुनिभिः कृतम् |
दूषयत्यनभिज्ञाय तमाहुर्ब्रह्मघातकम् ||१४-१०७-६ (९६२८९)
चक्षुषा वाऽपि हीनस्य पङ्गोर्वाऽपि जडस्य वा |
हरेद्वै यस्तु सर्वस्वं तमाहुर्ब्रह्मघातकम् ||१४-१०७-७ (९६२९०)
गुरुं त्वंकृत्यं हुंकृत्य अतिक्रम्य च शासनम् |
वर्तते यस्तु मूढात्मा तमाहुर्ब्रह्मघातकम् ||१४-१०७-८ (९६२९१)
क्रोधाद्वा यदि वा द्वेषादाक्रुष्टस्तर्जितोपि वा |
ऋतौ स्त्रियं वा नोपेयात्तमाहुर्ब्रह्मघातकम् ||१४-१०७-९ (९६२९२)
यावत्सारो भवेद्दीनस्तन्नाशे यस्य दुःस्थितिः |
तत्सर्वस्वं हरेद्यो वै तमाहुर्ब्रह्मघातकम् ||१४-१०७-१० (९६२९३)
युधिष्ठिर उवाच. १४-१०७-११क्ष् (७९७४)
सप्वेषामपि दानानां यत्तु दानं विशिष्यते |
अभोज्यान्नाश्च ये विप्रास्तान्ब्रवीहि सुरोत्तम ||१४-१०७-११ (९६२९४)
भगवानुवाच. १४-१०७-१२क्ष् (७९७५)
अन्नमेव प्रशंसन्ति देवा ब्रह्मपुरस्सराः |
अन्नेन सदृशं दानं न भूतं न भविष्यति ||१४-१०७-१२ (९६२९५)
अन्नमूर्जस्करं लोके ह्यन्नात्प्राणाः प्रतिष्ठिताः |
अबोज्यान्नान्मया राजन्वक्ष्यमाणान्निबोध मे ||१४-१०७-१३ (९६२९६)
दीक्षितस्य कदर्यस्य क्रुद्धस्य निकृतस्य च |
अभिशप्तस्य षण्डस्य पाकभेदकरस्य च ||१४-१०७-१४ (९६२९७)
चिकित्सकस्य दूतस्य तथा चोच्छिष्टभोजिनः |
उग्रान्नं सूतकान्नं च शूद्रोच्छेषणमेव च ||१४-१०७-१५ (९६२९८)
द्विषदन्नं न भोक्तव्यं पतितान्नं च यच्छ्रुतम् |
तथा च पिशुनस्यान्नं यज्ञविक्रयिणस्तथा ||१४-१०७-१६ (९६२९९)
शैलूषं तन्तुवायान्नं कृतघ्नस्यान्नमेव च |
अंबष्ठकनिषादानां रङ्गावतरकस्य च ||१४-१०७-१७ (९६३००)
सुवर्णकर्तुर्वैणस्यि शस्त्रविक्रयिणस्तथा |
सूताना शौण्डिकानां च वैद्यस्य रजकस्य च ||१४-१०७-१८ (९६३०१)
स्त्रीजितस्य नृशंसस्य तथा माहिषिकस्य च |
अनिर्दशानां प्रेतानां गणिकानां तथैव च ||१४-१०७-१९ (९६३०२)
बन्दिनो द्यूतकर्तुश्च तथा द्यूतविदामपि |
परिवित्तस्य यच्चान्नं परिवेत्तुस्तथैव च ||१४-१०७-२० (९६३०३)
यश्चाग्रदिधिषुर्विप्रो दिधिषूपपिस्तथा |
तयोरप्युभयोरन्नं राज्ञां चापि विवर्जयेत् ||१४-१०७-२१ (९६३०४)
राजान्नं तेज आदत्ते शूद्रान्नं ब्रह्मवर्चसम् |
आयुः सुवर्णकारान्नं यशश्चार्मावकृन्तिनः ||१४-१०७-२२ (९६३०५)
गणान्नं गणिकान्नं च लोकेभ्यः परिकीर्तितम् |
पूयं चिकित्सकस्यान्नं शुक्लं तु वृषलीपतेः ||१४-१०७-२३ (९६३०६)
विष्ठा वार्धुषिकस्यान्नं तस्मात्तत्परिवर्जयेत् |
तेषां त्वगस्थिरोमाणि भुङ्क्ते योऽन्नं तु भक्षयेत् ||१४-१०७-२४ (९६३०७)
अमात्यान्नमथैतेषां भुक्त्वा तु त्रियहं क्षिपेत् |
मत्या भुक्त्वा सकृद्वाऽपि प्राजापत्यं चरेद्द्विजः ||१४-१०७-२५ (९६३०८)
दानानां च फलं यद्वै शृणु पाण्डव तत्वतः |
जलदस्तृप्तिमाप्नोति सुखमक्षयमन्नदः ||१४-१०७-२६ (९६३०९)
तिलदश्च प्रजामिष्टां दीपदश्चक्षुरुत्तमम् |
भूमदो भूमिमाप्नोति दीर्घमायुर्हिरण्यदः ||१४-१०७-२७ (९६३१०)
गृहदोऽग्र्याणि वेश्मानि रूप्यदो रूपमुत्तमम् |
वासोदश्चन्द्रसालोक्यमश्विसालोक्यमश्वदः ||१४-१०७-२८ (९६३११)
अनडुद्दः श्रियं जुष्टां गोदो गोलोकमश्नुते |
यानशय्याप्रदो भार्यामैश्वर्यमभयप्रदः ||१४-१०७-२९ (९६३१२)
धान्यदः शाश्वतं सौख्यं ब्रह्मदो ब्रह्मसाम्यताम् |
सर्वेषामेव दानानां ब्रह्मदानं विशिष्यते ||१४-१०७-३० (९६३१३)
हिरण्यभूगवाश्वाजवस्त्रशय्यासनादिषु |
योर्चितः प्रतिगृह्णाति दद्यादुचितमेव च |
तावुभौ गच्छतः स्वर्गं नरकं च विपर्यये ||१४-१०७-३१ (९६३१४)
अनृतं न वदेद्विद्वांस्तपस्तप्त्वा न विस्मयेत् |
नार्तोप्यभिभवेद्विप्रान्न दत्त्वा परिकीर्तयेत् ||१४-१०७-३२ (९६३१५)
यज्ञोऽनृतेन क्षरति तपः क्षरति विस्मयात् |
आयुर्विप्रावमानेन दानं तु परिकीर्तनात् ||१४-१०७-३३ (९६३१६)
एकः प्रजायते जन्तुरेक एव प्रमीयते |
अकोऽनुभुङ्क्ते सुकृतमेकश्चाप्नोति दुष्कृतम् ||१४-१०७-३४ (९६३१७)
मृतं शरीरमुत्सृज्य काष्ठलोष्टसमं क्षितौ |
विमुखा बान्धवा यान्ति धर्मस्तमनुवर्तते ||१४-१०७-३५ (९६३१८)
अनागतानि कार्याणि कर्तुं गणयते मनः |
शरीरकं समुद्दिश्य स्मयते नूनमन्तकः ||१४-१०७-३६ (९६३१९)
तस्माद्धर्मसहासस्तु धर्मं संचिनुयात्सदा |
धर्मेण हि सहायेन तमस्तरति दुस्तरम् ||१४-१०७-३७ (९६३२०)
येषां तटाकानि बहूदकानि
सभाश्च कूपाश्च शुभाः प्रपाश्च |
अन्नप्रदानं मधुरा च वाणी
यमस्य ते निर्विषया भवन्ति ||||१४-१०७-३८ (९६३२१)
इति श्रीमन्महाभारते आश्वमेधिकपर्वणि वैष्णवधर्मपर्वणि
सप्ताधिकशततमोऽध्यायः ||१०७ ||
आश्वमेधिकपर्व -अध्याय १०८
||श्रीः ||
१४. १०८. अध्यायः १०८
Mahabharata -Ashvamedhika Parva -Chapter Topics
कृष्णेन युधिष्ठिरंप्रति यत्यग्निमहिमानुवर्णनम् ||१ ||
दानपात्रब्राह्मणलक्षणकथनम् ||२ ||
तथाऽन्नदानप्रशंसनम् ||३ ||
Mahabharata -Ashvamedhika Parva -Chapter Text
युधिष्ठिर उवाच |
अनेकान्तं बहुद्वारं धर्ममाहुर्मनीपिणः |
किंलक्षणोसौ भति तन्मे ब्रूहि जनार्दन ||१४-१०८-१ (९६३२२)
भगवानुवाच. १४-१०८-२क्ष् (७९७६)
शृणु राजन्समासेन धर्मशौचविधिक्रमम् |
अहिंसा शौचमक्रोधमानृशंस्यं दमः शमः |
आर्जवं चैव राजेन्द्र निश्चितं धर्मलक्षणम् ||१४-१०८-२ (९६३२३)
ब्रह्मचर्यं तपः क्षान्तिर्मधुमांसस्य वर्जनम् |
मर्यादायां स्थितिश्चैव शमः शौचस्य लक्षणम् ||१४-१०८-३ (९६३२४)
बाल्ये विद्यां निषेवेत यौवने दारसंग्रहम् |
वार्धके मौनमातिष्ठेत्सर्वदा धर्ममाचरेत् ||१४-१०८-४ (९६३२५)
ब्राह्मणान्नावमन्येत गुरुन्परिवदेन्न च |
यतीनामनुकूलः स्यादेष धर्मः सनातनः ||१४-१०८-५ (९६३२६)
यतिर्गुरुर्द्विजातीनां वर्णानां ब्राह्मणो गुरुः |
पतिरेव गुरुः स्त्रीणां सर्वेषां पार्थिवो गुरुः ||१४-१०८-६ (९६३२७)
यद्गृहस्तार्जितं पापं ज्ञानतोऽज्ञानतोपि वा |
निर्दहिष्यति तत्सर्वमेकरात्रोषितो यतिः ||१४-१०८-७ (९६३२८)
दुर्वृत्ता वा सुवृत्ता वा ज्ञानिनोऽज्ञानिनोपि वा |
गृहस्थैर्यतयः पूज्याः परत्र हितकाङ्क्षिभिः ||१४-१०८-८ (९६३२९)
एकदण्डी त्रिदण्डी वा शिखी वा मुण्डितोपि वा |
काषायदण्डधारोपि यतिः पूज्यो न संशयः ||१४-१०८-९ (९६३३०)
अपूजितो गृहस्थैर्वा तथा चाप्यवमानितः |
यतिर्वाऽप्यतिथिर्वाऽपि नरके पातयिष्यतः ||१४-१०८-१० (९६३३१)
तस्मात्तु यत्नतः पूज्या मद्भक्ता मत्परायणाः |
मयि संन्यस्तकर्माणः परत्र हितकाङ्क्षिभिः ||१४-१०८-११ (९६३३२)
प्रहरेन्न द्विजान्विप्रो गां न हन्यात्कदाचन |
भ्रूणहत्यासमं चैव उभयं यो निषेवते ||१४-१०८-१२ (९६३३३)
नाग्निं मुखेनोपधमेन्न च पादौ प्रतापयेत् |
नाधः कुर्यात्कदाचित्तु न पृष्ठं परितापयेत् ||१४-१०८-१३ (९६३३४)
नान्तरा गमनं कुर्यान्न चामेध्यं विनिक्षिपेत् |
उच्छिष्टो न स्पृशेदग्निमाशौचस्थो न जातुचित् ||१४-१०८-१४ (९६३३५)
श्वचण्डालादिभिः स्पृष्टो नाङ्गमग्नौ प्रतापयेत् |
सर्वदेवमयो वह्निस्तस्माच्छुद्धः सदा स्पृशेत् ||१४-१०८-१५ (९६३३६)
प्राप्तमूत्रपुरीषस्तु न स्पृशेद्वह्निमात्मवान् |
यावत्तु धारयेद्वेगं तावदप्रयतो भवेत् ||१४-१०८-१६ (९६३३७)
पचनाग्निं न गृह्णीयात्परवेश्मनि जातुचित् |
तस्मिन्पक्वेन चान्नेन यत्कर्म कुरुते शुभम् ||१४-१०८-१७ (९६३३८)
तस्यैव तच्छुभस्यार्धमग्निदस्य भवेन्नृप |
तस्माद्गृहगतं वह्निं प्रकुर्यादविनाशितम् ||१४-१०८-१८ (९६३३९)
प्रमादाद्यदि वाऽज्ञानात्तस्य नाशो भविष्यति |
गृह्णीयात्तु मथित्वा वा श्रोत्रियागारतोपि वा ||१४-१०८-१९ (९६३४०)
युधिष्ठिर उवाच. १४-१०८-२०क्ष् (७९७७)
कीदृशाः साधवो विप्रास्तेभ्यो दत्तं महाफलम् |
कीदृशेभ्यो हि दातव्यं तन्मे ब्रूहि जनार्दन ||१४-१०८-२० (९६३४१)
भगवानुवाच. १४-१०८-२१क्ष् (७९७८)
अक्रोधनाः सत्यपरा धर्मनित्या जितेन्द्रियाः |
तादृशाः साधवो विप्रास्तेभ्यो दत्तं महाफलम् ||१४-१०८-२१ (९६३४२)
अमानिनः सर्वसहा दृष्टार्था विजितेन्द्रियाः |
सर्वभूतहिता मैत्रास्तेभ्यो दत्तं महाफलम् ||१४-१०८-२२ (९६३४३)
अलुब्धाः शुचयो वैद्या हीमन्तः सत्यवादिनः |
स्वधर्मनिरता ये तु तेभ्यो दत्तं महाफलम् ||१४-१०८-२३ (९६३४४)
साङ्गंश्च चतुरो वेदान्योऽधीयेत दिनेदिने |
शूद्रान्नं यस्य नो देहे तत्पात्रमृषयो विदुः ||१४-१०८-२४ (९६३४५)
प्रज्ञाश्रुताभ्यां वृत्तेन शीलेन च समन्वितः |
तारयेत्तत्कुलं सर्वमेकोपीह युधिष्ठिर ||१४-१०८-२५ (९६३४६)
गामश्वमन्नं वित्तं वा तद्विधे प्रतिपादयेत् |
निशम्य तु गुणोपेतं ब्राह्माणं साधुसंमतम् |
दूरादाहृत्य सत्कृत्य तं प्रयत्नेन पूजयेत् ||१४-१०८-२६ (९६३४७)
युधिष्ठिर उवाच. १४-१०८-२७क्ष् (७९७९)
धर्माधर्मविधिस्त्वेवं भीमं भीष्मेण भाषितम् |
भीष्मवाक्यात्सारभूतं वद धर्मं सुरेश्वर ||१४-१०८-२७ (९६३४८)
भगवानुवाच. १४-१०८-२८क्ष् (७९८०)
अन्नेन धार्यते सर्वं जगदेतच्चराचरम् |
अन्नात्प्रभवति प्राणः प्रत्यक्षं नास्ति संशयः ||१४-१०८-२८ (९६३४९)
कलत्रं पीडयित्वा तु देशे काले च शक्तितः |
दातव्यं भिक्षवे चान्नमात्मनो भूतिमिच्छता ||१४-१०८-२९ (९६३५०)
विप्रमध्वपरिश्रान्तं बालं वृद्धमथापि वा |
अर्चयेद्गुरुवत्प्रीतो गृहस्थो गृहमागतम् ||१४-१०८-३० (९६३५१)
क्रोधमुत्पतितं हित्वा सुशीलो वीतमत्सरः |
अर्चयेदतिथिं प्रीतः परत्र हितभूतये ||१४-१०८-३१ (९६३५२)
अतिथिं नावमन्येत नानृतां गिरमीरयेत् |
न पृच्छेद्गोत्रचरणं नाधीतं वा कदाचन ||१४-१०८-३२ (९६३५३)
चण्डालो वा श्वपाको वा काले यः कश्चिदागतः |
अन्नेन पूजनीयः स्यात्परत्र हितमिच्छता ||१४-१०८-३३ (९६३५४)
पिधाय तु गृहद्वारं भुक्ते योऽन्नं प्रहृष्टवान् |
स्वर्गद्वारपिधानं वै कृतं तेन युधिष्ठिर ||१४-१०८-३४ (९६३५५)
पितॄन्देवानृषीन्विप्रानतिथींश्च निराश्रयान् |
यो नरः प्रीणयत्यन्नैस्तस्य पुण्यफलं महत् ||१४-१०८-३५ (९६३५६)
कृत्वा तु पापं बहुशो यो दद्यादन्नमर्थिने |
ब्राह्मणाय विशेषेण सर्वपापैः प्रमुच्यते ||१४-१०८-३६ (९६३५७)
अन्नदः प्राणदो लोके प्राणदः सर्वदो भवेत् |
तस्मादन्नं विशेषेण दातव्यं भूतिमिच्छता ||१४-१०८-३७ (९६३५८)
अन्नं ह्यमृतमित्याहुरन्नं प्रजननं स्मृतम् |
अन्नप्रणाशो सीदन्ति शरीरे पञ्च धातवः ||१४-१०८-३८ (९६३५९)
बलं बलवतो नश्येदन्नहीनस्य देहिनः |
तस्मादन्नं विशेषेण श्रद्धयाऽश्रद्धयापि वा ||१४-१०८-३९ (९६३६०)
आदत्ते हि रसं सर्वमादित्यः स्वगभस्तिभिः |
वायुस्तस्मात्समादाय रसं मेधेषु धारयेत् ||१४-१०८-४० (९६३६१)
तत्तु मेघगतं भूमौ शक्रो वर्षति तादृशम् |
तेन दिग्धा भवेद्देवी मही प्रीता च **** १४-१०८-४१ (९६३६२)
तस्यां सस्यानि रोहन्ति यैर्जीवन्त्यखिलाः प्रजाः |
मांसमेदोस्थिमज्जानां सम्भवस्तेभ्य एव हि ||१४-१०८-४२ (९६३६३)
एवं सूर्यश्च पवनो मेघः शक्रस्तथैव च |
एक एव स्थितो राशिर्यतो भूतानि जज्ञिरे ||१४-१०८-४३ (९६३६४)
भवनानि च दिव्यानि दिवि तेषां महात्मनाम् |
नानासंस्थानि भूतानि नानाभूमिगतानि च ||१४-१०८-४४ (९६३६५)
चन्द्रमण्डलशुभ्राणि किङ्किणीजालवन्ति च |
तरुणादित्यवर्णानि स्थावराणि चराणि च ||१४-१०८-४५ (९६३६६)
अनेकशतसङ्ख्यानि सान्तर्जलवनानि च |
तत्र पुष्पफलोपेताः कामदाः सुरपादपाः ||१४-१०८-४६ (९६३६७)
वाप्यो बद्धसभाः कूपा दीर्घिकाश्च सहस्रशः |
भक्ष्यभोज्यमयाः शैला वासांस्याभरणानि च ||१४-१०८-४७ (९६३६८)
क्षीरस्रवन्त्यः सरितस्तथा चैवान्नपर्वताः |
घोषवन्ति च यानानि युक्तान्यथ सहस्रशः ||१४-१०८-४८ (९६३६९)
प्रासादप्रवराः शुभ्राः शय्याश्च कनकोज्ज्वलाः |
अन्नदास्तत्र तिष्ठन्ति तस्मादन्नप्रदो भवेत् ||||१४-१०८-४९ (९६३७०)
इति श्रीमन्महाभारते आश्वमेधिकपर्वणि वैष्णवधर्मपर्वणि
अष्टोत्तरशततमोऽध्यायः ||१०८ ||
आश्वमेधिकपर्व -अध्याय १०९
||श्रीः ||
१४. १०९. अध्यायः १०९
