||३ महाभारते आरण्यकपर्वम् ||
आरण्यकपर्व
१
जनमेजय उवाच||
एवं द्यूतजिताः पार्थाः कोपिताश्च दुरात्मभिः |
धार्तराष्ट्रैः सहामात्यैर्निकृत्या द्विजसत्तम ||१||
श्राविताः परुषा वाचः सृजद्भिर्वैरमुत्तमम् |
किमकुर्वन्त कौरव्या मम पूर्वपितामहाः ||२||
कथं चैश्वर्यविभ्रष्टाः सहसा दुःखमेयुषः |
वने विजह्रिरे पार्थाः शक्रप्रतिमतेजसः ||३||
के चैनानन्ववर्तन्त प्राप्तान्व्यसनमुत्तमम् |
किमाहाराः किमाचाराः क्व च वासो महात्मनाम् ||४||
कथं द्वादश वर्षाणि वने तेषां महात्मनाम् |
व्यतीयुर्ब्राह्मणश्रेष्ठ शूराणामरिघातिनाम् ||५||
कथं च राजपुत्री सा प्रवरा सर्वयोषिताम् |
पतिव्रता महाभागा सततं सत्यवादिनी ||६||
वनवासमदुःखार्हा दारुणं प्रत्यपद्यत ||६||
एतदाचक्ष्व मे सर्वं विस्तरेण तपोधन |
श्रोतुमिच्छामि चरितं भूरिद्रविणतेजसाम् ||७||
कथ्यमानं त्वया विप्र परं कौतूहलं हि मे ||७||
वैशम्पायन उवाच||
एवं द्यूतजिताः पार्थाः कोपिताश्च दुरात्मभिः |
धार्तराष्ट्रैः सहामात्यैर्निर्ययुर्गजसाह्वयात् ||८||
वर्धमानपुरद्वारेणाभिनिष्क्रम्य ते तदा |
उदङ्मुखाः शस्त्रभृतः प्रययुः सह कृष्णया ||९||
इन्द्रसेनादयश्चैनान्भृत्याः परिचतुर्दश |
रथैरनुययुः शीघ्रैः स्त्रिय आदाय सर्वशः ||१०||
व्रजतस्तान्विदित्वा तु पौराः शोकाभिपीडिताः |
गर्हयन्तोऽसकृद्भीष्मविदुरद्रोणगौतमान् ||११||
ऊचुर्विगतसन्त्रासाः समागम्य परस्परम् ||११||
नेदमस्ति कुलं सर्वं न वयं न च नो गृहाः |
यत्र दुर्योधनः पापः सौबलेयेन पालितः ||१२||
कर्णदुःशासनाभ्यां च राज्यमेतच्चिकीर्षति ||१२||
नो चेत्कुलं न चाचारो न धर्मोऽर्थः कुतः सुखम् |
यत्र पापसहायोऽयं पापो राज्यं बुभूषते ||१३||
दुर्योधनो गुरुद्वेषी त्यक्ताचारसुहृज्जनः |
अर्थलुब्धोऽभिमानी च नीचः प्रकृतिनिर्घृणः ||१४||
नेयमस्ति मही कृत्स्ना यत्र दुर्योधनो नृपः |
साधु गच्छामहे सर्वे यत्र गच्छन्ति पाण्डवाः ||१५||
सानुक्रोशा महात्मानो विजितेन्द्रियशत्रवः |
ह्रीमन्तः कीर्तिमन्तश्च धर्माचारपरायणाः ||१६||
एवमुक्त्वानुजग्मुस्तान्पाण्डवांस्ते समेत्य च |
ऊचुः प्राञ्जलयः सर्वे तान्कुन्तीमाद्रिनन्दनान् ||१७||
क्व गमिष्यथ भद्रं वस्त्यक्त्वास्मान्दुःखभागिनः |
वयमप्यनुयास्यामो यत्र यूयं गमिष्यथ ||१८||
अधर्मेण जिताञ्श्रुत्वा युष्मांस्त्यक्तघृणैः परैः |
उद्विग्नाः स्म भृशं सर्वे नास्मान्हातुमिहार्हथ ||१९||
भक्तानुरक्ताः सुहृदः सदा प्रियहिते रतान् |
कुराजाधिष्ठिते राज्ये न विनश्येम सर्वशः ||२०||
श्रूयतां चाभिधास्यामो गुणदोषान्नरर्षभाः |
शुभाशुभाधिवासेन संसर्गं कुरुते यथा ||२१||
वस्त्रमापस्तिलान्भूमिं गन्धो वासयते यथा |
पुष्पाणामधिवासेन तथा संसर्गजा गुणाः ||२२||
मोहजालस्य योनिर्हि मूढैरेव समागमः |
अहन्यहनि धर्मस्य योनिः साधुसमागमः ||२३||
तस्मात्प्राज्ञैश्च वृद्धैश्च सुस्वभावैस्तपस्विभिः |
सद्भिश्च सह संसर्गः कार्यः शमपरायणैः ||२४||
येषां त्रीण्यवदातानि योनिर्विद्या च कर्म च |
तान्सेवेत्तैः समास्या हि शास्त्रेभ्योऽपि गरीयसी ||२५||
निरारम्भा ह्यपि वयं पुण्यशीलेषु साधुषु |
पुण्यमेवाप्नुयामेह पापं पापोपसेवनात् ||२६||
असतां दर्शनात्स्पर्शात्सञ्जल्पनसहासनात् |
धर्माचाराः प्रहीयन्ते न च सिध्यन्ति मानवाः ||२७||
बुद्धिश्च हीयते पुंसां नीचैः सह समागमात् |
मध्यमैर्मध्यतां याति श्रेष्ठतां याति चोत्तमैः ||२८||
ये गुणाः कीर्तिता लोके धर्मकामार्थसम्भवाः |
लोकाचारात्मसम्भूता वेदोक्ताः शिष्टसंमताः ||२९||
ते युष्मासु समस्ताश्च व्यस्ताश्चैवेह सद्गुणाः |
इच्छामो गुणवन्मध्ये वस्तुं श्रेयोऽभिकाङ्क्षिणः ||३०||
युधिष्ठिर उवाच||
धन्या वयं यदस्माकं स्नेहकारुण्ययन्त्रिताः |
असतोऽपि गुणानाहुर्ब्राह्मणप्रमुखाः प्रजाः ||३१||
तदहं भ्रातृसहितः सर्वान्विज्ञापयामि वः |
नान्यथा तद्धि कर्तव्यमस्मत्स्नेहानुकम्पया ||३२||
भीष्मः पितामहो राजा विदुरो जननी च मे |
सुहृज्जनश्च प्रायो मे नगरे नागसाह्वये ||३३||
ते त्वस्मद्धितकामार्थं पालनीयाः प्रयत्नतः |
युष्माभिः सहितैः सर्वैः शोकसन्तापविह्वलाः ||३४||
निवर्ततागता दूरं समागमनशापिताः |
स्वजने न्यासभूते मे कार्या स्नेहान्विता मतिः ||३५||
एतद्धि मम कार्याणां परमं हृदि संस्थितम् |
सुकृतानेन मे तुष्टिः सत्कारश्च भविष्यति ||३६||
वैशम्पायन उवाच||
तथानुमन्त्रितास्तेन धर्मराजेन ताः प्रजाः |
चक्रुरार्तस्वरं घोरं हा राजन्निति दुःखिताः ||३७||
गुणान्पार्थस्य संस्मृत्य दुःखार्ताः परमातुराः |
अकामाः संन्यवर्तन्त समागम्याथ पाण्डवान् ||३८||
निवृत्तेषु तु पौरेषु रथानास्थाय पाण्डवाः |
प्रजग्मुर्जाह्नवीतीरे प्रमाणाख्यं महावटम् ||३९||
तं ते दिवसशेषेण वटं गत्वा तु पाण्डवाः |
ऊषुस्तां रजनीं वीराः संस्पृश्य सलिलं शुचि ||४०||
उदकेनैव तां रात्रिमूषुस्ते दुःखकर्शिताः ||४०||
अनुजग्मुश्च तत्रैतान्स्नेहात्केचिद्द्विजातयः |
साग्नयोऽनग्नयश्चैव सशिष्यगणबान्धवाः ||४१||
स तैः परिवृतो राजा शुशुभे ब्रह्मवादिभिः ||४१||
तेषां प्रादुष्कृताग्नीनां मुहूर्ते रम्यदारुणे |
ब्रह्मघोषपुरस्कारः सञ्जल्पः समजायत ||४२||
राजानं तु कुरुश्रेष्ठं ते हंसमधुरस्वराः |
आश्वासयन्तो विप्राग्र्याः क्षपां सर्वां व्यनोदयन् ||४३||
२
वैशम्पायन उवाच||
प्रभातायां तु शर्वर्यां तेषामक्लिष्टकर्मणाम् |
वनं यियासतां विप्रास्तस्थुर्भिक्षाभुजोऽग्रतः ||१||
तानुवाच ततो राजा कुन्तीपुत्रो युधिष्ठिरः ||१||
वयं हि हृतसर्वस्वा हृतराज्या हृतश्रियः |
फलमूलामिषाहारा वनं यास्याम दुःखिताः ||२||
वनं च दोषबहुलं बहुव्यालसरीसृपम् |
परिक्लेशश्च वो मन्ये ध्रुवं तत्र भविष्यति ||३||
ब्राह्मणानां परिक्लेशो दैवतान्यपि सादयेत् |
किं पुनर्मामितो विप्रा निवर्तध्वं यथेष्टतः ||४||
ब्राह्मणा ऊचुः||
गतिर्या भवतां राजंस्तां वयं गन्तुमुद्यताः |
नार्हथास्मान्परित्यक्तुं भक्तान्सद्धर्मदर्शिनः ||५||
अनुकम्पां हि भक्तेषु दैवतान्यपि कुर्वते |
विशेषतो ब्राह्मणेषु सदाचारावलम्बिषु ||६||
युधिष्ठिर उवाच||
ममापि परमा भक्तिर्ब्राह्मणेषु सदा द्विजाः |
सहायविपरिभ्रंशस्त्वयं सादयतीव माम् ||७||
आहरेयुर्हि मे येऽपि फलमूलमृगांस्तथा |
त इमे शोकजैर्दुःखैर्भ्रातरो मे विमोहिताः ||८||
द्रौपद्या विप्रकर्षेण राज्यापहरणेन च |
दुःखान्वितानिमान्क्लेशैर्नाहं योक्तुमिहोत्सहे ||९||
ब्राह्मणा ऊचुः||
अस्मत्पोषणजा चिन्ता मा भूत्ते हृदि पार्थिव |
स्वयमाहृत्य वन्यानि अनुयास्यामहे वयम् ||१०||
अनुध्यानेन जप्येन विधास्यामः शिवं तव |
कथाभिश्चानुकूलाभिः सह रंस्यामहे वने ||११||
युधिष्ठिर उवाच||
एवमेतन्न संदेहो रमेयं ब्राह्मणैः सह |
न्यूनभावात्तु पश्यामि प्रत्यादेशमिवात्मनः ||१२||
कथं द्रक्ष्यामि वः सर्वान्स्वयमाहृतभोजनान् |
मद्भक्त्या क्लिश्यतोऽनर्हान्धिक्पापान्धृतराष्ट्रजान् ||१३||
वैशम्पायन उवाच||
इत्युक्त्वा स नृपः शोचन्निषसाद महीतले |
तमध्यात्मरतिर्विद्वाञ्शौनको नाम वै द्विजः ||१४||
योगे साङ्ख्ये च कुशलो राजानमिदमब्रवीत् ||१४||
शोकस्थानसहस्राणि भयस्थानशतानि च |
दिवसे दिवसे मूढमाविशन्ति न पण्डितम् ||१५||
न हि ज्ञानविरुद्धेषु बहुदोषेषु कर्मसु |
श्रेयोघातिषु सज्जन्ते बुद्धिमन्तो भवद्विधाः ||१६||
अष्टाङ्गां बुद्धिमाहुर्यां सर्वाश्रेयोविघातिनीम् |
श्रुतिस्मृतिसमायुक्तां सा राजंस्त्वय्यवस्थिता ||१७||
अर्थकृच्छ्रेषु दुर्गेषु व्यापत्सु स्वजनस्य च |
शारीरमानसैर्दुःखैर्न सीदन्ति भवद्विधाः ||१८||
श्रूयतां चाभिधास्यामि जनकेन यथा पुरा |
आत्मव्यवस्थानकरा गीताः श्लोका महात्मना ||१९||
मनोदेहसमुत्थाभ्यां दुःखाभ्यामर्दितं जगत् |
तयोर्व्याससमासाभ्यां शमोपायमिमं शृणु ||२०||
व्याधेरनिष्टसंस्पर्शाच्छ्रमादिष्टविवर्जनात् |
दुःखं चतुर्भिः शारीरं कारणैः सम्प्रवर्तते ||२१||
तदाशुप्रतिकाराच्च सततं चाविचिन्तनात् |
आधिव्याधिप्रशमनं क्रियायोगद्वयेन तु ||२२||
मतिमन्तो ह्यतो वैद्याः शमं प्रागेव कुर्वते |
मानसस्य प्रियाख्यानैः सम्भोगोपनयैर्नृणाम् ||२३||
मानसेन हि दुःखेन शरीरमुपतप्यते |
अयःपिण्डेन तप्तेन कुम्भसंस्थमिवोदकम् ||२४||
मानसं शमयेत्तस्माज्ज्ञानेनाग्निमिवाम्बुना |
प्रशान्ते मानसे दुःखे शारीरमुपशाम्यति ||२५||
मनसो दुःखमूलं तु स्नेह इत्युपलभ्यते |
स्नेहात्तु सज्जते जन्तुर्दुःखयोगमुपैति च ||२६||
स्नेहमूलानि दुःखानि स्नेहजानि भयानि च |
शोकहर्षौ तथायासः सर्वं स्नेहात्प्रवर्तते ||२७||
स्नेहात्करणरागश्च प्रजज्ञे वैषयस्तथा |
अश्रेयस्कावुभावेतौ पूर्वस्तत्र गुरुः स्मृतः ||२८||
कोटराग्निर्यथाशेषं समूलं पादपं दहेत् |
धर्मार्थिनं तथाल्पोऽपि रागदोषो विनाशयेत् ||२९||
विप्रयोगे न तु त्यागी दोषदर्शी समागमात् |
विरागं भजते जन्तुर्निर्वैरो निष्परिग्रहः ||३०||
तस्मात्स्नेहं स्वपक्षेभ्यो मित्रेभ्यो धनसञ्चयात् |
स्वशरीरसमुत्थं तु ज्ञानेन विनिवर्तयेत् ||३१||
ज्ञानान्वितेषु मुख्येषु शास्त्रज्ञेषु कृतात्मसु |
न तेषु सज्जते स्नेहः पद्मपत्रेष्विवोदकम् ||३२||
रागाभिभूतः पुरुषः कामेन परिकृष्यते |
इच्छा सञ्जायते तस्य ततस्तृष्णा प्रवर्तते ||३३||
तृष्णा हि सर्वपापिष्ठा नित्योद्वेगकरी नृणाम् |
अधर्मबहुला चैव घोरा पापानुबन्धिनी ||३४||
या दुस्त्यजा दुर्मतिभिर्या न जीर्यति जीर्यतः |
योऽसौ प्राणान्तिको रोगस्तां तृष्णां त्यजतः सुखम् ||३५||
अनाद्यन्ता तु सा तृष्णा अन्तर्देहगता नृणाम् |
विनाशयति सम्भूता अयोनिज इवानलः ||३६||
यथैधः स्वसमुत्थेन वह्निना नाशमृच्छति |
तथाकृतात्मा लोभेन सहजेन विनश्यति ||३७||
राजतः सलिलादग्नेश्चोरतः स्वजनादपि |
भयमर्थवतां नित्यं मृत्योः प्राणभृतामिव ||३८||
यथा ह्यामिषमाकाशे पक्षिभिः श्वापदैर्भुवि |
भक्ष्यते सलिले मत्स्यैस्तथा सर्वेण वित्तवान् ||३९||
अर्थ एव हि केषाञ्चिदनर्थो भविता नृणाम् |
अर्थश्रेयसि चासक्तो न श्रेयो विन्दते नरः ||४०||
तस्मादर्थागमाः सर्वे मनोमोहविवर्धनाः ||४०||
कार्पण्यं दर्पमानौ च भयमुद्वेग एव च |
अर्थजानि विदुः प्राज्ञा दुःखान्येतानि देहिनाम् ||४१||
अर्थस्योपार्जने दुःखं पालने च क्षये तथा |
नाशे दुःखं व्यये दुःखं घ्नन्ति चैवार्थकारणात् ||४२||
अर्था दुःखं परित्यक्तुं पालिताश्चापि तेऽसुखाः |
दुःखेन चाधिगम्यन्ते तेषां नाशं न चिन्तयेत् ||४३||
असन्तोषपरा मूढाः सन्तोषं यान्ति पण्डिताः |
अन्तो नास्ति पिपासायाः सन्तोषः परमं सुखम् ||४४||
तस्मात्सन्तोषमेवेह धनं पश्यन्ति पण्डिताः |
अनित्यं यौवनं रूपं जीवितं द्रव्यसञ्चयः ||४५||
ऐश्वर्यं प्रियसंवासो गृध्येदेषु न पण्डितः ||४५||
त्यजेत सञ्चयांस्तस्मात्तज्जं क्लेशं सहेत कः |
न हि सञ्चयवान्कश्चिद्दृश्यते निरुपद्रवः ||४६||
अतश्च धर्मिभिः पुम्भिरनीहार्थः प्रशस्यते |
प्रक्षालनाद्धि पङ्कस्य दूरादस्पर्शनं वरम् ||४७||
युधिष्ठिरैवमर्थेषु न स्पृहां कर्तुमर्हसि |
धर्मेण यदि ते कार्यं विमुक्तेच्छो भवार्थतः ||४८||
युधिष्ठिर उवाच||
नार्थोपभोगलिप्सार्थमियमर्थेप्सुता मम |
भरणार्थं तु विप्राणां ब्रह्मन्काङ्क्षे न लोभतः ||४९||
कथं ह्यस्मद्विधो ब्रह्मन्वर्तमानो गृहाश्रमे |
भरणं पालनं चापि न कुर्यादनुयायिनाम् ||५०||
संविभागो हि भूतानां सर्वेषामेव शिष्यते |
तथैवापचमानेभ्यः प्रदेयं गृहमेधिना ||५१||
तृणानि भूमिरुदकं वाक्चतुर्थी च सूनृता |
सतामेतानि गेहेषु नोच्छिद्यन्ते कदाचन ||५२||
देयमार्तस्य शयनं स्थितश्रान्तस्य चासनम् |
तृषितस्य च पानीयं क्षुधितस्य च भोजनम् ||५३||
चक्षुर्दद्यान्मनो दद्याद्वाचं दद्याच्च सूनृताम् |
प्रत्युद्गम्याभिगमनं कुर्यान्न्यायेन चार्चनम् ||५४||
अघिहोत्रमनड्वांश्च ज्ञातयोऽतिथिबान्धवाः |
पुत्रदारभृताश्चैव निर्दहेयुरपूजिताः ||५५||
नात्मार्थं पाचयेदन्नं न वृथा घातयेत्पशून् |
न च तत्स्वयमश्नीयाद्विधिवद्यन्न निर्वपेत् ||५६||
श्वभ्यश्च श्वपचेभ्यश्च वयोभ्यश्चावपेद्भुवि |
वैश्वदेवं हि नामैतत्सायम्प्रातर्विधीयते ||५७||
विघसाशी भवेत्तस्मान्नित्यं चामृतभोजनः |
विघसं भृत्यशेषं तु यज्ञशेषं तथामृतम् ||५८||
एतां यो वर्तते वृत्तिं वर्तमानो गृहाश्रमे |
तस्य धर्मं परं प्राहुः कथं वा विप्र मन्यसे ||५९||
शौनक उवाच||
अहो बत महत्कष्टं विपरीतमिदं जगत् |
येनापत्रपते साधुरसाधुस्तेन तुष्यति ||६०||
शिश्नोदरकृतेऽप्राज्ञः करोति विघसं बहु |
मोहरागसमाक्रान्त इन्द्रियार्थवशानुगः ||६१||
ह्रियते बुध्यमानोऽपि नरो हारिभिरिन्द्रियैः |
विमूढसञ्ज्ञो दुष्टाश्वैरुद्भ्रान्तैरिव सारथिः ||६२||
षडिन्द्रियाणि विषयं समागच्छन्ति वै यदा |
तदा प्रादुर्भवत्येषां पूर्वसङ्कल्पजं मनः ||६३||
मनो यस्येन्द्रियग्रामविषयं प्रति चोदितम् |
तस्यौत्सुक्यं सम्भवति प्रवृत्तिश्चोपजायते ||६४||
ततः सङ्कल्पवीर्येण कामेन विषयेषुभिः |
विद्धः पतति लोभाग्नौ ज्योतिर्लोभात्पतङ्गवत् ||६५||
ततो विहारैराहारैर्मोहितश्च विशां पते |
महामोहमुखे मग्नो नात्मानमवबुध्यते ||६६||
एवं पतति संसारे तासु तास्विह योनिषु |
अविद्याकर्मतृष्णाभिर्भ्राम्यमाणोऽथ चक्रवत् ||६७||
ब्रह्मादिषु तृणान्तेषु हूतेषु परिवर्तते |
जले भुवि तथाकाशे जायमानः पुनः पुनः ||६८||
अबुधानां गतिस्त्वेषा बुधानामपि मे शृणु |
ये धर्मे श्रेयसि रता विमोक्षरतयो जनाः ||६९||
यदिदं वेदवचनं कुरु कर्म त्यजेति च |
तस्माद्धर्मानिमान्सर्वान्नाभिमानात्समाचरेत् ||७०||
इज्याध्ययनदानानि तपः सत्यं क्षमा दमः |
अलोभ इति मार्गोऽयं धर्मस्याष्टविधः स्मृतः ||७१||
तत्र पूर्वश्चतुर्वर्गः पितृयानपथे स्थितः |
कर्तव्यमिति यत्कार्यं नाभिमानात्समाचरेत् ||७२||
उत्तरो देवयानस्तु सद्भिराचरितः सदा |
अष्टाङ्गेनैव मार्गेण विशुद्धात्मा समाचरेत् ||७३||
सम्यक्सङ्कल्पसम्बन्धात्सम्यक्चेन्द्रियनिग्रहात् |
सम्यग्व्रतविशेषाच्च सम्यक्च गुरुसेवनात् ||७४||
सम्यगाहारयोगाच्च सम्यक्चाध्ययनागमात् |
सम्यक्कर्मोपसंन्यासात्सम्यक्चित्तनिरोधनात् ||७५||
एवं कर्माणि कुर्वन्ति संसारविजिगीषवः ||७५||
रागद्वेषविनिर्मुक्ता ऐश्वर्यं देवता गताः |
रुद्राः साध्यास्तथादित्या वसवोऽथाश्विनावपि ||७६||
योगैश्वर्येण संयुक्ता धारयन्ति प्रजा इमाः ||७६||
तथा त्वमपि कौन्तेय शममास्थाय पुष्कलम् |
तपसा सिद्धिमन्विच्छ योगसिद्धिं च भारत ||७७||
पितृमातृमयी सिद्धिः प्राप्ता कर्ममयी च ते |
तपसा सिद्धिमन्विच्छ द्विजानां भरणाय वै ||७८||
सिद्धा हि यद्यदिच्छन्ति कुर्वते तदनुग्रहात् |
तस्मात्तपः समास्थाय कुरुष्वात्ममनोरथम् ||७९||
३
वैशम्पायन उवाच||
शौनकेनैवमुक्तस्तु कुन्तीपुत्रो युधिष्ठिरः |
पुरोहितमुपागम्य भ्रातृमध्येऽब्रवीदिदम् ||१||
प्रस्थितं मानुयान्तीमे ब्राह्मणा वेदपारगाः |
न चास्मि पालने शक्तो बहुदुःखसमन्वितः ||२||
परित्यक्तुं न शक्नोमि दानशक्तिश्च नास्ति मे |
कथमत्र मया कार्यं भगवांस्तद्ब्रवीतु मे ||३||
मुहूर्तमिव स ध्यात्वा धर्मेणान्विष्य तां गतिम् |
युधिष्ठिरमुवाचेदं धौम्यो धर्मभृतां वरः ||४||
पुरा सृष्टानि भूतानि पीड्यन्ते क्षुधया भृशम् |
ततोऽनुकम्पया तेषां सविता स्वपिता इव ||५||
गत्वोत्तरायणं तेजोरसानुद्धृत्य रश्मिभिः |
दक्षिणायनमावृत्तो महीं निविशते रविः ||६||
क्षेत्रभूते ततस्तस्मिन्नोषधीरोषधीपतिः |
दिवस्तेजः समुद्धृत्य जनयामास वारिणा ||७||
निषिक्तश्चन्द्रतेजोभिः सूयते भूगतो रविः |
ओषध्यः षड्रसा मेध्यास्तदन्नं प्राणिनां भुवि ||८||
एवं भानुमयं ह्यन्नं भूतानां प्राणधारणम् |
पितैष सर्वभूतानां तस्मात्तं शरणं व्रज ||९||
राजानो हि महात्मानो योनिकर्मविशोधिताः |
उद्धरन्ति प्रजाः सर्वास्तप आस्थाय पुष्कलम् ||१०||
भीमेन कार्तवीर्येण वैन्येन नहुषेण च |
तपोयोगसमाधिस्थैरुद्धृता ह्यापदः प्रजाः ||११||
तथा त्वमपि धर्मात्मन्कर्मणा च विशोधितः |
तप आस्थाय धर्मेण द्विजातीन्भर भारत ||१२||
एवमुक्तस्तु धौम्येन तत्कालसदृशं वचः |
धर्मराजो विशुद्धात्मा तप आतिष्ठदुत्तमम् ||१३||
पुष्पोपहारैर्बलिभिरर्चयित्वा दिवाकरम् |
योगमास्थाय धर्मात्मा वायुभक्षो जितेन्द्रियः ||१४||
गाङ्गेयं वार्युपस्पृष्य प्राणायामेन तस्थिवान् ||१४||
जनमेजय उवाच||
कथं कुरूणामृषभः स तु राजा युधिष्ठिरः |
विप्रार्थमाराधितवान्सूर्यमद्भुतविक्रमम् ||१५||
वैशम्पायन उवाच||
शृणुष्वावहितो राजञ्शुचिर्भूत्वा समाहितः |
क्षणं च कुरु राजेन्द्र सर्वं वक्ष्याम्यशेषतः ||१६||
धौम्येन तु यथ प्रोक्तं पार्थाय सुमहात्मने |
नाम्नामष्टशतं पुण्यं तच्छृणुष्व महामते ||१७||
सूर्योऽर्यमा भगस्त्वष्टा पूषार्कः सविता रविः |
गभस्तिमानजः कालो मृत्युर्धाता प्रभाकरः ||१८||
पृथिव्यापश्च तेजश्च खं वायुश्च परायणम् |
सोमो बृहस्पतिः शुक्रो बुधोऽङ्गारक एव च ||१९||
इन्द्रो विवस्वान्दीप्तांशुः शुचिः शौरिः शनैश्चरः |
ब्रह्मा विष्णुश्च रुद्रश्च स्कन्दो वैश्रवणो यमः ||२०||
वैद्युतो जाठरश्चाग्निरैन्धनस्तेजसां पतिः |
धर्मध्वजो वेदकर्ता वेदाङ्गो वेदवाहनः ||२१||
कृतं त्रेता द्वापरश्च कलिः सर्वामराश्रयः |
कला काष्ठा मुहूर्ताश्च पक्षा मासा ऋतुस्तथा ||२२||
संवत्सरकरोऽश्वत्थः कालचक्रो विभावसुः |
पुरुषः शाश्वतो योगी व्यक्ताव्यक्तः सनातनः ||२३||
लोकाध्यक्षः प्रजाध्यक्षो विश्वकर्मा तमोनुदः |
वरुणः सागरोंऽशुश्च जीमूतो जीवनोऽरिहा ||२४||
भूताश्रयो भूतपतिः सर्वभूतनिषेवितः |
मणिः सुवर्णो भूतादिः कामदः सर्वतोमुखः ||२५||
जयो विशालो वरदः शीघ्रगः प्राणधारणः |
धन्वन्तरिर्धूमकेतुरादिदेवोऽदितेः सुतः ||२६||
द्वादशात्मारविन्दाक्षः पिता माता पितामहः |
स्वर्गद्वारं प्रजाद्वारं मोक्षद्वारं त्रिविष्टपम् ||२७||
देहकर्ता प्रशान्तात्मा विश्वात्मा विश्वतोमुखः |
चराचरात्मा सूक्ष्मात्मा मैत्रेण वपुषान्वितः ||२८||
एतद्वै कीर्तनीयस्य सूर्यस्यैव महात्मनः |
नाम्नामष्टशतं पुण्यं शक्रेणोक्तं महात्मना ||२९||
शक्राच्च नारदः प्राप्तो धौम्यश्च तदनन्तरम् |
धौम्याद्युधिष्ठिरः प्राप्य सर्वान्कामानवाप्तवान् ||३०||
सुरपितृगणयक्षसेवितं; ह्यसुरनिशाचरसिद्धवन्दितम् |
वरकनकहुताशनप्रभं; त्वमपि मनस्यभिधेहि भास्करम् ||३१||
सूर्योदये यस्तु समाहितः पठे; त्स पुत्रलाभं धनरत्नसञ्चयान् |
लभेत जातिस्मरतां सदा नरः; स्मृतिं च मेधां च स विन्दते पराम् ||३२||
इमं स्तवं देववरस्य यो नरः; प्रकीर्तयेच्छुचिसुमनाः समाहितः |
स मुच्यते शोकदवाग्निसागरा; ल्लभेत कामान्मनसा यथेप्सितान् ||३३||
४
वैशम्पायन उवाच||
ततो दिवाकरः प्रीतो दर्शयामास पाण्डवम् |
दीप्यमानः स्ववपुषा ज्वलन्निव हुताशनः ||१||
यत्तेऽभिलषितं राजन्सर्वमेतदवाप्स्यसि |
अहमन्नं प्रदास्यामि सप्त पञ्च च ते समाः ||२||
फलमूलामिषं शाकं संस्कृतं यन्महानसे |
चतुर्विधं तदन्नाद्यमक्षय्यं ते भविष्यति ||३||
धनं च विविधं तुभ्यमित्युक्त्वान्तरधीयत ||३||
लब्ध्वा वरं तु कौन्तेयो जलादुत्तीर्य धर्मवित् |
जग्राह पादौ धौम्यस्य भ्रातॄंश्चास्वजताच्युतः ||४||
द्रौपद्या सह सङ्गम्य पश्यमानोऽभ्ययात्प्रभुः |
महानसे तदान्नं तु साधयामास पाण्डवः ||५||
संस्कृतं प्रसवं याति वन्यमन्नं चतुर्विधम् |
अक्षय्यं वर्धते चान्नं तेन भोजयते द्विजान् ||६||
भुक्तवत्सु च विप्रेषु भोजयित्वानुजानपि |
शेषं विघससञ्ज्ञं तु पश्चाद्भुङ्क्ते युधिष्ठिरः ||७||
युधिष्ठिरं भोजयित्वा शेषमश्नाति पार्षती ||७||
एवं दिवाकरात्प्राप्य दिवाकरसमद्युतिः |
कामान्मनोऽभिलषितान्ब्राह्मणेभ्यो ददौ प्रभुः ||८||
पुरोहितपुरोगाश्च तिथिनक्षत्रपर्वसु |
यज्ञियार्थाः प्रवर्तन्ते विधिमन्त्रप्रमाणतः ||९||
ततः कृतस्वस्त्ययना धौम्येन सह पाण्डवाः |
द्विजसङ्घैः परिवृताः प्रययुः काम्यकं वनम् ||१०||
५
वैशम्पायन उवाच||
वनं प्रविष्टेष्वथ पाण्डवेषु; प्रज्ञाचक्षुस्तप्यमानोऽम्बिकेयः |
धर्मात्मानं विदुरमगाधबुद्धिं; सुखासीनो वाक्यमुवाच राजा ||१||
प्रज्ञा च ते भार्गवस्येव शुद्धा; धर्मं च त्वं परमं वेत्थ सूक्ष्मम् |
समश्च त्वं संमतः कौरवाणां; पथ्यं चैषां मम चैव ब्रवीहि ||२||
एवं गते विदुर यदद्य कार्यं; पौराश्चेमे कथमस्मान्भजेरन् |
ते चाप्यस्मान्नोद्धरेयुः समूला; न्न कामये तांश्च विनश्यमानान् ||३||
विदुर उवाच||
त्रिवर्गोऽयं धर्ममूलो नरेन्द्र; राज्यं चेदं धर्ममूलं वदन्ति |
धर्मे राजन्वर्तमानः स्वशक्त्या; पुत्रान्सर्वान्पाहि कुन्तीसुतांश्च ||४||
स वै धर्मो विप्रलुप्तः सभायां; पापात्मभिः सौबलेयप्रधानैः |
आहूय कुन्तीसुतमक्षवत्यां; पराजैषीत्सत्यसन्धं सुतस्ते ||५||
एतस्य ते दुष्प्रणीतस्य राज; ञ्शेषस्याहं परिपश्याम्युपायम् |
यथा पुत्रस्तव कौरव्य पापा; न्मुक्तो लोके प्रतितिष्ठेत साधु ||६||
तद्वै सर्वं पाण्डुपुत्रा लभन्तां; यत्तद्राजन्नतिसृष्टं त्वयासीत् |
एष धर्मः परमो यत्स्वकेन; राजा तुष्येन्न परस्वेषु गृध्येत् ||७||
एतत्कार्यं तव सर्वप्रधानं; तेषां तुष्टिः शकुनेश्चावमानः |
एवं शेषं यदि पुत्रेषु ते स्या; देतद्राजंस्त्वरमाणः कुरुष्व ||८||
अथैतदेवं न करोषि राज; न्ध्रुवं कुरूणां भविता विनाशः |
न हि क्रुद्धो भीमसेनोऽर्जुनो वा; शेषं कुर्याच्छात्रवाणामनीके ||९||
येषां योद्धा सव्यसाची कृतास्त्रो; धनुर्येषां गाण्डिवं लोकसारम् |
येषां भीमो बाहुशाली च योद्धा; तेषां लोके किं नु न प्राप्यमस्ति ||१०||
उक्तं पूर्वं जातमात्रे सुते ते; मया यत्ते हितमासीत्तदानीम् |
पुत्रं त्यजेममहितं कुलस्ये; त्येतद्राजन्न च तत्त्वं चकर्थ ||११||
इदानीं ते हितमुक्तं न चेत्त्वं; कर्तासि राजन्परितप्तासि पश्चात् ||११||
यद्येतदेवमनुमन्ता सुतस्ते; सम्प्रीयमाणः पाण्डवैरेकराज्यम् |
तापो न ते वै भविता प्रीतियोगा; त्त्वं चेन्न गृह्णासि सुतं सहायैः ||१२||
अथापरो भवति हि तं निगृह्य; पाण्डोः पुत्रं प्रकुरुष्वाधिपत्ये ||१२||
अजातशत्रुर्हि विमुक्तरागो; धर्मेणेमां पृथिवीं शास्तु राजन् |
ततो राजन्पार्थिवाः सर्व एव; वैश्या इवास्मानुपतिष्ठन्तु सद्यः ||१३||
दुर्योधनः शकुनिः सूतपुत्रः; प्रीत्या राजन्पाण्डुपुत्रान्भजन्ताम् |
दुःशासनो याचतु भीमसेनं; सभामध्ये द्रुपदस्यात्मजां च ||१४||
युधिष्ठिरं त्वं परिसान्त्वयस्व; राज्ये चैनं स्थापयस्वाभिपूज्य |
त्वया पृष्टः किमहमन्यद्वदेय; मेतत्कृत्वा कृतकृत्योऽसि राजन् ||१५||
धृतराष्ट्र उवाच||
एतद्वाक्यं विदुर यत्ते सभाया; मिह प्रोक्तं पाण्डवान्प्राप्य मां च |
हितं तेषामहितं मामकाना; मेतत्सर्वं मम नोपैति चेतः ||१६||
इदं त्विदानीं कुत एव निश्चितं; तेषामर्थे पाण्डवानां यदात्थ |
तेनाद्य मन्ये नासि हितो ममेति; कथं हि पुत्रं पाण्डवार्थे त्यजेयम् ||१७||
असंशयं तेऽपि ममैव पुत्रा; दुर्योधनस्तु मम देहात्प्रसूतः |
स्वं वै देहं परहेतोस्त्यजेति; को नु ब्रूयात्समतामन्ववेक्षन् ||१८||
स मा जिह्मं विदुर सर्वं ब्रवीषि; मानं च तेऽहमधिकं धारयामि |
यथेच्छकं गच्छ वा तिष्ठ वा त्वं; सुसान्त्व्यमानाप्यसती स्त्री जहाति ||१९||
वैशम्पायन उवाच||
एतावदुक्त्वा धृतराष्ट्रोऽन्वपद्य; दन्तर्वेश्म सहसोत्थाय राजन् |
नेदमस्तीत्यथ विदुरो भाषमाणः; सम्प्राद्रवद्यत्र पार्था बभूवुः ||२०||
६
वैशम्पायन उवाच||
पाण्डवास्तु वने वासमुद्दिश्य भरतर्षभाः |
प्रययुर्जाह्नवीकूलात्कुरुक्षेत्रं सहानुगाः ||१||
सरस्वतीदृषद्वत्यौ यमुनां च निषेव्य ते |
ययुर्वनेनैव वनं सततं पश्चिमां दिशम् ||२||
ततः सरस्वतीकूले समेषु मरुधन्वसु |
काम्यकं नाम ददृशुर्वनं मुनिजनप्रियम् ||३||
तत्र ते न्यवसन्वीरा वने बहुमृगद्विजे |
अन्वास्यमाना मुनिभिः सान्त्व्यमानाश्च भारत ||४||
विदुरस्त्वपि पाण्डूनां तदा दर्शनलालसः |
जगामैकरथेनैव काम्यकं वनमृद्धिमत् ||५||
ततो यात्वा विदुरः काननं त; च्छीघ्रैरश्वैर्वाहिना स्यन्दनेन |
ददर्शासीनं धर्मराजं विविक्ते; सार्धं द्रौपद्या भ्रातृभिर्ब्राह्मणैश्च ||६||
ततोऽपश्यद्विदुरं तूर्णमारा; दभ्यायान्तं सत्यसन्धः स राजा |
अथाब्रवीद्भ्रातरं भीमसेनं; किं नु क्षत्ता वक्ष्यति नः समेत्य ||७||
कच्चिन्नायं वचनात्सौबलस्य; समाह्वाता देवनायोपयाति |
कच्चित्क्षुद्रः शकुनिर्नायुधानि; जेष्यत्यस्मान्पुनरेवाक्षवत्याम् ||८||
समाहूतः केनचिदाद्रवेति; नाहं शक्तो भीमसेनापयातुम् |
गाण्डीवे वा संशयिते कथं चि; द्राज्यप्राप्तिः संशयिता भवेन्नः ||९||
तत उत्थाय विदुरं पाण्डवेयाः; प्रत्यगृह्णन्नृपते सर्व एव |
तैः सत्कृतः स च तानाजमीढो; यथोचितं पाण्डुपुत्रान्समेयात् ||१०||
समाश्वस्तं विदुरं ते नरर्षभा; स्ततोऽपृच्छन्नागमनाय हेतुम् |
स चापि तेभ्यो विस्तरतः शशंस; यथावृत्तो धृतराष्ट्रोऽऽम्बिकेयः ||११||
विदुर उवाच||
अवोचन्मां धृतराष्ट्रोऽनुगुप्त; मजातशत्रो परिगृह्याभिपूज्य |
एवं गते समतामभ्युपेत्य; पथ्यं तेषां मम चैव ब्रवीहि ||१२||
मयाप्युक्तं यत्क्षमं कौरवाणां; हितं पथ्यं धृतराष्ट्रस्य चैव |
तद्वै पथ्यं तन्मनो नाभ्युपैति; ततश्चाहं क्षममन्यन्न मन्ये ||१३||
परं श्रेयः पाण्डवेया मयोक्तं; न मे तच्च श्रुतवानाम्बिकेयः |
यथातुरस्येव हि पथ्यमन्नं; न रोचते स्मास्य तदुच्यमानम् ||१४||
न श्रेयसे नीयतेऽजातशत्रो; स्त्री श्रोत्रियस्येव गृहे प्रदुष्टा |
ब्रुवन्न रुच्यै भरतर्षभस्य; पतिः कुमार्या इव षष्टिवर्षः ||१५||
ध्रुवं विनाशो नृप कौरवाणां; न वै श्रेयो धृतराष्ट्रः परैति |
यथा पर्णे पुष्करस्येव सिक्तं; जलं न तिष्ठेत्पथ्यमुक्तं तथास्मिन् ||१६||
ततः क्रुद्धो धृतराष्ट्रोऽब्रवीन्मां; यत्र श्रद्धा भारत तत्र याहि |
नाहं भूयः कामये त्वां सहायं; महीमिमां पालयितुं पुरं वा ||१७||
सोऽहं त्यक्तो धृतराष्ट्रेण राजं; स्त्वां शासितुमुपयातस्त्वरावान् |
तद्वै सर्वं यन्मयोक्तं सभायां; तद्धार्यतां यत्प्रवक्ष्यामि भूयः ||१८||
क्लेशैस्तीव्रैर्युज्यमानः सपत्नैः; क्षमां कुर्वन्कालमुपासते यः |
सं वर्धयन्स्तोकमिवाग्निमात्मवा; न्स वै भुङ्क्ते पृथिवीमेक एव ||१९||
यस्याविभक्तं वसु राजन्सहायै; स्तस्य दुःखेऽप्यंशभाजः सहायाः |
सहायानामेष सङ्ग्रहणेऽभ्युपायः; सहायाप्तौ पृथिवीप्राप्तिमाहुः ||२०||
सत्यं श्रेष्ठं पाण्डव निष्प्रलापं; तुल्यं चान्नं सह भोज्यं सहायैः |
आत्मा चैषामग्रतो नातिवर्ते; देवंवृत्तिर्वर्धते भूमिपालः ||२१||
युधिष्ठिर उवाच||
एवं करिष्यामि यथा ब्रवीषि; परां बुद्धिमुपगम्याप्रमत्तः |
यच्चाप्यन्यद्देशकालोपपन्नं; तद्वै वाच्यं तत्करिष्यामि कृत्स्नम् ||२२||
७
वैशम्पायन उवाच||
गते तु विदुरे राजन्नाश्रमं पाण्डवान्प्रति |
धृतराष्ट्रो महाप्राज्ञः पर्यतप्यत भारत ||१||
स सभाद्वारमागम्य विदुरस्मारमोहितः |
समक्षं पार्थिवेन्द्राणां पपाताविष्टचेतनः ||२||
स तु लब्ध्वा पुनः सञ्ज्ञां समुत्थाय महीतलात् |
समीपोपस्थितं राजा सञ्जयं वाक्यमब्रवीत् ||३||
भ्राता मम सुहृच्चैव साक्षाद्धर्म इवापरः |
तस्य स्मृत्वाद्य सुभृशं हृदयं दीर्यतीव मे ||४||
तमानयस्व धर्मज्ञं मम भ्रातरमाशु वै |
इति ब्रुवन्स नृपतिः करुणं पर्यदेवयत् ||५||
पश्चात्तापाभिसन्तप्तो विदुरस्मारकर्शितः |
भ्रातृस्नेहादिदं राजन्सञ्जयं वाक्यमब्रवीत् ||६||
गच्छ सञ्जय जानीहि भ्रातरं विदुरं मम |
यदि जीवति रोषेण मया पापेन निर्धुतः ||७||
न हि तेन मम भ्रात्रा सुसूक्ष्ममपि किञ्चन |
व्यलीकं कृतपूर्वं मे प्राज्ञेनामितबुद्धिना ||८||
स व्यलीकं कथं प्राप्तो मत्तः परमबुद्धिमान् |
न जह्याज्जीवितं प्राज्ञस्तं गच्छानय सञ्जय ||९||
तस्य तद्वचनं श्रुत्वा राज्ञस्तमनुमान्य च |
सञ्जयो बाढमित्युक्त्वा प्राद्रवत्काम्यकं वनम् ||१०||
सोऽचिरेण समासाद्य तद्वनं यत्र पाण्डवाः |
रौरवाजिनसंवीतं ददर्शाथ युधिष्ठिरम् ||११||
विदुरेण सहासीनं ब्राह्मणैश्च सहस्रशः |
भ्रातृभिश्चाभिसङ्गुप्तं देवैरिव शतक्रतुम् ||१२||
युधिष्ठिरमथाभ्येत्य पूजयामास सञ्जयः |
भीमार्जुनयमांश्चापि तदर्हं प्रत्यपद्यत ||१३||
राज्ञा पृष्टः स कुशलं सुखासीनश्च सञ्जयः |
शशंसागमने हेतुमिदं चैवाब्रवीद्वचः ||१४||
राजा स्मरति ते क्षत्तर्धृतराष्ट्रोऽम्बिकासुतः |
तं पश्य गत्वा त्वं क्षिप्रं सञ्जीवय च पार्थिवम् ||१५||
सोऽनुमान्य नरश्रेष्ठान्पाण्डवान्कुरुनन्दनान् |
नियोगाद्राजसिंहस्य गन्तुमर्हसि मानद ||१६||
एवमुक्तस्तु विदुरो धीमान्स्वजनवत्सलः |
युधिष्ठिरस्यानुमते पुनरायाद्गजाह्वयम् ||१७||
तमब्रवीन्महाप्राज्ञं धृतराष्ट्रः प्रतापवान् |
दिष्ट्या प्राप्तोऽसि धर्मज्ञ दिष्ट्या स्मरसि मेऽनघ ||१८||
अद्य रात्रौ दिवा चाहं त्वत्कृते भरतर्षभ |
प्रजागरे पपश्यामि विचित्रं देहमात्मनः ||१९||
सोऽङ्कमादाय विदुरं मूर्ध्न्युपाघ्राय चैव ह |
क्षम्यतामिति चोवाच यदुक्तोऽसि मया रुषा ||२०||
विदुर उवाच||
क्षान्तमेव मया राजन्गुरुर्नः परमो भवान् |
तथा ह्यस्म्यागतः क्षिप्रं त्वद्दर्शनपरायणः ||२१||
भवन्ति हि नरव्याघ्र पुरुषा धर्मचेतसः |
दीनाभिपातिनो राजन्नात्र कार्या विचारणा ||२२||
पाण्डोः सुता यादृशा मे तादृशा मे सुतास्तव |
दीना इति हि मे बुद्धिरभिपन्नाद्य तान्प्रति ||२३||
वैशम्पायन उवाच||
अन्योन्यमनुनीयैवं भ्रातरौ तौ महाद्युती |
विदुरो धृतराष्ट्रश्च लेभाते परमां मुदम् ||२४||
८
वैशम्पायन उवाच||
श्रुत्वा च विदुरं प्राप्तं राज्ञा च परिसान्त्वितम् |
धृतराष्ट्रात्मजो राजा पर्यतप्यत दुर्मतिः ||१||
स सौबलं समानाय्य कर्णदुःशासनावपि |
अब्रवीद्वचनं राजा प्रविश्याबुद्धिजं तमः ||२||
एष प्रत्यागतो मन्त्री धृतराष्ट्रस्य संमतः |
विदुरः पाण्डुपुत्राणां सुहृद्विद्वान्हिते रतः ||३||
यावदस्य पुनर्बुद्धिं विदुरो नापकर्षति |
पाण्डवानयने तावन्मन्त्रयध्वं हितं मम ||४||
अथ पश्याम्यहं पार्थान्प्राप्तानिह कथञ्चन |
पुनः शोषं गमिष्यामि निरासुर्निरवग्रहः ||५||
विषमुद्बन्धनं वापि शस्त्रमग्निप्रवेशनम् |
करिष्ये न हि तानृद्धान्पुनर्द्रष्टुमिहोत्सहे ||६||
शकुनिरुवाच||
किं बालिषां मतिं राजन्नास्थितोऽसि विशां पते |
गतास्ते समयं कृत्वा नैतदेवं भविष्यति ||७||
सत्यवाक्ये स्थिताः सर्वे पाण्डवा भरतर्षभ |
पितुस्ते वचनं तात न ग्रहीष्यन्ति कर्हिचित् ||८||
अथ वा ते ग्रहीष्यन्ति पुनरेष्यन्ति वा पुरम् |
निरस्य समयं भूयः पणोऽस्माकं भविष्यति ||९||
सर्वे भवामो मध्यस्था राज्ञश्छन्दानुवर्तिनः |
छिद्रं बहु प्रपश्यन्तः पाण्डवानां सुसंवृताः ||१०||
दुःशासन उवाच||
एवमेतन्महाप्राज्ञ यथा वदसि मातुल |
नित्यं हि मे कथयतस्तव बुद्धिर्हि रोचते ||११||
कर्ण उवाच||
काममीक्षामहे सर्वे दुर्योधन तवेप्सितम् |
ऐकमत्यं हि नो राजन्सर्वेषामेव लक्ष्यते ||१२||
वैशम्पायन उवाच||
एवमुक्तस्तु कर्णेन राजा दुर्योधनस्तदा |
नातिहृष्टमनाः क्षिप्रमभवत्स पराङ्मुखः ||१३||
उपलभ्य ततः कर्णो विवृत्य नयने शुभे |
रोषाद्दुःशासनं चैव सौबलेयं च तावुभौ ||१४||
उवाच परमक्रुद्ध उद्यम्यात्मानमात्मना |
अहो मम मतं यत्तन्निबोधत नराधिपाः ||१५||
प्रियं सर्वे चिकीर्षामो राज्ञः किङ्करपाणयः |
न चास्य शक्नुमः सर्वे प्रिये स्थातुमतन्द्रिताः ||१६||
वयं तु शस्त्राण्यादाय रथानास्थाय दंशिताः |
गच्छामः सहिता हन्तुं पाण्डवान्वनगोचरान् ||१७||
तेषु सर्वेषु शान्तेषु गतेष्वविदितां गतिम् |
निर्विवादा भविष्यन्ति धार्तराष्ट्रास्तथा वयम् ||१८||
यावदेव परिद्यूना यावच्छोकपरायणाः |
यावन्मित्रविहीनाश्च तावच्छक्या मतं मम ||१९||
तस्य तद्वचनं श्रुत्वा पूजयन्तः पुनः पुनः |
बाढमित्येव ते सर्वे प्रत्यूचुः सूतजं तदा ||२०||
एवमुक्त्वा तु सङ्क्रुद्धा रथैः सर्वे पृथक्पृथक् |
निर्ययुः पाण्डवान्हन्तुं सङ्घशः कृतनिश्चयाः ||२१||
तान्प्रस्थितान्परिज्ञाय कृष्णद्वैपायनस्तदा |
आजगाम विशुद्धात्मा दृष्ट्वा दिव्येन चक्षुषा ||२२||
प्रतिषिध्याथ तान्सर्वान्भगवाँल्लोकपूजितः |
प्रज्ञाचक्षुषमासीनमुवाचाभ्येत्य सत्वरः ||२३||
९
व्यास उवाच||
धृतराष्ट्र महाप्राज्ञ निबोध वचनं मम |
वक्ष्यामि त्वा कौरवाणां सर्वेषां हितमुत्तमम् ||१||
न मे प्रियं महाबाहो यद्गताः पाण्डवा वनम् |
निकृत्या निर्जिताश्चैव दुर्योधनवशानुगैः ||२||
ते स्मरन्तः परिक्लेशान्वर्षे पूर्णे त्रयोदशे |
विमोक्ष्यन्ति विषं क्रुद्धाः करवेयेषु भारत ||३||
तदयं किं नु पापात्मा तव पुत्रः सुमन्दधीः |
पाण्डवान्नित्यसङ्क्रुद्धो राज्यहेतोर्जिघांसति ||४||
वार्यतां साध्वयं मूढः शमं गच्छतु ते सुतः |
वनस्थांस्तानयं हन्तुमिच्छन्प्राणैर्विमोक्ष्यते ||५||
यथाह विदुरः प्राज्ञो यथा भीष्मो यथा वयम् |
यथा कृपश्च द्रोणश्च तथा साधु विधीयताम् ||६||
विग्रहो हि महाप्राज्ञ स्वजनेन विगर्हितः |
अधर्म्यमयशस्यं च मा राजन्प्रतिपद्यथाः ||७||
समीक्षा यादृशी ह्यस्य पाण्डवान्प्रति भारत |
उपेक्ष्यमाणा सा राजन्महान्तमनयं स्पृशेत् ||८||
अथ वायं सुमन्दात्मा वनं गच्छतु ते सुतः |
पाण्डवैः सहितो राजन्नेक एवासहायवान् ||९||
ततः संसर्गजः स्नेहः पुत्रस्य तव पाण्डवैः |
यदि स्यात्कृतकार्योऽद्य भवेस्त्वं मनुजेश्वर ||१०||
अथ वा जायमानस्य यच्छीलमनुजायते |
श्रूयते तन्महाराज नामृतस्यापसर्पति ||११||
कथं वा मन्यते भीष्मो द्रोणो वा विदुरोऽपि वा |
भवान्वात्र क्षमं कार्यं पुरा चार्थोऽतिवर्तते ||१२||
१०
धृतराष्ट्र उवाच||
भगवन्नाहमप्येतद्रोचये द्यूतसंस्तवम् |
मन्ये तद्विधिनाक्रम्य कारितोऽस्मीति वै मुने ||१||
नैतद्रोचयते भीष्मो न द्रोणो विदुरो न च |
गान्धारी नेच्छति द्यूतं तच्च मोहात्प्रवर्तितम् ||२||
परित्यक्तुं न शक्नोमि दुर्योधनमचेतनम् |
पुत्रस्नेहेन भगवञ्जानन्नपि यतव्रत ||३||
व्यास उवाच||
वैचित्रवीर्य नृपते सत्यमाह यथा भवान् |
दृढं वेद्मि परं पुत्रं परं पुत्रान्न विद्यते ||४||
इन्द्रोऽप्यश्रुनिपातेन सुरभ्या प्रतिबोधितः |
अन्यैः समृद्धैरप्यर्थैर्न सुताद्विद्यते परम् ||५||
अत्र ते वर्तयिष्यामि महदाख्यानमुत्तमम् |
सुरभ्याश्चैव संवादमिन्द्रस्य च विशां पते ||६||
त्रिविष्टपगता राजन्सुरभिः प्रारुदत्किल |
गवां मात पुरा तात तामिन्द्रोऽन्वकृपायत ||७||
इन्द्र उवाच||
किमिदं रोदिषि शुभे कच्चित्क्षेमं दिवौकसाम् |
मानुषेष्वथ वा गोषु नैतदल्पं भविष्यति ||८||
सुरभिरुवाच||
विनिपातो न वः कश्चिद्दृश्यते त्रिदशाधिप |
अहं तु पुत्रं शोचामि तेन रोदिमि कौशिक ||९||
पश्यैनं कर्षकं रौद्रं दुर्बलं मम पुत्रकम् |
प्रतोदेनाभिनिघ्नन्तं लाङ्गलेन निपीडितम् ||१०||
एतं दृष्ट्वा भृशं श्रन्तं वध्यमानं सुराधिप |
कृपाविष्टास्मि देवेन्द्र मनश्चोद्विजते मम ||११||
एकस्तत्र बलोपेतो धुरमुद्वहतेऽधिकाम् |
अपरोऽल्पबलप्राणः कृशो धमनिसन्ततः ||१२||
कृच्छ्रादुद्वहते भारं तं वै शोचामि वासव ||१२||
वध्यमानः प्रतोदेन तुद्यमानः पुनः पुनः |
नैव शक्नोति तं भारमुद्वोढुं पश्य वासव ||१३||
ततोऽहं तस्य दुःखार्ता विरौमि भृशदुःखिता |
अश्रूण्यावर्तयन्ती च नेत्राभ्यां करुणायती ||१४||
इन्द्र उवाच||
तव पुत्रसहस्रेषु पीड्यमानेषु शोभने |
किं कृपायितमस्त्यत्र पुत्र एकोऽत्र पीड्यते ||१५||
सुरभिरुवाच||
यदि पुत्रसहस्रं मे सर्वत्र सममेव मे |
दीनस्य तु सतः शक्र पुत्रस्याभ्यधिका कृपा ||१६||
व्यास उवाच||
तदिन्द्रः सुरभीवाक्यं निशम्य भृशविस्मितः |
जीवितेनापि कौरव्य मेनेऽभ्यधिकमात्मजम् ||१७||
प्रववर्ष च तत्रैव सहसा तोयमुल्बणम् |
कर्षकस्याचरन्विघ्नं भगवान्पाकशासनः ||१८||
तद्यथा सुरभिः प्राह सममेवास्तु ते तथा |
सुतेषु राजन्सर्वेषु दीनेष्वभ्यधिका कृपा ||१९||
यादृशो मे सुतः पण्डुस्तादृशो मेऽसि पुत्रक |
विदुरश्च महाप्राज्ञः स्नेहादेतद्ब्रवीम्यहम् ||२०||
चिराय तव पुत्राणां शतमेकश्च पार्थिव |
पाण्डोः पञ्चैव लक्ष्यन्ते तेऽपि मन्दाः सुदुःखिताः ||२१||
कथं जीवेयुरत्यन्तं कथं वर्धेयुरित्यपि |
इति दीनेषु पार्थेषु मनो मे परितप्यते ||२२||
यदि पार्थिव कौरव्याञ्जीवमानानिहेच्छसि |
दुर्योधनस्तव सुतः शमं गच्छतु पाण्डवैः ||२३||
११
धृतराष्ट्र उवाच||
एवमेतन्महाप्राज्ञ यथा वदसि नो मुने |
अहं चैव विजानामि सर्वे चेमे नराधिपाः ||१||
भवांस्तु मन्यते साधु यत्कुरूणां सुखोदयम् |
तदेव विदुरोऽप्याह भीष्मो द्रोणश्च मां मुने ||२||
यदि त्वहमनुग्राह्यः कौरवेषु दया यदि |
अनुशाधि दुरात्मानं पुत्रं दुर्योधनं मम ||३||
व्यास उवाच||
अयमायाति वै राजन्मैत्रेयो भगवानृषिः |
अन्वीय पाण्डवान्भ्रातॄनिहैवास्मद्दिदृक्षया ||४||
एष दुर्योधनं पुत्रं तव राजन्महानृषिः |
अनुशास्ता यथान्यायं शमायास्य कुलस्य ते ||५||
ब्रूयाद्यदेष राजेन्द्र तत्कार्यमविशङ्कया |
अक्रियायां हि कार्यस्य पुत्रं ते शप्स्यते रुषा ||६||
वैशम्पायन उवाच||
एवमुक्त्वा ययौ व्यासो मैत्रेयः प्रत्यदृश्यत |
पूजया प्रतिजग्राह सपुत्रस्तं नराधिपः ||७||
दत्त्वार्घ्याद्याः क्रियाः सर्वा विश्रान्तं मुनिपुङ्गवम् |
प्रश्रयेणाब्रवीद्राजा धृतराष्ट्रोऽम्बिकासुतः ||८||
सुखेनागमनं कच्चिद्भगवन्कुरुजाङ्गले |
कच्चित्कुशलिनो वीरा भ्रातरः पञ्च पाण्डवाः ||९||
समये स्थातुमिच्छन्ति कच्चिच्च पुरुषर्षभाः |
कच्चित्कुरूणां सौभ्रात्रमव्युच्छिन्नं भविष्यति ||१०||
मैत्रेय उवाच||
तीर्थयात्रामनुक्रामन्प्राप्तोऽस्मि कुरुजाङ्गलम् |
यदृच्छया धर्मराजं दृष्टवान्काम्यके वने ||११||
तं जटाजिनसंवीतं तपोवननिवासिनम् |
समाजग्मुर्महात्मानं द्रष्टुं मुनिगणाः प्रभो ||१२||
तत्राश्रौषं महाराज पुत्राणां तव विभ्रमम् |
अनयं द्यूतरूपेण महापायमुपस्थितम् ||१३||
ततोऽहं त्वामनुप्राप्तः कौरवाणामवेक्षया |
सदा ह्यभ्यधिकः स्नेहः प्रीतिश्च त्वयि मे प्रभो ||१४||
नैतदौपयिकं राजंस्त्वयि भीष्मे च जीवति |
यदन्योन्येन ते पुत्रा विरुध्यन्ते नराधिप ||१५||
मेढीभूतः स्वयं राजन्निग्रहे प्रग्रहे भवान् |
किमर्थमनयं घोरमुत्पतन्तमुपेक्षसे ||१६||
दस्यूनामिव यद्वृत्तं सभायां कुरुनन्दन |
तेन न भ्राजसे राजंस्तापसानां समागमे ||१७||
वैशम्पायन उवाच||
ततो व्यावृत्य राजानं दुर्योधनममर्षणम् |
उवाच श्लक्ष्णया वाचा मैत्रेयो भगवानृषिः ||१८||
दुर्योधन महाबाहो निबोध वदतां वर |
वचनं मे महाप्राज्ञ ब्रुवतो यद्धितं तव ||१९||
मा द्रुहः पाण्डवान्राजन्कुरुष्व हितमात्मनः |
पाण्डवानां कुरूणां च लोकस्य च नरर्षभ ||२०||
ते हि सर्वे नरव्याघ्राः शूरा विक्रान्तयोधिनः |
सर्वे नागायुतप्राणा वज्रसंहनना दृढाः ||२१||
सत्यव्रतपराः सर्वे सर्वे पुरुषमानिनः |
हन्तारो देवशत्रूणां रक्षसां कामरूपिणाम् ||२२||
हिडिम्बबकमुख्यानां किर्मीरस्य च रक्षसः ||२२||
इतः प्रच्यवतां रात्रौ यः स तेषां महात्मनाम् |
आवृत्य मार्गं रौद्रात्मा तस्थौ गिरिरिवाचलः ||२३||
तं भीमः समरश्लाघी बलेन बलिनां वरः |
जघान पशुमारेण व्याघ्रः क्षुद्रमृगं यथा ||२४||
पश्य दिग्विजये राजन्यथा भीमेन पातितः |
जरासन्धो महेष्वासो नागायुतबलो युधि ||२५||
सम्बन्धी वासुदेवश्च येषां श्यालश्च पार्षतः |
कस्तान्युधि समासीत जरामरणवान्नरः ||२६||
तस्य ते शम एवास्तु पाण्डवैर्भरतर्षभ |
कुरु मे वचनं राजन्मा मृत्युवशमन्वगाः ||२७||
एवं तु ब्रुवतस्तस्य मैत्रेयस्य विशां पते |
ऊरुं गजकराकारं करेणाभिजघान सः ||२८||
दुर्योधनः स्मितं कृत्वा चरणेनालिखन्महीम् |
न किञ्चिदुक्त्वा दुर्मेधास्तस्थौ किञ्चिदवाङ्मुखः ||२९||
तमशुश्रूषमाणं तु विलिखन्तं वसुन्धराम् |
दृष्ट्वा दुर्योधनं राजन्मैत्रेयं कोप आविशत् ||३०||
स कोपवशमापन्नो मैत्रेयो मुनिसत्तमः |
विधिना सम्प्रयुक्तश्च शापायास्य मनो दधे ||३१||
ततः स वार्युपस्पृश्य कोपसंरक्तलोचनः |
मैत्रेयो धार्तराष्ट्रं तमशपद्दुष्टचेतसम् ||३२||
यस्मात्त्वं मामनादृत्य नेमां वाचं चिकीर्षसि |
तस्मादस्याभिमानस्य सद्यः फलमवाप्नुहि ||३३||
त्वदभिद्रोहसंयुक्तं युद्धमुत्पत्स्यते महत् |
यत्र भीमो गदापातैस्तवोरुं भेत्स्यते बली ||३४||
इत्येवमुक्ते वचने धृतराष्ट्रो महीपतिः |
प्रसादयामास मुनिं नैतदेवं भवेदिति ||३५||
मैत्रेय उवाच||
शमं यास्यति चेत्पुत्रस्तव राजन्यथा तथा |
शापो न भविता तात विपरीते भविष्यति ||३६||
वैशम्पायन उवाच||
स विलक्षस्तु राजेन्द्र दुर्योधनपिता तदा |
मैत्रेयं प्राह किर्मीरः कथं भीमेन पातितः ||३७||
मैत्रेय उवाच||
नाहं वक्ष्याम्यसूया ते न ते शुश्रूषते सुतः |
एष ते विदुरः सर्वमाख्यास्यति गते मयि ||३८||
वैशम्पायन उवाच||
इत्येवमुक्त्वा मैत्रेयः प्रातिष्ठत यथागतम् |
किर्मीरवधसंविग्नो बहिर्दुर्योधनोऽगमत् ||३९||
किर्मीरवधपर्व
१२
धृतराष्ट्र उवाच||
किर्मीरस्य वधं क्षत्तः श्रोतुमिच्छामि कथ्यताम् |
रक्षसा भीमसेनस्य कथमासीत्समागमः ||१||
विदुर उवाच||
शृणु भीमस्य कर्मेदमतिमानुषकर्मणः |
श्रुतपूर्वं मया तेषां कथान्तेषु पुनः पुनः ||२||
इतः प्रयाता राजेन्द्र पाण्डवा द्यूतनिर्जिताः |
जग्मुस्त्रिभिरहोरात्रैः काम्यकं नाम तद्वनम् ||३||
रात्रौ निशीथे स्वाभीले गतेऽर्धसमये नृप |
प्रचारे पुरुषादानां रक्षसां भीमकर्मणाम् ||४||
तद्वनं तापसा नित्यं शेषाश्च वनचारिणः |
दूरात्परिहरन्ति स्म पुरुषादभयात्किल ||५||
तेषां प्रविशतां तत्र मार्गमावृत्य भारत |
दीप्ताक्षं भीषणं रक्षः सोल्मुकं प्रत्यदृश्यत ||६||
बाहू महान्तौ कृत्वा तु तथास्यं च भयानकम् |
स्थितमावृत्य पन्थानं येन यान्ति कुरूद्वहाः ||७||
दष्टोष्ठदंष्ट्रं ताम्राक्षं प्रदीप्तोर्ध्वशिरोरुहम् |
सार्करश्मितडिच्चक्रं सबलाकमिवाम्बुदम् ||८||
सृजन्तं राक्षसीं मायां महारावविराविणम् |
मुञ्चन्तं विपुलं नादं सतोयमिव तोयदम् ||९||
तस्य नादेन सन्त्रस्ताः पक्षिणः सर्वतोदिशम् |
विमुक्तनादाः सम्पेतुः स्थलजा जलजैः सह ||१०||
सम्प्रद्रुतमृगद्वीपिमहिषर्क्षसमाकुलम् |
तद्वनं तस्य नादेन सम्प्रस्थितमिवाभवत् ||११||
तस्योरुवाताभिहता ताम्रपल्लवबाहवः |
विदूरजाताश्च लताः समाश्लिष्यन्त पादपान् ||१२||
तस्मिन्क्षणेऽथ प्रववौ मारुतो भृशदारुणः |
रजसा संवृतं तेन नष्टर्ष्कमभवन्नभः ||१३||
पञ्चानां पाण्डुपुत्राणामविज्ञातो महारिपुः |
पञ्चानामिन्द्रियाणां तु शोकवेग इवातुलः ||१४||
स दृष्ट्वा पाण्डवान्दूरात्कृष्णाजिनसमावृतान् |
आवृणोत्तद्वनद्वारं मैनाक इव पर्वतः ||१५||
तं समासाद्य वित्रस्ता कृष्णा कमललोचना |
अदृष्टपूर्वं सन्त्रासान्न्यमीलयत लोचने ||१६||
दुःशासनकरोत्सृष्टविप्रकीर्णशिरोरुहा |
पञ्चपर्वतमध्यस्था नदीवाकुलतां गता ||१७||
मोमुह्यमानां तां तत्र जगृहुः पञ्च पाण्डवाः |
इन्द्रियाणि प्रसक्तानि विषयेषु यथा रतिम् ||१८||
अथ तां राक्षसीं मायामुत्थितां घोरदर्शनाम् |
रक्षोघ्नैर्विविधैर्मन्त्रैर्धौम्यः सम्यक्प्रयोजितैः ||१९||
पश्यतां पाण्डुपुत्राणां नाशयामास वीर्यवान् ||१९||
स नष्टमायोऽतिबलः क्रोधविस्फारितेक्षणः |
काममूर्तिधरः क्षुद्रः कालकल्पो व्यदृश्यत ||२०||
तमुवाच ततो राजा दीर्घप्रज्ञो युधिष्ठिरः |
को भवान्कस्य वा किं ते क्रियतां कार्यमुच्यताम् ||२१||
प्रत्युवाचाथ तद्रक्षो धर्मराजं युधिष्ठिरम् |
अहं बकस्य वै भ्राता किर्मीर इति विश्रुतः ||२२||
वनेऽस्मिन्काम्यके शून्ये निवसामि गतज्वरः |
युधि निर्जित्य पुरुषानाहारं नित्यमाचरन् ||२३||
के यूयमिह सम्प्राप्ता भक्ष्यभूता ममान्तिकम् |
युधि निर्जित्य वः सर्वान्भक्षयिष्ये गतज्वरः ||२४||
युधिष्ठिरस्तु तच्छ्रुत्वा वचस्तस्य दुरात्मनः |
आचचक्षे ततः सर्वं गोत्रनामादि भारत ||२५||
पाण्डवो धर्मराजोऽहं यदि ते श्रोत्रमागतः |
सहितो भ्रातृभिः सर्वैर्भीमसेनार्जुनादिभिः ||२६||
हृतराज्यो वने वासं वस्तुं कृतमतिस्ततः |
वनमभ्यागतो घोरमिदं तव परिग्रहम् ||२७||
किर्मीरस्त्वब्रवीदेनं दिष्ट्या देवैरिदं मम |
उपपादितमद्येह चिरकालान्मनोगतम् ||२८||
भीमसेनवधार्थं हि नित्यमभ्युद्यतायुधः |
चरामि पृथिवीं कृत्स्नां नैनमासादयाम्यहम् ||२९||
सोऽयमासादितो दिष्ट्या भ्रातृहा काङ्क्षितश्चिरम् |
अनेन हि मम भ्राता बको विनिहतः प्रियः ||३०||
वेत्रकीयगृहे राजन्ब्राह्मणच्छद्मरूपिणा |
विद्याबलमुपाश्रित्य न ह्यस्त्यस्यौरसं बलम् ||३१||
हिडिम्बश्च सखा मह्यं दयितो वनगोचरः |
हतो दुरात्मनानेन स्वसा चास्य हृता पुरा ||३२||
सोऽयमभ्यागतो मूढो ममेदं गहनं वनम् |
प्रचारसमयेऽस्माकमर्धरात्रे समास्थिते ||३३||
अद्यास्य यातयिष्यामि तद्वैरं चिरसम्भृतम् |
तर्पयिष्यामि च बकं रुधिरेणास्य भूरिणा ||३४||
अद्याहमनृणो भूत्वा भ्रातुः सख्युस्तथैव च |
शान्तिं लब्धास्मि परमां हत्व राक्षसकण्टकम् ||३५||
यदि तेन पुरा मुक्तो भीमसेनो बकेन वै |
अद्यैनं भक्षयिष्यामि पश्यतस्ते युधिष्ठिर ||३६||
एनं हि विपुलप्राणमद्य हत्वा वृकोदरम् |
सम्भक्ष्य जरयिष्यामि यथागस्त्यो महासुरम् ||३७||
एवमुक्तस्तु धर्मात्मा सत्यसन्धो युधिष्ठिरः |
नैतदस्तीति सक्रोधो भर्त्सयामास राक्षसम् ||३८||
ततो भीमो महाबाहुरारुज्य तरसा द्रुम |
दशव्याममिवोद्विद्धं निष्पत्रमकरोत्तदा ||३९||
चकार सज्यं गाण्डीवं वज्रनिष्पेषगौरवम् |
निमेषान्तरमात्रेण तथैव विजयोऽर्जुनः ||४०||
निवार्य भीमो जिष्णुं तु तद्रक्षो घोरदर्शनम् |
अभिद्रुत्याब्रवीद्वाक्यं तिष्ठ तिष्ठेति भारत ||४१||
इत्युक्त्वैनमभिक्रुद्धः कक्ष्यामुत्पीड्य पाण्डवः |
निष्पिष्य पाणिना पाणिं संदष्टोष्ठपुटो बली ||४२||
तमभ्यधावद्वेगेन भीमो वृक्षायुधस्तदा ||४२||
यमदण्डप्रतीकाशं ततस्तं तस्य मूर्धनि |
पातयामास वेगेन कुलिशं मघवानिव ||४३||
असम्भ्रान्तं तु तद्रक्षः समरे प्रत्यदृश्यत |
चिक्षेप चोल्मुकं दीप्तमशनिं ज्वलितामिव ||४४||
तदुदस्तमलातं तु भीमः प्रहरतां वरः |
पदा सव्येन चिक्षेप तद्रक्षः पुनराव्रजत् ||४५||
किर्मीरश्चापि सहसा वृक्षमुत्पाट्य पाण्डवम् |
दण्डपाणिरिव क्रुद्धः समरे प्रत्ययुध्यत ||४६||
तद्वृक्षयुद्धमभवन्महीरुहविनाशनम् |
वालिसुग्रीवयोर्भ्रात्रोर्यथा श्रीकाङ्क्षिणोः पुरा ||४७||
शीर्षयोः पतिता वृक्षा बिभिदुर्नैकधा तयोः |
यथैवोत्पलपद्मानि मत्तयोर्द्विपयोस्तथा ||४८||
मुञ्जवज्जर्जरीभूता बहवस्तत्र पादपाः |
चीराणीव व्युदस्तानि रेजुस्तत्र महावने ||४९||
तद्वृक्षयुद्धमभवत्सुमुहूर्तं विशां पते |
राक्षसानां च मुख्यस्य नराणामुत्तमस्य च ||५०||
ततः शिलां समुत्क्षिप्य भीमस्य युधि तिष्ठतः |
प्राहिणोद्राक्षसः क्रुद्धो भीमसेनश्चचाल ह ||५१||
तं शिलाताडनजडं पर्यधावत्स राक्षसः |
बाहुविक्षिप्तकिरणः स्वर्भानुरिव भास्करम् ||५२||
तावन्योन्यं समाश्लिष्य प्रकर्षन्तौ परस्परम् |
उभावपि चकाशेते प्रयुद्धौ वृषभाविव ||५३||
तयोरासीत्सुतुमुलः सम्प्रहारः सुदारुणः |
नखदंष्ट्रायुधवतोर्व्याघ्रयोरिव दृप्तयोः ||५४||
दुर्योधननिकाराच्च बाहुवीर्याच्च दर्पितः |
कृष्णानयनदृष्टश्च व्यवर्धत वृकोदरः ||५५||
अभिपत्याथ बाहुभ्यां प्रत्यगृह्णादमर्षितः |
मातङ्ग इव मातङ्गं प्रभिन्नकरटामुखः ||५६||
तं चाप्याथ ततो रक्षः प्रतिजग्राह वीर्यवान् |
तमाक्षिपद्भीमसेनो बलेन बलिनां वरः ||५७||
तयोर्भुजविनिष्पेषादुभयोर्बलिनोस्तदा |
शब्दः समभवद्घोरो वेणुस्फोटसमो युधि ||५८||
अथैनमाक्षिप्य बलाद्गृह्य मध्ये वृकोदरः |
धूनयामास वेगेन वायुश्चण्ड इव द्रुमम् ||५९||
स भीमेन परामृष्टो दुर्बलो बलिना रणे |
व्यस्पन्दत यथाप्राणं विचकर्ष च पाण्डवम् ||६०||
तत एनं परिश्रान्तमुपलभ्य वृकोदरः |
योक्त्रयामास बाहुभ्यां पशुं रशनया यथा ||६१||
विनदन्तं महानादं भिन्नभेरीसमस्वनम् |
भ्रामयामास सुचिरं विस्फुरन्तमचेतसम् ||६२||
तं विषीदन्तमाज्ञाय राक्षसं पाण्डुनन्दनः |
प्रगृह्य तरसा दोर्भ्यां पशुमारममारयत् ||६३||
आक्रम्य स कटीदेशे जानुना राक्षसाधमम् |
अपीडयत बाहुभ्यां कण्ठं तस्य वृकोदरः ||६४||
अथ तं जडसर्वाङ्गं व्यावृत्तनयनोल्बणम् |
भूतले पातयामास वाक्यं चेदमुवाच ह ||६५||
हिडिम्बबकयोः पाप न त्वमश्रुप्रमार्जनम् |
करिष्यसि गतश्चासि यमस्य सदनं प्रति ||६६||
इत्येवमुक्त्वा पुरुषप्रवीर; स्तं राक्षसं क्रोधविवृत्तनेत्रः |
प्रस्रस्तवस्त्राभरणं स्फुरन्त; मुद्भ्रान्तचित्तं व्यसुमुत्ससर्ज ||६७||
तस्मिन्हते तोयदतुल्यरूपे; कृष्णां पुरस्कृत्य नरेन्द्रपुत्राः |
भीमं प्रशस्याथ गुणैरनेकै; र्हृष्टास्ततो द्वैतवनाय जग्मुः ||६८||
एवं विनिहतः सङ्ख्ये किर्मीरो मनुजाधिप |
भीमेन वचनात्तस्य धर्मराजस्य कौरव ||६९||
ततो निष्कण्टकं कृत्वा वनं तदपराजितः |
द्रौपद्या सह धर्मज्ञो वसतिं तामुवास ह ||७०||
समाश्वास्य च ते सर्वे द्रौपदीं भरतर्षभाः |
प्रहृष्टमनसः प्रीत्या प्रशशंसुर्वृकोदरम् ||७१||
भीमबाहुबलोत्पिष्टे विनष्टे राक्षसे ततः |
विविशुस्तद्वनं वीराः क्षेमं निहतकण्टकम् ||७२||
स मया गच्छता मार्गे विनिकीर्णो भयावहः |
वने महति दुष्टात्मा दृष्टो भीमबलाद्धतः ||७३||
तत्राश्रौषमहं चैतत्कर्म भीमस्य भारत |
ब्राह्मणानां कथयतां ये तत्रासन्समागताः ||७४||
वैशम्पायन उवाच||
एवं विनिहतं सङ्ख्ये किर्मीरं राक्षसोत्तमम् |
श्रुत्वा ध्यानपरो राजा निशश्वासार्तवत्तदा ||७५||
कैरातपर्व
१३
वैशम्पायन उवाच||
भोजाः प्रव्रजिताञ्श्रुत्वा वृष्णयश्चान्धकैः सह |
पाण्डवान्दुःखसन्तप्तान्समाजग्मुर्महावने ||१||
पाञ्चालस्य च दायादा धृष्टकेतुश्च चेदिपः |
केकयाश्च महावीर्या भ्रातरो लोकविश्रुताः ||२||
वने तेऽभिययुः पार्थान्क्रोधामर्शसमन्विताः |
गर्हयन्तो धार्तराष्ट्रान्किं कुर्म इति चाब्रुवन् ||३||
वासुदेवं पुरस्कृत्य सर्वे ते क्षत्रियर्षभाः |
परिवार्योपविविशुर्धर्मराजं युधिष्ठिरम् ||४||
वासुदेव उवाच||
दुर्योधनस्य कर्णस्य शकुनेश्च दुरात्मनः |
दुःशासनचतुर्थानां भूमिः पास्यति शोणितम् ||५||
ततः सर्वेऽभिषिञ्चामो धर्मराजं युधिष्ठिरम् |
निकृत्योपचरन्वध्य एष धर्मः सनातनः ||६||
वैशम्पायन उवाच||
पार्थानामभिषङ्गेण तथा क्रुद्धं जनार्दनम् |
अर्जुनः शमयामासा दिधक्षन्तमिव प्रजाः ||७||
सङ्क्रुद्धं केशवं दृष्ट्वा पूर्वदेहेषु फल्गुनः |
कीर्तयामास कर्माणि सत्यकीर्तेर्महात्मनः ||८||
पुरुषस्याप्रमेयस्य सत्यस्यामिततेजसः |
प्रजापतिपतेर्विष्णोर्लोकनाथस्य धीमतः ||९||
अर्जुन उवाच||
दश वर्षसहस्राणि यत्रसायङ्गृहो मुनिः |
व्यचरस्त्वं पुरा कृष्ण पर्वते गन्धमादने ||१०||
दश वर्षसहस्राणि दश वर्षशतानि च |
पुष्करेष्ववसः कृष्ण त्वमपो भक्षयन्पुरा ||११||
ऊर्ध्वबाहुर्विशालायां बदर्यां मधुसूदन |
अतिष्ठ एकपादेन वायुभक्षः शतं समाः ||१२||
अपकृष्टोत्तरासङ्गः कृशो धमनिसन्ततः |
आसीः कृष्ण सरस्वत्यां सत्रे द्वादशवार्षिके ||१३||
प्रभासं चाप्यथासाद्य तीर्थं पुण्यजनोचितम् |
तथा कृष्ण महातेजा दिव्यं वर्षसहस्रकम् ||१४||
आतिष्ठस्तप एकेन पादेन नियमे स्थितः ||१४||
क्षेत्रज्ञः सर्वभूतानामादिरन्तश्च केशव |
निधानं तपसां कृष्ण यज्ञस्त्वं च सनातनः ||१५||
निहत्य नरकं भौममाहृत्य मणिकुण्डले |
प्रथमोत्पादितं कृष्ण मेध्यमश्वमवासृजः ||१६||
कृत्वा तत्कर्म लोकानामृषभः सर्वलोकजित् |
अवधीस्त्वं रणे सर्वान्समेतान्दैत्यदानवान् ||१७||
ततः सर्वेश्वरत्वं च सम्प्रदाय शचीपतेः |
मानुषेषु महाबाहो प्रादुर्भूतोऽसि केशव ||१८||
स त्वं नारायणो भूत्वा हरिरासीः परन्तप |
ब्रह्मा सोमश्च सूर्यश्च धर्मो धाता यमोऽनलः ||१९||
वायुर्वैश्रवणो रुद्रः कालः खं पृथिवी दिशः |
अजश्चराचरगुरुः स्रष्टा त्वं पुरुषोत्तम ||२०||
तुरायणादिभिर्देव क्रतुभिर्भूरिदक्षिणैः |
अयजो भूरितेजा वै कृष्ण चैत्ररथे वने ||२१||
शतं शतसहस्राणि सुवर्णस्य जनार्दन |
एकैकस्मिंस्तदा यज्ञे परिपूर्णानि भागशः ||२२||
अदितेरपि पुत्रत्वमेत्य यादवनन्दन |
त्वं विष्णुरिति विख्यात इन्द्रादवरजो भुवि ||२३||
शिशुर्भूत्वा दिवं खं च पृथिवीं च परन्तप |
त्रिभिर्विक्रमणैः कृष्ण क्रान्तवानसि तेजसा ||२४||
सम्प्राप्य दिवमाकाशमादित्यसदने स्थितः |
अत्यरोचश्च भूतात्मन्भास्करं स्वेन तेजसा ||२५||
सादिता मौरवाः पाशा निसुन्दनरकौ हतौ |
कृतः क्षेमः पुनः पन्थाः पुरं प्राग्ज्योतिषं प्रति ||२६||
जारूथ्यामाहुतिः क्राथः शिशुपालो जनैः सह |
भीमसेनश्च शैब्यश्च शतधन्वा च निर्जितः ||२७||
तथा पर्जन्यघोषेण रथेनादित्यवर्चसा |
अवाक्षीर्महिषीं भोज्यां रणे निर्जित्य रुक्मिणम् ||२८||
इन्द्रद्युम्नो हतः कोपाद्यवनश्च कशेरुमान् |
हतः सौभपतिः शाल्वस्त्वया सौभं च पातितम् ||२९||
इरावत्यां तथा भोजः कार्तवीर्यसमो युधि |
गोपतिस्तालकेतुश्च त्वया विनिहतावुभौ ||३०||
तां च भोगवतीं पुण्यामृषिकान्तां जनार्दन |
द्वारकामात्मसात्कृत्वा समुद्रं गमयिष्यसि ||३१||
न क्रोधो न च मात्सर्यं नानृतं मधुसूदन |
त्वयि तिष्ठति दाशार्ह न नृशंस्यं कुतोऽनृजु ||३२||
आसीनं चित्तमध्ये त्वां दीप्यमानं स्वतेजसा |
आगम्य ऋषयः सर्वेऽयाचन्ताभयमच्युत ||३३||
युगान्ते सर्वभूतानि सङ्क्षिप्य मधुसूदन |
आत्मन्येवात्मसात्कृत्वा जगदास्से परन्तप ||३४||
नैवं पूर्वे नापरे वा करिष्यन्ति कृतानि ते |
कर्माणि यानि देव त्वं बाल एव महाद्युते ||३५||
कृतवान्पुण्डरीकाक्ष बलदेवसहायवान् |
वैराजभवने चापि ब्रह्मणा न्यवसः सह ||३६||
वैशम्पायन उवाच||
एवमुक्त्वा तदात्मानमात्मा कृष्णस्य पाण्डवः |
तूष्णीमासीत्ततः पार्थमित्युवाच जनार्दनः ||३७||
ममैव त्वं तवैवाहं ये मदीयास्तवैव ते |
यस्त्वां द्वेष्टि स मां द्वेष्टि यस्त्वामनु स मामनु ||३८||
नरस्त्वमसि दुर्धर्ष हरिर्नारायणो ह्यहम् |
लोकाल्लोकमिमं प्राप्तौ नरनारायणावृषी ||३९||
अनन्यः पार्थ मत्तस्त्वमहं त्वत्तश्च भारत |
नावयोरन्तरं शक्यं वेदितुं भरतर्षभ ||४०||
तस्मिन्वीरसमावाये संरब्धेष्वथ राजसु |
धृष्टद्युम्नमुखैर्वीरैर्भ्रातृभिः परिवारिता ||४१||
पाञ्चाली पुण्डरीकाक्षमासीनं यादवैः सह |
अभिगम्याब्रवीत्कृष्णा शरण्यं शरणैषिणी ||४२||
पूर्वे प्रजानिसर्गे त्वामाहुरेकं प्रजापतिम् |
स्रष्टारं सर्वभूतानामसितो देवलोऽब्रवीत् ||४३||
विष्णुस्त्वमसि दुर्धर्ष त्वं यज्ञो मधुसूदन |
यष्टा त्वमसि यष्टव्यो जामदग्न्यो यथाब्रवीत् ||४४||
ऋषयस्त्वां क्षमामाहुः सत्यं च पुरुषोत्तम |
सत्याद्यज्ञोऽसि सम्भूतः कश्यपस्त्वां यथाब्रवीत् ||४५||
साध्यानामपि देवानां वसूनामीश्वरेश्वरः |
लोकभावन लोकेश यथा त्वां नारदोऽब्रवीत् ||४६||
दिवं ते शिरसा व्याप्तं पद्भ्यां च पृथिवी विभो |
जठरं ते इमे लोकाः पुरुषोऽसि सनातनः ||४७||
विद्यातपोऽभितप्तानां तपसा भावितात्मनाम् |
आत्मदर्शनसिद्धानामृषीणामृषिसत्तम ||४८||
राजर्षीणां पुण्यकृतामाहवेष्वनिवर्तिनाम् |
सर्वधर्मोपपन्नानां त्वं गतिः पुरुषोत्तम ||४९||
त्वं प्रभुस्त्वं विभुस्त्वं भूरात्मभूस्त्वं सनातनः |
लोकपालाश्च लोकाश्च नक्षत्राणि दिशो दश ||५०||
नभश्चन्द्रश्च सूर्यश्च त्वयि सर्वं प्रतिष्ठितम् ||५०||
मर्त्यता चैव भूतानाममरत्वं दिवौकसाम् |
त्वयि सर्वं महाबाहो लोककार्यं प्रतिष्ठितम् ||५१||
सा तेऽहं दुःखमाख्यास्ये प्रणयान्मधुसूदन |
ईशस्त्वं सर्वभूतानां ये दिव्या ये च मानुषाः ||५२||
कथं नु भार्या पार्थानां तव कृष्ण सखी विभो |
धृष्टद्युम्नस्य भगिनी सभां कृष्येत मादृशी ||५३||
स्त्रीधर्मिणी वेपमाना रुधिरेण समुक्षिता |
एकवस्त्रा विकृष्टास्मि दुःखिता कुरुसंसदि ||५४||
राजमध्ये सभायां तु रजसाभिसमीरिताम् |
दृष्ट्वा च मां धार्तराष्ट्राः प्राहसन्पापचेतसः ||५५||
दासीभावेन भोक्तुं मामीषुस्ते मधुसूदन |
जीवत्सु पाण्डुपुत्रेषु पाञ्चालेष्वथ वृष्णिषु ||५६||
नन्वहं कृष्ण भीष्मस्य धृतराष्ट्रस्य चोभयोः |
स्नुषा भवामि धर्मेण साहं दासीकृता बलात् ||५७||
गर्हये पाण्डवांस्त्वेव युधि श्रेष्ठान्महाबलान् |
ये क्लिश्यमानां प्रेक्षन्ते धर्मपत्नीं यशस्विनीम् ||५८||
धिग्बलं भीमसेनस्य धिक्पार्थस्य धनुष्मताम् |
यौ मां विप्रकृतां क्षुद्रैर्मर्षयेतां जनार्दन ||५९||
शाश्वतोऽयं धर्मपथः सद्भिराचरितः सदा |
यद्भार्यां परिरक्षन्ति भर्तारोऽल्पबला अपि ||६०||
भार्यायां रक्ष्यमाणायां प्रजा भवति रक्षिता |
प्रजायां रक्ष्यमाणायामात्मा भवति रक्षितः ||६१||
आत्मा हि जायते तस्यां तस्माज्जाया भवत्युत |
भर्ता च भार्यया रक्ष्यः कथं जायान्ममोदरे ||६२||
नन्विमे शरणं प्राप्तान्न त्यजन्ति कदाचन |
ते मां शरणमापन्नां नान्वपद्यन्त पाण्डवाः ||६३||
पञ्चेमे पञ्चभिर्जाताः कुमाराश्चामितौजसः |
एतेषामप्यवेक्षार्थं त्रातव्यास्मि जनार्दन ||६४||
प्रतिविन्ध्यो युधिष्ठिरात्सुतसोमो वृकोदरात् |
अर्जुनाच्छ्रुतकीर्तिस्तु शतानीकस्तु नाकुलिः ||६५||
कनिष्ठाच्छ्रुतकर्मा तु सर्वे सत्यपराक्रमाः |
प्रद्युम्नो यादृशः कृष्ण तादृशास्ते महारथाः ||६६||
नन्विमे धनुषि श्रेष्ठा अजेया युधि शात्रवैः |
किमर्थं धार्तराष्ट्राणां सहन्ते दुर्बलीयसाम् ||६७||
अधर्मेण हृतं राज्यं सर्वे दासाः कृतास्तथा |
सभायां परिकृष्टाहमेकवस्त्रा रजस्वला ||६८||
नाधिज्यमपि यच्छक्यं कर्तुमन्येन गाण्डिवम् |
अन्यत्रार्जुनभीमाभ्यां त्वया वा मधुसूदन ||६९||
धिग्भीमसेनस्य बलं धिक्पार्थस्य च गाण्डिवम् |
यत्र दुर्योधनः कृष्ण मुहूर्तमपि जीवति ||७०||
य एतानाक्षिपद्राष्ट्रात्सह मात्राविहिंसकान् |
अधीयानान्पुरा बालान्व्रतस्थान्मधुसूदन ||७१||
भोजने भीमसेनस्य पापः प्राक्षेपयद्विषम् |
कालकूटं नवं तीक्ष्णं सम्भृतं लोमहर्षणम् ||७२||
तज्जीर्णमविकारेण सहान्नेन जनार्दन |
सशेषत्वान्महाबाहो भीमस्य पुरुषोत्तम ||७३||
प्रमाणकोट्यां विश्वस्तं तथा सुप्तं वृकोदरम् |
बद्ध्वैनं कृष्ण गङ्गायां प्रक्षिप्य पुनराव्रजत् ||७४||
यदा विबुद्धः कौन्तेयस्तदा सञ्छिद्य बन्धनम् |
उदतिष्ठन्महाबाहुर्भीमसेनो महाबलः ||७५||
आशीविषैः कृष्णसर्पैः सुप्तं चैनमदंशयत् |
सर्वेष्वेवाङ्गदेशेषु न ममार च शत्रुहा ||७६||
प्रतिबुद्धस्तु कौन्तेयः सर्वान्सर्पानपोथयत् |
सारथिं चास्य दयितमपहस्तेन जघ्निवान् ||७७||
पुनः सुप्तानुपाधाक्षीद्बालकान्वारणावते |
शयानानार्यया सार्धं को नु तत्कर्तुमर्हति ||७८||
यत्रार्या रुदती भीता पाण्डवानिदमब्रवीत् |
महद्व्यसनमापन्ना शिखिना परिवारिता ||७९||
हा हतास्मि कुतो न्वद्य भवेच्छान्तिरिहानलात् |
अनाथा विनशिष्यामि बालकैः पुत्रकैः सह ||८०||
तत्र भीमो महाबाहुर्वायुवेगपराक्रमः |
आर्यामाश्वासयामास भ्रातॄंश्चापि वृकोदरः ||८१||
वैनतेयो यथा पक्षी गरुडः पततां वरः |
तथैवाभिपतिष्यामि भयं वो नेह विद्यते ||८२||
आर्यामङ्केन वामेन राजानं दक्षिणेन च |
अंसयोश्च यमौ कृत्वा पृष्ठे बीभत्सुमेव च ||८३||
सहसोत्पत्य वेगेन सर्वानादाय वीर्यवान् |
भ्रातॄनार्यां च बलवान्मोक्षयामास पावकात् ||८४||
ते रात्रौ प्रस्थिताः सर्वे मात्रा सह यशस्विनः |
अभ्यगच्छन्महारण्यं हिडिम्बवनमन्तिकात् ||८५||
श्रान्ताः प्रसुप्तास्तत्रेमे मात्रा सह सुदुःखिताः |
सुप्तांश्चैनानभ्यगच्छद्धिडिम्बा नाम राक्षसी ||८६||
भीमस्य पादौ कृत्वा तु स्व उत्सङ्गे ततो बलात् |
पर्यमर्दत संहृष्टा कल्याणी मृदुपाणिना ||८७||
तामबुध्यदमेयात्मा बलवान्सत्यविक्रमः |
पर्यपृच्छच्च तां भीमः किमिहेच्छस्यनिन्दिते ||८८||
तयोः श्रुत्वा तु कथितमागच्छद्राक्षसाधमः |
भीमरूपो महानादान्विसृजन्भीमदर्शनः ||८९||
केन सार्धं कथयसि आनयैनं ममान्तिकम् |
हिडिम्बे भक्षयिष्यावो न चिरं कर्तुमर्हसि ||९०||
सा कृपासङ्गृहीतेन हृदयेन मनस्विनी |
नैनमैच्छत्तदाख्यातुमनुक्रोशादनिन्दिता ||९१||
स नादान्विनदन्घोरान्राक्षसः पुरुषादकः |
अभ्यद्रवत वेगेन भीमसेनं तदा किल ||९२||
तमभिद्रुत्य सङ्क्रुद्धो वेगेन महता बली |
अगृह्णात्पाणिना पाणिं भीमसेनस्य राक्षसः ||९३||
इन्द्राशनिसमस्पर्शं वज्रसंहननं दृढम् |
संहत्य भीमसेनाय व्याक्षिपत्सहसा करम् ||९४||
गृहीतं पाणिना पाणिं भीमसेनोऽथ रक्षसा |
नामृष्यत महाबाहुस्तत्राक्रुध्यद्वृकोदरः ||९५||
तत्रासीत्तुमुलं युद्धं भीमसेनहिडिम्बयोः |
सर्वास्त्रविदुषोर्घोरं वृत्रवासवयोरिव ||९६||
हत्वा हिडिम्बं भीमोऽथ प्रस्थितो भ्रातृभिः सह |
हिडिम्बामग्रतः कृत्वा यस्यां जातो घटोत्कचः ||९७||
ततश्च प्राद्रवन्सर्वे सह मात्रा यशस्विनः |
एकचक्रामभिमुखाः संवृता ब्राह्मणव्रजैः ||९८||
प्रस्थाने व्यास एषां च मन्त्री प्रियहितोऽभवत् |
ततोऽगच्छन्नेकचक्रां पाण्डवाः संशितव्रताः ||९९||
तत्राप्यासादयामासुर्बकं नाम महाबलम् |
पुरुषादं प्रतिभयं हिडिम्बेनैव संमितम् ||१००||
तं चापि विनिहत्योग्रं भीमः प्रहरतां वरः |
सहितो भ्रातृभिः सर्वैर्द्रुपदस्य पुरं ययौ ||१०१||
लब्धाहमपि तत्रैव वसता सव्यसाचिना |
यथा त्वया जिता कृष्ण रुक्मिणी भीष्मकात्मजा ||१०२||
एवं सुयुद्धे पार्थेन जिताहं मधुसूदन |
स्वयंवरे महत्कर्म कृत्वा नसुकरं परैः ||१०३||
एवं क्लेशैः सुबहुभिः क्लिश्यमानाः सुदुःखिताः |
निवसामार्यया हीनाः कृष्ण धौम्यपुरःसराः ||१०४||
त इमे सिंहविक्रान्ता वीर्येणाभ्यधिकाः परैः |
विहीनैः परिक्लिश्यन्तीं समुपेक्षन्त मां कथम् ||१०५||
एतादृशानि दुःखानि सहन्ते दुर्बलीयसाम् |
दीर्घकालं प्रदीप्तानि पापानां क्षुद्रकर्मणाम् ||१०६||
कुले महति जातास्मि दिव्येन विधिना किल |
पाण्डवानां प्रिया भार्या स्नुषा पाण्डोर्महात्मनः ||१०७||
कचग्रहमनुप्राप्ता सास्मि कृष्ण वरा सती |
पञ्चानामिन्द्रकल्पानां प्रेक्षतां मधुसूदन ||१०८||
इत्युक्त्वा प्रारुदत्कृष्णा मुखं प्रच्छाद्य पाणिना |
पद्मकोशप्रकाशेन मृदुना मृदुभाषिणी ||१०९||
स्तनावपतितौ पीनौ सुजातौ शुभलक्षणौ |
अभ्यवर्षत पाञ्चाली दुःखजैरश्रुबिन्दुभिः ||११०||
चक्षुषी परिमार्जन्ती निःश्वसन्ती पुनः पुनः |
बाष्पपूर्णेन कण्ठेन क्रुद्धा वचनमब्रवीत् ||१११||
नैव मे पतयः सन्ति न पुत्रा मधुसूदन |
न भ्रातरो न च पिता नैव त्वं न च बान्धवाः ||११२||
ये मां विप्रकृतां क्षुद्रैरुपेक्षध्वं विशोकवत् |
न हि मे शाम्यते दुःखं कर्णो यत्प्राहसत्तदा ||११३||
अथैनामब्रवीत्कृष्णस्तस्मिन्वीरसमागमे |
रोदिष्यन्ति स्त्रियो ह्येवं येषां क्रुद्धासि भामिनि ||११४||
बीभत्सुशरसञ्छन्नाञ्शोणितौघपरिप्लुतान् |
निहताञ्जीवितं त्यक्त्वा शयानान्वसुधातले ||११५||
यत्समर्थं पाण्डवानां तत्करिष्यामि मा शुचः |
सत्यं ते प्रतिजानामि राज्ञां राज्ञी भविष्यसि ||११६||
पतेद्द्यौर्हिमवाञ्शीर्येत्पृथिवी शकलीभवेत् |
शुष्येत्तोयनिधिः कृष्णे न मे मोघं वचो भवेत् ||११७||
धृष्टद्युम्न उवाच||
अहं द्रोणं हनिष्यामि शिखण्डी तु पितामहम् |
दुर्योधनं भीमसेनः कर्णं हन्ता धनञ्जयः ||११८||
रामकृष्णौ व्यपाश्रित्य अजेयाः स्म शुचिस्मिते |
अपि वृत्रहणा युद्धे किं पुनर्धृतराष्ट्रजैः ||११९||
वैशम्पायन उवाच||
इत्युक्तेऽभिमुखा वीरा वासुदेवमुपस्थिता |
तेषां मध्ये महाबाहुः केशवो वाक्यमब्रवीत् ||१२०||
१४
वासुदेव उवाच||
नेदं कृच्छ्रमनुप्राप्तो भवान्स्याद्वसुधाधिप |
यद्यहं द्वारकायां स्यां राजन्संनिहितः पुरा ||१||
आगच्छेयमहं द्यूतमनाहूतोऽपि कौरवैः |
आम्बिकेयेन दुर्धर्ष राज्ञा दुर्योधनेन च ||२||
वारयेयमहं द्यूतं बहून्दोषान्प्रदर्शयन् |
भीष्मद्रोणौ समानाय्य कृपं बाह्लीकमेव च ||३||
वैचित्रवीर्यं राजानमलं द्यूतेन कौरव |
पुत्राणां तव राजेन्द्र त्वन्निमित्तमिति प्रभो ||४||
तत्र वक्ष्याम्यहं दोषान्यैर्भवानवरोपितः |
वीरसेनसुतो यैश्च राज्यात्प्रभ्रंशितः पुरा ||५||
अभक्षितविनाशं च देवनेन विशां पते |
सातत्यं च प्रसङ्गस्य वर्णयेयं यथातथम् ||६||
स्त्रियोऽक्षा मृगया पानमेतत्कामसमुत्थितम् |
व्यसनं चतुष्टयं प्रोक्तं यै राजन्भ्रश्यते श्रियः ||७||
तत्र सर्वत्र वक्तव्यं मन्यन्ते शास्त्रकोविदाः |
विशेषतश्च वक्तव्यं द्यूते पश्यन्ति तद्विदः ||८||
एकाह्ना द्रव्यनाशोऽत्र ध्रुवं व्यसनमेव च |
अभुक्तनाशश्चार्थानां वाक्पारुष्यं च केवलम् ||९||
एतच्चान्यच्च कौरव्य प्रसङ्गि कटुकोदयम् |
द्यूते ब्रूयां महाबाहो समासाद्याम्बिकासुतम् ||१०||
एवमुक्तो यदि मया गृह्णीयाद्वचनं मम |
अनामयं स्याद्धर्मस्य कुरूणां कुरुनन्दन ||११||
न चेत्स मम राजेन्द्र गृह्णीयान्मधुरं वचः |
पथ्यं च भरतश्रेष्ठ निगृह्णीयां बलेन तम् ||१२||
अथैनानभिनीयैवं सुहृदो नाम दुर्हृदः |
सभासदश्च तान्सर्वान्भेदयेयं दुरोदरान् ||१३||
असांनिध्यं तु कौरव्य ममानर्तेष्वभूत्तदा |
येनेदं व्यसनं प्राप्ता भवन्तो द्यूतकारितम् ||१४||
सोऽहमेत्य कुरुश्रेष्ठ द्वारकां पाण्डुनन्दन |
अश्रौषं त्वां व्यसनिनं युयुधानाद्यथातथम् ||१५||
श्रुत्वैव चाहं राजेन्द्र परमोद्विग्नमानसः |
तूर्णमभ्यागतोऽस्मि त्वां द्रष्टुकामो विशां पते ||१६||
अहो कृच्छ्रमनुप्राप्ताः सर्वे स्म भरतर्षभ |
ये वयं त्वां व्यसनिनं पश्यामः सह सोदरैः ||१७||
सौभवधोपाख्यानम्
१५
युधिष्ठिर उवाच||
असांनिध्यं कथं कृष्ण तवासीद्वृष्णिनन्दन |
क्व चासीद्विप्रवासस्ते किं वाकार्षीः प्रवासकः ||१||
कृष्ण उवाच||
शाल्वस्य नगरं सौभं गतोऽहं भरतर्षभ |
विनिहन्तुं नरश्रेष्ठ तत्र मे शृणु कारणम् ||२||
महातेजा महाबाहुर्यः स राजा महायशाः |
दमघोषात्मजो वीरः शिशुपालो मया हतः ||३||
यज्ञे ते भरतश्रेष्ठ राजसूयेऽर्हणां प्रति |
स रोषवशसम्प्राप्तो नामृष्यत दुरात्मवान् ||४||
श्रुत्वा तं निहतं शाल्वस्तीव्ररोषसमन्वितः |
उपायाद्द्वारकां शून्यामिहस्थे मयि भारत ||५||
स तत्र योधितो राजन्बालकैर्वृष्णिपुङ्गवैः |
आगतः कामगं सौभमारुह्यैव नृशंसकृत् ||६||
ततो वृष्णिप्रवीरांस्तान्बालान्हत्वा बहूंस्तदा |
पुरोद्यानानि सर्वाणि भेदयामास दुर्मतिः ||७||
उक्तवांश्च महाबाहो क्वासौ वृष्णिकुलाधमः |
वासुदेवः सुमन्दात्मा वसुदेवसुतो गतः ||८||
तस्य युद्धार्थिनो दर्पं युद्धे नाशयितास्म्यहम् |
आनर्ताः सत्यमाख्यात तत्र गन्तास्मि यत्र सः ||९||
तं हत्वा विनिवर्तिष्ये कंसकेशिनिषूदनम् |
अहत्वा न निवर्तिष्ये सत्येनायुधमालभे ||१०||
क्वासौ क्वासाविति पुनस्तत्र तत्र विधावति |
मया किल रणे युद्धं काङ्क्षमाणः स सौभराट् ||११||
अद्य तं पापकर्माणं क्षुद्रं विश्वासघातिनम् |
शिशुपालवधामर्षाद्गमयिष्ये यमक्षयम् ||१२||
मम पापस्वभावेन भ्राता येन निपातितः |
शिशुपालो महीपालस्तं वधिष्ये महीतले ||१३||
भ्राता बालश्च राजा च न च सङ्ग्राममूर्धनि |
प्रमत्तश्च हतो वीरस्तं हनिष्ये जनार्दनम् ||१४||
एवमादि महाराज विलप्य दिवमास्थितः |
कामगेन स सौभेन क्षिप्त्वा मां कुरुनन्दन ||१५||
तमश्रौषमहं गत्वा यथा वृत्तः सुदुर्मतिः |
मयि कौरव्य दुष्टात्मा मार्त्तिकावतको नृपः ||१६||
ततोऽहमपि कौरव्य रोषव्याकुललोचनः |
निश्चित्य मनसा राजन्वधायास्य मनो दधे ||१७||
आनर्तेषु विमर्दं च क्षेपं चात्मनि कौरव |
प्रवृद्धमवलेपं च तस्य दुष्कृतकर्मणः ||१८||
ततः सौभवधायाहं प्रतस्थे पृथिवीपते |
स मया सागरावर्ते दृष्ट आसीत्परीप्सता ||१९||
ततः प्रध्माप्य जलजं पाञ्चजन्यमहं नृप |
आहूय शाल्वं समरे युद्धाय समवस्थितः ||२०||
सुमुहूर्तमभूद्युद्धं तत्र मे दानवैः सह |
वशीभूताश्च मे सर्वे भूतले च निपातिताः ||२१||
एतत्कार्यं महाबाहो येनाहं नागमं तदा |
श्रुत्वैव हास्तिनपुरं द्यूतं चाविनयोत्थितम् ||२२||
१६
युधिष्ठिर उवाच||
वासुदेव महाबाहो विस्तरेण महामते |
सौभस्य वधमाचक्ष्व न हि तृप्यामि कथ्यतः ||१||
वासुदेव उवाच||
हतं श्रुत्वा महाबाहो मया श्रौतश्रवं नृपम् |
उपायाद्भरतश्रेष्ठ शाल्वो द्वारवतीं पुरीम् ||२||
अरुन्धत्तां सुदुष्टात्मा सर्वतः पाण्डुनन्दन |
शाल्वो वैहायसं चापि तत्पुरं व्यूह्य विष्ठितः ||३||
तत्रस्थोऽथ महीपालो योधयामास तां पुरीम् |
अभिसारेण सर्वेण तत्र युद्धमवर्तत ||४||
पुरी समन्ताद्विहिता सपताका सतोरणा |
सचक्रा सहुडा चैव सयन्त्रखनका तथा ||५||
सोपतल्पप्रतोलीका साट्टाट्टालकगोपुरा |
सकचग्रहणी चैव सोल्कालातावपोथिका ||६||
सोष्ट्रिका भरतश्रेष्ठ सभेरीपणवानका |
समित्तृणकुशा राजन्सशतघ्नीकलाङ्गला ||७||
सभुशुण्ड्यश्मलगुडा सायुधा सपरश्वधा |
लोहचर्मवती चापि साग्निः सहुडशृङ्गिका ||८||
शास्त्रदृष्टेन विधिना संयुक्ता भरतर्षभ |
द्रव्यैरनेकैर्विविधैर्गदसाम्बोद्धवादिभिः ||९||
पुरुषैः कुरुशार्दूल समर्थैः प्रतिबाधने |
अभिख्यातकुलैर्वीरैर्दृष्टवीर्यैश्च संयुगे ||१०||
मध्यमेन च गुल्मेन रक्षिता सारसञ्ज्ञिता |
उत्क्षिप्तगुल्मैश्च तथा हयैश्चैव पदातिभिः ||११||
आघोषितं च नगरे न पातव्या सुरेति ह |
प्रमादं परिरक्षद्भिरुग्रसेनोद्धवादिभिः ||१२||
प्रमत्तेष्वभिघातं हि कुर्याच्छाल्वो नराधिपः |
इति कृत्वाप्रमत्तास्ते सर्वे वृष्ण्यन्धकाः स्थिताः ||१३||
आनर्ताश्च तथा सर्वे नटनर्तकगायनाः |
बहिर्विवासिताः सर्वे रक्षद्भिर्वित्तसञ्चयान् ||१४||
सङ्क्रमा भेदिताः सर्वे नावश्च प्रतिषेधिताः |
परिखाश्चापि कौरव्य कीलैः सुनिचिताः कृताः ||१५||
उदपानाः कुरुश्रेष्ठ तथैवाप्यम्बरीषकाः |
समन्तात्क्रोशमात्रं च कारिता विषमा च भूः ||१६||
प्रकृत्या विषमं दुर्गं प्रकृत्या च सुरक्षितम् |
प्रकृत्या चायुधोपेतं विशेषेण तदानघ ||१७||
सुरक्षितं सुगुप्तं च सर्वायुधसमन्वितम् |
तत्पुरं भरतश्रेष्ठ यथेन्द्रभवनं तथा ||१८||
न चामुद्रोऽभिनिर्याति न चामुद्रः प्रवेश्यते |
वृष्ण्यन्धकपुरे राजंस्तदा सौभसमागमे ||१९||
अनु रथ्यासु सर्वासु चत्वरेषु च कौरव |
बलं बभूव राजेन्द्र प्रभूतगजवाजिमत् ||२०||
दत्तवेतनभक्तं च दत्तायुधपरिच्छदम् |
कृतापदानं च तदा बलमासीन्महाभुज ||२१||
न कुप्यवेतनी कश्चिन्न चातिक्रान्तवेतनी |
नानुग्रहभृतः कश्चिन्न चादृष्टपराक्रमः ||२२||
एवं सुविहिता राजन्द्वारका भूरिदक्षिणैः |
आहुकेन सुगुप्ता च राज्ञा राजीवलोचन ||२३||
१७
वासुदेव उवाच||
तां तूपयात्वा राजेन्द्र शाल्वः सौभपतिस्तदा |
प्रभूतनरनागेन बलेनोपविवेश ह ||१||
समे निविष्टा सा सेना प्रभूतसलिलाशये |
चतुरङ्गबलोपेता शाल्वराजाभिपालिता ||२||
वर्जयित्वा श्मशानानि देवतायतनानि च |
वल्मीकांश्चैव चैत्यांश्च तन्निविष्टमभूद्बलम् ||३||
अनीकानां विभागेन पन्थानः षट्कृताभवन् |
प्रवणा नव चैवासञ्शाल्वस्य शिबिरे नृप ||४||
सर्वायुधसमोपेतं सर्वशस्त्रविशारदम् |
रथनागाश्वकलिलं पदातिध्वजसङ्कुलम् ||५||
तुष्टपुष्टजनोपेतं वीरलक्षणलक्षितम् |
विचित्रध्वजसंनाहं विचित्ररथकार्मुकम् ||६||
संनिवेश्य च कौरव्य द्वारकायां नरर्षभ |
अभिसारयामास तदा वेगेन पतगेन्द्रवत् ||७||
तदापतन्तं संदृश्य बलं शाल्वपतेस्तदा |
निर्याय योधयामासुः कुमारा वृष्णिनन्दनाः ||८||
असहन्तोऽभियानं तच्छाल्वराजस्य कौरव |
चारुदेष्णश्च साम्बश्च प्रद्युम्नश्च महारथः ||९||
ते रथैर्दंशिताः सर्वे विचित्राभरणध्वजाः |
संसक्ताः शाल्वराजस्य बहुभिर्योधपुङ्गवैः ||१०||
गृहीत्वा तु धनुः साम्बः शाल्वस्य सचिवं रणे |
योधयामास संहृष्टः क्षेमवृद्धिं चमूपतिम् ||११||
तस्य बाणमयं वर्षं जाम्बवत्याः सुतो महत् |
मुमोच भरतश्रेष्ठ यथा वर्षं सहस्रदृक् ||१२||
तद्बाणवर्षं तुमुलं विषेहे स चमूपतिः |
क्षेमवृद्धिर्महाराज हिमवानिव निश्चलः ||१३||
ततः साम्बाय राजेन्द्र क्षेमवृद्धिरपि स्म ह |
मुमोच मायाविहितं शरजालं महत्तरम् ||१४||
ततो मायामयं जालं माययैव विदार्य सः |
साम्बः शरसहस्रेण रथमस्याभ्यवर्षत ||१५||
ततः स विद्धः साम्बेन क्षेमवृद्धिश्चमूपतिः |
अपायाज्जवनैरश्वैः साम्बबाणप्रपीडितः ||१६||
तस्मिन्विप्रद्रुते क्रूरे शाल्वस्याथ चमूपतौ |
वेगवान्नाम दैतेयः सुतं मेऽभ्यद्रवद्बली ||१७||
अभिपन्नस्तु राजेन्द्र साम्बो वृष्णिकुलोद्वहः |
वेगं वेगवतो राजंस्तस्थौ वीरो विधारयन् ||१८||
स वेगवति कौन्तेय साम्बो वेगवतीं गदाम् |
चिक्षेप तरसा वीरो व्याविध्य सत्यविक्रमः ||१९||
तया त्वभिहतो राजन्वेगवानपतद्भुवि |
वातरुग्ण इव क्षुण्णो जीर्णमूलो वनस्पतिः ||२०||
तस्मिन्निपतिते वीरे गदानुन्ने महासुरे |
प्रविश्य महतीं सेनां योधयामास मे सुतः ||२१||
चारुदेष्णेन संसक्तो विविन्ध्यो नाम दानवः |
महारथः समाज्ञातो महाराज महाधनुः ||२२||
ततः सुतुमुलं युद्धं चारुदेष्णविविन्ध्ययोः |
वृत्रवासवयो राजन्यथा पूर्वं तथाभवत् ||२३||
अन्योन्यस्याभिसङ्क्रुद्धावन्योन्यं जघ्नतुः शरैः |
विनदन्तौ महाराज सिंहाविव महाबलौ ||२४||
रौक्मिणेयस्ततो बाणमग्न्यर्कोपमवर्चसम् |
अभिमन्त्र्य महास्त्रेण संदधे शत्रुनाशनम् ||२५||
स विविन्ध्याय सक्रोधः समाहूय महारथः |
चिक्षेप मे सुतो राजन्स गतासुरथापतत् ||२६||
विविन्ध्यं निहतं दृष्ट्वा तां च विक्षोभितां चमूम् |
कामगेन स सौभेन शाल्वः पुनरुपागमत् ||२७||
ततो व्याकुलितं सर्वं द्वारकावासि तद्बलम् |
दृष्ट्वा शाल्वं महाबाहो सौभस्थं पृथिवीगतम् ||२८||
ततो निर्याय कौन्तेय व्यवस्थाप्य च तद्बलम् |
आनर्तानां महाराज प्रद्युम्नो वाक्यमब्रवीत् ||२९||
सर्वे भवन्तस्तिष्ठन्तु सर्वे पश्यन्तु मां युधि |
निवारयन्तं सङ्ग्रामे बलात्सौभं सराजकम् ||३०||
अहं सौभपतेः सेनामायसैर्भुजगैरिव |
धनुर्भुजविनिर्मुक्तैर्नाशयाम्यद्य यादवाः ||३१||
आश्वसध्वं न भीः कार्या सौभराडद्य नश्यति |
मयाभिपन्नो दुष्टात्मा ससौभो विनशिष्यति ||३२||
एवं ब्रुवति संहृष्टे प्रद्युम्ने पाण्डुनन्दन |
विष्ठितं तद्बलं वीर युयुधे च यथासुखम् ||३३||
१८
वासुदेव उवाच||
एवमुक्त्वा रौक्मिणेयो यादवान्भरतर्षभ |
दंशितैर्हरिभिर्युक्तं रथमास्थाय काञ्चनम् ||१||
उच्छ्रित्य मकरं केतुं व्यात्ताननमलङ्कृतम् |
उत्पतद्भिरिवाकाशं तैर्हयैरन्वयात्परान् ||२||
विक्षिपन्नादयंश्चापि धनुःश्रेष्ठं महाबलः |
तूणखड्गधरः शूरो बद्धगोधाङ्गुलित्रवान् ||३||
स विद्युच्चलितं चापं विहरन्वै तलात्तलम् |
मोहयामास दैतेयान्सर्वान्सौभनिवासिनः ||४||
नास्य विक्षिपतश्चापं संदधानस्य चासकृत् |
अन्तरं ददृशे कश्चिन्निघ्नतः शात्रवान्रणे ||५||
मुखस्य वर्णो न विकल्पतेऽस्य; चेलुश्च गात्राणि न चापि तस्य |
सिंहोन्नतं चाप्यभिगर्जतोऽस्य; शुश्राव लोकोऽद्भुतरूपमग्र्यम् ||६||
जलेचरः काञ्चनयष्टिसंस्थो; व्यात्ताननः सर्वतिमिप्रमाथी |
वित्रासयन्राजति वाहमुख्ये; शाल्वस्य सेनाप्रमुखे ध्वजाग्र्यः ||७||
ततः स तूर्णं निष्पत्य प्रद्युम्नः शत्रुकर्शनः |
शाल्वमेवाभिदुद्राव विधास्यन्कलहं नृप ||८||
अभियानं तु वीरेण प्रद्युम्नेन महाहवे |
नामर्षयत सङ्क्रुद्धः शाल्वः कुरुकुलोद्वह ||९||
स रोषमदमत्तो वै कामगादवरुह्य च |
प्रद्युम्नं योधयामास शाल्वः परपुरञ्जयः ||१०||
तयोः सुतुमुलं युद्धं शाल्ववृष्णिप्रवीरयोः |
समेता ददृशुर्लोका बलिवासवयोरिव ||११||
तस्य मायामयो वीर रथो हेमपरिष्कृतः |
सध्वजः सपताकश्च सानुकर्षः सतूणवान् ||१२||
स तं रथवरं श्रीमान्समारुह्य किल प्रभो |
मुमोच बाणान्कौरव्य प्रद्युम्नाय महाबलः ||१३||
ततो बाणमयं वर्षं व्यसृजत्तरसा रणे |
प्रद्युम्नो भुजवेगेन शाल्वं संमोहयन्निव ||१४||
स तैरभिहतः सङ्ख्ये नामर्षयत सौभराट् |
शरान्दीप्ताग्निसङ्काशान्मुमोच तनये मम ||१५||
स शाल्वबाणै राजेन्द्र विद्धो रुक्मिणिनन्दनः |
मुमोच बाणं त्वरितो मर्मभेदिनमाहवे ||१६||
तस्य वर्म विभिद्याशु स बाणो मत्सुतेरितः |
बिभेद हृदयं पत्री स पपात मुमोह च ||१७||
तस्मिन्निपतिते वीरे शाल्वराजे विचेतसि |
सम्प्राद्रवन्दानवेन्द्रा दारयन्तो वसुन्धराम् ||१८||
हाहाकृतमभूत्सैन्यं शाल्वस्य पृथिवीपते |
नष्टसञ्ज्ञे निपतिते तदा सौभपतौ नृप ||१९||
तत उत्थाय कौरव्य प्रतिलभ्य च चेतनाम् |
मुमोच बाणं तरसा प्रद्युम्नाय महाबलः ||२०||
तेन विद्धो महाबाहुः प्रद्युम्नः समरे स्थितः |
जत्रुदेशे भृशं वीरो व्यवासीदद्रथे तदा ||२१||
तं स विद्ध्वा महाराज शाल्वो रुक्मिणिनन्दनम् |
ननाद सिंहनादं वै नादेनापूरयन्महीम् ||२२||
ततो मोहं समापन्ने तनये मम भारत |
मुमोच बाणांस्त्वरितः पुनरन्यान्दुरासदान् ||२३||
स तैरभिहतो बाणैर्बहुभिस्तेन मोहितः |
निश्चेष्टः कौरवश्रेष्ठ प्रद्युम्नोऽभूद्रणाजिरे ||२४||
१९
वासुदेव उवाच||
शाल्वबाणार्दिते तस्मिन्प्रद्युम्ने बलिनां वरे |
वृष्णयो भग्नसङ्कल्पा विव्यथुः पृतनागताः ||१||
हाहाकृतमभूत्सार्वं वृष्ण्यन्धकबलं तदा |
प्रद्युम्ने पतिते राजन्परे च मुदिताभवन् ||२||
तं तथा मोहितं दृष्ट्वा सारथिर्जवनैर्हयैः |
रणादपाहरत्तूर्णं शिक्षितो दारुकिस्ततः ||३||
नातिदूरापयाते तु रथे रथवरप्रणुत् |
धनुर्गृहीत्वा यन्तारं लब्धसञ्ज्ञोऽब्रवीदिदम् ||४||
सौते किं ते व्यवसितं कस्माद्यासि पराङ्मुखः |
नैष वृष्णिप्रवीराणामाहवे धर्म उच्यते ||५||
कच्चित्सौते न ते मोहः शाल्वं दृष्ट्वा महाहवे |
विषादो वा रणं दृष्ट्वा ब्रूहि मे त्वं यथातथम् ||६||
सूत उवाच||
जानार्दने न मे मोहो नापि मे भयमाविशत् |
अतिभारं तु ते मन्ये शाल्वं केशवनन्दन ||७||
सोऽपयामि शनैर्वीर बलवानेष पापकृत् |
मोहितश्च रणे शूरो रक्ष्यः सारथिना रथी ||८||
आयुष्मंस्त्वं मया नित्यं रक्षितव्यस्त्वयाप्यहम् |
रक्षितव्यो रथी नित्यमिति कृत्वापयाम्यहम् ||९||
एकश्चासि महाबाहो बहवश्चापि दानवाः |
नसमं रौक्मिणेयाहं रणं मत्वापयाम्यहम् ||१०||
वासुदेव उवाच||
एवं ब्रुवति सूते तु तदा मकरकेतुमान् |
उवाच सूतं कौरव्य निवर्तय रथं पुनः ||११||
दारुकात्मज मैवं त्वं पुनः कार्षीः कथञ्चन |
व्यपयानं रणात्सौते जीवतो मम कर्हिचित् ||१२||
न स वृष्णिकुले जातो यो वै त्यजति सङ्गरम् |
यो वा निपतितं हन्ति तवास्मीति च वादिनम् ||१३||
तथा स्त्रियं वै यो हन्ति वृद्धं बालं तथैव च |
विरथं विप्रकीर्णं च भग्नशस्त्रायुधं तथा ||१४||
त्वं च सूतकुले जातो विनीतः सूतकर्मणि |
धर्मज्ञश्चासि वृष्णीनामाहवेष्वपि दारुके ||१५||
स जानंश्चरितं कृत्स्नं वृष्णीनां पृतनामुखे |
अपयानं पुनः सौते मैवं कार्षीः कथञ्चन ||१६||
अपयातं हतं पृष्ठे भीतं रणपलायिनम् |
गदाग्रजो दुराधर्षः किं मां वक्ष्यति माधवः ||१७||
केशवस्याग्रजो वापि नीलवासा मदोत्कटः |
किं वक्ष्यति महाबाहुर्बलदेवः समागतः ||१८||
किं वक्ष्यति शिनेर्नप्ता नरसिंहो महाधनुः |
अपयातं रणात्सौते साम्बश्च समितिञ्जयः ||१९||
चारुदेष्णश्च दुर्धर्षस्तथैव गदसारणौ |
अक्रूरश्च महाबाहुः किं मां वक्ष्यति सारथे ||२०||
शूरं सम्भावितं सन्तं नित्यं पुरुषमानिनम् |
स्त्रियश्च वृष्णीवीराणां किं मां वक्ष्यन्ति सङ्गताः ||२१||
प्रद्युम्नोऽयमुपायाति भीतस्त्यक्त्वा महाहवम् |
धिगेनमिति वक्ष्यन्ति न तु वक्ष्यन्ति साध्विति ||२२||
धिग्वाचा परिहासोऽपि मम वा मद्विधस्य वा |
मृत्युनाभ्यधिकः सौते स त्वं मा व्यपयाः पुनः ||२३||
भारं हि मयि संन्यस्य यातो मधुनिहा हरिः |
यज्ञं भरतसिंहस्य पार्थस्यामिततेजसः ||२४||
कृतवर्मा मया वीरो निर्यास्यन्नेव वारितः |
शाल्वं निवारयिष्येऽहं तिष्ठ त्वमिति सूतज ||२५||
स च सम्भावयन्मां वै निवृत्तो हृदिकात्मजः |
तं समेत्य रणं त्यक्त्वा किं वक्ष्यामि महारथम् ||२६||
उपयातं दुराधर्षं शङ्खचक्रगदाधरम् |
पुरुषं पुण्डरीकाक्षं किं वक्ष्यामि महाभुजम् ||२७||
सात्यकिं बलदेवं च ये चान्येऽन्धकवृष्णयः |
मया स्पर्धन्ति सततं किं नु वक्ष्यामि तानहम् ||२८||
त्यक्त्वा रणमिमं सौते पृष्ठतोऽभ्याहतः शरैः |
त्वयापनीतो विवशो न जीवेयं कथञ्चन ||२९||
स निवर्त रथेनाशु पुनर्दारुकनन्दन |
न चैतदेवं कर्तव्यमथापत्सु कथञ्चन ||३०||
न जीवितमहं सौते बहु मन्ये कदाचन |
अपयातो रणाद्भीतः पृष्ठतोऽभ्याहतः शरैः ||३१||
कदा वा सूतपुत्र त्वं जानीषे मां भयार्दितम् |
अपयातं रणं हित्वा यथा कापुरुषं तथा ||३२||
न युक्तं भवता त्यक्तुं सङ्ग्रामं दारुकात्मज |
मयि युद्धार्थिनि भृशं स त्वं याहि यतो रणम् ||३३||
२०
वासुदेव उवाच||
एवमुक्तस्तु कौन्तेय सूतपुत्रस्तदा मृधे |
प्रद्युम्नमब्रवीच्छ्लक्ष्णं मधुरं वाक्यमञ्जसा ||१||
न मे भयं रौक्मिणेय सङ्ग्रामे यच्छतो हयान् |
युद्धज्ञश्चास्मि वृष्णीनां नात्र किञ्चिदतोऽन्यथा ||२||
आयुष्मन्नुपदेशस्तु सारथ्ये वर्ततां स्मृतः |
सर्वार्थेषु रथी रक्ष्यस्त्वं चापि भृशपीडितः ||३||
त्वं हि शाल्वप्रयुक्तेन पत्रिणाभिहतो भृशम् |
कश्मलाभिहतो वीर ततोऽहमपयातवान् ||४||
स त्वं सात्वतमुख्याद्य लब्धसञ्ज्ञो यदृच्छया |
पश्य मे हयसंयाने शिक्षां केशवनन्दन ||५||
दारुकेणाहमुत्पन्नो यथावच्चैव शिक्षितः |
वीतभीः प्रविशाम्येतां शाल्वस्य महतीं चमूम् ||६||
एवमुक्त्वा ततो वीर हयान्सञ्चोद्य सङ्गरे |
रश्मिभिश्च समुद्यम्य जवेनाभ्यपतत्तदा ||७||
मण्डलानि विचित्राणि यमकानीतराणि च |
सव्यानि च विचित्राणि दक्षिणानि च सर्वशः ||८||
प्रतोदेनाहता राजन्रश्मिभिश्च समुद्यताः |
उत्पतन्त इवाकाशं विबभुस्ते हयोत्तमाः ||९||
ते हस्तलाघवोपेतं विज्ञाय नृप दारुकिम् |
दह्यमाना इव तदा पस्पृशुश्चरणैर्महीम् ||१०||
सोऽपसव्यां चमूं तस्य शाल्वस्य भरतर्षभ |
चकार नातियत्नेन तदद्भुतमिवाभवत् ||११||
अमृष्यमाणोऽपसव्यं प्रद्युम्नेन स सौभराट् |
यन्तारमस्य सहसा त्रिभिर्बाणैः समर्पयत् ||१२||
दारुकस्य सुतस्तं तु बाणवेगमचिन्तयन् |
भूय एव महाबाहो प्रययौ हयसंमतः ||१३||
ततो बाणान्बहुविधान्पुनरेव स सौभराट् |
मुमोच तनये वीरे मम रुक्मिणिनन्दने ||१४||
तानप्राप्ताञ्शितैर्बाणैश्चिच्छेद परवीरहा |
रौक्मिणेयः स्मितं कृत्वा दर्शयन्हस्तलाघवम् ||१५||
छिन्नान्दृष्ट्वा तु तान्बाणान्प्रद्युम्नेन स सौभराट् |
आसुरीं दारुणीं मायामास्थाय व्यसृजच्छरान् ||१६||
प्रयुज्यमानमाज्ञाय दैतेयास्त्रं महाबलः |
ब्रह्मास्त्रेणान्तरा छित्त्वा मुमोचान्यान्पतत्रिणः ||१७||
ते तदस्त्रं विधूयाशु विव्यधू रुधिराशनाः |
शिरस्युरसि वक्त्रे च स मुमोह पपात च ||१८||
तस्मिन्निपतिते क्षुद्रे शाल्वे बाणप्रपीडिते |
रौक्मिणेयोऽपरं बाणं संदधे शत्रुनाशनम् ||१९||
तमर्चितं सर्वदाशार्हपूगै; राशीर्भिरर्कज्वलनप्रकाशम् |
दृष्ट्वा शरं ज्यामभिनीयमानं; बभूव हाहाकृतमन्तरिक्षम् ||२०||
ततो देवगणाः सर्वे सेन्द्राः सह धनेश्वराः |
नारदं प्रेषयामासुः श्वसनं च महाबलम् ||२१||
तौ रौक्मिणेयमागम्य वचोऽब्रूतां दिवौकसाम् |
नैष वध्यस्त्वया वीर शाल्वराजः कथञ्चन ||२२||
संहरस्व पुनर्बाणमवध्योऽयं त्वया रणे |
एतस्य हि शरस्याजौ नावध्योऽस्ति पुमान्क्वचित् ||२३||
मृत्युरस्य महाबाहो रणे देवकिनन्दनः |
कृष्णः सङ्कल्पितो धात्रा तन्न मिथ्या भवेदिति ||२४||
ततः परमसंहृष्टः प्रद्युम्नः शरमुत्तमम् |
सञ्जहार धनुःश्रेष्ठात्तूणे चैव न्यवेशयत् ||२५||
तत उत्थाय राजेन्द्र शाल्वः परमदुर्मनाः |
व्यपायात्सबलस्तूर्णं प्रद्युम्नशरपीडितः ||२६||
स द्वारकां परित्यज्य क्रूरो वृष्णिभिरर्दितः |
सौभमास्थाय राजेन्द्र दिवमाचक्रमे तदा ||२७||
२१
वासुदेव उवाच||
आनर्तनगरं मुक्तं ततोऽहमगमं तदा |
महाक्रतौ राजसूये निवृत्ते नृपते तव ||१||
अपश्यं द्वारकां चाहं महाराज हतत्विषम् |
निःस्वाध्यायवषट्कारां निर्भूषणवरस्त्रियम् ||२||
अनभिज्ञेयरूपाणि द्वारकोपवनानि च |
दृष्ट्वा शङ्कोपपन्नोऽहमपृच्छं हृदिकात्मजम् ||३||
अस्वस्थनरनारीकमिदं वृष्णिपुरं भृषम् |
किमिदं नरशार्दूल श्रोतुमिच्छामहे वयम् ||४||
एवमुक्तस्तु स मया विस्तरेणेदमब्रवीत् |
रोधं मोक्षं च शाल्वेन हार्दिक्यो राजसत्तम ||५||
ततोऽहं कौरवश्रेष्ठ श्रुत्वा सर्वमशेषतः |
विनाशे शाल्वराजस्य तदैवाकरवं मतिम् ||६||
ततोऽहं भरतश्रेष्ठ समाश्वास्य पुरे जनम् |
राजानमाहुकं चैव तथैवानकदुन्दुभिम् ||७||
सर्ववृष्णिप्रवीरांश्च हर्षयन्नब्रुवं तदा ||७||
अप्रमादः सदा कार्यो नगरे यादवर्षभाः |
शाल्वराजविनाशाय प्रयातं मां निबोधत ||८||
नाहत्वा तं निवर्तिष्ये पुरीं द्वारवतीं प्रति |
सशाल्वं सौभनगरं हत्वा द्रष्टास्मि वः पुनः ||९||
त्रिसामा हन्यतामेषा दुन्दुभिः शत्रुभीषणी ||९||
ते मयाश्वासिता वीरा यथावद्भरतर्षभ |
सर्वे मामब्रुवन्हृष्टाः प्रयाहि जहि शात्रवान् ||१०||
तैः प्रहृष्टात्मभिर्वीरैराशीर्भिरभिनन्दितः |
वाचयित्वा द्विजश्रेष्ठान्प्रणम्य शिरसाहुकम् ||११||
सैन्यसुग्रीवयुक्तेन रथेनानादयन्दिशः |
प्रध्माप्य शङ्खप्रवरं पाञ्चजन्यमहं नृप ||१२||
प्रयातोऽस्मि नरव्याघ्र बलेन महता वृतः |
कॢप्तेन चतुरङ्गेण बलेन जितकाशिना ||१३||
समतीत्य बहून्देशान्गिरींश्च बहुपादपान् |
सरांसि सरितश्चैव मार्त्तिकावतमासदम् ||१४||
तत्राश्रौषं नरव्याघ्र शाल्वं नगरमन्तिकात् |
प्रयातं सौभमास्थाय तमहं पृष्ठतोऽन्वयाम् ||१५||
ततः सागरमासाद्य कुक्षौ तस्य महोर्मिणः |
समुद्रनाभ्यां शाल्वोऽभूत्सौभमास्थाय शत्रुहन् ||१६||
स समालोक्य दूरान्मां स्मयन्निव युधिष्ठिर |
आह्वयामास दुष्टात्मा युद्धायैव मुहुर्मुहुः ||१७||
तस्य शार्ङ्गविनिर्मुक्तैर्बहुभिर्मर्मभेदिभिः |
पुरं नासाद्यत शरैस्ततो मां रोष आविशत् ||१८||
स चापि पापप्रकृतिर्दैतेयापसदो नृप |
मय्यवर्षत दुर्धर्षः शरधाराः सहस्रशः ||१९||
सैनिकान्मम सूतं च हयांश्च समवाकिरत् |
अचिन्तयन्तस्तु शरान्वयं युध्याम भारत ||२०||
ततः शतसहस्राणि शराणां नतपर्वणाम् |
चिक्षिपुः समरे वीरा मयि शाल्वपदानुगाः ||२१||
ते हयान्मे रथं चैव तदा दारुकमेव च |
छादयामासुरसुरा बाणैर्मर्मविभेदिभिः ||२२||
न हया न रथो वीर न यन्ता मम दारुकः |
अदृश्यन्त शरैश्छन्नास्तथाहं सैनिकाश्च मे ||२३||
ततोऽहमपि कौरव्य शराणामयुतान्बहून् |
अभिमन्त्रितानां धनुषा दिव्येन विधिनाक्षिपम् ||२४||
न तत्र विषयस्त्वासीन्मम सैन्यस्य भारत |
खे विषक्तं हि तत्सौभं क्रोशमात्र इवाभवत् ||२५||
ततस्ते प्रेक्षकाः सर्वे रङ्गवाट इव स्थिताः |
हर्षयामासुरुच्चैर्मां सिंहनादतलस्वनैः ||२६||
मत्कार्मुकविनिर्मुक्ता दानवानां महारणे |
अङ्गेषु रुधिराक्तास्ते विविशुः शलभा इव ||२७||
ततो हलहलाशब्दः सौभमध्ये व्यवर्धत |
वध्यतां विशिखैस्तीक्ष्णैः पततां च महार्णवे ||२८||
ते निकृत्तभुजस्कन्धाः कबन्धाकृतिदर्शनाः |
नदन्तो भैरवान्नादन्निपतन्ति स्म दानवाः ||२९||
ततो गोक्षीरकुन्देन्दुमृणालरजतप्रभम् |
जलजं पाञ्चजन्यं वै प्राणेनाहमपूरयम् ||३०||
तान्दृष्ट्वा पतितांस्तत्र शाल्वः सौभपतिस्तदा |
मायायुद्धेन महता योधयामास मां युधि ||३१||
ततो हुडहुडाः प्रासाः शक्तिशूलपरश्वधाः |
पट्टिशाश्च भुशुण्ड्यश्च प्रापतन्ननिशं मयि ||३२||
तानहं माययैवाशु प्रतिगृह्य व्यनाशयम् |
तस्यां हतायां मायायां गिरिशृङ्गैरयोधयत् ||३३||
ततोऽभवत्तम इव प्रभातमिव चाभवत् |
दुर्दिनं सुदिनं चैव शीतमुष्णं च भारत ||३४||
एवं मायां विकुर्वाणो योधयामास मां रिपुः |
विज्ञाय तदहं सर्वं माययैव व्यनाशयम् ||३५||
यथाकालं तु युद्धेन व्यधमं सर्वतः शरैः ||३५||
ततो व्योम महाराज शतसूर्यमिवाभवत् |
शतचन्द्रं च कौन्तेय सहस्रायुततारकम् ||३६||
ततो नाज्ञायत तदा दिवारात्रं तथा दिशः |
ततोऽहं मोहमापन्नः प्रज्ञास्त्रं समयोजयम् ||३७||
ततस्तदस्त्रमस्त्रेण विधूतं शरतूलवत् ||३७||
तथा तदभवद्युद्धं तुमुलं लोमहर्षणम् |
लब्धालोकश्च राजेन्द्र पुनः शत्रुमयोधयम् ||३८||
२२
वासुदेव उवाच||
एवं स पुरुषव्याघ्र शाल्वो राज्ञां महारिपुः |
युध्यमानो मया सङ्ख्ये वियदभ्यागमत्पुनः ||१||
ततः शतघ्नीश्च महागदाश्च; दीप्तांश्च शूलान्मुसलानसींश्च |
चिक्षेप रोषान्मयि मन्दबुद्धिः; शाल्वो महाराज जयाभिकाङ्क्षी ||२||
तानाशुगैरापततोऽहमाशु; निवार्य तूर्णं खगमान्ख एव |
द्विधा त्रिधा चाच्छिनमाशु मुक्तै; स्ततोऽन्तरिक्षे निनदो बभूव ||३||
ततः शतसहस्रेण शराणां नतपर्वणाम् |
दारुकं वाजिनश्चैव रथं च समवाकिरत् ||४||
ततो मामब्रवीद्वीर दारुको विह्वलन्निव |
स्थातव्यमिति तिष्ठामि शाल्वबाणप्रपीडितः ||५||
इति तस्य निशम्याहं सारथेः करुणं वचः |
अवेक्षमाणो यन्तारमपश्यं शरपीडितम् ||६||
न तस्योरसि नो मूर्ध्नि न काये न भुजद्वये |
अन्तरं पाण्डवश्रेष्ठ पश्यामि नहतं शरैः ||७||
स तु बाणवरोत्पीडाद्विस्रवत्यसृगुल्बणम् |
अभिवृष्टो यथा मेघैर्गिरिर्गैरिकधातुमान् ||८||
अभीषुहस्तं तं दृष्ट्वा सीदन्तं सारथिं रणे |
अस्तम्भयं महाबाहो शाल्वबाणप्रपीडितम् ||९||
अथ मां पुरुषः कश्चिद्द्वारकानिलयोऽब्रवीत् |
त्वरितो रथमभ्येत्य सौहृदादिव भारत ||१०||
आहुकस्य वचो वीर तस्यैव परिचारकः |
विषण्णः सन्नकण्ठो वै तन्निबोध युधिष्ठिर ||११||
द्वारकाधिपतिर्वीर आह त्वामाहुको वचः |
केशवेह विजानीष्व यत्त्वां पितृसखोऽब्रवीत् ||१२||
उपयात्वाद्य शाल्वेन द्वारकां वृष्णिनन्दन |
विषक्ते त्वयि दुर्धर्ष हतः शूरसुतो बलात् ||१३||
तदलं साधु युद्धेन निवर्तस्व जनार्दन |
द्वारकामेव रक्षस्व कार्यमेतन्महत्तव ||१४||
इत्यहं तस्य वचनं श्रुत्वा परमदुर्मनाः |
निश्चयं नाधिगच्छामि कर्तव्यस्येतरस्य वा ||१५||
सात्यकिं बलदेवं च प्रद्युम्नं च महारथम् |
जगर्हे मनसा वीर तच्छ्रुत्वा विप्रियं वचः ||१६||
अहं हि द्वारकायाश्च पितुश्च कुरुनन्दन |
तेषु रक्षां समाधाय प्रयातः सौभपातने ||१७||
बलदेवो महाबाहुः कच्चिज्जीवति शत्रुहा |
सात्यकी रौक्मिणेयश्च चारुदेष्णश्च वीर्यवान् ||१८||
साम्बप्रभृतयश्चैवेत्यहमासं सुदुर्मनाः ||१८||
एतेषु हि नरव्याघ्र जीवत्सु न कथञ्चन |
शक्यः शूरसुतो हन्तुमपि वज्रभृता स्वयम् ||१९||
हतः शूरसुतो व्यक्तं व्यक्तं ते च परासवः |
बलदेवमुखाः सर्वे इति मे निश्चिता मतिः ||२०||
सोऽहं सर्वविनाशं तं चिन्तयानो मुहुर्मुहुः |
सुविह्वलो महाराज पुनः शाल्वमयोधयम् ||२१||
ततोऽपश्यं महाराज प्रपतन्तमहं तदा |
सौभाच्छूरसुतं वीर ततो मां मोह आविशत् ||२२||
तस्य रूपं प्रपततः पितुर्मम नराधिप |
ययातेः क्षीणपुण्यस्य स्वर्गादिव महीतलम् ||२३||
विशीर्णगलितोष्णीषः प्रकीर्णाम्बरमूर्धजः |
प्रपतन्दृश्यते ह स्म क्षीणपुण्य इव ग्रहः ||२४||
ततः शार्ङ्गं धनुःश्रेष्ठं करात्प्रपतितं मम |
मोहात्सन्नश्च कौन्तेय रथोपस्थ उपाविशम् ||२५||
ततो हाहाकृतं सर्वं सैन्यं मे गतचेतनम् |
मां दृष्ट्वा रथनीडस्थं गतासुमिव भारत ||२६||
प्रसार्य बाहू पततः प्रसार्य चरणावपि |
रूपं पितुरपश्यं तच्छकुनेः पततो यथा ||२७||
तं पतन्तं महाबाहो शूलपट्टिशपाणयः |
अभिघ्नन्तो भृशं वीरा मम चेतो व्यकम्पयन् ||२८||
ततो मुहूर्तात्प्रतिलभ्य सञ्ज्ञा; महं तदा वीर महाविमर्दे |
न तत्र सौभं न रिपुं न शाल्वं; पश्यामि वृद्धं पितरं न चापि ||२९||
ततो ममासीन्मनसि मायेयमिति निश्चितम् |
प्रबुद्धोऽस्मि ततो भूयः शतशो विकिरञ्शरान् ||३०||
२३
वासुदेव उवाच||
ततोऽहं भरतश्रेष्ठ प्रगृह्य रुचिरं धनुः |
शरैरपातयं सौभाच्छिरांसि विबुधद्विषाम् ||१||
शरांश्चाशीविषाकारानूर्ध्वगांस्तिग्मतेजसः |
अप्रैषं शाल्वराजाय शार्ङ्गमुक्तान्सुवाससः ||२||
ततो नादृश्यत तदा सौभं कुरुकुलोद्वह |
अन्तर्हितं माययाभूत्ततोऽहं विस्मितोऽभवम् ||३||
अथ दानवसङ्घास्ते विकृताननमूर्धजाः |
उदक्रोशन्महाराज विष्ठिते मयि भारत ||४||
ततोऽस्त्रं शब्दसाहं वै त्वरमाणो महाहवे |
अयोजयं तद्वधाय ततः शब्द उपारमत् ||५||
हतास्ते दानवाः सर्वे यैः स शब्द उदीरितः |
शरैरादित्यसङ्काशैर्ज्वलितैः शब्दसाधनैः ||६||
तस्मिन्नुपरते शब्दे पुनरेवान्यतोऽभवत् |
शब्दोऽपरो महाराज तत्रापि प्राहरं शरान् ||७||
एवं दश दिशः सर्वास्तिर्यगूर्ध्वं च भारत |
नादयामासुरसुरास्ते चापि निहता मया ||८||
ततः प्राग्ज्योतिषं गत्वा पुनरेव व्यदृश्यत |
सौभं कामगमं वीर मोहयन्मम चक्षुषी ||९||
ततो लोकान्तकरणो दानवो वानराकृतिः |
शिलावर्षेण सहसा महता मां समावृणोत् ||१०||
सोऽहं पर्वतवर्षेण वध्यमानः समन्ततः |
वल्मीक इव राजेन्द्र पर्वतोपचितोऽभवम् ||११||
ततोऽहं पर्वतचितः सहयः सहसारथिः |
अप्रख्यातिमियां राजन्सध्वजः पर्वतैश्चितः ||१२||
ततो वृष्णिप्रवीरा ये ममासन्सैनिकास्तदा |
ते भयार्ता दिशः सर्वाः सहसा विप्रदुद्रुवुः ||१३||
ततो हाहाकृतं सर्वमभूत्किल विशां पते |
द्यौश्च भूमिश्च खं चैवादृश्यमाने तथा मयि ||१४||
ततो विषण्णमनसो मम राजन्सुहृज्जनाः |
रुरुदुश्चुक्रुशुश्चैव दुःखशोकसमन्विताः ||१५||
द्विषतां च प्रहर्षोऽभूदार्तिश्चाद्विषतामपि |
एवं विजितवान्वीर पश्चादश्रौषमच्युत ||१६||
ततोऽहमस्त्रं दयितं सर्वपाषाणभेदनम् |
वज्रमुद्यम्य तान्सर्वान्पर्वतान्समशातयम् ||१७||
ततः पर्वतभारार्ता मन्दप्राणविचेष्टिताः |
हया मम महाराज वेपमाना इवाभवन् ||१८||
मेघजालमिवाकाशे विदार्याभ्युदितं रविम् |
दृष्ट्वा मां बान्धवाः सर्वे हर्षमाहारयन्पुनः ||१९||
ततो मामब्रवीत्सूतः प्राञ्जलिः प्रणतो नृप |
साधु सम्पश्य वार्ष्णेय शाल्वं सौभपतिं स्थितम् ||२०||
अलं कृष्णावमन्यैनं साधु यत्नं समाचर |
मार्दवं सखितां चैव शाल्वादद्य व्यपाहर ||२१||
जहि शाल्वं महाबाहो मैनं जीवय केशव |
सर्वैः पराक्रमैर्वीर वध्यः शत्रुरमित्रहन् ||२२||
न शत्रुरवमन्तव्यो दुर्बलोऽपि बलीयसा |
योऽपि स्यात्पीठगः कश्चित्किं पुनः समरे स्थितः ||२३||
स त्वं पुरुषशार्दूल सर्वयत्नैरिमं प्रभो |
जहि वृष्णिकुलश्रेष्ठ मा त्वां कालोऽत्यगात्पुनः ||२४||
नैष मार्दवसाध्यो वै मतो नापि सखा तव |
येन त्वं योधितो वीर द्वारका चावमर्दिता ||२५||
एवमादि तु कौन्तेय श्रुत्वाहं सारथेर्वचः |
तत्त्वमेतदिति ज्ञात्वा युद्धे मतिमधारयम् ||२६||
वधाय शाल्वराजस्य सौभस्य च निपातने |
दारुकं चाब्रुवं वीर मुहूर्तं स्थीयतामिति ||२७||
ततोऽप्रतिहतं दिव्यमभेद्यमतिवीर्यवत् |
आग्नेयमस्त्रं दयितं सर्वसाहं महाप्रभम् ||२८||
यक्षाणां राक्षसानां च दानवानां च संयुगे |
राज्ञां च प्रतिलोमानां भस्मान्तकरणं महत् ||२९||
क्षुरान्तममलं चक्रं कालान्तकयमोपमम् |
अभिमन्त्र्याहमतुलं द्विषतां च निबर्हणम् ||३०||
जहि सौभं स्ववीर्येण ये चात्र रिपवो मम |
इत्युक्त्वा भुजवीर्येण तस्मै प्राहिणवं रुषा ||३१||
रूपं सुदर्शनस्यासीदाकाशे पततस्तदा |
द्वितीयस्येव सूर्यस्य युगान्ते परिविष्यतः ||३२||
तत्समासाद्य नगरं सौभं व्यपगतत्विषम् |
मध्येन पाटयामास क्रकचो दार्विवोच्छ्रितम् ||३३||
द्विधा कृतं ततः सौभं सुदर्शनबलाद्धतम् |
महेश्वरशरोद्धूतं पपात त्रिपुरं यथा ||३४||
तस्मिन्निपतिते सौभे चक्रमागात्करं मम |
पुनश्चोद्धूय वेगेन शाल्वायेत्यहमब्रुवम् ||३५||
ततः शाल्वं गदां गुर्वीमाविध्यन्तं महाहवे |
द्विधा चकार सहसा प्रजज्वाल च तेजसा ||३६||
तस्मिन्निपतिते वीरे दानवास्त्रस्तचेतसः |
हाहाभूता दिशो जग्मुरर्दिता मम सायकैः ||३७||
ततोऽहं समवस्थाप्य रथं सौभसमीपतः |
शङ्खं प्रध्माप्य हर्षेण सुहृदः पर्यहर्षयम् ||३८||
तन्मेरुशिखराकारं विध्वस्ताट्टालगोपुरम् |
दह्यमानमभिप्रेक्ष्य स्त्रियस्ताः सम्प्रदुद्रुवुः ||३९||
एवं निहत्य समरे शाल्वं सौभं निपात्य च |
आनर्तान्पुनरागम्य सुहृदां प्रीतिमावहम् ||४०||
एतस्मात्कारणाद्राजन्नागमं नागसाह्वयम् |
यद्यगां परवीरघ्न न हि जीवेत्सुयोधनः ||४१||
वैशम्पायन उवाच||
एवमुक्त्वा महाबाहुः कौरवं पुरुषोत्तमः |
आमन्त्र्य प्रययौ धीमान्पाण्डवान्मधुसूदनः ||४२||
अभिवाद्य महाबाहुर्धर्मराजं युधिष्ठिरम् |
राज्ञा मूर्धन्युपाघ्रातो भीमेन च महाभुजः ||४३||
सुभद्रामभिमन्युं च रथमारोप्य काञ्चनम् |
आरुरोह रथं कृष्णः पाण्डवैरभिपूजितः ||४४||
सैन्यसुग्रीवयुक्तेन रथेनादित्यवर्चसा |
द्वारकां प्रययौ कृष्णः समाश्वास्य युधिष्ठिरम् ||४५||
ततः प्रयाते दाशार्हे धृष्टद्युम्नोऽपि पार्षतः |
द्रौपदेयानुपादाय प्रययौ स्वपुरं तदा ||४६||
धृष्टकेतुः स्वसारं च समादायाथ चेदिराट् |
जगाम पाण्डवान्दृष्ट्वा रम्यां शुक्तिमतीं पुरीम् ||४७||
केकयाश्चाप्यनुज्ञाताः कौन्तेयेनामितौजसा |
आमन्त्र्य पाण्डवान्सर्वान्प्रययुस्तेऽपि भारत ||४८||
ब्राह्मणाश्च विशश्चैव तथा विषयवासिनः |
विसृज्यमानाः सुभृशं न त्यजन्ति स्म पाण्डवान् ||४९||
समवायः स राजेन्द्र सुमहाद्भुतदर्शनः |
आसीन्महात्मनां तेषां काम्यके भरतर्षभ ||५०||
युधिष्ठिरस्तु विप्रांस्ताननुमान्य महामनाः |
शशास पुरुषान्काले रथान्योजयतेति ह ||५१||
२४
वैशम्पायन उवाच||
तस्मिन्दशार्हाधिपतौ प्रयाते; युधिष्ठिरो भीमसेनार्जुनौ च |
यमौ च कृष्णा च पुरोहितश्च; रथान्महार्हान्परमाश्वयुक्तान् ||१||
आस्थाय वीराः सहिता वनाय; प्रतस्थिरे भूतपतिप्रकाशाः |
हिरण्यनिष्कान्वसनानि गाश्च; प्रदाय शिक्षाक्षरमन्त्रविद्भ्यः ||२||
प्रेष्याः पुरो विंशतिरात्तशस्त्रा; धनूंषि वर्माणि शरांश्च पीतान् |
मौर्वीश्च यन्त्राणि च सायकांश्च; सर्वे समादाय जघन्यमीयुः ||३||
ततस्तु वासांसि च राजपुत्र्या; धात्र्यश्च दास्यश्च विभूषणं च |
तदिन्द्रसेनस्त्वरितं प्रगृह्य; जघन्यमेवोपययौ रथेन ||४||
ततः कुरुश्रेष्ठमुपेत्य पौराः; प्रदक्षिणं चक्रुरदीनसत्त्वाः |