Mahabharata -Ashvamedhika Parva -Chapter Topics
कृष्णेन युधिष्ठिरंप्रति भोजनविधिकथनम् ||१ ||
तथा गोग्रासदानप्रकारकथनम् ||२ ||
तथा तिलप्रशंसनपूर्वकं तेषां मिक्षूणां च ब्राह्मणेन स्वयं
यन्त्रे निपीडनप्रतिषेधनम् ||३ ||
Mahabharata -Ashvamedhika Parva -Chapter Text
युधिष्ठिर उवाच |
अन्नदानफलं श्रुत्वा प्रीतोस्मि मधुसूदन |
भोजनस्य विधिं वक्तुं देवदेव त्वमर्हसि ||१४-१०९-१ (९६३७१)
भगवानुवाच. १४-१०९-२क्ष् (७९८१)
बोजनस्य द्विजातीनां विधानं शृणु पाण्डव |
स्नातः शुचिः शुचौ देशे निर्जने हुतपावकः ||१४-१०९-२ (९६३७२)
मण्डलं कारयित्वा च चतुरश्रं द्विजोत्तमः |
क्षत्रियश्चेत्ततो वृत्तं वैश्योऽर्धेन्दुसमाकृतिम् ||१४-१०९-३ (९६३७३)
आर्द्रपादस्तु भुञ्जीयात्प्राङ्मुखश्चासने शुचौ |
पादाभ्यां धरणीं स्पृष्ट्वा पादेनैकेन वा पुनः ||१४-१०९-४ (९६३७४)
नैकवासास्तु भुञ्जीयान्न चान्तर्धाय वा द्विजः |
न भिन्नपात्रे भुञ्जीत पर्णपृष्ठे तथैव च ||१४-१०९-५ (९६३७५)
अन्नं पूर्वं नमस्कुर्यात्प्रहृष्टेनान्तरात्मना |
नान्यदालोकयेदन्नान्न जुगुप्सेन तत्परः ||१४-१०९-६ (९६३७६)
जुगुप्सितं च यच्चान्नं राक्षसा एव भुञ्जते |
पाणिना जलमुद्धृत्य कुर्यादन्नं प्रदक्षिणम् ||१४-१०९-७ (९६३७७)
अपेयं तद्विजानीयात्पीत्वा चान्द्रायणं चरेत् |
परिवेषजलादन्यत्पेयमेव तु मन्त्रवत् ||१४-१०९-८ (९६३७८)
पञ्च प्राणाहुतीः कुर्यात्समन्त्रं तु पृथक्पृथक् ||१४-१०९-९ (९६३७९)
यथा रसं न जानाति जिह्वा प्रामाहुतौ नृप |
तथा समाहितः कुर्यात्प्राणाहुतिमतन्द्रिकतः ||१४-१०९-१० (९६३८०)
विदित्वाऽन्नमथान्नादं पञ्च प्राणांश्च पाण्डव |
यः कुर्यादाहुतीः पञ्च तेनेष्टाः पञ्चवायवः ||१४-१०९-११ (९६३८१)
अतोऽन्यथा तु भुञ्जानो ब्राह्मणो ज्ञानदुर्बलः |
तेनान्नेनासुरान्प्रेतान्राक्षसांस्तर्पयिष्यति ||१४-१०९-१२ (९६३८२)
वक्त्रप्रमाणान्पिण्डांश्च ग्रसेदेकैकशः पुनः |
वक्त्राधिकं तु यत्पिण्डमात्मोच्छिष्टं तदुच्यते ||१४-१०९-१३ (९६३८३)
पिण्डावशिष्टमन्यच्च वक्त्रान्निस्सृतमेव च |
अभोज्यं तद्विजानीयाद्भुक्त्वा चान्द्रायणं चरेत् ||१४-१०९-१४ (९६३८४)
स्वमुच्छिष्टं तु यो भुङ्क्ते यो भुङ्क्ते मुक्तभोजनम् |
चान्द्रायणं चरेन्कृच्छ्रं प्राजापत्यमथापि वा ||१४-१०९-१५ (९६३८५)
स्त्रीपात्रभुङ्नरः पापः स्त्रीणामुच्छिष्टभुक्तथा |
तया सह च यो भुङ्क्ते स भुङ्क्ते मद्यमेव हि |
न तस्य निष्कृतिर्दृष्टा मुनिभिस्तत्वदर्शिभिः ||१४-१०९-१६ (९६३८६)
पिबतः पतिते तोये भोजने मुखनिस्सृते |
अभोज्यं तद्विजानीयाद्भुक्त्वा चान्द्रायणं चरेत् ||१४-१०९-१७ (९६३८७)
पीतशेषं तु तन्नाम न पेयं पाण्डुनन्दन |
पिबेद्यदि हि तन्मोहाद्द्विजश्चान्द्रायणं चरेत् ||१४-१०९-१८ (९६३८८)
पानीयानि पिबेद्यते तत्पात्रं द्विजसत्तमः |
अनुच्छिष्टं भवेत्तावद्यावद्भूमौ न निक्षिपेत् ||१४-१०९-१९ (९६३८९)
मौनी वाऽप्यथवा भूमौ नावलोक्य दिशस्तथा |
भुञ्जीत विधिवद्विप्रो न चोच्छिष्टं प्रदापयेत् ||१४-१०९-२० (९६३९०)
सदा चात्यशनं नाद्यान्नातिहीनं च कर्हिचित् |
यथाऽन्नेन व्यथा न स्यात्तथा भुञ्जीत नित्यशः ||१४-१०९-२१ (९६३९१)
उदक्यामपि चण्डालं श्वानं सूकरमेव वा |
भुञ्जानो यदि वा पश्येत्तदन्नं च परित्यजेत् |
भुञ्जानो ह्यत्यजन्मोहाद्द्विजश्चान्द्रायणं चरेत् ||१४-१०९-२२ (९६३९२)
केशकीटोपपन्नं च मुखमारुतवीजितम् |
अभोज्यं तद्विजानीयाद्भुक्त्वा चान्द्रायणं चरेत् ||१४-१०९-२३ (९६३९३)
उत्थाय च पुनः स्पृष्टं पादस्पृष्टं च लङ्घितम् |
अन्नं तद्राक्षसं विद्यात्तस्मात्तत्परिवर्जयेत् ||१४-१०९-२४ (९६३९४)
राक्षसोच्छिष्टभुग्विप्रः सप्त पूर्वान्परानपि |
नरके रौरवे घोर स पितॄन्पातयिष्यति ||१४-१०९-२५ (९६३९५)
तस्मिन्नाचमनं कुर्याद्यस्मिन्पात्रे स भुक्तवान् |
यद्युत्तिष्ठत्यनाचान्तो भुक्तवानासनात्ततः |
स्नानं सद्यः प्रकुर्वीत सोन्यथाऽप्रयतो भवेत् ||१४-१०९-२६ (९६३९६)
युधिष्ठिर उवाच. १४-१०९-२७क्ष् (७९८२)
तृणमुष्टिविधानं च तृणमाहात्म्यमेव च |
इक्षोः सोमसमुद्भूतिं वक्तुमर्हसि मानदः ||१४-१०९-२७ (९६३९७)
भगवानुवाच. १४-१०९-२८क्ष् (७९८३)
पितरो वृषभा ज्ञेयो गावो लोकस्य मातरः |
तासां तु पूजया राजन्पूजिताः पितृदेवताः ||१४-१०९-२८ (९६३९८)
सभा प्रपा गृहाश्चापि देवतायतनानि च |
शुद्ध्यन्ति शकृता यासांकिं भूतमधिकं ततः ||१४-१०९-२९ (९६३९९)
ग्रासमुष्टिं परगवे दद्यात्संवत्सरं तु यः |
अकृत्वा स्वयमाहारं प्राप्तस्तत्सार्वकालिकम् ||१४-१०९-३० (९६४००)
गावो मे मातरः सर्वाः पितरश्चैव गोवृषाः |
ग्रासमुष्टिं मया दत्तं प्रतिगृह्णीत मातरः ||१४-१०९-३१ (९६४०१)
इत्युक्त्वाऽनेन मन्त्रेण गायत्र्या वा समाहितः |
अभिमन्त्र्य ग्रासमुष्टिं तस्य पुण्यफलं शृणु ||१४-१०९-३२ (९६४०२)
यत्कृतं दुष्कृतं तेन ज्ञानतोऽज्ञानतोपि वा |
तस्य नश्यति तत्सर्वं दुःखप्नं च विनश्यति ||१४-१०९-३३ (९६४०३)
तिलाः पिवित्राः पापघ्ना नारायणसमुद्भवाः |
तिलाञ्श्राद्धे प्रशंसनति दानमेतदनुत्तमम् ||१४-१०९-३४ (९६४०४)
तिलान्दद्यात्तिलान्भक्ष्यात्तिलानप्रातरुपस्पृशेत् |
तिलंतिलमिति ब्रूयात्तिलाः पापहरा हि ते ||१४-१०९-३५ (९६४०५)
क्रीत्वा प्रतिगृहीत्वा वा न विक्रेया द्विजातिभिः |
भोजनाभ्यञ्जनाद्दानाद्योन्यत्तु कुरुते तिलैः |
कृमिर्भूत्वा श्वविष्ठायां पितृभिः सह मज्जति ||१४-१०९-३६ (९६४०६)
तिलान्नपीडयेद्विप्रो यन्त्रचक्रे स्वयं नृप |
पीडयन्हि द्विजो मोहान्नरकं याति रौरवम् ||१४-१०९-३७ (९६४०७)
इक्षुवंशोद्भवः सोमः सोमवंशोद्भवा द्विजाः |
इक्षुं न पीडयेत्तस्मादिक्षुघात्यात्मघातकः ||१४-१०९-३८ (९६४०८)
इक्षुदण्डसहस्राणामेकैकेन युधिष्ठिर |
ब्रह्महत्यामवाप्नोति द्विजश्चेद्यन्त्रपीडकः |
तस्मान्न पीडयेदिक्षुं यन्त्रचक्रे द्विजोत्तमः ||||१४-१०९-३९ (९६४०९)
इति श्रीमन्महाभारते आश्वमेधिकपर्वणि वैष्णवधर्मपर्वणि
नवाधिकशततमोऽध्यायः ||१०९ ||
आश्वमेधिकपर्व -अध्याय ११०
||श्रीः ||
१४. ११०. अध्यायः ११०
Mahabharata -Ashvamedhika Parva -Chapter Topics
कृष्णेन युधिष्ठिरंप्रत्यापद्धर्मकथनम् ||१ ||
तथा प्रशस्ताप्रशस्तब्राह्मणलक्षणकथनम् ||२ ||
तथा सामान्यतो नानाधर्मकथनपूर्वकं ब्राह्मण्यसिद्धिपर्रकारकथनम्
||३ ||
तथा गुर्वाचार्योपाध्यायलक्षणकथनम् ||४ ||
Mahabharata -Ashvamedhika Parva -Chapter Text
युधिष्ठिर उवाच |
समुच्चयं च धर्माणां भोज्याभोज्यं तथैव च |
श्रुतं मया त्वत्प्रसादादापद्धर्मं ब्रवीहि मे ||१४-११०-१ (९६४१०)
भगवानुवाच. १४-११०-२क्ष् (७९८४)
दुर्भिक्षे राष्ट्रसंबाधेऽप्याशौचे मृतसूतके |
धर्मकालेऽध्वनि तथा नियमो येन लुप्यते ||१४-११०-२ (९६४११)
दूराध्वगमनात्खिन्नो द्विजालाभेऽथ शूद्रतः |
अकृतन्नं तु यत्किंचिद्गृह्णीयादात्मवृत्तये ||१४-११०-३ (९६४१२)
आतुरो दुःखितो वाऽपि तथाऽऽर्तो वा बुभुक्षितः |
भुञ्जन्नविधिना विप्रः प्रायश्चित्तीयते न च ||१४-११०-४ (९६४१३)
निमन्त्रितस्तु यो विप्रो विदिवद्धव्यकव्ययोः |
मांसादीन्यपि भुञ्जानः प्रायश्चित्तीयते न च ||१४-११०-५ (९६४१४)
अष्टौ तान्यव्रतघ्नानि आपो मूलं घृतं पयः |
हविर्ब्राह्मणकाम्या च गुरोर्वचनमौषधम् ||१४-११०-६ (९६४१५)
अशक्तो विधिवत्कर्तुं प्रायश्चित्तानि यो नरः |
विदुषां वचनेनापि दानेनापि विशुद्ध्यति ||१४-११०-७ (९६४१६)
अनृतावृतुकाले वा दिवा रात्रौ तथाऽपि वा |
प्रोषितस्तु स्त्रियं गच्छेत्प्रायश्चित्तीयते न च ||१४-११०-८ (९६४१७)
युधिष्ठिर उवाच. १४-११०-९क्ष् (७९८५)
प्रशस्याः कीदृशा विप्रा निन्द्याश्चापि सुरेश्वर |
अष्टकायाश्च कः कालस्तन्मे कथय सुव्रत ||१४-११०-९ (९६४१८)
भगवानुवाच. १४-११०-१०क्ष् (७९८६)
सत्यसन्धं द्विजं दृष्ट्वा स्थानाद्वेपति भास्करः |
एष मे मण्डलं भित्त्वा याति ब्रह्म सनातनम् ||१४-११०-१० (९६४१९)
कुलीनः कर्मकृद्वैद्यस्तथा चाप्यानृशंस्यवान् |
श्रीमानृजउः सत्यवादी पात्रं सर्व इमे द्विजाः ||१४-११०-११ (९६४२०)
एते चाग्रासनस्थास्ते भुञ्जानाः प्रथमं द्विजाः |
तस्यां पङ्क्त्यां तु ये वान्ये तान्पुनत्येव दर्शनात् ||१४-११०-१२ (९६४२१)
मद्भक्ता ये द्विजश्रेष्ठा मद्भक्ता मत्परायणाः |
तान्पङ्क्तिपावनान्विद्धि पूज्यांश्चैव विशेषतः ||१४-११०-१३ (९६४२२)
निन्द्याञ्शृणु द्विजान्राजन्नपि वा वेदपारगान् |
ब्राह्मणच्छद्मना लोके चरतः पापकारिणः ||१४-११०-१४ (९६४२३)
अनग्निरनधीयानः प्रतिग्रहरुचिस्तु यः |
यतस्ततस्तु भुञ्जानस्तं विद्याद्ब्रह्मदूषकम् ||१४-११०-१५ (९६४२४)
मृतसूतकपुष्टाङ्गो यश्च शूद्रान्नभुग्द्विजः |
अहं चापि न जानामि गतिं तस्य नराधिप ||१४-११०-१६ (९६४२५)
शूद्रान्नरसपुष्टाङ्गोऽप्यधीयानो हि नित्यशः |
जपतो जुह्वतो वाऽपि गतिरूर्ध्वं न विद्यते ||१४-११०-१७ (९६४२६)
आहिताग्निश्च यो विप्रः शूद्रान्नान्न निवर्तते |
पञ्च तस्य प्रणश्यन्ति आत्मा ब्रह्म त्रयोऽग्नयः ||१४-११०-१८ (९६४२७)
शूद्रप्रेषणकर्तुश्च ब्राह्मणस्य विशेषतः |
भूमावन्नं प्रदातव्यं श्वसृगालसमो हि सः ||१४-११०-१९ (९६४२८)
प्रेतभूतं तु यः शूद्रं ब्राह्ममो ज्ञानदुर्बलः ||
अनुगच्छेन्नीयमानं त्रिरात्रमशुचिर्भवेत् ||१४-११०-२० (९६४२९)
त्रिरात्रे तु ततः पूर्णे नदीं गत्वा समुद्रगाम् |
प्राणायामशतं कृत्वा घृतं प्राश्य विशुद्ध्यति ||१४-११०-२१ (९६४३०)
अनाथं ब्राह्मणं प्रेतं ये वहन्ति द्विजोत्तमाः |
पदेपदेऽश्वमेधस्य फलं ते प्राप्नुवन्ति हि ||१४-११०-२२ (९६४३१)
न तेषामशुभं किंचित्पापं वा शुभकर्मणाम् |
जलावगाहनादेव सद्यः शौचं विधीयते ||१४-११०-२३ (९६४३२)
शूद्रवेश्मनि विप्रेणि क्षीरं वा यदि वा दधि |
निवृत्तेन न भोक्तव्यं विद्धि शूद्रान्नमेव तत ||१४-११०-२४ (९६४३३)
विप्राणां भोक्तुकामानामत्यन्तं चान्नकाङ्क्षिणाम् |
यो विघ्नं कुरुते मर्त्यस्ततो नान्योस्ति पापकृत् ||१४-११०-२५ (९६४३४)
सर्वे च वेदाः सहषङ्भिरङ्गैः
साङ्ख्यं पुराणं च कुले च जन्म |
नैतानि सर्वाणि गतिर्भवन्ति
शीलव्यपेतस्य नृप द्विजस्य ||१४-११०-२६ (९६४३५)
ग्रहोपरागे विषुवेऽयनान्ते
पित्र्ये मघासु स्वसुते च जाते |
गयेषु पिण्डेषु च पाण्डुपुत्र
दत्तं भवेन्निष्कसहस्रतुल्यम् ||१४-११०-२७ (९६४३६)
वैशाखमासस्य तु या तृतीयाऽ-
नवद्याऽसौ कार्तिकशुक्लपक्षे |
नभस्यमासस्य च कृष्णपक्षे
त्रयोदशी पञ्चदशी न माघे ||१४-११०-२८ (९६४३७)
उपप्लवे चन्द्रमसो रवेश्च
श्राद्धस्य कालो ह्ययनद्वये च |
पानीयमप्यत्रि तिलैर्विमिश्रं
दद्यात्पितृभ्यः प्रयतो मनुष्यः |
श्राद्धं कृतं तेन समासहस्रं
रहस्यमेतत्पितरो वदन्ति ||१४-११०-२९ (९६४३८)
यस्त्वेकपङ्क्त्यां विषमं ददाति
स्नेहाद्भयाद्वा यदि वाऽर्थहेतोः |
क्रूरं दुराचारमनात्मवन्तं
ब्रह्मघ्नमेनं कवयो वदन्ति ||१४-११०-३० (९६४३९)
धनानि येषां विपुलानि सन्ति
नित्यं रमन्ते परलोकमूढाः |
तेषामयं शत्रुवरघ्नलोको
नान्यत्सुखं देहसुखे रतानाम् ||१४-११०-३१ (९६४४०)
ये चैव मुक्तास्तपसि प्रयुक्ताः
स्वाध्यायशीला जरयन्ति देहम् |
जितेन्द्रिया भूतहिते निविष्ट-
स्तेषामसौ चापि परश्च लोकः ||१४-११०-३२ (९६४४१)
ये चैव विद्यां न तपो न दानं
न चापि मूढाः प्रजने यतन्ते |
न चापि गच्छन्ति सुखानि भोगां-
स्तेषामयंक चापि परश्च नास्ति ||१४-११०-३३ (९६४४२)
युधिष्ठिर उवाच. १४-११०-३४क्ष् (७९८७)
नारायण पुराणेश लोकावास नमोस्तु ते |
श्रोतुमिच्छामि कार्त्स्न्येन धर्मसारसमुच्चयम् ||१४-११०-३४ (९६४४३)
भगवानुवाच. १४-११०-३५क्ष् (७९८८)
धर्मसारं महाप्राज्ञि मनुना प्रोक्तमादितः |
प्रवक्ष्यामि मनुप्रोक्तं पौराणां श्रुतिसंहितम् ||१४-११०-३५ (९६४४४)
अग्निचित्कपिला सत्री राजा भिक्षुर्महोदधिः |
दृष्टमात्रात्पुनत्येते तस्मात्पश्येत तान्सदा ||१४-११०-३६ (९६४४५)
गौरकस्यैव दातव्या न बहूनां युधिष्ठिर |
सा गौर्विक्रयमापन्ना दहत्यासप्तमं कुलम् ||१४-११०-३७ (९६४४६)
बहूनां न प्रदातव्या गौर्वस्त्रं शयनं स्त्रियः |
तादृग्भूतं तु तद्दानं दातारं नोपतिष्ठति ||१४-११०-३८ (९६४४७)
आक्रम्य ब्राह्मणैर्भुक्तमनार्याणां च वेश्मनि |
गोभिश्च पुण्यं तत्तेषां राजसूयाद्विशिष्यते ||१४-११०-३९ (९६४४८)
मा ददात्विति यो ब्रूयाद्ब्राह्मणेषु च गोषु च |
तिर्यग्योनिशतं गत्वा चण्डालेषूपजायते ||१४-११०-४० (९६४४९)
ब्राह्मणस्वं च यद्दैवं दरिद्रस्यैव यद्धनम् |
गुरोश्चापि हृतं राजन्स्वर्गस्थानपि पातयेत् ||१४-११०-४१ (९६४५०)
धर्मं जिज्ञासमानानां प्रमाणं परमं श्रुतिः |
द्वितायं धर्मशास्त्राणि तृतीयं लोकसंग्रहः ||१४-११०-४२ (९६४५१)
आसमुद्राच्च यत्पूर्वादासमुद्राच्च पश्चिमात् |
हिमाद्रिविन्ध्ययोर्मध्यमार्यावर्तं प्रचक्षते ||१४-११०-४३ (९६४५२)
सरावतीदृषद्वत्योर्देवनद्योर्यदन्तरम् |
तद्देवनिर्मितं देशं ब्रह्मवर्तं प्रचक्षते ||१४-११०-४४ (९६४५३)
यस्मिन्देशे य आचारः पारंपर्यक्रमागतः |
वर्णानां सान्तरालानां स सदाचार उच्यते ||१४-११०-४५ (९६४५४)
कुरुक्षेत्रं च मत्स्याश्च पाञ्चालाः शूरसेनयः |
एते ब्रह्मर्षिदेशास्तु ब्रह्मावर्तादनन्तराः ||१४-११०-४६ (९६४५५)
एतद्देशप्रसूतस्य सकाशादग्रजन्मनः |
स्वं चारित्रं च गृह्णीयुः पृथिव्यां सर्वमानवाः ||१४-११०-४७ (९६४५६)
हिमवद्विन्ध्ययोर्मध्यं यत्प्राग्विशसनादपि |
प्रत्यगेव प्रयागात्तु मध्यदेशः प्रकीर्तितः ||१४-११०-४८ (९६४५७)
कृष्णसारस्तु चरति मृगो यत्र स्वभावतः |
स ज्ञेयो याज्ञिको देशो म्लेच्छदेशस्ततः परम् ||१४-११०-४९ (९६४५८)
एतान्विज्ञाय देशांस्तु संश्रयेरन्द्विजातयः |
शूद्रस्तु यस्मिन्कस्मिन्वा निवसेद्वृत्तिकर्शितः ||१४-११०-५० (९६४५९)
आचारः प्रथमो धर्मो ह्यहिंसा सत्यमेव च |
दानं चैव यथाशक्ति नियमाश्च यमैः सह ||१४-११०-५१ (९६४६०)
वैदिकैः कर्मभिः पुण्यैर्निषेकादिर्द्विजन्मनाम् |
कार्यः शरीरसंस्कारः पावनः प्रेत्य चेह च ||१४-११०-५२ (९६४६१)
गर्भहोमैर्जातकर्मनामचौलोपनायनैः |
स्वाध्यायैस्तद्व्रतैश्चैव विवाहस्नातकव्रतैः |
महायज्ञैश्च यज्ञैश्च ब्राह्मीयं क्रियते तनुः ||१४-११०-५३ (९६४६२)
धर्मोर्थौ यदि न स्यातां शुश्रुषा वाऽपि तद्विधा |
विद्या तस्मिन्नवप्तव्या शुभं बीजमिवोषरे ||१४-११०-५४ (९६४६३)
लौकिकं वैदिकं वाऽपि तथाऽऽध्यात्मिकमेव वा |
यस्माज्ज्ञानमिदं प्राप्तं तं पूर्वमभिवादयेत् ||१४-११०-५५ (९६४६४)
सव्येन सव्यं संगृह्य दक्षिणेन तु दक्षिणम् |
न कुर्यादेकहस्तेन गुरोः पादाभिवादनम् ||१४-११०-५६ (९६४६५)
निषेकादीनि कर्माणि यः करोति यथाविधि |
अध्यापयति चैवेनं स विप्रो गुरुरुच्यते ||१४-११०-५७ (९६४६६)
कृत्वोपनयनं वेदान्योध्यापयति नित्यशः |
सकल्पान्सरहस्यांश्च स चोपाध्याय उच्यते ||१४-११०-५८ (९६४६७)
साङ्गांश्च वेदानध्याप्य शिक्षयित्वा व्रतानि च |
विवृणोति च मन्त्रार्थानाचार्यः सोभिधीयते ||१४-११०-५९ (९६४६८)
उपाध्यायाद्दशाचार्य आचार्याणां शतं पिता |
पितुः शतगुणं माता गौरवेणातिरिच्यते ||१४-११०-६० (९६४६९)
एतेषामपि सर्वेषां गरीयान्ज्ञानदो गुरुः |
गुरोः परतरं किंचिन्न भूतं न भविष्यति ||१४-११०-६१ (९६४७०)
तस्मात्तेषां वशे तिष्ठिच्छुश्रूषापरमो भवेत् |
अवमानाद्धि तेषां तु नरकं स्यान्न संशयः ||१४-११०-६२ (९६४७१)
हीनाङ्गानतिरिक्ताङ्गान्विद्याहीनान्वयोधिकान् |
रूपद्रविणहीनांश्च जातिहीनांस्च नाक्षिपेत् ||१४-११०-६३ (९६४७२)
शपता यत्कृतं पुण्यं शप्यमानं तु गच्छति |
शप्यमानस्य यत्पापं शपन्तमनुगच्छति ||१४-११०-६४ (९६४७३)
नास्तिक्यं वेदनिन्दां च देवतानां च कुत्सनम् |
द्वेषं डंभं च मानं च क्रोधं तैक्ष्ण्यं विवर्जयेत्
||||१४-११०-६५ (९६४७४)
इति श्रीमन्महाभारते आश्वमेधिकपर्वणि वैष्णवधर्मपर्वणि
दशाधिकशततमोऽध्यायः ||११० ||
आश्वमेधिकपर्व -अध्याय १११
||श्रीः ||
१४. १११. अध्यायः १११
Mahabharata -Ashvamedhika Parva -Chapter Topics
कृष्णेन युधिष्ठिरंप्रत्यग्निसृष्टिप्रकारकथनम् ||१ ||
आहवनीयादित्वेन तद्विभागकथनपूर्वकं तत्तन्नामनिर्वचनम् ||२ ||
तथा यज्ञाग्निहोत्रप्रशंसनम् ||३ ||
Mahabharata -Ashvamedhika Parva -Chapter Text
युधिष्ठिर उवाच |
स्वभक्तस्य हृषीकेश धर्माधर्ममजानतः |
धर्मं पुण्यतमं देव पृच्छतः कथयस्व मे ||१४-१११-१ (९६४७५)
भगवानुवाच. १४-१११-२क्ष् (७९८९)
यदेतदग्निहोत्रं वै सृष्टं वर्णत्रयस्य तु |
मन्त्रवद्यद्धुतं सम्यग्विधिना चाप्युपासितम् |
आहिताग्निं नयत्यूर्ध्वं सपत्नीकं सबान्धवम् ||१४-१११-२ (९६४७६)
युधिष्ठिर उवाच. १४-१११-३क्ष् (७९९०)
कथं तद्ब्राह्मणैर्देव होतव्यं क्षत्रियैः कथम् |
वैश्यैर्वा देवदेवेश कथं वा सुहुतं भवेत् ||१४-१११-३ (९६४७७)
कस्मिन्काले कतं कस्य आधेयोऽग्निः सुरोत्तम |
आहितस्य कथं वाऽपि सम्यगाचरणं भवेत् ||१४-१११-४ (९६४७८)
कत्यग्नयः किमात्मानः स्थानं किं कस्य वा विभो |
कतरस्मिन्हुते स्थाने कं व्रजेदाग्निहोत्रिकः ||१४-१११-५ (९६४७९)
अग्निहोत्रनिमित्तं च किमुत्पन्नं पुराऽनघ |
कथमेवाथ हूयन्ते प्रीयन्ते च सुराः कथम् ||१४-१११-६ (९६४८०)
विधिवन्मन्त्रवत्कृत्वा पूजितास्त्वग्नयः कथम् |
कां गतिं वदतांश्रेष्ठ नयन्ति ह्यग्निहोत्रिणः ||१४-१११-७ (९६४८१)
दुर्हुताश्चापि भगवन्नविज्ञातास्त्रयोऽग्नयः |
किमाहिताग्नेः कुर्वन्ति दुश्चीर्णा वाऽपि केशव ||१४-१११-८ (९६४८२)
उत्सन्नाग्निस्तु पापात्मा कां योनिं देव गच्छति |
एतत्सर्वं समासेन भक्त्या ह्युपगतस्य मे |
वक्तुमर्हसि सर्वज्ञ सर्वाधिकं नमोस्तु ते ||१४-१११-९ (९६४८३)
भगवानुवाच. १४-१११-१०क्ष् (७९९१)
शृणु राजन्महापुण्यमिदं धर्मामृतं परम् |
यत्तु तारयते युक्तान्ब्राह्मणानग्निहोत्रिणः ||१४-१११-१० (९६४८४)
ब्र्हमित्वेनासृजं लोकानहमादौ महाद्युते |
सृष्टोऽग्निर्मुखतः पूर्वं लोकानां हितकाम्यया ||१४-१११-११ (९६४८५)
यस्मादग्रे स भूतानां सर्वेषां निर्मितो मया |
तस्मादग्नीत्यभिहितः पुराणज्ञैर्मनीषिभिः ||१४-१११-१२ (९६४८६)
यस्मात्तु सर्वकृत्येषु पूर्वमस्मै प्रदीयते |
आहुतिर्दीप्यमानाय तस्मादग्नीति कथ्यते ||१४-१११-१३ (९६४८७)
यस्माच्च तु नयत्यग्रां गतिं विप्रान्सुपूजितः |
यस्माच्च नयनाद्राजन्देवेष्वग्नीति कथ्यते ||१४-१११-१४ (९६४८८)
तस्माच्च दुर्हुतः सोयमलं भक्षयितुं क्षणात् |
यजमानं नरश्रेष्ठ क्रव्यादोऽग्निस्ततः स्मृतः ||१४-१११-१५ (९६४८९)
सर्वभूतात्मको राजन्देवानामेष वै मुखम् |
प्रथमं मन्मुखात्सृष्टो लोकार्थे पचनः प्रभुः ||१४-१११-१६ (९६४९०)
सृष्टमात्रो जगत्सर्वमत्तुमैच्छत्पुरा खलु |
ततः प्रशमितः सोग्निरूपास्यैव मया पुरा ||१४-१११-१७ (९६४९१)
सततोपासनात्सोयमौपासन इति स्मृतः ||१४-१११-१८ (९६४९२)
आहुतिः सर्वमाख्याति तस्मिन्वसति सोनलः |
आवसथ्य इति ख्यातस्तेनासौ ब्रह्मवादिभिः ||१४-१११-१९ (९६४९३)
तस्मात्पञ्च महायज्ञा वर्तन्ते यस्य धर्मतः |
सोममण्डलमध्येन गतिस्तस्य द्विजन्मनः ||१४-१११-२० (९६४९४)
ते च सप्तर्षयः सिद्धाः संयतेन्द्रियबुद्धयः |
गता ह्यमरसायुज्यं ते ह्यग्न्यर्चनतत्पराः ||१४-१११-२१ (९६४९५)
अपरे चावसथ्यं च पचनाग्निं प्रचक्षते |
तस्मिन्पञ्च महायज्ञा वैश्वदेवश्च वर्तते ||१४-१११-२२ (९६४९६)
स्थलीपाकं च गार्हं च सर्वे चास्मिन्प्रतिष्ठिताः |
गृह्यकर्मवहो यस्मात्तस्माद्गृहपतिस्तु सः ||१४-१११-२३ (९६४९७)
औपासनं चावसथ्यं सभ्यं पचनपावकम् |
आहुर्ब्रह्मविदः केचिन्मतमेतन्ममापि च ||१४-१११-२४ (९६४९८)
अग्निहोत्रप्रकारं च शृणु राजन्समाहितः |
त्रयाणां गुणनामानां वह्नीनामुच्यते मया ||१४-१११-२५ (९६४९९)
गृहाणां हि पतित्वं हि गृहपत्यमिति स्मृतम् |
गृहपत्यं तु यस्यासीत्तत्तस्माद्गार्हपत्यता ||१४-१११-२६ (९६५००)
यजमानं तु यस्मात्तु दक्षिणां तु गतिं नयेत् |
दक्षिणाग्निं तमाहुस्ते दक्षिणायतनं द्विजाः ||१४-१११-२७ (९६५०१)
आहुतिः सर्वमाख्याति हव्यं वै वहनं स्मृतम् |
सर्वहव्यवहो वह्निर्गतश्चाहवनीयताम् ||१४-१११-२८ (९६५०२)
यं चाक्सथ्यं जुहुयान्मूलाग्निं विधिवद्द्विजः |
आवसथ्यं तु तं चाग्निं पचनाग्निं प्रचक्षते ||१४-१११-२९ (९६५०३)
तेषां स भागतो वह्निः सभ्य इत्यभिधीयते |
आवतथ्यस्तु यो वह्निः प्रथमः स प्रजापतिः ||१४-१११-३० (९६५०४)
ब्रह्मा च गार्हपत्योऽग्निस्तस्मिन्नेव हि सोभवत् |
दक्षिणाग्निस्त्वयं रुद्रः क्रोधात्मा चण्ड एव सः ||१४-१११-३१ (९६५०५)
अहमाहवनीयोऽग्निराहोमाद्यस्य वै मुखे |
सभ्योऽग्निः पञ्चमो यस्तु स्कन्द एव नराधिप ||१४-१११-३२ (९६५०६)
पृथिवी गार्हपत्योऽग्निरन्तरिक्षं च दक्षिणः |
स्वर्गमाहवनीयोऽग्निरेवमग्नित्रयं स्मृतम् ||१४-१११-३३ (९६५०७)
वृत्तश्च गार्हपत्योऽग्निर्यस्माद्वृत्ता च मेदिनी |
अर्धचन्द्राकृतिस्तं वै दक्षिणाग्निस्तथा भवेत् ||१४-१११-३४ (९६५०८)
चतुरश्रं ततः स्वर्गं निर्मलं तु निरामयम् |
तस्मादाहवनीयोऽग्निश्चतुरश्रो भवेन्नृप ||१४-१११-३५ (९६५०९)
जुहुयाद्गार्हपत्यं यो भुवं जयति स द्विजः |
जुहोति दक्षिणं यस्तु स जयत्यन्तरिक्षकम् ||१४-१११-३६ (९६५१०)
पृथिवीमन्तरिक्षं च दिवं ऋषिगणैः सह |
जयत्याहवनीयं यो जुहुयाद्भक्तिमान्नरः ||१४-१११-३७ (९६५११)
आभिमुख्येन होमस्तु यस्य यज्ञेषु वर्तते |
तेनाप्याहवनीयत्वं गतो वह्निर्महाद्युतिः ||१४-१११-३८ (९६५१२)
आहोमादग्निहोत्रेषु यज्ञैर्वा यत्र सर्वशः |
यस्मात्तस्मात्प्रवर्तन्ते ततो ह्याहवनीयता ||१४-१११-३९ (९६५१३)
यस्त्वावसथ्यं जुहुयान्मूलाग्निं विधिवद्द्विजः |
स तु सप्तर्षिलोकेषु सपत्नीकः प्रमोदते ||१४-१११-४० (९६५१४)
इष्टो भवति सर्वाग्नेरग्निहोत्रं च तद्भवेत् |
त्राणाद्वै यजमानस्य ह्यग्निहोत्रमिति स्मृतम् ||१४-१११-४१ (९६५१५)
होइज्येषु विषादो वै विषादो दुःखमुच्यते |
दुःखं तापत्रयं प्रोक्तं तापं हि नरकं विदुः ||१४-१११-४२ (९६५१६)
आध्यात्मिकं चाधिदैवमाधिभौतिकमेव च |
एतत्तापत्रयं प्रोक्तमात्मविद्भिर्नराधिप ||१४-१११-४३ (९६५१७)
यस्माद्वै त्रायते दुःखाद्यजमानं हुतोऽनलः |
तस्मात्तु विधिवत्प्रोक्तमग्निहोत्रमिति श्रुतौ ||१४-१११-४४ (९६५१८)
तदग्निहोत्रं सृष्टं वै ब्रह्मणा लोककर्तृणा |
वेदाश्चाप्यग्निहोत्रं तु जज्ञिरे स्वयमेव तु ||१४-१११-४५ (९६५१९)
अग्निहोत्रफला दारा दत्तभुक्तफलं धनम् ||
रतिपुत्रफला दारा दत्तभुक्तफलं धनम् ||१४-१११-४६ (९६५२०)
त्रिवेदमन्त्रसंयोगादग्निहोत्रं प्रवर्तते |
ऋग्यजुःसामभिः पुण्यैः स्थाप्यते सूत्रसंयुतैः ||१४-१११-४७ (९६५२१)
वसन्ते ब्राह्मणस्य स्यादाधेयोऽग्निर्नराधिप |
वसन्तो ब्राह्मणो ज्ञेयो वेदयोनिः स उच्यते ||१४-१११-४८ (९६५२२)
अग्न्याधेयं तु येनाथ वसन्ते क्रियतेऽनघ |
तस्य श्रीर्बह्मवृद्धिश्च ब्राह्मणस्य विवर्धते ||१४-१११-४९ (९६५२३)
क्षत्रियस्याग्निराधेयो ग्रीष्मे श्रेष्ठः स वै नृप |
येनाधानं तु वै ग्रीष्मे क्रियते तस्य वर्धते |
श्रीः प्रजाःक पशवश्चैव वित्तं तेजो बलं यशः ||१४-१११-५० (९६५२४)
शरदृतौ तु वैश्यस्य ह्याधानीयो हुताशनः |
शरद्रात्रं स्वयं वैश्यो वैश्ययोनिः स उच्यते ||१४-१११-५१ (९६५२५)
शरद्याधानमेवं वै क्रियते येन पाण्डव |
तस्यापि श्रीः प्रजाऽऽयुश्च पशवोऽर्थश्च वर्धते ||१४-१११-५२
(९६५२६)
पशवः सर्व एवैते त्रिभिः सर्वैरलङ्कृताः |
अग्निहोत्रा ह्यवर्तन्ते तैरेव ध्रियते जगत् ||१४-१११-५३ (९६५२७)
ग्राम्यारण्याश्च पशवो पृक्षाश्चैव तृणानि च |