तं ब्राह्मणाश्चाभ्यवदन्प्रसन्ना; मुख्याश्च सर्वे कुरुजाङ्गलानाम् ||५||
स चापि तानभ्यवदत्प्रसन्नः; सहैव तैर्भ्रातृभिर्धर्मराजः |
तस्थौ च तत्राधिपतिर्महात्मा; दृष्ट्वा जनौघं कुरुजाङ्गलानाम् ||६||
पितेव पुत्रेषु स तेषु भावं; चक्रे कुरूणामृषभो महात्मा |
ते चापि तस्मिन्भरतप्रबर्हे; तदा बभूवुः पितरीव पुत्राः ||७||
ततः समासाद्य महाजनौघाः; कुरुप्रवीरं परिवार्य तस्थुः |
हा नाथ हा धर्म इति ब्रुवन्तो; ह्रिया च सर्वेऽश्रुमुखा बभूवुः ||८||
वरः कुरूणामधिपः प्रजानां; पितेव पुत्रानपहाय चास्मान् |
पौरानिमाञ्जानपदांश्च सर्वा; न्हित्वा प्रयातः क्व नु धर्मराजः ||९||
धिग्धार्तराष्ट्रं सुनृशंसबुद्धिं; ससौबलं पापमतिं च कर्णम् |
अनर्थमिच्छन्ति नरेन्द्र पापा; ये धर्मनित्यस्य सतस्तवोग्राः ||१०||
स्वयं निवेश्याप्रतिमं महात्मा; पुरं महद्देवपुरप्रकाशम् |
शतक्रतुप्रस्थममोघकर्मा; हित्वा प्रयातः क्व नु धर्मराजः ||११||
चकार यामप्रतिमां महात्मा; सभां मयो देवसभाप्रकाशाम् |
तां देवगुप्तामिव देवमायां; हित्वा प्रयातः क्व नु धर्मराजः ||१२||
तान्धर्मकामार्थविदुत्तमौजा; बीभत्सुरुच्चैः सहितानुवाच |
आदास्यते वासमिमं निरुष्य; वनेषु राजा द्विषतां यशांसि ||१३||
द्विजातिमुख्याः सहिताः पृथक्च; भवद्भिरासाद्य तपस्विनश्च |
प्रसाद्य धर्मार्थविदश्च वाच्या; यथार्थसिद्धिः परमा भवेन्नः ||१४||
इत्येवमुक्ते वचनेऽर्जुनेन; ते ब्राह्मणाः सर्ववर्णाश्च राजन् |
मुदाभ्यनन्दन्सहिताश्च चक्रुः; प्रदक्षिणं धर्मभृतां वरिष्ठम् ||१५||
आमन्त्र्य पार्थं च वृकोदरं च; धनञ्जयं याज्ञसेनीं यमौ च |
प्रतस्थिरे राष्ट्रमपेतहर्षा; युधिष्ठिरेणानुमता यथास्वम् ||१६||
२५
वैशम्पायन उवाच||
ततस्तेषु प्रयातेषु कौन्तेयः सत्यसङ्गरः |
अभ्यभाषत धर्मात्मा भ्रातॄन्सर्वान्युधिष्ठिरः ||१||
द्वादशेमाः समास्माभिर्वस्तव्यं निर्जने वने |
समीक्षध्वं महारण्ये देशं बहुमृगद्विजम् ||२||
बहुपुष्पफलं रम्यं शिवं पुण्यजनोचितम् |
यत्रेमाः शरदः सर्वाः सुखं प्रतिवसेमहि ||३||
एवमुक्ते प्रत्युवाच धर्मराजं धनञ्जयः |
गुरुवन्मानवगुरुं मानयित्वा मनस्विनम् ||४||
अर्जुन उवाच||
भवानेव महर्षीणां वृद्धानां पर्युपासिता |
अज्ञातं मानुषे लोके भवतो नास्ति किञ्चन ||५||
त्वया ह्युपासिता नित्यं ब्राह्मणा भरतर्षभ |
द्वैपायनप्रभृतयो नारदश्च महातपाः ||६||
यः सर्वलोकद्वाराणि नित्यं सञ्चरते वशी |
देवलोकाद्ब्रह्मलोकं गन्धर्वाप्सरसामपि ||७||
सर्वा गतीर्विजानासि ब्राह्मणानां न संशयः |
प्रभावांश्चैव वेत्थ त्वं सर्वेषामेव पार्थिव ||८||
त्वमेव राजञ्जानासि श्रेयःकारणमेव च |
यत्रेच्छसि महाराज निवासं तत्र कुर्महे ||९||
इदं द्वैतवनं नाम सरः पुण्यजनोचितम् |
बहुपुष्पफलं रम्यं नानाद्विजनिषेवितम् ||१०||
अत्रेमा द्वादश समा विहरेमेति रोचये |
यदि तेऽनुमतं राजन्किं वान्यन्मन्यते भवान् ||११||
युधिष्ठिर उवाच||
ममाप्येतन्मतं पार्थ त्वया यत्समुदाहृतम् |
गच्छाम पुण्यं विख्यातं महद्द्वैतवनं सरः ||१२||
वैशम्पायन उवाच||
ततस्ते प्रययुः सर्वे पाण्डवा धर्मचारिणः |
ब्राह्मणैर्बहुभिः सार्धं पुण्यं द्वैतवनं सरः ||१३||
ब्राह्मणाः साग्निहोत्राश्च तथैव च निरग्नयः |
स्वाध्यायिनो भिक्षवश्च सजपा वनवासिनः ||१४||
बहवो ब्राह्मणास्तत्र परिवव्रुर्युधिष्ठिरम् |
तपस्विनः सत्यशीलाः शतशः संशितव्रताः ||१५||
ते यात्वा पाण्डवास्तत्र बहुभिर्ब्राह्मणैः सह |
पुण्यं द्वैतवनं रम्यं विविशुर्भरतर्षभाः ||१६||
तच्छालतालाम्रमधूकनीप; कदम्बसर्जार्जुनकर्णिकारैः |
तपात्यये पुष्पधरैरुपेतं; महावनं राष्ट्रपतिर्ददर्श ||१७||
महाद्रुमाणां शिखरेषु तस्थु; र्मनोरमां वाचमुदीरयन्तः |
मयूरदात्यूहचकोरसङ्घा; स्तस्मिन्वने काननकोकिलाश्च ||१८||
करेणुयूथैः सह यूथपानां; मदोत्कटानामचलप्रभाणाम् |
महान्ति यूथानि महाद्विपानां; तस्मिन्वने राष्ट्रपतिर्ददर्श ||१९||
मनोरमां भोगवतीमुपेत्य; धृतात्मनां चीरजटाधराणाम् |
तस्मिन्वने धर्मभृतां निवासे; ददर्श सिद्धर्षिगणाननेकान् ||२०||
ततः स यानादवरुह्य राजा; सभ्रातृकः सजनः काननं तत् |
विवेश धर्मात्मवतां वरिष्ठ; स्त्रिविष्टपं शक्र इवामितौजाः ||२१||
तं सत्यसन्धं सहिताभिपेतु; र्दिदृक्षवश्चारणसिद्धसङ्घाः |
वनौकसश्चापि नरेन्द्रसिंहं; मनस्विनं सम्परिवार्य तस्थुः ||२२||
स तत्र सिद्धानभिवाद्य सर्वा; न्प्रत्यर्चितो राजवद्देववच्च |
विवेश सर्वैः सहितो द्विजाग्र्यैः; कृताञ्जलिर्धर्मभृतां वरिष्ठः ||२३||
स पुण्यशीलः पितृवन्महात्मा; तपस्विभिर्धर्मपरैरुपेत्य |
प्रत्यर्चितः पुष्पधरस्य मूले; महाद्रुमस्योपविवेश राजा ||२४||
भीमश्च कृष्णा च धनञ्जयश्च; यमौ च ते चानुचरा नरेन्द्रम् |
विमुच्य वाहानवरुह्य सर्वे; तत्रोपतस्थुर्भरतप्रबर्हाः ||२५||
लतावतानावनतः स पाण्डवै; र्महाद्रुमः पञ्चभिरुग्रधन्विभिः |
बभौ निवासोपगतैर्महात्मभि; र्महागिरिर्वारणयूथपैरिव ||२६||
२६
वैशम्पायन उवाच||
तत्काननं प्राप्य नरेन्द्रपुत्राः; सुखोचिता वासमुपेत्य कृच्छ्रम् |
विजह्रुरिन्द्रप्रतिमाः शिवेषु; सरस्वतीशालवनेषु तेषु ||१||
यतींश्च सर्वान्स मुनींश्च राजा; तस्मिन्वने मूलफलैरुदग्रैः |
द्विजातिमुख्यानृषभः कुरूणां; सन्तर्पयामास महानुभावः ||२||
इष्टीश्च पित्र्याणि तथाग्रियाणि; महावने वसतां पाण्डवानाम् |
पुरोहितः सर्वसमृद्धतेजा; श्चकार धौम्यः पितृवत्कुरूणाम् ||३||
अपेत्य राष्ट्राद्वसतां तु तेषा; मृषिः पुराणोऽतिथिराजगाम |
तमाश्रमं तीव्रसमृद्धतेजा; मार्कण्डेयः श्रीमतां पाण्डवानाम् ||४||
स सर्वविद्द्रौपदीं प्रेक्ष्य कृष्णां; युधिष्ठिरं भीमसेनार्जुनौ च |
संस्मृत्य रामं मनसा महात्मा; तपस्विमध्येऽस्मयतामितौजाः ||५||
तं धर्मराजो विमना इवाब्रवी; त्सर्वे ह्रिया सन्ति तपस्विनोऽमी |
भवानिदं किं स्मयतीव हृष्ट; स्तपस्विनां पश्यतां मामुदीक्ष्य ||६||
मार्कण्डेय उवाच||
न तात हृष्यामि न च स्मयामि; प्रहर्षजो मां भजते न दर्पः |
तवापदं त्वद्य समीक्ष्य रामं; सत्यव्रतं दाशरथिं स्मरामि ||७||
स चापि राजा सह लक्ष्मणेन; वने निवासं पितुरेव शासनात् |
धन्वी चरन्पार्थ पुरा मयैव; दृष्टो गिरेरृष्यमूकस्य सानौ ||८||
सहस्रनेत्रप्रतिमो महात्मा; मयस्य जेत नमुचेश्च हन्ता |
पितुर्निदेशादनघः स्वधर्मं; वने वासं दाशरथिश्चकार ||९||
स चापि शक्रस्य समप्रभावो; महानुभावः समरेष्वजेयः |
विहाय भोगानचरद्वनेषु; नेशे बलस्येति चरेदधर्मम् ||१०||
नृपाश्च नाभागभगीरथादयो; महीमिमां सागरान्तां विजित्य |
सत्येन तेऽप्यजयंस्तात लोका; न्नेशे बलस्येति चरेदधर्मम् ||११||
अलर्कमाहुर्नरवर्य सन्तं; सत्यव्रतं काशिकरूषराजम् |
विहाय राष्ट्राणि वसूनि चैव; नेशे बलस्येति चरेदधर्मम् ||१२||
धात्रा विधिर्यो विहितः पुराण; स्तं पूजयन्तो नरवर्य सन्तः |
सप्तर्षयः पार्थ दिवि प्रभान्ति; नेशे बलस्येति चरेदधर्मम् ||१३||
महाबलान्पर्वतकूटमात्रा; न्विषाणिनः पश्य गजान्नरेन्द्र |
स्थितान्निदेशे नरवर्य धातु; र्नेशे बलस्येति चरेदधर्मम् ||१४||
सर्वाणि भूतानि नरेन्द्र पश्य; यथा यथावद्विहितं विधात्रा |
स्वयोनितस्तत्कुरुते प्रभावा; न्नेशे बलस्येति चरेदधर्मम् ||१५||
सत्येन धर्मेण यथार्हवृत्त्या; ह्रिया तथा सर्वभूतान्यतीत्य |
यशश्च तेजश्च तवापि दीप्तं; विभावसोर्भास्करस्येव पार्थ ||१६||
यथाप्रतिज्ञं च महानुभाव; कृच्छ्रं वने वासमिमं निरुष्य |
ततः श्रियं तेजसा स्वेन दीप्ता; मादास्यसे पार्थिव कौरवेभ्यः ||१७||
वैशम्पायन उवाच||
तमेवमुक्त्वा वचनं महर्षि; स्तपस्विमध्ये सहितं सुहृद्भिः |
आमन्त्र्य धौम्यं सहितांश्च पार्थां; स्ततः प्रतस्थे दिशमुत्तरां सः ||१८||
२७
वैशम्पायन उवाच||
वसत्स्वथ द्वैतवने पाण्डवेषु महात्मसु |
अनुकीर्णं महारण्यं ब्राह्मणैः समपद्यत ||१||
ईर्यमाणेन सततं ब्रह्मघोषेण सर्वतः |
ब्रह्मलोकसमं पुण्यमासीद्द्वैतवनं सरः ||२||
यजुषामृचां च साम्नां च गद्यानां चैव सर्वशः |
आसीदुच्चार्यमाणानां निस्वनो हृदयङ्गमः ||३||
ज्याघोषः पाण्डवेयानां ब्रह्मघोषश्च धीमताम् |
संसृष्टं ब्रह्मणा क्षत्रं भूय एव व्यरोचत ||४||
अथाब्रवीद्बको दाल्भ्यो धर्मराजं युधिष्ठिरम् |
सन्ध्यां कौन्तेयमासीनमृषिभिः परिवारितम् ||५||
पश्य द्वैतवने पार्थ ब्राह्मणानां तपस्विनाम् |
होमवेलां कुरुश्रेष्ठ सम्प्रज्वलितपावकाम् ||६||
चरन्ति धर्मं पुण्येऽस्मिंस्त्वया गुप्ता धृतव्रताः |
भृगवोऽङ्गिरसश्चैव वासिष्ठाः काश्यपैः सह ||७||
आगस्त्याश्च महाभागा आत्रेयाश्चोत्तमव्रताः |
सर्वस्य जगतः श्रेष्ठा ब्राह्मणाः सङ्गतास्त्वया ||८||
इदं तु वचनं पार्थ शृण्वेकाग्रमना मम |
भ्रातृभिः सह कौन्तेय यत्त्वां वक्ष्यामि कौरव ||९||
ब्रह्म क्षत्रेण संसृष्टं क्षत्रं च ब्रह्मणा सह |
उदीर्णौ दहतः शत्रून्वनानीवाग्निमारुतौ ||१०||
नाब्राह्मणस्तात चिरं बुभूषे; दिच्छन्निमं लोकममुं च जेतुम् |
विनीतधर्मार्थमपेतमोहं; लब्ध्वा द्विजं नुदति नृपः सपत्नान् ||११||
चरन्नैःश्रेयसं धर्मं प्रजापालनकारितम् |
नाध्यगच्छद्बलिर्लोके तीर्थमन्यत्र वै द्विजात् ||१२||
अनूनमासीदसुरस्य कामै; र्वैरोचनेः श्रीरपि चाक्षयासीत् |
लब्ध्वा महीं ब्राह्मणसम्प्रयोगा; त्तेष्वाचरन्दुष्टमतो व्यनश्यत् ||१३||
नाब्राह्मणं भूमिरियं सभूति; र्वर्णं द्वितीयं भजते चिराय |
समुद्रनेमिर्नमते तु तस्मै; यं ब्राह्मणः शास्ति नयैर्विनीतः ||१४||
कुञ्जरस्येव सङ्ग्रामेऽपरिगृह्याङ्कुशग्रहम् |
ब्राह्मणैर्विप्रहीणस्य क्षत्रस्य क्षीयते बलम् ||१५||
ब्रह्मण्यनुपमा दृष्टिः क्षात्रमप्रतिमं बलम् |
तौ यदा चरतः सार्धमथ लोकः प्रसीदति ||१६||
यथा हि सुमहानग्निः कक्षं दहति सानिलः |
तथा दहति राजन्यो ब्राह्मणेन समं रिपून् ||१७||
ब्राह्मणेभ्योऽथ मेधावी बुद्धिपर्येषणं चरेत् |
अलब्धस्य च लाभाय लब्धस्य च विवृद्धये ||१८||
अलब्धलाभाय च लब्धवृद्धये; यथार्हतीर्थप्रतिपादनाय |
यशस्विनं वेदविदं विपश्चितं; बहुश्रुतं ब्राह्मणमेव वासय ||१९||
ब्राह्मणेषूत्तमा वृत्तिस्तव नित्यं युधिष्ठिर |
तेन ते सर्वलोकेषु दीप्यते प्रथितं यशः ||२०||
ततस्ते ब्राह्मणाः सर्वे बकं दाल्भ्यमपूजयन् |
युधिष्ठिरे स्तूयमाने भूयः सुमनसोऽभवन् ||२१||
द्वैपायनो नारदश्च जामदग्न्यः पृथुश्रवाः |
इन्द्रद्युम्नो भालुकिश्च कृतचेताः सहस्रपात् ||२२||
कर्णश्रवाश्च मुञ्जश्च लवणाश्वश्च काश्यपः |
हारीतः स्थूणकर्णश्च अग्निवेश्योऽथ शौनकः ||२३||
ऋतवाक्च सुवाक्चैव बृहदश्व ऋतावसुः |
ऊर्ध्वरेता वृषामित्रः सुहोत्रो होत्रवाहनः ||२४||
एते चान्ये च बहवो ब्राह्मणाः संशितव्रताः |
अजातशत्रुमानर्चुः पुरंदरमिवर्षयः ||२५||
२८
वैशम्पायन उवाच||
ततो वनगताः पार्थाः सायाह्ने सह कृष्णया |
उपविष्टाः कथाश्चक्रुर्दुःखशोकपरायणाः ||१||
प्रिया च दर्शनीया च पण्डिता च पतिव्रता |
ततः कृष्णा धर्मराजमिदं वचनमब्रवीत् ||२||
न नूनं तस्य पापस्य दुःखमस्मासु किञ्चन |
विद्यते धार्तराष्ट्रस्य नृशंसस्य दुरात्मनः ||३||
यस्त्वां राजन्मया सार्धमजिनैः प्रतिवासितम् |
भ्रातृभिश्च तथा सर्वैर्नाभ्यभाषत किञ्चन ||४||
वनं प्रस्थाप्य दुष्टात्मा नान्वतप्यत दुर्मतिः ||४||
आयसं हृदयं नूनं तस्य दुष्कृतकर्मणः |
यस्त्वां धर्मपरं श्रेष्ठं रूक्षाण्यश्रावयत्तदा ||५||
सुखोचितमदुःखार्हं दुरात्मा ससुहृद्गणः |
ईदृशं दुःखमानीय मोदते पापपूरुषः ||६||
चतुर्णामेव पापानामश्रु वै नापतत्तदा |
त्वयि भारत निष्क्रान्ते वनायाजिनवाससि ||७||
दुर्योधनस्य कर्णस्य शकुनेश्च दुरात्मनः |
दुर्भ्रातुस्तस्य चोग्रस्य तथा दुःशासनस्य च ||८||
इतरेषां तु सर्वेषां कुरूणां कुरुसत्तम |
दुःखेनाभिपरीतानां नेत्रेभ्यः प्रापतज्जलम् ||९||
इदं च शयनं दृष्ट्वा यच्चासीत्ते पुरातनम् |
शोचामि त्वां महाराज दुःखानर्हं सुखोचितम् ||१०||
दान्तं यच्च सभामध्ये आसनं रत्नभूषितम् |
दृष्ट्वा कुशबृसीं चेमां शोको मां रुन्धयत्ययम् ||११||
यदपश्यं सभायां त्वां राजभिः परिवारितम् |
तच्च राजन्नपश्यन्त्याः का शान्तिर्हृदयस्य मे ||१२||
या त्वाहं चन्दनादिग्धमपश्यं सूर्यवर्चसम् |
सा त्वा पङ्कमलादिग्धं दृष्ट्वा मुह्यामि भारत ||१३||
या वै त्वा कौशिकैर्वस्त्रैः शुभ्रैर्बहुधनैः पुरा |
दृष्टवत्यस्मि राजेन्द्र सा त्वां पश्यामि चीरिणम् ||१४||
यच्च तद्रुक्मपात्रीभिर्ब्राह्मणेभ्यः सहस्रशः |
ह्रियते ते गृहादन्नं संस्कृतं सार्वकामिकम् ||१५||
यतीनामगृहाणां ते तथैव गृहमेधिनाम् |
दीयते भोजनं राजन्नतीव गुणवत्प्रभो ||१६||
तच्च राजन्नपश्यन्त्याः का शान्तिर्हृदयस्य मे ||१६||
यांस्ते भ्रातॄन्महाराज युवानो मृष्टकुण्डलाः |
अभोजयन्त मृष्टान्नैः सूदाः परमसंस्कृतैः ||१७||
सर्वांस्तानद्य पश्यामि वने वन्येन जीवतः |
अदुःखार्हान्मनुष्येन्द्र नोपशाम्यति मे मनः ||१८||
भीमसेनमिमं चापि दुःखितं वनवासिनम् |
ध्यायन्तं किं न मन्युस्ते प्राप्ते काले विवर्धते ||१९||
भीमसेनं हि कर्माणि स्वयं कुर्वाणमच्युत |
सुखार्हं दुःखितं दृष्ट्वा कस्मान्मन्युर्न वर्धते ||२०||
सत्कृतं विविधैर्यानैर्वस्त्रैरुच्चावचैस्तथा |
तं ते वनगतं दृष्ट्वा कस्मान्मन्युर्न वर्धते ||२१||
कुरूनपि हि यः सर्वान्हन्तुमुत्सहते प्रभुः |
त्वत्प्रसादं प्रतीक्षंस्तु सहतेऽयं वृकोदरः ||२२||
योऽर्जुनेनार्जुनस्तुल्यो द्विबाहुर्बहुबाहुना |
शरातिसर्गे शीघ्रत्वात्कालान्तकयमोपमः ||२३||
यस्य शस्त्रप्रतापेन प्रणताः सर्वपार्थिवाः |
यज्ञे तव महाराज ब्राह्मणानुपतस्थिरे ||२४||
तमिमं पुरुषव्याघ्रं पूजितं देवदानवैः |
ध्यायन्तमर्जुनं दृष्ट्वा कस्मान्मन्युर्न वर्धते ||२५||
दृष्ट्वा वनगतं पार्थमदुःखार्हं सुखोचितम् |
न च ते वर्धते मन्युस्तेन मुह्यामि भारत ||२६||
यो देवांश्च मनुष्यांश्च सर्पांश्चैकरथोऽजयत् |
तं ते वनगतं दृष्ट्वा कस्मान्मन्युर्न वर्धते ||२७||
यो यानैरद्भुताकारैर्हयैर्नागैश्च संवृतः |
प्रसह्य वित्तान्यादत्त पार्थिवेभ्यः परन्तपः ||२८||
क्षिपत्येकेन वेगेन पञ्च बाणशतानि यः |
तं ते वनगतं दृष्ट्वा कस्मान्मन्युर्न वर्धते ||२९||
श्यामं बृहन्तं तरुणं चर्मिणामुत्तमं रणे |
नकुलं ते वने दृष्ट्वा कस्मान्मन्युर्न वर्धते ||३०||
दर्शनीयं च शूरं च माद्रीपुत्रं युधिष्ठिर |
सहदेवं वने दृष्ट्वा कस्मान्मन्युर्न वर्धते ||३१||
द्रुपदस्य कुले जातां स्नुषां पाण्डोर्महात्मनः |
मां ते वनगतां दृष्ट्वा कस्मान्मन्युर्न वर्धते ||३२||
नूनं च तव नैवास्ति मन्युर्भरतसत्तम |
यत्ते भ्रातॄंश्च मां चैव दृष्ट्वा न व्यथते मनः ||३३||
न निर्मन्युः क्षत्रियोऽस्ति लोके निर्वचनं स्मृतम् |
तदद्य त्वयि पश्यामि क्षत्रिये विपरीतवत् ||३४||
यो न दर्शयते तेजः क्षत्रियः काल आगते |
सर्वभूतानि तं पार्थ सदा परिभवन्त्युत ||३५||
तत्त्वया न क्षमा कार्या शत्रून्प्रति कथञ्चन |
तेजसैव हि ते शक्या निहन्तुं नात्र संशयः ||३६||
तथैव यः क्षमाकाले क्षत्रियो नोपशाम्यति |
अप्रियः सर्वभूतानां सोऽमुत्रेह च नश्यति ||३७||
२९
द्रौपद्युवाच||
अत्राप्युदाहरन्तीममितिहासं पुरातनम् |
प्रह्लादस्य च संवादं बलेर्वैरोचनस्य च ||१||
असुरेन्द्रं महाप्राज्ञं धर्माणामागतागमम् |
बलिः पप्रच्छ दैत्येन्द्रं प्रह्लादं पितरं पितुः ||२||
क्षमा स्विच्छ्रेयसी तात उताहो तेज इत्युत |
एतन्मे संशयं तात यथावद्ब्रूहि पृच्छते ||३||
श्रेयो यदत्र धर्मज्ञ ब्रूहि मे तदसंशयम् |
करिष्यामि हि तत्सर्वं यथावदनुशासनम् ||४||
तस्मै प्रोवाच तत्सर्वमेवं पृष्टः पितामहः |
सर्वनिश्चयवित्प्राज्ञः संशयं परिपृच्छते ||५||
प्रह्लाद उवाच||
न श्रेयः सततं तेजो न नित्यं श्रेयसी क्षमा |
इति तात विजानीहि द्वयमेतदसंशयम् ||६||
यो नित्यं क्षमते तात बहून्दोषान्स विन्दति |
भृत्याः परिभवन्त्येनमुदासीनास्तथैव च ||७||
सर्वभूतानि चाप्यस्य न नमन्ते कदाचन |
तस्मान्नित्यं क्षमा तात पण्डितैरपवादिता ||८||
अवज्ञाय हि तं भृत्या भजन्ते बहुदोषताम् |
आदातुं चास्य वित्तानि प्रार्थयन्तेऽल्पचेतसः ||९||
यानं वस्त्राण्यलङ्काराञ्शयनान्यासनानि च |
भोजनान्यथ पानानि सर्वोपकरणानि च ||१०||
आददीरन्नधिकृता यथाकाममचेतसः |
प्रदिष्टानि च देयानि न दद्युर्भर्तृशासनात् ||११||
न चैनं भर्तृपूजाभिः पूजयन्ति कदाचन |
अवज्ञानं हि लोकेऽस्मिन्मरणादपि गर्हितम् ||१२||
क्षमिणं तादृशं तात ब्रुवन्ति कटुकान्यपि |
प्रेष्याः पुत्राश्च भृत्याश्च तथोदासीनवृत्तयः ||१३||
अप्यस्य दारानिच्छन्ति परिभूय क्षमावतः |
दाराश्चास्य प्रवर्तन्ते यथाकाममचेतसः ||१४||
तथा च नित्यमुदिता यदि स्वल्पमपीश्वरात् |
दण्डमर्हन्ति दुष्यन्ति दुष्टाश्चाप्यपकुर्वते ||१५||
एते चान्ये च बहवो नित्यं दोषाः क्षमावताम् |
अथ वैरोचने दोषानिमान्विद्ध्यक्षमावताम् ||१६||
अस्थाने यदि वा स्थाने सततं रजसावृतः |
क्रुद्धो दण्डान्प्रणयति विविधान्स्वेन तेजसा ||१७||
मित्रैः सह विरोधं च प्राप्नुते तेजसावृतः |
प्राप्नोति द्वेष्यतां चैव लोकात्स्वजनतस्तथा ||१८||
सोऽवमानादर्थहानिमुपालम्भमनादरम् |
सन्तापद्वेषलोभांश्च शत्रूंश्च लभते नरः ||१९||
क्रोधाद्दण्डान्मनुष्येषु विविधान्पुरुषो नयन् |
भ्रश्यते शीघ्रमैश्वर्यात्प्राणेभ्यः स्वजनादपि ||२०||
योऽपकर्तॄंश्च कर्तॄंश्च तेजसैवोपगच्छति |
तस्मादुद्विजते लोकः सर्पाद्वेश्मगतादिव ||२१||
यस्मादुद्विजते लोकः कथं तस्य भवो भवेत् |
अन्तरं ह्यस्य दृष्ट्वैव लोको विकुरुते ध्रुवम् ||२२||
तस्मान्नात्युत्सृजेत्तेजो न च नित्यं मृदुर्भवेत् ||२२||
काले मृदुर्यो भवति काले भवति दारुणः |
स वै सुखमवाप्नोति लोकेऽमुष्मिन्निहैव च ||२३||
क्षमाकालांस्तु वक्ष्यामि शृणु मे विस्तरेण तान् |
ये ते नित्यमसन्त्याज्या यथा प्राहुर्मनीषिणः ||२४||
पूर्वोपकारी यस्तु स्यादपराधेऽगरीयसि |
उपकारेण तत्तस्य क्षन्तव्यमपराधिनः ||२५||
अबुद्धिमाश्रितानां च क्षन्तव्यमपराधिनाम् |
न हि सर्वत्र पाण्डित्यं सुलभं पुरुषेण वै ||२६||
अथ चेद्बुद्धिजं कृत्वा ब्रूयुस्ते तदबुद्धिजम् |
पापान्स्वल्पेऽपि तान्हन्यादपराधे तथानृजून् ||२७||
सर्वस्यैकोऽपराधस्ते क्षन्तव्यः प्राणिनो भवेत् |
द्वितीये सति वध्यस्तु स्वल्पेऽप्यपकृते भवेत् ||२८||
अजानता भवेत्कश्चिदपराधः कृतो यदि |
क्षन्तव्यमेव तस्याहुः सुपरीक्ष्य परीक्षया ||२९||
मृदुना मार्दवं हन्ति मृदुना हन्ति दारुणम् |
नासाध्यं मृदुना किञ्चित्तस्मात्तीक्ष्णतरो मृदुः ||३०||
देशकालौ तु सम्प्रेक्ष्य बलाबलमथात्मनः |
नादेशकाले किञ्चित्स्याद्देशः कालः प्रतीक्ष्यते ||३१||
तथा लोकभयाच्चैव क्षन्तव्यमपराधिनः ||३१||
एत एवंविधाः कालाः क्षमायाः परिकीर्तिताः |
अतोऽन्यथानुवर्तत्सु तेजसः काल उच्यते ||३२||
द्रौपद्युवाच||
तदहं तेजसः कालं तव मन्ये नराधिप |
धार्तराष्ट्रेषु लुब्धेषु सततं चापकारिषु ||३३||
न हि कश्चित्क्षमाकालो विद्यतेऽद्य कुरून्प्रति |
तेजसश्चागते काले तेज उत्स्रष्टुमर्हसि ||३४||
मृदुर्भवत्यवज्ञातस्तीक्ष्णादुद्विजते जनः |
काले प्राप्ते द्वयं ह्येतद्यो वेद स महीपतिः ||३५||
३०
युधिष्ठिर उवाच||
क्रोधो हन्ता मनुष्याणां क्रोधो भावयिता पुनः |
इति विद्धि महाप्राज्ञे क्रोधमूलौ भवाभवौ ||१||
यो हि संहरते क्रोधं भावस्तस्य सुशोभने |
यः पुनः पुरुषः क्रोधं नित्यं न सहते शुभे ||२||
तस्याभावाय भवति क्रोधः परमदारुणः ||२||
क्रोधमूलो विनाशो हि प्रजानामिह दृश्यते |
तत्कथं मादृशः क्रोधमुत्सृजेल्लोकनाशनम् ||३||
क्रुद्धः पापं नरः कुर्यात्क्रुद्धो हन्याद्गुरूनपि |
क्रुद्धः परुषया वाचा श्रेयसोऽप्यवमन्यते ||४||
वाच्यावाच्ये हि कुपितो न प्रजानाति कर्हिचित् |
नाकार्यमस्ति क्रुद्धस्य नावाच्यं विद्यते तथा ||५||
हिंस्यात्क्रोधादवध्यांश्च वध्यान्सम्पूजयेदपि |
आत्मानमपि च क्रुद्धः प्रेषयेद्यमसादनम् ||६||
एतान्दोषान्प्रपश्यद्भिर्जितः क्रोधो मनीषिभिः |
इच्छद्भिः परमं श्रेय इह चामुत्र चोत्तमम् ||७||
तं क्रोधं वर्जितं धीरैः कथमस्मद्विधश्चरेत् |
एतद्द्रौपदि सन्धाय न मे मन्युः प्रवर्धते ||८||
आत्मानं च परं चैव त्रायते महतो भयात् |
क्रुध्यन्तमप्रतिक्रुध्यन्द्वयोरेष चिकित्सकः ||९||
मूढो यदि क्लिश्यमानः क्रुध्यतेऽशक्तिमान्नरः |
बलीयसां मनुष्याणां त्यजत्यात्मानमन्ततः ||१०||
तस्यात्मानं सन्त्यजतो लोका नश्यन्त्यनात्मनः |
तस्माद्द्रौपद्यशक्तस्य मन्योर्नियमनं स्मृतम् ||११||
विद्वांस्तथैव यः शक्तः क्लिश्यमानो न कुप्यति |
स नाशयित्वा क्लेष्टारं परलोके च नन्दति ||१२||
तस्माद्बलवता चैव दुर्बलेन च नित्यदा |
क्षन्तव्यं पुरुषेणाहुरापत्स्वपि विजानता ||१३||
मन्योर्हि विजयं कृष्णे प्रशंसन्तीह साधवः |
क्षमावतो जयो नित्यं साधोरिह सतां मतम् ||१४||
सत्यं चानृततः श्रेयो नृशंसाच्चानृशंसता |
तमेवं बहुदोषं तु क्रोधं साधुविवर्जितम् ||१५||
मादृशः प्रसृजेत्कस्मात्सुयोधनवधादपि ||१५||
तेजस्वीति यमाहुर्वै पण्डिता दीर्घदर्शिनः |
न क्रोधोऽभ्यन्तरस्तस्य भवतीति विनिश्चितम् ||१६||
यस्तु क्रोधं समुत्पन्नं प्रज्ञया प्रतिबाधते |
तेजस्विनं तं विद्वांसो मन्यन्ते तत्त्वदर्शिनः ||१७||
क्रुद्धो हि कार्यं सुश्रोणि न यथावत्प्रपश्यति |
न कार्यं न च मर्यादां नरः क्रुद्धोऽनुपश्यति ||१८||
हन्त्यवध्यानपि क्रुद्धो गुरून्रूक्षैस्तुदत्यपि |
तस्मात्तेजसि कर्तव्ये क्रोधो दूरात्प्रतिष्ठितः ||१९||
दाक्ष्यं ह्यमर्षः शौर्यं च शीघ्रत्वमिति तेजसः |
गुणाः क्रोधाभिभूतेन न शक्याः प्राप्तुमञ्जसा ||२०||
क्रोधं त्यक्त्वा तु पुरुषः सम्यक्तेजोऽभिपद्यते |
कालयुक्तं महाप्राज्ञे क्रुद्धैस्तेजः सुदुःसहम् ||२१||
क्रोधस्त्वपण्डितैः शश्वत्तेज इत्यभिधीयते |
रजस्तल्लोकनाशाय विहितं मानुषान्प्रति ||२२||
तस्माच्छश्वत्त्यजेत्क्रोधं पुरुषः सम्यगाचरन् |
श्रेयान्स्वधर्मानपगो न क्रुद्ध इति निश्चितम् ||२३||
यदि सर्वमबुद्धीनामतिक्रान्तममेधसाम् |
अतिक्रमो मद्विधस्य कथं स्वित्स्यादनिन्दिते ||२४||
यदि न स्युर्मनुष्येषु क्षमिणः पृथिवीसमाः |
न स्यात्सन्धिर्मनुष्याणां क्रोधमूलो हि विग्रहः ||२५||
अभिषक्तो ह्यभिषजेदाहन्याद्गुरुणा हतः |
एवं विनाशो भूतानामधर्मः प्रथितो भवेत् ||२६||
आक्रुष्टः पुरुषः सर्वः प्रत्याक्रोशेदनन्तरम् |
प्रतिहन्याद्धतश्चैव तथा हिंस्याच्च हिंसितः ||२७||
हन्युर्हि पितरः पुत्रान्पुत्राश्चापि तथा पितॄन् |
हन्युश्च पतयो भार्याः पतीन्भार्यास्तथैव च ||२८||
एवं सङ्कुपिते लोके जन्म कृष्णे न विद्यते |
प्रजानां सन्धिमूलं हि जन्म विद्धि शुभानने ||२९||
ताः क्षीयेरन्प्रजाः सर्वाः क्षिप्रं द्रौपदि तादृशे |
तस्मान्मन्युर्विनाशाय प्रजानामभवाय च ||३०||
यस्मात्तु लोके दृश्यन्ते क्षमिणः पृथिवीसमाः |
तस्माज्जन्म च भूतानां भवश्च प्रतिपद्यते ||३१||
क्षन्तव्यं पुरुषेणेह सर्वास्वापत्सु शोभने |
क्षमा भवो हि भूतानां जन्म चैव प्रकीर्तितम् ||३२||
आक्रुष्टस्ताडितः क्रुद्धः क्षमते यो बलीयसा |
यश्च नित्यं जितक्रोधो विद्वानुत्तमपूरुषः ||३३||
प्रभाववानपि नरस्तस्य लोकाः सनातनाः |
क्रोधनस्त्वल्पविज्ञानः प्रेत्य चेह च नश्यति ||३४||
अत्राप्युदाहरन्तीमा गाथा नित्यं क्षमावताम् |
गीताः क्षमावता कृष्णे काश्यपेन महात्मना ||३५||
क्षमा धर्मः क्षमा यज्ञः क्षमा वेदाः क्षमा श्रुतम् |
यस्तामेवं विजानाति स सर्वं क्षन्तुमर्हति ||३६||
क्षमा ब्रह्म क्षमा सत्यं क्षमा भूतं च भावि च |
क्षमा तपः क्षमा शौचं क्षमया चोद्धृतं जगत् ||३७||
अति ब्रह्मविदां लोकानति चापि तपस्विनाम् |
अति यज्ञविदां चैव क्षमिणः प्राप्नुवन्ति तान् ||३८||
क्षमा तेजस्विनां तेजः क्षमा ब्रह्म तपस्विनाम् |
क्षमा सत्यं सत्यवतां क्षमा दानं क्षमा यशः ||३९||
तां क्षमामीदृशीं कृष्णे कथमस्मद्विधस्त्यजेत् |
यस्यां ब्रह्म च सत्यं च यज्ञा लोकाश्च विष्ठिताः ||४०||
भुज्यन्ते यज्वनां लोकाः क्षमिणामपरे तथा ||४०||
क्षन्तव्यमेव सततं पुरुषेण विजानता |
यदा हि क्षमते सर्वं ब्रह्म सम्पद्यते तदा ||४१||
क्षमावतामयं लोकः परश्चैव क्षमावताम् |
इह संमानमृच्छन्ति परत्र च शुभां गतिम् ||४२||
येषां मन्युर्मनुष्याणां क्षमया निहतः सदा |
तेषां परतरे लोकास्तस्मात्क्षान्तिः परा मता ||४३||
इति गीताः काश्यपेन गाथा नित्यं क्षमावताम् |
श्रुत्वा गाथाः क्षमायास्त्वं तुष्य द्रौपदि मा क्रुधः ||४४||
पितामहः शान्तनवः शमं सम्पूजयिष्यति |
आचार्यो विदुरः क्षत्ता शममेव वदिष्यतः ||४५||
कृपश्च सञ्जयश्चैव शममेव वदिष्यतः ||४५||
सोमदत्तो युयुत्सुश्च द्रोणपुत्रस्तथैव च |
पितामहश्च नो व्यासः शमं वदति नित्यशः ||४६||
एतैर्हि राजा नियतं चोद्यमानः शमं प्रति |
राज्यं दातेति मे बुद्धिर्न चेल्लोभान्नशिष्यति ||४७||
कालोऽयं दारुणः प्राप्तो भरतानामभूतये |
निश्चितं मे सदैवैतत्पुरस्तादपि भामिनि ||४८||
सुयोधनो नार्हतीति क्षमामेवं न विन्दति |
अर्हस्तस्याहमित्येव तस्मान्मां विन्दते क्षमा ||४९||
एतदात्मवतां वृत्तमेष धर्मः सनातनः |
क्षमा चैवानृशंस्यं च तत्कर्तास्म्यहमञ्जसा ||५०||
३१
द्रौपद्युवाच||
नमो धात्रे विधात्रे च यौ मोहं चक्रतुस्तव |
पितृपैतामहे वृत्ते वोढव्ये तेऽन्यथा मतिः ||१||
नेह धर्मानृशंस्याभ्यां न क्षान्त्या नार्जवेन च |
पुरुषः श्रियमाप्नोति न घृणित्वेन कर्हिचित् ||२||
त्वां चेद्व्यसनमभ्यागादिदं भारत दुःसहम् |
यत्त्वं नार्हसि नापीमे भ्रातरस्ते महौजसः ||३||
न हि तेऽध्यगमज्जातु तदानीं नाद्य भारत |
धर्मात्प्रियतरं किञ्चिदपि चेज्जीवितादिह ||४||
धर्मार्थमेव ते राज्यं धर्मार्थं जीवितं च ते |
ब्राह्मणा गुरवश्चैव जानन्त्यपि च देवताः ||५||
भीमसेनार्जुनौ चैव माद्रेयौ च मया सह |
त्यजेस्त्वमिति मे बुद्धिर्न तु धर्मं परित्यजेः ||६||
राजानं धर्मगोप्तारं धर्मो रक्षति रक्षितः |
इति मे श्रुतमार्याणां त्वां तु मन्ये न रक्षति ||७||
अनन्या हि नरव्याघ्र नित्यदा धर्ममेव ते |
बुद्धिः सततमन्वेति छायेव पुरुषं निजा ||८||
नावमंस्था हि सदृशान्नावराञ्श्रेयसः कुतः |
अवाप्य पृथिवीं कृत्स्नां न ते शृङ्गमवर्धत ||९||
स्वाहाकारैः स्वधाभिश्च पूजाभिरपि च द्विजान् |
दैवतानि पितॄंश्चैव सततं पार्थ सेवसे ||१०||
ब्राह्मणाः सर्वकामैस्ते सततं पार्थ तर्पिताः |
यतयो मोक्षिणश्चैव गृहस्थाश्चैव भारत ||११||
आरण्यकेभ्यो लौहानि भाजनानि प्रयच्छसि |
नादेयं ब्राह्मणेभ्यस्ते गृहे किञ्चन विद्यते ||१२||
यदिदं वैश्वदेवान्ते सायम्प्रातः प्रदीयते |
तद्दत्त्वातिथिभृत्येभ्यो राजञ्शेषेण जीवसि ||१३||
इष्टयः पशुबन्धाश्च काम्यनैमित्तिकाश्च ये |
वर्तन्ते पाकयज्ञाश्च यज्ञकर्म च नित्यदा ||१४||
अस्मिन्नपि महारण्ये विजने दस्युसेविते |
राष्ट्रादपेत्य वसतो धार्मस्ते नावसीदति ||१५||
अश्वमेधो राजसूयः पुण्डरीकोऽथ गोसवः |
एतैरपि महायज्ञैरिष्टं ते भूरिदक्षिणैः ||१६||
राजन्परीतया बुद्ध्या विषमेऽक्षपराजये |
राज्यं वसून्यायुधानि भ्रातॄन्मां चासि निर्जितः ||१७||
ऋजोर्मृदोर्वदान्यस्य ह्रीमतः सत्यवादिनः |
कथमक्षव्यसनजा बुद्धिरापतिता तव ||१८||
अतीव मोहमायाति मनश्च परिदूयते |
निशाम्य ते दुःखमिदमिमां चापदमीदृशीम् ||१९||
अत्राप्युदाहरन्तीममितिहासं पुरातनम् |
ईश्वरस्य वशे लोकस्तिष्ठते नात्मनो यथा ||२०||
धातैव खलु भूतानां सुखदुःखे प्रियाप्रिये |
दधाति सर्वमीशानः पुरस्ताच्छुक्रमुच्चरन् ||२१||
यथा दारुमयी योषा नरवीर समाहिता |
ईरयत्यङ्गमङ्गानि तथा राजन्निमाः प्रजाः ||२२||
आकाश इव भूतानि व्याप्य सर्वाणि भारत |
ईश्वरो विदधातीह कल्याणं यच्च पापकम् ||२३||
शकुनिस्तन्तुबद्धो वा नियतोऽयमनीश्वरः |
ईश्वरस्य वशे तिष्ठन्नान्येषां नात्मनः प्रभुः ||२४||
मणिः सूत्र इव प्रोतो नस्योत इव गोवृषः |
धातुरादेशमन्वेति तन्मयो हि तदर्पणः ||२५||
नात्माधीनो मनुष्योऽयं कालं भवति कञ्चन |
स्रोतसो मध्यमापन्नः कूलाद्वृक्ष इव च्युतः ||२६||
अज्ञो जन्तुरनीशोऽयमात्मनः सुखदुःखयोः |
ईश्वरप्रेरितो गच्छेत्स्वर्गं नरकमेव च ||२७||
यथा वायोस्तृणाग्राणि वशं यान्ति बलीयसः |
धातुरेवं वशं यान्ति सर्वभूतानि भारत ||२८||
आर्यकर्मणि युञ्जानः पापे वा पुनरीश्वरः |
व्याप्य भूतानि चरते न चायमिति लक्ष्यते ||२९||
हेतुमात्रमिदं धातुः शरीरं क्षेत्रसञ्ज्ञितम् |
येन कारयते कर्म शुभाशुभफलं विभुः ||३०||
पश्य मायाप्रभावोऽयमीश्वरेण यथा कृतः |
यो हन्ति भूतैर्भूतानि मोहयित्वात्ममायया ||३१||
अन्यथा परिदृष्टानि मुनिभिर्वेददर्शिभिः |
अन्यथा परिवर्तन्ते वेगा इव नभस्वतः ||३२||
अन्यथैव हि मन्यन्ते पुरुषास्तानि तानि च |
अन्यथैव प्रभुस्तानि करोति विकरोति च ||३३||
यथा काष्ठेन वा काष्ठमश्मानं चाश्मना पुनः |
अयसा चाप्ययश्छिन्द्यान्निर्विचेष्टमचेतनम् ||३४||
एवं स भगवान्देवः स्वयम्भूः प्रपितामहः |
हिनस्ति भूतैर्भूतानि छद्म कृत्वा युधिष्ठिर ||३५||
सम्प्रयोज्य वियोज्यायं कामकारकरः प्रभुः |
क्रीडते भगवन्भूतैर्बालः क्रीडनकैरिव ||३६||
न मातृपितृवद्राजन्धाता भूतेषु वर्तते |
रोषादिव प्रवृत्तोऽयं यथायमितरो जनः ||३७||
आर्याञ्शीलवतो दृष्ट्वा ह्रीमतो वृत्तिकर्शितान् |
अनार्यान्सुखिनश्चैव विह्वलामीव चिन्तया ||३८||
तवेमामापदं दृष्ट्वा समृद्धिं च सुयोधने |
धातारं गर्हये पार्थ विषमं योऽनुपश्यति ||३९||
आर्यशास्त्रातिगे क्रूरे लुब्धे धर्मापचायिनि |
धार्तराष्ट्रे श्रियं दत्त्वा धाता किं फलमश्नुते ||४०||
कर्म चेत्कृतमन्वेति कर्तारं नान्यमृच्छति |
कर्मणा तेन पापेन लिप्यते नूनमीश्वरः ||४१||
अथ कर्म कृतं पापं न चेत्कर्तारमृच्छति |
कारणं बलमेवेह जनाञ्शोचामि दुर्बलान् ||४२||
३२
युधिष्ठिर उवाच||
वल्गु चित्रपदं श्लक्ष्णं याज्ञसेनि त्वया वचः |
उक्तं तच्छ्रुतमस्माभिर्नास्तिक्यं तु प्रभाषसे ||१||
नाहं धर्मफलान्वेषी राजपुत्रि चराम्युत |
ददामि देयमित्येव यजे यष्टव्यमित्युत ||२||
अस्तु वात्र फलं मा वा कर्तव्यं पुरुषेण यत् |
गृहानावसता कृष्णे यथाशक्ति करोमि तत् ||३||
धर्मं चरामि सुश्रोणि न धर्मफलकारणात् |
आगमाननतिक्रम्य सतां वृत्तमवेक्ष्य च ||४||
धर्म एव मनः कृष्णे स्वभावाच्चैव मे धृतम् ||४||
न धर्मफलमाप्नोति यो धर्मं दोग्धुमिच्छति |
यश्चैनं शङ्कते कृत्वा नास्तिक्यात्पापचेतनः ||५||
अतिवादान्मदाच्चैव मा धर्ममतिशङ्किथाः |
धर्मातिशङ्की पुरुषस्तिर्यग्गतिपरायणः ||६||
धर्मो यस्यातिशङ्क्यः स्यादार्षं वा दुर्बलात्मनः |
वेदाच्छूद्र इवापेयात्स लोकादजरामरात् ||७||
वेदाध्यायी धर्मपरः कुले जातो यशस्विनि |
स्थविरेषु स योक्तव्यो राजभिर्धर्मचारिभिः ||८||
पापीयान्हि स शूद्रेभ्यस्तस्करेभ्यो विशेषतः |
शास्त्रातिगो मन्दबुद्धिर्यो धर्ममतिशङ्कते ||९||
प्रत्यक्षं हि त्वया दृष्ट ऋषिर्गच्छन्महातपाः |
मार्कण्डेयोऽप्रमेयात्मा धर्मेण चिरजीविताम् ||१०||
व्यासो वसिष्ठो मैत्रेयो नारदो लोमशः शुकः |
अन्ये च ऋषयः सिद्धा धर्मेणैव सुचेतसः ||११||
प्रत्यक्षं पश्यसि ह्येतान्दिव्ययोगसमन्वितान् |
शापानुग्रहणे शक्तान्देवैरपि गरीयसः ||१२||
एते हि धर्ममेवादौ वर्णयन्ति सदा मम |
कर्तव्यममरप्रख्याः प्रत्यक्षागमबुद्धयः ||१३||
अतो नार्हसि कल्याणि धातारं धर्ममेव च |
रजोमूढेन मनसा क्षेप्तुं शङ्कितुमेव च ||१४||
धर्मातिशङ्की नान्यस्मिन्प्रमाणमधिगच्छति |
आत्मप्रमाण उन्नद्धः श्रेयसो ह्यवमन्यकः ||१५||
इन्द्रियप्रीतिसम्बद्धं यदिदं लोकसाक्षिकम् |
एतावान्मन्यते बालो मोहमन्यत्र गच्छति ||१६||
प्रायश्चित्तं न तस्यास्ति यो धर्ममतिशङ्कते |
ध्यायन्स कृपणः पापो न लोकान्प्रतिपद्यते ||१७||
प्रमाणान्यतिवृत्तो हि वेदशास्त्रार्थनिन्दकः |
कामलोभानुगो मूढो नरकं प्रतिपद्यते ||१८||
यस्तु नित्यं कृतमतिर्धर्ममेवाभिपद्यते |
अशङ्कमानः कल्याणि सोऽमुत्रानन्त्यमश्नुते ||१९||
आर्षं प्रमाणमुत्क्रम्य धर्मानपरिपालयन् |
सर्वशास्त्रातिगो मूढः शं जन्मसु न विन्दति ||२०||
शिष्टैराचरितं धर्मं कृष्णे मा स्मातिशङ्किथाः |
पुराणमृषिभिः प्रोक्तं सर्वज्ञैः सर्वदर्शिभिः ||२१||
धर्म एव प्लवो नान्यः स्वर्गं द्रौपदि गच्छताम् |
सैव नौः सागरस्येव वणिजः पारमृच्छतः ||२२||
अफालो यदि धर्मः स्याच्चरितो धर्मचारिभिः |
अप्रतिष्ठे तमस्येतज्जगन्मज्जेदनिन्दिते ||२३||
निर्वाणं नाधिगच्छेयुर्जीवेयुः पशुजीविकाम् |
विघातेनैव युज्येयुर्न चार्थं किञ्चिदाप्नुयुः ||२४||
तपश्च ब्रह्मचर्यं च यज्ञः स्वाध्याय एव च |
दानमार्जवमेतानि यदि स्युरफलानि वै ||२५||
नाचरिष्यन्परे धर्मं परे परतरे च ये |
विप्रलम्भोऽयमत्यन्तं यदि स्युरफलाः क्रियाः ||२६||
ऋषयश्चैव देवाश्च गन्धर्वासुरराक्षसाः |
ईश्वराः कस्य हेतोस्ते चरेयुर्धर्ममादृताः ||२७||
फलदं त्विह विज्ञाय धातारं श्रेयसि ध्रुवे |
धर्मं ते ह्याचरन्कृष्णे तद्धि धर्मसनातनम् ||२८||
स चायं सफलो धर्मो न धर्मोऽफल उच्यते |
दृश्यन्तेऽपि हि विद्यानां फलानि तपसां तथा ||२९||
त्वय्येतद्वै विजानीहि जन्म कृष्णे यथा श्रुतम् |
वेत्थ चापि यथा जातो धृष्टद्युम्नः प्रतापवान् ||३०||
एतावदेव पर्याप्तमुपमानं शुचिस्मिते |
कर्मणां फलमस्तीति धीरोऽल्पेनापि तुष्यति ||३१||
बहुनापि ह्यविद्वांसो नैव तुष्यन्त्यबुद्धयः |
तेषां न धर्मजं किञ्चित्प्रेत्य शर्मास्ति कर्म वा ||३२||
कर्मणामुत पुण्यानां पापानां च फलोदयः |
प्रभवश्चाप्ययश्चैव देवगुह्यानि भामिनि ||३३||
नैतानि वेद यः कश्चिन्मुह्यन्त्यत्र प्रजा इमाः |
रक्ष्याण्येतानि देवानां गूढमाया हि देवताः ||३४||
कृशाङ्गाः सुव्रताश्चैव तपसा दग्धकिल्बिषाः |
प्रसन्नैर्मानसैर्युक्ताः पश्यन्त्येतानि वै द्विजाः ||३५||
न फलादर्शनाद्धर्मः शङ्कितव्यो न देवताः |
यष्टव्यं चाप्रमत्तेन दातव्यं चानसूयता ||३६||
कर्मणां फलमस्तीति तथैतद्धर्म शाश्वतम् |
ब्रह्मा प्रोवाच पुत्राणां यदृषिर्वेद कश्यपः ||३७||
तस्मात्ते संशयः कृष्णे नीहार इव नश्यतु |
व्यवस्य सर्वमस्तीति नास्तिक्यं भावमुत्सृज ||३८||
ईश्वरं चापि भूतानां धातारं मा विचिक्षिपः |
शिक्षस्वैनं नमस्वैनं मा ते भूद्बुद्धिरीदृशी ||३९||
यस्य प्रसादात्तद्भक्तो मर्त्यो गच्छत्यमर्त्यताम् |
उत्तमं दैवतं कृष्णे मातिवोचः कथञ्चन ||४०||
३३
द्रौपद्युवाच||
नावमन्ये न गर्हे च धर्मं पार्थ कथञ्चन |
ईश्वरं कुत एवाहमवमंस्ये प्रजापतिम् ||१||
आर्ताहं प्रलपामीदमिति मां विद्धि भारत |
भूयश्च विलपिष्यामि सुमनास्तन्निबोध मे ||२||
कर्म खल्विह कर्तव्यं जातेनामित्रकर्शन |
अकर्माणो हि जीवन्ति स्थावरा नेतरे जनाः ||३||
आ मातृस्तनपानाच्च यावच्छय्योपसर्पणम् |
जङ्गमाः कर्मणा वृत्तिमाप्नुवन्ति युधिष्ठिर ||४||
जङ्गमेषु विशेषेण मनुष्या भरतर्षभ |
इच्छन्ति कर्मणा वृत्तिमवाप्तुं प्रेत्य चेह च ||५||
उत्थानमभिजानन्ति सर्वभूतानि भारत |
प्रत्यक्षं फलमश्नन्ति कर्मणां लोकसाक्षिकम् ||६||
पश्यामि स्वं समुत्थानमुपजीवन्ति जन्तवः |
अपि धाता विधाता च यथायमुदके बकः ||७||
स्वकर्म कुरु मा ग्लासीः कर्मणा भव दंशितः |
कृत्यं हि योऽभिजानाति सहस्रे नास्ति सोऽस्ति वा ||८||
तस्य चापि भवेत्कार्यं विवृद्धौ रक्षणे तथा |
भक्ष्यमाणो ह्यनावापः क्षीयते हिमवानपि ||९||
उत्सीदेरन्प्रजाः सर्वा न कुर्युः कर्म चेद्यदि |
अपि चाप्यफलं कर्म पश्यामः कुर्वतो जनान् ||१०||
नान्यथा ह्यभिजानन्ति वृत्तिं लोके कथञ्चन ||१०||
यश्च दिष्टपरो लोके यश्चायं हठवादकः |
उभावपसदावेतौ कर्मबुद्धिः प्रशस्यते ||११||
यो हि दिष्टमुपासीनो निर्विचेष्टः सुखं स्वपेत् |
अवसीदेत्सुदुर्बुद्धिरामो घट इवाम्भसि ||१२||
तथैव हठबुद्धिर्यः शक्तः कर्मण्यकर्मकृत् |
आसीत न चिरं जीवेदनाथ इव दुर्बलः ||१३||
अकस्मादपि यः कश्चिदर्थं प्राप्नोति पूरुषः |
तं हठेनेति मन्यन्ते स हि यत्नो न कस्यचित् ||१४||
यच्चापि किञ्चित्पुरुषो दिष्टं नाम लभत्युत |
दैवेन विधिना पार्थ तद्दैवमिति निश्चितम् ||१५||
यत्स्वयं कर्मणा किञ्चित्फलमाप्नोति पूरुषः |
प्रत्यक्षं चक्षुषा दृष्टं तत्पौरुषमिति स्मृतम् ||१६||
स्वभावतः प्रवृत्तोऽन्यः प्राप्नोत्यर्थानकारणात् |
तत्स्वभावात्मकं विद्धि फलं पुरुषसत्तम ||१७||
एवं हठाच्च दैवाच्च स्वभावात्कर्मणस्तथा |
यानि प्राप्नोति पुरुषस्तत्फलं पूर्वकर्मणः ||१८||
धातापि हि स्वकर्मैव तैस्तैर्हेतुभिरीश्वरः |
विदधाति विभज्येह फलं पूर्वकृतं नृणाम् ||१९||
यद्ध्ययं पुरुषः किञ्चित्कुरुते वै शुभाशुभम् |
तद्धातृविहितं विद्धि पूर्वकर्मफलोदयम् ||२०||
कारणं तस्य देहोऽयं धातुः कर्मणि कर्मणि |
स यथा प्रेरयत्येनं तथायं कुरुतेऽवशः ||२१||
तेषु तेषु हि कृत्येषु विनियोक्ता महेश्वरः |
सर्वभूतानि कौन्तेय कारयत्यवशान्यपि ||२२||
मनसार्थान्विनिश्चित्य पश्चात्प्राप्नोति कर्मणा |
बुद्धिपूर्वं स्वयं धीरः पुरुषस्तत्र कारणम् ||२३||
सङ्ख्यातुं नैव शक्यानि कर्माणि पुरुषर्षभ |
अगारनगराणां हि सिद्धिः पुरुषहैतुकी ||२४||
तिले तैलं गवि क्षीरं काष्ठे पावकमन्ततः |
धिया धीरो विजानीयादुपायं चास्य सिद्धये ||२५||
ततः प्रवर्तते पश्चात्करणेष्वस्य सिद्धये |
तां सिद्धिमुपजीवन्ति कर्मणामिह जन्तवः ||२६||
कुशलेन कृतं कर्म कर्त्रा साधु विनिश्चितम् |
इदं त्वकुशलेनेति विशेषादुपलभ्यते ||२७||
इष्टापूर्तफलं न स्यान्न शिष्यो न गुरुर्भवेत् |
पुरुषः कर्मसाध्येषु स्याच्चेदयमकारणम् ||२८||
कर्तृत्वादेव पुरुषः कर्मसिद्धौ प्रशस्यते |
असिद्धौ निन्द्यते चापि कर्मनाशः कथं त्विह ||२९||
सर्वमेव हठेनैके दिष्टेनैके वदन्त्युत |
पुरुषप्रयत्नजं केचित्त्रैधमेतन्निरुच्यते ||३०||
न चैवैतावता कार्यं मन्यन्त इति चापरे |
अस्ति सर्वमदृश्यं तु दिष्टं चैव तथा हठः ||३१||
दृश्यते हि हठाच्चैव दिष्टाच्चार्थस्य सन्ततिः ||३१||
किञ्चिद्दैवाद्धठात्किञ्चित्किञ्चिदेव स्वकर्मतः |
पुरुषः फलमाप्नोति चतुर्थं नात्र कारणम् ||३२||
कुशलाः प्रतिजानन्ति ये तत्त्वविदुषो जनाः ||३२||
तथैव धाता भूतानामिष्टानिष्टफलप्रदः |
यदि न स्यान्न भूतानां कृपणो नाम कश्चन ||३३||
यं यमर्थमभिप्रेप्सुः कुरुते कर्म पूरुषः |
तत्तत्सफलमेव स्याद्यदि न स्यात्पुराकृतम् ||३४||
त्रिद्वारामर्थसिद्धिं तु नानुपश्यन्ति ये नराः |
तथैवानर्थसिद्धिं च यथा लोकास्तथैव ते ||३५||
कर्तव्यं त्वेव कर्मेति मनोरेष विनिश्चयः |
एकान्तेन ह्यनीहोऽयं पराभवति पूरुषः ||३६||
कुर्वतो हि भवत्येव प्रायेणेह युधिष्ठिर |
एकान्तफलसिद्धिं तु न विन्दत्यलसः क्वचित् ||३७||
असम्भवे त्वस्य हेतुः प्रायश्चित्तं तु लक्ष्यते |
कृते कर्मणि राजेन्द्र तथानृण्यमवाप्यते ||३८||
अलक्ष्मीराविशत्येनं शयानमलसं नरम् |
निःसंशयं फलं लब्ध्वा दक्षो भूतिमुपाश्नुते ||३९||
अनर्थं संशयावस्थं वृण्वते मुक्तसंशयाः |
धीरा नराः कर्मरता न तु निःसंशयं क्वचित् ||४०||
एकान्तेन ह्यनर्थोऽयं वर्ततेऽस्मासु साम्प्रतम् |
न तु निःसंशयं न स्यात्त्वयि कर्मण्यवस्थिते ||४१||
अथ वा सिद्धिरेव स्यान्महिमा तु तथैव ते |
वृकोदरस्य बीभत्सोर्भ्रात्रोश्च यमयोरपि ||४२||
अन्येषां कर्म सफलमस्माकमपि वा पुनः |
विप्रकर्षेण बुध्येत कृतकर्मा यथा फलम् ||४३||
पृथिवीं लाङ्गलेनैव भित्त्वा बीजं वपत्युत |
आस्तेऽथ कर्षकस्तूष्णीं पर्जन्यस्तत्र कारणम् ||४४||
वृष्टिश्चेन्नानुगृह्णीयादनेनास्तत्र कर्षकः |
यदन्यः पुरुषः कुर्यात्कृतं तत्सकलं मया ||४५||
तच्चेदफलमस्माकं नापराधोऽस्ति नः क्वचित् |
इति धीरोऽन्ववेक्ष्यैव नात्मानं तत्र गर्हयेत् ||४६||
कुर्वतो नार्थसिद्धिर्मे भवतीति ह भारत |
निर्वेदो नात्र गन्तव्यो द्वावेतौ ह्यस्य कर्मणः ||४७||
सिद्धिर्वाप्यथ वासिद्धिरप्रवृत्तिरतोऽन्यथा ||४७||
बहूनां समवाये हि भावानां कर्म सिध्यति |
गुणाभावे फलं न्यूनं भवत्यफलमेव वा ||४८||
अनारम्भे तु न फलं न गुणो दृश्यतेऽच्युत ||४८||
देशकालावुपायांश्च मङ्गलं स्वस्ति वृद्धये |
युनक्ति मेधया धीरो यथाशक्ति यथाबलम् ||४९||
अप्रमत्तेन तत्कार्यमुपदेष्टा पराक्रमः |
भूयिष्ठं कर्मयोगेषु सर्व एव पराक्रमः ||५०||
यं तु धीरोऽन्ववेक्षेत श्रेयांसं बहुभिर्गुणैः |
साम्नैवार्थं ततो लिप्सेत्कर्म चास्मै प्रयोजयेत् ||५१||
व्यसनं वास्य काङ्क्षेत विनाशं वा युधिष्ठिर |
अपि सिन्धोर्गिरेर्वापि किं पुनर्मर्त्यधर्मिणः ||५२||
उत्थानयुक्तः सततं परेषामन्तरैषणे |
आनृण्यमाप्नोति नरः परस्यात्मन एव च ||५३||
न चैवात्मावमन्तव्यः पुरुषेण कदाचन |
न ह्यात्मपरिभूतस्य भूतिर्भवति भारत ||५४||
एवं संस्थितिका सिद्धिरियं लोकस्य भारत |
चित्रा सिद्धिगतिः प्रोक्ता कालावस्थाविभागतः ||५५||
ब्राह्मणं मे पिता पूर्वं वासयामास पण्डितम् |
सोऽस्मा अर्थमिमं प्राह पित्रे मे भरतर्षभ ||५६||
नीतिं बृहस्पतिप्रोक्तां भ्रातॄन्मेऽग्राहयत्पुरा |
तेषां साङ्कथ्यमश्रौषमहमेतत्तदा गृहे ||५७||
स मां राजन्कर्मवतीमागतामाह सान्त्वयन् |
शुश्रूषमाणामासीनां पितुरङ्के युधिष्ठिर ||५८||
३४
वैशम्पायन उवाच||
याज्ञसेन्या वचः श्रुत्वा भीमसेनोऽत्यमर्षणः |
निःश्वसन्नुपसङ्गम्य क्रुद्धो राजानमब्रवीत् ||१||
राज्यस्य पदवीं धर्म्यां व्रज सत्पुरुषोचिताम् |
धर्मकामार्थहीनानां किं नो वस्तुं तपोवने ||२||
नैव धर्मेण तद्राज्यं नार्जवेन न चौजसा |
अक्षकूटमधिष्ठाय हृतं दुर्योधनेन नः ||३||
गोमायुनेव सिंहानां दुर्बलेन बलीयसाम् |
आमिषं विघसाशेन तद्वद्राज्यं हि नो हृतम् ||४||
धर्मलेशप्रतिच्छन्नः प्रभवं धर्मकामयोः |
अर्थमुत्सृज्य किं राजन्दुर्गेषु परितप्यसे ||५||
भवतोऽनुविधानेन राज्यं नः पश्यतां हृतम् |
अहार्यमपि शक्रेण गुप्तं गाण्डीवधन्वना ||६||
कुणीनामिव बिल्वानि पङ्गूनामिव धेनवः |
हृतमैश्वर्यमस्माकं जीवतां भवतः कृते ||७||
भवतः प्रियमित्येवं महद्व्यसनमीदृशम् |
धर्मकामे प्रतीतस्य प्रतिपन्नाः स्म भारत ||८||
कर्शयामः स्वमित्राणि नन्दयामश्च शात्रवान् |
आत्मानं भवतः शास्त्रे नियम्य भरतर्षभ ||९||
यद्वयं न तदैवैतान्धार्तराष्ट्रान्निहन्महि |
भवतः शास्त्रमादाय तन्नस्तपति दुष्कृतम् ||१०||
अथैनामन्ववेक्षस्व मृगचर्यामिवात्मनः |
अवीराचरितां राजन्न बलस्थैर्निषेविताम् ||११||
यां न कृष्णो न बीभत्सुर्नाभिमन्युर्न सृञ्जयः |
न चाहमभिनन्दामि न च माद्रीसुतावुभौ ||१२||
भवान्धर्मो धर्म इति सततं व्रतकर्शितः |
कच्चिद्राजन्न निर्वेदादापन्नः क्लीबजीविकाम् ||१३||
दुर्मनुष्या हि निर्वेदमफलं सर्वघातिनम् |
अशक्ताः श्रियमाहर्तुमात्मनः कुर्वते प्रियम् ||१४||
स भवान्दृष्टिमाञ्शक्तः पश्यन्नात्मनि पौरुषम् |
आनृशंस्यपरो राजन्नानर्थमवबुध्यसे ||१५||
अस्मानमी धार्तराष्ट्राः क्षममाणानलं सतः |
अशक्तानेव मन्यन्ते तद्दुःखं नाहवे वधः ||१६||
तत्र चेद्युध्यमानानामजिह्ममनिवर्तिनाम् |
सर्वशो हि वधः श्रेयान्प्रेत्य लोकाँल्लभेमहि ||१७||
अथ वा वयमेवैतान्निहत्य भरतर्षभ |
आददीमहि गां सर्वां तथापि श्रेय एव नः ||१८||
सर्वथा कार्यमेतन्नः स्वधर्ममनुतिष्ठताम् |
काङ्क्षतां विपुलां कीर्तिं वैरं प्रतिचिकीर्षताम् ||१९||
आत्मार्थं युध्यमानानां विदिते कृत्यलक्षणे |
अन्यैरपहृते राज्ये प्रशंसैव न गर्हणा ||२०||
कर्शनार्थो हि यो धर्मो मित्राणामात्मनस्तथा |
व्यसनं नाम तद्राजन्न स धर्मः कुधर्म तत् ||२१||
सर्वथा धर्मनित्यं तु पुरुषं धर्मदुर्बलम् |
जहतस्तात धर्मार्थौ प्रेतं दुःखसुखे यथा ||२२||
यस्य धर्मो हि धर्मार्थं क्लेशभाङ्न स पण्डितः |
न स धर्मस्य वेदार्थं सूर्यस्यान्धः प्रभामिव ||२३||
यस्य चार्थार्थमेवार्थः स च नार्थस्य कोविदः |
रक्षते भृतकोऽरण्यं यथा स्यात्तादृगेव सः ||२४||
अतिवेलं हि योऽर्थार्थी नेतरावनुतिष्ठति |
स वध्यः सर्वभूतानां ब्रह्महेव जुगुप्सितः ||२५||
सततं यश्च कामार्थी नेतरावनुतिष्ठति |
मित्राणि तस्य नश्यन्ति धर्मार्थाभ्यां च हीयते ||२६||
तस्य धर्मार्थहीनस्य कामान्ते निधनं ध्रुवम् |
कामतो रममाणस्य मीनस्येवाम्भसः क्षये ||२७||
तस्माद्धर्मार्थयोर्नित्यं न प्रमाद्यन्ति पण्डिताः |
प्रकृतिः सा हि कामस्य पावकस्यारणिर्यथा ||२८||
सर्वथा धर्ममूलोऽर्थो धर्मश्चार्थपरिग्रहः |
इतरेतरयोनी तौ विद्धि मेघोदधी यथा ||२९||
द्रव्यार्थस्पर्शसंयोगे या प्रीतिरुपजायते |
स कामश्चित्तसङ्कल्पः शरीरं नास्य विद्यते ||३०||
अर्थार्थी पुरुषो राजन्बृहन्तं धर्ममृच्छति |
अर्थमृच्छति कामार्थी न कामादन्यमृच्छती ||३१||
न हि कामेन कामोऽन्यः साध्यते फलमेव तत् |
उपयोगात्फलस्येव काष्ठाद्भस्मेव पण्डितः ||३२||
इमाञ्शकुनिकान्राजन्हन्ति वैतंसिको यथा |
एतद्रूपमधर्मस्य भूतेषु च विहिंसताम् ||३३||
कामाल्लोभाच्च धर्मस्य प्रवृत्तिं यो न पश्यति |
स वध्यः सर्वभूतानां प्रेत्य चेह च दुर्मतिः ||३४||
व्यक्तं ते विदितो राजन्नर्थो द्रव्यपरिग्रहः |
प्रकृतिं चापि वेत्थास्य विकृतिं चापि भूयसीम् ||३५||
तस्य नाशं विनाशं वा जरया मरणेन वा |
अनर्थमिति मन्यन्ते सोऽयमस्मासु वर्तते ||३६||
इन्द्रियाणां च पञ्चानां मनसो हृदयस्य च |
विषये वर्तमानानां या प्रीतिरुपजायते ||३७||
स काम इति मे बुद्धिः कर्मणां फलमुत्तमम् ||३७||
एवमेव पृथग्दृष्ट्वा धर्मार्थौ काममेव च |
न धर्मपर एव स्यान्न चार्थपरमो नरः ||३८||
न कामपरमो वा स्यात्सर्वान्सेवेत सर्वदा ||३८||
धर्मं पूर्वं धनं मध्ये जघन्ये काममाचरेत् |
अहन्यनुचरेदेवमेष शास्त्रकृतो विधिः ||३९||
कामं पूर्वं धनं मध्ये जघन्ये धर्ममाचरेत् |
वयस्यनुचरेदेवमेष शास्त्रकृतो विधिः ||४०||
धर्मं चार्थं च कामं च यथावद्वदतां वर |
विभज्य काले कालज्ञः सर्वान्सेवेत पण्डितः ||४१||
मोक्षो वा परमं श्रेय एष राजन्सुखार्थिनाम् |
प्राप्तिर्वा बुद्धिमास्थाय सोपायं कुरुनन्दन ||४२||
तद्वाशु क्रियतां राजन्प्राप्तिर्वाप्यधिगम्यताम् |
जीवितं ह्यातुरस्येव दुःखमन्तरवर्तिनः ||४३||
विदितश्चैव ते धर्मः सततं चरितश्च ते |
जानते त्वयि शंसन्ति सुहृदः कर्मचोदनाम् ||४४||
दानं यज्ञः सतां पूजा वेदधारणमार्जवम् |
एष धर्मः परो राजन्फलवान्प्रेत्य चेह च ||४५||
एष नार्थविहीनेन शक्यो राजन्निषेवितुम् |
अखिलाः पुरुषव्याघ्र गुणाः स्युर्यद्यपीतरे ||४६||
धर्ममूलं जगद्राजन्नान्यद्धर्माद्विशिष्यते |
धर्मश्चार्थेन महता शक्यो राजन्निषेवितुम् ||४७||
न चार्थो भैक्षचर्येण नापि क्लैब्येन कर्हिचित् |
वेत्तुं शक्यः सदा राजन्केवलं धर्मबुद्धिना ||४८||
प्रतिषिद्धा हि ते याच्ञा यया सिध्यति वै द्विजः |
तेजसैवार्थलिप्सायां यतस्व पुरुषर्षभ ||४९||
भैक्षचर्या न विहिता न च विट्शूद्रजीविका |
क्षत्रियस्य विशेषेण धर्मस्तु बलमौरसम् ||५०||
उदारमेव विद्वांसो धर्मं प्राहुर्मनीषिणः |
उदारं प्रतिपद्यस्व नावरे स्थातुमर्हसि ||५१||
अनुबुध्यस्व राजेन्द्र वेत्थ धर्मान्सनातनान् |
क्रूरकर्माभिजातोऽसि यस्मादुद्विजते जनः ||५२||
प्रजापालनसम्भूतं फलं तव न गर्हितम् |
एष ते विहितो राजन्धात्रा धर्मः सनातनः ||५३||
तस्माद्विचलितः पार्थ लोके हास्यं गमिष्यसि |
स्वधर्माद्धि मनुष्याणां चलनं न प्रशस्यते ||५४||
स क्षात्रं हृदयं कृत्वा त्यक्त्वेदं शिथिलं मनः |
वीर्यमास्थाय कौन्तेय धुरमुद्वह धुर्यवत् ||५५||
न हि केवलधर्मात्मा पृथिवीं जातु कश्चन |
पार्थिवो व्यजयद्राजन्न भूतिं न पुनः श्रियम् ||५६||
जिह्वां दत्त्वा बहूनां हि क्षुद्राणां लुब्धचेतसाम् |
निकृत्या लभते राज्यमाहारमिव शल्यकः ||५७||
भ्रातरः पूर्वजाताश्च सुसमृद्धाश्च सर्वशः |
निकृत्या निर्जिता देवैरसुराः पाण्डवर्षभ ||५८||
एवं बलवतः सर्वमिति बुद्ध्वा महीपते |
जहि शत्रून्महाबाहो परां निकृतिमास्थितः ||५९||
न ह्यर्जुनसमः कश्चिद्युधि योद्धा धनुर्धरः |
भविता वा पुमान्कश्चिन्मत्समो वा गदाधरः ||६०||
सत्त्वेन कुरुते युद्धं राजन्सुबलवानपि |
न प्रमाणेन नोत्साहात्सत्त्वस्थो भव पाण्डव ||६१||
सत्त्वं हि मूलमर्थस्य वितथं यदतोऽन्यथा |
न तु प्रसक्तं भवति वृक्षच्छायेव हैमनी ||६२||
अर्थत्यागो हि कार्यः स्यादर्थं श्रेयांसमिच्छता |
बीजौपम्येन कौन्तेय मा ते भूदत्र संशयः ||६३||
अर्थेन तु समोऽनर्थो यत्र लभ्येत नोदयः |
न तत्र विपणः कार्यः खरकण्डूयितं हि तत् ||६४||
एवमेव मनुष्येन्द्र धर्मं त्यक्त्वाल्पकं नरः |
बृहन्तं धर्ममाप्नोति स बुद्ध इति निश्चितः ||६५||
अमित्रं मित्रसम्पन्नं मित्रैर्भिन्दन्ति पण्डिताः |
भिन्नैर्मित्रैः परित्यक्तं दुर्बलं कुरुते वशे ||६६||
सत्त्वेन कुरुते युद्धं राजन्सुबलवानपि |
नोद्यमेन न होत्राभिः सर्वाः स्वीकुरुते प्रजाः ||६७||
सर्वथा संहतैरेव दुर्बलैर्बलवानपि |
अमित्रः शक्यते हन्तुं मधुहा भ्रमरैरिव ||६८||
यथा राजन्प्रजाः सर्वाः सूर्यः पाति गभस्तिभिः |
अत्ति चैव तथैव त्वं सवितुः सदृशो भव ||६९||
एतद्ध्यपि तपो राजन्पुराणमिति नः श्रुतम् |
विधिना पालनं भूमेर्यत्कृतं नः पितामहैः ||७०||
अपेयात्किल भाः सूर्याल्लक्ष्मीश्चन्द्रमसस्तथा |
इति लोको व्यवसितो दृष्ट्वेमां भवतो व्यथाम् ||७१||
भवतश्च प्रशंसाभिर्निन्दाभिरितरस्य च |
कथायुक्ताः परिषदः पृथग्राजन्समागताः ||७२||
इदमभ्यधिकं राजन्ब्राह्मणा गुरवश्च ते |
समेताः कथयन्तीह मुदिताः सत्यसन्धताम् ||७३||
यन्न मोहान्न कार्पण्यान्न लोभान्न भयादपि |
अनृतं किञ्चिदुक्तं ते न कामान्नार्थकारणात् ||७४||
यदेनः कुरुते किञ्चिद्राजा भूमिमवाप्नुवन् |
सर्वं तन्नुदते पश्चाद्यज्ञैर्विपुलदक्षिणैः ||७५||
ब्राह्मणेभ्यो ददद्ग्रामान्गाश्च राजन्सहस्रशः |
मुच्यते सर्वपापेभ्यस्तमोभ्य इव चन्द्रमाः ||७६||
पौरजानपदाः सर्वे प्रायशः कुरुनन्दन |
सवृद्धबालाः सहिताः शंसन्ति त्वां युधिष्ठिर ||७७||
श्वदृतौ क्षीरमासक्तं ब्रह्म वा वृषले यथा |
सत्यं स्तेने बलं नार्यां राज्यं दुर्योधने तथा ||७८||
इति निर्वचनं लोके चिरं चरति भारत |
अपि चैतत्स्त्रियो बालाः स्वाध्यायमिव कुर्वते ||७९||
स भवान्रथमास्थाय सर्वोपकरणान्वितम् |
त्वरमाणोऽभिनिर्यातु चिरमर्थोपपादकम् ||८०||
वाचयित्वा द्विजश्रेष्ठानद्यैव गजसाह्वयम् |
अस्त्रविद्भिः परिवृतो भ्रातृभिर्दृढधन्विभिः ||८१||
आशीविषसमैर्वीरैर्मरुद्भिरिव वृत्रहा ||८१||
अमित्रांस्तेजसा मृद्नन्नसुरेभ्य इवारिहा |
श्रियमादत्स्व कौन्तेय धार्तराष्ट्रान्महाबल ||८२||
न हि गाण्डीवमुक्तानां शराणां गार्ध्रवाससाम् |
स्पर्शमाशीविषाभानां मर्त्यः कश्चन संसहेत् ||८३||
न स वीरो न मातङ्गो न सदश्वोऽस्ति भारत |
यः सहेत गदावेगं मम क्रुद्धस्य संयुगे ||८४||
सृञ्जयैः सह कैकेयैर्वृष्णीनामृषभेण च |
कथं स्विद्युधि कौन्तेय राज्यं न प्राप्नुयामहे ||८५||
३५
युधिष्ठिर उवाच||
असंशयं भारत सत्यमेत; द्यन्मा तुदन्वाक्यशल्यैः क्षिणोषि |
न त्वा विगर्हे प्रतिकूलमेत; न्ममानयाद्धि व्यसनं व आगात् ||१||
अहं ह्यक्षानन्वपद्यं जिहीर्ष; न्राज्यं सराष्ट्रं धृतराष्ट्रस्य पुत्रात् |
तन्मा शठः कितवः प्रत्यदेवी; त्सुयोधनार्थं सुबलस्य पुत्रः ||२||
महामायः शकुनिः पार्वतीयः; सदा सभायां प्रवपन्नक्षपूगान् |
अमायिनं मायया प्रत्यदेवी; त्ततोऽपश्यं वृजिनं भीमसेन ||३||
अक्षान्हि दृष्ट्वा शकुनेर्यथाव; त्कामानुलोमानयुजो युजश्च |
शक्यं नियन्तुमभविष्यदात्मा; मन्युस्तु हन्ति पुरुषस्य धैर्यम् ||४||
यन्तुं नात्मा शक्यते पौरुषेण; मानेन वीर्येण च तात नद्धः |
न ते वाचं भीमसेनाभ्यसूये; मन्ये तथा तद्भवितव्यमासीत् ||५||
स नो राजा धृतराष्ट्रस्य पुत्रो; न्यपातयद्व्यसने राज्यमिच्छन् |
दास्यं च नोऽगमयद्भीमसेन; यत्राभवच्छरणं द्रौपदी नः ||६||
त्वं चापि तद्वेत्थ धनञ्जयश्च; पुनर्द्यूतायागतानां सभां नः |
यन्माब्रवीद्धृतराष्ट्रस्य पुत्र; एकग्लहार्थं भरतानां समक्षम् ||७||
वने समा द्वादश राजपुत्र; यथाकामं विदितमजातशत्रो |
अथापरं चाविदितं चरेथाः; सर्वैः सह भ्रातृभिश्छद्मगूढः ||८||
त्वां चेच्छ्रुत्वा तात तथा चरन्त; मवभोत्स्यन्ते भारतानां चराः स्म |
अन्यांश्चरेथास्तावतोऽब्दांस्ततस्त्वं; निश्चित्य तत्प्रतिजानीहि पार्थ ||९||
चरैश्चेन्नोऽविदितः कालमेतं; युक्तो राजन्मोहयित्वा मदीयान् |
ब्रवीमि सत्यं कुरुसंसदीह; तवैव ता भारत पञ्च नद्यः ||१०||
वयं चैवं भ्रातरः सर्व एव; त्वया जिताः कालमपास्य भोगान् |
वसेम इत्याह पुरा स राजा; मध्ये कुरूणां स मयोक्तस्तथेति ||११||
तत्र द्यूतमभवन्नो जघन्यं; तस्मिञ्जिताः प्रव्रजिताश्च सर्वे |
इत्थं च देशाननुसञ्चरामो; वनानि कृच्छ्राणि च कृच्छ्ररूपाः ||१२||
सुयोधनश्चापि न शान्तिमिच्छ; न्भूयः स मन्योर्वशमन्वगच्छत् |
उद्योजयामास कुरूंश्च सर्वा; न्ये चास्य केचिद्वशमन्वगच्छन् ||१३||
तं सन्धिमास्थाय सतां सकाशे; को नाम जह्यादिह राज्यहेतोः |
आर्यस्य मन्ये मरणाद्गरीयो; यद्धर्ममुत्क्रम्य महीं प्रशिष्यात् ||१४||
तदैव चेद्वीरकर्माकरिष्यो; यदा द्यूते परिघं पर्यमृक्षः |
बाहू दिधक्षन्वारितः फल्गुनेन; किं दुष्कृतं भीम तदाभविष्यत् ||१५||
प्रागेव चैवं समयक्रियायाः; किं नाब्रवीः पौरुषमाविदानः |
प्राप्तं तु कालं त्वभिपद्य पश्चा; त्किं मामिदानीमतिवेलमात्थ ||१६||
भूयोऽपि दुःखं मम भीमसेन; दूये विषस्येव रसं विदित्वा |
यद्याज्ञसेनीं परिकृष्यमाणां; संदृश्य तत्क्षान्तमिति स्म भीम ||१७||
न त्वद्य शक्यं भरतप्रवीर; कृत्वा यदुक्तं कुरुवीरमध्ये |
कालं प्रतीक्षस्व सुखोदयस्य; पक्तिं फलानामिव बीजवापः ||१८||
यदा हि पूर्वं निकृतो निकृत्या; वैरं सपुष्पं सफलं विदित्वा |
महागुणं हरति हि पौरुषेण; तदा वीरो जीवति जीवलोके ||१९||
श्रियं च लोके लभते समग्रां; मन्ये चास्मै शत्रवः संनमन्ते |
मित्राणि चैनमतिरागाद्भजन्ते; देवा इवेन्द्रमनुजीवन्ति चैनम् ||२०||
मम प्रतिज्ञां च निबोध सत्यां; वृणे धर्मममृताज्जीविताच्च |
राज्यं च पुत्राश्च यशो धनं च; सर्वं न सत्यस्य कलामुपैति ||२१||
३६
भीमसेन उवाच||
सन्धिं कृत्वैव कालेन अन्तकेन पतत्रिणा |
अनन्तेनाप्रमेयेन स्रोतसा सर्वहारिणा ||१||
प्रत्यक्षं मन्यसे कालं मर्त्यः सन्कालबन्धनः |
फेनधर्मा महाराज फलधर्मा तथैव च ||२||
निमेषादपि कौन्तेय यस्यायुरपचीयते |
सूच्येवाञ्जनचूर्णस्य किमिति प्रतिपालयेत् ||३||
यो नूनममितायुः स्यादथ वापि प्रमाणवित् |
स कालं वै प्रतीक्षेत सर्वप्रत्यक्षदर्शिवान् ||४||
प्रतीक्षमाणान्कालो नः समा राजंस्त्रयोदश |
आयुषोऽपचयं कृत्वा मरणायोपनेष्यति ||५||
शरीरिणां हि मरणं शरीरे नित्यमाश्रितम् |
प्रागेव मरणात्तस्माद्राज्यायैव घटामहे ||६||
यो न याति प्रसङ्ख्यानमस्पष्टो भूमिवर्धनः |
अयातयित्वा वैराणि सोऽवसीदति गौरिव ||७||
यो न यातयते वैरमल्पसत्त्वोद्यमः पुमान् |
अफलं तस्य जन्माहं मन्ये दुर्जातजायिनः ||८||
हैरण्यौ भवतो बाहू श्रुतिर्भवति पार्थिव |
हत्वा द्विषन्तं सङ्ग्रामे भुक्त्वा बाह्वर्जितं वसु ||९||
हत्वा चेत्पुरुषो राजन्निकर्तारमरिंदम |
अह्नाय नरकं गच्छेत्स्वर्गेणास्य स संमितः ||१०||
अमर्षजो हि सन्तापः पावकाद्दीप्तिमत्तरः |
येनाहमभिसन्तप्तो न नक्तं न दिवा शये ||११||
अयं च पार्थो बीभत्सुर्वरिष्ठो ज्याविकर्षणे |
आस्ते परमसन्तप्तो नूनं सिंह इवाशये ||१२||
योऽयमेकोऽभिमनुते सर्वाँल्लोके धनुर्भृतः |
सोऽयमात्मजमूष्माणं महाहस्तीव यच्छति ||१३||
नकुलः सहदेवश्च वृद्धा माता च वीरसूः |
तवैव प्रियमिच्छन्त आसते जडमूकवत् ||१४||
सर्वे ते प्रियमिच्छन्ति बान्धवाः सह सृञ्जयैः |
अहमेकोऽभिसन्तप्तो माता च प्रतिविन्ध्यतः ||१५||
प्रियमेव तु सर्वेषां यद्ब्रवीम्युत किञ्चन |
सर्वे ही व्यसनं प्राप्ताः सर्वे युद्धाभिनन्दिनः ||१६||
नेतः पापीयसी काचिदापद्राजन्भविष्यति |
यन्नो नीचैरल्पबलै राज्यमाच्छिद्य भुज्यते ||१७||
शीलदोषाद्घृणाविष्ट आनृशंस्यात्परन्तप |
क्लेशांस्तितिक्षसे राजन्नान्यः कश्चित्प्रशंसति ||१८||
घृणी ब्राह्मणरूपोऽसि कथं क्षत्रे अजायथाः |
अस्यां हि योनौ जायन्ते प्रायशः क्रूरबुद्धयः ||१९||
अश्रौषीस्त्वं राजधर्मान्यथा वै मनुरब्रवीत् |
क्रूरान्निकृतिसंयुक्तान्विहितानशमात्मकान् ||२०||
कर्तव्ये पुरुषव्याघ्र किमास्से पीठसर्पवत् |
बुद्ध्या वीर्येण संयुक्तः श्रुतेनाभिजनेन च ||२१||
तृणानां मुष्टिनैकेन हिमवन्तं तु पर्वतम् |
छन्नमिच्छसि कौन्तेय योऽस्मान्संवर्तुमिच्छसि ||२२||
अज्ञातचर्या गूढेन पृथिव्यां विश्रुतेन च |
दिवीव पार्थ सूर्येण न शक्या चरितुं त्वया ||२३||
बृहच्छाल इवानूपे शाखापुष्पपलाशवान् |
हस्ती श्वेत इवाज्ञातः कथं जिष्णुश्चरिष्यति ||२४||
इमौ च सिंहसङ्काशौ भ्रातरौ सहितौ शिशू |
नकुलः सहदेवश्च कथं पार्थ चरिष्यतः ||२५||
पुण्यकीर्ती राजपुत्री द्रौपदी वीरसूरियम् |
विश्रुता कथमज्ञाता कृष्णा पार्थ चरिष्यति ||२६||
मां चापि राजञ्जानन्ति आकुमारमिमाः प्रजाः |
अज्ञातचर्यां पश्यामि मेरोरिव निगूहनम् ||२७||
तथैव बहवोऽस्माभी राष्ट्रेभ्यो विप्रवासिताः |
राजानो राजपुत्राश्च धृतराष्ट्रमनुव्रताः ||२८||
न हि तेऽप्युपशाम्यन्ति निकृतानां निराकृताः |
अवश्यं तैर्निकर्तव्यमस्माकं तत्प्रियैषिभिः ||२९||
तेऽप्यस्मासु प्रयुञ्जीरन्प्रच्छन्नान्सुबहूञ्जनान् |
आचक्षीरंश्च नो ज्ञात्वा तन्नः स्यात्सुमहद्भयम् ||३०||
अस्माभिरुषिताः सम्यग्वने मासास्त्रयोदश |
परिमाणेन तान्पश्य तावतः परिवत्सरान् ||३१||
अस्ति मासः प्रतिनिधिर्यथा प्राहुर्मनीषिणः |
पूतिकानिव सोमस्य तथेदं क्रियतामिति ||३२||
अथ वानडुहे राजन्साधवे साधुवाहिने |
सौहित्यदानादेकस्मादेनसः प्रतिमुच्यते ||३३||
तस्माच्छत्रुवधे राजन्क्रियतां निश्चयस्त्वया |
क्षत्रियस्य तु सर्वस्य नान्यो धर्मोऽस्ति संयुगात् ||३४||
३७
वैशम्पायन उवाच||
भीमसेनवचः श्रुत्वा कुन्तीपुत्रो युधिष्ठिरः |
निःश्वस्य पुरुषव्याघ्रः सम्प्रदध्यौ परन्तपः ||१||
स मुहूर्तमिव ध्यात्वा विनिश्चित्येतिकृत्यताम् |
भीमसेनमिदं वाक्यमपदान्तरमब्रवीत् ||२||
एवमेतन्महाबाहो यथा वदसि भारत |
इदमन्यत्समाधत्स्व वाक्यं मे वाक्यकोविद ||३||
महापापानि कर्माणि यानि केवलसाहसात् |
आरभ्यन्ते भीमसेन व्यथन्ते तानि भारत ||४||
सुमन्त्रिते सुविक्रान्ते सुकृते सुविचारिते |
सिध्यन्त्यर्था महाबाहो दैवं चात्र प्रदक्षिणम् ||५||
त्वं तु केवलचापल्याद्बलदर्पोच्छ्रितः स्वयम् |
आरब्धव्यमिदं कर्म मन्यसे शृणु तत्र मे ||६||
भूरिश्रवाः शलश्चैव जलसन्धश्च वीर्यवान् |
भीष्मो द्रोणश्च कर्णश्च द्रोणपुत्रश्च वीर्यवान् ||७||
धार्तराष्ट्रा दुराधर्षा दुर्योधनपुरोगमाः |
सर्व एव कृतास्त्राश्च सततं चाततायिनः ||८||
राजानः पार्थिवाश्चैव येऽस्माभिरुपतापिताः |
संश्रिताः कौरवं पक्षं जातस्नेहाश्च साम्प्रतम् ||९||
दुर्योधनहिते युक्ता न तथास्मासु भारत |
पूर्णकोशा बलोपेताः प्रयतिष्यन्ति रक्षणे ||१०||
सर्वे कौरवसैन्यस्य सपुत्रामात्यसैनिकाः |
संविभक्ता हि मात्राभिर्भोगैरपि च सर्वशः ||११||
दुर्योधनेन ते वीरा मानिताश्च विशेषतः |
प्राणांस्त्यक्ष्यन्ति सङ्ग्रामे इति मे निश्चिता मतिः ||१२||
समा यद्यपि भीष्मस्य वृत्तिरस्मासु तेषु च |
द्रोणस्य च महाबाहो कृपस्य च महात्मनः ||१३||
अवश्यं राजपिण्डस्तैर्निर्वेश्य इति मे मतिः |
तस्मात्त्यक्ष्यन्ति सङ्ग्रामे प्राणानपि सुदुस्त्यजान् ||१४||
सर्वे दिव्यास्त्रविद्वांसः सर्वे धर्मपरायणाः |
अजेयाश्चेति मे बुद्धिरपि देवैः सवासवैः ||१५||
अमर्षी नित्यसंहृष्टस्तत्र कर्णो महारथः |
सर्वास्त्रविदनाधृष्य अभेद्यकवचावृतः ||१६||
अनिर्जित्य रणे सर्वानेतान्पुरुषसत्तमान् |
अशक्यो ह्यसहायेन हन्तुं दुर्योधनस्त्वया ||१७||
न निद्रामधिगच्छामि चिन्तयानो वृकोदर |
अति सर्वान्धनुर्ग्राहान्सूतपुत्रस्य लाघवम् ||१८||
एतद्वचनमाज्ञाय भीमसेनोऽत्यमर्षणः |
बभूव विमनास्त्रस्तो न चैवोवाच किञ्चन ||१९||
तयोः संवदतोरेवं तदा पाण्डवयोर्द्वयोः |
आजगाम महायोगी व्यासः सत्यवतीसुतः ||२०||
सोऽभिगम्य यथान्यायं पाण्डवैः प्रतिपूजितः |
युधिष्ठिरमिदं वाक्यमुवाच वदतां वरः ||२१||
युधिष्ठिर महाबाहो वेद्मि ते हृदि मानसम् |
मनीषया ततः क्षिप्रमागतोऽस्मि नरर्षभ ||२२||
भीष्माद्द्रोणात्कृपात्कर्णाद्द्रोणपुत्राच्च भारत |
यत्ते भयममित्रघ्न हृदि सम्परिवर्तते ||२३||
तत्तेऽहं नाशयिष्यामि विधिदृष्टेन हेतुना |
तच्छ्रुत्वा धृतिमास्थाय कर्मणा प्रतिपादय ||२४||
तत एकान्तमुन्नीय पाराशर्यो युधिष्ठिरम् |
अब्रवीदुपपन्नार्थमिदं वाक्यविशारदः ||२५||
श्रेयसस्ते परः कालः प्राप्तो भरतसत्तम |
येनाभिभविता शत्रून्रणे पार्थो धनञ्जयः ||२६||
गृहाणेमां मया प्रोक्तां सिद्धिं मूर्तिमतीमिव |
विद्यां प्रतिस्मृतिं नाम प्रपन्नाय ब्रवीमि ते ||२७||
यामवाप्य महाबाहुरर्जुनः साधयिष्यति ||२७||
अस्त्रहेतोर्महेन्द्रं च रुद्रं चैवाभिगच्छतु |
वरुणं च धनेशं च धर्मराजं च पाण्डव ||२८||
शक्तो ह्येष सुरान्द्रष्टुं तपसा विक्रमेण च ||२८||
ऋषिरेष महातेजा नारायणसहायवान् |
पुराणः शाश्वतो देवो विष्णोरंशः सनातनः ||२९||
अस्त्राणीन्द्राच्च रुद्राच्च लोकपालेभ्य एव च |
समादाय महाबाहुर्महत्कर्म करिष्यति ||३०||
वनादस्माच्च कौन्तेय वनमन्यद्विचिन्त्यताम् |
निवासार्थाय यद्युक्तं भवेद्वः पृथिवीपते ||३१||
एकत्र चिरवासो हि न प्रीतिजननो भवेत् |
तापसानां च शान्तानां भवेदुद्वेगकारकः ||३२||
मृगाणामुपयोगश्च वीरुदोषधिसङ्क्षयः |
बिभर्षि हि बहून्विप्रान्वेदवेदाङ्गपारगान् ||३३||
एवमुक्त्वा प्रपन्नाय शुचये भगवान्प्रभुः |
प्रोवाच योगतत्त्वज्ञो योगविद्यामनुत्तमाम् ||३४||
धर्मराज्ञे तदा धीमान्व्यासः सत्यवतीसुतः |
अनुज्ञाय च कौन्तेयं तत्रैवान्तरधीयत ||३५||
युधिष्ठिरस्तु धर्मात्मा तद्ब्रह्म मनसा यतः |
धारयामास मेधावी काले काले समभ्यसन् ||३६||
स व्यासवाक्यमुदितो वनाद्द्वैतवनात्ततः |
ययौ सरस्वतीतीरे काम्यकं नाम काननम् ||३७||
तमन्वयुर्महाराज शिक्षाक्षरविदस्तथा |
ब्राह्मणास्तपसा युक्ता देवेन्द्रमृषयो यथा ||३८||
ततः काम्यकमासाद्य पुनस्ते भरतर्षभाः |
न्यविशन्त महात्मानः सामात्याः सपदानुगाः ||३९||
तत्र ते न्यवसन्राजन्कञ्चित्कालं मनस्विनः |
धनुर्वेदपरा वीराः शृण्वाना वेदमुत्तमम् ||४०||
चरन्तो मृगयां नित्यं शुद्धैर्बाणैर्मृगार्थिनः |
पितृदैवतविप्रेभ्यो निर्वपन्तो यथाविधि ||४१||
३८
वैशम्पायन उवाच||
कस्यचित्त्वथ कालस्य धर्मराजो युधिष्ठिरः |
संस्मृत्य मुनिसंदेशमिदं वचनमब्रवीत् ||१||
विविक्ते विदितप्रज्ञमर्जुनं भरतर्षभम् |
सान्त्वपूर्वं स्मितं कृत्वा पाणिना परिसंस्पृशन् ||२||
स मुहूर्तमिव ध्यात्वा वनवासमरिंदमः |
धनञ्जयं धर्मराजो रहसीदमुवाच ह ||३||
भीष्मे द्रोणे कृपे कर्णे द्रोणपुत्रे च भारत |
धनुर्वेदश्चतुष्पाद एतेष्वद्य प्रतिष्ठितः ||४||
ब्राह्मं दैवमासुरं च सप्रयोगचिकित्सितम् |
सर्वास्त्राणां प्रयोगं च तेऽभिजानन्ति कृत्स्नशः ||५||
ते सर्वे धृतराष्ट्रस्य पुत्रेण परिसान्त्विताः |
संविभक्ताश्च तुष्टाश्च गुरुवत्तेषु वर्तते ||६||
सर्वयोधेषु चैवास्य सदा वृत्तिरनुत्तमा |
शक्तिं न हापयिष्यन्ति ते काले प्रतिपूजिताः ||७||
अद्य चेयं मही कृत्स्ना दुर्योधनवशानुगा |
त्वयि व्यपाश्रयोऽस्माकं त्वयि भारः समाहितः ||८||
तत्र कृत्यं प्रपश्यामि प्राप्तकालमरिंदम ||८||
कृष्णद्वैपायनात्तात गृहीतोपनिषन्मया |
तया प्रयुक्तया सम्यग्जगत्सर्वं प्रकाशते ||९||
तेन त्वं ब्रह्मणा तात संयुक्तः सुसमाहितः ||९||
देवतानां यथाकालं प्रसादं प्रतिपालय |
तपसा योजयात्मानमुग्रेण भरतर्षभ ||१०||
धनुष्मान्कवची खड्गी मुनिः सारसमन्वितः |
न कस्यचिद्ददन्मार्गं गच्छ तातोत्तरां दिशम् ||११||
इन्द्रे ह्यस्त्राणि दिव्यानि समस्तानि धनञ्जय ||११||
वृत्राद्भीतैस्तदा देवैर्बलमिन्द्रे समर्पितम् |
तान्येकस्थानि सर्वाणि ततस्त्वं प्रतिपत्स्यसे ||१२||
शक्रमेव प्रपद्यस्व स तेऽस्त्राणि प्रदास्यति |
दीक्षितोऽद्यैव गच्छ त्वं द्रष्टुं देवं पुरंदरम् ||१३||
एवमुक्त्वा धर्मराजस्तमध्यापयत प्रभुः |
दीक्षितं विधिना तेन यतवाक्कायमानसम् ||१४||
अनुजज्ञे ततो वीरं भ्राता भ्रातरमग्रजः ||१४||
निदेशाद्धर्मराजस्य द्रष्टुं देवं पुरंदरम् |
धनुर्गाण्डीवमादाय तथाक्षय्यौ महेषुधी ||१५||
कवची सतलत्राणो बद्धगोधाङ्गुलित्रवान् |
हुत्वाग्निं ब्राह्मणान्निष्कैः स्वस्ति वाच्य महाभुजः ||१६||
प्रातिष्ठत महाबाहुः प्रगृहीतशरासनः |
वधाय धार्तराष्ट्राणां निःश्वस्योर्ध्वमुदीक्ष्य च ||१७||
तं दृष्ट्वा तत्र कौन्तेयं प्रगृहीतशरासनम् |
अब्रुवन्ब्राह्मणाः सिद्धा भूतान्यन्तर्हितानि च ||१८||
क्षिप्रं प्राप्नुहि कौन्तेय मनसा यद्यदिच्छसि ||१८||
तं सिंहमिव गच्छन्तं शालस्कन्धोरुमर्जुनम् |
मनांस्यादाय सर्वेषां कृष्णा वचनमब्रवीत् ||१९||
यत्ते कुन्ती महाबाहो जातस्यैच्छद्धनञ्जय |
तत्तेऽस्तु सर्वं कौन्तेय यथा च स्वयमिच्छसि ||२०||
मास्माकं क्षत्रियकुले जन्म कश्चिदवाप्नुयात् |
ब्राह्मणेभ्यो नमो नित्यं येषां युद्धे न जीविका ||२१||
नूनं ते भ्रातरः सर्वे त्वत्कथाभिः प्रजागरे |
रंस्यन्ते वीरकर्माणि कीर्तयन्तः पुनः पुनः ||२२||
नैव नः पार्थ भोगेषु न धने नोत जीविते |
तुष्टिर्बुद्धिर्भवित्री वा त्वयि दीर्घप्रवासिनि ||२३||
त्वयि नः पार्थ सर्वेषां सुखदुःखे समाहिते |
जीवितं मरणं चैव राज्यमैश्वर्यमेव च ||२४||
आपृष्टो मेऽसि कौन्तेय स्वस्ति प्राप्नुहि पाण्डव ||२४||
नमो धात्रे विधात्रे च स्वस्ति गच्छ ह्यनामयम् |
स्वस्ति तेऽस्त्वान्तरिक्षेभ्यः पार्थिवेभ्यश्च भारत ||२५||
दिव्येभ्यश्चैव भूतेभ्यो ये चान्ये परिपन्थिनः ||२५||
ततः प्रदक्षिणं कृत्वा भ्रातॄन्धौम्यं च पाण्डवः |
प्रातिष्ठत महाबाहुः प्रगृह्य रुचिरं धनुः ||२६||
तस्य मार्गादपाक्रामन्सर्वभूतानि गच्छतः |
युक्तस्यैन्द्रेण योगेन पराक्रान्तस्य शुष्मिणः ||२७||
सोऽगच्छत्पर्वतं पुण्यमेकाह्नैव महामनाः |
मनोजवगतिर्भूत्वा योगयुक्तो यथानिलः ||२८||
हिमवन्तमतिक्रम्य गन्धमादनमेव च |
अत्यक्रामत्स दुर्गाणि दिवारात्रमतन्द्रितः ||२९||
इन्द्रकीलं समासाद्य ततोऽतिष्ठद्धनञ्जयः |
अन्तरिक्षे हि शुश्राव तिष्ठेति स वचस्तदा ||३०||
ततोऽपश्यत्सव्यसाची वृक्षमूले तपस्विनम् |
ब्राह्म्या श्रिया दीप्यमानं पिङ्गलं जटिलं कृशम् ||३१||
सोऽब्रवीदर्जुनं तत्र स्थितं दृष्ट्वा महातपाः |
कस्त्वं तातेह सम्प्राप्तो धनुष्मान्कवची शरी ||३२||
निबद्धासितलत्राणः क्षत्रधर्ममनुव्रतः ||३२||
नेह शस्त्रेण कर्तव्यं शान्तानामयमालयः |
विनीतक्रोधहर्षाणां ब्राह्मणानां तपस्विनाम् ||३३||
नेहास्ति धनुषा कार्यं न सङ्ग्रामेण कर्हिचित् |
निक्षिपैतद्धनुस्तात प्राप्तोऽसि परमां गतिम् ||३४||
इत्यनन्तौजसं वीरं यथा चान्यं पृथग्जनम् |
तथा वाचमथाभीक्ष्णं ब्राह्मणोऽर्जुनमब्रवीत् ||३५||
न चैनं चालयामास धैर्यात्सुदृढनिश्चयम् ||३५||
तमुवाच ततः प्रीतः स द्विजः प्रहसन्निव |
वरं वृणीष्व भद्रं ते शक्रोऽहमरिसूदन ||३६||
एवमुक्तः प्रत्युवाच सहस्राक्षं धनञ्जयः |
प्राञ्जलिः प्रणतो भूत्वा शूरः कुरुकुलोद्वहः ||३७||
ईप्सितो ह्येष मे कामो वरं चैनं प्रयच्छ मे |
त्वत्तोऽद्य भगवन्नस्त्रं कृत्स्नमिच्छामि वेदितुम् ||३८||
प्रत्युवाच महेन्द्रस्तं प्रीतात्मा प्रहसन्निव |
इह प्राप्तस्य किं कार्यमस्त्रैस्तव धनञ्जय ||३९||
कामान्वृणीष्व लोकांश्च प्राप्तोऽसि परमां गतिम् ||३९||
एवमुक्तः प्रत्युवाच सहस्राक्षं धनञ्जयः |
न लोकान्न पुनः कामान्न देवत्वं कुतः सुखम् ||४०||
न च सर्वामरैश्वर्यं कामये त्रिदशाधिप |
भ्रातॄंस्तान्विपिने त्यक्त्वा वैरमप्रतियात्य च ||४१||
अकीर्तिं सर्वलोकेषु गच्छेयं शाश्वतीः समाः ||४१||
एवमुक्तः प्रत्युवाच वृत्रहा पाण्डुनन्दनम् |
सान्त्वयञ्श्लक्ष्णया वाचा सर्वलोकनमस्कृतः ||४२||
यदा द्रक्ष्यसि भूतेशं त्र्यक्षं शूलधरं शिवम् |
तदा दातास्मि ते तात दिव्यान्यस्त्राणि सर्वशः ||४३||
क्रियतां दर्शने यत्नो देवस्य परमेष्ठिनः |
दर्शनात्तस्य कौन्तेय संसिद्धः स्वर्गमेष्यसि ||४४||
इत्युक्त्वा फल्गुनं शक्रो जगामादर्शनं ततः |
अर्जुनोऽप्यथ तत्रैव तस्थौ योगसमन्वितः ||४५||
३९
जनमेजय उवाच||
भगवञ्श्रोतुमिच्छामि पार्थस्याक्लिष्टकर्मणः |
विस्तरेण कथामेतां यथास्त्राण्युपलब्धवान् ||१||
कथं स पुरुषव्याघ्रो दीर्घबाहुर्धनञ्जयः |
वनं प्रविष्टस्तेजस्वी निर्मनुष्यमभीतवत् ||२||
किं च तेन कृतं तत्र वसता ब्रह्मवित्तम |
कथं च भगवान्स्थाणुर्देवराजश्च तोषितः ||३||
एतदिच्छाम्यहं श्रोतुं त्वत्प्रसादाद्द्विजोत्तम |
त्वं हि सर्वज्ञ दिव्यं च मानुषं चैव वेत्थ ह ||४||
अत्यद्भुतं महाप्राज्ञ रोमहर्षणमर्जुनः |
भवेन सह सङ्ग्रामं चकाराप्रतिमं किल ||५||
पुरा प्रहरतां श्रेष्ठः सङ्ग्रामेष्वपराजितः ||५||
यच्छ्रुत्वा नरसिंहानां दैन्यहर्षातिविस्मयात् |
शूराणामपि पार्थानां हृदयानि चकम्पिरे ||६||
यद्यच्च कृतवानन्यत्पार्थस्तदखिलं वद |
न ह्यस्य निन्दितं जिष्णोः सुसूक्ष्ममपि लक्षये ||७||
चरितं तस्य शूरस्य तन्मे सर्वं प्रकीर्तय ||७||
वैशम्पायन उवाच||
कथयिष्यामि ते तात कथामेतां महात्मनः |
दिव्यां कौरवशार्दूल महतीमद्भुतोपमाम् ||८||
गात्रसंस्पर्शसम्बन्धं त्र्यम्बकेण सहानघ |
पार्थस्य देवदेवेन शृणु सम्यक्समागमम् ||९||
युधिष्ठिरनियोगात्स जगामामितविक्रमः |
शक्रं सुरेश्वरं द्रष्टुं देवदेवं च शङ्करम् ||१०||
दिव्यं तद्धनुरादाय खड्गं च पुरुषर्षभः |
महाबलो महाबाहुरर्जुनः कार्यसिद्धये ||११||
दिशं ह्युदीचीं कौरव्यो हिमवच्छिखरं प्रति ||११||
ऐन्द्रिः स्थिरमना राजन्सर्वलोकमहारथः |
त्वरया परया युक्तस्तपसे धृतनिश्चयः ||१२||
वनं कण्टकितं घोरमेक एवान्वपद्यत ||१२||
नानापुष्पफलोपेतं नानापक्षिनिषेवितम् |
नानामृगगणाकीर्णं सिद्धचारणसेवितम् ||१३||
ततः प्रयाते कौन्तेये वनं मानुषवर्जितम् |
शङ्खानां पटहानां च शब्दः समभवद्दिवि ||१४||
पुष्पवर्षं च सुमहन्निपपात महीतले |
मेघजालं च विततं छादयामास सर्वतः ||१५||
अतीत्य वनदुर्गाणि संनिकर्षे महागिरेः |
शुशुभे हिमवत्पृष्ठे वसमानोऽर्जुनस्तदा ||१६||
तत्रापश्यद्द्रुमान्फुल्लान्विहगैर्वल्गु नादितान् |
नदीश्च बहुलावर्ता नीलवैडूर्यसंनिभाः ||१७||
हंसकारण्डवोद्गीताः सारसाभिरुतास्तथा |
पुंस्कोकिलरुताश्चैव क्रौञ्चबर्हिणनादिताः ||१८||
मनोहरवनोपेतास्तस्मिन्नतिरथोऽर्जुनः |
पुण्यशीतामलजलाः पश्यन्प्रीतमनाभवत् ||१९||
रमणीये वनोद्देशे रममाणोऽर्जुनस्तदा |
तपस्युग्रे वर्तमान उग्रतेजा महामनाः ||२०||
दर्भचीरं निवस्याथ दण्डाजिनविभूषितः |
पूर्णे पूर्णे त्रिरात्रे तु मासमेकं फलाशनः ||२१||
द्विगुणेनैव कालेन द्वितीयं मासमत्यगात् ||२१||
तृतीयमपि मासं स पक्षेणाहारमाचरन् |
शीर्णं च पतितं भूमौ पर्णं समुपयुक्तवान् ||२२||
चतुर्थे त्वथ सम्प्राप्ते मासि पूर्णे ततः परम् |
वायुभक्षो महाबाहुरभवत्पाण्डुनन्दनः ||२३||
ऊर्ध्वबाहुर्निरालम्बः पादाङ्गुष्ठाग्रविष्ठितः ||२३||
सदोपस्पर्शनाच्चास्य बभूवुरमितौजसः |
विद्युदम्भोरुहनिभा जटास्तस्य महात्मनः ||२४||
ततो महर्षयः सर्वे जग्मुर्देवं पिनाकिनम् |
शितिकण्ठं महाभागं प्रणिपत्य प्रसाद्य च ||२५||
सर्वे निवेदयामासुः कर्म तत्फल्गुनस्य ह ||२५||
एष पार्थो महातेजा हिमवत्पृष्ठमाश्रितः |
उग्रे तपसि दुष्पारे स्थितो धूमाययन्दिशः ||२६||
तस्य देवेश न वयं विद्मः सर्वे चिकीर्षितम् |
सन्तापयति नः सर्वानसौ साधु निवार्यताम् ||२७||
महेश्वर उवाच||
शीघ्रं गच्छत संहृष्टा यथागतमतन्द्रिताः |
अहमस्य विजानामि सङ्कल्पं मनसि स्थितम् ||२८||
नास्य स्वर्गस्पृहा काचिन्नैश्वर्यस्य न चायुषः |
यत्त्वस्य काङ्क्षितं सर्वं तत्करिष्येऽहमद्य वै ||२९||
वैशम्पायन उवाच||
ते श्रुत्व शर्ववचनमृषयः सत्यवादिनः |
प्रहृष्टमनसो जग्मुर्यथास्वं पुनराश्रमान् ||३०||
४०
वैशम्पायन उवाच||
गतेषु तेषु सर्वेषु तपस्विषु महात्मसु |
पिनाकपाणिर्भगवान्सर्वपापहरो हरः ||१||
कैरातं वेषमास्थाय काञ्चनद्रुमसंनिभम् |
विभ्राजमानो वपुषा गिरिर्मेरुरिवापरः ||२||
श्रीमद्धनुरुपादाय शरांश्चाशीविषोपमान् |
निष्पपात महार्चिष्मान्दहन्कक्षमिवानलः ||३||
देव्या सहोमया श्रीमान्समानव्रतवेषया |
नानावेषधरैर्हृष्टैर्भूतैरनुगतस्तदा ||४||
किरातवेषप्रच्छन्नः स्त्रीभिश्चानु सहस्रशः |
अशोभत तदा राजन्स देवोऽतीव भारत ||५||
क्षणेन तद्वनं सर्वं निःशब्दमभवत्तदा |
नादः प्रस्रवणानां च पक्षिणां चाप्युपारमत् ||६||
स संनिकर्षमागम्य पार्थस्याक्लिष्टकर्मणः |
मूकं नाम दितेः पुत्रं ददर्शाद्भुतदर्शनम् ||७||
वाराहं रूपमास्थाय तर्कयन्तमिवार्जुनम् |
हन्तुं परमदुष्टात्मा तमुवाचाथ फल्गुनः ||८||
गाण्डीवं धनुरादाय शरांश्चाशीविषोपमान् |
सज्यं धनुर्वरं कृत्वा ज्याघोषेण निनादयन् ||९||
यन्मां प्रार्थयसे हन्तुमनागसमिहागतम् |
तस्मात्त्वां पूर्वमेवाहं नेष्यामि यमसादनम् ||१०||
तं दृष्ट्वा प्रहरिष्यन्तं फल्गुनं दृढधन्विनम् |
किरातरूपी सहसा वारयामास शङ्करः ||११||
मयैष प्रार्थितः पूर्वं नीलमेघसमप्रभः |
अनादृत्यैव तद्वाक्यं प्रजहाराथ फल्गुनः ||१२||
किरातश्च समं तस्मिन्नेकलक्ष्ये महाद्युतिः |
प्रमुमोचाशनिप्रख्यं शरमग्निशिखोपमम् ||१३||
तौ मुक्तौ सायकौ ताभ्यां समं तत्र निपेततुः |
मूकस्य गात्रे विस्तीर्णे शैलसंहनने तदा ||१४||
यथाशनिविनिष्पेषो वज्रस्येव च पर्वते |
तथा तयोः संनिपातः शरयोरभवत्तदा ||१५||
स विद्धो बहुभिर्बाणैर्दीप्तास्यैः पन्नगैरिव |
ममार राक्षसं रूपं भूयः कृत्वा विभीषणम् ||१६||
ददर्शाथ ततो जिष्णुः पुरुषं काञ्चनप्रभम् |
किरातवेषप्रच्छन्नं स्त्रीसहायममित्रहा ||१७||
तमब्रवीत्प्रीतमनाः कौन्तेयः प्रहसन्निव ||१७||
को भवानटते शून्ये वने स्त्रीगणसंवृतः |
न त्वमस्मिन्वने घोरे बिभेषि कनकप्रभ ||१८||
किमर्थं च त्वया विद्धो मृगोऽयं मत्परिग्रहः |
मयाभिपन्नः पूर्वं हि राक्षसोऽयमिहागतः ||१९||
कामात्परिभवाद्वापि न मे जीवन्विमोक्ष्यसे |
न ह्येष मृगयाधर्मो यस्त्वयाद्य कृतो मयि ||२०||
तेन त्वां भ्रंशयिष्यामि जीवितात्पर्वताश्रय ||२०||
इत्युक्तः पाण्डवेयेन किरातः प्रहसन्निव |
उवाच श्लक्ष्णया वाचा पाण्डवं सव्यसाचिनम् ||२१||
ममैवायं लक्ष्यभूतः पूर्वमेव परिग्रहः |
ममैव च प्रहारेण जीविताद्व्यवरोपितः ||२२||
दोषान्स्वान्नार्हसेऽन्यस्मै वक्तुं स्वबलदर्पितः |
अभिषक्तोऽस्मि मन्दात्मन्न मे जीवन्विमोक्ष्यसे ||२३||
स्थिरो भवस्व मोक्ष्यामि सायकानशनीनिव |
घटस्व परया शक्त्या मुञ्च त्वमपि सायकान् ||२४||
ततस्तौ तत्र संरब्धौ गर्जमानौ मुहुर्मुहुः |
शरैराशीविषाकारैस्ततक्षाते परस्परम् ||२५||
ततोऽर्जुनः शरवर्षं किराते समवासृजत् |
तत्प्रसन्नेन मनसा प्रतिजग्राह शङ्करः ||२६||
मुहूर्तं शरवर्षं तत्प्रतिगृह्य पिनाकधृक् |
अक्षतेन शरीरेण तस्थौ गिरिरिवाचलः ||२७||
स दृष्ट्वा बाणवर्षं तन्मोघीभूतं धनञ्जयः |
परमं विस्मयं चक्रे साधु साध्विति चाब्रवीत् ||२८||
अहोऽयं सुकुमाराङ्गो हिमवच्छिखरालयः |
गाण्डीवमुक्तान्नाराचान्प्रतिगृह्णात्यविह्वलः ||२९||
कोऽयं देवो भवेत्साक्षाद्रुद्रो यक्षः सुरेश्वरः |
विद्यते हि गिरिश्रेष्ठे त्रिदशानां समागमः ||३०||
न हि मद्बाणजालानामुत्सृष्टानां सहस्रशः |
शक्तोऽन्यः सहितुं वेगमृते देवं पिनाकिनम् ||३१||
देवो वा यदि वा यक्षो रुद्रादन्यो व्यवस्थितः |
अहमेनं शरैस्तीक्ष्णैर्नयामि यमसादनम् ||३२||
ततो हृष्टमना जिष्णुर्नाराचान्मर्मभेदिनः |
व्यसृजच्छतधा राजन्मयूखानिव भास्करः ||३३||
तान्प्रसन्नेन मनसा भगवाँल्लोकभावनः |
शूलपाणिः प्रत्यगृह्णाच्छिलावर्षमिवाचलः ||३४||
क्षणेन क्षीणबाणोऽथ संवृत्तः फल्गुनस्तदा |
वित्रासं च जगामाथ तं दृष्ट्वा शरसङ्क्षयम् ||३५||
चिन्तयामास जिष्णुस्तु भगवन्तं हुताशनम् |
पुरस्तादक्षयौ दत्तौ तूणौ येनास्य खाण्डवे ||३६||
किं नु मोक्ष्यामि धनुषा यन्मे बाणाः क्षयं गताः |
अयं च पुरुषः कोऽपि बाणान्ग्रसति सर्वशः ||३७||
अहमेनं धनुष्कोट्या शूलाग्रेणेव कुञ्जरम् |
नयामि दण्डधारस्य यमस्य सदनं प्रति ||३८||
सम्प्रायुध्यद्धनुष्कोट्या कौन्तेयः परवीरहा |
तदप्यस्य धनुर्दिव्यं जग्रास गिरिगोचरः ||३९||
ततोऽर्जुनो ग्रस्तधनुः खड्गपाणिरतिष्ठत |
युद्धस्यान्तमभीप्सन्वै वेगेनाभिजगाम तम् ||४०||
तस्य मूर्ध्नि शितं खड्गमसक्तं पर्वतेष्वपि |
मुमोच भुजवीर्येण विक्रम्य कुरुनन्दनः ||४१||
तस्य मूर्धानमासाद्य पफालासिवरो हि सः ||४१||
ततो वृक्षैः शिलाभिश्च योधयामास फल्गुनः |
यथा वृक्षान्महाकायः प्रत्यगृह्णादथो शिलाः ||४२||
किरातरूपी भगवांस्ततः पार्थो महाबलः |
मुष्टिभिर्वज्रसंस्पर्शैर्धूममुत्पादयन्मुखे ||४३||
प्रजहार दुराधर्षे किरातसमरूपिणि ||४३||
ततः शक्राशनिसमैर्मुष्टिभिर्भृशदारुणैः |
किरातरूपी भगवानर्दयामास फल्गुनम् ||४४||
ततश्चटचटाशब्दः सुघोरः समजायत |
पाण्डवस्य च मुष्टीनां किरातस्य च युध्यतः ||४५||
सुमुहूर्तं महद्युद्धमासीत्तल्लोमहर्षणम् |
भुजप्रहारसंयुक्तं वृत्रवासवयोरिव ||४६||
जहाराथ ततो जिष्णुः किरातमुरसा बली |
पाण्डवं च विचेष्टन्तं किरातोऽप्यहनद्बलात् ||४७||
तयोर्भुजविनिष्पेषात्सङ्घर्षेणोरसोस्तथा |
समजायत गात्रेषु पावकोऽङ्गारधूमवान् ||४८||
तत एनं महादेवः पीड्य गात्रैः सुपीडितम् |
तेजसा व्याक्रमद्रोषाच्चेतस्तस्य विमोहयन् ||४९||
ततो निपीडितैर्गात्रैः पिण्डीकृत इवाबभौ |
फल्गुनो गात्रसंरुद्धो देवदेवेन भारत ||५०||
निरुच्छ्वासोऽभवच्चैव संनिरुद्धो महात्मना |
ततः पपात संमूढस्ततः प्रीतोऽभवद्भवः ||५१||
भगवानुवाच||
भो भो फल्गुन तुष्टोऽस्मि कर्मणाप्रतिमेन ते |
शौर्येणानेन धृत्या च क्षत्रियो नास्ति ते समः ||५२||
समं तेजश्च वीर्यं च ममाद्य तव चानघ |
प्रीतस्तेऽहं महाबाहो पश्य मां पुरुषर्षभ ||५३||
ददानि ते विशालाक्ष चक्षुः पूर्वऋषिर्भवान् |
विजेष्यसि रणे शत्रूनपि सर्वान्दिवौकसः ||५४||
वैशम्पायन उवाच||
ततो देवं महादेवं गिरिशं शूलपाणिनम् |
ददर्श फल्गुनस्तत्र सह देव्या महाद्युतिम् ||५५||
स जानुभ्यां महीं गत्वा शिरसा प्रणिपत्य च |
प्रसादयामास हरं पार्थः परपुरञ्जयः ||५६||
अर्जुन उवाच||
कपर्दिन्सर्वभूतेश भगनेत्रनिपातन |
व्यतिक्रमं मे भगवन्क्षन्तुमर्हसि शङ्कर ||५७||
भवगद्दर्शनाकाङ्क्षी प्राप्तोऽस्मीमं महागिरिम् |
दयितं तव देवेश तापसालयमुत्तमम् ||५८||
प्रसादये त्वां भगवन्सर्वभूतनमस्कृत |
न मे स्यादपराधोऽयं महादेवातिसाहसात् ||५९||
कृतो मया यदज्ञानाद्विमर्दोऽयं त्वया सह |
शरणं सम्प्रपन्नाय तत्क्षमस्वाद्य शङ्कर ||६०||
वैशम्पायन उवाच||
तमुवाच महातेजाः प्रहस्य वृषभध्वजः |
प्रगृह्य रुचिरं बाहुं क्षान्तमित्येव फल्गुनम् ||६१||
४१
भगवानुवाच||
नरस्त्वं पूर्वदेहे वै नारायणसहायवान् |
बदर्यां तप्तवानुग्रं तपो वर्षायुतान्बहून् ||१||
त्वयि वा परमं तेजो विष्णौ वा पुरुषोत्तमे |
युवाभ्यां पुरुषाग्र्याभ्यां तेजसा धार्यते जगत् ||२||
शक्राभिषेके सुमहद्धनुर्जलदनिस्वनम् |
प्रगृह्य दानवाः शस्तास्त्वया कृष्णेन च प्रभो ||३||
एतत्तदेव गाण्डीवं तव पार्थ करोचितम् |
मायामास्थाय यद्ग्रस्तं मया पुरुषसत्तम ||४||
तूणौ चाप्यक्षयौ भूयस्तव पार्थ यथोचितौ ||४||
प्रीतिमानस्मि वै पार्थ तव सत्यपराक्रम |
गृहाण वरमस्मत्तः काङ्क्षितं यन्नरर्षभ ||५||
न त्वया सदृशः कश्चित्पुमान्मर्त्येषु मानद |
दिवि वा विद्यते क्षत्रं त्वत्प्रधानमरिंदम ||६||
अर्जुन उवाच||
भगवन्ददासि चेन्मह्यं कामं प्रीत्या वृषध्वज |
कामये दिव्यमस्त्रं तद्घोरं पाशुपतं प्रभो ||७||
यत्तद्ब्रह्मशिरो नाम रौद्रं भीमपराक्रमम् |
युगान्ते दारुणे प्राप्ते कृत्स्नं संहरते जगत् ||८||
दहेयं येन सङ्ग्रामे दानवान्राक्षसांस्तथा |
भूतानि च पिशाचांश्च गन्धर्वानथ पन्नगान् ||९||
यतः शूलसहस्राणि गदाश्चोग्रप्रदर्शनाः |
शराश्चाशीविषाकाराः सम्भवन्त्यनुमन्त्रिताः ||१०||
युध्येयं येन भीष्मेण द्रोणेन च कृपेण च |
सूतपुत्रेण च रणे नित्यं कटुकभाषिणा ||११||
एष मे प्रथमः कामो भगवन्भगनेत्रहन् |
त्वत्प्रसादाद्विनिर्वृत्तः समर्थः स्यामहं यथा ||१२||
भगवानुवाच||
ददानि तेऽस्त्रं दयितमहं पाशुपतं महत् |
समर्थो धारणे मोक्षे संहारे चापि पाण्डव ||१३||
नैतद्वेद महेन्द्रोऽपि न यमो न च यक्षराट् |
वरुणो वाथ वा वायुः कुतो वेत्स्यन्ति मानवाः ||१४||
न त्वेतत्सहसा पार्थ मोक्तव्यं पुरुषे क्वचित् |
जगद्विनिर्दहेत्सर्वमल्पतेजसि पातितम् ||१५||
अवध्यो नाम नास्त्यस्य त्रैलोक्ये सचराचरे |
मनसा चक्षुषा वाचा धनुषा च निपात्यते ||१६||
वैशम्पायन उवाच||
तच्छ्रुत्वा त्वरितः पार्थः शुचिर्भूत्वा समाहितः |
उपसङ्गृह्य विश्वेशमधीष्वेति च सोऽब्रवीत् ||१७||
ततस्त्वध्यापयामास सरहस्य निवर्तनम् |
तदस्त्रं पाण्डवश्रेष्ठं मूर्तिमन्तमिवान्तकम् ||१८||
उपतस्थे महात्मानं यथा त्र्यक्षमुमापतिम् |
प्रतिजग्राह तच्चापि प्रीतिमानर्जुनस्तदा ||१९||
ततश्चचाल पृथिवी सपर्वतवनद्रुमा |
ससागरवनोद्देशा सग्रामनगराकरा ||२०||
शङ्खदुन्दुभिघोषाश्च भेरीणां च सहस्रशः |
तस्मिन्मुहूर्ते सम्प्राप्ते निर्घातश्च महानभूत् ||२१||
अथास्त्रं जाज्वलद्घोरं पाण्डवस्यामितौजसः |
मूर्तिमद्विष्ठितं पार्श्वे ददृशुर्देवदानवाः ||२२||
स्पृष्टस्य च त्र्यम्बकेन फल्गुनस्यामितौजसः |
यत्किञ्चिदशुभं देहे तत्सर्वं नाशमेयिवत् ||२३||
स्वर्गं गच्छेत्यनुज्ञातस्त्र्यम्बकेन तदार्जुनः |
प्रणम्य शिरसा पार्थः प्राञ्जलिर्देवमैक्षत ||२४||
ततः प्रभुस्त्रिदिवनिवासिनां वशी; महामतिर्गिरिश उमापतिः शिवः |
धनुर्महद्दितिजपिशाचसूदनं; ददौ भवः पुरुषवराय गाण्डिवम् ||२५||
ततः शुभं गिरिवरमीश्वरस्तदा; सहोमया सिततटसानुकन्दरम् |
विहाय तं पतगमहर्षिसेवितं; जगाम खं पुरुषवरस्य पश्यतः ||२६||
४२
वैशम्पायन उवाच||
तस्य सम्पश्यतस्त्वेव पिनाकी वृषभध्वजः |
जगामादर्शनं भानुर्लोकस्येवास्तमेयिवान् ||१||
ततोऽर्जुनः परं चक्रे विस्मयं परवीरहा |
मया साक्षान्महादेवो दृष्ट इत्येव भारत ||२||
धन्योऽस्म्यनुगृहीतोऽस्मि यन्मया त्र्यम्बको हरः |
पिनाकी वरदो रूपी दृष्टः स्पृष्टश्च पाणिना ||३||
कृतार्थं चावगच्छामि परमात्मानमात्मना |
शत्रूंश्च विजितान्सर्वान्निर्वृत्तं च प्रयोजनम् ||४||
ततो वैडूर्यवर्णाभो भासयन्सर्वतो दिशः |
यादोगणवृतः श्रीमानाजगाम जलेश्वरः ||५||
नागैर्नदैर्नदीभिश्च दैत्यैः साध्यैश्च दैवतैः |
वरुणो यादसां भर्ता वशी तं देशमागमत् ||६||
अथ जाम्बूनदवपुर्विमानेन महार्चिषा |
कुबेरः समनुप्राप्तो यक्षैरनुगतः प्रभुः ||७||
विद्योतयन्निवाकाशमद्भुतोपमदर्शनः |
धनानामीश्वरः श्रीमानर्जुनं द्रष्टुमागतः ||८||
तथा लोकान्तकृच्छ्रीमान्यमः साक्षात्प्रतापवान् |
मूर्त्यमूर्तिधरैः सार्धं पितृभिर्लोकभावनैः ||९||
दण्डपाणिरचिन्त्यात्मा सर्वभूतविनाशकृत् |
वैवस्वतो धर्मराजो विमानेनावभासयन् ||१०||
त्रीँल्लोकान्गुह्यकांश्चैव गन्धर्वांश्च सपन्नगान् |
द्वितीय इव मार्तण्डो युगान्ते समुपस्थिते ||११||
भानुमन्ति विचित्राणि शिखराणि महागिरेः |
समास्थायार्जुनं तत्र ददृशुस्तपसान्वितम् ||१२||
ततो मुहूर्ताद्भगवानैरावतशिरोगतः |
आजगाम सहेन्द्राण्या शक्रः सुरगणैर्वृतः ||१३||
पाण्डुरेणातपत्रेण ध्रियमाणेन मूर्धनि |
शुशुभे तारकाराजः सितमभ्रमिवास्थितः ||१४||
संस्तूयमानो गन्धर्वैरृषिभिश्च तपोधनैः |
शृङ्गं गिरेः समासाद्य तस्थौ सूर्य इवोदितः ||१५||
अथ मेघस्वनो धीमान्व्याजहार शुभां गिरम् |
यमः परमधर्मज्ञो दक्षिणां दिशमास्थितः ||१६||
अर्जुनार्जुन पश्यास्माँल्लोकपालान्समागतान् |
दृष्टिं ते वितरामोऽद्य भवानर्हो हि दर्शनम् ||१७||
पूर्वर्षिरमितात्मा त्वं नरो नाम महाबलः |
नियोगाद्ब्रह्मणस्तात मर्त्यतां समुपागतः ||१८||
त्वं वासवसमुद्भूतो महावीर्यपराक्रमः ||१८||
क्षत्रं चाग्निसमस्पर्शं भारद्वाजेन रक्षितम् |
दानवाश्च महावीर्या ये मनुष्यत्वमागताः ||१९||
निवातकवचाश्चैव संसाध्याः कुरुनन्दन ||१९||
पितुर्ममांशो देवस्य सर्वलोकप्रतापिनः |
कर्णः स सुमहावीर्यस्त्वया वध्यो धनञ्जय ||२०||
अंशाश्च क्षितिसम्प्राप्ता देवगन्धर्वरक्षसाम् |
तया निपातिता युद्धे स्वकर्मफलनिर्जिताम् ||२१||
गतिं प्राप्स्यन्ति कौन्तेय यथास्वमरिकर्शन ||२१||
अक्षया तव कीर्तिश्च लोके स्थास्यति फल्गुन |
त्वया साक्षान्महादेवस्तोषितो हि महामृधे ||२२||
लघ्वी वसुमती चापि कर्तव्या विष्णुना सह ||२२||
गृहाणास्त्रं महाबाहो दण्डमप्रतिवारणम् |
अनेनास्त्रेण सुमहत्त्वं हि कर्म करिष्यसि ||२३||
प्रतिजग्राह तत्पार्थो विधिवत्कुरुनन्दनः |
समन्त्रं सोपचारं च समोक्षं सनिवर्तनम् ||२४||
ततो जलधरश्यामो वरुणो यादसां पतिः |
पश्चिमां दिशमास्थाय गिरमुच्चारयन्प्रभुः ||२५||
पार्थ क्षत्रियमुख्यस्त्वं क्षत्रधर्मे व्यवस्थितः |
पश्य मां पृथुताम्राक्ष वरुणोऽस्मि जलेश्वरः ||२६||
मया समुद्यतान्पाशान्वारुणाननिवारणान् |
प्रतिगृह्णीष्व कौन्तेय सरहस्यनिवर्तनान् ||२७||
एभिस्तदा मया वीर सङ्ग्रामे तारकामये |
दैतेयानां सहस्राणि संयतानि महात्मनाम् ||२८||
तस्मादिमान्महासत्त्व मत्प्रसादात्समुत्थितान् |
गृहाण न हि ते मुच्येदन्तकोऽप्याततायिनः ||२९||
अनेन त्वं यदास्त्रेण सङ्ग्रामे विचरिष्यसि |
तदा निःक्षत्रिया भूमिर्भविष्यति न संशयः ||३०||
ततः कैलासनिलयो धनाध्यक्षोऽभ्यभाषत |
दत्तेष्वस्त्रेषु दिव्येषु वरुणेन यमेन च ||३१||
सव्यसाचिन्महाबाहो पूर्वदेव सनातन |
सहास्माभिर्भवाञ्श्रान्तः पुराकल्पेषु नित्यशः ||३२||
मत्तोऽपि त्वं गृहाणास्त्रमन्तर्धानं प्रियं मम |
ओजस्तेजोद्युतिहरं प्रस्वापनमरातिहन् ||३३||
ततोऽर्जुनो महाबाहुर्विधिवत्कुरुनन्दनः |
कौबेरमपि जग्राह दिव्यमस्त्रं महाबलः ||३४||
ततोऽब्रवीद्देवराजः पार्थमक्लिष्टकारिणम् |
सान्त्वयञ्श्लक्ष्णया वाचा मेघदुन्दुभिनिस्वनः ||३५||
कुन्तीमातर्महाबाहो त्वमीशानः पुरातनः |
परां सिद्धिमनुप्राप्तः साक्षाद्देवगतिं गतः ||३६||
देवकार्यं हि सुमहत्त्वया कार्यमरिंदम |
आरोढव्यस्त्वया स्वर्गः सज्जीभव महाद्युते ||३७||
रथो मातलिसंयुक्त आगन्ता त्वत्कृते महीम् |
तत्र तेऽहं प्रदास्यामि दिव्यान्यस्त्राणि कौरव ||३८||
तान्दृष्ट्वा लोकपालांस्तु समेतान्गिरिमूर्धनि |
जगाम विस्मयं धीमान्कुन्तीपुत्रो धनञ्जयः ||३९||
ततोऽर्जुनो महातेजा लोकपालान्समागतान् |
पूजयामास विधिवद्वाग्भिरद्भिः फलैरपि ||४०||
ततः प्रतिययुर्देवाः प्रतिपूज्य धनञ्जयम् |
यथागतेन विबुधाः सर्वे काममनोजवाः ||४१||
ततोऽर्जुनो मुदं लेभे लब्धास्त्रः पुरुषर्षभः |
कृतार्थमिव चात्मानं स मेने पूर्णमानसः ||४२||
इन्द्रलोकाभिगमनपर्व
४३
वैशम्पायन उवाच||
गतेषु लोकपालेषु पार्थः शत्रुनिबर्हणः |
चिन्तयामास राजेन्द्र देवराजरथागमम् ||१||
ततश्चिन्तयमानस्य गुडाकेशस्य धीमतः |
रथो मातलिसंयुक्त आजगाम महाप्रभः ||२||
नभो वितिमिरं कुर्वञ्जलदान्पाटयन्निव |
दिशः सम्पूरयन्नादैर्महामेघरवोपमैः ||३||
असयः शक्तयो भीमा गदाश्चोग्रप्रदर्शनाः |
दिव्यप्रभावाः प्रासाश्च विद्युतश्च महाप्रभाः ||४||
तथैवाशनयस्तत्र चक्रयुक्ता हुडागुडाः |
वायुस्फोटाः सनिर्घाता बर्हिमेघनिभस्वनाः ||५||
तत्र नागा महाकाया ज्वलितास्याः सुदारुणाः |
सिताभ्रकूटप्रतिमाः संहताश्च यथोपलाः ||६||
दश वाजिसहस्राणि हरीणां वातरंहसाम् |
वहन्ति यं नेत्रमुषं दिव्यं मायामयं रथम् ||७||
तत्रापश्यन्महानीलं वैजयन्तं महाप्रभम् |
ध्वजमिन्दीवरश्यामं वंशं कनकभूषणम् ||८||
तस्मिन्रथे स्थितं सूतं तप्तहेमविभूषितम् |
दृष्ट्वा पार्थो महाबाहुर्देवमेवान्वतर्कयत् ||९||
तथा तर्कयतस्तस्य फल्गुनस्याथ मातलिः |
संनतः प्रश्रितो भूत्वा वाक्यमर्जुनमब्रवीत् ||१०||
भो भो शक्रात्मज श्रीमाञ्शक्रस्त्वां द्रष्टुमिच्छति |
आरोहतु भवाञ्शीघ्रं रथमिन्द्रस्य संमतम् ||११||
आह माममरश्रेष्ठः पिता तव शतक्रतुः |
कुन्तीसुतमिह प्राप्तं पश्यन्तु त्रिदशालयाः ||१२||
एष शक्रः परिवृतो देवैरृषिगणैस्तथा |
गन्धर्वैरप्सरोभिश्च त्वां दिदृक्षुः प्रतीक्षते ||१३||
अस्माल्लोकाद्देवलोकं पाकशासनशासनात् |
आरोह त्वं मया सार्धं लब्धास्त्रः पुनरेष्यसि ||१४||
अर्जुन उवाच||
मातले गच्छ शीघ्रं त्वमारोहस्व रथोत्तमम् |
राजसूयाश्वमेधानां शतैरपि सुदुर्लभम् ||१५||
पार्थिवैः सुमहाभागैर्यज्वभिर्भूरिदक्षिणैः |
दैवतैर्वा समारोढुं दानवैर्वा रथोत्तमम् ||१६||
नातप्ततपसा शक्य एष दिव्यो महारथः |
द्रष्टुं वाप्यथ वा स्प्रष्टुमारोढुं कुत एव तु ||१७||
त्वयि प्रतिष्ठिते साधो रथस्थे स्थिरवाजिनि |
पश्चादहमथारोक्ष्ये सुकृती सत्पथं यथा ||१८||
वैशम्पायन उवाच||
तस्य तद्वचनं श्रुत्वा मातलिः शक्रसारथिः |
आरुरोह रथं शीघ्रं हयान्येमे च रश्मिभिः ||१९||
ततोऽर्जुनो हृष्टमना गङ्गायामाप्लुतः शुचिः |
जजाप जप्यं कौन्तेयो विधिवत्कुरुनन्दनः ||२०||
ततः पितॄन्यथान्यायं तर्पयित्वा यथाविधि |
मन्दरं शैलराजं तमाप्रष्टुमुपचक्रमे ||२१||
साधूनां धर्मशीलानां मुनीनां पुण्यकर्मणाम् |
त्वं सदा संश्रयः शैल स्वर्गमार्गाभिकाङ्क्षिणाम् ||२२||
त्वत्प्रसादात्सदा शैल ब्राह्मणाः क्षत्रिया विशः |
स्वर्गं प्राप्ताश्चरन्ति स्म देवैः सह गतव्यथाः ||२३||
अद्रिराज महाशैल मुनिसंश्रय तीर्थवन् |
गच्छाम्यामन्त्रयामि त्वां सुखमस्म्युषितस्त्वयि ||२४||
तव सानूनि कुञ्जाश्च नद्यः प्रस्रवणानि च |
तीर्थानि च सुपुण्यानि मया दृष्टान्यनेकशः ||२५||
एवमुक्त्वार्जुनः शैलमामन्त्र्य परवीरहा |
आरुरोह रथं दिव्यं द्योतयन्निव भास्करः ||२६||
स तेनादित्यरूपेण दिव्येनाद्भुतकर्मणा |
ऊर्ध्वमाचक्रमे धीमान्प्रहृष्टः कुरुनन्दनः ||२७||
सोऽदर्शनपथं यात्वा मर्त्यानां भूमिचारिणाम् |
ददर्शाद्भुतरूपाणि विमानानि सहस्रशः ||२८||
न तत्र सूर्यः सोमो वा द्योतते न च पावकः |
स्वयैव प्रभया तत्र द्योतन्ते पुण्यलब्धया ||२९||
तारारूपाणि यानीह दृश्यन्ते द्युतिमन्ति वै |
दीपवद्विप्रकृष्टत्वादणूनि सुमहान्त्यपि ||३०||
तानि तत्र प्रभास्वन्ति रूपवन्ति च पाण्डवः |
ददर्श स्वेषु धिष्ण्येषु दीप्तिमन्ति स्वयार्चिषा ||३१||
तत्र राजर्षयः सिद्धा वीराश्च निहता युधि |
तपसा च जितस्वर्गाः सम्पेतुः शतसङ्घशः ||३२||
गन्धर्वाणां सहस्राणि सूर्यज्वलनतेजसाम् |
गुह्यकानामृषीणां च तथैवाप्सरसां गणाः ||३३||
लोकानात्मप्रभान्पश्यन्फल्गुनो विस्मयान्वितः |
पप्रच्छ मातलिं प्रीत्या स चाप्येनमुवाच ह ||३४||
एते सुकृतिनः पार्थ स्वेषु धिष्ण्येष्ववस्थिताः |
यान्दृष्टवानसि विभो तारारूपाणि भूतले ||३५||
ततोऽपश्यत्स्थितं द्वारि सितं वैजयिनं गजम् |
ऐरावतं चतुर्दन्तं कैलासमिव शृङ्गिणम् ||३६||
स सिद्धमार्गमाक्रम्य कुरुपाण्डवसत्तमः |
व्यरोचत यथा पूर्वं मान्धाता पार्थिवोत्तमः ||३७||
अतिचक्राम लोकान्स राज्ञां राजीवलोचनः |
ततो ददर्श शक्रस्य पुरीं ताममरावतीम् ||३८||
४४
वैशम्पायन उवाच||
स ददर्श पुरीं रम्यां सिद्धचारणसेविताम् |
सर्वर्तुकुसुमैः पुण्यैः पादपैरुपशोभिताम् ||१||
तत्र सौगन्धिकानां स द्रुमाणां पुण्यगन्धिनाम् |
उपवीज्यमानो मिश्रेण वायुना पुण्यगन्धिना ||२||
नन्दनं च वनं दिव्यमप्सरोगणसेवितम् |
ददर्श दिव्यकुसुमैराह्वयद्भिरिव द्रुमैः ||३||
नातप्ततपसा शक्यो द्रष्टुं नानाहिताग्निना |
स लोकः पुण्यकर्तॄणां नापि युद्धपराङ्मुखैः ||४||
नायज्वभिर्नानृतकैर्न वेदश्रुतिवर्जितैः |
नानाप्लुताङ्गैस्तीर्थेषु यज्ञदानबहिष्कृतैः ||५||
नापि यज्ञहनैः क्षुद्रैर्द्रष्टुं शक्यः कथञ्चन |
पानपैर्गुरुतल्पैश्च मांसादैर्वा दुरात्मभिः ||६||
स तद्दिव्यं वनं पश्यन्दिव्यगीतनिनादितम् |
प्रविवेश महाबाहुः शक्रस्य दयितां पुरीम् ||७||
तत्र देवविमानानि कामगानि सहस्रशः |
संस्थितान्यभियातानि ददर्शायुतशस्तदा ||८||
संस्तूयमानो गन्धर्वैरप्सरोभिश्च पाण्डवः |
पुष्पगन्धवहैः पुण्यैर्वायुभिश्चानुवीजितः ||९||
ततो देवाः सगन्धर्वाः सिद्धाश्च परमर्षयः |
हृष्टाः सम्पूजयामासुः पार्थमक्लिष्टकारिणम् ||१०||
आशीर्वादैः स्तूयमानो दिव्यवादित्रनिस्वनैः |
प्रतिपेदे महाबाहुः शङ्खदुन्दुभिनादितम् ||११||
नक्षत्रमार्गं विपुलं सुरवीथीति विश्रुतम् |
इन्द्राज्ञया ययौ पार्थः स्तूयमानः समन्ततः ||१२||
तत्र साध्यास्तथा विश्वे मरुतोऽथाश्विनावपि |
आदित्या वसवो रुद्रास्तथा ब्रह्मर्षयोऽमलाः ||१३||
राजर्षयश्च बहवो दिलीपप्रमुखा नृपाः |
तुम्बुरुर्नारदश्चैव गन्धर्वौ च हहाहुहू ||१४||
तान्सर्वान्स समागम्य विधिवत्कुरुनन्दनः |
ततोऽपश्यद्देवराजं शतक्रतुमरिंदमम् ||१५||
ततः पार्थो महाबाहुरवतीर्य रथोत्तमात् |
ददर्श साक्षाद्देवेन्द्रं पितरं पाकशासनम् ||१६||
पाण्डुरेणातपत्रेण हेमदण्डेन चारुणा |
दिव्यगन्धाधिवासेन व्यजनेन विधूयता ||१७||
विश्वावसुप्रभृतिभिर्गन्धर्वैः स्तुतिवन्दनैः |
स्तूयमानं द्विजाग्र्यैश्च ऋग्यजुःसामसंस्तवैः ||१८||
ततोऽभिगम्य कौन्तेयः शिरसाभ्यनमद्बली |
स चैनमनुवृत्ताभ्यां भुजाभ्यां प्रत्यगृह्णत ||१९||
ततः शक्रासने पुण्ये देवराजर्षिपूजिते |
शक्रः पाणौ गृहीत्वैनमुपावेशयदन्तिके ||२०||
मूर्ध्नि चैनमुपाघ्राय देवेन्द्रः परवीरहा |
अङ्कमारोपयामास प्रश्रयावनतं तदा ||२१||
सहस्राक्षनियोगात्स पार्थः शक्रासनं तदा |
अध्यक्रामदमेयात्मा द्वितीय इव वासवः ||२२||
ततः प्रेम्णा वृत्रशत्रुरर्जुनस्य शुभं मुखम् |
पस्पर्श पुण्यगन्धेन करेण परिसान्त्वयन् ||२३||
परिमार्जमानः शनकैर्बाहू चास्यायतौ शुभौ |
ज्याशरक्षेपकठिनौ स्तम्भाविव हिरण्मयौ ||२४||
वज्रग्रहणचिह्नेन करेण बलसूदनः |
मुहुर्मुहुर्वज्रधरो बाहू संस्फालयञ्शनैः ||२५||
स्मयन्निव गुडाकेशं प्रेक्षमाणः सहस्रदृक् |
हर्षेणोत्फुल्लनयनो न चातृप्यत वृत्रहा ||२६||
एकासनोपविष्टौ तौ शोभयां चक्रतुः सभाम् |
सूर्याचन्द्रमसौ व्योम्नि चतुर्दश्यामिवोदितौ ||२७||
तत्र स्म गाथा गायन्ति साम्ना परमवल्गुना |
गन्धर्वास्तुम्बुरुश्रेष्ठाः कुशला गीतसामसु ||२८||
घृताची मेनका रम्भा पूर्वचित्तिः स्वयम्प्रभा |
उर्वशी मिश्रकेशी च डुण्डुर्गौरी वरूथिनी ||२९||
गोपाली सहजन्या च कुम्भयोनिः प्रजागरा |
चित्रसेना चित्रलेखा सहा च मधुरस्वरा ||३०||
एताश्चान्याश्च ननृतुस्तत्र तत्र वराङ्गनाः |
चित्तप्रमथने युक्ताः सिद्धानां पद्मलोचनाः ||३१||
महाकटितटश्रोण्यः कम्पमानैः पयोधरैः |
कटाक्षहावमाधुर्यैश्चेतोबुद्धिमनोहराः ||३२||
४५
वैशम्पायन उवाच||
ततो देवाः सगन्धर्वाः समादायार्घ्यमुत्तमम् |
शक्रस्य मतमाज्ञाय पार्थमानर्चुरञ्जसा ||१||
पाद्यमाचमनीयं च प्रतिग्राह्य नृपात्मजम् |
प्रवेशयामासुरथो पुरंदरनिवेशनम् ||२||
एवं सम्पूजितो जिष्णुरुवास भवने पितुः |
उपशिक्षन्महास्त्राणि ससंहाराणि पाण्डवः ||३||
शक्रस्य हस्ताद्दयितं वज्रमस्त्रं दुरुत्सहम् |
अशनीश्च महानादा मेघबर्हिणलक्षणाः ||४||
गृहीतास्त्रस्तु कौन्तेयो भ्रातॄन्सस्मार पाण्डवः |
पुरंदरनियोगाच्च पञ्चाब्दमवसत्सुखी ||५||
ततः शक्रोऽब्रवीत्पार्थं कृतास्त्रं काल आगते |
नृत्तं गीतं च कौन्तेय चित्रसेनादवाप्नुहि ||६||
वादित्रं देवविहितं नृलोके यन्न विद्यते |
तदर्जयस्व कौन्तेय श्रेयो वै ते भविष्यति ||७||
सखायं प्रददौ चास्य चित्रसेनं पुरंदरः |
स तेन सह सङ्गम्य रेमे पार्थो निरामयः ||८||
कदाचिदटमानस्तु महर्षिरुत लोमशः |
जगाम शक्रभवनं पुरंदरदिदृक्षया ||९||
स समेत्य नमस्कृत्य देवराजं महामुनिः |
ददर्शार्धासनगतं पाण्डवं वासवस्य ह ||१०||
ततः शक्राभ्यनुज्ञात आसने विष्टरोत्तरे |
निषसाद द्विजश्रेष्ठः पूज्यमानो महर्षिभिः ||११||
तस्य दृष्ट्वाभवद्बुद्धिः पार्थमिन्द्रासने स्थितम् |
कथं नु क्षत्रियः पार्थः शक्रासनमवाप्तवान् ||१२||
किं त्वस्य सुकृतं कर्म लोका वा के विनिर्जिताः |
य एवमुपसम्प्राप्तः स्थानं देवनमस्कृतम् ||१३||
तस्य विज्ञाय सङ्कल्पं शक्रो वृत्रनिषूदनः |
लोमशं प्रहसन्वाक्यमिदमाह शचीपतिः ||१४||
ब्रह्मर्षे श्रूयतां यत्ते मनसैतद्विवक्षितम् |
नायं केवलमर्त्यो वै क्षत्रियत्वमुपागतः ||१५||
महर्षे मम पुत्रोऽयं कुन्त्यां जातो महाभुजः |
अस्त्रहेतोरिह प्राप्तः कस्माच्चित्कारणान्तरात् ||१६||
अहो नैनं भवान्वेत्ति पुराणमृषिसत्तमम् |
शृणु मे वदतो ब्रह्मन्योऽयं यच्चास्य कारणम् ||१७||
नरनारायणौ यौ तौ पुराणावृषिसत्तमौ |
ताविमावभिजानीहि हृषीकेशधनञ्जयौ ||१८||
यन्न शक्यं सुरैर्द्रष्टुमृषिभिर्वा महात्मभिः |
तदाश्रमपदं पुण्यं बदरी नाम विश्रुतम् ||१९||
स निवासोऽभवद्विप्र विष्णोर्जिष्णोस्तथैव च |
यतः प्रववृते गङ्गा सिद्धचारणसेविता ||२०||
तौ मन्नियोगाद्ब्रह्मर्षे क्षितौ जातौ महाद्युती |
भूमेर्भारावतरणं महावीर्यौ करिष्यतः ||२१||
उद्वृत्ता ह्यसुराः केचिन्निवातकवचा इति |
विप्रियेषु स्थितास्माकं वरदानेन मोहिताः ||२२||
तर्कयन्ते सुरान्हन्तुं बलदर्पसमन्विताः |
देवान्न गणयन्ते च तथा दत्तवरा हि ते ||२३||
पातालवासिनो रौद्रा दनोः पुत्रा महाबलाः |
सर्वे देवनिकाया हि नालं योधयितुं स्म तान् ||२४||
योऽसौ भूमिगतः श्रीमान्विष्णुर्मधुनिषूदनः |
कपिलो नाम देवोऽसौ भगवानजितो हरिः ||२५||
येन पूर्वं महात्मानः खनमाना रसातलम् |
दर्शनादेव निहताः सगरस्यात्मजा विभो ||२६||
तेन कार्यं महत्कार्यमस्माकं द्विजसत्तम |
पार्थेन च महायुद्धे समेताभ्यामसंशयम् ||२७||
अयं तेषां समस्तानां शक्तः प्रतिसमासने |
तान्निहत्य रणे शूरः पुनर्यास्यति मानुषान् ||२८||
भवांश्चास्मन्नियोगेन यातु तावन्महीतलम् |
काम्यके द्रक्ष्यसे वीरं निवसन्तं युधिष्ठिरम् ||२९||
स वाच्यो मम संदेशाद्धर्मात्मा सत्यसङ्गरः |
नोत्कण्ठा फल्गुने कार्या कृतास्त्रः शीघ्रमेष्यति ||३०||
नाशुद्धबाहुवीर्येण नाकृतास्त्रेण वा रणे |
भीष्मद्रोणादयो युद्धे शक्याः प्रतिसमासितुम् ||३१||
गृहीतास्त्रो गुडाकेशो महाबाहुर्महामनाः |
नृत्तवादित्रगीतानां दिव्यानां पारमेयिवान् ||३२||
भवानपि विविक्तानि तीर्थानि मनुजेश्वर |
भ्रातृभिः सहितः सर्वैर्द्रष्टुमर्हत्यरिंदम ||३३||
तीर्थेष्वाप्लुत्य पुण्येषु विपाप्मा विगतज्वरः |
राज्यं भोक्ष्यसि राजेन्द्र सुखी विगतकल्मषः ||३४||
भवांश्चैनं द्विजश्रेष्ठ पर्यटन्तं महीतले |
त्रातुमर्हति विप्राग्र्य तपोबलसमन्वितः ||३५||
गिरिदुर्गेषु हि सदा देशेषु विषमेषु च |
वसन्ति राक्षसा रौद्रास्तेभ्यो रक्षेत्सदा भवान् ||३६||
स तथेति प्रतिज्ञाय लोमशः सुमहातपाः |
काम्यकं वनमुद्दिश्य समुपायान्महीतलम् ||३७||
ददर्श तत्र कौन्तेयं धर्मराजमरिंदमम् |
तापसैर्भ्रातृभिश्चैव सर्वतः परिवारितम् ||३८||
४६
जनमेजय उवाच||
अत्यद्भुतमिदं कर्म पार्थस्यामिततेजसः |
धृतराष्ट्रो महातेजाः श्रुत्वा विप्र किमब्रवीत् ||१||
वैशम्पायन उवाच||
शक्रलोकगतं पार्थं श्रुत्वा राजाम्बिकासुतः |
द्वैपायनादृषिश्रेष्ठात्सञ्जयं वाक्यमब्रवीत् ||२||
श्रुतं मे सूत कार्त्स्न्येन कर्म पार्थस्य धीमतः |
कच्चित्तवापि विदितं यथातथ्येन सारथे ||३||
प्रमत्तो ग्राम्यधर्मेषु मन्दात्मा पापनिश्चयः |
मम पुत्रः सुदुर्बुद्धिः पृथिवीं घातयिष्यति ||४||
यस्य नित्यमृता वाचः स्वैरेष्वपि महात्मनः |
त्रैलोक्यमपि तस्य स्याद्योद्धा यस्य धनञ्जयः ||५||
अस्यतः कर्णिनाराचांस्तीक्ष्णाग्रांश्च शिलाशितान् |
कोऽर्जुनस्याग्रतस्तिष्ठेदपि मृत्युर्जरातिगः ||६||
मम पुत्रा दुरात्मानः सर्वे मृत्युवशं गताः |
येषां युद्धं दुराधर्षैः पाण्डवैः प्रत्युपस्थितम् ||७||
तस्यैव च न पश्यामि युधि गाण्डीवधन्वनः |
अनिशं चिन्तयानोऽपि य एनमुदियाद्रथी ||८||
द्रोणकर्णौ प्रतीयातां यदि भीष्मोऽपि वा रणे |
महान्स्यात्संशयो लोके न तु पश्यामि नो जयम् ||९||
घृणी कर्णः प्रमादी च आचार्यः स्थविरो गुरुः |
अमर्षी बलवान्पार्थः संरम्भी दृढविक्रमः ||१०||
भवेत्सुतुमुलं युद्धं सर्वशोऽप्यपराजितम् |
सर्वे ह्यस्त्रविदः शूराः सर्वे प्राप्ता महद्यशः ||११||
अपि सर्वेश्वरत्वं हि न वाञ्छेरन्पराजिताः |
वधे नूनं भवेच्छान्तिस्तेषां वा फल्गुनस्य वा ||१२||
न तु हन्तार्जुनस्यास्ति जेता वास्य न विद्यते |
मन्युस्तस्य कथं शाम्येन्मन्दान्प्रति समुत्थितः ||१३||
त्रिदशेशसमो वीरः खाण्डवेऽग्निमतर्पयत् |
जिगाय पार्थिवान्सर्वान्राजसूये महाक्रतौ ||१४||
शेषं कुर्याद्गिरेर्वज्रं निपतन्मूर्ध्नि सञ्जय |
न तु कुर्युः शराः शेषमस्तास्तात किरीटिना ||१५||
यथा हि किरणा भानोस्तपन्तीह चराचरम् |
तथा पार्थभुजोत्सृष्टाः शरास्तप्स्यन्ति मे सुतान् ||१६||
अपि वा रथघोषेण भयार्ता सव्यसाचिनः |
प्रतिभाति विदीर्णेव सर्वतो भारती चमूः ||१७||
यदुद्वपन्प्रवपंश्चैव बाणा; न्स्थाताततायी समरे किरीटी |
सृष्टोऽन्तकः सर्वहरो विधात्रा; भवेद्यथा तद्वदपारणीयः ||१८||
सञ्जय उवाच||
यदेतत्कथितं राजंस्त्वया दुर्योधनं प्रति |
सर्वमेतद्यथात्थ त्वं नैतन्मिथ्या महीपते ||१९||
मन्युना हि समाविष्टाः पाण्डवास्तेऽमितौजसः |
दृष्ट्वा कृष्णां सभां नीतां धर्मपत्नीं यशस्विनीम् ||२०||
दुःशासनस्य ता वाचः श्रुत्वा ते दारुणोदयाः |
कर्णस्य च महाराज न स्वप्स्यन्तीति मे मतिः ||२१||
श्रुतं हि ते महाराज यथा पार्थेन संयुगे |
एकादशतनुः स्थाणुर्धनुषा परितोषितः ||२२||
कैरातं वेषमास्थाय योधयामास फल्गुनम् |
जिज्ञासुः सर्वदेवेशः कपर्दी भगवान्स्वयम् ||२३||
तत्रैनं लोकपालास्ते दर्शयामासुरर्जुनम् |
अस्त्रहेतोः पराक्रान्तं तपसा कौरवर्षभम् ||२४||
नैतदुत्सहतेऽन्यो हि लब्धुमन्यत्र फल्गुनात् |
साक्षाद्दर्शनमेतेषामीश्वराणां नरो भुवि ||२५||
महेश्वरेण यो राजन्न जीर्णो ग्रस्तमूर्तिमान् |
कस्तमुत्सहते वीरं युद्धे जरयितुं पुमान् ||२६||
आसादितमिदं घोरं तुमुलं लोमहर्षणम् |
द्रौपदीं परिकर्षद्भिः कोपयद्भिश्च पाण्डवान् ||२७||
यत्र विस्फुरमाणोष्ठो भीमः प्राह वचो महत् |
दृष्ट्वा दुर्योधनेनोरू द्रौपद्या दर्शितावुभौ ||२८||
ऊरू भेत्स्यामि ते पाप गदया वज्रकल्पया |
त्रयोदशानां वर्षाणामन्ते दुर्द्यूतदेविनः ||२९||
सर्वे प्रहरतां श्रेष्ठाः सर्वे चामिततेजसः |
सर्वे सर्वास्त्रविद्वांसो देवैरपि सुदुर्जयाः ||३०||
मन्ये मन्युसमुद्धूताः पुत्राणां तव संयुगे |
अन्तं पार्थाः करिष्यन्ति वीर्यामर्षसमन्विताः ||३१||
धृतराष्ट्र उवाच||
किं कृतं सूत कर्णेन वदता परुषं वचः |
पर्याप्तं वैरमेतावद्यत्कृष्णा सा सभां गता ||३२||
अपीदानीं मम सुतास्तिष्ठेरन्मन्दचेतसः |
येषां भ्राता गुरुर्ज्येष्ठो विनये नावतिष्ठते ||३३||
ममापि वचनं सूत न शुश्रूषति मन्दभाक् |
दृष्ट्वा मां चक्षुषा हीनं निर्विचेष्टमचेतनम् ||३४||
ये चास्य सचिवा मन्दाः कर्णसौबलकादयः |
तेऽप्यस्य भूयसो दोषान्वर्धयन्ति विचेतसः ||३५||
स्वैरमुक्ता अपि शराः पार्थेनामिततेजसा |
निर्दहेयुर्मम सुतान्किं पुनर्मन्युनेरिताः ||३६||
पार्थबाहुबलोत्सृष्टा महाचापविनिःसृताः |
दिव्यास्त्रमन्त्रमुदिताः सादयेयुः सुरानपि ||३७||
यस्य मन्त्री च गोप्ता च सुहृच्चैव जनार्दनः |
हरिस्त्रैलोक्यनाथः स किं नु तस्य न निर्जितम् ||३८||
इदं च सुमहच्चित्रमर्जुनस्येह सञ्जय |
महादेवेन बाहुभ्यां यत्समेत इति श्रुतिः ||३९||
प्रत्यक्षं सर्वलोकस्य खाण्डवे यत्कृतं पुरा |
फल्गुनेन सहायार्थे वह्नेर्दामोदरेण च ||४०||
सर्वथा नास्ति मे पुत्रः सामात्यः सहबान्धवः |
क्रुद्धे पार्थे च भीमे च वासुदेवे च सात्वते ||४१||
४७
जनमेजय उवाच||
यदिदं शोचितं राज्ञा धृतराष्ट्रेण वै मुने |
प्रव्राज्य पाण्डवान्वीरान्सर्वमेतन्निरर्थकम् ||१||
कथं हि राजा पुत्रं स्वमुपेक्षेताल्पचेतसम् |
दुर्योधनं पाण्डुपुत्रान्कोपयानं महारथान् ||२||
किमासीत्पाण्डुपुत्राणां वने भोजनमुच्यताम् |
वानेयमथ वा कृष्टमेतदाख्यातु मे भवान् ||३||
वैशम्पायन उवाच||
वानेयं च मृगांश्चैव शुद्धैर्बाणैर्निपातितान् |
ब्राह्मणानां निवेद्याग्रमभुञ्जन्पुरुषर्षभाः ||४||
तांस्तु शूरान्महेष्वासांस्तदा निवसतो वने |
अन्वयुर्ब्राह्मणा राजन्साग्नयोऽनग्नयस्तथा ||५||
ब्राह्मणानां सहस्राणि स्नातकानां महात्मनाम् |
दश मोक्षविदां तद्वद्यान्बिभर्ति युधिष्ठिरः ||६||
रुरून्कृष्णमृगांश्चैव मेध्यांश्चान्यान्वनेचरान् |
बाणैरुन्मथ्य विधिवद्ब्राह्मणेभ्यो न्यवेदयत् ||७||
न तत्र कश्चिद्दुर्वर्णो व्याधितो वाप्यदृश्यत |
कृशो वा दुर्बलो वापि दीनो भीतोऽपि वा नरः ||८||
पुत्रानिव प्रियाञ्ज्ञातीन्भ्रातॄनिव सहोदरान् |
पुपोष कौरवश्रेष्ठो धर्मराजो युधिष्ठिरः ||९||
पतींश्च द्रौपदी सर्वान्द्विजांश्चैव यशस्विनी |
मातेव भोजयित्वाग्रे शिष्टमाहारयत्तदा ||१०||
प्राचीं राजा दक्षिणां भीमसेनो; यमौ प्रतीचीमथ वाप्युदीचीम् |
धनुर्धरा मांसहेतोर्मृगाणां; क्षयं चक्रुर्नित्यमेवोपगम्य ||११||
तथा तेषां वसतां काम्यके वै; विहीनानामर्जुनेनोत्सुकानाम् |
पञ्चैव वर्षाणि तदा व्यतीयु; रधीयतां जपतां जुह्वतां च ||१२||
४८
वैशम्पायन उवाच||
सुदीर्घमुष्णं निःश्वस्य धृतराष्ट्रोऽम्बिकासुतः |
अब्रवीत्सञ्जयं सूतमामन्त्र्य भरतर्षभ ||१||
देवपुत्रौ महाभागौ देवराजसमद्युती |
नकुलः सहदेवश्च पाण्डवौ युद्धदुर्मदौ ||२||
दृढायुधौ दूरपातौ युद्धे च कृतनिश्चयौ |
शीघ्रहस्तौ दृढक्रोधौ नित्ययुक्तौ तरस्विनौ ||३||
भीमार्जुनौ पुरोधाय यदा तौ रणमूर्धनि |
स्थास्येते सिंहविक्रान्तावश्विनाविव दुःसहौ ||४||
न शेषमिह पश्यामि तदा सैन्यस्य सञ्जय ||४||
तौ ह्यप्रतिरथौ युद्धे देवपुत्रौ महारथौ |
द्रौपद्यास्तं परिक्लेशं न क्षंस्येते त्वमर्षिणौ ||५||
वृष्णयो वा महेष्वासा पाञ्चाला वा महौजसः |
युधि सत्याभिसन्धेन वासुदेवेन रक्षिताः ||६||
प्रधक्ष्यन्ति रणे पार्थाः पुत्राणां मम वाहिनीम् ||६||
रामकृष्णप्रणीतानां वृष्णीनां सूतनन्दन |
न शक्यः सहितुं वेगः पर्वतैरपि संयुगे ||७||
तेषां मध्ये महेष्वासो भीमो भीमपराक्रमः |
शैक्यया वीरघातिन्या गदया विचरिष्यति ||८||
तथा गाण्डीवनिर्घोषं विस्फूर्जितमिवाशनेः |
गदावेगं च भीमस्य नालं सोढुं नराधिपाः ||९||
ततोऽहं सुहृदां वाचो दुर्योधनवशानुगः |
स्मरणीयाः स्मरिष्यामि मया या न कृताः पुरा ||१०||
सञ्जय उवाच||
व्यतिक्रमोऽयं सुमहांस्त्वया राजन्नुपेक्षितः |
समर्थेनापि यन्मोहात्पुत्रस्ते न निवारितः ||११||
श्रुत्वा हि निर्जितान्द्यूते पाण्डवान्मधुसूदनः |
त्वरितः काम्यके पार्थान्समभावयदच्युतः ||१२||
द्रुपदस्य तथा पुत्रा धृष्टद्युम्नपुरोगमाः |
विराटो धृष्टकेतुश्च केकयाश्च महारथाः ||१३||
तैश्च यत्कथितं तत्र दृष्ट्वा पार्थान्पराजितान् |
चारेण विदितं सर्वं तन्मया वेदितं च ते ||१४||
समागम्य वृतस्तत्र पाण्डवैर्मधुसूदनः |
सारथ्ये फल्गुनस्याजौ तथेत्याह च तान्हरिः ||१५||
अमर्षितो हि कृष्णोऽपि दृष्ट्वा पार्थांस्तथागतान् |
कृष्णाजिनोत्तरासङ्गानब्रवीच्च युधिष्ठिरम् ||१६||
या सा समृद्धिः पार्थानामिन्द्रप्रस्थे बभूव ह |
राजसूये मया दृष्टा नृपैरन्यैः सुदुर्लभा ||१७||
यत्र सर्वान्महीपालाञ्शस्त्रतेजोभयार्दितान् |
सवङ्गाङ्गान्सपौण्ड्रोड्रान्सचोलद्रविडान्धकान् ||१८||
सागरानूपगांश्चैव ये च पत्तनवासिनः |
सिंहलान्बर्बरान्म्लेच्छान्ये च जाङ्गलवासिनः ||१९||
पश्चिमानि च राज्यानि शतशः सागरान्तिकान् |
पह्लवान्दरदान्सर्वान्किरातान्यवनाञ्शकान् ||२०||
हारहूणांश्च चीनांश्च तुखारान्सैन्धवांस्तथा |
जागुडान्रमठान्मुण्डान्स्त्रीराज्यानथ तङ्गणान् ||२१||
एते चान्ये च बहवो ये च ते भरतर्षभ |
आगतानहमद्राक्षं यज्ञे ते परिवेषकान् ||२२||
सा ते समृद्धिर्यैरात्ता चपला प्रतिसारिणी |
आदाय जीवितं तेषामाहरिष्यामि तामहम् ||२३||
रामेण सह कौरव्य भीमार्जुनयमैस्तथा |
अक्रूरगदसाम्बैश्च प्रद्युम्नेनाहुकेन च ||२४||
धृष्टद्युम्नेन वीरेण शिशुपालात्मजेन च ||२४||
दुर्योधनं रणे हत्वा सद्यः कर्णं च भारत |
दुःशासनं सौबलेयं यश्चान्यः प्रतियोत्स्यते ||२५||
ततस्त्वं हास्तिनपुरे भ्रातृभिः सहितो वसन् |
धार्तराष्ट्रीं श्रियं प्राप्य प्रशाधि पृथिवीमिमाम् ||२६||
अथैनमब्रवीद्राजा तस्मिन्वीरसमागमे |
शृण्वत्सु तेषु सर्वेषु धृष्टद्युम्नमुखेषु च ||२७||
प्रतिगृह्णामि ते वाचं सत्यामेतां जनार्दन |
अमित्रान्मे महाबाहो सानुबन्धान्हनिष्यसि ||२८||
वर्षात्त्रयोदशादूर्ध्वं सत्यं मां कुरु केशव |
प्रतिज्ञातो वने वासो राजमध्ये मया ह्ययम् ||२९||
तद्धर्मराजवचनं प्रतिश्रुत्य सभासदः |
धृष्टद्युम्नपुरोगास्ते शमयामासुरञ्जसा ||३०||
केशवं मधुरैर्वाक्यैः कालयुक्तैरमर्षितम् ||३०||
पाञ्चालीं चाहुरक्लिष्टां वासुदेवस्य शृण्वतः |
दुर्योधनस्तव क्रोधाद्देवि त्यक्ष्यति जीवितम् ||३१||
प्रतिजानीम ते सत्यं मा शुचो वरवर्णिनि ||३१||
ये स्म ते कुपितां कृष्णे दृष्ट्वा त्वां प्राहसंस्तदा |
मांसानि तेषां खादन्तो हसिष्यन्ति मृगद्विजाः ||३२||
पास्यन्ति रुधिरं तेषां गृध्रा गोमायवस्तथा |
उत्तमाङ्गानि कर्षन्तो यैस्त्वं कृष्टा सभातले ||३३||
तेषां द्रक्ष्यसि पाञ्चालि गात्राणि पृथिवीतले |
क्रव्यादैः कृष्यमाणानि भक्ष्यमाणानि चासकृत् ||३४||
परिक्लिष्टासि यैस्तत्र यैश्चापि समुपेक्षिता |
तेषामुत्कृत्तशिरसां भूमिः पास्यति शोणितम् ||३५||
एवं बहुविधा वाचस्तदोचुः पुरुषर्षभाः |
सर्वे तेजस्विनः शूराः सर्वे चाहतलक्षणाः ||३६||
ते धर्मराजेन वृता वर्षादूर्ध्वं त्रयोदशात् |
पुरस्कृत्योपयास्यन्ति वासुदेवं महारथाः ||३७||
रामश्च कृष्णश्च धनञ्जयश्च; प्रद्युम्नसाम्बौ युयुधानभीमौ |
माद्रीसुतौ केकयराजपुत्राः; पाञ्चालपुत्राः सह धर्मराज्ञा ||३८||
एतान्सर्वाँल्लोकवीरानजेया; न्महात्मनः सानुबन्धान्ससैन्यान् |
को जीवितार्थी समरे प्रत्युदीया; त्क्रुद्धान्सिंहान्केसरिणो यथैव ||३९||
धृतराष्ट्र उवाच||
यन्माब्रवीद्विदुरो द्यूतकाले; त्वं पाण्डवाञ्जेष्यसि चेन्नरेन्द्र |
ध्रुवं कुरूणामयमन्तकालो; महाभयो भविता शोणितौघः ||४०||
मन्ये तथा तद्भवितेति सूत; यथा क्षत्ता प्राह वचः पुरा माम् |
असंशयं भविता युद्धमेत; द्गते काले पाण्डवानां यथोक्तम् ||४१||
४९
जनमेजय उवाच||
अस्त्रहेतोर्गते पार्थे शक्रलोकं महात्मनि |
युधिष्ठिरप्रभृतयः किमकुर्वन्त पाण्डवाः ||१||
वैशम्पायन उवाच||
अस्त्रहेतोर्गते पार्थे शक्रलोकं महात्मनि |
न्यवसन्कृष्णया सार्धं काम्यके पुरुषर्षभाः ||२||
ततः कदाचिदेकान्ते विविक्त इव शाद्वले |
दुःखार्ता भरतश्रेष्ठा निषेदुः सह कृष्णया ||३||
धनञ्जयं शोचमानाः साश्रुकण्ठाः सुदुःखिताः ||३||
तद्वियोगाद्धि तान्सर्वाञ्शोकः समभिपुप्लुवे |
धनञ्जयवियोगाच्च राज्यनाशाच्च दुःखिताः ||४||
अथ भीमो महाबाहुर्युधिष्ठिरमभाषत |
निदेशात्ते महाराज गतोऽसौ पुरुषर्षभः ||५||
अर्जुनः पाण्डुपुत्राणां यस्मिन्प्राणाः प्रतिष्ठिताः ||५||
यस्मिन्विनष्टे पाञ्चालाः सह पुत्रैस्तथा वयम् |
सात्यकिर्वासुदेवश्च विनश्येयुरसंशयम् ||६||
योऽसौ गच्छति तेजस्वी बहून्क्लेशानचिन्तयन् |
भवन्नियोगाद्बीभत्सुस्ततो दुःखतरं नु किम् ||७||
यस्य बाहू समाश्रित्य वयं सर्वे महात्मनः |
मन्यामहे जितानाजौ परान्प्राप्तां च मेदिनीम् ||८||
यस्य प्रभावान्न मया सभामध्ये धनुष्मतः |
नीता लोकममुं सर्वे धार्तराष्ट्राः ससौबलाः ||९||
ते वयं बाहुबलिनः क्रोधमुत्थितमात्मनः |
सहामहे भवन्मूलं वासुदेवेन पालिताः ||१०||
वयं हि सह कृष्णेन हत्वा कर्णमुखान्परान् |
स्वबाहुविजितां कृत्स्नां प्रशासेम वसुन्धराम् ||११||
भवतो द्यूतदोषेण सर्वे वयमुपप्लुताः |
अहीनपौरुषा राजन्बलिभिर्बलवत्तमाः ||१२||
क्षात्रं धर्मं महाराज समवेक्षितुमर्हसि |
न हि धर्मो महाराज क्षत्रियस्य वनाश्रयः ||१३||
राज्यमेव परं धर्मं क्षत्रियस्य विदुर्बुधाः ||१३||
स क्षत्रधर्मविद्राजन्मा धर्म्यान्नीनशः पथः |
प्राग्द्वादश समा राजन्धार्तराष्ट्रान्निहन्महि ||१४||
निवर्त्य च वनात्पार्थमानाय्य च जनार्दनम् |
व्यूढानीकान्महाराज जवेनैव महाहवे ||१५||
धार्तराष्ट्रानमुं लोकं गमयामि विशां पते ||१५||
सर्वानहं हनिष्यामि धार्तराष्ट्रान्ससौबलान् |
दुर्योधनं च कर्णं च यो वान्यः प्रतियोत्स्यते ||१६||
मया प्रशमिते पश्चात्त्वमेष्यसि वनात्पुनः |
एवं कृते न ते दोषो भविष्यति विशां पते ||१७||
यज्ञैश्च विविधैस्तात कृतं पापमरिंदम |
अवधूय महाराज गच्छेम स्वर्गमुत्तमम् ||१८||
एवमेतद्भवेद्राजन्यदि राजा न बालिशः |
अस्माकं दीर्घसूत्रः स्याद्भवान्धर्मपरायणः ||१९||
निकृत्या निकृतिप्रज्ञा हन्तव्या इति निश्चयः |
न हि नैकृतिकं हत्वा निकृत्या पापमुच्यते ||२०||
तथा भारत धर्मेषु धर्मज्ञैरिह दृश्यते |
अहोरात्रं महाराज तुल्यं संवत्सरेण हि ||२१||
तथैव वेदवचनं श्रूयते नित्यदा विभो |
संवत्सरो महाराज पूर्णो भवति कृच्छ्रतः ||२२||
यदि वेदाः प्रमाणं ते दिवसादूर्ध्वमच्युत |
त्रयोदश समाः कालो ज्ञायतां परिनिष्ठितः ||२३||
कालो दुर्योधनं हन्तुं सानुबन्धमरिंदम |
एकाग्रां पृथिवीं सर्वां पुरा राजन्करोति सः ||२४||
एवं ब्रुवाणं भीमं तु धर्मराजो युधिष्ठिरः |
उवाच सान्त्वयन्राजा मूर्ध्न्युपाघ्राय पाण्डवम् ||२५||
असंशयं महाबाहो हनिष्यसि सुयोधनम् |
वर्षात्त्रयोदशादूर्ध्वं सह गाण्डीवधन्वना ||२६||
यच्च मा भाषसे पार्थ प्राप्तः काल इति प्रभो |
अनृतं नोत्सहे वक्तुं न ह्येतन्मयि विद्यते ||२७||
अन्तरेणापि कौन्तेय निकृतिं पापनिश्चयम् |
हन्ता त्वमसि दुर्धर्ष सानुबन्धं सुयोधनम् ||२८||
एवं ब्रुवति भीमं तु धर्मराजे युधिष्ठिरे |
आजगाम महाभागो बृहदश्वो महानृषिः ||२९||
तमभिप्रेक्ष्य धर्मात्मा सम्प्राप्तं धर्मचारिणम् |
शास्त्रवन्मधुपर्केण पूजयामास धर्मराट् ||३०||
आश्वस्तं चैनमासीनमुपासीनो युधिष्ठिरः |
अभिप्रेक्ष्य महाबाहुः कृपणं बह्वभाषत ||३१||
अक्षद्यूतेन भगवन्धनं राज्यं च मे हृतम् |
आहूय निकृतिप्रज्ञैः कितवैरक्षकोविदैः ||३२||
अनक्षज्ञस्य हि सतो निकृत्या पापनिश्चयैः |
भार्या च मे सभां नीता प्राणेभ्योऽपि गरीयसी ||३३||
अस्ति राजा मया कश्चिदल्पभाग्यतरो भुवि |
भवता दृष्टपूर्वो वा श्रुतपूर्वोऽपि वा भवेत् ||३४||
न मत्तो दुःखिततरः पुमानस्तीति मे मतिः ||३४||
बृहदश्व उवाच||
यद्ब्रवीषि महाराज न मत्तो विद्यते क्वचित् |
अल्पभाग्यतरः कश्चित्पुमानस्तीति पाण्डव ||३५||
अत्र ते कथयिष्यामि यदि शुश्रूषसेऽनघ |
यस्त्वत्तो दुःखिततरो राजासीत्पृथिवीपते ||३६||
वैशम्पायन उवाच||
अथैनमब्रवीद्राजा ब्रवीतु भगवानिति |
इमामवस्थां सम्प्राप्तं श्रोतुमिच्छामि पार्थिवम् ||३७||
बृहदश्व उवाच||
शृणु राजन्नवहितः सह भ्रातृभिरच्युत |
यस्त्वत्तो दुःखिततरो राजासीत्पृथिवीपते ||३८||
निषधेषु महीपालो वीरसेन इति स्म ह |
तस्य पुत्रोऽभवन्नाम्ना नलो धर्मार्थदर्शिवान् ||३९||
स निकृत्या जितो राजा पुष्करेणेति नः श्रुतम् |
वनवासमदुःखार्हो भार्यया न्यवसत्सह ||४०||
न तस्याश्वो न च रथो न भ्राता न च बान्धवाः |
वने निवसतो राजञ्शिष्यन्ते स्म कदाचन ||४१||
भवान्हि संवृतो वीरैर्भ्रातृभिर्देवसंमितैः |
ब्रह्मकल्पैर्द्विजाग्र्यैश्च तस्मान्नार्हसि शोचितुम् ||४२||
युधिष्ठिर उवाच||
विस्तरेणाहमिच्छामि नलस्य सुमहात्मनः |
चरितं वदतां श्रेष्ठ तन्ममाख्यातुमर्हसि ||४३||
नलोपाख्यानम्
५०
बृहदश्व उवाच||
आसीद्राजा नलो नाम वीरसेनसुतो बली |
उपपन्नो गुणैरिष्टै रूपवानश्वकोविदः ||१||
अतिष्ठन्मनुजेन्द्राणां मूर्ध्नि देवपतिर्यथा |
उपर्युपरि सर्वेषामादित्य इव तेजसा ||२||
ब्रह्मण्यो वेदविच्छूरो निषधेषु महीपतिः |
अक्षप्रियः सत्यवादी महानक्षौहिणीपतिः ||३||
ईप्सितो वरनारीणामुदारः संयतेन्द्रियः |
रक्षिता धन्विनां श्रेष्ठः साक्षादिव मनुः स्वयम् ||४||
तथैवासीद्विदर्भेषु भीमो भीमपराक्रमः |
शूरः सर्वगुणैर्युक्तः प्रजाकामः स चाप्रजः ||५||
स प्रजार्थे परं यत्नमकरोत्सुसमाहितः |
तमभ्यगच्छद्ब्रह्मर्षिर्दमनो नाम भारत ||६||
तं स भीमः प्रजाकामस्तोषयामास धर्मवित् |
महिष्या सह राजेन्द्र सत्कारेण सुवर्चसम् ||७||
तस्मै प्रसन्नो दमनः सभार्याय वरं ददौ |
कन्यारत्नं कुमारांश्च त्रीनुदारान्महायशाः ||८||
दमयन्तीं दमं दान्तं दमनं च सुवर्चसम् |
उपपन्नान्गुणैः सर्वैर्भीमान्भीमपराक्रमान् ||९||
दमयन्ती तु रूपेण तेजसा यशसा श्रिया |
सौभाग्येन च लोकेषु यशः प्राप सुमध्यमा ||१०||
अथ तां वयसि प्राप्ते दासीनां समलङ्कृतम् |
शतं सखीनां च तथा पर्युपास्ते शचीमिव ||११||
तत्र स्म भ्राजते भैमी सर्वाभरणभूषिता |
सखीमध्येऽनवद्याङ्गी विद्युत्सौदामिनी यथा ||१२||
अतीव रूपसम्पन्ना श्रीरिवायतलोचना ||१२||
न देवेषु न यक्षेषु तादृग्रूपवती क्वचित् |
मानुषेष्वपि चान्येषु दृष्टपूर्वा न च श्रुता ||१३||
चित्तप्रमाथिनी बाला देवानामपि सुन्दरी ||१३||
नलश्च नरशार्दूलो रूपेणाप्रतिमो भुवि |
कन्दर्प इव रूपेण मूर्तिमानभवत्स्वयम् ||१४||
तस्याः समीपे तु नलं प्रशशंसुः कुतूहलात् |
नैषधस्य समीपे तु दमयन्तीं पुनः पुनः ||१५||
तयोरदृष्टकामोऽभूच्छृण्वतोः सततं गुणान् |
अन्योन्यं प्रति कौन्तेय स व्यवर्धत हृच्छयः ||१६||
अशक्नुवन्नलः कामं तदा धारयितुं हृदा |
अन्तःपुरसमीपस्थे वन आस्ते रहोगतः ||१७||
स ददर्श तदा हंसाञ्जातरूपपरिच्छदान् |
वने विचरतां तेषामेकं जग्राह पक्षिणम् ||१८||
ततोऽन्तरिक्षगो वाचं व्याजहार तदा नलम् |
न हन्तव्योऽस्मि ते राजन्करिष्यामि हि ते प्रियम् ||१९||
दमयन्तीसकाशे त्वां कथयिष्यामि नैषध |
यथा त्वदन्यं पुरुषं न सा मंस्यति कर्हिचित् ||२०||
एवमुक्तस्ततो हंसमुत्ससर्ज महीपतिः |
ते तु हंसाः समुत्पत्य विदर्भानगमंस्ततः ||२१||
विदर्भनगरीं गत्वा दमयन्त्यास्तदान्तिके |
निपेतुस्ते गरुत्मन्तः सा ददर्शाथ तान्खगान् ||२२||
सा तानद्भुतरूपान्वै दृष्ट्वा सखिगणावृता |
हृष्टा ग्रहीतुं खगमांस्त्वरमाणोपचक्रमे ||२३||
अथ हंसा विससृपुः सर्वतः प्रमदावने |
एकैकशस्ततः कन्यास्तान्हंसान्समुपाद्रवन् ||२४||
दमयन्ती तु यं हंसं समुपाधावदन्तिके |
स मानुषीं गिरं कृत्वा दमयन्तीमथाब्रवीत् ||२५||
दमयन्ति नलो नाम निषधेषु महीपतिः |
अश्विनोः सदृशो रूपे न समास्तस्य मानुषाः ||२६||
तस्य वै यदि भार्या त्वं भवेथा वरवर्णिनि |
सफलं ते भवेज्जन्म रूपं चेदं सुमध्यमे ||२७||
वयं हि देवगन्धर्वमनुष्योरगराक्षसान् |
दृष्टवन्तो न चास्माभिर्दृष्टपूर्वस्तथाविधः ||२८||
त्वं चापि रत्नं नारीणां नरेषु च नलो वरः |
विशिष्टाया विशिष्टेन सङ्गमो गुणवान्भवेत् ||२९||
एवमुक्ता तु हंसेन दमयन्ती विशां पते |
अब्रवीत्तत्र तं हंसं तमप्येवं नलं वद ||३०||
तथेत्युक्त्वाण्डजः कन्यां वैदर्भस्य विशां पते |
पुनरागम्य निषधान्नले सर्वं न्यवेदयत् ||३१||
५१
बृहदश्व उवाच||
दमयन्ती तु तच्छ्रुत्वा वचो हंसस्य भारत |
तदा प्रभृति नस्वस्था नलं प्रति बभूव सा ||१||
ततश्चिन्तापरा दीना विवर्णवदना कृशा |
बभूव दमयन्ती तु निःश्वासपरमा तदा ||२||
ऊर्ध्वदृष्टिर्ध्यानपरा बभूवोन्मत्तदर्शना |
न शय्यासनभोगेषु रतिं विन्दति कर्हिचित् ||३||
न नक्तं न दिवा शेते हा हेति वदती मुहुः |
तामस्वस्थां तदाकारां सख्यस्ता जज्ञुरिङ्गितैः ||४||
ततो विदर्भपतये दमयन्त्याः सखीगणः |
न्यवेदयत नस्वस्थां दमयन्तीं नरेश्वर ||५||
तच्छ्रुत्वा नृपतिर्भीमो दमयन्तीसखीगणात् |
चिन्तयामास तत्कार्यं सुमहत्स्वां सुतां प्रति ||६||
स समीक्ष्य महीपालः स्वां सुतां प्राप्तयौवनाम् |
अपश्यदात्मनः कार्यं दमयन्त्याः स्वयंवरम् ||७||
स संनिपातयामास महीपालान्विशां पते |
अनुभूयतामयं वीराः स्वयंवर इति प्रभो ||८||
श्रुत्वा तु पार्थिवाः सर्वे दमयन्त्याः स्वयंवरम् |
अभिजग्मुस्तदा भीमं राजानो भीमशासनात् ||९||
हस्त्यश्वरथघोषेण नादयन्तो वसुन्धराम् |
विचित्रमाल्याभरणैर्बलैर्दृश्यैः स्वलङ्कृतैः ||१०||
एतस्मिन्नेव काले तु पुराणावृषिसत्तमौ |
अटमानौ महात्मानाविन्द्रलोकमितो गतौ ||११||
नारदः पर्वतश्चैव महात्मानौ महाव्रतौ |
देवराजस्य भवनं विविशाते सुपूजितौ ||१२||
तावर्चित्वा सहस्राक्षस्ततः कुशलमव्ययम् |
पप्रच्छानामयं चापि तयोः सर्वगतं विभुः ||१३||
नारद उवाच||
आवयोः कुशलं देव सर्वत्रगतमीश्वर |
लोके च मघवन्कृत्स्ने नृपाः कुशलिनो विभो ||१४||
बृहदश्व उवाच||
नारदस्य वचः श्रुत्वा पप्रच्छ बलवृत्रहा |
धर्मज्ञाः पृथिवीपालास्त्यक्तजीवितयोधिनः ||१५||
शस्त्रेण निधनं काले ये गच्छन्त्यपराङ्मुखाः |
अयं लोकोऽक्षयस्तेषां यथैव मम कामधुक् ||१६||
क्व नु ते क्षत्रियाः शूरा न हि पश्यामि तानहम् |
आगच्छतो महीपालानतिथीन्दयितान्मम ||१७||
एवमुक्तस्तु शक्रेण नारदः प्रत्यभाषत |
शृणु मे भगवन्येन न दृश्यन्ते महीक्षितः ||१८||
विदर्भराजदुहिता दमयन्तीति विश्रुता |
रूपेण समतिक्रान्ता पृथिव्यां सर्वयोषितः ||१९||
तस्याः स्वयंवरः शक्र भविता नचिरादिव |
तत्र गच्छन्ति राजानो राजपुत्राश्च सर्वशः ||२०||
तां रत्नभूतां लोकस्य प्रार्थयन्तो महीक्षितः |
काङ्क्षन्ति स्म विशेषेण बलवृत्रनिषूदन ||२१||
एतस्मिन्कथ्यमाने तु लोकपालाश्च साग्निकाः |
आजग्मुर्देवराजस्य समीपममरोत्तमाः ||२२||
ततस्तच्छुश्रुवुः सर्वे नारदस्य वचो महत् |
श्रुत्वा चैवाब्रुवन्हृष्टा गच्छामो वयमप्युत ||२३||
ततः सर्वे महाराज सगणाः सहवाहनाः |
विदर्भानभितो जग्मुर्यत्र सर्वे महीक्षितः ||२४||
नलोऽपि राजा कौन्तेय श्रुत्वा राज्ञां समागमम् |
अभ्यगच्छददीनात्मा दमयन्तीमनुव्रतः ||२५||
अथ देवाः पथि नलं ददृशुर्भूतले स्थितम् |
साक्षादिव स्थितं मूर्त्या मन्मथं रूपसम्पदा ||२६||
तं दृष्ट्वा लोकपालास्ते भ्राजमानं यथा रविम् |
तस्थुर्विगतसङ्कल्पा विस्मिता रूपसम्पदा ||२७||
ततोऽन्तरिक्षे विष्टभ्य विमानानि दिवौकसः |
अब्रुवन्नैषधं राजन्नवतीर्य नभस्तलात् ||२८||
भो भो नैषध राजेन्द्र नल सत्यव्रतो भवान् |
अस्माकं कुरु साहाय्यं दूतो भव नरोत्तम ||२९||
५२
बृहदश्व उवाच||
तेभ्यः प्रतिज्ञाय नलः करिष्य इति भारत |
अथैनान्परिपप्रच्छ कृताञ्जलिरवस्थितः ||१||
के वै भवन्तः कश्चासौ यस्याहं दूत ईप्सितः |
किं च तत्र मया कार्यं कथयध्वं यथातथम् ||२||
एवमुक्ते नैषधेन मघवान्प्रत्यभाषत |
अमरान्वै निबोधास्मान्दमयन्त्यर्थमागतान् ||३||
अहमिन्द्रोऽयमग्निश्च तथैवायमपाम्पतिः |
शरीरान्तकरो नॄणां यमोऽयमपि पार्थिव ||४||
स वै त्वमागतानस्मान्दमयन्त्यै निवेदय |
लोकपालाः सहेन्द्रास्त्वां समायान्ति दिदृक्षवः ||५||
प्राप्तुमिच्छन्ति देवास्त्वां शक्रोऽग्निर्वरुणो यमः |
तेषामन्यतमं देवं पतित्वे वरयस्व ह ||६||
एवमुक्तः स शक्रेण नलः प्राञ्जलिरब्रवीत् |
एकार्थसमवेतं मां न प्रेषयितुमर्हथ ||७||
देवा ऊचुः||
करिष्य इति संश्रुत्य पूर्वमस्मासु नैषध |
न करिष्यसि कस्मात्त्वं व्रज नैषध माचिरम् ||८||
बृहदश्व उवाच||
एवमुक्तः स देवैस्तैर्नैषधः पुनरब्रवीत् |
सुरक्षितानि वेश्मानि प्रवेष्टुं कथमुत्सहे ||९||
प्रवेक्ष्यसीति तं शक्रः पुनरेवाभ्यभाषत |
जगाम स तथेत्युक्त्वा दमयन्त्या निवेशनम् ||१०||
ददर्श तत्र वैदर्भीं सखीगणसमावृताम् |
देदीप्यमानां वपुषा श्रिया च वरवर्णिनीम् ||११||
अतीव सुकुमाराङ्गीं तनुमध्यां सुलोचनाम् |
आक्षिपन्तीमिव च भाः शशिनः स्वेन तेजसा ||१२||
तस्य दृष्ट्वैव ववृधे कामस्तां चारुहासिनीम् |
सत्यं चिकीर्षमाणस्तु धारयामास हृच्छयम् ||१३||
ततस्ता नैषधं दृष्ट्वा सम्भ्रान्ताः परमाङ्गनाः |
आसनेभ्यः समुत्पेतुस्तेजसा तस्य धर्षिताः ||१४||
प्रशशंसुश्च सुप्रीता नलं ता विस्मयान्विताः |
न चैनमभ्यभाषन्त मनोभिस्त्वभ्यचिन्तयन् ||१५||
अहो रूपमहो कान्तिरहो धैर्यं महात्मनः |
कोऽयं देवो नु यक्षो नु गन्धर्वो नु भविष्यति ||१६||
न त्वेनं शक्नुवन्ति स्म व्याहर्तुमपि किञ्चन |
तेजसा धर्षिताः सर्वा लज्जावत्यो वराङ्गनाः ||१७||
अथैनं स्मयमानेव स्मितपूर्वाभिभाषिणी |
दमयन्ती नलं वीरमभ्यभाषत विस्मिता ||१८||
कस्त्वं सर्वानवद्याङ्ग मम हृच्छयवर्धन |
प्राप्तोऽस्यमरवद्वीर ज्ञातुमिच्छामि तेऽनघ ||१९||
कथमागमनं चेह कथं चासि न लक्षितः |
सुरक्षितं हि मे वेश्म राजा चैवोग्रशासनः ||२०||
एवमुक्तस्तु वैदर्भ्या नलस्तां प्रत्युवाच ह |
नलं मां विद्धि कल्याणि देवदूतमिहागतम् ||२१||
देवास्त्वां प्राप्तुमिच्छन्ति शक्रोऽग्निर्वरुणो यमः |
तेषामन्यतमं देवं पतिं वरय शोभने ||२२||
तेषामेव प्रभावेन प्रविष्टोऽहमलक्षितः |
प्रविशन्तं हि मां कश्चिन्नापश्यन्नाप्यवारयत् ||२३||
एतदर्थमहं भद्रे प्रेषितः सुरसत्तमैः |
एतच्छ्रुत्वा शुभे बुद्धिं प्रकुरुष्व यथेच्छसि ||२४||
५३
बृहदश्व उवाच||
सा नमस्कृत्य देवेभ्यः प्रहस्य नलमब्रवीत् |
प्रणयस्व यथाश्रद्धं राजन्किं करवाणि ते ||१||
अहं चैव हि यच्चान्यन्ममास्ति वसु किञ्चन |
सर्वं तत्तव विश्रब्धं कुरु प्रणयमीश्वर ||२||
हंसानां वचनं यत्तत्तन्मां दहति पार्थिव |
त्वत्कृते हि मया वीर राजानः संनिपातिताः ||३||
यदि चेद्भजमानां मां प्रत्याख्यास्यसि मानद |
विषमग्निं जलं रज्जुमास्थास्ये तव कारणात् ||४||
एवमुक्तस्तु वैदर्भ्या नलस्तां प्रत्युवाच ह |
तिष्ठत्सु लोकपालेषु कथं मानुषमिच्छसि ||५||
येषामहं लोककृतामीश्वराणां महात्मनाम् |
न पादरजसा तुल्यो मनस्ते तेषु वर्तताम् ||६||
विप्रियं ह्याचरन्मर्त्यो देवानां मृत्युमृच्छति |
त्राहि मामनवद्याङ्गि वरयस्व सुरोत्तमान् ||७||
ततो बाष्पकलां वाचं दमयन्ती शुचिस्मिता |
प्रव्याहरन्ती शनकैर्नलं राजानमब्रवीत् ||८||
अस्त्युपायो मया दृष्टो निरपायो नरेश्वर |
येन दोषो न भविता तव राजन्कथञ्चन ||९||
त्वं चैव हि नरश्रेष्ठ देवाश्चाग्निपुरोगमाः |
आयान्तु सहिताः सर्वे मम यत्र स्वयंवरः ||१०||
ततोऽहं लोकपालानां संनिधौ त्वां नरेश्वर |
वरयिष्ये नरव्याघ्र नैवं दोषो भविष्यति ||११||
एवमुक्तस्तु वैदर्भ्या नलो राजा विशां पते |
आजगाम पुनस्तत्र यत्र देवाः समागताः ||१२||
तमपश्यंस्तथायान्तं लोकपालाः सहेश्वराः |
दृष्ट्वा चैनं ततोऽपृच्छन्वृत्तान्तं सर्वमेव तत् ||१३||
देवा ऊचुः||
कच्चिद्दृष्टा त्वया राजन्दमयन्ती शुचिस्मिता |
किमब्रवीच्च नः सर्वान्वद भूमिपतेऽनघ ||१४||
नल उवाच||
भवद्भिरहमादिष्टो दमयन्त्या निवेशनम् |
प्रविष्टः सुमहाकक्ष्यं दण्डिभिः स्थविरैर्वृतम् ||१५||
प्रविशन्तं च मां तत्र न कश्चिद्दृष्टवान्नरः |
ऋते तां पार्थिवसुतां भवतामेव तेजसा ||१६||
सख्यश्चास्या मया दृष्टास्ताभिश्चाप्युपलक्षितः |
विस्मिताश्चाभवन्दृष्ट्वा सर्वा मां विबुधेश्वराः ||१७||
वर्ण्यमानेषु च मया भवत्सु रुचिरानना |
मामेव गतसङ्कल्पा वृणीते सुरसत्तमाः ||१८||
अब्रवीच्चैव मां बाला आयान्तु सहिताः सुराः |
त्वया सह नरश्रेष्ठ मम यत्र स्वयंवरः ||१९||
तेषामहं संनिधौ त्वां वरयिष्ये नरोत्तम |
एवं तव महाबाहो दोषो न भवितेति ह ||२०||
एतावदेव विबुधा यथावृत्तमुदाहृतम् |
मयाशेषं प्रमाणं तु भवन्तस्त्रिदशेश्वराः ||२१||
५४
बृहदश्व उवाच||
अथ काले शुभे प्राप्ते तिथौ पुण्ये क्षणे तथा |
आजुहाव महीपालान्भीमो राजा स्वयंवरे ||१||
तच्छ्रुत्वा पृथिवीपालाः सर्वे हृच्छयपीडिताः |
त्वरिताः समुपाजग्मुर्दमयन्तीमभीप्सवः ||२||
कनकस्तम्भरुचिरं तोरणेन विराजितम् |
विविशुस्ते महारङ्गं नृपाः सिंहा इवाचलम् ||३||
तत्रासनेषु विविधेष्वासीनाः पृथिवीक्षितः |
सुरभिस्रग्धराः सर्वे सुमृष्टमणिकुण्डलाः ||४||
तां राजसमितिं पूर्णां नागैर्भोगवतीमिव |
सम्पूर्णां पुरुषव्याघ्रैर्व्याघ्रैर्गिरिगुहामिव ||५||
तत्र स्म पीना दृश्यन्ते बाहवः परिघोपमाः |
आकारवन्तः सुश्लक्ष्णाः पञ्चशीर्षा इवोरगाः ||६||
सुकेशान्तानि चारूणि सुनासानि शुभानि च |
मुखानि राज्ञां शोभन्ते नक्षत्राणि यथा दिवि ||७||
दमयन्ती ततो रङ्गं प्रविवेश शुभानना |
मुष्णन्ती प्रभया राज्ञां चक्षूंषि च मनांसि च ||८||
तस्या गात्रेषु पतिता तेषां दृष्टिर्महात्मनाम् |
तत्र तत्रैव सक्ताभून्न चचाल च पश्यताम् ||९||
ततः सङ्कीर्त्यमानेषु राज्ञां नामसु भारत |
ददर्श भैमी पुरुषान्पञ्च तुल्याकृतीनिव ||१०||
तान्समीक्ष्य ततः सर्वान्निर्विशेषाकृतीन्स्थितान् |
संदेहादथ वैदर्भी नाभ्यजानान्नलं नृपम् ||११||
यं यं हि ददृशे तेषां तं तं मेने नलं नृपम् ||११||
सा चिन्तयन्ती बुद्ध्याथ तर्कयामास भामिनी |
कथं नु देवाञ्जानीयां कथं विद्यां नलं नृपम् ||१२||
एवं सञ्चिन्तयन्ती सा वैदर्भी भृशदुःखिता |
श्रुतानि देवलिङ्गानि चिन्तयामास भारत ||१३||
देवानां यानि लिङ्गानि स्थविरेभ्यः श्रुतानि मे |
तानीह तिष्ठतां भूमावेकस्यापि न लक्षये ||१४||
सा विनिश्चित्य बहुधा विचार्य च पुनः पुनः |
शरणं प्रति देवानां प्राप्तकालममन्यत ||१५||
वाचा च मनसा चैव नमस्कारं प्रयुज्य सा |
देवेभ्यः प्राञ्जलिर्भूत्वा वेपमानेदमब्रवीत् ||१६||
हंसानां वचनं श्रुत्वा यथा मे नैषधो वृतः |
पतित्वे तेन सत्येन देवास्तं प्रदिशन्तु मे ||१७||
वाचा च मनसा चैव यथा नाभिचराम्यहम् |
तेन सत्येन विबुधास्तमेव प्रदिशन्तु मे ||१८||
यथा देवैः स मे भर्ता विहितो निषधाधिपः |
तेन सत्येन मे देवास्तमेव प्रदिशन्तु मे ||१९||
स्वं चैव रूपं पुष्यन्तु लोकपालाः सहेश्वराः |
यथाहमभिजानीयां पुण्यश्लोकं नराधिपम् ||२०||
निशम्य दमयन्त्यास्तत्करुणं परिदेवितम् |
निश्चयं परमं तथ्यमनुरागं च नैषधे ||२१||
मनोविशुद्धिं बुद्धिं च भक्तिं रागं च भारत |
यथोक्तं चक्रिरे देवाः सामर्थ्यं लिङ्गधारणे ||२२||
सापश्यद्विबुधान्सर्वानस्वेदान्स्तब्धलोचनान् |
हृषितस्रग्रजोहीनान्स्थितानस्पृशतः क्षितिम् ||२३||
छायाद्वितीयो म्लानस्रग्रजःस्वेदसमन्वितः |
भूमिष्ठो नैषधश्चैव निमेषेण च सूचितः ||२४||
सा समीक्ष्य ततो देवान्पुण्यश्लोकं च भारत |
नैषधं वरयामास भैमी धर्मेण भारत ||२५||
विलज्जमाना वस्त्रान्ते जग्राहायतलोचना |
स्कन्धदेशेऽसृजच्चास्य स्रजं परमशोभनाम् ||२६||
वरयामास चैवैनं पतित्वे वरवर्णिनी ||२६||
ततो हा हेति सहसा शब्दो मुक्तो नराधिपैः |
देवैर्महर्षिभिश्चैव साधु साध्विति भारत ||२७||
विस्मितैरीरितः शब्दः प्रशंसद्भिर्नलं नृपम् ||२७||
वृते तु नैषधे भैम्या लोकपाला महौजसः |
प्रहृष्टमनसः सर्वे नलायाष्टौ वरान्ददुः ||२८||
प्रत्यक्षदर्शनं यज्ञे गतिं चानुत्तमां शुभाम् |
नैषधाय ददौ शक्रः प्रीयमाणः शचीपतिः ||२९||
अग्निरात्मभवं प्रादाद्यत्र वाञ्छति नैषधः |
लोकानात्मप्रभांश्चैव ददौ तस्मै हुताशनः ||३०||
यमस्त्वन्नरसं प्रादाद्धर्मे च परमां स्थितिम् |
अपाम्पतिरपां भावं यत्र वाञ्छति नैषधः ||३१||
स्रजं चोत्तमगन्धाढ्यां सर्वे च मिथुनं ददुः |
वरानेवं प्रदायास्य देवास्ते त्रिदिवं गताः ||३२||
पार्थिवाश्चानुभूयास्या विवाहं विस्मयान्विताः |
दमयन्त्याः प्रमुदिताः प्रतिजग्मुर्यथागतम् ||३३||
अवाप्य नारीरत्नं तत्पुण्यश्लोकोऽपि पार्थिवः |
रेमे सह तया राजा शच्येव बलवृत्रहा ||३४||
अतीव मुदितो राजा भ्राजमानोंऽशुमानिव |
अरञ्जयत्प्रजा वीरो धर्मेण परिपालयन् ||३५||
ईजे चाप्यश्वमेधेन ययातिरिव नाहुषः |
अन्यैश्च क्रतुभिर्धीमान्बहुभिश्चाप्तदक्षिणैः ||३६||
पुनश्च रमणीयेषु वनेषूपवनेषु च |
दमयन्त्या सह नलो विजहारामरोपमः ||३७||
एवं स यजमानश्च विहरंश्च नराधिपः |
ररक्ष वसुसम्पूर्णां वसुधां वसुधाधिपः ||३८||
५५
बृहदश्व उवाच||
वृते तु नैषधे भैम्या लोकपाला महौजसः |
यान्तो ददृशुरायान्तं द्वापरं कलिना सह ||१||
अथाब्रवीत्कलिं शक्रः सम्प्रेक्ष्य बलवृत्रहा |
द्वापरेण सहायेन कले ब्रूहि क्व यास्यसि ||२||
ततोऽब्रवीत्कलिः शक्रं दमयन्त्याः स्वयंवरम् |
गत्वाहं वरयिष्ये तां मनो हि मम तद्गतम् ||३||
तमब्रवीत्प्रहस्येन्द्रो निर्वृत्तः स स्वयंवरः |
वृतस्तया नलो राजा पतिरस्मत्समीपतः ||४||
एवमुक्तस्तु शक्रेण कलिः कोपसमन्वितः |
देवानामन्त्र्य तान्सर्वानुवाचेदं वचस्तदा ||५||
देवानां मानुषं मध्ये यत्सा पतिमविन्दत |
ननु तस्या भवेन्न्याय्यं विपुलं दण्डधारणम् ||६||
एवमुक्ते तु कलिना प्रत्यूचुस्ते दिवौकसः |
अस्माभिः समनुज्ञातो दमयन्त्या नलो वृतः ||७||
कश्च सर्वगुणोपेतं नाश्रयेत नलं नृपम् |
यो वेद धर्मानखिलान्यथावच्चरितव्रतः ||८||
यस्मिन्सत्यं धृतिर्दानं तपः शौचं दमः शमः |
ध्रुवाणि पुरुषव्याघ्रे लोकपालसमे नृपे ||९||
आत्मानं स शपेन्मूढो हन्याच्चात्मानमात्मना |
एवङ्गुणं नलं यो वै कामयेच्छपितुं कले ||१०||
कृच्छ्रे स नरके मज्जेदगाधे विपुलेऽप्लवे |
एवमुक्त्वा कलिं देवा द्वापरं च दिवं ययुः ||११||
ततो गतेषु देवेषु कलिर्द्वापरमब्रवीत् |
संहर्तुं नोत्सहे कोपं नले वत्स्यामि द्वापर ||१२||
भ्रंशयिष्यामि तं राज्यान्न भैम्या सह रंस्यते |
त्वमप्यक्षान्समाविश्य कर्तुं साहाय्यमर्हसि ||१३||
५६
बृहदश्व उवाच||
एवं स समयं कृत्वा द्वापरेण कलिः सह |
आजगाम ततस्तत्र यत्र राजा स नैषधः ||१||
स नित्यमन्तरप्रेक्षी निषधेष्ववसच्चिरम् |
अथास्य द्वादशे वर्षे ददर्श कलिरन्तरम् ||२||
कृत्वा मूत्रमुपस्पृश्य सन्ध्यामास्ते स्म नैषधः |
अकृत्वा पादयोः शौचं तत्रैनं कलिराविशत् ||३||
स समाविश्य तु नलं समीपं पुष्करस्य ह |
गत्वा पुष्करमाहेदमेहि दीव्य नलेन वै ||४||
अक्षद्यूते नलं जेता भवान्हि सहितो मया |
निषधान्प्रतिपद्यस्व जित्वा राजन्नलं नृपम् ||५||
एवमुक्तस्तु कलिना पुष्करो नलमभ्ययात् |
कलिश्चैव वृषो भूत्वा गवां पुष्करमभ्ययात् ||६||
आसाद्य तु नलं वीरं पुष्करः परवीरहा |
दीव्यावेत्यब्रवीद्भ्राता वृषेणेति मुहुर्मुहुः ||७||
न चक्षमे ततो राजा समाह्वानं महामनाः |
वैदर्भ्याः प्रेक्षमाणायाः पणकालममन्यत ||८||
हिरण्यस्य सुवर्णस्य यानयुग्यस्य वाससाम् |
आविष्टः कलिना द्यूते जीयते स्म नलस्तदा ||९||
तमक्षमदसंमत्तं सुहृदां न तु कश्चन |
निवारणेऽभवच्छक्तो दीव्यमानमचेतसम् ||१०||
ततः पौरजनः सर्वो मन्त्रिभिः सह भारत |
राजानं द्रष्टुमागच्छन्निवारयितुमातुरम् ||११||
ततः सूत उपागम्य दमयन्त्यै न्यवेदयत् |
एष पौरजनः सर्वो द्वारि तिष्ठति कार्यवान् ||१२||
निवेद्यतां नैषधाय सर्वाः प्रकृतयः स्थिताः |
अमृष्यमाणा व्यसनं राज्ञो धर्मार्थदर्शिनः ||१३||
ततः सा बाष्पकलया वाचा दुःखेन कर्शिता |
उवाच नैषधं भैमी शोकोपहतचेतना ||१४||
राजन्पौरजनो द्वारि त्वां दिदृक्षुरवस्थितः |
मन्त्रिभिः सहितः सर्वै राजभक्तिपुरस्कृतः ||१५||
तं द्रष्टुमर्हसीत्येवं पुनः पुनरभाषत ||१५||
तां तथा रुचिरापाङ्गीं विलपन्तीं सुमध्यमाम् |
आविष्टः कलिना राजा नाभ्यभाषत किञ्चन ||१६||
ततस्ते मन्त्रिणः सर्वे ते चैव पुरवासिनः |
नायमस्तीति दुःखार्ता व्रीडिता जग्मुरालयान् ||१७||
तथा तदभवद्द्यूतं पुष्करस्य नलस्य च |
युधिष्ठिर बहून्मासान्पुण्यश्लोकस्त्वजीयत ||१८||
५७
बृहदश्व उवाच||
दमयन्ती ततो दृष्ट्वा पुण्यश्लोकं नराधिपम् |
उन्मत्तवदनुन्मत्ता देवने गतचेतसम् ||१||
भयशोकसमाविष्टा राजन्भीमसुता ततः |
चिन्तयामास तत्कार्यं सुमहत्पार्थिवं प्रति ||२||
सा शङ्कमाना तत्पापं चिकीर्षन्ती च तत्प्रियम् |
नलं च हृतसर्वस्वमुपलभ्येदमब्रवीत् ||३||
बृहत्सेने व्रजामात्यानानाय्य नलशासनात् |
आचक्ष्व यद्धृतं द्रव्यमवशिष्टं च यद्वसु ||४||
ततस्ते मन्त्रिणः सर्वे विज्ञाय नलशासनम् |
अपि नो भागधेयं स्यादित्युक्त्वा पुनराव्रजन् ||५||
तास्तु सर्वाः प्रकृतयो द्वितीयं समुपस्थिताः |
न्यवेदयद्भीमसुता न च तत्प्रत्यनन्दत ||६||
वाक्यमप्रतिनन्दन्तं भर्तारमभिवीक्ष्य सा |
दमयन्ती पुनर्वेश्म व्रीडिता प्रविवेश ह ||७||
निशम्य सततं चाक्षान्पुण्यश्लोकपराङ्मुखान् |
नलं च हृतसर्वस्वं धात्रीं पुनरुवाच ह ||८||
बृहत्सेने पुनर्गच्छ वार्ष्णेयं नलशासनात् |
सूतमानय कल्याणि महत्कार्यमुपस्थितम् ||९||
बृहत्सेना तु तच्छ्रुत्वा दमयन्त्याः प्रभाषितम् |
वार्ष्णेयमानयामास पुरुषैराप्तकारिभिः ||१०||
वार्ष्णेयं तु ततो भैमी सान्त्वयञ्श्लक्ष्णया गिरा |
उवाच देशकालज्ञा प्राप्तकालमनिन्दिता ||११||
जानीषे त्वं यथा राजा सम्यग्वृत्तः सदा त्वयि |
तस्य त्वं विषमस्थस्य साहाय्यं कर्तुमर्हसि ||१२||
यथा यथा हि नृपतिः पुष्करेणेह जीयते |
तथा तथास्य द्यूते वै रागो भूयोऽभिवर्धते ||१३||
यथा च पुष्करस्याक्षा वर्तन्ते वशवर्तिनः |
तथा विपर्ययश्चापि नलस्याक्षेषु दृश्यते ||१४||
सुहृत्स्वजनवाक्यानि यथावन्न शृणोति च |
नूनं मन्ये न शेषोऽस्ति नैषधस्य महात्मनः ||१५||
यत्र मे वचनं राजा नाभिनन्दति मोहितः |
शरणं त्वां प्रपन्नास्मि सारथे कुरु मद्वचः ||१६||
न हि मे शुध्यते भावः कदाचिद्विनशेदिति ||१६||
नलस्य दयितानश्वान्योजयित्वा महाजवान् |
इदमारोप्य मिथुनं कुण्डिनं यातुमर्हसि ||१७||
मम ज्ञातिषु निक्षिप्य दारकौ स्यन्दनं तथा |
अश्वांश्चैतान्यथाकामं वस वान्यत्र गच्छ वा ||१८||
दमयन्त्यास्तु तद्वाक्यं वार्ष्णेयो नलसारथिः |
न्यवेदयदशेषेण नलामात्येषु मुख्यशः ||१९||
तैः समेत्य विनिश्चित्य सोऽनुज्ञातो महीपते |
ययौ मिथुनमारोप्य विदर्भांस्तेन वाहिना ||२०||
हयांस्तत्र विनिक्षिप्य सूतो रथवरं च तम् |
इन्द्रसेनां च तां कन्यामिन्द्रसेनं च बालकम् ||२१||
आमन्त्र्य भीमं राजानमार्तः शोचन्नलं नृपम् |
अटमानस्ततोऽयोध्यां जगाम नगरीं तदा ||२२||
ऋतुपर्णं स राजानमुपतस्थे सुदुःखितः |
भृतिं चोपययौ तस्य सारथ्येन महीपते ||२३||
५८
बृहदश्व उवाच||
ततस्तु याते वार्ष्णेये पुण्यश्लोकस्य दीव्यतः |
पुष्करेण हृतं राज्यं यच्चान्यद्वसु किञ्चन ||१||
हृतराज्यं नलं राजन्प्रहसन्पुष्करोऽब्रवीत् |
द्यूतं प्रवर्ततां भूयः प्रतिपाणोऽस्ति कस्तव ||२||
शिष्टा ते दमयन्त्येका सर्वमन्यद्धृतं मया |
दमयन्त्याः पणः साधु वर्ततां यदि मन्यसे ||३||
पुष्करेणैवमुक्तस्य पुण्यश्लोकस्य मन्युना |
व्यदीर्यतेव हृदयं न चैनं किञ्चिदब्रवीत् ||४||
ततः पुष्करमालोक्य नलः परममन्युमान् |
उत्सृज्य सर्वगात्रेभ्यो भूषणानि महायशाः ||५||
एकवासा असंवीतः सुहृच्छोकविवर्धनः |
निश्चक्राम तदा राजा त्यक्त्वा सुविपुलां श्रियम् ||६||
दमयन्त्येकवस्त्रा तं गच्छन्तं पृष्ठतोऽन्वियात् |
स तया बाह्यतः सार्धं त्रिरात्रं नैषधोऽवसत् ||७||
पुष्करस्तु महाराज घोषयामास वै पुरे |
नले यः सम्यगातिष्ठेत्स गच्छेद्वध्यतां मम ||८||
पुष्करस्य तु वाक्येन तस्य विद्वेषणेन च |
पौरा न तस्मिन्सत्कारं कृतवन्तो युधिष्ठिर ||९||
स तथा नगराभ्याशे सत्कारार्हो न सत्कृतः |
त्रिरात्रमुषितो राजा जलमात्रेण वर्तयन् ||१०||
क्षुधा सम्पीड्यमानस्तु नलो बहुतिथेऽहनि |
अपश्यच्छकुनान्कांश्चिद्धिरण्यसदृशच्छदान् ||११||
स चिन्तयामास तदा निषधाधिपतिर्बली |
अस्ति भक्षो ममाद्यायं वसु चेदं भविष्यति ||१२||
ततस्तानन्तरीयेण वाससा समवास्तृणोत् |
तस्यान्तरीयमादाय जग्मुः सर्वे विहायसा ||१३||
उत्पतन्तः खगास्ते तु वाक्यमाहुस्तदा नलम् |
दृष्ट्वा दिग्वाससं भूमौ स्थितं दीनमधोमुखम् ||१४||
वयमक्षाः सुदुर्बुद्धे तव वासो जिहीर्षवः |
आगता न हि नः प्रीतिः सवाससि गते त्वयि ||१५||
तान्समीक्ष्य गतानक्षानात्मानं च विवाससम् |
पुण्यश्लोकस्ततो राजा दमयन्तीमथाब्रवीत् ||१६||
येषां प्रकोपादैश्वर्यात्प्रच्युतोऽहमनिन्दिते |
प्राणयात्रां न विन्दे च दुःखितः क्षुधयार्दितः ||१७||
येषां कृते न सत्कारमकुर्वन्मयि नैषधाः |
त इमे शकुना भूत्वा वासोऽप्यपहरन्ति मे ||१८||
वैषम्यं परमं प्राप्तो दुःखितो गतचेतनः |
भर्ता तेऽहं निबोधेदं वचनं हितमात्मनः ||१९||
एते गच्छन्ति बहवः पन्थानो दक्षिणापथम् |
अवन्तीमृक्षवन्तं च समतिक्रम्य पर्वतम् ||२०||
एष विन्ध्यो महाशैलः पयोष्णी च समुद्रगा |
आश्रमाश्च महर्षीणाममी पुष्पफलान्विताः ||२१||
एष पन्था विदर्भाणामयं गच्छति कोसलान् |
अतः परं च देशोऽयं दक्षिणे दक्षिणापथः ||२२||
ततः सा बाष्पकलया वाचा दुःखेन कर्शिता |
उवाच दमयन्ती तं नैषधं करुणं वचः ||२३||
उद्वेपते मे हृदयं सीदन्त्यङ्गानि सर्वशः |
तव पार्थिव सङ्कल्पं चिन्तयन्त्याः पुनः पुनः ||२४||
हृतराज्यं हृतधनं विवस्त्रं क्षुच्छ्रमान्वितम् |
कथमुत्सृज्य गच्छेयमहं त्वां विजने वने ||२५||
श्रान्तस्य ते क्षुधार्तस्य चिन्तयानस्य तत्सुखम् |
वने घोरे महाराज नाशयिष्यामि ते क्लमम् ||२६||
न च भार्यासमं किञ्चिद्विद्यते भिषजां मतम् |
औषधं सर्वदुःखेषु सत्यमेतद्ब्रवीमि ते ||२७||
नल उवाच||
एवमेतद्यथात्थ त्वं दमयन्ति सुमध्यमे |
नास्ति भार्यासमं मित्रं नरस्यार्तस्य भेषजम् ||२८||
न चाहं त्यक्तुकामस्त्वां किमर्थं भीरु शङ्कसे |
त्यजेयमहमात्मानं न त्वेव त्वामनिन्दिते ||२९||
दमयन्त्युवाच||
यदि मां त्वं महाराज न विहातुमिहेच्छसि |
तत्किमर्थं विदर्भाणां पन्थाः समुपदिश्यते ||३०||
अवैमि चाहं नृपते न त्वं मां त्यक्तुमर्हसि |
चेतसा त्वपकृष्टेन मां त्यजेथा महापते ||३१||
पन्थानं हि ममाभीक्ष्णमाख्यासि नरसत्तम |
अतोनिमित्तं शोकं मे वर्धयस्यमरप्रभ ||३२||
यदि चायमभिप्रायस्तव राजन्व्रजेदिति |
सहितावेव गच्छावो विदर्भान्यदि मन्यसे ||३३||
विदर्भराजस्तत्र त्वां पूजयिष्यति मानद |
तेन त्वं पूजितो राजन्सुखं वत्स्यसि नो गृहे ||३४||
५९
नल उवाच||
यथा राज्यं पितुस्ते तत्तथा मम न संशयः |
न तु तत्र गमिष्यामि विषमस्थः कथञ्चन ||१||
कथं समृद्धो गत्वाहं तव हर्षविवर्धनः |
परिद्यूनो गमिष्यामि तव शोकविवर्धनः ||२||
बृहदश्व उवाच||
इति ब्रुवन्नलो राजा दमयन्तीं पुनः पुनः |
सान्त्वयामास कल्याणीं वाससोऽर्धेन संवृताम् ||३||
तावेकवस्त्रसंवीतावटमानावितस्ततः |
क्षुत्पिपासापरिश्रान्तौ सभां काञ्चिदुपेयतुः ||४||
तां सभामुपसम्प्राप्य तदा स निषधाधिपः |
वैदर्भ्या सहितो राजा निषसाद महीतले ||५||
स वै विवस्त्रो मलिनो विकचः पांसुगुण्ठितः |
दमयन्त्या सह श्रान्तः सुष्वाप धरणीतले ||६||
दमयन्त्यपि कल्याणी निद्रयापहृता ततः |
सहसा दुःखमासाद्य सुकुमारी तपस्विनी ||७||
सुप्तायां दमयन्त्यां तु नलो राजा विशां पते |
शोकोन्मथितचित्तात्मा न स्म शेते यथा पुरा ||८||
स तद्राज्यापहरणं सुहृत्त्यागं च सर्वशः |
वने च तं परिध्वंसं प्रेक्ष्य चिन्तामुपेयिवान् ||९||
किं नु मे स्यादिदं कृत्वा किं नु मे स्यादकुर्वतः |
किं नु मे मरणं श्रेयः परित्यागो जनस्य वा ||१०||
मामियं ह्यनुरक्तेदं दुःखमाप्नोति मत्कृते |
मद्विहीना त्वियं गच्छेत्कदाचित्स्वजनं प्रति ||११||
मया निःसंशयं दुःखमियं प्राप्स्यत्यनुत्तमा |
उत्सर्गे संशयः स्यात्तु विन्देतापि सुखं क्वचित् ||१२||
स विनिश्चित्य बहुधा विचार्य च पुनः पुनः |
उत्सर्गेऽमन्यत श्रेयो दमयन्त्या नराधिपः ||१३||
सोऽवस्त्रतामात्मनश्च तस्याश्चाप्येकवस्त्रताम् |
चिन्तयित्वाध्यगाद्राजा वस्त्रार्धस्यावकर्तनम् ||१४||
कथं वासो विकर्तेयं न च बुध्येत मे प्रिया |
चिन्त्यैवं नैषधो राजा सभां पर्यचरत्तदा ||१५||
परिधावन्नथ नल इतश्चेतश्च भारत |
आससाद सभोद्देशे विकोशं खड्गमुत्तमम् ||१६||
तेनार्धं वाससश्छित्त्वा निवस्य च परन्तपः |
सुप्तामुत्सृज्य वैदर्भीं प्राद्रवद्गतचेतनः ||१७||
ततो निबद्धहृदयः पुनरागम्य तां सभाम् |
दमयन्तीं तथा दृष्ट्वा रुरोद निषधाधिपः ||१८||
यां न वायुर्न चादित्यः पुरा पश्यति मे प्रियाम् |
सेयमद्य सभामध्ये शेते भूमावनाथवत् ||१९||
इयं वस्त्रावकर्तेन संवीता चारुहासिनी |
उन्मत्तेव वरारोहा कथं बुद्ध्वा भविष्यति ||२०||
कथमेका सती भैमी मया विरहिता शुभा |
चरिष्यति वने घोरे मृगव्यालनिषेविते ||२१||
गत्वा गत्वा नलो राजा पुनरेति सभां मुहुः |
आकृष्यमाणः कलिना सौहृदेनापकृष्यते ||२२||
द्विधेव हृदयं तस्य दुःखितस्याभवत्तदा |
दोलेव मुहुरायाति याति चैव सभां मुहुः ||२३||
सोऽपकृष्टस्तु कलिना मोहितः प्राद्रवन्नलः |
सुप्तामुत्सृज्य तां भार्यां विलप्य करुणं बहु ||२४||
नष्टात्मा कलिना स्पृष्टस्तत्तद्विगणयन्नृपः |
जगामैव वने शून्ये भार्यामुत्सृज्य दुःखितः ||२५||
६०
बृहदश्व उवाच||
अपक्रान्ते नले राजन्दमयन्ती गतक्लमा |
अबुध्यत वरारोहा सन्त्रस्ता विजने वने ||१||
सापश्यमाना भर्तारं दुःखशोकसमन्विता |
प्राक्रोशदुच्चैः सन्त्रस्ता महाराजेति नैषधम् ||२||
हा नाथ हा महाराज हा स्वामिन्किं जहासि माम् |
हा हतास्मि विनष्टास्मि भीतास्मि विजने वने ||३||
ननु नाम महाराज धर्मज्ञः सत्यवागसि |
कथमुक्त्वा तथासत्यं सुप्तामुत्सृज्य मां गतः ||४||
कथमुत्सृज्य गन्तासि वश्यां भार्यामनुव्रताम् |
विशेषतोऽनपकृते परेणापकृते सति ||५||
शक्ष्यसे ता गिरः सत्याः कर्तुं मयि नरेश्वर |
यास्त्वया लोकपालानां संनिधौ कथिताः पुरा ||६||
पर्याप्तः परिहासोऽयमेतावान्पुरुषर्षभ |
भीताहमस्मि दुर्धर्ष दर्शयात्मानमीश्वर ||७||
दृश्यसे दृश्यसे राजन्नेष तिष्ठसि नैषध |
आवार्य गुल्मैरात्मानं किं मां न प्रतिभाषसे ||८||
नृशंसं बत राजेन्द्र यन्मामेवङ्गतामिह |
विलपन्तीं समालिङ्ग्य नाश्वासयसि पार्थिव ||९||
न शोचाम्यहमात्मानं न चान्यदपि किञ्चन |
कथं नु भवितास्येक इति त्वां नृप शोचिमि ||१०||
कथं नु राजंस्तृषितः क्षुधितः श्रमकर्शितः |
सायाह्ने वृक्षमूलेषु मामपश्यन्भविष्यसि ||११||
ततः सा तीव्रशोकार्ता प्रदीप्तेव च मन्युना |
इतश्चेतश्च रुदती पर्यधावत दुःखिता ||१२||
मुहुरुत्पतते बाला मुहुः पतति विह्वला |
मुहुरालीयते भीता मुहुः क्रोशति रोदिति ||१३||
सा तीव्रशोकसन्तप्ता मुहुर्निःश्वस्य विह्वला |
उवाच भैमी निष्क्रम्य रोदमाना पतिव्रता ||१४||
यस्याभिशापाद्दुःखार्तो दुःखं विन्दति नैषधः |
तस्य भूतस्य तद्दुःखाद्दुःखमभ्यधिकं भवेत् ||१५||
अपापचेतसं पापो य एवं कृतवान्नलम् |
तस्माद्दुःखतरं प्राप्य जीवत्वसुखजीविकाम् ||१६||
एवं तु विलपन्ती सा राज्ञो भार्या महात्मनः |
अन्वेषति स्म भर्तारं वने श्वापदसेविते ||१७||
उन्मत्तवद्भीमसुता विलपन्ती ततस्ततः |
हा हा राजन्निति मुहुरितश्चेतश्च धावति ||१८||
तां शुष्यमाणामत्यर्थं कुररीमिव वाशतीम् |
करुणं बहु शोचन्तीं विलपन्तीं मुहुर्मुहुः ||१९||
सहसाभ्यागतां भैमीमभ्याशपरिवर्तिनीम् |
जग्राहाजगरो ग्राहो महाकायः क्षुधान्वितः ||२०||
सा ग्रस्यमाना ग्राहेण शोकेन च पराजिता |
नात्मानं शोचति तथा यथा शोचति नैषधम् ||२१||
हा नाथ मामिह वने ग्रस्यमानामनाथवत् |
ग्राहेणानेन विपिने किमर्थं नाभिधावसि ||२२||
कथं भविष्यसि पुनर्मामनुस्मृत्य नैषध |
पापान्मुक्तः पुनर्लब्ध्वा बुद्धिं चेतो धनानि च ||२३||
श्रान्तस्य ते क्षुधार्तस्य परिग्लानस्य नैषध |
कः श्रमं राजशार्दूल नाशयिष्यति मानद ||२४||
तामकस्मान्मृगव्याधो विचरन्गहने वने |
आक्रन्दतीमुपश्रुत्य जवेनाभिससार ह ||२५||
तां स दृष्ट्वा तथा ग्रस्तामुरगेणायतेक्षणाम् |
त्वरमाणो मृगव्याधः समभिक्रम्य वेगितः ||२६||
मुखतः पातयामास शस्त्रेण निशितेन ह |
निर्विचेष्टं भुजङ्गं तं विशस्य मृगजीवनः ||२७||
मोक्षयित्वा च तां व्याधः प्रक्षाल्य सलिलेन च |
समाश्वास्य कृताहारामथ पप्रच्छ भारत ||२८||
कस्य त्वं मृगशावाक्षि कथं चाभ्यागता वनम् |
कथं चेदं महत्कृच्छ्रं प्राप्तवत्यसि भामिनि ||२९||
दमयन्ती तथा तेन पृच्छ्यमाना विशां पते |
सर्वमेतद्यथावृत्तमाचचक्षेऽस्य भारत ||३०||
तामर्धवस्त्रसंवीतां पीनश्रोणिपयोधराम् |
सुकुमारानवद्याङ्गीं पूर्णचन्द्रनिभाननाम् ||३१||
अरालपक्ष्मनयनां तथा मधुरभाषिणीम् |
लक्षयित्वा मृगव्याधः कामस्य वशमेयिवान् ||३२||
तामथ श्लक्ष्णया वाचा लुब्धको मृदुपुर्वया |
सान्त्वयामास कामार्तस्तदबुध्यत भामिनी ||३३||
दमयन्ती तु तं दुष्टमुपलभ्य पतिव्रता |
तीव्ररोषसमाविष्टा प्रजज्वालेव मन्युना ||३४||
स तु पापमतिः क्षुद्रः प्रधर्षयितुमातुरः |
दुर्धर्षां तर्कयामास दीप्तामग्निशिखामिव ||३५||
दमयन्ती तु दुःखार्ता पतिराज्यविनाकृता |
अतीतवाक्पथे काले शशापैनं रुषा किल ||३६||
यथाहं नैषधादन्यं मनसापि न चिन्तये |
तथायं पततां क्षुद्रः परासुर्मृगजीवनः ||३७||
उक्तमात्रे तु वचने तया स मृगजीवनः |
व्यसुः पपात मेदिन्यामग्निदग्ध इव द्रुमः ||३८||
६१
बृहदश्व उवाच||
सा निहत्य मृगव्याधं प्रतस्थे कमलेक्षणा |
वनं प्रतिभयं शून्यं झिल्लिकागणनादितम् ||१||
सिंहव्याघ्रवराहर्क्षरुरुद्वीपिनिषेवितम् |
नानापक्षिगणाकीर्णं म्लेच्छतस्करसेवितम् ||२||
शालवेणुधवाश्वत्थतिन्दुकेङ्गुदकिंशुकैः |
अर्जुनारिष्टसञ्छन्नं चन्दनैश्च सशाल्मलैः ||३||
जम्ब्वाम्रलोध्रखदिरशाकवेत्रसमाकुलम् |
काश्मर्यामलकप्लक्षकदम्बोदुम्बरावृतम् ||४||
बदरीबिल्वसञ्छन्नं न्यग्रोधैश्च समाकुलम् |
प्रियालतालखर्जूरहरीतकबिभीतकैः ||५||
नानाधातुशतैर्नद्धान्विविधानपि चाचलान् |
निकुञ्जान्पक्षिसङ्घुष्टान्दरीश्चाद्भुतदर्शनाः ||६||
नदीः सरांसि वापीश्च विविधांश्च मृगद्विजान् ||६||
सा बहून्भीमरूपांश्च पिशाचोरगराक्षसान् |
पल्वलानि तडागानि गिरिकूटानि सर्वशः ||७||
सरितः सागरांश्चैव ददर्शाद्भुतदर्शनान् ||७||
यूथशो ददृशे चात्र विदर्भाधिपनन्दिनी |
महिषान्वराहान्गोमायूनृक्षवानरपन्नगान् ||८||
तेजसा यशसा स्थित्या श्रिया च परया युता |
वैदर्भी विचरत्येका नलमन्वेषती तदा ||९||
नाबिभ्यत्सा नृपसुता भैमी तत्राथ कस्यचित् |
दारुणामटवीं प्राप्य भर्तृव्यसनकर्शिता ||१०||
विदर्भतनया राजन्विललाप सुदुःखिता |
भर्तृशोकपरीताङ्गी शिलातलसमाश्रिता ||११||
दमयन्त्युवाच||
सिंहोरस्क महाबाहो निषधानां जनाधिप |
क्व नु राजन्गतोऽसीह त्यक्त्वा मां निर्जने वने ||१२||
अश्वमेधादिभिर्वीर क्रतुभिः स्वाप्तदक्षिणैः |
कथमिष्ट्वा नरव्याघ्र मयि मिथ्या प्रवर्तसे ||१३||
यत्त्वयोक्तं नरव्याघ्र मत्समक्षं महाद्युते |
कर्तुमर्हसि कल्याण तदृतं पार्थिवर्षभ ||१४||
यथोक्तं विहगैर्हंसैः समीपे तव भूमिप |
मत्सकाशे च तैरुक्तं तदवेक्षितुमर्हसि ||१५||
चत्वार एकतो वेदाः साङ्गोपाङ्गाः सविस्तराः |
स्वधीता मानवश्रेष्ठ सत्यमेकं किलैकतः ||१६||
तस्मादर्हसि शत्रुघ्न सत्यं कर्तुं नरेश्वर |
उक्तवानसि यद्वीर मत्सकाशे पुरा वचः ||१७||
हा वीर ननु नामाहमिष्टा किल तवानघ |
अस्यामटव्यां घोरायां किं मां न प्रतिभाषसे ||१८||
भर्त्सयत्येष मां रौद्रो व्यात्तास्यो दारुणाकृतिः |
अरण्यराट्क्षुधाविष्टः किं मां न त्रातुमर्हसि ||१९||
न मे त्वदन्या सुभगे प्रिया इत्यब्रवीस्तदा |
तामृतां कुरु कल्याण पुरोक्तां भारतीं नृप ||२०||
उन्मत्तां विलपन्तीं मां भार्यामिष्टां नराधिप |
ईप्सितामीप्सितो नाथ किं मां न प्रतिभाषसे ||२१||
कृशां दीनां विवर्णां च मलिनां वसुधाधिप |
वस्त्रार्धप्रावृतामेकां विलपन्तीमनाथवत् ||२२||
यूथभ्रष्टामिवैकां मां हरिणीं पृथुलोचन |
न मानयसि मानार्ह रुदतीमरिकर्शन ||२३||
महाराज महारण्ये मामिहैकाकिनीं सतीम् |
आभाषमाणां स्वां पत्नीं किं मां न प्रतिभाषसे ||२४||
कुलशीलोपसम्पन्नं चारुसर्वाङ्गशोभनम् |
नाद्य त्वामनुपश्यामि गिरावस्मिन्नरोत्तम ||२५||
वने चास्मिन्महाघोरे सिंहव्याघ्रनिषेविते ||२५||
शयानमुपविष्टं वा स्थितं वा निषधाधिप |
प्रस्थितं वा नरश्रेष्ठ मम शोकविवर्धन ||२६||
कं नु पृच्छामि दुःखार्ता त्वदर्थे शोककर्शिता |
कच्चिद्दृष्टस्त्वयारण्ये सङ्गत्येह नलो नृपः ||२७||
को नु मे कथयेदद्य वनेऽस्मिन्विष्ठितं नलम् |
अभिरूपं महात्मानं परव्यूहविनाशनम् ||२८||
यमन्वेषसि राजानं नलं पद्मनिभेक्षणम् |
अयं स इति कस्याद्य श्रोष्यामि मधुरां गिरम् ||२९||
अरण्यराडयं श्रीमांश्चतुर्दंष्ट्रो महाहनुः |
शार्दूलोऽभिमुखः प्रैति पृच्छाम्येनमशङ्किता ||३०||
भवान्मृगाणामधिपस्त्वमस्मिन्कानने प्रभुः |
विदर्भराजतनयां दमयन्तीति विद्धि माम् ||३१||
निषधाधिपतेर्भार्यां नलस्यामित्रघातिनः |
पतिमन्वेषतीमेकां कृपणां शोककर्शिताम् ||३२||
आश्वासय मृगेन्द्रेह यदि दृष्टस्त्वया नलः ||३२||
अथ वारण्यनृपते नलं यदि न शंससि |
मामदस्व मृगश्रेष्ठ विशोकां कुरु दुःखिताम् ||३३||
श्रुत्वारण्ये विलपितं ममैष मृगराट्स्वयम् |
यात्येतां मृष्टसलिलामापगां सागरङ्गमाम् ||३४||
इमं शिलोच्चयं पुण्यं शृङ्गैर्बहुभिरुच्छ्रितैः |
विराजद्भिर्दिवस्पृग्भिर्नैकवर्णैर्मनोरमैः ||३५||
नानाधातुसमाकीर्णं विविधोपलभूषितम् |
अस्यारण्यस्य महतः केतुभूतमिवोच्छ्रितम् ||३६||
सिंहशार्दूलमातङ्गवराहर्क्षमृगायुतम् |
पतत्रिभिर्बहुविधैः समन्तादनुनादितम् ||३७||
किंशुकाशोकबकुलपुंनागैरुपशोभितम् |
सरिद्भिः सविहङ्गाभिः शिखरैश्चोपशोभितम् ||३८||
गिरिराजमिमं तावत्पृच्छामि नृपतिं प्रति ||३८||
भगवन्नचलश्रेष्ठ दिव्यदर्शन विश्रुत |
शरण्य बहुकल्याण नमस्तेऽस्तु महीधर ||३९||
प्रणमे त्वाभिगम्याहं राजपुत्रीं निबोध माम् |
राज्ञः स्नुषां राजभार्यां दमयन्तीति विश्रुताम् ||४०||
राजा विदर्भाधिपतिः पिता मम महारथः |
भीमो नाम क्षितिपतिश्चातुर्वर्ण्यस्य रक्षिता ||४१||
राजसूयाश्वमेधानां क्रतूनां दक्षिणावताम् |
आहर्ता पार्थिवश्रेष्ठः पृथुचार्वञ्चितेक्षणः ||४२||
ब्रह्मण्यः साधुवृत्तश्च सत्यवागनसूयकः |
शीलवान्सुसमाचारः पृथुश्रीर्धर्मविच्छुचिः ||४३||
सम्यग्गोप्ता विदर्भाणां निर्जितारिगणः प्रभुः |
तस्य मां विद्धि तनयां भगवंस्त्वामुपस्थिताम् ||४४||
निषधेषु महाशैल श्वशुरो मे नृपोत्तमः |
सुगृहीतनामा विख्यातो वीरसेन इति स्म ह ||४५||
तस्य राज्ञः सुतो वीरः श्रीमान्सत्यपराक्रमः |
क्रमप्राप्तं पितुः स्वं यो राज्यं समनुशास्ति ह ||४६||
नलो नामारिदमनः पुण्यश्लोक इति श्रुतः |
ब्रह्मण्यो वेदविद्वाग्मी पुण्यकृत्सोमपोऽग्निचित् ||४७||
यष्टा दाता च योद्धा च सम्यक्चैव प्रशासिता |
तस्य मामचलश्रेष्ठ विद्धि भार्यामिहागताम् ||४८||
त्यक्तश्रियं भर्तृहीनामनाथां व्यसनान्विताम् |
अन्वेषमाणां भर्तारं तं वै नरवरोत्तमम् ||४९||
खमुल्लिखद्भिरेतैर्हि त्वया शृङ्गशतैर्नृपः |
कच्चिद्दृष्टोऽचलश्रेष्ठ वनेऽस्मिन्दारुणे नलः ||५०||
गजेन्द्रविक्रमो धीमान्दीर्घबाहुरमर्षणः |
विक्रान्तः सत्यवाग्धीरो भर्ता मम महायशाः ||५१||
निषधानामधिपतिः कच्चिद्दृष्टस्त्वया नलः ||५१||
किं मां विलपतीमेकां पर्वतश्रेष्ठ दुःखिताम् |
गिरा नाश्वासयस्यद्य स्वां सुतामिव दुःखिताम् ||५२||
वीर विक्रान्त धर्मज्ञ सत्यसन्ध महीपते |
यद्यस्यस्मिन्वने राजन्दर्शयात्मानमात्मना ||५३||
कदा नु स्निग्धगम्भीरां जीमूतस्वनसंनिभाम् |
श्रोष्यामि नैषधस्याहं वाचं ताममृतोपमाम् ||५४||
वैदर्भीत्येव कथितां शुभां राज्ञो महात्मनः |
आम्नायसारिणीमृद्धां मम शोकनिबर्हिणीम् ||५५||
इति सा तं गिरिश्रेष्ठमुक्त्वा पार्थिवनन्दिनी |
दमयन्ती ततो भूयो जगाम दिशमुत्तराम् ||५६||
सा गत्वा त्रीनहोरात्रान्ददर्श परमाङ्गना |
तापसारण्यमतुलं दिव्यकाननदर्शनम् ||५७||
वसिष्ठभृग्वत्रिसमैस्तापसैरुपशोभितम् |
नियतैः संयताहारैर्दमशौचसमन्वितैः ||५८||
अब्भक्षैर्वायुभक्षैश्च पत्राहारैस्तथैव च |
जितेन्द्रियैर्महाभागैः स्वर्गमार्गदिदृक्षुभिः ||५९||
वल्कलाजिनसंवीतैर्मुनिभिः संयतेन्द्रियैः |
तापसाध्युषितं रम्यं ददर्शाश्रममण्डलम् ||६०||
सा दृष्ट्वैवाश्रमपदं नानामृगनिषेवितम् |
शाखामृगगणैश्चैव तापसैश्च समन्वितम् ||६१||
सुभ्रूः सुकेशी सुश्रोणी सुकुचा सुद्विजानना |
वर्चस्विनी सुप्रतिष्ठा स्वञ्चितोद्यतगामिनी ||६२||
सा विवेशाश्रमपदं वीरसेनसुतप्रिया |
योषिद्रत्नं महाभागा दमयन्ती मनस्विनी ||६३||
साभिवाद्य तपोवृद्धान्विनयावनता स्थिता |
स्वागतं त इति प्रोक्ता तैः सर्वैस्तापसैश्च सा ||६४||
पूजां चास्या यथान्यायं कृत्वा तत्र तपोधनाः |
आस्यतामित्यथोचुस्ते ब्रूहि किं करवामहे ||६५||
तानुवाच वरारोहा कच्चिद्भगवतामिह |
तपस्यग्निषु धर्मेषु मृगपक्षिषु चानघाः ||६६||
कुशलं वो महाभागाः स्वधर्मचरणेषु च ||६६||
तैरुक्ता कुशलं भद्रे सर्वत्रेति यशस्विनी |
ब्रूहि सर्वानवद्याङ्गि का त्वं किं च चिकीर्षसि ||६७||
दृष्ट्वैव ते परं रूपं द्युतिं च परमामिह |
विस्मयो नः समुत्पन्नः समाश्वसिहि मा शुचः ||६८||
अस्यारण्यस्य महती देवता वा महीभृतः |
अस्या नु नद्याः कल्याणि वद सत्यमनिन्दिते ||६९||
साब्रवीत्तानृषीन्नाहमरण्यस्यास्य देवता |
न चाप्यस्य गिरेर्विप्रा न नद्या देवताप्यहम् ||७०||
मानुषीं मां विजानीत यूयं सर्वे तपोधनाः |
विस्तरेणाभिधास्यामि तन्मे शृणुत सर्वशः ||७१||
विदर्भेषु महीपालो भीमो नाम महाद्युतिः |
तस्य मां तनयां सर्वे जानीत द्विजसत्तमाः ||७२||
निषधाधिपतिर्धीमान्नलो नाम महायशाः |
वीरः सङ्ग्रामजिद्विद्वान्मम भर्ता विशां पतिः ||७३||
देवताभ्यर्चनपरो द्विजातिजनवत्सलः |
गोप्ता निषधवंशस्य महाभागो महाद्युतिः ||७४||
सत्यवाग्धर्मवित्प्राज्ञः सत्यसन्धोऽरिमर्दनः |
ब्रह्मण्यो दैवतपरः श्रीमान्परपुरञ्जयः ||७५||
नलो नाम नृपश्रेष्ठो देवराजसमद्युतिः |
मम भर्ता विशालाक्षः पूर्णेन्दुवदनोऽरिहा ||७६||
आहर्ता क्रतुमुख्यानां वेदवेदाङ्गपारगः |
सपत्नानां मृधे हन्ता रविसोमसमप्रभः ||७७||
स कैश्चिन्निकृतिप्रज्ञैरकल्याणैर्नराधमैः |
आहूय पृथिवीपालः सत्यधर्मपरायणः ||७८||
देवने कुशलैर्जिह्मैर्जितो राज्यं वसूनि च ||७८||
तस्य मामवगच्छध्वं भार्यां राजर्षभस्य वै |
दमयन्तीति विख्यातां भर्तृदर्शनलालसाम् ||७९||
सा वनानि गिरींश्चैव सरांसि सरितस्तथा |
पल्वलानि च रम्याणि तथारण्यानि सर्वशः ||८०||
अन्वेषमाणा भर्तारं नलं रणविशारदम् |
महात्मानं कृतास्त्रं च विचरामीह दुःखिता ||८१||
कच्चिद्भगवतां पुण्यं तपोवनमिदं नृपः |
भवेत्प्राप्तो नलो नाम निषधानां जनाधिपः ||८२||
यत्कृतेऽहमिदं विप्राः प्रपन्ना भृशदारुणम् |
वनं प्रतिभयं घोरं शार्दूलमृगसेवितम् ||८३||
यदि कैश्चिदहोरात्रैर्न द्रक्ष्यामि नलं नृपम् |
आत्मानं श्रेयसा योक्ष्ये देहस्यास्य विमोचनात् ||८४||
को नु मे जीवितेनार्थस्तमृते पुरुषर्षभम् |
कथं भविष्याम्यद्याहं भर्तृशोकाभिपीडिता ||८५||
एवं विलपतीमेकामरण्ये भीमनन्दिनीम् |
दमयन्तीमथोचुस्ते तापसाः सत्यवादिनः ||८६||
उदर्कस्तव कल्याणि कल्याणो भविता शुभे |
वयं पश्याम तपसा क्षिप्रं द्रक्ष्यसि नैषधम् ||८७||
निषधानामधिपतिं नलं रिपुनिघातिनम् |
भैमि धर्मभृतां श्रेष्ठं द्रक्ष्यसे विगतज्वरम् ||८८||
विमुक्तं सर्वपापेभ्यः सर्वरत्नसमन्वितम् |
तदेव नगरश्रेष्ठं प्रशासन्तमरिंदमम् ||८९||
द्विषतां भयकर्तारं सुहृदां शोकनाशनम् |
पतिं द्रक्ष्यसि कल्याणि कल्याणाभिजनं नृपम् ||९०||
एवमुक्त्वा नलस्येष्टां महिषीं पार्थिवात्मजाम् |
अन्तर्हितास्तापसास्ते साग्निहोत्राश्रमास्तदा ||९१||
सा दृष्ट्वा महदाश्चर्यं विस्मिता अभवत्तदा |
दमयन्त्यनवद्याङ्गी वीरसेननृपस्नुषा ||९२||
किं नु स्वप्नो मया दृष्टः कोऽयं विधिरिहाभवत् |
क्व नु ते तापसाः सर्वे क्व तदाश्रममण्डलम् ||९३||
क्व सा पुण्यजला रम्या नानाद्विजनिषेविता |
नदी ते च नगा हृद्याः फलपुष्पोपशोभिताः ||९४||
ध्यात्वा चिरं भीमसुता दमयन्ती शुचिस्मिता |
भर्तृशोकपरा दीना विवर्णवदनाभवत् ||९५||
सा गत्वाथापरां भूमिं बाष्पसंदिग्धया गिरा |
विललापाश्रुपूर्णाक्षी दृष्ट्वाशोकतरुं ततः ||९६||
उपगम्य तरुश्रेष्ठमशोकं पुष्पितं तदा |
पल्लवापीडितं हृद्यं विहङ्गैरनुनादितम् ||९७||
अहो बतायमगमः श्रीमानस्मिन्वनान्तरे |
आपीडैर्बहुभिर्भाति श्रीमान्द्रमिडराडिव ||९८||
विशोकां कुरु मां क्षिप्रमशोक प्रियदर्शन |
वीतशोकभयाबाधं कच्चित्त्वं दृष्टवान्नृपम् ||९९||
नलं नामारिदमनं दमयन्त्याः प्रियं पतिम् |
निषधानामधिपतिं दृष्टवानसि मे प्रियम् ||१००||
एकवस्त्रार्धसंवीतं सुकुमारतनुत्वचम् |
व्यसनेनार्दितं वीरमरण्यमिदमागतम् ||१०१||
यथा विशोका गच्छेयमशोकनग तत्कुरु |
सत्यनामा भवाशोक मम शोकविनाशनात् ||१०२||
एवं साशोकवृक्षं तमार्ता त्रिः परिगम्य ह |
जगाम दारुणतरं देशं भैमी वराङ्गना ||१०३||
सा ददर्श नगान्नैकान्नैकाश्च सरितस्तथा |
नैकांश्च पर्वतान्रम्यान्नैकांश्च मृगपक्षिणः ||१०४||
कन्दरांश्च नितम्बांश्च नदांश्चाद्भुतदर्शनान् |
ददर्श सा भीमसुता पतिमन्वेषती तदा ||१०५||
गत्वा प्रकृष्टमध्वानं दमयन्ती शुचिस्मिता |
ददर्शाथ महासार्थं हस्त्यश्वरथसङ्कुलम् ||१०६||
उत्तरन्तं नदीं रम्यां प्रसन्नसलिलां शुभाम् |
सुशीततोयां विस्तीर्णां ह्रदिनीं वेतसैर्वृताम् ||१०७||
प्रोद्घुष्टां क्रौञ्चकुररैश्चक्रवाकोपकूजिताम् |
कूर्मग्राहझषाकीर्णां पुलिनद्वीपशोभिताम् ||१०८||
सा दृष्ट्वैव महासार्थं नलपत्नी यशस्विनी |
उपसर्प्य वरारोहा जनमध्यं विवेश ह ||१०९||
उन्मत्तरूपा शोकार्ता तथा वस्त्रार्धसंवृता |
कृशा विवर्णा मलिना पांसुध्वस्तशिरोरुहा ||११०||
तां दृष्ट्वा तत्र मनुजाः केचिद्भीताः प्रदुद्रुवुः |
केचिच्चिन्तापरास्तस्थुः केचित्तत्र विचुक्रुशुः ||१११||
प्रहसन्ति स्म तां केचिदभ्यसूयन्त चापरे |
चक्रुस्तस्यां दयां केचित्पप्रच्छुश्चापि भारत ||११२||
कासि कस्यासि कल्याणि किं वा मृगयसे वने |
त्वां दृष्ट्वा व्यथिताः स्मेह कच्चित्त्वमसि मानुषी ||११३||
वद सत्यं वनस्यास्य पर्वतस्याथ वा दिशः |
देवता त्वं हि कल्याणि त्वां वयं शरणं गताः ||११४||
यक्षी वा राक्षसी वा त्वमुताहोऽसि वराङ्गना |
सर्वथा कुरु नः स्वस्ति रक्षस्वास्माननिन्दिते ||११५||
यथायं सर्वथा सार्थः क्षेमी शीघ्रमितो व्रजेत् |
तथा विधत्स्व कल्याणि त्वां वयं शरणं गताः ||११६||
तथोक्ता तेन सार्थेन दमयन्ती नृपात्मजा |
प्रत्युवाच ततः साध्वी भर्तृव्यसनदुःखिता ||११७||
सार्थवाहं च सार्थं च जना ये चात्र केचन ||११७||
यूनः स्थविरबालाश्च सार्थस्य च पुरोगमाः |
मानुषीं मां विजानीत मनुजाधिपतेः सुताम् ||११८||
नृपस्नुषां राजभार्यां भर्तृदर्शनलालसाम् ||११८||
विदर्भराण्मम पिता भर्ता राजा च नैषधः |
नलो नाम महाभागस्तं मार्गाम्यपराजितम् ||११९||
यदि जानीत नृपतिं क्षिप्रं शंसत मे प्रियम् |
नलं पार्थिवशार्दूलममित्रगणसूदनम् ||१२०||
तामुवाचानवद्याङ्गीं सार्थस्य महतः प्रभुः |
सार्थवाहः शुचिर्नाम शृणु कल्याणि मद्वचः ||१२१||
अहं सार्थस्य नेता वै सार्थवाहः शुचिस्मिते |
मनुष्यं नलनामानं न पश्यामि यशस्विनि ||१२२||
कुञ्जरद्वीपिमहिषशार्दूलर्क्षमृगानपि |
पश्याम्यस्मिन्वने कष्टे अमनुष्यनिषेविते ||१२३||
तथा नो यक्षराडद्य मणिभद्रः प्रसीदतु ||१२३||
साब्रवीद्वणिजः सर्वान्सार्थवाहं च तं ततः |
क्व नु यास्यसि सार्थोऽयमेतदाख्यातुमर्हथ ||१२४||
सार्थवाह उवाच||
सार्थोऽयं चेदिराजस्य सुबाहोः सत्यवादिनः |
क्षिप्रं जनपदं गन्ता लाभाय मनुजात्मजे ||१२५||
६२
बृहदश्व उवाच||
सा तच्छ्रुत्वानवद्याङ्गी सार्थवाहवचस्तदा |
अगच्छत्तेन वै सार्धं भर्तृदर्शनलालसा ||१||
अथ काले बहुतिथे वने महति दारुणे |
तडागं सर्वतोभद्रं पद्मसौगन्धिकं महत् ||२||
ददृशुर्वणिजो रम्यं प्रभूतयवसेन्धनम् |
बहुमूलफलोपेतं नानापक्षिगणैर्वृतम् ||३||
तं दृष्ट्वा मृष्टसलिलं मनोहरसुखावहम् |
सुपरिश्रान्तवाहास्ते निवेशाय मनो दधुः ||४||
संमते सार्थवाहस्य विविशुर्वनमुत्तमम् |
उवास सार्थः सुमहान्वेलामासाद्य पश्चिमाम् ||५||
अथार्धरात्रसमये निःशब्दस्तिमिते तदा |
सुप्ते सार्थे परिश्रान्ते हस्तियूथमुपागमत् ||६||
पानीयार्थं गिरिनदीं मदप्रस्रवणाविलाम् ||६||
मार्गं संरुध्य संसुप्तं पद्मिन्याः सार्थमुत्तमम् |
सुप्तं ममर्द सहसा चेष्टमानं महीतले ||७||
हाहारवं प्रमुञ्चन्तः सार्थिकाः शरणार्थिनः |
वनगुल्मांश्च धावन्तो निद्रान्धा महतो भयात् ||८||
केचिद्दन्तैः करैः केचित्केचित्पद्भ्यां हता नराः ||८||
गोखरोष्ट्राश्वबहुलं पदातिजनसङ्कुलम् |
भयार्तं धावमानं तत्परस्परहतं तदा ||९||
घोरान्नादान्विमुञ्चन्तो निपेतुर्धरणीतले |
वृक्षेष्वासज्य सम्भग्नाः पतिता विषमेषु च ||१०||
तथा तन्निहतं सर्वं समृद्धं सार्थमण्डलम् ||१०||
अथापरेद्युः सम्प्राप्ते हतशिष्टा जनास्तदा |
वनगुल्माद्विनिष्क्रम्य शोचन्तो वैशसं कृतम् ||११||
भ्रातरं पितरं पुत्रं सखायं च जनाधिप ||११||
अशोचत्तत्र वैदर्भी किं नु मे दुष्कृतं कृतम् |
योऽपि मे निर्जनेऽरण्ये सम्प्राप्तोऽयं जनार्णवः ||१२||
हतोऽयं हस्तियूथेन मन्दभाग्यान्ममैव तु ||१२||
प्राप्तव्यं सुचिरं दुःखं मया नूनमसंशयम् |
नाप्राप्तकालो म्रियते श्रुतं वृद्धानुशासनम् ||१३||
यन्नाहमद्य मृदिता हस्तियूथेन दुःखिता |
न ह्यदैवकृतं किञ्चिन्नराणामिह विद्यते ||१४||
न च मे बालभावेऽपि किञ्चिद्व्यपकृतं कृतम् |
कर्मणा मनसा वाचा यदिदं दुःखमागतम् ||१५||
मन्ये स्वयंवरकृते लोकपालाः समागताः |
प्रत्याख्याता मया तत्र नलस्यार्थाय देवताः ||१६||
नूनं तेषां प्रभावेन वियोगं प्राप्तवत्यहम् ||१६||
एवमादीनि दुःखानि सा विलप्य वराङ्गना |
हतशिष्टैः सह तदा ब्राह्मणैर्वेदपारगैः ||१७||
अगच्छद्राजशार्दूल दुःखशोकपरायणा ||१७||
गच्छन्ती सा चिरात्कालात्पुरमासादयन्महत् |
सायाह्ने चेदिराजस्य सुबाहोः सत्यवादिनः ||१८||
वस्त्रार्धकर्तसंवीता प्रविवेश पुरोत्तमम् ||१८||
तां विवर्णां कृशां दीनां मुक्तकेशीममार्जनाम् |
उन्मत्तामिव गच्छन्तीं ददृशुः पुरवासिनः ||१९||
प्रविशन्तीं तु तां दृष्ट्वा चेदिराजपुरीं तदा |
अनुजग्मुस्ततो बाला ग्रामिपुत्राः कुतूहलात् ||२०||
सा तैः परिवृतागच्छत्समीपं राजवेश्मनः |
तां प्रासादगतापश्यद्राजमाता जनैर्वृताम् ||२१||
सा जनं वारयित्वा तं प्रासादतलमुत्तमम् |
आरोप्य विस्मिता राजन्दमयन्तीमपृच्छत ||२२||
एवमप्यसुखाविष्टा बिभर्षि परमं वपुः |
भासि विद्युदिवाभ्रेषु शंस मे कासि कस्य वा ||२३||
न हि ते मानुषं रूपं भूषणैरपि वर्जितम् |
असहाया नरेभ्यश्च नोद्विजस्यमरप्रभे ||२४||
तच्छ्रुत्वा वचनं तस्या भैमी वचनमब्रवीत् |
मानुषीं मां विजानीहि भर्तारं समनुव्रताम् ||२५||
सैरन्ध्रीं जातिसम्पन्नां भुजिष्यां कामवासिनीम् |
फलमूलाशनामेकां यत्रसायम्प्रतिश्रयाम् ||२६||
असङ्ख्येयगुणो भर्ता मां च नित्यमनुव्रतः |
भर्तारमपि तं वीरं छायेवानपगा सदा ||२७||
तस्य दैवात्प्रसङ्गोऽभूदतिमात्रं स्म देवने |
द्यूते स निर्जितश्चैव वनमेकोऽभ्युपेयिवान् ||२८||
तमेकवसनं वीरमुन्मत्तमिव विह्वलम् |
आश्वासयन्ती भर्तारमहमन्वगमं वनम् ||२९||
स कदाचिद्वने वीरः कस्मिंश्चित्कारणान्तरे |
क्षुत्परीतः सुविमनास्तदप्येकं व्यसर्जयत् ||३०||
तमेकवसनं नग्नमुन्मत्तं गतचेतसम् |
अनुव्रजन्ती बहुला न स्वपामि निशाः सदा ||३१||
ततो बहुतिथे काले सुप्तामुत्सृज्य मां क्वचित् |
वाससोऽर्धं परिच्छिद्य त्यक्तवान्मामनागसम् ||३२||
तं मार्गमाणा भर्तारं दह्यमाना दिनक्षपाः |
न विन्दाम्यमरप्रख्यं प्रियं प्राणधनेश्वरम् ||३३||
तामश्रुपरिपूर्णाक्षीं विलपन्तीं तथा बहु |
राजमाताब्रवीदार्तां भैमीमार्ततरा स्वयम् ||३४||
वसस्व मयि कल्याणि प्रीतिर्मे त्वयि वर्तते |
मृगयिष्यन्ति ते भद्रे भर्तारं पुरुषा मम ||३५||
अथ वा स्वयमागच्छेत्परिधावन्नितस्ततः |
इहैव वसती भद्रे भर्तारमुपलप्स्यसे ||३६||
राजमातुर्वचः श्रुत्वा दमयन्ती वचोऽब्रवीत् |
समयेनोत्सहे वस्तुं त्वयि वीरप्रजायिनि ||३७||
उच्छिष्टं नैव भुञ्जीयां न कुर्यां पादधावनम् |
न चाहं पुरुषानन्यान्सम्भाषेयं कथञ्चन ||३८||
प्रार्थयेद्यदि मां कश्चिद्दण्ड्यस्ते स पुमान्भवेत् |
भर्तुरन्वेषणार्थं तु पश्येयं ब्राह्मणानहम् ||३९||
यद्येवमिह कर्तव्यं वसाम्यहमसंशयम् |
अतोऽन्यथा न मे वासो वर्तते हृदये क्वचित् ||४०||
तां प्रहृष्टेन मनसा राजमातेदमब्रवीत् |
सर्वमेतत्करिष्यामि दिष्ट्या ते व्रतमीदृशम् ||४१||
एवमुक्त्वा ततो भैमीं राजमाता विशां पते |
उवाचेदं दुहितरं सुनन्दां नाम भारत ||४२||
सैरन्ध्रीमभिजानीष्व सुनन्दे देवरूपिणीम् |
एतया सह मोदस्व निरुद्विग्नमनाः स्वयम् ||४३||
६३
बृहदश्व उवाच||
उत्सृज्य दमयन्तीं तु नलो राजा विशां पते |
ददर्श दावं दह्यन्तं महान्तं गहने वने ||१||
तत्र शुश्राव मध्येऽग्नौ शब्दं भूतस्य कस्यचित् |
अभिधाव नलेत्युच्चैः पुण्यश्लोकेति चासकृत् ||२||
मा भैरिति नलश्चोक्त्वा मध्यमग्नेः प्रविश्य तम् |
ददर्श नागराजानं शयानं कुण्डलीकृतम् ||३||
स नागः प्राञ्जलिर्भूत्वा वेपमानो नलं तदा |
उवाच विद्धि मां राजन्नागं कर्कोटकं नृप ||४||
मया प्रलब्धो ब्रह्मर्षिरनागाः सुमहातपाः |
तेन मन्युपरीतेन शप्तोऽस्मि मनुजाधिप ||५||
तस्य शापान्न शक्नोमि पदाद्विचलितुं पदम् |
उपदेक्ष्यामि ते श्रेयस्त्रातुमर्हति मां भवान् ||६||
सखा च ते भविष्यामि मत्समो नास्ति पन्नगः |
लघुश्च ते भविष्यामि शीघ्रमादाय गच्छ माम् ||७||
एवमुक्त्वा स नागेन्द्रो बभूवाङ्गुष्ठमात्रकः |
तं गृहीत्वा नलः प्रायादुद्देशं दाववर्जितम् ||८||
आकाशदेशमासाद्य विमुक्तं कृष्णवर्त्मना |
उत्स्रष्टुकामं तं नागः पुनः कर्कोटकोऽब्रवीत् ||९||
पदानि गणयन्गच्छ स्वानि नैषध कानिचित् |
तत्र तेऽहं महाराज श्रेयो धास्यामि यत्परम् ||१०||
ततः सङ्ख्यातुमारब्धमदशद्दशमे पदे |
तस्य दष्टस्य तद्रूपं क्षिप्रमन्तरधीयत ||११||
स दृष्ट्वा विस्मितस्तस्थावात्मानं विकृतं नलः |
स्वरूपधारिणं नागं ददर्श च महीपतिः ||१२||
ततः कर्कोटको नागः सान्त्वयन्नलमब्रवीत् |
मया तेऽन्तर्हितं रूपं न त्वा विद्युर्जना इति ||१३||
यत्कृते चासि विकृतो दुःखेन महता नल |
विषेण स मदीयेन त्वयि दुःखं निवत्स्यति ||१४||
विषेण संवृतैर्गात्रैर्यावत्त्वां न विमोक्ष्यति |
तावत्त्वयि महाराज दुःखं वै स निवत्स्यति ||१५||
अनागा येन निकृतस्त्वमनर्हो जनाधिप |
क्रोधादसूययित्वा तं रक्षा मे भवतः कृता ||१६||
न ते भयं नरव्याघ्र दंष्ट्रिभ्यः शत्रुतोऽपि वा |
ब्रह्मविद्भ्यश्च भविता मत्प्रसादान्नराधिप ||१७||
राजन्विषनिमित्ता च न ते पीडा भविष्यति |
सङ्ग्रामेषु च राजेन्द्र शश्वज्जयमवाप्स्यसि ||१८||
गच्छ राजन्नितः सूतो बाहुकोऽहमिति ब्रुवन् |
समीपमृतुपर्णस्य स हि वेदाक्षनैपुणम् ||१९||
अयोध्यां नगरीं रम्यामद्यैव निषधेश्वर ||१९||
स तेऽक्षहृदयं दाता राजाश्वहृदयेन वै |
इक्ष्वाकुकुलजः श्रीमान्मित्रं चैव भविष्यति ||२०||
भविष्यसि यदाक्षज्ञः श्रेयसा योक्ष्यसे तदा |
समेष्यसि च दारैस्त्वं मा स्म शोके मनः कृथाः ||२१||
राज्येन तनयाभ्यां च सत्यमेतद्ब्रवीमि ते ||२१||
स्वरूपं च यदा द्रष्टुमिच्छेथास्त्वं नराधिप |
संस्मर्तव्यस्तदा तेऽहं वासश्चेदं निवासयेः ||२२||
अनेन वाससाच्छन्नः स्वरूपं प्रतिपत्स्यसे |
इत्युक्त्वा प्रददावस्मै दिव्यं वासोयुगं तदा ||२३||
एवं नलं समादिश्य वासो दत्त्वा च कौरव |
नागराजस्ततो राजंस्तत्रैवान्तरधीयत ||२४||
६४
बृहदश्व उवाच||
तस्मिन्नन्तर्हिते नागे प्रययौ नैषधो नलः |
ऋतुपर्णस्य नगरं प्राविशद्दशमेऽहनि ||१||
स राजानमुपातिष्ठद्बाहुकोऽहमिति ब्रुवन् |
अश्वानां वाहने युक्तः पृथिव्यां नास्ति मत्समः ||२||
अर्थकृच्छ्रेषु चैवाहं प्रष्टव्यो नैपुणेषु च |
अन्नसंस्कारमपि च जानाम्यन्यैर्विशेषतः ||३||
यानि शिल्पानि लोकेऽस्मिन्यच्चाप्यन्यत्सुदुष्करम् |
सर्वं यतिष्ये तत्कर्तुमृतुपर्ण भरस्व माम् ||४||
ऋतुपर्ण उवाच||
वस बाहुक भद्रं ते सर्वमेतत्करिष्यसि |
शीघ्रयाने सदा बुद्धिर्धीयते मे विशेषतः ||५||
स त्वमातिष्ठ योगं तं येन शीघ्रा हया मम |
भवेयुरश्वाध्यक्षोऽसि वेतनं ते शतं शताः ||६||
त्वामुपस्थास्यतश्चेमौ नित्यं वार्ष्णेयजीवलौ |
एताभ्यां रंस्यसे सार्धं वस वै मयि बाहुक ||७||
बृहदश्व उवाच||
एवमुक्तो नलस्तेन न्यवसत्तत्र पूजितः |
ऋतुपर्णस्य नगरे सहवार्ष्णेयजीवलः ||८||
स तत्र निवसन्राजा वैदर्भीमनुचिन्तयन् |
सायं सायं सदा चेमं श्लोकमेकं जगाद ह ||९||
क्व नु सा क्षुत्पिपासार्ता श्रान्ता शेते तपस्विनी |
स्मरन्ती तस्य मन्दस्य कं वा साद्योपतिष्ठति ||१०||
एवं ब्रुवन्तं राजानं निशायां जीवलोऽब्रवीत् |
कामेनां शोचसे नित्यं श्रोतुमिच्छामि बाहुक ||११||
तमुवाच नलो राजा मन्दप्रज्ञस्य कस्यचित् |
आसीद्बहुमता नारी तस्या दृढतरं च सः ||१२||
स वै केनचिदर्थेन तया मन्दो व्ययुज्यत |
विप्रयुक्तश्च मन्दात्मा भ्रमत्यसुखपीडितः ||१३||
दह्यमानः स शोकेन दिवारात्रमतन्द्रितः |
निशाकाले स्मरंस्तस्याः श्लोकमेकं स्म गायति ||१४||
स वै भ्रमन्महीं सर्वां क्वचिदासाद्य किञ्चन |
वसत्यनर्हस्तद्दुःखं भूय एवानुसंस्मरन् ||१५||
सा तु तं पुरुषं नारी कृच्छ्रेऽप्यनुगता वने |
त्यक्ता तेनाल्पपुण्येन दुष्करं यदि जीवति ||१६||
एका बालानभिज्ञा च मार्गाणामतथोचिता |
क्षुत्पिपासापरीता च दुष्करं यदि जीवति ||१७||
श्वापदाचरिते नित्यं वने महति दारुणे |
त्यक्ता तेनाल्पपुण्येन मन्दप्रज्ञेन मारिष ||१८||
इत्येवं नैषधो राजा दमयन्तीमनुस्मरन् |
अज्ञातवासमवसद्राज्ञस्तस्य निवेशने ||१९||
६५
बृहदश्व उवाच||
हृतराज्ये नले भीमः सभार्ये प्रेष्यतां गते |
द्विजान्प्रस्थापयामास नलदर्शनकाङ्क्षया ||१||
संदिदेश च तान्भीमो वसु दत्त्वा च पुष्कलम् |
मृगयध्वं नलं चैव दमयन्तीं च मे सुताम् ||२||
अस्मिन्कर्मणि निष्पन्ने विज्ञाते निषधाधिपे |
गवां सहस्रं दास्यामि यो वस्तावानयिष्यति ||३||
अग्रहारं च दास्यामि ग्रामं नगरसंमितम् ||३||
न चेच्छक्याविहानेतुं दमयन्ती नलोऽपि वा |
ज्ञातमात्रेऽपि दास्यामि गवां दशशतं धनम् ||४||
इत्युक्तास्ते ययुर्हृष्टा ब्राह्मणाः सर्वतोदिशम् |
पुरराष्ट्राणि चिन्वन्तो नैषधं सह भार्यया ||५||
ततश्चेदिपुरीं रम्यां सुदेवो नाम वै द्विजः |
विचिन्वानोऽथ वैदर्भीमपश्यद्राजवेश्मनि ||६||
पुण्याहवाचने राज्ञः सुनन्दासहितां स्थिताम् ||६||
मन्दप्रख्यायमानेन रूपेणाप्रतिमेन ताम् |
पिनद्धां धूमजालेन प्रभामिव विभावसोः ||७||
तां समीक्ष्य विशालाक्षीमधिकं मलिनां कृशाम् |
तर्कयामास भैमीति कारणैरुपपादयन् ||८||
सुदेव उवाच||
यथेयं मे पुरा दृष्टा तथारूपेयमङ्गना |
कृतार्थोऽस्म्यद्य दृष्ट्वेमां लोककान्तामिव श्रियम् ||९||
पूर्णचन्द्राननां श्यामां चारुवृत्तपयोधराम् |
कुर्वन्तीं प्रभया देवीं सर्वा वितिमिरा दिशः ||१०||
चारुपद्मपलाशाक्षीं मन्मथस्य रतीमिव |
इष्टां सर्वस्य जगतः पूर्णचन्द्रप्रभामिव ||११||
विदर्भसरसस्तस्माद्दैवदोषादिवोद्धृताम् |
मलपङ्कानुलिप्ताङ्गीं मृणालीमिव तां भृशम् ||१२||
पौर्णमासीमिव निशां राहुग्रस्तनिशाकराम् |
पतिशोकाकुलां दीनां शुष्कस्रोतां नदीमिव ||१३||
विध्वस्तपर्णकमलां वित्रासितविहङ्गमाम् |
हस्तिहस्तपरिक्लिष्टां व्याकुलामिव पद्मिनीम् ||१४||
सुकुमारीं सुजाताङ्गीं रत्नगर्भगृहोचिताम् |
दह्यमानामिवोष्णेन मृणालीमचिरोद्धृताम् ||१५||
रूपौदार्यगुणोपेतां मण्डनार्हाममण्डिताम् |
चन्द्रलेखामिव नवां व्योम्नि नीलाभ्रसंवृताम् ||१६||
कामभोगैः प्रियैर्हीनां हीनां बन्धुजनेन च |
देहं धारयतीं दीनां भर्तृदर्शनकाङ्क्षया ||१७||
भर्ता नाम परं नार्या भूषणं भूषणैर्विना |
एषा विरहिता तेन शोभनापि न शोभते ||१८||
दुष्करं कुरुतेऽत्यर्थं हीनो यदनया नलः |
धारयत्यात्मनो देहं न शोकेनावसीदति ||१९||
इमामसितकेशान्तां शतपत्रायतेक्षणाम् |
सुखार्हां दुःखितां दृष्ट्वा ममापि व्यथते मनः ||२०||
कदा नु खलु दुःखस्य पारं यास्यति वै शुभा |
भर्तुः समागमात्साध्वी रोहिणी शशिनो यथा ||२१||
अस्या नूनं पुनर्लाभान्नैषधः प्रीतिमेष्यति |
राजा राज्यपरिभ्रष्टः पुनर्लब्ध्वेव मेदिनीम् ||२२||
तुल्यशीलवयोयुक्तां तुल्याभिजनसंयुताम् |
नैषधोऽर्हति वैदर्भीं तं चेयमसितेक्षणा ||२३||
युक्तं तस्याप्रमेयस्य वीर्यसत्त्ववतो मया |
समाश्वासयितुं भार्यां पतिदर्शनलालसाम् ||२४||
अयमाश्वासयाम्येनां पूर्णचन्द्रनिभाननाम् |
अदृष्टपूर्वां दुःखस्य दुःखार्तां ध्यानतत्पराम् ||२५||
बृहदश्व उवाच||
एवं विमृश्य विविधैः कारणैर्लक्षणैश्च ताम् |
उपगम्य ततो भैमीं सुदेवो ब्राह्मणोऽब्रवीत् ||२६||
अहं सुदेवो वैदर्भि भ्रातुस्ते दयितः सखा |
भीमस्य वचनाद्राज्ञस्त्वामन्वेष्टुमिहागतः ||२७||
कुशली ते पिता राज्ञि जनित्री भ्रातरश्च ते |
आयुष्मन्तौ कुशलिनौ तत्रस्थौ दारकौ च ते ||२८||
त्वत्कृते बन्धुवर्गाश्च गतसत्त्वा इवासते ||२८||
अभिज्ञाय सुदेवं तु दमयन्ती युधिष्ठिर |
पर्यपृच्छत्ततः सर्वान्क्रमेण सुहृदः स्वकान् ||२९||
रुरोद च भृशं राजन्वैदर्भी शोककर्शिता |
दृष्ट्वा सुदेवं सहसा भ्रातुरिष्टं द्विजोत्तमम् ||३०||
ततो रुदन्तीं तां दृष्ट्वा सुनन्दा शोककर्शिताम् |
सुदेवेन सहैकान्ते कथयन्तीं च भारत ||३१||
जनित्र्यै प्रेषयामास सैरन्ध्री रुदते भृशम् |
ब्राह्मणेन समागम्य तां वेद यदि मन्यसे ||३२||
अथ चेदिपतेर्माता राज्ञश्चान्तःपुरात्तदा |
जगाम यत्र सा बाला ब्राह्मणेन सहाभवत् ||३३||
ततः सुदेवमानाय्य राजमाता विशां पते |
पप्रच्छ भार्या कस्येयं सुता वा कस्य भामिनी ||३४||
कथं च नष्टा ज्ञातिभ्यो भर्तुर्वा वामलोचना |
त्वया च विदिता विप्र कथमेवङ्गता सती ||३५||
एतदिच्छाम्यहं त्वत्तो ज्ञातुं सर्वमशेषतः |
तत्त्वेन हि ममाचक्ष्व पृच्छन्त्या देवरूपिणीम् ||३६||
एवमुक्तस्तया राजन्सुदेवो द्विजसत्तमः |
सुखोपविष्ट आचष्ट दमयन्त्या यथातथम् ||३७||
६६
सुदेव उवाच||
विदर्भराजो धर्मात्मा भीमो भीमपराक्रमः |
सुतेयं तस्य कल्याणी दमयन्तीति विश्रुता ||१||
राजा तु नैषधो नाम वीरसेनसुतो नलः |
भार्येयं तस्य कल्याणी पुण्यश्लोकस्य धीमतः ||२||
स वै द्यूते जितो भ्रात्रा हृतराज्यो महीपतिः |
दमयन्त्या गतः सार्धं न प्रज्ञायत कर्हिचित् ||३||
ते वयं दमयन्त्यर्थे चरामः पृथिवीमिमाम् |
सेयमासादिता बाला तव पुत्रनिवेशने ||४||
अस्या रूपेण सदृशी मानुषी नेह विद्यते |
अस्याश्चैव भ्रुवोर्मध्ये सहजः पिप्लुरुत्तमः ||५||
श्यामायाः पद्मसङ्काशो लक्षितोऽन्तर्हितो मया ||५||
मलेन संवृतो ह्यस्यास्तन्वभ्रेणेव चन्द्रमाः |
चिह्नभूतो विभूत्यर्थमयं धात्रा विनिर्मितः ||६||
प्रतिपत्कलुषेवेन्दोर्लेखा नाति विराजते |
न चास्या नश्यते रूपं वपुर्मलसमाचितम् ||७||
असंस्कृतमपि व्यक्तं भाति काञ्चनसंनिभम् ||७||
अनेन वपुषा बाला पिप्लुनानेन चैव ह |
लक्षितेयं मया देवी पिहितोऽग्निरिवोष्मणा ||८||
बृहदश्व उवाच||
तच्छ्रुत्वा वचनं तस्य सुदेवस्य विशां पते |
सुनन्दा शोधयामास पिप्लुप्रच्छादनं मलम् ||९||
स मलेनापकृष्टेन पिप्लुस्तस्या व्यरोचत |
दमयन्त्यास्तदा व्यभ्रे नभसीव निशाकरः ||१०||
पिप्लुं दृष्ट्वा सुनन्दा च राजमाता च भारत |
रुदन्त्यौ तां परिष्वज्य मुहूर्तमिव तस्थतुः ||११||
उत्सृज्य बाष्पं शनकै राजमातेदमब्रवीत् ||११||
भगिन्या दुहिता मेऽसि पिप्लुनानेन सूचिता |
अहं च तव माता च राजन्यस्य महात्मनः ||१२||
सुते दशार्णाधिपतेः सुदाम्नश्चारुदर्शने ||१२||
भीमस्य राज्ञः सा दत्ता वीरबाहोरहं पुनः |
त्वं तु जाता मया दृष्टा दशार्णेषु पितुर्गृहे ||१३||
यथैव ते पितुर्गेहं तथेदमपि भामिनि |
यथैव हि ममैश्वर्यं दमयन्ति तथा तव ||१४||
तां प्रहृष्टेन मनसा दमयन्ती विशां पते |
अभिवाद्य मातुर्भगिनीमिदं वचनमब्रवीत् ||१५||
अज्ञायमानापि सती सुखमस्म्युषितेह वै |
सर्वकामैः सुविहिता रक्ष्यमाणा सदा त्वया ||१६||
सुखात्सुखतरो वासो भविष्यति न संशयः |
चिरविप्रोषितां मातर्मामनुज्ञातुमर्हसि ||१७||
दारकौ च हि मे नीतौ वसतस्तत्र बालकौ |
पित्रा विहीनौ शोकार्तौ मया चैव कथं नु तौ ||१८||
यदि चापि प्रियं किञ्चिन्मयि कर्तुमिहेच्छसि |
विदर्भान्यातुमिच्छामि शीघ्रं मे यानमादिश ||१९||
बाढमित्येव तामुक्त्वा हृष्टा मातृष्वसा नृप |
गुप्तां बलेन महता पुत्रस्यानुमते ततः ||२०||
प्रस्थापयद्राजमाता श्रीमता नरवाहिना |
यानेन भरतश्रेष्ठ स्वन्नपानपरिच्छदाम् ||२१||
ततः सा नचिरादेव विदर्भानगमच्छुभा |
तां तु बन्धुजनः सर्वः प्रहृष्टः प्रत्यपूजयत् ||२२||
सर्वान्कुशलिनो दृष्ट्वा बान्धवान्दारकौ च तौ |
मातरं पितरं चैव सर्वं चैव सखीजनम् ||२३||
देवताः पूजयामास ब्राह्मणांश्च यशस्विनी |
विधिना परेण कल्याणी दमयन्ती विशां पते ||२४||
अतर्पयत्सुदेवं च गोसहस्रेण पार्थिवः |
प्रीतो दृष्ट्वैव तनयां ग्रामेण द्रविणेन च ||२५||
सा व्युष्टा रजनीं तत्र पितुर्वेश्मनि भामिनी |
विश्रान्ता मातरं राजन्निदं वचनमब्रवीत् ||२६||
६७
दमयन्त्युवाच||
मां चेदिच्छसि जीवन्तीं मातः सत्यं ब्रवीमि ते |
नरवीरस्य वै तस्य नलस्यानयने यत ||१||
बृहदश्व उवाच||
दमयन्त्या तथोक्ता तु सा देवी भृशदुःखिता |
बाष्पेण पिहिता राजन्नोत्तरं किञ्चिदब्रवीत् ||२||
तदवस्थां तु तां दृष्ट्वा सर्वमन्तःपुरं तदा |
हाहाभूतमतीवासीद्भृशं च प्ररुरोद ह ||३||
ततो भीमं महाराज भार्या वचनमब्रवीत् |
दमयन्ती तव सुता भर्तारमनुशोचति ||४||
अपकृष्य च लज्जां मां स्वयमुक्तवती नृप |
प्रयतन्तु तव प्रेष्याः पुण्यश्लोकस्य दर्शने ||५||
तया प्रचोदितो राजा ब्राह्मणान्वशवर्तिनः |
प्रास्थापयद्दिशः सर्वा यतध्वं नलदर्शने ||६||
ततो विदर्भाधिपतेर्नियोगाद्ब्राह्मणर्षभाः |
दमयन्तीमथो दृष्ट्वा प्रस्थिताः स्मेत्यथाब्रुवन् ||७||
अथ तानब्रवीद्भैमी सर्वराष्ट्रेष्विदं वचः |
ब्रुवध्वं जनसंसत्सु तत्र तत्र पुनः पुनः ||८||
क्व नु त्वं कितव छित्त्वा वस्त्रार्धं प्रस्थितो मम |
उत्सृज्य विपिने सुप्तामनुरक्तां प्रियां प्रिय ||९||
सा वै यथा समादिष्टा तत्रास्ते त्वत्प्रतीक्षिणी |
दह्यमाना भृशं बाला वस्त्रार्धेनाभिसंवृता ||१०||
तस्या रुदन्त्याः सततं तेन शोकेन पार्थिव |
प्रसादं कुरु वै वीर प्रतिवाक्यं ददस्व च ||११||
एतदन्यच्च वक्तव्यं कृपां कुर्याद्यथा मयि |
वायुना धूयमानो हि वनं दहति पावकः ||१२||
भर्तव्या रक्षणीया च पत्नी हि पतिना सदा |
तन्नष्टमुभयं कस्माद्धर्मज्ञस्य सतस्तव ||१३||
ख्यातः प्राज्ञः कुलीनश्च सानुक्रोशश्च त्वं सदा |
संवृत्तो निरनुक्रोशः शङ्के मद्भाग्यसङ्क्षयात् ||१४||
स कुरुष्व महेष्वास दयां मयि नरर्षभ |
आनृशंस्यं परो धर्मस्त्वत्त एव हि मे श्रुतम् ||१५||
एवं ब्रुवाणान्यदि वः प्रतिब्रूयाद्धि कश्चन |
स नरः सर्वथा ज्ञेयः कश्चासौ क्व च वर्तते ||१६||
यच्च वो वचनं श्रुत्वा ब्रूयात्प्रतिवचो नरः |
तदादाय वचः क्षिप्रं ममावेद्यं द्विजोत्तमाः ||१७||
यथा च वो न जानीयाच्चरतो भीमशासनात् |
पुनरागमनं चैव तथा कार्यमतन्द्रितैः ||१८||
यदि वासौ समृद्धः स्याद्यदि वाप्यधनो भवेत् |
यदि वाप्यर्थकामः स्याज्ज्ञेयमस्य चिकीर्षितम् ||१९||
एवमुक्तास्त्वगच्छंस्ते ब्राह्मणाः सर्वतोदिशम् |
नलं मृगयितुं राजंस्तथा व्यसनिनं तदा ||२०||
ते पुराणि सराष्ट्राणि ग्रामान्घोषांस्तथाश्रमान् |
अन्वेषन्तो नलं राजन्नाधिजग्मुर्द्विजातयः ||२१||
तच्च वाक्यं तथा सर्वे तत्र तत्र विशां पते |
श्रावयां चक्रिरे विप्रा दमयन्त्या यथेरितम् ||२२||
६८
बृहदश्व उवाच||
अथ दीर्घस्य कालस्य पर्णादो नाम वै द्विजः |
प्रत्येत्य नगरं भैमीमिदं वचनमब्रवीत् ||१||
नैषधं मृगयानेन दमयन्ति दिवानिशम् |
अयोध्यां नगरीं गत्वा भाङ्गस्वरिरुपस्थितः ||२||
श्रावितश्च मया वाक्यं त्वदीयं स महाजने |
ऋतुपर्णो महाभागो यथोक्तं वरवर्णिनि ||३||
तच्छ्रुत्वा नाब्रवीत्किञ्चिदृतुपर्णो नराधिपः |
न च पारिषदः कश्चिद्भाष्यमाणो मयासकृत् ||४||
अनुज्ञातं तु मां राज्ञा विजने कश्चिदब्रवीत् |
ऋतुपर्णस्य पुरुषो बाहुको नाम नामतः ||५||
सूतस्तस्य नरेन्द्रस्य विरूपो ह्रस्वबाहुकः |
शीघ्रयाने सुकुशलो मृष्टकर्ता च भोजने ||६||
स विनिःश्वस्य बहुशो रुदित्वा च मुहुर्मुहुः |
कुशलं चैव मां पृष्ट्वा पश्चादिदमभाषत ||७||
वैषम्यमपि सम्प्राप्ता गोपायन्ति कुलस्त्रियः |
आत्मानमात्मना सत्यो जितस्वर्गा न संशयः ||८||
रहिता भर्तृभिश्चैव न क्रुध्यन्ति कदाचन ||८||
विषमस्थेन मूढेन परिभ्रष्टसुखेन च |
यत्सा तेन परित्यक्ता तत्र न क्रोद्धुमर्हति ||९||
प्राणयात्रां परिप्रेप्सोः शकुनैर्हृतवाससः |
आधिभिर्दह्यमानस्य श्यामा न क्रोद्धुमर्हति ||१०||
सत्कृतासत्कृता वापि पतिं दृष्ट्वा तथागतम् |
भ्रष्टराज्यं श्रिया हीनं श्यामा न क्रोद्धुमर्हति ||११||
तस्य तद्वचनं श्रुत्वा त्वरितोऽहमिहागतः |
श्रुत्वा प्रमाणं भवती राज्ञश्चैव निवेदय ||१२||
एतच्छ्रुत्वाश्रुपूर्णाक्षी पर्णादस्य विशां पते |
दमयन्ती रहोऽभ्येत्य मातरं प्रत्यभाषत ||१३||
अयमर्थो न संवेद्यो भीमे मातः कथञ्चन |
त्वत्संनिधौ समादेक्ष्ये सुदेवं द्विजसत्तमम् ||१४||
यथा न नृपतिर्भीमः प्रतिपद्येत मे मतम् |
तथा त्वया प्रयत्तव्यं मम चेत्प्रियमिच्छसि ||१५||
यथा चाहं समानीता सुदेवेनाशु बान्धवान् |
तेनैव मङ्गलेनाशु सुदेवो यातु माचिरम् ||१६||
समानेतुं नलं मातरयोध्यां नगरीमितः ||१६||
विश्रान्तं च ततः पश्चात्पर्णादं द्विजसत्तमम् |
अर्चयामास वैदर्भी धनेनातीव भामिनी ||१७||
नले चेहागते विप्र भूयो दास्यामि ते वसु |
त्वया हि मे बहु कृतं यथा नान्यः करिष्यति ||१८||
यद्भर्त्राहं समेष्यामि शीघ्रमेव द्विजोत्तम ||१८||
एवमुक्तोऽर्चयित्वा तामाशीर्वादैः सुमङ्गलैः |
गृहानुपययौ चापि कृतार्थः स महामनाः ||१९||
ततश्चानाय्य तं विप्रं दमयन्ती युधिष्ठिर |
अब्रवीत्संनिधौ मातुर्दुःखशोकसमन्विता ||२०||
गत्वा सुदेव नगरीमयोध्यावासिनं नृपम् |
ऋतुपर्णं वचो ब्रूहि पतिमन्यं चिकीर्षती ||२१||
आस्थास्यति पुनर्भैमी दमयन्ती स्वयंवरम् ||२१||
तत्र गच्छन्ति राजानो राजपुत्राश्च सर्वशः |
यथा च गणितः कालः श्वोभूते स भविष्यति ||२२||
यदि सम्भावनीयं ते गच्छ शीघ्रमरिंदम |
सूर्योदये द्वितीयं सा भर्तारं वरयिष्यति ||२३||
न हि स ज्ञायते वीरो नलो जीवन्मृतोऽपि वा ||२३||
एवं तया यथोक्तं वै गत्वा राजानमब्रवीत् |
ऋतुपर्णं महाराज सुदेवो ब्राह्मणस्तदा ||२४||
६९
बृहदश्व उवाच||
श्रुत्वा वचः सुदेवस्य ऋतुपर्णो नराधिपः |
सान्त्वयञ्श्लक्ष्णया वाचा बाहुकं प्रत्यभाषत ||१||
विदर्भान्यातुमिच्छामि दमदन्त्याः स्वयंवरम् |
एकाह्ना हयतत्त्वज्ञ मन्यसे यदि बाहुक ||२||
एवमुक्तस्य कौन्तेय तेन राज्ञा नलस्य ह |
व्यदीर्यत मनो दुःखात्प्रदध्यौ च महामनाः ||३||
दमयन्ती भवेदेतत्कुर्याद्दुःखेन मोहिता |
अस्मदर्थे भवेद्वायमुपायश्चिन्तितो महान् ||४||
नृशंसं बत वैदर्भी कर्तुकामा तपस्विनी |
मया क्षुद्रेण निकृता पापेनाकृतबुद्धिना ||५||
स्त्रीस्वभावश्चलो लोके मम दोषश्च दारुणः |
स्यादेवमपि कुर्यात्सा विवशा गतसौहृदा ||६||
मम शोकेन संविग्ना नैराश्यात्तनुमध्यमा ||६||
न चैवं कर्हिचित्कुर्यात्सापत्या च विशेषतः |
यदत्र तथ्यं पथ्यं च गत्वा वेत्स्यामि निश्चयम् ||७||
ऋतुपर्णस्य वै काममात्मार्थं च करोम्यहम् ||७||
इति निश्चित्य मनसा बाहुको दीनमानसः |
कृताञ्जलिरुवाचेदमृतुपर्णं नराधिपम् ||८||
प्रतिजानामि ते सत्यं गमिष्यसि नराधिप |
एकाह्ना पुरुषव्याघ्र विदर्भनगरीं नृप ||९||
ततः परीक्षामश्वानां चक्रे राजन्स बाहुकः |
अश्वशालामुपागम्य भाङ्गस्वरिनृपाज्ञया ||१०||
स त्वर्यमाणो बहुश ऋतुपर्णेन बाहुकः |
अध्यगच्छत्कृशानश्वान्समर्थानध्वनि क्षमान् ||११||
तेजोबलसमायुक्तान्कुलशीलसमन्वितान् |
वर्जिताँल्लक्षणैर्हीनैः पृथुप्रोथान्महाहनून् ||१२||
शुद्धान्दशभिरावर्तैः सिन्धुजान्वातरंहसः ||१२||
दृष्ट्वा तानब्रवीद्राजा किञ्चित्कोपसमन्वितः |
किमिदं प्रार्थितं कर्तुं प्रलब्धव्या हि ते वयम् ||१३||
कथमल्पबलप्राणा वक्ष्यन्तीमे हया मम |
महानध्वा च तुरगैर्गन्तव्यः कथमीदृशैः ||१४||
बाहुक उवाच||
एते हया गमिष्यन्ति विदर्भान्नात्र संशयः |
अथान्यान्मन्यसे राजन्ब्रूहि कान्योजयामि ते ||१५||
ऋतुपर्ण उवाच||
त्वमेव हयतत्त्वज्ञः कुशलश्चासि बाहुक |
यान्मन्यसे समर्थांस्त्वं क्षिप्रं तानेव योजय ||१६||
बृहदश्व उवाच||
ततः सदश्वांश्चतुरः कुलशीलसमन्वितान् |
योजयामास कुशलो जवयुक्तान्रथे नरः ||१७||
ततो युक्तं रथं राजा समारोहत्त्वरान्वितः |
अथ पर्यपतन्भूमौ जानुभिस्ते हयोत्तमाः ||१८||
ततो नरवरः श्रीमान्नलो राजा विशां पते |
सान्त्वयामास तानश्वांस्तेजोबलसमन्वितान् ||१९||
रश्मिभिश्च समुद्यम्य नलो यातुमियेष सः |
सूतमारोप्य वार्ष्णेयं जवमास्थाय वै परम् ||२०||
ते चोद्यमाना विधिना बाहुकेन हयोत्तमाः |
समुत्पेतुरिवाकाशं रथिनं मोहयन्निव ||२१||
तथा तु दृष्ट्वा तानश्वान्वहतो वातरंहसः |
अयोध्याधिपतिर्धीमान्विस्मयं परमं ययौ ||२२||
रथघोषं तु तं श्रुत्वा हयसङ्ग्रहणं च तत् |
वार्ष्णेयश्चिन्तयामास बाहुकस्य हयज्ञताम् ||२३||
किं नु स्यान्मातलिरयं देवराजस्य सारथिः |
तथा हि लक्षणं वीरे बाहुके दृश्यते महत् ||२४||
शालिहोत्रोऽथ किं नु स्याद्धयानां कुलतत्त्ववित् |
मानुषं समनुप्राप्तो वपुः परमशोभनम् ||२५||
उताहो स्विद्भवेद्राजा नलः परपुरञ्जयः |
सोऽयं नृपतिरायात इत्येवं समचिन्तयत् ||२६||
अथ वा यां नलो वेद विद्यां तामेव बाहुकः |
तुल्यं हि लक्षये ज्ञानं बाहुकस्य नलस्य च ||२७||
अपि चेदं वयस्तुल्यमस्य मन्ये नलस्य च |
नायं नलो महावीर्यस्तद्विद्यस्तु भविष्यति ||२८||
प्रच्छन्ना हि महात्मानश्चरन्ति पृथिवीमिमाम् |
दैवेन विधिना युक्ताः शास्त्रोक्तैश्च विरूपणैः ||२९||
भवेत्तु मतिभेदो मे गात्रवैरूप्यतां प्रति |
प्रमाणात्परिहीनस्तु भवेदिति हि मे मतिः ||३०||
वयःप्रमाणं तत्तुल्यं रूपेण तु विपर्ययः |
नलं सर्वगुणैर्युक्तं मन्ये बाहुकमन्ततः ||३१||
एवं विचार्य बहुशो वार्ष्णेयः पर्यचिन्तयत् |
हृदयेन महाराज पुण्यश्लोकस्य सारथिः ||३२||
ऋतुपर्णस्तु राजेन्द्र बाहुकस्य हयज्ञताम् |
चिन्तयन्मुमुदे राजा सहवार्ष्णेयसारथिः ||३३||
बलं वीर्यं तथोत्साहं हयसङ्ग्रहणं च तत् |
परं यत्नं च सम्प्रेक्ष्य परां मुदमवाप ह ||३४||
७०
बृहदश्व उवाच||
स नदीः पर्वतांश्चैव वनानि च सरांसि च |
अचिरेणातिचक्राम खेचरः खे चरन्निव ||१||
तथा प्रयाते तु रथे तदा भाङ्गस्वरिर्नृपः |
उत्तरीयमथापश्यद्भ्रष्टं परपुरञ्जयः ||२||
ततः स त्वरमाणस्तु पटे निपतिते तदा |
ग्रहीष्यामीति तं राजा नलमाह महामनाः ||३||
निगृह्णीष्व महाबुद्धे हयानेतान्महाजवान् |
वार्ष्णेयो यावदेतं मे पटमानयतामिति ||४||
नलस्तं प्रत्युवाचाथ दूरे भ्रष्टः पटस्तव |
योजनं समतिक्रान्तो न स शक्यस्त्वया पुनः ||५||
एवमुक्ते नलेनाथ तदा भाङ्गस्वरिर्नृपः |
आससाद वने राजन्फलवन्तं बिभीतकम् ||६||
तं दृष्ट्वा बाहुकं राजा त्वरमाणोऽभ्यभाषत |
ममापि सूत पश्य त्वं सङ्ख्याने परमं बलम् ||७||
सर्वः सर्वं न जानाति सर्वज्ञो नास्ति कश्चन |
नैकत्र परिनिष्ठास्ति ज्ञानस्य पुरुषे क्वचित् ||८||
वृक्षेऽस्मिन्यानि पर्णानि फलान्यपि च बाहुक |
पतितानि च यान्यत्र तत्रैकमधिकं शतम् ||९||
एकपत्राधिकं पत्रं फलमेकं च बाहुक ||९||
पञ्च कोट्योऽथ पत्राणां द्वयोरपि च शाखयोः |
प्रचिनुह्यस्य शाखे द्वे याश्चाप्यन्याः प्रशाखिकाः ||१०||
आभ्यां फलसहस्रे द्वे पञ्चोनं शतमेव च ||१०||
ततो रथादवप्लुत्य राजानं बाहुकोऽब्रवीत् |
परोक्षमिव मे राजन्कत्थसे शत्रुकर्शन ||११||
अथ ते गणिते राजन्विद्यते न परोक्षता |
प्रत्यक्षं ते महाराज गणयिष्ये बिभीतकम् ||१२||
अहं हि नाभिजानामि भवेदेवं न वेति च |
सङ्ख्यास्यामि फलान्यस्य पश्यतस्ते जनाधिप ||१३||
मुहूर्तमिव वार्ष्णेयो रश्मीन्यच्छतु वाजिनाम् ||१३||
तमब्रवीन्नृपः सूतं नायं कालो विलम्बितुम् |
बाहुकस्त्वब्रवीदेनं परं यत्नं समास्थितः ||१४||
प्रतीक्षस्व मुहूर्तं त्वमथ वा त्वरते भवान् |
एष याति शिवः पन्था याहि वार्ष्णेयसारथिः ||१५||
अब्रवीदृतुपर्णस्तं सान्त्वयन्कुरुनन्दन |
त्वमेव यन्ता नान्योऽस्ति पृथिव्यामपि बाहुक ||१६||
त्वत्कृते यातुमिच्छामि विदर्भान्हयकोविद |
शरणं त्वां प्रपन्नोऽस्मि न विघ्नं कर्तुमर्हसि ||१७||
कामं च ते करिष्यामि यन्मां वक्ष्यसि बाहुक |
विदर्भान्यदि यात्वाद्य सूर्यं दर्शयितासि मे ||१८||
अथाब्रवीद्बाहुकस्तं सङ्ख्यायेमं बिभीतकम् |
ततो विदर्भान्यास्यामि कुरुष्वेदं वचो मम ||१९||
अकाम इव तं राजा गणयस्वेत्युवाच ह |
सोऽवतीर्य रथात्तूर्णं शातयामास तं द्रुमम् ||२०||
ततः स विस्मयाविष्टो राजानमिदमब्रवीत् |
गणयित्वा यथोक्तानि तावन्त्येव फलानि च ||२१||
अत्यद्भुतमिदं राजन्दृष्टवानस्मि ते बलम् |
श्रोतुमिच्छामि तां विद्यां यथैतज्ज्ञायते नृप ||२२||
तमुवाच ततो राजा त्वरितो गमने तदा |
विद्ध्यक्षहृदयज्ञं मां सङ्ख्याने च विशारदम् ||२३||
बाहुकस्तमुवाचाथ देहि विद्यामिमां मम |
मत्तोऽपि चाश्वहृदयं गृहाण पुरुषर्षभ ||२४||
ऋतुपर्णस्ततो राजा बाहुकं कार्यगौरवात् |
हयज्ञानस्य लोभाच्च तथेत्येवाब्रवीद्वचः ||२५||
यथेष्टं त्वं गृहाणेदमक्षाणां हृदयं परम् |
निक्षेपो मेऽश्वहृदयं त्वयि तिष्ठतु बाहुक ||२६||
एवमुक्त्वा ददौ विद्यामृतुपर्णो नलाय वै ||२६||
तस्याक्षहृदयज्ञस्य शरीरान्निःसृतः कलिः |
कर्कोटकविषं तीक्ष्णं मुखात्सततमुद्वमन् ||२७||
कलेस्तस्य तदार्तस्य शापाग्निः स विनिःसृतः |
स तेन कर्शितो राजा दीर्घकालमनात्मवान् ||२८||
ततो विषविमुक्तात्मा स्वरूपमकरोत्कलिः |