फलान्योषधयश्चापि अग्निहोत्रकृते हविः ||१४-१११-५४ (९६५२८)
रसाः स्नेहास्तथा गन्धा रत्नानि मणयस्तथा |
काञ्चनानि च लोहानि ह्यग्निहोत्रकृतेऽभवन् ||१४-१११-५५ (९६५२९)
आयुर्वेदो धनुर्वेदो मीमांसा न्यायविस्तरः |
धर्मशास्त्रं च तत्सर्वमग्निहोत्रकृते कृतम् ||१४-१११-५६ (९६५३०)
छन्दः शिक्षा च कल्पश्च तथा व्याकरणानि च |
शास्त्रं ज्योतिर्निरुक्तं चाप्यग्निहोत्रकृते कृतम् ||१४-१११-५७ (९६५३१)
इतिहासपुराणं च गाथाश्चोपनिषत्तथा |
आथर्वणानि कर्माणि चाग्निहोत्रकृते कृतम् ||१४-१११-५८ (९६५३२)
यच्चैतस्यां पृथिव्यां वै किंचिदस्ति चराचरम् |
तत्सर्वमग्निहोत्रस्य कृते सृष्टं स्वयंभुवा ||१४-१११-५९ (९६५३३)
अग्निहोत्रस्य दर्शस्य पूर्णमासस्य चाप्यथ |
युपेष्टिपशुबन्धानां सोमपानक्रियावताम् ||१४-१११-६० (९६५३४)
तिथिनक्षत्रयोगानां मुहूर्तकरणात्मकम् |
कालस्य वेदनार्थं तु ज्योतिर्ज्ञानं पुराऽनघ ||१४-१११-६१ (९६५३५)
ऋग्यजुः साममन्त्राणां श्लोकतत्वार्थचिन्तनात् |
प्रत्यापत्तिविकल्पानां छन्दोज्ञानं प्रल्पितम् ||१४-१११-६२ (९६५३६)
वर्णाक्षरपदार्थानां सन्धिलिङ्गं प्रकीर्तितम् |
नामधातुविवेकार्थं पुरा व्याकरणं स्मृतम् ||१४-१११-६३ (९६५३७)
यूपवेद्यध्वरार्थं तु प्रोक्षणश्रवणाय तु |
यज्ञदैवतयोगार्थं शिक्षाज्ञानं प्रकल्पितम् ||१४-१११-६४ (९६५३८)
यज्ञपात्रपवित्रार्थं द्रव्यसंभारणाय च |
सर्वयज्ञविकल्पाय पुराकल्पं प्रकल्पितम् ||१४-१११-६५ (९६५३९)
नामधातुविकल्पानां तत्वार्थनियमाय च |
सर्ववेदनिरुक्तानां निरुक्तमृषिभिः कृतम् ||१४-१११-६६ (९६५४०)
वेद्यर्थं पृथिवी सृष्टा संभारार्थ तथैव च |
इध्मार्थमथ यूपार्थं ब्रह्मा चक्रे वनस्पतिम् ||१४-१११-६७ (९६५४१)
ग्राम्यारण्याश्च पशवो जायन्ते यज्ञकारणात् |
मन्त्राणां विनियोगं च प्रोक्षितं श्रपणं तथा ||१४-१११-६८ (९६५४२)
अनुयाजप्रयाजाश्च मरुतां शंसिनस्तथा |
औद्गात्रं चैव साम्नां वै प्रतिप्रस्थानमेव च ||१४-१११-६९ (९६५४३)
विष्णुक्रमाणां क्रमणं दक्षिणावभृथं तथा |
त्रिकासमर्चनं चैव स्यानेषूपहृतं तथा ||१४-१११-७० (९६५४४)
देवताग्रहणं मोक्षं हविषां श्रपणं तथा |
नावबुद्ध्यन्ति ये विप्रा निन्दन्ति च पशोर्वधम् |
ते यान्ति नरकं घोरं रौरवं तमसाऽऽवृतम् ||१४-१११-७१ (९६५४५)
शतवर्षसहस्राणि तत्र स्थित्वा नराधमाः |
कृमिर्भिर्भक्ष्यमाणाश्च तिष्ठेयुः पूयशोणिते ||१४-१११-७२ (९६५४६)
वृक्षा यूपत्वमिच्छन्ति पशुत्वं पशवस्तथा |
तृणानीच्छन्ति बर्हिष्ट्वमोषध्यश्च हविष्यताम् |
सोमत्वं च लताः सर्वा वेदित्वं च वसुंधर ||१४-१११-७३ (९६५४७)
यस्मात्पशुत्वमिच्छन्ति पशवः स्वर्गलिप्सया |
तस्मात्पशुवधे हिंसा नास्ति यज्ञेषु पाण्डव ||१४-१११-७४ (९६५४८)
यूपास्तन्मन्त्रसंस्कारैर्दर्भाश्च पशवस्तथा |
यजमानेन सहिताः स्वर्गं यान्ति नरेश्वर ||१४-१११-७५ (९६५४९)
यावत्कालं हि यज्वा वै स्वर्गलोके महीयते |
तावत्कालं प्रमोदन्ते पशवो ह्यध्वरे हताः ||१४-१११-७६ (९६५५०)
अहिंसा वैदिकं कर्म ब्रह्मकर्मेति तत्कृतम् |
वेदोक्तं ये न कुर्वन्ति हिंसाबुद्ध्या क्रतून्द्विजाः |
सद्यः शूद्रत्वामायान्ति प्रेत्य चण्डालतामपि ||१४-१११-७७ (९६५५१)
गावो यज्ञार्थमुत्पन्ना दक्षिणार्थं तथैव च |
सुवर्णं रजतं चैव पात्रक्रुभार्थमेव च ||१४-१११-७८ (९६५५२)
दर्भाः संस्तरणार्तं तु रक्षसां रक्षणाय च |
पजनार्थं द्विजाः सृष्टास्तारका दिवि देवताः ||१४-१११-७९ (९६५५३)
क्षत्रिया रक्षणार्थं तु वैश्या वार्तानिमित्ततः |
शुश्रूषार्थं त्रयाणां वै शूद्राः सृष्टाः स्वयंभुवा ||१४-१११-८०
(९६५५४)
एवमेतज्जगत्सर्वमग्निहोत्रकृते कृतम् |
नावबुध्यन्ति ये चैव नरास्तु तमसा वृताः ||१४-१११-८१ (९६५५५)
ते यान्ति नरकं घोरं रौरवं नाम विश्रुतम् |
रौरवाद्विप्रयुक्तास्तु कृमियोनिं व्रजन्ति ते ||१४-१११-८२ (९६५५६)
यथोक्तमग्निहोत्राणां शुश्रूषन्ति च ये द्विजाः |
तैर्दत्तं सहुतं चेष्टं दत्तमध्यापितं भवेत् ||१४-१११-८३ (९६५५७)
एवमिष्टं च पूर्तं च यद्विप्रैः क्रियते नृप |
तत्सर्वं सम्यगाहृत्य चादित्ये स्थापयाम्यहम् ||१४-१११-८४ (९६५५८)
मया स्थापितमादित्ये लोकस्य सुकृतं हि तत् |
धारयेद्यत्सहस्रांशुः सुकृतं ह्यग्निहोत्रिणाम् ||१४-१११-८५ (९६५५९)
यावत्कालं तु तिष्ठन्ति लोके चाप्यग्निहोत्रिणः |
तावदेव हि पुण्येन दीप्यते रविणाऽम्बरे ||१४-१११-८६ (९६५६०)
स्वर्गे स्वर्गं गतानां तु वीर्याद्भवति वीर्यवान् |
तत्र ते ह्युपभुञ्जन्ति ह्यग्निहोत्रस्य तत्फलम् |
समानरूपा देवानां तिष्ठन्त्याबूतसंप्लवम् ||१४-१११-८७ (९६५६१)
वृथाऽग्निना च ये केचिद्दह्यन्ते ह्यग्निहोत्रिणः |
न तेऽग्निहोत्रिणां लोके मानसाऽपि व्रजन्ति ते ||१४-१११-८८ (९६५६२)
वीरघ्रास्तु दुराचारा दरिद्रास्तु नराधमाः |
विकला व्याधिताश्चापि जायन्ते शूद्रयोनिषु ||१४-१११-८९ (९६५६३)
तस्मादप्रोषितैर्नित्यमग्निहोत्रं द्विजातिभिः |
होतव्यं विधिवद्राजन्नूर्ध्वामिच्छन्ति ये गतिम् ||१४-१११-९० (९६५६४)
आत्मवन्नावमन्तव्यमग्निहोत्रं युधिष्ठिर |
न त्याज्यं क्षणिमप्येतदग्निहोत्रं युधिष्ठिर ||१४-१११-९१ (९६५६५)
वृद्धत्वेऽप्यग्निहोत्रं ये गृह्णन्ति विधिवद्द्विजाः |
शूद्रान्नाद्विरता दान्ताः संयतेन्द्रियबुद्धयः ||१४-१११-९२ (९६५६६)
पञ्चयज्ञपरा नित्यं लोभक्रोधविवर्जिताः |
द्विकालमतिथींश्चैव पूजयन्ति च भक्तितः ||१४-१११-९३ (९६५६७)
तेऽपि सूर्योदयप्रख्यैर्विमानैर्वायुवेगिभिः |
मम लोके प्रमोदन्ते दृष्ट्वा मां च युधिष्ठिर ||१४-१११-९४ (९६५६८)
मन्वन्तरं च तत्रैकं मोदिता द्विजसत्तमाः |
इह मानुष्यके लोके जायन्ते द्विजसत्तमाः ||१४-१११-९५ (९६५६९)
बालाहिताग्रयो ये च शूद्रान्नाद्विरताः सदा |
क्रोधलोभविनिर्मुक्ताः प्रातस्स्नानपरायणाः |
यथोक्तमग्निहोत्रं वै जुह्वते विजितेन्द्रियाः ||१४-१११-९६ (९६५७०)
आतिथेयाः सदा सौम्या द्विकालं मत्परायणाः |
ते यान्त्यपुनरावृत्तिं भित्त्वा चादित्यमण्डलम् ||१४-१११-९७ (९६५७१)
मम लोकं सपत्नीका यानैः सूर्योदयप्रभैः |
तत्र बालार्कसङ्काशाः कामगाः कामरूपिणः ||१४-१११-९८ (९६५७२)
ऐश्वर्यगुणसंपन्नाः क्रीडन्ति च यथासुखम् |
इत्येषामाहिताग्नीनां विभूतिः पाण्डुनन्दन ||१४-१११-९९ (९६५७३)
श्रुतिं केचिन्निन्दमानाः श्रुतिं दूष्यन्त्यबुद्धयः |
प्रमाणं न च कुर्वन्ति ये यान्तीहापि दुर्गतिम्. १४-१११-१०० (९६५७४)
प्रमाणमितिहासं च वेदान्कुर्वति ये द्विजाः |
ते यान्त्यमरसायुज्यं नित्यमास्तिक्यबुद्धयः ||||१४-१११-१०१ (९६५७५)
इति श्रीमन्महाभारते आश्वमेधिकपर्वणि वैष्णवधर्मपर्वणि
एकादशाधिकशततमोऽध्यायः ||
आश्वमेधिकपर्व -अध्याय ११२
||श्रीः ||
१४. ११२. अध्यायः ११२
Mahabharata -Ashvamedhika Parva -Chapter Topics
कृष्णेन युधिष्ठिरंप्रति चान्द्रायणविधिनिरूपणपूर्वकं
तदाचरणफलकथनम् ||१ ||
Mahabharata -Ashvamedhika Parva -Chapter Text
युधिष्ठिर उवाच |
चक्रायुध नमस्तेऽस्तु देवेश गरुडध्वज |
चान्द्रायणविधिं पुण्यमाख्याहि भगवन्मम ||१४-११२-१ (९६५७६)
भगवानुवाच. १४-११२-२क्ष् (७९९२)
शृणु पाण्डव तत्वेन सर्वपापप्रणाशनम् |
पापिनो येन शुद्ध्यन्ति तत्ते वक्ष्यामि सर्वशः ||१४-११२-२ (९६५७७)
ब्राह्मणः क्षत्रियो वाऽपि वैश्यो वा चरितव्रतः |
यथावत्कर्तुकामो वै तस्यैवं प्रथमा क्रिया ||१४-११२-३ (९६५७८)
शोधयेत्तु शरीरं स्वं पञ्चगव्येन यन्त्रितः |
सशिरः कृष्णपक्षस्य ततः कुर्वीत वापनम् ||१४-११२-४ (९६५७९)
शुक्लवासाः शुचिर्भूत्वा मौञ्जीं बध्नीत मेखलाम् |
पालाशद्ण्डमादाय ब्रह्मचारिव्रते स्थितः ||१४-११२-५ (९६५८०)
कृतोपलासः पूर्वं तु शुक्लप्रतिपदि द्विजः |
नदीसंगमतीर्थेषु शुचौ देशे गृहेऽपि वा |
गोमयेनोपलिप्रेऽथ स्थण्डिलेऽग्निं निधापयन् ||१४-११२-६ (९६५८१)
आघारावाज्यभागौ च प्रणवं व्याहृतीस्तथा |
वारुणं चैव पञ्चैव हुत्वा सर्वान्यथाक्रमम् ||१४-११२-७ (९६५८२)
सत्याय विष्णवे चेति ब्रह्मर्षिभ्योऽथ ब्रह्मणे |
विश्वेभ्यो हि च देवेभ्यः सप्रजापतये तथा ||१४-११२-८ (९६५८३)
षडुक्त्वा जुहुयात्पश्चात्प्रायश्चित्ताहुतिं द्विजः |
अतः समापयेदग्निं शान्तिं कृत्वाऽथ पौष्टिकिम् ||१४-११२-९ (९६५८४)
प्रणम्य् चाग्निं सोमं च भस्म दिग्ध्वा यथाविधि |
नदीं गत्वा विशुद्धात्मा सोमाय वरुणाय च |
आदित्याय नमस्कृत्वा ततः स्नायात्समाहितः ||१४-११२-१० (९६५८५)
उत्तीर्योदकमाचम्य चासीनः पूर्वतोमुखः |
प्राणायामं ततः कृत्वा पवित्रैरभिषेचनम् ||१४-११२-११ (९६५८६)
आचान्तस्त्वमिवीक्षेत ऊर्ध्वबाहुर्दिवाकरम् |
कृताञ्जलिपुटः स्थित्वा कुर्याच्चैव प्रदक्षिणम् ||१४-११२-१२ (९६५८७)
नारायणं वा रुद्रं वा ब्रह्मणमथवाऽपि च |
वारुणं मन्त्रमूक्तं वा प्राग्भोजनमथापि वा ||१४-११२-१३ (९६५८८)
वीरघ्नमृषभफं वाऽपि तथा चाप्यघमर्षणम् |
गायत्रीं मम देवीं वा सावित्रीं वा जपेत्ततः |
शतं वाऽष्टशतं वाऽपि सहस्रमथवा परम् ||१४-११२-१४ (९६५८९)
ततो मध्याह्नकाले वै पायसं यावकं हि वा |
पाचयित्वा प्रयत्नेन प्रयतः सुसमाहितः ||१४-११२-१५ (९६५९०)
पात्रं तु सुसमादाय सौवर्णं राजतं तु वा |
ताम्रं वा मृन्मयं वापि औदुंबरमथापि वा. १४-११२-१६ (९६५९१)
वृक्षाणां याज्ञियानं तु पर्णैरार्द्रैरकुत्सितैः |
पुटकेन तु गुप्तेनि चरेद्भैक्षं समाहितः ||१४-११२-१७ (९६५९२)
ब्राह्मणानां गृहाणां तु सप्तानां नापरं व्रजेत् |
गोदोहमात्रं तिष्ठित्तु वाग्यतः संयतेन्द्रियः ||१४-११२-१८ (९६५९३)
न हसेन्न च वीक्षेत नाभिभाषेत वा स्त्रियम् ||१४-११२-१९ (९६५९४)
दृष्ट्वा मूत्रं पुरीषं वा चण्डालं वा रजस्वलाम् |
पतितं च तथा श्वानमादित्यमवलोकयेत् ||१४-११२-२० (९६५९५)
यो हि पादुकमारुह्य सर्वदा प्रचरेद्द्विजः |
तं दृष्ट्वा पापकर्माणमादित्यमवलोकयेत् ||१४-११२-२१ (९६५९६)
ततस्त्वावसथं प्राप्तो भिक्षां निक्षिप्य भूतले |
प्रक्षाल्य पादावाजान्वोर्हस्तावाकूर्परं पुनः |
आचम्य वारिणा तेन वह्निं विप्रांश्च पूययेत् ||१४-११२-२२ (९६५९७)
पञ्च सप्ताथवा कुर्याद्भागान्भैक्षस्य तस्य वै |
तेषामन्यतमं पिण्डमादित्याय निवेदयेत् ||१४-११२-२३ (९६५९८)
ब्रह्मणे चाग्नये चैव सोमाय वरुणाय च |
विश्वेभ्यश्चैव देवेभ्यो दद्यादन्नं यथाक्रमम् ||१४-११२-२४ (९६५९९)
अवशिष्टमथैकं तु वक्त्रमात्रं प्रकल्पयेत् ||१४-११२-२५ (९६६००)
अङ्गुल्यग्रे स्थितं पिण्डं गायत्र्या चाभिमन्त्रयेत् |
अङ्गुलीभिस्त्रिभिः पिण्डं प्राश्नीयात्प्राङ्मुखःक शुचिः. १४-११२-२६ (९६६०१)
यथा च वर्धते सोमो ह्रसते च यथा पुनः |
तथा पिण्डाश्च वर्धन्ते ह्रसन्ते च दिनेदिने ||१४-११२-२७ (९६६०२)
त्रिकालं स्नानमस्योक्तं द्विकालमथवा सकृत् |
ब्रह्मचारी सदा वाऽपि न च वस्त्रं प्रपीडयेत् ||१४-११२-२८ (९६६०३)
स्थान न दिवसं तिष्ठेद्रात्रौ वीरासनं व्रजेत् |
भवेत्स्थण्डिलशायी वाऽप्यथा वृक्षमूलिकः ||१४-११२-२९ (९६६०४)
वल्कलं यदि वा क्षौमं शाणं कार्पासकं तथा |
आच्छादनं भवेत्तस्य वस्त्रार्थं पाण्डुनन्दन ||१४-११२-३० (९६६०५)
एवं चान्द्रायणे पूर्णे मासस्यान्ते प्रयत्नवान् |
ब्राह्मणान्भोजयेद्भक्त्या दद्याच्चैव च दक्षिणाम् ||१४-११२-३१ (९६६०६)
चान्द्रायणेन चीर्णेन यत्कृतं तेन दुष्कृतम् |
तत्सर्वं तत्क्षणादेव भस्मीभवति काष्ठवत् ||१४-११२-३२ (९६६०७)
ब्रह्महत्या च गोहत्या सुवर्णस्तैन्यमेव च |
भ्रूणहत्या सुरापानं गुरोर्दारव्यतिक्रमः ||१४-११२-३३ (९६६०८)
एवमन्यानि पापानि पातकीयानि यानि च |
चान्द्रायणेन नश्यन्ति वायुना पांसवो यथा ||१४-११२-३४ (९६६०९)
अनिर्दशाया गोः क्षीरमौष्ठ्रमाविकमेव च |
मृतसूतकयोश्चान्नं भुक्त्वा चान्द्रायणं चरेत् ||१४-११२-३५ (९६६१०)
उपपातकिनश्चान्नं पतितान्नं तथैव च |
शूद्रस्योच्छेषणं चैव भुक्त्वा चान्द्रायणं चरेत् ||१४-११२-३६ (९६६११)
आकाशस्थं तु हस्तस्थमधः स्रस्तं तथैव च |
परहस्तस्थितं चैव भुक्त्वा चान्द्रायणं चरेत् ||१४-११२-३७ (९६६१२)
अथाग्रेधिषोरन्नं दिधिषूपपतेस्तता |
परिवेत्तुस्तथा चान्नं परिवित्तान्नमेव च ||१४-११२-३८ (९६६१३)
कुण्डान्नं गोलकान्नं च देवलान्नं तथैव च |
तथा पुरोहितस्यान्नं भुक्त्वा चान्द्रायणं चरेत् ||१४-११२-३९ (९६६१४)
सुराऽऽसवं विषं सर्पिर्लाक्षा लवणमेव च |
तैलं चापि च विक्रीणन्द्विजश्चान्द्रायणं चरेत् ||१४-११२-४० (९६६१५)
एकोद्दिष्टं तु यो भुङ्क्ते जनमध्यगतोऽपि यः |
भिन्नभाण्डेषु यो भुङ्क्ते द्विजश्चान्द्रायणं चरेत् ||१४-११२-४१ (९६६१६)
यो भुङ्क्तेऽनुपनीतेन यो भुङ्क्ते च स्त्रिया सह |
कन्यया सह यो भुङ्क्ते द्विजश्चान्द्रायणं चरेत् ||१४-११२-४२ (९६६१७)
उच्छिष्टं स्थापयेद्विप्रो यो मोहाद्भोजनान्तरे |
दद्याद्वा यदि वा मोहाद्विजश्चान्द्रायणं चरेत् ||१४-११२-४३ (९६६१८)
तुम्बकोशातकं चैव पलाण्डुं गृञ्जनं तथा |
छत्राकं लशुनं चैव भुक्त्वा चान्द्रायणं चरेत् ||१४-११२-४४ (९६६१९)
द्विजः पर्युषितं चान्नं पक्वं परगृहागतम् |
विपक्वं च तथा मांसं भुक्त्वा चान्द्रायणं चरेत् ||१४-११२-४५ (९६६२०)
उदक्यया शुना वाऽपि चण्डालैर्वा द्विजोत्तमः |
दृष्टमन्नं तु भुञ्जानो द्विजश्चान्द्रायणं चरेत् ||१४-११२-४६ (९६६२१)
****तत्पुरा विशुद्ध्यर्थमृषिभिश्चरितं व्रतम् |
पावनं सर्वभूतानां पुण्यं पाण्डवचोदितम् ||१४-११२-४७ (९६६२२)
एतेन वसवो रुद्राश्चादित्याश्च दिवं गताः |
एतदद्य परं गुह्यं पवित्रं पापनाशनम् ||१४-११२-४८ (९६६२३)
यथोक्तमेतद्यः कुर्याद्द्विजः पापप्रणाशनम् ||
स दिवं याति पूतात्मा निर्मलादित्यसंनिभः ||||१४-११२-४९ (९६६२४)
इति श्रीमन्महाभारते आश्वमेधिकपर्वणि वैष्णवधर्मपर्वणि
द्वादशाधिकशततमोऽध्यायः ||११२ ||
आश्वमेधिकपर्व -अध्याय ११३
||श्रीः ||
१४. ११३. अध्यायः ११३
Mahabharata -Ashvamedhika Parva -Chapter Topics
कृष्णेन युधिष्ठिरंप्रति कार्तिकादिद्वादशमासेषु
एकभुक्तव्रताचरणप्रकारनिरूपणपूर्वकं तत्फलकथनम् ||१ ||
Mahabharata -Ashvamedhika Parva -Chapter Text
वैशम्पायन उवाच |
केशवेनैवमुक्ते तु चान्द्रायणविधिक्रमे |
अपृच्छत्पुनरन्यांश्च धर्मान्धर्मात्मजो नृप ||१४-११३-१ (९६६२५)
युधिष्ठिर उवाच. १४-११३-२क्ष् (७९९३)
सर्वभूतपते श्रीमन्सर्वभूतनमस्कृत |
सर्वभूतहितं धर्मं सर्वज्ञ कथयस्व नः ||१४-११३-२ (९६६२६)
भगवानुवाच. १४-११३-३क्ष् (७९९४)
यद्दरिद्रजनस्यापि स्वर्ग्यं सुखकरं भवेत् |
सर्वपापप्रशमनं तच्छृणुष्व युधिष्ठिर ||१४-११३-३ (९६६२७)
कार्तिकाद्यास्तु ये मासा द्वादशैव प्रकीर्तिताः |
तेष्वेकबुक्तनिमः सर्वेषामुच्यते मया ||१४-११३-४ (९६६२८)
कार्तिके यस्तु वै मासे नन्दायां संयतेन्द्रियः |
एकभुक्तेन मद्भक्तो मासमेकं तु वर्तते ||१४-११३-५ (९६६२९)
जलं वा न पिबेन्मासे नान्तरं भोजनात्परम् |
आदित्यरूपं मां नित्यमर्चयन्सुसमाहितः ||१४-११३-६ (९६६३०)
व्रतान्ते भोजयेद्विप्रान्दक्षिणां सम्प्रदाय च |
क्रोधलोभविनिर्मुक्तस्तस्य पुण्यफलं शृणु ||१४-११३-७ (९६६३१)
विधिवत्कपिलादाने यत्पुण्यं समुदाहृतम् |
तत्पुण्यं समनुप्राप्य सूर्यकलोके महीयते |
ततश्चापि च्युतः कालात्पुरुषेषूपजायते ||१४-११३-८ (९६६३२)
मार्गशीर्षं तु यो मासमेकभुक्तेन वर्तते |
कामं क्रोधं च लोभं च परित्यज्य यथाविधि ||१४-११३-९ (९६६३३)
स्नात्वा चादित्यरूपं मामर्ययेन्नियतेन्द्रियः |
जपेच्चैव च गायत्रीं मामिकां वाग्यतेन्द्रियः ||१४-११३-१० (९६६३४)
मासे परिसमाप्ते तु भोजयित्वा द्विजाञ्शुचिः |
तानर्चयति मद्भक्त्या तस्य पुण्यफलं शृणु ||१४-११३-११ (९६६३५)
अग्निहोत्रे कृते पुण्यमाहिताग्नेस्तु यद्भवेत् |
तत्पुण्यं फलमासाद्य योनेनांऽबरशोभिना |
सह सप्तर्षिलोकेषु यथाकामं यथासुखम् ||१४-११३-१२ (९६६३६)
ततश्चापि च्युतः कालाद्धरिवर्षेषु जायते |
तत्र प्रकामं क्रीडित्वा राजा पश्चाद्भविष्यति ||१४-११३-१३ (९६६३७)
******** क्षिपेदेवमेकभुक्तेन यो नरः |
अर्चयन्नेव मां नित्यं मद्गतेनान्तरात्मना ||१४-११३-१४ (९६६३८)
अहिंसासत्यसहितः क्रोधहर्षविवर्जितः |
एवं युक्तस्य राजेन्द्र शृणु यत्फलमुत्तमम् ||१४-११३-१५ (९६६३९)
विप्रातिथ्यसहस्रेषु यत्पुण्यं समुदाहृतम् |
तत्पुण्यं समनुप्राप्य शक्रलोके महीयते ||१४-११३-१६ (९६६४०)
अवतीर्णस्ततः कालादिलावर्षेषु जायते |
तत्र स्थित्वा चिरं कालमस्मिन्विप्रो भविष्यति ||१४-११३-१७ (९६६४१)
माघमासं सदा यस्तु वर्तते चैकभुक्ततः |
मदर्चनपरो भूत्वा डंभक्तोधविवर्जितः |
मामिकामपि सावित्रीं सन्ध्यायां तु जपेद्बुधः ||१४-११३-१८ (९६६४२)
दत्त्वा दु दक्षिणामन्ते भोजयित्वा द्विजानपि |
नमिस्करोति तान्भक्त्या मद्गतेनान्तरात्मना |
त्रिकालस्नानयुक्तस्य तस्य पुण्यफलं शृणु ||१४-११३-१९ (९६६४३)
नीलकण्ठप्रयुक्तेन योनेनांऽबरशोभिना |
पितृलोकं व्रजेच्छ्रीमान्सेव्यमानोप्सरोणैः ||१४-११३-२० (९६६४४)
तत्र प्रकामं क्रीडित्वा भद्राश्वेषूपजायते |
ततश्च्युतश्चतुर्वेदी विप्रो भवति भूतले ||१४-११३-२१ (९६६४५)
यश्चरेत्फाल्गुनं मासमेकभुक्तो जितेन्द्रियः |
नमो ब्रह्मण्यदेवायेत्येतन्मन्त्रं जपेत्सदा ||१४-११३-२२ (९६६४६)
पायसं भोजयेद्विप्रान्व्रतान्ते संयतेन्द्रियः |
मदर्चनपरोऽक्रोधस्तस्य पुण्यफलं शृणु ||१४-११३-२३ (९६६४७)
विमानं सारसैर्युक्तमारूढः कामगामि च |
नक्षत्रलोके रमते नक्षत्रसदृशाकृतिः ||१४-११३-२४ (९६६४८)
ततश्चापि च्युतः कालात्केतुमालेषु जायते |
तत्र प्रकामं क्रीडित्वा मानुषेषु मुनिर्भवेत् ||१४-११३-२५ (९६६४९)
चैत्रमासं तु यो राजन्नेकभुक्तेन वर्तते |
ब्रह्मचारी च मद्भक्त्या तस्य पुण्यफलं शृणु ||१४-११३-२६ (९६६५०)
यदग्निहोत्रिणः पुण्यं यथोक्तं व्रतचारिणः |
तत्पुण्यफकलमासाद्य चन्द्रलोके महीयते ||१४-११३-२७ (९६६५१)
ततोऽवतीर्णो जायेत वर्षे रमणके पुनः |
भुक्त्वा कामांस्ततस्तस्मिन्निह राजा भविष्यति ||१४-११३-२८ (९६६५२)
वैशाखे यस्तु मासे वै ह्येकभुक्तेन वर्तते |
द्विजमग्रासने कृत्वा भुञ्जन्भूमौ च वाग्यतः ||१४-११३-२९ (९६६५३)
नमो ब्रह्मण्यदेवायेत्यर्चयित्वा दिवाकरम् |
व्रतान्ते भोजयेद्विप्रांस्तस्य पुण्यफलं शृणु ||१४-११३-३० (९६६५४)
फलं यद्विधिवत्प्रोक्तमग्निष्टोमातिरात्रयोः |
तत्पुण्यफलमासाद्य देवलोके महीयते ||१४-११३-३१ (९६६५५)
ततो हैमवते वर्षे जायते कालपर्ययात् |
तत्र प्रकामं क्रीडित्वा विप्रः पश्चाद्भविष्यति ||१४-११३-३२ (९६६५६)
ज्येष्ठमासं तु यो विप्रो ह्येकभुक्तेन वर्तते |
विप्रमग्रासने कृत्वा भूमौ भुञ्जन्यथाविधि ||१४-११३-३३ (९६६५७)
नमो ब्रह्मण्यदेवायेत्युच्चरन्मां समाहितः |
डंभानृतविनिर्मुक्तस्तस्य पुण्यफलं शृणु ||१४-११३-३४ (९६६५८)
चीर्णे चान्द्रायणे सम्यग्यत्पुण्यं समुदाहृतम् |
तत्पुण्यफलमासाद्य देवलोके महीयते ||१४-११३-३५ (९६६५९)
अथोत्तरकुरौ वर्षे जायते निर्गतस्ततः |
ततश्चापि च्युतः कालादिह लोके द्विजो भवेत् ||१४-११३-३६ (९६६६०)
आषाढमासं यो राजन्नेकभुक्तेन वर्तते |
ब्रह्मचारी जितक्रोधो मदर्चनपरायणः ||१४-११३-३७ (९६६६१)
विप्रमग्रासने कृत्वा भूमौ भुञ्जञ्जितेन्द्रियः |
कृत्वा त्रिषवणं स्नानमष्टाक्षरविधानतः ||१४-११३-३८ (९६६६२)
व्रतान्ते भोजयेद्विद्वान्पायसेन युधिष्ठिर |
गुडोदनेन राजेन्द्र तस्य पुण्यफलं शृणु ||१४-११३-३९ (९६६६३)
कपिलाशतदानस्य यत्पुण्यं पाण्डुनन्दन |
तत्पुण्यफलमासाद्य देवलोके महीयते ||१४-११३-४० (९६६६४)
ततोऽवतीर्णः काले तु शाकद्वीपे तु जायते |
ततश्चापि च्युतः कालादिह विप्रो भविष्यति ||१४-११३-४१ (९६६६५)
श्रावणं यः क्षिपेन्मासमेकभुक्तेन वर्तते |
नमो ब्रह्मण्यदेवायेत्युक्त्वा मामर्चयेत्सदा |
विप्रमाग्रासने कृत्वा भूमौ भुञ्जन्यथाविधि ||१४-११३-४२ (९६६६६)
पायसेनार्चयन्विप्राञ्जितक्रोधो जितेन्द्रियः |
लोभमोहविनिर्मुक्तस्तस्य पुण्यफलं शृणु ||१४-११३-४३ (९६६६७)
कपिलादानस्य यत्पुण्यं विधिदत्तस्य पाण्डव |
तत्पुण्यं सम***प्राप्य शक्रलोके महीयते ||१४-११३-४४ (९६६६८)
ततश्चापि च्युत कालात्कुशद्वीपे प्रजायते |
तत्रि प्रकामं क्रीडित्वा विप्रो भवति मानुषे ||१४-११३-४५ (९६६६९)
यस्तु भाद्रपदं मासमेकभुक्तेन वर्तते |
ब्रह्मचारी जितक्रोधः सत्यसन्धो जितेन्द्रियः ||१४-११३-४६ (९६६७०)
विप्रमग्रासने कृत्वा पाकभेदविवर्जितः |
नमो ब्रह्मण्यदेवायेत्युक्त्वाऽस्य चरणौ स्पृशेत् ||१४-११३-४७ (९६६७१)
तिलानपि घृतं वाऽपि व्रतान्ते दक्षिमां ददत् |
मद्भक्तस्य नरश्रेष्ठ तस्य पुण्यफलं शृणु ||१४-११३-४८ (९६६७२)
यत्फलं विधिवत्प्रोक्तं राजसूयाश्वमेधयोः |
तत्पुण्यफलमासाद्य शक्रलोके महीयते ||१४-११३-४९ (९६६७३)
ततश्चापि च्युतः कालाज्जायते धनदालये |
तत्र प्रकामं क्रीकडित्वा राजा भवति मानुषे ||१४-११३-५० (९६६७४)
यश्चाप्याश्वयुजं मासमेकभुक्तेन वर्तते |
मद्गायत्रीं जपेद्भक्त्या मद्गतेनान्तरात्मना |
द्विसन्ध्यं वा त्रिसन्ध्यं वा शतमष्टोत्तरं तु वा ||१४-११३-५१ (९६६७५)
विप्रमग्रासने कृत्वा संयतेन्द्रियमानसः |
व्रतान्ते भोजयेद्विप्रांस्तस्य पुण्यफलं शृणु ||१४-११३-५२ (९६६७६)
अश्वमेधस्य यत्पुण्यं विधिवत्पाण्डुनन्दन |
तत्पुण्यफलमासाद्य मम लोके महीयते ||१४-११३-५३ (९६६७७)
ततश्चापि च्युतः कालाच्छ्वेतद्वीपे प्रजायते |
तत्र भुक्त्वा च भोगांश्च ततो विप्रवरो भवेत् ||||१४-११३-५४ (९६६७८)
इति श्रीमन्महाभारते आश्वमेधिकपर्वणि वैष्णवधर्मपर्वणि
त्रयोदशाधिकशततमोऽध्यायः ||११३ ||
आश्वमेधिकपर्व -अध्याय ११४
||श्रीः ||
१४. ११४. अध्यायः ११४
Mahabharata -Ashvamedhika Parva -Chapter Topics
कृष्णेन युधिष्ठिरंप्रति केशवादिभगवन्मूर्त्युपास्तिपूर्वकं
मार्गशीर्षादिद्वादशद्वादशीव्रताचरणफलकथनम् ||१ ||
युधिष्ठिरेण विस्तरेण कृष्णस्तवनम् ||२ ||
पुनः कृष्णेन युधिष्ठिराय एकादश्युपवासपूर्वकं द्वादश्यां
भगवत्पूजायाः फलकथनम् ||३ ||
Mahabharata -Ashvamedhika Parva -Chapter Text
युधिष्ठिर उवाच |
एवं संवत्सरं पूर्णमेकभुक्तेन यः क्षिपेत् |
तस्य पुण्यफलं यद्वै तन्ममाचक्ष्व केशव ||१४-११४-१ (९६६७९)
भगवानुवाच. १४-११४-२क्ष् (७९९५)
शृणु पाण्डव तत्त्वं मे वचनं पुण्यमुत्तमम् |
यदकृत्वाऽथवा कृत्वा नरः पापैः प्रमुच्यते ||१४-११४-२ (९६६८०)
एकभुक्तेन वर्तेत नरः संवत्सरं तु यः |
ब्रह्मचारी जितक्रोधो ह्यधश्शायी जितेन्द्रियः ||१४-११४-३ (९६६८१)
शुचिश्चि स्नानतो व्यग्रः सत्यवागनसूयकः |
अर्चन्नेव तु मां नित्यं मद्गतेनान्तरात्मना |
सन्ध्ययोस्तु जपेन्नित्यं मद्गायत्रीं समाहितः ||१४-११४-४ (९६६८२)
नमो ब्रह्मण्यदेवायेत्यसकृन्मां प्रणम्य च |
विप्रमग्रासने कृत्वा यावकं भैत्रमेव वा ||१४-११४-५ (९६६८३)
भुक्त्वा तु वाग्यतो भूमावाचान्तस्य द्विजन्मनः |
नमोऽस्तु वासुदेवायेत्युक्त्वा तु चरणौ स्पृशेत् ||१४-११४-६ (९६६८४)
मासेमासे समाप्ते तु भोजयित्वा द्विजाञ्शुचीन् |
संवत्सरे ततः पूर्णे दद्यात्तु व्रतदक्षिणाम् ||१४-११४-७ (९६६८५)
नवनीतमयीं गां वा तिलधेनुमथापि वा |
विप्रहस्तच्युतैस्तोयैः सहिरण्यैः समुक्षितः |
तस्य पुण्यफलं राजन्कथ्यमानं मया शृणु ||१४-११४-८ (९६६८६)
दशजन्मकृतं पापं ज्ञानतोऽज्ञानतोपि वा |
तद्विनश्यति तस्याशु नात्र कार्या विचारणा ||१४-११४-९ (९६६८७)
युधिष्ठिर उवाच. १४-११४-१०क्ष् (७९९६)