तं शप्तुमैच्छत्कुपितो निषधाधिपतिर्नलः ||२९||
तमुवाच कलिर्भीतो वेपमानः कृताञ्जलिः |
कोपं संयच्छ नृपते कीर्तिं दास्यामि ते पराम् ||३०||
इन्द्रसेनस्य जननी कुपिता माशपत्पुरा |
यदा त्वया परित्यक्ता ततोऽहं भृशपीडितः ||३१||
अवसं त्वयि राजेन्द्र सुदुःखमपराजित |
विषेण नागराजस्य दह्यमानो दिवानिशम् ||३२||
ये च त्वां मनुजा लोके कीर्तयिष्यन्त्यतन्द्रिताः |
मत्प्रसूतं भयं तेषां न कदाचिद्भविष्यति ||३३||
एवमुक्तो नलो राजा न्ययच्छत्कोपमात्मनः |
ततो भीतः कलिः क्षिप्रं प्रविवेश बिभीतकम् ||३४||
कलिस्त्वन्येन नादृश्यत्कथयन्नैषधेन वै ||३४||
ततो गतज्वरो राजा नैषधः परवीरहा |
सम्प्रनष्टे कलौ राजन्सङ्ख्यायाथ फलान्युत ||३५||
मुदा परमया युक्तस्तेजसा च परेण ह |
रथमारुह्य तेजस्वी प्रययौ जवनैर्हयैः ||३६||
बिभीतकश्चाप्रशस्तः संवृत्तः कलिसंश्रयात् ||३६||
हयोत्तमानुत्पततो द्विजानिव पुनः पुनः |
नलः सञ्चोदयामास प्रहृष्टेनान्तरात्मना ||३७||
विदर्भाभिमुखो राजा प्रययौ स महामनाः |
नले तु समतिक्रान्ते कलिरप्यगमद्गृहान् ||३८||
ततो गतज्वरो राजा नलोऽभूत्पृथिवीपते |
विमुक्तः कलिना राजन्रूपमात्रवियोजितः ||३९||
७१
बृहदश्व उवाच||
ततो विदर्भान्सम्प्राप्तं सायाह्ने सत्यविक्रमम् |
ऋतुपर्णं जना राज्ञे भीमाय प्रत्यवेदयन् ||१||
स भीमवचनाद्राजा कुण्डिनं प्राविशत्पुरम् |
नादयन्रथघोषेण सर्वाः सोपदिशो दश ||२||
ततस्तं रथनिर्घोषं नलाश्वास्तत्र शुश्रुवुः |
श्रुत्वा च समहृष्यन्त पुरेव नलसंनिधौ ||३||
दमयन्ती च शुश्राव रथघोषं नलस्य तम् |
यथा मेघस्य नदतो गम्भीरं जलदागमे ||४||
नलेन सङ्गृहीतेषु पुरेव नलवाजिषु |
सदृशं रथनिर्घोषं मेने भैमी तथा हयाः ||५||
प्रासादस्थाश्च शिखिनः शालास्थाश्चैव वारणाः |
हयाश्च शुश्रुवुस्तत्र रथघोषं महीपतेः ||६||
ते श्रुत्वा रथनिर्घोषं वारणाः शिखिनस्तथा |
प्रणेदुरुन्मुखा राजन्मेघोदयमिवेक्ष्य ह ||७||
दमयन्त्युवाच||
यथासौ रथनिर्घोषः पूरयन्निव मेदिनीम् |
मम ह्लादयते चेतो नल एष महीपतिः ||८||
अद्य चन्द्राभवक्त्रं तं न पश्यामि नलं यदि |
असङ्ख्येयगुणं वीरं विनशिष्याम्यसंशयम् ||९||
यदि वै तस्य वीरस्य बाह्वोर्नाद्याहमन्तरम् |
प्रविशामि सुखस्पर्शं विनशिष्याम्यसंशयम् ||१०||
यदि मां मेघनिर्घोषो नोपगच्छति नैषधः |
अद्य चामीकरप्रख्यो विनशिष्याम्यसंशयम् ||११||
यदि मां सिंहविक्रान्तो मत्तवारणवारणः |
नाभिगच्छति राजेन्द्रो विनशिष्याम्यसंशयम् ||१२||
न स्मराम्यनृतं किञ्चिन्न स्मराम्यनुपाकृतम् |
न च पर्युषितं वाक्यं स्वैरेष्वपि महात्मनः ||१३||
प्रभुः क्षमावान्वीरश्च मृदुर्दान्तो जितेन्द्रियः |
रहोऽनीचानुवर्ती च क्लीबवन्मम नैषधः ||१४||
गुणांस्तस्य स्मरन्त्या मे तत्पराया दिवानिशम् |
हृदयं दीर्यत इदं शोकात्प्रियविनाकृतम् ||१५||
बृहदश्व उवाच||
एवं विलपमाना सा नष्टसञ्ज्ञेव भारत |
आरुरोह महद्वेश्म पुण्यश्लोकदिदृक्षया ||१६||
ततो मध्यमकक्षायां ददर्श रथमास्थितम् |
ऋतुपर्णं महीपालं सहवार्ष्णेयबाहुकम् ||१७||
ततोऽवतीर्य वार्ष्णेयो बाहुकश्च रथोत्तमात् |
हयांस्तानवमुच्याथ स्थापयामासतू रथम् ||१८||
सोऽवतीर्य रथोपस्थादृतुपर्णो नराधिपः |
उपतस्थे महाराज भीमं भीमपराक्रमम् ||१९||
तं भीमः प्रतिजग्राह पूजया परया ततः |
अकस्मात्सहसा प्राप्तं स्त्रीमन्त्रं न स्म विन्दति ||२०||
किं कार्यं स्वागतं तेऽस्तु राज्ञा पृष्टश्च भारत |
नाभिजज्ञे स नृपतिर्दुहित्रर्थे समागतम् ||२१||
ऋतुपर्णोऽपि राजा स धीमान्सत्यपराक्रमः |
राजानं राजपुत्रं वा न स्म पश्यति कञ्चन ||२२||
नैव स्वयंवरकथां न च विप्रसमागमम् ||२२||
ततो विगणयन्राजा मनसा कोसलाधिपः |
आगतोऽस्मीत्युवाचैनं भवन्तमभिवादकः ||२३||
राजापि च स्मयन्भीमो मनसाभिविचिन्तयत् |
अधिकं योजनशतं तस्यागमनकारणम् ||२४||
ग्रामान्बहूनतिक्रम्य नाध्यगच्छद्यथातथम् |
अल्पकार्यं विनिर्दिष्टं तस्यागमनकारणम् ||२५||
नैतदेवं स नृपतिस्तं सत्कृत्य व्यसर्जयत् |
विश्राम्यतामिति वदन्क्लान्तोऽसीति पुनः पुनः ||२६||
स सत्कृतः प्रहृष्टात्मा प्रीतः प्रीतेन पार्थिवः |
राजप्रेष्यैरनुगतो दिष्टं वेश्म समाविशत् ||२७||
ऋतुपर्णे गते राजन्वार्ष्णेयसहिते नृपे |
बाहुको रथमास्थाय रथशालामुपागमत् ||२८||
स मोचयित्वा तानश्वान्परिचार्य च शास्त्रतः |
स्वयं चैतान्समाश्वास्य रथोपस्थ उपाविशत् ||२९||
दमयन्ती तु शोकार्ता दृष्ट्वा भाङ्गस्वरिं नृपम् |
सूतपुत्रं च वार्ष्णेयं बाहुकं च तथाविधम् ||३०||
चिन्तयामास वैदर्भी कस्यैष रथनिस्वनः |
नलस्येव महानासीन्न च पश्यामि नैषधम् ||३१||
वार्ष्णेयेन भवेन्नूनं विद्या सैवोपशिक्षिता |
तेनास्य रथनिर्घोषो नलस्येव महानभूत् ||३२||
आहो स्विदृतुपर्णोऽपि यथा राजा नलस्तथा |
ततोऽयं रथनिर्घोषो नैषधस्येव लक्ष्यते ||३३||
एवं वितर्कयित्वा तु दमयन्ती विशां पते |
दूतीं प्रस्थापयामास नैषधान्वेषणे नृप ||३४||
७२
दमयन्त्युवाच||
गच्छ केशिनि जानीहि क एष रथवाहकः |
उपविष्टो रथोपस्थे विकृतो ह्रस्वबाहुकः ||१||
अभ्येत्य कुशलं भद्रे मृदुपूर्वं समाहिता |
पृच्छेथाः पुरुषं ह्येनं यथातत्त्वमनिन्दिते ||२||
अत्र मे महती शङ्का भवेदेष नलो नृपः |
तथा च मे मनस्तुष्टिर्हृदयस्य च निर्वृतिः ||३||
ब्रूयाश्चैनं कथान्ते त्वं पर्णादवचनं यथा |
प्रतिवाक्यं च सुश्रोणि बुध्येथास्त्वमनिन्दिते ||४||
बृहदश्व उवाच||
एवं समाहिता गत्वा दूती बाहुकमब्रवीत् |
दमयन्त्यपि कल्याणी प्रासादस्थान्ववैक्षत ||५||
केशिन्युवाच||
स्वागतं ते मनुष्येन्द्र कुशलं ते ब्रवीम्यहम् |
दमयन्त्या वचः साधु निबोध पुरुषर्षभ ||६||
कदा वै प्रस्थिता यूयं किमर्थमिह चागताः |
तत्त्वं ब्रूहि यथान्यायं वैदर्भी श्रोतुमिच्छति ||७||
बाहुक उवाच||
श्रुतः स्वयंवरो राज्ञा कौसल्येन यशस्विना |
द्वितीयो दमयन्त्या वै श्वोभूत इति भामिनि ||८||
श्रुत्वा तं प्रस्थितो राजा शतयोजनयायिभिः |
हयैर्वातजवैर्मुख्यैरहमस्य च सारथिः ||९||
केशिन्युवाच||
अथ योऽसौ तृतीयो वः स कुतः कस्य वा पुनः |
त्वं च कस्य कथं चेदं त्वयि कर्म समाहितम् ||१०||
बाहुक उवाच||
पुण्यश्लोकस्य वै सूतो वार्ष्णेय इति विश्रुतः |
स नले विद्रुते भद्रे भाङ्गस्वरिमुपस्थितः ||११||
अहमप्यश्वकुशलः सूदत्वे च सुनिष्ठितः |
ऋतुपर्णेन सारथ्ये भोजने च वृतः स्वयम् ||१२||
केशिन्युवाच||
अथ जानाति वार्ष्णेयः क्व नु राजा नलो गतः |
कथञ्चित्त्वयि वैतेन कथितं स्यात्तु बाहुक ||१३||
बाहुक उवाच||
इहैव पुत्रौ निक्षिप्य नलस्याशुभकर्मणः |
गतस्ततो यथाकामं नैष जानाति नैषधम् ||१४||
न चान्यः पुरुषः कश्चिन्नलं वेत्ति यशस्विनि |
गूढश्चरति लोकेऽस्मिन्नष्टरूपो महीपतिः ||१५||
आत्मैव हि नलं वेत्ति या चास्य तदनन्तरा |
न हि वै तानि लिङ्गानि नलं शंसन्ति कर्हिचित् ||१६||
केशिन्युवाच||
योऽसावयोध्यां प्रथमं गतवान्ब्राह्मणस्तदा |
इमानि नारीवाक्यानि कथयानः पुनः पुनः ||१७||
क्व नु त्वं कितव छित्त्वा वस्त्रार्धं प्रस्थितो मम |
उत्सृज्य विपिने सुप्तामनुरक्तां प्रियां प्रिय ||१८||
सा वै यथा समादिष्टा तत्रास्ते त्वत्प्रतीक्षिणी |
दह्यमाना दिवारात्रं वस्त्रार्धेनाभिसंवृता ||१९||
तस्या रुदन्त्याः सततं तेन दुःखेन पार्थिव |
प्रसादं कुरु वै वीर प्रतिवाक्यं प्रयच्छ च ||२०||
तस्यास्तत्प्रियमाख्यानं प्रब्रवीहि महामते |
तदेव वाक्यं वैदर्भी श्रोतुमिच्छत्यनिन्दिता ||२१||
एतच्छ्रुत्वा प्रतिवचस्तस्य दत्तं त्वया किल |
यत्पुरा तत्पुनस्त्वत्तो वैदर्भी श्रोतुमिच्छति ||२२||
बृहदश्व उवाच||
एवमुक्तस्य केशिन्या नलस्य कुरुनन्दन |
हृदयं व्यथितं चासीदश्रुपूर्णे च लोचने ||२३||
स निगृह्यात्मनो दुःखं दह्यमानो महीपतिः |
बाष्पसंदिग्धया वाचा पुनरेवेदमब्रवीत् ||२४||
वैषम्यमपि सम्प्राप्ता गोपायन्ति कुलस्त्रियः |
आत्मानमात्मना सत्यो जितस्वर्गा न संशयः ||२५||
रहिता भर्तृभिश्चैव न क्रुध्यन्ति कदाचन |
प्राणांश्चारित्रकवचा धारयन्तीह सत्स्त्रियः ||२६||
प्राणयात्रां परिप्रेप्सोः शकुनैर्हृतवाससः |
आधिभिर्दह्यमानस्य श्यामा न क्रोद्धुमर्हति ||२७||
सत्कृतासत्कृता वापि पतिं दृष्ट्वा तथागतम् |
भ्रष्टराज्यं श्रिया हीनं क्षुधितं व्यसनाप्लुतम् ||२८||
एवं ब्रुवाणस्तद्वाक्यं नलः परमदुःखितः |
न बाष्पमशकत्सोढुं प्ररुरोद च भारत ||२९||
ततः सा केशिनी गत्वा दमयन्त्यै न्यवेदयत् |
तत्सर्वं कथितं चैव विकारं चैव तस्य तम् ||३०||
७३
बृहदश्व उवाच||
दमयन्ती तु तच्छ्रुत्वा भृशं शोकपरायणा |
शङ्कमाना नलं तं वै केशिनीमिदमब्रवीत् ||१||
गच्छ केशिनि भूयस्त्वं परीक्षां कुरु बाहुके |
आब्रुवाणा समीपस्था चरितान्यस्य लक्षय ||२||
यदा च किञ्चित्कुर्यात्स कारणं तत्र भामिनि |
तत्र सञ्चेष्टमानस्य संलक्ष्यं ते विचेष्टितम् ||३||
न चास्य प्रतिबन्धेन देयोऽग्निरपि भामिनि |
याचते न जलं देयं सम्यगत्वरमाणया ||४||
एतत्सर्वं समीक्ष्य त्वं चरितं मे निवेदय |
यच्चान्यदपि पश्येथास्तच्चाख्येयं त्वया मम ||५||
दमयन्त्यैवमुक्ता सा जगामाथाशु केशिनी |
निशाम्य च हयज्ञस्य लिङ्गानि पुनरागमत् ||६||
सा तत्सर्वं यथावृत्तं दमयन्त्यै न्यवेदयत् |
निमित्तं यत्तदा दृष्टं बाहुके दिव्यमानुषम् ||७||
केशिन्युवाच||
दृढं शुच्युपचारोऽसौ न मया मानुषः क्वचित् |
दृष्टपूर्वः श्रुतो वापि दमयन्ति तथाविधः ||८||
ह्रस्वमासाद्य सञ्चारं नासौ विनमते क्वचित् |
तं तु दृष्ट्वा यथासङ्गमुत्सर्पति यथासुखम् ||९||
सङ्कटेऽप्यस्य सुमहद्विवरं जायतेऽधिकम् ||९||
ऋतुपर्णस्य चार्थाय भोजनीयमनेकशः |
प्रेषितं तत्र राज्ञा च मांसं सुबहु पाशवम् ||१०||
तस्य प्रक्षालनार्थाय कुम्भस्तत्रोपकल्पितः |
स तेनावेक्षितः कुम्भः पूर्ण एवाभवत्तदा ||११||
ततः प्रक्षालनं कृत्वा समधिश्रित्य बाहुकः |
तृणमुष्टिं समादाय आविध्यैनं समादधत् ||१२||
अथ प्रज्वलितस्तत्र सहसा हव्यवाहनः |
तदद्भुततमं दृष्ट्वा विस्मिताहमिहागता ||१३||
अन्यच्च तस्मिन्सुमहदाश्चर्यं लक्षितं मया |
यदग्निमपि संस्पृश्य नैव दह्यत्यसौ शुभे ||१४||
छन्देन चोदकं तस्य वहत्यावर्जितं द्रुतम् |
अतीव चान्यत्सुमहदाश्चर्यं दृष्टवत्यहम् ||१५||
यत्स पुष्पाण्युपादाय हस्ताभ्यां ममृदे शनैः |
मृद्यमानानि पाणिभ्यां तेन पुष्पाणि तान्यथ ||१६||
भूय एव सुगन्धीनि हृषितानि भवन्ति च |
एतान्यद्भुतकल्पानि दृष्ट्वाहं द्रुतमागता ||१७||
बृहदश्व उवाच||
दमयन्ती तु तच्छ्रुत्वा पुण्यश्लोकस्य चेष्टितम् |
अमन्यत नलं प्राप्तं कर्मचेष्टाभिसूचितम् ||१८||
सा शङ्कमाना भर्तारं नलं बाहुकरूपिणम् |
केशिनीं श्लक्ष्णया वाचा रुदती पुनरब्रवीत् ||१९||
पुनर्गच्छ प्रमत्तस्य बाहुकस्योपसंस्कृतम् |
महानसाच्छृतं मांसं समादायैहि भामिनि ||२०||
सा गत्वा बाहुके व्यग्रे तन्मांसमपकृष्य च |
अत्युष्णमेव त्वरिता तत्क्षणं प्रियकारिणी ||२१||
दमयन्त्यै ततः प्रादात्केशिनी कुरुनन्दन ||२१||
सोचिता नलसिद्धस्य मांसस्य बहुशः पुरा |
प्राश्य मत्वा नलं सूदं प्राक्रोशद्भृशदुःखिता ||२२||
वैक्लव्यं च परं गत्वा प्रक्षाल्य च मुखं ततः |
मिथुनं प्रेषयामास केशिन्या सह भारत ||२३||
इन्द्रसेनां सह भ्रात्रा समभिज्ञाय बाहुकः |
अभिद्रुत्य ततो राजा परिष्वज्याङ्कमानयत् ||२४||
बाहुकस्तु समासाद्य सुतौ सुरसुतोपमौ |
भृशं दुःखपरीतात्मा सस्वरं प्ररुदोद ह ||२५||
नैषधो दर्शयित्वा तु विकारमसकृत्तदा |
उत्सृज्य सहसा पुत्रौ केशिनीमिदमब्रवीत् ||२६||
इदं सुसदृशं भद्रे मिथुनं मम पुत्रयोः |
ततो दृष्ट्वैव सहसा बाष्पमुत्सृष्टवानहम् ||२७||
बहुशः सम्पतन्तीं त्वां जनः शङ्केत दोषतः |
वयं च देशातिथयो गच्छ भद्रे नमोऽस्तु ते ||२८||
७४
बृहदश्व उवाच||
सर्वं विकारं दृष्ट्वा तु पुण्यश्लोकस्य धीमतः |
आगत्य केशिनी क्षिप्रं दमयन्त्यै न्यवेदयत् ||१||
दमयन्ती ततो भूयः प्रेषयामास केशिनीम् |
मातुः सकाशं दुःखार्ता नलशङ्कासमुत्सुका ||२||
परीक्षितो मे बहुशो बाहुको नलशङ्कया |
रूपे मे संशयस्त्वेकः स्वयमिच्छामि वेदितुम् ||३||
स वा प्रवेश्यतां मातर्मां वानुज्ञातुमर्हसि |
विदितं वाथ वाज्ञातं पितुर्मे संविधीयताम् ||४||
एवमुक्ता तु वैदर्भ्या सा देवी भीममब्रवीत् |
दुहितुस्तमभिप्रायमन्वजानाच्च पार्थिवः ||५||
सा वै पित्राभ्यनुज्ञाता मात्रा च भरतर्षभ |
नलं प्रवेशयामास यत्र तस्याः प्रतिश्रयः ||६||
तं तु दृष्ट्वा तथायुक्तं दमयन्ती नलं तदा |
तीव्रशोकसमाविष्टा बभूव वरवर्णिनी ||७||
ततः काषायवसना जटिला मलपङ्किनी |
दमयन्ती महाराज बाहुकं वाक्यमब्रवीत् ||८||
दृष्टपूर्वस्त्वया कश्चिद्धर्मज्ञो नाम बाहुक |
सुप्तामुत्सृज्य विपिने गतो यः पुरुषः स्त्रियम् ||९||
अनागसं प्रियां भार्यां विजने श्रममोहिताम् |
अपहाय तु को गच्छेत्पुण्यश्लोकमृते नलम् ||१०||
किं नु तस्य मया कार्यमपराद्धं महीपतेः |
यो मामुत्सृज्य विपिने गतवान्निद्रया हृताम् ||११||
साक्षाद्देवानपाहाय वृतो यः स मया पुरा |
अनुव्रतां साभिकामां पुत्रिणीं त्यक्तवान्कथम् ||१२||
अग्नौ पाणिगृहीतां च हंसानां वचने स्थिताम् |
भरिष्यामीति सत्यं च प्रतिश्रुत्य क्व तद्गतम् ||१३||
दमयन्त्या ब्रुवन्त्यास्तु सर्वमेतदरिंदम |
शोकजं वारि नेत्राभ्यामसुखं प्रास्रवद्बहु ||१४||
अतीव कृष्णताराभ्यां रक्तान्ताभ्यां जलं तु तत् |
परिस्रवन्नलो दृष्ट्वा शोकार्त इदमब्रवीत् ||१५||
मम राज्यं प्रनष्टं यन्नाहं तत्कृतवान्स्वयम् |
कलिना तत्कृतं भीरु यच्च त्वामहमत्यजम् ||१६||
त्वया तु धर्मभृच्छ्रेष्ठे शापेनाभिहतः पुरा |
वनस्थया दुःखितया शोचन्त्या मां विवाससम् ||१७||
स मच्छरीरे त्वच्छापाद्दह्यमानोऽवसत्कलिः |
त्वच्छापदग्धः सततं सोऽग्नाविव समाहितः ||१८||
मम च व्यवसायेन तपसा चैव निर्जितः |
दुःखस्यान्तेन चानेन भवितव्यं हि नौ शुभे ||१९||
विमुच्य मां गतः पापः स ततोऽहमिहागतः |
त्वदर्थं विपुलश्रोणि न हि मेऽन्यत्प्रयोजनम् ||२०||
कथं नु नारी भर्तारमनुरक्तमनुव्रतम् |
उत्सृज्य वरयेदन्यं यथा त्वं भीरु कर्हिचित् ||२१||
दूताश्चरन्ति पृथिवीं कृत्स्नां नृपतिशासनात् |
भैमी किल स्म भर्तारं द्वितीयं वरयिष्यति ||२२||
स्वैरवृत्ता यथाकाममनुरूपमिवात्मनः |
श्रुत्वैव चैवं त्वरितो भाङ्गस्वरिरुपस्थितः ||२३||
दमयन्ती तु तच्छ्रुत्वा नलस्य परिदेवितम् |
प्राञ्जलिर्वेपमाना च भीता वचनमब्रवीत् ||२४||
७५
दमयन्त्युवाच||
न मामर्हसि कल्याण पापेन परिशङ्कितुम् |
मया हि देवानुत्सृज्य वृतस्त्वं निषधाधिप ||१||
तवाभिगमनार्थं तु सर्वतो ब्राह्मणा गताः |
वाक्यानि मम गाथाभिर्गायमाना दिशो दश ||२||
ततस्त्वां ब्राह्मणो विद्वान्पर्णादो नाम पार्थिव |
अभ्यगच्छत्कोसलायामृतुपर्णनिवेशने ||३||
तेन वाक्ये हृते सम्यक्प्रतिवाक्ये तथाहृते |
उपायोऽयं मया दृष्टो नैषधानयने तव ||४||
त्वामृते न हि लोकेऽन्य एकाह्ना पृथिवीपते |
समर्थो योजनशतं गन्तुमश्वैर्नराधिप ||५||
तथा चेमौ महीपाल भजेऽहं चरणौ तव |
यथा नासत्कृतं किञ्चिन्मनसापि चराम्यहम् ||६||
अयं चरति लोकेऽस्मिन्भूतसाक्षी सदागतिः |
एष मुञ्चतु मे प्राणान्यदि पापं चराम्यहम् ||७||
तथा चरति तिग्मांशुः परेण भुवनं सदा |
स विमुञ्चतु मे प्राणान्यदि पापं चराम्यहम् ||८||
चन्द्रमाः सर्वभूतानामन्तश्चरति साक्षिवत् |
स विमुञ्चतु मे प्राणान्यदि पापं चराम्यहम् ||९||
एते देवास्त्रयः कृत्स्नं त्रैलोक्यं धारयन्ति वै |
विब्रुवन्तु यथासत्यमेते वाद्य त्यजन्तु माम् ||१०||
एवमुक्ते ततो वायुरन्तरिक्षादभाषत |
नैषा कृतवती पापं नल सत्यं ब्रवीमि ते ||११||
राजञ्शीलनिधिः स्फीतो दमयन्त्या सुरक्षितः |
साक्षिणो रक्षिणश्चास्या वयं त्रीन्परिवत्सरान् ||१२||
उपायो विहितश्चायं त्वदर्थमतुलोऽनया |
न ह्येकाह्ना शतं गन्ता त्वदृतेऽन्यः पुमानिह ||१३||
उपपन्ना त्वया भैमी त्वं च भैम्या महीपते |
नात्र शङ्का त्वया कार्या सङ्गच्छ सह भार्यया ||१४||
तथा ब्रुवति वायौ तु पुष्पवृष्टिः पपात ह |
देवदुन्दुभयो नेदुर्ववौ च पवनः शिवः ||१५||
तदद्भुततमं दृष्ट्वा नलो राजाथ भारत |
दमयन्त्यां विशङ्कां तां व्यपाकर्षदरिंदमः ||१६||
ततस्तद्वस्त्रमरजः प्रावृणोद्वसुधाधिपः |
संस्मृत्य नागराजानं ततो लेभे वपुः स्वकम् ||१७||
स्वरूपिणं तु भर्तारं दृष्ट्वा भीमसुता तदा |
प्राक्रोशदुच्चैरालिङ्ग्य पुण्यश्लोकमनिन्दिता ||१८||
भैमीमपि नलो राजा भ्राजमानो यथा पुरा |
सस्वजे स्वसुतौ चापि यथावत्प्रत्यनन्दत ||१९||
ततः स्वोरसि विन्यस्य वक्त्रं तस्य शुभानना |
परीता तेन दुःखेन निशश्वासायतेक्षणा ||२०||
तथैव मलदिग्धाङ्गी परिष्वज्य शुचिस्मिता |
सुचिरं पुरुषव्याघ्रं तस्थौ साश्रुपरिप्लुता ||२१||
ततः सर्वं यथावृत्तं दमयन्त्या नलस्य च |
भीमायाकथयत्प्रीत्या वैदर्भ्या जननी नृप ||२२||
ततोऽब्रवीन्महाराजः कृतशौचमहं नलम् |
दमयन्त्या सहोपेतं काल्यं द्रष्टा सुखोषितम् ||२३||
ततस्तौ सहितौ रात्रिं कथयन्तौ पुरातनम् |
वने विचरितं सर्वमूषतुर्मुदितौ नृप ||२४||
स चतुर्थे ततो वर्षे सङ्गम्य सह भार्यया |
सर्वकामैः सुसिद्धार्थो लब्धवान्परमां मुदम् ||२५||
दमयन्त्यपि भर्तारमवाप्याप्यायिता भृशम् |
अर्धसञ्जातसस्येव तोयं प्राप्य वसुन्धरा ||२६||
सैवं समेत्य व्यपनीततन्द्री; शान्तज्वरा हर्षविवृद्धसत्त्वा |
रराज भैमी समवाप्तकामा; शीतांशुना रात्रिरिवोदितेन ||२७||
७६
बृहदश्व उवाच||
अथ तां व्युषितो रात्रिं नलो राजा स्वलङ्कृतः |
वैदर्भ्या सहितः काल्यं ददर्श वसुधाधिपम् ||१||
ततोऽभिवादयामास प्रयतः श्वशुरं नलः |
तस्यानु दमयन्ती च ववन्दे पितरं शुभा ||२||
तं भीमः प्रतिजग्राह पुत्रवत्परया मुदा |
यथार्हं पूजयित्वा तु समाश्वासयत प्रभुः ||३||
नलेन सहितां तत्र दमयन्तीं पतिव्रताम् ||३||
तामर्हणां नलो राजा प्रतिगृह्य यथाविधि |
परिचर्यां स्वकां तस्मै यथावत्प्रत्यवेदयत् ||४||
ततो बभूव नगरे सुमहान्हर्षनिस्वनः |
जनस्य सम्प्रहृष्टस्य नलं दृष्ट्वा तथागतम् ||५||
अशोभयच्च नगरं पताकाध्वजमालिनम् |
सिक्तसंमृष्टपुष्पाढ्या राजमार्गाः कृतास्तदा ||६||
द्वारि द्वारि च पौराणां पुष्पभङ्गः प्रकल्पितः |
अर्चितानि च सर्वाणि देवतायतनानि च ||७||
ऋतुपर्णोऽपि शुश्राव बाहुकच्छद्मिनं नलम् |
दमयन्त्या समायुक्तं जहृषे च नराधिपः ||८||
तमानाय्य नलो राजा क्षमयामास पार्थिवम् |
स च तं क्षमयामास हेतुभिर्बुद्धिसंमतः ||९||
स सत्कृतो महीपालो नैषधं विस्मयान्वितः |
दिष्ट्या समेतो दारैः स्वैर्भवानित्यभ्यनन्दत ||१०||
कच्चित्तु नापराधं ते कृतवानस्मि नैषध |
अज्ञातवासं वसतो मद्गृहे निषधाधिप ||११||
यदि वा बुद्धिपूर्वाणि यद्यबुद्धानि कानिचित् |
मया कृतान्यकार्याणि तानि मे क्षन्तुमर्हसि ||१२||
नल उवाच||
न मेऽपराधं कृतवांस्त्वं स्वल्पमपि पार्थिव |
कृतेऽपि च न मे कोपः क्षन्तव्यं हि मया तव ||१३||
पूर्वं ह्यसि सखा मेऽसि सम्बन्धी च नराधिप |
अत ऊर्ध्वं तु भूयस्त्वं प्रीतिमाहर्तुमर्हसि ||१४||
सर्वकामैः सुविहितः सुखमस्म्युषितस्त्वयि |
न तथा स्वगृहे राजन्यथा तव गृहे सदा ||१५||
इदं चैव हयज्ञानं त्वदीयं मयि तिष्ठति |
तदुपाकर्तुमिच्छामि मन्यसे यदि पार्थिव ||१६||
बृहदश्व उवाच||
एवमुक्त्वा ददौ विद्यामृतुपर्णाय नैषधः |
स च तां प्रतिजग्राह विधिदृष्टेन कर्मणा ||१७||
ततो गृह्याश्वहृदयं तदा भाङ्गस्वरिर्नृपः |
सूतमन्यमुपादाय ययौ स्वपुरमेव हि ||१८||
ऋतुपर्णे प्रतिगते नलो राजा विशां पते |
नगरे कुण्डिने कालं नातिदीर्घमिवावसत् ||१९||
७७
बृहदश्व उवाच||
स मासमुष्य कौन्तेय भीममामन्त्र्य नैषधः |
पुरादल्पपरीवारो जगाम निषधान्प्रति ||१||
रथेनैकेन शुभ्रेण दन्तिभिः परिषोडशैः |
पञ्चाशद्भिर्हयैश्चैव षट्शतैश्च पदातिभिः ||२||
स कम्पयन्निव महीं त्वरमाणो महीपतिः |
प्रविवेशातिसंरब्धस्तरसैव महामनाः ||३||
ततः पुष्करमासाद्य वीरसेनसुतो नलः |
उवाच दीव्याव पुनर्बहु वित्तं मयार्जितम् ||४||
दमयन्ती च यच्चान्यन्मया वसु समर्जितम् |
एष वै मम संन्यासस्तव राज्यं तु पुष्कर ||५||
पुनः प्रवर्ततां द्यूतमिति मे निश्चिता मतिः |
एकपाणेन भद्रं ते प्राणयोश्च पणावहे ||६||
जित्वा परस्वमाहृत्य राज्यं वा यदि वा वसु |
प्रतिपाणः प्रदातव्यः परं हि धनमुच्यते ||७||
न चेद्वाञ्छसि तद्द्यूतं युद्धद्यूतं प्रवर्तताम् |
द्वैरथेनास्तु वै शान्तिस्तव वा मम वा नृप ||८||
वंशभोज्यमिदं राज्यं मार्गितव्यं यथा तथा |
येन तेनाप्युपायेन वृद्धानामिति शासनम् ||९||
द्वयोरेकतरे बुद्धिः क्रियतामद्य पुष्कर |
कैतवेनाक्षवत्यां वा युद्धे वा नम्यतां धनुः ||१०||
नैषधेनैवमुक्तस्तु पुष्करः प्रहसन्निव |
ध्रुवमात्मजयं मत्वा प्रत्याह पृथिवीपतिम् ||११||
दिष्ट्या त्वयार्जितं वित्तं प्रतिपाणाय नैषध |
दिष्ट्या च दुष्कृतं कर्म दमयन्त्याः क्षयं गतम् ||१२||
दिष्ट्या च ध्रियसे राजन्सदारोऽरिनिबर्हण ||१२||
धनेनानेन वैदर्भी जितेन समलङ्कृता |
मामुपस्थास्यति व्यक्तं दिवि शक्रमिवाप्सराः ||१३||
नित्यशो हि स्मरामि त्वां प्रतीक्षामि च नैषध |
देवने च मम प्रीतिर्न भवत्यसुहृद्गणैः ||१४||
जित्वा त्वद्य वरारोहां दमयन्तीमनिन्दिताम् |
कृतकृत्यो भविष्यामि सा हि मे नित्यशो हृदि ||१५||
श्रुत्वा तु तस्य ता वाचो बह्वबद्धप्रलापिनः |
इयेष स शिरश्छेत्तुं खड्गेन कुपितो नलः ||१६||
स्मयंस्तु रोषताम्राक्षस्तमुवाच ततो नृपः |
पणावः किं व्याहरसे जित्वा वै व्याहरिष्यसि ||१७||
ततः प्रावर्तत द्यूतं पुष्करस्य नलस्य च |
एकपाणेन भद्रं ते नलेन स पराजितः ||१८||
सरत्नकोशनिचयः प्राणेन पणितोऽपि च ||१८||
जित्वा च पुष्करं राजा प्रहसन्निदमब्रवीत् |
मम सर्वमिदं राज्यमव्यग्रं हतकण्टकम् ||१९||
वैदर्भी न त्वया शक्या राजापसद वीक्षितुम् |
तस्यास्त्वं सपरीवारो मूढ दासत्वमागतः ||२०||
न तत्त्वया कृतं कर्म येनाहं निर्जितः पुरा |
कलिना तत्कृतं कर्म त्वं तु मूढ न बुध्यसे ||२१||
नाहं परकृतं दोषं त्वय्याधास्ये कथञ्चन ||२१||
यथासुखं त्वं जीवस्व प्राणानभ्युत्सृजामि ते |
तथैव च मम प्रीतिस्त्वयि वीर न संशयः ||२२||
सौभ्रात्रं चैव मे त्वत्तो न कदाचित्प्रहास्यति |
पुष्कर त्वं हि मे भ्राता सञ्जीवस्व शतं समाः ||२३||
एवं नलः सान्त्वयित्वा भ्रातरं सत्यविक्रमः |
स्वपुरं प्रेषयामास परिष्वज्य पुनः पुनः ||२४||
सान्त्वितो नैषधेनैवं पुष्करः प्रत्युवाच तम् |
पुण्यश्लोकं तदा राजन्नभिवाद्य कृताञ्जलिः ||२५||
कीर्तिरस्तु तवाक्षय्या जीव वर्षायुतं सुखी |
यो मे वितरसि प्राणानधिष्ठानं च पार्थिव ||२६||
स तथा सत्कृतो राज्ञा मासमुष्य तदा नृपः |
प्रययौ स्वपुरं हृष्टः पुष्करः स्वजनावृतः ||२७||
महत्या सेनया राजन्विनीतैः परिचारकैः |
भ्राजमान इवादित्यो वपुषा पुरुषर्षभ ||२८||
प्रस्थाप्य पुष्करं राजा वित्तवन्तमनामयम् |
प्रविवेश पुरं श्रीमानत्यर्थमुपशोभितम् ||२९||
प्रविश्य सान्त्वयामास पौरांश्च निषधाधिपः ||२९||
७८
बृहदश्व उवाच||
प्रशान्ते तु पुरे हृष्टे सम्प्रवृत्ते महोत्सवे |
महत्या सेनया राजा दमयन्तीमुपानयत् ||१||
दमयन्तीमपि पिता सत्कृत्य परवीरहा |
प्रस्थापयदमेयात्मा भीमो भीमपराक्रमः ||२||
आगतायां तु वैदर्भ्यां सपुत्रायां नलो नृपः |
वर्तयामास मुदितो देवराडिव नन्दने ||३||
तथा प्रकाशतां यातो जम्बूद्वीपेऽथ राजसु |
पुनः स्वे चावसद्राज्ये प्रत्याहृत्य महायशाः ||४||
ईजे च विविधैर्यज्ञैर्विधिवत्स्वाप्तदक्षिणैः |
तथा त्वमपि राजेन्द्र ससुहृद्वक्ष्यसेऽचिरात् ||५||
दुःखमेतादृशं प्राप्तो नलः परपुरञ्जयः |
देवनेन नरश्रेष्ठ सभार्यो भरतर्षभ ||६||
एकाकिनैव सुमहन्नलेन पृथिवीपते |
दुःखमासादितं घोरं प्राप्तश्चाभ्युदयः पुनः ||७||
त्वं पुनर्भ्रातृसहितः कृष्णया चैव पाण्डव |
रमसेऽस्मिन्महारण्ये धर्ममेवानुचिन्तयन् ||८||
ब्राह्मणैश्च महाभागैर्वेदवेदाङ्गपारगैः |
नित्यमन्वास्यसे राजंस्तत्र का परिदेवना ||९||
इतिहासमिमं चापि कलिनाशनमुच्यते |
शक्यमाश्वासितुं श्रुत्वा त्वद्विधेन विशां पते ||१०||
अस्थिरत्वं च सञ्चिन्त्य पुरुषार्थस्य नित्यदा |
तस्याये च व्यये चैव समाश्वसिहि मा शुचः ||११||
ये चेदं कथयिष्यन्ति नलस्य चरितं महत् |
श्रोष्यन्ति चाप्यभीक्ष्णं वै नालक्ष्मीस्तान्भजिष्यति ||१२||
अर्थास्तस्योपपत्स्यन्ते धन्यतां च गमिष्यति ||१२||
इतिहासमिमं श्रुत्वा पुराणं शश्वदुत्तमम् |
पुत्रान्पौत्रान्पशूंश्चैव वेत्स्यते नृषु चाग्र्यताम् ||१३||
अरोगः प्रीतिमांश्चैव भविष्यति न संशयः ||१३||
भयं पश्यसि यच्च त्वमाह्वयिष्यति मां पुनः |
अक्षज्ञ इति तत्तेऽहं नाशयिष्यामि पार्थिव ||१४||
वेदाक्षहृदयं कृत्स्नमहं सत्यपराक्रम |
उपपद्यस्व कौन्तेय प्रसन्नोऽहं ब्रवीमि ते ||१५||
वैशम्पायन उवाच||
ततो हृष्टमना राजा बृहदश्वमुवाच ह |
भगवन्नक्षहृदयं ज्ञातुमिच्छामि तत्त्वतः ||१६||
ततोऽक्षहृदयं प्रादात्पाण्डवाय महात्मने |
दत्त्वा चाश्वशिरोऽगच्छदुपस्प्रष्टुं महातपाः ||१७||
बृहदश्वे गते पार्थमश्रौषीत्सव्यसाचिनम् |
वर्तमानं तपस्युग्रे वायुभक्षं मनीषिणम् ||१८||
ब्राह्मणेभ्यस्तपस्विभ्यः सम्पतद्भ्यस्ततस्ततः |
तीर्थशैलवरेभ्यश्च समेतेभ्यो दृढव्रतः ||१९||
इति पार्थो महाबाहुर्दुरापं तप आस्थितः |
न तथा दृष्टपूर्वोऽन्यः कश्चिदुग्रतपा इति ||२०||
यथा धनञ्जयः पार्थस्तपस्वी नियतव्रतः |
मुनिरेकचरः श्रीमान्धर्मो विग्रहवानिव ||२१||
तं श्रुत्वा पाण्डवो राजंस्तप्यमानं महावने |
अन्वशोचत कौन्तेयः प्रियं वै भ्रातरं जयम् ||२२||
दह्यमानेन तु हृदा शरणार्थी महावने |
ब्राह्मणान्विविधज्ञानान्पर्यपृच्छद्युधिष्ठिरः ||२३||
७९
जनमेजय उवाच||
भगवन्काम्यकात्पार्थे गते मे प्रपितामहे |
पाण्डवाः किमकुर्वन्त तमृते सव्यसाचिनम् ||१||
स हि तेषां महेष्वासो गतिरासीदनीकजित् |
आदित्यानां यथा विष्णुस्तथैव प्रतिभाति मे ||२||
तेनेन्द्रसमवीर्येण सङ्ग्रामेष्वनिवर्तिना |
विनाभूता वने वीराः कथमासन्पितामहाः ||३||
वैशम्पायन उवाच||
गते तु काम्यकात्तात पाण्डवे सव्यसाचिनि |
बभूवुः कौरवेयास्ते दुःखशोकपरायणाः ||४||
आक्षिप्तसूत्रा मणयश्छिन्नपक्षा इव द्विजाः |
अप्रीतमनसः सर्वे बभूवुरथ पाण्डवाः ||५||
वनं च तदभूत्तेन हीनमक्लिष्टकर्मणा |
कुबेरेण यथा हीनं वनं चैत्ररथं तथा ||६||
तमृते पुरुषव्याघ्रं पाण्डवा जनमेजय |
मुदमप्राप्नुवन्तो वै काम्यके न्यवसंस्तदा ||७||
ब्राह्मणार्थे पराक्रान्ताः शुद्धैर्बाणैर्महारथाः |
निघ्नन्तो भरतश्रेष्ठ मेध्यान्बहुविधान्मृगान् ||८||
नित्यं हि पुरुषव्याघ्रा वन्याहारमरिंदमाः |
विप्रसृत्य समाहृत्य ब्राह्मणेभ्यो न्यवेदयन् ||९||
एवं ते न्यवसंस्तत्र सोत्कण्ठाः पुरुषर्षभाः |
अहृष्टमनसः सर्वे गते राजन्धनञ्जये ||१०||
अथ विप्रोषितं वीरं पाञ्चाली मध्यमं पतिम् |
स्मरन्ती पाण्डवश्रेष्ठमिदं वचनमब्रवीत् ||११||
योऽर्जुनेनार्जुनस्तुल्यो द्विबाहुर्बहुबाहुना |
तमृते पाण्डवश्रेष्ठं वनं न प्रतिभाति मे ||१२||
शून्यामिव च पश्यामि तत्र तत्र महीमिमाम् ||१२||
बह्वाश्चर्यमिदं चापि वनं कुसुमितद्रुमम् |
न तथा रमणीयं मे तमृते सव्यसाचिनम् ||१३||
नीलाम्बुदसमप्रख्यं मत्तमातङ्गविक्रमम् |
तमृते पुण्डरीकाक्षं काम्यकं नातिभाति मे ||१४||
यस्य स्म धनुषो घोषः श्रूयतेऽशनिनिस्वनः |
न लभे शर्म तं राजन्स्मरन्ती सव्यसाचिनम् ||१५||
तथा लालप्यमानां तां निशम्य परवीरहा |
भीमसेनो महाराज द्रौपदीमिदमब्रवीत् ||१६||
मनःप्रीतिकरं भद्रे यद्ब्रवीषि सुमध्यमे |
तन्मे प्रीणाति हृदयममृतप्राशनोपमम् ||१७||
यस्य दीर्घौ समौ पीनौ भुजौ परिघसंनिभौ |
मौर्वीकृतकिणौ वृत्तौ खड्गायुधगदाधरौ ||१८||
निष्काङ्गदकृतापीडौ पञ्चशीर्षाविवोरगौ |
तमृते पुरुषव्याघ्रं नष्टसूर्यमिदं वनम् ||१९||
यमाश्रित्य महाबाहुं पाञ्चालाः कुरवस्तथा |
सुराणामपि यत्तानां पृतनासु न बिभ्यति ||२०||
यस्य बाहू समाश्रित्य वयं सर्वे महात्मनः |
मन्यामहे जितानाजौ परान्प्राप्तां च मेदिनीम् ||२१||
तमृते फल्गुनं वीरं न लभे काम्यके धृतिम् |
शून्यामिव च पश्यामि तत्र तत्र महीमिमाम् ||२२||
नकुल उवाच||
य उदीचीं दिशं गत्वा जित्वा युधि महाबलान् |
गन्धर्वमुख्याञ्शतशो हयाँल्लेभे स वासविः ||२३||
राजंस्तित्तिरिकल्माषाञ्श्रीमाननिलरंहसः |
प्रादाद्भ्रात्रे प्रियः प्रेम्णा राजसूये महाक्रतौ ||२४||
तमृते भीमधन्वानं भीमादवरजं वने |
कामये काम्यके वासं नेदानीममरोपमम् ||२५||
सहदेव उवाच||
यो धनानि च कन्याश्च युधि जित्वा महारथान् |
आजहार पुरा राज्ञे राजसूये महाक्रतौ ||२६||
यः समेतान्मृधे जित्वा यादवानमितद्युतिः |
सुभद्रामाजहारैको वासुदेवस्य संमते ||२७||
तस्य जिष्णोर्बृसीं दृष्ट्वा शून्यामुपनिवेशने |
हृदयं मे महाराज न शाम्यति कदाचन ||२८||
वनादस्माद्विवासं तु रोचयेऽहमरिंदम |
न हि नस्तमृते वीरं रमणीयमिदं वनम् ||२९||
तीर्थयात्रापर्व
८०
वैशम्पायन उवाच||
धनञ्जयोत्सुकास्ते तु वने तस्मिन्महारथाः |
न्यवसन्त महाभागा द्रौपद्या सह पाण्डवाः ||१||
अथापश्यन्महात्मानं देवर्षिं तत्र नारदम् |
दीप्यमानं श्रिया ब्राह्म्या दीप्ताग्निसमतेजसम् ||२||
स तैः परिवृतः श्रीमान्भ्रातृभिः कुरुसत्तमः |
विबभावतिदीप्तौजा देवैरिव शतक्रतुः ||३||
यथा च वेदान्सावित्री याज्ञसेनी तथा सती |
न जहौ धर्मतः पार्थान्मेरुमर्कप्रभा यथा ||४||
प्रतिगृह्य तु तां पूजां नारदो भगवानृषिः |
आश्वासयद्धर्मसुतं युक्तरूपमिवानघ ||५||
उवाच च महात्मानं धर्मराजं युधिष्ठिरम् |
ब्रूहि धर्मभृतां श्रेष्ठ केनार्थः किं ददामि ते ||६||
अथ धर्मसुतो राजा प्रणम्य भ्रातृभिः सह |
उवाच प्राञ्जलिर्वाक्यं नारदं देवसंमितम् ||७||
त्वयि तुष्टे महाभाग सर्वलोकाभिपूजिते |
कृतमित्येव मन्येऽहं प्रसादात्तव सुव्रत ||८||
यदि त्वहमनुग्राह्यो भ्रातृभिः सहितोऽनघ |
संदेहं मे मुनिश्रेष्ठ हृदिस्थं छेत्तुमर्हसि ||९||
प्रदक्षिणं यः कुरुते पृथिवीं तीर्थतत्परः |
किं फलं तस्य कार्त्स्न्येन तद्ब्रह्मन्वक्तुमर्हसि ||१०||
नारद उवाच||
शृणु राजन्नवहितो यथा भीष्मेण भारत |
पुलस्त्यस्य सकाशाद्वै सर्वमेतदुपश्रुतम् ||११||
पुरा भागीरथीतीरे भीष्मो धर्मभृतां वरः |
पित्र्यं व्रतं समास्थाय न्यवसन्मुनिवत्तदा ||१२||
शुभे देशे महाराज पुण्ये देवर्षिसेविते |
गङ्गाद्वारे महातेजा देवगन्धर्वसेविते ||१३||
स पितॄंस्तर्पयामास देवांश्च परमद्युतिः |
ऋषींश्च तोषयामास विधिदृष्टेन कर्मणा ||१४||
कस्यचित्त्वथ कालस्य जपन्नेव महातपाः |
ददर्शाद्भुतसङ्काशं पुलस्त्यमृषिसत्तमम् ||१५||
स तं दृष्ट्वोग्रतपसं दीप्यमानमिव श्रिया |
प्रहर्षमतुलं लेभे विस्मयं च परं ययौ ||१६||
उपस्थितं महाराज पूजयामास भारत |
भीष्मो धर्मभृतां श्रेष्ठो विधिदृष्टेन कर्मणा ||१७||
शिरसा चार्घ्यमादाय शुचिः प्रयतमानसः |
नाम सङ्कीर्तयामास तस्मिन्ब्रह्मर्षिसत्तमे ||१८||
भीष्मोऽहमस्मि भद्रं ते दासोऽस्मि तव सुव्रत |
तव संदर्शनादेव मुक्तोऽहं सर्वकिल्बिषैः ||१९||
एवमुक्त्वा महाराज भीष्मो धर्मभृतां वरः |
वाग्यतः प्राञ्जलिर्भूत्वा तूष्णीमासीद्युधिष्ठिर ||२०||
तं दृष्ट्वा नियमेनाथ स्वाध्यायाम्नायकर्शितम् |
भीष्मं कुरुकुलश्रेष्ठं मुनिः प्रीतमनाभवत् ||२१||
पुलस्त्य उवाच||
अनेन तव धर्मज्ञ प्रश्रयेण दमेन च |
सत्येन च महाभाग तुष्टोऽस्मि तव सर्वशः ||२२||
यस्येदृशस्ते धर्मोऽयं पितृभक्त्याश्रितोऽनघ |
तेन पश्यसि मां पुत्र प्रीतिश्चापि मम त्वयि ||२३||
अमोघदर्शी भीष्माहं ब्रूहि किं करवाणि ते |
यद्वक्ष्यसि कुरुश्रेष्ठ तस्य दातास्मि तेऽनघ ||२४||
भीष्म उवाच||
प्रीते त्वयि महाभाग सर्वलोकाभिपूजिते |
कृतमित्येव मन्येऽहं यदहं दृष्टवान्प्रभुम् ||२५||
यदि त्वहमनुग्राह्यस्तव धर्मभृतां वर |
वक्ष्यामि हृत्स्थं संदेहं तन्मे त्वं वक्तुमर्हसि ||२६||
अस्ति मे भगवन्कश्चित्तीर्थेभ्यो धर्मसंशयः |
तमहं श्रोतुमिच्छामि पृथक्सङ्कीर्तितं त्वया ||२७||
प्रदक्षिणं यः पृथिवीं करोत्यमितविक्रम |
किं फलं तस्य विप्रर्षे तन्मे ब्रूहि तपोधन ||२८||
पुलस्त्य उवाच||
हन्त तेऽहं प्रवक्ष्यामि यदृषीणां परायणम् |
तदेकाग्रमनास्तात शृणु तीर्थेषु यत्फलम् ||२९||
यस्य हस्तौ च पादौ च मनश्चैव सुसंयतम् |
विद्या तपश्च कीर्तिश्च स तीर्थफलमश्नुते ||३०||
प्रतिग्रहादुपावृत्तः सन्तुष्टो नियतः शुचिः |
अहङ्कारनिवृत्तश्च स तीर्थफलमश्नुते ||३१||
अकल्कको निरारम्भो लघ्वाहारो जितेन्द्रियः |
विमुक्तः सर्वदोषैर्यः स तीर्थफलमश्नुते ||३२||
अक्रोधनश्च राजेन्द्र सत्यशीलो दृढव्रतः |
आत्मोपमश्च भूतेषु स तीर्थफलमश्नुते ||३३||
ऋषिभिः क्रतवः प्रोक्ता वेदेष्विह यथाक्रमम् |
फलं चैव यथातत्त्वं प्रेत्य चेह च सर्वशः ||३४||
न ते शक्या दरिद्रेण यज्ञाः प्राप्तुं महीपते |
बहूपकरणा यज्ञा नानासम्भारविस्तराः ||३५||
प्राप्यन्ते पार्थिवैरेते समृद्धैर्वा नरैः क्वचित् |
नार्थन्यूनोपकरणैरेकात्मभिरसंहतैः ||३६||
यो दरिद्रैरपि विधिः शक्यः प्राप्तुं नरेश्वर |
तुल्यो यज्ञफलैः पुण्यैस्तं निबोध युधां वर ||३७||
ऋषीणां परमं गुह्यमिदं भरतसत्तम |
तीर्थाभिगमनं पुण्यं यज्ञैरपि विशिष्यते ||३८||
अनुपोष्य त्रिरात्राणि तीर्थान्यनभिगम्य च |
अदत्त्वा काञ्चनं गाश्च दरिद्रो नाम जायते ||३९||
अग्निष्टोमादिभिर्यज्ञैरिष्ट्वा विपुलदक्षिणैः |
न तत्फलमवाप्नोति तीर्थाभिगमनेन यत् ||४०||
नृलोके देवदेवस्य तीर्थं त्रैलोक्यविश्रुतम् |
पुष्करं नाम विख्यातं महाभागः समाविशेत् ||४१||
दश कोटिसहस्राणि तीर्थानां वै महीपते |
सांनिध्यं पुष्करे येषां त्रिसन्ध्यं कुरुनन्दन ||४२||
आदित्या वसवो रुद्राः साध्याश्च समरुद्गणाः |
गन्धर्वाप्सरसश्चैव नित्यं संनिहिता विभो ||४३||
यत्र देवास्तपस्तप्त्वा दैत्या ब्रह्मर्षयस्तथा |
दिव्ययोगा महाराज पुण्येन महतान्विताः ||४४||
मनसाप्यभिकामस्य पुष्कराणि मनस्विनः |
पूयन्ते सर्वपापानि नाकपृष्ठे च पूज्यते ||४५||
तस्मिंस्तीर्थे महाभाग नित्यमेव पितामहः |
उवास परमप्रीतो देवदानवसंमतः ||४६||
पुष्करेषु महाभाग देवाः सर्षिपुरोगमाः |
सिद्धिं समभिसम्प्राप्ताः पुण्येन महतान्विताः ||४७||
तत्राभिषेकं यः कुर्यात्पितृदेवार्चने रतः |
अश्वमेधं दशगुणं प्रवदन्ति मनीषिणः ||४८||
अप्येकं भोजयेद्विप्रं पुष्करारण्यमाश्रितः |
तेनासौ कर्मणा भीष्म प्रेत्य चेह च मोदते ||४९||
शाकमूलफलैर्वापि येन वर्तयते स्वयम् |
तद्वै दद्याद्ब्राह्मणाय श्रद्धावाननसूयकः ||५०||
तेनैव प्राप्नुयात्प्राज्ञो हयमेधफलं नरः ||५०||
ब्राह्मणः क्षत्रियो वैश्यः शूद्रो वा राजसत्तम |
न वियोनिं व्रजन्त्येते स्नातास्तीर्थे महात्मनः ||५१||
कार्त्तिक्यां तु विशेषेण योऽभिगच्छेत पुष्करम् |
फलं तत्राक्षयं तस्य वर्धते भरतर्षभ ||५२||
सायं प्रातः स्मरेद्यस्तु पुष्कराणि कृताञ्जलिः |
उपस्पृष्टं भवेत्तेन सर्वतीर्थेषु भारत ||५३||
प्राप्नुयाच्च नरो लोकान्ब्रह्मणः सदनेऽक्षयान् ||५३||
जन्मप्रभृति यत्पापं स्त्रियो वा पुरुषस्य वा |
पुष्करे स्नातमात्रस्य सर्वमेव प्रणश्यति ||५४||
यथा सुराणां सर्वेषामादिस्तु मधुसूदनः |
तथैव पुष्करं राजंस्तीर्थानामादिरुच्यते ||५५||
उष्य द्वादश वर्षाणि पुष्करे नियतः शुचिः |
क्रतून्सर्वानवाप्नोति ब्रह्मलोकं च गच्छति ||५६||
यस्तु वर्षशतं पूर्णमग्निहोत्रमुपासते |
कार्त्तिकीं वा वसेदेकां पुष्करे सममेव तत् ||५७||
दुष्करं पुष्करं गन्तुं दुष्करं पुष्करे तपः |
दुष्करं पुष्करे दानं वस्तुं चैव सुदुष्करम् ||५८||
उष्य द्वादशरात्रं तु नियतो नियताशनः |
प्रदक्षिणमुपावृत्तो जम्बूमार्गं समाविशेत् ||५९||
जम्बूमार्गं समाविश्य देवर्षिपितृसेवितम् |
अश्वमेधमवाप्नोति विष्णुलोकं च गच्छति ||६०||
तत्रोष्य रजनीः पञ्च षष्ठकालक्षमी नरः |
न दुर्गतिमवाप्नोति सिद्धिं प्राप्नोति चोत्तमाम् ||६१||
जम्बूमार्गादुपावृत्तो गच्छेत्तण्डुलिकाश्रमम् |
न दुर्गतिमवाप्नोति स्वर्गलोके च पूज्यते ||६२||
अगस्त्यसर आसाद्य पितृदेवार्चने रतः |
त्रिरात्रोपोषितो राजन्नग्निष्टोमफलं लभेत् ||६३||
शाकवृत्तिः फलैर्वापि कौमारं विन्दते पदम् |
कण्वाश्रमं समासाद्य श्रीजुष्टं लोकपूजितम् ||६४||
धर्मारण्यं हि तत्पुण्यमाद्यं च भरतर्षभ |
यत्र प्रविष्टमात्रो वै पापेभ्यो विप्रमुच्यते ||६५||
अर्चयित्वा पितॄन्देवान्नियतो नियताशनः |
सर्वकामसमृद्धस्य यज्ञस्य फलमश्नुते ||६६||
प्रदक्षिणं ततः कृत्वा ययातिपतनं व्रजेत् |
हयमेधस्य यज्ञस्य फलं प्राप्नोति तत्र वै ||६७||
महाकालं ततो गच्छेन्नियतो नियताशनः |
कोटितीर्थमुपस्पृश्य हयमेधफलं लभेत् ||६८||
ततो गच्छेत धर्मज्ञ पुण्यस्थानमुमापतेः |
नाम्ना भद्रवटं नाम त्रिषु लोकेषु विश्रुतम् ||६९||
तत्राभिगम्य चेशानं गोसहस्रफलं लभेत् |
महादेवप्रसादाच्च गाणपत्यमवाप्नुयात् ||७०||
नर्मदामथ चासाद्य नदीं त्रैलोक्यविश्रुताम् |
तर्पयित्वा पितॄन्देवानग्निष्टोमफलं लभेत् ||७१||
दक्षिणं सिन्धुमासाद्य ब्रह्मचारी जितेन्द्रियः |
अग्निष्टोममवाप्नोति विमानं चाधिरोहति ||७२||
चर्मण्वतीं समासाद्य नियतो नियताशनः |
रन्तिदेवाभ्यनुज्ञातो अग्निष्टोमफलं लभेत् ||७३||
ततो गच्छेत धर्मज्ञ हिमवत्सुतमर्बुदम् |
पृथिव्यां यत्र वै छिद्रं पूर्वमासीद्युधिष्ठिर ||७४||
तत्राश्रमो वसिष्ठस्य त्रिषु लोकेषु विश्रुतः |
तत्रोष्य रजनीमेकां गोसहस्रफलं लभेत् ||७५||
पिङ्गातीर्थमुपस्पृश्य ब्रह्मचारी जितेन्द्रियः |
कपिलानां नरव्याघ्र शतस्य फलमश्नुते ||७६||
ततो गच्छेत धर्मज्ञ प्रभासं लोकविश्रुतम् |
यत्र संनिहितो नित्यं स्वयमेव हुताशनः ||७७||
देवतानां मुखं वीर अनलोऽनिलसारथिः ||७७||
तस्मिंस्तीर्थवरे स्नात्वा शुचिः प्रयतमानसः |
अग्निष्टोमातिरात्राभ्यां फलं प्राप्नोति मानवः ||७८||
ततो गत्वा सरस्वत्याः सागरस्य च सङ्गमे |
गोसहस्रफलं प्राप्य स्वर्गलोके महीयते ||७९||
दीप्यमानोऽग्निवन्नित्यं प्रभया भरतर्षभ ||७९||
त्रिरात्रमुषितस्तत्र तर्पयेत्पितृदेवताः |
प्रभासते यथा सोमो अश्वमेधं च विन्दति ||८०||
वरदानं ततो गच्छेत्तीर्थं भरतसत्तम |
विष्णोर्दुर्वाससा यत्र वरो दत्तो युधिष्ठिर ||८१||
वरदाने नरः स्नात्वा गोसहस्रफलं लभेत् |
ततो द्वारवतीं गच्छेन्नियतो नियताशनः ||८२||
पिण्डारके नरः स्नात्वा लभेद्बहु सुवर्णकम् ||८२||
तस्मिंस्तीर्थे महाभाग पद्मलक्षणलक्षिताः |
अद्यापि मुद्रा दृश्यन्ते तदद्भुतमरिंदम ||८३||
त्रिशूलाङ्कानि पद्मानि दृश्यन्ते कुरुनन्दन |
महादेवस्य सांनिध्यं तत्रैव भरतर्षभ ||८४||
सागरस्य च सिन्धोश्च सङ्गमं प्राप्य भारत |
तीर्थे सलिलराजस्य स्नात्वा प्रयतमानसः ||८५||
तर्पयित्वा पितॄन्देवानृषींश्च भरतर्षभ |
प्राप्नोति वारुणं लोकं दीप्यमानः स्वतेजसा ||८६||
शङ्कुकर्णेश्वरं देवमर्चयित्वा युधिष्ठिर |
अश्वमेधं दशगुणं प्रवदन्ति मनीषिणः ||८७||
प्रदक्षिणमुपावृत्य गच्छेत भरतर्षभ |
तीर्थं कुरुवरश्रेष्ठ त्रिषु लोकेषु विश्रुतम् ||८८||
दृमीति नाम्ना विख्यातं सर्वपापप्रमोचनम् ||८८||
यत्र ब्रह्मादयो देवा उपासन्ते महेश्वरम् |
तत्र स्नात्वार्चयित्वा च रुद्रं देवगणैर्वृतम् ||८९||
जन्मप्रभृति पापानि कृतानि नुदते नरः ||८९||
दृमी चात्र नरश्रेष्ठ सर्वदेवैरभिष्टुता |
तत्र स्नात्वा नरव्याघ्र हयमेधमवाप्नुयात् ||९०||
जित्वा यत्र महाप्राज्ञ विष्णुना प्रभविष्णुना |
पुरा शौचं कृतं राजन्हत्वा दैवतकण्टकान् ||९१||
ततो गच्छेत धर्मज्ञ वसोर्धारामभिष्टुताम् |
गमनादेव तस्यां हि हयमेधमवाप्नुयात् ||९२||
स्नात्वा कुरुवरश्रेष्ठ प्रयतात्मा तु मानवः |
तर्प्य देवान्पितॄंश्चैव विष्णुलोके महीयते ||९३||
तीर्थं चात्र परं पुण्यं वसूनां भरतर्षभ |
तत्र स्नात्वा च पीत्वा च वसूनां संमतो भवेत् ||९४||
सिन्धूत्तममिति ख्यातं सर्वपापप्रणाशनम् |
तत्र स्नात्वा नरश्रेष्ठ लभेद्बहु सुवर्णकम् ||९५||
ब्रह्मतुङ्गं समासाद्य शुचिः प्रयतमानसः |
ब्रह्मलोकमवाप्नोति सुकृती विरजा नरः ||९६||
कुमारिकाणां शक्रस्य तीर्थं सिद्धनिषेवितम् |
तत्र स्नात्वा नरः क्षिप्रं शक्रलोकमवाप्नुयात् ||९७||
रेणुकायाश्च तत्रैव तीर्थं देवनिषेवितम् |
तत्र स्नात्वा भवेद्विप्रो विमलश्चन्द्रमा यथा ||९८||
अथ पञ्चनदं गत्वा नियतो नियताशनः |
पञ्च यज्ञानवाप्नोति क्रमशो येऽनुकीर्तिताः ||९९||
ततो गच्छेत धर्मज्ञ भीमायाः स्थानमुत्तमम् |
तत्र स्नात्वा तु योन्यां वै नरो भरतसत्तम ||१००||
देव्याः पुत्रो भवेद्राजंस्तप्तकुण्डलविग्रहः |
गवां शतसहस्रस्य फलं चैवाप्नुयान्महत् ||१०१||
गिरिमुञ्जं समासाद्य त्रिषु लोकेषु विश्रुतम् |
पितामहं नमस्कृत्य गोसहस्रफलं लभेत् ||१०२||
ततो गच्छेत धर्मज्ञ विमलं तीर्थमुत्तमम् |
अद्यापि यत्र दृश्यन्ते मत्स्याः सौवर्णराजताः ||१०३||
तत्र स्नात्वा नरश्रेष्ठ वाजपेयमवाप्नुयात् |
सर्वपापविशुद्धात्मा गच्छेच्च परमां गतिम् ||१०४||
ततो गच्छेत मलदां त्रिषु लोकेषु विश्रुताम् |
पश्चिमायां तु सन्ध्यायामुपस्पृश्य यथाविधि ||१०५||
चरुं नरेन्द्र सप्तार्चेर्यथाशक्ति निवेदयेत् |
पितॄणामक्षयं दानं प्रवदन्ति मनीषिणः ||१०६||
गवां शतसहस्रेण राजसूयशतेन च |
अश्वमेधसहस्रेण श्रेयान्सप्तार्चिषश्चरुः ||१०७||
ततो निवृत्तो राजेन्द्र वस्त्रापदमथाविशेत् |
अभिगम्य महादेवमश्वमेधफलं लभेत् ||१०८||
मणिमन्तं समासाद्य ब्रह्मचारी समाहितः |
एकरात्रोषितो राजन्नग्निष्टोमफलं लभेत् ||१०९||
अथ गच्छेत राजेन्द्र देविकां लोकविश्रुताम् |
प्रसूतिर्यत्र विप्राणां श्रूयते भरतर्षभ ||११०||
त्रिशूलपाणेः स्थानं च त्रिषु लोकेषु विश्रुतम् |
देविकायां नरः स्नात्वा समभ्यर्च्य महेश्वरम् ||१११||
यथाशक्ति चरुं तत्र निवेद्य भरतर्षभ |
सर्वकामसमृद्धस्य यज्ञस्य लभते फलम् ||११२||
कामाख्यं तत्र रुद्रस्य तीर्थं देवर्षिसेवितम् |
तत्र स्नात्वा नरः क्षिप्रं सिद्धिमाप्नोति भारत ||११३||
यजनं याजनं गत्वा तथैव ब्रह्मवालुकाम् |
पुष्पन्यास उपस्पृश्य न शोचेन्मरणं ततः ||११४||
अर्धयोजनविस्तारां पञ्चयोजनमायताम् |
एतावद्देविकामाहुः पुण्यां देवर्षिसेविताम् ||११५||
ततो गच्छेत धर्मज्ञ दीर्घसत्रं यथाक्रमम् |
यत्र ब्रह्मादयो देवाः सिद्धाश्च परमर्षयः ||११६||
दीर्घसत्रमुपासन्ते दक्षिणाभिर्यतव्रताः ||११६||
गमनादेव राजेन्द्र दीर्घसत्रमरिंदम |
राजसूयाश्वमेधाभ्यां फलं प्राप्नोति मानवः ||११७||
ततो विनशनं गच्छेन्नियतो नियताशनः |
गच्छत्यन्तर्हिता यत्र मरुपृष्ठे सरस्वती ||११८||
चमसे च शिवोद्भेदे नागोद्भेदे च दृश्यते ||११८||
स्नात्वा च चमसोद्भेदे अग्निष्टोमफलं लभेत् |
शिवोद्भेदे नरः स्नात्वा गोसहस्रफलं लभेत् ||११९||
नागोद्भेदे नरः स्नात्वा नागलोकमवाप्नुयात् |
शशयानं च राजेन्द्र तीर्थमासाद्य दुर्लभम् ||१२०||
शशरूपप्रतिच्छन्नाः पुष्करा यत्र भारत ||१२०||
सरस्वत्यां महाराज अनु संवत्सरं हि ते |
स्नायन्ते भरतश्रेष्ठ वृत्तां वै कार्त्तिकीं सदा ||१२१||
तत्र स्नात्वा नरव्याघ्र द्योतते शशिवत्सदा |
गोसहस्रफलं चैव प्राप्नुयाद्भरतर्षभ ||१२२||
कुमारकोटिमासाद्य नियतः कुरुनन्दन |
तत्राभिषेकं कुर्वीत पितृदेवार्चने रतः ||१२३||
गवामयमवाप्नोति कुलं चैव समुद्धरेत् ||१२३||
ततो गच्छेत धर्मज्ञ रुद्रकोटिं समाहितः |
पुरा यत्र महाराज ऋषिकोटिः समाहिता ||१२४||
प्रहर्षेण च संविष्टा देवदर्शनकाङ्क्षया ||१२४||
अहं पूर्वमहं पूर्वं द्रक्ष्यामि वृषभध्वजम् |
एवं सम्प्रस्थिता राजन्नृषयः किल भारत ||१२५||
ततो योगेष्वरेणापि योगमास्थाय भूपते |
तेषां मन्युप्रणाशार्थमृषीणां भावितात्मनाम् ||१२६||
सृष्टा कोटिस्तु रुद्राणामृषीणामग्रतः स्थिता |
मया पूर्वतरं दृष्ट इति ते मेनिरे पृथक् ||१२७||
तेषां तुष्टो महादेव ऋषीणामुग्रतेजसाम् |
भक्त्या परमया राजन्वरं तेषां प्रदिष्टवान् ||१२८||
अद्य प्रभृति युष्माकं धर्मवृद्धिर्भविष्यति ||१२८||
तत्र स्नात्वा नरव्याघ्र रुद्रकोट्यां नरः शुचिः |
अश्वमेधमवाप्नोति कुलं चैव समुद्धरेत् ||१२९||
ततो गच्छेत राजेन्द्र सङ्गमं लोकविश्रुतम् |
सरस्वत्या महापुण्यमुपासन्ते जनार्दनम् ||१३०||
यत्र ब्रह्मादयो देवा ऋषयः सिद्धचारणाः |
अभिगच्छन्ति राजेन्द्र चैत्रशुक्लचतुर्दशीम् ||१३१||
तत्र स्नात्वा नरव्याघ्र विन्देद्बहु सुवर्णकम् |
सर्वपापविशुद्धात्मा ब्रह्मलोकं च गच्छति ||१३२||
ऋषीणां यत्र सत्राणि समाप्तानि नराधिप |
सत्रावसानमासाद्य गोसहस्रफलं लभेत् ||१३३||
८१
पुलस्त्य उवाच||
ततो गच्छेत राजेन्द्र कुरुक्षेत्रमभिष्टुतम् |
पापेभ्यो विप्रमुच्यन्ते तद्गताः सर्वजन्तवः ||१||
कुरुक्षेत्रं गमिष्यामि कुरुक्षेत्रे वसाम्यहम् |
य एवं सततं ब्रूयात्सोऽपि पापैः प्रमुच्यते ||२||
तत्र मासं वसेद्वीर सरस्वत्यां युधिष्ठिर |
यत्र ब्रह्मादयो देवा ऋषयः सिद्धचारणाः ||३||
गन्धर्वाप्सरसो यक्षाः पन्नगाश्च महीपते |
ब्रह्मक्षेत्रं महापुण्यमभिगच्छन्ति भारत ||४||
मनसाप्यभिकामस्य कुरुक्षेत्रं युधिष्ठिर |
पापानि विप्रणश्यन्ति ब्रह्मलोकं च गच्छति ||५||
गत्वा हि श्रद्धया युक्तः कुरुक्षेत्रं कुरूद्वह |
राजसूयाश्वमेधाभ्यां फलं प्राप्नोति मानवः ||६||
ततो मचक्रुकं राजन्द्वारपालं महाबलम् |
यक्षं समभिवाद्यैव गोसहस्रफलं लभेत् ||७||
ततो गच्छेत धर्मज्ञ विष्णोः स्थानमनुत्तमम् |
सततं नाम राजेन्द्र यत्र संनिहितो हरिः ||८||
तत्र स्नात्वार्चयित्वा च त्रिलोकप्रभवं हरिम् |
अश्वमेधमवाप्नोति विष्णुलोकं च गच्छति ||९||
ततः पारिप्लवं गच्छेत्तीर्थं त्रैलोक्यविश्रुतम् |
अग्निष्टोमातिरात्राभ्यां फलं प्राप्नोति मानवः ||१०||
पृथिव्यास्तीर्थमासाद्य गोसहस्रफलं लभेत् |
ततः शालूकिनीं गत्वा तीर्थसेवी नराधिप ||११||
दशाश्वमेधिके स्नात्वा तदेव लभते फलम् ||११||
सर्पदर्वीं समासाद्य नागानां तीर्थमुत्तमम् |
अग्निष्टोममवाप्नोति नागलोकं च विन्दति ||१२||
ततो गच्छेत धर्मज्ञ द्वारपालं तरन्तुकम् |
तत्रोष्य रजनीमेकां गोसहस्रफलं लभेत् ||१३||
ततः पञ्चनदं गत्वा नियतो नियताशनः |
कोटितीर्थमुपस्पृश्य हयमेधफलं लभेत् ||१४||
अश्विनोस्तीर्थमासाद्य रूपवानभिजायते ||१४||
ततो गच्छेत धर्मज्ञ वाराहं तीर्थमुत्तमम् |
विष्णुर्वाराहरूपेण पूर्वं यत्र स्थितोऽभवत् ||१५||
तत्र स्नात्वा नरव्याघ्र अग्निष्टोमफलं लभेत् ||१५||
ततो जयन्त्या राजेन्द्र सोमतीर्थं समाविशेत् |
स्नात्वा फलमवाप्नोति राजसूयस्य मानवः ||१६||
एकहंसे नरः स्नात्वा गोसहस्रफलं लभेत् |
कृतशौचं समासाद्य तीर्थसेवी कुरूद्वह ||१७||
पुण्डरीकमवाप्नोति कृतशौचो भवेन्नरः ||१७||
ततो मुञ्जवटं नाम महादेवस्य धीमतः |
तत्रोष्य रजनीमेकां गाणपत्यमवाप्नुयात् ||१८||
तत्रैव च महाराज यक्षी लोकपरिश्रुता |
तां चाभिगम्य राजेन्द्र पुण्याँल्लोकानवाप्नुयात् ||१९||
कुरुक्षेत्रस्य तद्द्वारं विश्रुतं भरतर्षभ |
प्रदक्षिणमुपावृत्य तीर्थसेवी समाहितः ||२०||
संमिते पुष्कराणां च स्नात्वार्च्य पितृदेवताः |
जामदग्न्येन रामेण आहृते वै महात्मना ||२१||
कृतकृत्यो भवेद्राजन्नश्वमेधं च विन्दति ||२१||
ततो रामह्रदान्गच्छेत्तीर्थसेवी नराधिप |
यत्र रामेण राजेन्द्र तरसा दीप्ततेजसा ||२२||
क्षत्रमुत्साद्य वीर्येण ह्रदाः पञ्च निवेशिताः ||२२||
पूरयित्वा नरव्याघ्र रुधिरेणेति नः श्रुतम् |
पितरस्तर्पिताः सर्वे तथैव च पितामहाः ||२३||
ततस्ते पितरः प्रीता राममूचुर्महीपते ||२३||
राम राम महाभाग प्रीताः स्म तव भार्गव |
अनया पितृभक्त्या च विक्रमेण च ते विभो ||२४||
वरं वृणीष्व भद्रं ते किमिच्छसि महाद्युते ||२४||
एवमुक्तः स राजेन्द्र रामः प्रहरतां वरः |
अब्रवीत्प्राञ्जलिर्वाक्यं पितॄन्स गगने स्थितान् ||२५||
भवन्तो यदि मे प्रीता यद्यनुग्राह्यता मयि |
पितृप्रसादादिच्छेयं तपसाप्यायनं पुनः ||२६||
यच्च रोषाभिभूतेन क्षत्रमुत्सादितं मया |
ततश्च पापान्मुच्येयं युष्माकं तेजसा ह्यहम् ||२७||
ह्रदाश्च तीर्थभूता मे भवेयुर्भुवि विश्रुताः ||२७||
एतच्छ्रुत्वा शुभं वाक्यं रामस्य पितरस्तदा |
प्रत्यूचुः परमप्रीता रामं हर्षसमन्विताः ||२८||
तपस्ते वर्धतां भूयः पितृभक्त्या विशेषतः |
यच्च रोषाभिभूतेन क्षत्रमुत्सादितं त्वया ||२९||
ततश्च पापान्मुक्तस्त्वं कर्मभिस्ते च पातिताः |
ह्रदाश्च तव तीर्थत्वं गमिष्यन्ति न संशयः ||३०||
ह्रदेष्वेतेषु यः स्नात्वा पितॄन्सन्तर्पयिष्यति |
पितरस्तस्य वै प्रीता दास्यन्ति भुवि दुर्लभम् ||३१||
ईप्सितं मनसः कामं स्वर्गलोकं च शाश्वतम् ||३१||
एवं दत्त्वा वरान्राजन्रामस्य पितरस्तदा |
आमन्त्र्य भार्गवं प्रीतास्तत्रैवान्तर्दधुस्तदा ||३२||
एवं रामह्रदाः पुण्या भार्गवस्य महात्मनः |
स्नात्वा ह्रदेषु रामस्य ब्रह्मचारी शुभव्रतः ||३३||
राममभ्यर्च्य राजेन्द्र लभेद्बहु सुवर्णकम् ||३३||
वंशमूलकमासाद्य तीर्थसेवी कुरूद्वह |
स्ववंशमुद्धरेद्राजन्स्नात्वा वै वंशमूलके ||३४||
कायशोधनमासाद्य तीर्थं भरतसत्तम |
शरीरशुद्धिः स्नातस्य तस्मिंस्तीर्थे न संशयः ||३५||
शुद्धदेहश्च संयाति शुभाँल्लोकाननुत्तमान् ||३५||
ततो गच्छेत राजेन्द्र तीर्थं त्रैलोक्यविश्रुतम् |
लोका यत्रोद्धृताः पूर्वं विष्णुना प्रभविष्णुना ||३६||
लोकोद्धारं समासाद्य तीर्थं त्रैलोक्यविश्रुतम् |
स्नात्वा तीर्थवरे राजँल्लोकानुद्धरते स्वकान् ||३७||
श्रीतीर्थं च समासाद्य विन्दते श्रियमुत्तमाम् ||३७||
कपिलातीर्थमासाद्य ब्रह्मचारी समाहितः |
तत्र स्नात्वार्चयित्वा च दैवतानि पितॄंस्तथा ||३८||
कपिलानां सहस्रस्य फलं विन्दति मानवः ||३८||
सूर्यतीर्थं समासाद्य स्नात्वा नियतमानसः |
अर्चयित्वा पितॄन्देवानुपवासपरायणः ||३९||
अग्निष्टोममवाप्नोति सूर्यलोकं च गच्छति ||३९||
गवाम्भवनमासाद्य तीर्थसेवी यथाक्रमम् |
तत्राभिषेकं कुर्वाणो गोसहस्रफलं लभेत् ||४०||
शङ्खिनीं तत्र आसाद्य तीर्थसेवी कुरूद्वह |
देव्यास्तीर्थे नरः स्नात्वा लभते रूपमुत्तमम् ||४१||
ततो गच्छेत राजेन्द्र द्वारपालमरन्तुकम् |
तस्य तीर्थं सरस्वत्यां यक्षेन्द्रस्य महात्मनः ||४२||
तत्र स्नात्वा नरो राजन्नग्निष्टोमफलं लभेत् ||४२||
ततो गच्छेत धर्मज्ञ ब्रह्मावर्तं नराधिप |
ब्रह्मावर्ते नरः स्नात्वा ब्रह्मलोकमवाप्नुयात् ||४३||
ततो गच्छेत धर्मज्ञ सुतीर्थकमनुत्तमम् |
यत्र संनिहिता नित्यं पितरो दैवतैः सह ||४४||
तत्राभिषेकं कुर्वीत पितृदेवार्चने रतः |
अश्वमेधमवाप्नोति पितृलोकं च गच्छति ||४५||
ततोऽम्बुवश्यं धर्मज्ञ समासाद्य यथाक्रमम् |
कोशेश्वरस्य तीर्थेषु स्नात्वा भरतसत्तम ||४६||
सर्वव्याधिविनिर्मुक्तो ब्रह्मलोके महीयते ||४६||
मातृतीर्थं च तत्रैव यत्र स्नातस्य भारत |
प्रजा विवर्धते राजन्ननन्तां चाश्नुते श्रियम् ||४७||
ततः शीतवनं गच्छेन्नियतो नियताशनः |
तीर्थं तत्र महाराज महदन्यत्र दुर्लभम् ||४८||
पुनाति दर्शनादेव दण्डेनैकं नराधिप |
केशानभ्युक्ष्य वै तस्मिन्पूतो भवति भारत ||४९||
तीर्थं तत्र महाराज श्वानलोमापहं स्मृतम् |
यत्र विप्रा नरव्याघ्र विद्वांसस्तीर्थतत्पराः ||५०||
श्वानलोमापनयने तीर्थे भरतसत्तम |
प्राणायामैर्निर्हरन्ति श्वलोमानि द्विजोत्तमाः ||५१||
पूतात्मानश्च राजेन्द्र प्रयान्ति परमां गतिम् |
दशाश्वमेधिकं चैव तस्मिंस्तीर्थे महीपते ||५२||
तत्र स्नात्वा नरव्याघ्र गच्छेत परमां गतिम् ||५२||
ततो गच्छेत राजेन्द्र मानुषं लोकविश्रुतम् |
यत्र कृष्णमृगा राजन्व्याधेन परिपीडिताः ||५३||
अवगाह्य तस्मिन्सरसि मानुषत्वमुपागताः ||५३||
तस्मिंस्तीर्थे नरः स्नात्वा ब्रह्मचारी जितेन्द्रियः |
सर्वपापविशुद्धात्मा स्वर्गलोके महीयते ||५४||
मानुषस्य तु पूर्वेण क्रोशमात्रे महीपते |
आपगा नाम विख्याता नदी सिद्धनिषेविता ||५५||
श्यामाकभोजनं तत्र यः प्रयच्छति मानवः |
देवान्पितॄंश्च उद्दिश्य तस्य धर्मफलं महत् ||५६||
एकस्मिन्भोजिते विप्रे कोटिर्भवति भोजिता ||५६||
तत्र स्नात्वार्चयित्वा च दैवतानि पितॄंस्तथा |
उषित्वा रजनीमेकामग्निष्टोमफलं लभेत् ||५७||
ततो गच्छेत राजेन्द्र ब्रह्मणः स्थानमुत्तमम् |
ब्रह्मोदुम्बरमित्येव प्रकाशं भुवि भारत ||५८||
तत्र सप्तर्षिकुण्डेषु स्नातस्य कुरुपुङ्गव |
केदारे चैव राजेन्द्र कपिष्ठलमहात्मनः ||५९||
ब्रह्माणमभिगम्याथ शुचिः प्रयतमानसः |
सर्वपापविशुद्धात्मा ब्रह्मलोकं प्रपद्यते ||६०||
कपिष्ठलस्य केदारं समासाद्य सुदुर्लभम् |
अन्तर्धानमवाप्नोति तपसा दग्धकिल्बिषः ||६१||
ततो गच्छेत राजेन्द्र सरकं लोकविश्रुतम् |
कृष्णपक्षे चतुर्दश्यामभिगम्य वृषध्वजम् ||६२||
लभते सर्वकामान्हि स्वर्गलोकं च गच्छति ||६२||
तिस्रः कोट्यस्तु तीर्थानां सरके कुरुनन्दन |
रुद्रकोटिस्तथा कूपे ह्रदेषु च महीपते ||६३||
इलास्पदं च तत्रैव तीर्थं भरतसत्तम ||६३||
तत्र स्नात्वार्चयित्वा च पितॄन्देवांश्च भारत |
न दुर्गतिमवाप्नोति वाजपेयं च विन्दति ||६४||
किंदाने च नरः स्नात्वा किञ्जप्ये च महीपते |
अप्रमेयमवाप्नोति दानं जप्यं च भारत ||६५||
कलश्यां चाप्युपस्पृश्य श्रद्दधानो जितेन्द्रियः |
अग्निष्टोमस्य यज्ञस्य फलं प्राप्नोति मानवः ||६६||
सरकस्य तु पूर्वेण नारदस्य महात्मनः |
तीर्थं कुरुवरश्रेष्ठ अनाजन्मेति विश्रुतम् ||६७||
तत्र तीर्थे नरः स्नात्वा प्राणांश्चोत्सृज्य भारत |
नारदेनाभ्यनुज्ञातो लोकान्प्राप्नोति दुर्लभान् ||६८||
शुक्लपक्षे दशम्यां तु पुण्डरीकं समाविशेत् |
तत्र स्नात्वा नरो राजन्पुण्डरीकफलं लभेत् ||६९||
ततस्त्रिविष्टपं गच्छेत्त्रिषु लोकेषु विश्रुतम् |
तत्र वैतरणी पुण्या नदी पापप्रमोचनी ||७०||
तत्र स्नात्वार्चयित्वा च शूलपाणिं वृषध्वजम् |
सर्वपापविशुद्धात्मा गच्छेत परमां गतिम् ||७१||
ततो गच्छेत राजेन्द्र फलकीवनमुत्तमम् |
यत्र देवाः सदा राजन्फलकीवनमाश्रिताः ||७२||
तपश्चरन्ति विपुलं बहुवर्षसहस्रकम् ||७२||
दृषद्वत्यां नरः स्नात्वा तर्पयित्वा च देवताः |
अग्निष्टोमातिरात्राभ्यां फलं विन्दति भारत ||७३||
तीर्थे च सर्वदेवानां स्नात्वा भरतसत्तम |
गोसहस्रस्य राजेन्द्र फलं प्राप्नोति मानवः ||७४||
पाणिखाते नरः स्नात्वा तर्पयित्वा च देवताः |
राजसूयमवाप्नोति ऋषिलोकं च गच्छति ||७५||
ततो गच्छेत राजेन्द्र मिश्रकं तीर्थमुत्तमम् |
तत्र तीर्थानि राजेन्द्र मिश्रितानि महात्मना ||७६||
व्यासेन नृपशार्दूल द्विजार्थमिति नः श्रुतम् |
सर्वतीर्थेषु स स्नाति मिश्रके स्नाति यो नरः ||७७||
ततो व्यासवनं गच्छेन्नियतो नियताशनः |
मनोजवे नरः स्नात्वा गोसहस्रफलं लभेत् ||७८||
गत्वा मधुवटीं चापि देव्यास्तीर्थं नरः शुचिः |
तत्र स्नात्वार्चयेद्देवान्पितॄंश्च प्रयतः शुचिः ||७९||
स देव्या समनुज्ञातो गोसहस्रफलं लभेत् ||७९||
कौशिक्याः सङ्गमे यस्तु दृषद्वत्याश्च भारत |
स्नाति वै नियताहारः सर्वपापैः प्रमुच्यते ||८०||
ततो व्यासस्थली नाम यत्र व्यासेन धीमता |
पुत्रशोकाभितप्तेन देहत्यागार्थनिश्चयः ||८१||
कृतो देवैश्च राजेन्द्र पुनरुत्थापितस्तदा |
अभिगम्य स्थलीं तस्य गोसहस्रफलं लभेत् ||८२||
किंदत्तं कूपमासाद्य तिलप्रस्थं प्रदाय च |
गच्छेत परमां सिद्धिमृणैर्मुक्तः कुरूद्वह ||८३||
अहश्च सुदिनं चैव द्वे तीर्थे च सुदुर्लभे |
तयोः स्नात्वा नरव्याघ्र सूर्यलोकमवाप्नुयात् ||८४||
मृगधूमं ततो गच्छेत्त्रिषु लोकेषु विश्रुतम् |
तत्र गङ्गाह्रदे स्नात्वा समभ्यर्च्य च मानवः ||८५||
शूलपाणिं महादेवमश्वमेधफलं लभेत् ||८५||
देवतीर्थे नरः स्नात्वा गोसहस्रफलं लभेत् |
अथ वामनकं गच्छेत्त्रिषु लोकेषु विश्रुतम् ||८६||
तत्र विष्णुपदे स्नात्वा अर्चयित्वा च वामनम् |
सर्वपापविशुद्धात्मा विष्णुलोकमवाप्नुयात् ||८७||
कुलम्पुने नरः स्नात्वा पुनाति स्वकुलं नरः |
पवनस्य ह्रदं गत्वा मरुतां तीर्थमुत्तमम् ||८८||
तत्र स्नात्वा नरव्याघ्र वायुलोके महीयते ||८८||
अमराणां ह्रदे स्नात्वा अमरेषु नराधिप |
अमराणां प्रभावेन स्वर्गलोके महीयते ||८९||
शालिहोत्रस्य राजेन्द्र शालिशूर्पे यथाविधि |
स्नात्वा नरवरश्रेष्ठ गोसहस्रफलं लभेत् ||९०||
श्रीकुञ्जं च सरस्वत्यां तीर्थं भरतसत्तम |
तत्र स्नात्वा नरो राजन्नग्निष्टोमफलं लभेत् ||९१||
ततो नैमिषकुञ्जं च समासाद्य कुरूद्वह |
ऋषयः किल राजेन्द्र नैमिषेयास्तपोधनाः ||९२||
तीर्थयात्रां पुरस्कृत्य कुरुक्षेत्रं गताः पुरा ||९२||
ततः कुञ्जः सरस्वत्यां कृतो भरतसत्तम |
ऋषीणामवकाशः स्याद्यथा तुष्टिकरो महान् ||९३||
तस्मिन्कुञ्जे नरः स्नात्वा गोसहस्रफलं लभेत् |
कन्यातीर्थे नरः स्नात्वा अग्निष्टोमफलं लभेत् ||९४||
ततो गच्छेन्नरव्याघ्र ब्रह्मणः स्थानमुत्तमम् |
तत्र वर्णावरः स्नात्वा ब्राह्मण्यं लभते नरः ||९५||
ब्राह्मणश्च विशुद्धात्मा गच्छेत परमां गतिम् ||९५||
ततो गच्छेन्नरश्रेष्ठ सोमतीर्थमनुत्तमम् |
तत्र स्नात्वा नरो राजन्सोमलोकमवाप्नुयात् ||९६||
सप्तसारस्वतं तीर्थं ततो गच्छेन्नराधिप |
यत्र मङ्कणकः सिद्धो महर्षिर्लोकविश्रुतः ||९७||
पुरा मङ्कणको राजन्कुशाग्रेणेति नः श्रुतम् |
क्षतः किल करे राजंस्तस्य शाकरसोऽस्रवत् ||९८||
स वै शाकरसं दृष्ट्वा हर्षाविष्टो महातपाः |
प्रनृत्तः किल विप्रर्षिर्विस्मयोत्फुल्ललोचनः ||९९||
ततस्तस्मिन्प्रनृत्ते वै स्थावरं जङ्गमं च यत् |
प्रनृत्तमुभयं वीर तेजसा तस्य मोहितम् ||१००||
ब्रह्मादिभिः सुरै राजन्नृषिभिश्च तपोधनैः |
विज्ञप्तो वै महादेव ऋषेरर्थे नराधिप ||१०१||
नायं नृत्येद्यथा देव तथा त्वं कर्तुमर्हसि ||१०१||
ततः प्रनृत्तमासाद्य हर्षाविष्टेन चेतसा |
सुराणां हितकामार्थमृषिं देवोऽभ्यभाषत ||१०२||
अहो महर्षे धर्मज्ञ किमर्थं नृत्यते भवान् |
हर्षस्थानं किमर्थं वा तवाद्य मुनिपुङ्गव ||१०३||
ऋषिरुवाच||
किं न पश्यसि मे देव कराच्छाकरसं स्रुतम् |
यं दृष्ट्वाहं प्रनृत्तो वै हर्षेण महतान्वितः ||१०४||
पुलस्त्य उवाच||
तं प्रहस्याब्रवीद्देवो मुनिं रागेण मोहितम् |
अहं वै विस्मयं विप्र न गच्छामीति पश्य माम् ||१०५||
एवमुक्त्वा नरश्रेष्ठ महादेवेन धीमता |
अङ्गुल्यग्रेण राजेन्द्र स्वाङ्गुष्ठस्ताडितोऽनघ ||१०६||
ततो भस्म क्षताद्राजन्निर्गतं हिमसंनिभम् |
तद्दृष्ट्वा व्रीडितो राजन्स मुनिः पादयोर्गतः ||१०७||
नान्यं देवमहं मन्ये रुद्रात्परतरं महत् |
सुरासुरस्य जगतो गतिस्त्वमसि शूलधृक् ||१०८||
त्वया सृष्टमिदं विश्वं त्रैलोक्यं सचराचरम् |
त्वामेव भगवन्सर्वे प्रविशन्ति युगक्षये ||१०९||
देवैरपि न शक्यस्त्वं परिज्ञातुं कुतो मया |
त्वयि सर्वे च दृश्यन्ते सुरा ब्रह्मादयोऽनघ ||११०||
सर्वस्त्वमसि लोकानां कर्ता कारयिता च ह |
त्वत्प्रसादात्सुराः सर्वे मोदन्तीहाकुतोभयाः ||१११||
एवं स्तुत्वा महादेवं स ऋषिः प्रणतोऽभवत् ||१११||
ऋषिरुवाच||
त्वत्प्रसादान्महादेव तपो मे न क्षरेत वै |
पुलस्त्य उवाच||
ततो देवः प्रहृष्टात्मा ब्रह्मर्षिमिदमब्रवीत् |
तपस्ते वर्धतां विप्र मत्प्रसादात्सहस्रधा ||११३||
आश्रमे चेह वत्स्यामि त्वया सार्धं महामुने |
सप्तसारस्वते स्नात्वा अर्चयिष्यन्ति ये तु माम् ||११४||
न तेषां दुर्लभं किञ्चिदिह लोके परत्र च |
सारस्वतं च ते लोकं गमिष्यन्ति न संशयः ||११५||
ततस्त्वौशनसं गच्छेत्त्रिषु लोकेषु विश्रुतम् |
यत्र ब्रह्मादयो देवा ऋषयश्च तपोधनाः ||११६||
कार्त्तिकेयश्च भगवांस्त्रिसन्ध्यं किल भारत |
सांनिध्यमकरोत्तत्र भार्गवप्रियकाम्यया ||११७||
कपालमोचनं तीर्थं सर्वपापप्रमोचनम् |
तत्र स्नात्वा नरव्याघ्र सर्वपापैः प्रमुच्यते ||११८||
अग्नितीर्थं ततो गच्छेत्तत्र स्नात्वा नरर्षभ |
अग्निलोकमवाप्नोति कुलं चैव समुद्धरेत् ||११९||
विश्वामित्रस्य तत्रैव तीर्थं भरतसत्तम |
तत्र स्नात्वा महाराज ब्राह्मण्यमभिजायते ||१२०||
ब्रह्मयोनिं समासाद्य शुचिः प्रयतमानसः |
तत्र स्नात्वा नरव्याघ्र ब्रह्मलोकं प्रपद्यते ||१२१||
पुनात्यासप्तमं चैव कुलं नास्त्यत्र संशयः ||१२१||
ततो गच्छेत राजेन्द्र तीर्थं त्रैलोक्यविश्रुतम् |
पृथूदकमिति ख्यातं कार्त्तिकेयस्य वै नृप ||१२२||
तत्राभिषेकं कुर्वीत पितृदेवार्चने रतः ||१२२||
अज्ञानाज्ज्ञानतो वापि स्त्रिया वा पुरुषेण वा |
यत्किञ्चिदशुभं कर्म कृतं मानुषबुद्धिना ||१२३||
तत्सर्वं नश्यते तस्य स्नातमात्रस्य भारत |
अश्वमेधफलं चापि स्वर्गलोकं च गच्छति ||१२४||
पुण्यमाहुः कुरुक्षेत्रं कुरुक्षेत्रात्सरस्वतीम् |
सरस्वत्याश्च तीर्थानि तीर्थेभ्यश्च पृथूदकम् ||१२५||
उत्तमे सर्वतीर्थानां यस्त्यजेदात्मनस्तनुम् |
पृथूदके जप्यपरो नैनं श्वोमरणं तपेत् ||१२६||
गीतं सनत्कुमारेण व्यासेन च महात्मना |
वेदे च नियतं राजनभिगच्छेत्पृथूदकम् ||१२७||
पृथूदकात्पुण्यतमं नान्यत्तीर्थं नरोत्तम |
एतन्मेध्यं पवित्रं च पावनं च न संशयः ||१२८||
तत्र स्नात्वा दिवं यान्ति अपि पापकृतो जनाः |
पृथूदके नरश्रेष्ठ प्राहुरेवं मनीषिणः ||१२९||
मधुस्रवं च तत्रैव तीर्थं भरतसत्तम |
तत्र स्नात्वा नरो राजन्गोसहस्रफलं लभेत् ||१३०||
ततो गच्छेन्नरश्रेष्ठ तीर्थं देव्या यथाक्रमम् |
सरस्वत्यारुणायाश्च सङ्गमं लोकविश्रुतम् ||१३१||
त्रिरात्रोपोषितः स्नात्वा मुच्यते ब्रह्महत्यया |
अग्निष्टोमातिरात्राभ्यां फलं विन्दति मानवः ||१३२||
आसप्तमं कुलं चैव पुनाति भरतर्षभ |
अवतीर्णं च तत्रैव तीर्थं कुरुकुलोद्वह ||१३३||
विप्राणामनुकम्पार्थं दर्भिणा निर्मितं पुरा ||१३३||
व्रतोपनयनाभ्यां वा उपवासेन वा द्विजः |
क्रियामन्त्रैश्च संयुक्तो ब्राह्मणः स्यान्न संशयः ||१३४||
क्रियामन्त्रविहीनोऽपि तत्र स्नात्वा नरर्षभ |
चीर्णव्रतो भवेद्विप्रो दृष्टमेतत्पुरातने ||१३५||
समुद्राश्चापि चत्वारः समानीताश्च दर्भिणा |
येषु स्नातो नरव्याघ्र न दुर्गतिमवाप्नुयात् ||१३६||
फलानि गोसहस्राणां चतुर्णां विन्दते च सः ||१३६||
ततो गच्छेत राजेन्द्र तीर्थं शतसहस्रकम् |
साहस्रकं च तत्रैव द्वे तीर्थे लोकविश्रुते ||१३७||
उभयोर्हि नरः स्नात्वा गोसहस्रफलं लभेत् |
दानं वाप्युपवासो वा सहस्रगुणितं भवेत् ||१३८||
ततो गच्छेत राजेन्द्र रेणुकातीर्थमुत्तमम् |
तत्राभिषेकं कुर्वीत पितृदेवार्चने रतः ||१३९||
स्रवपापविशुद्धात्मा अग्निष्टोमफलं लभेत् ||१३९||
विमोचनमुपस्पृश्य जितमन्युर्जितेन्द्रियः |
प्रतिग्रहकृतैर्दोषैः सर्वैः स परिमुच्यते ||१४०||
ततः पञ्चवटं गत्वा ब्रह्मचारी जितेन्द्रियः |
पुण्येन महता युक्तः सतां लोके महीयते ||१४१||
यत्र योगेश्वरः स्थाणुः स्वयमेव वृषध्वजः |
तमर्चयित्वा देवेशं गमनादेव सिध्यति ||१४२||
औजसं वरुणं तीर्थं दीप्यते स्वेन तेजसा |
यत्र ब्रह्मादिभिर्देवैरृषिभिश्च तपोधनैः ||१४३||
सेनापत्येन देवानामभिषिक्तो गुहस्तदा ||१४३||
औजसस्य तु पूर्वेण कुरुतीर्थं कुरूद्वह |
कुरुतीर्थे नरः स्नात्वा ब्रह्मचारी जितेन्द्रियः ||१४४||
सर्वपापविशुद्धात्मा कुरुलोकं प्रपद्यते ||१४४||
स्वर्गद्वारं ततो गच्छेन्नियतो नियताशनः |
स्वर्गलोकमवाप्नोति ब्रह्मलोकं च गच्छति ||१४५||
ततो गच्छेदनरकं तीर्थसेवी नराधिप |
तत्र स्नात्वा नरो राजन्न दुर्गतिमवाप्नुयात् ||१४६||
तत्र ब्रह्मा स्वयं नित्यं देवैः सह महीपते |
अन्वास्यते नरश्रेष्ठ नारायणपुरोगमैः ||१४७||
सांनिध्यं चैव राजेन्द्र रुद्रपत्न्याः कुरूद्वह |
अभिगम्य च तां देवीं न दुर्गतिमवाप्नुयात् ||१४८||
तत्रैव च महाराज विश्वेश्वरमुमापतिम् |
अभिगम्य महादेवं मुच्यते सर्वकिल्बिषैः ||१४९||
नारायणं चाभिगम्य पद्मनाभमरिंदमम् |
शोभमानो महाराज विष्णुलोकं प्रपद्यते ||१५०||
तीर्थे तु सर्वदेवानां स्नातः स पुरुषर्षभ |
सर्वदुःखैः परित्यक्तो द्योतते शशिवत्सदा ||१५१||
ततः स्वस्तिपुरं गच्छेत्तीर्थसेवी नराधिप |
पावनं तीर्थमासाद्य तर्पयेत्पितृदेवताः ||१५२||
अग्निष्टोमस्य यज्ञस्य फलं प्राप्नोति मानवः ||१५२||
गङ्गाह्रदश्च तत्रैव कूपश्च भरतर्षभ |
तिस्रः कोट्यस्तु तीर्थानां तस्मिन्कूपे महीपते ||१५३||
तत्र स्नात्वा नरो राजन्स्वर्गलोकं प्रपद्यते ||१५३||
आपगायां नरः स्नात्वा अर्चयित्वा महेश्वरम् |
गाणपत्यमवाप्नोति कुलं चोद्धरते स्वकम् ||१५४||
ततः स्थाणुवटं गच्छेत्त्रिषु लोकेषु विश्रुतम् |
तत्र स्नात्वा स्थितो रात्रिं रुद्रलोकमवाप्नुयात् ||१५५||
बदरीपाचनं गच्छेद्वसिष्ठस्याश्रमं ततः |
बदरं भक्षयेत्तत्र त्रिरात्रोपोषितो नरः ||१५६||
सम्यग्द्वादश वर्षाणि बदरान्भक्षयेत्तु यः |
त्रिरात्रोपोषितश्चैव भवेत्तुल्यो नराधिप ||१५७||
इन्द्रमार्गं समासाद्य तीर्थसेवी नराधिप |
अहोरात्रोपवासेन शक्रलोके महीयते ||१५८||
एकरात्रं समासाद्य एकरात्रोषितो नरः |
नियतः सत्यवादी च ब्रह्मलोके महीयते ||१५९||
ततो गच्छेत धर्मज्ञ तीर्थं त्रैलोक्यविश्रुतम् |
आदित्यस्याश्रमो यत्र तेजोराशेर्महात्मनः ||१६०||
तस्मिंस्तीर्थे नरः स्नात्वा पूजयित्वा विभावसुम् |
आदित्यलोकं व्रजति कुलं चैव समुद्धरेत् ||१६१||
सोमतीर्थे नरः स्नात्वा तीर्थसेवी कुरूद्वह |
सोमलोकमवाप्नोति नरो नास्त्यत्र संशयः ||१६२||
ततो गच्छेत धर्मज्ञ दधीचस्य महात्मनः |
तीर्थं पुण्यतमं राजन्पावनं लोकविश्रुतम् ||१६३||
यत्र सारस्वतो राजन्सोऽङ्गिरास्तपसो निधिः |
तस्मिंस्तीर्थे नरः स्नात्वा वाजपेयफलं लभेत् ||१६४||
सारस्वतीं गतिं चैव लभते नात्र संशयः ||१६४||
ततः कन्याश्रमं गच्छेन्नियतो ब्रह्मचर्यवान् |
त्रिरात्रोपोषितो राजन्नुपवासपरायणः ||१६५||
लभेत्कन्याशतं दिव्यं ब्रह्मलोकं च गच्छति ||१६५||
ततो गच्छेत धर्मज्ञ तीर्थं संनिहितीमपि |
यत्र ब्रह्मादयो देवा ऋषयश्च तपोधनाः ||१६६||
मासि मासि समायान्ति पुण्येन महतान्विताः ||१६६||
संनिहित्यामुपस्पृश्य राहुग्रस्ते दिवाकरे |
अश्वमेधशतं तेन इष्टं भवति शाश्वतम् ||१६७||
पृथिव्यां यानि तीर्थानि अन्तरिक्षचराणि च |
नद्यो नदास्तडागाश्च सर्वप्रस्रवणानि च ||१६८||
उदपानाश्च वप्राश्च पुण्यान्यायतनानि च |
मासि मासि समायान्ति संनिहित्यां न संशयः ||१६९||
यत्किञ्चिद्दुष्कृतं कर्म स्त्रिया वा पुरुषस्य वा |
स्नातमात्रस्य तत्सर्वं नश्यते नात्र संशयः ||१७०||
पद्मवर्णेन यानेन ब्रह्मलोकं स गच्छति ||१७०||
अभिवाद्य ततो यक्षं द्वारपालमरन्तुकम् |
कोटिरूपमुपस्पृश्य लभेद्बहु सुवर्णकम् ||१७१||
गङ्गाह्रदश्च तत्रैव तीर्थं भरतसत्तम |
तत्र स्नातस्तु धर्मज्ञ ब्रह्मचारी समाहितः ||१७२||
राजसूयाश्वमेधाभ्यां फलं विन्दति शाश्वतम् ||१७२||
पृथिव्यां नैमिषं पुण्यमन्तरिक्षे च पुष्करम् |
त्रयाणामपि लोकानां कुरुक्षेत्रं विशिष्यते ||१७३||
पांसवोऽपि कुरुक्षेत्रे वायुना समुदीरिताः |
अपि दुष्कृतकर्माणं नयन्ति परमां गतिम् ||१७४||
दक्षिणेन सरस्वत्या उत्तरेण दृषद्वतीम् |
ये वसन्ति कुरुक्षेत्रे ते वसन्ति त्रिविष्टपे ||१७५||
कुरुक्षेत्रं गमिष्यामि कुरुक्षेत्रे वसाम्यहम् |
अप्येकां वाचमुत्सृज्य सर्वपापैः प्रमुच्यते ||१७६||
ब्रह्मवेदी कुरुक्षेत्रं पुण्यं ब्रह्मर्षिसेवितम् |
तदावसन्ति ये राजन्न ते शोच्याः कथञ्चन ||१७७||
तरन्तुकारन्तुकयोर्यदन्तरं; रामह्रदानां च मचक्रुकस्य |
एतत्कुरुक्षेत्रसमन्तपञ्चकं; पितामहस्योत्तरवेदिरुच्यते ||१७८||
८२
पुलस्त्य उवाच||
ततो गच्छेत धर्मज्ञ धर्मतीर्थं पुरातनम् |
तत्र स्नात्वा नरो राजन्धर्मशीलः समाहितः ||१||
आसप्तमं कुलं राजन्पुनीते नात्र संशयः ||१||
ततो गच्छेत धर्मज्ञ कारापतनमुत्तमम् |
अग्निष्टोममवाप्नोति मुनिलोकं च गच्छति ||२||
सौगन्धिकं वनं राजंस्ततो गच्छेत मानवः |
यत्र ब्रह्मादयो देवा ऋषयश्च तपोधनाः ||३||
सिद्धचारणगन्धर्वाः किंनराः समहोरगाः |
तद्वनं प्रविशन्नेव सर्वपापैः प्रमुच्यते ||४||
ततो हि सा सरिच्छ्रेष्ठा नदीनामुत्तमा नदी |
प्लक्षाद्देवी स्रुता राजन्महापुण्या सरस्वती ||५||
तत्राभिषेकं कुर्वीत वल्मीकान्निःसृते जले |
अर्चयित्वा पितॄन्देवानश्वमेधफलं लभेत् ||६||
ईशानाध्युषितं नाम तत्र तीर्थं सुदुर्लभम् |
षट्सु शम्यानिपातेषु वल्मीकादिति निश्चयः ||७||
कपिलानां सहस्रं च वाजिमेधं च विन्दति |
तत्र स्नात्वा नरव्याघ्र दृष्टमेतत्पुरातने ||८||
सुगन्धां शतकुम्भां च पञ्चयज्ञां च भारत |
अभिगम्य नरश्रेष्ठ स्वर्गलोके महीयते ||९||
त्रिशूलखातं तत्रैव तीर्थमासाद्य भारत |
तत्राभिषेकं कुर्वीत पितृदेवार्चने रतः ||१०||
गाणपत्यं स लभते देहं त्यक्त्वा न संशयः ||१०||
ततो गच्छेत राजेन्द्र देव्याः स्थानं सुदुर्लभम् |
शाकम्भरीति विख्याता त्रिषु लोकेषु विश्रुता ||११||
दिव्यं वर्षसहस्रं हि शाकेन किल सुव्रत |
आहारं सा कृतवती मासि मासि नराधिप ||१२||
ऋषयोऽभ्यागतास्तत्र देव्या भक्त्या तपोधनाः |
आतिथ्यं च कृतं तेषां शाकेन किल भारत ||१३||
ततः शाकम्भरीत्येव नाम तस्याः प्रतिष्ठितम् ||१३||
शाकम्भरीं समासाद्य ब्रह्मचारी समाहितः |
त्रिरात्रमुषितः शाकं भक्षयेन्नियतः शुचिः ||१४||
शाकाहारस्य यत्सम्यग्वर्षैर्द्वादशभिः फलम् |
तत्फलं तस्य भवति देव्याश्छन्देन भारत ||१५||
ततो गच्छेत्सुवर्णाक्षं त्रिषु लोकेषु विश्रुतम् |
यत्र विष्णुः प्रसादार्थं रुद्रमाराधयत्पुरा ||१६||
वरांश्च सुबहूँल्लेभे दैवतेषु सुदुर्लभान् |
उक्तश्च त्रिपुरघ्नेन परितुष्टेन भारत ||१७||
अपि चास्मत्प्रियतरो लोके कृष्ण भविष्यसि |
त्वन्मुखं च जगत्कृत्स्नं भविष्यति न संशयः ||१८||
तत्राभिगम्य राजेन्द्र पूजयित्वा वृषध्वजम् |
अश्वमेधमवाप्नोति गाणपत्यं च विन्दति ||१९||
धूमावतीं ततो गच्छेत्त्रिरत्रोपोषितो नरः |
मनसा प्रार्थितान्कामाँल्लभते नात्र संशयः ||२०||
देव्यास्तु दक्षिणार्धेन रथावर्तो नराधिप |
तत्रारोहेत धर्मज्ञ श्रद्दधानो जितेन्द्रियः ||२१||
महादेवप्रसादाद्धि गच्छेत परमां गतिम् ||२१||
प्रदक्षिणमुपावृत्य गच्छेत भरतर्षभ |
धारां नाम महाप्राज्ञ सर्वपापप्रणाशिनीम् ||२२||
तत्र स्नात्वा नरव्याघ्र न शोचति नराधिप ||२२||
ततो गच्छेत धर्मज्ञ नमस्कृत्य महागिरिम् |
स्वर्गद्वारेण यत्तुल्यं गङ्गाद्वारं न संशयः ||२३||
तत्राभिषेकं कुर्वीत कोटितीर्थे समाहितः |
पुण्डरीकमवाप्नोति कुलं चैव समुद्धरेत् ||२४||
सप्तगङ्गे त्रिगङ्गे च शक्रावर्ते च तर्पयन् |
देवान्पितॄंश्च विधिवत्पुण्यलोके महीयते ||२५||
ततः कनखले स्नात्वा त्रिरात्रोपोषितो नरः |
अश्वमेधमवाप्नोति स्वर्गलोकं च गच्छति ||२६||
कपिलावटं च गच्छेत तीर्थसेवी नराधिप |
उष्यैकां रजनीं तत्र गोसहस्रफलं लभेत् ||२७||
नागराजस्य राजेन्द्र कपिलस्य महात्मनाः |
तीर्थं कुरुवरश्रेष्ठ सर्वलोकेषु विश्रुतम् ||२८||
तत्राभिषेकं कुर्वीत नागतीर्थे नराधिप |
कपिलानां सहस्रस्य फलं प्राप्नोति मानवः ||२९||
ततो ललितिकां गच्छेच्छन्तनोस्तीर्थमुत्तमम् |
तत्र स्नात्वा नरो राजन्न दुर्गतिमवाप्नुयात् ||३०||
गङ्गासङ्गमयोश्चैव स्नाति यः सङ्गमे नरः |
दशाश्वमेधानाप्नोति कुलं चैव समुद्धरेत् ||३१||
ततो गच्छेत राजेन्द्र सुगन्धां लोकविश्रुताम् |
सर्वपापविशुद्धात्मा ब्रह्मलोके महीयते ||३२||
रुद्रावर्तं ततो गच्छेत्तीर्थसेवी नराधिप |
तत्र स्नात्वा नरो राजन्स्वर्गलोके महीयते ||३३||
गङ्गायाश्च नरश्रेष्ठ सरस्वत्याश्च सङ्गमे |
स्नातोऽश्वमेधमाप्नोति स्वर्गलोकं च गच्छति ||३४||
भद्रकर्णेश्वरं गत्वा देवमर्च्य यथाविधि |
न दुर्गतिमवाप्नोति स्वर्गलोकं च गच्छति ||३५||
ततः कुब्जाम्रकं गच्छेत्तीर्थसेवी यथाक्रमम् |
गोसहस्रमवाप्नोति स्वर्गलोकं च गच्छति ||३६||
अरुन्धतीवटं गच्छेत्तीर्थसेवी नराधिप |
सामुद्रकमुपस्पृश्य त्रिरात्रोपोषितो नरः ||३७||
गोसहस्रफलं विन्देत्कुलं चैव समुद्धरेत् ||३७||
ब्रह्मावर्तं ततो गच्छेद्ब्रह्मचारी समाहितः |
अश्वमेधमवाप्नोति स्वर्गलोकं च गच्छति ||३८||
यमुनाप्रभवं गत्वा उपस्पृश्य च यामुने |
अश्वमेधफलं लब्ध्वा स्वर्गलोके महीयते ||३९||
दर्वीसङ्क्रमणं प्राप्य तीर्थं त्रैलोक्यविश्रुतम् |
अश्वमेधमवाप्नोति स्वर्गलोकं च गच्छति ||४०||
सिन्धोश्च प्रभवं गत्वा सिद्धगन्धर्वसेवितम् |
तत्रोष्य रजनीः पञ्च विन्द्याद्बहु सुवर्णकम् ||४१||
अथ वेदीं समासाद्य नरः परमदुर्गमाम् |
अश्वमेधमवाप्नोति गच्छेच्चौशनसीं गतिम् ||४२||
ऋषिकुल्यां समासाद्य वासिष्ठं चैव भारत |
वासिष्ठं समतिक्रम्य सर्वे वर्णा द्विजातयः ||४३||
ऋषिकुल्यां नरः स्नात्वा ऋषिलोकं प्रपद्यते |
यदि तत्र वसेन्मासं शाकाहारो नराधिप ||४४||
भृगुतुङ्गं समासाद्य वाजिमेधफलं लभेत् |
गत्वा वीरप्रमोक्षं च सर्वपापैः प्रमुच्यते ||४५||
कृत्तिकामघयोश्चैव तीर्थमासाद्य भारत |
अग्निष्टोमातिरात्राभ्यां फलं प्राप्नोति पुण्यकृत् ||४६||
ततः सन्ध्यां समासाद्य विद्यातीर्थमनुत्तमम् |
उपस्पृश्य च विद्यानां सर्वासां पारगो भवेत् ||४७||
महाश्रमे वसेद्रात्रिं सर्वपापप्रमोचने |
एककालं निराहारो लोकानावसते शुभान् ||४८||
षष्ठकालोपवासेन मासमुष्य महालये |
सर्वपापविशुद्धात्मा विन्द्याद्बहु सुवर्णकम् ||४९||
अथ वेतसिकां गत्वा पितामहनिषेविताम् |
अश्वमेधमवाप्नोति गच्छेच्चौशनसीं गतिम् ||५०||
अथ सुन्दरिकातीर्थं प्राप्य सिद्धनिषेवितम् |
रूपस्य भागी भवति दृष्टमेतत्पुरातने ||५१||
ततो वै ब्राह्मणीं गत्वा ब्रह्मचारी जितेन्द्रियः |
पद्मवर्णेन यानेन ब्रह्मलोकं प्रपद्यते ||५२||
ततश्च नैमिषं गच्छेत्पुण्यं सिद्धनिषेवितम् |
तत्र नित्यं निवसति ब्रह्मा देवगणैर्वृतः ||५३||
नैमिषं प्रार्थयानस्य पापस्यार्धं प्रणश्यति |
प्रविष्टमात्रस्तु नरः सर्वपापैः प्रमुच्यते ||५४||
तत्र मासं वसेद्धीरो नैमिषे तीर्थतत्परः |
पृथिव्यां यानि तीर्थानि नैमिषे तानि भारत ||५५||
अभिषेककृतस्तत्र नियतो नियताशनः |
गवामयस्य यज्ञस्य फलं प्राप्नोति भारत ||५६||
पुनात्यासप्तमं चैव कुलं भरतसत्तम ||५६||
यस्त्यजेन्नैमिषे प्राणानुपवासपरायणः |
स मोदेत्स्वर्गलोकस्थ एवमाहुर्मनीषिणः ||५७||
नित्यं पुण्यं च मेध्यं च नैमिषं नृपसत्तम ||५७||
गङ्गोद्भेदं समासाद्य त्रिरात्रोपोषितो नरः |
वाजपेयमवाप्नोति ब्रह्मभूतश्च जायते ||५८||
सरस्वतीं समासाद्य तर्पयेत्पितृदेवताः |
सारस्वतेषु लोकेषु मोदते नात्र संशयः ||५९||
ततश्च बाहुदां गच्छेद्ब्रह्मचारी समाहितः |
देवसत्रस्य यज्ञस्य फलं प्राप्नोति मानवः ||६०||
ततश्चीरवतीं गच्छेत्पुण्यां पुण्यतमैर्वृताम् |
पितृदेवार्चनरतो वाजपेयमवाप्नुयात् ||६१||
विमलाशोकमासाद्य विराजति यथा शशी |
तत्रोष्य रजनीमेकां स्वर्गलोके महीयते ||६२||
गोप्रतारं ततो गच्छेत्सरय्वास्तीर्थमुत्तमम् |
यत्र रामो गतः स्वर्गं सभृत्यबलवाहनः ||६३||
देहं त्यक्त्वा दिवं यातस्तस्य तीर्थस्य तेजसा |
रामस्य च प्रसादेन व्यवसायाच्च भारत ||६४||
तस्मिंस्तीर्थे नरः स्नात्वा गोप्रतारे नराधिप |
सर्वपापविशुद्धात्मा स्वर्गलोके महीयते ||६५||
रामतीर्थे नरः स्नात्वा गोमत्यां कुरुनन्दन |
अश्वमेधमवाप्नोति पुनाति च कुलं नरः ||६६||
शतसाहस्रिकं तत्र तीर्थं भरतसत्तम |
तत्रोपस्पर्शनं कृत्वा नियतो नियताशनः ||६७||
गोसहस्रफलं पुण्यं प्राप्नोति भरतर्षभ ||६७||
ततो गच्छेत राजेन्द्र भर्तृस्थानमनुत्तमम् |
कोटितीर्थे नरः स्नात्वा अर्चयित्वा गुहं नृप ||६८||
गोसहस्रफलं विन्देत्तेजस्वी च भवेन्नरः ||६८||
ततो वाराणसीं गत्वा अर्चयित्वा वृषध्वजम् |
कपिलाह्रदे नरः स्नात्वा राजसूयफलं लभेत् ||६९||
मार्कण्डेयस्य राजेन्द्र तीर्थमासाद्य दुर्लभम् |
गोमतीगङ्गयोश्चैव सङ्गमे लोकविश्रुते ||७०||
अग्निष्टोममवाप्नोति कुलं चैव समुद्धरेत् ||७०||
ततो गयां समासाद्य ब्रह्मचारी जितेन्द्रियः |
अश्वमेधमवाप्नोति गमनादेव भारत ||७१||
तत्राक्षयवटो नाम त्रिषु लोकेषु विश्रुतः |
पितॄणां तत्र वै दत्तमक्षयं भवति प्रभो ||७२||
महानद्यामुपस्पृश्य तर्पयेत्पितृदेवताः |
अक्षयान्प्राप्नुयाल्लोकान्कुलं चैव समुद्धरेत् ||७३||
ततो ब्रह्मसरो गच्छेद्धर्मारण्योपशोभितम् |
पौण्डरीकमवाप्नोति प्रभातामेव शर्वरीम् ||७४||
तस्मिन्सरसि राजेन्द्र ब्रह्मणो यूप उच्छ्रितः |
यूपं प्रदक्षिणं कृत्वा वाजपेयफलं लभेत् ||७५||
ततो गच्छेत राजेन्द्र धेनुकां लोकविश्रुताम् |
एकरात्रोषितो राजन्प्रयच्छेत्तिलधेनुकाम् ||७६||
सर्वपापविशुद्धात्मा सोमलोकं व्रजेद्ध्रुवम् ||७६||
तत्र चिह्नं महाराज अद्यापि हि न संशयः |
कपिला सह वत्सेन पर्वते विचरत्युत ||७७||
सवत्सायाः पदानि स्म दृश्यन्तेऽद्यापि भारत ||७७||
तेषूपस्पृश्य राजेन्द्र पदेषु नृपसत्तम |
यत्किञ्चिदशुभं कर्म तत्प्रणश्यति भारत ||७८||
ततो गृध्रवटं गच्छेत्स्थानं देवस्य धीमतः |
स्नायीत भस्मना तत्र अभिगम्य वृषध्वजम् ||७९||
ब्राह्मणेन भवेच्चीर्णं व्रतं द्वादशवार्षिकम् |
इतरेषां तु वर्णानां सर्वपापं प्रणश्यति ||८०||
गच्छेत तत उद्यन्तं पर्वतं गीतनादितम् |
सावित्रं तु पदं तत्र दृश्यते भरतर्षभ ||८१||
तत्र सन्ध्यामुपासीत ब्राह्मणः संशितव्रतः |
उपास्ता च भवेत्सन्ध्या तेन द्वादशवार्षिकी ||८२||
योनिद्वारं च तत्रैव विश्रुतं भरतर्षभ |
तत्राभिगम्य मुच्येत पुरुषो योनिसङ्करात् ||८३||
कृष्णशुक्लावुभौ पक्षौ गयायां यो वसेन्नरः |
पुनात्यासप्तमं राजन्कुलं नास्त्यत्र संशयः ||८४||
एष्टव्या बहवः पुत्रा यद्येकोऽपि गयां व्रजेत् |
यजेत वाश्वमेधेन नीलं वा वृषमुत्सृजेत् ||८५||
ततः फल्गुं व्रजेद्राजंस्तीर्थसेवी नराधिप |
अश्वमेधमवाप्नोति सिद्धिं च महतीं व्रजेत् ||८६||
ततो गच्छेत राजेन्द्र धर्मपृष्ठं समाहितः |
यत्र धर्मो महाराज नित्यमास्ते युधिष्ठिर ||८७||
अभिगम्य ततस्तत्र वाजिमेधफलं लभेत् ||८७||
ततो गच्छेत राजेन्द्र ब्रह्मणस्तीर्थमुत्तमम् |
तत्रार्चयित्वा राजेन्द्र ब्रह्माणममितौजसम् ||८८||
राजसूयाश्वमेधाभ्यां फलं प्राप्नोति मानवः ||८८||
ततो राजगृहं गच्छेत्तीर्थसेवी नराधिप |
उपस्पृश्य तपोदेषु काक्षीवानिव मोदते ||८९||
यक्षिण्या नैत्यकं तत्र प्राश्नीत पुरुषः शुचिः |
यक्षिण्यास्तु प्रसादेन मुच्यते भ्रूणहत्यया ||९०||
मणिनागं ततो गत्वा गोसहस्रफलं लभेत् |
नैत्यकं भुञ्जते यस्तु मणिनागस्य मानवः ||९१||
दष्टस्याशीविषेणापि न तस्य क्रमते विषम् |
तत्रोष्य रजनीमेकां सर्वपापैः प्रमुच्यते ||९२||
ततो गच्छेत ब्रह्मर्षेर्गौतमस्य वनं नृप |
अहल्याया ह्रदे स्नात्वा व्रजेत परमां गतिम् ||९३||
अभिगम्य श्रियं राजन्विन्दते श्रियमुत्तमाम् ||९३||
तत्रोदपानो धर्मज्ञ त्रिषु लोकेषु विश्रुतः |
तत्राभिषेकं कृत्वा तु वाजिमेधमवाप्नुयात् ||९४||
जनकस्य तु राजर्षेः कूपस्त्रिदशपूजितः |
तत्राभिषेकं कृत्वा तु विष्णुलोकमवाप्नुयात् ||९५||
ततो विनशनं गच्छेत्सर्वपापप्रमोचनम् |
वाजपेयमवाप्नोति सोमलोकं च गच्छति ||९६||
गण्डकीं तु समासाद्य सर्वतीर्थजलोद्भवाम् |
वाजपेयमवाप्नोति सूर्यलोकं च गच्छति ||९७||
ततोऽधिवंश्यं धर्मज्ञ समाविश्य तपोवनम् |
गुह्यकेषु महाराज मोदते नात्र संशयः ||९८||
कम्पनां तु समासाद्य नदीं सिद्धनिषेविताम् |
पुण्डरीकमवाप्नोति सूर्यलोकं च गच्छति ||९९||
ततो विशालामासाद्य नदीं त्रैलोक्यविश्रुताम् |
अग्निष्टोममवाप्नोति स्वर्गलोकं च गच्छति ||१००||
अथ माहेश्वरीं धारां समासाद्य नराधिप |
अश्वमेधमवाप्नोति कुलं चैव समुद्धरेत् ||१०१||
दिवौकसां पुष्करिणीं समासाद्य नरः शुचिः |
न दुर्गतिमवाप्नोति वाजपेयं च विन्दति ||१०२||
महेश्वरपदं गच्छेद्ब्रह्मचारी समाहितः |
महेश्वरपदे स्नात्वा वाजिमेधफलं लभेत् ||१०३||
तत्र कोटिस्तु तीर्थानां विश्रुता भरतर्षभ |
कूर्मरूपेण राजेन्द्र असुरेण दुरात्मना ||१०४||
ह्रियमाणाहृता राजन्विष्णुना प्रभविष्णुना ||१०४||
तत्राभिषेकं कुर्वाणस्तीर्थकोट्यां युधिष्ठिर |
पुण्डरीकमवाप्नोति विष्णुलोकं च गच्छति ||१०५||
ततो गच्छेत राजेन्द्र स्थानं नारायणस्य तु |
सदा संनिहितो यत्र हरिर्वसति भारत ||१०६||
शालग्राम इति ख्यातो विष्णोरद्भुतकर्मणः ||१०६||
अभिगम्य त्रिलोकेशं वरदं विष्णुमव्ययम् |
अश्वमेधमवाप्नोति विष्णुलोकं च गच्छति ||१०७||
तत्रोदपानो धर्मज्ञ सर्वपापप्रमोचनः |
समुद्रास्तत्र चत्वारः कूपे संनिहिताः सदा ||१०८||
तत्रोपस्पृश्य राजेन्द्र न दुर्गतिमवाप्नुयात् ||१०८||
अभिगम्य महादेवं वरदं विष्णुमव्ययम् |
विराजति यथा सोम ऋणैर्मुक्तो युधिष्ठिर ||१०९||
जातिस्मर उपस्पृश्य शुचिः प्रयतमानसः |
जातिस्मरत्वं प्राप्नोति स्नात्वा तत्र न संशयः ||११०||
वटेश्वरपुरं गत्वा अर्चयित्वा तु केशवम् |
ईप्सिताँल्लभते कामानुपवासान्न संशयः ||१११||
ततस्तु वामनं गत्वा सर्वपापप्रमोचनम् |
अभिवाद्य हरिं देवं न दुर्गतिमवाप्नुयात् ||११२||
भरतस्याश्रमं गत्वा सर्वपापप्रमोचनम् |
कौशिकीं तत्र सेवेत महापातकनाशिनीम् ||११३||
राजसूयस्य यज्ञस्य फलं प्राप्नोति मानवः ||११३||
ततो गच्छेत धर्मज्ञ चम्पकारण्यमुत्तमम् |
तत्रोष्य रजनीमेकां गोसहस्रफलं लभेत् ||११४||
अथ ज्येष्ठिलमासाद्य तीर्थं परमसंमतम् |
उपोष्य रजनीमेकामग्निष्टोमफलं लभेत् ||११५||
तत्र विश्वेश्वरं दृष्ट्वा देव्या सह महाद्युतिम् |
मित्रावरुणयोर्लोकानाप्नोति पुरुषर्षभ ||११६||
कन्यासंवेद्यमासाद्य नियतो नियताशनः |
मनोः प्रजापतेर्लोकानाप्नोति भरतर्षभ ||११७||
कन्यायां ये प्रयच्छन्ति पानमन्नं च भारत |
तदक्षयमिति प्राहुरृषयः संशितव्रताः ||११८||
निश्चीरां च समासाद्य त्रिषु लोकेषु विश्रुताम् |
अश्वमेधमवाप्नोति विष्णुलोकं च गच्छति ||११९||
ये तु दानं प्रयच्छन्ति निश्चीरासङ्गमे नराः |
ते यान्ति नरशार्दूल ब्रह्मलोकं न संशयः ||१२०||
तत्राश्रमो वसिष्ठस्य त्रिषु लोकेषु विश्रुतः |
तत्राभिषेकं कुर्वाणो वाजपेयमवाप्नुयात् ||१२१||
देवकूटं समासाद्य ब्रह्मर्षिगणसेवितम् |
अश्वमेधमवाप्नोति कुलं चैव समुद्धरेत् ||१२२||
ततो गच्छेत राजेन्द्र कौशिकस्य मुनेर्ह्रदम् |
यत्र सिद्धिं परां प्राप्तो विश्वामित्रोऽथ कौशिकः ||१२३||
तत्र मासं वसेद्वीर कौशिक्यां भरतर्षभ |
अश्वमेधस्य यत्पुण्यं तन्मासेनाधिगच्छति ||१२४||
सर्वतीर्थवरे चैव यो वसेत महाह्रदे |
न दुर्गतिमवाप्नोति विन्देद्बहु सुवर्णकम् ||१२५||
कुमारमभिगत्वा च वीराश्रमनिवासिनम् |
अश्वमेधमवाप्नोति नरो नास्त्यत्र संशयः ||१२६||
अग्निधारां समासाद्य त्रिषु लोकेषु विश्रुताम् |
अग्निष्टोममवाप्नोति न च स्वर्गान्निवर्तते ||१२७||
पितामहसरो गत्वा शैलराजप्रतिष्ठितम् |
तत्राभिषेकं कुर्वाणो अग्निष्टोमफलं लभेत् ||१२८||
पितामहस्य सरसः प्रस्रुता लोकपावनी |
कुमारधारा तत्रैव त्रिषु लोकेषु विश्रुता ||१२९||
यत्र स्नात्वा कृतार्थोऽस्मीत्यात्मानमवगच्छति |
षष्ठकालोपवासेन मुच्यते ब्रह्महत्यया ||१३०||
शिखरं वै महादेव्या गौर्यास्त्रैलोक्यविश्रुतम् |
समारुह्य नरः श्राद्धः स्तनकुण्डेषु संविशेत् ||१३१||
तत्राभिषेकं कुर्वाणः पितृदेवार्चने रतः |
हयमेधमवाप्नोति शक्रलोकं च गच्छति ||१३२||
ताम्रारुणं समासाद्य ब्रह्मचारी समाहितः |
अश्वमेधमवाप्नोति शक्रलोकं च गच्छति ||१३३||
नन्दिन्यां च समासाद्य कूपं त्रिदशसेवितम् |
नरमेधस्य यत्पुण्यं तत्प्राप्नोति कुरूद्वह ||१३४||
कालिकासङ्गमे स्नात्वा कौशिक्यारुणयोर्यतः |
त्रिरात्रोपोषितो विद्वान्सर्वपापैः प्रमुच्यते ||१३५||
उर्वशीतीर्थमासाद्य ततः सोमाश्रमं बुधः |
कुम्भकर्णाश्रमे स्नात्वा पूज्यते भुवि मानवः ||१३६||
स्नात्वा कोकामुखे पुण्ये ब्रह्मचारी यतव्रतः |
जातिस्मरत्वं प्राप्नोति दृष्टमेतत्पुरातने ||१३७||
सकृन्नन्दां समासाद्य कृतात्मा भवति द्विजः |
सर्वपापविशुद्धात्मा शक्रलोकं च गच्छति ||१३८||
ऋषभद्वीपमासाद्य सेव्यं क्रौञ्चनिषूदनम् |
सरस्वत्यामुपस्पृश्य विमानस्थो विराजते ||१३९||
औद्दालकं महाराज तीर्थं मुनिनिषेवितम् |
तत्राभिषेकं कुर्वीत सर्वपापैः प्रमुच्यते ||१४०||
धर्मतीर्थं समासाद्य पुण्यं ब्रह्मर्षिसेवितम् |
वाजपेयमवाप्नोति नरो नास्त्यत्र संशयः ||१४१||
तथा चम्पां समासाद्य भागीरथ्यां कृतोदकः |
दण्डार्कमभिगम्यैव गोसहस्रफलं लभेत् ||१४२||
लवेडिकां ततो गच्छेत्पुण्यां पुण्योपसेविताम् |
वाजपेयमवाप्नोति विमानस्थश्च पूज्यते ||१४३||
८३
पुलस्त्य उवाच||
अथ सन्ध्यां समासाद्य संवेद्यं तीर्थमुत्तमम् |
उपस्पृश्य नरो विद्वान्भवेन्नास्त्यत्र संशयः ||१||
रामस्य च प्रसादेन तीर्थं राजन्कृतं पुरा |
तल्लोहित्यं समासाद्य विन्द्याद्बहु सुवर्णकम् ||२||
करतोयां समासाद्य त्रिरात्रोपोषितो नरः |
अश्वमेधमवाप्नोति कृते पैतामहे विधौ ||३||
गङ्गायास्त्वथ राजेन्द्र सागरस्य च सङ्गमे |
अश्वमेधं दशगुणं प्रवदन्ति मनीषिणः ||४||
गङ्गायास्त्वपरं द्वीपं प्राप्य यः स्नाति भारत |
त्रिरात्रोपोषितो राजन्सर्वकामानवाप्नुयात् ||५||
ततो वैतरणीं गत्वा नदीं पापप्रमोचनीम् |
विरजं तीर्थमासाद्य विराजति यथा शशी ||६||
प्रभवेच्च कुले पुण्ये सर्वपापं व्यपोहति |
गोसहस्रफलं लब्ध्वा पुनाति च कुलं नरः ||७||
शोणस्य ज्योतिरथ्याश्च सङ्गमे निवसञ्शुचिः |
तर्पयित्वा पितॄन्देवानग्निष्टोमफलं लभेत् ||८||
शोणस्य नर्मदायाश्च प्रभवे कुरुनन्दन |
वंशगुल्म उपस्पृश्य वाजिमेधफलं लभेत् ||९||
ऋषभं तीर्थमासाद्य कोशलायां नराधिप |
वाजपेयमवाप्नोति त्रिरात्रोपोषितो नरः ||१०||
कोशलायां समासाद्य कालतीर्थ उपस्पृशेत् |
वृशभैकादशफलं लभते नात्र संशयः ||११||
पुष्पवत्यामुपस्पृश्य त्रिरात्रोपोषितो नरः |
गोसहस्रफलं विन्द्यात्कुलं चैव समुद्धरेत् ||१२||
ततो बदरिकातीर्थे स्नात्वा प्रयतमानसः |
दीर्घमायुरवाप्नोति स्वर्गलोकं च गच्छति ||१३||
ततो महेन्द्रमासाद्य जामदग्न्यनिषेवितम् |
रामतीर्थे नरः स्नात्वा वाजिमेधफलं लभेत् ||१४||
मतङ्गस्य तु केदारस्तत्रैव कुरुनन्दन |
तत्र स्नात्वा नरो राजन्गोसहस्रफलं लभेत् ||१५||
श्रीपर्वतं समासाद्य नदीतीर उपस्पृशेत् |
अश्वमेधमवाप्नोति स्वर्गलोकं च गच्छति ||१६||
श्रीपर्वते महादेवो देव्या सह महाद्युतिः |
न्यवसत्परमप्रीतो ब्रह्मा च त्रिदशैर्वृतः ||१७||
तत्र देवह्रदे स्नात्वा शुचिः प्रयतमानसः |
अश्वमेधमवाप्नोति परां सिद्धिं च गच्छति ||१८||
ऋषभं पर्वतं गत्वा पाण्ड्येषु सुरपूजितम् |
वाजपेयमवाप्नोति नाकपृष्ठे च मोदते ||१९||
ततो गच्छेत कावेरीं वृतामप्सरसां गणैः |
तत्र स्नात्वा नरो राजन्गोसहस्रफलं लभेत् ||२०||
ततस्तीरे समुद्रस्य कन्यातीर्थ उपस्पृशेत् |
तत्रोपस्पृश्य राजेन्द्र सर्वपापैः प्रमुच्यते ||२१||
अथ गोकर्णमासाद्य त्रिषु लोकेषु विश्रुतम् |
समुद्रमध्ये राजेन्द्र सर्वलोकनमस्कृतम् ||२२||
यत्र ब्रह्मादयो देवा ऋषयश्च तपोधनाः |
भूतयक्षपिशाचाश्च किंनराः समहोरगाः ||२३||
सिद्धचारणगन्धर्वा मानुषाः पन्नगास्तथा |
सरितः सागराः शैला उपासन्त उमापतिम् ||२४||
तत्रेशानं समभ्यर्च्य त्रिरात्रोपोषितो नरः |
दशाश्वमेधमाप्नोति गाणपत्यं च विन्दति ||२५||
उष्य द्वादशरात्रं तु कृतात्मा भवते नरः ||२५||
तत एव तु गायत्र्याः स्थानं त्रैलोक्यविश्रुतम् |
त्रिरात्रमुषितस्तत्र गोसहस्रफलं लभेत् ||२६||
निदर्शनं च प्रत्यक्षं ब्राह्मणानां नराधिप |
गायत्रीं पठते यस्तु योनिसङ्करजस्तथा ||२७||
गाथा वा गीतिका वापि तस्य सम्पद्यते नृप ||२७||
संवर्तस्य तु विप्रर्षेर्वापीमासाद्य दुर्लभाम् |
रूपस्य भागी भवति सुभगश्चैव जायते ||२८||
ततो वेण्णां समासाद्य तर्पयेत्पितृदेवताः |
मयूरहंससंयुक्तं विमानं लभते नरः ||२९||
ततो गोदावरीं प्राप्य नित्यं सिद्धनिषेविताम् |
गवामयमवाप्नोति वासुकेर्लोकमाप्नुयात् ||३०||
वेण्णायाः सङ्गमे स्नात्वा वाजपेयफलं लभेत् |
वरदासङ्गमे स्नात्वा गोसहस्रफलं लभेत् ||३१||
ब्रह्मस्थानं समासाद्य त्रिरात्रमुषितो नरः |
गोसहस्रफलं विन्देत्स्वर्गलोकं च गच्छति ||३२||
कुशप्लवनमासाद्य ब्रह्मचारी समाहितः |
त्रिरात्रमुषितः स्नात्वा अश्वमेधफलं लभेत् ||३३||
ततो देवह्रदे रम्ये कृष्णवेण्णाजलोद्भवे |
जातिमात्रह्रदे चैव तथा कन्याश्रमे नृप ||३४||
यत्र क्रतुशतैरिष्ट्वा देवराजो दिवं गतः |
अग्निष्टोमशतं विन्देद्गमनादेव भारत ||३५||
सर्वदेवह्रदे स्नात्वा गोसहस्रफलं लभेत् |
जातिमात्रह्रदे स्नात्वा भवेज्जातिस्मरो नरः ||३६||
ततोऽवाप्य महापुण्यां पयोष्णीं सरितां वराम् |
पितृदेवार्चनरतो गोसहस्रफलं लभेत् ||३७||
दण्डकारण्यमासाद्य महाराज उपस्पृशेत् |
गोसहस्रफलं तत्र स्नातमात्रस्य भारत ||३८||
शरभङ्गाश्रमं गत्वा शुकस्य च महात्मनः |
न दुर्गतिमवाप्नोति पुनाति च कुलं नरः ||३९||
ततः शूर्पारकं गच्छेज्जामदग्न्यनिषेवितम् |
रामतीर्थे नरः स्नात्वा विन्द्याद्बहु सुवर्णकम् ||४०||
सप्तगोदावरे स्नात्वा नियतो नियताशनः |
महत्पुण्यमवाप्नोति देवलोकं च गच्छति ||४१||
ततो देवपथं गच्छेन्नियतो नियताशनः |
देवसत्रस्य यत्पुण्यं तदवाप्नोति मानवः ||४२||
तुङ्गकारण्यमासाद्य ब्रह्मचारी जितेन्द्रियः |
वेदानध्यापयत्तत्र ऋषिः सारस्वतः पुरा ||४३||
तत्र वेदान्प्रनष्टांस्तु मुनेरङ्गिरसः सुतः |
उपविष्टो महर्षीणामुत्तरीयेषु भारत ||४४||
ओङ्कारेण यथान्यायं सम्यगुच्चारितेन च |
येन यत्पूर्वमभ्यस्तं तत्तस्य समुपस्थितम् ||४५||
ऋषयस्तत्र देवाश्च वरुणोऽग्निः प्रजापतिः |
हरिर्नारायणो देवो महादेवस्तथैव च ||४६||
पितामहश्च भगवान्देवैः सह महाद्युतिः |
भृगुं नियोजयामास याजनार्थे महाद्युतिम् ||४७||
ततः स चक्रे भगवानृषीणां विधिवत्तदा |
सर्वेषां पुनराधानं विधिदृष्टेन कर्मणा ||४८||
आज्यभागेन वै तत्र तर्पितास्तु यथाविधि |
देवास्त्रिभुवणं याता ऋषयश्च यथासुखम् ||४९||
तदरण्यं प्रविष्टस्य तुङ्गकं राजसत्तम |
पापं प्रणश्यते सर्वं स्त्रियो वा पुरुषस्य वा ||५०||
तत्र मासं वसेद्धीरो नियतो नियताशनः |
ब्रह्मलोकं व्रजेद्राजन्पुनीते च कुलं नरः ||५१||
मेधाविकं समासाद्य पितॄन्देवांश्च तर्पयेत् |
अग्निष्टोममवाप्नोति स्मृतिं मेधां च विन्दति ||५२||
ततः कालञ्जरं गत्वा पर्वतं लोकविश्रुतम् |
तत्र देवह्रदे स्नात्वा गोसहस्रफलं लभेत् ||५३||
आत्मानं साधयेत्तत्र गिरौ कालञ्जरे नृप |
स्वर्गलोके महीयेत नरो नास्त्यत्र संशयः ||५४||
ततो गिरिवरश्रेष्ठे चित्रकूटे विशां पते |
मन्दाकिनीं समासाद्य नदीं पापप्रमोचनीम् ||५५||
तत्राभिषेकं कुर्वाणः पितृदेवार्चने रतः |
अश्वमेधमवाप्नोति गतिं च परमां व्रजेत् ||५६||
ततो गच्छेत राजेन्द्र भर्तृस्थानमनुत्तमम् |
यत्र देवो महासेनो नित्यं संनिहितो नृपः ||५७||
पुमांस्तत्र नरश्रेष्ठ गमनादेव सिध्यति |
कोटितीर्थे नरः स्नात्वा गोसहस्रफलं लभेत् ||५८||
प्रदक्षिणमुपावृत्य ज्येष्ठस्थानं व्रजेन्नरः |
अभिगम्य महादेवं विराजति यथा शशी ||५९||
तत्र कूपो महाराज विश्रुतो भरतर्षभ |
समुद्रास्तत्र चत्वारो निवसन्ति युधिष्ठिर ||६०||
तत्रोपस्पृश्य राजेन्द्र कृत्वा चापि प्रदक्षिणम् |
नियतात्मा नरः पूतो गच्छेत परमां गतिम् ||६१||
ततो गच्छेत्कुरुश्रेष्ठ शृङ्गवेरपुरं महत् |
यत्र तीर्णो महाराज रामो दाशरथिः पुरा ||६२||
गङ्गायां तु नरः स्नात्वा ब्रह्मचारी समाहितः |
विधूतपाप्मा भवति वाजपेयं च विन्दति ||६३||
अभिगम्य महादेवमभ्यर्च्य च नराधिप |
प्रदक्षिणमुपावृत्य गाणपत्यमवाप्नुयात् ||६४||
ततो गच्छेत राजेन्द्र प्रयागमृषिसंस्तुतम् |
यत्र ब्रह्मादयो देवा दिशश्च सदिगीश्वराः ||६५||
लोकपालाश्च साध्याश्च नैरृताः पितरस्तथा |
सनत्कुमारप्रमुखास्तथैव परमर्षयः ||६६||
अङ्गिरःप्रमुखाश्चैव तथा ब्रह्मर्षयोऽपरे |
तथा नागाः सुपर्णाश्च सिद्धाश्चक्रचरास्तथा ||६७||
सरितः सागराश्चैव गन्धर्वाप्सरसस्तथा |
हरिश्च भगवानास्ते प्रजापतिपुरस्कृतः ||६८||
तत्र त्रीण्यग्निकुण्डानि येषां मध्ये च जाह्नवी |
प्रयागादभिनिष्क्रान्ता सर्वतीर्थपुरस्कृता ||६९||
तपनस्य सुता तत्र त्रिषु लोकेषु विश्रुता |
यमुना गङ्गया सार्धं सङ्गता लोकपावनी ||७०||
गङ्गायमुनयोर्मध्यं पृथिव्या जघनं स्मृतम् |
प्रयागं जघनस्यान्तमुपस्थमृषयो विदुः ||७१||
प्रयागं सप्रतिष्ठानं कम्बलाश्वतरौ तथा |
तीर्थं भोगवती चैव वेदी प्रोक्ता प्रजापतेः ||७२||
तत्र वेदाश्च यज्ञाश्च मूर्तिमन्तो युधिष्ठिर |
प्रजापतिमुपासन्ते ऋषयश्च महाव्रताः ||७३||
यजन्ते क्रतुभिर्देवास्तथा चक्रचरा नृप ||७३||
ततः पुण्यतमं नास्ति त्रिषु लोकेषु भारत |
प्रयागः सर्वतीर्थेभ्यः प्रभवत्यधिकं विभो ||७४||
श्रवणात्तस्य तीर्थस्य नामसङ्कीर्तनादपि |
मृत्तिकालम्भनाद्वापि नरः पापात्प्रमुच्यते ||७५||
तत्राभिषेकं यः कुर्यात्सङ्गमे संशितव्रतः |
पुण्यं स फलमाप्नोति राजसूयाश्वमेधयोः ||७६||
एषा यजनभूमिर्हि देवानामपि सत्कृता |
तत्र दत्तं सूक्ष्ममपि महद्भवति भारत ||७७||
न वेदवचनात्तात न लोकवचनादपि |
मतिरुत्क्रमणीया ते प्रयागमरणं प्रति ||७८||
दश तीर्थसहस्राणि षष्टिकोट्त्यस्तथापराः |
येषां सांनिध्यमत्रैव कीर्तितं कुरुनन्दन ||७९||
चातुर्वेदे च यत्पुण्यं सत्यवादिषु चैव यत् |
स्नात एव तदाप्नोति गङ्गायमुनसङ्गमे ||८०||
तत्र भोगवती नाम वासुकेस्तीर्थमुत्तमम् |
तत्राभिषेकं यः कुर्यात्सोऽश्वमेधमवाप्नुयात् ||८१||
तत्र हंसप्रपतनं तीर्थं त्रैलोक्यविश्रुतम् |
दशाश्वमेधिकं चैव गङ्गायां कुरुनन्दन ||८२||
यत्र गङ्गा महाराज स देशस्तत्तपोवनम् |
सिद्धक्षेत्रं तु तज्ज्ञेयं गङ्गातीरसमाश्रितम् ||८३||
इदं सत्यं द्विजातीनां साधूनामात्मजस्य च |
सुहृदां च जपेत्कर्णे शिष्यस्यानुगतस्य च ||८४||
इदं धर्म्यमिदं पुण्यमिदं मेध्यमिदं सुखम् |
इदं स्वर्ग्यमिदं रम्यमिदं पावनमुत्तमम् ||८५||
महर्षीणामिदं गुह्यं सर्वपापप्रमोचनम् |
अधीत्य द्विजमध्ये च निर्मलत्वमवाप्नुयात् ||८६||
यश्चेदं शृणुयान्नित्यं तीर्थपुण्यं सदा शुचिः |
जातीः स स्मरते बह्वीर्नाकपृष्ठे च मोदते ||८७||
गम्यान्यपि च तीर्थानि कीर्तितान्यगमानि च |
मनसा तानि गच्छेत सर्वतीर्थसमीक्षया ||८८||
एतानि वसुभिः साध्यैरादित्यैर्मरुदश्विभिः |
ऋषिभिर्देवकल्पैश्च श्रितानि सुकृतैषिभिः ||८९||
एवं त्वमपि कौरव्य विधिनानेन सुव्रत |
व्रज तीर्थानि नियतः पुण्यं पुण्येन वर्धते ||९०||
भावितैः कारणैः पूर्वमास्तिक्याच्छ्रुतिदर्शनात् |
प्राप्यन्ते तानि तीर्थानि सद्भिः शिष्टानुदर्शिभिः ||९१||
नाव्रतो नाकृतात्मा च नाशुचिर्न च तस्करः |
स्नाति तीर्थेषु कौरव्य न च वक्रमतिर्नरः ||९२||
त्वया तु सम्यग्वृत्तेन नित्यं धर्मार्थदर्शिना |
पितरस्तारितास्तात सर्वे च प्रपितामहाः ||९३||
पितामहपुरोगाश्च देवाः सर्षिगणा नृप |
तव धर्मेण धर्मज्ञ नित्यमेवाभितोषिताः ||९४||
अवाप्स्यसि च लोकान्वै वसूनां वासवोपम |
कीर्तिं च महतीं भीष्म प्राप्स्यसे भुवि शाश्वतीम् ||९५||
नारद उवाच||
एवमुक्त्वाभ्यनुज्ञाप्य पुलस्त्यो भगवानृषिः |
प्रीतः प्रीतेन मनसा तत्रैवान्तरधीयत ||९६||
भीष्मश्च कुरुशार्दूल शास्त्रतत्त्वार्थदर्शिवान् |
पुलस्त्यवचनाच्चैव पृथिवीमनुचक्रमे ||९७||
अनेन विधिना यस्तु पृथिवीं सञ्चरिष्यति |
अश्वमेधशतस्याग्र्यं फलं प्रेत्य स भोक्ष्यते ||९८||
अतश्चाष्टगुणं पार्थ प्राप्स्यसे धर्ममुत्तमम् |
नेता च त्वमृषीन्यस्मात्तेन तेऽष्टगुणं फलम् ||९९||
रक्षोगणावकीर्णानि तीर्थान्येतानि भारत |
न गतिर्विद्यतेऽन्यस्य त्वामृते कुरुनन्दन ||१००||
इदं देवर्षिचरितं सर्वतीर्थार्थसंश्रितम् |
यः पठेत्कल्यमुत्थाय सर्वपापैः प्रमुच्यते ||१०१||
ऋषिमुख्याः सदा यत्र वाल्मीकिस्त्वथ काश्यपः |
आत्रेयस्त्वथ कौण्डिन्यो विश्वामित्रोऽथ गौतमः ||१०२||
असितो देवलश्चैव मार्कण्डेयोऽथ गालवः |
भरद्वाजो वसिष्ठश्च मुनिरुद्दालकस्तथा ||१०३||
शौनकः सह पुत्रेण व्यासश्च जपतां वरः |
दुर्वासाश्च मुनिश्रेष्ठो गालवश्च महातपाः ||१०४||
एते ऋषिवराः सर्वे त्वत्प्रतीक्षास्तपोधनाः |
एभिः सह महाराज तीर्थान्येतान्यनुव्रज ||१०५||
एष वै लोमशो नाम देवर्षिरमितद्युतिः |
समेष्यति त्वया चैव तेन सार्धमनुव्रज ||१०६||
मया च सह धर्मज्ञ तीर्थान्येतान्यनुव्रज |
प्राप्स्यसे महतीं कीर्तिं यथा राजा महाभिषः ||१०७||
यथा ययातिर्धर्मात्मा यथा राजा पुरूरवाः |
तथा त्वं कुरुशार्दूल स्वेन धर्मेण शोभसे ||१०८||
यथा भगीरथो राजा यथा रामश्च विश्रुतः |
तथा त्वं सर्वराजभ्यो भ्राजसे रश्मिवानिव ||१०९||
यथा मनुर्यथेक्ष्वाकुर्यथा पूरुर्महायशाः |
यथा वैन्यो महातेजास्तथा त्वमपि विश्रुतः ||११०||
यथा च वृत्रहा सर्वान्सपत्नान्निर्दहत्पुरा |
तथा शत्रुक्षयं कृत्वा प्रजास्त्वं पालयिष्यसि ||१११||