सर्वेषामुपवासानां यच्छ्रेयः सुमहत्फलम् |
यच्च निःश्रेयसं लोके तद्भवान्वक्तुमर्हति ||१४-११४-१० (९६६८८)
भगवानुवाच. १४-११४-११क्ष् (७९९७)
शृणु राजन्यथापूर्वं मयाऽभीष्टं तु मोदते |
तथा ते कथयिष्यामि मद्भक्ताय युधिषठिर ||१४-११४-११ (९६६८९)
यस्तु भक्त्या शुचिर्भूत्वा पञ्चम्यां मे नराधिप |
उपवासव्रतं कुर्यात्त्रिकालं चार्चयंस्तु माम् |
सर्वक्रतुफलं लब्ध्वा मम लोके महीयते ||१४-११४-१२ (९६६९०)
युधिष्ठिर उवाच. १४-११४-१३क्ष् (७९९८)
भगवन्देवदेवेश पञ्चमी नाम का तव |
तामहं श्रोतुमिच्छामि कथयस्व ममानघ ||१४-११४-१३ (९६६९१)
भगवानुवाच. १४-११४-१४क्ष् (७९९९)
पर्वद्वयं च द्वादश्यां श्रवणं च नराधिप |
मत्पञ्चमीति विख्यातां मत्प्रिया च विशेषतः ||१४-११४-१४ (९६६९२)
तस्मात्तु ब्राह्मणश्रेष्ठैर्मन्निवेशितबुद्धिभिः |
उपवासस्तु कर्तव्यो मत्प्रियार्तं विशेषतः ||१४-११४-१५ (९६६९३)
द्वादश्यामेव वा कुर्यादुपवासमशक्नुवन् |
तेनाहं परमां प्रीति यास्यामि नरपुङ्गव ||१४-११४-१६ (९६६९४)
अहोरात्रेण द्वादश्यां मार्गशीर्षेण केशवम् |
उपोष्य पूजयेद्यो मां सोऽस्वमेधफलं लभेत् ||१४-११४-१७ (९६६९५)
द्वादश्यां पुष्यमासे तु नाम्ना नारायणं तु माम् |
उपोष्य पूजयेद्यो मां वाजिमेधफलं लभेत् ||१४-११४-१८ (९६६९६)
द्वादश्यां माघमासे तु मामुपोष्य तु माधवम् |
पूजयेद्यः समाप्नोति राजसूयफलं नृप ||१४-११४-१९ (९६६९७)
द्वादश्यां फाल्गुने मासि गोविन्दाख्यमुपोष्य माम् ||
पूजयेद्यः समाप्नोति ह्यतिरात्रफलं नृप ||१४-११४-२० (९६६९८)
द्वादश्यां मासि चैत्रे तु मां विष्णुं समुपोष्य यः |
पूजयंस्तदवाप्नोति पौण्डरीकस्य यत्फलम् ||१४-११४-२१ (९६६९९)
द्वादश्यां मासि वैशाखे मधुसूदनसंज्ञितम् |
उपोष्य पूजयेद्यो मां सोग्निष्टोमस्य पाण्डव ||१४-११४-२२ (९६७००)
द्वादश्यां ज्येष्ठमासे तु मामुपोष्य त्रिविक्रमम् |
अर्ययेद्यः समाप्नोति गवां मेधफलं नृप ||१४-११४-२३ (९६७०१)
आषाढे वामनाख्यं मां द्वादश्यां समुपोष्य यः |
नरमेधस्य स फलं प्राप्नोति भरतर्षभ ||१४-११४-२४ (९६७०२)
द्वादश्यां श्रावणे मासि श्रीधराख्यमुपोष्य माम् |
पूजयेद्य समाप्नोति पञ्चयज्ञफलं नृप ||१४-११४-२५ (९६७०३)
मासे भाद्रपदे यो मां हृषीकेशाख्यमर्चयेत् |
उपोष्य स समाप्नोति सौत्रामणिफलं नृप ||१४-११४-२६ (९६७०४)
द्वादश्यामाश्वयुङ्मासे पद्मनाभमुपोष्य माम् |
अर्चयेद्यः समाप्नोति गोसहस्रफलं नृप ||१४-११४-२७ (९६७०५)
द्वादश्यां कार्तिके मासि मां दामोदरसंज्ञितम् |
उपोष्य पूजयेद्यस्तु सर्वक्रतुफलं नृप ||१४-११४-२८ (९६७०६)
केवलेनोपवासेन द्वादश्यां पाण्डुनन्दन |
यत्फलं पूर्वमुद्दिष्टं तस्यार्धं लभते नृप ||१४-११४-२९ (९६७०७)
श्रावणेऽप्येवमेवं मामर्चयेद्भक्तिमान्नरः |
मम सालोक्यमाप्नोति नात्र कार्या विचारणा ||१४-११४-३० (९६७०८)
मासेमासे समभ्यर्च्य क्रमशो मामतन्द्रितः |
पूर्मे संवत्सरे कुर्यात्पुनः संवत्सरं तु माम् ||१४-११४-३१ (९६७०९)
अविघ्नमर्चयानस्तु यो मद्भक्तो मत्परायणः |
अविघ्नमर्चयानस्तु मम सायुज्यमाप्नुयात् ||१४-११४-३२ (९६७१०)
अर्चयेत्प्रीतिमान्यो मां द्वादस्यां वेदसंहिताम् |
स पूर्वोक्तफलं राजँल्लभते नात्र संशयः ||१४-११४-३३ (९६७११)
गन्धं पुष्पं फलं तोयं पत्रं वा मूलमेव वा |
द्वादश्यां मम यो दद्यात्तत्समो नास्ति मत्प्रियः ||१४-११४-३४ (९६७१२)
एतेन विधिना सर्वे देवाः शक्रपुरोगमाः |
मद्भक्ता नरशार्दूल स्वर्गलोकं तु भुञ्जते ||१४-११४-३५ (९६७१३)
वैशम्पायन उवाच. १४-११४-३६क्ष् (८०००)
एवं वदति देवेशे केशवे पाडुनन्दनः |
कृताञ्जलिः स्तोत्रमिदं भक्त्तया धर्मात्मजोऽब्रवीत् ||१४-११४-३६ (९६७१४)
सर्वलोकेश देवेश हृषीकेशक नमोस्तु ते |
सहस्रशिरसे नित्यं सहस्राक्ष नमोस्तु ते ||१४-११४-३७ (९६७१५)
त्रयीमय त्रयीनाथ त्रयीस्तुत नमोनमः |
यज्ञात्मन्यज्ञसंभूत यज्ञनाथ नमोनमः ||१४-११४-३८ (९६७१६)
चतुर्मूर्ते चतुर्बाहो चतुर्व्यूह नमोनमः |
लोकात्मँल्लोककृन्नाथ लोकावास नमोनमः ||१४-११४-३९ (९६७१७)
सृष्टिसंहारकर्त्रे तु नरसिंह नमोनमः |
भक्तप्रिय नमस्तेऽस्तु कृष्ण नाथ नमोनमः ||१४-११४-४० (९६७१८)
लोकप्रिय नमस्तेऽस्तु भक्तवत्सल ते नमः |
ब्रह्मवास नमस्तेऽस्तु ब्रह्मनाथ नमोनमः ||१४-११४-४१ (९६७१९)
रुद्ररूप नमस्तेऽस्तु रुद्रकर्मिरताय ते |
पञ्चयज्ञ नमस्तेऽस्तु सर्वयज्ञ नमोनमः ||१४-११४-४२ (९६७२०)
कृष्णप्रिय नमस्तेऽस्तु कृष्णनाथ नमोनमः |
योगिप्रिय नमस्तेऽस्तु योगिनाथ नमोनमः ||१४-११४-४३ (९६७२१)
हयवक्त्र नमस्तेऽस्तु चक्रपाणे नमोनमः |
पञ्चभूत नमस्तेऽस्तु पञ्चायुध नमोनमः ||१४-११४-४४ (९६७२२)
वैशम्पायन उवाच. १४-११४-४५क्ष् (८००१)
भक्तिगद्गदया वाचा स्तुवत्येवं युधिष्ठिरे |
गृहीत्वा केशवो हस्ते प्रीतात्मा तं न्यवारयत् ||१४-११४-४५ (९६७२३)
निवार्य च पुनर्वाचा भक्तिनम्रं युधिष्ठिरम् |
वक्तुमेव नरश्रेषठ धर्मपूत्रं प्रचक्रमे ||१४-११४-४६ (९६७२४)
भगवानुवाच. १४-११४-४७क्ष् (८००२)
अन्यवत्किमिदं राजन्मां स्तौषि नरपुङ्गव |
तिष्ठ पृच्छ यथापूर्वं धर्मपूत्र युधिष्ठिर ||१४-११४-४७ (९६७२५)
युधिष्ठिर उवाच. १४-११४-४८क्ष् (८००३)
भगवंस्त्वत्प्रसादात्तु धर्मं स्मृत्वा पुनःपुनः |
न शान्तिरस्ति मे देव नृत्यतीव च मे मनः ||१४-११४-४८ (९६७२६)
इदं च धर्मसंपन्नं वक्तुमर्हसि माधव |
कृष्णपक्षेषु द्वादश्यामर्चनीयः कथं भवेत् ||१४-११४-४९ (९६७२७)
भगवानुवाच. १४-११४-५०क्ष् (८००४)
शृणु राजन्यथापूर्वं तत्सर्वं कथयामि ते |
परमं कृष्णद्वादश्यामर्चनायां फलं मम ||१४-११४-५० (९६७२८)
एकादश्यामुपोष्याथ द्वादश्यामर्चयेत्तु माम् |
विप्रानपि यथालाभं पूजयेद्भक्तिमान्नरः ||१४-११४-५१ (९६७२९)
स गच्छेद्दक्षिणामूर्तिं मां वा नात्र विचारणा |
चन्द्रसालोक्यमथवा ग्रहनक्षत्रपूजितः ||||१४-११४-५२ (९६७३०)
इति श्रीमन्महाभारते आश्वमेधिकपर्वणि वैष्णवधर्मपर्वणि
चतुर्दशाधिकशततमोऽध्यायः ||११४ ||
आश्वमेधिकपर्व -अध्याय ११५
||श्रीः ||
१४. ११५. अध्यायः ११५
Mahabharata -Ashvamedhika Parva -Chapter Topics
कृष्णेन युधिष्ठिरंप्रति विषुवाख्यपुण्यकालस्य
महिमानुवर्णनपूर्वकं तत्र दानादिप्रशंसनम् ||१ ||
तथा गायत्रीजपमाहात्म्यकथनम्, अश्वत्थमाहात्म्यकथनं च ||२ ||
तथा नानाधर्मकथनपूर्वकं शिंशुमाराकृतिनिरूपणम्,
पञ्चगव्यविधानकथनं च ||३ ||
Mahabharata -Ashvamedhika Parva -Chapter Text
वैशम्पायन उवाच |
केशवेनैवमाख्याते धर्मपुत्रः पुनःपुनः |
पप्रच्छ दानकालस्य विशेषं च विधिं नृप ||१४-११५-१ (९६७३१)
युधिष्ठिर उवाच. १४-११५-२क्ष् (८००५)
देव किं फलमाख्यातं विषुवेष्मवरेश्वर |
सूर्येन्दूपप्लवे चैव वस्तुमर्हति तत्फलम् ||१४-११५-२ (९६७३२)
भगवानुवाच. १४-११५-३क्ष् (८००६)
शृणुष्व राजन्विषुवे सोमार्कग्रहणेषु च |
व्यतीपातेऽयने चैव दानं स्यादक्षयं फलम् ||१४-११५-३ (९६७३३)
राजन्नयनयोर्मध्ये विषुवं सम्प्रचक्षते |
समे रात्रिदिने तत्र सन्ध्यायां विषुवे नृप ||१४-११५-४ (९६७३४)
ब्रह्माऽहं शङ्करश्चापि तिष्ठामः सहिताः सकृत् |
क्रियाकरणकार्याणामेकीभावत्वकारणात् ||१४-११५-५ (९६७३५)
अस्माकमेकीभूतानां निष्कलं परमं पदम् |
तन्मुहूर्तं परं पुण्यं राजन्विषुवसंज्ञितम् ||१४-११५-६ (९६७३६)
तदेवाद्यक्षरं ब्रह्म परं ब्रह्मेति कीर्तितम् |
तस्मिन्मुहूर्ते सर्वे तु चिन्तयन्ति परं पदम् ||१४-११५-७ (९६७३७)
देवाश्च वसवो रुद्राः पितरश्चाश्विनौ तथा |
साध्याश्च विश्वे गन्धर्वाः सिद्धा ब्रह्मर्षयस्तथा ||१४-११५-८ (९६७३८)
सोमादयो ग्रहाश्चैव सरितः सागरास्तथा |
मरुतोत्सरसो नागा यक्षराक्षसगुह्यकाः ||१४-११५-९ (९६७३९)
एते चान्ये च राजेन्द्र विषुवे संयतेन्द्रियाः |
सोपवासाः प्रयत्नेन भवन्ति ध्यानतत्पराः ||१४-११५-१० (९६७४०)
अन्नं गावस्तिलान्भूमिं कन्यादानं तथैव च |
गृहमायतनं धान्यं वाहनं शयनं तथा. १४-११५-११ (९६७४१)
यच्चान्यच्च मया प्रोक्तं तत्प्रयच्छ युधिष्ठिर |
दीयते विषुवेष्वेवं श्रोत्रियेभ्यो विशेषतः ||१४-११५-१२ (९६७४२)
तस्य दानस्य कौन्तेय क्षयं नैवोपपद्यते |
वर्धतेऽहरहः पुण्यं तद्दानं कोटिसंमितम् ||१४-११५-१३ (९६७४३)
विषुवे स्नपनं यस्तु मम कुर्याद्धरस्य वा |
अर्चनां च यतान्यायं तस्य पुण्यफलं शृणु ||१४-११५-१४ (९६७४४)
दशजन्मकृतं पापं तस्य सद्यो विनश्यति |
दशानामश्वमेधानामिष्टानां लभते फलम् ||१४-११५-१५ (९६७४५)
विमानं दिव्यमारूढः कामरूपी यथासुखम् |
स याति मामकं लोकं रुद्रलोकमथापि वा ||१४-११५-१६ (९६७४६)
तत्रस्थैर्देवगन्धर्वेर्गीयमानो यथासुखम् |
दिव्यवर्षसहस्राणि कोटिमेकं तु मोदते ||१४-११५-१७ (९६७४७)
ततश्चापि च्युतः कालादिह लोके द्विजोत्तमः |
चतुर्णामपि वेदानां पारगो ब्रह्मिविद्भवेत् ||१४-११५-१८ (९६७४८)
चन्द्रसूर्यग्रहे व्योम्नि मम वा शङ्करस्य वा |
गायत्रीं मामिकां वाऽपि जपेद्यः शङ्करस्य वा ||१४-११५-१९ (९६७४९)
शङ्खर्तूर्यस्वनैश्चैव कांस्यघण्टास्वनैरपि |
कारयेत्तु ध्वनिं भक्त्या तस्य पुण्यफलं शृणु ||१४-११५-२० (९६७५०)
गान्धर्वैर्होमजप्यैश्च जप्तैरुत्कृष्टनामभिः |
दुर्बलोपि भवेद्राहुः सोमश्च बलवान्भवेत् ||१४-११५-२१ (९६७५१)
सूर्येन्दूपप्लवे चैव श्रोत्रियेभ्यः प्रदीयते |
तत्सहस्रगुणं भूत्वा दांतारमुपतिष्ठति ||१४-११५-२२ (९६७५२)
महापातकयुक्तोपि यद्यपि स्यान्नरोत्तम |
निष्पापस्तत्क्षणादेव तेन दानेन जायते ||१४-११५-२३ (९६७५३)
चन्द्रसूर्यप्रकाशेन विमानेन विराजता |
याति सोमपुरं रम्यं सेव्यमानोप्सरोगणैः ||१४-११५-२४ (९६७५४)
यावदृक्षाणि तिष्ठन्ति गगने शशिना सह |
तावत्कालं स रजेन्द्र सोमलोके महीयते ||१४-११५-२५ (९६७५५)
ततश्चापि च्युतः कालादिह लोके युधिष्ठिर |
वेदवेदाङ्गविद्विप्रः कोटीधनपतिर्भवेत् ||१४-११५-२६ (९६७५६)
युधिष्ठिर उवाच. १४-११५-२७क्ष् (८००७)
भगवंस्तव गायत्री जप्यते च कथं विभो |
किं वा तस्य फळं देव ममाचक्ष्व सुरेश्वर ||१४-११५-२७ (९६७५७)
भगवानुवाच. १४-११५-२८क्ष् (८००८)
द्वादश्यां विषुवे चैव चन्द्रसूर्यग्रहे तथा |
अयने श्रवणे चैव व्यतीपाते तथैव च ||१४-११५-२८ (९६७५८)
अश्वत्तदर्शने चैव तथा मद्दर्शनेऽपि च |
जप्या तु मम गायत्री चाथवाऽष्टाक्षरं नृप |
आर्जितं दुष्कृतं तस्य नाशयेन्नात्र संशयः ||१४-११५-२९ (९६७५९)
युधिष्ठिर उवाच. १४-११५-३०क्ष् (८००९)
अश्वत्थदर्शनं चैव किं त्वद्दर्शनसंमितम् |
एतत्कथय मे देव परं कौतूहलं हि मे ||१४-११५-३० (९६७६०)
भगवानुवाच. १४-११५-३१क्ष् (८०१०)
अहमश्वत्थरूपेण पालयामि जगत्त्रयम् |
अस्वत्थो न स्थितो यत्र नाहं तत्र प्रतिष्ठितः ||१४-११५-३१ (९६७६१)
यत्राहं संस्थितो राजन्नस्वत्थश्चापि तिष्ठति |
यस्त्वेनमर्चयेद्भक्त्या स मां साक्षात्समर्चति ||१४-११५-३२ (९६७६२)
यस्त्वेनं प्रहरेत्कोपान्मामेव प्रहरेत्तु सः |
तस्मात्प्रदक्षिणं कुर्यान्न चिन्द्यादेनमन्वहम् ||१४-११५-३३ (९६७६३)
व्रतस्य पारणं तीर्थमार्जवं तीर्थमुच्यते |
देवशुश्रूषणं तीर्तचं गुरुशुश्रूषणं तथा ||१४-११५-३४ (९६७६४)
पितृशुश्रूषणं तीर्थं मातृशुश्रूषणं तथा |
दाराणां तोषणं तीर्तं गार्हस्थ्यं तीर्थमुच्यते ||१४-११५-३५ (९६७६५)
आतिथेयः परं तीर्थं ब्रह्मतीर्थं सनातनम् |
ब्रह्मिचर्यं परं तीर्तं त्रेताग्निस्तीर्थमुच्यते ||१४-११५-३६ (९६७६६)
मूलं धर्मं तु विज्ञाय मनस्तत्रावधार्यताम् ||
गच्छ तीर्थानि कौन्तेय धर्मो धर्मेण वर्धते ||१४-११५-३७ (९६७६७)
द्विविधं तीर्थमित्याहुः स्थावरं जङ्गमं तथा |
स्तावराज्जङ्गमं तीर्थं ततो ज्ञानपरिग्रहः ||१४-११५-३८ (९६७६८)
कर्म्णाऽपि विशुद्धस्य पुरुषस्येह भारत |
हृदये सर्वतीर्थानि तीर्थभूतः स उच्यते ||१४-११५-३९ (९६७६९)
गुरुतीर्थं परं ज्ञानमतस्तीर्तं न विद्यते |
ज्ञानतीर्तं परं तीर्तं ब्रह्मतीर्तं सनातनम् ||१४-११५-४० (९६७७०)
क्षमा तु परमं तीर्तं सर्वतीर्थेषु पाण्डव |
क्षमावतामयं लोकः परश्चैव क्षमावताम् ||१४-११५-४१ (९६७७१)
मानितोऽमानितो वाऽपि पूजितोऽपूजितोपि वा |
आक्रुष्टस्तर्जितो वाऽपि क्षमावांस्तीर्थमुच्यते ||१४-११५-४२ (९६७७२)
क्षमा यशः क्षमा दानं क्षमा यज्ञः क्षमा दमः |
क्षमाऽहिंसा क्षमा धर्मः क्षमा चेन्द्रियनिग्रहः ||१४-११५-४३ (९६७७३)
क्षमा दया क्षमा यज्ञः क्षमयैव धृतं जगत् |
क्षमावान्ब्राह्मणो देवः क्षमावान्ब्राह्मणो वरः ||१४-११५-४४ (९६७७४)
क्षमावानाप्नुयात्स्वर्गं क्षमावानाप्नुयाद्यशः |
क्षमावान्प्राप्नुयान्मोक्षं तस्मात्साद्युः स उच्यते ||१४-११५-४५ (९६७७५)
आत्मा नदी भारतपुण्यतीर्थ-
मात्मा तीर्थं सर्वतीर्थप्रधानम् |
आत्मा यज्ञः सततं मन्यते वै
स्वर्गो मोक्षः सर्वमात्मन्यधीनम् ||१४-११५-४६ (९६७७६)
आचारनैर्मल्यमुपागतेन
सत्यक्षमानिस्तुलशीतलेन |
ज्ञानांबुना स्नाति हि नित्यमेवं
किं तस्य भूयः सलिलेन तीर्थम् ||१४-११५-४७ (९६७७७)
युधिष्ठिर उवाच. १४-११५-४८क्ष् (८०११)
भगवन्सर्वपापघ्नं प्रायश्चित्तमदुष्करम् |
त्वद्भक्तस्य सुरश्रेष्ठ मम त्वं वक्तुमर्हसि ||१४-११५-४८ (९६७७८)
भगवानुवाच. १४-११५-४९क्ष् (८०१२)
रहलस्यमिदमत्यर्थमश्राव्यं पापकर्मणाम् |
अधार्मिकाणामश्राव्यं प्रायश्चित्तं ब्रवीमि ते ||१४-११५-४९ (९६७७९)
पावनं ब्राह्ममं दृष्ट्वा मद्गतेनान्तरात्मना |
नमो ब्रह्मण्यदेवायेत्यभिवादनमाचरेत् ||१४-११५-५० (९६७८०)
प्रदक्षिणं च यः कुर्यात्पुनरष्टाक्षरेण तु |
तेन तुष्टेन विप्रेणि तत्पापं क्षपयाम्यहम् ||१४-११५-५१ (९६७८१)
पोत्रकृष्टां वराहस्य मृत्तिकां शिरसा वहन् |
प्राणायामशतं कृत्वा नरः पापैः प्रमुच्यते ||१४-११५-५२ (९६७८२)
दक्षिणावर्तशङ्खाद्वा कपिलाशृङ्गतोपि वा |
प्राक्स्रोतसं नदीं गत्वा ममायतनसंनिधौ ||१४-११५-५३ (९६७८३)
सलिलेन तु यः स्नायात्सकृदेव रविग्रहे |
तस्य यत्संचितं पापं तत्क्षणादेव नश्यति ||१४-११५-५४ (९६७८४)
मस्तकान्निस्सृतैस्तोयैः कपिलाया युधिष्ठिर |
गोमूत्रेणापि यः स्नायाद्रोहिण्यां मम वा दिने |
विप्रपादच्युतैर्वाऽपि तोयैः पापं प्रणश्यति ||१४-११५-५५ (९६७८५)
नमस्येद्यस्तु मद्भक्त्या शिंशुमारं प्रजापतिम् |
चतुर्दशाङ्गसंयुक्तं तस्य पापं प्रणस्यति ||१४-११५-५६ (९६७८६)
ततश्चतुर्दशाङ्गानि शृणु तस्य युधिष्ठिर |
शिरो धर्मो हनुर्ब्रह्मा वृषावुत्तरदक्षिणौ ||१४-११५-५७ (९६७८७)
हृदयं तु भवेद्विष्णुरंसौ स्यातां तथाऽश्विनौ |
अत्रिर्मध्यं भवेद्राजँल्लिङ्गं संवत्सरं भवेत् ||१४-११५-५८ (९६७८८)
मित्रावरुणकौ पादावूरुद्वन्द्वं हुताशनः |
ततः पश्चाद्भवेदिन्द्रस्ततः पश्चात्प्रजापतिः ||१४-११५-५९ (९६७८९)
अभयं च ततः पश्चात्स एव ध्रुवसंज्ञिकः |
एतान्यङ्गानि सर्वाणि शिंशुमारप्रजापतेः ||१४-११५-६० (९६७९०)
विबेत्तु पञ्चगव्यं यः पौर्णमास्यामुपोष्य तु |
तस्य नश्यति यत्पापं तत्पापं पूर्वसंचितम् ||
तथैव ब्रह्मकूर्च तु समन्त्रं तु पृथक्पृथक्. १४-११५-६१ (९६७९१)
मासिमासि विबेद्यस्तु तस्य पापं प्रणश्यति ||
पात्रं च ब्रह्मकूर्चं च शृणु तत्र च भारत. १४-११५-६२ (९६७९२)
पालाशं पद्मपत्रं च ताम्रं वाऽथ हिरण्ययम् |
सादयित्वा तु गृह्णीयात्तत्तु पात्रमुदाहृतम् ||१४-११५-६३ (९६७९३)
गायत्र्या गृह्णते मूत्रं गन्धद्वारेति गोमयम् |
आप्यायस्वेति च क्षीरं दधिक्राण्वेति वै दधि ||१४-११५-६४ (९६७९४)
तेजोसिशुक्लमित्याज्यं देवस्यत्वेति कुशोदकम् |
आपोहिष्ठेत्यृचा गृह्यि यवचूर्णं यथाविधि ||१४-११५-६५ (९६७९५)
ब्रह्मणे च यथा हुत्वा समिद्धे च हुताशने |
आलोड्य प्रणवेनैव निर्मथ्य प्रणवेन तु ||१४-११५-६६ (९६७९६)
उद्धृत्य प्रणवेनैव पिबेतु प्रणवेन तु |
महताऽपि स पापेन त्वचेवाहिर्विमुच्यते ||१४-११५-६७ (९६७९७)
भद्रं न हति यः पादं पठन्नृक्सहितां तदा |
अन्तर्जले वाऽभ्यादित्ये तस्य पापं प्रणश्यति ||१४-११५-६८ (९६७९८)
मम सूक्तं जपेद्यस्तु नित्यं मद्गतमानसः |
न पापेन स लिप्येत पद्मपत्रमिवांभसा ||||१४-११५-६९ (९६७९९)
इति श्रीमन्महाभारते आश्वमेधिकप्रर्वणि वैष्णवधर्मपर्वणि
पञ्चदशाधिकशततमोऽध्यायः ||११५ ||
आश्वमेधिकपर्व -अध्याय ११६
||श्रीः ||
१४. ११६. अध्यायः ११६
Mahabharata -Ashvamedhika Parva -Chapter Topics
कृष्णेन युधिष्ठिरंप्रति भकगवद्भक्तिसौशील्याद्यभावे
ब्राह्मणानामपि अग्निहोत्रस्वाध्यायाध्ययनादिसत्कर्मणामपि वैफल्यस्य
शूद्राणामपि भक्त्यादिमतां स्वोचितकिंचित्कर्मणामपि साफल्यस्य च
कथनम् ||१ ||
Mahabharata -Ashvamedhika Parva -Chapter Text
युधिष्ठिर उवाच |
कीदृशा ब्राह्मणाः पुण्या भावशुद्धाः सुरेश्वर |
यत्कर्म सफलं नेति कथयस्य ममानघ ||१४-११६-१ (९६८००)
भगवानुवाच. १४-११६-२क्ष् (८०१३)
शृणु पाण्डव तत्सर्वं ब्राह्मणानां यथाक्रमम् |
सफलं निष्फलं चैव तेषां कर्म ब्रवीमि ते ||१४-११६-२ (९६८०१)
त्रिदण्डधारणं मौनं जटाधारणमुण्डनम् |
वल्कलाजिनसंवासो व्रतचर्याऽभिषेचनम् ||१४-११६-३ (९६८०२)
अग्निहोत्रं गृहे वासः स्वाध्यायं दारसत्क्रिया |
सर्वाण्येतानि वै मिथ्या यदि भावो न निर्मलः ||१४-११६-४ (९६८०३)
अग्निहोत्रं वृथा राजन्वृथा वेदास्तथैव च |
शीलेन देवास्तुष्यन्ति श्रुतयस्तत्र कारणम् ||१४-११६-५ (९६८०४)
क्षान्तः दान्तं जितक्रोधं जितात्मानं जितेन्द्रियम् |
तमग्र्यं ब्राह्मणं मन्ये शेषाः शूद्रा इति स्मृताः ||१४-११६-६ (९६८०५)
अग्निहोत्रव्रतपरान्स्वाध्यायनिरताञ्शुचीन् |
उपवासरतान्दान्तांस्तादेवा ब्राह्मणान्विदुः ||१४-११६-७ (९६८०६)
न जात्या पुजीतो राजन्गुणाः कल्याणकारणाः |
चण्डालमपि वृत्तस्थं तं देवा ब्राह्मणं विदुः ||१४-११६-८ (९६८०७)
मनश्शौचं कर्मशौचं कुलशौचं च भारत |
शरीरशौचं वाक्छौचं शौचं पञ्चविधं स्मृतम् ||१४-११६-९
(९६८०८)
पञ्चस्वेतेषु शौचेषु हृदिं शौचं विशिष्यते |
हृदयस्य च शौचेन स्वर्गं गच्छन्ति मानवाः ||१४-११६-१० (९६८०९)
अग्निहोत्रपरिभ्रष्टः प्रसक्तः क्रयविक्रयैः |
वर्णसङ्करकर्ता च ब्राह्मणो वृषलैः समः ||१४-११६-११ (९६८१०)
यस्य वेदश्रुतिर्नष्टा कर्षकश्चापि यो द्विजः |
विकर्मसेवी कौन्तेय स वै वृषल उच्यते ||१४-११६-१२ (९६८११)
वृषो हि धर्मो विज्ञेयस्तस्य यः कुरुते लयम् |
वृषलं तं विदुर्देवा निकृष्टं श्वपचादपि ||१४-११६-१३ (९६८१२)
स्तुतिभिर्ब्रह्मगीताभिर्यः शूद्रं स्तौति मानवः |
न तु मां स्तौति पापात्मा स तु चण्डालतः समः ||१४-११६-१४ (९६८१३)
श्वदृतौ तु यथा क्षीरं ब्रह्म वै वृषले तथा |
दुष्टतामेति तत्सर्वं शुना लीढं हविर्यथा ||१४-११६-१५ (९६८१४)
अङ्गानि वेदाश्चत्वारो मीमांसान्यायविस्तरः |
धर्मशास्त्रं पुराणं च विद्या ह्येताश्चतुर्दश ||१४-११६-१६ (९६८१५)
यान्युक्तानि मया सम्यग्विद्यास्थानानि भारत |
उत्पन्नानि पवित्राणि भुवनार्थं तथैव च ||१४-११६-१७ (९६८१६)
तस्मात्तानि न शूद्रस्य स्प्रष्टव्यानि युधिष्ठिर |
सर्वं त्रीण्यपवित्राणि पञ्चामेध्यानि भारत. १४-११६-१८ (९६८१७)
श्वा च शूद्रः श्वपाकश्च अपवित्राणि पाण्डव ||
गायकः कुक्कुटो यूपो ह्युदक्या वृषलीपतिः. १४-११६-१९ (९६८१८)
पञ्चैते स्युरमेध्याश्च स्प्रष्टव्या न कदातन |
स्पृष्ट्वैतानष्ट वै विप्रः सचेलो जलमाविशेत् ||१४-११६-२० (९६८१९)
मद्भक्ताञ्शूद्रसामान्यादवमन्यन्ति ये नराः |
नरकेष्वेव तिष्ठन्ति वर्षकोटिं नराधमाः ||१४-११६-२१ (९६८२०)
चण्डालमपि मद्भक्तं नावमन्येत बुद्धिमान् |
अवमानात्पतन्त्येव नरके रौरवे नराः ||१४-११६-२२ (९६८२१)
मम भक्तस्य भक्तेषु प्रीतिरभ्यधिका मम |
तस्मान्मद्भक्तभक्ताश्च पूजनीया विशेषतः ||१४-११६-२३ (९६८२२)
कीटपक्षिमृगाणां च मयि संन्यस्तचेतसाम् |
ऊर्ध्वामेव गतिं विद्धि किं पुनर्ज्ञानिनां नृणाम् ||१४-११६-२४ (९६८२३)
पत्रं वाऽप्यथवा पुष्पंक फलं वाऽप्यप एव वा |
ददाति मम शूद्रो यच्छिरसा धारयामि तत् ||१४-११६-२५ (९६८२४)
विप्रानेवार्चयेद्भक्त्या शूद्रप्रायांश्च मत्प्रियान् |
तेषां तेनैव रूपेण पूजां गृह्णामि भारत ||१४-११६-२६ (९६८२५)
वेदोत्तेनैव मार्गेण सर्वभूतहृदि स्थितम् |
मामर्चयन्ति ये पिप्रा मत्सायुज्यं व्रजन्ति ते ||१४-११६-२७ (९६८२६)
मद्भक्तानां हितायैव प्रादुर्भावः कृतो मया |
प्रदुर्भावकृता काचिदर्चनीया युधिष्ठिर ||१४-११६-२८ (९६८२७)
आसामन्यतमां मूर्तिं यो मद्भक्त्या समर्चति |
तेनैव परितुष्टोऽहं भविष्यामि न संशयः ||१४-११६-२९ (९६८२८)
मृदा च मणिरत्नैश्च ताम्रेण रजतेन च |
कृत्वा प्रतिकृतिं कुर्यादर्चनां काञ्चनेन वा |
पुण्यं दशगुणं विद्यादेतेषामुत्तरोत्तरम् ||१४-११६-३० (९६८२९)
जपकामो भवेद्राजा विद्याकामो द्विजोत्तमः |
वैश्यो वा धनकामस्तु शूद्रः सुखफलप्रियः |
सर्वकामाः स्त्रियो वाऽपि सर्वान्कामानवाप्नुयुः ||||१४-११६-३१ (९६८३०)
इति श्रीमन्महाभारते आश्वमेधिकपर्वणि वैष्णवधर्मपर्वणि
षोडशाधिकशततमोऽध्यायः ||११६ ||
आश्वमेधिकपर्व -अध्याय ११७
||श्रीः ||
१४. ११७. अध्यायः ११७
Mahabharata -Ashvamedhika Parva -Chapter Topics
कृष्णेन युधिष्ठिरंप्रत्यश्वत्थगोब्राह्मणमहिमप्रशंसनपूर्वकं
ब्राह्मणभ्रंशकदुष्कर्मकथनम् ||१ ||
Mahabharata -Ashvamedhika Parva -Chapter Text
युधिष्ठिर उवाच |
कीदृशानां तु शूद्राणां नानुगृह्णासि चार्चनम् |
उद्वेगस्तव कस्माद्धि तन्मे ब्रूहि सुरेश्वर ||१४-११७-१ (९६८३१)
भगवानुवाच. १४-११७-२क्ष् (८०१४)
अव्रतेनाप्यभक्तेन स्पृष्टां शूद्रेण चार्चनाम् |
तां वर्जयामि राजेन्द्र श्वपाकविहितामिव ||१४-११७-२ (९६८३२)
नन्वहं शङ्करश्चापि गावो विप्रास्तथैव च |
अश्वत्थोऽमररूपं हि त्रयमेतद्युधिष्ठिर ||१४-११७-३ (९६८३३)
एतत्त्रयं हि मद्भक्तो नावमन्येत कर्हिचित् |
अवमानितमेतत्तु दहत्यासप्तमं कुलम् ||१४-११७-४ (९६८३४)
अश्वत्थो ब्राह्मणा गावो मन्मयास्तारयन्ति हि |
तस्मादेतत्प्रयत्नेन त्रयं पूजय पाण्डव ||१४-११७-५ (९६८३५)
युधिष्ठिर उवाच. १४-११७-६क्ष् (८०१५)
ब्राह्मणेनैव देहेन कथं शूद्रत्वमाप्नुयात् |
ब्रह्म वा नश्यति कथं वक्तुं देव त्वमर्हसि ||१४-११७-६ (९६८३६)
भगवानुवाच. १४-११७-७क्ष् (८०१६)
कूपस्नानं तु यो विप्रः कुर्याद्द्वादशवार्षिकम् |
स तेनैव शरीरेण शूद्रत्वं यात्यसंशयम् ||१४-११७-७ (९६८३७)
यस्तु राजाश्रयेणैव जीवेद्द्वादशवार्षिकम् |
स शूद्रत्वं व्रजेद्विप्रो वेदानां पारगोपि सन् ||१४-११७-८ (९६८३८)
पत्तने नगरे वाऽपि यो द्वादशसमा वसेत् |
स शूद्रत्वं व्रजेद्विप्रो नात्र कार्या विचारणा ||१४-११७-९ (९६८३९)
उत्पादयति यः पुत्रं शूद्रायां काममोहितः |
तस्य कायगतं ब्रह्म सद्य एव विनश्यति ||१४-११७-१० (९६८४०)
यः सोमलतिकां विप्रः केवलं भक्षयेद्वृथा |
तस्य कायगतं ब्रह्म सद्य एव विनश्यति ||१४-११७-११ (९६८४१)
मैथुनं कुरुते यस्तु जिह्वायां ब्राह्मणो नृप |
तस्य कायगतं ब्रह्म सद्य एव विनश्यति ||१४-११७-१२ (९६८४२)
विप्रत्वं दुर्लभं प्राप्य दुर्मर्गैरेवमादिभिः |
विनाशयन्ति ये तत्तु ताञ्शोचामि युधिष्ठिर ||१४-११७-१३ (९६८४३)
तस्मात्सर्वप्रत्नेन मत्प्रियो यो युधिष्ठिर |
जातिभ्रंशकरं कर्म न कुर्यादीदृशं द्विजः ||||१४-११७-१४ (९६८४४)
इति श्रीमन्महाभारते आश्वमेधिकपर्वणि वैष्णवधर्मपर्वणि
सप्तदशाधिकशततमोऽध्यायः ||११७ ||
आश्वमेधिकपर्व -अध्याय ११८
||श्रीः ||
१४. ११८. अध्यायः ११८
Mahabharata -Ashvamedhika Parva -Chapter Topics
कृष्णेन युधिष्ठिरंप्रति पालाशविधिप्रकारकथनम् ||१ ||