स्वधर्मविजितामुर्वीं प्राप्य राजीवलोचन |
ख्यातिं यास्यसि धर्मेण कार्तवीर्यार्जुनो यथा ||११२||
वैशम्पायन उवाच||
एवमाश्वास्य राजानं नारदो भगवानृषिः |
अनुज्ञाप्य महात्मानं तत्रैवान्तरधीयत ||११३||
युधिष्ठिरोऽपि धर्मात्मा तमेवार्थं विचिन्तयन् |
तीर्थयात्राश्रयं पुण्यमृषीणां प्रत्यवेदयत् ||११४||
८४
वैशम्पायन उवाच||
भ्रातॄणां मतमाज्ञाय नारदस्य च धीमतः |
पितामहसमं धौम्यं प्राह राजा युधिष्ठिरः ||१||
मया स पुरुषव्याघ्रो जिष्णुः सत्यपराक्रमः |
अस्त्रहेतोर्महाबाहुरमितात्मा विवासितः ||२||
स हि वीरोऽनुरक्तश्च समर्थश्च तपोधन |
कृती च भृशमप्यस्त्रे वासुदेव इव प्रभुः ||३||
अहं ह्येतावुभौ ब्रह्मन्कृष्णावरिनिघातिनौ |
अभिजानामि विक्रान्तौ तथा व्यासः प्रतापवान् ||४||
त्रियुगौ पुण्डरीकाक्षौ वासुदेवधनञ्जयौ ||४||
नारदोऽपि तथा वेद सोऽप्यशंसत्सदा मम |
तथाहमपि जानामि नरनारायणावृषी ||५||
शक्तोऽयमित्यतो मत्वा मया सम्प्रेषितोऽर्जुनः |
इन्द्रादनवरः शक्तः सुरसूनुः सुराधिपम् ||६||
द्रष्टुमस्त्राणि चादातुमिन्द्रादिति विवासितः ||६||
भीष्मद्रोणावतिरथौ कृपो द्रौणिश्च दुर्जयः |
धृतराष्ट्रस्य पुत्रेण वृता युधि महाबलाः ||७||
सर्वे वेदविदः शूराः सर्वेऽस्त्रकुशलास्तथा ||७||
योद्धुकामश्च पार्थेन सततं यो महाबलः |
स च दिव्यास्त्रवित्कर्णः सूतपुत्रो महारथः ||८||
सोऽश्ववेगानिलबलः शरार्चिस्तलनिस्वनः |
रजोधूमोऽस्त्रसन्तापो धार्तराष्ट्रानिलोद्धतः ||९||
निसृष्ट इव कालेन युगान्तज्वलनो यथा |
मम सैन्यमयं कक्षं प्रधक्ष्यति न संशयः ||१०||
तं स कृष्णानिलोद्धूतो दिव्यास्त्रजलदो महान् |
श्वेतवाजिबलाकाभृद्गाण्डीवेन्द्रायुधोज्ज्वलः ||११||
सततं शरधाराभिः प्रदीप्तं कर्णपावकम् |
उदीर्णोऽर्जुनमेघोऽयं शमयिष्यति संयुगे ||१२||
स साक्षादेव सर्वाणि शक्रात्परपुरञ्जयः |
दिव्यान्यस्त्राणि बीभत्सुस्तत्त्वतः प्रतिपत्स्यते ||१३||
अलं स तेषां सर्वेषामिति मे धीयते मतिः |
नास्ति त्वतिक्रिया तस्य रणेऽरीणां प्रतिक्रिया ||१४||
तं वयं पाण्डवं सर्वे गृहीतास्त्रं धनञ्जयम् |
द्रष्टारो न हि बीभत्सुर्भारमुद्यम्य सीदति ||१५||
वयं तु तमृते वीरं वनेऽस्मिन्द्विपदां वर |
अवधानं न गच्छामः काम्यके सह कृष्णया ||१६||
भवानन्यद्वनं साधु बह्वन्नं फलवच्छुचि |
आख्यातु रमणीयं च सेवितं पुण्यकर्मभिः ||१७||
यत्र कञ्चिद्वयं कालं वसन्तः सत्यविक्रमम् |
प्रतीक्षामोऽर्जुनं वीरं वर्षकामा इवाम्बुदम् ||१८||
विविधानाश्रमान्कांश्चिद्द्विजातिभ्यः परिश्रुतान् |
सरांसि सरितश्चैव रमणीयांश्च पर्वतान् ||१९||
आचक्ष्व न हि नो ब्रह्मन्रोचते तमृतेऽर्जुनम् |
वनेऽस्मिन्काम्यके वासो गच्छामोऽन्यां दिशं प्रति ||२०||
८५
वैशम्पायन उवाच||
तान्सर्वानुत्सुकान्दृष्ट्वा पाण्डवान्दीनचेतसः |
आश्वासयंस्तदा धौम्यो बृहस्पतिसमोऽब्रवीत् ||१||
ब्राह्मणानुमतान्पुण्यानाश्रमान्भरतर्षभ |
दिशस्तीर्थानि शैलांश्च शृणु मे गदतो नृप ||२||
पूर्वं प्राचीं दिशं राजन्राजर्षिगणसेविताम् |
रम्यां ते कीर्तयिष्यामि युधिष्ठिर यथास्मृति ||३||
तस्यां देवर्षिजुष्टायां नैमिषं नाम भारत |
यत्र तीर्थानि देवानां सुपुण्यानि पृथक्पृथक् ||४||
यत्र सा गोमती पुण्या रम्या देवर्षिसेविता |
यज्ञभूमिश्च देवानां शामित्रं च विवस्वतः ||५||
तस्यां गिरिवरः पुण्यो गयो राजर्षिसत्कृतः |
शिवं ब्रह्मसरो यत्र सेवितं त्रिदशर्षिभिः ||६||
यदर्थं पुरुषव्याघ्र कीर्तयन्ति पुरातनाः |
एष्टव्या बहवः पुत्रा यद्येकोऽपि गयां व्रजेत् ||७||
महानदी च तत्रैव तथा गयशिरोऽनघ |
यत्रासौ कीर्त्यते विप्रैरक्षय्यकरणो वटः ||८||
यत्र दत्तं पितृभ्योऽन्नमक्षय्यं भवति प्रभो ||८||
सा च पुण्यजला यत्र फल्गुनामा महानदी |
बहुमूलफला चापि कौशिकी भरतर्षभ ||९||
विश्वामित्रोऽभ्यगाद्यत्र ब्राह्मणत्वं तपोधनः ||९||
गङ्गा यत्र नदी पुण्या यस्यास्तीरे भगीरथः |
अयजत्तात बहुभिः क्रतुभिर्भूरिदक्षिणैः ||१०||
पाञ्चालेषु च कौरव्य कथयन्त्युत्पलावतम् |
विश्वामित्रोऽयजद्यत्र शक्रेण सह कौशिकः ||११||
यत्रानुवंशं भगवाञ्जामदग्न्यस्तथा जगौ ||११||
विश्वामित्रस्य तां दृष्ट्वा विभूतिमतिमानुषीम् |
कन्यकुब्जेऽपिबत्सोममिन्द्रेण सह कौशिकः ||१२||
ततः क्षत्रादपाक्रामद्ब्राह्मणोऽस्मीति चाब्रवीत् ||१२||
पवित्रमृषिभिर्जुष्टं पुण्यं पावनमुत्तमम् |
गङ्गायमुनयोर्वीर सङ्गमं लोकविश्रुतम् ||१३||
यत्रायजत भूतात्मा पूर्वमेव पितामहः |
प्रयागमिति विख्यातं तस्माद्भरतसत्तम ||१४||
अगस्त्यस्य च राजेन्द्र तत्राश्रमवरो महान् |
हिरण्यबिन्दुः कथितो गिरौ कालञ्जरे नृप ||१५||
अत्यन्यान्पर्वतान्राजन्पुण्यो गिरिवरः शिवः |
महेन्द्रो नाम कौरव्य भार्गवस्य महात्मनः ||१६||
अयजद्यत्र कौन्तेय पूर्वमेव पितामहः |
यत्र भागीरथी पुण्या सदस्यासीद्युधिष्ठिर ||१७||
यत्रासौ ब्रह्मशालेति पुण्या ख्याता विशां पते |
धूतपाप्मभिराकीर्णा पुण्यं तस्याश्च दर्शनम् ||१८||
पवित्रो मङ्गलीयश्च ख्यातो लोके सनातनः |
केदारश्च मतङ्गस्य महानाश्रम उत्तमः ||१९||
कुण्डोदः पर्वतो रम्यो बहुमूलफलोदकः |
नैषधस्तृषितो यत्र जलं शर्म च लब्धवान् ||२०||
यत्र देववनं रम्यं तापसैरुपशोभितम् |
बाहुदा च नदी यत्र नन्दा च गिरिमूर्धनि ||२१||
तीर्थानि सरितः शैलाः पुण्यान्यायतनानि च |
प्राच्यां दिशि महाराज कीर्तितानि मया तव ||२२||
तिसृष्वन्यासु पुण्यानि दिक्षु तीर्थानि मे शृणु |
सरितः पर्वतांश्चैव पुण्यान्यायतनानि च ||२३||
८६
धौम्य उवाच||
दक्षिणस्यां तु पुण्यानि शृणु तीर्थानि भारत |
विस्तरेण यथाबुद्धि कीर्त्यमानानि भारत ||१||
यस्यामाख्यायते पुण्या दिशि गोदावरी नदी |
बह्वारामा बहुजला तापसाचरिता शुभा ||२||
वेण्णा भीमरथी चोभे नद्यौ पापभयापहे |
मृगद्विजसमाकीर्णे तापसालयभूषिते ||३||
राजर्षेस्तत्र च सरिन्नृगस्य भरतर्षभ |
रम्यतीर्था बहुजला पयोष्णी द्विजसेविता ||४||
अपि चात्र महायोगी मार्कण्डेयो महातपाः |
अनुवंष्यां जगौ गाथां नृगस्य धरणीपतेः ||५||
नृगस्य यजमानस्य प्रत्यक्षमिति नः श्रुतम् |
अमाद्यदिन्द्रः सोमेन दक्षिणाभिर्द्विजातयः ||६||
माठरस्य वनं पुण्यं बहुमूलफलं शिवम् |
यूपश्च भरतश्रेष्ठ वरुणस्रोतसे गिरौ ||७||
प्रवेण्युत्तरपार्श्वे तु पुण्ये कण्वाश्रमे तथा |
तापसानामरण्यानि कीर्तितानि यथाश्रुति ||८||
वेदी शूर्पारके तात जमदग्नेर्महात्मनः |
रम्या पाषाणतीर्था च पुरश्चन्द्रा च भारत ||९||
अशोकतीर्थं मर्त्येषु कौन्तेय बहुलाश्रमम् |
अगस्त्यतीर्थं पाण्ड्येषु वारुणं च युधिष्ठिर ||१०||
कुमार्यः कथिताः पुण्याः पाण्ड्येष्वेव नरर्षभ |
ताम्रपर्णीं तु कौन्तेय कीर्तयिष्यामि तां शृणु ||११||
यत्र देवैस्तपस्तप्तं महदिच्छद्भिराश्रमे |
गोकर्णमिति विख्यातं त्रिषु लोकेषु भारत ||१२||
शीततोयो बहुजलः पुण्यस्तात शिवश्च सः |
ह्रदः परमदुष्प्रापो मानुषैरकृतात्मभिः ||१३||
तत्रैव तृणसोमाग्नेः सम्पन्नफलमूलवान् |
आश्रमोऽगस्त्यशिष्यस्य पुण्यो देवसभे गिरौ ||१४||
वैडूर्यपर्वतस्तत्र श्रीमान्मणिमयः शिवः |
अगस्त्यस्याश्रमश्चैव बहुमूलफलोदकः ||१५||
सुराष्ट्रेष्वपि वक्ष्यामि पुण्यान्यायतनानि च |
आश्रमान्सरितः शैलान्सरांसि च नराधिप ||१६||
चमसोन्मज्जनं विप्रास्तत्रापि कथयन्त्युत |
प्रभासं चोदधौ तीर्थं त्रिदशानां युधिष्ठिर ||१७||
तत्र पिण्डारकं नाम तापसाचरितं शुभम् |
उज्जयन्तश्च शिखरी क्षिप्रं सिद्धिकरो महान् ||१८||
तत्र देवर्षिवर्येण नारदेनानुकीर्तितः |
पुराणः श्रूयते श्लोकस्तं निबोध युधिष्ठिर ||१९||
पुण्ये गिरौ सुराष्ट्रेषु मृगपक्षिनिषेविते |
उज्जयन्ते स्म तप्ताङ्गो नाकपृष्ठे महीयते ||२०||
पुण्या द्वारवती तत्र यत्रास्ते मधुसूदनः |
साक्षाद्देवः पुराणोऽसौ स हि धर्मः सनातनः ||२१||
ये च वेदविदो विप्रा ये चाध्यात्मविदो जनाः |
ते वदन्ति महात्मानं कृष्णं धर्मं सनातनम् ||२२||
पवित्राणां हि गोविन्दः पवित्रं परमुच्यते |
पुण्यानामपि पुण्योऽसौ मङ्गलानां च मङ्गलम् ||२३||
त्रैलोक्यं पुण्डरीकाक्षो देवदेवः सनातनः |
आस्ते हरिरचिन्त्यात्मा तत्रैव मधुसूदनः ||२४||
८७
धौम्य उवाच||
अवन्तिषु प्रतीच्यां वै कीर्तयिष्यामि ते दिशि |
यानि तत्र पवित्राणि पुण्यान्यायतनानि च ||१||
प्रियङ्ग्वाम्रवनोपेता वानीरवनमालिनी |
प्रत्यक्स्रोता नदी पुण्या नर्मदा तत्र भारत ||२||
निकेतः ख्यायते पुण्यो यत्र विश्रवसो मुनेः |
जज्ञे धनपतिर्यत्र कुबेरो नरवाहनः ||३||
वैडूर्यशिखरो नाम पुण्यो गिरिवरः शुभः |
दिव्यपुष्पफलास्तत्र पादपा हरितच्छदाः ||४||
तस्य शैलस्य शिखरे सरस्तत्र च धीमतः |
प्रफुल्लनलिनं राजन्देवगन्धर्वसेवितम् ||५||
बह्वाश्चर्यं महाराज दृश्यते तत्र पर्वते |
पुण्ये स्वर्गोपमे दिव्ये नित्यं देवर्षिसेविते ||६||
ह्रदिनी पुण्यतीर्था च राजर्षेस्तत्र वै सरित् |
विश्वामित्रनदी पारा पुण्या परपुरञ्जय ||७||
यस्यास्तीरे सतां मध्ये ययातिर्नहुषात्मजः |
पपात स पुनर्लोकाँल्लेभे धर्मान्सनातनान् ||८||
तत्र पुण्यह्रदस्तात मैनाकश्चैव पर्वतः |
बहुमूलफलो वीर असितो नाम पर्वतः ||९||
आश्रमः कक्षसेनस्य पुण्यस्तत्र युधिष्ठिर |
च्यवनस्याश्रमश्चैव ख्यातः सर्वत्र पाण्डव ||१०||
तत्राल्पेनैव सिध्यन्ति मानवास्तपसा विभो ||१०||
जम्बूमार्गो महाराज ऋषीणां भावितात्मनाम् |
आश्रमः शाम्यतां श्रेष्ठ मृगद्विजगणायुतः ||११||
ततः पुण्यतमा राजन्सततं तापसायुता |
केतुमाला च मेध्या च गङ्गारण्यं च भूमिप ||१२||
ख्यातं च सैन्धवारण्यं पुण्यं द्विजनिषेवितम् ||१२||
पितामहसरः पुण्यं पुष्करं नाम भारत |
वैखानसानां सिद्धानामृषीणामाश्रमः प्रियः ||१३||
अप्यत्र संस्तवार्थाय प्रजापतिरथो जगौ |
पुष्करेषु कुरुश्रेष्ठ गाथां सुकृतिनां वर ||१४||
मनसाप्यभिकामस्य पुष्कराणि मनस्विनः |
पापाणि विप्रणश्यन्ति नाकपृष्ठे च मोदते ||१५||
८८
धौम्य उवाच||
उदीच्यां राजशार्दूल दिशि पुण्यानि यानि वै |
तानि ते कीर्तयिष्यामि पुण्यान्यायतनानि च ||१||
सरस्वती पुण्यवहा ह्रदिनी वनमालिनी |
समुद्रगा महावेगा यमुना यत्र पाण्डव ||२||
तत्र पुण्यतमं तीर्थं प्लक्षावतरणं शिवम् |
यत्र सारस्वतैरिष्ट्वा गच्छन्त्यवभृथं द्विजाः ||३||
पुण्यं चाख्यायते दिव्यं शिवमग्निशिरोऽनघ |
सहदेवोऽयजद्यत्र शम्याक्षेपेण भारत ||४||
एतस्मिन्नेव चार्थेयमिन्द्रगीता युधिष्ठिर |
गाथा चरति लोकेऽस्मिन्गीयमाना द्विजातिभिः ||५||
अग्नयः सहदेवेन ये चिता यमुनामनु |
शतं शतसहस्राणि सहस्रशतदक्षिणाः ||६||
तत्रैव भरतो राजा चक्रवर्ती महायशाः |
विंशतिं सप्त चाष्टौ च हयमेधानुपाहरत् ||७||
कामकृद्यो द्विजातीनां श्रुतस्तात मया पुरा |
अत्यन्तमाश्रमः पुण्यः सरकस्तस्य विश्रुतः ||८||
सरस्वती नदी सद्भिः सततं पार्थ पूजिता |
वालखिल्यैर्महाराज यत्रेष्टमृषिभिः पुरा ||९||
दृषद्वती पुण्यतमा तत्र ख्याता युधिष्ठिर |
तत्र वैवर्ण्यवर्णौ च सुपुण्यौ मनुजाधिप ||१०||
वेदज्ञौ वेदविदितौ विद्यावेदविदावुभौ |
यजन्तौ क्रतुभिर्नित्यं पुण्यैर्भरतसत्तम ||११||
समेत्य बहुशो देवाः सेन्द्राः सवरुणाः पुरा |
विशाखयूपेऽतप्यन्त तस्मात्पुण्यतमः स वै ||१२||
ऋषिर्महान्महाभागो जमदग्निर्महायशाः |
पलाशकेषु पुण्येषु रम्येष्वयजताभिभूः ||१३||
यत्र सर्वाः सरिच्छ्रेष्ठाः साक्षात्तमृषिसत्तमम् |
स्वं स्वं तोयमुपादाय परिवार्योपतस्थिरे ||१४||
अपि चात्र महाराज स्वयं विश्वावसुर्जगौ |
इमं श्लोकं तदा वीर प्रेक्ष्य वीर्यं महात्मनः ||१५||
यजमानस्य वै देवाञ्जमदग्नेर्महात्मनः |
आगम्य सरितः सर्वा मधुना समतर्पयन् ||१६||
गन्धर्वयक्षरक्षोभिरप्सरोभिश्च शोभितम् |
किरातकिंनरावासं शैलं शिखरिणां वरम् ||१७||
बिभेद तरसा गङ्गा गङ्गाद्वारे युधिष्ठिर |
पुण्यं तत्ख्यायते राजन्ब्रह्मर्षिगणसेवितम् ||१८||
सनत्कुमारः कौरव्य पुण्यं कनखलं तथा |
पर्वतश्च पुरुर्नाम यत्र जातः पुरूरवाः ||१९||
भृगुर्यत्र तपस्तेपे महर्षिगणसेवितः |
स राजन्नाश्रमः ख्यातो भृगुतुङ्गो महागिरिः ||२०||
यच्च भूतं भविष्यच्च भवच्च पुरुषर्षभ |
नारायणः प्रभुर्विष्णुः शाश्वतः पुरुषोत्तमः ||२१||
तस्यातियशसः पुण्यां विशालां बदरीमनु |
आश्रमः ख्यायते पुण्यस्त्रिषु लोकेषु विश्रुतः ||२२||
उष्णतोयवहा गङ्ग शीततोयवहापरा |
सुवर्णसिकता राजन्विशालां बदरीमनु ||२३||
ऋषयो यत्र देवाश्च महाभागा महौजसः |
प्राप्य नित्यं नमस्यन्ति देवं नारायणं विभुम् ||२४||
यत्र नारायणो देवः परमात्मा सनातनः |
तत्र कृत्स्नं जगत्पार्थ तीर्थान्यायतनानि च ||२५||
तत्पुण्यं तत्परं ब्रह्म तत्तीर्थं तत्तपोवनम् |
तत्र देवर्षयः सिद्धाः सर्वे चैव तपोधनाः ||२६||
आदिदेवो महायोगी यत्रास्ते मधुसूदनः |
पुण्यानामपि तत्पुण्यं तत्र ते संशयोऽस्तु मा ||२७||
एतानि राजन्पुण्यानि पृथिव्यां पृथिवीपते |
कीर्तितानि नरश्रेष्ठ तीर्थान्यायतनानि च ||२८||
एतानि वसुभिः साध्यैरादित्यैर्मरुदश्विभिः |
ऋषिभिर्ब्रह्मकल्पैश्च सेवितानि महात्मभिः ||२९||
चरनेतानि कौन्तेय सहितो ब्राह्मणर्षभैः |
भ्रातृभिश्च महाभागैरुत्कण्ठां विजहिष्यसि ||३०||
८९
वैशम्पायन उवाच||
एवं सम्भाषमाणे तु धौम्ये कौरवनन्दन |
लोमशः सुमहातेजा ऋषिस्तत्राजगाम ह ||१||
तं पाण्डवाग्रजो राजा सगणो ब्राह्मणाश्च ते |
उदतिष्ठन्महाभागं दिवि शक्रमिवामराः ||२||
तमभ्यर्च्य यथान्यायं धर्मराजो युधिष्ठिरः |
पप्रच्छागमने हेतुमटने च प्रयोजनम् ||३||
स पृष्टः पाण्डुपुत्रेण प्रीयमाणो महामनाः |
उवाच श्लक्ष्णया वाचा हर्षयन्निव पाण्डवान् ||४||
सञ्चरन्नस्मि कौन्तेय सर्वलोकान्यदृच्छया |
गतः शक्रस्य सदनं तत्रापश्यं सुरेश्वरम् ||५||
तव च भ्रातरं वीरमपश्यं सव्यसाचिनम् |
शक्रस्यार्धासनगतं तत्र मे विस्मयो महान् ||६||
आसीत्पुरुषशार्दूल दृष्ट्वा पार्थं तथागतम् ||६||
आह मां तत्र देवेशो गच्छ पाण्डुसुतानिति |
सोऽहमभ्यागतः क्षिप्रं दिदृक्षुस्त्वां सहानुजम् ||७||
वचनात्पुरुहूतस्य पार्थस्य च महात्मनः |
आख्यास्ये ते प्रियं तात महत्पाण्डवनन्दन ||८||
भ्रातृभिः सहितो राजन्कृष्णया चैव तच्छृणु |
यत्त्वयोक्तो महाबाहुरस्त्रार्थं पाण्डवर्षभ ||९||
तदस्त्रमाप्तं पार्थेन रुद्रादप्रतिमं महत् |
यत्तद्ब्रह्मशिरो नाम तपसा रुद्रमागतम् ||१०||
अमृतादुत्थितं रौद्रं तल्लब्धं सव्यसाचिना |
तत्समन्त्रं ससंहारं सप्रायश्चित्तमङ्गलम् ||११||
वज्रं चान्यानि चास्त्राणि दण्डादीनि युधिष्ठिर |
यमात्कुबेराद्वरुणादिन्द्राच्च कुरुनन्दन ||१२||
अस्त्राण्यधीतवान्पार्थो दिव्यान्यमितविक्रमः ||१२||
विश्वावसोश्च तनयाद्गीतं नृत्तं च साम च |
वादित्रं च यथान्यायं प्रत्यविन्दद्यथाविधि ||१३||
एवं कृतास्त्रः कौन्तेयो गान्धर्वं वेदमाप्तवान् |
सुखं वसति बीभत्सुरनुजस्यानुजस्तव ||१४||
यदर्थं मां सुरश्रेष्ठ इदं वचनमब्रवीत् |
तच्च ते कथयिष्यामि युधिष्ठिर निबोध मे ||१५||
भवान्मनुष्यलोकाय गमिष्यति न संशयः |
ब्रूयाद्युधिष्ठिरं तत्र वचनान्मे द्विजोत्तम ||१६||
आगमिष्यति ते भ्राता कृतास्त्रः क्षिप्रमर्जुनः |
सुरकार्यं महत्कृत्वा यदाशक्यं दिवौकसैः ||१७||
तपसा तु त्वमात्मानं भ्रातृभिः सह योजय |
तपसो हि परं नास्ति तपसा विन्दते महत् ||१८||
अहं च कर्णं जानामि यथावद्भरतर्षभ |
न स पार्थस्य सङ्ग्रामे कलामर्हति षोडशीम् ||१९||
यच्चापि ते भयं तस्मान्मनसिस्थमरिंदम |
तच्चाप्यपहरिष्यामि सव्यसाचाविहागते ||२०||
यच्च ते मानसं वीर तीर्थयात्रामिमां प्रति |
तच्च ते लोमशः सर्वं कथयिष्यत्यसंशयम् ||२१||
यच्च किञ्चित्तपोयुक्तं फलं तीर्थेषु भारत |
महर्षिरेष यद्ब्रूयात्तच्छ्रद्धेयमनन्यथा ||२२||
९०
लोमश उवाच||
धनञ्जयेन चाप्युक्तं यत्तच्छृणु युधिष्ठिर |
युधिष्ठिरं भ्रातरं मे योजयेर्धर्म्यया श्रिया ||१||
त्वं हि धर्मान्परान्वेत्थ तपांसि च तपोधन |
श्रीमतां चापि जानासि राज्ञां धर्मं सनातनम् ||२||
स भवान्यत्परं वेद पावनं पुरुषान्प्रति |
तेन संयोजयेथास्त्वं तीर्थपुण्येन पाण्डवम् ||३||
यथा तीर्थानि गच्छेत गाश्च दद्यात्स पार्थिवः |
तथा सर्वात्मना कार्यमिति मां विजयोऽब्रवीत् ||४||
भवता चानुगुप्तोऽसौ चरेत्तीर्थानि सर्वशः |
रक्षोभ्यो रक्षितव्यश्च दुर्गेषु विषमेषु च ||५||
दधीच इव देवेन्द्रं यथा चाप्यङ्गिरा रविम् |
तथा रक्षस्व कौन्तेयं राक्षसेभ्यो द्विजोत्तम ||६||
यातुधाना हि बहवो राक्षसाः पर्वतोपमाः |
त्वयाभिगुप्तान्कौन्तेयान्नातिवर्तेयुरन्तिकात् ||७||
सोऽहमिन्द्रस्य वचनान्नियोगादर्जुनस्य च |
रक्षमाणो भयेभ्यस्त्वां चरिष्यामि त्वया सह ||८||
द्विस्तीर्थानि मया पूर्वं दृष्टानि कुरुनन्दन |
इदं तृतीयं द्रक्ष्यामि तान्येव भवता सह ||९||
इयं राजर्षिभिर्याता पुण्यकृद्भिर्युधिष्ठिर |
मन्वादिभिर्महाराज तीर्थयात्रा भयापहा ||१०||
नानृजुर्नाकृतात्मा च नावैद्यो न च पापकृत् |
स्नाति तीर्थेषु कौरव्य न च वक्रमतिर्नरः ||११||
त्वं तु धर्ममतिर्नित्यं धर्मज्ञः सत्यसङ्गरः |
विमुक्तः सर्वपापेभ्यो भूय एव भविष्यसि ||१२||
यथा भगीरथो राजा राजानश्च गयादयः |
यथा ययातिः कौन्तेय तथा त्वमपि पाण्डव ||१३||
युधिष्ठिर उवाच||
न हर्षात्सम्प्रपश्यामि वाक्यस्यास्योत्तरं क्वचित् |
स्मरेद्धि देवराजो यं किं नामाभ्यधिकं ततः ||१४||
भवता सङ्गमो यस्य भ्राता यस्य धनञ्जयः |
वासवः स्मरते यस्य को नामाभ्यधिकस्ततः ||१५||
यच्च मां भगवानाह तीर्थानां दर्शनं प्रति |
धौम्यस्य वचनादेषा बुद्धिः पूर्वं कृतैव मे ||१६||
तद्यदा मन्यसे ब्रह्मन्गमनं तीर्थदर्शने |
तदैव गन्तास्मि दृढमेष मे निश्चयः परः ||१७||
वैशम्पायन उवाच||
गमने कृतबुद्धिं तं पाण्डवं लोमशोऽब्रवीत् |
लघुर्भव महाराज लघुः स्वैरं गमिष्यसि ||१८||
युधिष्ठिर उवाच||
बिक्षाभुजो निवर्तन्तां ब्राह्मणा यतयश्च ये |
ये चाप्यनुगताः पौरा राजभक्तिपुरस्कृताः ||१९||
धृतराष्ट्रं महाराजमभिगच्छन्तु चैव ते |
स दास्यति यथाकालमुचिता यस्य या भृतिः ||२०||
स चेद्यथोचितां वृत्तिं न दद्यान्मनुजेश्वरः |
अस्मत्प्रियहितार्थाय पाञ्चाल्यो वः प्रदास्यति ||२१||
वैशम्पायन उवाच||
ततो भूयिष्ठशः पौरा गुरुभारसमाहिताः |
विप्राश्च यतयो युक्ता जग्मुर्नागपुरं प्रति ||२२||
तान्सर्वान्धर्मराजस्य प्रेम्णा राजाम्बिकासुतः |
प्रतिजग्राह विधिवद्धनैश्च समतर्पयत् ||२३||
ततः कुन्तीसुतो राजा लघुभिर्ब्राह्मणैः सह |
लोमशेन च सुप्रीतस्त्रिरात्रं काम्यकेऽवसत् ||२४||
९१
वैशम्पायन उवाच||
ततः प्रयान्तं कौन्तेयं ब्राह्मणा वनवासिनः |
अभिगम्य तदा राजन्निदं वचनमब्रुवन् ||१||
राजंस्तीर्थानि गन्तासि पुण्यानि भ्रातृभिः सह |
देवर्षिणा च सहितो लोमशेन महात्मना ||२||
अस्मानपि महाराज नेतुमर्हसि पाण्डव |
अस्माभिर्हि न शक्यानि त्वदृते तानि कौरव ||३||
श्वापदैरुपसृष्टानि दुर्गाणि विषमाणि च |
अगम्यानि नरैरल्पैस्तीर्थानि मनुजेश्वर ||४||
भवन्तो भ्रातरः शूरा धनुर्धरवराः सदा |
भवद्भिः पालिताः शूरैर्गच्छेम वयमप्युत ||५||
भवत्प्रसादाद्धि वयं प्राप्नुयाम फलं शुभम् |
तीर्थानां पृथिवीपाल व्रतानां च विशां पते ||६||
तव वीर्यपरित्राताः शुद्धास्तीर्थपरिप्लुताः |
भवेम धूतपाप्मानस्तीर्थसंदर्शनान्नृप ||७||
भवानपि नरेन्द्रस्य कार्तवीर्यस्य भारत |
अष्टकस्य च राजर्षेर्लोमपादस्य चैव ह ||८||
भरतस्य च वीरस्य सार्वभौमस्य पार्थिव |
ध्रुवं प्राप्स्यसि दुष्प्रापाँल्लोकांस्तीर्थपरिप्लुतः ||९||
प्रभासादीनि तीर्थानि महेन्द्रादींश्च पर्वतान् |
गङ्गाद्याः सरितश्चैव प्लक्षादींश्च वनस्पतीन् ||१०||
त्वया सह महीपाल द्रष्टुमिच्छामहे वयम् ||१०||
यदि ते ब्राह्मणेष्वस्ति काचित्प्रीतिर्जनाधिप |
कुरु क्षिप्रं वचोऽस्माकं ततः श्रेयोऽभिपत्स्यसे ||११||
तीर्थानि हि महाबाहो तपोविघ्नकरैः सदा |
अनुकीर्णानि रक्षोभिस्तेभ्यो नस्त्रातुमर्हसि ||१२||
तीर्थान्युक्तानि धौम्येन नारदेन च धीमता |
यान्युवाच च देवर्षिर्लोमशः सुमहातपाः ||१३||
विधिवत्तानि सर्वाणि पर्यटस्व नराधिप |
धूतपाप्मा सहास्माभिर्लोमशेन च पालितः ||१४||
स तथा पूज्यमानस्तैर्हर्षादश्रुपरिप्लुतः |
भीमसेनादिभिर्वीरैर्भ्रातृभिः परिवारितः ||१५||
बाढमित्यब्रवीत्सर्वांस्तानृषीन्पाण्डवर्षभः ||१५||
लोमशं समनुज्ञाप्य धौम्यं चैव पुरोहितम् |
ततः स पाण्डवश्रेष्ठो भ्रातृभिः सहितो वशी ||१६||
द्रौपद्या चानवद्याङ्ग्या गमनाय मनो दधे ||१६||
अथ व्यासो महाभागस्तथा नारदपर्वतौ |
काम्यके पाण्डवं द्रष्टुं समाजग्मुर्मनीषिणः ||१७||
तेषां युधिष्ठिरो राजा पूजां चक्रे यथाविधि |
सत्कृतास्ते महाभागा युधिष्ठिरमथाब्रुवन् ||१८||
युधिष्ठिर यमौ भीम मनसा कुरुतार्जवम् |
मनसा कृतशौचा वै शुद्धास्तीर्थानि गच्छत ||१९||
शरीरनियमं ह्याहुर्ब्राह्मणा मानुषं व्रतम् |
मनोविशुद्धां बुद्धिं च दैवमाहुर्व्रतं द्विजाः ||२०||
मनो ह्यदुष्टं शूराणां पर्याप्तं वै नराधिप |
मैत्रीं बुद्धिं समास्थाय शुद्धास्तीर्थानि गच्छत ||२१||
ते यूयं मानसैः शुद्धाः शरीरनियमव्रतैः |
दैवं व्रतं समास्थाय यथोक्तं फलमाप्स्यथ ||२२||
ते तथेति प्रतिज्ञाय कृष्णया सह पाण्डवाः |
कृतस्वस्त्ययनाः सर्वे मुनिभिर्दिव्यमानुषैः ||२३||
लोमशस्योपसङ्गृह्य पादौ द्वैपायनस्य च |
नारदस्य च राजेन्द्र देवर्षेः पर्वतस्य च ||२४||
धौम्येन सहिता वीरास्तथान्यैर्वनवासिभिः |
मार्गशीर्ष्यामतीतायां पुष्येण प्रययुस्ततः ||२५||
कठिनानि समादाय चीराजिनजटाधराः |
अभेद्यैः कवचैर्युक्तास्तीर्थान्यन्वचरंस्तदा ||२६||
इन्द्रसेनादिभिर्भृत्यै रथैः परिचतुर्दशैः |
महानसव्यापृतैश्च तथान्यैः परिचारकैः ||२७||
सायुधा बद्धनिष्ट्रिंशास्तूणवन्तः समार्गणाः |
प्राङ्मुखाः प्रययुर्वीराः पाण्डवा जनमेजय ||२८||
९२
युधिष्ठिर उवाच||
न वै निर्गुणमात्मानं मन्ये देवर्षिसत्तम |
तथास्मि दुःखसन्तप्तो यथा नान्यो महीपतिः ||१||
परांश्च निर्गुणान्मन्ये न च धर्मरतानपि |
ते च लोमश लोकेऽस्मिन्नृध्यन्ते केन केतुना ||२||
लोमश उवाच||
नात्र दुःखं त्वया राजन्कार्यं पार्थ कथञ्चन |
यदधर्मेण वर्धेरन्नधर्मरुचयो जनाः ||३||
वर्धत्यधर्मेण नरस्ततो भद्राणि पश्यति |
ततः सपत्नाञ्जयति समूलस्तु विनश्यति ||४||
मया हि दृष्टा दैतेया दानवाश्च महीपते |
वर्धमाना ह्यधर्मेण क्षयं चोपगताः पुनः ||५||
पुरा देवयुगे चैव दृष्टं सर्वं मया विभो |
अरोचयन्सुरा धर्मं धर्मं तत्यजिरेऽसुराः ||६||
तीर्थानि देवा विविशुर्नाविशन्भारतासुराः |
तानधर्मकृतो दर्पः पूर्वमेव समाविशत् ||७||
दर्पान्मानः समभवन्मानात्क्रोधो व्यजायत |
क्रोधादह्रीस्ततोऽलज्जा वृत्तं तेषां ततोऽनशत् ||८||
तानलज्जान्गतह्रीकान्हीनवृत्तान्वृथाव्रतान् |
क्षमा लक्ष्मीश्च धर्मश्च नचिरात्प्रजहुस्ततः ||९||
लक्ष्मीस्तु देवानगमदलक्ष्मीरसुरान्नृप ||९||
तानलक्ष्मीसमाविष्टान्दर्पोपहतचेतसः |
दैतेयान्दानवांश्चैव कलिरप्याविशत्ततः ||१०||
तानलक्ष्मीसमाविष्टान्दानवान्कलिना तथा |
दर्पाभिभूतान्कौन्तेय क्रियाहीनानचेतसः ||११||
मानाभिभूतानचिराद्विनाशः प्रत्यपद्यत |
निर्यशस्यास्ततो दैत्याः कृत्स्नशो विलयं गताः ||१२||
देवास्तु सागरांश्चैव सरितश्च सरांसि च |
अभ्यगच्छन्धर्मशीलाः पुण्यान्यायतनानि च ||१३||
तपोभिः क्रतुभिर्दानैराशीर्वादैश्च पाण्डव |
प्रजहुः सर्वपापानि श्रेयश्च प्रतिपेदिरे ||१४||
एवं हि दानवन्तश्च क्रियावन्तश्च सर्वशः |
तीर्थान्यगच्छन्विबुधास्तेनापुर्भूतिमुत्तमाम् ||१५||
तथा त्वमपि राजेन्द्र स्नात्वा तीर्थेषु सानुजः |
पुनर्वेत्स्यसि तां लक्ष्मीमेष पन्थाः सनातनः ||१६||
यथैव हि नृगो राजा शिबिरौशीनरो यथा |
भगीरथो वसुमना गयः पूरुः पुरूरवाः ||१७||
चरमाणास्तपो नित्यं स्पर्शनादम्भसश्च ते |
तीर्थाभिगमनात्पूता दर्शनाच्च महात्मनाम् ||१८||
अलभन्त यशः पुण्यं धनानि च विशां पते |
तथा त्वमपि राजेन्द्र लब्धासि विपुलां श्रियम् ||१९||
यथा चेक्ष्वाकुरचरत्सपुत्रजनबान्धवः |
मुचुकुन्दोऽथ मान्धाता मरुत्तश्च महीपतिः ||२०||
कीर्तिं पुण्यामविन्दन्त यथा देवास्तपोबलात् |
देवर्षयश्च कार्त्स्न्येन तथा त्वमपि वेत्स्यसे ||२१||
धार्तराष्ट्रास्तु दर्पेण मोहेन च वशीकृताः |
नचिराद्विनशिष्यन्ति दैत्या इव न संशयः ||२२||
अगस्त्योपाख्यानम्
९३
वैशम्पायन उवाच||
ते तथा सहिता वीरा वसन्तस्तत्र तत्र ह |
क्रमेण पृथिवीपाल नैमिषारण्यमागताः ||१||
ततस्तीर्थेषु पुण्येषु गोमत्याः पाण्डवा नृप |
कृताभिषेकाः प्रददुर्गाश्च वित्तं च भारत ||२||
तत्र देवान्पितॄन्विप्रांस्तर्पयित्वा पुनः पुनः |
कन्यातीर्थेऽश्वतीर्थे च गवां तीर्थे च कौरवाः ||३||
वालकोट्यां वृषप्रस्थे गिरावुष्य च पाण्डवाः |
बाहुदायां महीपाल चक्रुः सर्वेऽभिषेचनम् ||४||
प्रयागे देवयजने देवानां पृथिवीपते |
ऊषुराप्लुत्य गात्राणि तपश्चातस्थुरुत्तमम् ||५||
गङ्गायमुनयोश्चैव सङ्गमे सत्यसङ्गराः |
विपाप्मानो महात्मानो विप्रेभ्यः प्रददुर्वसु ||६||
तपस्विजनजुष्टां च ततो वेदीं प्रजापतेः |
जग्मुः पाण्डुसुता राजन्ब्राह्मणैः सह भारत ||७||
तत्र ते न्यवसन्वीरास्तपश्चातस्थुरुत्तमम् |
सन्तर्पयन्तः सततं वन्येन हविषा द्विजान् ||८||
ततो महीधरं जग्मुर्धर्मज्ञेनाभिसत्कृतम् |
राजर्षिणा पुण्यकृता गयेनानुपमद्युते ||९||
सरो गयशिरो यत्र पुण्या चैव महानदी |
ऋषिजुष्टं सुपुण्यं तत्तीर्थं ब्रह्मसरोत्तमम् ||१०||
अगस्त्यो भगवान्यत्र गतो वैवस्वतं प्रति |
उवास च स्वयं यत्र धर्मो राजन्सनातनः ||११||
सर्वासां सरितां चैव समुद्भेदो विशां पते |
यत्र संनिहितो नित्यं महादेवः पिनाकधृक् ||१२||
तत्र ते पाण्डवा वीराश्चातुर्मास्यैस्तदेजिरे |
ऋषियज्ञेन महता यत्राक्षयवटो महान् ||१३||
ब्राह्मणास्तत्र शतशः समाजग्मुस्तपोधनाः |
चातुर्मास्येनायजन्त आर्षेण विधिना तदा ||१४||
तत्र विद्यातपोनित्या ब्राह्मणा वेदपारगाः |
कथाः प्रचक्रिरे पुण्याः सदसिस्था महात्मनाम् ||१५||
तत्र विद्याव्रतस्नातः कौमारं व्रतमास्थितः |
शमठोऽकथयद्राजन्नामूर्तरयसं गयम् ||१६||
अमूर्तरयसः पुत्रो गयो राजर्षिसत्तमः |
पुण्यानि यस्य कर्माणि तानि मे शृणु भारत ||१७||
यस्य यज्ञो बभूवेह बह्वन्नो बहुदक्षिणः |
यत्रान्नपर्वता राजञ्शतशोऽथ सहस्रशः ||१८||
घृतकुल्याश्च दध्नश्च नद्यो बहुशतास्तथा |
व्यञ्जनानां प्रवाहाश्च महार्हाणां सहस्रशः ||१९||
अहन्यहनि चाप्येतद्याचतां सम्प्रदीयते |
अन्यत्तु ब्राह्मणा राजन्भुञ्जतेऽन्नं सुसंस्कृतम् ||२०||
तत्र वै दक्षिणाकाले ब्रह्मघोषो दिवं गतः |
न स्म प्रज्ञायते किञ्चिद्ब्रह्मशब्देन भारत ||२१||
पुण्येन चरता राजन्भूर्दिशः खं नभस्तथा |
आपूर्णमासीच्छब्देन तदप्यासीन्महाद्भुतम् ||२२||
तत्र स्म गाथा गायन्ति मनुष्या भरतर्षभ |
अन्नपानैः शुभैस्तृप्ता देशे देशे सुवर्चसः ||२३||
गयस्य यज्ञे के त्वद्य प्राणिनो भोक्तुमीप्सवः |
यत्र भोजनशिष्टस्य पर्वताः पञ्चविंशतिः ||२४||
न स्म पूर्वे जनाश्चक्रुर्न करिष्यन्ति चापरे |
गयो यदकरोद्यज्ञे राजर्षिरमितद्युतिः ||२५||
कथं नु देवा हविषा गयेन परितर्पिताः |
पुनः शक्ष्यन्त्युपादातुमन्यैर्दत्तानि कानिचित् ||२६||
एवंविधाः सुबहवस्तस्य यज्ञे महात्मनः |
बभूवुरस्य सरसः समीपे कुरुनन्दन ||२७||
९४
वैशम्पायन उवाच||
ततः सम्प्रस्थितो राजा कौन्तेयो भूरिदक्षिणः |
अगस्त्याश्रममासाद्य दुर्जयायामुवास ह ||१||
तत्र वै लोमशं राजा पप्रच्छ वदतां वरः |
अगस्त्येनेह वातापिः किमर्थमुपशामितः ||२||
आसीद्वा किम्प्रभावश्च स दैत्यो मानवान्तकः |
किमर्थं चोद्गतो मन्युरगस्त्यस्य महात्मनः ||३||
लोमश उवाच||
इल्वलो नाम दैतेय आसीत्कौरवनन्दन |
मणिमत्यां पुरि पुरा वातापिस्तस्य चानुजः ||४||
स ब्राह्मणं तपोयुक्तमुवाच दितिनन्दनः |
पुत्रं मे भगवानेकमिन्द्रतुल्यं प्रयच्छतु ||५||
तस्मै स ब्राह्मणो नादात्पुत्रं वासवसंमितम् |
चुक्रोध सोऽसुरस्तस्य ब्राह्मणस्य ततो भृशम् ||६||
समाह्वयति यं वाचा गतं वैवस्वतक्षयम् |
स पुनर्देहमास्थाय जीवन्स्म प्रतिदृश्यते ||७||
ततो वातापिमसुरं छागं कृत्वा सुसंस्कृतम् |
तं ब्राह्मणं भोजयित्वा पुनरेव समाह्वयत् ||८||
तस्य पार्श्वं विनिर्भिद्य ब्राह्मणस्य महासुरः |
वातापिः प्रहसन्राजन्निश्चक्राम विशां पते ||९||
एवं स ब्राह्मणान्राजन्भोजयित्वा पुनः पुनः |
हिंसयामास दैतेय इल्वलो दुष्टचेतनः ||१०||
अगस्त्यश्चापि भगवानेतस्मिन्काल एव तु |
पितॄन्ददर्श गर्ते वै लम्बमानानधोमुखान् ||११||
सोऽपृच्छल्लम्बमानांस्तान्भवन्त इह किम्पराः |
सन्तानहेतोरिति ते तमूचुर्ब्रह्मवादिनः ||१२||
ते तस्मै कथयामासुर्वयं ते पितरः स्वकाः |
गर्तमेतमनुप्राप्ता लम्बामः प्रसवार्थिनः ||१३||
यदि नो जनयेथास्त्वमगस्त्यापत्यमुत्तमम् |
स्यान्नोऽस्मान्निरयान्मोक्षस्त्वं च पुत्राप्नुया गतिम् ||१४||
स तानुवाच तेजस्वी सत्यधर्मपरायणः |
करिष्ये पितरः कामं व्येतु वो मानसो ज्वरः ||१५||
ततः प्रसवसन्तानं चिन्तयन्भगवानृषिः |
आत्मनः प्रसवस्यार्थे नापश्यत्सदृशीं स्त्रियम् ||१६||
स तस्य तस्य सत्त्वस्य तत्तदङ्गमनुत्तमम् |
सम्भृत्य तत्समैरङ्गैर्निर्ममे स्त्रियमुत्तमाम् ||१७||
स तां विदर्भराजाय पुत्रकामाय ताम्यते |
निर्मितामात्मनोऽर्थाय मुनिः प्रादान्महातपाः ||१८||
सा तत्र जज्ञे सुभगा विद्युत्सौदामिनी यथा |
विभ्राजमाना वपुसा व्यवर्धत शुभानना ||१९||
जातमात्रां च तां दृष्ट्वा वैदर्भः पृथिवीपतिः |
प्रहर्षेण द्विजातिभ्यो न्यवेदयत भारत ||२०||
अभ्यनन्दन्त तां सर्वे ब्राह्मणा वसुधाधिप |
लोपामुद्रेति तस्याश्च चक्रिरे नाम ते द्विजाः ||२१||
ववृधे सा महाराज बिभ्रती रूपमुत्तमम् |
अप्स्विवोत्पलिनी शीघ्रमग्नेरिव शिखा शुभा ||२२||
तां यौवनस्थां राजेन्द्र शतं कन्याः स्वलङ्कृताः |
दाशीशतं च कल्याणीमुपतस्थुर्वशानुगाः ||२३||
सा स्म दासीशतवृता मध्ये कन्याशतस्य च |
आस्ते तेजस्विनी कन्या रोहिणीव दिवि प्रभो ||२४||
यौवनस्थामपि च तां शीलाचारसमन्विताम् |
न वव्रे पुरुषः कश्चिद्भयात्तस्य महात्मनः ||२५||
सा तु सत्यवती कन्या रूपेणाप्सरसोऽप्यति |
तोषयामास पितरं शीलेन स्वजनं तथा ||२६||
वैदर्भीं तु तथायुक्तां युवतीं प्रेक्ष्य वै पिता |
मनसा चिन्तयामास कस्मै दद्यां सुतामिति ||२७||
९५
लोमश उवाच||
यदा त्वमन्यतागस्त्यो गार्हस्थ्ये तां क्षमामिति |
तदाभिगम्य प्रोवाच वैदर्भं पृथिवीपतिम् ||१||
राजन्निवेशे बुद्धिर्मे वर्तते पुत्रकारणात् |
वरये त्वां महीपाल लोपामुद्रां प्रयच्छ मे ||२||
एवमुक्तः स मुनिना महीपालो विचेतनः |
प्रत्याख्यानाय चाशक्तः प्रदातुमपि नैच्छत ||३||
ततः स भार्यामभ्येत्य प्रोवाच पृथिवीपतिः |
महर्षिर्वीर्यवानेष क्रुद्धः शापाग्निना दहेत् ||४||
तं तथा दुःखितं दृष्ट्वा सभार्यं पृथिवीपतिम् |
लोपामुद्राभिगम्येदं काले वचनमब्रवीत् ||५||
न मत्कृते महीपाल पीडामभ्येतुमर्हसि |
प्रयच्छ मामगस्त्याय त्राह्यात्मानं मया पितः ||६||
दुहितुर्वचनाद्राजा सोऽगस्त्याय महात्मने |
लोपामुद्रां ततः प्रादाद्विधिपूर्वं विशां पते ||७||
प्राप्य भार्यामगस्त्यस्तु लोपामुद्रामभाषत |
महार्हाण्युत्सृजैतानि वासांस्याभरणानि च ||८||
ततः सा दर्शनीयानि महार्हाणि तनूनि च |
समुत्ससर्ज रम्भोरूर्वसनान्यायतेक्षणा ||९||
ततश्चीराणि जग्राह वल्कलान्यजिनानि च |
समानव्रतचर्या च बभूवायतलोचना ||१०||
गङ्गाद्वारमथागम्य भगवानृषिसत्तमः |
उग्रमातिष्ठत तपः सह पत्न्यानुकूलया ||११||
सा प्रीत्या बहुमानाच्च पतिं पर्यचरत्तदा |
अगस्त्यश्च परां प्रीतिं भार्यायामकरोत्प्रभुः ||१२||
ततो बहुतिथे काले लोपामुद्रां विशां पते |
तपसा द्योतितां स्नातां ददर्श भगवानृषिः ||१३||
स तस्याः परिचारेण शौचेन च दमेन च |
श्रिया रूपेण च प्रीतो मैथुनायाजुहाव ताम् ||१४||
ततः सा प्राञ्जलिर्भूत्वा लज्जमानेव भामिनी |
तदा सप्रणयं वाक्यं भगवन्तमथाब्रवीत् ||१५||
असंशयं प्रजाहेतोर्भार्यां पतिरविन्दत |
या तु त्वयि मम प्रीतिस्तामृषे कर्तुमर्हसि ||१६||
यथा पितुर्गृहे विप्र प्रासादे शयनं मम |
तथाविधे त्वं शयने मामुपैतुमिहार्हसि ||१७||
इच्छामि त्वां स्रग्विणं च भूषणैश्च विभूषितम् |
उपसर्तुं यथाकामं दिव्याभरणभूषिता ||१८||
अगस्त्य उवाच||
न वै धनानि विद्यन्ते लोपामुद्रे तथा मम |
यथाविधानि कल्याणि पितुस्तव सुमध्यमे ||१९||
लोपामुद्रोवाच||
ईशोऽसि तपसा सर्वं समाहर्तुमिहेश्वर |
क्षणेन जीवलोके यद्वसु किञ्चन विद्यते ||२०||
अगस्त्य उवाच||
एवमेतद्यथात्थ त्वं तपोव्ययकरं तु मे |
यथा तु मे न नश्येत तपस्तन्मां प्रचोदय ||२१||
लोपामुद्रोवाच||
अल्पावशिष्टः कालोऽयमृतौ मम तपोधन |
न चान्यथाहमिच्छामि त्वामुपैतुं कथञ्चन ||२२||
न चापि धर्ममिच्छामि विलोप्तुं ते तपोधन |
एतत्तु मे यथाकामं सम्पादयितुमर्हसि ||२३||
अगस्त्य उवाच||
यद्येष कामः सुभगे तव बुद्ध्या विनिश्चितः |
हन्त गच्छाम्यहं भद्रे चर काममिह स्थिता ||२४||
९६
लोमश उवाच||
ततो जगाम कौरव्य सोऽगस्त्यो भिक्षितुं वसु |
श्रुतर्वाणं महीपालं यं वेदाभ्यधिकं नृपैः ||१||
स विदित्वा तु नृपतिः कुम्भयोनिमुपागमत् |
विषयान्ते सहामात्यः प्रत्यगृह्णात्सुसत्कृतम् ||२||
तस्मै चार्घ्यं यथान्यायमानीय पृथिवीपतिः |
प्राञ्जलिः प्रयतो भूत्वा पप्रच्छागमनेऽर्थिताम् ||३||
अगस्त्य उवाच||
वित्तार्थिनमनुप्राप्तं विद्धि मां पृथिवीपते |
यथाशक्त्यविहिंस्यान्यान्संविभागं प्रयच्छ मे ||४||
लोमश उवाच||
तत आयव्ययौ पूर्णौ तस्मै राजा न्यवेदयत् |
अतो विद्वन्नुपादत्स्व यदत्र वसु मन्यसे ||५||
तत आयव्ययौ दृष्ट्वा समौ सममतिर्द्विजः |
सर्वथा प्राणिनां पीडामुपादानादमन्यत ||६||
स श्रुतर्वाणमादाय वध्र्यश्वमगमत्ततः |
स च तौ विषयस्यान्ते प्रत्यगृह्णाद्यथाविधि ||७||
तयोरर्घ्यं च पाद्यं च वध्र्यश्वः प्रत्यवेदयत् |
अनुज्ञाप्य च पप्रच्छ प्रयोजनमुपक्रमे ||८||
अगस्त्य उवाच||
वित्तकामाविह प्राप्तौ विद्ध्यावां पृथिवीपते |
यथाशक्त्यविहिंस्यान्यान्संविभागं प्रयच्छ नौ ||९||
लोमश उवाच||
तत आयव्ययौ पूर्णौ ताभ्यां राजा न्यवेदयत् |
ततो ज्ञात्वा समादत्तां यदत्र व्यतिरिच्यते ||१०||
तत आयव्ययौ दृष्ट्वा समौ सममतिर्द्विजः |
सर्वथा प्राणिनां पीडामुपादानादमन्यत ||११||
पौरुकुत्सं ततो जग्मुस्त्रसदस्युं महाधनम् |
अगस्त्यश्च श्रुतर्वा च वध्र्यश्वश्च महीपतिः ||१२||
त्रसदस्युश्च तान्सर्वान्प्रत्यगृह्णाद्यथाविधि |
अभिगम्य महाराज विषयान्ते सवाहनः ||१३||
अर्चयित्वा यथान्यायमिक्ष्वाकू राजसत्तमः |
समाश्वस्तांस्ततोऽपृच्छत्प्रयोजनमुपक्रमे ||१४||
अगस्त्य उवाच||
वित्तकामानिह प्राप्तान्विद्धि नः पृथिवीपते |
यथाशक्त्यविहिंस्यान्यान्संविभागं प्रयच्छ नः ||१५||
लोमश उवाच||
तत आयव्ययौ पूर्णौ तेषां राजा न्यवेदयत् |
अतो ज्ञात्वा समादद्ध्वं यदत्र व्यतिरिच्यते ||१६||
तत आयव्ययौ दृष्ट्वा समौ सममतिर्द्विजः |
सर्वथा प्राणिनां पीडामुपादानादमन्यत ||१७||
ततः सर्वे समेत्याथ ते नृपास्तं महामुनिम् |
इदमूचुर्महाराज समवेक्ष्य परस्परम् ||१८||
अयं वै दानवो ब्रह्मन्निल्वलो वसुमान्भुवि |
तमभिक्रम्य सर्वेऽद्य वयं याचामहे वसु ||१९||
तेषां तदासीद्रुचितमिल्वलस्योपभिक्षणम् |
ततस्ते सहिता राजन्निल्वलं समुपाद्रवन् ||२०||
९७
लोमश उवाच||
इल्वलस्तान्विदित्वा तु महर्षिसहितान्नृपान् |
उपस्थितान्सहामात्यो विषयान्तेऽभ्यपूजयत् ||१||
तेषां ततोऽसुरश्रेष्ठ आतिथ्यमकरोत्तदा |
स संस्कृतेन कौरव्य भ्रात्रा वातापिना किल ||२||
ततो राजर्षयः सर्वे विषण्णा गतचेतसः |
वातापिं संस्कृतं दृष्ट्वा मेषभूतं महासुरम् ||३||
अथाब्रवीदगस्त्यस्तान्राजर्षीनृषिसत्तमः |
विषादो वो न कर्तव्यो अहं भोक्ष्ये महासुरम् ||४||
धुर्यासनमथासाद्य निषसाद महामुनिः |
तं पर्यवेषद्दैत्येन्द्र इल्वलः प्रहसन्निव ||५||
अगस्त्य एव कृत्स्नं तु वातापिं बुभुजे ततः |
भुक्तवत्यसुरोऽऽह्वानमकरोत्तस्य इल्वलः ||६||
ततो वायुः प्रादुरभूदगस्त्यस्य महात्मनः |
इल्वलश्च विषण्णोऽभूद्दृष्ट्वा जीर्णं महासुरम् ||७||
प्राञ्जलिश्च सहामात्यैरिदं वचनमब्रवीत् |
किमर्थमुपयाताः स्थ ब्रूत किं करवाणि वः ||८||
प्रत्युवाच ततोऽगस्त्यः प्रहसन्निल्वलं तदा |
ईशं ह्यसुर विद्मस्त्वां वयं सर्वे धनेश्वरम् ||९||
इमे च नातिधनिनो धनार्थश्च महान्मम |
यथाशक्त्यविहिंस्यान्यान्संविभागं प्रयच्छ नः ||१०||
ततोऽभिवाद्य तमृषिमिल्वलो वाक्यमब्रवीत् |
दित्सितं यदि वेत्सि त्वं ततो दास्यामि ते वसु ||११||
अगस्त्य उवाच||
गवां दश सहस्राणि राज्ञामेकैकशोऽसुर |
तावदेव सुवर्णस्य दित्सितं ते महासुर ||१२||
मह्यं ततो वै द्विगुणं रथश्चैव हिरण्मयः |
मनोजवौ वाजिनौ च दित्सितं ते महासुर ||१३||
जिज्ञास्यतां रथः सद्यो व्यक्तमेष हिरण्मयः ||१३||
लोमश उवाच||
जिज्ञास्यमानः स रथः कौन्तेयासीद्धिरण्मयः |
ततः प्रव्यथितो दैत्यो ददावभ्यधिकं वसु ||१४||
विवाजश्च सुवाजश्च तस्मिन्युक्तौ रथे हयौ |
ऊहतुस्तौ वसून्याशु तान्यगस्त्याश्रमं प्रति ||१५||
सर्वान्राज्ञः सहागस्त्यान्निमेषादिव भारत ||१५||
अगस्त्येनाभ्यनुज्ञाता जग्मू राजर्षयस्तदा |
कृतवांश्च मुनिः सर्वं लोपामुद्राचिकीर्षितम् ||१६||
लोपामुद्रोवाच||
कृतवानसि तत्सर्वं भगवन्मम काङ्क्षितम् |
उत्पादय सकृन्मह्यमपत्यं वीर्यवत्तरम् ||१७||
अगस्त्य उवाच||
तुष्टोऽहमस्मि कल्याणि तव वृत्तेन शोभने |
विचारणामपत्ये तु तव वक्ष्यामि तां शृणु ||१८||
सहस्रं तेऽस्तु पुत्राणां शतं वा दशसंमितम् |
दश वा शततुल्याः स्युरेको वापि सहस्रवत् ||१९||
लोपामुद्रोवाच||
सहस्रसंमितः पुत्र एको मेऽस्तु तपोधन |
एको हि बहुभिः श्रेयान्विद्वान्साधुरसाधुभिः ||२०||
लोमश उवाच||
स तथेति प्रतिज्ञाय तया समभवन्मुनिः |
समये समशीलिन्या श्रद्धावाञ्श्रद्दधानया ||२१||
तत आधाय गर्भं तमगमद्वनमेव सः |
तस्मिन्वनगते गर्भो ववृधे सप्त शारदान् ||२२||
सप्तमेऽब्दे गते चापि प्राच्यवत्स महाकविः |
ज्वलन्निव प्रभावेन दृढस्युर्नाम भारत ||२३||
साङ्गोपनिषदान्वेदाञ्जपन्नेव महायशाः ||२३||
तस्य पुत्रोऽभवदृषेः स तेजस्वी महानृषिः |
स बाल एव तेजस्वी पितुस्तस्य निवेशने ||२४||
इध्मानां भारमाजह्रे इध्मवाहस्ततोऽभवत् ||२४||
तथायुक्तं च तं दृष्ट्वा मुमुदे स मुनिस्तदा |
लेभिरे पितरश्चास्य लोकान्राजन्यथेप्सितान् ||२५||
अगस्त्यस्याश्रमः ख्यातः सर्वर्तुकुसुमान्वितः |
प्राह्रादिरेवं वातापिरगस्त्येन विनाशितः ||२६||
तस्यायमाश्रमो राजन्रमणीयो गुणैर्युतः |
एषा भागीरथी पुण्या यथेष्टमवगाह्यताम् ||२७||
९८
युधिष्ठिर उवाच||
भूय एवाहमिच्छामि महर्षेस्तस्य धीमतः |
कर्मणां विस्तरं श्रोतुमगस्त्यस्य द्विजोत्तम ||१||
लोमश उवाच||
शृणु राजन्कथां दिव्यामद्भुतामतिमानुषीम् |
अगस्त्यस्य महाराज प्रभावममितात्मनः ||२||
आसन्कृतयुगे घोरा दानवा युद्धदुर्मदाः |
कालेया इति विख्याता गणाः परमदारुणाः ||३||
ते तु वृत्रं समाश्रित्य नानाप्रहरणोद्यताः |
समन्तात्पर्यधावन्त महेन्द्रप्रमुखान्सुरान् ||४||
ततो वृत्रवधे यत्नमकुर्वंस्त्रिदशाः पुरा |
पुरंदरं पुरस्कृत्य ब्रह्माणमुपतस्थिरे ||५||
कृताञ्जलींस्तु तान्सर्वान्परमेष्ठी उवाच ह |
विदितं मे सुराः सर्वं यद्वः कार्यं चिकीर्षितम् ||६||
तमुपायं प्रवक्ष्यामि यथा वृत्रं वधिष्यथ |
दधीच इति विख्यातो महानृषिरुदारधीः ||७||
तं गत्वा सहिताः सर्वे वरं वै सम्प्रयाचत |
स वो दास्यति धर्मात्मा सुप्रीतेनान्तरात्मना ||८||
स वाच्यः सहितैः सर्वैर्भवद्भिर्जयकाङ्क्षिभिः |
स्वान्यस्थीनि प्रयच्छेति त्रैलोक्यस्य हिताय वै ||९||
स शरीरं समुत्सृज्य स्वान्यस्थीनि प्रदास्यति ||९||
तस्यास्थिभिर्महाघोरं वज्रं सम्भ्रियतां दृढम् |
महच्छत्रुहणं तीक्ष्णं षडश्रं भीमनिस्वनम् ||१०||
तेन वज्रेण वै वृत्रं वधिष्यति शतक्रतुः |
एतद्वः सर्वमाख्यातं तस्माच्छीघ्रं विधीयताम् ||११||
एवमुक्तास्ततो देवा अनुज्ञाप्य पितामहम् |
नारायणं पुरस्कृत्य दधीचस्याश्रमं ययुः ||१२||
सरस्वत्याः परे पारे नानाद्रुमलतावृतम् |
षट्पदोद्गीतनिनदैर्विघुष्टं सामगैरिव ||१३||
पुंस्कोकिलरवोन्मिश्रं जीवञ्जीवकनादितम् ||१३||
महिषैश्च वराहैश्च सृमरैश्चमरैरपि |
तत्र तत्रानुचरितं शार्दूलभयवर्जितैः ||१४||
करेणुभिर्वारणैश्च प्रभिन्नकरटामुखैः |
सरोऽवगाढैः क्रीडद्भिः समन्तादनुनादितम् ||१५||
सिंहव्याघ्रैर्महानादान्नदद्भिरनुनादितम् |
अपरैश्चापि संलीनैर्गुहाकन्दरवासिभिः ||१६||
तेषु तेष्ववकाशेषु शोभितं सुमनोरमम् |
त्रिविष्टपसमप्रख्यं दधीचाश्रममागमन् ||१७||
तत्रापश्यन्दधीचं ते दिवाकरसमद्युतिम् |
जाज्वल्यमानं वपुषा यथा लक्ष्म्या पितामहम् ||१८||
तस्य पादौ सुरा राजन्नभिवाद्य प्रणम्य च |
अयाचन्त वरं सर्वे यथोक्तं परमेष्ठिना ||१९||
ततो दधीचः परमप्रतीतः; सुरोत्तमांस्तानिदमभ्युवाच |
करोमि यद्वो हितमद्य देवाः; स्वं चापि देहं त्वहमुत्सृजामि ||२०||
स एवमुक्त्वा द्विपदां वरिष्ठः; प्राणान्वशी स्वान्सहसोत्ससर्ज |
ततः सुरास्ते जगृहुः परासो; रस्थीनि तस्याथ यथोपदेशम् ||२१||
प्रहृष्टरूपाश्च जयाय देवा; स्त्वष्टारमागम्य तमर्थमूचुः |
त्वष्टा तु तेषां वचनं निशम्य; प्रहृष्टरूपः प्रयतः प्रयत्नात् ||२२||
चकार वज्रं भृशमुग्ररूपं; कृत्वा च शक्रं स उवाच हृष्टः |
अनेन वज्रप्रवरेण देव; भस्मीकुरुष्वाद्य सुरारिमुग्रम् ||२३||
ततो हतारिः सगणः सुखं वै; प्रशाधि कृत्स्नं त्रिदिवं दिविष्ठः |
त्वष्ट्रा तथोक्तः स पुरंदरस्तु; वज्रं प्रहृष्टः प्रयतोऽभ्यगृह्णात् ||२४||
९९
लोमश उवाच||
ततः स वज्री बलिभिर्दैवतैरभिरक्षितः |
आससाद ततो वृत्रं स्थितमावृत्य रोदसी ||१||
कालकेयैर्महाकायैः समन्तादभिरक्षितम् |
समुद्यतप्रहरणैः सशृङ्गैरिव पर्वतैः ||२||
ततो युद्धं समभवद्देवानां सह दानवैः |
मुहूर्तं भरतश्रेष्ठ लोकत्रासकरं महत् ||३||
उद्यतप्रतिपिष्टानां खड्गानां वीरबाहुभिः |
आसीत्सुतुमुलः शब्दः शरीरेष्वभिपात्यताम् ||४||
शिरोभिः प्रपतद्भिश्च अन्तरिक्षान्महीतलम् |
तालैरिव महीपाल वृन्ताद्भ्रष्टैरदृश्यत ||५||
ते हेमकवचा भूत्वा कालेयाः परिघायुधाः |
त्रिदशानभ्यवर्तन्त दावदग्धा इवाद्रयः ||६||
तेषां वेगवतां वेगं सहितानां प्रधावताम् |
न शेकुस्त्रिदशाः सोढुं ते भग्नाः प्राद्रवन्भयात् ||७||
तान्दृष्ट्वा द्रवतो भीतान्सहस्राक्षः पुरंदरः |
वृत्रे विवर्धमाने च कश्मलं महदाविशत् ||८||
तं शक्रं कश्मलाविष्टं दृष्ट्वा विष्णुः सनातनः |
स्वतेजो व्यदधाच्छक्रे बलमस्य विवर्धयन् ||९||
विष्णुनाप्यायितं शक्रं दृष्ट्वा देवगणास्ततः |
स्वं स्वं तेजः समादध्युस्तथा ब्रह्मर्षयोऽमलाः ||१०||
स समाप्यायितः शक्रो विष्णुना दैवतैः सह |
ऋषिभिश्च महाभागैर्बलवान्समपद्यत ||११||
ज्ञात्वा बलस्थं त्रिदशाधिपं तु; ननाद वृत्रो महतो निनादान् |
तस्य प्रणादेन धरा दिशश्च; खं द्यौर्नगाश्चापि चचाल सर्वम् ||१२||
ततो महेन्द्रः परमाभितप्तः; श्रुत्वा रवं घोररूपं महान्तम् |
भये निमग्नस्त्वरितं मुमोच; वज्रं महत्तस्य वधाय राजन् ||१३||
स शक्रवज्राभिहतः पपात; महासुरः काञ्चनमाल्यधारी |
यथा महाञ्शैलवरः पुरस्ता; त्स मन्दरो विष्णुकरात्प्रमुक्तः ||१४||
तस्मिन्हते दैत्यवरे भयार्तः; शक्रः पदुद्राव सरः प्रवेष्टुम् |
वज्रं न मेने स्वकरात्प्रमुक्तं; वृत्रं हतं चापि भयान्न मेने ||१५||
सर्वे च देवा मुदिताः प्रहृष्टा; महर्षयश्चेन्द्रमभिष्टुवन्तः |
सर्वांश्च दैत्यांस्त्वरिताः समेत्य; जघ्नुः सुरा वृत्रवधाभितप्तान् ||१६||
ते वध्यमानास्त्रिदशैस्तदानीं; समुद्रमेवाविविशुर्भयार्ताः |
प्रविश्य चैवोदधिमप्रमेयं; झषाकुलं रत्नसमाकुलं च ||१७||
तदा स्म मन्त्रं सहिताः प्रचक्रु; स्त्रैलोक्यनाशार्थमभिस्मयन्तः |
तत्र स्म केचिन्मतिनिश्चयज्ञा; स्तांस्तानुपायाननुवर्णयन्ति ||१८||
तेषां तु तत्र क्रमकालयोगा; द्घोरा मतिश्चिन्तयतां बभूव |
ये सन्ति विद्यातपसोपपन्ना; स्तेषां विनाशः प्रथमं तु कार्यः ||१९||
लोका हि सर्वे तपसा ध्रियन्ते; तस्मात्त्वरध्वं तपसः क्षयाय |
ये सन्ति केचिद्धि वसुन्धरायां; तपस्विनो धर्मविदश्च तज्ज्ञाः ||२०||
तेषां वधः क्रियतां क्षिप्रमेव; तेषु प्रनष्टेषु जगत्प्रनष्टम् ||२०||
एवं हि सर्वे गतबुद्धिभावा; जगद्विनाशे परमप्रहृष्टाः |
दुर्गं समाश्रित्य महोर्मिमन्तं; रत्नाकरं वरुणस्यालयं स्म ||२१||
१००
लोमश उवाच||
समुद्रं ते समाश्रित्य वारुणं निधिमम्भसाम् |
कालेयाः सम्प्रवर्तन्त त्रैलोक्यस्य विनाशने ||१||
ते रात्रौ समभिक्रुद्धा भक्षयन्ति सदा मुनीन् |
आश्रमेषु च ये सन्ति पुन्येष्वायतनेषु च ||२||
वसिष्ठस्याश्रमे विप्रा भक्षितास्तैर्दुरात्मभिः |
अशीतिशतमष्टौ च नव चान्ये तपस्विनः ||३||
च्यवनस्याश्रमं गत्वा पुण्यं द्विजनिषेवितम् |
फलमूलाशनानां हि मुनीनां भक्षितं शतम् ||४||
एवं रात्रौ स्म कुर्वन्ति विविशुश्चार्णवं दिवा |
भरद्वाजाश्रमे चैव नियता ब्रह्मचारिणः ||५||
वाय्वाहाराम्बुभक्षाश्च विंशतिः संनिपातिताः ||५||
एवं क्रमेण सर्वांस्तानाश्रमान्दानवास्तदा |
निशायां परिधावन्ति मत्ता भुजबलाश्रयात् ||६||
कालोपसृष्टाः कालेया घ्नन्तो द्विजगणान्बहून् ||६||
न चैनानन्वबुध्यन्त मनुजा मनुजोत्तम |
एवं प्रवृत्तान्दैत्यांस्तांस्तापसेषु तपस्विषु ||७||
प्रभाते समदृश्यन्त नियताहारकर्शिताः |
महीतलस्था मुनयः शरीरैर्गतजीवितैः ||८||
क्षीणमांसैर्विरुधिरैर्विमज्जान्त्रैर्विसन्धिभिः |
आकीर्णैराचिता भूमिः शङ्खानामिव राशिभिः ||९||
कलशैर्विप्रविद्धैश्च स्रुवैर्भग्नैस्तथैव च |
विकीर्णैरग्निहोत्रैश्च भूर्बभूव समावृता ||१०||
निःस्वाध्यायवषट्कारं नष्टयज्ञोत्सवक्रियम् |
जगदासीन्निरुत्साहं कालेयभयपीडितम् ||११||
एवं प्रक्षीयमाणाश्च मानवा मनुजेश्वर |
आत्मत्राणपरा भीताः प्राद्रवन्त दिशो भयात् ||१२||
केचिद्गुहाः प्रविविशुर्निर्झरांश्चापरे श्रिताः |
अपरे मरणोद्विग्ना भयात्प्रानान्समुत्सृजन् ||१३||
केचिदत्र महेष्वासाः शूराः परमदर्पिताः |
मार्गमाणाः परं यत्नं दानवानां प्रचक्रिरे ||१४||
न चैतानधिजग्मुस्ते समुद्रं समुपाश्रितान् |
श्रमं जग्मुश्च परममाजग्मुः क्षयमेव च ||१५||
जगत्युपशमं याते नष्टयज्ञोत्सवक्रिये |
आजग्मुः परमामार्तिं त्रिदशा मनुजेश्वर ||१६||
समेत्य समहेन्द्राश्च भयान्मन्त्रं प्रचक्रिरे |
नारायणं पुरस्कृत्य वैकुण्ठमपराजितम् ||१७||
ततो देवाः समेतास्ते तदोचुर्मधुसूदनम् |
त्वं नः स्रष्टा च पाता च भर्ता च जगतः प्रभो ||१८||
त्वया सृष्टमिदं सर्वं यच्चेङ्गं यच्च नेङ्गति ||१८||
त्वया भूमिः पुरा नष्टा समुद्रात्पुष्करेक्षण |
वाराहं रूपमास्थाय जगदर्थे समुद्धृता ||१९||
आदिदैत्यो महावीर्यो हिरण्यकशिपुस्त्वया |
नारसिंहं वपुः कृत्वा सूदितः पुरुषोत्तम ||२०||
अवध्यः सर्वभूतानां बलिश्चापि महासुरः |
वामनं वपुराश्रित्य त्रैलोक्याद्भ्रंशितस्त्वया ||२१||
असुरश्च महेष्वासो जम्भ इत्यभिविश्रुतः |
यज्ञक्षोभकरः क्रूरस्त्वयैव विनिपातितः ||२२||
एवमादीनि कर्माणि येषां सङ्ख्या न विद्यते |
अस्माकं भयभीतानां त्वं गतिर्मधुसूदन ||२३||
तस्मात्त्वां देव देवेश लोकार्थं ज्ञापयामहे |
रक्ष लोकांश्च देवांश्च शक्रं च महतो भयात् ||२४||
१०१
देवा ऊचुः||
इतः प्रदानाद्वर्तन्ते प्रजाः सर्वाश्चतुर्विधाः |
ता भाविता भावयन्ति हव्यकव्यैर्दिवौकसः ||१||
लोका ह्येवं वर्तयन्ति अन्योन्यं समुपाश्रिताः |
त्वत्प्रसादान्निरुद्विग्नास्त्वयैव परिरक्षिताः ||२||
इदं च समनुप्राप्तं लोकानां भयमुत्तमम् |
न च जानीम केनेमे रात्रौ वध्यन्ति ब्राह्मणाः ||३||
क्षीणेषु च ब्राह्मणेषु पृथिवी क्षयमेष्यति |
ततः पृथिव्यां क्षीणायां त्रिदिवं क्षयमेष्यति ||४||
त्वत्प्रसादान्महाबाहो लोकाः सर्वे जगत्पते |
विनाशं नाधिगच्छेयुस्त्वया वै परिरक्षिताः ||५||
विष्णुरुवाच||
विदितं मे सुराः सर्वं प्रजानां क्षयकारणम् |
भवतां चापि वक्ष्यामि शृणुध्वं विगतज्वराः ||६||
कालेय इति विख्यातो गणः परमदारुणः |
तैश्च वृत्रं समाश्रित्य जगत्सर्वं प्रबाधितम् ||७||
ते वृत्रं निहतं दृष्ट्वा सहस्राक्षेण धीमता |
जीवितं परिरक्षन्तः प्रविष्टा वरुणालयम् ||८||
ते प्रविश्योदधिं घोरं नक्रग्राहसमाकुलम् |
उत्सादनार्थं लोकानां रात्रौ घ्नन्ति मुनीनिह ||९||
न तु शक्याः क्षयं नेतुं समुद्राश्रयगा हि ते |
समुद्रस्य क्षये बुद्धिर्भवद्भिः सम्प्रधार्यताम् ||१०||
अगस्त्येन विना को हि शक्तोऽन्योऽर्णवशोषणे ||१०||
एतच्छ्रुत्वा वचो देवा विष्णुना समुदाहृतम् |
परमेष्ठिनमाज्ञाप्य अगस्त्यस्याश्रमं ययुः ||११||
तत्रापश्यन्महात्मानं वारुणिं दीप्ततेजसम् |
उपास्यमानमृषिभिर्देवैरिव पितामहम् ||१२||
तेऽभिगम्य महात्मानं मैत्रावरुणिमच्युतम् |
आश्रमस्थं तपोराशिं कर्मभिः स्वैरभिष्टुवन् ||१३||
देवा ऊचुः||
नहुषेणाभितप्तानां त्वं लोकानां गतिः पुरा |
भ्रंशितश्च सुरैश्वर्याल्लोकार्थं लोककण्टकः ||१४||
क्रोधात्प्रवृद्धः सहसा भास्करस्य नगोत्तमः |
वचस्तवानतिक्रामन्विन्ध्यः शैलो न वर्धते ||१५||
तमसा चावृते लोके मृत्युनाभ्यर्दिताः प्रजाः |
त्वामेव नाथमासाद्य निर्वृतिं परमां गताः ||१६||
अस्माकं भयभीतानां नित्यशो भगवान्गतिः |
ततस्त्वार्ताः प्रयाचामस्त्वां वरं वरदो ह्यसि ||१७||
१०२
युधिष्ठिर उवाच||
किमर्थं सहसा विन्ध्यः प्रवृद्धः क्रोधमूर्छितः |
एतदिच्छाम्यहं श्रोतुं विस्तरेण महामुने ||१||
लोमश उवाच||
अद्रिराजं महाशैलं मरुं कनकपर्वतम् |
उदयास्तमये भानुः प्रदक्षिणमवर्तत ||२||
तं तु दृष्ट्वा तथा विन्ध्यः शैलः सूर्यमथाब्रवीत् |
यथा हि मेरुर्भवता नित्यशः परिगम्यते ||३||
प्रदक्षिणं च क्रियते मामेवं कुरु भास्कर ||३||
एवमुक्तस्ततः सूर्यः शैलेन्द्रं प्रत्यभाषत |
नाहमात्मेच्छया शैल करोम्येनं प्रदक्षिणम् ||४||
एष मार्गः प्रदिष्टो मे येनेदं निर्मितं जगत् ||४||
एवमुक्तस्ततः क्रोधात्प्रवृद्धः सहसाचलः |
सूर्याचन्द्रमसोर्मार्गं रोद्धुमिच्छन्परन्तप ||५||
ततो देवाः सहिताः सर्व एव; सेन्द्राः समागम्य महाद्रिराजम् |
निवारयामासुरुपायतस्तं; न च स्म तेषां वचनं चकार ||६||
अथाभिजग्मुर्मुनिमाश्रमस्थं; तपस्विनं धर्मभृतां वरिष्ठम् |
अगस्त्यमत्यद्भुतवीर्यदीप्तं; तं चार्थमूचुः सहिताः सुरास्ते ||७||
देवा ऊचुः||
सूर्याचन्द्रमसोर्मार्गं नक्षत्राणां गतिं तथा |
शैलराजो वृणोत्येष विन्ध्यः क्रोधवशानुगः ||८||
तं निवारयितुं शक्तो नान्यः कश्चिद्द्विजोत्तम |
ऋते त्वां हि महाभाग तस्मादेनं निवारय ||९||
लोमश उवाच||
तच्छ्रुत्वा वचनं विप्रः सुराणां शैलमभ्यगात् |
सोऽभिगम्याब्रवीद्विन्ध्यं सदारः समुपस्थितः ||१०||
मार्गमिच्छाम्यहं दत्तं भवता पर्वतोत्तम |
दक्षिणामभिगन्तास्मि दिशं कार्येण केनचित् ||११||
यावदागमनं मह्यं तावत्त्वं प्रतिपालय |
निवृत्ते मयि शैलेन्द्र ततो वर्धस्व कामतः ||१२||
एवं स समयं कृत्वा विन्ध्येनामित्रकर्शन |
अद्यापि दक्षिणाद्देशाद्वारुणिर्न निवर्तते ||१३||
एतत्ते सर्वमाख्यातं यथा विन्ध्यो न वर्धते |
अगस्त्यस्य प्रभावेन यन्मां त्वं परिपृच्छसि ||१४||
कालेयास्तु यथा राजन्सुरैः सर्वैर्निषूदिताः |
अगस्त्याद्वरमासाद्य तन्मे निगदतः शृणु ||१५||
त्रिदशानां वचः श्रुत्वा मैत्रावरुणिरब्रवीत् |
किमर्थमभियाताः स्थ वरं मत्तः किमिच्छथ ||१६||
एवमुक्तास्ततस्तेन देवास्तं मुनिमब्रुवन् ||१६||
एवं त्वयेच्छाम कृतं महर्षे; महार्णवं पीयमानं महात्मन् |
ततो वधिष्याम सहानुबन्धा; न्कालेयसञ्ज्ञान्सुरविद्विषस्तान् ||१७||
त्रिदशानां वचः श्रुत्वा तथेति मुनिरब्रवीत् |
करिष्ये भवतां कामं लोकानां च महत्सुखम् ||१८||
एवमुक्त्वा ततोऽगच्छत्समुद्रं सरितां पतिम् |
ऋषिभिश्च तपःसिद्धैः सार्धं देवैश्च सुव्रतः ||१९||
मनुष्योरगगन्धर्वयक्षकिम्पुरुषास्तथा |
अनुजग्मुर्महात्मानं द्रष्टुकामास्तदद्भुतम् ||२०||
ततोऽभ्यगच्छन्सहिताः समुद्रं भीमनिस्वनम् |
नृत्यन्तमिव चोर्मीभिर्वल्गन्तमिव वायुना ||२१||
हसन्तमिव फेनौघैः स्खलन्तं कन्दरेषु च |
नानाग्राहसमाकीर्णं नानाद्विजगणायुतम् ||२२||
अगस्त्यसहिता देवाः सगन्धर्वमहोरगाः |
ऋषयश्च महाभागाः समासेदुर्महोदधिम् ||२३||
१०३
लोमश उवाच||
समुद्रं स समासाद्य वारुणिर्भगवानृषिः |
उवाच सहितान्देवानृषींश्चैव समागतान् ||१||
एष लोकहितार्थं वै पिबामि वरुणालयम् |
भवद्भिर्यदनुष्ठेयं तच्छीघ्रं संविधीयताम् ||२||
एतावदुक्त्वा वचनं मैत्रावरुणिरच्युतः |
समुद्रमपिबत्क्रुद्धः सर्वलोकस्य पश्यतः ||३||
पीयमानं समुद्रं तु दृष्ट्वा देवाः सवासवाः |
विस्मयं परमं जग्मुः स्तुतिभिश्चाप्यपूजयन् ||४||
त्वं नस्त्राता विधाता च लोकानां लोकभावनः |
त्वत्प्रसादात्समुच्छेदं न गच्छेत्सामरं जगत् ||५||
सम्पूज्यमानस्त्रिदशैर्महात्मा; गन्धर्वतूर्येषु नदत्सु सर्वशः |
दिव्यैश्च पुष्पैरवकीर्यमाणो; महार्णवं निःसलिलं चकार ||६||
दृष्ट्वा कृतं निःसलिलं महार्णवं; सुराः समस्ताः परमप्रहृष्टाः |
प्रगृह्य दिव्यानि वरायुधानि; तान्दानवाञ्जघ्नुरदीनसत्त्वाः ||७||
ते वध्यमानास्त्रिदशैर्महात्मभि; र्महाबलैर्वेगिभिरुन्नदद्भिः |
न सेहिरे वेगवतां महात्मनां; वेगं तदा धारयितुं दिवौकसाम् ||८||
ते वध्यमानास्त्रिदशैर्दानवा भीमनिस्वनाः |
चक्रुः सुतुमुलं युद्धं मुहूर्तमिव भारत ||९||
ते पूर्वं तपसा दग्धा मुनिभिर्भावितात्मभिः |
यतमानाः परं शक्त्या त्रिदशैर्विनिषूदिताः ||१०||
ते हेमनिष्काभरणाः कुण्डलाङ्गदधारिणः |
निहत्य बह्वशोभन्त पुष्पिता इव किंशुकाः ||११||
हतशेषास्ततः केचित्कालेया मनुजोत्तम |
विदार्य वसुधां देवीं पातालतलमाश्रिताः ||१२||
निहतान्दानवान्दृष्ट्वा त्रिदशा मुनिपुङ्गवम् |
तुष्टुवुर्विविधैर्वाक्यैरिदं चैवाब्रुवन्वचः ||१३||
त्वत्प्रसादान्महाभाग लोकैः प्राप्तं महत्सुखम् |
त्वत्तेजसा च निहताः कालेयाः क्रूरविक्रमाः ||१४||
पूरयस्व महाबाहो समुद्रं लोकभावन |
यत्त्वया सलिलं पीतं तदस्मिन्पुनरुत्सृज ||१५||
एवमुक्तः प्रत्युवाच भगवान्मुनिपुङ्गवः |
जीर्णं तद्धि मया तोयमुपायोऽन्यः प्रचिन्त्यताम् ||१६||
पूरणार्थं समुद्रस्य भवद्भिर्यत्नमास्थितैः ||१६||
एतच्छ्रुत्वा तु वचनं महर्षेर्भावितात्मनः |
विस्मिताश्च विषण्णाश्च बभूवुः सहिताः सुराः ||१७||
परस्परमनुज्ञाप्य प्रणम्य मुनिपुङ्गवम् |
प्रजाः सर्वा महाराज विप्रजग्मुर्यथागतम् ||१८||
त्रिदशा विष्णुना सार्धमुपजग्मुः पितामहम् |
पूरणार्थं समुद्रस्य मन्त्रयित्वा पुनः पुनः ||१९||
ऊचुः प्राञ्जलयः सर्वे सागरस्याभिपूरणम् ||१९||
१०४
लोमश उवाच||
तानुवाच समेतांस्तु ब्रह्मा लोकपितामहः |
गच्छध्वं विबुधाः सर्वे यथाकामं यथेप्सितम् ||१||
महता कालयोगेन प्रकृतिं यास्यतेऽर्णवः |
ज्ञातीन्वै कारणं कृत्वा महाराज्ञो भगीरथात् ||२||
युधिष्ठिर उवाच||
कथं वै ज्ञातयो ब्रह्मन्कारणं चात्र किं मुने |
कथं समुद्रः पूर्णश्च भगीरथपरिश्रमात् ||३||
एतदिच्छाम्यहं श्रोतुं विस्तरेण तपोधन |
कथ्यमानं त्वया विप्र राज्ञां चरितमुत्तमम् ||४||
वैशम्पायन उवाच||
एवमुक्तस्तु विप्रेन्द्रो धर्मराज्ञा महात्मना |
कथयामास माहात्म्यं सगरस्य महात्मनः ||५||
लोमश उवाच||
इक्ष्वाकूणां कुले जातः सगरो नाम पार्थिवः |
रूपसत्त्वबलोपेतः स चापुत्रः प्रतापवान् ||६||
स हैहयान्समुत्साद्य तालजङ्घांश्च भारत |
वशे च कृत्वा राज्ञोऽन्यान्स्वराज्यमन्वशासत ||७||
तस्य भार्ये त्वभवतां रूपयौवनदर्पिते |
वैदर्भी भरतश्रेष्ठ शैब्या च भरतर्षभ ||८||
स पुत्रकामो नृपतिस्तताप सुमहत्तपः |
पत्नीभ्यां सह राजेन्द्र कैलासं गिरिमाश्रितः ||९||
स तप्यमानः सुमहत्तपो योगसमन्वितः |
आससाद महात्मानं त्र्यक्षं त्रिपुरमर्दनम् ||१०||
शङ्करं भवमीशानं शूलपानिं पिनाकिनम् |
त्र्यम्बकं शिवमुग्रेशं बहुरूपमुमापतिम् ||११||
स तं दृष्ट्वैव वरदं पत्नीभ्यां सहितो नृपः |
प्रणिपत्य महाबाहुः पुत्रार्थं समयाचत ||१२||
तं प्रीतिमान्हरः प्राह सभार्यं नृपसत्तमम् |
यस्मिन्वृतो मुहूर्तेऽहं त्वयेह नृपते वरम् ||१३||
षष्टिः पुत्रसहस्राणि शूराः समरदर्पिताः |
एकस्यां सम्भविष्यन्ति पत्न्यां तव नरोत्तम ||१४||
ते चैव सर्वे सहिताः क्षयं यास्यन्ति पार्थिव |
एको वंशधरः शूर एकस्यां सम्भविष्यति ||१५||
एवमुक्त्वा तु तं रुद्रस्तत्रैवान्तरधीयत ||१५||
स चापि सगरो राजा जगाम स्वं निवेशनम् |
पत्नीभ्यां सहितस्तात सोऽतिहृष्टमनास्तदा ||१६||
तस्याथ मनुजश्रेष्ठ ते भार्ये कमलेक्षणे |
वैदर्भी चैव शैब्या च गर्भिण्यौ सम्बभूवतुः ||१७||
ततः कालेन वैदर्भी गर्भालाबुं व्यजायत |
शैब्या च सुषुवे पुत्रं कुमारं देवरूपिणम् ||१८||
तदालाबुं समुत्स्रष्टुं मनश्चक्रे स पार्थिवः |
अथान्तरिक्षाच्छुश्राव वाचं गम्भीरनिस्वनाम् ||१९||
राजन्मा साहसं कार्षीः पुत्रान्न त्यक्तुमर्हसि |
अलाबुमध्यान्निष्कृष्य बीजं यत्नेन गोप्यताम् ||२०||
सोपस्वेदेषु पात्रेषु घृतपूर्णेषु भागशः |
ततः पुत्रसहस्राणि षष्टिं प्राप्स्यसि पार्थिव ||२१||
महादेवेन दिष्टं ते पुत्रजन्म नराधिप |
अनेन क्रमयोगेन मा ते बुद्धिरतोऽन्यथा ||२२||
१०५
लोमश उवाच||
एतच्छ्रुत्वान्तरिक्षाच्च स राजा राजसत्तम |
यथोक्तं तच्चकाराथ श्रद्दधद्भरतर्षभ ||१||
षष्टिः पुत्रसहस्राणि तस्याप्रतिमतेजसः |
रुद्रप्रसादाद्राजर्षेः समजायन्त पार्थिव ||२||
ते घोराः क्रूरकर्माण आकाशपरिसर्पिणः |
बहुत्वाच्चावजानन्तः सर्वाँल्लोकान्सहामरान् ||३||
त्रिदशांश्चाप्यबाधन्त तथा गन्धर्वराक्षसान् |
सर्वाणि चैव भूतानि शूराः समरशालिनः ||४||
वध्यमानास्ततो लोकाः सागरैर्मन्दबुद्धिभिः |
ब्रह्माणं शरणं जग्मुः सहिताः सर्वदैवतैः ||५||
तानुवाच महाभागः सर्वलोकपितामहः |
गच्छध्वं त्रिदशाः सर्वे लोकैः सार्धं यथागतम् ||६||
नातिदीर्घेण कालेन सागराणां क्षयो महान् |
भविष्यति महाघोरः स्वकृतैः कर्मभिः सुराः ||७||
एवमुक्तास्ततो देवा लोकाश्च मनुजेश्वर |
पितामहमनुज्ञाप्य विप्रजग्मुर्यथागतम् ||८||
ततः काले बहुतिथे व्यतीते भरतर्षभ |
दीक्षितः सगरो राजा हयमेधेन वीर्यवान् ||९||
तस्याश्वो व्यचरद्भूमिं पुत्रैः सुपरिरक्षितः ||९||
समुद्रं स समासाद्य निस्तोयं भीमदर्शनम् |
रक्ष्यमाणः प्रयत्नेन तत्रैवान्तरधीयत ||१०||
ततस्ते सागरास्तात हृतं मत्वा हयोत्तमम् |
आगम्य पितुराचख्युरदृश्यं तुरगं हृतम् ||११||
तेनोक्ता दिक्षु सर्वासु सर्वे मार्गत वाजिनम् ||११||
ततस्ते पितुराज्ञाय दिक्षु सर्वासु तं हयम् |
अमार्गन्त महाराज सर्वं च पृथिवीतलम् ||१२||
ततस्ते सागराः सर्वे समुपेत्य परस्परम् |
नाध्यगच्छन्त तुरगमश्वहर्तारमेव च ||१३||
आगम्य पितरं चोचुस्ततः प्राञ्जलयोऽग्रतः |
ससमुद्रवनद्वीपा सनदीनदकन्दरा ||१४||
सपर्वतवनोद्देशा निखिलेन मही नृप ||१४||
अस्माभिर्विचिता राजञ्शासनात्तव पार्थिव |
न चाश्वमधिगच्छामो नाश्वहर्तारमेव च ||१५||
श्रुत्वा तु वचनं तेषां स राजा क्रोधमूर्छितः |
उवाच वचनं सर्वांस्तदा दैववशान्नृप ||१६||
अनागमाय गच्छध्वं भूयो मार्गत वाजिनम् |
यज्ञियं तं विना ह्यश्वं नागन्तव्यं हि पुत्रकाः ||१७||
प्रतिगृह्य तु संदेशं ततस्ते सगरात्मजाः |
भूय एव महीं कृत्स्नां विचेतुमुपचक्रमुः ||१८||
अथापश्यन्त ते वीराः पृथिवीमवदारिताम् |
समासाद्य बिलं तच्च खनन्तः सगरात्मजाः ||१९||
कुद्दालैर्ह्रेषुकैश्चैव समुद्रमखनंस्तदा ||१९||
स खन्यमानः सहितैः सागरैर्वरुणालयः |
अगच्छत्परमामार्तिं दार्यमाणः समन्ततः ||२०||
असुरोरगरक्षांसि सत्त्वानि विविधानि च |
आर्तनादमकुर्वन्त वध्यमानानि सागरैः ||२१||
छिन्नशीर्षा विदेहाश्च भिन्नजान्वस्थिमस्तकाः |
प्राणिनः समदृश्यन्त शतशोऽथ सहस्रशः ||२२||
एवं हि खनतां तेषां समुद्रं मकरालयम् |
व्यतीतः सुमहान्कालो न चाश्वः समदृश्यत ||२३||
ततः पूर्वोत्तरे देशे समुद्रस्य महीपते |
विदार्य पातालमथ सङ्क्रुद्धाः सगरात्मजाः ||२४||
अपश्यन्त हयं तत्र विचरन्तं महीतले ||२४||
कपिलं च महात्मानं तेजोराशिमनुत्तमम् |
तपसा दीप्यमानं तं ज्वालाभिरिव पावकम् ||२५||
१०६
लोमश उवाच||
ते तं दृष्ट्वा हयं राजन्सम्प्रहृष्टतनूरुहाः |
अनादृत्य महात्मानं कपिलं कालचोदिताः ||१||
सङ्क्रुद्धाः समधावन्त अश्वग्रहणकाङ्क्षिणः ||१||
ततः क्रुद्धो महाराज कपिलो मुनिसत्तमः |
वासुदेवेति यं प्राहुः कपिलं मुनिसत्तमम् ||२||
स चक्षुर्विवृतं कृत्वा तेजस्तेषु समुत्सृजन् |
ददाह सुमहातेजा मन्दबुद्धीन्स सागरान् ||३||
तान्दृष्ट्वा भस्मसाद्भूतान्नारदः सुमहातपाः |
सगरान्तिकमागच्छत्तच्च तस्मै न्यवेदयत् ||४||
स तच्छ्रुत्वा वचो घोरं राजा मुनिमुखोद्गतम् |
मुहूर्तं विमना भूत्वा स्थाणोर्वाक्यमचिन्तयत् ||५||
आत्मानमात्मनाश्वास्य हयमेवान्वचिन्तयत् ||५||
अंशुमन्तं समाहूय असमज्ञःसुतं तदा |
पौत्रं भरतशार्दूल इदं वचनमब्रवीत् ||६||
षष्टिस्तानि सहस्राणि पुत्राणाममितौजसाम् |
कापिलं तेज आसाद्य मत्कृते निधनं गताः ||७||
तव चापि पिता तात परित्यक्तो मयानघ |
धर्मं संरक्षमाणेन पौराणां हितमिच्छता ||८||
युधिष्ठिर उवाच||
किमर्थं राजशार्दूलः सगरः पुत्रमात्मजम् |
त्यक्तवान्दुस्त्यजं वीरं तन्मे ब्रूहि तपोधन ||९||
लोमश उवाच||
असमञ्जा इति ख्यातः सगरस्य सुतो ह्यभूत् |
यं शैब्या जनयामास पौराणां स हि दारकान् ||१०||
खुरेषु क्रोशतो गृह्य नद्यां चिक्षेप दुर्बलान् ||१०||
ततः पौराः समाजग्मुर्भयशोकपरिप्लुताः |
सगरं चाभ्ययाचन्त सर्वे प्राञ्जलयः स्थिताः ||११||
त्वं नस्त्राता महाराज परचक्रादिभिर्भयैः |
असमञ्जोभयाद्घोरात्ततो नस्त्रातुमर्हसि ||१२||
पौराणां वचनं श्रुत्वा घोरं नृपतिसत्तमः |
मुहूर्तं विमना भूत्वा सचिवानिदमब्रवीत् ||१३||
असमञ्जाः पुरादद्य सुतो मे विप्रवास्यताम् |
यदि वो मत्प्रियं कार्यमेतच्छीघ्रं विधीयताम् ||१४||
एवमुक्ता नरेन्द्रेण सचिवास्ते नराधिप |
यथोक्तं त्वरिताश्चक्रुर्यथाज्ञापितवान्नृपः ||१५||
एतत्ते सर्वमाख्यातं यथा पुत्रो महात्मना |
पौराणां हितकामेन सगरेण विवासितः ||१६||
अंशुमांस्तु महेष्वासो यदुक्तः सगरेण ह |
तत्ते सर्वं प्रवक्ष्यामि कीर्त्यमानं निबोध मे ||१७||
सगर उवाच||
पितुश्च तेऽहं त्यागेन पुत्राणां निधनेन च |
अलाभेन तथाश्वस्य परितप्यामि पुत्रक ||१८||
तस्माद्दुःखाभिसन्तप्तं यज्ञविघ्नाच्च मोहितम् |
हयस्यानयनात्पौत्र नरकान्मां समुद्धर ||१९||
लोमश उवाच||
अंशुमानेवमुक्तस्तु सगरेण महात्मना |
जगाम दुःखात्तं देशं यत्र वै दारिता मही ||२०||
स तु तेनैव मार्गेण समुद्रं प्रविवेश ह |
अपश्यच्च महात्मानं कपिलं तुरगं च तम् ||२१||
स दृष्ट्वा तेजसो राशिं पुराणमृषिसत्तमम् |
प्रणम्य शिरसा भूमौ कार्यमस्मै न्यवेदयत् ||२२||
ततः प्रीतो महातेजाः कलिपोंऽशुमतोऽभवत् |
उवाच चैनं धर्मात्मा वरदोऽस्मीति भारत ||२३||
स वव्रे तुरगं तत्र प्रथमं यज्ञकारणात् |
द्वितीयमुदकं वव्रे पितॄणां पावनेप्सया ||२४||
तमुवाच महातेजाः कपिलो मुनिपुङ्गवः |
ददानि तव भद्रं ते यद्यत्प्रार्थयसेऽनघ ||२५||
त्वयि क्षमा च धर्मश्च सत्यं चापि प्रतिष्ठितम् |
त्वया कृतार्थः सगरः पुत्रवांश्च त्वया पिता ||२६||
तव चैव प्रभावेन स्वर्गं यास्यन्ति सागराः |
पौत्रश्च ते त्रिपथगां त्रिदिवादानयिष्यति ||२७||
पावनार्थं सागराणां तोषयित्वा महेश्वरम् ||२७||
हयं नयस्व भद्रं ते यज्ञियं नरपुङ्गव |
यज्ञः समाप्यतां तात सगरस्य महात्मनः ||२८||
अंशुमानेवमुक्तस्तु कपिलेन महात्मना |
आजगाम हयं गृह्य यज्ञवाटं महात्मनः ||२९||
सोऽभिवाद्य ततः पादौ सगरस्य महात्मनः |
मूर्ध्नि तेनाप्युपाघ्रातस्तस्मै सर्वं न्यवेदयत् ||३०||
यथा दृष्टं श्रुतं चापि सागराणां क्षयं तथा |
तं चास्मै हयमाचष्ट यज्ञवाटमुपागतम् ||३१||
तच्छ्रुत्वा सगरो राजा पुत्रजं दुःखमत्यजत् |
अंशुमन्तं च सम्पूज्य समापयत तं क्रतुम् ||३२||
समाप्तयज्ञः सगरो देवैः सर्वैः सभाजितः |
पुत्रत्वे कल्पयामास समुद्रं वरुणालयम् ||३३||
प्रशास्य सुचिरं कालं राज्यं राजीवलोचनः |
पौत्रे भारं समावेश्य जगाम त्रिदिवं तदा ||३४||
अंशुमानपि धर्मात्मा महीं सागरमेखलाम् |
प्रशशास महाराज यथैवास्य पितामहः ||३५||
तस्य पुत्रः समभवद्दिलीपो नाम धर्मवित् |
तस्मै राज्यं समाधाय अंशुमानपि संस्थितः ||३६||
दिलीपस्तु ततः श्रुत्वा पितॄणां निधनं महत् |
पर्यतप्यत दुःखेन तेषां गतिमचिन्तयत् ||३७||
गङ्गावतरणे यत्नं सुमहच्चाकरोन्नृपः |
न चावतारयामास चेष्टमानो यथाबलम् ||३८||
तस्य पुत्रः समभवच्छ्रीमान्धर्मपरायणः |
भगीरथ इति ख्यातः सत्यवागनसूयकः ||३९||
अभिषिच्य तु तं राज्ये दिलीपो वनमाश्रितः |
तपःसिद्धिसमायोगात्स राजा भरतर्षभ ||४०||
वनाज्जगाम त्रिदिवं कालयोगेन भारत ||४०||
१०७
लोमश उवाच||
स तु राजा महेष्वासश्चक्रवर्ती महारथः |
बभूव सर्वलोकस्य मनोनयननन्दनः ||१||
स शुश्राव महाबाहुः कपिलेन महात्मना |
पितॄणां निधनं घोरमप्राप्तिं त्रिदिवस्य च ||२||
स राज्यं सचिवे न्यस्य हृदयेन विदूयता |
जगाम हिमवत्पार्श्वं तपस्तप्तुं नरेश्वरः ||३||
आरिराधयिषुर्गङ्गां तपसा दग्धकिल्बिषः |
सोऽपश्यत नरश्रेष्ठ हिमवन्तं नगोत्तमम् ||४||
शृङ्गैर्बहुविधाकारैर्धातुमद्भिरलङ्कृतम् |
पवनालम्बिभिर्मेघैः परिष्वक्तं समन्ततः ||५||
नदीकुञ्जनितम्बैश्च सोदकैरुपशोभितम् |
गुहाकन्दरसंलीनैः सिंहव्याघ्रैर्निषेवितम् ||६||
शकुनैश्च विचित्राङ्गैः कूजद्भिर्विविधा गिरः |
भृङ्गराजैस्तथा हंसैर्दात्यूहैर्जलकुक्कुटैः ||७||
मयूरैः शतपत्रैश्च कोकिलैर्जीवजीवकैः |
चकोरैरसितापाङ्गैस्तथा पुत्रप्रियैरपि ||८||
जलस्थानेषु रम्येषु पद्मिनीभिश्च सङ्कुलम् |
सारसानां च मधुरैर्व्याहृतैः समलङ्कृतम् ||९||
किंनरैरप्सरोभिश्च निषेवितशिलातलम् |
दिशागजविषाणाग्रैः समन्ताद्घृष्टपादपम् ||१०||
विद्याधरानुचरितं नानारत्नसमाकुलम् |
विषोल्बणैर्भुजङ्गैश्च दीप्तजिह्वैर्निषेवितम् ||११||
क्वचित्कनकसङ्काशं क्वचिद्रजतसंनिभम् |
क्वचिदञ्जनपुञ्जाभं हिमवन्तमुपागमत् ||१२||
स तु तत्र नरश्रेष्ठस्तपो घोरं समाश्रितः |
फलमूलाम्बुभक्षोऽभूत्सहस्रं परिवत्सरान् ||१३||
संवत्सरसहस्रे तु गते दिव्ये महानदी |
दर्शयामास तं गङ्गा तदा मूर्तिमती स्वयम् ||१४||
गङ्गोवाच||
किमिच्छसि महाराज मत्तः किं च ददानि ते |
तद्ब्रवीहि नरश्रेष्ठ करिष्यामि वचस्तव ||१५||
लोमश उवाच||
एवमुक्तः प्रत्युवाच राजा हैमवतीं तदा |
पितामहा मे वरदे कपिलेन महानदि ||१६||
अन्वेषमाणास्तुरगं नीता वैवस्वतक्षयम् ||१६||
षष्टिस्तानि सहस्राणि सागराणां महात्मनाम् |
कापिलं तेज आसाद्य क्षणेन निधनं गताः ||१७||
तेषामेवं विनष्टानां स्वर्गे वासो न विद्यते |
यावत्तानि शरीराणि त्वं जलैर्नाभिषिञ्चसि ||१८||
स्वर्गं नय महाभागे मत्पितॄन्सगरात्मजान् |
तेषामर्थेऽभियाचामि त्वामहं वै महानदि ||१९||
एतच्छ्रुत्वा वचो राज्ञो गङ्गा लोकनमस्कृता |
भगीरथमिदं वाक्यं सुप्रीता समभाषत ||२०||
करिष्यामि महाराज वचस्ते नात्र संशयः |
वेगं तु मम दुर्धार्यं पतन्त्या गगनाच्च्युतम् ||२१||
न शक्तस्त्रिषु लोकेषु कश्चिद्धारयितुं नृप |
अन्यत्र विबुधश्रेष्ठान्नीलकण्ठान्महेश्वरात् ||२२||
तं तोषय महाबाहो तपसा वरदं हरम् |
स तु मां प्रच्युतां देवः शिरसा धारयिष्यति ||२३||
करिष्यति च ते कामं पितॄणां हितकाम्यया ||२३||
एतच्छ्रुत्वा वचो राजन्महाराजो भगीरथः |
कैलासं पर्वतं गत्वा तोषयामास शङ्करम् ||२४||
ततस्तेन समागम्य कालयोगेन केनचित् |
अगृह्णाच्च वरं तस्माद्गङ्गाया धारणं नृप ||२५||
स्वर्गवासं समुद्दिश्य पितॄणां स नरोत्तमः ||२५||
१०८
लोमश उवाच||
भगीरथवचः श्रुत्वा प्रियार्थं च दिवौकसाम् |
एवमस्त्विति राजानं भगवान्प्रत्यभाषत ||१||
धारयिष्ये महाबाहो गगनात्प्रच्युतां शिवाम् |
दिव्यां देवनदीं पुण्यां त्वत्कृते नृपसत्तम ||२||
एवमुक्त्वा महाबाहो हिमवन्तमुपागमत् |
संवृतः पार्षदैर्घोरैर्नानाप्रहरणोद्यतैः ||३||
ततः स्थित्वा नरश्रेष्ठं भगीरथमुवाच ह |
प्रयाचस्व महाबाहो शैलराजसुतां नदीम् ||४||
पतमानां सरिच्छ्रेष्ठां धारयिष्ये त्रिविष्टपात् ||४||
एतच्छ्रुत्वा वचो राजा शर्वेण समुदाहृतम् |
प्रयतः प्रणतो भूत्वा गङ्गां समनुचिन्तयत् ||५||
ततः पुण्यजला रम्या राज्ञा समनुचिन्तिता |
ईशानं च स्थितं दृष्ट्वा गगनात्सहसा च्युता ||६||
तां प्रच्युतां ततो दृष्ट्वा देवाः सार्धं महर्षिभिः |
गन्धर्वोरगरक्षांसि समाजग्मुर्दिदृक्षया ||७||
ततः पपात गगनाद्गङ्गा हिमवतः सुता |
समुद्भ्रान्तमहावर्ता मीनग्राहसमाकुला ||८||
तां दधार हरो राजन्गङ्गां गगनमेखलाम् |
ललाटदेशे पतितां मालां मुक्तामयीमिव ||९||
सा बभूव विसर्पन्ती त्रिधा राजन्समुद्रगा |
फेनपुञ्जाकुलजला हंसानामिव पङ्क्तयः ||१०||
क्वचिदाभोगकुटिला प्रस्खलन्ती क्वचित्क्वचित् |
स्वफेनपटसंवीता मत्तेव प्रमदाव्रजत् ||११||
क्वचित्सा तोयनिनदैर्नदन्ती नादमुत्तमम् ||११||
एवं प्रकारान्सुबहून्कुर्वन्ती गगनाच्च्युता |
पृथिवीतलमासाद्य भगीरथमथाब्रवीत् ||१२||
दर्शयस्व महाराज मार्गं केन व्रजाम्यहम् |
त्वदर्थमवतीर्णास्मि पृथिवीं पृथिवीपते ||१३||
एतच्छ्रुत्वा वचो राजा प्रातिष्ठत भगीरथः |
यत्र तानि शरीराणि सागराणां महात्मनाम् ||१४||
पावनार्थं नरश्रेष्ठ पुण्येन सलिलेन ह ||१४||
गङ्गाया धारणं कृत्वा हरो लोकनमस्कृतः |
कैलासं पर्वतश्रेष्ठं जगाम त्रिदशैः सह ||१५||
समुद्रं च समासाद्य गङ्गया सहितो नृपः |
पूरयामास वेगेन समुद्रं वरुणालयम् ||१६||
दुहितृत्वे च नृपतिर्गङ्गां समनुकल्पयत् |
पितॄणां चोदकं तत्र ददौ पूर्णमनोरथः ||१७||
एतत्ते सर्वमाख्यातं गङ्गा त्रिपथगा यथा |
पूरणार्थं समुद्रस्य पृथिवीमवतारिता ||१८||
समुद्रश्च यथा पीतः कारणार्थे महात्मना |
वातापिश्च यथा नीतः क्षयं स ब्रह्महा प्रभो ||१९||
अगस्त्येन महाराज यन्मां त्वं परिपृच्छसि ||१९||
१०९
वैशम्पायन उवाच||
ततः प्रयातः कौन्तेयः क्रमेण भरतर्षभ |
नन्दामपरनन्दां च नद्यौ पापभयापहे ||१||
स पर्वतं समासाद्य हेमकूटमनामयम् |
अचिन्त्यानद्भुतान्भावान्ददर्श सुबहून्नृपः ||२||
वाचो यत्राभवन्मेघा उपलाश्च सहस्रशः |
नाशक्नुवंस्तमारोढुं विषण्णमनसो जनाः ||३||
वायुर्नित्यं ववौ यत्र नित्यं देवश्च वर्षति |
सायं प्रातश्च भगवान्दृश्यते हव्यवाहनः ||४||
एवं बहुविधान्भावानद्भुतान्वीक्ष्य पाण्डवः |
लोमशं पुनरेव स्म पर्यपृच्छत्तदद्भुतम् ||५||
लोमश उवाच||
यथाश्रुतमिदं पूर्वमस्माभिररिकर्शन |
तदेकाग्रमना राजन्निबोध गदतो मम ||६||
अस्मिन्नृषभकूटेऽभूदृषभो नाम तापसः |
अनेकशतवर्षायुस्तपस्वी कोपनो भृशम् ||७||
स वै सम्भाष्यमाणोऽन्यैः कोपाद्गिरिमुवाच ह |
य इह व्याहरेत्कश्चिदुपलानुत्सृजेस्तदा ||८||
वातं चाहूय मा शब्दमित्युवाच स तापसः |
व्याहरंश्चैव पुरुषो मेघेन विनिवार्यते ||९||
एवमेतानि कर्माणि राजंस्तेन महर्षिणा |
कृतानि कानिचित्कोपात्प्रतिषिद्धानि कानिचित् ||१०||
नन्दामभिगतान्देवान्पुरा राजन्निति श्रुतिः |
अन्वपद्यन्त सहसा पुरुषा देवदर्शिनः ||११||
ते दर्शनमनिच्छन्तो देवाः शक्रपुरोगमाः |
दुर्गं चक्रुरिमं देशं गिरिप्रत्यूहरूपकम् ||१२||
तदा प्रभृति कौन्तेय नरा गिरिमिमं सदा |
नाशक्नुवनभिद्रष्टुं कुत एवाधिरोहितुम् ||१३||
नातप्ततपसा शक्यो द्रष्टुमेष महागिरिः |
आरोढुं वापि कौन्तेय तस्मान्नियतवाग्भव ||१४||
इह देवाः सदा सर्वे यज्ञानाजह्रुरुत्तमान् |
तेषामेतानि लिङ्गानि दृश्यन्तेऽद्यापि भारत ||१५||
कुशाकारेव दूर्वेयं संस्तीर्णेव च भूरियम् |
यूपप्रकारा बहवो वृक्षाश्चेमे विशां पते ||१६||
देवाश्च ऋषयश्चैव वसन्त्यद्यापि भारत |
तेषां सायं तथा प्रातर्दृश्यते हव्यवाहनः ||१७||
इहाप्लुतानां कौन्तेय सद्यः पाप्मा विहन्यते |
कुरुश्रेष्ठाभिषेकं वै तस्मात्कुरु सहानुजः ||१८||
ततो नन्दाप्लुताङ्गस्त्वं कौशिकीमभियास्यसि |
विश्वामित्रेण यत्रोग्रं तपस्तप्तमनुत्तमम् ||१९||
वैशम्पायन उवाच||
ततस्तत्र समाप्लुत्य गात्राणि सगणो नृपः |
जगाम कौशिकीं पुण्यां रम्यां शिवजलां नदीम् ||२०||
ऋश्यशृङ्गोपाख्यानम्
११०
लोमश उवाच||
एषा देवनदी पुण्या कौशिकी भरतर्षभ |
विश्वामित्राश्रमो रम्य एष चात्र प्रकाशते ||१||
आश्रमश्चैव पुण्याख्यः काश्यपस्य महात्मनः |
ऋश्यशृङ्गः सुतो यस्य तपस्वी संयतेन्द्रियः ||२||
तपसो यः प्रभावेन वर्षयामास वासवम् |
अनावृष्ट्यां भयाद्यस्य ववर्ष बलवृत्रहा ||३||
मृग्यां जातः स तेजस्वी काश्यपस्य सुतः प्रभुः |
विषये लोमपादस्य यश्चकाराद्भुतं महत् ||४||
निवर्तितेषु सस्येषु यस्मै शान्तां ददौ नृपः |
लोमपादो दुहितरं सावित्रीं सविता यथा ||५||
युधिष्ठिर उवाच||
ऋश्यशृङ्गः कथं मृग्यामुत्पन्नः काश्यपात्मजः |
विरुद्धे योनिसंसर्गे कथं च तपसा युतः ||६||
किमर्थं च भयाच्छक्रस्तस्य बालस्य धीमतः |
अनावृष्ट्यां प्रवृत्तायां ववर्ष बलवृत्रहा ||७||
कथंरूपा च शान्ताभूद्राजपुत्री यतव्रता |
लोभयामास या चेतो मृगभूतस्य तस्य वै ||८||
लोमपादश्च राजर्षिर्यदाश्रूयत धार्मिकः |
कथं वै विषये तस्य नावर्षत्पाकशासनः ||९||
एतन्मे भगवन्सर्वं विस्तरेण यथातथम् |
वक्तुमर्हसि शुश्रूषोरृष्यशृङ्गस्य चेष्टितम् ||१०||
लोमश उवाच||
विभाण्डकस्य ब्रह्मर्षेस्तपसा भावितात्मनः |
अमोघवीर्यस्य सतः प्रजापतिसमद्युतेः ||११||
शृणु पुत्रो यथा जात ऋश्यशृङ्गः प्रतापवान् |
महाह्रदे महातेजा बालः स्थविरसंमतः ||१२||
महाह्रदं समासाद्य काश्यपस्तपसि स्थितः |
दीर्घकालं परिश्रान्त ऋषिर्देवर्षिसंमतः ||१३||
तस्य रेतः प्रचस्कन्द दृष्ट्वाप्सरसमुर्वशीम् |
अप्सूपस्पृशतो राजन्मृगी तच्चापिबत्तदा ||१४||
सह तोयेन तृषिता सा गर्भिण्यभवन्नृप |
अमोघत्वाद्विधेश्चैव भावित्वाद्दैवनिर्मितात् ||१५||
तस्यां मृग्यां समभवत्तस्य पुत्रो महानृषिः |
ऋश्यशृङ्गस्तपोनित्यो वन एव व्यवर्धत ||१६||
तस्यर्श्यशृङ्गं शिरसि राजन्नासीन्महात्मनः |
तेनर्श्यशृङ्ग इत्येवं तदा स प्रथितोऽभवत् ||१७||
न तेन दृष्टपूर्वोऽन्यः पितुरन्यत्र मानुषः |
तस्मात्तस्य मनो नित्यं ब्रह्मचर्येऽभवन्नृप ||१८||
एतस्मिन्नेव काले तु सखा दशरथस्य वै |
लोमपाद इति ख्यातो अङ्गानामीश्वरोऽभवत् ||१९||
तेन कामः कृतो मिथ्या ब्राह्मणेभ्य इति श्रुतिः |
स ब्राह्मणैः परित्यक्तस्तदा वै जगतीपतिः ||२०||
पुरोहितापचाराच्च तस्य राज्ञो यदृच्छया |
न ववर्ष सहस्राक्षस्ततोऽपीड्यन्त वै प्रजाः ||२१||
स ब्राह्मणान्पर्यपृच्छत्तपोयुक्तान्मनीषिणः |
प्रवर्षणे सुरेन्द्रस्य समर्थान्पृथिवीपतिः ||२२||
कथं प्रवर्षेत्पर्जन्य उपायः परिदृश्यताम् |
तमूचुश्चोदितास्तेन स्वमतानि मनीषिणः ||२३||
तत्र त्वेको मुनिवरस्तं राजानमुवाच ह |
कुपितास्तव राजेन्द्र ब्राह्मणा निस्कृतिं चर ||२४||
ऋश्यशृङ्गं मुनिसुतमानयस्व च पार्थिव |
वानेयमनभिज्ञं च नारीणामार्जवे रतम् ||२५||
स चेदवतरेद्राजन्विषयं ते महातपाः |
सद्यः प्रवर्षेत्पर्जन्य इति मे नात्र संशयः ||२६||
एतच्छ्रुत्वा वचो राजन्कृत्वा निस्कृतिमात्मनः |
स गत्वा पुनरागच्छत्प्रसन्नेषु द्विजातिषु ||२७||
राजानमागतं दृष्ट्वा प्रतिसञ्जगृहुः प्रजाः ||२७||
ततोऽङ्गपतिराहूय सचिवान्मन्त्रकोविदान् |
ऋश्यशृङ्गागमे यत्नमकरोन्मन्त्रनिश्चये ||२८||
सोऽध्यगच्छदुपायं तु तैरमात्यैः सहाच्युतः |
शास्त्रज्ञैरलमर्थज्ञैर्नीत्यां च परिनिष्ठितैः ||२९||
तत आनाययामास वारमुख्या महीपतिः |
वेश्याः सर्वत्र निष्णातास्ता उवाच स पार्थिवः ||३०||
ऋश्यशृङ्गमृषेः पुत्रमानयध्वमुपायतः |
लोभयित्वाभिविश्वास्य विषयं मम शोभनाः ||३१||
ता राजभयभीताश्च शापभीताश्च योषितः |
अशक्यमूचुस्तत्कार्यं विवर्णा गतचेतसः ||३२||
तत्र त्वेका जरद्योषा राजानमिदमब्रवीत् |
प्रयतिष्ये महाराज तमानेतुं तपोधनम् ||३३||
अभिप्रेतांस्तु मे कामान्समनुज्ञातुमर्हसि |
ततः शक्ष्ये लोभयितुमृश्यशृङ्गमृषेः सुतम् ||३४||
तस्याः सर्वमभिप्रायमन्वजानात्स पार्थिवः |
धनं च प्रददौ भूरि रत्नानि विविधानि च ||३५||
ततो रूपेण सम्पन्ना वयसा च महीपते |
स्त्रिय आदाय काश्चित्सा जगाम वनमञ्जसा ||३६||
१११
लोमश उवाच||
सा तु नाव्याश्रमं चक्रे राजकार्यार्थसिद्धये |
संदेशाच्चैव नृपतेः स्वबुद्ध्या चैव भारत ||१||
नानापुष्पफलैर्वृक्षैः कृत्रिमैरुपशोभितम् |
नानागुल्मलतोपेतैः स्वादुकामफलप्रदैः ||२||
अतीव रमणीयं तदतीव च मनोहरम् |
चक्रे नाव्याश्रमं रम्यमद्भुतोपमदर्शनम् ||३||
ततो निबध्य तां नावमदूरे काश्यपाश्रमात् |
चारयामास पुरुषैर्विहारं तस्य वै मुनेः ||४||
ततो दुहितरं वेश्या समाधायेतिकृत्यताम् |
दृष्ट्वान्तरं काश्यपस्य प्राहिणोद्बुद्धिसंमताम् ||५||
सा तत्र गत्वा कुशला तपोनित्यस्य संनिधौ |
आश्रमं तं समासाद्य ददर्श तमृषेः सुतम् ||६||
वेश्योवाच||
कच्चिन्मुने कुशलं तापसानां; कच्चिच्च वो मूलफलं प्रभूतम् |
कच्चिद्भवान्रमते चाश्रमेऽस्मिं; स्त्वां वै द्रष्टुं साम्प्रतमागतोऽस्मि ||७||
कच्चित्तपो वर्धते तापसानां; पिता च ते कच्चिदहीनतेजाः |
कच्चित्त्वया प्रीयते चैव विप्र; कच्चित्स्वाध्यायः क्रियते ऋश्यशृङ्ग ||८||
ऋश्यशृङ्ग उवाच||
ऋद्धो भवाञ्ज्योतिरिव प्रकाशते; मन्ये चाहं त्वामभिवादनीयम् |
पाद्यं वै ते सम्प्रदास्यामि कामा; द्यथाधर्मं फलमूलानि चैव ||९||
कौश्यां बृस्यामास्स्व यथोपजोषं; कृष्णाजिनेनावृतायां सुखायाम् |
क्व चाश्रमस्तव किं नाम चेदं; व्रतं ब्रह्मंश्चरसि हि देववत्त्वम् ||१०||
वेश्योवाच||
ममाश्रमः काश्यपपुत्र रम्य; स्त्रियोजनं शैलमिमं परेण |
तत्र स्वधर्मोऽनभिवादनं नो; न चोदकं पाद्यमुपस्पृशामः ||११||
ऋश्यशृङ्ग उवाच||
फलानि पक्वानि ददानि तेऽहं; भल्लातकान्यामलकानि चैव |
परूषकानीङ्गुदधन्वनानि; प्रियालानां कामकारं कुरुष्व ||१२||
लोमश उवाच||
सा तानि सर्वाणि विसर्जयित्वा; भक्षान्महार्हान्प्रददौ ततोऽस्मै |
तान्यृश्यशृङ्गस्य महारसानि; भृशं सुरूपाणि रुचिं ददुर्हि ||१३||
ददौ च माल्यानि सुगन्धवन्ति; चित्राणि वासांसि च भानुमन्ति |
पानानि चाग्र्याणि ततो मुमोद; चिक्रीड चैव प्रजहास चैव ||१४||
सा कन्दुकेनारमतास्य मूले; विभज्यमाना फलिता लतेव |
गात्रैश्च गात्राणि निषेवमाणा; समाश्लिषच्चासकृदृश्यशृङ्गम् ||१५||
सर्जानशोकांस्तिलकांश्च वृक्षा; न्प्रपुष्पितानवनाम्यावभज्य |
विलज्जमानेव मदाभिभूता; प्रलोभयामास सुतं महर्षेः ||१६||
अथर्श्यशृङ्गं विकृतं समीक्ष्य; पुनः पुनः पीड्य च कायमस्य |
अवेक्षमाणा शनकैर्जगाम; कृत्वाग्निहोत्रस्य तदापदेशम् ||१७||
तस्यां गतायां मदनेन मत्तो; विचेतनश्चाभवदृश्यशृङ्गः |
तामेव भावेन गतेन शून्यो; विनिःश्वसन्नार्तरूपो बभूव ||१८||
ततो मुहूर्ताद्धरिपिङ्गलाक्षः; प्रवेष्टितो रोमभिरा नखाग्रात् |
स्वाध्यायवान्वृत्तसमाधियुक्तो; विभाण्डकः काश्यपः प्रादुरासीत् ||१९||
सोऽपश्यदासीनमुपेत्य पुत्रं; ध्यायन्तमेकं विपरीतचित्तम् |
विनिःश्वसन्तं मुहुरूर्ध्वदृष्टिं; विभाण्डकः पुत्रमुवाच दीनम् ||२०||
न कल्प्यन्ते समिधः किं नु तात; कच्चिद्धुतं चाग्निहोत्रं त्वयाद्य |
सुनिर्णिक्तं स्रुक्स्रुवं होमधेनुः; कच्चित्सवत्सा च कृता त्वयाद्य ||२१||
न वै यथापूर्वमिवासि पुत्र; चिन्तापरश्चासि विचेतनश्च |
दीनोऽतिमात्रं त्वमिहाद्य किं नु; पृच्छामि त्वां क इहाद्यागतोऽभूत् ||२२||
११२
ऋश्यशृङ्ग उवाच||
इहागतो जटिलो ब्रह्मचारी; न वै ह्रस्वो नातिदीर्घो मनस्वी |
सुवर्णवर्णः कमलायताक्षः; सुतः सुराणामिव शोभमानः ||१||
समृद्धरूपः सवितेव दीप्तः; सुशुक्लकृष्णाक्षतरश्चकोरैः |
नीलाः प्रसन्नाश्च जटाः सुगन्धा; हिरण्यरज्जुग्रथिताः सुदीर्घाः ||२||
आधाररूपा पुनरस्य कण्ठे; विभ्राजते विद्युदिवान्तरिक्षे |
द्वौ चास्य पिण्डावधरेण कण्ठ; मजातरोमौ सुमनोहरौ च ||३||
विलग्नमध्यश्च स नाभिदेशे; कटिश्च तस्यातिकृतप्रमाणा |
तथास्य चीरान्तरिता प्रभाति; हिरण्मयी मेखला मे यथेयम् ||४||
अन्यच्च तस्याद्भुतदर्शनीयं; विकूजितं पादयोः सम्प्रभाति |
पाण्योश्च तद्वत्स्वनवन्निबद्धौ; कलापकावक्षमाला यथेयम् ||५||
विचेष्टमानस्य च तस्य तानि; कूजन्ति हंसा सरसीव मत्ताः |
चीराणि तस्याद्भुतदर्शनानि; नेमानि तद्वन्मम रूपवन्ति ||६||
वक्त्रं च तस्याद्भुतदर्शनीयं; प्रव्याहृतं ह्लादयतीव चेतः |
पुंस्कोकिलस्येव च तस्य वाणी; तां शृण्वतो मे व्यथितोऽन्तरात्मा ||७||
यथा वनं माधवमासि मध्ये; समीरितं श्वसनेनाभिवाति |
तथा स वात्युत्तमपुण्यगन्धी; निषेव्यमाणः पवनेन तात ||८||
सुसंयताश्चापि जटा विभक्ता; द्वैधीकृता भान्ति समा ललाटे |
कर्णौ च चित्रैरिव चक्रवालैः; समावृतौ तस्य सुरूपवद्भिः ||९||
तथा फलं वृत्तमथो विचित्रं; समाहनत्पाणिना दक्षिणेन |
तद्भूमिमासाद्य पुनः पुनश्च; समुत्पतत्यद्भुतरूपमुच्चैः ||१०||
तच्चापि हत्वा परिवर्ततेऽसौ; वातेरितो वृक्ष इवावघूर्णः |
तं प्रेक्ष्य मे पुत्रमिवामराणां; प्रीतिः परा तात रतिश्च जाता ||११||
स मे समाश्लिष्य पुनः शरीरं; जटासु गृह्याभ्यवनाम्य वक्त्रम् |
वक्त्रेण वक्त्रं प्रणिधाय शब्दं; चकार तन्मेऽजनयत्प्रहर्षम् ||१२||
न चापि पाद्यं बहु मन्यतेऽसौ; फलानि चेमानि मयाहृतानि |
एवंव्रतोऽस्मीति च मामवोच; त्फलानि चान्यानि नवान्यदान्मे ||१३||
मयोपयुक्तानि फलानि तानि; नेमानि तुल्यानि रसेन तेषाम् |
न चापि तेषां त्वगियं यथैषां; साराणि नैषामिव सन्ति तेषाम् ||१४||
तोयानि चैवातिरसानि मह्यं; प्रादात्स वै पातुमुदाररूपः |
पीत्वैव यान्यभ्यधिकः प्रहर्षो; ममाभवद्भूश्चलितेव चासीत् ||१५||
इमानि चित्राणि च गन्धवन्ति; माल्यानि तस्योद्ग्रथितानि पट्टैः |
यानि प्रकीर्येह गतः स्वमेव; स आश्रमं तपसा द्योतमानः ||१६||
गतेन तेनास्मि कृतो विचेता; गात्रं च मे सम्परितप्यतीव |
इच्छामि तस्यान्तिकमाशु गन्तुं; तं चेह नित्यं परिवर्तमानम् ||१७||
गच्छामि तस्यान्तिकमेव तात; का नाम सा व्रतचर्या च तस्य |
इच्छाम्यहं चरितुं तेन सार्धं; यथा तपः स चरत्युग्रकर्मा ||१८||
११३
विभाण्डक उवाच||
रक्षांसि चैतानि चरन्ति पुत्र; रूपेण तेनाद्भुतदर्शनेन |
अतुल्यरूपाण्यतिघोरवन्ति; विघ्नं सदा तपसश्चिन्तयन्ति ||१||
सुरूपरूपाणि च तानि तात; प्रलोभयन्ते विविधैरुपायैः |
सुखाच्च लोकाच्च निपातयन्ति; तान्युग्रकर्माणि मुनीन्वनेषु ||२||
न तानि सेवेत मुनिर्यतात्मा; सतां लोकान्प्रार्थयानः कथञ्चित् |
कृत्वा विघ्नं तापसानां रमन्ते; पापाचारास्तपसस्तान्यपाप ||३||
असज्जनेनाचरितानि पुत्र; पापान्यपेयानि मधूनि तानि |
माल्यानि चैतानि न वै मुनीनां; स्मृतानि चित्रोज्ज्वलगन्धवन्ति ||४||
लोमश उवाच||
रक्षांसि तानीति निवार्य पुत्रं; विभाण्डकस्तां मृगयां बभूव |
नासादयामास यदा त्र्यहेण; तदा स पर्याववृतेऽऽश्रमाय ||५||
यदा पुनः काश्यपो वै जगाम; फलान्याहर्तुं विधिना श्रामणेन |
तदा पुनर्लोभयितुं जगाम; सा वेशयोषा मुनिमृश्यशृङ्गम् ||६||
दृष्ट्वैव तामृश्यशृङ्गः प्रहृष्टः; सम्भ्रान्तरूपोऽभ्यपतत्तदानीम् |
प्रोवाच चैनां भवतोऽऽश्रमाय; गच्छाव यावन्न पिता ममैति ||७||
ततो राजन्काश्यपस्यैकपुत्रं; प्रवेश्य योगेन विमुच्य नावम् |
प्रलोभयन्त्यो विविधैरुपायै; राजग्मुरङ्गाधिपतेः समीपम् ||८||
संस्थाप्य तामाश्रमदर्शने तु; सन्तारितां नावमतीव शुभ्राम् |
तीरादुपादाय तथैव चक्रे; राजाश्रमं नाम वनं विचित्रम् ||९||
अन्तःपुरे तं तु निवेश्य राजा; विभाण्डकस्यात्मजमेकपुत्रम् |
ददर्श देवं सहसा प्रवृष्ट; मापूर्यमाणं च जगज्जलेन ||१०||
स लोमपादः परिपूर्णकामः; सुतां ददावृश्यशृङ्गाय शान्ताम् |
क्रोधप्रतीकारकरं च चक्रे; गोभिश्च मार्गेष्वभिकर्षणं च ||११||
विभाण्डकस्याव्रजतः स राजा; पशून्प्रभूतान्पशुपांश्च वीरान् |
समादिशत्पुत्रगृद्धी महर्षि; र्विभाण्डकः परिपृच्छेद्यदा वः ||१२||
स वक्तव्यः प्राञ्जलिभिर्भवद्भिः; पुत्रस्य ते पशवः कर्षणं च |
किं ते प्रियं वै क्रियतां महर्षे; दासाः स्म सर्वे तव वाचि बद्धाः ||१३||
अथोपायात्स मुनिश्चण्डकोपः; स्वमाश्रमं मूलफलानि गृह्य |
अन्वेषमाणश्च न तत्र पुत्रं; ददर्श चुक्रोध ततो भृशं सः ||१४||
ततः स कोपेन विदीर्यमाण; आशङ्कमानो नृपतेर्विधानम् |
जगाम चम्पां प्रदिधक्षमाण; स्तमङ्गराजं विषयं च तस्य ||१५||
स वै श्रान्तः क्षुधितः काश्यपस्ता; न्घोषान्समासादितवान्समृद्धान् |
गोपैश्च तैर्विधिवत्पूज्यमानो; राजेव तां रात्रिमुवास तत्र ||१६||
सम्प्राप्य सत्कारमतीव तेभ्यः; प्रोवाच कस्य प्रथिताः स्थ सौम्याः |
ऊचुस्ततस्तेऽभ्युपगम्य सर्वे; धनं तवेदं विहितं सुतस्य ||१७||
देशे तु देशे तु स पूज्यमान; स्तांश्चैव शृण्वन्मधुरान्प्रलापान् |
प्रशान्तभूयिष्ठरजाः प्रहृष्टः; समाससादाङ्गपतिं पुरस्थम् ||१८||
सम्पूजितस्तेन नरर्षभेण; ददर्श पुत्रं दिवि देवं यथेन्द्रम् |
शान्तां स्नुषां चैव ददर्श तत्र; सौदामिनीमुच्चरन्तीं यथैव ||१९||
ग्रामांश्च घोषांश्च सुतं च दृष्ट्वा; शान्तां च शान्तोऽस्य परः स कोपः |
चकार तस्मै परमं प्रसादं; विभाण्डको भूमिपतेर्नरेन्द्र ||२०||
स तत्र निक्षिप्य सुतं महर्षि; रुवाच सूर्याग्निसमप्रभावम् |
जाते पुत्रे वनमेवाव्रजेथा; राज्ञः प्रियाण्यस्य सर्वाणि कृत्वा ||२१||
स तद्वचः कृतवानृश्यशृङ्गो; ययौ च यत्रास्य पिता बभूव |
शान्ता चैनं पर्यचरद्यथाव; त्खे रोहिणी सोममिवानुकूला ||२२||
अरुन्धती वा सुभगा वसिष्ठं; लोपामुद्रा वापि यथा ह्यगस्त्यम् |
नलस्य वा दमयन्ती यथाभू; द्यथा शची वज्रधरस्य चैव ||२३||
नाडायनी चेन्द्रसेना यथैव; वश्या नित्यं मुद्गलस्याजमीढ |
तथा शान्ता ऋश्यशृङ्गं वनस्थं; प्रीत्या युक्ता पर्यचरन्नरेन्द्र ||२४||
तस्याश्रमः पुण्य एषो विभाति; महाह्रदं शोभयन्पुण्यकीर्तेः |
अत्र स्नातः कृतकृत्यो विशुद्ध; स्तीर्थान्यन्यान्यनुसंयाहि राजन् ||२५||
११४
वैशम्पायन उवाच||
ततः प्रयातः कौशिक्याः पाण्डवो जनमेजय |
आनुपूर्व्येण सर्वाणि जगामायतनान्युत ||१||
स सागरं समासाद्य गङ्गायाः सङ्गमे नृप |
नदीशतानां पञ्चानां मध्ये चक्रे समाप्लवम् ||२||
ततः समुद्रतीरेण जगाम वसुधाधिपः |
भ्रातृभिः सहितो वीरः कलिङ्गान्प्रति भारत ||३||
लोमश उवाच||
एते कलिङ्गाः कौन्तेय यत्र वैतरणी नदी |
यत्रायजत धर्मोऽपि देवाञ्शरणमेत्य वै ||४||
ऋषिभिः समुपायुक्तं यज्ञियं गिरिशोभितम् |
उत्तरं तीरमेतद्धि सततं द्विजसेवितम् ||५||
समेन देवयानेन पथा स्वर्गमुपेयुषः |
अत्र वै ऋषयोऽन्येऽपि पुरा क्रतुभिरीजिरे ||६||
अत्रैव रुद्रो राजेन्द्र पशुमादत्तवान्मखे |
रुद्रः पशुं मानवेन्द्र भागोऽयमिति चाब्रवीत् ||७||
हृते पशौ तदा देवास्तमूचुर्भरतर्षभ |
मा परस्वमभिद्रोग्धा मा धर्मान्सकलान्नशीः ||८||
ततः कल्याणरूपाभिर्वाग्भिस्ते रुद्रमस्तुवन् |
इष्ट्या चैनं तर्पयित्वा मानयां चक्रिरे तदा ||९||
ततः स पशुमुत्सृज्य देवयानेन जग्मिवान् |
अत्रानुवंशो रुद्रस्य तं निबोध युधिष्ठिर ||१०||
अयातयामं सर्वेभ्यो भागेभ्यो भागमुत्तमम् |
देवाः सङ्कल्पयामासुर्भयाद्रुद्रस्य शाश्वतम् ||११||
इमां गाथामत्र गायन्नपः स्पृशति यो नरः |
देवयानस्तस्य पन्थाश्चक्षुश्चैव प्रकाशते ||१२||
वैशम्पायन उवाच||
ततो वैतरणीं सर्वे पाण्डवा द्रौपदी तथा |
अवतीर्य महाभागा तर्पयां चक्रिरे पितॄन् ||१३||
युधिष्ठिर उवाच||
उपस्पृश्यैव भगवन्नस्यां नद्यां तपोधन |
मानुषादस्मि विषयादपेतः पश्य लोमश ||१४||
सर्वाँल्लोकान्प्रपश्यामि प्रसादात्तव सुव्रत |
वैखानसानां जपतामेष शब्दो महात्मनाम् ||१५||
लोमश उवाच||
त्रिशतं वै सहस्राणि योजनानां युधिष्ठिर |
यत्र ध्वनिं शृणोष्येनं तूष्णीमास्स्व विशां पते ||१६||
एतत्स्वयम्भुवो राजन्वनं रम्यं प्रकाशते |
यत्रायजत कौन्तेय विश्वकर्मा प्रतापवान् ||१७||
यस्मिन्यज्ञे हि भूर्दत्ता कश्यपाय महात्मने |
सपर्वतवनोद्देशा दक्षिणा वै स्वयम्भुवा ||१८||
अवासीदच्च कौन्तेय दत्तमात्रा मही तदा |
उवाच चापि कुपिता लोकेश्वरमिदं प्रभुम् ||१९||
न मां मर्त्याय भगवन्कस्मैचिद्दातुमर्हसि |
प्रदानं मोघमेतत्ते यास्याम्येषा रसातलम् ||२०||
विषीदन्तीं तु तां दृष्ट्वा कश्यपो भगवानृषिः |
प्रसादयां बभूवाथ ततो भूमिं विशां पते ||२१||
ततः प्रसन्ना पृथिवी तपसा तस्य पाण्डव |
पुनरुन्मज्ज्य सलिलाद्वेदीरूपा स्थिता बभौ ||२२||
सैषा प्रकाशते राजन्वेदी संस्थानलक्षणा |
आरुह्यात्र महाराज वीर्यवान्वै भविष्यसि ||२३||
अहं च ते स्वस्त्ययनं प्रयोक्ष्ये; यथा त्वमेनामधिरोक्ष्यसेऽद्य |
स्पृष्टा हि मर्त्येन ततः समुद्र; मेषा वेदी प्रविशत्याजमीढ ||२४||
अग्निर्मित्रो योनिरापोऽथ देव्यो; विष्णो रेतस्त्वममृतस्य नाभिः |
एवं ब्रुवन्पाण्डव सत्यवाक्यं; वेदीमिमां त्वं तरसाधिरोह ||२५||
वैशम्पायन उवाच||
ततः कृतस्वस्त्ययनो महात्मा; युधिष्ठिरः सागरगामगच्छत् |
कृत्वा च तच्छासनमस्य सर्वं; महेन्द्रमासाद्य निशामुवास ||२६||
कार्तवीर्योपाख्यानम्
११५
वैशम्पायन उवाच||
स तत्र तामुषित्वैकां रजनीं पृथिवीपतिः |
तापसानां परं चक्रे सत्कारं भ्रातृभिः सह ||१||
लोमशश्चास्य तान्सर्वानाचख्यौ तत्र तापसान् |
भृगूनङ्गिरसश्चैव वासिष्ठानथ काश्यपान् ||२||
तान्समेत्य स राजर्षिरभिवाद्य कृताञ्जलिः |
रामस्यानुचरं वीरमपृच्छदकृतव्रणम् ||३||
कदा नु रामो भगवांस्तापसान्दर्शयिष्यति |
तेनैवाहं प्रसङ्गेन द्रष्टुमिच्छामि भार्गवम् ||४||
अकृतव्रण उवाच||
आयानेवासि विदितो रामस्य विदितात्मनः |
प्रीतिस्त्वयि च रामस्य क्षिप्रं त्वां दर्शयिष्यति ||५||
चतुर्दशीमष्टमीं च रामं पश्यन्ति तापसाः |
अस्यां रात्र्यां व्यतीतायां भवित्री च चतुर्दशी ||६||
युधिष्ठिर उवाच||
भवाननुगतो वीरं जामदग्न्यं महाबलम् |
प्रत्यक्षदर्शी सर्वस्य पूर्ववृत्तस्य कर्मणः ||७||
स भवान्कथयत्वेतद्यथा रामेण निर्जिताः |
आहवे क्षत्रियाः सर्वे कथं केन च हेतुना ||८||
अकृतव्रण उवाच||
कन्यकुब्जे महानासीत्पार्थिवः सुमहाबलः |
गाधीति विश्रुतो लोके वनवासं जगाम सः ||९||
वने तु तस्य वसतः कन्या जज्ञेऽप्सरःसमा |
ऋचीको भार्गवस्तां च वरयामास भारत ||१०||
तमुवाच ततो राजा ब्राह्मणं संशितव्रतम् |
उचितं नः कुले किञ्चित्पूर्वैर्यत्सम्प्रवर्तितम् ||११||
एकतः श्यामकर्णानां पाण्डुराणां तरस्विनाम् |
सहस्रं वाजिनां शुल्कमिति विद्धि द्विजोत्तम ||१२||
न चापि भगवान्वाच्यो दीयतामिति भार्गव |
देया मे दुहिता चेयं त्वद्विधाय महात्मने ||१३||
ऋचीक उवाच||
एकतःश्यामकर्णानां पाण्डुराणां तरस्विनाम् |
दास्याम्यश्वसहस्रं ते मम भार्या सुतास्तु ते ||१४||
अकृतव्रण उवाच||
स तथेति प्रतिज्ञाय राजन्वरुणमब्रवीत् |
एकतःश्यामकर्णानां पाण्डुराणां तरस्विनाम् ||१५||
सहस्रं वाजिनामेकं शुल्कार्थं मे प्रदीयताम् ||१५||
तस्मै प्रादात्सहस्रं वै वाजिनां वरुणस्तदा |
तदश्वतीर्थं विख्यातमुत्थिता यत्र ते हयाः ||१६||
गङ्गायां कन्यकुब्जे वै ददौ सत्यवतीं तदा |
ततो गाधिः सुतां तस्मै जन्याश्चासन्सुरास्तदा ||१७||
लब्ध्वा हयसहस्रं तु तांश्च दृष्ट्वा दिवौकसः ||१७||
धर्मेण लब्ध्वा तां भार्यामृचीको द्विजसत्तमः |
यथाकामं यथाजोषं तया रेमे सुमध्यया ||१८||
तं विवाहे कृते राजन्सभार्यमवलोककः |
आजगाम भृगुश्रेष्ठः पुत्रं दृष्ट्वा ननन्द च ||१९||
भार्यापती तमासीनं गुरुं सुरगणार्चितम् |
अर्चित्वा पर्युपासीनौ प्राञ्जली तस्थतुस्तदा ||२०||
ततः स्नुषां स भगवान्प्रहृष्टो भृगुरब्रवीत् |
वरं वृणीष्व सुभगे दाता ह्यस्मि तवेप्सितम् ||२१||
सा वै प्रसादयामास तं गुरुं पुत्रकारणात् |
आत्मनश्चैव मातुश्च प्रसादं च चकार सः ||२२||
भृगुरुवाच||
ऋतौ त्वं चैव माता च स्नाते पुंसवनाय वै |
आलिङ्गेतां पृथग्वृक्षौ साश्वत्थं त्वमुदुम्बरम् ||२३||
आलिङ्गने तु ते राजंश्चक्रतुः स्म विपर्ययम् |
कदाचिद्भृगुरागच्छत्तं च वेद विपर्ययम् ||२४||
अथोवाच महातेजा भृगुः सत्यवतीं स्नुषाम् |
ब्राह्मणः क्षत्रवृत्तिर्वै तव पुत्रो भविष्यति ||२५||
क्षत्रियो ब्राह्मणाचारो मातुस्तव सुतो महान् |
भविष्यति महावीर्यः साधूनां मार्गमास्थितः ||२६||
ततः प्रसादयामास श्वशुरं सा पुनः पुनः |
न मे पुत्रो भवेदीदृक्कामं पौत्रो भवेदिति ||२७||
एवमस्त्विति सा तेन पाण्डव प्रतिनन्दिता |
जमदग्निं ततः पुत्रं सा जज्ञे काल आगते ||२८||
तेजसा वर्चसा चैव युक्तं भार्गवनन्दनम् ||२८||
स वर्धमानस्तेजस्वी वेदस्याध्ययनेन वै |
बहूनृषीन्महातेजाः पाण्डवेयात्यवर्तत ||२९||
तं तु कृत्स्नो धनुर्वेदः प्रत्यभाद्भरतर्षभ |
चतुर्विधानि चास्त्राणि भास्करोपमवर्चसम् ||३०||
११६
अकृतव्रण उवाच||
स वेदाध्ययने युक्तो जमदग्निर्महातपाः |
तपस्तेपे ततो देवान्नियमाद्वशमानयत् ||१||
स प्रसेनजितं राजन्नधिगम्य नराधिपम् |
रेणुकां वरयामास स च तस्मै ददौ नृपः ||२||
रेणुकां त्वथ सम्प्राप्य भार्यां भार्गवनन्दनः |
आश्रमस्थस्तया सार्धं तपस्तेपेऽनुकूलया ||३||
तस्याः कुमाराश्चत्वारो जज्ञिरे रामपञ्चमाः |
सर्वेषामजघन्यस्तु राम आसीज्जघन्यजः ||४||
फलाहारेषु सर्वेषु गतेष्वथ सुतेषु वै |
रेणुका स्नातुमगमत्कदाचिन्नियतव्रता ||५||
सा तु चित्ररथं नाम मार्त्तिकावतकं नृपम् |
ददर्श रेणुका राजन्नागच्छन्ती यदृच्छया ||६||
क्रीडन्तं सलिले दृष्ट्वा सभार्यं पद्ममालिनम् |
ऋद्धिमन्तं ततस्तस्य स्पृहयामास रेणुका ||७||
व्यभिचारात्तु सा तस्मात्क्लिन्नाम्भसि विचेतना |
प्रविवेशाश्रमं त्रस्ता तां वै भर्तान्वबुध्यत ||८||
स तां दृष्ट्वा च्युतां धैर्याद्ब्राह्म्या लक्ष्म्या विवर्जिताम् |
धिक्षब्देन महातेजा गर्हयामास वीर्यवान् ||९||
ततो ज्येष्ठो जामदग्न्यो रुमण्वान्नाम नामतः |
आजगाम सुषेणश्च वसुर्विश्वावसुस्तथा ||१०||
तानानुपूर्व्याद्भगवान्वधे मातुरचोदयत् |
न च ते जातसंमोहाः किञ्चिदूचुर्विचेतसः ||११||
ततः शशाप तान्कोपात्ते शप्ताश्चेतनां जहुः |
मृगपक्षिसधर्माणः क्षिप्रमासञ्जडोपमाः ||१२||
ततो रामोऽभ्यगात्पश्चादाश्रमं परवीरहा |
तमुवाच महामन्युर्जमदग्निर्महातपाः ||१३||
जहीमां मातरं पापां मा च पुत्र व्यथां कृथाः |
तत आदाय परशुं रामो मातुः शिरोऽहरत् ||१४||
ततस्तस्य महाराज जमदग्नेर्महात्मनः |
कोपो अगच्छत्सहसा प्रसन्नश्चाब्रवीदिदम् ||१५||
ममेदं वचनात्तात कृतं ते कर्म दुष्करम् |
वृणीष्व कामान्धर्मज्ञ यावतो वाञ्छसे हृदा ||१६||
स वव्रे मातुरुत्थानमस्मृतिं च वधस्य वै |
पापेन तेन चास्पर्शं भ्रातॄणां प्रकृतिं तथा ||१७||
अप्रतिद्वन्द्वतां युद्धे दीर्घमायुश्च भारत |
ददौ च सर्वान्कामांस्ताञ्जमदग्निर्महातपाः ||१८||
कदाचित्तु तथैवास्य विनिष्क्रान्ताः सुताः प्रभो |
अथानूपपतिर्वीरः कार्तवीर्योऽभ्यवर्तत ||१९||
तमाश्रमपदं प्राप्तमृषेर्भार्या समर्चयत् |
स युद्धमदसंमत्तो नाभ्यनन्दत्तथार्चनम् ||२०||
प्रमथ्य चाश्रमात्तस्माद्धोमधेन्वास्तदा बलात् |
जहार वत्सं क्रोशन्त्या बभञ्ज च महाद्रुमान् ||२१||
आगताय च रामाय तदाचष्ट पिता स्वयम् |
गां च रोरूयतीं दृष्ट्वा कोपो रामं समाविशत् ||२२||
स मन्युवशमापन्नः कार्तवीर्यमुपाद्रवत् |
तस्याथ युधि विक्रम्य भार्गवः परवीरहा ||२३||
चिच्छेद निशितैर्भल्लैर्बाहून्परिघसंनिभान् |
सहस्रसंमितान्राजन्प्रगृह्य रुचिरं धनुः ||२४||
अर्जुनस्याथ दायादा रामेण कृतमन्यवः |
आश्रमस्थं विना रामं जमदग्निमुपाद्रवन् ||२५||
ते तं जघ्नुर्महावीर्यमयुध्यन्तं तपस्विनम् |
असकृद्राम रामेति विक्रोशन्तमनाथवत् ||२६||
कार्तवीर्यस्य पुत्रास्तु जमदग्निं युधिष्ठिर |
घातयित्वा शरैर्जग्मुर्यथागतमरिंदमाः ||२७||
अपक्रान्तेषु चैतेषु जमदग्नौ तथागते |
समित्पाणिरुपागच्छदाश्रमं भृगुनन्दनः ||२८||
स दृष्ट्वा पितरं वीरस्तथा मृत्युवशं गतम् |
अनर्हन्तं तथाभूतं विललाप सुदुःखितः ||२९||
११७
राम उवाच||
ममापराधात्तैः क्षुद्रैर्हतस्त्वं तात बालिशैः |
कार्तवीर्यस्य दायादैर्वने मृग इवेषुभिः ||१||
धर्मज्ञस्य कथं तात वर्तमानस्य सत्पथे |
मृत्युरेवंविधो युक्तः सर्वभूतेष्वनागसः ||२||
किं नु तैर्न कृतं पापं यैर्भवांस्तपसि स्थितः |
अयुध्यमानो वृद्धः सन्हतः शरशतैः शितैः ||३||
किं नु ते तत्र वक्ष्यन्ति सचिवेषु सुहृत्सु च |
अयुध्यमानं धर्मज्ञमेकं हत्वानपत्रपाः ||४||
अकृतव्रण उवाच||
विलप्यैवं स करुणं बहु नानाविधं नृप |
प्रेतकार्याणि सर्वाणि पितुश्चक्रे महातपाः ||५||
ददाह पितरं चाग्नौ रामः परपुरञ्जयः |
प्रतिजज्ञे वधं चापि सर्वक्षत्रस्य भारत ||६||
सङ्क्रुद्धोऽतिबलः शूरः शस्त्रमादाय वीर्यवान् |
जघ्निवान्कार्तवीर्यस्य सुतानेकोऽन्तकोपमः ||७||
तेषां चानुगता ये च क्षत्रियाः क्षत्रियर्षभ |
तांश्च सर्वानवामृद्नाद्रामः प्रहरतां वरः ||८||
त्रिःसप्तकृत्वः पृथिवीं कृत्वा निःक्षत्रियां प्रभुः |
समन्तपञ्चके पञ्च चकार रुधिरह्रदान् ||९||
स तेषु तर्पयामास पितॄन्भृगुकुलोद्वहः |
साक्षाद्ददर्श चर्चीकं स च रामं न्यवारयत् ||१०||
ततो यज्ञेन महता जामदग्न्यः प्रतापवान् |
तर्पयामास देवेन्द्रमृत्विग्भ्यश्च महीं ददौ ||११||
वेदीं चाप्यददद्धैमीं कश्यपाय महात्मने |
दशव्यामायतां कृत्वा नवोत्सेधां विशां पते ||१२||
तां कश्यपस्यानुमते ब्राह्मणाः खण्डशस्तदा |
व्यभजंस्तेन ते राजन्प्रख्याताः खाण्डवायनाः ||१३||
स प्रदाय महीं तस्मै कश्यपाय महात्मने |
अस्मिन्महेन्द्रे शैलेन्द्रे वसत्यमितविक्रमः ||१४||
एवं वैरमभूत्तस्य क्षत्रियैर्लोकवासिभिः |
पृथिवी चापि विजिता रामेणामिततेजसा ||१५||
वैशम्पायन उवाच||
ततश्चतुर्दशीं रामः समयेन महामनाः |
दर्शयामास तान्विप्रान्धर्मराजं च सानुजम् ||१६||
स तमानर्च राजेन्द्रो भ्रातृभिः सहितः प्रभुः |
द्विजानां च परां पूजां चक्रे नृपतिसत्तमः ||१७||
अर्चयित्वा जामदग्न्यं पूजितस्तेन चाभिभूः |
महेन्द्र उष्य तां रात्रिं प्रययौ दक्षिणामुखः ||१८||
११८
वैशम्पायन उवाच||
गच्छन्स तीर्थानि महानुभावः; पुण्यानि रम्याणि ददर्श राजा |
सर्वाणि विप्रैरुपशोभितानि; क्वचित्क्वचिद्भारत सागरस्य ||१||
स वृत्तवांस्तेषु कृताभिषेकः; सहानुजः पार्थिवपुत्रपौत्रः |
समुद्रगां पुण्यतमां प्रशस्तां; जगाम पारिक्षित पाण्डुपुत्रः ||२||
तत्रापि चाप्लुत्य महानुभावः; सन्तर्पयामास पितॄन्सुरांश्च |
द्विजातिमुख्येषु धनं विसृज्य; गोदावरिं सागरगामगच्छत् ||३||
ततो विपाप्मा द्रविडेषु राज; न्समुद्रमासाद्य च लोकपुण्यम् |
अगस्त्यतीर्थं च पवित्रपुण्यं; नारीतीर्थान्यथ वीरो ददर्श ||४||
तत्रार्जुनस्याग्र्यधनुर्धरस्य; निशम्य तत्कर्म परैरसह्यम् |
सम्पूज्यमानः परमर्षिसङ्घैः; परां मुदं पाण्डुसुतः स लेभे ||५||
स तेषु तीर्थेष्वभिषिक्तगात्रः; कृष्णासहायः सहितोऽनुजैश्च |
सम्पूजयन्विक्रममर्जुनस्य; रेमे महीपालपतिः पृथिव्याम् ||६||
ततः सहस्राणि गवां प्रदाय; तीर्थेषु तेष्वम्बुधरोत्तमस्य |
हृष्टः सह भ्रातृभिरर्जुनस्य; सङ्कीर्तयामास गवां प्रदानम् ||७||
स तानि तीर्थानि च सागरस्य; पुण्यानि चान्यानि बहूनि राजन् |
क्रमेण गच्छन्परिपूर्णकामः; शूर्पारकं पुण्यतमं ददर्श ||८||
तत्रोदधेः कञ्चिदतीत्य देशं; ख्यातं पृथिव्यां वनमाससाद |
तप्तं सुरैर्यत्र तपः पुरस्ता; दिष्टं तथा पुण्यतमैर्नरेन्द्रैः ||९||
स तत्र तामग्र्यधनुर्धरस्य; वेदीं ददर्शायतपीनबाहुः |
ऋचीकपुत्रस्य तपस्विसङ्घैः; समावृतां पुण्यकृदर्चनीयाम् ||१०||
ततो वसूनां वसुधाधिपः स; मरुद्गणानां च तथाश्विनोश्च |
वैवस्वतादित्यधनेश्वराणा; मिन्द्रस्य विष्णोः सवितुर्विभोश्च ||११||
भगस्य चन्द्रस्य दिवाकरस्य; पतेरपां साध्यगणस्य चैव |
धातुः पितॄणां च तथा महात्मा; रुद्रस्य राजन्सगणस्य चैव ||१२||
सरस्वत्याः सिद्धगणस्य चैव; पूष्णश्च ये चाप्यमरास्तथान्ये |
पुण्यानि चाप्यायतनानि तेषां; ददर्श राजा सुमनोहराणि ||१३||
तेषूपवासान्विविधानुपोष्य; दत्त्वा च रत्नानि महाधनानि |
तीर्थेषु सर्वेषु परिप्लुताङ्गः; पुनः स शूर्पारकमाजगाम ||१४||
स तेन तीर्थेन तु सागरस्य; पुनः प्रयातः सह सोदरीयैः |
द्विजैः पृथिव्यां प्रथितं महद्भि; स्तीर्थं प्रभासं समुपाजगाम ||१५||
तत्राभिषिक्तः पृथुलोहिताक्षः; सहानुजैर्देवगणान्पितॄंश्च |
सन्तर्पयामास तथैव कृष्णा; ते चापि विप्राः सह लोमशेन ||१६||
स द्वादशाहं जलवायुभक्षः; कुर्वन्क्षपाहःसु तदाभिषेकम् |
समन्ततोऽग्नीनुपदीपयित्वा; तेपे तपो धर्मभृतां वरिष्ठः ||१७||
तमुग्रमास्थाय तपश्चरन्तं; शुश्राव रामश्च जनार्दनश्च |
तौ सर्ववृष्णिप्रवरौ ससैन्यौ; युधिष्ठिरं जग्मतुराजमीढम् ||१८||
ते वृष्णयः पाण्डुसुतान्समीक्ष्य; भूमौ शयानान्मलदिग्धगात्रान् |
अनर्हतीं द्रौपदीं चापि दृष्ट्वा; सुदुःखिताश्चुक्रुशुरार्तनादम् ||१९||
ततः स रामं च जनार्दनं च; कार्ष्णिं च साम्बं च शिनेश्च पौत्रम् |
अन्यांश्च वृष्णीनुपगम्य पूजां; चक्रे यथाधर्ममदीनसत्त्वः ||२०||
ते चापि सर्वान्प्रतिपूज्य पार्थां; स्तैः सत्कृताः पाण्डुसुतैस्तथैव |
युधिष्ठिरं सम्परिवार्य राज; न्नुपाविशन्देवगणा यथेन्द्रम् ||२१||
तेषां स सर्वं चरितं परेषां; वने च वासं परमप्रतीतः |
अस्त्रार्थमिन्द्रस्य गतं च पार्थं; कृष्णे शशंसामरराजपुत्रम् ||२२||
श्रुत्वा तु ते तस्य वचः प्रतीता; स्तांश्चापि दृष्ट्वा सुकृशानतीव |
नेत्रोद्भवं संमुमुचुर्दशार्हा; दुःखार्तिजं वारि महानुभावाः ||२३||
११९
जनमेजय उवाच||
प्रभासतीर्थं सम्प्राप्य वृष्णयः पाण्डवास्तथा |
किमकुर्वन्कथाश्चैषां कास्तत्रासंस्तपोधन ||१||
ते हि सर्वे महात्मानः सर्वशास्त्रविशारदाः |
वृष्णयः पाण्डवाश्चैव सुहृदश्च परस्परम् ||२||
वैशम्पायन उवाच||
प्रभासतीर्थं सम्प्राप्य पुण्यं तीर्थं महोदधेः |
वृष्णयः पाण्डवान्वीरान्परिवार्योपतस्थिरे ||३||
ततो गोक्षीरकुन्देन्दुमृणालरजतप्रभः |
वनमाली हली रामो बभाषे पुष्करेक्षणम् ||४||
न कृष्ण धर्मश्चरितो भवाय; जन्तोरधर्मश्च पराभवाय |
युधिष्ठिरो यत्र जटी महात्मा; वनाश्रयः क्लिश्यति चीरवासाः ||५||
दुर्योधनश्चापि महीं प्रशास्ति; न चास्य भूमिर्विवरं ददाति |
धर्मादधर्मश्चरितो गरीया; नितीव मन्येत नरोऽल्पबुद्धिः ||६||
दुर्योधने चापि विवर्धमाने; युधिष्ठिरे चासुख आत्तराज्ये |
किं न्वद्य कर्तव्यमिति प्रजाभिः; शङ्का मिथः सञ्जनिता नराणाम् ||७||
अयं हि धर्मप्रभवो नरेन्द्रो; धर्मे रतः सत्यधृतिः प्रदाता |
चलेद्धि राज्याच्च सुखाच्च पार्थो; धर्मादपेतश्च कथं विवर्धेत् ||८||
कथं नु भीष्मश्च कृपश्च विप्रो; द्रोणश्च राजा च कुलस्य वृद्धः |
प्रव्राज्य पार्थान्सुखमाप्नुवन्ति; धिक्पापबुद्धीन्भरतप्रधानान् ||९||
किं नाम वक्ष्यत्यवनिप्रधानः; पितॄन्समागम्य परत्र पापः |
पुत्रेषु सम्यक्चरितं मयेति; पुत्रानपापानवरोप्य राज्यात् ||१०||
नासौ धिया सम्प्रतिपश्यति स्म; किं नाम कृत्वाहमचक्षुरेवम् |
जातः पृथिव्यामिति पार्थिवेषु; प्रव्राज्य कौन्तेयमथापि राज्यात् ||११||
नूनं समृद्धान्पितृलोकभूमौ; चामीकराभान्क्षितिजान्प्रफुल्लान् |
विचित्रवीर्यस्य सुतः सपुत्रः; कृत्वा नृशंसं बत पश्यति स्म ||१२||
व्यूढोत्तरांसान्पृथुलोहिताक्षा; न्नेमान्स्म पृच्छन्स शृणोति नूनम् |
प्रस्थापयद्यत्स वनं ह्यशङ्को; युधिष्ठिरं सानुजमात्तशस्त्रम् ||१३||
योऽयं परेषां पृतनां समृद्धां; निरायुधो दीर्घभुजो निहन्यात् |
श्रुत्वैव शब्दं हि वृकोदरस्य; मुञ्चन्ति सैन्यानि शकृत्समूत्रम् ||१४||
स क्षुत्पिपासाध्वकृशस्तरस्वी; समेत्य नानायुधबाणपाणिः |
वने स्मरन्वासमिमं सुघोरं; शेषं न कुर्यादिति निश्चितं मे ||१५||
न ह्यस्य वीर्येण बलेन कश्चि; त्समः पृथिव्यां भविता नरेषु |
शीतोष्णवातातपकर्शिताङ्गो; न शेषमाजावसुहृत्सु कुर्यात् ||१६||
प्राच्यां नृपानेकरथेन जित्वा; वृकोदरः सानुचरान्रणेषु |
स्वस्त्यागमद्योऽतिरथस्तरस्वी; सोऽयं वने क्लिश्यति चीरवासाः ||१७||
यो दन्तकूरे व्यजयन्नृदेवा; न्समागतान्दाक्षिणात्यान्महीपान् |
तं पश्यतेमं सहदेवमद्य; तपस्विनं तापसवेषरूपम् ||१८||
यः पार्थिवानेकरथेन वीरो; दिशं प्रतीचीं प्रति युद्धशौण्डः |
सोऽयं वने मूलफलेन जीव; ञ्जटी चरत्यद्य मलाचिताङ्गः ||१९||
सत्रे समृद्धेऽति रथस्य राज्ञो; वेदीतलादुत्पतिता सुता या |
सेयं वने वासमिमं सुदुःखं; कथं सहत्यद्य सती सुखार्हा ||२०||
त्रिवर्गमुख्यस्य समीरणस्य; देवेश्वरस्याप्यथ वाश्विनोश्च |
एषां सुराणां तनयाः कथं नु; वने चरन्त्यल्पसुखाः सुखार्हाः ||२१||
जिते हि धर्मस्य सुते सभार्ये; सभ्रातृके सानुचरे निरस्ते |
दुर्योधने चापि विवर्धमाने; कथं न सीदत्यवनिः सशैला ||२२||
१२०
सात्यकिरुवाच||
न राम कालः परिदेवनाय; यदुत्तरं तत्र तदेव सर्वे |
समाचरामो ह्यनतीतकालं; युधिष्ठिरो यद्यपि नाह किञ्चित् ||१||
ये नाथवन्तो हि भवन्ति लोके; ते नात्मना कर्म समारभन्ते |
तेषां तु कार्येषु भवन्ति नाथाः; शैब्यादयो राम यथा ययातेः ||२||
येषां तथा राम समारभन्ते; कार्याणि नाथाः स्वमतेन लोके |
ते नाथवन्तः पुरुषप्रवीरा; नानाथवत्कृच्छ्रमवाप्नुवन्ति ||३||
कस्मादयं रामजनार्दनौ च; प्रद्युम्नसाम्बौ च मया समेतौ |
वसत्यरण्ये सह सोदरीयै; स्त्रैलोक्यनाथानधिगम्य नाथान् ||४||
निर्यातु साध्वद्य दशार्हसेना; प्रभूतनानायुधचित्रवर्मा |
यमक्षयं गच्छतु धार्तराष्ट्रः; सबान्धवो वृष्णिबलाभिभूतः ||५||
त्वं ह्येव कोपात्पृथिवीमपीमां; संवेष्टयेस्तिष्ठतु शार्ङ्गधन्वा |
स धार्तराष्ट्रं जहि सानुबन्धं; वृत्रं यथा देवपतिर्महेन्द्रः ||६||
भ्राता च मे यश्च सखा गुरुश्च; जनार्दनस्यात्मसमश्च पार्थः |
यदर्थमभ्युद्यतमुत्तमं त; त्करोति कर्माग्र्यमपारणीयम् ||७||
तस्यास्त्रवर्षाण्यहमुत्तमास्त्रै; र्विहत्य सर्वाणि रणेऽभिभूय |
कायाच्छिरः सर्पविषाग्निकल्पैः; शरोत्तमैरुन्मथितास्मि राम ||८||
खड्गेन चाहं निशितेन सङ्ख्ये; कायाच्छिरस्तस्य बलात्प्रमथ्य |
ततोऽस्य सर्वाननुगान्हनिष्ये; दुर्योधनं चापि कुरूंश्च सर्वान् ||९||
आत्तायुधं मामिह रौहिणेय; पश्यन्तु भौमा युधि जातहर्षाः |
निघ्नन्तमेकं कुरुयोधमुख्या; न्काले महाकक्षमिवान्तकाग्निः ||१०||
प्रद्युम्नमुक्तान्निशितान्न शक्ताः; सोढुं कृपद्रोणविकर्णकर्णाः |
जानामि वीर्यं च तवात्मजस्य; कार्ष्णिर्भवत्येष यथा रणस्थः ||११||
साम्बः ससूतं सरथं भुजाभ्यां; दुःशासनं शास्तु बलात्प्रमथ्य |
न विद्यते जाम्बवतीसुतस्य; रणेऽविषह्यं हि रणोत्कटस्य ||१२||
एतेन बालेन हि शम्बरस्य; दैत्यस्य सैन्यं सहसा प्रणुन्नम् |
वृत्तोरुरत्यायतपीनबाहु; रेतेन सङ्ख्ये निहतोऽश्वचक्रः ||१३||
को नाम साम्बस्य रणे मनुष्यो; गत्वान्तरं वै भुजयोर्धरेत ||१३||
यथा प्रविश्यान्तरमन्तकस्य; काले मनुष्यो न विनिष्क्रमेत |
तथा प्रविश्यान्तरमस्य सङ्ख्ये; को नाम जीवन्पुनराव्रजेत ||१४||
द्रोणं च भीष्मं च महारथौ तौ; सुतैर्वृतं चाप्यथ सोमदत्तम् |
सर्वाणि सैन्यानि च वासुदेवः; प्रधक्ष्यते सायकवह्निजालैः ||१५||
किं नाम लोकेष्वविषह्यमस्ति; कृष्णस्य सर्वेषु सदैवतेषु |
आत्तायुधस्योत्तमबाणपाणे; श्चक्रायुधस्याप्रतिमस्य युद्धे ||१६||
ततोऽनिरुद्धोऽप्यसिचर्मपाणि; र्महीमिमां धार्तराष्ट्रैर्विसञ्ज्ञैः |
हृतोत्तमाङ्गैर्निहतैः करोतु; कीर्णां कुशैर्वेदिमिवाध्वरेषु ||१७||
गदोल्मुकौ बाहुकभानुनीथाः; शूरश्च सङ्ख्ये निशठः कुमारः |
रणोत्कटौ सारणचारुदेष्णौ; कुलोचितं विप्रथयन्तु कर्म ||१८||
सवृष्णिभोजान्धकयोधमुख्या; समागता क्षत्रियशूरसेना |
हत्वा रणे तान्धृतराष्ट्रपुत्राँ; ल्लोके यशः स्फीतमुपाकरोतु ||१९||
ततोऽभिमन्युः पृथिवीं प्रशास्तु; यावद्व्रतं धर्मभृतां वरिष्ठः |
युधिष्ठिरः पारयते महात्मा; द्यूते यथोक्तं कुरुसत्तमेन ||२०||
अस्मत्प्रमुक्तैर्विशिखैर्जितारि; स्ततो महीं भोक्ष्यति धर्मराजः |
निर्धार्तराष्ट्रां हतसूतपुत्रा; मेतद्धि नः कृत्यतमं यशश्यम् ||२१||
वासुदेव उवाच||
असंशयं माधव सत्यमेत; द्गृह्णीम ते वाक्यमदीनसत्त्व |
स्वाभ्यां भुजाभ्यामजितां तु भूमिं; नेच्छेत्कुरूणामृषभः कथञ्चित् ||२२||
न ह्येष कामान्न भयान्न लोभा; द्युधिष्ठिरो जातु जह्यात्स्वधर्मम् |
भीमार्जुनौ चातिरथौ यमौ वा; तथैव कृष्णा द्रुपदात्मजेयम् ||२३||
उभौ हि युद्धेऽप्रतिमौ पृथिव्यां; वृकोदरश्चैव धनञ्जयश्च |
कस्मान्न कृत्स्नां पृथिवीं प्रशासे; न्माद्रीसुताभ्यां च पुरस्कृतोऽयम् ||२४||
यदा तु पाञ्चालपतिर्महात्मा; सकेकयश्चेदिपतिर्वयं च |
योत्स्याम विक्रम्य परांस्तदा वै; सुयोधनस्त्यक्ष्यति जीवलोकम् ||२५||
युधिष्ठिर उवाच||
नैतच्चित्रं माधव यद्ब्रवीषि; सत्यं तु मे रक्ष्यतमं न राज्यम् |
कृष्णस्तु मां वेद यथावदेकः; कृष्णं च वेदाहमथो यथावत् ||२६||
यदैव कालं पुरुषप्रवीरो; वेत्स्यत्ययं माधव विक्रमस्य |
तदा रणे त्वं च शिनिप्रवीर; सुयोधनं जेष्यसि केशवश्च ||२७||
प्रतिप्रयान्त्वद्य दशार्हवीरा; दृढोऽस्मि नाथैर्नरलोकनाथैः |
धर्मेऽप्रमादं कुरुताप्रमेया; द्रष्टास्मि भूयः सुखिनः समेतान् ||२८||
वैशम्पायन उवाच||
तेऽन्योन्यमामन्त्र्य तथाभिवाद्य; वृद्धान्परिस्वज्य शिशूंश्च सर्वान् |
यदुप्रवीराः स्वगृहाणि जग्मू; राजापि तीर्थान्यनुसञ्चचार ||२९||
विसृज्य कृष्णं त्वथ धर्मराजो; विदर्भराजोपचितां सुतीर्थाम् |
सुतेन सोमेन विमिश्रितोदां; ततः पयोष्णीं प्रति स ह्युवास ||३०||
१२१
लोमश उवाच||
नृगेण यजमानेन सोमेनेह पुरंदरः |
तर्पितः श्रूयते राजन्स तृप्तो मदमभ्यगात् ||१||
इह देवैः सहेन्द्रैर्हि प्रजापतिभिरेव च |
इष्टं बहुविधैर्यज्ञैर्महद्भिर्भूरिदक्षिणैः ||२||
आमूर्तरयसश्चेह राजा वज्रधरं प्रभुम् |
तर्पयामास सोमेन हयमेधेषु सप्तसु ||३||
तस्य सप्तसु यज्ञेषु सर्वमासीद्धिरण्मयम् |
वानस्पत्यं च भौमं च यद्द्रव्यं नियतं मखे ||४||
तेष्वेव चास्य यज्ञेषु प्रयोगाः सप्त विश्रुताः |
सप्तैकैकस्य यूपस्य चषालाश्चोपरि स्थिताः ||५||
तस्य स्म यूपान्यज्ञेषु भ्राजमानान्हिरण्मयान् |
स्वयमुत्थापयामासुर्देवाः सेन्द्रा युधिष्ठिर ||६||
तेषु तस्य मखाग्र्येषु गयस्य पृथिवीपतेः |
अमाद्यदिन्द्रः सोमेन दक्षिणाभिर्द्विजातयः ||७||
सिकता वा यथा लोके यथा वा दिवि तारकाः |
यथा वा वर्षतो धारा असङ्ख्येयाश्च केनचित् ||८||
तथैव तदसङ्ख्येयं धनं यत्प्रददौ गयः |
सदस्येभ्यो महाराज तेषु यज्ञेषु सप्तसु ||९||
भवेत्सङ्ख्येयमेतद्वै यदेतत्परिकीर्तितम् |
न सा शक्या तु सङ्ख्यातुं दक्षिणा दक्षिणावतः ||१०||
हिरण्मयीभिर्गोभिश्च कृताभिर्विश्वकर्मणा |
ब्राह्मणांस्तर्पयामास नानादिग्भ्यः समागतान् ||११||
अल्पावशेषा पृथिवी चैत्यैरासीन्महात्मनः |
गयस्य यजमानस्य तत्र तत्र विशां पते ||१२||
स लोकान्प्राप्तवानैन्द्रान्कर्मणा तेन भारत |
सलोकतां तस्य गच्छेत्पयोष्ण्यां य उपस्पृशेत् ||१३||
तस्मात्त्वमत्र राजेन्द्र भ्रातृभिः सहितोऽनघ |
उपस्पृश्य महीपाल धूतपाप्मा भविष्यसि ||१४||
वैशम्पायन उवाच||
स पयोष्ण्यां नरश्रेष्ठः स्नात्वा वै भ्रातृभिः सह |
वैडूर्यपर्वतं चैव नर्मदां च महानदीम् ||१५||
समाजगाम तेजस्वी भ्रातृभिः सहितोऽनघः ||१५||
ततोऽस्य सर्वाण्याचख्यौ लोमशो भगवानृषिः |
तीर्थानि रमणीयानि तत्र तत्र विशां पते ||१६||
यथायोगं यथाप्रीति प्रययौ भ्रातृभिः सह |
ददमानोऽसकृद्वित्तं ब्राह्मणेभ्यः सहस्रशः ||१७||
लोमश उवाच||
देवानामेति कौन्तेय तथा राज्ञां सलोकताम् |
वैडूर्यपर्वतं दृष्ट्वा नर्मदामवतीर्य च ||१८||
सन्धिरेष नरश्रेष्ठ त्रेताया द्वापरस्य च |
एतमासाद्य कौन्तेय सर्वपापैः प्रमुच्यते ||१९||
एष शर्यातियज्ञस्य देशस्तात प्रकाशते |
साक्षाद्यत्रापिबत्सोममश्विभ्यां सह कौशिकः ||२०||
चुकोप भार्गवश्चापि महेन्द्रस्य महातपाः |
संस्तम्भयामास च तं वासवं च्यवनः प्रभुः ||२१||
सुकन्यां चापि भार्यां स राजपुत्रीमिवाप्तवान् ||२१||
युधिष्ठिर उवाच||
कथं विष्टम्भितस्तेन भगवान्पाकशासनः |
किमर्थं भार्गवश्चापि कोपं चक्रे महातपाः ||२२||
नासत्यौ च कथं ब्रह्मन्कृतवान्सोमपीथिनौ |
एतत्सर्वं यथावृत्तमाख्यातु भगवान्मम ||२३||
सुकन्योपाख्यानम्
१२२
लोमश उवाच||
भृगोर्महर्षेः पुत्रोऽभूच्च्यवनो नाम भार्गवः |
समीपे सरसः सोऽस्य तपस्तेपे महाद्युतिः ||१||
स्थाणुभूतो महातेजा वीरस्थानेन पाण्डव |
अतिष्ठत्सुबहून्कालानेकदेशे विशां पते ||२||
स वल्मीकोऽभवदृषिर्लताभिरभिसंवृतः |
कालेन महता राजन्समाकीर्णः पिपीलिकैः ||३||
तथा स संवृतो धीमान्मृत्पिण्ड इव सर्वशः |
तप्यति स्म तपो राजन्वल्मीकेन समावृतः ||४||
अथ दीर्घस्य कालस्य शर्यातिर्नाम पार्थिवः |
आजगाम सरो रम्यं विहर्तुमिदमुत्तमम् ||५||
तस्य स्त्रीणां सहस्राणि चत्वार्यासन्परिग्रहः |
एकैव च सुता शुभ्रा सुकन्या नाम भारत ||६||
सा सखीभिः परिवृता सर्वाभरणभूषिता |
चङ्क्रम्यमाणा वल्मीकं भार्गवस्य समासदत् ||७||
सा चैव सुदती तत्र पश्यमाना मनोरमान् |
वनस्पतीन्विचिन्वन्ती विजहार सखीवृता ||८||
रूपेण वयसा चैव मदनेन मदेन च |
बभञ्ज वनवृक्षाणां शाखाः परमपुष्पिताः ||९||
तां सखीरहितामेकामेकवस्त्रामलङ्कृताम् |
ददर्श भार्गवो धीमांश्चरन्तीमिव विद्युतम् ||१०||
तां पश्यमानो विजने स रेमे परमद्युतिः |
क्षामकण्ठश्च ब्रह्मर्षिस्तपोबलसमन्वितः ||११||
तामाबभाषे कल्याणीं सा चास्य न शृणोति वै ||११||
ततः सुकन्या वल्मीके दृष्ट्वा भार्गवचक्षुषी |
कौतूहलात्कण्टकेन बुद्धिमोहबलात्कृता ||१२||
किं नु खल्विदमित्युक्त्वा निर्बिभेदास्य लोचने |
अक्रुध्यत्स तया विद्धे नेत्रे परममन्युमान् ||१३||
ततः शर्यातिसैन्यस्य शकृन्मूत्रं समावृणोत् ||१३||
ततो रुद्धे शकृन्मूत्रे सैन्यमानाहदुःखितम् |
तथागतमभिप्रेक्ष्य पर्यपृच्छत्स पार्थिवः ||१४||
तपोनित्यस्य वृद्धस्य रोषणस्य विशेषतः |
केनापकृतमद्येह भार्गवस्य महात्मनः ||१५||
ज्ञातं वा यदि वाज्ञातं तदृतं ब्रूत माचिरम् ||१५||
तमूचुः सैनिकाः सर्वे न विद्मोऽपकृतं वयम् |
सर्वोपायैर्यथाकामं भवांस्तदधिगच्छतु ||१६||
ततः स पृथिवीपालः साम्ना चोग्रेण च स्वयम् |
पर्यपृच्छत्सुहृद्वर्गं प्रत्यजानन्न चैव ते ||१७||
आनाहार्तं ततो दृष्ट्वा तत्सैन्यमसुखार्दितम् |
पितरं दुःखितं चापि सुकन्येदमथाब्रवीत् ||१८||
मयाटन्त्येह वल्मीके दृष्टं सत्त्वमभिज्वलत् |
खद्योतवदभिज्ञातं तन्मया विद्धमन्तिकात् ||१९||
एतच्छ्रुत्वा तु शर्यातिर्वल्मीकं तूर्णमाद्रवत् |
तत्रापश्यत्तपोवृद्धं वयोवृद्धं च भार्गवम् ||२०||
अयाचदथ सैन्यार्थं प्राञ्जलिः पृथिवीपतिः |
अज्ञानाद्बालया यत्ते कृतं तत्क्षन्तुमर्हसि ||२१||
ततोऽब्रवीन्महीपालं च्यवनो भार्गवस्तदा |
रूपौदार्यसमायुक्तां लोभमोहबलात्कृताम् ||२२||
तामेव प्रतिगृह्याहं राजन्दुहितरं तव |
क्षमिष्यामि महीपाल सत्यमेतद्ब्रवीमि ते ||२३||
ऋषेर्वचनमाज्ञाय शर्यातिरविचारयन् |
ददौ दुहितरं तस्मै च्यवनाय महात्मने ||२४||
प्रतिगृह्य च तां कन्यां च्यवनः प्रससाद ह |
प्राप्तप्रसादो राजा स ससैन्यः पुनराव्रजत् ||२५||
सुकन्यापि पतिं लब्ध्वा तपस्विनमनिन्दिता |
नित्यं पर्यचरत्प्रीत्या तपसा नियमेन च ||२६||
अग्नीनामतिथीनां च शुश्रूषुरनसूयिका |
समाराधयत क्षिप्रं च्यवनं सा शुभानना ||२७||
१२३
लोमश उवाच||
कस्यचित्त्वथ कालस्य सुराणामश्विनौ नृप |
कृताभिषेकां विवृतां सुकन्यां तामपश्यताम् ||१||
तां दृष्ट्वा दर्शनीयाङ्गीं देवराजसुतामिव |
ऊचतुः समभिद्रुत्य नासत्यावश्विनाविदम् ||२||
कस्य त्वमसि वामोरु किं वने वै करोषि च |
इच्छाव भद्रे ज्ञातुं त्वां तत्त्वमाख्याहि शोभने ||३||
ततः सुकन्या संवीता तावुवाच सुरोत्तमौ |
शर्यातितनयां वित्तं भार्यां च च्यवनस्य माम् ||४||
अथाश्विनौ प्रहस्यैतामब्रूतां पुनरेव तु |
कथं त्वमसि कल्याणि पित्रा दत्ता गताध्वने ||५||
भ्राजसे वनमध्ये त्वं विद्युत्सौदामिनी यथा |
न देवेष्वपि तुल्यां हि त्वया पश्याव भामिनि ||६||
सर्वाभरणसम्पन्ना परमाम्बरधारिणी |
शोभेथास्त्वनवद्याङ्गि न त्वेवं मलपङ्किनी ||७||
कस्मादेवंविधा भूत्वा जराजर्जरितं पतिम् |
त्वमुपास्से ह कल्याणि कामभोगबहिष्कृतम् ||८||
असमर्थं परित्राणे पोषणे च शुचिस्मिते |
साधु च्यवनमुत्सृज्य वरयस्वैकमावयोः ||९||
पत्यर्थं देवगर्भाभे मा वृथा यौवनं कृथाः ||९||
एवमुक्ता सुकन्या तु सुरौ ताविदमब्रवीत् |
रताहं च्यवने पत्यौ मैवं मा पर्यशङ्किथाः ||१०||
तावब्रूतां पुनस्त्वेनामावां देवभिषग्वरौ |
युवानं रूपसम्पन्नं करिष्यावः पतिं तव ||११||
ततस्तस्यावयोश्चैव पतिमेकतमं वृणु |
एतेन समयेनैनमामन्त्रय वरानने ||१२||
सा तयोर्वचनाद्राजन्नुपसङ्गम्य भार्गवम् |
उवाच वाक्यं यत्ताभ्यामुक्तं भृगुसुतं प्रति ||१३||
तच्छ्रुत्वा च्यवनो भार्यामुवाच क्रियतामिति |
भर्त्रा सा समनुज्ञाता क्रियतामित्यथाब्रवीत् ||१४||
श्रुत्वा तदश्विनौ वाक्यं तत्तस्याः क्रियतामिति |
ऊचतू राजपुत्रीं तां पतिस्तव विशत्वपः ||१५||
ततोऽम्भश्च्यवनः शीघ्रं रूपार्थी प्रविवेश ह |
अश्विनावपि तद्राजन्सरः प्रविशतां प्रभो ||१६||
ततो मुहूर्तादुत्तीर्णाः सर्वे ते सरसस्ततः |
दिव्यरूपधराः सर्वे युवानो मृष्टकुण्डलाः ||१७||
तुल्यरूपधराश्चैव मनसः प्रीतिवर्धनाः ||१७||
तेऽब्रुवन्सहिताः सर्वे वृणीष्वान्यतमं शुभे |
अस्माकमीप्सितं भद्रे पतित्वे वरवर्णिनि ||१८||
यत्र वाप्यभिकामासि तं वृणीष्व सुशोभने ||१८||
सा समीक्ष्य तु तान्सर्वांस्तुल्यरूपधरान्स्थितान् |
निश्चित्य मनसा बुद्ध्या देवी वव्रे स्वकं पतिम् ||१९||
लब्ध्वा तु च्यवनो भार्यां वयोरूपं च वाञ्छितम् |
हृष्टोऽब्रवीन्महातेजास्तौ नासत्याविदं वचः ||२०||
यथाहं रूपसम्पन्नो वयसा च समन्वितः |
कृतो भवद्भ्यां वृद्धः सन्भार्यां च प्राप्तवानिमाम् ||२१||
तस्माद्युवां करिष्यामि प्रीत्याहं सोमपीथिनौ |
मिषतो देवराजस्य सत्यमेतद्ब्रवीमि वाम् ||२२||
तच्छ्रुत्वा हृष्टमनसौ दिवं तौ प्रतिजग्मतुः |
च्यवनोऽपि सुकन्या च सुराविव विजह्रतुः ||२३||
१२४
लोमश उवाच||
ततः श्रुत्वा तु शर्यातिर्वयःस्थं च्यवनं कृतम् |
संहृष्टः सेनया सार्धमुपायाद्भार्गवाश्रमम् ||१||
च्यवनं च सुकन्यां च दृष्ट्वा देवसुताविव |
रेमे महीपः शर्यातिः कृत्स्नां प्राप्य महीमिव ||२||
ऋषिणा सत्कृतस्तेन सभार्यः पृथिवीपतिः |
उपोपविष्टः कल्याणीः कथाश्चक्रे महामनाः ||३||
अथैनं भार्गवो राजन्नुवाच परिसान्त्वयन् |
याजयिष्यामि राजंस्त्वां सम्भारानुपकल्पय ||४||
ततः परमसंहृष्टः शर्यातिः पृथिवीपतिः |
च्यवनस्य महाराज तद्वाक्यं प्रत्यपूजयत् ||५||
प्रशस्तेऽहनि यज्ञीये सर्वकामसमृद्धिमत् |
कारयामास शर्यातिर्यज्ञायतनमुत्तमम् ||६||
तत्रैनं च्यवनो राजन्याजयामास भार्गवः |
अद्भुतानि च तत्रासन्यानि तानि निबोध मे ||७||
अगृह्णाच्च्यवनः सोममश्विनोर्देवयोस्तदा |
तमिन्द्रो वारयामास गृह्यमाणं तयोर्ग्रहम् ||८||
इन्द्र उवाच||
उभावेतौ न सोमार्हौ नासत्याविति मे मतिः |
भिषजौ देवपुत्राणां कर्मणा नैवमर्हतः ||९||
च्यवन उवाच||
मावमंस्था महात्मानौ रूपद्रविणवत्तरौ |
यौ चक्रतुर्मां मघवन्वृन्दारकमिवाजरम् ||१०||
ऋते त्वां विबुधांश्चान्यान्कथं वै नार्हतः सवम् |
अश्विनावपि देवेन्द्र देवौ विद्धि पुरंदर ||११||
इन्द्र उवाच||
चिकित्सकौ कर्मकरौ कामरूपसमन्वितौ |
लोके चरन्तौ मर्त्यानां कथं सोममिहार्हतः ||१२||
लोमश उवाच||
एतदेव यदा वाक्यमाम्रेडयति वासवः |
अनादृत्य ततः शक्रं ग्रहं जग्राह भार्गवः ||१३||
ग्रहीष्यन्तं तु तं सोममश्विनोरुत्तमं तदा |
समीक्ष्य बलभिद्देव इदं वचनमब्रवीत् ||१४||
आभ्यामर्थाय सोमं त्वं ग्रहीष्यसि यदि स्वयम् |
वज्रं ते प्रहरिष्यामि घोररूपमनुत्तमम् ||१५||
एवमुक्तः स्मयन्निन्द्रमभिवीक्ष्य स भार्गवः |
जग्राह विधिवत्सोममश्विभ्यामुत्तमं ग्रहम् ||१६||
ततोऽस्मै प्राहरद्वज्रं घोररूपं शचीपतिः |
तस्य प्रहरतो बाहुं स्तम्भयामास भार्गवः ||१७||
संस्तम्भयित्वा च्यवनो जुहुवे मन्त्रतोऽनलम् |
कृत्यार्थी सुमहातेजा देवं हिंसितुमुद्यतः ||१८||
ततः कृत्या समभवदृषेस्तस्य तपोबलात् |
मदो नाम महावीर्यो बृहत्कायो महासुरः ||१९||
शरीरं यस्य निर्देष्टुमशक्यं तु सुरासुरैः ||१९||
तस्यास्यमभवद्घोरं तीक्ष्णाग्रदशनं महत् |
हनुरेका स्थिता तस्य भूमावेका दिवं गता ||२०||
चतस्र आयता दंष्ट्रा योजनानां शतं शतम् |
इतरे त्वस्य दशना बभूवुर्दशयोजनाः ||२१||
प्राकारसदृशाकाराः शूलाग्रसमदर्शनाः ||२१||
बाहू पर्वतसङ्काशावायतावयुतं समौ |
नेत्रे रविशशिप्रख्ये वक्त्रमन्तकसंनिभम् ||२२||
लेलिहञ्जिह्वया वक्त्रं विद्युच्चपललोलया |
व्यात्ताननो घोरदृष्टिर्ग्रसन्निव जगद्बलात् ||२३||
स भक्षयिष्यन्सङ्क्रुद्धः शतक्रतुमुपाद्रवत् |
महता घोररूपेण लोकाञ्शब्देन नादयन् ||२४||
१२५
लोमश उवाच||
तं दृष्ट्वा घोरवदनं मदं देवः शतक्रतुः |
आयान्तं भक्षयिष्यन्तं व्यात्ताननमिवान्तकम् ||१||
भयात्संस्तम्भितभुजः सृक्किणी लेलिहन्मुहुः |
ततोऽब्रवीद्देवराजश्च्यवनं भयपीडितः ||२||
सोमार्हावश्विनावेतावद्य प्रभृति भार्गव |
भविष्यतः सत्यमेतद्वचो ब्रह्मन्ब्रवीमि ते ||३||
न ते मिथ्या समारम्भो भवत्वेष परो विधिः |
जानामि चाहं विप्रर्षे न मिथ्या त्वं करिष्यसि ||४||
सोमार्हावश्विनावेतौ यथैवाद्य कृतौ त्वया |
भूय एव तु ते वीर्यं प्रकाशेदिति भार्गव ||५||
सुकन्यायाः पितुश्चास्य लोके कीर्तिः प्रथेदिति |
अतो मयैतद्विहितं तव वीर्यप्रकाशनम् ||६||
तस्मात्प्रसादं कुरु मे भवत्वेतद्यथेच्छसि ||६||
एवमुक्तस्य शक्रेण च्यवनस्य महात्मनः |
स मन्युर्व्यगमच्छीघ्रं मुमोच च पुरंदरम् ||७||
मदं च व्यभजद्राजन्पाने स्त्रीषु च वीर्यवान् |
अक्षेषु मृगयायां च पूर्वसृष्टं पुनः पुनः ||८||
तथा मदं विनिष्क्षिप्य शक्रं सन्तर्प्य चेन्दुना |
अश्विभ्यां सहितान्देवान्याजयित्वा च तं नृपम् ||९||
विख्याप्य वीर्यं सर्वेषु लोकेषु वदतां वरः |
सुकन्यया सहारण्ये विजहारानुरक्तया ||१०||
तस्यैतद्द्विजसङ्घुष्टं सरो राजन्प्रकाशते |
अत्र त्वं सह सोदर्यैः पितॄन्देवांश्च तर्पय ||११||
एतद्दृष्ट्वा महीपाल सिकताक्षं च भारत |
सैन्धवारण्यमासाद्य कुल्यानां कुरु दर्शनम् ||१२||
पुष्करेषु महाराज सर्वेषु च जलं स्पृश ||१२||
आर्चीकपर्वतश्चैव निवासो वै मनीषिणाम् |
सदाफलः सदास्रोतो मरुतां स्थानमुत्तमम् ||१३||
चैत्याश्चैते बहुशतास्त्रिदशानां युधिष्ठिर ||१३||
एतच्चन्द्रमसस्तीर्थमृषयः पर्युपासते |
वैखानसाश्च ऋषयो वालखिल्यास्तथैव च ||१४||
शृङ्गाणि त्रीणि पुण्याणि त्रीणि प्रस्रवणानि च |
सर्वाण्यनुपरिक्रम्य यथाकाममुपस्पृश ||१५||
शन्तनुश्चात्र कौन्तेय शुनकश्च नराधिप |
नरनारायणौ चोभौ स्थानं प्राप्ताः सनातनम् ||१६||
इह नित्यशया देवाः पितरश्च महर्षिभिः |
आर्चीकपर्वते तेपुस्तान्यजस्व युधिष्ठिर ||१७||
इह ते वै चरून्प्राश्नन्नृषयश्च विशां पते |
यमुना चाक्षयस्रोताः कृष्णश्चेह तपोरतः ||१८||
यमौ च भीमसेनश्च कृष्णा चामित्रकर्शन |
सर्वे चात्र गमिष्यामः सुकृशाः सुतपस्विनः ||१९||
एतत्प्रस्रवणं पुण्यमिन्द्रस्य मनुजाधिप |
यत्र धाता विधाता च वरुणश्चोर्ध्वमागताः ||२०||
इह ते न्यवसन्राजन्क्षान्ताः परमधर्मिणः |
मैत्राणामृजुबुद्धीनामयं गिरिवरः शुभः ||२१||
एषा सा यमुना राजन्राजर्षिगणसेविता |
नानायज्ञचिता राजन्पुण्या पापभयापहा ||२२||
अत्र राजा महेष्वासो मान्धातायजत स्वयम् |
सहदेवश्च कौन्तेय सोमको ददतां वरः ||२३||
मान्धात्रुपाख्यानम्
१२६
युधिष्ठिर उवाच||
मान्धाता राजशार्दूलस्त्रिषु लोकेषु विश्रुतः |
कथं जातो महाब्रह्मन्यौवनाश्वो नृपोत्तमः ||१||
कथं चैतां परां काष्ठां प्राप्तवानमितद्युतिः ||१||
यस्य लोकास्त्रयो वश्या विष्णोरिव महात्मनः |
एतदिच्छाम्यहं श्रोतुं चरितं तस्य धीमतः ||२||
यथा मान्धातृशब्दश्च तस्य शक्रसमद्युतेः |
जन्म चाप्रतिवीर्यस्य कुशलो ह्यसि भाषितुम् ||३||
लोमश उवाच||
शृणुष्वावहितो राजन्राज्ञस्तस्य महात्मनः |
यथा मान्धातृशब्दो वै लोकेषु परिगीयते ||४||
इक्ष्वाकुवंशप्रभवो युवनाश्वो महीपतिः |
सोऽयजत्पृथिवीपाल क्रतुभिर्भूरिदक्षिणैः ||५||
अश्वमेधसहस्रं च प्राप्य धर्मभृतां वरः |
अन्यैश्च क्रतुभिर्मुख्यैर्विविधैराप्तदक्षिणैः ||६||
अनपत्यस्तु राजर्षिः स महात्मा दृढव्रतः |
मन्त्रिष्वाधाय तद्राज्यं वननित्यो बभूव ह ||७||
शास्त्रदृष्टेन विधिना संयोज्यात्मानमात्मना |
पिपासाशुष्कहृदयः प्रविवेशाश्रमं भृगोः ||८||
तामेव रात्रिं राजेन्द्र महात्मा भृगुनन्दनः |
इष्टिं चकार सौद्युम्नेर्महर्षिः पुत्रकारणात् ||९||
सम्भृतो मन्त्रपूतेन वारिणा कलशो महान् |
तत्रातिष्ठत राजेन्द्र पूर्वमेव समाहितः ||१०||
यत्प्राश्य प्रसवेत्तस्य पत्नी शक्रसमं सुतम् ||१०||
तं न्यस्य वेद्यां कलशं सुषुपुस्ते महर्षयः |
रात्रिजागरणश्रान्ताः सौद्युम्निः समतीत्य तान् ||११||
शुष्ककण्ठः पिपासार्तः पाणीयार्थी भृशं नृपः |
तं प्रविश्याश्रमं श्रान्तः पाणीयं सोऽभ्ययाचत ||१२||
तस्य श्रान्तस्य शुष्केण कण्ठेन क्रोशतस्तदा |
नाश्रौषीत्कश्चन तदा शकुनेरिव वाशितम् ||१३||
ततस्तं कलशं दृष्ट्वा जलपूर्णं स पार्थिवः |
अभ्यद्रवत वेगेन पीत्वा चाम्भो व्यवासृजत् ||१४||
स पीत्वा शीतलं तोयं पिपासार्तो महीपतिः |
निर्वाणमगमद्धीमान्सुसुखी चाभवत्तदा ||१५||
ततस्ते प्रत्यबुध्यन्त ऋषयः सनराधिपाः |
निस्तोयं तं च कलशं ददृशुः सर्व एव ते ||१६||
कस्य कर्मेदमिति च पर्यपृच्छन्समागताः |
युवनाश्वो मयेत्येव सत्यं समभिपद्यत ||१७||
न युक्तमिति तं प्राह भगवान्भार्गवस्तदा |
सुतार्थं स्थापिता ह्यापस्तपसा चैव सम्भृताः ||१८||
मया ह्यत्राहितं ब्रह्म तप आस्थाय दारुणम् |
पुत्रार्थं तव राजर्षे महाबलपराक्रम ||१९||
महाबलो महावीर्यस्तपोबलसमन्वितः |
यः शक्रमपि वीर्येण गमयेद्यमसादनम् ||२०||
अनेन विधिना राजन्मयैतदुपपादितम् |
अब्भक्षणं त्वया राजन्नयुक्तं कृतमद्य वै ||२१||
न त्वद्य शक्यमस्माभिरेतत्कर्तुमतोऽन्यथा |
नूनं दैवकृतं ह्येतद्यदेवं कृतवानसि ||२२||
पिपासितेन याः पीता विधिमन्त्रपुरस्कृताः |
आपस्त्वया महाराज मत्तपोवीर्यसम्भृताः ||२३||
ताभ्यस्त्वमात्मना पुत्रमेवंवीर्यं जनिष्यसि ||२३||
विधास्यामो वयं तत्र तवेष्टिं परमाद्भुताम् |
यथा शक्रसमं पुत्रं जनयिष्यसि वीर्यवान् ||२४||
ततो वर्षशते पूर्णे तस्य राज्ञो महात्मनः |
वामं पार्श्वं विनिर्भिद्य सुतः सूर्य इवापरः ||२५||
निश्चक्राम महातेजा न च तं मृत्युराविशत् |
युवनाश्वं नरपतिं तदद्भुतमिवाभवत् ||२६||
ततः शक्रो महातेजास्तं दिदृक्षुरुपागमत् |
प्रदेशिनीं ततोऽस्यास्ये शक्रः समभिसंदधे ||२७||
मामयं धास्यतीत्येवं परिभाष्टः स वज्रिणा |
मान्धातेति च नामास्य चक्रुः सेन्द्रा दिवौकसः ||२८||
प्रदेशिनीं शक्रदत्तामास्वाद्य स शिशुस्तदा |
अवर्धत महीपाल किष्कूणां च त्रयोदश ||२९||
वेदास्तं सधनुर्वेदा दिव्यान्यस्त्राणि चेश्वरम् |
उपतस्थुर्महाराज ध्यातमात्राणि सर्वशः ||३०||
धनुराजगवं नाम शराः शृङ्गोद्भवाश्च ये |
अभेद्यं कवचं चैव सद्यस्तमुपसंश्रयन् ||३१||
सोऽभिषिक्तो मघवता स्वयं शक्रेण भारत |
धर्मेण व्यजयल्लोकांस्त्रीन्विष्णुरिव विक्रमैः ||३२||
तस्याप्रतिहतं चक्रं प्रावर्तत महात्मनः |
रत्नानि चैव राजर्षिं स्वयमेवोपतस्थिरे ||३३||
तस्येयं वसुसम्पूर्णा वसुधा वसुधाधिप |
तेनेष्टं विविधैर्यज्ञैर्बहुभिः स्वाप्तदक्षिणैः ||३४||
चितचैत्यो महातेजा धर्मं प्राप्य च पुष्कलम् |
शक्रस्यार्धासनं राजँल्लब्धवानमितद्युतिः ||३५||
एकाह्ना पृथिवी तेन धर्मनित्येन धीमता |
निर्जिता शासनादेव सरत्नाकरपत्तना ||३६||
तस्य चित्यैर्महाराज क्रतूनां दक्षिणावताम् |
चतुरन्ता मही व्याप्ता नासीत्किञ्चिदनावृतम् ||३७||
तेन पद्मसहस्राणि गवां दश महात्मना |
ब्राह्मणेभ्यो महाराज दत्तानीति प्रचक्षते ||३८||
तेन द्वादशवार्षिक्यामनावृष्ट्यां महात्मना |
वृष्टं सस्यविवृद्ध्यर्थं मिषतो वज्रपाणिनः ||३९||
तेन सोमकुलोत्पन्नो गान्धाराधिपतिर्महान् |
गर्जन्निव महामेघः प्रमथ्य निहतः शरैः ||४०||
प्रजाश्चतुर्विधास्तेन जिता राजन्महात्मना |
तेनात्मतपसा लोकाः स्थापिताश्चापि तेजसा ||४१||
तस्यैतद्देवयजनं स्थानमादित्यवर्चसः |
पश्य पुण्यतमे देशे कुरुक्षेत्रस्य मध्यतः ||४२||
एतत्ते सर्वमाख्यातं मान्धातुश्चरितं महत् |
जन्म चाग्र्यं महीपाल यन्मां त्वं परिपृच्छसि ||४३||
१२७
युधिष्ठिर उवाच||
कथंवीर्यः स राजाभूत्सोमको वदतां वर |
कर्माण्यस्य प्रभावं च श्रोतुमिच्छामि तत्त्वतः ||१||
लोमश उवाच||
युधिष्ठिरासीन्नृपतिः सोमको नाम धार्मिकः |
तस्य भार्याशतं राजन्सदृशीनामभूत्तदा ||२||
स वै यत्नेन महता तासु पुत्रं महीपतिः |
कञ्चिन्नासादयामास कालेन महता अपि ||३||
कदाचित्तस्य वृद्धस्य यतमानस्य यत्नतः |
जन्तुर्नाम सुतस्तस्मिन्स्त्रीशते समजायत ||४||
तं जातं मातरः सर्वाः परिवार्य समासते |
सततं पृष्ठतः कृत्वा कामभोगान्विशां पते ||५||
ततः पिपीलिका जन्तुं कदाचिददशत्स्फिजि |
स दष्टो व्यनदद्राजंस्तेन दुःखेन बालकः ||६||
ततस्ता मातरः सर्वाः प्राक्रोशन्भृशदुःखिताः |
परिवार्य जन्तुं सहिताः स शब्दस्तुमुलोऽभवत् ||७||
तमार्तनादं सहसा शुश्राव स महीपतिः |
अमात्यपरिषन्मध्ये उपविष्टः सहर्त्विजैः ||८||
ततः प्रस्थापयामास किमेतदिति पार्थिवः |
तस्मै क्षत्ता यथावृत्तमाचचक्षे सुतं प्रति ||९||
त्वरमाणः स चोत्थाय सोमकः सह मन्त्रिभिः |
प्रविश्यान्तःपुरं पुत्रमाश्वासयदरिंदमः ||१०||
सान्त्वयित्वा तु तं पुत्रं निष्क्रम्यान्तःपुरान्नृपः |
ऋत्विजैः सहितो राजन्सहामात्य उपाविशत् ||११||
सोमक उवाच||
धिगस्त्विहैकपुत्रत्वमपुत्रत्वं वरं भवेत् |
नित्यातुरत्वाद्भूतानां शोक एवैकपुत्रता ||१२||
इदं भार्याशतं ब्रह्मन्परीक्ष्योपचितं प्रभो |
पुत्रार्थिना मया वोढं न चासां विद्यते प्रजा ||१३||
एकः कथञ्चिदुत्पन्नः पुत्रो जन्तुरयं मम |
यतमानस्य सर्वासु किं नु दुःखमतः परम् ||१४||
वयश्च समतीतं मे सभार्यस्य द्विजोत्तम |
आसां प्राणाः समायत्ता मम चात्रैकपुत्रके ||१५||
स्यान्नु कर्म तथा युक्तं येन पुत्रशतं भवेत् |
महता लघुना वापि कर्मणा दुष्करेण वा ||१६||
ऋत्विगुवाच||
अस्ति वै तादृशं कर्म येन पुत्रशतं भवेत् |
यदि शक्नोषि तत्कर्तुमथ वक्ष्यामि सोमक ||१७||
सोमक उवाच||
कार्यं वा यदि वाकार्यं येन पुत्रशतं भवेत् |
कृतमेव हि तद्विद्धि भगवान्प्रब्रवीतु मे ||१८||
ऋत्विगुवाच||
यजस्व जन्तुना राजंस्त्वं मया वितते क्रतौ |
ततः पुत्रशतं श्रीमद्भविष्यत्यचिरेण ते ||१९||
वपायां हूयमानायां धूममाघ्राय मातरः |
ततस्ताः सुमहावीर्याञ्जनयिष्यन्ति ते सुतान् ||२०||
तस्यामेव तु ते जन्तुर्भविता पुनरात्मजः |
उत्तरे चास्य सौवर्णं लक्ष्म पार्श्वे भविष्यति ||२१||
जन्तूपाख्यानम्
१२८
सोमक उवाच||
ब्रह्मन्यद्यद्यथा कार्यं तत्तत्कुरु तथा तथा |
पुत्रकामतया सर्वं करिष्यामि वचस्तव ||१||
लोमश उवाच||
ततः स याजयामास सोमकं तेन जन्तुना |
मातरस्तु बलात्पुत्रमपाकर्षुः कृपान्विताः ||२||
हा हताः स्मेति वाशन्त्यस्तीव्रशोकसमन्विताः |
तं मातरः प्रत्यकर्षन्गृहीत्वा दक्षिणे करे ||३||
सव्ये पाणौ गृहीत्वा तु याजकोऽपि स्म कर्षति ||३||
कुररीणामिवार्तानामपाकृष्य तु तं सुतम् |
विशस्य चैनं विधिना वपामस्य जुहाव सः ||४||
वपायां हूयमानायां गन्धमाघ्राय मातरः |
आर्ता निपेतुः सहसा पृथिव्यां कुरुनन्दन ||५||
सर्वाश्च गर्भानलभंस्ततस्ताः पार्थिवाङ्गनाः ||५||
ततो दशसु मासेषु सोमकस्य विशां पते |
जज्ञे पुत्रशतं पूर्णं तासु सर्वासु भारत ||६||
जन्तुर्ज्येष्ठः समभवज्जनित्र्यामेव भारत |
स तासामिष्ट एवासीन्न तथान्ये निजाः सुताः ||७||
तच्च लक्षणमस्यासीत्सौवर्णं पार्श्व उत्तरे |
तस्मिन्पुत्रशते चाग्र्यः स बभूव गुणैर्युतः ||८||
ततः स लोकमगमत्सोमकस्य गुरुः परम् |
अथ काले व्यतीते तु सोमकोऽप्यगमत्परम् ||९||
अथ तं नरके घोरे पच्यमानं ददर्श सः |
तमपृच्छत्किमर्थं त्वं नरके पच्यसे द्विज ||१०||
तमब्रवीद्गुरुः सोऽथ पच्यमानोऽग्निना भृशम् |
त्वं मया याजितो राजंस्तस्येदं कर्मणः फलम् ||११||
एतच्छ्रुत्वा स राजर्षिर्धर्मराजानमब्रवीत् |
अहमत्र प्रवेक्ष्यामि मुच्यतां मम याजकः ||१२||
मत्कृते हि महाभागः पच्यते नरकाग्निना ||१२||
धर्म उवाच||
नान्यः कर्तुः फलं राजन्नुपभुङ्क्ते कदाचन |
इमानि तव दृश्यन्ते फलानि ददतां वर ||१३||
सोमक उवाच||
पुण्यान्न कामये लोकानृतेऽहं ब्रह्मवादिनम् |
इच्छाम्यहमनेनैव सह वस्तुं सुरालये ||१४||
नरके वा धर्मराज कर्मणास्य समो ह्यहम् |
पुण्यापुण्यफलं देव सममस्त्वावयोरिदम् ||१५||
धर्म उवाच||
यद्येवमीप्सितं राजन्भुङ्क्ष्वास्य सहितः फलम् |
तुल्यकालं सहानेन पश्चात्प्राप्स्यसि सद्गतिम् ||१६||
लोमश उवाच||
स चकार तथा सर्वं राजा राजीवलोचनः |
पुनश्च लेभे लोकान्स्वान्कर्मणा निर्जिताञ्शुभान् ||१७||
सह तेनैव विप्रेण गुरुणा स गुरुप्रियः ||१७||
एष तस्याश्रमः पुण्यो य एषोऽग्रे विराजते |
क्षान्त उष्यात्र षड्रात्रं प्राप्नोति सुगतिं नरः ||१८||
एतस्मिन्नपि राजेन्द्र वत्स्यामो विगतज्वराः |
षड्रात्रं नियतात्मानः सज्जीभव कुरूद्वह ||१९||
श्येनकपोतीयम्
१२९
लोमश उवाच||
अस्मिन्किल स्वयं राजन्निष्टवान्वै प्रजापतिः |
सत्रमिष्टीकृतं नाम पुरा वर्षसहस्रिकम् ||१||
अम्बरीषश्च नाभाग इष्टवान्यमुनामनु |
यज्ञैश्च तपसा चैव परां सिद्धिमवाप सः ||२||
देशो नाहुषयज्ञानामयं पुण्यतमो नृप |
यत्रेष्ट्वा दश पद्मानि सदस्येभ्यो निसृष्टवान् ||३||
सार्वभौमस्य कौन्तेय ययातेरमितौजसः |
स्पर्धमानस्य शक्रेण पश्येदं यज्ञवास्त्विह ||४||
पश्य नानाविधाकारैरग्निभिर्निचितां महीम् |
मज्जन्तीमिव चाक्रान्तां ययातेर्यज्ञकर्मभिः ||५||
एषा शम्येकपत्रा सा शरकं चैतदुत्तमम् |
पश्य रामह्रदानेतान्पश्य नारायणाश्रमम् ||६||
एतदार्चीकपुत्रस्य योगैर्विचरतो महीम् |
अपसर्पणं महीपाल रौप्यायाममितौजसः ||७||
अत्रानुवंशं पठतः शृणु मे कुरुनन्दन |
उलूखलैराभरणैः पिशाची यदभाषत ||८||
युगन्धरे दधि प्राश्य उषित्वा चाच्युतस्थले |
तद्वद्भूतिलये स्नात्वा सपुत्रा वस्तुमिच्छसि ||९||
एकरात्रमुषित्वेह द्वितीयं यदि वत्स्यसि |
एतद्वै ते दिवा वृत्तं रात्रौ वृत्तमतोऽन्यथा ||१०||
अत्राद्याहो निवत्स्यामः क्षपां भरतसत्तम |
द्वारमेतद्धि कौन्तेय कुरुक्षेत्रस्य भारत ||११||
अत्रैव नाहुषो राजा राजन्क्रतुभिरिष्टवान् |
ययातिर्बहुरत्नाढ्यैर्यत्रेन्द्रो मुदमभ्यगात् ||१२||
एतत्प्लक्षावतरणं यमुनातीर्थमुच्यते |
एतद्वै नाकपृष्ठस्य द्वारमाहुर्मनीषिणः ||१३||
अत्र सारस्वतैर्यज्ञैरीजानाः परमर्षयः |
यूपोलूखलिनस्तात गच्छन्त्यवभृथाप्लवम् ||१४||
अत्रैव भरतो राजा मेध्यमश्वमवासृजत् |
असकृत्कृष्णसारङ्गं धर्मेणावाप्य मेदिनीम् ||१५||
अत्रैव पुरुषव्याघ्र मरुत्तः सत्रमुत्तमम् |
आस्ते देवर्षिमुख्येन संवर्तेनाभिपालितः ||१६||
अत्रोपस्पृश्य राजेन्द्र सर्वाँल्लोकान्प्रपश्यति |
पूयते दुष्कृताच्चैव समुपस्पृश्य भारत ||१७||
वैशम्पायन उवाच||
तत्र सभ्रातृकः स्नात्वा स्तूयमानो महर्षिभिः |
लोमशं पाण्डवश्रेष्ठ इदं वचनमब्रवीत् ||१८||
सर्वाँल्लोकान्प्रपश्यामि तपसा सत्यविक्रम |
इहस्थः पाण्डवश्रेष्ठं पश्यामि श्वेतवाहनम् ||१९||
लोमश उवाच||
एवमेतन्महाबाहो पश्यन्ति परमर्षयः |
सरस्वतीमिमां पुण्यां पश्यैकशरणावृताम् ||२०||
यत्र स्नात्वा नरश्रेष्ठ धूतपाप्मा भविष्यति |
इह सारस्वतैर्यज्ञैरिष्टवन्तः सुरर्षयः ||२१||
ऋषयश्चैव कौन्तेय तथा राजर्षयोऽपि च ||२१||
वेदी प्रजापतेरेषा समन्तात्पञ्चयोजना |
कुरोर्वै यज्ञशीलस्य क्षेत्रमेतन्महात्मनः ||२२||
१३०
लोमश उवाच||
इह मर्त्यास्तपस्तप्त्वा स्वर्गं गच्छन्ति भारत |
मर्तुकामा नरा राजन्निहायान्ति सहस्रशः ||१||
एवमाशीः प्रयुक्ता हि दक्षेण यजता पुरा |
इह ये वै मरिष्यन्ति ते वै स्वर्गजितो नराः ||२||
एषा सरस्वती पुण्या दिव्या चोघवती नदी |
एतद्विनशनं नाम सरस्वत्या विशां पते ||३||
द्वारं निषादराष्ट्रस्य येषां द्वेषात्सरस्वती |
प्रविष्टा पृथिवीं वीर मा निषादा हि मां विदुः ||४||
एष वै चमसोद्भेदो यत्र दृश्या सरस्वती |
यत्रैनामभ्यवर्तन्त दिव्याः पुण्याः समुद्रगाः ||५||
एतत्सिन्धोर्महत्तीर्थं यत्रागस्त्यमरिंदम |
लोपामुद्रा समागम्य भर्तारमवृणीत वै ||६||
एतत्प्रभासते तीर्थं प्रभासं भास्करद्युते |
इन्द्रस्य दयितं पुण्यं पवित्रं पापनाशनम् ||७||
एतद्विष्णुपदं नाम दृश्यते तीर्थमुत्तमम् |
एषा रम्या विपाशा च नदी परमपावनी ||८||
अत्रैव पुत्रशोकेन वसिष्ठो भगवानृषिः |
बद्ध्वात्मानं निपतितो विपाशः पुनरुत्थितः ||९||
काश्मीरमण्डलं चैतत्सर्वपुण्यमरिंदम |
महर्षिभिश्चाध्युषितं पश्येदं भ्रातृभिः सह ||१०||
अत्रोत्तराणां सर्वेषामृषीणां नाहुषस्य च |
अग्नेश्चात्रैव संवादः काश्यपस्य च भारत ||११||
एतद्द्वारं महाराज मानसस्य प्रकाशते |
वर्षमस्य गिरेर्मध्ये रामेण श्रीमता कृतम् ||१२||
एष वातिकषण्डो वै प्रख्यातः सत्यविक्रमः |
नाभ्यवर्तत यद्द्वारं विदेहानुत्तरं च यः ||१३||
एष उज्जानको नाम यवक्रीर्यत्र शान्तवान् |
अरुन्धतीसहायश्च वसिष्ठो भगवानृषिः ||१४||
ह्रदश्च कुशवानेष यत्र पद्मं कुशेशयम् |
आश्रमश्चैव रुक्मिण्या यत्राशाम्यदकोपना ||१५||
समाधीनां समासस्तु पाण्डवेय श्रुतस्त्वया |
तं द्रक्ष्यसि महाराज भृगुतुङ्गं महागिरिम् ||१६||
जलां चोपजलां चैव यमुनामभितो नदीम् |
उशीनरो वै यत्रेष्ट्वा वासवादत्यरिच्यत ||१७||
तां देवसमितिं तस्य वासवश्च विशां पते |
अभ्यगच्छत राजानं ज्ञातुमग्निश्च भारत ||१८||
जिज्ञासमानौ वरदौ महात्मानमुशीनरम् |
इन्द्रः श्येनः कपोतोऽग्निर्भूत्वा यज्ञेऽभिजग्मतुः ||१९||
ऊरुं राज्ञः समासाद्य कपोतः श्येनजाद्भयात् |
शरणार्थी तदा राजन्निलिल्ये भयपीडितः ||२०||
१३१
श्येन उवाच||
धर्मात्मानं त्वाहुरेकं सर्वे राजन्महीक्षितः |
स वै धर्मविरुद्धं त्वं कस्मात्कर्म चिकीर्षसि ||१||
विहितं भक्षणं राजन्पीड्यमानस्य मे क्षुधा |
मा भाङ्क्षीर्धर्मलोभेन धर्ममुत्सृष्टवानसि ||२||
राजोवाच||
सन्त्रस्तरूपस्त्राणार्थी त्वत्तो भीतो महाद्विज |
मत्सकाशमनुप्राप्तः प्राणगृध्नुरयं द्विजः ||३||
एवमभ्यागतस्येह कपोतस्याभयार्थिनः |
अप्रदाने परोऽधर्मः किं त्वं श्येन प्रपश्यसि ||४||
प्रस्पन्दमानः सम्भ्रान्तः कपोतः श्येन लक्ष्यते |
मत्सकाशं जीवितार्थी तस्य त्यागो विगर्हितः ||५||
श्येन उवाच||
आहारात्सर्वभूतानि सम्भवन्ति महीपते |
आहारेण विवर्धन्ते तेन जीवन्ति जन्तवः ||६||
शक्यते दुस्त्यजेऽप्यर्थे चिररात्राय जीवितुम् |
न तु भोजनमुत्सृज्य शक्यं वर्तयितुं चिरम् ||७||
भक्ष्याद्विलोपितस्याद्य मम प्राणा विशां पते |
विसृज्य कायमेष्यन्ति पन्थानमपुनर्भवम् ||८||
प्रमृते मयि धर्मात्मन्पुत्रदारं नशिष्यति |
रक्षमाणः कपोतं त्वं बहून्प्राणान्नशिष्यसि ||९||
धर्मं यो बाधते धर्मो न स धर्मः कुधर्म तत् |
अविरोधी तु यो धर्मः स धर्मः सत्यविक्रम ||१०||
विरोधिषु महीपाल निश्चित्य गुरुलाघवम् |
न बाधा विद्यते यत्र तं धर्मं समुदाचरेत् ||११||
गुरुलाघवमाज्ञाय धर्माधर्मविनिश्चये |
यतो भूयांस्ततो राजन्कुरु धर्मविनिश्चयम् ||१२||
राजोवाच||
बहुकल्याणसंयुक्तं भाषसे विहगोत्तम |
सुपर्णः पक्षिराट्किं त्वं धर्मज्ञश्चास्यसंशयम् ||१३||
तथा हि धर्मसंयुक्तं बहु चित्रं प्रभाषसे ||१३||
न तेऽस्त्यविदितं किञ्चिदिति त्वा लक्षयाम्यहम् |
शरणैषिणः परित्यागं कथं साध्विति मन्यसे ||१४||
आहारार्थं समारम्भस्तव चायं विहङ्गम |
शक्यश्चाप्यन्यथा कर्तुमाहारोऽप्यधिकस्त्वया ||१५||
गोवृषो वा वराहो वा मृगो वा महिषोऽपि वा |
त्वदर्थमद्य क्रियतां यद्वान्यदभिकाङ्क्षसे ||१६||
श्येन उवाच||
न वराहं न चोक्षाणं न मृगान्विविधांस्तथा |
भक्षयामि महाराज किमन्नाद्येन तेन मे ||१७||
यस्तु मे दैवविहितो भक्षः क्षत्रियपुङ्गव |
तमुत्सृज महीपाल कपोतमिममेव मे ||१८||
श्येनाः कपोतान्खादन्ति स्थितिरेषा सनातनी |
मा राजन्मार्गमाज्ञाय कदलीस्कन्धमारुह ||१९||
राजोवाच||
राज्यं शिबीनामृद्धं वै शाधि पक्षिगणार्चित |
यद्वा कामयसे किञ्चिच्छ्येन सर्वं ददानि ते ||२०||
विनेमं पक्षिणं श्येन शरणार्थिनमागतम् ||२०||
येनेमं वर्जयेथास्त्वं कर्मणा पक्षिसत्तम |
तदाचक्ष्व करिष्यामि न हि दास्ये कपोतकम् ||२१||
श्येन उवाच||
उशीनर कपोते ते यदि स्नेहो नराधिप |
आत्मनो मांसमुत्कृत्य कपोततुलया धृतम् ||२२||
यदा समं कपोतेन तव मांसं भवेन्नृप |
तदा प्रदेयं तन्मह्यं सा मे तुष्टिर्भविष्यति ||२३||
राजोवाच||
अनुग्रहमिमं मन्ये श्येन यन्माभियाचसे |
तस्मात्तेऽद्य प्रदास्यामि स्वमांसं तुलया धृतम् ||२४||
लोमश उवाच||
अथोत्कृत्य स्वमांसं तु राजा परमधर्मवित् |
तुलयामास कौन्तेय कपोतेन सहाभिभो ||२५||
ध्रियमाणस्तु तुलया कपोतो व्यतिरिच्यते |
पुनश्चोत्कृत्य मांसानि राजा प्रादादुशीनरः ||२६||
न विद्यते यदा मांसं कपोतेन समं धृतम् |
तत उत्कृत्तमांसोऽसावारुरोह स्वयं तुलाम् ||२७||
श्येन उवाच||
इन्द्रोऽहमस्मि धर्मज्ञ कपोतो हव्यवाडयम् |
जिज्ञासमानौ धर्मे त्वां यज्ञवाटमुपागतौ ||२८||
यत्ते मांसानि गात्रेभ्य उत्कृत्तानि विशां पते |
एषा ते भास्वरी कीर्तिर्लोकानभिभविष्यति ||२९||
यावल्लोके मनुष्यास्त्वां कथयिष्यन्ति पार्थिव |
तावत्कीर्तिश्च लोकाश्च स्थास्यन्ति तव शाश्वताः ||३०||
लोमश उवाच||
तत्पाण्डवेय सदनं राज्ञस्तस्य महात्मनः |
पश्यस्वैतन्मया सार्धं पुण्यं पापप्रमोचनम् ||३१||
अत्र वै सततं देवा मुनयश्च सनातनाः |
दृश्यन्ते ब्राह्मणै राजन्पुण्यवद्भिर्महात्मभिः ||३२||
अष्टावक्रीयम्
१३२
लोमश उवाच||
यः कथ्यते मन्त्रविदग्र्यबुद्धि; रौद्दालकिः श्वेतकेतुः पृथिव्याम् |
तस्याश्रमं पश्य नरेन्द्र पुण्यं; सदाफलैरुपपन्नं महीजैः ||१||
साक्षादत्र श्वेतकेतुर्ददर्श; सरस्वतीं मानुषदेहरूपाम् |
वेत्स्यामि वाणीमिति सम्प्रवृत्तां; सरस्वतीं श्वेतकेतुर्बभाषे ||२||
तस्मिन्काले ब्रह्मविदां वरिष्ठा; वास्तां तदा मातुलभागिनेयौ |
अष्टावक्रश्चैव कहोडसूनु; रौद्दालकिः श्वेतकेतुश्च राजन् ||३||
विदेहराजस्य महीपतेस्तौ; विप्रावुभौ मातुलभागिनेयौ |
प्रविश्य यज्ञायतनं विवादे; बन्दिं निजग्राहतुरप्रमेयम् ||४||
युधिष्ठिर उवाच||
कथम्प्रभावः स बभूव विप्र; स्तथायुक्तं यो निजग्राह बन्दिम् |
अष्टावक्रः केन चासौ बभूव; तत्सर्वं मे लोमश शंस तत्त्वम् ||५||
लोमश उवाच||
उद्दालकस्य नियतः शिष्य एको; नाम्ना कहोडेति बभूव राजन् |
शुश्रूषुराचार्यवशानुवर्ती; दीर्घं कालं सोऽध्ययनं चकार ||६||
तं वै विप्राः पर्यभवंश्च शिष्या; स्तं च ज्ञात्वा विप्रकारं गुरुः सः |
तस्मै प्रादात्सद्य एव श्रुतं च; भार्यां च वै दुहितरं स्वां सुजाताम् ||७||
तस्या गर्भः समभवदग्निकल्पः; सोऽधीयानं पितरमथाभ्युवाच |
सर्वां रात्रिमध्ययनं करोषि; नेदं पितः सम्यगिवोपवर्तते ||८||
उपालब्धः शिष्यमध्ये महर्षिः; स तं कोपादुदरस्थं शशाप |
यस्मात्कुक्षौ वर्तमानो ब्रवीषि; तस्माद्वक्रो भवितास्यष्टकृत्वः ||९||
स वै तथा वक्र एवाभ्यजाय; दष्टावक्रः प्रथितो वै महर्षिः |
तस्यासीद्वै मातुलः श्वेतकेतुः; स तेन तुल्यो वयसा बभूव ||१०||
सम्पीड्यमाना तु तदा सुजाता; विवर्धमानेन सुतेन कुक्षौ |
उवाच भर्तारमिदं रहोगता; प्रसाद्य हीनं वसुना धनार्थिनी ||११||
कथं करिष्याम्यधना महर्षे; मासश्चायं दशमो वर्तते मे |
न चास्ति ते वसु किञ्चित्प्रजाता; येनाहमेतामापदं निस्तरेयम् ||१२||
उक्तस्त्वेवं भार्यया वै कहोडो; वित्तस्यार्थे जनकमथाभ्यगच्छत् |
स वै तदा वादविदा निगृह्य; निमज्जितो बन्दिनेहाप्सु विप्रः ||१३||
उद्दालकस्तं तु तदा निशम्य; सूतेन वादेऽप्सु तथा निमज्जितम् |
उवाच तां तत्र ततः सुजाता; मष्टावक्रे गूहितव्योऽयमर्थः ||१४||
ररक्ष सा चाप्यति तं सुमन्त्रं; जातोऽप्येवं न स शुश्राव विप्रः |
उद्दालकं पितृवच्चापि मेने; अष्टावक्रो भ्रातृवच्छ्वेतकेतुम् ||१५||
ततो वर्षे द्वादशे श्वेतकेतु; रष्टावक्रं पितुरङ्के निसन्नम् |
अपाकर्षद्गृह्य पाणौ रुदन्तं; नायं तवाङ्कः पितुरित्युक्तवांश्च ||१६||
यत्तेनोक्तं दुरुक्तं तत्तदानीं; हृदि स्थितं तस्य सुदुःखमासीत् |
गृहं गत्वा मातरं रोदमानः; पप्रच्छेदं क्व नु तातो ममेति ||१७||
ततः सुजाता परमार्तरूपा; शापाद्भीता सर्वमेवाचचक्षे |
तद्वै तत्त्वं सर्वमाज्ञाय मातु; रित्यब्रवीच्छ्वेतकेतुं स विप्रः ||१८||
गच्छाव यज्ञं जनकस्य राज्ञो; बह्वाश्चर्यः श्रूयते तस्य यज्ञः |
श्रोष्यावोऽत्र ब्राह्मणानां विवाद; मन्नं चाग्र्यं तत्र भोक्ष्यावहे च ||१९||
विचक्षणत्वं च भविष्यते नौ; शिवश्च सौम्यश्च हि ब्रह्मघोषः ||१९||
तौ जग्मतुर्मातुलभागिनेयौ; यज्ञं समृद्धं जनकस्य राज्ञः |
अष्टावक्रः पथि राज्ञा समेत्य; उत्सार्यमाणो वाक्यमिदं जगाद ||२०||
१३३
अष्टावक्र उवाच||
अन्धस्य पन्था बधिरस्य पन्थाः; स्त्रियः पन्था वैवधिकस्य पन्थाः |
राज्ञः पन्था ब्राह्मणेनासमेत्य; समेत्य तु ब्राह्मणस्यैव पन्थाः ||१||
राजोवाच||
पन्था अयं तेऽद्य मया निसृष्टो; येनेच्छसे तेन कामं व्रजस्व |
न पावको विद्यते वै लघीया; निन्द्रोऽपि नित्यं नमते ब्राह्मणानाम् ||२||
अष्टावक्र उवाच||
यज्ञं द्रष्टुं प्राप्तवन्तौ स्व तात; कौतूहलं नौ बलवद्वै विवृद्धम् |
आवां प्राप्तावतिथी सम्प्रवेशं; काङ्क्षावहे द्वारपते तवाज्ञाम् ||३||
ऐन्द्रद्युम्नेर्यज्ञदृशाविहावां; विवक्षू वै जनकेन्द्रं दिदृक्षू |
न वै क्रोधाद्व्याधिनैवोत्तमेन; संयोजय द्वारपाल क्षणेन ||४||
द्वारपाल उवाच||
बन्देः समादेशकरा वयं स्म; निबोध वाक्यं च मयेर्यमाणम् |
न वै बालाः प्रविशन्त्यत्र विप्रा; वृद्धा विद्वांसः प्रविशन्ति द्विजाग्र्याः ||५||
अष्टावक्र उवाच||
यद्यत्र वृद्धेषु कृतः प्रवेशो; युक्तं मम द्वारपाल प्रवेष्टुम् |
वयं हि वृद्धाश्चरितव्रताश्च; वेदप्रभावेन प्रवेशनार्हाः ||६||
शुश्रूषवश्चापि जितेन्द्रियाश्च; ज्ञानागमे चापि गताः स्म निष्ठाम् |
न बाल इत्यवमन्तव्यमाहु; र्बालोऽप्यग्निर्दहति स्पृश्यमानः ||७||
द्वारपाल उवाच||
सरस्वतीमीरय वेदजुष्टा; मेकाक्षरां बहुरूपां विराजम् |
अङ्गात्मानं समवेक्षस्व बालं; किं श्लाघसे दुर्लभा वादसिद्धिः ||८||
अष्टावक्र उवाच||
न ज्ञायते कायवृद्ध्या विवृद्धि; र्यथाष्ठीला शाल्मलेः सम्प्रवृद्धा |
ह्रस्वोऽल्पकायः फलितो विवृद्धो; यश्चाफलस्तस्य न वृद्धभावः ||९||
द्वारपाल उवाच||
वृद्धेभ्य एवेह मतिं स्म बाला; गृह्णन्ति कालेन भवन्ति वृद्धाः |
न हि ज्ञानमल्पकालेन शक्यं; कस्माद्बालो वृद्ध इवावभाषसे ||१०||
अष्टावक्र उवाच||
न तेन स्थविरो भवति येनास्य पलितं शिरः |
बालोऽपि यः प्रजानाति तं देवाः स्थविरं विदुः ||११||
न हायनैर्न पलितैर्न वित्तेन न बन्धुभिः |
ऋषयश्चक्रिरे धर्मं योऽनूचानः स नो महान् ||१२||
दिदृक्षुरस्मि सम्प्राप्तो बन्दिनं राजसंसदि |
निवेदयस्व मां द्वाःस्थ राज्ञे पुष्करमालिने ||१३||
द्रष्टास्यद्य वदतो द्वारपाल; मनीषिभिः सह वादे विवृद्धे |
उताहो वाप्युच्चतां नीचतां वा; तूष्णीं भूतेष्वथ सर्वेषु चाद्य ||१४||
द्वारपाल उवाच||
कथं यज्ञं दशवर्षो विशेस्त्वं; विनीतानां विदुषां सम्प्रवेश्यम् |
उपायतः प्रयतिष्ये तवाहं; प्रवेशने कुरु यत्नं यथावत् ||१५||
अष्टावक्र उवाच||
भो भो राजञ्जनकानां वरिष्ठ; सभाज्यस्त्वं त्वयि सर्वं समृद्धम् |
त्वं वा कर्ता कर्मणां यज्ञियानां; ययातिरेको नृपतिर्वा पुरस्तात् ||१६||
विद्वान्बन्दी वेदविदो निगृह्य; वादे भग्नानप्रतिशङ्कमानः |
त्वया निसृष्टैः पुरुषैराप्तकृद्भि; र्जले सर्वान्मज्जयतीति नः श्रुतम् ||१७||
स तच्छ्रुत्वा ब्राह्मणानां सकाशा; द्ब्रह्मोद्यं वै कथयितुमागतोऽस्मि |
क्वासौ बन्दी यावदेनं समेत्य; नक्षत्राणीव सविता नाशयामि ||१८||
राजोवाच||
आशंससे बन्दिनं त्वं विजेतु; मविज्ञात्वा वाक्यबलं परस्य |
विज्ञातवीर्यैः शक्यमेवं प्रवक्तुं; दृष्टश्चासौ ब्राह्मणैर्वादशीलैः ||१९||
अष्टावक्र उवाच||
विवादितोऽसौ न हि मादृशैर्हि; सिंहीकृतस्तेन वदत्यभीतः |
समेत्य मां निहतः शेष्यतेऽद्य; मार्गे भग्नं शकटमिवाबलाक्षम् ||२०||
राजोवाच||
षण्णाभेर्द्वादशाक्षस्य चतुर्विंशतिपर्वणः |
यस्त्रिषष्टिशतारस्य वेदार्थं स परः कविः ||२१||
अष्टावक्र उवाच||
चतुर्विंशतिपर्व त्वां षण्णाभि द्वादशप्रधि |
तत्त्रिषष्टिशतारं वै चक्रं पातु सदागति ||२२||
राजोवाच||
वडवे इव संयुक्ते श्येनपाते दिवौकसाम् |
कस्तयोर्गर्भमाधत्ते गर्भं सुषुवतुश्च कम् ||२३||
अष्टावक्र उवाच||
मा स्म ते ते गृहे राजञ्शात्रवाणामपि ध्रुवम् |
वातसारथिराधत्ते गर्भं सुषुवतुश्च तम् ||२४||
राजोवाच||
किं स्वित्सुप्तं न निमिषति किं स्विज्जातं न चोपति |
कस्य स्विद्धृदयं नास्ति किं स्विद्वेगेन वर्धते ||२५||
अष्टावक्र उवाच||
मत्स्यः सुप्तो न निमिषत्यण्डं जातं न चोपति |
अश्मनो हृदयं नास्ति नदी वेगेन वर्धते ||२६||
राजोवाच||
न त्वा मन्ये मानुषं देवसत्त्वं; न त्वं बालः स्थविरस्त्वं मतो मे |
न ते तुल्यो विद्यते वाक्प्रलापे; तस्माद्द्वारं वितराम्येष बन्दी ||२७||
१३४
अष्टावक्र उवाच||
अत्रोग्रसेनसमितेषु राज; न्समागतेष्वप्रतिमेषु राजसु |
न वै विवित्सान्तरमस्ति वादिनां; महाजले हंसनिनादिनामिव ||१||
न मेऽद्य वक्ष्यस्यतिवादिमानि; न्ग्लहं प्रपन्नः सरितामिवागमः |
हुताशनस्येव समिद्धतेजसः; स्थिरो भवस्वेह ममाद्य बन्दिन् ||२||
बन्द्युवाच||
व्याघ्रं शयानं प्रति मा प्रबोधय; आशीविषं सृक्किणी लेलिहानम् |
पदाहतस्येव शिरोऽभिहत्य; नादष्टो वै मोक्ष्यसे तन्निबोध ||३||
यो वै दर्पात्संहननोपपन्नः; सुदुर्बलः पर्वतमाविहन्ति |
तस्यैव पाणिः सनखो विशीर्यते; न चैव शैलस्य हि दृश्यते व्रणः ||४||
सर्वे राज्ञो मैथिलस्य मैनाकस्येव पर्वताः |
निकृष्टभूता राजानो वत्सा अनदुहो यथा ||५||
लोमश उवाच||
अष्टावक्रः समितौ गर्जमानो; जातक्रोधो बन्दिनमाह राजन् |
उक्ते वाक्ये चोत्तरं मे ब्रवीहि; वाक्यस्य चाप्युत्तरं ते ब्रवीमि ||६||
बन्द्युवाच||
एक एवाग्निर्बहुधा समिध्यते; एकः सूर्यः सर्वमिदं प्रभासते |
एको वीरो देवराजो निहन्ता; यमः पितॄणामीश्वरश्चैक एव ||७||
अष्टावक्र उवाच||
द्वाविन्द्राग्नी चरतो वै सखायौ; द्वौ देवर्षी नारदः पर्वतश्च |
द्वावश्विनौ द्वे च रथस्य चक्रे; भार्यापती द्वौ विहितौ विधात्रा ||८||
बन्द्युवाच||
त्रिः सूयते कर्मणा वै प्रजेयं; त्रयो युक्ता वाजपेयं वहन्ति |
अध्वर्यवस्त्रिषवणानि तन्वते; त्रयो लोकास्त्रीणि ज्योतींषि चाहुः ||९||
अष्टावक्र उवाच||
चतुष्टयं ब्राह्मणानां निकेतं; चत्वारो युक्ता यज्ञमिमं वहन्ति |
दिशश्चतस्रश्चतुरश्च वर्णा; श्चतुष्पदा गौरपि शश्वदुक्ता ||१०||
बन्द्युवाच||
पञ्चाग्नयः पञ्चपदा च पङ्क्ति; र्यज्ञाः पञ्चैवाप्यथ पञ्चेन्द्रियाणि |
दृष्टा वेदे पञ्चचूडाश्च पञ्च; लोके ख्यातं पञ्चनदं च पुण्यम् ||११||
अष्टावक्र उवाच||
षडाधाने दक्षिणामाहुरेके; षडेवेमे ऋतवः कालचक्रम् |
षडिन्द्रियाण्युत षट्कृत्तिकाश्च; षट्साद्यस्काः सर्ववेदेषु दृष्टाः ||१२||
बन्द्युवाच||
सप्त ग्राम्याः पशवः सप्त वन्याः; सप्त छन्दांसि क्रतुमेकं वहन्ति |
सप्तर्षयः सप्त चाप्यर्हणानि; सप्ततन्त्री प्रथिता चैव वीणा ||१३||
अष्टावक्र उवाच||
अष्टौ शाणाः शतमानं वहन्ति; तथाष्टपादः शरभः सिंहघाती |
अष्टौ वसूञ्शुश्रुम देवतासु; यूपश्चाष्टास्रिर्विहितः सर्वयज्ञः ||१४||
बन्द्युवाच||
नवैवोक्ताः सामिधेन्यः पितॄणां; तथा प्राहुर्नवयोगं विषर्गम् |
नवाक्षरा बृहती सम्प्रदिष्टा; नवयोगो गणनामेति शश्वत् ||१५||
अष्टावक्र उवाच||
दशा दशोक्ताः पुरुषस्य लोके; सहस्रमाहुर्दश पूर्णं शतानि |
दशैव मासान्बिभ्रति गर्भवत्यो; दशेरका दश दाशा दशार्णाः ||१६||
बन्द्युवाच||
एकादशैकादशिनः पशूना; मेकादशैवात्र भवन्ति यूपाः |
एकादश प्राणभृतां विकारा; एकादशोक्ता दिवि देवेषु रुद्राः ||१७||
अष्टावक्र उवाच||
संवत्सरं द्वादश मासमाहु; र्जगत्याः पादो द्वादशैवाक्षराणि |
द्वादशाहः प्राकृतो यज्ञ उक्तो; द्वादशादित्यान्कथयन्तीह विप्राः ||१८||
बन्द्युवाच||
त्रयोदशी तिथिरुक्ता महोग्रा; त्रयोदशद्वीपवती मही च |
लोमश उवाच||
एतावदुक्त्वा विरराम बन्दी; श्लोकस्यार्धं व्याजहाराष्टवक्रः |
त्रयोदशाहानि ससार केशी; त्रयोदशादीन्यतिच्छन्दांसि चाहुः ||२०||
ततो महानुदतिष्ठन्निनाद; स्तूष्णीम्भूतं सूतपुत्रं निशम्य |
अधोमुखं ध्यानपरं तदानी; मष्टावक्रं चाप्युदीर्यन्तमेव ||२१||
तस्मिंस्तथा सङ्कुले वर्तमाने; स्फीते यज्ञे जनकस्याथ राज्ञः |
अष्टावक्रं पूजयन्तोऽभ्युपेयु; र्विप्राः सर्वे प्राञ्जलयः प्रतीताः ||२२||
अष्टावक्र उवाच||
अनेन वै ब्राह्मणाः शुश्रुवांसो; वादे जित्वा सलिले मज्जिताः किल |
तानेव धर्मानयमद्य बन्दी; प्राप्नोतु गृह्याप्सु निमज्जयैनम् ||२३||
बन्द्युवाच||
अहं पुत्रो वरुणस्योत राज्ञ; स्तत्रास सत्रं द्वादशवार्षिकं वै |
सत्रेण ते जनक तुल्यकालं; तदर्थं ते प्रहिता मे द्विजाग्र्याः ||२४||
एते सर्वे वरुणस्योत यज्ञं; द्रष्टुं गता इह आयान्ति भूयः |
अष्टावक्रं पूजये पूजनीयं; यस्य हेतोर्जनितारं समेष्ये ||२५||
अष्टावक्र उवाच||
विप्राः समुद्राम्भसि मज्जितास्ते; वाचा जिता मेधया आविदानाः |
तां मेधया वाचमथोज्जहार; यथा वाचमवचिन्वन्ति सन्तः ||२६||
अग्निर्दहञ्जातवेदाः सतां गृहा; न्विसर्जयंस्तेजसा न स्म धाक्षीत् |
बालेषु पुत्रेषु कृपणं वदत्सु; तथा वाचमवचिन्वन्ति सन्तः ||२७||
श्लेष्मातकी क्षीणवर्चाः शृणोषि; उताहो त्वां स्तुतयो मादयन्ति |
हस्तीव त्वं जनक वितुद्यमानो; न मामिकां वाचमिमां शृणोषि ||२८||
जनक उवाच||
शृणोमि वाचं तव दिव्यरूपा; ममानुषीं दिव्यरूपोऽसि साक्षात् |
अजैषीर्यद्बन्दिनं त्वं विवादे; निसृष्ट एष तव कामोऽद्य बन्दी ||२९||
अष्टावक्र उवाच||
नानेन जीवता कश्चिदर्थो मे बन्दिना नृप |
पिता यद्यस्य वरुणो मज्जयैनं जलाशये ||३०||
बन्द्युवाच||
अहं पुत्रो वरुणस्योत राज्ञो; न मे भयं सलिले मज्जितस्य |
इमं मुहूर्तं पितरं द्रक्ष्यतेऽय; मष्टावक्रश्चिरनष्टं कहोडम् ||३१||
लोमश उवाच||
ततस्ते पूजिता विप्रा वरुणेन महात्मना |
उदतिष्ठन्त ते सर्वे जनकस्य समीपतः ||३२||
कहोड उवाच||
इत्यर्थमिच्छन्ति सुताञ्जना जनक कर्मणा |
यदहं नाशकं कर्तुं तत्पुत्रः कृतवान्मम ||३३||
उताबलस्य बलवानुत बालस्य पण्डितः |
उत वाविदुषो विद्वान्पुत्रो जनक जायते ||३४||
बन्द्युवाच||
शितेन ते परशुना स्वयमेवान्तको नृप |
शिरांस्यपाहरत्वाजौ रिपूणां भद्रमस्तु ते ||३५||
महदुक्थ्यं गीयते साम चाग्र्यं; सम्यक्सोमः पीयते चात्र सत्रे |
शुचीन्भागान्प्रतिजगृहुश्च हृष्टाः; साक्षाद्देवा जनकस्येह यज्ञे ||३६||
लोमश उवाच||
समुत्थितेष्वथ सर्वेषु राज; न्विप्रेषु तेष्वधिकं सुप्रभेषु |
अनुज्ञातो जनकेनाथ राज्ञा; विवेश तोयं सागरस्योत बन्दी ||३७||
अष्टावक्रः पितरं पूजयित्वा; सम्पूजितो ब्राह्मणैस्तैर्यथावत् |
प्रत्याजगामाश्रममेव चाग्र्यं; जित्वा बन्दिं सहितो मातुलेन ||३८||
अत्र कौन्तेय सहितो भ्रातृभिस्त्वं; सुखोषितः सह विप्रैः प्रतीतः |
पुण्यान्यन्यानि शुचिकर्मैकभक्ति; र्मया सार्धं चरितास्याजमीढ ||३९||
यवक्रीतोपाख्यानम्
१३५
लोमश उवाच||
एषा मधुविला राजन्समङ्गा सम्प्रकाशते |
एतत्कर्दमिलं नाम भरतस्याभिषेचनम् ||१||
अलक्ष्म्या किल संयुक्तो वृत्रं हत्वा शचीपतिः |
आप्लुतः सर्वपापेभ्यः समङ्गायां व्यमुच्यत ||२||
एतद्विनशनं कुक्षौ मैनाकस्य नरर्षभ |
अदितिर्यत्र पुत्रार्थं तदन्नमपचत्पुरा ||३||
एनं पर्वतराजानमारुह्य पुरुषर्षभ |
अयशस्यामसंशब्द्यामलक्ष्मीं व्यपनोत्स्यथ ||४||
एते कनखला राजनृषीणां दयिता नगाः |
एषा प्रकाशते गङ्गा युधिष्ठिर महानदी ||५||
सनत्कुमारो भगवानत्र सिद्धिमगात्पराम् |
आजमीढावगाह्यैनां सर्वपापैः प्रमोक्ष्यसे ||६||
अपां ह्रदं च पुण्याख्यं भृगुतुङ्गं च पर्वतम् |
तूष्णीं गङ्गां च कौन्तेय सामात्यः समुपस्पृश ||७||
आश्रमः स्थूलशिरसो रमणीयः प्रकाशते |
अत्र मानं च कौन्तेय क्रोधं चैव विवर्जय ||८||
एष रैभ्याश्रमः श्रीमान्पाण्डवेय प्रकाशते |
भारद्वाजो यत्र कविर्यवक्रीतो व्यनश्यत ||९||
युधिष्ठिर उवाच||
कथंयुक्तोऽभवदृषिर्भरद्वाजः प्रतापवान् |
किमर्थं च यवक्रीत ऋषिपुत्रो व्यनश्यत ||१०||
एतत्सर्वं यथावृत्तं श्रोतुमिच्छामि लोमश |
कर्मभिर्देवकल्पानां कीर्त्यमानैर्भृशं रमे ||११||
लोमश उवाच||
भरद्वाजश्च रैभ्यश्च सखायौ सम्बभूवतुः |
तावूषतुरिहात्यन्तं प्रीयमाणौ वनान्तरे ||१२||
रैभ्यस्य तु सुतावास्तामर्वावसुपरावसू |
आसीद्यवक्रीः पुत्रस्तु भरद्वाजस्य भारत ||१३||
रैभ्यो विद्वान्सहापत्यस्तपस्वी चेतरोऽभवत् |
तयोश्चाप्यतुला प्रीतिर्बाल्यात्प्रभृति भारत ||१४||
यवक्रीः पितरं दृष्ट्वा तपस्विनमसत्कृतम् |
दृष्ट्वा च सत्कृतं विप्रै रैभ्यं पुत्रैः सहानघ ||१५||
पर्यतप्यत तेजस्वी मन्युनाभिपरिप्लुतः |
तपस्तेपे ततो घोरं वेदज्ञानाय पाण्डव ||१६||
सुसमिद्धे महत्यग्नौ शरीरमुपतापयन् |
जनयामास सन्तापमिन्द्रस्य सुमहातपाः ||१७||
तत इन्द्रो यवक्रीतमुपगम्य युधिष्ठिर |
अब्रवीत्कस्य हेतोस्त्वमास्थितस्तप उत्तमम् ||१८||
यवक्रीरुवाच||
द्विजानामनधीता वै वेदाः सुरगणार्चित |
प्रतिभान्त्विति तप्येऽहमिदं परमकं तपः ||१९||
स्वाध्यायार्थे समारम्भो ममायं पाकशासन |
तपसा ज्ञातुमिच्छामि सर्वज्ञानानि कौशिक ||२०||
कालेन महता वेदाः शक्या गुरुमुखाद्विभो |
प्राप्तुं तस्मादयं यत्नः परमो मे समास्थितः ||२१||
इन्द्र उवाच||
अमार्ग एष विप्रर्षे येन त्वं यातुमिच्छसि |
किं विघातेन ते विप्र गच्छाधीहि गुरोर्मुखात् ||२२||
लोमश उवाच||
एवमुक्त्वा गतः शक्रो यवक्रीरपि भारत |
भूय एवाकरोद्यत्नं तपस्यमितविक्रम ||२३||
घोरेण तपसा राजंस्तप्यमानो महातपाः |
सन्तापयामास भृशं देवेन्द्रमिति नः श्रुतम् ||२४||
तं तथा तप्यमानं तु तपस्तीव्रं महामुनिम् |
उपेत्य बलभिद्देवो वारयामास वै पुनः ||२५||
अशक्योऽर्थः समारब्धो नैतद्बुद्धिकृतं तव |
प्रतिभास्यन्ति वै वेदास्तव चैव पितुश्च ते ||२६||
यवक्रीरुवाच||
न चैतदेवं क्रियते देवराज ममेप्सितम् |
महता नियमेनाहं तप्स्ये घोरतरं तपः ||२७||
समिद्धेऽग्नावुपकृत्याङ्गमङ्गं; होष्यामि वा मघवंस्तन्निबोध |
यद्येतदेवं न करोषि कामं; ममेप्सितं देवराजेह सर्वम् ||२८||
लोमश उवाच||
निश्चयं तमभिज्ञाय मुनेस्तस्य महात्मनः |
प्रतिवारणहेत्वर्थं बुद्ध्या सञ्चिन्त्य बुद्धिमान् ||२९||
तत इन्द्रोऽकरोद्रूपं ब्राह्मणस्य तपस्विनः |
अनेकशतवर्षस्य दुर्बलस्य सयक्ष्मणः ||३०||
यवक्रीतस्य यत्तीर्थमुचितं शौचकर्मणि |
भागीरथ्यां तत्र सेतुं वालुकाभिश्चकार सः ||३१||
यदास्य वदतो वाक्यं न स चक्रे द्विजोत्तमः |
वालुकाभिस्ततः शक्रो गङ्गां समभिपूरयन् ||३२||
वालुकामुष्टिमनिशं भागीरथ्यां व्यसर्जयत् |
सेतुमभ्यारभच्छक्रो यवक्रीतं निदर्शयन् ||३३||
तं ददर्श यवक्रीस्तु यत्नवन्तं निबन्धने |
प्रहसंश्चाब्रवीद्वाक्यमिदं स मुनिपुङ्गवः ||३४||
किमिदं वर्तते ब्रह्मन्किं च ते ह चिकीर्षितम् |
अतीव हि महान्यत्नः क्रियतेऽयं निरर्थकः ||३५||
इन्द्र उवाच||
बन्धिष्ये सेतुना गङ्गां सुखः पन्था भविष्यति |
क्लिश्यते हि जनस्तात तरमाणः पुनः पुनः ||३६||
यवक्रीरुवाच||
नायं शक्यस्त्वया बद्धुं महानोघः कथञ्चन |
अशक्याद्विनिवर्तस्व शक्यमर्थं समारभ ||३७||
इन्द्र उवाच||
यथैव भवता चेदं तपो वेदार्थमुद्यतम् |
अशक्यं तद्वदस्माभिरयं भारः समुद्यतः ||३८||
यवक्रीरुवाच||
यथा तव निरर्थोऽयमारम्भस्त्रिदशेश्वर |
तथा यदि ममापीदं मन्यसे पाकशासन ||३९||
क्रियतां यद्भवेच्छक्यं मया सुरगणेश्वर |
वरांश्च मे प्रयच्छान्यान्यैरन्यान्भवितास्म्यति ||४०||
लोमश उवाच||
तस्मै प्रादाद्वरानिन्द्र उक्तवान्यान्महातपाः |
प्रतिभास्यन्ति ते वेदाः पित्रा सह यथेप्सिताः ||४१||
यच्चान्यत्काङ्क्षसे कामं यवक्रीर्गम्यतामिति |
स लब्धकामः पितरमुपेत्याथ ततोऽब्रवीत् ||४२||
१३६
यवक्रीरुवाच||
प्रतिभास्यन्ति वै वेदा मम तातस्य चोभयोः |
अति चान्यान्भविष्यावो वरा लब्धास्तथा मया ||१||
भरद्वाज उवाच||
दर्पस्ते भविता तात वराँल्लब्ध्वा यथेप्सितान् |
स दर्पपूर्णः कृपणः क्षिप्रमेव विनश्यसि ||२||
अत्राप्युदाहरन्तीमा गाथा देवैरुदाहृताः |
ऋषिरासीत्पुरा पुत्र बालधिर्नाम वीर्यवान् ||३||
स पुत्रशोकादुद्विग्नस्तपस्तेपे सुदुश्चरम् |
भवेन्मम सुतोऽमर्त्य इति तं लब्धवांश्च सः ||४||
तस्य प्रसादो देवैश्च कृतो न त्वमरैः समः |
नामर्त्यो विद्यते मर्त्यो निमित्तायुर्भविष्यति ||५||
बालधिरुवाच||
यथेमे पर्वताः शश्वत्तिष्ठन्ति सुरसत्तमाः |
अक्षयास्तन्निमित्तं मे सुतस्यायुर्भवेदिति ||६||
भरद्वाज उवाच||
तस्य पुत्रस्तदा जज्ञे मेधावी क्रोधनः सदा |
स तच्छ्रुत्वाकरोद्दर्पमृषींश्चैवावमन्यत ||७||
विकुर्वाणो मुनीनां तु चरमाणो महीमिमाम् |
आससाद महावीर्यं धनुषाक्षं मनीषिणम् ||८||
तस्यापचक्रे मेधावी तं शशाप स वीर्यवान् |
भव भस्मेति चोक्तः स न भस्म समपद्यत ||९||
धनुषाक्षस्तु तं दृष्ट्वा मेधाविनमनामयम् |
निमित्तमस्य महिषैर्भेदयामास वीर्यवान् ||१०||
स निमित्ते विनष्टे तु ममार सहसा शिशुः |
तं मृतं पुत्रमादाय विललाप ततः पिता ||११||
लालप्यमानं तं दृष्ट्वा मुनयः पुनरार्तवत् |
ऊचुर्वेदोक्तया पूर्वं गाथया तन्निबोध मे ||१२||
न दिष्टमर्थमत्येतुमीशो मर्त्यः कथञ्चन |
महिषैर्भेदयामास धनुषाक्षो महीधरान् ||१३||
एवं लब्ध्वा वरान्बाला दर्पपूर्णास्तरस्विनः |
क्षिप्रमेव विनश्यन्ति यथा न स्यात्तथा भवान् ||१४||
एष रैभ्यो महावीर्यः पुत्रौ चास्य तथाविधौ |
तं यथा पुत्र नाभ्येषि तथा कुर्यास्त्वतन्द्रितः ||१५||
स हि क्रुद्धः समर्थस्त्वां पुत्र पीडयितुं रुषा |
वैद्यश्चापि तपस्वी च कोपनश्च महानृषिः ||१६||
यवक्रीरुवाच||
एवं करिष्ये मा तापं तात कार्षीः कथञ्चन |
यथा हि मे भवान्मान्यस्तथा रैभ्यः पिता मम ||१७||
लोमश उवाच||
उक्त्वा स पितरं श्लक्ष्णं यवक्रीरकुतोभयः |
विप्रकुर्वन्नृषीनन्यानतुष्यत्परया मुदा ||१८||
१३७
लोमश उवाच||
चङ्क्रम्यमाणः स तदा यवक्रीरकुतोभयः |
जगाम माधवे मासि रैभ्याश्रमपदं प्रति ||१||
स ददर्शाश्रमे पुण्ये पुष्पितद्रुमभूषिते |
विचरन्तीं स्नुषां तस्य किंनरीमिव भारत ||२||
यवक्रीस्तामुवाचेदमुपतिष्ठस्व मामिति |
निर्लज्जो लज्जया युक्तां कामेन हृतचेतनः ||३||
सा तस्य शीलमाज्ञाय तस्माच्छापाच्च बिभ्यती |
तेजस्वितां च रैभ्यस्य तथेत्युक्त्वा जगाम सा ||४||
तत एकान्तमुन्नीय मज्जयामास भारत |
आजगाम तदा रैभ्यः स्वमाश्रममरिंदम ||५||
रुदन्तीं च स्नुषां दृष्ट्वा भार्यामार्तां परावसोः |
सान्त्वयञ्श्लक्ष्णया वाचा पर्यपृच्छद्युधिष्ठिर ||६||
सा तस्मै सर्वमाचष्ट यवक्रीभाषितं शुभा |
प्रत्युक्तं च यवक्रीतं प्रेक्षापूर्वं तदात्मना ||७||
शृण्वानस्यैव रैभ्यस्य यवक्रीतविचेष्टितम् |
दहन्निव तदा चेतः क्रोधः समभवन्महान् ||८||
स तदा मन्युनाविष्टस्तपस्वी भृशकोपनः |
अवलुप्य जटामेकां जुहावाग्नौ सुसंस्कृते ||९||
ततः समभवन्नारी तस्या रूपेण संमिता |
अवलुप्यापरां चाथ जुहावाग्नौ जटां पुनः ||१०||
ततः समभवद्रक्षो घोराक्षं भीमदर्शनम् |
अब्रूतां तौ तदा रैभ्यं किं कार्यं करवामहे ||११||
तावब्रवीदृषिः क्रुद्धो यवक्रीर्वध्यतामिति |
जग्मतुस्तौ तथेत्युक्त्वा यवक्रीतजिघांसया ||१२||
ततस्तं समुपास्थाय कृत्या सृष्टा महात्मना |
कमण्डलुं जहारास्य मोहयित्वा तु भारत ||१३||
उच्चिष्टं तु यवक्रीतमपकृष्टकमण्डलुम् |
तत उद्यतशूलः स राक्षसः समुपाद्रवत् ||१४||
तमापतन्तं सम्प्रेक्ष्य शूलहस्तं जिघांसया |
यवक्रीः सहसोत्थाय प्राद्रवद्येन वै सरः ||१५||
जलहीनं सरो दृष्ट्वा यवक्रीस्त्वरितः पुनः |
जगाम सरितः सर्वास्ताश्चाप्यासन्विशोषिताः ||१६||
स काल्यमानो घोरेण शूलहस्तेन रक्षसा |
अग्निहोत्रं पितुर्भीतः सहसा समुपाद्रवत् ||१७||
स वै प्रविशमानस्तु शूद्रेणान्धेन रक्षिणा |
निगृहीतो बलाद्द्वारि सोऽवातिष्ठत पार्थिव ||१८||
निगृहीतं तु शूद्रेण यवक्रीतं स राक्षसः |
ताडयामास शूलेन स भिन्नहृदयोऽपतत् ||१९||
यवक्रीतं स हत्वा तु राक्षसो रैभ्यमागमत् |
अनुज्ञातस्तु रैभ्येण तया नार्या सहाचरत् ||२०||
१३८
लोमश उवाच||
भरद्वाजस्तु कौन्तेय कृत्वा स्वाध्यायमाह्निकम् |
समित्कलापमादाय प्रविवेश स्वमाश्रमम् ||१||
तं स्म दृष्ट्वा पुरा सर्वे प्रत्युत्तिष्ठन्ति पावकाः |
न त्वेनमुपतिष्ठन्ति हतपुत्रं तदाग्नयः ||२||
वैकृतं त्वग्निहोत्रे स लक्षयित्वा महातपाः |
तमन्धं शूद्रमासीनं गृहपालमथाब्रवीत् ||३||
किं नु मे नाग्नयः शूद्र प्रतिनन्दन्ति दर्शनम् |
त्वं चापि न यथापूर्वं कच्चित्क्षेममिहाश्रमे ||४||
कच्चिन्न रैभ्यं पुत्रो मे गतवानल्पचेतनः |
एतदाचक्ष्व मे शीघ्रं न हि मे शुध्यते मनः ||५||
शूद्र उवाच||
रैभ्यं गतो नूनमसौ सुतस्ते मन्दचेतनः |
तथा हि निहतः शेते राक्षसेन बलीयसा ||६||
प्रकाल्यमानस्तेनायं शूलहस्तेन रक्षसा |
अग्न्यागारं प्रति द्वारि मया दोर्भ्यां निवारितः ||७||
ततः स निहतो ह्यत्र जलकामोऽशुचिर्ध्रुवम् |
सम्भावितो हि तूर्णेन शूलहस्तेन रक्षसा ||८||
लोमश उवाच||
भरद्वाजस्तु शूद्रस्य तच्छ्रुत्वा विप्रियं वचः |
गतासुं पुत्रमादाय विललाप सुदुःखितः ||९||
ब्राह्मणानां किलार्थाय ननु त्वं तप्तवांस्तपः |
द्विजानामनधीता वै वेदाः सम्प्रतिभान्त्विति ||१०||
तथा कल्याणशीलस्त्वं ब्राह्मणेषु महात्मसु |
अनागाः सर्वभूतेषु कर्कशत्वमुपेयिवान् ||११||
प्रतिषिद्धो मया तात रैभ्यावसथदर्शनात् |
गतवानेव तं क्षुद्रं कालान्तकयमोपमम् ||१२||
यः स जानन्महातेजा वृद्धस्यैकं ममात्मजम् |
गतवानेव कोपस्य वशं परमदुर्मतिः ||१३||
पुत्रशोकमनुप्राप्य एष रैभ्यस्य कर्मणा |
त्यक्ष्यामि त्वामृते पुत्र प्राणानिष्टतमान्भुवि ||१४||
यथाहं पुत्रशोकेन देहं त्यक्ष्यामि किल्बिषी |
तथा ज्येष्ठः सुतो रैभ्यं हिंस्याच्छीघ्रमनागसम् ||१५||
सुखिनो वै नरा येषां जात्या पुत्रो न विद्यते |
ते पुत्रशोकमप्राप्य विचरन्ति यथासुखम् ||१६||
ये तु पुत्रकृताच्छोकाद्भृशं व्याकुलचेतसः |
शपन्तीष्टान्सखीनार्तास्तेभ्यः पापतरो नु कः ||१७||
परासुश्च सुतो दृष्टः शप्तश्चेष्टः सखा मया |
ईदृशीमापदं को नु द्वितीयोऽनुभविष्यति ||१८||
विलप्यैवं बहुविधं भरद्वाजोऽदहत्सुतम् |
सुसमिद्धं ततः पश्चात्प्रविवेश हुताशनम् ||१९||
१३९
लोमश उवाच||
एतस्मिन्नेव काले तु बृहद्द्युम्नो महीपतिः |
सत्रमास्ते महाभागो रैभ्ययाज्यः प्रतापवान् ||१||
तेन रैभ्यस्य वै पुत्रावर्वावसुपरावसू |
वृतौ सहायौ सत्रार्थे बृहद्द्युम्नेन धीमता ||२||
तत्र तौ समनुज्ञातौ पित्रा कौन्तेय जग्मतुः |
आश्रमे त्वभवद्रैभ्यो भार्या चैव परावसोः ||३||
अथावलोककोऽगच्छद्गृहानेकः परावसुः |
कृष्णाजिनेन संवीतं ददर्श पितरं वने ||४||
जघन्यरात्रे निद्रान्धः सावशेषे तमस्यपि |
चरन्तं गहनेऽरण्ये मेने स पितरं मृगम् ||५||
मृगं तु मन्यमानेन पिता वै तेन हिंसितः |
अकामयानेन तदा शरीरत्राणमिच्छता ||६||
स तस्य प्रेतकार्याणि कृत्वा सर्वाणि भारत |
पुनरागम्य तत्सत्रमब्रवीद्भ्रातरं वचः ||७||
इदं कर्म न शक्तस्त्वं वोढुमेकः कथञ्चन |
मया तु हिंसितस्तातो मन्यमानेन तं मृगम् ||८||
सोऽस्मदर्थे व्रतं साधु चर त्वं ब्रह्महिंसनम् |
समर्थो ह्यहमेकाकी कर्म कर्तुमिदं मुने ||९||
अर्वावसुरुवाच||
करोतु वै भवान्सत्रं बृहद्द्युम्नस्य धीमतः |
ब्रह्महत्यां चरिष्येऽहं त्वदर्थं नियतेन्द्रियः ||१०||
लोमश उवाच||
स तस्या ब्रह्महत्यायाः पारं गत्वा युधिष्ठिर |
अर्वावसुस्तदा सत्रमाजगाम पुनर्मुनिः ||११||
ततः परावसुर्दृष्ट्वा भ्रातरं समुपस्थितम् |
बृहद्द्युम्नमुवाचेदं वचनं परिषद्गतम् ||१२||
एष ते ब्रह्महा यज्ञं मा द्रष्टुं प्रविशेदिति |
ब्रह्महा प्रेक्षितेनापि पीडयेत्त्वां न संशयः ||१३||
प्रेष्यैरुत्सार्यमाणस्तु राजन्नर्वावसुस्तदा |
न मया ब्रह्महत्येयं कृतेत्याह पुनः पुनः ||१४||
उच्यमानोऽसकृत्प्रेष्यैर्ब्रह्महन्निति भारत |
नैव स प्रतिजानाति ब्रह्महत्यां स्वयं कृताम् ||१५||
मम भ्रात्रा कृतमिदं मया तु परिरक्षितम् ||१५||
प्रीतास्तस्याभवन्देवाः कर्मणार्वावसोर्नृप |
तं ते प्रवरयामासुर्निरासुश्च परावसुम् ||१६||
ततो देवा वरं तस्मै ददुरग्निपुरोगमाः |
स चापि वरयामास पितुरुत्थानमात्मनः ||१७||
अनागस्त्वं तथा भ्रातुः पितुश्चास्मरणं वधे |
भरद्वाजस्य चोत्थानं यवक्रीतस्य चोभयोः ||१८||
ततः प्रादुर्बभूवुस्ते सर्व एव युधिष्ठिर |
अथाब्रवीद्यवक्रीतो देवानग्निपुरोगमान् ||१९||
समधीतं मया ब्रह्म व्रतानि चरितानि च |
कथं नु रैभ्यः शक्तो मामधीयानं तपस्विनम् ||२०||
तथायुक्तेन विधिना निहन्तुममरोत्तमाः ||२०||
देवा ऊचुः||
मैवं कृथा यवक्रीत यथा वदसि वै मुने |
ऋते गुरुमधीता हि सुखं वेदास्त्वया पुरा ||२१||
अनेन तु गुरून्दुःखात्तोषयित्वा स्वकर्मणा |
कालेन महता क्लेशाद्ब्रह्माधिगतमुत्तमम् ||२२||
लोमश उवाच||
यवक्रीतमथोक्त्वैवं देवाः साग्निपुरोगमाः |
सञ्जीवयित्वा तान्सर्वान्पुनर्जग्मुस्त्रिविष्टपम् ||२३||
आश्रमस्तस्य पुण्योऽयं सदापुष्पफलद्रुमः |
अत्रोष्य राजशार्दूल सर्वपापैः प्रमोक्ष्यसे ||२४||
१४०
लोमश उवाच||
उशीरबीजं मैनाकं गिरिं श्वेतं च भारत |
समतीतोऽसि कौन्तेय कालशैलं च पार्थिव ||१||
एषा गङ्गा सप्तविधा राजते भरतर्षभ |
स्थानं विरजसं रम्यं यत्राग्निर्नित्यमिध्यते ||२||
एतद्वै मानुषेणाद्य न शक्यं द्रष्टुमप्युत |
समाधिं कुरुताव्यग्रास्तीर्थान्येतानि द्रक्ष्यथ ||३||
श्वेतं गिरिं प्रवेक्ष्यामो मन्दरं चैव पर्वतम् |
यत्र माणिचरो यक्षः कुबेरश्चापि यक्षराट् ||४||
अष्टाशीतिसहस्राणि गन्धर्वाः शीघ्रचारिणः |
तथा किम्पुरुषा राजन्यक्षाश्चैव चतुर्गुणाः ||५||
अनेकरूपसंस्थाना नानाप्रहरणाश्च ते |
यक्षेन्द्रं मनुजश्रेष्ठ माणिभद्रमुपासते ||६||
तेषामृद्धिरतीवाग्र्या गतौ वायुसमाश्च ते |
स्थानात्प्रच्यावयेयुर्ये देवराजमपि ध्रुवम् ||७||
तैस्तात बलिभिर्गुप्ता यातुधानैश्च रक्षिताः |
दुर्गमाः पर्वताः पार्थ समाधिं परमं कुरु ||८||
कुबेरसचिवाश्चान्ये रौद्रा मैत्राश्च राक्षसाः |
तैः समेष्याम कौन्तेय यत्तो विक्रमणे भव ||९||
कैलासः पर्वतो राजन्षड्योजनशतान्युत |
यत्र देवाः समायान्ति विशाला यत्र भारत ||१०||
असङ्ख्येयास्तु कौन्तेय यक्षराक्षसकिंनराः |
नागाः सुपर्णा गन्धर्वाः कुबेरसदनं प्रति ||११||
तान्विगाहस्व पार्थाद्य तपसा च दमेन च |
रक्ष्यमाणो मया राजन्भीमसेनबलेन च ||१२||
स्वस्ति ते वरुणो राजा यमश्च समितिञ्जयः |
गङ्गा च यमुना चैव पर्वतश्च दधातु ते ||१३||
इन्द्रस्य जाम्बूनदपर्वताग्रे; शृणोमि घोषं तव देवि गङ्गे |
गोपाययेमं सुभगे गिरिभ्यः; सर्वाजमीढापचितं नरेन्द्रम् ||१४||
भवस्व शर्म प्रविविक्षतोऽस्य; शैलानिमाञ्शैलसुते नृपस्य ||१४||
युधिष्ठिर उवाच||
अपूर्वोऽयं सम्भ्रमो लोमशस्य; कृष्णां सर्वे रक्षत मा प्रमादम् |
देशो ह्ययं दुर्गतमो मतोऽस्य; तस्मात्परं शौचमिहाचरध्वम् ||१५||
वैशम्पायन उवाच||
ततोऽब्रवीद्भीममुदारवीर्यं; कृष्णां यत्तः पालय भीमसेन |
शून्येऽर्जुनेऽसंनिहिते च तात; त्वमेव कृष्णां भजसेऽसुखेषु ||१६||
ततो महात्मा यमजौ समेत्य; मूर्धन्युपाघ्राय विमृज्य गात्रे |
उवाच तौ बाष्पकलं स राजा; मा भैष्टमागच्छतमप्रमत्तौ ||१७||
१४१
युधिष्ठिर उवाच||
अन्तर्हितानि भूतानि रक्षांसि बलवन्ति च |
अग्निना तपसा चैव शक्यं गन्तुं वृकोदर ||१||
संनिवर्तय कौन्तेय क्षुत्पिपासे बलान्वयात् |
ततो बलं च दाक्ष्यं च संश्रयस्व कुरूद्वह ||२||
ऋषेस्त्वया श्रुतं वाक्यं कैलासं पर्वतं प्रति |
बुद्ध्या प्रपश्य कौन्तेय कथं कृष्णा गमिष्यति ||३||
अथ वा सहदेवेन धौम्येन च सहाभिभो |
सूदैः पौरोगवैश्चैव सर्वैश्च परिचारकैः ||४||
रथैरश्वैश्च ये चान्ये विप्राः क्लेशासहाः पथि |
सर्वैस्त्वं सहितो भीम निवर्तस्वायतेक्षण ||५||
त्रयो वयं गमिष्यामो लघ्वाहारा यतव्रताः |
अहं च नकुलश्चैव लोमशश्च महातपाः ||६||
ममागमनमाकाङ्क्षन्गङ्गाद्वारे समाहितः |
वसेह द्रौपदीं रक्षन्यावदागमनं मम ||७||
भीम उवाच||
राजपुत्री श्रमेणार्ता दुःखार्ता चैव भारत |
व्रजत्येव हि कल्याणी श्वेतवाहदिदृक्षया ||८||
तव चाप्यरतिस्तीव्रा वर्धते तमपश्यतः |
किं पुनः सहदेवं च मां च कृष्णां च भारत ||९||
रथाः कामं निवर्तन्तां सर्वे च परिचारकाः |
सूदाः पौरोगवाश्चैव मन्यते यत्र नो भवान् ||१०||
न ह्यहं हातुमिच्छामि भवन्तमिह कर्हिचित् |
शैलेऽस्मिन्राक्षसाकीर्णे दुर्गेषु विषमेषु च ||११||
इयं चापि महाभागा राजपुत्री यतव्रता |
त्वामृते पुरुषव्याघ्र नोत्सहेद्विनिवर्तितुम् ||१२||
तथैव सहदेवोऽयं सततं त्वामनुव्रतः |
न जातु विनिवर्तेत मतज्ञो ह्यहमस्य वै ||१३||
अपि चात्र महाराज सव्यसाचिदिदृक्षया |
सर्वे लालसभूताः स्म तस्माद्यास्यामहे सह ||१४||
यद्यशक्यो रथैर्गन्तुं शैलोऽयं बहुकन्दरः |
पद्भिरेव गमिष्यामो मा राजन्विमना भव ||१५||
अहं वहिष्ये पाञ्चालीं यत्र यत्र न शक्ष्यति |
इति मे वर्तते बुद्धिर्मा राजन्विमना भव ||१६||
सुकुमारौ तथा वीरौ माद्रीनन्दिकरावुभौ |
दुर्गे सन्तारयिष्यामि यद्यशक्तौ भविष्यतः ||१७||
युधिष्ठिर उवाच||
एवं ते भाषमाणस्य बलं भीमाभिवर्धताम् |
यस्त्वमुत्सहसे वोढुं द्रौपदीं विपुलेऽध्वनि ||१८||
यमजौ चापि भद्रं ते नैतदन्यत्र विद्यते |
बलं च ते यशश्चैव धर्मः कीर्तिश्च वर्धताम् ||१९||
यस्त्वमुत्सहसे नेतुं भ्रातरौ सह कृष्णया |
मा ते ग्लानिर्महाबाहो मा च तेऽस्तु पराभवः ||२०||
वैशम्पायन उवाच||
ततः कृष्णाब्रवीद्वाक्यं प्रहसन्ती मनोरमा |
गमिष्यामि न सन्तापः कार्यो मां प्रति भारत ||२१||
लोमश उवाच||
तपसा शक्यते गन्तुं पर्वतो गन्धमादनः |
तपसा चैव कौन्तेय सर्वे योक्ष्यामहे वयम् ||२२||
नकुलः सहदेवश्च भीमसेनश्च पार्थिव |
अहं च त्वं च कौन्तेय द्रक्ष्यामः श्वेतवाहनम् ||२३||
वैशम्पायन उवाच||
एवं सम्भाषमाणास्ते सुबाहोर्विषयं महत् |
ददृशुर्मुदिता राजन्प्रभूतगजवाजिमत् ||२४||
किराततङ्गणाकीर्णं कुणिन्दशतसङ्कुलम् |
हिमवत्यमरैर्जुष्टं बह्वाश्चर्यसमाकुलम् ||२५||
सुबाहुश्चापि तान्दृष्ट्वा पूजया प्रत्यगृह्णत |
विषयान्ते कुणिन्दानामीश्वरः प्रीतिपूर्वकम् ||२६||
तत्र ते पूजितास्तेन सर्व एव सुखोषिताः |
प्रतस्थुर्विमले सूर्ये हिमवन्तं गिरिं प्रति ||२७||
इन्द्रसेनमुखांश्चैव भृत्यान्पौरोगवांस्तथा |
सूदांश्च परिबर्हं च द्रौपद्याः सर्वशो नृप ||२८||
राज्ञः कुणिन्दाधिपतेः परिदाय महारथाः |
पद्भिरेव महावीर्या ययुः कौरवनन्दनाः ||२९||
ते शनैः प्राद्रवन्सर्वे कृष्णया सह पाण्डवाः |
तस्माद्देशात्सुसंहृष्टा द्रष्टुकामा धनञ्जयम् ||३०||
१४२
युधिष्ठिर उवाच||
भीमसेन यमौ चोभौ पाञ्चालि च निबोधत |
नास्ति भूतस्य नाशो वै पश्यतास्मान्वनेचरान् ||१||
दुर्बलाः क्लेशिताः स्मेति यद्ब्रवीथेतरेतरम् |
अशक्येऽपि व्रजामेति धनञ्जयदिदृक्षया ||२||
तन्मे दहति गात्राणि तूलराशिमिवानलः |
यच्च वीरं न पश्यामि धनञ्जयमुपान्तिके ||३||
तस्य दर्शनतृष्णं मां सानुजं वनमास्थितम् |
याज्ञसेन्याः परामर्शः स च वीर दहत्युत ||४||
नकुलात्पूर्वजं पार्थं न पश्याम्यमितौजसम् |
अजेयमुग्रधन्वानं तेन तप्ये वृकोदर ||५||
तीर्थानि चैव रम्याणि वनानि च सरांसि च |
चरामि सह युष्माभिस्तस्य दर्शनकाङ्क्षया ||६||
पञ्च वर्षाण्यहं वीरं सत्यसन्धं धनञ्जयम् |
यन्न पश्यामि बीभत्सुं तेन तप्ये वृकोदर ||७||
तं वै श्यामं गुडाकेशं सिंहविक्रान्तगामिनम् |
न पश्यामि महाबाहुं तेन तप्ये वृकोदर ||८||
कृतास्त्रं निपुणं युद्धे प्रतिमानं धनुष्मताम् |
न पश्यामि नरश्रेष्ठं तेन तप्ये वृकोदर ||९||
चरन्तमरिसङ्घेषु कालं क्रुद्धमिवान्तकम् |
प्रभिन्नमिव मातङ्गं सिंहस्कन्धं धनञ्जयम् ||१०||
यः स शक्रादनवरो वीर्येण द्रविणेन च |
यमयोः पूर्वजः पार्थः श्वेताश्वोऽमितविक्रमः ||११||
दुःखेन महताविष्टः स्वकृतेनानिवर्तिना |
अजेयमुग्रधन्वानं तं न पश्यामि फल्गुनम् ||१२||
सततं यः क्षमाशीलः क्षिप्यमाणोऽप्यणीयसा |
ऋजुमार्गप्रपन्नस्य शर्मदाताभयस्य च ||१३||
स तु जिह्मप्रवृत्तस्य माययाभिजिघांसतः |
अपि वज्रधरस्यापि भवेत्कालविषोपमः ||१४||
शत्रोरपि प्रपन्नस्य सोऽनृशंसः प्रतापवान् |
दाताभयस्य बीभत्सुरमितात्मा महाबलः ||१५||
सर्वेषामाश्रयोऽस्माकं रणेऽरीणां प्रमर्दिता |
आहर्ता सर्वरत्नानां सर्वेषां नः सुखावहः ||१६||
रत्नानि यस्य वीर्येण दिव्यान्यासन्पुरा मम |
बहूनि बहुजातानि यानि प्राप्तः सुयोधनः ||१७||
यस्य बाहुबलाद्वीर सभा चासीत्पुरा मम |
सर्वरत्नमयी ख्याता त्रिषु लोकेषु पाण्डव ||१८||
वासुदेवसमं वीर्ये कार्तवीर्यसमं युधि |
अजेयमजितं युद्धे तं न पश्यामि फल्गुनम् ||१९||
सङ्कर्षणं महावीर्यं त्वां च भीमापराजितम् |
अनुजातः स वीर्येण वासुदेवं च शत्रुहा ||२०||
यस्य बाहुबले तुल्यः प्रभावे च पुरंदरः |
जवे वायुर्मुखे सोमः क्रोधे मृत्युः सनातनः ||२१||
ते वयं तं नरव्याघ्रं सर्वे वीर दिदृक्षवः |
प्रवेक्ष्यामो महाबाहो पर्वतं गन्धमादनम् ||२२||
विशाला बदरी यत्र नरनारायणाश्रमः |
तं सदाध्युषितं यक्षैर्द्रक्ष्यामो गिरिमुत्तमम् ||२३||
कुबेरनलिनीं रम्यां राक्षसैरभिरक्षिताम् |
पद्भिरेव गमिष्यामस्तप्यमाना महत्तपः ||२४||
नातप्ततपसा शक्यो देशो गन्तुं वृकोदर |
न नृशंसेन लुब्धेन नाप्रशान्तेन भारत ||२५||
तत्र सर्वे गमिष्यामो भीमार्जुनपदैषिणः |
सायुधा बद्धनिस्त्रिंशाः सह विप्रैर्महाव्रतैः ||२६||
मक्षिकान्मशकान्दंशान्व्याघ्रान्सिंहान्सरीसृपान् |
प्राप्नोत्यनियतः पार्थ नियतस्तान्न पश्यति ||२७||
ते वयं नियतात्मानः पर्वतं गन्धमादनम् |
प्रवेक्ष्यामो मिताहारा धनञ्जयदिदृक्षवः ||२८||
१४३
वैशम्पायन उवाच||
ते शूरास्ततधन्वानस्तूणवन्तः समार्गणाः |
बद्धगोधाङ्गुलित्राणाः खद्गवन्तोऽमितौजसः ||१||
परिगृह्य द्विजश्रेष्ठाञ्श्रेष्ठाः सर्वधनुष्मताम् |
पाञ्चालीसहिता राजन्प्रययुर्गन्धमादनम् ||२||
सरांसि सरितश्चैव पर्वतांश्च वनानि च |
वृक्षांश्च बहुलच्छायान्ददृशुर्गिरिमूर्धनि ||३||
नित्यपुष्पफलान्देशान्देवर्षिगणसेवितान् ||३||
आत्मन्यात्मानमाधाय वीरा मूलफलाशनाः |
चेरुरुच्चावचाकारान्देशान्विषमसङ्कटान् ||४||
पश्यन्तो मृगजातानि बहूनि विविधानि च ||४||
ऋषिसिद्धामरयुतं गन्धर्वाप्सरसां प्रियम् |
विविशुस्ते महात्मानः किंनराचरितं गिरिम् ||५||
प्रविशत्स्वथ वीरेषु पर्वतं गन्धमादनम् |
चण्डवातं महद्वर्षं प्रादुरासीद्विशां पते ||६||
ततो रेणुः समुद्भूतः सपत्रबहुलो महान् |
पृथिवीं चान्तरिक्षं च द्यां चैव तमसावृणोत् ||७||
न स्म प्रज्ञायते किञ्चिदावृते व्योम्नि रेणुना |
न चापि शेकुस्ते कर्तुमन्योन्यस्याभिभाषणम् ||८||
न चापश्यन्त तेऽन्योन्यं तमसा हतचक्षुषः |
आकृष्यमाणा वातेन साश्मचूर्णेन भारत ||९||
द्रुमाणां वातभग्नानां पततां भूतले भृशम् |
अन्येषां च महीजानां शब्दः समभवन्महान् ||१०||
द्यौः स्वित्पतति किं भूमौ दीर्यन्ते पर्वता नु किम् |
इति ते मेनिरे सर्वे पवनेन विमोहिताः ||११||
ते यथानन्तरान्वृक्षान्वल्मीकान्विषमाणि च |
पाणिभिः परिमार्गन्तो भीता वायोर्निलिल्यिरे ||१२||
ततः कार्मुकमुद्यम्य भीमसेनो महाबलः |
कृष्णामादाय सङ्गत्या तस्थावाश्रित्य पादपम् ||१३||
धर्मराजश्च धौम्यश्च निलिल्याते महावने |
अग्निहोत्राण्युपादाय सहदेवस्तु पर्वते ||१४||
नकुलो ब्राह्मणाश्चान्ये लोमशश्च महातपाः |
वृक्षानासाद्य सन्त्रस्तास्तत्र तत्र निलिल्यिरे ||१५||
मन्दीभूते च पवने तस्मिन्रजसि शाम्यति |
महद्भिः पृषतैस्तूर्णं वर्षमभ्याजगाम ह ||१६||
ततोऽश्मसहिता धाराः संवृण्वन्त्यः समन्ततः |
प्रपेतुरनिशं तत्र शीघ्रवातसमीरिताः ||१७||
ततः सागरगा आपः कीर्यमाणाः समन्ततः |
प्रादुरासन्सकलुसाः फेनवत्यो विशां पते ||१८||
वहन्त्यो वारि बहुलं फेनोडुपपरिप्लुतम् |
परिसस्रुर्महाशब्दाः प्रकर्षन्त्यो महीरुहान् ||१९||
तस्मिन्नुपरते वर्षे वाते च समतां गते |
गते ह्यम्भसि निम्नानि प्रादुर्भूते दिवाकरे ||२०||
निर्जग्मुस्ते शनैः सर्वे समाजग्मुश्च भारत |
प्रतस्थुश्च पुनर्वीराः पर्वतं गन्धमादनम् ||२१||
१४४
वैशम्पायन उवाच||
ततः प्रयातमात्रेषु पाण्डवेषु महात्मसु |
पद्भ्यामनुचिता गन्तुं द्रौपदी समुपाविशत् ||१||
श्रान्ता दुःखपरीता च वातवर्षेण तेन च |
सौकुमार्याच्च पाञ्चाली संमुमोह यशस्विनी ||२||
सा पात्यमाना मोहेन बाहुभ्यामसितेक्षणा |
वृत्ताभ्यामनुरूपाभ्यामूरू समवलम्बत ||३||
आलम्बमाना सहितावूरू गजकरोपमौ |
पपात सहसा भूमौ वेपन्ती कदली यथा ||४||
तां पतन्तीं वरारोहां सज्जमानां लतामिव |
नकुलः समभिद्रुत्य परिजग्राह वीर्यवान् ||५||
नकुल उवाच||
राजन्पाञ्चालराजस्य सुतेयमसितेक्षणा |
श्रान्ता निपतिता भूमौ तामवेक्षस्व भारत ||६||
अदुःखार्हा परं दुःखं प्राप्तेयं मृदुगामिनी |
आश्वासय महाराज तामिमां श्रमकर्शिताम् ||७||
वैशम्पायन उवाच||
राजा तु वचनात्तस्य भृशं दुःखसमन्वितः |
भीमश्च सहदेवश्च सहसा समुपाद्रवन् ||८||
तामवेक्ष्य तु कौन्तेयो विवर्णवदनां कृशाम् |
अङ्कमानीय धर्मात्मा पर्यदेवयदातुरः ||९||
कथं वेश्मसु गुप्तेषु स्वास्तीर्णशयनोचिता |
शेते निपतिता भूमौ सुखार्हा वरवर्णिनी ||१०||
सुकुमारौ कथं पादौ मुखं च कमलप्रभम् |
मत्कृतेऽद्य वरार्हायाः श्यामतां समुपागतम् ||११||
किमिदं द्यूतकामेन मया कृतमबुद्धिना |
आदाय कृष्णां चरता वने मृगगणायुते ||१२||
सुखं प्राप्स्यति पाञ्चाली पाण्डवान्प्राप्य वै पतीन् |
इति द्रुपदराजेन पित्रा दत्तायतेक्षणा ||१३||
तत्सर्वमनवाप्यैव श्रमशोकाद्धि कर्शिता |
शेते निपतिता भूमौ पापस्य मम कर्मभिः ||१४||
तथा लालप्यमाने तु धर्मराजे युधिष्ठिरे |
धौम्यप्रभृतयः सर्वे तत्राजग्मुर्द्विजोत्तमाः ||१५||
ते समाश्वासयामासुराशीर्भिश्चाप्यपूजयन् |
रक्षोघ्नांश्च तथा मन्त्राञ्जेपुश्चक्रुश्च ते क्रियाः ||१६||
पठ्यमानेषु मन्त्रेषु शान्त्यर्थं परमर्षिभिः |
स्पृश्यमाना करैः शीतैः पाण्डवैश्च मुहुर्मुहुः ||१७||
सेव्यमाना च शीतेन जलमिश्रेण वायुना |
पाञ्चाली सुखमासाद्य लेभे चेतः शनैः शनैः ||१८||
परिगृह्य च तां दीनां कृष्णामजिनसंस्तरे |
तदा विश्रामयामासुर्लब्धसञ्ज्ञां तपस्विनीम् ||१९||
तस्या यमौ रक्ततलौ पादौ पूजितलक्षणौ |
कराभ्यां किणजाताभ्यां शनकैः संववाहतुः ||२०||
पर्याश्वासयदप्येनां धर्मराजो युधिष्ठिरः |
उवाच च कुरुश्रेष्ठो भीमसेनमिदं वचः ||२१||
बहवः पर्वता भीम विषमा हिमदुर्गमाः |
तेषु कृष्णा महाबाहो कथं नु विचरिष्यति ||२२||
भीमसेन उवाच||
त्वां राजन्राजपुत्रीं च यमौ च पुरुषर्षभौ |
स्वयं नेष्यामि राजेन्द्र मा विषादे मनः कृथाः ||२३||
अथ वासौ मया जातो विहगो मद्बलोपमः |
वहेदनघ सर्वान्नो वचनात्ते घतोत्कचः ||२४||
वैशम्पायन उवाच||
अनुज्ञातो धर्मराज्ञा पुत्रं सस्मार राक्षसम् |
घटोत्कचश्च धर्मात्मा स्मृतमात्रः पितुस्तदा ||२५||
कृताञ्जलिरुपातिष्ठदभिवाद्याथ पाण्डवान् ||२५||
ब्राह्मणांश्च महाबाहुः स च तैरभिनन्दितः |
उवाच भीमसेनं स पितरं सत्यविक्रमः ||२६||
स्मृतोऽस्मि भवता शीघ्रं शुश्रूषुरहमागतः |
आज्ञापय महाबाहो सर्वं कर्तास्म्यसंशयम् ||२७||
तच्छ्रुत्वा भीमसेनस्तु राक्षसं परिषस्वजे ||२७||
१४५
युधिष्ठिर उवाच||
धर्मज्ञो बलवाञ्शूरः सद्यो राक्षसपुङ्गवः |
भक्तोऽस्मानौरसः पुत्रो भीम गृह्णातु मातरम् ||१||
तव भीम बलेनाहमतिभीमपराक्रम |
अक्षतः सह पाञ्चाल्या गच्छेयं गन्धमादनम् ||२||
वैशम्पायन उवाच||
भ्रातुर्वचनमाज्ञाय भीमसेनो घटोत्कचम् |
आदिदेश नरव्याघ्रस्तनयं शत्रुकर्शनम् ||३||
हैडिम्बेय परिश्रान्ता तव मातापराजिता |
त्वं च कामगमस्तात बलवान्वह तां खग ||४||
स्कन्धमारोप्य भद्रं ते मध्येऽस्माकं विहायसा |
गच्छ नीचिकया गत्या यथा चैनां न पीडयेः ||५||
घटोत्कच उवाच||
धर्मराजं च धौम्यं च राजपुत्रीं यमौ तथा |
एकोऽप्यहमलं वोढुं किमुताद्य सहायवान् ||६||
वैशम्पायन उवाच||
एवमुक्त्वा ततः कृष्णामुवाह स घटोत्कचः |
पाण्डूनां मध्यगो वीरः पाण्डवानपि चापरे ||७||
लोमशः सिद्धमार्गेण जगामानुपमद्युतिः |
स्वेनैवात्मप्रभावेन द्वितीय इव भास्करः ||८||
ब्राह्मणांश्चापि तान्सर्वान्समुपादाय राक्षसाः |
नियोगाद्राक्षसेन्द्रस्य जग्मुर्भीमपराक्रमाः ||९||
एवं सुरमणीयानि वनान्युपवनानि च |
आलोकयन्तस्ते जग्मुर्विशालां बदरीं प्रति ||१०||
ते त्वाशुगतिभिर्वीरा राक्षसैस्तैर्महाबलैः |
उह्यमाना ययुः शीघ्रं महदध्वानमल्पवत् ||११||
देशान्म्लेच्छगणाकीर्णान्नानारत्नाकरायुतान् |
ददृशुर्गिरिपादांश्च नानाधातुसमाचितान् ||१२||
विद्याधरगणाकीर्णान्युतान्वानरकिंनरैः |
तथा किम्पुरुषैश्चैव गन्धर्वैश्च समन्ततः ||१३||
नदीजालसमाकीर्णान्नानापक्षिरुताकुलान् |
नानाविधैर्मृगैर्जुष्टान्वानरैश्चोपशोभितान् ||१४||
ते व्यतीत्य बहून्देशानुत्तरांश्च कुरूनपि |
ददृशुर्विविधाश्चर्यं कैलासं पर्वतोत्तमम् ||१५||
तस्याभ्याशे तु ददृशुर्नरनारायणाश्रमम् |
उपेतं पादपैर्दिव्यैः सदापुष्पफलोपगैः ||१६||
ददृशुस्तां च बदरीं वृत्तस्कन्धां मनोरमाम् |
स्निग्धामविरलच्छायां श्रिया परमया युताम् ||१७||
पत्रैः स्निग्धैरविरलैरुपेतां मृदुभिः शुभाम् |
विशालशाखां विस्तीर्णामतिद्युतिसमन्विताम् ||१८||
फलैरुपचितैर्दिव्यैराचितां स्वादुभिर्भृशम् |
मधुस्रवैः सदा दिव्यां महर्षिगणसेविताम् ||१९||
मदप्रमुदितैर्नित्यं नानाद्विजगणैर्युताम् ||१९||
अदंशमशके देशे बहुमूलफलोदके |
नीलशाद्वलसञ्छन्ने देवगन्धर्वसेविते ||२०||
सुसमीकृतभूभागे स्वभावविहिते शुभे |
जातां हिममृदुस्पर्शे देशेऽपहतकण्टके ||२१||
तामुपेत्य महात्मानः सह तैर्ब्राह्मणर्षभैः |
अवतेरुस्ततः सर्वे राक्षसस्कन्धतः शनैः ||२२||
ततस्तमाश्रमं पुण्यं नरनारायणाश्रितम् |
ददृशुः पाण्डवा राजन्सहिता द्विजपुङ्गवैः ||२३||
तमसा रहितं पुण्यमनामृष्टं रवेः करैः |
क्षुत्तृट्शीतोष्णदोषैश्च वर्जितं शोकनाशनम् ||२४||
महर्षिगणसम्बाधं ब्राह्म्या लक्ष्म्या समन्वितम् |
दुष्प्रवेशं महाराज नरैर्धर्मबहिष्कृतैः ||२५||
बलिहोमार्चितं दिव्यं सुसंमृष्टानुलेपनम् |
दिव्यपुष्पोपहारैश्च सर्वतोऽभिविराजितम् ||२६||
विशालैरग्निशरणैः स्रुग्भाण्डैराचितं शुभैः |
महद्भिस्तोयकलशैः कठिनैश्चोपशोभितम् ||२७||
शरण्यं सर्वभूतानां ब्रह्मघोषनिनादितम् ||२७||
दिव्यमाश्रयणीयं तमाश्रमं श्रमनाशनम् |
श्रिया युतमनिर्देश्यं देवचर्योपशोभितम् ||२८||
फलमूलाशनैर्दान्तैश्चीरकृष्णाजिनाम्बरैः |
सूर्यवैश्वानरसमैस्तपसा भावितात्मभिः ||२९||
महर्षिभिर्मोक्षपरैर्यतिभिर्नियतेन्द्रियैः |
ब्रह्मभूतैर्महाभागैरुपेतं ब्रह्मवादिभिः ||३०||
सोऽभ्यगच्छन्महातेजास्तानृषीन्नियतः शुचिः |
भ्रातृभिः सहितो धीमान्धर्मपुत्रो युधिष्ठिरः ||३१||
दिव्यज्ञानोपपन्नास्ते दृष्ट्वा प्राप्तं युधिष्ठिरम् |
अभ्यगच्छन्त सुप्रीताः सर्व एव महर्षयः ||३२||
आशीर्वादान्प्रयुञ्जानाः स्वाध्यायनिरता भृशम् ||३२||
प्रीतास्ते तस्य सत्कारं विधिना पावकोपमाः |
उपाजह्रुश्च सलिलं पुष्पमूलफलं शुचि ||३३||
स तैः प्रीत्याथ सत्कारमुपनीतं महर्षिभिः |
प्रयतः प्रतिगृह्याथ धर्मपुत्रो युधिष्ठिरः ||३४||
तं शक्रसदनप्रख्यं दिव्यगन्धं मनोरमम् |
प्रीतः स्वर्गोपमं पुण्यं पाण्डवः सह कृष्णया ||३५||
विवेश शोभया युक्तं भ्रातृभिश्च सहानघ |
ब्राह्मणैर्वेदवेदाङ्गपारगैश्च सहाच्युतः ||३६||
तत्रापश्यत्स धर्मात्मा देवदेवर्षिपूजितम् |
नरनारायणस्थानं भागीरथ्योपशोभितम् ||३७||
मधुस्रवफलां दिव्यां महर्षिगणसेविताम् |
तामुपेत्य महात्मानस्तेऽवसन्ब्राह्मणैः सह ||३८||
आलोकयन्तो मैनाकं नानाद्विजगणायुतम् |
हिरण्यशिखरं चैव तच्च बिन्दुसरः शिवम् ||३९||
भागीरथीं सुतीर्थां च शीतामलजलां शिवाम् |
मणिप्रवालप्रस्तारां पादपैरुपशोभिताम् ||४०||
दिव्यपुष्पसमाकीर्णां मनसः प्रीतिवर्धनीम् |
वीक्षमाणा महात्मानो विजह्रुस्तत्र पाण्डवाः ||४१||
तत्र देवान्पितॄंश्चैव तर्पयन्तः पुनः पुनः |
ब्राह्मणैः सहिता वीरा न्यवसन्पुरुषर्षभाः ||४२||
कृष्णायास्तत्र पश्यन्तः क्रीडितान्यमरप्रभाः |
विचित्राणि नरव्याघ्रा रेमिरे तत्र पाण्डवाः ||४३||
सौगन्धिकाहरणम्
१४६
वैशम्पायन उवाच||
तत्र ते पुरुषव्याघ्राः परमं शौचमास्थिताः |
षड्रात्रमवसन्वीरा धनञ्जयदिदृक्षया ||१||
तस्मिन्विहरमाणाश्च रममाणाश्च पाण्डवाः ||१||
मनोज्ञे काननवरे सर्वभूतमनोरमे |
पादपैः पुष्पविकचैः फलभारावनामितैः ||२||
शोभितं सर्वतोरम्यैः पुंस्कोकिलकुलाकुलैः |
स्निग्धपत्रैरविरलैः शीतच्छायैर्मनोरमैः ||३||
सरांसि च विचित्राणि प्रसन्नसलिलानि च |
कमलैः सोत्पलैस्तत्र भ्राजमानानि सर्वशः ||४||
पश्यन्तश्चारुरूपाणि रेमिरे तत्र पाण्डवाः ||४||
पुण्यगन्धः सुखस्पर्शो ववौ तत्र समीरणः |
ह्लादयन्पाण्डवान्सर्वान्सकृष्णान्सद्विजर्षभान् ||५||
ततः पूर्वोत्तरो वायुः पवमानो यदृच्छया |
सहस्रपत्रमर्काभं दिव्यं पद्ममुदावहत् ||६||
तदपश्यत पाञ्चाली दिव्यगन्धं मनोरमम् |
अनिलेनाहृतं भूमौ पतितं जलजं शुचि ||७||
तच्छुभा शुभमासाद्य सौगन्धिकमनुत्तमम् |
अतीव मुदिता राजन्भीमसेनमथाब्रवीत् ||८||
पश्य दिव्यं सुरुचिरं भीम पुष्पमनुत्तमम् |
गन्धसंस्थानसम्पन्नं मनसो मम नन्दनम् ||९||
एतत्तु धर्मराजाय प्रदास्यामि परन्तप |
हरेरिदं मे कामाय काम्यके पुनराश्रमे ||१०||
यदि तेऽहं प्रिया पार्थ बहूनीमान्युपाहर |
तान्यहं नेतुमिच्छामि काम्यकं पुनराश्रमम् ||११||
एवमुक्त्वा तु पाञ्चाली भीमसेनमनिन्दिता |
जगाम धर्मराजाय पुष्पमादाय तत्तदा ||१२||
अभिप्रायं तु विज्ञाय महिष्याः पुरुषर्षभः |
प्रियायाः प्रियकामः स भीमो भीमपराक्रमः ||१३||
वातं तमेवाभिमुखो यतस्तत्पुष्पमागतम् |
आजिहीर्षुर्जगामाशु स पुष्पाण्यपराण्यपि ||१४||
रुक्मपृष्ठं धनुर्गृह्य शरांश्चाशीविषोपमान् |
मृगराडिव सङ्क्रुद्धः प्रभिन्न इव कुञ्जरः ||१५||
द्रौपद्याः प्रियमन्विच्छन्स्वबाहुबलमाश्रितः |
व्यपेतभयसंमोहः शैलमभ्यपतद्बली ||१६||
स तं द्रुमलतागुल्मच्छन्नं नीलशिलातलम् |
गिरिं चचारारिहरः किंनराचरितं शुभम् ||१७||
नानावर्णधरैश्चित्रं धातुद्रुममृगाण्डजैः |
सर्वभूषणसम्पूर्णं भूमेर्भुजमिवोच्छ्रितम् ||१८||
सर्वर्तुरमणीयेषु गन्धमादनसानुषु |
सक्तचक्षुरभिप्रायं हृदयेनानुचिन्तयन् ||१९||
पुंस्कोकिलनिनादेषु षट्पदाभिरुतेषु च |
बद्धश्रोत्रमनश्चक्षुर्जगामामितविक्रमः ||२०||
जिघ्रमाणो महातेजाः सर्वर्तुकुसुमोद्भवम् |
गन्धमुद्दाममुद्दामो वने मत्त इव द्विपः ||२१||
ह्रियमाणश्रमः पित्रा सम्प्रहृष्टतनूरुहः |
पितुः संस्पर्शशीतेन गन्धमादनवायुना ||२२||
स यक्षगन्धर्वसुरब्रह्मर्षिगणसेवितम् |
विलोडयामास तदा पुष्पहेतोररिंदमः ||२३||
विषमच्छेदरचितैरनुलिप्तमिवाङ्गुलैः |
विमलैर्धातुविच्छेदैः काञ्चनाञ्जनराजतैः ||२४||
सपक्षमिव नृत्यन्तं पार्श्वलग्नैः पयोधरैः |
मुक्ताहारैरिव चितं च्युतैः प्रस्रवणोदकैः ||२५||
अभिरामनदीकुञ्जनिर्झरोदरकन्दरम् |
अप्सरोनूपुररवैः प्रनृत्तबहुबर्हिणम् ||२६||
दिग्वारणविषाणाग्रैर्घृष्टोपलशिलातलम् |
स्रस्तांशुकमिवाक्षोभ्यैर्निम्नगानिःसृतैर्जलैः ||२७||
सशष्पकवलैः स्वस्थैरदूरपरिवर्तिभिः |
भयस्याज्ञैश्च हरिणैः कौतूहलनिरीक्षितः ||२८||
चालयन्नूरुवेगेन लताजालान्यनेकशः |
आक्रीडमानः कौन्तेयः श्रीमान्वायुसुतो ययौ ||२९||
प्रियामनोरथं कर्तुमुद्यतश्चारुलोचनः |
प्रांशुः कनकतालाभः सिंहसंहननो युवा ||३०||
मत्तवारणविक्रान्तो मत्तवारणवेगवान् |
मत्तवारणताम्राक्षो मत्तवारणवारणः ||३१||
प्रियपार्श्वोपविष्टाभिर्व्यावृत्ताभिर्विचेष्टितैः |
यक्षगन्धर्वयोषाभिरदृश्याभिर्निरीक्षितः ||३२||
नवावतारं रूपस्य विक्रीणन्निव पाण्डवः |
चचार रमणीयेषु गन्धमादनसानुषु ||३३||
संस्मरन्विविधान्क्लेशान्दुर्योधनकृतान्बहून् |
द्रौपद्या वनवासिन्याः प्रियं कर्तुं समुद्यतः ||३४||
सोऽचिन्तयद्गते स्वर्गमर्जुने मयि चागते |
पुष्पहेतोः कथं न्वार्यः करिष्यति युधिष्ठिरः ||३५||
स्नेहान्नरवरो नूनमविश्वासाद्वनस्य च |
नकुलं सहदेवं च न मोक्ष्यति युधिष्ठिरः ||३६||
कथं नु कुसुमावाप्तिः स्याच्छीघ्रमिति चिन्तयन् |
प्रतस्थे नरशार्दूलः पक्षिराडिव वेगितः ||३७||
कम्पयन्मेदिनीं पद्भ्यां निर्घात इव पर्वसु |