तथा तीर्थाटनासमर्थानां तत्प्रतिनिधितीर्थानुवर्णनम् ||२ ||
तथा भगवद्भक्तलक्षणकथनपूर्वकं तत्प्रशंसनम् ||३ ||
तता स्वस्य सर्वोत्तमत्वकथनपूर्वकं स्वोक्तध्रमश्रवणस्य
फलकथनम् ||४ ||
ततो युधिष्ठिराद्यामन्त्रपूर्वकं दारुकोपनीतरथारोहणेन द्वारकांप्रति
गमनम् ||५ ||
Mahabharata -Ashvamedhika Parva -Chapter Text
युधिष्ठिर उवाच |
देशान्तरगते विप्रे संयुक्ते कालधर्मणा |
शरीरनाशे संप्राप्ते कथं प्रेतत्वकल्पना ||१४-११८-१ (९६८४५)
भगवानुवाच. १४-११८-२क्ष् (८०१७)
श्रूयतामाहिताग्नेस्तु तथाभूतस्य संस्क्रिया |
पालाशबृन्दैः प्रतिमा कर्तव्या कल्पचोदिता ||१४-११८-२ (९६८४६)
त्रीणि षष्टिशतान्याहुरस्थीन्यस्य युधिष्ठिर |
तेषां विकल्पना कार्या यथाशास्त्रं विनिश्चितम् ||१४-११८-३ (९६८४७)
अशीत्यर्धं शिरसि च ग्रीवायां दश एव च |
बाह्वोश्चापि शतं दद्यादङ्गुलीषु पुनर्दश ||१४-११८-४ (९६८४८)
उरसि त्रिंशतं दद्याज्जठरे वाऽपि विंशतिम् |
वृषणे द्वादशार्धं तु शिश्ने चाष्टार्धमेव च ||१४-११८-५ (९६८४९)
दद्यात्तु शतमूर्वोस्तु षष्ट्यर्थं जानुजङ्घयोः |
दश दद्याच्चरणयोरेषा प्रेतस्य निष्कृतिः ||१४-११८-६ (९६८५०)
युधिष्ठिर उवाच. १४-११८-७क्ष् (८०१८)
विशेषतीर्थं सर्वेषामशक्तानामनुग्रहात् |
भक्तानां तारणार्तं तु वक्तुमर्हसि धर्मतः ||१४-११८-७ (९६८५१)
भगवानुवाच. १४-११८-८क्ष् (८०१९)
पावनं सर्वतीर्थानां सत्यं गायन्ति सामगाः |
सत्यस्य वचनं तीर्थमहिंसा तीर्थमुच्यते ||१४-११८-८ (९६८५२)
तपस्तीर्थं दया तीर्थं शीलं तीर्थं युधिष्ठिर |
अल्पसंतोषकं तीर्थं नारी तीर्थं पतिव्रता ||१४-११८-९ (९६८५३)
संतुष्टो ब्राह्मणस्तीर्थं ज्ञानं वा तीर्थमुच्यते |
मद्भक्तः सततं तीर्थं शङ्करस्य विशेषतः ||१४-११८-१० (९६८५४)
यतयस्तीर्थमित्येवं विद्वांसस्तीर्थमुच्यते |
शरण्यपुरुषस्तीर्थमभयं तीर्थमुच्यते ||१४-११८-११ (९६८५५)
त्रैलोक्येऽस्मिन्निरुद्विग्नो न बिभेमि कुतश्चन |
न दिवा यदि वा रात्रावुद्वेगः शूद्रलङ्घनात् ||१४-११८-१२ (९६८५६)
न भयं देवदैत्येभ्यो रक्षोभ्यश्चैव मे नृप |
शूद्रवक्त्राच्च्युतं ब्रह्म भयं तु मम सर्वदा ||१४-११८-१३ (९६८५७)
तस्मात्सप्रणवं शूद्रो मन्नामापि न कीर्तयेत् |
प्रणवं हि परं लोके ब्रह्म ब्रह्मविदो विदुः ||१४-११८-१४ (९६८५८)
द्विजशुश्रूषणं धर्मः शूद्राणां भक्तितो मयि |
तेन गच्छन्ति ते स्वर्गं चिन्तयन्तो हि मां सदा ||१४-११८-१५ (९६८५९)
द्विजशुश्रूषया शूद्रः परं श्रेयोऽधिगच्छति |
द्विजशुश्रूषणादन्यन्नास्ति शूद्रस्य निष्कृतिः ||१४-११८-१६ (९६८६०)
रागो द्वेषश्च मोहश्च पारुष्यं चानृशंसता |
शाठ्यं च दीर्घवैरित्वमतिमानमनार्जवम् ||१४-११८-१७ (९६८६१)
अनृतं चापवादं च पैशुन्यमतिलोभता |
हिंसा स्तेयो मृषावादो वञ्चना रोषलोभता ||१४-११८-१८ (९६८६२)
अबुद्धिता च नास्तिक्यं भयमालस्यमेव च |
अशौचं चाकृतज्ञत्वं डंभता स्तंभ एव च |
निकृतिश्चाप्यविज्ञानं जातके शूद्रमाविशेत् ||१४-११८-१९ (९६८६३)
सृष्ट्वा पितामहः शूद्रमभिभूतं तु तामसैः |
द्विजशुश्रूषणं धर्मं शूद्राणां तु प्रयुक्तवान् |
नश्यन्ति तामसा भावाः शूद्रस्य द्विजभक्तितः ||१४-११८-२० (९६८६४)
पत्रं पुष्पं फलं तोयं यो मे भक्त्या प्रयच्छति |
तदहं भक्त्युपहृतं मूर्ध्ना गृह्णामि शूद्रतः ||१४-११८-२१ (९६८६५)
अग्रजो वाऽपि यः कश्चित्सर्वपापसमन्वितः |
यदि मां सततं ध्यायेत्सर्वपापैः प्रमुच्यते ||१४-११८-२२ (९६८६६)
विद्याविनयसंपन्ना ब्राह्मणा वेदपारगाः |
मयि भक्ति न कुर्वन्ति चण्डालसदृशा हि ते ||१४-११८-२३ (९६८६७)
वृथा दानं वृथा तप्तं वृथा चेष्टं वृथा हुतम् |
वृथाऽऽतिथ्यं च तत्तस्य यो न भक्तो मम द्विजः ||१४-११८-२४ (९६८६८)
यत्कृतं च हुतं चापि यदिष्टं दत्तमेव च |
अभक्तिमत्कृतं सर्वं राक्षसा एव भुञ्जते ||१४-११८-२५ (९६८६९)
स्थावरे जङ्गमे वाऽपि सर्वभूतेषु पाण्डव |
समत्वेन यदा कुर्यान्मद्भक्तो मित्रशत्रुषु ||१४-११८-२६ (९६८७०)
आनृशंस्यमहिंसा च यथा सत्यं तथाऽऽर्जवम् |
अद्रोहश्चैव भूतानां मद्गतानां व्रतं नृप ||१४-११८-२७ (९६८७१)
नम इत्येव यो ब्रूयान्मद्भक्तं श्रुद्धयाऽन्वितः |
तस्याक्षयाऽभवँल्लोकाः श्वपाकस्यापि पार्थिव ||१४-११८-२८ (९६८७२)
किं पुनर्ये यजन्ते मां सदारं विधिपूर्वकम् |
मद्भक्ता मद्गतप्राणाः कथयन्तश्च मां सदा ||१४-११८-२९ (९६८७३)
बहुवर्षसहस्राणि तपस्तप्यति यो नरः |
नासौ पदमवाप्नोति मद्भक्तैर्यदवाप्यते ||१४-११८-३० (९६८७४)
मामेव तस्माद्राजेन्द्र ध्यायन्नित्यमतन्द्रितः |
अवाप्स्यति ततः सिद्धिं द्रक्ष्यत्येव परं पदम् ||१४-११८-३१ (९६८७५)
अपार्थकं प्रभाषन्तः शूद्रा भागवता इति |
न शूद्रा भगवद्भक्ता विप्रा भागवताः स्मृताः ||१४-११८-३२ (९६८७६)
द्वादशाक्षरतत्वज्ञश्चतुर्व्यूहविभागवित् |
अच्छिद्रपञ्चकालज्ञः स वै भागवतः स्मृतः ||१४-११८-३३ (९६८७७)
ऋग्वेदेनैव होता च यजुषाऽध्वर्युरेव च |
सामवेदेन चोद्गाता पुण्येनाभिष्टुवन्ति माम् ||१४-११८-३४ (९६८७८)
अथर्वशिरसा चैव नित्यमाथर्वाणा द्विजाः |
स्तुवन्ति सततं ये मां ते वै भागवताः स्मृताः ||१४-११८-३५ (९६८७९)
वेदाधीनाः सदा यज्ञा यज्ञाधीनास्तु देवताः |
देवता ब्राह्मणाधीनास्तस्माद्विप्रास्तु देवताः ||१४-११८-३६ (९६८८०)
अनाश्रित्योच्छ्रयं नास्ति मुख्यमानश्रयमाश्रयेत् |
रुद्रं समाश्रिता देवा रुद्रो ब्रह्माणमाश्रितः ||१४-११८-३७ (९६८८१)
ब्रह्मा मामाश्रितो राजन्नाहं कंचिदुपाश्रितः |
ममाश्रयो न कश्चित्तु सर्वेषामाश्रयो ह्यहम् ||१४-११८-३८ (९६८८२)
एवमेतन्मया प्रोक्तं रहस्यमिदमुत्तमम् |
धर्मप्रियस्य ते नित्यं राजन्नेवं समाचर ||१४-११८-३९ (९६८८३)
इदं पवित्रमाख्यानं पुण्यं वेदेन संमितम् |
यः पठेन्मामकं धर्ममहन्यहनि पाण्डव ||१४-११८-४० (९६८८४)
धर्मोति वर्धते तस्य बुद्धिश्चापि प्रसीदति |
पापक्षयमुपेत्यैवं कल्याणं च विवर्धते ||१४-११८-४१ (९६८८५)
एतत्पुण्यं पवित्रं च पामनाशनमुत्तमम् |
श्रोतव्यं श्रद्धया युक्तैः श्रोत्रियैश्च विशेषतः ||१४-११८-४२ (९६८८६)
श्रावयेद्यस्त्विदं भक्त्या प्रयतोथ शृणोति वा |
स गच्छेन्मम सायुज्यं नात्र कार्या विचारणा ||१४-११८-४३ (९६८८७)
यश्चेमं श्रावयेच्छ्राद्धे मद्भक्तो मत्परायणः |
पितरस्तस्य तृप्यन्ति यावदाभूतसंप्लवम् ||१४-११८-४४ (९६८८८)
वैशम्पायन उवाच. १४-११८-४५क्ष् (८०२०)
श्रुत्वा भागवतान्धर्मान्साक्षाद्विष्णोर्जगद्गुरोः |
प्रहृष्टमनसो भूत्वा चिन्तयन्तोद्भुताः कथाः ||१४-११८-४५ (९६८८९)
ऋषय पाण्डवाश्चैव प्रणेमुस्तं जनार्दनम् |
पूजयामास गोविन्दं धर्मपुत्रः पुनः पुनः ||१४-११८-४६ (९६८९०)
देवा ब्रह्मर्षयः सिद्धा गन्धर्वाप्सरसस्तथा |
ऋषयस्च महात्मानो गुह्यका भुजगास्तता ||१४-११८-४७ (९६८९१)
वालखिल्या महात्मानो योगिनस्तत्वदर्शिनः |
तथा भागवताश्चापि पञ्चकालमुपासकाः ||१४-११८-४८ (९६८९२)
कौतूहलसमायुक्ता भगवद्भक्तिमागताः |
श्रुत्वा तु परमं पुण्यं वैष्णवं धर्मशासनम् ||१४-११८-४९ (९६८९३)
विमुक्तपापाः पूतास्ते संवृत्तास्तत्क्षणेन् तु |
प्रणम्य शिरसा विष्णु प्रतिनन्द्य च ताः कथाः ||१४-११८-५० (९६८९४)
द्रष्टारो द्वारकायां वै वयं सर्वे जगद्गुरुम् |
इति प्रहृष्टमनसो ययुर्देवगणैः सह |
सर्वे ऋषिगणा राजन्ययुः स्वंस्वं निवेशनम् ||१४-११८-५१ (९६८९५)
गतेषु तेषु सर्वेषु केशवः केशिहा हरिः |
सस्मार दारुकं राजन्स च सात्यकिना सह |
समीपस्थोऽभवत्सूतो याहि देवेति चाब्रवीत् ||१४-११८-५२ (९६८९६)
ततो विषण्णवदनाः पाण्डवाः पुरुषोत्तमम् |
अञ्जलिं मूर्ध्नि संधाय नेत्रैरश्रुपरिप्लुतैः |
पिबन्तः सततं कृष्णं नोचुरार्ततरास्तदा ||१४-११८-५३ (९६८९७)
कृष्णोपि भगवान्देवः पृथामामन्त्र्य चार्तवत् |
धृतराष्ट्रं च गान्धारीं विगदुरं द्रौपदीं तथा ||१४-११८-५४ (९६८९८)
कृष्णद्वैपायनं व्यासमृषीनन्यांस्च मन्त्रिणः |
सुभद्रामात्मजयुतामुत्तरां स्पृश्य पाणिना |
निर्गत्य वेश्मनस्तस्मादारुरोह तदा रथम् ||१४-११८-५५ (९६८९९)
वाजिभिः शैव्यसुग्रीवमेघपुष्पबलाहकैः |
युक्तं तु ध्वजभूतेन पतगेन्द्रेण धीमता ||१४-११८-५६ (९६९००)
अन्वारुरोह चाप्येन प्रेम्या राजा युधिष्ठिरः |
अपास्य चाशु यन्तारं दारुकं सूतसत्तमम् |
अभीशून्प्रतिजग्राह स्वयं कुरुपतिस्तदा ||१४-११८-५७ (९६९०१)
उपारुह्यार्जुनश्चापि चामरव्यजनं शुभम् |
रुक्मदण्डं बृहन्मूर्ध्नि दुधावाभिप्रदक्षिणम् ||१४-११८-५८ (९६९०२)
तथैव भीमसेनोपि रथमारुह्य वीर्यवान् |
छत्रं शतशलाकं च दिव्यमाल्योपशोभितम् ||१४-११८-५९ (९६९०३)
वैडूर्यमणिदण्डं च चामीकरविभूषितम् |
दधार तरसा भीमश्छत्रं तच्छार्ङ्गधन्वनः ||१४-११८-६० (९६९०४)
उपारुह्य रथं शीघ्रं चामरव्यजने सिते |
नकुलः सहदेवश्च धूयमानौ जनार्दनम् ||१४-११८-६१ (९६९०५)
भीमसेनोऽर्जुनश्चैव यमावप्यरिसूदनौ |
पृष्ठतोऽनुययुः कृष्णं माशब्द इति हर्षिताः ||१४-११८-६२ (९६९०६)
त्रियोजने व्यतीते तु परिष्वज्य च पाण्डवान् |
विसृज्य कृष्णस्तान्सर्वान्प्रणतान्द्वारका ययौ ||१४-११८-६३ (९६९०७)
तथा प्रणम्य गोविन्दं तदाप्रभृति पाण्डवाः |
कपिलाद्यानि दानानि ददुर्धर्मपरायणाः ||१४-११८-६४ (९६९०८)
मधुसूदनवाक्यानि स्मृत्वास्मृत्वा पुनःपुनः |
मनसा पूजयामासुर्हदयस्थानि पाण्डवाः ||१४-११८-६५ (९६९०९)
युधिष्ठिरस्तु धर्मात्मा हृदि कृत्वा जनार्दनम् |
तद्भक्तस्तन्मना युक्तस्तद्याजी तत्परोऽभवत् ||१४-११८-६६ (९६९१०)
एवमुक्तं पुरावृत्तं वैष्णवं धर्मशासनम् |
मया ते कथितं राजन्पिवित्रं पापनाशनम् ||१४-११८-६७ (९६९११)
तच्छृणुष्व महाराज विष्णुप्रोक्तं कुरूद्वह |
तेन गच्छसि नान्येन तद्विष्णोः परमं पदम् ||||१४-११८-६८ (९६९१२)
इति श्रीमन्महाभारते शतसाहस्र्यां संहितायां
वैयासिक्यां आश्वमेधिकपर्वणि वैष्णवधर्मपर्वणि
अष्टादशाधिकशततमोऽध्यायः ||११८ ||
. इत्याश्वमेधिकपर्व समाप्तम् ||
--------
इतः परमाश्रमवासिकपर्व भविष्यति | तस्यायमाद्यः
श्लोकः. जनमेजय उवाच. प्राप्य पैतामहं राज्यं मम
पूर्वपितामहाः. कथमासन्महाराजे धृतराष्ट्रे महात्मनि ||१
||इत्याश्वमेधिकपर्व कुंभघोणस्येन TI.Ar.कृष्णाचार्येण
TI.Ar.व्यासाचार्येण च मुंबय्यां निर्णयसागरमुद्रायन्त्रे
मुद्रापितम्. शकाब्दाः १८३२ सन १९१०.
% File name : mbhK14.itx
%--------------------------------------------
% Text title : 14 ashvamedhikaparva
% Author : Veda Vyasa
% Language : sanskrit
% Subject : /hindu/philosohphy/religion
% Description/comments : Mahabharata - Southern Recension - Kumbhaghonam Edition
% Based on the `Southern Recension' of the MahAbhArata, edited by Krishnacharya
% 1906-1914
% Transliterated by : Prof. Shrinivasa Varakhedi >worked on this with the
% support of his research team members, Prof. K. V. Ramakrishnamacharyulu, Prof.
% Amba Kulakarni, Prof. Prahladachar, members of MSP Bangalore and many others
% Proofread by :
% Latest update : October 13, 2013
% Send corrections to : (sanskrit at cheerful dot c om)
%
% Site access : https://sanskritdocuments.org/
%-----------------------------------------------------
% The text is to be used for personal studies and research only.
% Any use for commercial purpose is prohibited as a 'gentleman's' agreement.
%--------------------------------------------------------
From https://sanskritdocuments.org
Questions, comments? Write to (sanskrit at cheerful dot c om) .