त्रासयन्गजयूथानि वातरंहा वृकोदरः ||३८||
सिंहव्याघ्रगणांश्चैव मर्दमानो महाबलः |
उन्मूलयन्महावृक्षान्पोथयंश्चोरसा बली ||३९||
लतावल्लीश्च वेगेन विकर्षन्पाण्डुनन्दनः |
उपर्युपरि शैलाग्रमारुरुक्षुरिव द्विपः ||४०||
विनर्दमानोऽतिभृशं सविद्युदिव तोयदः ||४०||
तस्य शब्देन घोरेण धनुर्घोषेण चाभिभो |
त्रस्तानि मृगयूथानि समन्ताद्विप्रदुद्रुवुः ||४१||
अथापश्यन्महाबाहुर्गन्धमादनसानुषु |
सुरम्यं कदलीषण्डं बहुयोजनविस्तृतम् ||४२||
तमभ्यगच्छद्वेगेन क्षोभयिष्यन्महाबलः |
महागज इवास्रावी प्रभञ्जन्विविधान्द्रुमान् ||४३||
उत्पाट्य कदलीस्कन्धान्बहुतालसमुच्छ्रयान् |
चिक्षेप तरसा भीमः समन्ताद्बलिनां वरः ||४४||
ततः सत्त्वान्युपाक्रामन्बहूनि च महान्ति च |
रुरुवारणसङ्घाश्च महिषाश्च जलाश्रयाः ||४५||
सिंहव्याघ्राश्च सङ्क्रुद्धा भीमसेनमभिद्रवन् |
व्यादितास्या महारौद्रा विनदन्तोऽतिभीषणाः ||४६||
ततो वायुसुतः क्रोधात्स्वबाहुबलमाश्रितः |
गजेनाघ्नन्गजं भीमः सिंहं सिंहेन चाभिभूः ||४७||
तलप्रहारैरन्यांश्च व्यहनत्पाण्डवो बली ||४७||
ते हन्यमाना भीमेन सिंहव्याघ्रतरक्षवः |
भयाद्विससृपुः सर्वे शकृन्मूत्रं च सुस्रुवुः ||४८||
प्रविवेश ततः क्षिप्रं तानपास्य महाबलः |
वनं पाण्डुसुतः श्रीमाञ्शब्देनापूरयन्दिशः ||४९||
तेन शब्देन चोग्रेण भीमसेनरवेण च |
वनान्तरगताः सर्वे वित्रेसुर्मृगपक्षिणः ||५०||
तं शब्दं सहसा श्रुत्वा मृगपक्षिसमीरितम् |
जलार्द्रपक्षा विहगाः समुत्पेतुः सहस्रशः ||५१||
तानौदकान्पक्षिगणान्निरीक्ष्य भरतर्षभः |
तानेवानुसरन्रम्यं ददर्श सुमहत्सरः ||५२||
काञ्चनैः कदलीषण्डैर्मन्दमारुतकम्पितैः |
वीज्यमानमिवाक्षोभ्यं तीरान्तरविसर्पिभिः ||५३||
तत्सरोऽथावतीर्याशु प्रभूतकमलोत्पलम् |
महागज इवोद्दामश्चिक्रीड बलवद्बली ||५४||
विक्रीड्य तस्मिन्सुचिरमुत्ततारामितद्युतिः ||५४||
ततोऽवगाह्य वेगेन तद्वनं बहुपादपम् |
दध्मौ च शङ्खं स्वनवत्सर्वप्राणेन पाण्डवः ||५५||
तस्य शङ्खस्य शब्देन भीमसेनरवेण च |
बाहुशब्देन चोग्रेण नर्दन्तीव गिरेर्गुहाः ||५६||
तं वज्रनिष्पेषसममास्फोटितरवं भृशम् |
श्रुत्वा शैलगुहासुप्तैः सिंहैर्मुक्तो महास्वनः ||५७||
सिंहनादभयत्रस्तैः कुञ्जरैरपि भारत |
मुक्तो विरावः सुमहान्पर्वतो येन पूरितः ||५८||
तं तु नादं ततः श्रुत्वा सुप्तो वानरपुङ्गवः |
प्राजृम्भत महाकायो हनूमान्नाम वानरः ||५९||
कदलीषण्डमध्यस्थो निद्रावशगतस्तदा |
जृम्भमाणः सुविपुलं शक्रध्वजमिवोच्छ्रितम् ||६०||
आस्फोटयत लाङ्गूलमिन्द्राशनिसमस्वनम् ||६०||
तस्य लाङ्गूलनिनदं पर्वतः स गुहामुखैः |
उद्गारमिव गौर्नर्दमुत्ससर्ज समन्ततः ||६१||
स लाङ्गूलरवस्तस्य मत्तवारणनिस्वनम् |
अन्तर्धाय विचित्रेषु चचार गिरिसानुषु ||६२||
स भीमसेनस्तं श्रुत्वा सम्प्रहृष्टतनूरुहः |
शब्दप्रभवमन्विच्छंश्चचार कदलीवनम् ||६३||
कदलीवनमध्यस्थमथ पीने शिलातले |
स ददर्श महाबाहुर्वानराधिपतिं स्थितम् ||६४||
विद्युत्सङ्घातदुष्प्रेक्ष्यं विद्युत्सङ्घातपिङ्गलम् |
विद्युत्सङ्घातसदृशं विद्युत्सङ्घातचञ्चलम् ||६५||
बाहुस्वस्तिकविन्यस्तपीनह्रस्वशिरोधरम् |
स्कन्धभूयिष्ठकायत्वात्तनुमध्यकटीतटम् ||६६||
किञ्चिच्चाभुग्नशीर्षेण दीर्घरोमाञ्चितेन च |
लाङ्गूलेनोर्ध्वगतिना ध्वजेनेव विराजितम् ||६७||
रक्तोष्ठं ताम्रजिह्वास्यं रक्तकर्णं चलद्भ्रुवम् |
वदनं वृत्तदंष्ट्राग्रं रश्मिवन्तमिवोडुपम् ||६८||
वदनाभ्यन्तरगतैः शुक्लभासैरलङ्कृतम् |
केसरोत्करसंमिश्रमशोकानामिवोत्करम् ||६९||
हिरण्मयीनां मध्यस्थं कदलीनां महाद्युतिम् |
दीप्यमानं स्ववपुषा अर्चिष्मन्तमिवानलम् ||७०||
निरीक्षन्तमवित्रस्तं लोचनैर्मधुपिङ्गलैः |
तं वानरवरं वीरमतिकायं महाबलम् ||७१||
अथोपसृत्य तरसा भीमो भीमपराक्रमः |
सिंहनादं समकरोद्बोधयिष्यन्कपिं तदा ||७२||
तेन शब्देन भीमस्य वित्रेसुर्मृगपक्षिणः |
हनूमांश्च महासत्त्व ईषदुन्मील्य लोचने ||७३||
अवैक्षदथ सावज्ञं लोचनैर्मधुपिङ्गलैः ||७३||
स्मितेनाभाष्य कौन्तेयं वानरो नरमब्रवीत् |
किमर्थं सरुजस्तेऽहं सुखसुप्तः प्रबोधितः ||७४||
ननु नाम त्वया कार्या दया भूतेषु जानता |
वयं धर्मं न जानीमस्तिर्यग्योनिं समाश्रिताः ||७५||
मनुष्या बुद्धिसम्पन्ना दयां कुर्वन्ति जन्तुषु |
क्रूरेषु कर्मसु कथं देहवाक्चित्तदूषिषु ||७६||
धर्मघातिषु सज्जन्ते बुद्धिमन्तो भवद्विधाः ||७६||
न त्वं धर्मं विजानासि वृद्धा नोपासितास्त्वया |
अल्पबुद्धितया वन्यानुत्सादयसि यन्मृगान् ||७७||
ब्रूहि कस्त्वं किमर्थं वा वनं त्वमिदमागतः |
वर्जितं मानुषैर्भावैस्तथैव पुरुषैरपि ||७८||
अतः परमगम्योऽयं पर्वतः सुदुरारुहः |
विना सिद्धगतिं वीर गतिरत्र न विद्यते ||७९||
कारुण्यात्सौहृदाच्चैव वारये त्वां महाबल |
नातः परं त्वया शक्यं गन्तुमाश्वसिहि प्रभो ||८०||
इमान्यमृतकल्पानि मूलानि च फलानि च |
भक्षयित्वा निवर्तस्व ग्राह्यं यदि वचो मम ||८१||
१४७
वैशम्पायन उवाच||
एतच्छ्रुत्वा वचस्तस्य वानरेन्द्रस्य धीमतः |
भीमसेनस्तदा वीरः प्रोवाचामित्रकर्शनः ||१||
को भवान्किंनिमित्तं वा वानरं वपुराश्रितः |
ब्राह्मणानन्तरो वर्णः क्षत्रियस्त्वानुपृच्छति ||२||
कौरवः सोमवंशीयः कुन्त्या गर्भेण धारितः |
पाण्डवो वायुतनयो भीमसेन इति श्रुतः ||३||
स वाक्यं भीमसेनस्य स्मितेन प्रतिगृह्य तत् |
हनूमान्वायुतनयो वायुपुत्रमभाषत ||४||
वानरोऽहं न ते मार्गं प्रदास्यामि यथेप्सितम् |
साधु गच्छ निवर्तस्व मा त्वं प्राप्स्यसि वैशसम् ||५||
भीम उवाच||
वैशसं वास्तु यद्वान्यन्न त्वा पृच्छामि वानर |
प्रयच्छोत्तिष्ठ मार्गं मे मा त्वं प्राप्स्यसि वैशसम् ||६||
हनूमानुवाच||
नास्ति शक्तिर्ममोत्थातुं व्याधिना क्लेशितो ह्यहम् |
यद्यवश्यं प्रयातव्यं लङ्घयित्वा प्रयाहि माम् ||७||
भीम उवाच||
निर्गुणः परमात्मेति देहं ते व्याप्य तिष्ठति |
तमहं ज्ञानविज्ञेयं नावमन्ये न लङ्घये ||८||
यद्यागमैर्न विन्देयं तमहं भूतभावनम् |
क्रमेयं त्वां गिरिं चेमं हनूमानिव सागरम् ||९||
हनूमानुवाच||
क एष हनुमान्नाम सागरो येन लङ्घितः |
पृच्छामि त्वा कुरुश्रेष्ठ कथ्यतां यदि शक्यते ||१०||
भीम उवाच||
भ्राता मम गुणश्लाघ्यो बुद्धिसत्त्वबलान्वितः |
रामायणेऽतिविख्यातः शूरो वानरपुङ्गवः ||११||
रामपत्नीकृते येन शतयोजनमायतः |
सागरः प्लवगेन्द्रेण क्रमेणैकेन लङ्घितः ||१२||
स मे भ्राता महावीर्यस्तुल्योऽहं तस्य तेजसा |
बले पराक्रमे युद्धे शक्तोऽहं तव निग्रहे ||१३||
उत्तिष्ठ देहि मे मार्गं पश्य वा मेऽद्य पौरुषम् |
मच्छासनमकुर्वाणं मा त्वा नेष्ये यमक्षयम् ||१४||
वैशम्पायन उवाच||
विज्ञाय तं बलोन्मत्तं बाहुवीर्येण गर्वितम् |
हृदयेनावहस्यैनं हनूमान्वाक्यमब्रवीत् ||१५||
प्रसीद नास्ति मे शक्तिरुत्थातुं जरयानघ |
ममानुकम्पया त्वेतत्पुच्छमुत्सार्य गम्यताम् ||१६||
सावज्ञमथ वामेन स्मयञ्जग्राह पाणिना |
न चाशकच्चालयितुं भीमः पुच्छं महाकपेः ||१७||
उच्चिक्षेप पुनर्दोर्भ्यामिन्द्रायुधमिवोच्छ्रितम् |
नोद्धर्तुमशकद्भीमो दोर्भ्यामपि महाबलः ||१८||
उत्क्षिप्तभ्रूर्विवृत्ताक्षः संहतभ्रुकुटीमुखः |
स्विन्नगात्रोऽभवद्भीमो न चोद्धर्तुं शशाक ह ||१९||
यत्नवानपि तु श्रीमाँल्लाङ्गूलोद्धरणोद्धुतः |
कपेः पार्श्वगतो भीमस्तस्थौ व्रीडादधोमुखः ||२०||
प्रणिपत्य च कौन्तेयः प्राञ्जलिर्वाक्यमब्रवीत् |
प्रसीद कपिशार्दूल दुरुक्तं क्षम्यतां मम ||२१||
सिद्धो वा यदि वा देवो गन्धर्वो वाथ गुह्यकः |
पृष्टः सन्कामया ब्रूहि कस्त्वं वानररूपधृक् ||२२||
हनूमानुवाच||
यत्ते मम परिज्ञाने कौतूहलमरिंदम |
तत्सर्वमखिलेन त्वं शृणु पाण्डवनन्दन ||२३||
अहं केसरिणः क्षेत्रे वायुना जगदायुषा |
जातः कमलपत्राक्ष हनूमान्नाम वानरः ||२४||
सूर्यपुत्रं च सुग्रीवं शक्रपुत्रं च वालिनम् |
सर्ववानरराजानौ सर्ववानरयूथपाः ||२५||
उपतस्थुर्महावीर्या मम चामित्रकर्शन |
सुग्रीवेणाभवत्प्रीतिरनिलस्याग्निना यथा ||२६||
निकृतः स ततो भ्रात्रा कस्मिंश्चित्कारणान्तरे |
ऋश्यमूके मया सार्धं सुग्रीवो न्यवसच्चिरम् ||२७||
अथ दाशरथिर्वीरो रामो नाम महाबलः |
विष्णुर्मानुषरूपेण चचार वसुधामिमाम् ||२८||
स पितुः प्रियमन्विच्छन्सहभार्यः सहानुजः |
सधनुर्धन्विनां श्रेष्ठो दण्डकारण्यमाश्रितः ||२९||
तस्य भार्या जनस्थानाद्रावणेन हृता बलात् |
वञ्चयित्वा महाबुद्धिं मृगरूपेण राघवम् ||३०||
हृतदारः सह भ्रात्रा पत्नीं मार्गन्स राघवः |
दृष्टवाञ्शैलशिखरे सुग्रीवं वानरर्षभम् ||३१||
तेन तस्याभवत्सख्यं राघवस्य महात्मनः |
स हत्वा वालिनं राज्ये सुग्रीवं प्रत्यपादयत् ||३२||
स हरीन्प्रेषयामास सीतायाः परिमार्गणे ||३२||
ततो वानरकोटीभिर्यां वयं प्रस्थिता दिशम् |
तत्र प्रवृत्तिः सीताया गृध्रेण प्रतिपादिता ||३३||
ततोऽहं कार्यसिद्ध्यर्थं रामस्याक्लिष्टकर्मणः |
शतयोजनविस्तीर्णमर्णवं सहसाप्लुतः ||३४||
दृष्टा सा च मया देवी रावणस्य निवेशने |
प्रत्यागतश्चापि पुनर्नाम तत्र प्रकाश्य वै ||३५||
ततो रामेण वीरेण हत्वा तान्सर्वराक्षसान् |
पुनः प्रत्याहृता भार्या नष्टा वेदश्रुतिर्यथा ||३६||
ततः प्रतिष्ठिते रामे वीरोऽयं याचितो मया |
यावद्रामकथा वीर भवेल्लोकेषु शत्रुहन् ||३७||
तावज्जीवेयमित्येवं तथास्त्विति च सोऽब्रवीत् ||३७||
दश वर्षसहस्राणि दश वर्षशतानि च |
राज्यं कारितवान्रामस्ततस्तु त्रिदिवं गतः ||३८||
तदिहाप्सरसस्तात गन्धर्वाश्च सदानघ |
तस्य वीरस्य चरितं गायन्त्यो रमयन्ति माम् ||३९||
अयं च मार्गो मर्त्यानामगम्यः कुरुनन्दन |
ततोऽहं रुद्धवान्मार्गं तवेमं देवसेवितम् ||४०||
धर्षयेद्वा शपेद्वापि मा कश्चिदिति भारत ||४०||
दिव्यो देवपथो ह्येष नात्र गच्छन्ति मानुषाः |
यदर्थमागतश्चासि तत्सरोऽभ्यर्ण एव हि ||४१||
१४८
वैशम्पायन उवाच||
एवमुक्तो महाबाहुर्भीमसेनः प्रतापवान् |
प्रणिपत्य ततः प्रीत्या भ्रातरं हृष्टमानसः ||१||
उवाच श्लक्ष्णया वाचा हनूमन्तं कपीश्वरम् ||१||
मया धन्यतरो नास्ति यदार्यं दृष्टवानहम् |
अनुग्रहो मे सुमहांस्तृप्तिश्च तव दर्शनात् ||२||
एवं तु कृतमिच्छामि त्वयार्याद्य प्रियं मम |
यत्ते तदासीत्प्लवतः सागरं मकरालयम् ||३||
रूपमप्रतिमं वीर तदिच्छामि निरीक्षितुम् ||३||
एवं तुष्टो भविष्यामि श्रद्धास्यामि च ते वचः |
एवमुक्तः स तेजस्वी प्रहस्य हरिरब्रवीत् ||४||
न तच्छक्यं त्वया द्रष्टुं रूपं नान्येन केनचित् |
कालावस्था तदा ह्यन्या वर्तते सा न साम्प्रतम् ||५||
अन्यः कृतयुगे कालस्त्रेतायां द्वापरेऽपरः |
अयं प्रध्वंसनः कालो नाद्य तद्रूपमस्ति मे ||६||
भूमिर्नद्यो नगाः शैलाः सिद्धा देवा महर्षयः |
कालं समनुवर्तन्ते यथा भावा युगे युगे ||७||
बलवर्ष्मप्रभावा हि प्रहीयन्त्युद्भवन्ति च ||७||
तदलं तव तद्रूपं द्रष्टुं कुरुकुलोद्वह |
युगं समनुवर्तामि कालो हि दुरतिक्रमः ||८||
भीम उवाच||
युगसङ्ख्यां समाचक्ष्व आचारं च युगे युगे |
धर्मकामार्थभावांश्च वर्ष्म वीर्यं भवाभवौ ||९||
हनूमानुवाच||
कृतं नाम युगं तात यत्र धर्मः सनातनः |
कृतमेव न कर्तव्यं तस्मिन्काले युगोत्तमे ||१०||
न तत्र धर्माः सीदन्ति न क्षीयन्ते च वै प्रजाः |
ततः कृतयुगं नाम कालेन गुणतां गतम् ||११||
देवदानवगन्धर्वयक्षराक्षसपन्नगाः |
नासन्कृतयुगे तात तदा न क्रयविक्रयाः ||१२||
न सामयजुऋग्वर्णाः क्रिया नासीच्च मानवी |
अभिध्याय फलं तत्र धर्मः संन्यास एव च ||१३||
न तस्मिन्युगसंसर्गे व्याधयो नेन्द्रियक्षयः |
नासूया नापि रुदितं न दर्पो नापि पैशुनम् ||१४||
न विग्रहः कुतस्तन्द्री न द्वेषो नापि वैकृतम् |
न भयं न च सन्तापो न चेर्ष्या न च मत्सरः ||१५||
ततः परमकं ब्रह्म या गतिर्योगिनां परा |
आत्मा च सर्वभूतानां शुक्लो नारायणस्तदा ||१६||
ब्राह्मणाः क्षत्रिया वैश्याः शूद्राश्च कृतलक्षणाः |
कृते युगे समभवन्स्वकर्मनिरताः प्रजाः ||१७||
समाश्रमं समाचारं समज्ञानमतीबलम् |
तदा हि समकर्माणो वर्णा धर्मानवाप्नुवन् ||१८||
एकवेदसमायुक्ता एकमन्त्रविधिक्रियाः |
पृथग्धर्मास्त्वेकवेदा धर्ममेकमनुव्रताः ||१९||
चातुराश्रम्ययुक्तेन कर्मणा कालयोगिना |
अकामफलसंयोगात्प्राप्नुवन्ति परां गतिम् ||२०||
आत्मयोगसमायुक्तो धर्मोऽयं कृतलक्षणः |
कृते युगे चतुष्पादश्चातुर्वर्ण्यस्य शाश्वतः ||२१||
एतत्कृतयुगं नाम त्रैगुण्यपरिवर्जितम् |
त्रेतामपि निबोध त्वं यस्मिन्सत्रं प्रवर्तते ||२२||
पादेन ह्रसते धर्मो रक्ततां याति चाच्युतः |
सत्यप्रवृत्ताश्च नराः क्रियाधर्मपरायणाः ||२३||
ततो यज्ञाः प्रवर्तन्ते धर्माश्च विविधाः क्रियाः |
त्रेतायां भावसङ्कल्पाः क्रियादानफलोदयाः ||२४||
प्रचलन्ति न वै धर्मात्तपोदानपरायणाः |
स्वधर्मस्थाः क्रियावन्तो जनास्त्रेतायुगेऽभवन् ||२५||
द्वापरेऽपि युगे धर्मो द्विभागोनः प्रवर्तते |
विष्णुर्वै पीततां याति चतुर्धा वेद एव च ||२६||
ततोऽन्ये च चतुर्वेदास्त्रिवेदाश्च तथापरे |
द्विवेदाश्चैकवेदाश्चाप्यनृचश्च तथापरे ||२७||
एवं शास्त्रेषु भिन्नेषु बहुधा नीयते क्रिया |
तपोदानप्रवृत्ता च राजसी भवति प्रजा ||२८||
एकवेदस्य चाज्ञानाद्वेदास्ते बहवः कृताः |
सत्यस्य चेह विभ्रंशात्सत्ये कश्चिदवस्थितः ||२९||
सत्यात्प्रच्यवमानानां व्याधयो बहवोऽभवन् |
कामाश्चोपद्रवाश्चैव तदा दैवतकारिताः ||३०||
यैरर्द्यमानाः सुभृशं तपस्तप्यन्ति मानवाः |
कामकामाः स्वर्गकामा यज्ञांस्तन्वन्ति चापरे ||३१||
एवं द्वापरमासाद्य प्रजाः क्षीयन्त्यधर्मतः |
पादेनैकेन कौन्तेय धर्मः कलियुगे स्थितः ||३२||
तामसं युगमासाद्य कृष्णो भवति केशवः |
वेदाचाराः प्रशाम्यन्ति धर्मयज्ञक्रियास्तथा ||३३||
ईतयो व्याधयस्तन्द्री दोषाः क्रोधादयस्तथा |
उपद्रवाश्च वर्तन्ते आधयो व्याधयस्तथा ||३४||
युगेष्वावर्तमानेषु धर्मो व्यावर्तते पुनः |
धर्मे व्यावर्तमाने तु लोको व्यावर्तते पुनः ||३५||
लोके क्षीणे क्षयं यान्ति भावा लोकप्रवर्तकाः |
युगक्षयकृता धर्माः प्रार्थनानि विकुर्वते ||३६||
एतत्कलियुगं नाम अचिराद्यत्प्रवर्तते |
युगानुवर्तनं त्वेतत्कुर्वन्ति चिरजीविनः ||३७||
यच्च ते मत्परिज्ञाने कौतूहलमरिंदम |
अनर्थकेषु को भावः पुरुषस्य विजानतः ||३८||
एतत्ते सर्वमाख्यातं यन्मां त्वं परिपृच्छसि |
युगसङ्ख्यां महाबाहो स्वस्ति प्राप्नुहि गम्यताम् ||३९||
१४९
भीम उवाच||
पूर्वरूपमदृष्ट्वा ते न यास्यामि कथञ्चन |
यदि तेऽहमनुग्राह्यो दर्शयात्मानमात्मना ||१||
वैशम्पायन उवाच||
एवमुक्तस्तु भीमेन स्मितं कृत्वा प्लवङ्गमः |
तद्रूपं दर्शयामास यद्वै सागरलङ्घने ||२||
भ्रातुः प्रियमभीप्सन्वै चकार सुमहद्वपुः |
देहस्तस्य ततोऽतीव वर्धत्यायामविस्तरैः ||३||
तद्रूपं कदलीषण्डं छादयन्नमितद्युतिः |
गिरेश्चोच्छ्रयमागम्य तस्थौ तत्र स वानरः ||४||
समुच्छ्रितमहाकायो द्वितीय इव पर्वतः |
ताम्रेक्षणस्तीक्ष्णदंष्ट्रो भृकुटीकृतलोचनः ||५||
दीर्घलाङ्गूलमाविध्य दिशो व्याप्य स्थितः कपिः ||५||
तद्रूपं महदालक्ष्य भ्रातुः कौरवनन्दनः |
विसिस्मिये तदा भीमो जहृषे च पुनः पुनः ||६||
तमर्कमिव तेजोभिः सौवर्णमिव पर्वतम् |
प्रदीप्तमिव चाकाशं दृष्ट्वा भीमो न्यमीलयत् ||७||
आबभाषे च हनुमान्भीमसेनं स्मयन्निव |
एतावदिह शक्तस्त्वं रूपं द्रष्टुं ममानघ ||८||
वर्धेऽहं चाप्यतो भूयो यावन्मे मनसेप्सितम् |
भीम शत्रुषु चात्यर्थं वर्धते मूर्तिरोजसा ||९||
तदद्भुतं महारौद्रं विन्ध्यमन्दरसंनिभम् |
दृष्ट्वा हनूमतो वर्ष्म सम्भ्रान्तः पवनात्मजः ||१०||
प्रत्युवाच ततो भीमः सम्प्रहृष्टतनूरुहः |
कृताञ्जलिरदीनात्मा हनूमन्तमवस्थितम् ||११||
दृष्टं प्रमाणं विपुलं शरीरस्यास्य ते विभो |
संहरस्व महावीर्य स्वयमात्मानमात्मना ||१२||
न हि शक्नोमि त्वां द्रष्टुं दिवाकरमिवोदितम् |
अप्रमेयमनाधृष्यं मैनाकमिव पर्वतम् ||१३||
विस्मयश्चैव मे वीर सुमहान्मनसोऽद्य वै |
यद्रामस्त्वयि पार्श्वस्थे स्वयं रावणमभ्यगात् ||१४||
त्वमेव शक्तस्तां लङ्कां सयोधां सहवाहनाम् |
स्वबाहुबलमाश्रित्य विनाशयितुमोजसा ||१५||
न हि ते किञ्चिदप्राप्यं मारुतात्मज विद्यते |
तव नैकस्य पर्याप्तो रावणः सगणो युधि ||१६||
एवमुक्तस्तु भीमेन हनूमान्प्लवगर्षभः |
प्रत्युवाच ततो वाक्यं स्निग्धगम्भीरया गिरा ||१७||
एवमेतन्महाबाहो यथा वदसि भारत |
भीमसेन न पर्याप्तो ममासौ राक्षसाधमः ||१८||
मया तु तस्मिन्निहते रावणे लोककण्टके |
कीर्तिर्नश्येद्राघवस्य तत एतदुपेक्षितम् ||१९||
तेन वीरेण हत्वा तु सगणं राक्षसाधिपम् |
आनीता स्वपुरं सीता लोके कीर्तिश्च स्थापिता ||२०||
तद्गच्छ विपुलप्रज्ञ भ्रातुः प्रियहिते रतः |
अरिष्टं क्षेममध्वानं वायुना परिरक्षितः ||२१||
एष पन्थाः कुरुश्रेष्ठ सौगन्धिकवनाय ते |
द्रक्ष्यसे धनदोद्यानं रक्षितं यक्षराक्षसैः ||२२||
न च ते तरसा कार्यः कुसुमावचयः स्वयम् |
दैवतानि हि मान्यानि पुरुषेण विशेषतः ||२३||
बलिहोमनमस्कारैर्मन्त्रैश्च भरतर्षभ |
दैवतानि प्रसादं हि भक्त्या कुर्वन्ति भारत ||२४||
मा तात साहसं कार्षीः स्वधर्ममनुपालय |
स्वधर्मस्थः परं धर्मं बुध्यस्वागमयस्व च ||२५||
न हि धर्ममविज्ञाय वृद्धाननुपसेव्य च |
धर्मो वै वेदितुं शक्यो बृहस्पतिसमैरपि ||२६||
अधर्मो यत्र धर्माख्यो धर्मश्चाधर्मसञ्ज्ञितः |
विज्ञातव्यो विभागेन यत्र मुह्यन्त्यबुद्धयः ||२७||
आचारसम्भवो धर्मो धर्माद्वेदाः समुत्थिताः |
वेदैर्यज्ञाः समुत्पन्ना यज्ञैर्देवाः प्रतिष्ठिताः ||२८||
वेदाचारविधानोक्तैर्यज्ञैर्धार्यन्ति देवताः |
बृहस्पत्युशनोक्तैश्च नयैर्धार्यन्ति मानवाः ||२९||
पण्याकरवणिज्याभिः कृष्याथो योनिपोषणैः |
वार्तया धार्यते सर्वं धर्मैरेतैर्द्विजातिभिः ||३०||
त्रयी वार्ता दण्डनीतिस्तिस्रो विद्या विजानताम् |
ताभिः सम्यक्प्रयुक्ताभिर्लोकयात्रा विधीयते ||३१||
सा चेद्धर्मक्रिया न स्यात्त्रयीधर्ममृते भुवि |
दण्डनीतिमृते चापि निर्मर्यादमिदं भवेत् ||३२||
वार्ताधर्मे ह्यवर्तन्त्यो विनश्येयुरिमाः प्रजाः |
सुप्रवृत्तैस्त्रिभिर्ह्येतैर्धर्मैः सूयन्ति वै प्रजाः ||३३||
द्विजानाममृतं धर्मो ह्येकश्चैवैकवर्णिकः |
यज्ञाध्ययनदानानि त्रयः साधारणाः स्मृताः ||३४||
याजनाध्यापने चोभे ब्राह्मणानां प्रतिग्रहः |
पालनं क्षत्रियाणां वै वैश्यधर्मश्च पोषणम् ||३५||
शुश्रूषा तु द्विजातीनां शूद्राणां धर्म उच्यते |
भैक्षहोमव्रतैर्हीनास्तथैव गुरुवासिनाम् ||३६||
क्षत्रधर्मोऽत्र कौन्तेय तव धर्माभिरक्षणम् |
स्वधर्मं प्रतिपद्यस्व विनीतो नियतेन्द्रियः ||३७||
वृद्धैः संमन्त्र्य सद्भिश्च बुद्धिमद्भिः श्रुतान्वितैः |
सुस्थितः शास्ति दण्डेन व्यसनी परिभूयते ||३८||
निग्रहानुग्रहैः सम्यग्यदा राजा प्रवर्तते |
तदा भवति लोकस्य मर्यादा सुव्यवस्थिता ||३९||
तस्माद्देशे च दुर्गे च शत्रुमित्रबलेषु च |
नित्यं चारेण बोद्धव्यं स्थानं वृद्धिः क्षयस्तथा ||४०||
राज्ञामुपायाश्चत्वारो बुद्धिमन्त्रः पराक्रमः |
निग्रहानुग्रहौ चैव दाक्ष्यं तत्कार्यसाधनम् ||४१||
साम्ना दानेन भेदेन दण्डेनोपेक्षणेन च |
साधनीयानि कार्याणि समासव्यासयोगतः ||४२||
मन्त्रमूला नयाः सर्वे चाराश्च भरतर्षभ |
सुमन्त्रितैर्नयैः सिद्धिस्तद्विदैः सह मन्त्रयेत् ||४३||
स्त्रिया मूढेन लुब्धेन बालेन लघुना तथा |
न मन्त्रयेत गुह्यानि येषु चोन्मादलक्षणम् ||४४||
मन्त्रयेत्सह विद्वद्भिः शक्तैः कर्माणि कारयेत् |
स्निग्धैश्च नीतिविन्यासान्मूर्खान्सर्वत्र वर्जयेत् ||४५||
धार्मिकान्धर्मकार्येषु अर्थकार्येषु पण्डितान् |
स्त्रीषु क्लीबान्नियुञ्जीत क्रूरान्क्रूरेषु कर्मसु ||४६||
स्वेभ्यश्चैव परेभ्यश्च कार्याकार्यसमुद्भवा |
बुद्धिः कर्मसु विज्ञेया रिपूणां च बलाबलम् ||४७||
बुद्ध्या सुप्रतिपन्नेषु कुर्यात्साधुपरिग्रहम् |
निग्रहं चाप्यशिष्टेषु निर्मर्यादेषु कारयेत् ||४८||
निग्रहे प्रग्रहे सम्यग्यदा राजा प्रवर्तते |
तदा भवति लोकस्य मर्यादा सुव्यवस्थिता ||४९||
एष ते विहितः पार्थ घोरो धर्मो दुरन्वयः |
तं स्वधर्मविभागेन विनयस्थोऽनुपालय ||५०||
तपोधर्मदमेज्याभिर्विप्रा यान्ति यथा दिवम् |
दानातिथ्यक्रियाधर्मैर्यान्ति वैश्याश्च सद्गतिम् ||५१||
क्षत्रं याति तथा स्वर्गं भुवि निग्रहपालनैः |
सम्यक्प्रणीय दण्डं हि कामद्वेषविवर्जिताः ||५२||
अलुब्धा विगतक्रोधाः सतां यान्ति सलोकताम् ||५२||
१५०
वैशम्पायन उवाच||
ततः संहृत्य विपुलं तद्वपुः कामवर्धितम् |
भीमसेनं पुनर्दोर्भ्यां पर्यष्वजत वानरः ||१||
परिष्वक्तस्य तस्याशु भ्रात्रा भीमस्य भारत |
श्रमो नाशमुपागच्छत्सर्वं चासीत्प्रदक्षिणम् ||२||
ततः पुनरथोवाच पर्यश्रुनयनो हरिः |
भीममाभाष्य सौहार्दाद्बाष्पगद्गदया गिरा ||३||
गच्छ वीर स्वमावासं स्मर्तव्योऽस्मि कथान्तरे |
इहस्थश्च कुरुश्रेष्ठ न निवेद्योऽस्मि कस्यचित् ||४||
धनदस्यालयाच्चापि विसृष्टानां महाबल |
देशकाल इहायातुं देवगन्धर्वयोषिताम् ||५||
ममापि सफलं चक्षुः स्मारितश्चास्मि राघवम् |
मानुषं गात्रसंस्पर्शं गत्वा भीम त्वया सह ||६||
तदस्मद्दर्शनं वीर कौन्तेयामोघमस्तु ते |
भ्रातृत्वं त्वं पुरस्कृत्य वरं वरय भारत ||७||
यदि तावन्मया क्षुद्रा गत्वा वारणसाह्वयम् |
धार्तराष्ट्रा निहन्तव्या यावदेतत्करोम्यहम् ||८||
शिलया नगरं वा तन्मर्दितव्यं मया यदि |
यावदद्य करोम्येतत्कामं तव महाबल ||९||
भीमसेनस्तु तद्वाक्यं श्रुत्वा तस्य महात्मनः |
प्रत्युवाच हनूमन्तं प्रहृष्टेनान्तरात्मना ||१०||
कृतमेव त्वया सर्वं मम वानरपुङ्गव |
स्वस्ति तेऽस्तु महाबाहो क्षामये त्वां प्रसीद मे ||११||
सनाथाः पाण्डवाः सर्वे त्वया नाथेन वीर्यवन् |
तवैव तेजसा सर्वान्विजेष्यामो वयं रिपून् ||१२||
एवमुक्तस्तु हनुमान्भीमसेनमभाषत |
भ्रातृत्वात्सौहृदाच्चापि करिष्यामि तव प्रियम् ||१३||
चमूं विगाह्य शत्रूणां शरशक्तिसमाकुलाम् |
यदा सिंहरवं वीर करिष्यसि महाबल ||१४||
तदाहं बृंहयिष्यामि स्वरवेण रवं तव ||१४||
विजयस्य ध्वजस्थश्च नादान्मोक्ष्यामि दारुणान् |
शत्रूणां ते प्राणहरानित्युक्त्वान्तरधीयत ||१५||
गते तस्मिन्हरिवरे भीमोऽपि बलिनां वरः |
तेन मार्गेण विपुलं व्यचरद्गन्धमादनम् ||१६||
अनुस्मरन्वपुस्तस्य श्रियं चाप्रतिमां भुवि |
माहात्म्यमनुभावं च स्मरन्दाशरथेर्ययौ ||१७||
स तानि रमणीयानि वनान्युपवनानि च |
विलोडयामास तदा सौगन्धिकवनेप्सया ||१८||
फुल्लपद्मविचित्राणि पुष्पितानि वनानि च |
मत्तवारणयूथानि पङ्कक्लिन्नानि भारत ||१९||
वर्षतामिव मेघानां वृन्दानि ददृशे तदा ||१९||
हरिणैश्चञ्चलापाङ्गैर्हरिणीसहितैर्वने |
सशष्पकवलैः श्रीमान्पथि दृष्टो द्रुतं ययौ ||२०||
महिषैश्च वराहैश्च शार्दूलैश्च निषेवितम् |
व्यपेतभीर्गिरिं शौर्याद्भीमसेनो व्यगाहत ||२१||
कुसुमानतशाखैश्च ताम्प्रपल्लवकोमलैः |
याच्यमान इवारण्ये द्रुमैर्मारुतकम्पितैः ||२२||
कृतपद्माञ्जलिपुटा मत्तषट्पदसेविताः |
प्रियतीर्थवना मार्गे पद्मिनीः समतिक्रमन् ||२३||
सज्जमानमनोदृष्टिः फुल्लेषु गिरिसानुषु |
द्रौपदीवाक्यपाथेयो भीमः शीघ्रतरं ययौ ||२४||
परिवृत्तेऽहनि ततः प्रकीर्णहरिणे वने |
काञ्चनैर्विमलैः पद्मैर्ददर्श विपुलां नदीम् ||२५||
मत्तकारण्डवयुतां चक्रवाकोपशोभिताम् |
रचितामिव तस्याद्रेर्मालां विमलपङ्कजाम् ||२६||
तस्यां नद्यां महासत्त्वः सौगन्धिकवनं महत् |
अपश्यत्प्रीतिजननं बालार्कसदृशद्युति ||२७||
तद्दृष्ट्वा लब्धकामः स मनसा पाण्डुनन्दनः |
वनवासपरिक्लिष्टां जगाम मनसा प्रियाम् ||२८||
१५१
वैशम्पायन उवाच||
स गत्वा नलिनीं रम्यां राक्षसैरभिरक्षिताम् |
कैलासशिखरे रम्ये ददर्श शुभकानने ||१||
कुबेरभवनाभ्याशे जातां पर्वतनिर्झरे |
सुरम्यां विपुलच्छायां नानाद्रुमलतावृताम् ||२||
हरिताम्बुजसञ्छन्नां दिव्यां कनकपुष्कराम् |
पवित्रभूतां लोकस्य शुभामद्भुतदर्शनाम् ||३||
तत्रामृतरसं शीतं लघु कुन्तीसुतः शुभम् |
ददर्श विमलं तोयं शिवं बहु च पाण्डवः ||४||
तां तु पुष्करिणीं रम्यां पद्मसौगन्धिकायुताम् |
जातरूपमयैः पद्मैश्छन्नां परमगन्धिभिः ||५||
वैडूर्यवरनालैश्च बहुचित्रैर्मनोहरैः |
हंसकारण्डवोद्धूतैः सृजद्भिरमलं रजः ||६||
आक्रीडं यक्षराजस्य कुबेरस्य महात्मनः |
गन्धर्वैरप्सरोभिश्च देवैश्च परमार्चिताम् ||७||
सेवितामृषिभिर्दिव्यां यक्षैः किम्पुरुषैस्तथा |
राक्षसैः किंनरैश्चैव गुप्तां वैश्रवणेन च ||८||
तां च दृष्ट्वैव कौन्तेयो भीमसेनो महाबलः |
बभूव परमप्रीतो दिव्यं सम्प्रेक्ष्य तत्सरः ||९||
तच्च क्रोधवशा नाम राक्षसा राजशासनात् |
रक्षन्ति शतसाहस्राश्चित्रायुधपरिच्छदाः ||१०||
ते तु दृष्ट्वैव कौन्तेयमजिनैः परिवारितम् |
रुक्माङ्गदधरं वीरं भीमं भीमपराक्रमम् ||११||
सायुधं बद्धनिस्त्रिंशमशङ्कितमरिंदमम् |
पुष्करेप्सुमुपायान्तमन्योन्यमभिचुक्रुशुः ||१२||
अयं पुरुषशार्दूलः सायुधोऽजिनसंवृतः |
यच्चिकीर्षुरिह प्राप्तस्तत्सम्प्रष्टुमिहार्हथ ||१३||
ततः सर्वे महाबाहुं समासाद्य वृकोदरम् |
तेजोयुक्तमपृच्छन्त कस्त्वमाख्यातुमर्हसि ||१४||
मुनिवेषधरश्चासि चीरवासाश्च लक्ष्यसे |
यदर्थमसि सम्प्राप्तस्तदाचक्ष्व महाद्युते ||१५||
१५२
भीम उवाच||
पाण्डवो भीमसेनोऽहं धर्मपुत्रादनन्तरः |
विशालां बदरीं प्राप्तो भ्रातृभिः सह राक्षसाः ||१||
अपश्यत्तत्र पञ्चाली सौगन्धिकमनुत्तमम् |
अनिलोढमितो नूनं सा बहूनि परीप्सति ||२||
तस्या मामनवद्याङ्ग्या धर्मपत्न्याः प्रिये स्थितम् |
पुष्पाहारमिह प्राप्तं निबोधत निशाचराः ||३||
राक्षसा ऊचुः||
आक्रीडोऽयं कुबेरस्य दयितः पुरुषर्षभ |
नेह शक्यं मनुष्येण विहर्तुं मर्त्यधर्मिणा ||४||
देवर्षयस्तथा यक्षा देवाश्चात्र वृकोदर |
आमन्त्र्य यक्षप्रवरं पिबन्ति विहरन्ति च ||५||
गन्धर्वाप्सरसश्चैव विहरन्त्यत्र पाण्डव ||५||
अन्यायेनेह यः कश्चिदवमन्य धनेश्वरम् |
विहर्तुमिच्छेद्दुर्वृत्तः स विनश्येदसंशयम् ||६||
तमनादृत्य पद्मानि जिहीर्षसि बलादितः |
धर्मराजस्य चात्मानं ब्रवीषि भ्रातरं कथम् ||७||
भीम उवाच||
राक्षसास्तं न पश्यामि धनेश्वरमिहान्तिके |
दृष्ट्वापि च महाराजं नाहं याचितुमुत्सहे ||८||
न हि याचन्ति राजान एष धर्मः सनातनः |
न चाहं हातुमिच्छामि क्षात्रधर्मं कथञ्चन ||९||
इयं च नलिनी रम्या जाता पर्वतनिर्झरे |
नेयं भवनमासाद्य कुबेरस्य महात्मनः ||१०||
तुल्या हि सर्वभूतानामियं वैश्रवणस्य च |
एवङ्गतेषु द्रव्येषु कः कं याचितुमर्हति ||११||
वैशम्पायन उवाच||
इत्युक्त्वा राक्षसान्सर्वान्भीमसेनो व्यगाहत |
ततः स राक्षसैर्वाचा प्रतिषिद्धः प्रतापवान् ||१२||
मा मैवमिति सक्रोधैर्भर्त्सयद्भिः समन्ततः ||१२||
कदर्थीकृत्य तु स तान्राक्षसान्भीमविक्रमः |
व्यगाहत महातेजास्ते तं सर्वे न्यवारयन् ||१३||
गृह्णीत बध्नीत निकृन्ततेमं; पचाम खादाम च भीमसेनम् |
क्रुद्धा ब्रुवन्तोऽनुययुर्द्रुतं ते; शस्त्राणि चोद्यम्य विवृत्तनेत्राः ||१४||
ततः स गुर्वीं यमदण्डकल्पां; महागदां काञ्चनपट्टनद्धाम् |
प्रगृह्य तानभ्यपतत्तरस्वी; ततोऽब्रवीत्तिष्ठत तिष्ठतेति ||१५||
ते तं तदा तोमरपट्टिशाद्यै; र्व्याविध्य शस्त्रैः सहसाभिपेतुः |
जिघांसवः क्रोधवशाः सुभीमा; भीमं समन्तात्परिवव्रुरुग्राः ||१६||
वातेन कुन्त्यां बलवान्स जातः; शूरस्तरस्वी द्विषतां निहन्ता |
सत्ये च धर्मे च रतः सदैव; पराक्रमे शत्रुभिरप्रधृष्यः ||१७||
तेषां स मार्गान्विविधान्महात्मा; निहत्य शस्त्राणि च शात्रवाणाम् |
यथाप्रवीरान्निजघान वीरः; परःशतान्पुष्करिणीसमीपे ||१८||
ते तस्य वीर्यं च बलं च दृष्ट्वा; विद्याबलं बाहुबलं तथैव |
अशक्नुवन्तः सहिताः समन्ता; द्धतप्रवीराः सहसा निवृत्ताः ||१९||
विदीर्यमाणास्तत एव तूर्ण; माकाशमास्थाय विमूढसञ्ज्ञाः |
कैलासशृङ्गाण्यभिदुद्रुवुस्ते; भीमार्दिताः क्रोधवशाः प्रभग्नाः ||२०||
स शक्रवद्दानवदैत्यसङ्घा; न्विक्रम्य जित्वा च रणेऽरिसङ्घान् |
विगाह्य तां पुष्करिणीं जितारिः; कामाय जग्राह ततोऽम्बुजानि ||२१||
ततः स पीत्वामृतकल्पमम्भो; भूयो बभूवोत्तमवीर्यतेजाः |
उत्पाट्य जग्राह ततोऽम्बुजानि; सौगन्धिकान्युत्तमगन्धवन्ति ||२२||
ततस्तु ते क्रोधवशाः समेत्य; धनेश्वरं भीमबलप्रणुन्नाः |
भीमस्य वीर्यं च बलं च सङ्ख्ये; यथावदाचख्युरतीव दीनाः ||२३||
तेषां वचस्तत्तु निशम्य देवः; प्रहस्य रक्षांशि ततोऽभ्युवाच |
गृह्णातु भीमो जलजानि कामं; कृष्णानिमित्तं विदितं ममैतत् ||२४||
ततोऽभ्यनुज्ञाय धनेश्वरं ते; जग्मुः कुरूणां प्रवरं विरोषाः |
भीमं च तस्यां ददृशुर्नलिन्यां; यथोपजोषं विहरन्तमेकम् ||२५||
१५३
वैशम्पायन उवाच||
ततस्तानि महार्हाणि दिव्यानि भरतर्षभ |
बहूनि बहुरूपाणि विरजांसि समाददे ||१||
ततो वायुर्महाञ्शीघ्रो नीचैः शर्करकर्षणः |
प्रादुरासीत्खरस्पर्शः सङ्ग्राममभिचोदयन् ||२||
पपात महती चोल्का सनिर्घाता महाप्रभा |
निष्प्रभश्चाभवत्सूर्यश्छन्नरश्मिस्तमोवृतः ||३||
निर्घातश्चाभवद्भीमो भीमे विक्रममास्थिते |
चचाल पृथिवी चापि पांसुवर्षं पपात च ||४||
सलोहिता दिशश्चासन्खरवाचो मृगद्विजाः |
तमोवृतमभूत्सर्वं न प्रज्ञायत किञ्चन ||५||
तदद्भुतमभिप्रेक्ष्य धर्मपुत्रो युधिष्ठिरः |
उवाच वदतां श्रेष्ठः कोऽस्मानभिभविष्यति ||६||
सज्जीभवत भद्रं वः पाण्डवा युद्धदुर्मदाः |
यथारूपाणि पश्यामि स्वभ्यग्रो नः पराक्रमः ||७||
एवमुक्त्वा ततो राजा वीक्षां चक्रे समन्ततः |
अपश्यमानो भीमं च धर्मराजो युधिष्ठिरः ||८||
तत्र कृष्णां यमौ चैव समीपस्थानरिंदमः |
पप्रच्छ भ्रातरं भीमं भीमकर्माणमाहवे ||९||
कच्चिन्न भीमः पाञ्चालि किञ्चित्कृत्यं चिकीर्षति |
कृतवानपि वा वीरः साहसं साहसप्रियः ||१०||
इमे ह्यकस्मादुत्पाता महासमरदर्शिनः |
दर्शयन्तो भयं तीव्रं प्रादुर्भूताः समन्ततः ||११||
तं तथा वादिनं कृष्णा प्रत्युवाच मनस्विनी |
प्रिया प्रियं चिकीर्षन्ती महिषी चारुहासिनी ||१२||
यत्तत्सौगन्धिकं राजन्नाहृतं मातरिश्वना |
तन्मया भीमसेनस्य प्रीतयाद्योपपादितम् ||१३||
अपि चोक्तो मया वीरो यदि पश्येद्बहून्यपि |
तानि सर्वाण्युपादाय शीघ्रमागम्यतामिति ||१४||
स तु नूनं महाबाहुः प्रियार्थं मम पाण्डवः |
प्रागुदीचीं दिशं राजंस्तान्याहर्तुमितो गतः ||१५||
उक्तस्त्वेवं तया राजा यमाविदमथाब्रवीत् |
गच्छाम सहितास्तूर्णं येन यातो वृकोदरः ||१६||
वहन्तु राक्षसा विप्रान्यथाश्रान्तान्यथाकृशान् |
त्वमप्यमरसङ्काश वह कृष्णां घटोत्कच ||१७||
व्यक्तं दूरमितो भीमः प्रविष्ट इति मे मतिः |
चिरं च तस्य कालोऽयं स च वायुसमो जवे ||१८||
तरस्वी वैनतेयस्य सदृशो भुवि लङ्घने |
उत्पतेदपि चाकाशं निपतेच्च यथेच्छकम् ||१९||
तमन्वियाम भवतां प्रभावाद्रजनीचराः |
पुरा स नापराध्नोति सिद्धानां ब्रह्मवादिनाम् ||२०||
तथेत्युक्त्वा तु ते सर्वे हैडिम्बप्रमुखास्तदा |
उद्देशज्ञाः कुबेरस्य नलिन्या भरतर्षभ ||२१||
आदाय पाण्डवांश्चैव तांश्च विप्राननेकशः |
लोमशेनैव सहिताः प्रययुः प्रीतमानसाः ||२२||
ते गत्वा सहिताः सर्वे ददृशुस्तत्र कानने |
प्रफुल्लपङ्कजवतीं नलिनीं सुमनोहराम् ||२३||
तं च भीमं महात्मानं तस्यास्तीरे व्यवस्थितम् |
ददृशुर्निहतांश्चैव यक्षान्सुविपुलेक्षणान् ||२४||
उद्यम्य च गदां दोर्भ्यां नदीतीरे व्यवस्थितम् |
प्रजासङ्क्षेपसमये दण्डहस्तमिवान्तकम् ||२५||
तं दृष्ट्वा धर्मराजस्तु परिष्वज्य पुनः पुनः |
उवाच श्लक्ष्णया वाचा कौन्तेय किमिदं कृतम् ||२६||
साहसं बत भद्रं ते देवानामपि चाप्रियम् |
पुनरेवं न कर्तव्यं मम चेदिच्छसि प्रियम् ||२७||
अनुशास्य च कौन्तेयं पद्मानि प्रतिगृह्य च |
तस्यामेव नलिन्यां ते विजह्रुरमरोपमाः ||२८||
एतस्मिन्नेव काले तु प्रगृहीतशिलायुधाः |
प्रादुरासन्महाकायास्तस्योद्यानस्य रक्षिणः ||२९||
ते दृष्ट्वा धर्मराजानं देवर्षिं चापि लोमशम् |
नकुलं सहदेवं च तथान्यान्ब्राह्मणर्षभान् ||३०||
विनयेनानताः सर्वे प्रणिपेतुश्च भारत ||३०||
सान्त्विता धर्मराजेन प्रसेदुः क्षणदाचराः |
विदिताश्च कुबेरस्य ततस्ते नरपुङ्गवाः ||३१||
ऊषुर्नातिचिरं कालं रममाणाः कुरूद्वहाः ||३१||
जटासुरबधपर्व
१५४
वैशम्पायन उवाच||
ततस्तान्परिविश्वस्तान्वसतस्तत्र पाण्डवान् |
गतेषु तेषु रक्षःसु भीमसेनात्मजेऽपि च ||१||
रहितान्भीमसेनेन कदाचित्तान्यदृच्छया |
जहार धर्मराजानं यमौ कृष्णां च राक्षसः ||२||
ब्राह्मणो मन्त्रकुशलः सर्वास्त्रेष्वस्त्रवित्तमः |
इति ब्रुवन्पाण्डवेयान्पर्युपास्ते स्म नित्यदा ||३||
परीक्षमाणः पार्थानां कलापानि धनूंषि च |
अन्तरं समभिप्रेप्सुर्नाम्ना ख्यातो जटासुरः ||४||
स भीमसेने निष्क्रान्ते मृगयार्थमरिंदमे |
अन्यद्रूपं समास्थाय विकृतं भैरवं महत् ||५||
गृहीत्वा सर्वशस्त्राणि द्रौपदीं परिगृह्य च |
प्रातिष्ठत स दुष्टात्मा त्रीन्गृहीत्वा च पाण्डवान् ||६||
सहदेवस्तु यत्नेन ततोऽपक्रम्य पाण्डवः |
आक्रन्दद्भीमसेनं वै येन यातो महाबलः ||७||
तमब्रवीद्धर्मराजो ह्रियमाणो युधिष्ठिरः |
धर्मस्ते हीयते मूढ न चैनं समवेक्षसे ||८||
येऽन्ये केचिन्मनुष्येषु तिर्यग्योनिगता अपि |
गन्धर्वयक्षरक्षांसि वयांसि पशवस्तथा ||९||
मनुष्यानुपजीवन्ति ततस्त्वमुपजीवसि ||९||
समृद्ध्या ह्यस्य लोकस्य लोको युष्माकमृध्यते |
इमं च लोकं शोचन्तमनुशोचन्ति देवताः ||१०||
पूज्यमानाश्च वर्धन्ते हव्यकव्यैर्यथाविधि ||१०||
वयं राष्ट्रस्य गोप्तारो रक्षितारश्च राक्षस |
राष्ट्रस्यारक्ष्यमाणस्य कुतो भूतिः कुतः सुखम् ||११||
न च राजावमन्तव्यो रक्षसा जात्वनागसि |
अणुरप्यपचारश्च नास्त्यस्माकं नराशन ||१२||
द्रोग्धव्यं न च मित्रेषु न विश्वस्तेषु कर्हिचित् |
येषां चान्नानि भुञ्जीत यत्र च स्यात्प्रतिश्रयः ||१३||
स त्वं प्रतिश्रयेऽस्माकं पूज्यमानः सुखोषितः |
भुक्त्वा चान्नानि दुष्प्रज्ञ कथमस्माञ्जिहीर्षसि ||१४||
एवमेव वृथाचारो वृथावृद्धो वृथामतिः |
वृथामरणमर्हस्त्वं वृथाद्य न भविष्यसि ||१५||
अथ चेद्दुष्टबुद्धिस्त्वं सर्वैर्धर्मैर्विवर्जितः |
प्रदाय शस्त्राण्यस्माकं युद्धेन द्रौपदीं हर ||१६||
अथ चेत्त्वमविज्ञाय इदं कर्म करिष्यसि |
अधर्मं चाप्यकीर्तिं च लोके प्राप्स्यसि केवलम् ||१७||
एतामद्य परामृश्य स्त्रियं राक्षस मानुषीम् |
विषमेतत्समालोड्य कुम्भेन प्राशितं त्वया ||१८||
ततो युधिष्ठिरस्तस्य भारिकः समपद्यत |
स तु भाराभिभूतात्मा न तथा शीघ्रगोऽभवत् ||१९||
अथाब्रवीद्द्रौपदीं च नकुलं च युधिष्ठिरः |
मा भैष्ट राक्षसान्मूढाद्गतिरस्य मया हृता ||२०||
नातिदूरे महाबाहुर्भविता पवनात्मजः |
अस्मिन्मुहूर्ते सम्प्राप्ते न भविष्यति राक्षसः ||२१||
सहदेवस्तु तं दृष्ट्वा राक्षसं मूढचेतसम् |
उवाच वचनं राजन्कुन्तीपुत्रं युधिष्ठिरम् ||२२||
राजन्किं नाम तत्कृत्यं क्षत्रियस्यास्त्यतोऽधिकम् |
यद्युद्धेऽभिमुखः प्राणांस्त्यजेच्छत्रूञ्जयेत वा ||२३||
एष चास्मान्वयं चैनं युध्यमानाः परन्तप |
सूदयेम महाबाहो देशकालो ह्ययं नृप ||२४||
क्षत्रधर्मस्य सम्प्राप्तः कालः सत्यपराक्रम |
जयन्तः पात्यमाना वा प्राप्तुमर्हाम सद्गतिम् ||२५||
राक्षसे जीवमानेऽद्य रविरस्तमियाद्यदि |
नाहं ब्रूयां पुनर्जातु क्षत्रियोऽस्मीति भारत ||२६||
भो भो राक्षस तिष्ठस्व सहदेवोऽस्मि पाण्डवः |
हत्वा वा मां नयस्वैनान्हतो वाद्येह स्वप्स्यसि ||२७||
तथैव तस्मिन्ब्रुवति भीमसेनो यदृच्छया |
प्रादृश्यत महाबाहुः सवज्र इव वासवः ||२८||
सोऽपश्यद्भ्रातरौ तत्र द्रौपदीं च यशस्विनीम् |
क्षितिस्थं सहदेवं च क्षिपन्तं राक्षसं तदा ||२९||
मार्गाच्च राक्षसं मूढं कालोपहतचेतसम् |
भ्रमन्तं तत्र तत्रैव दैवेन विनिवारितम् ||३०||
भ्रातॄंस्तान्ह्रियतो दृष्ट्वा द्रौपदीं च महाबलः |
क्रोधमाहारयद्भीमो राक्षसं चेदमब्रवीत् ||३१||
विज्ञातोऽसि मया पूर्वं चेष्टञ्शस्त्रपरीक्षणे |
आस्था तु त्वयि मे नास्ति यतोऽसि न हतस्तदा ||३२||
ब्रह्मरूपप्रतिच्छन्नो न नो वदसि चाप्रियम् ||३२||
प्रियेषु चरमाणं त्वां न चैवाप्रियकारिणम् |
अतिथिं ब्रह्मरूपं च कथं हन्यामनागसम् ||३३||
राक्षसं मन्यमानोऽपि यो हन्यान्नरकं व्रजेत् ||३३||
अपक्वस्य च कालेन वधस्तव न विद्यते |
नूनमद्यासि सम्पक्वो यथा ते मतिरीदृशी ||३४||
दत्ता कृष्णापहरणे कालेनाद्भुतकर्मणा ||३४||
बडिशोऽयं त्वया ग्रस्तः कालसूत्रेण लम्बितः |
मत्स्योऽम्भसीव स्यूतास्यः कथं मेऽद्य गमिष्यसि ||३५||
यं चासि प्रस्थितो देशं मनः पूर्वं गतं च ते |
न तं गन्तासि गन्तासि मार्गं बकहिडिम्बयोः ||३६||
एवमुक्तस्तु भीमेन राक्षसः कालचोदितः |
भीत उत्सृज्य तान्सर्वान्युद्धाय समुपस्थितः ||३७||
अब्रवीच्च पुनर्भीमं रोषात्प्रस्फुरिताधरः |
न मे मूढा दिशः पाप त्वदर्थं मे विलम्बनम् ||३८||
श्रुता मे राक्षसा ये ये त्वया विनिहता रणे |
तेषामद्य करिष्यामि तवास्रेणोदकक्रियाम् ||३९||
एवमुक्तस्ततो भीमः सृक्किणी परिसंलिहन् |
स्मयमान इव क्रोधात्साक्षात्कालान्तकोपमः ||४०||
बाहुसंरम्भमेवेच्छन्नभिदुद्राव राक्षसम् ||४०||
राक्षसोऽपि तदा भीमं युद्धार्थिनमवस्थितम् |
अभिदुद्राव संरब्धो बलो वज्रधरं यथा ||४१||
वर्तमाने तदा ताभ्यां बाहुयुद्धे सुदारुणे |
माद्रीपुत्रावभिक्रुद्धावुभावप्यभ्यधावताम् ||४२||
न्यवारयत्तौ प्रहसन्कुन्तीपुत्रो वृकोदरः |
शक्तोऽहं राक्षसस्येति प्रेक्षध्वमिति चाब्रवीत् ||४३||
आत्मना भ्रातृभिश्चाहं धर्मेण सुकृतेन च |
इष्टेन च शपे राजन्सूदयिष्यामि राक्षसम् ||४४||
इत्येवमुक्त्वा तौ वीरौ स्पर्धमानौ परस्परम् |
बाहुभिः समसज्जेतामुभौ रक्षोवृकोदरौ ||४५||
तयोरासीत्सम्प्रहारः क्रुद्धयोर्भीमरक्षसोः |
अमृष्यमाणयोः सङ्ख्ये देवदानवयोरिव ||४६||
आरुज्यारुज्य तौ वृक्षानन्योन्यमभिजघ्नतुः |
जीमूताविव घर्मान्ते विनदन्तौ महाबलौ ||४७||
बभञ्जतुर्महावृक्षानूरुभिर्बलिनां वरौ |
अन्योन्येनाभिसंरब्धौ परस्परजयैषिणौ ||४८||
तद्वृक्षयुद्धमभवन्महीरुहविनाशनम् |
वालिसुग्रीवयोर्भ्रात्रोः पुरेव कपिसिंहयोः ||४९||
आविध्याविध्य तौ वृक्षान्मुहूर्तमितरेतरम् |
ताडयामासतुरुभौ विनदन्तौ मुहुर्मुहुः ||५०||
तस्मिन्देशे यदा वृक्षाः सर्व एव निपातिताः |
पुञ्जीकृताश्च शतशः परस्परवधेप्सया ||५१||
तदा शिलाः समादाय मुहूर्तमिव भारत |
महाभ्रैरिव शैलेन्द्रौ युयुधाते महाबलौ ||५२||
उग्राभिरुग्ररूपाभिर्बृहतीभिः परस्परम् |
वज्रैरिव महावेगैराजघ्नतुरमर्षणौ ||५३||
अभिहत्य च भूयस्तावन्योन्यं बलदर्पितौ |
भुजाभ्यां परिगृह्याथ चकर्षाते गजाविव ||५४||
मुष्टिभिश्च महाघोरैरन्योन्यमभिपेततुः |
तयोश्चटचटाशब्दो बभूव सुमहात्मनोः ||५५||
ततः संहृत्य मुष्टिं तु पञ्चशीर्षमिवोरगम् |
वेगेनाभ्यहनद्भीमो राक्षसस्य शिरोधराम् ||५६||
ततः श्रान्तं तु तद्रक्षो भीमसेनभुजाहतम् |
सुपरिश्रान्तमालक्ष्य भीमसेनोऽभ्यवर्तत ||५७||
तत एनं महाबाहुर्बाहुभ्याममरोपमः |
समुत्क्षिप्य बलाद्भीमो निष्पिपेष महीतले ||५८||
तस्य गात्राणि सर्वाणि चूर्णयामास पाण्डवः |
अरत्निना चाभिहत्य शिरः कायादपाहरत् ||५९||
संदष्टोष्ठं विवृत्ताक्षं फलं वृन्तादिव च्युतम् |
जटासुरस्य तु शिरो भीमसेनबलाद्धृतम् ||६०||
पपात रुधिरादिग्धं संदष्टदशनच्छदम् ||६०||
तं निहत्य महेष्वासो युधिष्ठिरमुपागमत् |
स्तूयमानो द्विजाग्र्यैस्तैर्मरुद्भिरिव वासवः ||६१||
यक्षयुद्धपर्व
१५५
वैशम्पायन उवाच||
निहते राक्षसे तस्मिन्पुनर्नारायणाश्रमम् |
अभ्येत्य राजा कौन्तेयो निवासमकरोत्प्रभुः ||१||
स समानीय तान्सर्वान्भ्रातॄनित्यब्रवीद्वचः |
द्रौपद्या सहितान्काले संस्मरन्भ्रातरं जयम् ||२||
समाश्चतस्रोऽभिगताः शिवेन चरतां वने |
कृतोद्देशश्च बीभत्सुः पञ्चमीमभितः समाम् ||३||
प्राप्य पर्वतराजानं श्वेतं शिखरिणां वरम् |
तत्रापि च कृतोद्देशः समागमदिदृक्षुभिः ||४||
कृतश्च समयस्तेन पार्थेनामिततेजसा |
पञ्च वर्षाणि वत्स्यामि विद्यार्थीति पुरा मयि ||५||
तत्र गाण्डीवधन्वानमवाप्तास्त्रमरिंदमम् |
देवलोकादिमं लोकं द्रक्ष्यामः पुनरागतम् ||६||
इत्युक्त्वा ब्राह्मणान्सर्वानामन्त्रयत पाण्डवः |
कारणं चैव तत्तेषामाचचक्षे तपस्विनाम् ||७||
तमुग्रतपसः प्रीताः कृत्वा पार्थं प्रदक्षिणम् |
ब्राह्मणास्तेऽन्वमोदन्त शिवेन कुशलेन च ||८||
सुखोदर्कमिमं क्लेशमचिराद्भरतर्षभ |
क्षत्रधर्मेण धर्मज्ञ तीर्त्वा गां पालयिष्यसि ||९||
तत्तु राजा वचस्तेषां प्रतिगृह्य तपस्विनाम् |
प्रतस्थे सह विप्रैस्तैर्भ्रातृभिश्च परन्तपः ||१०||
द्रौपद्या सहितः श्रीमान्हैडिम्बेयादिभिस्तथा |
राक्षसैरनुयातश्च लोमशेनाभिरक्षितः ||११||
क्वचिज्जगाम पद्भ्यां तु राक्षसैरुह्यते क्वचित् |
तत्र तत्र महातेजा भ्रातृभिः सह सुव्रतः ||१२||
ततो युधिष्ठिरो राजा बहून्क्लेशान्विचिन्तयन् |
सिंहव्याघ्रगजाकीर्णामुदीचीं प्रययौ दिशम् ||१३||
अवेक्षमाणः कैलासं मैनाकं चैव पर्वतम् |
गन्धमादनपादांश्च मेरुं चापि शिलोच्चयम् ||१४||
उपर्युपरि शैलस्य बह्वीश्च सरितः शिवाः |
प्रस्थं हिमवतः पुण्यं ययौ सप्तदशेऽहनि ||१५||
ददृशुः पाण्डवा राजन्गन्धमादनमन्तिकात् |
पृष्ठे हिमवतः पुण्ये नानाद्रुमलतायुते ||१६||
सलिलावर्तसञ्जातैः पुष्पितैश्च महीरुहैः |
समावृतं पुण्यतममाश्रमं वृषपर्वणः ||१७||
तमुपक्रम्य राजर्षिं धर्मात्मानमरिंदमाः |
पाण्डवा वृषपर्वाणमवन्दन्त गतक्लमाः ||१८||
अभ्यनन्दत्स राजर्षिः पुत्रवद्भरतर्षभान् |
पूजिताश्चावसंस्तत्र सप्तरात्रमरिंदमाः ||१९||
अष्टमेऽहनि सम्प्राप्ते तमृषिं लोकविश्रुतम् |
आमन्त्र्य वृषपर्वाणं प्रस्थानं समरोचयन् ||२०||
एकैकशश्च तान्विप्रान्निवेद्य वृषपर्वणे |
न्यासभूतान्यथाकालं बन्धूनिव सुसत्कृतान् ||२१||
ततस्ते वरवस्त्राणि शुभान्याभरणानि च |
न्यदधुः पाण्डवास्तस्मिन्नाश्रमे वृषपर्वणः ||२२||
अतीतानागते विद्वान्कुशलः सर्वधर्मवित् |
अन्वशासत्स धर्मज्ञः पुत्रवद्भरतर्षभान् ||२३||
तेऽनुज्ञाता महात्मानः प्रययुर्दिशमुत्तराम् |
कृष्णया सहिता वीरा ब्राह्मणैश्च महात्मभिः ||२४||
तान्प्रस्थितानन्वगच्छद्वृषपर्वा महीपतिः ||२४||
उपन्यस्य महातेजा विप्रेभ्यः पाण्डवांस्तदा |
अनुसंसाध्य कौन्तेयानाशीर्भिरभिनन्द्य च ||२५||
वृषपर्वा निववृते पन्थानमुपदिश्य च ||२५||
नानामृगगणैर्जुष्टं कौन्तेयः सत्यविक्रमः |
पदातिर्भ्रातृभिः सार्धं प्रातिष्ठत युधिष्ठिरः ||२६||
नानाद्रुमनिरोधेषु वसन्तः शैलसानुषु |
पर्वतं विविशुः श्वेतं चतुर्थेऽहनि पाण्डवाः ||२७||
महाभ्रघनसङ्काशं सलिलोपहितं शुभम् |
मणिकाञ्चनरम्यं च शैलं नानासमुच्छ्रयम् ||२८||
ते समासाद्य पन्थानं यथोक्तं वृषपर्वणा |
अनुसस्रुर्यथोद्देशं पश्यन्तो विविधान्नगान् ||२९||
उपर्युपरि शैलस्य गुहाः परमदुर्गमाः |
सुदुर्गमांस्ते सुबहून्सुखेनैवाभिचक्रमुः ||३०||
धौम्यः कृष्णा च पार्थाश्च लोमशश्च महानृषिः |
अगमन्सहितास्तत्र न कश्चिदवहीयते ||३१||
ते मृगद्विजसङ्घुष्टं नानाद्विजसमाकुलम् |
शाखामृगगणैश्चैव सेवितं सुमनोहरम् ||३२||
पुण्यं पद्मसरोपेतं सपल्वलमहावनम् |
उपतस्थुर्महावीर्या माल्यवन्तं महागिरिम् ||३३||
ततः किम्पुरुषावासं सिद्धचारणसेवितम् |
ददृशुर्हृष्टरोमाणः पर्वतं गन्धमादनम् ||३४||
विद्याधरानुचरितं किंनरीभिस्तथैव च |
गजसिंहसमाकीर्णमुदीर्णशरभायुतम् ||३५||
उपेतमन्यैश्च तदा मृगैर्मृदुनिनादिभिः |
ते गन्धमादनवनं तन्नन्दनवनोपमम् ||३६||
मुदिताः पाण्डुतनया मनोहृदयनन्दनम् |
विविशुः क्रमशो वीरा अरण्यं शुभकाननम् ||३७||
द्रौपदीसहिता वीरास्तैश्च विप्रैर्महात्मभिः |
शृण्वन्तः प्रीतिजननान्वल्गून्मदकलाञ्शुभान् ||३८||
श्रोत्ररम्यान्सुमधुराञ्शब्दान्खगमुखेरितान् ||३८||
सर्वर्तुफलभाराढ्यान्सर्वर्तुकुसुमोज्ज्वलान् |
पश्यन्तः पादपांश्चापि फलभारावनामितान् ||३९||
आम्रानाम्रातकान्फुल्लान्नारिकेलान्सतिन्दुकान् |
अजातकांस्तथा जीरान्दाडिमान्बीजपूरकान् ||४०||
पनसाँल्लिकुचान्मोचान्खर्जूरानाम्रवेतसान् |
पारावतांस्तथा क्षौद्रान्नीपांश्चापि मनोरमान् ||४१||
बिल्वान्कपित्थाञ्जम्बूंश्च काश्मरीर्बदरीस्तथा |
प्लक्षानुदुम्बरवटानश्वत्थान्क्षीरिणस्तथा ||४२||
भल्लातकानामलकान्हरीतकबिभीतकान् ||४२||
इङ्गुदान्करवीरांश्च तिन्दुकांश्च महाफलान् |
एतानन्यांश्च विविधान्गन्धमादनसानुषु ||४३||
फलैरमृतकल्पैस्तानाचितान्स्वादुभिस्तरून् |
तथैव चम्पकाशोकान्केतकान्बकुलांस्तथा ||४४||
पुंनागान्सप्तपर्णांश्च कर्णिकारान्सकेतकान् |
पाटलान्कुटजान्रम्यान्मन्दारेन्दीवरांस्तथा ||४५||
पारिजातान्कोविदारान्देवदारुतरूंस्तथा |
शालांस्तालांस्तमालांश्च प्रियालान्बकुलांस्तथा ||४६||
शाल्मलीः किंशुकाशोकाञ्शिंशपांस्तरलांस्तथा ||४६||
चकोरैः शतपत्रैश्च भृङ्गराजैस्तथा शुकैः |
कोकिलैः कलविङ्कैश्च हारीतैर्जीवजीवकैः ||४७||
प्रियव्रतैश्चातकैश्च तथान्यैर्विविधैः खगैः |
श्रोत्ररम्यं सुमधुरं कूजद्भिश्चाप्यधिष्ठितान् ||४८||
सरांसि च विचित्राणि प्रसन्नसलिलानि च |
कुमुदैः पुण्डरीकैश्च तथा कोकनदोत्पलैः ||४९||
कह्लारैः कमलैश्चैव आचितानि समन्ततः ||४९||
कदम्बैश्चक्रवाकैश्च कुररैर्जलकुक्कुटैः |
कारण्डवैः प्लवैर्हंसैर्बकैर्मद्गुभिरेव च ||५०||
एतैश्चान्यैश्च कीर्णानि समन्ताज्जलचारिभिः ||५०||
हृष्टैस्तथा तामरसरसासवमदालसैः |
पद्मोदरच्युतरजःकिञ्जल्कारुणरञ्जितैः ||५१||
मधुरस्वरैर्मधुकरैर्विरुतान्कमलाकरान् |
पश्यन्तस्ते मनोरम्यान्गन्धमादनसानुषु ||५२||
तथैव पद्मषण्डैश्च मण्डितेषु समन्ततः |
शिखण्डिनीभिः सहिताँल्लतामण्डपकेषु च ||५३||
मेघतूर्यरवोद्दाममदनाकुलितान्भृशम् ||५३||
कृत्वैव केकामधुरं सङ्गीतमधुरस्वरम् |
चित्रान्कलापान्विस्तीर्य सविलासान्मदालसान् ||५४||
मयूरान्ददृशुश्चित्रान्नृत्यतो वनलासकान् ||५४||
कान्ताभिः सहितानन्यानपश्यन्रमतः सुखम् |
वल्लीलतासङ्कटेषु कटकेषु स्थितांस्तथा ||५५||
कांश्चिच्छकुनजातांश्च विटपेषूत्कटानपि |
कलापरचिताटोपान्विचित्रमुकुटानिव ||५६||
विवरेषु तरूणां च मुदितान्ददृशुश्च ते ||५६||
सिन्धुवारानथोद्दामान्मन्मथस्येव तोमरान् |
सुवर्णकुसुमाकीर्णान्गिरीणां शिखरेषु च ||५७||
कर्णिकारान्विरचितान्कर्णपूरानिवोत्तमान् |
अथापश्यन्कुरबकान्वनराजिषु पुष्पितान् ||५८||
कामवश्योत्सुककरान्कामस्येव शरोत्करान् ||५८||
तथैव वनराजीनामुदारान्रचितानिव |
विराजमानांस्तेऽपश्यंस्तिलकांस्तिलकानिव ||५९||
तथानङ्गशराकारान्सहकारान्मनोरमान् |
अपश्यन्भ्रमरारावान्मञ्जरीभिर्विराजितान् ||६०||
हिरण्यसदृशैः पुष्पैर्दावाग्निसदृशैरपि |
लोहितैरञ्जनाभैश्च वैडूर्यसदृशैरपि ||६१||
तथा शालांस्तमालांश्च पाटल्यो बकुलानि च |
माला इव समासक्ताः शैलानां शिखरेषु च ||६२||
एवं क्रमेण ते वीरा वीक्षमाणाः समन्ततः |
गजसङ्घसमाबाधं सिंहव्याघ्रसमायुतम् ||६३||
शरभोन्नादसङ्घुष्टं नानारावनिनादितम् |
सर्वर्तुफलपुष्पाढ्यं गन्धमादनसानुषु ||६४||
पीता भास्वरवर्णाभा बभूवुर्वनराजयः |
नात्र कण्टकिनः केचिन्नात्र केचिदपुष्पिताः ||६५||
स्निग्धपत्रफला वृक्षा गन्धमादनसानुषु ||६५||
विमलस्फटिकाभानि पाण्डुरच्छदनैर्द्विजैः |
राजहंसैरुपेतानि सारसाभिरुतानि च ||६६||
सरांसि सरितः पार्थाः पश्यन्तः शैलसानुषु ||६६||
पद्मोत्पलविचित्राणि सुखस्पर्शजलानि च |
गन्धवन्ति च माल्यानि रसवन्ति फलानि च ||६७||
अतीव वृक्षा राजन्ते पुष्पिताः शैलसानुषु ||६७||
एते चान्ये च बहवस्तत्र काननजा द्रुमाः |
लताश्च विविधाकाराः पत्रपुष्पफलोच्चयाः ||६८||
युधिष्ठिरस्तु तान्वृक्षान्पश्यमानो नगोत्तमे |
भीमसेनमिदं वाक्यमब्रवीन्मधुराक्षरम् ||६९||
पश्य भीम शुभान्देशान्देवाक्रीडान्समन्ततः |
अमानुषगतिं प्राप्ताः संसिद्धाः स्म वृकोदर ||७०||
लताभिश्चैव बह्वीभिः पुष्पिताः पादपोत्तमाः |
संश्लिष्टाः पार्थ शोभन्ते गन्धमादनसानुषु ||७१||
शिखण्डिनीभिश्चरतां सहितानां शिखण्डिनाम् |
नर्दतां शृणु निर्घोषं भीम पर्वतसानुषु ||७२||
चकोराः शतपत्राश्च मत्तकोकिलशारिकाः |
पत्रिणः पुष्पितानेतान्संश्लिष्यन्ति महाद्रुमान् ||७३||
रक्तपीतारुणाः पार्थ पादपाग्रगता द्विजाः |
परस्परमुदीक्षन्ते बहवो जीवजीवकाः ||७४||
हरितारुणवर्णानां शाद्वलानां समन्ततः |
सारसाः प्रतिदृश्यन्ते शैलप्रस्रवणेष्वपि ||७५||
वदन्ति मधुरा वाचः सर्वभूतमनोनुगाः |
भृङ्गराजोपचक्राश्च लोहपृष्ठाश्च पत्रिणः ||७६||
चतुर्विषाणाः पद्माभाः कुञ्जराः सकरेणवः |
एते वैडूर्यवर्णाभं क्षोभयन्ति महत्सरः ||७७||
बहुतालसमुत्सेधाः शैलशृङ्गात्परिच्युताः |
नानाप्रस्रवणेभ्यश्च वारिधाराः पतन्त्यमूः ||७८||
भास्कराभप्रभा भीम शारदाभ्रघनोपमाः |
शोभयन्ति महाशैलं नानारजतधातवः ||७९||
क्वचिदञ्जनवर्णाभाः क्वचित्काञ्चनसंनिभाः |
धातवो हरितालस्य क्वचिद्धिङ्गुलकस्य च ||८०||
मनःशिलागुहाश्चैव सन्ध्याभ्रनिकरोपमाः |
शशलोहितवर्णाभाः क्वचिद्गैरिकधातवः ||८१||
सितासिताभ्रप्रतिमा बालसूर्यसमप्रभाः |
एते बहुविधाः शैलं शोभयन्ति महाप्रभाः ||८२||
गन्धर्वाः सह कान्ताभिर्यथोक्तं वृषपर्वणा |
दृश्यन्ते शैलशृङ्गेषु पार्थ किम्पुरुषैः सह ||८३||
गीतानां तलतालानां यथा साम्नां च निस्वनः |
श्रूयते बहुधा भीम सर्वभूतमनोहरः ||८४||
महागङ्गामुदीक्षस्व पुण्यां देवनदीं शुभाम् |
कलहंसगणैर्जुष्टामृषिकिंनरसेविताम् ||८५||
धातुभिश्च सरिद्भिश्च किंनरैर्मृगपक्षिभिः |
गन्धर्वैरप्सरोभिश्च काननैश्च मनोरमैः ||८६||
व्यालैश्च विविधाकारैः शतशीर्षैः समन्ततः |
उपेतं पश्य कौन्तेय शैलराजमरिंदम ||८७||
ते प्रीतमनसः शूराः प्राप्ता गतिमनुत्तमाम् |
नातृप्यन्पर्वतेन्द्रस्य दर्शनेन परन्तपाः ||८८||
उपेतमथ माल्यैश्च फलवद्भिश्च पादपैः |
आर्ष्टिषेणस्य राजर्षेराश्रमं ददृशुस्तदा ||८९||
ततस्तं तीव्रतपसं कृशं धमनिसन्ततम् |
पारगं सर्वधर्माणामार्ष्टिषेणमुपागमन् ||९०||
१५६
वैशम्पायन उवाच||
युधिष्ठिरस्तमासाद्य तपसा दग्धकिल्बिषम् |
अभ्यवादयत प्रीतः शिरसा नाम कीर्तयन् ||१||
ततः कृष्णा च भीमश्च यमौ चापि यशस्विनौ |
शिरोभिः प्राप्य राजर्षिं परिवार्योपतस्थिरे ||२||
तथैव धौम्यो धर्मज्ञः पाण्डवानां पुरोहितः |
यथान्यायमुपाक्रान्तस्तमृषिं संशितव्रतम् ||३||
अन्वजानात्स धर्मज्ञो मुनिर्दिव्येन चक्षुषा |
पाण्डोः पुत्रान्कुरुश्रेष्ठानास्यतामिति चाब्रवीत् ||४||
कुरूणामृषभं प्राज्ञं पूजयित्वा महातपाः |
सह भ्रातृभिरासीनं पर्यपृच्छदनामयम् ||५||
नानृते कुरुषे भावं कच्चिद्धर्मे च वर्तसे |
मतापित्रोश्च ते वृत्तिः कच्चित्पार्थ न सीदति ||६||
कच्चित्ते गुरवः सर्वे वृद्धा वैद्याश्च पूजिताः |
कच्चिन्न कुरुषे भावं पार्थ पापेषु कर्मसु ||७||
सुकृतं प्रतिकर्तुं च कच्चिद्धातुं च दुष्कृतम् |
यथान्यायं कुरुश्रेष्ठ जानासि न च कत्थसे ||८||
यथार्हं मानिताः कच्चित्त्वया नन्दन्ति साधवः |
वनेष्वपि वसन्कच्चिद्धर्ममेवानुवर्तसे ||९||
कच्चिद्धौम्यस्त्वदाचारैर्न पार्थ परितप्यते |
दानधर्मतपःशौचैरार्जवेन तितिक्षया ||१०||
पितृपैतामहं वृत्तं कच्चित्पार्थानुवर्तसे |
कच्चिद्राजर्षियातेन पथा गच्छसि पाण्डव ||११||
स्वे स्वे किल कुले जाते पुत्रे नप्तरि वा पुनः |
पितरः पितृलोकस्थाः शोचन्ति च हसन्ति च ||१२||
किं न्वस्य दुष्कृतेऽस्माभिः सम्प्राप्तव्यं भविष्यति |
किं चास्य सुकृतेऽस्माभिः प्राप्तव्यमिति शोभनम् ||१३||
पिता माता तथैवाग्निर्गुरुरात्मा च पञ्चमः |
यस्यैते पूजिताः पार्थ तस्य लोकावुभौ जितौ ||१४||
अब्भक्षा वायुभक्षाश्च प्लवमाना विहायसा |
जुषन्ते पर्वतश्रेष्ठमृषयः पर्वसन्धिषु ||१५||
कामिनः सह कान्ताभिः परस्परमनुव्रताः |
दृश्यन्ते शैलशृङ्गस्थास्तथा किम्पुरुषा नृप ||१६||
अरजांसि च वासांसि वसानाः कौशिकानि च |
दृश्यन्ते बहवः पार्थ गन्धर्वाप्सरसां गणाः ||१७||
विद्याधरगणाश्चैव स्रग्विणः प्रियदर्शनाः |
महोरगगणाश्चैव सुपर्णाश्चोरगादयः ||१८||
अस्य चोपरि शैलस्य श्रूयते पर्वसन्धिषु |
भेरीपणवशङ्खानां मृदङ्गानां च निस्वनः ||१९||
इहस्थैरेव तत्सर्वं श्रोतव्यं भरतर्षभाः |
न कार्या वः कथञ्चित्स्यात्तत्राभिसरणे मतिः ||२०||
न चाप्यतः परं शक्यं गन्तुं भरतसत्तमाः |
विहारो ह्यत्र देवानाममानुषगतिस्तु सा ||२१||
ईषच्चपलकर्माणं मनुष्यमिह भारत |
द्विषन्ति सर्वभूतानि ताडयन्ति च राक्षसाः ||२२||
अभ्यतिक्रम्य शिखरं शैलस्यास्य युधिष्ठिर |
गतिः परमसिद्धानां देवर्षीणां प्रकाशते ||२३||
चापलादिह गच्छन्तं पार्थ यानमतः परम् |
अयःशूलादिभिर्घ्नन्ति राक्षसाः शत्रुसूदन ||२४||
अप्सरोभिः परिवृतः समृद्ध्या नरवाहनः |
इह वैश्रवणस्तात पर्वसन्धिषु दृश्यते ||२५||
शिखरे तं समासीनमधिपं सर्वरक्षसाम् |
प्रेक्षन्ते सर्वभूतानि भानुमन्तमिवोदितम् ||२६||
देवदानवसिद्धानां तथा वैश्रवणस्य च |
गिरेः शिखरमुद्यानमिदं भरतसत्तम ||२७||
उपासीनस्य धनदं तुम्बुरोः पर्वसन्धिषु |
गीतसामस्वनस्तात श्रूयते गन्धमादने ||२८||
एतदेवंविधं चित्रमिह तात युधिष्ठिर |
प्रेक्षन्ते सर्वभूतानि बहुशः पर्वसन्धिषु ||२९||
भुञ्जानाः सर्वभोज्यानि रसवन्ति फलानि च |
वसध्वं पाण्डवश्रेष्ठा यावदर्जुनदर्शनम् ||३०||
न तात चपलैर्भाव्यमिह प्राप्तैः कथञ्चन |
उषित्वेह यथाकामं यथाश्रद्धं विहृत्य च ||३१||
ततः शस्त्रभृतां श्रेष्ठ पृथिवीं पालयिष्यसि ||३१||
१५७
जनमेजय उवाच||
पाण्डोः पुत्रा महात्मानः सर्वे दिव्यपराक्रमाः |
कियन्तं कालमवसन्पर्वते गन्धमादने ||१||
कानि चाभ्यवहार्याणि तत्र तेषां महात्मनाम् |
वसतां लोकवीराणामासंस्तद्ब्रूहि सत्तम ||२||
विस्तरेण च मे शंस भीमसेनपराक्रमम् |
यद्यच्चक्रे महाबाहुस्तस्मिन्हैमवते गिरौ ||३||
न खल्वासीत्पुनर्युद्धं तस्य यक्षैर्द्विजोत्तम ||३||
कच्चित्समागमस्तेषामासीद्वैश्रवणेन च |
तत्र ह्यायाति धनद आर्ष्टिषेणो यथाब्रवीत् ||४||
एतदिच्छाम्यहं श्रोतुं विस्तरेण तपोधन |
न हि मे शृण्वतस्तृप्तिरस्ति तेषां विचेष्टितम् ||५||
वैशम्पायन उवाच||
एतदात्महितं श्रुत्वा तस्याप्रतिमतेजसः |
शासनं सततं चक्रुस्तथैव भरतर्षभाः ||६||
भुञ्जाना मुनिभोज्यानि रसवन्ति फलानि च |
शुद्धबाणहतानां च मृगाणां पिशितान्यपि ||७||
मेध्यानि हिमवत्पृष्ठे मधूनि विविधानि च |
एवं ते न्यवसंस्तत्र पाण्डवा भरतर्षभाः ||८||
तथा निवसतां तेषां पञ्चमं वर्षमभ्यगात् |
शृण्वतां लोमशोक्तानि वाक्यानि विविधानि च ||९||
कृत्यकाल उपस्थास्य इति चोक्त्वा घटोत्कचः |
राक्षसैः सहितः सर्वैः पूर्वमेव गतः प्रभो ||१०||
आर्ष्टिषेणाश्रमे तेषां वसतां वै महात्मनाम् |
अगच्छन्बहवो मासाः पश्यतां महदद्भुतम् ||११||
तैस्तत्र रममाणैश्च विहरद्भिश्च पाण्डवैः |
प्रीतिमन्तो महाभागा मुनयश्चारणास्तथा ||१२||
आजग्मुः पाण्डवान्द्रष्टुं सिद्धात्मानो यतव्रताः |
तैस्तैः सह कथाश्चक्रुर्दिव्या भरतसत्तमाः ||१३||
ततः कतिपयाहस्य महाह्रदनिवासिनम् |
ऋद्धिमन्तं महानागं सुपर्णः सहसाहरत् ||१४||
प्राकम्पत महाशैलः प्रामृद्यन्त महाद्रुमाः |
ददृशुः सर्वभूतानि पाण्डवाश्च तदद्भुतम् ||१५||
ततः शैलोत्तमस्याग्रात्पाण्डवान्प्रति मारुतः |
अवहत्सर्वमाल्यानि गन्धवन्ति शुभानि च ||१६||
तत्र पुष्पाणि दिव्यानि सुहृद्भिः सह पाण्डवाः |
ददृशुः पञ्च वर्णानि द्रौपदी च यशस्विनी ||१७||
भीमसेनं ततः कृष्णा काले वचनमब्रवीत् |
विविक्ते पर्वतोद्देशे सुखासीनं महाभुजम् ||१८||
सुपर्णानिलवेगेन श्वसनेन महाबलात् |
पञ्चवर्णानि पात्यन्ते पुष्पाणि भरतर्षभ ||१९||
प्रत्यक्षं सर्वभूतानां नदीमश्वरथां प्रति ||१९||
खाण्डवे सत्यसन्धेन भ्रात्रा तव नरेश्वर |
गन्धर्वोरगरक्षांसि वासवश्च निवारितः ||२०||
हता मायाविनश्चोग्रा धनुः प्राप्तं च गाण्डिवम् ||२०||
तवापि सुमहत्तेजो महद्बाहुबलं च ते |
अविषह्यमनाधृष्यं शतक्रतुबलोपमम् ||२१||
त्वद्बाहुबलवेगेन त्रासिताः सर्वराक्षसाः |
हित्वा शैलं प्रपद्यन्तां भीमसेन दिशो दश ||२२||
ततः शैलोत्तमस्याग्रं चित्रमाल्यधरं शिवम् |
व्यपेतभयसंमोहाः पश्यन्तु सुहृदस्तव ||२३||
एवं प्रणिहितं भीम चिरात्प्रभृति मे मनः |
द्रष्टुमिच्छामि शैलाग्रं त्वद्बाहुबलमाश्रिता ||२४||
ततः क्षिप्तमिवात्मानं द्रौपद्या स परन्तपः |
नामृष्यत महाबाहुः प्रहारमिव सद्गवः ||२५||
सिंहर्षभगतिः श्रीमानुदारः कनकप्रभः |
मनस्वी बलवान्दृप्तो मानी शूरश्च पाण्डवः ||२६||
लोहिताक्षः पृथुव्यंसो मत्तवारणविक्रमः |
सिंहदंष्ट्रो बृहत्स्कन्धः शालपोत इवोद्गतः ||२७||
महात्मा चारुसर्वाङ्गः कम्बुग्रीवो महाभुजः |
रुक्मपृष्ठं धनुः खड्गं तूणांश्चापि परामृशत् ||२८||
केसरीव यथोत्सिक्तः प्रभिन्न इव वारणः |
व्यपेतभयसंमोहः शैलमभ्यपतद्बली ||२९||
तं मृगेन्द्रमिवायान्तं प्रभिन्नमिव वारणम् |
ददृशुः सर्वभूतानि बाणखड्गधनुर्धरम् ||३०||
द्रौपद्या वर्धयन्हर्षं गदामादाय पाण्डवः |
व्यपेतभयसंमोहः शैलराजं समाविशत् ||३१||
न ग्लानिर्न च कातर्यं न वैक्लव्यं न मत्सरः |
कदाचिज्जुषते पार्थमात्मजं मातरिश्वनः ||३२||
तदेकायनमासाद्य विषमं भीमदर्शनम् |
बहुतालोच्छ्रयं शृङ्गमारुरोह महाबलः ||३३||
स किंनरमहानागमुनिगन्धर्वराक्षसान् |
हर्षयन्पर्वतस्याग्रमाससाद महाबलः ||३४||
तत्र वैश्रवणावासं ददर्श भरतर्षभः |
काञ्चनैः स्फाटिकाकारैर्वेश्मभिः समलङ्कृतम् ||३५||
मोदयन्सर्वभूतानि गन्धमादनसम्भवः |
सर्वगन्धवहस्तत्र मारुतः सुसुखो ववौ ||३६||
चित्रा विविधवर्णाभाश्चित्रमञ्जरिधारिणः |
अचिन्त्या विविधास्तत्र द्रुमाः परमशोभनाः ||३७||
रत्नजालपरिक्षिप्तं चित्रमाल्यधरं शिवम् |
राक्षसाधिपतेः स्थानं ददर्श भरतर्षभः ||३८||
गदाखड्गधनुष्पाणिः समभित्यक्तजीवितः |
भीमसेनो महाबाहुस्तस्थौ गिरिरिवाचलः ||३९||
ततः शङ्खमुपाध्मासीद्द्विषतां लोमहर्षणम् |
ज्याघोषतलघोषं च कृत्वा भूतान्यमोहयत् ||४०||
ततः संहृष्टरोमाणः शब्दं तमभिदुद्रुवुः |
यक्षराक्षसगन्धर्वाः पाण्डवस्य समीपतः ||४१||
गदापरिघनिस्त्रिंशशक्तिशूलपरश्वधाः |
प्रगृहीता व्यरोचन्त यक्षराक्षसबाहुभिः ||४२||
ततः प्रववृते युद्धं तेषां तस्य च भारत |
तैः प्रयुक्तान्महाकायैः शक्तिशूलपरश्वधान् ||४३||
भल्लैर्भीमः प्रचिच्छेद भीमवेगतरैस्ततः ||४३||
अन्तरिक्षचराणां च भूमिष्ठानां च गर्जताम् |
शरैर्विव्याध गात्राणि राक्षसानां महाबलः ||४४||
सा लोहितमहावृष्टिरभ्यवर्षन्महाबलम् |
कायेभ्यः प्रच्युता धारा राक्षसानां समन्ततः ||४५||
भीमबाहुबलोत्सृष्टैर्बहुधा यक्षरक्षसाम् |
विनिकृत्तान्यदृश्यन्त शरीराणि शिरांसि च ||४६||
प्रच्छाद्यमानं रक्षोभिः पाण्डवं प्रियदर्शनम् |
ददृशुः सर्वभूतानि सूर्यमभ्रगणैरिव ||४७||
स रश्मिभिरिवादित्यः शरैररिनिघातिभिः |
सर्वानार्छन्महाबाहुर्बलवान्सत्यविक्रमः ||४८||
अभितर्जयमानाश्च रुवन्तश्च महारवान् |
न मोहं भीमसेनस्य ददृशुः सर्वराक्षसाः ||४९||
ते शरैः क्षतसर्वाङ्गा भीमसेनभयार्दिताः |
भीममार्तस्वरं चक्रुर्विप्रकीर्णमहायुधाः ||५०||
उत्सृज्य ते गदाशूलानसिशक्तिपरश्वधान् |
दक्षिणां दिशमाजग्मुस्त्रासिता दृढधन्वना ||५१||
तत्र शूलगदापाणिर्व्यूढोरस्को महाभुजः |
सखा वैश्रवणस्यासीन्मणिमान्नाम राक्षसः ||५२||
अदर्शयदधीकारं पौरुषं च महाबलः |
स तान्दृष्ट्वा परावृत्तान्स्मयमान इवाब्रवीत् ||५३||
एकेन बहवः सङ्ख्ये मानुषेण पराजिताः |
प्राप्य वैश्रवणावासं किं वक्ष्यथ धनेश्वरम् ||५४||
एवमाभाष्य तान्सर्वान्न्यवर्तत स राक्षसः |
शक्तिशूलगदापाणिरभ्यधावच्च पाण्डवम् ||५५||
तमापतन्तं वेगेन प्रभिन्नमिव वारणम् |
वत्सदन्तैस्त्रिभिः पार्श्वे भीमसेनः समर्पयत् ||५६||
मणिमानपि सङ्क्रुद्धः प्रगृह्य महतीं गदाम् |
प्राहिणोद्भीमसेनाय परिक्षिप्य महाबलः ||५७||
विद्युद्रूपां महाघोरामाकाशे महतीं गदाम् |
शरैर्बहुभिरभ्यर्छद्भीमसेनः शिलाशितैः ||५८||
प्रत्यहन्यन्त ते सर्वे गदामासाद्य सायकाः |
न वेगं धारयामासुर्गदावेगस्य वेगिताः ||५९||
गदायुद्धसमाचारं बुध्यमानः स वीर्यवान् |
व्यंसयामास तं तस्य प्रहारं भीमविक्रमः ||६०||
ततः शक्तिं महाघोरां रुक्मदण्डामयस्मयीम् |
तस्मिन्नेवान्तरे धीमान्प्रजहाराथ राक्षसः ||६१||
सा भुजं भीमनिर्ह्रादा भित्त्वा भीमस्य दक्षिणम् |
साग्निज्वाला महारौद्रा पपात सहसा भुवि ||६२||
सोऽतिविद्धो महेष्वासः शक्त्यामितपराक्रमः |
गदां जग्राह कौरव्यो गदायुद्धविशारदः ||६३||
तां प्रगृह्योन्नदन्भीमः सर्वशैक्यायसीं गदाम् |
तरसा सोऽभिदुद्राव मणिमन्तं महाबलम् ||६४||
दीप्यमानं महाशूलं प्रगृह्य मणिमानपि |
प्राहिणोद्भीमसेनाय वेगेन महता नदन् ||६५||
भङ्क्त्वा शूलं गदाग्रेण गदायुद्धविशारदः |
अभिदुद्राव तं तूर्णं गरुत्मानिव पन्नगम् ||६६||
सोऽन्तरिक्षमभिप्लुत्य विधूय सहसा गदाम् |
प्रचिक्षेप महाबाहुर्विनद्य रणमूर्धनि ||६७||
सेन्द्राशनिरिवेन्द्रेण विसृष्टा वातरंहसा |
हत्वा रक्षः क्षितिं प्राप्य कृत्येव निपपात ह ||६८||
तं राक्षसं भीमबलं भीमसेनेन पातितम् |
ददृशुः सर्वभूतानि सिंहेनेव गवां पतिम् ||६९||
तं प्रेक्ष्य निहतं भूमौ हतशेषा निशाचराः |
भीममार्तस्वरं कृत्वा जग्मुः प्राचीं दिशं प्रति ||७०||
१५८
वैशम्पायन उवाच||
श्रुत्वा बहुविधैः शब्दैर्नाद्यमाना गिरेर्गुहाः |
अजातशत्रुः कौन्तेयो माद्रीपुत्रावुभावपि ||१||
धौम्यः कृष्णा च विप्राश्च सर्वे च सुहृदस्तथा |
भीमसेनमपश्यन्तः सर्वे विमनसोऽभवन् ||२||
द्रौपदीमार्ष्टिषेणाय प्रदाय तु महारथाः |
सहिताः सायुधाः शूराः शैलमारुरुहुस्तदा ||३||
ततः सम्प्राप्य शैलाग्रं वीक्षमाणा महारथाः |
ददृशुस्ते महेष्वासा भीमसेनमरिंदमम् ||४||
स्फुरतश्च महाकायान्गतसत्त्वांश्च राक्षसान् |
महाबलान्महाघोरान्भीमसेनेन पातितान् ||५||
शुशुभे स महाबाहुर्गदाखड्गधनुर्धरः |
निहत्य समरे सर्वान्दानवान्मघवानिव ||६||
ततस्ते समतिक्रम्य परिष्वज्य वृकोदरम् |
तत्रोपविविशुः पार्थाः प्राप्ता गतिमनुत्तमाम् ||७||
तैश्चतुर्भिर्महेष्वासैर्गिरिशृङ्गमशोभत |
लोकपालैर्महाभागैर्दिवं देववरैरिव ||८||
कुबेरसदनं दृष्ट्वा राक्षसांश्च निपातितान् |
भ्राता भ्रातरमासीनमभ्यभाषत पाण्डवम् ||९||
साहसाद्यदि वा मोहाद्भीम पापमिदं कृतम् |
नैतत्ते सदृशं वीर मुनेरिव मृषावचः ||१०||
राजद्विष्टं न कर्तव्यमिति धर्मविदो विदुः |
त्रिदशानामिदं द्विष्टं भीमसेन त्वया कृतम् ||११||
अर्थधर्मावनादृत्य यः पापे कुरुते मनः |
कर्मणां पार्थ पापानां स फलं विन्दते ध्रुवम् ||१२||
पुनरेवं न कर्तव्यं मम चेदिच्छसि प्रियम् ||१२||
एवमुक्त्वा स धर्मात्मा भ्राता भ्रातरमच्युतम् |
अर्थतत्त्वविभागज्ञः कुन्तीपुत्रो युधिष्ठिरः ||१३||
विरराम महातेजास्तमेवार्थं विचिन्तयन् ||१३||
ततस्तु हतशिष्टा ये भीमसेनेन राक्षसाः |
सहिताः प्रत्यपद्यन्त कुबेरसदनं प्रति ||१४||
ते जवेन महावेगाः प्राप्य वैश्रवणालयम् |
भीममार्तस्वरं चक्रुर्भीमसेनभयार्दिताः ||१५||
न्यस्तशस्त्रायुधाः श्रान्ताः शोणिताक्तपरिच्छदाः |
प्रकीर्णमूर्धजा राजन्यक्षाधिपतिमब्रुवन् ||१६||
गदापरिघनिस्त्रिंशतोमरप्रासयोधिनः |
राक्षसा निहताः सर्वे तव देव पुरःसराः ||१७||
प्रमृद्य तरसा शैलं मानुषेण धनेश्वर |
एकेन सहिताः सङ्ख्ये हताः क्रोधवशा गणाः ||१८||
प्रवरा रक्षसेन्द्राणां यक्षाणां च धनाधिप |
शेरते निहता देव गतसत्त्वाः परासवः ||१९||
लब्धः शैलो वयं मुक्ता मणिमांस्ते सखा हतः |
मानुषेण कृतं कर्म विधत्स्व यदनन्तरम् ||२०||
स तच्छ्रुत्वा तु सङ्क्रुद्धः सर्वयक्षगणाधिपः |
कोपसंरक्तनयनः कथमित्यब्रवीद्वचः ||२१||
द्वितीयमपराध्यन्तं भीमं श्रुत्वा धनेश्वरः |
चुक्रोध यक्षाधिपतिर्युज्यतामिति चाब्रवीत् ||२२||
अथाभ्रघनसङ्काशं गिरिकूटमिवोच्छ्रितम् |
हयैः संयोजयामासुर्गान्धर्वैरुत्तमं रथम् ||२३||
तस्य सर्वगुणोपेता विमलाक्षा हयोत्तमाः |
तेजोबलजवोपेता नानारत्नविभूषिताः ||२४||
शोभमाना रथे युक्तास्तरिष्यन्त इवाशुगाः |
हर्षयामासुरन्योन्यमिङ्गितैर्विजयावहैः ||२५||
स तमास्थाय भगवान्राजराजो महारथम् |
प्रययौ देवगन्धर्वैः स्तूयमानो महाद्युतिः ||२६||
तं प्रयान्तं महात्मानं सर्वयक्षधनाधिपम् |
रक्ताक्षा हेमसङ्काशा महाकाया महाबलाः ||२७||
सायुधा बद्धनिस्त्रिंशा यक्षा दशशतायुताः |
जवेन महता वीराः परिवार्योपतस्थिरे ||२८||
तं महान्तमुपायान्तं धनेश्वरमुपान्तिके |
ददृशुर्हृष्टरोमाणः पाण्डवाः प्रियदर्शनम् ||२९||
कुबेरस्तु महासत्त्वान्पाण्डोः पुत्रान्महारथान् |
आत्तकार्मुकनिस्त्रिंशान्दृष्ट्वा प्रीतोऽभवत्तदा ||३०||
ते पक्षिण इवोत्पत्य गिरेः शृङ्गं महाजवाः |
तस्थुस्तेषां समभ्याशे धनेश्वरपुरःसराः ||३१||
ततस्तं हृष्टमनसं पाण्डवान्प्रति भारत |
समीक्ष्य यक्षगन्धर्वा निर्विकारा व्यवस्थिताः ||३२||
पाण्डवाश्च महात्मानः प्रणम्य धनदं प्रभुम् |
नकुलः सहदेवश्च धर्मपुत्रश्च धर्मवित् ||३३||
अपराद्धमिवात्मानं मन्यमाना महारथाः |
तस्थुः प्राञ्जलयः सर्वे परिवार्य धनेश्वरम् ||३४||
शय्यासनवरं श्रीमत्पुष्पकं विश्वकर्मणा |
विहितं चित्रपर्यन्तमातिष्ठत धनाधिपः ||३५||
तमासीनं महाकायाः शङ्कुकर्णा महाजवाः |
उपोपविविशुर्यक्षा राक्षसाश्च सहस्रशः ||३६||
शतशश्चापि गन्धर्वास्तथैवाप्सरसां गणाः |
परिवार्योपतिष्ठन्त यथा देवाः शतक्रतुम् ||३७||
काञ्चनीं शिरसा बिभ्रद्भीमसेनः स्रजं शुभाम् |
बाणखड्गधनुष्पाणिरुदैक्षत धनाधिपम् ||३८||
न भीर्भीमस्य न ग्लानिर्विक्षतस्यापि राक्षसैः |
आसीत्तस्यामवस्थायां कुबेरमपि पश्यतः ||३९||
आददानं शितान्बाणान्योद्धुकाममवस्थितम् |
दृष्ट्वा भीमं धर्मसुतमब्रवीन्नरवाहनः ||४०||
विदुस्त्वां सर्वभूतानि पार्थ भूतहिते रतम् |
निर्भयश्चापि शैलाग्रे वस त्वं सह बन्धुभिः ||४१||
न च मन्युस्त्वया कार्यो भीमसेनस्य पाण्डव |
कालेनैते हताः पूर्वं निमित्तमनुजस्तव ||४२||
व्रीडा चात्र न कर्तव्या साहसं यदिदं कृतम् |
दृष्टश्चापि सुरैः पूर्वं विनाशो यक्षरक्षसाम् ||४३||
न भीमसेने कोपो मे प्रीतोऽस्मि भरतर्षभ |
कर्मणानेन भीमस्य मम तुष्टिरभूत्पुरा ||४४||
एवमुक्त्वा तु राजानं भीमसेनमभाषत |
नैतन्मनसि मे तात वर्तते कुरुसत्तम ||४५||
यदिदं साहसं भीम कृष्णार्थे कृतवानसि ||४५||
मामनादृत्य देवांश्च विनाशं यक्षरक्षसाम् |
स्वबाहुबलमाश्रित्य तेनाहं प्रीतिमांस्त्वयि ||४६||
शापादस्मि विनिर्मुक्तो घोरादद्य वृकोदर ||४६||
अहं पूर्वमगस्त्येन क्रुद्धेन परमर्षिणा |
शप्तोऽपराधे कस्मिंश्चित्तस्यैषा निष्कृतिः कृता ||४७||
दृष्टो हि मम सङ्क्लेशः पुरा पाण्डवनन्दन |
न तवात्रापराधोऽस्ति कथञ्चिदपि शत्रुहन् ||४८||
युधिष्ठिर उवाच||
कथं शप्तोऽसि भगवन्नगस्त्येन महात्मना |
श्रोतुमिच्छाम्यहं देव तवैतच्छापकारणम् ||४९||
इदं चाश्चर्यभूतं मे यत्क्रोधात्तस्य धीमतः |
तदैव त्वं न निर्दग्धः सबलः सपदानुगः ||५०||
वैश्रवण उवाच||
देवतानामभून्मन्त्रः कुशवत्यां नरेश्वर |
वृतस्तत्राहमगमं महापद्मशतैस्त्रिभिः ||५१||
यक्षाणां घोररूपाणां विविधायुधधारिणाम् ||५१||
अध्वन्यहमथापश्यमगस्त्यमृषिसत्तमम् |
उग्रं तपस्तपस्यन्तं यमुनातीरमाश्रितम् ||५२||
नानापक्षिगणाकीर्णं पुष्पितद्रुमशोभितम् ||५२||
तमूर्ध्वबाहुं दृष्ट्वा तु सूर्यस्याभिमुखं स्थितम् |
तेजोराशिं दीप्यमानं हुताशनमिवैधितम् ||५३||
राक्षसाधिपतिः श्रीमान्मणिमान्नाम मे सखा |
मौर्ख्यादज्ञानभावाच्च दर्पान्मोहाच्च भारत ||५४||
न्यष्ठीवदाकाशगतो महर्षेस्तस्य मूर्धनि ||५४||
स कोपान्मामुवाचेदं दिशः सर्वा दहन्निव |
मामवज्ञाय दुष्टात्मा यस्मादेष सखा तव ||५५||
धर्षणां कृतवानेतां पश्यतस्ते धनेश्वर |
तस्मात्सहैभिः सैन्यैस्ते वधं प्राप्स्यति मानुषात् ||५६||
त्वं चाप्येभिर्हतैः सैन्यैः क्लेशं प्राप्स्यसि दुर्मते |
तमेव मानुषं दृष्ट्वा किल्बिषाद्विप्रमोक्ष्यसे ||५७||
सैन्यानां तु तवैतेषां पुत्रपौत्रबलान्वितम् |
न शापं प्राप्स्यते घोरं गच्छ तेऽऽज्ञां करिष्यति ||५८||
एष शापो मया प्राप्तः प्राक्तस्मादृषिसत्तमात् |
स भीमेन महाराज भ्रात्रा तव विमोक्षितः ||५९||
१५९
वैश्रवण उवाच||
युधिष्ठिर धृतिर्दाक्ष्यं देशकालौ पराक्रमः |
लोकतन्त्रविधानानामेष पञ्चविधो विधिः ||१||
धृतिमन्तश्च दक्षाश्च स्वे स्वे कर्मणि भारत |
पराक्रमविधानज्ञा नराः कृतयुगेऽभवन् ||२||
धृतिमान्देशकालज्ञः सर्वधर्मविधानवित् |
क्षत्रियः क्षत्रियश्रेष्ठ पृथिवीमनुशास्ति वै ||३||
य एवं वर्तते पार्थ पुरुषः सर्वकर्मसु |
स लोके लभते वीर यशः प्रेत्य च सद्गतिम् ||४||
देशकालान्तरप्रेप्सुः कृत्वा शक्रः पराक्रमम् |
सम्प्राप्तस्त्रिदिवे राज्यं वृत्रहा वसुभिः सह ||५||
पापात्मा पापबुद्धिर्यः पापमेवानुवर्तते |
कर्मणामविभागज्ञः प्रेत्य चेह च नश्यति ||६||
अकालज्ञः सुदुर्मेधाः कार्याणामविशेषवित् |
वृथाचारसमारम्भः प्रेत्य चेह च नश्यति ||७||
साहसे वर्तमानानां निकृतीनां दुरात्मनाम् |
सर्वसामर्थ्यलिप्सूनां पापो भवति निश्चयः ||८||
अधर्मज्ञोऽवलिप्तश्च बालबुद्धिरमर्षणः |
निर्भयो भीमसेनोऽयं तं शाधि पुरुषर्षभ ||९||
आर्ष्टिषेणस्य राजर्षेः प्राप्य भूयस्त्वमाश्रमम् |
तामिस्रं प्रथमं पक्षं वीतशोकभयो वस ||१०||
अलकाः सह गन्धर्वैर्यक्षैश्च सह राक्षसैः |
मन्नियुक्ता मनुष्येन्द्र सर्वे च गिरिवासिनः ||११||
रक्षन्तु त्वा महाबाहो सहितं द्विजसत्तमैः ||११||
साहसेषु च सन्तिष्ठन्निह शैले वृकोदरः |
वार्यतां साध्वयं राजंस्त्वया धर्मभृतां वर ||१२||
इतः परं च राजेन्द्र द्रक्ष्यन्ति वनगोचराः |
उपस्थास्यन्ति च सदा रक्षिष्यन्ति च सर्वशः ||१३||
तथैव चान्नपानानि स्वादूनि च बहूनि च |
उपस्थास्यन्ति वो गृह्य मत्प्रेष्याः पुरुषर्षभ ||१४||
यथा जिष्णुर्महेन्द्रस्य यथा वायोर्वृकोदरः |
धर्मस्य त्वं यथा तात योगोत्पन्नो निजः सुतः ||१५||
आत्मजावात्मसम्पन्नौ यमौ चोभौ यथाश्विनोः |
रक्ष्यास्तद्वन्ममापीह यूयं सर्वे युधिष्ठिर ||१६||
अर्थतत्त्वविभागज्ञः सर्वधर्मविशेषवित् |
भीमसेनादवरजः फल्गुनः कुशली दिवि ||१७||
याः काश्चन मता लोकेष्वग्र्याः परमसम्पदः |
जन्मप्रभृति ताः सर्वाः स्थितास्तात धनञ्जये ||१८||
दमो दानं बलं बुद्धिर्ह्रीर्धृतिस्तेज उत्तमम् |
एतान्यपि महासत्त्वे स्थितान्यमिततेजसि ||१९||
न मोहात्कुरुते जिष्णुः कर्म पाण्डव गर्हितम् |
न पार्थस्य मृषोक्तानि कथयन्ति नरा नृषु ||२०||
स देवपितृगन्धर्वैः कुरूणां कीर्तिवर्धनः |
मानितः कुरुतेऽस्त्राणि शक्रसद्मनि भारत ||२१||
योऽसौ सर्वान्महीपालान्धर्मेण वशमानयत् |
स शन्तनुर्महातेजाः पितुस्तव पितामहः ||२२||
प्रीयते पार्थ पार्थेन दिवि गाण्डीवधन्वना ||२२||
सम्यक्चासौ महावीर्यः कुलधुर्य इव स्थितः |
पितॄन्देवांस्तथा विप्रान्पूजयित्वा महायशाः ||२३||
सप्त मुख्यान्महामेधानाहरद्यमुनां प्रति ||२३||
अधिराजः स राजंस्त्वां शन्तनुः प्रपितामहः |
स्वर्गजिच्छक्रलोकस्थः कुशलं परिपृच्छति ||२४||
वैशम्पायन उवाच||
ततः शक्तिं गदां खड्गं धनुश्च भरतर्षभ |
प्राध्वं कृत्वा नमश्चक्रे कुबेराय वृकोदरः ||२५||
ततोऽब्रवीद्धनाध्यक्षः शरण्यः शरणागतम् |
मानहा भव शत्रूणां सुहृदां नन्दिवर्धनः ||२६||
स्वेषु वेश्मसु रम्येषु वसतामित्रतापनाः |
कामानुपहरिष्यन्ति यक्षा वो भरतर्षभाः ||२७||
शीघ्रमेव गुडाकेशः कृतास्त्रः पुरुषर्षभः |
साक्षान्मघवता सृष्टः सम्प्राप्स्यति धनञ्जयः ||२८||
एवमुत्तमकर्माणमनुशिष्य युधिष्ठिरम् |
अस्तं गिरिवरश्रेष्ठं प्रययौ गुह्यकाधिपः ||२९||
तं परिस्तोमसङ्कीर्णैर्नानारत्नविभूषितैः |
यानैरनुययुर्यक्षा राक्षसाश्च सहस्रशः ||३०||
पक्षिणामिव निर्घोषः कुबेरसदनं प्रति |
बभूव परमाश्वानामैरावतपथे यताम् ||३१||
ते जग्मुस्तूर्णमाकाशं धनाधिपतिवाजिनः |
प्रकर्षन्त इवाभ्राणि पिबन्त इव मारुतम् ||३२||
ततस्तानि शरीराणि गतसत्त्वानि रक्षसाम् |
अपाकृष्यन्त शैलाग्राद्धनाधिपतिशासनात् ||३३||
तेषां हि शापकालोऽसौ कृतोऽगस्त्येन धीमता |
समरे निहतास्तस्मात्सर्वे मणिमता सह ||३४||
पाण्डवास्तु महात्मानस्तेषु वेश्मसु तां क्षपाम् |
सुखमूषुर्गतोद्वेगाः पूजिताः सर्वराक्षसैः ||३५||
१६०
वैशम्पायन उवाच||
ततः सूर्योदये धौम्यः कृत्वाह्निकमरिंदम |
आर्ष्टिषेणेन सहितः पाण्डवानभ्यवर्तत ||१||
तेऽभिवाद्यार्ष्टिषेणस्य पादौ धौम्यस्य चैव ह |
ततः प्राञ्जलयः सर्वे ब्राह्मणांस्तानपूजयन् ||२||
ततो युधिष्ठिरं धौम्यो गृहीत्वा दक्षिणे करे |
प्राचीं दिशमभिप्रेक्ष्य महर्षिरिदमब्रवीत् ||३||
असौ सागरपर्यन्तां भूमिमावृत्य तिष्ठति |
शैलराजो महाराज मन्दरोऽभिविराजते ||४||
इन्द्रवैश्रवणावेतां दिशं पाण्डव रक्षतः |
पर्वतैश्च वनान्तैश्च काननैश्चोपशोभिताम् ||५||
एतदाहुर्महेन्द्रस्य राज्ञो वैश्रवणस्य च |
ऋषयः सर्वधर्मज्ञाः सद्म तात मनीषिणः ||६||
अतश्चोद्यन्तमादित्यमुपतिष्ठन्ति वै प्रजाः |
ऋषयश्चापि धर्मज्ञाः सिद्धाः साध्याश्च देवताः ||७||
यमस्तु राजा धर्मात्मा सर्वप्राणभृतां प्रभुः |
प्रेतसत्त्वगतीमेतां दक्षिणामाश्रितो दिशम् ||८||
एतत्संयमनं पुण्यमतीवाद्भुतदर्शनम् |
प्रेतराजस्य भवनमृद्ध्या परमया युतम् ||९||
यं प्राप्य सविता राजन्सत्येन प्रतितिष्ठति |
अस्तं पर्वतराजानमेतमाहुर्मनीषिणः ||१०||
एतं पर्वतराजानं समुद्रं च महोदधिम् |
आवसन्वरुणो राजा भूतानि परिरक्षति ||११||
उदीचीं दीपयन्नेष दिशं तिष्ठति कीर्तिमान् |
महामेरुर्महाभाग शिवो ब्रह्मविदां गतिः ||१२||
यस्मिन्ब्रह्मसदश्चैव तिष्ठते च प्रजापतिः |
भूतात्मा विसृजन्सर्वं यत्किञ्चिज्जङ्गमागमम् ||१३||
यानाहुर्ब्रह्मणः पुत्रान्मानसान्दक्षसप्तमान् |
तेषामपि महामेरुः स्थानं शिवमनामयम् ||१४||
अत्रैव प्रतितिष्ठन्ति पुनरत्रोदयन्ति च |
सप्त देवर्षयस्तात वसिष्ठप्रमुखाः सदा ||१५||
देशं विरजसं पश्य मेरोः शिखरमुत्तमम् |
यत्रात्मतृप्तैरध्यास्ते देवैः सह पितामहः ||१६||
यमाहुः सर्वभूतानां प्रकृतेः प्रकृतिं ध्रुवम् |
अनादिनिधनं देवं प्रभुं नारायणं परम् ||१७||
ब्रह्मणः सदनात्तस्य परं स्थानं प्रकाशते |
देवाश्च यत्नात्पश्यन्ति दिव्यं तेजोमयं शिवम् ||१८||
अत्यर्कानलदीप्तं तत्स्थानं विष्णोर्महात्मनः |
स्वयैव प्रभया राजन्दुष्प्रेक्ष्यं देवदानवैः ||१९||
तद्वै ज्योतींषि सर्वाणि प्राप्य भासन्ति नोऽपि च |
स्वयं विभुरदीनात्मा तत्र ह्यभिविराजते ||२०||
यतयस्तत्र गच्छन्ति भक्त्या नारायणं हरिम् |
परेण तपसा युक्ता भाविताः कर्मभिः शुभैः ||२१||
योगसिद्धा महात्मानस्तमोमोहविवर्जिताः |
तत्र गत्वा पुनर्नेमं लोकमायान्ति भारत ||२२||
स्थानमेतन्महाभाग ध्रुवमक्षयमव्ययम् |
ईश्वरस्य सदा ह्येतत्प्रणमात्र युधिष्ठिर ||२३||
एतं ज्योतींषि सर्वाणि प्रकर्षन्भगवानपि |
कुरुते वितमस्कर्मा आदित्योऽभिप्रदक्षिणम् ||२४||
अस्तं प्राप्य ततः सन्ध्यामतिक्रम्य दिवाकरः |
उदीचीं भजते काष्ठां दिशमेष विभावसुः ||२५||
स मेरुमनुवृत्तः सन्पुनर्गच्छति पाण्डव |
प्राङ्मुखः सविता देवः सर्वभूतहिते रतः ||२६||
स मासं विभजन्कालं बहुधा पर्वसन्धिषु |
तथैव भगवान्सोमो नक्षत्रैः सह गच्छति ||२७||
एवमेष परिक्रम्य महामेरुमतन्द्रितः |
भावयन्सर्वभूतानि पुनर्गच्छति मन्दरम् ||२८||
तथा तमिस्रहा देवो मयूखैर्भावयञ्जगत् |
मार्गमेतदसम्बाधमादित्यः परिवर्तते ||२९||
सिसृक्षुः शिशिराण्येष दक्षिणां भजते दिशम् |
ततः सर्वाणि भूतानि कालः शिशिरमृच्छति ||३०||
स्थावराणां च भूतानां जङ्गमानां च तेजसा |
तेजांसि समुपादत्ते निवृत्तः सन्विभावसुः ||३१||
ततः स्वेदः क्लमस्तन्द्री ग्लानिश्च भजते नरान् |
प्राणिभिः सततं स्वप्नो ह्यभीक्ष्णं च निषेव्यते ||३२||
एवमेतदनिर्देश्यं मार्गमावृत्य भानुमान् |
पुनः सृजति वर्षाणि भगवान्भावयन्प्रजाः ||३३||
वृष्टिमारुतसन्तापैः सुखैः स्थावरजङ्गमान् |
वर्धयन्सुमहातेजाः पुनः प्रतिनिवर्तते ||३४||
एवमेष चरन्पार्थ कालचक्रमतन्द्रितः |
प्रकर्षन्सर्वभूतानि सविता परिवर्तते ||३५||
सन्तता गतिरेतस्य नैष तिष्ठति पाण्डव |
आदायैव तु भूतानां तेजो विसृजते पुनः ||३६||
विभजन्सर्वभूतानामायुः कर्म च भारत |
अहोरात्रान्कलाः काष्ठाः सृजत्येष सदा विभुः ||३७||
१६१
वैशम्पायन उवाच||
तस्मिन्नगेन्द्रे वसतां तु तेषां; महात्मनां सद्व्रतमास्थितानाम् |
रतिः प्रमोदश्च बभूव तेषा; माकाङ्क्षतां दर्शनमर्जुनस्य ||१||
तान्वीर्ययुक्तान्सुविशुद्धसत्त्वां; स्तेजस्विनः सत्यधृतिप्रधानान् |
सम्प्रीयमाणा बहवोऽभिजग्मु; र्गन्धर्वसङ्घाश्च महर्षयश्च ||२||
तं पादपैः पुष्पधरैरुपेतं; नगोत्तमं प्राप्य महारथानाम् |
मनःप्रसादः परमो बभूव; यथा दिवं प्राप्य मरुद्गणानाम् ||३||
मयूरहंसस्वननादितानि; पुष्पोपकीर्णानि महाचलस्य |
शृङ्गाणि सानूनि च पश्यमाना; गिरेः परं हर्षमवाप्य तस्थुः ||४||
साक्षात्कुबेरेण कृताश्च तस्मि; न्नगोत्तमे संवृतकूलरोधसः |
कादम्बकारण्डवहंसजुष्टाः; पद्माकुलाः पुष्करिणीरपश्यन् ||५||
क्रीडाप्रदेशांश्च समृद्धरूपा; न्सुचित्रमाल्यावृतजातशोभान् |
मणिप्रवेकान्सुमनोहरांश्च; यथा भवेयुर्धनदस्य राज्ञः ||६||
अनेकवर्णैश्च सुगन्धिभिश्च; महाद्रुमैः सन्ततमभ्रमालिभिः |
तपःप्रधानाः सततं चरन्तः; शृङ्गं गिरेश्चिन्तयितुं न शेकुः ||७||
स्वतेजसा तस्य नगोत्तमस्य; महौषधीनां च तथा प्रभावात् |
विभक्तभावो न बभूव कश्चि; दहर्निशानां पुरुषप्रवीर ||८||
यमास्थितः स्थावरजङ्गमानि; विभावसुर्भावयतेऽमितौजाः |
तस्योदयं चास्तमयं च वीरा; स्तत्र स्थितास्ते ददृशुर्नृसिंहाः ||९||
रवेस्तमिस्रागमनिर्गमांस्ते; तथोदयं चास्तमयं च वीराः |
समावृताः प्रेक्ष्य तमोनुदस्य; गभस्तिजालैः प्रदिशो दिशश्च ||१०||
स्वाध्यायवन्तः सततक्रियाश्च; धर्मप्रधानाश्च शुचिव्रताश्च |
सत्ये स्थितास्तस्य महारथस्य; सत्यव्रतस्यागमनप्रतीक्षाः ||११||
इहैव हर्षोऽस्तु समागतानां; क्षिप्रं कृतास्त्रेण धनञ्जयेन |
इति ब्रुवन्तः परमाशिषस्ते; पार्थास्तपोयोगपरा बभूवुः ||१२||
दृष्ट्वा विचित्राणि गिरौ वनानि; किरीटिनं चिन्तयतामभीक्ष्णम् |
बभूव रात्रिर्दिवसश्च तेषां; संवत्सरेणैव समानरूपः ||१३||
यदैव धौम्यानुमते महात्मा; कृत्वा जटाः प्रव्रजितः स जिष्णुः |
तदैव तेषां न बभूव हर्षः; कुतो रतिस्तद्गतमानसानाम् ||१४||
भ्रातुर्नियोगात्तु युधिष्ठिरस्य; वनादसौ वारणमत्तगामी |
यत्काम्यकात्प्रव्रजितः स जिष्णु; स्तदैव ते शोकहता बभूवुः ||१५||
तथा तु तं चिन्तयतां सिताश्व; मस्त्रार्थिनं वासवमभ्युपेतम् |
मासोऽथ कृच्छ्रेण तदा व्यतीत; स्तस्मिन्नगे भारत भारतानाम् ||१६||
ततः कदाचिद्धरिसम्प्रयुक्तं; महेन्द्रवाहं सहसोपयातम् |
विद्युत्प्रभं प्रेक्ष्य महारथानां; हर्षोऽर्जुनं चिन्तयतां बभूव ||१७||
स दीप्यमानः सहसान्तरिक्षं; प्रकाशयन्मातलिसङ्गृहीतः |
बभौ महोल्केव घनान्तरस्था; शिखेव चाग्नेर्ज्वलिता विधूमा ||१८||
तमास्थितः संददृशे किरीटी; स्रग्वी वराण्याभरणानि बिभ्रत् |
धनञ्जयो वज्रधरप्रभावः; श्रिया ज्वलन्पर्वतमाजगाम ||१९||
स शैलमासाद्य किरीटमाली; महेन्द्रवाहादवरुह्य तस्मात् |
धौम्यस्य पादावभिवाद्य पूर्व; मजातशत्रोस्तदनन्तरं च ||२०||
वृकोदरस्यापि ववन्द पादौ; माद्रीसुताभ्यामभिवादितश्च |
समेत्य कृष्णां परिसान्त्व्य चैनां; प्रह्वोऽभवद्भ्रातुरुपह्वरे सः ||२१||
बभूव तेषां परमः प्रहर्ष; स्तेनाप्रमेयेण समागतानाम् |
स चापि तान्प्रेक्ष्य किरीटमाली; ननन्द राजानमभिप्रशंसन् ||२२||
यमास्थितः सप्त जघान पूगा; न्दितेः सुतानां नमुचेर्निहन्ता |
तमिन्द्रवाहं समुपेत्य पार्थाः; प्रदक्षिणं चक्रुरदीनसत्त्वाः ||२३||
ते मातलेश्चक्रुरतीव हृष्टाः; सत्कारमग्र्यं सुरराजतुल्यम् |
सर्वं यथावच्च दिवौकसस्ता; न्पप्रच्छुरेनं कुरुराजपुत्राः ||२४||
तानप्यसौ मातलिरभ्यनन्द; त्पितेव पुत्राननुशिष्य चैनान् |
ययौ रथेनाप्रतिमप्रभेण; पुनः सकाशं त्रिदिवेश्वरस्य ||२५||
गते तु तस्मिन्वरदेववाहे; शक्रात्मजः सर्वरिपुप्रमाथी |
शक्रेण दत्तानि ददौ महात्मा; महाधनान्युत्तमरूपवन्ति ||२६||
दिवाकराभाणि विभूषणानि; प्रीतः प्रियायै सुतसोममात्रे ||२६||
ततः स तेषां कुरुपुङ्गवानां; तेषां च सूर्याग्निसमप्रभाणाम् |
विप्रर्षभाणामुपविश्य मध्ये; सर्वं यथावत्कथयां बभूव ||२७||
एवं मयास्त्राण्युपशिक्षितानि; शक्राच्च वाताच्च शिवाच्च साक्षात् |
तथैव शीलेन समाधिना च; प्रीताः सुरा मे सहिताः सहेन्द्राः ||२८||
सङ्क्षेपतो वै स विशुद्धकर्मा; तेभ्यः समाख्याय दिवि प्रवेशम् |
माद्रीसुताभ्यां सहितः किरीटी; सुष्वाप तामावसतिं प्रतीतः ||२९||
१६२
वैशम्पायन उवाच||
एतस्मिन्नेव काले तु सर्ववादित्रनिस्वनः |
बभूव तुमुलः शब्दस्त्वन्तरिक्षे दिवौकसाम् ||१||
रथनेमिस्वनश्चैव घण्टाशब्दश्च भारत |
पृथग्व्यालमृगाणां च पक्षिणां चैव सर्वशः ||२||
तं समन्तादनुययुर्गन्धर्वाप्सरसस्तथा |
विमानैः सूर्यसङ्काशैर्देवराजमरिंदमम् ||३||
ततः स हरिभिर्युक्तं जाम्बूनदपरिष्कृतम् |
मेघनादिनमारुह्य श्रिया परमया ज्वलन् ||४||
पार्थानभ्याजगामाशु देवराजः पुरंदरः |
आगत्य च सहस्राक्षो रथादवरुरोह वै ||५||
तं दृष्ट्वैव महात्मानं धर्मराजो युधिष्ठिरः |
भ्रातृभिः सहितः श्रीमान्देवराजमुपागमत् ||६||
पूजयामास चैवाथ विधिवद्भूरिदक्षिणः |
यथार्हममितात्मानं विधिदृष्टेन कर्मणा ||७||
धनञ्जयश्च तेजस्वी प्रणिपत्य पुरंदरम् |
भृत्यवत्प्रणतस्तस्थौ देवराजसमीपतः ||८||
आप्यायत महातेजाः कुन्तीपुत्रो युधिष्ठिरः |
धनञ्जयमभिप्रेक्ष्य विनीतं स्थितमन्तिके ||९||
जटिलं देवराजस्य तपोयुक्तमकल्मषम् |
हर्षेण महताविष्टः फल्गुनस्याथ दर्शनात् ||१०||
तं तथादीनमनसं राजानं हर्षसम्प्लुतम् |
उवाच वचनं धीमान्देवराजः पुरंदरः ||११||
त्वमिमां पृथिवीं राजन्प्रशासिष्यसि पाण्डव |
स्वस्ति प्राप्नुहि कौन्तेय काम्यकं पुनराश्रमम् ||१२||
अस्त्राणि लब्धानि च पाण्डवेन; सर्वाणि मत्तः प्रयतेन राजन् |
कृतप्रियश्चास्मि धनञ्जयेन; जेतुं न शक्यस्त्रिभिरेष लोकैः ||१३||
एवमुक्त्वा सहस्राक्षः कुन्तीपुत्रं युधिष्ठिरम् |
जगाम त्रिदिवं हृष्टः स्तूयमानो महर्षिभिः ||१४||
धनेश्वरगृहस्थानां पाण्डवानां समागमम् |
शक्रेण य इमं विद्वानधीयीत समाहितः ||१५||
संवत्सरं ब्रह्मचारी नियतः संशितव्रतः |
स जीवेत निराबाधः सुसुखी शरदां शतम् ||१६||
१६३
वैशम्पायन उवाच||
यथागतं गते शक्रे भ्रातृभिः सह सङ्गतः |
कृष्णया चैव बीभत्सुर्धर्मपुत्रमपूजयत् ||१||
अभिवादयमानं तु मूर्ध्न्युपाघ्राय पाण्डवम् |
हर्षगद्गदया वाचा प्रहृष्टोऽर्जुनमब्रवीत् ||२||
कथमर्जुन कालोऽयं स्वर्गे व्यतिगतस्तव |
कथं चास्त्राण्यवाप्तानि देवराजश्च तोषितः ||३||
सम्यग्वा ते गृहीतानि कच्चिदस्त्राणि भारत |
कच्चित्सुराधिपः प्रीतो रुद्रश्चास्त्राण्यदात्तव ||४||
यथा दृष्टश्च ते शक्रो भगवान्वा पिनाकधृक् |
यथा चास्त्राण्यवाप्तानि यथा चाराधितश्च ते ||५||
यथोक्तवांस्त्वां भगवाञ्शतक्रतुररिंदम |
कृतप्रियस्त्वयास्मीति तच्च ते किं प्रियं कृतम् ||६||
एतदिच्छाम्यहं श्रोतुं विस्तरेण महाद्युते ||६||
यथा तुष्टो महादेवो देवराजश्च तेऽनघ |
यच्चापि वज्रपाणेस्ते प्रियं कृतमरिंदम ||७||
एतदाख्याहि मे सर्वमखिलेन धनञ्जय ||७||
अर्जुन उवाच||
शृणु हन्त महाराज विधिना येन दृष्टवान् |
शतक्रतुमहं देवं भगवन्तं च शङ्करम् ||८||
विद्यामधीत्य तां राजंस्त्वयोक्तामरिमर्दन |
भवता च समादिष्टस्तपसे प्रस्थितो वनम् ||९||
भृगुतुङ्गमथो गत्वा काम्यकादास्थितस्तपः |
एकरात्रोषितः कञ्चिदपश्यं ब्राह्मणं पथि ||१०||
स मामपृच्छत्कौन्तेय क्वासि गन्ता ब्रवीहि मे |
तस्मा अवितथं सर्वमब्रुवं कुरुनन्दन ||११||
स तथ्यं मम तच्छ्रुत्वा ब्राह्मणो राजसत्तम |
अपूजयत मां राजन्प्रीतिमांश्चाभवन्मयि ||१२||
ततो मामब्रवीत्प्रीतस्तप आतिष्ठ भारत |
तपस्वी नचिरेण त्वं द्रक्ष्यसे विबुधाधिपम् ||१३||
ततोऽहं वचनात्तस्य गिरिमारुह्य शैशिरम् |
तपोऽतप्यं महाराज मासं मूलफलाशनः ||१४||
द्वितीयश्चापि मे मासो जलं भक्षयतो गतः |
निराहारस्तृतीयेऽथ मासे पाण्डवनन्दन ||१५||
ऊर्ध्वबाहुश्चतुर्थं तु मासमस्मि स्थितस्तदा |
न च मे हीयते प्राणस्तदद्भुतमिवाभवत् ||१६||
चतुर्थे समभिक्रान्ते प्रथमे दिवसे गते |
वराहसंस्थितं भूतं मत्समीपमुपागमत् ||१७||
निघ्नन्प्रोथेन पृथिवीं विलिखंश्चरणैरपि |
संमार्जञ्जठरेणोर्वीं विवर्तंश्च मुहुर्मुहुः ||१८||
अनु तस्यापरं भूतं महत्कैरातसंस्थितम् |
धनुर्बाणासिमत्प्राप्तं स्त्रीगणानुगतं तदा ||१९||
ततोऽहं धनुरादाय तथाक्षय्यौ महेषुधी |
अताडयं शरेणाथ तद्भूतं लोमहर्षणम् ||२०||
युगपत्तत्किरातश्च विकृष्य बलवद्धनुः |
अभ्याजघ्ने दृढतरं कम्पयन्निव मे मनः ||२१||
स तु मामब्रवीद्राजन्मम पूर्वपरिग्रहः |
मृगयाधर्ममुत्सृज्य किमर्थं ताडितस्त्वया ||२२||
एष ते निशितैर्बाणैर्दर्पं हन्मि स्थिरो भव |
स वर्ष्मवान्महाकायस्ततो मामभ्यधावत ||२३||
ततो गिरिमिवात्यर्थमावृणोन्मां महाशरैः |
तं चाहं शरवर्षेण महता समवाकिरम् ||२४||
ततः शरैर्दीप्तमुखैः पत्रितैरनुमन्त्रितैः |
प्रत्यविध्यमहं तं तु वज्रैरिव शिलोच्चयम् ||२५||
तस्य तच्छतधा रूपमभवच्च सहस्रधा |
तानि चास्य शरीराणि शरैरहमताडयम् ||२६||
पुनस्तानि शरीराणि एकीभूतानि भारत |
अदृश्यन्त महाराज तान्यहं व्यधमं पुनः ||२७||
अणुर्बृहच्छिरा भूत्वा बृहच्चाणुशिराः पुनः |
एकीभूतस्तदा राजन्सोऽभ्यवर्तत मां युधि ||२८||
यदाभिभवितुं बाणैर्नैव शक्नोमि तं रणे |
ततोऽहमस्त्रमातिष्ठं वायव्यं भरतर्षभ ||२९||
न चैनमशकं हन्तुं तदद्भुतमिवाभवत् |
तस्मिन्प्रतिहते चास्त्रे विस्मयो मे महानभूत् ||३०||
भूयश्चैव महाराज सविशेषमहं ततः |
अस्त्रपूगेन महता रणे भूतमवाकिरम् ||३१||
स्थूणाकर्णमयोजालं शरवर्षं शरोल्बणम् |
शैलास्त्रमश्मवर्षं च समास्थायाहमभ्ययाम् ||३२||
जग्रास प्रहसंस्तानि सर्वाण्यस्त्राणि मेऽनघ ||३२||
तेषु सर्वेषु शान्तेषु ब्रह्मास्त्रमहमादिशम् |
ततः प्रज्वलितैर्बाणैः सर्वतः सोपचीयत ||३३||
उपचीयमानश्च मया महास्त्रेण व्यवर्धत ||३३||
ततः सन्तापितो लोको मत्प्रसूतेन तेजसा |
क्षणेन हि दिशः खं च सर्वतोऽभिविदीपितम् ||३४||
तदप्यस्त्रं महातेजाः क्षणेनैव व्यशातयत् |
ब्रह्मास्त्रे तु हते राजन्भयं मां महदाविशत् ||३५||
ततोऽहं धनुरादाय तथाक्षय्यौ महेषुधी |
सहसाभ्यहनं भूतं तान्यप्यस्त्राण्यभक्षयत् ||३६||
हतेष्वस्त्रेषु सर्वेषु भक्षितेष्वायुधेषु च |
मम तस्य च भूतस्य बाहुयुद्धमवर्तत ||३७||
व्यायामं मुष्टिभिः कृत्वा तलैरपि समाहतौ |
अपातयच्च तद्भूतं निश्चेष्टो ह्यगमं महीम् ||३८||
ततः प्रहस्य तद्भूतं तत्रैवान्तरधीयत |
सह स्त्रीभिर्महाराज पश्यतो मेऽद्भुतोपमम् ||३९||
एवं कृत्वा स भगवांस्ततोऽन्यद्रूपमात्मनः |
दिव्यमेव महाराज वसानोऽद्भुतमम्बरम् ||४०||
हित्वा किरातरूपं च भगवांस्त्रिदशेश्वरः |
स्वरूपं दिव्यमास्थाय तस्थौ तत्र महेश्वरः ||४१||
अदृश्यत ततः साक्षाद्भगवान्गोवृषध्वजः |
उमासहायो हरिदृग्बहुरूपः पिनाकधृक् ||४२||
स मामभ्येत्य समरे तथैवाभिमुखं स्थितम् |
शूलपाणिरथोवाच तुष्टोऽस्मीति परन्तप ||४३||
ततस्तद्धनुरादाय तूणौ चाक्षय्यसायकौ |
प्रादान्ममैव भगवान्वरयस्वेति चाब्रवीत् ||४४||
तुष्टोऽस्मि तव कौन्तेय ब्रूहि किं करवाणि ते |
यत्ते मनोगतं वीर तद्ब्रूहि वितराम्यहम् ||४५||
अमरत्वमपाहाय ब्रूहि यत्ते मनोगतम् ||४५||
ततः प्राञ्जलिरेवाहमस्त्रेषु गतमानसः |
प्रणम्य शिरसा शर्वं ततो वचनमाददे ||४६||
भगवान्मे प्रसन्नश्चेदीप्सितोऽयं वरो मम |
अस्त्राणीच्छाम्यहं ज्ञातुं यानि देवेषु कानिचित् ||४७||
ददानीत्येव भगवानब्रवीत्त्र्यम्बकश्च माम् ||४७||
रौद्रमस्त्रं मदीयं त्वामुपस्थास्यति पाण्डव |
प्रददौ च मम प्रीतः सोऽस्त्रं पाशुपतं प्रभुः ||४८||
उवाच च महादेवो दत्त्वा मेऽस्त्रं सनातनम् |
न प्रयोज्यं भवेदेतन्मानुषेषु कथञ्चन ||४९||
पीड्यमानेन बलवत्प्रयोज्यं ते धनञ्जय |
अस्त्राणां प्रतिघाते च सर्वथैव प्रयोजयेः ||५०||
तदप्रतिहतं दिव्यं सर्वास्त्रप्रतिषेधनम् |
मूर्तिमन्मे स्थितं पार्श्वे प्रसन्ने गोवृषध्वजे ||५१||
उत्सादनममित्राणां परसेनानिकर्तनम् |
दुरासदं दुष्प्रहसं सुरदानवराक्षसैः ||५२||
अनुज्ञातस्त्वहं तेन तत्रैव समुपाविशम् |
प्रेक्षतश्चैव मे देवस्तत्रैवान्तरधीयत ||५३||
१६४
अर्जुन उवाच||
ततस्तामवसं प्रीतो रजनीं तत्र भारत |
प्रसादाद्देवदेवस्य त्र्यम्बकस्य महात्मनः ||१||
व्युषितो रजनीं चाहं कृत्वा पूर्वाह्णिकक्रियाम् |
अपश्यं तं द्विजश्रेष्ठं दृष्टवानस्मि यं पुरा ||२||
तस्मै चाहं यथावृत्तं सर्वमेव न्यवेदयम् |
भगवन्तं महादेवं समेतोऽस्मीति भारत ||३||
स मामुवाच राजेन्द्र प्रीयमाणो द्विजोत्तमः |
दृष्टस्त्वया महादेवो यथा नान्येन केनचित् ||४||
समेत्य लोकपालैस्तु सर्वैर्वैवस्वतादिभिः |
द्रष्टास्यनघ देवेन्द्रं स च तेऽस्त्राणि दास्यति ||५||
एवमुक्त्वा स मां राजन्नाश्लिष्य च पुनः पुनः |
अगच्छत्स यथाकामं ब्राह्मणः सूर्यसंनिभः ||६||
अथापराह्णे तस्याह्नः प्रावात्पुण्यः समीरणः |
पुनर्नवमिमं लोकं कुर्वन्निव सपत्नहन् ||७||
दिव्यानि चैव माल्यानि सुगन्धीनि नवानि च |
शैशिरस्य गिरेः पादे प्रादुरासन्समीपतः ||८||
वादित्राणि च दिव्यानि सुघोषाणि समन्ततः |
स्तुतयश्चेन्द्रसंयुक्ता अश्रूयन्त मनोहराः ||९||
गणाश्चाप्सरसां तत्र गन्धर्वाणां तथैव च |
पुरस्ताद्देवदेवस्य जगुर्गीतानि सर्वशः ||१०||
मरुतां च गणास्तत्र देवयानैरुपागमन् |
महेन्द्रानुचरा ये च देवसद्मनिवासिनः ||११||
ततो मरुत्वान्हरिभिर्युक्तैर्वाहैः स्वलङ्कृतैः |
शचीसहायस्तत्रायात्सह सर्वैस्तदामरैः ||१२||
एतस्मिन्नेव काले तु कुबेरो नरवाहनः |
दर्शयामास मां राजँल्लक्ष्म्या परमया युतः ||१३||
दक्षिणस्यां दिशि यमं प्रत्यपश्यं व्यवस्थितम् |
वरुणं देवराजं च यथास्थानमवस्थितम् ||१४||
ते मामूचुर्महाराज सान्त्वयित्वा सुरर्षभाः |
सव्यसाचिन्समीक्षस्व लोकपालानवस्थितान् ||१५||
सुरकार्यार्थसिद्ध्यर्थं दृष्टवानसि शङ्करम् |
अस्मत्तोऽपि गृहाण त्वमस्त्राणीति समन्ततः ||१६||
ततोऽहं प्रयतो भूत्वा प्रणिपत्य सुरर्षभान् |
प्रत्यगृह्णं तदास्त्राणि महान्ति विधिवत्प्रभो ||१७||
गृहीतास्त्रस्ततो देवैरनुज्ञातोऽस्मि भारत |
अथ देवा ययुः सर्वे यथागतमरिंदम ||१८||
मघवानपि देवेशो रथमारुह्य सुप्रभम् |
उवाच भगवान्वाक्यं स्मयन्निव सुरारिहा ||१९||
पुरैवागमनादस्माद्वेदाहं त्वां धनञ्जय |
अतः परं त्वहं वै त्वां दर्शये भरतर्षभ ||२०||
त्वया हि तीर्थेषु पुरा समाप्लावः कृतोऽसकृत् |
तपश्चेदं पुरा तप्तं स्वर्गं गन्तासि पाण्डव ||२१||
भूयश्चैव तु तप्तव्यं तपः परमदारुणम् |
उवाच भगवान्सर्वं तपसश्चोपपादनम् ||२२||
मातलिर्मन्नियोगात्त्वां त्रिदिवं प्रापयिष्यति |
विदितस्त्वं हि देवानामृषीणां च महात्मनाम् ||२३||
ततोऽहमब्रुवं शक्रं प्रसीद भगवन्मम |
आचार्यं वरये त्वाहमस्त्रार्थं त्रिदशेश्वर ||२४||
इन्द्र उवाच||
क्रूरं कर्मास्त्रवित्तात करिष्यसि परन्तप |
यदर्थमस्त्राणीप्सुस्त्वं तं कामं पाण्डवाप्नुहि ||२५||
अर्जुन उवाच||
ततोऽहमब्रुवं नाहं दिव्यान्यस्त्राणि शत्रुहन् |
मानुषेषु प्रयोक्ष्यामि विनास्त्रप्रतिघातनम् ||२६||
तानि दिव्यानि मेऽस्त्राणि प्रयच्छ विबुधाधिप |
लोकांश्चास्त्रजितान्पश्चाल्लभेयं सुरपुङ्गव ||२७||
इन्द्र उवाच||
परीक्षार्थं मयैतत्ते वाक्यमुक्तं धनञ्जय |
ममात्मजस्य वचनं सूपपन्नमिदं तव ||२८||
शिक्ष मे भवनं गत्वा सर्वाण्यस्त्राणि भारत |
वायोरग्नेर्वसुभ्योऽथ वरुणात्समरुद्गणात् ||२९||
साध्यं पैतामहं चैव गन्धर्वोरगरक्षसाम् |
वैष्णवानि च सर्वाणि नैरृतानि तथैव च ||३०||
मद्गतानि च यानीह सर्वास्त्राणि कुरूद्वह ||३०||
अर्जुन उवाच||
एवमुक्त्वा तु मां शक्रस्तत्रैवान्तरधीयत |
अथापश्यं हरियुजं रथमैन्द्रमुपस्थितम् ||३१||
दिव्यं मायामयं पुण्यं यत्तं मातलिना नृप ||३१||
लोकपालेषु यातेषु मामुवाचाथ मातलिः |
द्रष्टुमिच्छति शक्रस्त्वां देवराजो महाद्युते ||३२||
संसिद्धस्त्वं महाबाहो कुरु कार्यमनुत्तमम् |
पश्य पुण्यकृतां लोकान्सशरीरो दिवं व्रज ||३३||
इत्युक्तोऽहं मातलिना गिरिमामन्त्र्य शैशिरम् |
प्रदक्षिणमुपावृत्य समारोहं रथोत्तमम् ||३४||
चोदयामास स हयान्मनोमारुतरंहसः |
मातलिर्हयशास्त्रज्ञो यथावद्भूरिदक्षिणः ||३५||
अवैक्षत च मे वक्त्रं स्थितस्याथ स सारथिः |
तथा भ्रान्ते रथे राजन्विस्मितश्चेदमब्रवीत् ||३६||
अत्यद्भुतमिदं मेऽद्य विचित्रं प्रतिभाति माम् |
यदास्थितो रथं दिव्यं पदा न चलितो भवान् ||३७||
देवराजोऽपि हि मया नित्यमत्रोपलक्षितः |
विचलन्प्रथमोत्पाते हयानां भरतर्षभ ||३८||
त्वं पुनः स्थित एवात्र रथे भ्रान्ते कुरूद्वह |
अतिशक्रमिदं सत्त्वं तवेति प्रतिभाति मे ||३९||
इत्युक्त्वाकाशमाविश्य मातलिर्विबुधालयान् |
दर्शयामास मे राजन्विमानानि च भारत ||४०||
नन्दनादीनि देवानां वनानि बहुलान्युत |
दर्शयामास मे प्रीत्या मातलिः शक्रसारथिः ||४१||
ततः शक्रस्य भवनमपश्यममरावतीम् |
दिव्यैः कामफलैर्वृक्षै रत्नैश्च समलङ्कृताम् ||४२||
न तां भासयते सूर्यो न शीतोष्णे न च क्लमः |
रजः पङ्को न च तमस्तत्रास्ति न जरा नृप ||४३||
न तत्र शोको दैन्यं वा वैवर्ण्यं चोपलक्ष्यते |
दिवौकसां महाराज न च ग्लानिररिंदम ||४४||
न क्रोधलोभौ तत्रास्तामशुभं च विशां पते |
नित्यतुष्टाश्च हृष्टाश्च प्राणिनः सुरवेश्मनि ||४५||
नित्यपुष्पफलास्तत्र पादपा हरितच्छदाः |
पुष्करिण्यश्च विविधाः पद्मसौगन्धिकायुताः ||४६||
शीतस्तत्र ववौ वायुः सुगन्धो जीवनः शुचिः |
सर्वरत्नविचित्रा च भूमिः पुष्पविभूषिता ||४७||
मृगद्विजाश्च बहवो रुचिरा मधुरस्वराः |
विमानयायिनश्चात्र दृश्यन्ते बहवोऽमराः ||४८||
ततोऽपश्यं वसून्रुद्रान्साध्यांश्च समरुद्गणान् |
आदित्यानश्विनौ चैव तान्सर्वान्प्रत्यपूजयम् ||४९||
ते मां वीर्येण यशसा तेजसा च बलेन च |
अस्त्रैश्चाप्यन्वजानन्त सङ्ग्रामविजयेन च ||५०||
प्रविश्य तां पुरीं रम्यां देवगन्धर्वसेविताम् |
देवराजं सहस्राक्षमुपातिष्ठं कृताञ्जलिः ||५१||
ददावर्धासनं प्रीतः शक्रो मे ददतां वरः |
बहुमानाच्च गात्राणि पस्पर्श मम वासवः ||५२||
तत्राहं देवगन्धर्वैः सहितो भुरिदक्षिण |
अस्त्रार्थमवसं स्वर्गे कुर्वाणोऽस्त्राणि भारत ||५३||
विश्वावसोश्च मे पुत्रश्चित्रसेनोऽभवत्सखा |
स च गान्धर्वमखिलं ग्राहयामास मां नृप ||५४||
ततोऽहमवसं राजन्गृहीतास्त्रः सुपूजितः |
सुखं शक्रस्य भवने सर्वकामसमन्वितः ||५५||
शृण्वन्वै गीतशब्दं च तूर्यशब्दं च पुष्कलम् |
पश्यंश्चाप्सरसः श्रेष्ठा नृत्यमानाः परन्तप ||५६||
तत्सर्वमनवज्ञाय तथ्यं विज्ज्ञाय भारत |
अत्यर्थं प्रतिगृह्याहमस्त्रेष्वेव व्यवस्थितः ||५७||
ततोऽतुष्यत्सहस्राक्षस्तेन कामेन मे विभुः |
एवं मे वसतो राजन्नेष कालोऽत्यगाद्दिवि ||५८||
१६५
अर्जुन उवाच||
कृतास्त्रमभिविश्वस्तमथ मां हरिवाहनः |
संस्पृश्य मूर्ध्नि पाणिभ्यामिदं वचनमब्रवीत् ||१||
न त्वमद्य युधा जेतुं शक्यः सुरगणैरपि |
किं पुनर्मानुषे लोके मानुषैरकृतात्मभिः ||२||
अप्रमेयोऽप्रधृष्यश्च युद्धेष्वप्रतिमस्तथा ||२||
अथाब्रवीत्पुनर्देवः सम्प्रहृष्टतनूरुहः |
अस्त्रयुद्धे समो वीर न ते कश्चिद्भविष्यति ||३||
अप्रमत्तः सदा दक्षः सत्यवादी जितेन्द्रियः |
ब्रह्मण्यश्चास्त्रविच्चासि शूरश्चासि कुरूद्वह ||४||
अस्त्राणि समवाप्तानि त्वया दश च पञ्च च |
पञ्चभिर्विधिभिः पार्थ न त्वया विद्यते समः ||५||
प्रयोगमुपसंहारमावृत्तिं च धनञ्जय |
प्रायश्चित्तं च वेत्थ त्वं प्रतिघातं च सर्वशः ||६||
तव गुर्वर्थकालोऽयमुपपन्नः परन्तप |
प्रतिजानीष्व तं कर्तुमतो वेत्स्याम्यहं परम् ||७||
ततोऽहमब्रुवं राजन्देवराजमिदं वचः |
विषह्यं चेन्मया कर्तुं कृतमेव निबोध तत् ||८||
ततो मामब्रवीद्राजन्प्रहस्य बलवृत्रहा |
नाविषह्यं तवाद्यास्ति त्रिषु लोकेषु किञ्चन ||९||
निवातकवचा नाम दानवा मम शत्रवः |
समुद्रकुक्षिमाश्रित्य दुर्गे प्रतिवसन्त्युत ||१०||
तिस्रः कोट्यः समाख्यातास्तुल्यरूपबलप्रभाः |
तांस्तत्र जहि कौन्तेय गुर्वर्थस्ते भविष्यति ||११||
ततो मातलिसंयुक्तं मयूरसमरोमभिः |
हयैरुपेतं प्रादान्मे रथं दिव्यं महाप्रभम् ||१२||
बबन्ध चैव मे मूर्ध्नि किरीटमिदमुत्तमम् |
स्वरूपसदृशं चैव प्रादादङ्गविभूषणम् ||१३||
अभेद्यं कवचं चेदं स्पर्शरूपवदुत्तमम् |
अजरां ज्यामिमां चापि गाण्डीवे समयोजयत् ||१४||
ततः प्रायामहं तेन स्यन्दनेन विराजता |
येनाजयद्देवपतिर्बलिं वैरोचनिं पुरा ||१५||
ततो देवाः सर्व एव तेन घोषेण बोधितः |
मन्वाना देवराजं मां समाजग्मुर्विशां पते ||१६||
दृष्ट्वा च मामपृच्छन्त किं करिष्यसि फल्गुन ||१६||
तानब्रुवं यथाभूतमिदं कर्तास्मि संयुगे |
निवातकवचानां तु प्रस्थितं मां वधैषिणम् ||१७||
निबोधत महाभागाः शिवं चाशास्त मेऽनघाः ||१७||
तुष्टुवुर्मां प्रसन्नास्ते यथा देवं पुरंदरम् |
रथेनानेन मघवा जितवाञ्शम्बरं युधि ||१८||
नमुचिं बलवृत्रौ च प्रह्लादनरकावपि ||१८||
बहूनि च सहस्राणि प्रयुतान्यर्बुदानि च |
रथेनानेन दैत्यानां जितवान्मघवान्युधि ||१९||
त्वमप्येतेन कौन्तेय निवातकवचान्रणे |
विजेता युधि विक्रम्य पुरेव मघवान्वशी ||२०||
अयं च शङ्खप्रवरो येन जेतासि दानवान् |
अनेन विजिता लोकाः शक्रेणापि महात्मना ||२१||
प्रदीयमानं देवैस्तु देवदत्तं जलोद्भवम् |
प्रत्यगृह्णं जयायैनं स्तूयमानस्तदामरैः ||२२||
स शङ्खी कवची बाणी प्रगृहीतशरासनः |
दानवालयमत्युग्रं प्रयातोऽस्मि युयुत्सया ||२३||
१६६
अर्जुन उवाच||
ततोऽहं स्तूयमानस्तु तत्र तत्र महर्षिभिः |
अपश्यमुदधिं भीममपाम्पतिमथाव्ययम् ||१||
फेनवत्यः प्रकीर्णाश्च संहताश्च समुच्छ्रिताः |
ऊर्मयश्चात्र दृश्यन्ते चलन्त इव पर्वताः ||२||
नावः सहस्रशस्तत्र रत्नपूर्णाः समन्ततः ||२||
तिमिङ्गिलाः कच्छपाश्च तथा तिमितिमिङ्गिलाः |
मकराश्चात्र दृश्यन्ते जले मग्ना इवाद्रयः ||३||
शङ्खानां च सहस्राणि मग्नान्यप्सु समन्ततः |
दृश्यन्ते स्म यथा रात्रौ तारास्तन्वभ्रसंवृताः ||४||
तथा सहस्रशस्तत्र रत्नसङ्घाः प्लवन्त्युत |
वायुश्च घूर्णते भीमस्तदद्भुतमिवाभवत् ||५||
तमतीत्य महावेगं सर्वाम्भोनिधिमुत्तमम् |
अपश्यं दानवाकीर्णं तद्दैत्यपुरमन्तिकात् ||६||
तत्रैव मातलिस्तूर्णं निपत्य पृथिवीतले |
नादयन्रथघोषेण तत्पुरं समुपाद्रवत् ||७||
रथघोषं तु तं श्रुत्वा स्तनयित्नोरिवाम्बरे |
मन्वाना देवराजं मां संविग्ना दानवाभवन् ||८||
सर्वे सम्भ्रान्तमनसः शरचापधराः स्थिताः |
तथा शूलासिपरशुगदामुसलपाणयः ||९||
ततो द्वाराणि पिदधुर्दानवास्त्रस्तचेतसः |
संविधाय पुरे रक्षां न स्म कश्चन दृश्यते ||१०||
ततः शङ्खमुपादाय देवदत्तं महास्वनम् |
पुरमासुरमाश्लिष्य प्राधमं तं शनैरहम् ||११||
स तु शब्दो दिवं स्तब्ध्वा प्रतिशब्दमजीजनत् |
वित्रेसुश्च निलिल्युश्च भूतानि सुमहान्त्यपि ||१२||
ततो निवातकवचाः सर्व एव समन्ततः |
दंशिता विविधैस्त्राणैर्विविधायुधपाणयः ||१३||
आयसैश्च महाशूलैर्गदाभिर्मुसलैरपि |
पट्टिशैः करवालैश्च रथचक्रैश्च भारत ||१४||
शतघ्नीभिर्भुशुण्डीभिः खड्गैश्चित्रैः स्वलङ्कृतैः |
प्रगृहीतैर्दितेः पुत्राः प्रादुरासन्सहस्रशः ||१५||
ततो विचार्य बहुधा रथमार्गेषु तान्हयान् |
प्राचोदयत्समे देशे मातलिर्भरतर्षभ ||१६||
तेन तेषां प्रणुन्नानामाशुत्वाच्छीघ्रगामिनाम् |
नान्वपश्यं तदा किञ्चित्तन्मेऽद्भुतमिवाभवत् ||१७||
ततस्ते दानवास्तत्र योधव्रातान्यनेकशः |
विकृतस्वररूपाणि भृशं सर्वाण्यचोदयन् ||१८||
तेन शब्देन महता समुद्रे पर्वतोपमाः |
आप्लवन्त गतैः सत्त्वैर्मत्स्याः शतसहस्रशः ||१९||
ततो वेगेन महता दानवा मामुपाद्रवन् |
विमुञ्चन्तः शितान्बाणाञ्शतशोऽथ सहस्रशः ||२०||
स सम्प्रहारस्तुमुलस्तेषां मम च भारत |
अवर्तत महाघोरो निवातकवचान्तकः ||२१||
ततो देवर्षयश्चैव दानवर्षिगणाश्च ये |
ब्रह्मर्षयश्च सिद्धाश्च समाजग्मुर्महामृधे ||२२||
ते वै मामनुरूपाभिर्मधुराभिर्जयैषिणः |
अस्तुवन्मुनयो वाग्भिर्यथेन्द्रं तारकामये ||२३||
१६७
अर्जुन उवाच||
ततो निवातकवचाः सर्वे वेगेन भारत |
अभ्यद्रवन्मां सहिताः प्रगृहीतायुधा रणे ||१||
आच्छिद्य रथपन्थानमुत्क्रोशन्तो महारथाः |
आवृत्य सर्वतस्ते मां शरवर्षैरवाकिरन् ||२||
ततोऽपरे महावीर्याः शूलपट्टिशपाणयः |
शूलानि च भुशुण्डीश्च मुमुचुर्दानवा मयि ||३||
तच्छूलवर्षं सुमहद्गदाशक्तिसमाकुलम् |
अनिशं सृज्यमानं तैरपतन्मद्रथोपरि ||४||
अन्ये मामभ्यधावन्त निवातकवचा युधि |
शितशस्त्रायुधा रौद्राः कालरूपाः प्रहारिणः ||५||
तानहं विविधैर्बाणैर्वेगवद्भिरजिह्मगैः |
गाण्डीवमुक्तैरभ्यघ्नमेकैकं दशभिर्मृधे ||६||
ते कृता विमुखाः सर्वे मत्प्रयुक्तैः शिलाशितैः ||६||
ततो मातलिना तूर्णं हयास्ते सम्प्रचोदिताः |
रथमार्गाद्बहूंस्तत्र विचेरुर्वातरंहसः ||७||
सुसंयता मातलिना प्रामथ्नन्त दितेः सुतान् ||७||
शतं शतास्ते हरयस्तस्मिन्युक्ता महारथे |
तदा मातलिना यत्ता व्यचरन्नल्पका इव ||८||
तेषां चरणपातेन रथनेमिस्वनेन च |
मम बाणनिपातैश्च हतास्ते शतशोऽसुराः ||९||
गतासवस्तथा चान्ये प्रगृहीतशरासनाः |
हतसारथयस्तत्र व्यकृष्यन्त तुरङ्गमैः ||१०||
ते दिशो विदिशः सर्वाः प्रतिरुध्य प्रहारिणः |
निघ्नन्ति विविधैः शस्त्रैस्ततो मे व्यथितं मनः ||११||
ततोऽहं मातलेर्वीर्यमपश्यं परमाद्भुतम् |
अश्वांस्तथा वेगवतो यदयत्नादधारयत् ||१२||
ततोऽहं लघुभिश्चित्रैरस्त्रैस्तानसुरान्रणे |
सायुधानच्छिनं राजञ्शतशोऽथ सहस्रशः ||१३||
एवं मे चरतस्तत्र सर्वयत्नेन शत्रुहन् |
प्रीतिमानभवद्वीरो मातलिः शक्रसारथिः ||१४||
वध्यमानास्ततस्ते तु हयैस्तेन रथेन च |
अगमन्प्रक्षयं केचिन्न्यवर्तन्त तथापरे ||१५||
स्पर्धमाना इवास्माभिर्निवातकवचा रणे |
शरवर्षैर्महद्भिर्मां समन्तात्प्रत्यवारयन् ||१६||
ततोऽहं लघुभिश्चित्रैर्ब्रह्मास्त्रपरिमन्त्रितैः |
व्यधमं सायकैराशु शतशोऽथ सहस्रशः ||१७||
ततः सम्पीड्यमानास्ते क्रोधाविष्टा महासुराः |
अपीडयन्मां सहिताः शरशूलासिवृष्टिभिः ||१८||
ततोऽहमस्त्रमातिष्ठं परमं तिग्मतेजसम् |
दयितं देवराजस्य माधवं नाम भारत ||१९||
ततः खड्गांस्त्रिशूलांश्च तोमरांश्च सहस्रशः |
अस्त्रवीर्येण शतधा तैर्मुक्तानहमच्छिनम् ||२०||
छित्त्वा प्रहरणान्येषां ततस्तानपि सर्वशः |
प्रत्यविध्यमहं रोषाद्दशभिर्दशभिः शरैः ||२१||
गाण्डीवाद्धि तदा सङ्ख्ये यथा भ्रमरपङ्क्तयः |
निष्पतन्ति तथा बाणास्तन्मातलिरपूजयत् ||२२||
तेषामपि तु बाणास्ते बहुत्वाच्छलभा इव |
अवाकिरन्मां बलवत्तानहं व्यधमं शरैः ||२३||
वध्यमानास्ततस्ते तु निवातकवचाः पुनः |
शरवर्षैर्महद्भिर्मां समन्तात्पर्यवारयन् ||२४||
शरवेगान्निहत्याहमस्त्रैः शरविघातिभिः |
ज्वलद्भिः परमैः शीघ्रैस्तानविध्यं सहस्रशः ||२५||
तेषां छिन्नानि गात्राणि विसृजन्ति स्म शोणितम् |
प्रावृषीवातिवृष्टानि शृङ्गाणीव धराभृताम् ||२६||
इन्द्राशनिसमस्पर्शैर्वेगवद्भिरजिह्मगैः |
मद्बाणैर्वध्यमानास्ते समुद्विग्नाः स्म दानवाः ||२७||
शतधा भिन्नदेहान्त्राः क्षीणप्रहरणौजसः |
ततो निवातकवचा मामयुध्यन्त मायया ||२८||
१६८
अर्जुन उवाच||
ततोऽश्मवर्षं सुमहत्प्रादुरासीत्समन्ततः |
नगमात्रैर्महाघोरैस्तन्मां दृढमपीडयत् ||१||
तदहं वज्रसङ्काशैः शरैरिन्द्रास्त्रचोदितैः |
अचूर्णयं वेगवद्भिः शतधैकैकमाहवे ||२||
चूर्ण्यमानेऽश्मवर्षे तु पावकः समजायत |
तत्राश्मचूर्णमपतत्पावकप्रकरा इव ||३||
ततोऽश्मवर्षे निहते जलवर्षं महत्तरम् |
धाराभिरक्षमात्राभिः प्रादुरासीन्ममान्तिके ||४||
नभसः प्रच्युता धारास्तिग्मवीर्याः सहस्रशः |
आवृण्वन्सर्वतो व्योम दिशश्चोपदिशस्तथा ||५||
धाराणां च निपातेन वायोर्विस्फूर्जितेन च |
गर्जितेन च दैत्यानां न प्राज्ञायत किञ्चन ||६||
धारा दिवि च सम्बद्धा वसुधायां च सर्वशः |
व्यामोहयन्त मां तत्र निपतन्त्योऽनिशं भुवि ||७||
तत्रोपदिष्टमिन्द्रेण दिव्यमस्त्रं विशोषणम् |
दीप्तं प्राहिणवं घोरमशुष्यत्तेन तज्जलम् ||८||
हतेऽश्मवर्षे तु मया जलवर्षे च शोषिते |
मुमुचुर्दानवा मायामग्निं वायुं च मानद ||९||
ततोऽहमग्निं व्यधमं सलिलास्त्रेण सर्वशः |
शैलेन च महास्त्रेण वायोर्वेगमधारयम् ||१०||
तस्यां प्रतिहतायां तु दानवा युद्धदुर्मदाः |
प्राकुर्वन्विविधा माया यौगपद्येन भारत ||११||
ततो वर्षं प्रादुरभूत्सुमहल्लोमहर्षणम् |
अस्त्राणां घोररूपाणामग्नेर्वायोस्तथाश्मनाम् ||१२||
सा तु मायामयी वृष्टिः पीडयामास मां युधि |
अथ घोरं तमस्तीव्रं प्रादुरासीत्समन्ततः ||१३||
तमसा संवृते लोके घोरेण परुषेण च |
तुरगा विमुखाश्चासन्प्रास्खलच्चापि मातलिः ||१४||
हस्ताद्धिरण्मयश्चास्य प्रतोदः प्रापतद्भुवि |
असकृच्चाह मां भीतः क्वासीति भरतर्षभ ||१५||
मां च भीराविशत्तीव्रा तस्मिन्विगतचेतसि |
स च मां विगतज्ञानः सन्त्रस्त इदमब्रवीत् ||१६||
सुराणामसुराणां च सङ्ग्रामः सुमहानभूत् |
अमृतार्थे पुरा पार्थ स च दृष्टो मयानघ ||१७||
शम्बरस्य वधे चापि सङ्ग्रामः सुमहानभूत् |
सारथ्यं देवराजस्य तत्रापि कृतवानहम् ||१८||
तथैव वृत्रस्य वधे सङ्गृहीता हया मया |
वैरोचनेर्मया युद्धं दृष्टं चापि सुदारुणम् ||१९||
एते मया महाघोराः सङ्ग्रामाः पर्युपासिताः |
न चापि विगतज्ञानो भूतपूर्वोऽस्मि पाण्डव ||२०||
पितामहेन संहारः प्रजानां विहितो ध्रुवम् |
न हि युद्धमिदं युक्तमन्यत्र जगतः क्षयात् ||२१||
तस्य तद्वचनं श्रुत्वा संस्तभ्यात्मानमात्मना |
मोहयिष्यन्दानवानामहं मायामयं बलम् ||२२||
अब्रुवं मातलिं भीतं पश्य मे भुजयोर्बलम् |
अस्त्राणां च प्रभावं मे धनुषो गाण्डिवस्य च ||२३||
अद्यास्त्रमाययैतेषां मायामेतां सुदारुणाम् |
विनिहन्मि तमश्चोग्रं मा भैः सूत स्थिरो भव ||२४||
एवमुक्त्वाहमसृजमस्त्रमायां नराधिप |
मोहनीं सर्वशत्रूणां हिताय त्रिदिवौकसाम् ||२५||
पीड्यमानासु मायासु तासु तास्वसुरेश्वराः |
पुनर्बहुविधा मायाः प्राकुर्वन्नमितौजसः ||२६||
पुनः प्रकाशमभवत्तमसा ग्रस्यते पुनः |
व्रजत्यदर्शनं लोकः पुनरप्सु निमज्जति ||२७||
सुसङ्गृहीतैर्हरिभिः प्रकाशे सति मातलिः |
व्यचरत्स्यन्दनाग्र्येण सङ्ग्रामे लोमहर्षणे ||२८||
ततः पर्यपतन्नुग्रा निवातकवचा मयि |
तानहं विवरं दृष्ट्वा प्राहिण्वं यमसादनम् ||२९||
वर्तमाने तथा युद्धे निवातकवचान्तके |
नापश्यं सहसा सर्वान्दानवान्माययावृतान् ||३०||
१६९
अर्जुन उवाच||
अदृश्यमानास्ते दैत्या योधयन्ति स्म मायया |
अदृश्यानस्त्रवीर्येण तानप्यहमयोधयम् ||१||
गाण्डीवमुक्ता विशिखाः सम्यगस्त्रप्रचोदिताः |
अच्छिन्दन्नुत्तमाङ्गानि यत्र यत्र स्म तेऽभवन् ||२||
ततो निवातकवचा वध्यमाना मया युधि |
संहृत्य मायां सहसा प्राविशन्पुरमात्मनः ||३||
व्यपयातेषु दैत्येषु प्रादुर्भूते च दर्शने |
अपश्यं दानवांस्तत्र हताञ्शतसहस्रशः ||४||
विनिष्पिष्टानि तत्रैषां शस्त्राण्याभरणानि च |
कूटशः स्म प्रदृश्यन्ते गात्राणि कवचानि च ||५||
हयानां नान्तरं ह्यासीत्पदाद्विचलितुं पदम् |
उत्पत्य सहसा तस्थुरन्तरिक्षगमास्ततः ||६||
ततो निवातकवचा व्योम सञ्छाद्य केवलम् |
अदृश्या ह्यभ्यवर्तन्त विसृजन्तः शिलोच्चयान् ||७||
अन्तर्भूमिगताश्चान्ये हयानां चरणान्यथ |
न्यगृह्णन्दानवा घोरा रथचक्रे च भारत ||८||
विनिगृह्य हरीनश्वान्रथं च मम युध्यतः |
सर्वतो मामचिन्वन्त सरथं धरणीधरैः ||९||
पर्वतैरुपचीयद्भिः पतमानैस्तथापरैः |
स देशो यत्र वर्ताम गुहेव समपद्यत ||१०||
पर्वतैश्छाद्यमानोऽहं निगृहीतैश्च वाजिभिः |
अगच्छं परमामार्तिं मातलिस्तदलक्षयत् ||११||
लक्षयित्वा तु मां भीतमिदं वचनमब्रवीत् |
अर्जुनार्जुन मा भैस्त्वं वज्रमस्त्रमुदीरय ||१२||
ततोऽहं तस्य तद्वाक्यं श्रुत्वा वज्रमुदीरयम् |
देवराजस्य दयितं वज्रमस्त्रं नराधिप ||१३||
अचलं स्थानमासाद्य गाण्डीवमनुमन्त्र्य च |
अमुञ्चं वज्रसंस्पर्शानायसान्निशिताञ्शरान् ||१४||
ततो मायाश्च ताः सर्वा निवातकवचांश्च तान् |
ते वज्रचोदिता बाणा वज्रभूताः समाविशन् ||१५||
ते वज्रवेगाभिहता दानवाः पर्वतोपमाः |
इतरेतरमाश्लिष्य न्यपतन्पृथिवीतले ||१६||
अन्तर्भूमौ तु येऽगृह्णन्दानवा रथवाजिनः |
अनुप्रविश्य तान्बाणाः प्राहिण्वन्यमसादनम् ||१७||
हतैर्निवातकवचैर्निरस्तैः पर्वतोपमैः |
समाच्छाद्यत देशः स विकीर्णैरिव पर्वतैः ||१८||
न हयानां क्षतिः काचिन्न रथस्य न मातलेः |
मम चादृश्यत तदा तदद्भुतमिवाभवत् ||१९||
ततो मां प्रहसन्राजन्मातलिः प्रत्यभाषत |
नैतदर्जुन देवेषु त्वयि वीर्यं यदीक्ष्यते ||२०||
हतेष्वसुरसङ्घेषु दारास्तेषां तु सर्वशः |
प्राक्रोशन्नगरे तस्मिन्यथा शरदि लक्ष्मणाः ||२१||
ततो मातलिना सार्धमहं तत्पुरमभ्ययाम् |
त्रासयन्रथघोषेण निवातकवचस्त्रियः ||२२||
तान्दृष्ट्वा दशसाहस्रान्मयूरसदृशान्हयान् |
रथं च रविसङ्काशं प्राद्रवन्गणशः स्त्रियः ||२३||
ताभिराभरणैः शब्दस्त्रासिताभिः समीरितः |
शिलानामिव शैलेषु पतन्तीनामभूत्तदा ||२४||
वित्रस्ता दैत्यनार्यस्ताः स्वानि वेश्मान्यथाविशन् |
बहुरत्नविचित्राणि शातकुम्भमयानि च ||२५||
तदद्भुताकारमहं दृष्ट्वा नगरमुत्तमम् |
विशिष्टं देवनगरादपृच्छं मातलिं ततः ||२६||
इदमेवंविधं कस्माद्देवता नाविशन्त्युत |
पुरंदरपुराद्धीदं विशिष्टमिति लक्षये ||२७||
मातलिरुवाच||
आसीदिदं पुरा पार्थ देवराजस्य नः पुरम् |
ततो निवातकवचैरितः प्रच्याविताः सुराः ||२८||
तपस्तप्त्वा महत्तीव्रं प्रसाद्य च पितामहम् |
इदं वृतं निवासाय देवेभ्यश्चाभयं युधि ||२९||
ततः शक्रेण भगवान्स्वयम्भूरभिचोदितः |
विधत्तां भगवानत्रेत्यात्मनो हितकाम्यया ||३०||
तत उक्तो भगवता दिष्टमत्रेति वासवः |
भवितान्तस्त्वमेवैषां देहेनान्येन वृत्रहन् ||३१||
तत एषां वधार्थाय शक्रोऽस्त्राणि ददौ तव |
न हि शक्याः सुरैर्हन्तुं य एते निहतास्त्वया ||३२||
कालस्य परिणामेन ततस्त्वमिह भारत |
एषामन्तकरः प्राप्तस्तत्त्वया च कृतं तथा ||३३||
दानवानां विनाशार्थं महास्त्राणां महद्बलम् |
ग्राहितस्त्वं महेन्द्रेण पुरुषेन्द्र तदुत्तमम् ||३४||
अर्जुन उवाच||
ततः प्रविश्य नगरं दानवांश्च निहत्य तान् |
पुनर्मातलिना सार्धमगच्छं देवसद्म तत् ||३५||
१७०
अर्जुन उवाच||
निवर्तमानेन मया महद्दृष्टं ततोऽपरम् |
पुरं कामचरं दिव्यं पावकार्कसमप्रभम् ||१||
द्रुमै रत्नमयैश्चैत्रैर्भास्वरैश्च पतत्रिभिः |
पौलोमैः कालकेयैश्च नित्यहृष्टैरधिष्ठितम् ||२||
गोपुराट्टालकोपेतं चतुर्द्वारं दुरासदम् |
सर्वरत्नमयं दिव्यमद्भुतोपमदर्शनम् ||३||
द्रुमैः पुष्पफलोपेतैर्दिव्यरत्नमयैर्वृतम् ||३||
तथा पतत्रिभिर्दिव्यैरुपेतं सुमनोहरैः |
असुरैर्नित्यमुदितैः शूलर्ष्टिमुसलायुधैः ||४||
चापमुद्गरहस्तैश्च स्रग्विभिः सर्वतो वृतम् ||४||
तदहं प्रेक्ष्य दैत्यानां पुरमद्भुतदर्शनम् |
अपृच्छं मातलिं राजन्किमिदं दृश्यतेति वै ||५||
मातलिरुवाच||
पुलोमा नाम दैतेयी कालका च महासुरी |
दिव्यं वर्षसहस्रं ते चेरतुः परमं तपः ||६||
तपसोऽन्ते ततस्ताभ्यां स्वयम्भूरददाद्वरम् ||६||
अगृह्णीतां वरं ते तु सुतानामल्पदुःखताम् |
अवध्यतां च राजेन्द्र सुरराक्षसपन्नगैः ||७||
रमणीयं पुरं चेदं खचरं सुकृतप्रभम् |
सर्वरत्नैः समुदितं दुर्धर्षममरैरपि ||८||
सयक्षगन्धर्वगणैः पन्नगासुरराक्षसैः ||८||
सर्वकामगुणोपेतं वीतशोकमनामयम् |
ब्रह्मणा भरतश्रेष्ठ कालकेयकृते कृतम् ||९||
तदेतत्खचरं दिव्यं चरत्यमरवर्जितम् |
पौलोमाध्युषितं वीर कालकेयैश्च दानवैः ||१०||
हिरण्यपुरमित्येतत्ख्यायते नगरं महत् |
रक्षितं कालकेयैश्च पौलोमैश्च महासुरैः ||११||
त एते मुदिता नित्यमवध्याः सर्वदैवतैः |
निवसन्त्यत्र राजेन्द्र गतोद्वेगा निरुत्सुकाः ||१२||
मानुषो मृत्युरेतेषां निर्दिष्टो ब्रह्मणा पुरा ||१२||
अर्जुन उवाच||
सुरासुरैरवध्यांस्तानहं ज्ञात्वा ततः प्रभो |
अब्रुवं मातलिं हृष्टो याह्येतत्पुरमञ्जसा ||१३||
त्रिदशेशद्विषो यावत्क्षयमस्त्रैर्नयाम्यहम् |
न कथञ्चिद्धि मे पापा न वध्या ये सुरद्विषः ||१४||
उवाह मां ततः शीघ्रं हिरण्यपुरमन्तिकात् |
रथेन तेन दिव्येन हरियुक्तेन मातलिः ||१५||
ते मामालक्ष्य दैतेया विचित्राभरणाम्बराः |
समुत्पेतुर्महावेगा रथानास्थाय दंशिताः ||१६||
ततो नालीकनाराचैर्भल्लशक्त्यृष्टितोमरैः |
अभ्यघ्नन्दानवेन्द्रा मां क्रुद्धास्तीव्रपराक्रमाः ||१७||
तदहं चास्त्रवर्षेण महता प्रत्यवारयम् |
शस्त्रवर्षं महद्राजन्विद्याबलमुपाश्रितः ||१८||
व्यामोहयं च तान्सर्वान्रथमार्गैश्चरन्रणे |
तेऽन्योन्यमभिसंमूढाः पातयन्ति स्म दानवाः ||१९||
तेषामहं विमूढानामन्योन्यमभिधावताम् |
शिरांसि विशिखैर्दीप्तैर्व्यहरं शतसङ्घशः ||२०||
ते वध्यमाना दैतेयाः पुरमास्थाय तत्पुनः |
खमुत्पेतुः सनगरा मायामास्थाय दानवीम् ||२१||
ततोऽहं शरवर्षेण महता प्रत्यवारयम् |
मार्गमावृत्य दैत्यानां गतिं चैषामवारयम् ||२२||
तत्पुरं खचरं दिव्यं कामगं दिव्यवर्चसम् |
दैतेयैर्वरदानेन धार्यते स्म यथासुखम् ||२३||
अन्तर्भूमौ निपतितं पुनरूर्ध्वं प्रतिष्ठते |
पुनस्तिर्यक्प्रयात्याशु पुनरप्सु निमज्जति ||२४||
अमरावतिसङ्काशं पुरं कामगमं तु तत् |
अहमस्त्रैर्बहुविधैः प्रत्यगृह्णं नराधिप ||२५||
ततोऽहं शरजालेन दिव्यास्त्रमुदितेन च |
न्यगृह्णं सह दैतेयैस्तत्पुरं भरतर्षभ ||२६||
विक्षतं चायसैर्बाणैर्मत्प्रयुक्तैरजिह्मगैः |
महीमभ्यपतद्राजन्प्रभग्नं पुरमासुरम् ||२७||
ते वध्यमाना मद्बाणैर्वज्रवेगैरयस्मयैः |
पर्यभ्रमन्त वै राजन्नसुराः कालचोदिताः ||२८||
ततो मातलिरप्याशु पुरस्तान्निपतन्निव |
महीमवातरत्क्षिप्रं रथेनादित्यवर्चसा ||२९||
ततो रथसहस्राणि षष्टिस्तेषाममर्षिणाम् |
युयुत्सूनां मया सार्धं पर्यवर्तन्त भारत ||३०||
तानहं निशितैर्बाणैर्व्यधमं गार्ध्रवाजितैः |
ते युद्धे संन्यवर्तन्त समुद्रस्य यथोर्मयः ||३१||
नेमे शक्या मानुषेण युद्धेनेति प्रचिन्त्य वै |
ततोऽहमानुपूर्व्येण सर्वाण्यस्त्राण्ययोजयम् ||३२||
ततस्तानि सहस्राणि रथानां चित्रयोधिनाम् |
अस्त्राणि मम दिव्यानि प्रत्यघ्नञ्शनकैरिव ||३३||
रथमार्गान्विचित्रांस्ते विचरन्तो महारथाः |
प्रत्यदृश्यन्त सङ्ग्रामे शतशोऽथ सहस्रशः ||३४||
विचित्रमुकुटापीडा विचित्रकवचध्वजाः |
विचित्राभरणाश्चैव नन्दयन्तीव मे मनः ||३५||
अहं तु शरवर्षैस्तानस्त्रप्रमुदितै रणे |
नाशक्नुवं पीडयितुं ते तु मां पर्यपीडयन् ||३६||
तैः पीड्यमानो बहुभिः कृतास्त्रैः कुशलैर्युधि |
व्यथितोऽस्मि महायुद्धे भयं चागान्महन्मम ||३७||
ततोऽहं देवदेवाय रुद्राय प्रणतो रणे |
स्वस्ति भूतेभ्य इत्युक्त्वा महास्त्रं समयोजयम् ||३८||
यत्तद्रौद्रमिति ख्यातं सर्वामित्रविनाशनम् ||३८||
ततोऽपश्यं त्रिशिरसं पुरुषं नवलोचनम् |
त्रिमुखं षड्भुजं दीप्तमर्कज्वलनमूर्धजम् ||३९||
लेलिहानैर्महानागैः कृतशीर्षममित्रहन् ||३९||
विभीस्ततस्तदस्त्रं तु घोरं रौद्रं सनातनम् |
दृष्ट्वा गाण्डीवसंयोगमानीय भरतर्षभ ||४०||
नमस्कृत्वा त्रिनेत्राय शर्वायामिततेजसे |
मुक्तवान्दानवेन्द्राणां पराभावाय भारत ||४१||
मुक्तमात्रे ततस्तस्मिन्रूपाण्यासन्सहस्रशः |
मृगाणामथ सिंहानां व्याघ्राणां च विशां पते ||४२||
ऋक्षाणां महिषाणां च पन्नगानां तथा गवाम् ||४२||
गजानां सृमराणां च शरभाणां च सर्वशः |
ऋषभाणां वराहाणां मार्जाराणां तथैव च ||४३||
शालावृकाणां प्रेतानां भुरुण्डानां च सर्वशः ||४३||
गृध्राणां गरुडानां च मकराणां तथैव च |
पिशाचानां सयक्षाणां तथैव च सुरद्विषाम् ||४४||
गुह्यकानां च सङ्ग्रामे नैरृतानां तथैव च |
झषाणां गजवक्त्राणामुलूकानां तथैव च ||४५||
मीनकूर्मसमूहानां नानाशस्त्रासिपाणिनाम् |
तथैव यातु धानानां गदामुद्गरधारिणाम् ||४६||
एतैश्चान्यैश्च बहुभिर्नानारूपधरैस्तथा |
सर्वमासीज्जगद्व्याप्तं तस्मिन्नस्त्रे विसर्जिते ||४७||
त्रिषिरोभिश्चतुर्दंष्ट्रैश्चतुरास्यैश्चतुर्भुजैः |
अनेकरूपसंयुक्तैर्मांसमेदोवसाशिभिः ||४८||
अभीक्ष्णं वध्यमानास्ते दानवा ये समागताः ||४८||
अर्कज्वलनतेजोभिर्वज्राशनिसमप्रभैः |
अद्रिसारमयैश्चान्यैर्बाणैररिविदारणैः ||४९||
न्यहनं दानवान्सर्वान्मुहूर्तेनैव भारत ||४९||
गाण्डीवास्त्रप्रणुन्नांस्तान्गतासून्नभसश्च्युतान् |
दृष्ट्वाहं प्राणमं भूयस्त्रिपुरघ्नाय वेधसे ||५०||
तथा रौद्रास्त्रनिष्पिष्टान्दिव्याभरणभूषितान् |
निशाम्य परमं हर्षमगमद्देवसारथिः ||५१||
तदसह्यं कृतं कर्म देवैरपि दुरासदम् |
दृष्ट्वा मां पूजयामास मातलिः शक्रसारथिः ||५२||
उवाच चेदं वचनं प्रीयमाणः कृताञ्जलिः |
सुरासुरैरसह्यं हि कर्म यत्साधितं त्वया ||५३||
न ह्येतत्संयुगे कर्तुमपि शक्तः सुरेश्वरः ||५३||
सुरासुरैरवध्यं हि पुरमेतत्खगं महत् |
त्वया विमथितं वीर स्ववीर्यास्त्रतपोबलात् ||५४||
विध्वस्तेऽथ पुरे तस्मिन्दानवेषु हतेषु च |
विनदन्त्यः स्त्रियः सर्वा निष्पेतुर्नगराद्बहिः ||५५||
प्रकीर्णकेश्यो व्यथिताः कुरर्य इव दुःखिताः |
पेतुः पुत्रान्पितॄन्भ्रातॄञ्शोचमाना महीतले ||५६||
रुदन्त्यो दीनकण्ठ्यस्ता विनदन्त्यो हतेश्वराः |
उरांसि पाणिभिर्घ्नन्त्यः प्रस्रस्तस्रग्विभूषणाः ||५७||
तच्छोकयुक्तमश्रीकं दुःखदैन्यसमाहतम् |
न बभौ दानवपुरं हतत्विट्कं हतेश्वरम् ||५८||
गन्धर्वनगराकारं हतनागमिव ह्रदम् |
शुष्कवृक्षमिवारण्यमदृश्यमभवत्पुरम् ||५९||
मां तु संहृष्टमनसं क्षिप्रं मातलिरानयत् |
देवराजस्य भवनं कृतकर्माणमाहवात् ||६०||
हिरण्यपुरमारुज्य निहत्य च महासुरान् |
निवातकवचांश्चैव ततोऽहं शक्रमागमम् ||६१||
मम कर्म च देवेन्द्रं मातलिर्विस्तरेण तत् |
सर्वं विश्रावयामास यथा भूतं महाद्युते ||६२||
हिरण्यपुरघातं च मायानां च निवारणम् |
निवातकवचानां च वधं सङ्ख्ये महौजसाम् ||६३||
तच्छ्रुत्वा भगवान्प्रीतः सहस्राक्षः पुरंदरः |
मरुद्भिः सहितः श्रीमान्साधु साध्वित्यथाब्रवीत् ||६४||
ततो मां देवराजो वै समाश्वास्य पुनः पुनः |
अब्रवीद्विबुधैः सार्धमिदं सुमधुरं वचः ||६५||
अतिदेवासुरं कर्म कृतमेतत्त्वया रणे |
गुर्वर्थश्च महान्पार्थ कृतः शत्रून्घ्नता मम ||६६||
एवमेव सदा भाव्यं स्थिरेणाजौ धनञ्जय |
असंमूढेन चास्त्राणां कर्तव्यं प्रतिपादनम् ||६७||
अविषह्यो रणे हि त्वं देवदानवराक्षसैः |
सयक्षासुरगन्धर्वैः सपक्षिगणपन्नगैः ||६८||
वसुधां चापि कौन्तेय त्वद्बाहुबलनिर्जिताम् |
पालयिष्यति धर्मात्मा कुन्तीपुत्रो युधिष्ठिरः ||६९||
१७१
अर्जुन उवाच||
ततो मामभिविश्वस्तं संरूढशरविक्षतम् |
देवराजोऽनुगृह्येदं काले वचनमब्रवीत् ||१||
दिव्यान्यस्त्राणि सर्वाणि त्वयि तिष्ठन्ति भारत |
न त्वाभिभवितुं शक्तो मानुषो भुवि कश्चन ||२||
भीष्मो द्रोणः कृपः कर्णः शकुनिः सह राजभिः |
सङ्ग्रामस्थस्य ते पुत्र कलां नार्हन्ति षोडशीम् ||३||
इदं च मे तनुत्राणं प्रायच्छन्मघवान्प्रभुः |
अभेद्यं कवचं दिव्यं स्रजं चैव हिरण्मयीम् ||४||
देवदत्तं च मे शङ्खं देवः प्रादान्महारवम् |
दिव्यं चेदं किरीटं मे स्वयमिन्द्रो युयोज ह ||५||
ततो दिव्यानि वस्त्राणि दिव्यान्याभरणानि च |
प्रादाच्छक्रो ममैतानि रुचिराणि बृहन्ति च ||६||
एवं सम्पूजितस्तत्र सुखमस्म्युषितो नृप |
इन्द्रस्य भवने पुण्ये गन्धर्वशिशुभिः सह ||७||
ततो मामब्रवीच्छक्रः प्रीतिमानमरैः सह |
समयोऽर्जुन गन्तुं ते भ्रातरो हि स्मरन्ति ते ||८||
एवमिन्द्रस्य भवने पञ्च वर्षाणि भारत |
उषितानि मया राजन्स्मरता द्यूतजं कलिम् ||९||
ततो भवन्तमद्राक्षं भ्रातृभिः परिवारितम् |
गन्धमादनमासाद्य पर्वतस्यास्य मूर्धनि ||१०||
युधिष्ठिर उवाच||
दिष्ट्या धनञ्जयास्त्राणि त्वया प्राप्तानि भारत |
दिष्ट्या चाराधितो राजा देवानामीश्वरः प्रभुः ||११||
दिष्ट्या च भगवान्स्थाणुर्देव्या सह परन्तप |
साक्षाद्दृष्टः सुयुद्धेन तोषितश्च त्वयानघ ||१२||
दिष्ट्या च लोकपालैस्त्वं समेतो भरतर्षभ |
दिष्ट्या वर्धामहे सर्वे दिष्ट्यासि पुनरागतः ||१३||
अद्य कृत्स्नामिमां देवीं विजितां पुरमालिनीम् |
मन्ये च धृतराष्ट्रस्य पुत्रानपि वशीकृतान् ||१४||
तानि त्विच्छामि ते द्रष्टुं दिव्यान्यस्त्राणि भारत |
यैस्तथा वीर्यवन्तस्ते निवातकवचा हता ||१५||
अर्जुन उवाच||
श्वः प्रभाते भवान्द्रष्टा दिव्यान्यस्त्राणि सर्वशः |
निवातकवचा घोरा यैर्मया विनिपातिताः ||१६||
वैशम्पायन उवाच||
एवमागमनं तत्र कथयित्वा धनञ्जयः |
भ्रातृभिः सहितः सर्वै रजनीं तामुवास ह ||१७||
१७२
वैशम्पायन उवाच||
तस्यां रजन्यां व्युष्टायां धर्मराजो युधिष्ठिरः |
उत्थायावश्यकार्याणि कृतवान्भ्रतृभिः सह ||१||
ततः सञ्चोदयामास सोऽर्जुनं भ्रातृनन्दनम् |
दर्शयास्त्राणि कौन्तेय यैर्जिता दानवास्त्वया ||२||
ततो धनञ्जयो राजन्देवैर्दत्तानि पाण्डवः |
अस्त्राणि तानि दिव्यानि दर्शयामास भारत ||३||
यथान्यायं महातेजाः शौचं परममास्थितः |
गिरिकूबरं पादपाङ्गं शुभवेणु त्रिवेणुकम् ||४||
पार्थिवं रथमास्थाय शोभमानो धनञ्जयः ||४||
ततः सुदंशितस्तेन कवचेन सुवर्चसा |
धनुरादाय गाण्डीवं देवदत्तं च वारिजम् ||५||
शोशुभ्यमानः कौन्तेय आनुपूर्व्यान्महाभुजः |
अस्त्राणि तानि दिव्यानि दर्शनायोपचक्रमे ||६||
अथ प्रयोक्ष्यमाणेन दिव्यान्यस्त्राणि तेन वै |
समाक्रान्ता मही पद्भ्यां समकम्पत सद्रुमा ||७||
क्षुभिताः सरितश्चैव तथैव च महोदधिः |
शैलाश्चापि व्यशीर्यन्त न ववौ च समीरणः ||८||
न बभासे सहस्रांशुर्न जज्वाल च पावकः |
न वेदाः प्रतिभान्ति स्म द्विजातीनां कथञ्चन ||९||
अन्तर्भूमिगता ये च प्राणिनो जनमेजय |
पीड्यमानाः समुत्थाय पाण्डवं पर्यवारयन् ||१०||
वेपमानाः प्राञ्जलयस्ते सर्वे पिहिताननाः |
दह्यमानास्तदास्त्रैस्तैर्याचन्ति स्म धनञ्जयम् ||११||
ततो ब्रह्मर्षयश्चैव सिद्धाश्चैव सुरर्षयः |
जङ्गमानि च भूतानि सर्वाण्येवावतस्थिरे ||१२||
राजर्षयश्च प्रवरास्तथैव च दिवौकसः |
यक्षराक्षसगन्धर्वास्तथैव च पतत्रिणः ||१३||
ततः पितामहश्चैव लोकपालाश्च सर्वशः |
भगवांश्च महादेवः सगणोऽभ्याययौ तदा ||१४||
ततो वायुर्महाराज दिव्यैर्माल्यैः सुगन्धिभिः |
अभितः पाण्डवांश्चित्रैरवचक्रे समन्ततः ||१५||
जगुश्च गाथा विविधा गन्धर्वाः सुरचोदिताः |
ननृतुः सङ्घशश्चैव राजन्नप्सरसां गणाः ||१६||
तस्मिंस्तु तुमुले काले नारदः सुरचोदितः |
आगम्याह वचः पार्थं श्रवणीयमिदं नृप ||१७||
अर्जुनार्जुन मा युङ्क्ष्व दिव्यान्यस्त्राणि भारत |
नैतानि निरधिष्ठाने प्रयुज्यन्ते कदाचन ||१८||
अधिष्ठाने न वानार्तः प्रयुञ्जीत कदाचन |
प्रयोगे सुमहान्दोषो ह्यस्त्राणां कुरुनन्दन ||१९||
एतानि रक्ष्यमाणानि धनञ्जय यथागमम् |
बलवन्ति सुखार्हाणि भविष्यन्ति न संशयः ||२०||
अरक्ष्यमाणान्येतानि त्रैलोक्यस्यापि पाण्डव |
भवन्ति स्म विनाशाय मैवं भूयः कृथाः क्वचित् ||२१||
अजातशत्रो त्वं चैव द्रक्ष्यसे तानि संयुगे |
योज्यमानानि पार्थेन द्विषतामवमर्दने ||२२||
निवार्याथ ततः पार्थं सर्वे देवा यथागतम् |
जग्मुरन्ये च ये तत्र समाजग्मुर्नरर्षभ ||२३||
तेषु सर्वेषु कौरव्य प्रतियातेषु पाण्डवाः |
तस्मिन्नेव वने हृष्टास्त ऊषुः सह कृष्णया ||२४||
आजगरपर्व
१७३
जनमेजय उवाच||
तस्मिन्कृतास्त्रे रथिनां प्रधाने; प्रत्यागते भवनाद्वृत्रहन्तुः |
अतः परं किमकुर्वन्त पार्थाः; समेत्य शूरेण धनञ्जयेन ||१||
वैशम्पायन उवाच||
वनेषु तेष्वेव तु ते नरेन्द्राः; सहार्जुनेनेन्द्रसमेन वीराः |
तस्मिंश्च शैलप्रवरे सुरम्ये; धनेश्वराक्रीडगता विजह्रुः ||२||
वेश्मानि तान्यप्रतिमानि पश्य; न्क्रीडाश्च नानाद्रुमसंनिकर्षाः |
चचार धन्वी बहुधा नरेन्द्रः; सोऽस्त्रेषु यत्तः सततं किरीटी ||३||
अवाप्य वासं नरदेवपुत्राः; प्रसादजं वैश्रवणस्य राज्ञः |
न प्राणिनां ते स्पृहयन्ति राज; ञ्शिवश्च कालः स बभूव तेषाम् ||४||
समेत्य पार्थेन यथैकरात्र; मूषुः समास्तत्र तदा चतस्रः |
पूर्वाश्च षट्ता दश पाण्डवानां; शिवा बभूवुर्वसतां वनेषु ||५||
ततोऽब्रवीद्वायुसुतस्तरस्वी; जिष्णुश्च राजानमुपोपविश्य |
यमौ च वीरौ सुरराजकल्पा; वेकान्तमास्थाय हितं प्रियं च ||६||
तव प्रतिज्ञां कुरुराज सत्यां; चिकीर्षमाणास्त्वदनु प्रियं च |
ततोऽनुगच्छाम वनान्यपास्य; सुयोधनं सानुचरं निहन्तुम् ||७||
एकादशं वर्षमिदं वसामः; सुयोधनेनात्तसुखाः सुखार्हाः |
तं वञ्चयित्वाधमबुद्धिशील; मज्ञातवासं सुखमाप्नुयामः ||८||
तवाज्ञया पार्थिव निर्विशङ्का; विहाय मानं विचरन्वनानि |
समीपवासेन विलोभितास्ते; ज्ञास्यन्ति नास्मानपकृष्टदेशान् ||९||
संवत्सरं तं तु विहृत्य गूढं; नराधमं तं सुखमुद्धरेम |
निर्यात्य वैरं सफलं सपुष्पं; तस्मै नरेन्द्राधमपूरुषाय ||१०||
सुयोधनायानुचरैर्वृताय; ततो महीमाहर धर्मराज |
स्वर्गोपमं शैलमिमं चरद्भिः; शक्यो विहन्तुं नरदेव शोकः ||११||
कीर्तिश्च ते भारत पुण्यगन्धा; नश्येत लोकेषु चराचरेषु |
तत्प्राप्य राज्यं कुरुपुङ्गवानां; शक्यं महत्प्राप्तमथ क्रियाश्च ||१२||
इदं तु शक्यं सततं नरेन्द्र; प्राप्तुं त्वया यल्लभसे कुबेरात् |
कुरुष्व बुद्धिं द्विषतां वधाय; कृतागसां भारत निग्रहे च ||१३||
तेजस्तवोग्रं न सहेत राज; न्समेत्य साक्षादपि वज्रपाणिः |
न हि व्यथां जातु करिष्यतस्तौ; समेत्य देवैरपि धर्मराज ||१४||
त्वदर्थसिद्ध्यर्थमभिप्रवृत्तौ; सुपर्णकेतुश्च शिनेश्च नप्ता |
यथैव कृष्णोऽप्रतिमो बलेन; तथैव राजन्स शिनिप्रवीरः ||१५||
तवार्थसिद्ध्यर्थमभिप्रवृत्तौ; यथैव कृष्णः सह यादवैस्तैः |
तथैव चावां नरदेववर्य; यमौ च वीरौ कृतिनौ प्रयोगे ||१६||
त्वदर्थयोगप्रभवप्रधानाः; समं करिष्याम परान्समेत्य ||१६||
ततस्तदाज्ञाय मतं महात्मा; तेषां स धर्मस्य सुतो वरिष्ठः |
प्रदक्षिणं वैश्रवणाधिवासं; चकार धर्मार्थविदुत्तमौजः ||१७||
आमन्त्र्य वेश्मानि नदीः सरांसि; सर्वाणि रक्षांसि च धर्मराजः |
यथागतं मार्गमवेक्षमाणः; पुनर्गिरिं चैव निरीक्षमाणः ||१८||
समाप्तकर्मा सहितः सुहृद्भि; र्जित्वा सपत्नान्प्रतिलभ्य राज्यम् |
शैलेन्द्र भूयस्तपसे धृतात्मा; द्रष्टा तवास्मीति मतिं चकार ||१९||
वृतः स सर्वैरनुजैर्द्विजैश्च; तेनैव मार्गेण पतिः कुरूणाम् |
उवाह चैनान्सगणांस्तथैव; घटोत्कचः पर्वतनिर्झरेषु ||२०||
तान्प्रस्थितान्प्रीतिमना महर्षिः; पितेव पुत्राननुशिष्य सर्वान् |
स लोमशः प्रीतमना जगाम; दिवौकसां पुण्यतमं निवासम् ||२१||
तेनानुशिष्टार्ष्टिषेणेन चैव; तीर्थानि रम्याणि तपोवनानि |
महान्ति चान्यानि सरांसि पार्थाः; सम्पश्यमानाः प्रययुर्नराग्र्याः ||२२||
१७४
वैशम्पायन उवाच||
नगोत्तमं प्रस्रवणैरुपेतं; दिशां गजैः किंनरपक्षिभिश्च |
सुखं निवासं जहतां हि तेषां; न प्रीतिरासीद्भरतर्षभाणाम् ||१||
ततस्तु तेषां पुनरेव हर्षः; कैलासमालोक्य महान्बभूव |
कुबेरकान्तं भरतर्षभाणां; महीधरं वारिधरप्रकाशम् ||२||
समुच्छ्रयान्पर्वतसंनिरोधा; न्गोष्ठान्गिरीणां गिरिसेतुमालाः |
बहून्प्रपातांश्च समीक्ष्य वीराः; स्थलानि निम्नानि च तत्र तत्र ||३||
तथैव चान्यानि महावनानि; मृगद्विजानेकपसेवितानि |
आलोकयन्तोऽभिययुः प्रतीता; स्ते धन्विनः खड्गधरा नराग्र्याः ||४||
वनानि रम्याणि सरांसि नद्यो; गुहा गिरीणां गिरिगह्वराणि |
एते निवासाः सततं बभूवु; र्निशानिशं प्राप्य नरर्षभाणाम् ||५||
ते दुर्गवासं बहुधा निरुष्य; व्यतीत्य कैलासमचिन्त्यरूपम् |
आसेदुरत्यर्थमनोरमं वै; तमाश्रमाग्र्यं वृषपर्वणस्ते ||६||
समेत्य राज्ञा वृषपर्वणस्ते; प्रत्यर्चितास्तेन च वीतमोहाः |
शशंसिरे विस्तरशः प्रवासं; शिवं यथावद्वृषपर्वणस्ते ||७||
सुखोषितास्तत्र त एकरात्रं; पुण्याश्रमे देवमहर्षिजुष्टे |
अभ्याययुस्ते बदरीं विशालां; सुखेन वीराः पुनरेव वासम् ||८||
ऊषुस्ततस्तत्र महानुभावा; नारायणस्थानगता नराग्र्याः |
कुबेरकान्तां नलिनीं विशोकाः; सम्पश्यमानाः सुरसिद्धजुष्टाम् ||९||
तां चाथ दृष्ट्वा नलिनीं विशोकाः; पाण्डोः सुताः सर्वनरप्रवीराः |
ते रेमिरे नन्दनवासमेत्य; द्विजर्षयो वीतभया यथैव ||१०||
ततः क्रमेणोपययुर्नृवीरा; यथागतेनैव पथा समग्राः |
विहृत्य मासं सुखिनो बदर्यां; किरातराज्ञो विषयं सुबाहोः ||११||
चीनांस्तुखारान्दरदान्सदार्वा; न्देशान्कुणिन्दस्य च भूरिरत्नान् |
अतीत्य दुर्गं हिमवत्प्रदेशं; पुरं सुबाहोर्ददृशुर्नृवीराः ||१२||
श्रुत्वा च तान्पार्थिवपुत्रपौत्रा; न्प्राप्तान्सुबाहुर्विषये समग्रान् |
प्रत्युद्ययौ प्रीतियुतः स राजा; तं चाभ्यनन्दन्वृषभाः कुरूणाम् ||१३||
समेत्य राज्ञा तु सुबाहुना ते; सूतैर्विशोकप्रमुखैश्च सर्वैः |
सहेन्द्रसेनैः परिचारकैश्च; पौरोगवैर्ये च महानसस्थाः ||१४||
सुखोषितास्तत्र त एकरात्रं; सूतानुपादाय रथांश्च सर्वान् |
घटोत्कचं सानुचरं विसृज्य; ततोऽभ्ययुर्यामुनमद्रिराजम् ||१५||
तस्मिन्गिरौ प्रस्रवणोपपन्ने; हिमोत्तरीयारुणपाण्डुसानौ |
विशाखयूपं समुपेत्य चक्रु; स्तदा निवासं पुरुषप्रवीराः ||१६||
वराहनानामृगपक्षिजुष्टं; महद्वनं चैत्ररथप्रकाशम् |
शिवेन यात्वा मृगयाप्रधानाः; संवत्सरं तत्र वने विजह्रुः ||१७||
तत्राससादातिबलं भुजङ्गं; क्षुधार्दितं मृत्युमिवोग्ररूपम् |
वृकोदरः पर्वतकन्दरायां; विषादमोहव्यथितान्तरात्मा ||१८||
द्वीपोऽभवद्यत्र वृकोदरस्य; युधिष्ठिरो धर्मभृतां वरिष्ठः |
अमोक्षयद्यस्तमनन्ततेजा; ग्राहेण संवेष्टितसर्वगात्रम् ||१९||
ते द्वादशं वर्षमथोपयान्तं; वने विहर्तुं कुरवः प्रतीताः |
तस्माद्वनाच्चैत्ररथप्रकाशा; च्छ्रिया ज्वलन्तस्तपसा च युक्ताः ||२०||
ततश्च यात्वा मरुधन्वपार्श्वं; सदा धनुर्वेदरतिप्रधानाः |
सरस्वतीमेत्य निवासकामाः; सरस्ततो द्वैतवनं प्रतीयुः ||२१||
समीक्ष्य तान्द्वैतवने निविष्टा; न्निवासिनस्तत्र ततोऽभिजग्मुः |
तपोदमाचारसमाधियुक्ता; स्तृणोदपात्राहरणाश्मकुट्टाः ||२२||
प्लक्षाक्षरौहीतकवेतसाश्च; स्नुहा बदर्यः खदिराः शिरीषाः |
बिल्वेङ्गुदाः पीलुशमीकरीराः; सरस्वतीतीररुहा बभूवुः ||२३||
तां यक्षगन्धर्वमहर्षिकान्ता; मायागभूतामिव देवतानाम् |
सरस्वतीं प्रीतियुताश्चरन्तः; सुखं विजह्रुर्नरदेवपुत्राः ||२४||
१७५
जनमेजय उवाच||
कथं नागायुतप्राणो भीमसेनो महाबलः |
भयमाहारयत्तीव्रं तस्मादजगरान्मुने ||१||
पौलस्त्यं योऽऽह्वयद्युद्धे धनदं बलदर्पितः |
नलिन्यां कदनं कृत्वा वराणां यक्षरक्षसाम् ||२||
तं शंससि भयाविष्टमापन्नमरिकर्षणम् |
एतदिच्छाम्यहं श्रोतुं परं कौतूहलं हि मे ||३||
वैशम्पायन उवाच||
बह्वाश्चर्ये वने तेषां वसतामुग्रधन्विनाम् |
प्राप्तानामाश्रमाद्राजन्राजर्षेर्वृषपर्वणः ||४||
यदृच्छया धनुष्पाणिर्बद्धखड्गो वृकोदरः |
ददर्श तद्वनं रम्यं देवगन्धर्वसेवितम् ||५||
स ददर्श शुभान्देशान्गिरेर्हिमवतस्तदा |
देवर्षिसिद्धचरितानप्सरोगणसेवितान् ||६||
चकोरैश्चक्रवाकैश्च पक्षिभिर्जीवजीवकैः |
कोकिलैर्भृङ्गराजैश्च तत्र तत्र विनादितान् ||७||
नित्यपुष्पफलैर्वृक्षैर्हिमसंस्पर्शकोमलैः |
उपेतान्बहुलच्छायैर्मनोनयननन्दनैः ||८||
स सम्पश्यन्गिरिनदीर्वैडूर्यमणिसंनिभैः |
सलिलैर्हिमसंस्पर्शैर्हंसकारण्डवायुतैः ||९||
वनानि देवदारूणां मेघानामिव वागुराः |
हरिचन्दनमिश्राणि तुङ्गकालीयकान्यपि ||१०||
मृगयां परिधावन्स समेषु मरुधन्वसु |
विध्यन्मृगाञ्शरैः शुद्धैश्चचार सुमहाबलः ||११||
स ददर्श महाकायं भुजङ्गं लोमहर्षणम् |
गिरिदुर्गे समापन्नं कायेनावृत्य कन्दरम् ||१२||
पर्वताभोगवर्ष्माणं भोगैश्चन्द्रार्कमण्डलैः |
चित्राङ्गमजिनैश्चित्रैर्हरिद्रासदृशच्छविम् ||१३||
गुहाकारेण वक्त्रेण चतुर्दंष्ट्रेण राजता |
दीप्ताक्षेणातिताम्रेण लिहन्तं सृक्किणी मुहुः ||१४||
त्रासनं सर्वभूतानां कालान्तकयमोपमम् |
निःश्वासक्ष्वेडनादेन भर्त्सयन्तमिव स्थितम् ||१५||
स भीमं सहसाभ्येत्य पृदाकुः क्षुधितो भृशम् |
जग्राहाजगरो ग्राहो भुजयोरुभयोर्बलात् ||१६||
तेन संस्पृष्टमात्रस्य भिमसेनस्य वै तदा |
सञ्ज्ञा मुमोह सहसा वरदानेन तस्य ह ||१७||
दश नागसहस्राणि धारयन्ति हि यद्बलम् |
तद्बलं भीमसेनस्य भुजयोरसमं परैः ||१८||
स तेजस्वी तथा तेन भुजगेन वशीकृतः |
विस्फुरञ्शनकैर्भीमो न शशाक विचेष्टितुम् ||१९||
नागायुतसमप्राणः सिंहस्कन्धो महाभुजः |
गृहीतो व्यजहात्सत्त्वं वरदानेन मोहितः ||२०||
स हि प्रयत्नमकरोत्तीव्रमात्मविमोक्षणे |
न चैनमशकद्वीरः कथञ्चित्प्रतिबाधितुम् ||२१||
१७६
वैशम्पायन उवाच||
स भीमसेनस्तेजस्वी तथा सर्पवशं गतः |
चिन्तयामास सर्पस्य वीर्यमत्यद्भुतं महत् ||१||
उवाच च महासर्पं कामया ब्रूहि पन्नग |
कस्त्वं भो भुजगश्रेष्ठ किं मया च करिष्यसि ||२||
पाण्डवो भिमसेनोऽहं धर्मराजादनन्तरः |
नागायुतसमप्राणस्त्वया नीतः कथं वशम् ||३||
सिंहाः केसरिणो व्याघ्रा महिषा वारणास्तथा |
समागताश्च बहुशो निहताश्च मया मृधे ||४||
दानवाश्च पिशाचाश्च राक्षसाश्च महाबलाः |
भुजवेगमशक्ता मे सोढुं पन्नगसत्तम ||५||
किं नु विद्याबलं किं वा वरदानमथो तव |
उद्योगमपि कुर्वाणो वशगोऽस्मि कृतस्त्वया ||६||
असत्यो विक्रमो नॄणामिति मे निश्चिता मतिः |
यथेदं मे त्वया नाग बलं प्रतिहतं महत् ||७||
इत्येवंवादिनं वीरं भीममक्लिष्टकारिणम् |
भोगेन महता सर्पः समन्तात्पर्यवेष्टयत् ||८||
निगृह्य तं महाबाहुं ततः स भुजगस्तदा |
विमुच्यास्य भुजौ पीनाविदं वचनमब्रवीत् ||९||
दिष्ट्या त्वं क्षुधितस्याद्य देवैर्भक्षो महाभुज |
दिष्ट्या कालस्य महतः प्रियाः प्राणा हि देहिनाम् ||१०||
यथा त्विदं मया प्राप्तं भुजङ्गत्वमरिंदम |
तदवश्यं मया ख्याप्यं तवाद्य शृणु सत्तम ||११||
इमामवस्थां सम्प्राप्तो ह्यहं कोपान्मनीषिणाम् |
शापस्यान्तं परिप्रेप्सुः सर्पस्य कथयामि तत् ||१२||
नहुषो नाम राजर्षिर्व्यक्तं ते श्रोत्रमागतः |
तवैव पूर्वः पूर्वेषामायोर्वंशकरः सुतः ||१३||
सोऽहं शापादगस्त्यस्य ब्राह्मणानवमन्य च |
इमामवस्थामापन्नः पश्य दैवमिदं मम ||१४||
त्वां चेदवध्यमायान्तमतीव प्रियदर्शनम् |
अहमद्योपयोक्ष्यामि विधानं पश्य यादृशम् ||१५||
न हि मे मुच्यते कश्चित्कथञ्चिद्ग्रहणं गतः |
गजो वा महिषो वापि षष्ठे काले नरोत्तम ||१६||
नासि केवलसर्पेण तिर्यग्योनिषु वर्तता |
गृहीतः कौरवश्रेष्ठ वरदानमिदं मम ||१७||
पतता हि विमानाग्रान्मया शक्रासनाद्द्रुतम् |
कुरु शापान्तमित्युक्तो भगवान्मुनिसत्तमः ||१८||
स मामुवाच तेजस्वी कृपयाभिपरिप्लुतः |
मोक्षस्ते भविता राजन्कस्माच्चित्कालपर्ययात् ||१९||
ततोऽस्मि पतितो भूमौ न च मामजहात्स्मृतिः |
स्मार्तमस्ति पुराणं मे यथैवाधिगतं तथा ||२०||
यस्तु ते व्याहृतान्प्रश्नान्प्रतिब्रूयाद्विशेषवित् |
स त्वां मोक्षयिता शापादिति मामब्रवीदृषिः ||२१||
गृहीतस्य त्वया राजन्प्राणिनोऽपि बलीयसः |
सत्त्वभ्रंशोऽधिकस्यापि सर्वस्याशु भविष्यति ||२२||
इति चाप्यहमश्रौषं वचस्तेषां दयावताम् |
मयि सञ्जातहार्दानामथ तेऽन्तर्हिता द्विजाः ||२३||
सोऽहं परमदुष्कर्मा वसामि निरयेऽशुचौ |
सर्पयोनिमिमां प्राप्य कालाकाङ्क्षी महाद्युते ||२४||
तमुवाच महाबाहुर्भीमसेनो भुजङ्गमम् |
न ते कुप्ये महासर्प न चात्मानं विगर्हये ||२५||
यस्मादभावी भावी वा मनुष्यः सुखदुःखयोः |
आगमे यदि वापाये न तत्र ग्लपयेन्मनः ||२६||
दैवं पुरुषकारेण को निवर्तितुमर्हति |
दैवमेव परं मन्ये पुरुषार्थो निरर्थकः ||२७||
पश्य दैवोपघाताद्धि भुजवीर्यव्यपाश्रयम् |
इमामवस्थां सम्प्राप्तमनिमित्तमिहाद्य माम् ||२८||
किं तु नाद्यानुशोचामि तथात्मानं विनाशितम् |
यथा तु विपिने न्यस्तान्भ्रातॄन्राज्यपरिच्युतान् ||२९||
हिमवांश्च सुदुर्गोऽयं यक्षराक्षससङ्कुलः |
मां च ते समुदीक्षन्तः प्रपतिष्यन्ति विह्वलाः ||३०||
विनष्टमथ वा श्रुत्वा भविष्यन्ति निरुद्यमाः |
धर्मशीला मया ते हि बाध्यन्ते राज्यगृद्धिना ||३१||
अथ वा नार्जुनो धीमान्विषादमुपयास्यति |
सर्वास्त्रविदनाधृष्यो देवगन्धर्वराक्षसैः ||३२||
समर्थः स महाबाहुरेकाह्ना सुमहाबलः |
देवराजमपि स्थानात्प्रच्यावयितुमोजसा ||३३||
किं पुनर्धृतराष्ट्रस्य पुत्रं दुर्द्यूतदेविनम् |
विद्विष्टं सर्वलोकस्य दम्भलोभपरायणम् ||३४||
मातरं चैव शोचामि कृपणां पुत्रगृद्धिनीम् |
यास्माकं नित्यमाशास्ते महत्त्वमधिकं परैः ||३५||
कथं नु तस्यानाथाया मद्विनाशाद्भुजङ्गम |
अफलास्ते भविष्यन्ति मयि सर्वे मनोरथाः ||३६||
नकुलः सहदेवश्च यमजौ गुरुवर्तिनौ |
मद्बाहुबलसंस्तब्धौ नित्यं पुरुषमानिनौ ||३७||
निरुत्साहौ भविष्येते भ्रष्टवीर्यपराक्रमौ |
मद्विनाशात्परिद्यूनाविति मे वर्तते मतिः ||३८||
एवंविधं बहु तदा विललाप वृकोदरः |
भुजङ्गभोगसंरुद्धो नाशकच्च विचेष्टितुम् ||३९||
युधिष्ठिरस्तु कौन्तेय बभूवास्वस्थचेतनः |
अनिष्टदर्शनान्घोरानुत्पातान्परिचिन्तयन् ||४०||
दारुणं ह्यशिवं नादं शिवा दक्षिणतः स्थिता |
दीप्तायां दिशि वित्रस्ता रौति तस्याश्रमस्य ह ||४१||
एकपक्षाक्षिचरणा वर्तिका घोरदर्शना |
रुधिरं वमन्ती ददृशे प्रत्यादित्यमपस्वरा ||४२||
प्रववावनिलो रूक्षश्चण्डः शर्करकर्षणः |
अपसव्यानि सर्वाणि मृगपक्षिरुतानि च ||४३||
पृष्ठतो वायसः कृष्णो याहि याहीति वाशति |
मुहुर्मुहुः प्रस्फुरति दक्षिणोऽस्य भुजस्तथा ||४४||
हृदयं चरणश्चापि वामोऽस्य परिवर्तते |
सव्यस्याक्ष्णो विकारश्चाप्यनिष्टः समपद्यत ||४५||
स धर्मराजो मेधावी शङ्कमानो महद्भयम् |
द्रौपदीं परिपप्रच्छ क्व भीम इति भारत ||४६||
शशंस तस्मै पाञ्चाली चिरयातं वृकोदरम् |
स प्रतस्थे महाबाहुर्धौम्येन सहितो नृपः ||४७||
द्रौपद्या रक्षणं कार्यमित्युवाच धनञ्जयम् |
नकुलं सहदेवं च व्यादिदेश द्विजान्प्रति ||४८||
स तस्य पदमुन्नीय तस्मादेवाश्रमात्प्रभुः |
ददर्श पृथिवीं चिह्नैर्भीमस्य परिचिह्निताम् ||४९||
धावतस्तस्य वीरस्य मृगार्थे वातरंहसः |
ऊरुवातविनिर्भग्नान्द्रुमान्व्यावर्जितान्पथि ||५०||
स गत्वा तैस्तदा चिह्नैर्ददर्श गिरिगह्वरे |
गृहीतं भुजगेन्द्रेण निश्चेष्टमनुजं तथा ||५१||
१७७
वैशम्पायन उवाच||
युधिष्ठिरस्तमासाद्य सर्पभोगाभिवेष्टितम् |
दयितं भ्रातरं वीरमिदं वचनमब्रवीत् ||१||
कुन्तीमातः कथमिमामापदं त्वमवाप्तवान् |
कश्चायं पर्वताभोगप्रतिमः पन्नगोत्तमः ||२||
स धर्मराजमालक्ष्य भ्राता भ्रातरमग्रजम् |
कथयामास तत्सर्वं ग्रहणादि विचेष्टितम् ||३||
युधिष्ठिर उवाच||
देवो वा यदि वा दैत्य उरगो वा भवान्यदि |
सत्यं सर्प वचो ब्रूहि पृच्छति त्वां युधिष्ठिरः ||४||
किमाहृत्य विदित्वा वा प्रीतिस्ते स्याद्भुजङ्गम |
किमाहारं प्रयच्छामि कथं मुञ्चेद्भवानिमम् ||५||
सर्प उवाच||
नहुषो नाम राजाहमासं पूर्वस्तवानघ |
प्रथितः पञ्चमः सोमादायोः पुत्रो नराधिप ||६||
क्रतुभिस्तपसा चैव स्वाध्यायेन दमेन च |
त्रैलोक्यैश्वर्यमव्यग्रं प्राप्तो विक्रमणेन च ||७||
तदैश्वर्यं समासाद्य दर्पो मामगमत्तदा |
सहस्रं हि द्विजातीनामुवाह शिबिकां मम ||८||
ऐश्वर्यमदमत्तोऽहमवमन्य ततो द्विजान् |
इमामगस्त्येन दशामानीतः पृथिवीपते ||९||
न तु मामजहात्प्रज्ञा यावदद्येति पाण्डव |
तस्यैवानुग्रहाद्राजन्नगस्त्यस्य महात्मनः ||१०||
षष्ठे काले ममाहारः प्राप्तोऽयमनुजस्तव |
नाहमेनं विमोक्ष्यामि न चान्यमभिकामये ||११||
प्रश्नानुच्चारितांस्तु त्वं व्याहरिष्यसि चेन्मम |
अथ पश्चाद्विमोक्ष्यामि भ्रातरं ते वृकोदरम् ||१२||
युधिष्ठिर उवाच||
ब्रूहि सर्प यथाकामं प्रतिवक्ष्यामि ते वचः |
अपि चेच्छक्नुयां प्रीतिमाहर्तुं ते भुजङ्गम ||१३||
वेद्यं यद्ब्राह्मणेनेह तद्भवान्वेत्ति केवलम् |
सर्पराज ततः श्रुत्वा प्रतिवक्ष्यामि ते वचः ||१४||
सर्प उवाच||
ब्राह्मणः को भवेद्राजन्वेद्यं किं च युधिष्ठिर |
ब्रवीह्यतिमतिं त्वां हि वाक्यैरनुमिमीमहे ||१५||
युधिष्ठिर उवाच||
सत्यं दानं क्षमा शीलमानृशंस्यं दमो घृणा |
दृश्यन्ते यत्र नागेन्द्र स ब्राह्मण इति स्मृतः ||१६||
वेद्यं सर्प परं ब्रह्म निर्दुःखमसुखं च यत् |
यत्र गत्वा न शोचन्ति भवतः किं विवक्षितम् ||१७||
सर्प उवाच||
चातुर्वर्ण्यं प्रमाणं च सत्यं च ब्रह्म चैव ह |
शूद्रेष्वपि च सत्यं च दानमक्रोध एव च ||१८||
आनृशंस्यमहिंसा च घृणा चैव युधिष्ठिर ||१८||
वेद्यं यच्चात्थ निर्दुःखमसुखं च नराधिप |
ताभ्यां हीनं पदं चान्यन्न तदस्तीति लक्षये ||१९||
युधिष्ठिर उवाच||
शूद्रे चैतद्भवेल्लक्ष्यं द्विजे तच्च न विद्यते |
न वै शूद्रो भवेच्छूद्रो ब्राह्मणो न च ब्राह्मणः ||२०||
यत्रैतल्लक्ष्यते सर्प वृत्तं स ब्राह्मणः स्मृतः |
यत्रैतन्न भवेत्सर्प तं शूद्रमिति निर्दिशेत् ||२१||
यत्पुनर्भवता प्रोक्तं न वेद्यं विद्यतेति ह |
ताभ्यां हीनमतीत्यात्र पदं नास्तीति चेदपि ||२२||
एवमेतन्मतं सर्प ताभ्यां हीनं न विद्यते |
यथा शीतोष्णयोर्मध्ये भवेन्नोष्णं न शीतता ||२३||
एवं वै सुखदुःखाभ्यां हीनमस्ति पदं क्वचित् |
एषा मम मतिः सर्प यथा वा मन्यते भवान् ||२४||
सर्प उवाच||
यदि ते वृत्ततो राजन्ब्राह्मणः प्रसमीक्षितः |
व्यर्था जातिस्तदायुष्मन्कृतिर्यावन्न दृश्यते ||२५||
युधिष्ठिर उवाच||
जातिरत्र महासर्प मनुष्यत्वे महामते |
सङ्करात्सर्ववर्णानां दुष्परीक्ष्येति मे मतिः ||२६||
सर्वे सर्वास्वपत्यानि जनयन्ति यदा नराः |
वाङ्मैथुनमथो जन्म मरणं च समं नृणाम् ||२७||
इदमार्षं प्रमाणं च ये यजामह इत्यपि |
तस्माच्छीलं प्रधानेष्टं विदुर्ये तत्त्वदर्शिनः ||२८||
प्राङ्नाभिवर्धनात्पुंसो जातकर्म विधीयते |
तत्रास्य माता सावित्री पिता त्वाचार्य उच्यते ||२९||
वृत्त्या शूद्रसमो ह्येष यावद्वेदे न जायते |
अस्मिन्नेवं मतिद्वैधे मनुः स्वायम्भुवोऽब्रवीत् ||३०||
कृतकृत्याः पुनर्वर्णा यदि वृत्तं न विद्यते |
सङ्करस्तत्र नागेन्द्र बलवान्प्रसमीक्षितः ||३१||
यत्रेदानीं महासर्प संस्कृतं वृत्तमिष्यते |
तं ब्राह्मणमहं पूर्वमुक्तवान्भुजगोत्तम ||३२||
सर्प उवाच||
श्रुतं विदितवेद्यस्य तव वाक्यं युधिष्ठिर |
भक्षयेयमहं कस्माद्भ्रातरं ते वृकोदरम् ||३३||
१७८
युधिष्ठिर उवाच||
भवानेतादृशो लोके वेदवेदाङ्गपारगः |
ब्रूहि किं कुर्वतः कर्म भवेद्गतिरनुत्तमा ||१||
सर्प उवाच||
पात्रे दत्त्वा प्रियाण्युक्त्वा सत्यमुक्त्वा च भारत |
अहिंसानिरतः स्वर्गं गच्छेदिति मतिर्मम ||२||
युधिष्ठिर उवाच||
दानाद्वा सर्प सत्याद्वा किमतो गुरु दृश्यते |
अहिंसाप्रिययोश्चैव गुरुलाघवमुच्यताम् ||३||
सर्प उवाच||
दाने रतत्वं सत्यं च अहिंसा प्रियमेव च |
एषां कार्यगरीयस्त्वाद्दृश्यते गुरुलाघवम् ||४||
कस्माच्चिद्दानयोगाद्धि सत्यमेव विशिष्यते |
सत्यवाक्याच्च राजेन्द्र किञ्चिद्दानं विशिष्यते ||५||
एवमेव महेष्वास प्रियवाक्यान्महीपते |
अहिंसा दृश्यते गुर्वी ततश्च प्रियमिष्यते ||६||
एवमेतद्भवेद्राजन्कार्यापेक्षमनन्तरम् |
यदभिप्रेतमन्यत्ते ब्रूहि यावद्ब्रवीम्यहम् ||७||
युधिष्ठिर उवाच||
कथं स्वर्गे गतिः सर्प कर्मणां च फलं ध्रुवम् |
अशरीरस्य दृश्येत विषयांश्च ब्रवीहि मे ||८||
सर्प उवाच||
तिस्रो वै गतयो राजन्परिदृष्टाः स्वकर्मभिः |
मानुष्यं स्वर्गवासश्च तिर्यग्योनिश्च तत्त्रिधा ||९||
तत्र वै मानुषाल्लोकाद्दानादिभिरतन्द्रितः |
अहिंसार्थसमायुक्तैः कारणैः स्वर्गमश्नुते ||१०||
विपरीतैश्च राजेन्द्र कारणैर्मानुषो भवेत् |
तिर्यग्योनिस्तथा तात विशेषश्चात्र वक्ष्यते ||११||
कामक्रोधसमायुक्तो हिंसालोभसमन्वितः |
मनुष्यत्वात्परिभ्रष्टस्तिर्यग्योनौ प्रसूयते ||१२||
तिर्यग्योन्यां पृथग्भावो मनुष्यत्वे विधीयते |
गवादिभ्यस्तथाश्वेभ्यो देवत्वमपि दृश्यते ||१३||
सोऽयमेता गतीः सर्वा जन्तुश्चरति कार्यवान् |
नित्ये महति चात्मानमवस्थापयते नृप ||१४||
जातो जातश्च बलवान्भुङ्क्ते चात्मा स देहवान् |
फलार्थस्तात निष्पृक्तः प्रजालक्षणभावनः ||१५||
युधिष्ठिर उवाच||
शब्दे स्पर्शे च रूपे च तथैव रसगन्धयोः |
तस्याधिष्ठानमव्यग्रं ब्रूहि सर्प यथातथम् ||१६||
किं न गृह्णासि विषयान्युगपत्त्वं महामते |
एतावदुच्यतां चोक्तं सर्वं पन्नगसत्तम ||१७||
सर्प उवाच||
यदात्मद्रव्यमायुष्मन्देहसंश्रयणान्वितम् |
करणाधिष्ठितं भोगानुपभुङ्क्ते यथाविधि ||१८||
ज्ञानं चैवात्र बुद्धिश्च मनश्च भरतर्षभ |
तस्य भोगाधिकरणे करणानि निबोध मे ||१९||
मनसा तात पर्येति क्रमशो विषयानिमान् |
विषयायतनस्थेन भूतात्मा क्षेत्रनिःसृतः ||२०||
अत्र चापि नरव्याघ्र मनो जन्तोर्विधीयते |
तस्माद्युगपदस्यात्र ग्रहणं नोपपद्यते ||२१||
स आत्मा पुरुषव्याघ्र भ्रुवोरन्तरमाश्रितः |
द्रव्येषु सृजते बुद्धिं विविधेषु परावराम् ||२२||
बुद्धेरुत्तरकालं च वेदना दृश्यते बुधैः |
एष वै राजशार्दूल विधिः क्षेत्रज्ञभावनः ||२३||
युधिष्ठिर उवाच||
मनसश्चापि बुद्धेश्च ब्रूहि मे लक्षणं परम् |
एतदध्यात्मविदुषां परं कार्यं विधीयते ||२४||
सर्प उवाच||
बुद्धिरात्मानुगा तात उत्पातेन विधीयते |
तदाश्रिता हि सञ्ज्ञैषा विधिस्तस्यैषणे भवेत् ||२५||
बुद्धेर्गुणविधिर्नास्ति मनस्तु गुणवद्भवेत् |
बुद्धिरुत्पद्यते कार्ये मनस्तूत्पन्नमेव हि ||२६||
एतद्विशेषणं तात मनोबुद्ध्योर्मयेरितम् |
त्वमप्यत्राभिसम्बुद्धः कथं वा मन्यते भवान् ||२७||
युधिष्ठिर उवाच||
अहो बुद्धिमतां श्रेष्ठ शुभा बुद्धिरियं तव |
विदितं वेदितव्यं ते कस्मान्मामनुपृच्छसि ||२८||
सर्वज्ञं त्वां कथं मोह आविशत्स्वर्गवासिनम् |
एवमद्भुतकर्माणमिति मे संशयो महान् ||२९||
सर्प उवाच||
सुप्रज्ञमपि चेच्छूरमृद्धिर्मोहयते नरम् |
वर्तमानः सुखे सर्वो नावैतीति मतिर्मम ||३०||
सोऽहमैश्वर्यमोहेन मदाविष्टो युधिष्ठिर |
पतितः प्रतिसम्बुद्धस्त्वां तु सम्बोधयाम्यहम् ||३१||
कृतं कार्यं महाराज त्वया मम परन्तप |
क्षीणः शापः सुकृच्छ्रो मे त्वया सम्भाष्य साधुना ||३२||
अहं हि दिवि दिव्येन विमानेन चरन्पुरा |
अभिमानेन मत्तः सन्कञ्चिन्नान्यमचिन्तयम् ||३३||
ब्रह्मर्षिदेवगन्धर्वयक्षराक्षसकिंनराः |
करान्मम प्रयच्छन्ति सर्वे त्रैलोक्यवासिनः ||३४||
चक्षुषा यं प्रपश्यामि प्राणिनं पृथिवीपते |
तस्य तेजो हराम्याशु तद्धि दृष्टिबलं मम ||३५||
ब्रह्मर्षीणां सहस्रं हि उवाह शिबिकां मम |
स मामपनयो राजन्भ्रंशयामास वै श्रियः ||३६||
तत्र ह्यगस्त्यः पादेन वहन्स्पृष्टो मया मुनिः |
अदृष्टेन ततोऽस्म्युक्तो ध्वंस सर्पेति वै रुषा ||३७||
ततस्तस्माद्विमानाग्रात्प्रच्युतश्च्युतभूषणः |
प्रपतन्बुबुधेऽऽत्मानं व्यालीभूतमधोमुखम् ||३८||
अयाचं तमहं विप्रं शापस्यान्तो भवेदिति |
अज्ञानात्सम्प्रवृत्तस्य भगवन्क्षन्तुमर्हसि ||३९||
ततः स मामुवाचेदं प्रपतन्तं कृपान्वितः |
युधिष्ठिरो धर्मराजः शापात्त्वां मोक्षयिष्यति ||४०||
अभिमानस्य घोरस्य बलस्य च नराधिप |
फले क्षीणे महाराज फलं पुण्यमवाप्स्यसि ||४१||
ततो मे विस्मयो जातस्तद्दृष्ट्वा तपसो बलम् |
ब्रह्म च ब्राह्मणत्वं च येन त्वाहमचूचुदम् ||४२||
सत्यं दमस्तपो योगमहिंसा दाननित्यता |
साधकानि सदा पुंसां न जातिर्न कुलं नृप ||४३||
अरिष्ट एष ते भ्राता भीमो मुक्तो महाभुजः |
स्वस्ति तेऽस्तु महाराज गमिष्यामि दिवं पुनः ||४४||
वैशम्पायन उवाच||
इत्युक्त्वाजगरं देहं त्यक्त्वा स नहुषो नृपः |
दिव्यं वपुः समास्थाय गतस्त्रिदिवमेव ह ||४५||
युधिष्ठिरोऽपि धर्मात्मा भ्रात्रा भीमेन सङ्गतः |
धौम्येन सहितः श्रीमानाश्रमं पुनरभ्यगात् ||४६||
ततो द्विजेभ्यः सर्वेभ्यः समेतेभ्यो यथातथम् |
कथयामास तत्सर्वं धर्मराजो युधिष्ठिरः ||४७||
तच्छ्रुत्वा ते द्विजाः सर्वे भ्रातरश्चास्य ते त्रयः |
आसन्सुव्रीडिता राजन्द्रौपदी च यशस्विनी ||४८||
ते तु सर्वे द्विजश्रेष्ठाः पाण्डवानां हितेप्सया |
मैवमित्यब्रुवन्भीमं गर्हयन्तोऽस्य साहसम् ||४९||
पाण्डवास्तु भयान्मुक्तं प्रेक्ष्य भीमं महाबलम् |
हर्षमाहारयां चक्रुर्विजह्रुश्च मुदा युताः ||५०||
मार्कण्डेयसमास्यापर्व
१७९
वैशम्पायन उवाच||
निदाघान्तकरः कालः सर्वभूतसुखावहः |
तत्रैव वसतां तेषां प्रावृट्समभिपद्यत ||१||
छादयन्तो महाघोषाः खं दिशश्च बलाहकाः |
प्रववर्षुर्दिवारात्रमसिताः सततं तदा ||२||
तपात्ययनिकेताश्च शतशोऽथ सहस्रशः |
अपेतार्कप्रभाजालाः सविद्युद्विमलप्रभाः ||३||
विरूढशष्पा पृथिवी मत्तदंशसरीसृपा |
बभूव पयसा सिक्ता शान्तधूमरजोऽरुणा ||४||
न स्म प्रज्ञायते किञ्चिदम्भसा समवस्तृते |
समं वा विषमं वापि नद्यो वा स्थावराणि वा ||५||
क्षुब्धतोया महाघोषाः श्वसमाना इवाशुगाः |
सिन्धवः शोभयां चक्रुः काननानि तपात्यये ||६||
नदतां काननान्तेषु श्रूयन्ते विविधाः स्वनाः |
वृष्टिभिस्ताड्यमानानां वराहमृगपक्षिणाम् ||७||
स्तोककाः शिखिनश्चैव पुंस्कोकिलगणैः सह |
मत्ताः परिपतन्ति स्म दर्दुराश्चैव दर्पिताः ||८||
तथा बहुविधाकारा प्रावृण्मेघानुनादिता |
अभ्यतीता शिवा तेषां चरतां मरुधन्वसु ||९||
क्रौञ्चहंसगणाकीर्णा शरत्प्रणिहिताभवत् |
रूढकक्षवनप्रस्था प्रसन्नजलनिम्नगा ||१०||
विमलाकाशनक्षत्रा शरत्तेषां शिवाभवत् |
मृगद्विजसमाकीर्णा पाण्डवानां महात्मनाम् ||११||
पश्यन्तः शान्तरजसः क्षपा जलदशीतलाः |
ग्रहनक्षत्रसङ्घैश्च सोमेन च विराजिताः ||१२||
कुमुदैः पुण्डरीकैश्च शीतवारिधराः शिवाः |
नदीः पुष्करिणीश्चैव ददृशुः समलङ्कृताः ||१३||
आकाशनीकाशतटां नीपनीवारसङ्कुलाम् |
बभूव चरतां हर्षः पुण्यतीर्थां सरस्वतीम् ||१४||
ते वै मुमुदिरे वीराः प्रसन्नसलिलां शिवाम् |
पश्यन्तो दृढधन्वानः परिपूर्णां सरस्वतीम् ||१५||
तेषां पुण्यतमा रात्रिः पर्वसन्धौ स्म शारदी |
तत्रैव वसतामासीत्कार्त्तिकी जनमेजय ||१६||
पुण्यकृद्भिर्महासत्त्वैस्तापसैः सह पाण्डवाः |
तत्सर्वं भरतश्रेष्ठाः समूहुर्योगमुत्तमम् ||१७||
तमिस्राभ्युदये तस्मिन्धौम्येन सह पाण्डवाः |
सूतैः पौरोगवैश्चैव काम्यकं प्रययुर्वनम् ||१८||
१८०
वैशम्पायन उवाच||
काम्यकं प्राप्य कौन्तेया युधिष्ठिरपुरोगमाः |
कृतातिथ्या मुनिगणैर्निषेदुः सह कृष्णया ||१||
ततस्तान्परिविश्वस्तान्वसतः पाण्डुनन्दनान् |
ब्राह्मणा बहवस्तत्र समन्तात्पर्यवारयन् ||२||
अथाब्रवीद्द्विजः कश्चिदर्जुनस्य प्रियः सखा |
एष्यतीह महाबाहुर्वशी शौरिरुदारधीः ||३||
विदिता हि हरेर्यूयमिहायाताः कुरूद्वहाः |
सदा हि दर्शनाकाङ्क्षी श्रेयोऽन्वेषी च वो हरिः ||४||
बहुवत्सरजीवी च मार्कण्डेयो महातपाः |
स्वाध्यायतपसा युक्तः क्षिप्रं युष्मान्समेष्यति ||५||
तथैव तस्य ब्रुवतः प्रत्यदृष्यत केशवः |
सैन्यसुग्रीवयुक्तेन रथेन रथिनां वरः ||६||
मघवानिव पौलोम्या सहितः सत्यभामया |
उपायाद्देवकीपुत्रो दिदृक्षुः कुरुसत्तमान् ||७||
अवतीर्य रथात्कृष्णो धर्मराजं यथाविधि |
ववन्दे मुदितो धीमान्भीमं च बलिनां वरम् ||८||
पूजयामास धौम्यं च यमाभ्यामभिवादितः |
परिष्वज्य गुडाकेशं द्रौपदीं पर्यसान्त्वयत् ||९||
स दृष्ट्वा फल्गुनं वीरं चिरस्य प्रियमागतम् |
पर्यष्वजत दाशार्हः पुनः पुनररिंदमम् ||१०||
तथैव सत्यभामापि द्रौपदीं परिषस्वजे |
पाण्डवानां प्रियां भार्यां कृष्णस्य महिषी प्रिया ||११||
ततस्ते पाण्डवाः सर्वे सभार्याः सपुरोहिताः |
आनर्चुः पुण्डरीकाक्षं परिवव्रुश्च सर्वशः ||१२||
कृष्णस्तु पार्थेन समेत्य विद्वा; न्धनञ्जयेनासुरतर्जनेन |
बभौ यथा भूतपतिर्महात्मा; समेत्य साक्षाद्भगवान्गुहेन ||१३||
ततः समस्तानि किरीटमाली; वनेषु वृत्तानि गदाग्रजाय |
उक्त्वा यथावत्पुनरन्वपृच्छ; त्कथं सुभद्रा च तथाभिमन्युः ||१४||
स पूजयित्वा मधुहा यथाव; त्पार्थांश्च कृष्णां च पुरोहितं च |
उवाच राजानमभिप्रशंस; न्युधिष्ठिरं तत्र सहोपविश्य ||१५||
धर्मः परः पाण्डव राज्यलाभा; त्तस्यार्थमाहुस्तप एव राजन् |
सत्यार्जवाभ्यां चरता स्वधर्मं; जितस्तवायं च परश्च लोकः ||१६||
अधीतमग्रे चरता व्रतानि; सम्यग्धनुर्वेदमवाप्य कृत्स्नम् |
क्षात्रेण धर्मेण वसूनि लब्ध्वा; सर्वे ह्यवाप्ताः क्रतवः पुराणाः ||१७||
न ग्राम्यधर्मेषु रतिस्तवास्ति; कामान्न किञ्चित्कुरुषे नरेन्द्र |
न चार्थलोभात्प्रजहासि धर्मं; तस्मात्स्वभावादसि धर्मराजः ||१८||
दानं च सत्यं च तपश्च राज; ञ्श्रद्धा च शान्तिश्च धृतिः क्षमा च |
अवाप्य राष्ट्राणि वसूनि भोगा; नेषा परा पार्थ सदा रतिस्ते ||१९||
यदा जनौघः कुरुजाङ्गलानां; कृष्णां सभायामवशामपश्यत् |
अपेतधर्मव्यवहारवृत्तं; सहेत तत्पाण्डव कस्त्वदन्यः ||२०||
असंशयं सर्वसमृद्धकामः; क्षिप्रं प्रजाः पालयितासि सम्यक् |
इमे वयं निग्रहणे कुरूणां; यदि प्रतिज्ञा भवतः समाप्ता ||२१||
धौम्यं च कृष्णां च युधिष्ठिरं च; यमौ च भीमं च दशार्हसिंहः |
उवाच दिष्ट्या भवतां शिवेन; प्राप्तः किरीटी मुदितः कृतास्त्रः ||२२||
प्रोवाच कृष्णामपि याज्ञसेनीं; दशार्हभर्ता सहितः सुहृद्भिः |
कृष्णे धनुर्वेदरतिप्रधानाः; सत्यव्रतास्ते शिशवः सुशीलाः ||२३||
सद्भिः सदैवाचरितं समाधिं; चरन्ति पुत्रास्तव याज्ञसेनि ||२३||
राज्येन राष्ट्रैश्च निमन्त्र्यमाणाः; पित्रा च कृष्णे तव सोदरैश्च |
न यज्ञसेनस्य न मातुलानां; गृहेषु बाला रतिमाप्नुवन्ति ||२४||
आनर्तमेवाभिमुखाः शिवेन; गत्वा धनुर्वेदरतिप्रधानाः |
तवात्मजा वृष्णिपुरं प्रविश्य; न दैवतेभ्यः स्पृहयन्ति कृष्णे ||२५||
यथा त्वमेवार्हसि तेषु वृत्तिं; प्रयोक्तुमार्या च यथैव कुन्ती |
तेष्वप्रमादेन सदा करोति; तथा च भूयश्च तथा सुभद्रा ||२६||
यथानिरुद्धस्य यथाभिमन्यो; र्यथा सुनीथस्य यथैव भानोः |
तथा विनेता च गतिश्च कृष्णे; तवात्मजानामपि रौक्मिणेयः ||२७||
गदासिचर्मग्रहणेषु शूरा; नस्त्रेषु शिक्षासु रथाश्वयाने |
सम्यग्विनेता विनयत्यतन्द्री; स्तांश्चाभिमन्युः सततं कुमारः ||२८||
स चापि सम्यक्प्रणिधाय शिक्षा; मस्त्राणि चैषां गुरुवत्प्रदाय |
तवात्मजानां च तथाभिमन्योः; पराक्रमैस्तुष्यति रौक्मिणेयः ||२९||
यदा विहारं प्रसमीक्षमाणाः; प्रयान्ति पुत्रास्तव याज्ञसेनि |
एकैकमेषामनुयान्ति तत्र; रथाश्च यानानि च दन्तिनश्च ||३०||
अथाब्रवीद्धर्मराजं तु कृष्णो; दशार्हयोधाः कुकुरान्धकाश्च |
एते निदेशं तव पालयन्ति; तिष्ठन्ति यत्रेच्छसि तत्र राजन् ||३१||
आवर्ततां कार्मुकवेगवाता; हलायुधप्रग्रहणा मधूनाम् |
सेना तवार्थेषु नरेन्द्र यत्ता; ससादिपत्त्यश्वरथा सनागा ||३२||
प्रस्थाप्यतां पाण्डव धार्तराष्ट्रः; सुयोधनः पापकृतां वरिष्ठः |
स सानुबन्धः ससुहृद्गणश्च; सौभस्य सौभाधिपतेश्च मार्गम् ||३३||
कामं तथा तिष्ठ नरेन्द्र तस्मि; न्यथा कृतस्ते समयः सभायाम् |
दाशार्हयोधैस्तु ससादियोधं; प्रतीक्षतां नागपुरं भवन्तम् ||३४||
व्यपेतमन्युर्व्यपनीतपाप्मा; विहृत्य यत्रेच्छसि तत्र कामम् |
ततः समृद्धं प्रथमं विशोकः; प्रपत्स्यसे नागपुरं सराष्ट्रम् ||३५||
ततस्तदाज्ञाय मतं महात्मा; यथावदुक्तं पुरुषोत्तमेन |
प्रशस्य विप्रेक्ष्य च धर्मराजः; कृताञ्जलिः केशवमित्युवाच ||३६||
असंशयं केशव पाण्डवानां; भवान्गतिस्त्वच्छरणा हि पार्थाः |
कालोदये तच्च ततश्च भूयः; कर्ता भवान्कर्म न संशयोऽस्ति ||३७||
यथाप्रतिज्ञं विहृतश्च कालः; सर्वाः समा द्वादश निर्जनेषु |
अज्ञातचर्यां विधिवत्समाप्य; भवद्गताः केशव पाण्डवेयाः ||३८||
वैशम्पायन उवाच||
तथा वदति वार्ष्णेये धर्मराजे च भारत |
अथ पश्चात्तपोवृद्धो बहुवर्षसहस्रधृक् ||३९||
प्रत्यदृष्यत धर्मात्मा मार्कण्डेयो महातपाः ||३९||
तमागतमृषिं वृद्धं बहुवर्षसहस्रिणम् |
आनर्चुर्ब्राह्मणाः सर्वे कृष्णश्च सह पाण्डवैः ||४०||
तमर्चितं सुविष्वस्तमासीनमृषिसत्तमम् |
ब्राह्मणानां मतेनाह पाण्डवानां च केशवः ||४१||
शुश्रूषवः पाण्डवास्ते ब्राह्मणाश्च समागताः |
द्रौपदी सत्यभामा च तथाहं परमं वचः ||४२||
पुरावृत्ताः कथाः पुण्याः सदाचाराः सनातनाः |
राज्ञां स्त्रीणामृषीणां च मार्कण्डेय विचक्ष्व नः ||४३||
तेषु तत्रोपविष्टेषु देवर्षिरपि नारदः |
आजगाम विशुद्धात्मा पाण्डवानवलोककः ||४४||
तमप्यथ महात्मानं सर्वे तु पुरुषर्षभाः |
पाद्यार्घ्याभ्यां यथान्यायमुपतस्थुर्मनीषिणम् ||४५||
नारदस्त्वथ देवर्षिर्ज्ञात्वा तांस्तु कृतक्षणान् |
मार्कण्डेयस्य वदतस्तां कथामन्वमोदत ||४६||
उवाच चैनं कालज्ञः स्मयन्निव स नारदः |
ब्रह्मर्षे कथ्यतां यत्ते पाण्डवेषु विवक्षितम् ||४७||
एवमुक्तः प्रत्युवाच मार्कण्डेयो महातपाः |
क्षणं कुरुध्वं विपुलमाख्यातव्यं भविष्यति ||४८||
एवमुक्ताः क्षणं चक्रुः पाण्डवाः सह तैर्द्विजैः |
मध्यंदिने यथादित्यं प्रेक्षन्तस्तं महामुनिम् ||४९||
१८१
वैशम्पायन उवाच||
तं विवक्षन्तमालक्ष्य कुरुराजो महामुनिम् |
कथासञ्जननार्थाय चोदयामास पाण्डवः ||१||
भवान्दैवतदैत्यानामृषीणां च महात्मनाम् |
राजर्षीणां च सर्वेषां चरितज्ञः सनातनः ||२||
सेव्यश्चोपासितव्यश्च मतो नः काङ्क्षितश्चिरम् |
अयं च देवकीपुत्रः प्राप्तोऽस्मानवलोककः ||३||
भवत्येव हि मे बुद्धिर्दृष्ट्वात्मानं सुखाच्च्युतम् |
धार्तराष्ट्रांश्च दुर्वृत्तानृध्यतः प्रेक्ष्य सर्वशः ||४||
कर्मणः पुरुषः कर्ता शुभस्याप्यशुभस्य च |
स्वफलं तदुपाश्नाति कथं कर्ता स्विदीश्वरः ||५||
अथ वा सुखदुःखेषु नृणां ब्रह्मविदां वर |
इह वा कृतमन्वेति परदेहेऽथ वा पुनः ||६||
देही च देहं सन्त्यज्य मृग्यमाणः शुभाशुभैः |
कथं संयुज्यते प्रेत्य इह वा द्विजसत्तम ||७||
ऐहलौकिकमेवैतदुताहो पारलौकिकम् |
क्व च कर्माणि तिष्ठन्ति जन्तोः प्रेतस्य भार्गव ||८||
मार्कण्डेय उवाच||
त्वद्युक्तोऽयमनुप्रश्नो यथावद्वदतां वर |
विदितं वेदितव्यं ते स्थित्यर्थमनुपृच्छसि ||९||
अत्र ते वर्तयिष्यामि तदिहैकमनाः शृणु |
यथेहामुत्र च नरः सुखदुःखमुपाश्नुते ||१०||
निर्मलानि शरीराणि विशुद्धानि शरीरिणाम् |
ससर्ज धर्मतन्त्राणि पूर्वोत्पन्नः प्रजापतिः ||११||
अमोघबलसङ्कल्पाः सुव्रताः सत्यवादिनः |
ब्रह्मभूता नराः पुण्याः पुराणाः कुरुनन्दन ||१२||
सर्वे देवैः समायान्ति स्वच्छन्देन नभस्तलम् |
ततश्च पुनरायान्ति सर्वे स्वच्छन्दचारिणः ||१३||
स्वच्छन्दमरणाश्चासन्नराः स्वच्छन्दजीविनः |
अल्पबाधा निरातङ्का सिद्धार्था निरुपद्रवाः ||१४||
द्रष्टारो देवसङ्घानामृषीणां च महात्मनाम् |
प्रत्यक्षाः सर्वधर्माणां दान्ता विगतमत्सराः ||१५||
आसन्वर्षसहस्राणि तथा पुत्रसहस्रिणः |
ततः कालान्तरेऽन्यस्मिन्पृथिवीतलचारिणः ||१६||
कामक्रोधाभिभूतास्ते मायाव्याजोपजीविनः |
लोभमोहाभिभूताश्च त्यक्ता देवैस्ततो नराः ||१७||
अशुभैः कर्मभिः पापास्तिर्यङ्नरकगामिनः |
संसारेषु विचित्रेषु पच्यमानाः पुनः पुनः ||१८||
मोघेष्टा मोघसङ्कल्पा मोघज्ञाना विचेतसः |
सर्वातिशङ्किनश्चैव संवृत्ताः क्लेशभागिनः ||१९||
अशुभैः कर्मभिश्चापि प्रायशः परिचिह्निताः ||१९||
दौष्कुल्या व्याधिबहुला दुरात्मानोऽप्रतापिनः |
भवन्त्यल्पायुषः पापा रौद्रकर्मफलोदयाः ||२०||
नाथन्तः सर्वकामानां नास्तिका भिन्नसेतवः ||२०||
जन्तोः प्रेतस्य कौन्तेय गतिः स्वैरिह कर्मभिः |
प्राज्ञस्य हीनबुद्धेश्च कर्मकोशः क्व तिष्ठति ||२१||
क्वस्थस्तत्समुपाश्नाति सुकृतं यदि वेतरत् |
इति ते दर्शनं यच्च तत्राप्यनुनयं शृणु ||२२||
अयमादिशरीरेण देवसृष्टेन मानवः |
शुभानामशुभानां च कुरुते सञ्चयं महत् ||२३||
आयुषोऽन्ते प्रहायेदं क्षीणप्रायं कलेवरम् |
सम्भवत्येव युगपद्योनौ नास्त्यन्तराभवः ||२४||
तत्रास्य स्वकृतं कर्म छायेवानुगतं सदा |
फलत्यथ सुखार्हो वा दुःखार्हो वापि जायते ||२५||
कृतान्तविधिसंयुक्तः स जन्तुर्लक्षणैः शुभैः |
अशुभैर्वा निरादानो लक्ष्यते ज्ञानदृष्टिभिः ||२६||
एषा तावदबुद्धीनां गतिरुक्ता युधिष्ठिर |
अतः परं ज्ञानवतां निबोध गतिमुत्तमाम् ||२७||
मनुष्यास्तप्ततपसः सर्वागमपरायणाः |
स्थिरव्रताः सत्यपरा गुरुशुश्रूषणे रताः ||२८||
सुशीलाः शुक्लजातीयाः क्षान्ता दान्ताः सुतेजसः |
शुभयोन्यन्तरगताः प्रायशः शुभलक्षणाः ||२९||
जितेन्द्रियत्वाद्वशिनः शुक्लत्वान्मन्दरोगिणः |
अल्पबाधपरित्रासाद्भवन्ति निरुपद्रवाः ||३०||
च्यवन्तं जायमानं च गर्भस्थं चैव सर्वशः |
स्वमात्मानं परं चैव बुध्यन्ते ज्ञानचक्षुषः ||३१||
कर्मभूमिमिमां प्राप्य पुनर्यान्ति सुरालयम् ||३१||
किञ्चिद्दैवाद्धठात्किञ्चित्किञ्चिदेव स्वकर्मभिः |
प्राप्नुवन्ति नरा राजन्मा तेऽस्त्वन्या विचारणा ||३२||
इमामत्रोपमां चापि निबोध वदतां वर |
मनुष्यलोके यच्छ्रेयः परं मन्ये युधिष्ठिर ||३३||
इह वैकस्य नामुत्र अमुत्रैकस्य नो इह |
इह चामुत्र चैकस्य नामुत्रैकस्य नो इह ||३४||
धनानि येषां विपुलानि सन्ति; नित्यं रमन्ते सुविभूषिताङ्गाः |
तेषामयं शत्रुवरघ्न लोको; नासौ सदा देहसुखे रतानाम् ||३५||
ये योगयुक्तास्तपसि प्रसक्ताः; स्वाध्यायशीला जरयन्ति देहान् |
जितेन्द्रिया भूतहिते निविष्टा; स्तेषामसौ नायमरिघ्न लोकः ||३६||
ये धर्ममेव प्रथमं चरन्ति; धर्मेण लब्ध्वा च धनानि काले |
दारानवाप्य क्रतुभिर्यजन्ते; तेषामयं चैव परश्च लोकः ||३७||
ये नैव विद्यां न तपो न दानं; न चापि मूढाः प्रजने यतन्ते |
न चाधिगच्छन्ति सुखान्यभाग्या; स्तेषामयं चैव परश्च नास्ति ||३८||
सर्वे भवन्तस्त्वतिवीर्यसत्त्वा; दिव्यौजसः संहननोपपन्नाः |
लोकादमुष्मादवनिं प्रपन्नाः; स्वधीतविद्याः सुरकार्यहेतोः ||३९||
कृत्वैव कर्माणि महान्ति शूरा; स्तपोदमाचारविहारशीलाः |
देवानृषीन्प्रेतगणांश्च सर्वा; न्सन्तर्पयित्वा विधिना परेण ||४०||
स्वर्गं परं पुण्यकृतां निवासं; क्रमेण सम्प्राप्स्यथ कर्मभिः स्वैः |
मा भूद्विशङ्का तव कौरवेन्द्र; दृष्ट्वात्मनः क्लेशमिमं सुखार्ह ||४१||
१८२
वैशम्पायन उवाच||
मार्कण्डेयं महात्मानमूचुः पाण्डुसुतास्तदा |
माहात्म्यं द्विजमुख्यानां श्रोतुमिच्छाम कथ्यताम् ||१||
एवमुक्तः स भगवान्मार्कण्डेयो महातपाः |
उवाच सुमहातेजाः सर्वशास्त्रविशारदः ||२||
हैहयानां कुलकरो राजा परपुरञ्जयः |
कुमारो रूपसम्पन्नो मृगयामचरद्बली ||३||
चरमाणस्तु सोऽरण्ये तृणवीरुत्समावृते |
कृष्णाजिनोत्तरासङ्गं ददर्श मुनिमन्तिके ||४||
स तेन निहतोऽरण्ये मन्यमानेन वै मृगम् ||४||
व्यथितः कर्म तत्कृत्वा शोकोपहतचेतनः |
जगाम हैहयानां वै सकाशं प्रथितात्मनाम् ||५||
राज्ञां राजीवनेत्रोसौ कुमारः पृथिवीपते |
तेषां च तद्यथावृत्तं कथयामास वै तदा ||६||
तं चापि हिंसितं तात मुनिं मूलफलाशिनम् |
श्रुत्वा दृष्ट्वा च ते तत्र बभूवुर्दीनमानसाः ||७||
कस्यायमिति ते सर्वे मार्गमाणास्ततस्ततः |
जग्मुश्चारिष्टनेमेस्ते तार्क्ष्यस्याश्रममञ्जसा ||८||
तेऽभिवाद्य महात्मानं तं मुनिं संशितव्रतम् |
तस्थुः सर्वे स तु मुनिस्तेषां पूजामथाहरत् ||९||
ते तमूचुर्महात्मानं न वयं सत्क्रियां मुने |
त्वत्तोऽर्हाः कर्मदोषेण ब्राह्मणो हिंसितो हि नः ||१०||
तानब्रवीत्स विप्रर्षिः कथं वो ब्राह्मणो हतः |
क्व चासौ ब्रूत सहिताः पश्यध्वं मे तपोबलम् ||११||
ते तु तत्सर्वमखिलमाख्यायास्मै यथातथम् |
नापश्यंस्तमृषिं तत्र गतासुं ते समागताः ||१२||
अन्वेषमाणाः सव्रीडाः स्वप्नवद्गतमानसाः ||१२||
तानब्रवीत्तत्र मुनिस्तार्क्ष्यः परपुरञ्जयः |
स्यादयं ब्राह्मणः सोऽथ यो युष्माभिर्विनाशितः ||१३||
पुत्रो ह्ययं मम नृपास्तपोबलसमन्वितः ||१३||
ते तु दृष्ट्वैव तमृषिं विस्मयं परमं गताः |
महदाश्चर्यमिति वै विब्रुवाणा महीपते ||१४||
मृतो ह्ययमतो दृष्टः कथं जीवितमाप्तवान् |
किमेतत्तपसो वीर्यं येनायं जीवितः पुनः ||१५||
श्रोतुमिच्छाम विप्रर्षे यदि श्रोतव्यमित्युत ||१५||
स तानुवाच नास्माकं मृत्युः प्रभवते नृपाः |
कारणं वः प्रवक्ष्यामि हेतुयोगं समासतः ||१६||
सत्यमेवाभिजानीमो नानृते कुर्महे मनः |
स्वधर्ममनुतिष्ठामस्तस्मान्मृत्युभयं न नः ||१७||
यद्ब्राह्मणानां कुशलं तदेषां कथयामहे |
नैषां दुश्चरितं ब्रूमस्तस्मान्मृत्युभयं न नः ||१८||
अतिथीनन्नपानेन भृत्यानत्यशनेन च |
तेजस्विदेशवासाच्च तस्मान्मृत्युभयं न नः ||१९||
एतद्वै लेशमात्रं वः समाख्यातं विमत्सराः |
गच्छध्वं सहिताः सर्वे न पापाद्भयमस्ति वः ||२०||
एवमस्त्विति ते सर्वे प्रतिपूज्य महामुनिम् |
स्वदेशमगमन्हृष्टा राजानो भरतर्षभ ||२१||
१८३
मार्कण्डेय उवाच||
भूय एव तु माहात्म्यं ब्राह्मणानां निबोध मे |
वैन्यो नामेह राजर्षिरश्वमेधाय दीक्षितः ||१||
तमत्रिर्गन्तुमारेभे वित्तार्थमिति नः श्रुतम् ||१||
भूयोऽथ नानुरुध्यत्स धर्मव्यक्तिनिदर्शनात् |
सञ्चिन्त्य स महातेजा वनमेवान्वरोचयत् ||२||
धर्मपत्नीं समाहूय पुत्रांश्चेदमुवाच ह ||२||
प्राप्स्यामः फलमत्यन्तं बहुलं निरुपद्रवम् |
अरण्यगमनं क्षिप्रं रोचतां वो गुणाधिकम् ||३||
तं भार्या प्रत्युवाचेदं धर्ममेवानुरुध्यती |
वैन्यं गत्वा महात्मानमर्थयस्व धनं बहु ||४||
स ते दास्यति राजर्षिर्यजमानोऽर्थिने धनम् ||४||
तत आदाय विप्रर्षे प्रतिगृह्य धनं बहु |
भृत्यान्सुतान्संविभज्य ततो व्रज यथेप्सितम् ||५||
एष वै परमो धर्मो धर्मविद्भिरुदाहृतः ||५||
अत्रिरुवाच||
कथितो मे महाभागे गौतमेन महात्मना |
वैन्यो धर्मार्थसंयुक्तः सत्यव्रतसमन्वितः ||६||
किं त्वस्ति तत्र द्वेष्टारो निवसन्ति हि मे द्विजाः |
यथा मे गौतमः प्राह ततो न व्यवसाम्यहम् ||७||
तत्र स्म वाचं कल्याणीं धर्मकामार्थसंहिताम् |
मयोक्तामन्यथा ब्रूयुस्ततस्ते वै निरर्थकाम् ||८||
गमिष्यामि महाप्राज्ञे रोचते मे वचस्तव |
गाश्च मे दास्यते वैन्यः प्रभूतं चार्थसञ्चयम् ||९||
मार्कण्डेय उवाच||
एवमुक्त्वा जगामाशु वैन्ययज्ञं महातपाः |
गत्वा च यज्ञायतनमत्रिस्तुष्टाव तं नृपम् ||१०||
राजन्वैन्य त्वमीशश्च भुवि त्वं प्रथमो नृपः |
स्तुवन्ति त्वां मुनिगणास्त्वदन्यो नास्ति धर्मवित् ||११||
तमब्रवीदृषिस्तत्र वचः क्रुद्धो महातपाः |
मैवमत्रे पुनर्ब्रूया न ते प्रज्ञा समाहिता ||१२||
अत्र नः प्रथमं स्थाता महेन्द्रो वै प्रजापतिः ||१२||
अथात्रिरपि राजेन्द्र गौतमं प्रत्यभाषत |
अयमेव विधाता च यथैवेन्द्रः प्रजापतिः ||१३||
त्वमेव मुह्यसे मोहान्न प्रज्ञानं तवास्ति ह ||१३||
गौतम उवाच||
जानामि नाहं मुह्यामि त्वं विवक्षुर्विमुह्यसे |
स्तोष्यसेऽभ्युदयप्रेप्सुस्तस्य दर्शनसंश्रयात् ||१४||
न वेत्थ परमं धर्मं न चावैषि प्रयोजनम् |
बालस्त्वमसि मूढश्च वृद्धः केनापि हेतुना ||१५||
मार्कण्डेय उवाच||
विवदन्तौ तथा तौ तु मुनीनां दर्शने स्थितौ |
ये तस्य यज्ञे संवृत्तास्तेऽपृच्छन्त कथं त्विमौ ||१६||
प्रवेशः केन दत्तोऽयमनयोर्वैन्यसंसदि |
उच्चैः समभिभाषन्तौ केन कार्येण विष्ठितौ ||१७||
ततः परमधर्मात्मा काश्यपः सर्वधर्मवित् |
विवादिनावनुप्राप्तौ तावुभौ प्रत्यवेदयत् ||१८||
अथाब्रवीत्सदस्यांस्तु गौतमो मुनिसत्तमान् |
आवयोर्व्याहृतं प्रश्नं शृणुत द्विजपुङ्गवाः ||१९||
वैन्यो विधातेत्याहात्रिरत्र नः संशयो महान् ||१९||
श्रुत्वैव तु महात्मानो मुनयोऽभ्यद्रवन्द्रुतम् |
सनत्कुमारं धर्मज्ञं संशयच्छेदनाय वै ||२०||
स च तेषां वचः श्रुत्वा यथातत्त्वं महातपाः |
प्रत्युवाचाथ तानेवं धर्मार्थसहितं वचः ||२१||
सनत्कुमार उवाच||
ब्रह्म क्षत्रेण सहितं क्षत्रं च ब्रह्मणा सह |
राजा वै प्रथमो धर्मः प्रजानां पतिरेव च ||२२||
स एव शक्रः शुक्रश्च स धाता स बृहस्पतिः ||२२||
प्रजापतिर्विराट्सम्राट्क्षत्रियो भूपतिर्नृपः |
य एभिः स्तूयते शब्दैः कस्तं नार्चितुमर्हति ||२३||
पुरायोनिर्युधाजिच्च अभिया मुदितो भवः |
स्वर्णेता सहजिद्बभ्रुरिति राजाभिधीयते ||२४||
सत्यमन्युर्युधाजीवः सत्यधर्मप्रवर्तकः |
अधर्मादृषयो भीता बलं क्षत्रे समादधन् ||२५||
आदित्यो दिवि देवेषु तमो नुदति तेजसा |
तथैव नृपतिर्भूमावधर्मं नुदते भृशम् ||२६||
अतो राज्ञः प्रधानत्वं शास्त्रप्रामाण्यदर्शनात् |
उत्तरः सिध्यते पक्षो येन राजेति भाषितम् ||२७||
मार्कण्डेय उवाच||
ततः स राजा संहृष्टः सिद्धे पक्षे महामनाः |
तमत्रिमब्रवीत्प्रीतः पूर्वं येनाभिसंस्तुतः ||२८||
यस्मात्सर्वमनुष्येषु ज्यायांसं मामिहाब्रवीः |
सर्वदेवैश्च विप्रर्षे संमितं श्रेष्ठमेव च ||२९||
तस्मात्तेऽहं प्रदास्यामि विविधं वसु भूरि च ||२९||
दासीसहस्रं श्यामानां सुवस्त्राणामलङ्कृतम् |
दश कोट्यो हिरण्यस्य रुक्मभारांस्तथा दश ||३०||
एतद्ददानि ते विप्र सर्वज्ञस्त्वं हि मे मतः ||३०||
तदत्रिर्न्यायतः सर्वं प्रतिगृह्य महामनाः |
प्रत्याजगाम तेजस्वी गृहानेव महातपाः ||३१||
प्रदाय च धनं प्रीतः पुत्रेभ्यः प्रयतात्मवान् |
तपः समभिसन्धाय वनमेवान्वपद्यत ||३२||
१८४
मार्कण्डेय उवाच||
अत्रैव च सरस्वत्या गीतं परपुरञ्जय |
पृष्टया मुनिना वीर शृणु तार्क्ष्येण धीमता ||१||
तार्क्ष्य उवाच||
किं नु श्रेयः पुरुषस्येह भद्रे; कथं कुर्वन्न च्यवते स्वधर्मात् |
आचक्ष्व मे चारुसर्वाङ्गि सर्वं; त्वयानुशिष्टो न च्यवेयं स्वधर्मात् ||२||
कथं चाग्निं जुहुयां पूजये वा; कस्मिन्काले केन धर्मो न नश्येत् |
एतत्सर्वं सुभगे प्रब्रवीहि; यथा लोकान्विरजाः सञ्चरेयम् ||३||
मार्कण्डेय उवाच||
एवं पृष्टा प्रीतियुक्तेन तेन; शुश्रूषुमीक्ष्योत्तमबुद्धियुक्तम् |
तार्क्ष्यं विप्रं धर्मयुक्तं हितं च; सरस्वती वाक्यमिदं बभाषे ||४||
सरस्वत्युवाच||
यो ब्रह्म जानाति यथाप्रदेशं; स्वाध्यायनित्यः शुचिरप्रमत्तः |
स वै पुरो देवपुरस्य गन्ता; सहामरैः प्राप्नुयात्प्रीतियोगम् ||५||
तत्र स्म रम्या विपुला विशोकाः; सुपुष्पिताः पुष्करिण्यः सुपुण्याः |
अकर्दमा मीनवत्यः सुतीर्था; हिरण्मयैरावृताः पुण्डरीकैः ||६||
तासां तीरेष्वासते पुण्यकर्मा; महीयमानः पृथगप्सरोभिः |
सुपुण्यगन्धाभिरलङ्कृताभि; र्हिरण्यवर्णाभिरतीव हृष्टः ||७||
परं लोकं गोप्रदास्त्वाप्नुवन्ति; दत्त्वानड्वाहं सूर्यलोकं व्रजन्ति |
वासो दत्त्वा चन्द्रमसः स लोकं; दत्त्वा हिरण्यममृतत्वमेति ||८||
धेनुं दत्त्वा सुव्रतां साधुदोहां; कल्याणवत्सामपलायिनीं च |
यावन्ति रोमाणि भवन्ति तस्या; स्तावद्वर्षाण्यश्नुते स्वर्गलोकम् ||९||
अनड्वाहं सुव्रतं यो ददाति; हलस्य वोढारमनन्तवीर्यम् |
धुरन्धरं बलवन्तं युवानं; प्राप्नोति लोकान्दश धेनुदस्य ||१०||
यः सप्त वर्षाणि जुहोति तार्क्ष्य; हव्यं त्वग्नौ सुव्रतः साधुशीलः |
सप्तावरान्सप्त पूर्वान्पुनाति; पितामहानात्मनः कर्मभिः स्वैः ||११||
तार्क्ष्य उवाच||
किमग्निहोत्रस्य व्रतं पुराण; माचक्ष्व मे पृच्छतश्चारुरूपे |
त्वयानुशिष्टोऽहमिहाद्य विद्यां; यदग्निहोत्रस्य व्रतं पुराणम् ||१२||
सरस्वत्युवाच||
न चाशुचिर्नाप्यनिर्णिक्तपाणि; र्नाब्रह्मविज्जुहुयान्नाविपश्चित् |
बुभुक्षवः शुचिकामा हि देवा; नाश्रद्दधानाद्धि हविर्जुषन्ति ||१३||
नाश्रोत्रियं देवहव्ये नियुञ्ज्या; न्मोघं परा सिञ्चति तादृशो हि |
अपूर्णमश्रोत्रियमाह तार्क्ष्य; न वै तादृग्जुहुयादग्निहोत्रम् ||१४||
कृशानुं ये जुह्वति श्रद्दधानाः; सत्यव्रता हुतशिष्टाशिनश्च |
गवां लोकं प्राप्य ते पुण्यगन्धं; पश्यन्ति देवं परमं चापि सत्यम् ||१५||
तार्क्ष्य उवाच||
क्षेत्रज्ञभूतां परलोकभावे; कर्मोदये बुद्धिमतिप्रविष्टाम् |
प्रज्ञां च देवीं सुभगे विमृश्य; पृच्छामि त्वां का ह्यसि चारुरूपे ||१६||
सरस्वत्युवाच||
अग्निहोत्रादहमभ्यागतास्मि; विप्रर्षभाणां संशयच्छेदनाय |
त्वत्संयोगादहमेतदब्रुवं; भावे स्थिता तथ्यमर्थं यथावत् ||१७||
तार्क्ष्य उवाच||
न हि त्वया सदृशी काचिदस्ति; विभ्राजसे ह्यतिमात्रं यथा श्रीः |
रूपं च ते दिव्यमत्यन्तकान्तं; प्रज्ञां च देवीं सुभगे बिभर्षि ||१८||
सरस्वत्युवाच||
श्रेष्ठानि यानि द्विपदां वरिष्ठ; यज्ञेषु विद्वन्नुपपादयन्ति |
तैरेवाहं सम्प्रवृद्धा भवामि; आप्यायिता रूपवती च विप्र ||१९||
यच्चापि द्रव्यमुपयुज्यते ह; वानस्पत्यमायसं पार्थिवं वा |
दिव्येन रूपेण च प्रज्ञया च; तेनैव सिद्धिरिति विद्धि विद्वन् ||२०||
तार्क्ष्य उवाच||
इदं श्रेयः परमं मन्यमाना; व्यायच्छन्ते मुनयः सम्प्रतीताः |
आचक्ष्व मे तं परमं विशोकं; मोक्षं परं यं प्रविशन्ति धीराः ||२१||
सरस्वत्युवाच||
तं वै परं वेदविदः प्रपन्नाः; परं परेभ्यः प्रथितं पुराणम् |
स्वाध्यायदानव्रतपुण्ययोगै; स्तपोधना वीतशोका विमुक्ताः ||२२||
तस्याथ मध्ये वेतसः पुण्यगन्धः; सहस्रशाखो विमलो विभाति |
तस्य मूलात्सरितः प्रस्रवन्ति; मधूदकप्रस्रवणा रमण्यः ||२३||
शाखां शाखां महानद्यः संयान्ति सिकतासमाः |
धानापूपा मांसशाकाः सदा पायसकर्दमाः ||२४||
यस्मिन्नग्निमुखा देवाः सेन्द्राः सह मरुद्गणैः |
ईजिरे क्रतुभिः श्रेष्ठैस्तत्पदं परमं मुने ||२५||
मत्स्योपाख्यानम्
१८५
वैशम्पायन उवाच||
ततः स पाण्डवो भूयो मार्कण्डेयमुवाच ह |
कथयस्वेह चरितं मनोर्वैवस्वतस्य मे ||१||
मार्कण्डेय उवाच||
विवस्वतः सुतो राजन्परमर्षिः प्रतापवान् |
बभूव नरशार्दूल प्रजापतिसमद्युतिः ||२||
ओजसा तेजसा लक्ष्म्या तपसा च विशेषतः |
अतिचक्राम पितरं मनुः स्वं च पितामहम् ||३||
ऊर्ध्वबाहुर्विशालायां बदर्यां स नराधिपः |
एकपादस्थितस्तीव्रं चचार सुमहत्तपः ||४||
अवाक्षिरास्तथा चापि नेत्रैरनिमिषैर्दृढम् |
सोऽतप्यत तपो घोरं वर्षाणामयुतं तदा ||५||
तं कदाचित्तपस्यन्तमार्द्रचीरजटाधरम् |
वीरिणीतीरमागम्य मत्स्यो वचनमब्रवीत् ||६||
भगवन्क्षुद्रमत्स्योऽस्मि बलवद्भ्यो भयं मम |
मत्स्येभ्यो हि ततो मां त्वं त्रातुमर्हसि सुव्रत ||७||
दुर्बलं बलवन्तो हि मत्स्यं मत्स्या विशेषतः |
भक्षयन्ति यथा वृत्तिर्विहिता नः सनातनी ||८||
तस्माद्भयौघान्महतो मज्जन्तं मां विशेषतः |
त्रातुमर्हसि कर्तास्मि कृते प्रतिकृतं तव ||९||
स मत्स्यवचनं श्रुत्वा कृपयाभिपरिप्लुतः |
मनुर्वैवस्वतोऽगृह्णात्तं मत्स्यं पाणिना स्वयम् ||१०||
उदकान्तमुपानीय मत्स्यं वैवस्वतो मनुः |
अलिञ्जरे प्राक्षिपत्स चन्द्रांशुसदृशप्रभम् ||११||
स तत्र ववृधे राजन्मत्स्यः परमसत्कृतः |
पुत्रवच्चाकरोत्तस्मिन्मनुर्भावं विशेषतः ||१२||
अथ कालेन महता स मत्स्यः सुमहानभूत् |
अलिञ्जरे जले चैव नासौ समभवत्किल ||१३||
अथ मत्स्यो मनुं दृष्ट्वा पुनरेवाभ्यभाषत |
भगवन्साधु मेऽद्यान्यत्स्थानं सम्प्रतिपादय ||१४||
उद्धृत्यालिञ्जरात्तस्मात्ततः स भगवान्मुनिः |
तं मत्स्यमनयद्वापीं महतीं स मनुस्तदा ||१५||
तत्र तं प्राक्षिपच्चापि मनुः परपुरञ्जय |
अथावर्धत मत्स्यः स पुनर्वर्षगणान्बहून् ||१६||
द्वियोजनायता वापी विस्तृता चापि योजनम् |
तस्यां नासौ समभवन्मत्स्यो राजीवलोचन ||१७||
विचेष्टितुं वा कौन्तेय मत्स्यो वाप्यां विशां पते ||१७||
मनुं मत्स्यस्ततो दृष्ट्वा पुनरेवाभ्यभाषत |
नय मां भगवन्साधो समुद्रमहिषीं प्रभो ||१८||
गङ्गां तत्र निवत्स्यामि यथा वा तात मन्यसे ||१८||
एवमुक्तो मनुर्मत्स्यमनयद्भगवान्वशी |
नदीं गङ्गां तत्र चैनं स्वयं प्राक्षिपदच्युतः ||१९||
स तत्र ववृधे मत्स्यः किञ्चित्कालमरिंदम |
ततः पुनर्मनुं दृष्ट्वा मत्स्यो वचनमब्रवीत् ||२०||
गङ्गायां हि न शक्नोमि बृहत्त्वाच्चेष्टितुं प्रभो |
समुद्रं नय मामाशु प्रसीद भगवन्निति ||२१||
उद्धृत्य गङ्गासलिलात्ततो मत्स्यं मनुः स्वयम् |
समुद्रमनयत्पार्थ तत्र चैनमवासृजत् ||२२||
सुमहानपि मत्स्यः सन्स मनोर्मनसस्तदा |
आसीद्यथेष्टहार्यश्च स्पर्शगन्धसुखश्च वै ||२३||
यदा समुद्रे प्रक्षिप्तः स मत्स्यो मनुना तदा |
तत एनमिदं वाक्यं स्मयमान इवाब्रवीत् ||२४||
भगवन्कृता हि मे रक्षा त्वया सर्वा विशेषतः |
प्राप्तकालं तु यत्कार्यं त्वया तच्छ्रूयतां मम ||२५||
अचिराद्भगवन्भौममिदं स्थावरजङ्गमम् |
सर्वमेव महाभाग प्रलयं वै गमिष्यति ||२६||
सम्प्रक्षालनकालोऽयं लोकानां समुपस्थितः |
तस्मात्त्वां बोधयाम्यद्य यत्ते हितमनुत्तमम् ||२७||
त्रसानां स्थावराणां च यच्चेङ्गं यच्च नेङ्गति |
तस्य सर्वस्य सम्प्राप्तः कालः परमदारुणः ||२८||
नौश्च कारयितव्या ते दृढा युक्तवटाकरा |
तत्र सप्तर्षिभिः सार्धमारुहेथा महामुने ||२९||
बीजानि चैव सर्वाणि यथोक्तानि मया पुरा |
तस्यामारोहयेर्नावि सुसङ्गुप्तानि भागशः ||३०||
नौस्थश्च मां प्रतीक्षेथास्तदा मुनिजनप्रिय |
आगमिष्याम्यहं शृङ्गी विज्ञेयस्तेन तापस ||३१||
एवमेतत्त्वया कार्यमापृष्टोऽसि व्रजाम्यहम् |
नातिशङ्क्यमिदं चापि वचनं ते ममाभिभो ||३२||
एवं करिष्य इति तं स मत्स्यं प्रत्यभाषत |
जग्मतुश्च यथाकाममनुज्ञाप्य परस्परम् ||३३||
ततो मनुर्महाराज यथोक्तं मत्स्यकेन ह |
बीजान्यादाय सर्वाणि सागरं पुप्लुवे तदा ||३४||
नावा तु शुभया वीर महोर्मिणमरिंदम ||३४||
चिन्तयामास च मनुस्तं मत्स्यं पृथिवीपते |
स च तच्चिन्तितं ज्ञात्वा मत्स्यः परपुरञ्जय ||३५||
शृङ्गी तत्राजगामाशु तदा भरतसत्तम ||३५||
तं दृष्ट्वा मनुजेन्द्रेन्द्र मनुर्मत्स्यं जलार्णवे |
शृङ्गिणं तं यथोक्तेन रूपेणाद्रिमिवोच्छ्रितम् ||३६||
वटाकरमयं पाशमथ मत्स्यस्य मूर्धनि |
मनुर्मनुजशार्दूल तस्मिञ्शृङ्गे न्यवेशयत् ||३७||
संयतस्तेन पाशेन मत्स्यः परपुरञ्जय |
वेगेन महता नावं प्राकर्षल्लवणाम्भसि ||३८||
स ततार तया नावा समुद्रं मनुजेश्वर |
नृत्यमानमिवोर्मीभिर्गर्जमानमिवाम्भसा ||३९||
क्षोभ्यमाणा महावातैः सा नौस्तस्मिन्महोदधौ |
घूर्णते चपलेव स्त्री मत्ता परपुरञ्जय ||४०||
नैव भूमिर्न च दिशः प्रदिशो वा चकाशिरे |
सर्वमाम्भसमेवासीत्खं द्यौश्च नरपुङ्गव ||४१||
एवम्भूते तदा लोके सङ्कुले भरतर्षभ |
अदृश्यन्त सप्तर्षयो मनुर्मत्स्यः सहैव ह ||४२||
एवं बहून्वर्षगणांस्तां नावं सोऽथ मत्स्यकः |
चकर्षातन्द्रितो राजंस्तस्मिन्सलिलसञ्चये ||४३||
ततो हिमवतः शृङ्गं यत्परं पुरुषर्षभ |
तत्राकर्षत्ततो नावं स मत्स्यः कुरुनन्दन ||४४||
ततोऽब्रवीत्तदा मत्स्यस्तानृषीन्प्रहसञ्शनैः |
अस्मिन्हिमवतः शृङ्गे नावं बध्नीत माचिरम् ||४५||
सा बद्धा तत्र तैस्तूर्णमृषिभिर्भरतर्षभ |
नौर्मत्स्यस्य वचः श्रुत्वा शृङ्गे हिमवतस्तदा ||४६||
तच्च नौबन्धनं नाम शृङ्गं हिमवतः परम् |
ख्यातमद्यापि कौन्तेय तद्विद्धि भरतर्षभ ||४७||
अथाब्रवीदनिमिषस्तानृषीन्सहितांस्तदा |
अहं प्रजापतिर्ब्रह्मा मत्परं नाधिगम्यते ||४८||
मत्स्यरूपेण यूयं च मयास्मान्मोक्षिता भयात् ||४८||
मनुना च प्रजाः सर्वाः सदेवासुरमानवाः |
स्रष्टव्याः सर्वलोकाश्च यच्चेङ्गं यच्च नेङ्गति ||४९||
तपसा चातितीव्रेण प्रतिभास्य भविष्यति |
मत्प्रसादात्प्रजासर्गे न च मोहं गमिष्यति ||५०||
इत्युक्त्वा वचनं मत्स्यः क्षणेनादर्शनं गतः |
स्रष्टुकामः प्रजाश्चापि मनुर्वैवस्वतः स्वयम् ||५१||
प्रमूढोऽभूत्प्रजासर्गे तपस्तेपे महत्ततः ||५१||
तपसा महता युक्तः सोऽथ स्रष्टुं प्रचक्रमे |
सर्वाः प्रजा मनुः साक्षाद्यथावद्भरतर्षभ ||५२||
इत्येतन्मात्स्यकं नाम पुराणं परिकीर्तितम् |
आख्यानमिदमाख्यातं सर्वपापहरं मया ||५३||
य इदं शृणुयान्नित्यं मनोश्चरितमादितः |
स सुखी सर्वसिद्धार्थः स्वर्गलोकमियान्नरः ||५४||
१८६
वैशम्पायन उवाच||
ततः स पुनरेवाथ मार्कण्डेयं यशस्विनम् |
पप्रच्छ विनयोपेतो धर्मराजो युधिष्ठिरः ||१||
नैके युगसहस्रान्तास्त्वया दृष्टा महामुने |
न चापीह समः कश्चिदायुषा तव विद्यते ||२||
वर्जयित्वा महात्मानं ब्राह्मणं परमेष्ठिनम् ||२||
अनन्तरिक्षे लोकेऽस्मिन्देवदानववर्जिते |
त्वमेव प्रलये विप्र ब्रह्माणमुपतिष्ठसि ||३||
प्रलये चापि निर्वृत्ते प्रबुद्धे च पितामहे |
त्वमेव सृज्यमानानि भूतानीह प्रपश्यसि ||४||
चतुर्विधानि विप्रर्षे यथावत्परमेष्ठिना |
वायुभूता दिशः कृत्वा विक्षिप्यापस्ततस्ततः ||५||
त्वया लोकगुरुः साक्षात्सर्वलोकपितामहः |
आराधितो द्विजश्रेष्ठ तत्परेण समाधिना ||६||
तस्मात्सर्वान्तको मृत्युर्जरा वा देहनाशिनी |
न त्वा विशति विप्रर्षे प्रसादात्परमेष्ठिनः ||७||
यदा नैव रविर्नाग्निर्न वायुर्न च चन्द्रमाः |
नैवान्तरिक्षं नैवोर्वी शेषं भवति किञ्चन ||८||
तस्मिन्नेकार्णवे लोके नष्टे स्थावरजङ्गमे |
नष्टे देवासुरगणे समुत्सन्नमहोरगे ||९||
शयानममितात्मानं पद्मे पद्मनिकेतनम् |
त्वमेकः सर्वभूतेशं ब्रह्माणमुपतिष्ठसि ||१०||
एतत्प्रत्यक्षतः सर्वं पूर्ववृत्तं द्विजोत्तम |
तस्मादिच्छामहे श्रोतुं सर्वहेत्वात्मिकां कथाम् ||११||
अनुभूतं हि बहुशस्त्वयैकेन द्विजोत्तम |
न तेऽस्त्यविदितं किञ्चित्सर्वलोकेषु नित्यदा ||१२||
मार्कण्डेय उवाच||
हन्त ते कथयिष्यामि नमस्कृत्वा स्वयम्भुवे |
पुरुषाय पुराणाय शाश्वतायाव्ययाय च ||१३||
य एष पृथुदीर्घाक्षः पीतवासा जनार्दनः |
एष कर्ता विकर्ता च सर्वभावनभूतकृत् ||१४||
अचिन्त्यं महदाश्चर्यं पवित्रमपि चोत्तमम् |
अनादिनिधनं भूतं विश्वमक्षयमव्ययम् ||१५||
एष कर्ता न क्रियते कारणं चापि पौरुषे |
यो ह्येनं पुरुषं वेत्ति देवा अपि न तं विदुः ||१६||
सर्वमाश्चर्यमेवैतन्निर्वृत्तं राजसत्तम |
आदितो मनुजव्याघ्र कृत्स्नस्य जगतः क्षये ||१७||
चत्वार्याहुः सहस्राणि वर्षाणां तत्कृतं युगम् |
तस्य तावच्छती सन्ध्या सन्ध्यांशश्च ततः परम् ||१८||
त्रीणि वर्षसहस्राणि त्रेतायुगमिहोच्यते |
तस्य तावच्छती सन्ध्या सन्ध्यांशश्च ततः परम् ||१९||
तथा वर्षसहस्रे द्वे द्वापरं परिमाणतः |
तस्यापि द्विशती सन्ध्या सन्ध्यांशश्च ततः परम् ||२०||
सहस्रमेकं वर्षाणां ततः कलियुगं स्मृतम् |
तस्य वर्षशतं सन्ध्या सन्ध्यांशश्च ततः परम् ||२१||
सन्ध्यासन्ध्यांशयोस्तुल्यं प्रमाणमुपधारय ||२१||
क्षीणे कलियुगे चैव प्रवर्तति कृतं युगम् |
एषा द्वादशसाहस्री युगाख्या परिकीर्तिता ||२२||
एतत्सहस्रपर्यन्तमहो ब्राह्ममुदाहृतम् |
विश्वं हि ब्रह्मभवने सर्वशः परिवर्तते ||२३||
लोकानां मनुजव्याघ्र प्रलयं तं विदुर्बुधाः ||२३||
अल्पावशिष्टे तु तदा युगान्ते भरतर्षभ |
सहस्रान्ते नराः सर्वे प्रायशोऽनृतवादिनः ||२४||
यज्ञप्रतिनिधिः पार्थ दानप्रतिनिधिस्तथा |
व्रतप्रतिनिधिश्चैव तस्मिन्काले प्रवर्तते ||२५||
ब्राह्मणाः शूद्रकर्माणस्तथा शूद्रा धनार्जकाः |
क्षत्रधर्मेण वाप्यत्र वर्तयन्ति गते युगे ||२६||
निवृत्तयज्ञस्वाध्यायाः पिण्डोदकविवर्जिताः |
ब्राह्मणाः सर्वभक्षाश्च भविष्यन्ति कलौ युगे ||२७||
अजपा ब्राह्मणास्तात शूद्रा जपपरायणाः |
विपरीते तदा लोके पूर्वरूपं क्षयस्य तत् ||२८||
बहवो म्लेच्छराजानः पृथिव्यां मनुजाधिप |
मिथ्यानुशासिनः पापा मृषावादपरायणाः ||२९||
आन्ध्राः शकाः पुलिन्दाश्च यवनाश्च नराधिपाः |
काम्बोजा और्णिकाः शूद्रास्तथाभीरा नरोत्तम ||३०||
न तदा ब्राह्मणः कश्चित्स्वधर्ममुपजीवति |
क्षत्रिया अपि वैश्याश्च विकर्मस्था नराधिप ||३१||
अल्पायुषः स्वल्पबला अल्पतेजःपराक्रमाः |
अल्पदेहाल्पसाराश्च तथा सत्याल्पभाषिणः ||३२||
बहुशून्या जनपदा मृगव्यालावृता दिशः |
युगान्ते समनुप्राप्ते वृथा च ब्रह्मचारिणः ||३३||
भोवादिनस्तथा शूद्रा ब्राह्मणाश्चार्यवादिनः ||३३||
युगान्ते मनुजव्याघ्र भवन्ति बहुजन्तवः |
न तथा घ्राणयुक्ताश्च सर्वगन्धा विशां पते ||३४||
रसाश्च मनुजव्याघ्र न तथा स्वादुयोगिनः ||३४||
बहुप्रजा ह्रस्वदेहाः शीलाचारविवर्जिताः |
मुखेभगाः स्त्रियो राजन्भविष्यन्ति युगक्षये ||३५||
अट्टशूला जनपदाः शिवशूलाश्चतुष्पथाः |
केशशूलाः स्त्रियो राजन्भविष्यन्ति युगक्षये ||३६||
अल्पक्षीरास्तथा गावो भविष्यन्ति जनाधिप |
अल्पपुष्पफलाश्चापि पादपा बहुवायसाः ||३७||
ब्रह्मवध्यावलिप्तानां तथा मिथ्याभिशंसिनाम् |
नृपाणां पृथिवीपाल प्रतिगृह्णन्ति वै द्विजाः ||३८||
लोभमोहपरीताश्च मिथ्याधर्मध्वजावृताः |
भिक्षार्थं पृथिवीपाल चञ्चूर्यन्ते द्विजैर्दिशः ||३९||
करभारभयात्पुंसो गृहस्थाः परिमोषकाः |
मुनिच्छद्माकृतिच्छन्ना वाणिज्यमुपजीवते ||४०||
मिथ्या च नखरोमाणि धारयन्ति नरास्तदा |
अर्थलोभान्नरव्याघ्र वृथा च ब्रह्मचारिणः ||४१||
आश्रमेषु वृथाचाराः पानपा गुरुतल्पगाः |
ऐहलौकिकमीहन्ते मांसशोणितवर्धनम् ||४२||
बहुपाषण्डसङ्कीर्णाः परान्नगुणवादिनः |
आश्रमा मनुजव्याघ्र न भवन्ति युगक्षये ||४३||
यथर्तुवर्षी भगवान्न तथा पाकशासनः |
न तदा सर्वबीजानि सम्यग्रोहन्ति भारत ||४४||
अधर्मफलमत्यर्थं तदा भवति चानघ ||४४||
तथा च पृथिवीपाल यो भवेद्धर्मसंयुतः |
अल्पायुः स हि मन्तव्यो न हि धर्मोऽस्ति कश्चन ||४५||
भूयिष्ठं कूटमानैश्च पण्यं विक्रीणते जनाः |
वणिजश्च नरव्याघ्र बहुमाया भवन्त्युत ||४६||
धर्मिष्ठाः परिहीयन्ते पापीयान्वर्धते जनः |
धर्मस्य बलहानिः स्यादधर्मश्च बली तथा ||४७||
अल्पायुषो दरिद्राश्च धर्मिष्ठा मानवास्तदा |
दीर्घायुषः समृद्धाश्च विधर्माणो युगक्षये ||४८||
अधर्मिष्ठैरुपायैश्च प्रजा व्यवहरन्त्युत |
सञ्चयेनापि चाल्पेन भवन्त्याढ्या मदान्विताः ||४९||
धनं विश्वासतो न्यस्तं मिथो भूयिष्ठशो नराः |
हर्तुं व्यवसिता राजन्मायाचारसमन्विताः ||५०||
पुरुषादानि सत्त्वानि पक्षिणोऽथ मृगास्तथा |
नगराणां विहारेषु चैत्येष्वपि च शेरते ||५१||
सप्तवर्षाष्टवर्षाश्च स्त्रियो गर्भधरा नृप |
दशद्वादशवर्षाणां पुंसां पुत्रः प्रजायते ||५२||
भवन्ति षोडशे वर्षे नराः पलितिनस्तथा |
आयुःक्षयो मनुष्याणां क्षिप्रमेव प्रपद्यते ||५३||
क्षीणे युगे महाराज तरुणा वृद्धशीलिनः |
तरुणानां च यच्छीलं तद्वृद्धेषु प्रजायते ||५४||
विपरीतास्तदा नार्यो वञ्चयित्वा रहः पतीन् |
व्युच्चरन्त्यपि दुःशीला दासैः पशुभिरेव च ||५५||
तस्मिन्युगसहस्रान्ते सम्प्राप्ते चायुषः क्षये |
अनावृष्टिर्महाराज जायते बहुवार्षिकी ||५६||
ततस्तान्यल्पसाराणि सत्त्वानि क्षुधितानि च |
प्रलयं यान्ति भूयिष्ठं पृथिव्यां पृथिवीपते ||५७||
ततो दिनकरैर्दीप्तैः सप्तभिर्मनुजाधिप |
पीयते सलिलं सर्वं समुद्रेषु सरित्सु च ||५८||
यच्च काष्ठं तृणं चापि शुष्कं चार्द्रं च भारत |
सर्वं तद्भस्मसाद्भूतं दृश्यते भरतर्षभ ||५९||
ततः संवर्तको वह्निर्वायुना सह भारत |
लोकमाविशते पूर्वमादित्यैरुपशोषितम् ||६०||
ततः स पृथिवीं भित्त्वा समाविश्य रसातलम् |
देवदानवयक्षाणां भयं जनयते महत् ||६१||
निर्दहन्नागलोकं च यच्च किञ्चित्क्षिताविह |
अधस्तात्पृथिवीपाल सर्वं नाशयते क्षणात् ||६२||
ततो योजनविंशानां सहस्राणि शतानि च |
निर्दहत्यशिवो वायुः स च संवर्तकोऽनलः ||६३||
सदेवासुरगन्धर्वं सयक्षोरगराक्षसम् |
ततो दहति दीप्तः स सर्वमेव जगद्विभुः ||६४||
ततो गजकुलप्रख्यास्तडिन्मालाविभूषिताः |
उत्तिष्ठन्ति महामेघा नभस्यद्भुतदर्शनाः ||६५||
केचिन्नीलोत्पलश्यामाः केचित्कुमुदसंनिभाः |
केचित्किञ्जल्कसङ्काशाः केचित्पीताः पयोधराः ||६६||
केचिद्धारिद्रसङ्काशाः काकाण्डकनिभास्तथा |
केचित्कमलपत्राभाः केचिद्धिङ्गुलकप्रभाः ||६७||
केचित्पुरवराकाराः केचिद्गजकुलोपमाः |
केचिदञ्जनसङ्काशाः केचिन्मकरसंस्थिताः ||६८||
विद्युन्मालापिनद्धाङ्गाः समुत्तिष्ठन्ति वै घनाः ||६८||
घोररूपा महाराज घोरस्वननिनादिताः |
ततो जलधराः सर्वे व्याप्नुवन्ति नभस्तलम् ||६९||
तैरियं पृथिवी सर्वा सपर्वतवनाकरा |
आपूर्यते महाराज सलिलौघपरिप्लुता ||७०||
ततस्ते जलदा घोरा राविणः पुरुषर्षभ |
सर्वतः प्लावयन्त्याशु चोदिताः परमेष्ठिना ||७१||
वर्षमाणा महत्तोयं पूरयन्तो वसुन्धराम् |
सुघोरमशिवं रौद्रं नाशयन्ति च पावकम् ||७२||
ततो द्वादश वर्षाणि पयोदास्त उपप्लवे |
धाराभिः पूरयन्तो वै चोद्यमाना महात्मना ||७३||
ततः समुद्रः स्वां वेलामतिक्रामति भारत |
पर्वताश्च विशीर्यन्ते मही चापि विशीर्यते ||७४||
सर्वतः सहसा भ्रान्तास्ते पयोदा नभस्तलम् |
संवेष्टयित्वा नश्यन्ति वायुवेगपराहताः ||७५||
ततस्तं मारुतं घोरं स्वयम्भूर्मनुजाधिप |
आदिपद्मालयो देवः पीत्वा स्वपिति भारत ||७६||
तस्मिन्नेकार्णवे घोरे नष्टे स्थावरजङ्गमे |
नष्टे देवासुरगणे यक्षराक्षसवर्जिते ||७७||
निर्मनुष्ये महीपाल निःश्वापदमहीरुहे |
अनन्तरिक्षे लोकेऽस्मिन्भ्रमाम्येकोऽहमादृतः ||७८||
एकार्णवे जले घोरे विचरन्पार्थिवोत्तम |
अपश्यन्सर्वभूतानि वैक्लव्यमगमं परम् ||७९||
ततः सुदीर्घं गत्वा तु प्लवमानो नराधिप |
श्रान्तः क्वचिन्न शरणं लभाम्यहमतन्द्रितः ||८०||
ततः कदाचित्पश्यामि तस्मिन्सलिलसम्प्लवे |
न्यग्रोधं सुमहान्तं वै विशालं पृथिवीपते ||८१||
शाखायां तस्य वृक्षस्य विस्तीर्णायां नराधिप |
पर्यङ्के पृथिवीपाल दिव्यास्तरणसंस्तृते ||८२||
उपविष्टं महाराज पूर्णेन्दुसदृशाननम् |
फुल्लपद्मविशालाक्षं बालं पश्यामि भारत ||८३||
ततो मे पृथिवीपाल विस्मयः सुमहानभूत् |
कथं त्वयं शिशुः शेते लोके नाशमुपागते ||८४||
तपसा चिन्तयंश्चापि तं शिशुं नोपलक्षये |
भूतं भव्यं भविष्यच्च जानन्नपि नराधिप ||८५||
अतसीपुष्पवर्णाभः श्रीवत्सकृतलक्षणः |
साक्षाल्लक्ष्म्या इवावासः स तदा प्रतिभाति मे ||८६||
ततो मामब्रवीद्बालः स पद्मनिभलोचनः |
श्रीवत्सधारी द्युतिमान्वाक्यं श्रुतिसुखावहम् ||८७||
जानामि त्वा परिश्रान्तं तात विश्रामकाङ्क्षिणम् |
मार्कण्डेय इहास्स्व त्वं यावदिच्छसि भार्गव ||८८||
अभ्यन्तरं शरीरं मे प्रविश्य मुनिसत्तम |
आस्स्व भो विहितो वासः प्रसादस्ते कृतो मया ||८९||
ततो बालेन तेनैवमुक्तस्यासीत्तदा मम |
निर्वेदो जीविते दीर्घे मनुष्यत्वे च भारत ||९०||
ततो बालेन तेनास्यं सहसा विवृतं कृतम् |
तस्याहमवशो वक्त्रं दैवयोगात्प्रवेशितः ||९१||
ततः प्रविष्टस्तत्कुक्षिं सहसा मनुजाधिप |
सराष्ट्रनगराकीर्णां कृत्स्नां पश्यामि मेदिनीम् ||९२||
गङ्गां शतद्रुं सीतां च यमुनामथ कौशिकीम् |
चर्मण्वतीं वेत्रवतीं चन्द्रभागां सरस्वतीम् ||९३||
सिन्धुं चैव विपाशां च नदीं गोदावरीमपि |
वस्वोकसारां नलिनीं नर्मदां चैव भारत ||९४||
नदीं ताम्रां च वेण्णां च पुण्यतोयां शुभावहाम् |
सुवेणां कृष्णवेणां च इरामां च महानदीम् ||९५||
शोणं च पुरुषव्याघ्र विशल्यां कम्पुनामपि ||९५||
एताश्चान्याश्च नद्योऽहं पृथिव्यां या नरोत्तम |
परिक्रामन्प्रपश्यामि तस्य कुक्षौ महात्मनः ||९६||
ततः समुद्रं पश्यामि यादोगणनिषेवितम् |
रत्नाकरममित्रघ्न निधानं पयसो महत् ||९७||
ततः पश्यामि गगनं चन्द्रसूर्यविराजितम् |
जाज्वल्यमानं तेजोभिः पावकार्कसमप्रभैः ||९८||
पश्यामि च महीं राजन्काननैरुपशोभिताम् ||९८||
यजन्ते हि तदा राजन्ब्राह्मणा बहुभिः सवैः |
क्षत्रियाश्च प्रवर्तन्ते सर्ववर्णानुरञ्जने ||९९||
वैश्याः कृषिं यथान्यायं कारयन्ति नराधिप |
शुश्रूषायां च निरता द्विजानां वृषलास्तथा ||१००||
ततः परिपतन्राजंस्तस्य कुक्षौ महात्मनः |
हिमवन्तं च पश्यामि हेमकूटं च पर्वतम् ||१०१||
निषधं चापि पश्यामि श्वेतं च रजताचितम् |
पश्यामि च महीपाल पर्वतं गन्धमादनम् ||१०२||
मन्दरं मनुजव्याघ्र नीलं चापि महागिरिम् |
पश्यामि च महाराज मेरुं कनकपर्वतम् ||१०३||
महेन्द्रं चैव पश्यामि विन्ध्यं च गिरिमुत्तमम् |
मलयं चापि पश्यामि पारियात्रं च पर्वतम् ||१०४||
एते चान्ये च बहवो यावन्तः पृथिवीधराः |
तस्योदरे मया दृष्टाः सर्वरत्नविभूषिताः ||१०५||
सिंहान्व्याघ्रान्वराहांश्च नागांश्च मनुजाधिप |
पृथिव्यां यानि चान्यानि सत्त्वानि जगतीपते ||१०६||
तानि सर्वाण्यहं तत्र पश्यन्पर्यचरं तदा ||१०६||
कुक्षौ तस्य नरव्याघ्र प्रविष्टः सञ्चरन्दिशः |
शक्रादींश्चापि पश्यामि कृत्स्नान्देवगणांस्तथा ||१०७||
गन्धर्वाप्सरसो यक्षानृषींश्चैव महीपते |
दैत्यदानवसङ्घांश्च कालेयांश्च नराधिप ||१०८||
सिंहिकातनयांश्चापि ये चान्ये सुरशत्रवः ||१०८||
यच्च किञ्चिन्मया लोके दृष्टं स्थावरजङ्गमम् |
तदपश्यमहं सर्वं तस्य कुक्षौ महात्मनः ||१०९||
फलाहारः प्रविचरन्कृत्स्नं जगदिदं तदा ||१०९||
अन्तः शरीरे तस्याहं वर्षाणामधिकं शतम् |
न च पश्यामि तस्याहमन्तं देहस्य कुत्रचित् ||११०||
सततं धावमानश्च चिन्तयानो विशां पते |
आसादयामि नैवान्तं तस्य राजन्महात्मनः ||१११||
ततस्तमेव शरणं गतोऽस्मि विधिवत्तदा |
वरेण्यं वरदं देवं मनसा कर्मणैव च ||११२||
ततोऽहं सहसा राजन्वायुवेगेन निःसृतः |
महात्मनो मुखात्तस्य विवृतात्पुरुषोत्तम ||११३||
ततस्तस्यैव शाखायां न्यग्रोधस्य विशां पते |
आस्ते मनुजशार्दूल कृत्स्नमादाय वै जगत् ||११४||
तेनैव बालवेषेण श्रीवत्सकृतलक्षणम् |
आसीनं तं नरव्याघ्र पश्याम्यमिततेजसम् ||११५||
ततो मामब्रवीद्वीर स बालः प्रहसन्निव |
श्रीवत्सधारी द्युतिमान्पीतवासा महाद्युतिः ||११६||
अपीदानीं शरीरेऽस्मिन्मामके मुनिसत्तम |
उषितस्त्वं सुविश्रान्तो मार्कण्डेय ब्रवीहि मे ||११७||
मुहूर्तादथ मे दृष्टिः प्रादुर्भूता पुनर्नवा |
यया निर्मुक्तमात्मानमपश्यं लब्धचेतसम् ||११८||
तस्य ताम्रतलौ तात चरणौ सुप्रतिष्ठितौ |
सुजातौ मृदुरक्ताभिरङ्गुलीभिरलङ्कृतौ ||११९||
प्रयतेन मया मूर्ध्ना गृहीत्वा ह्यभिवन्दितौ |
दृष्ट्वापरिमितं तस्य प्रभावममितौजसः ||१२०||
विनयेनाञ्जलिं कृत्वा प्रयत्नेनोपगम्य च |
दृष्टो मया स भूतात्मा देवः कमललोचनः ||१२१||
तमहं प्राञ्जलिर्भूत्वा नमस्कृत्येदमब्रुवम् |
ज्ञातुमिच्छामि देव त्वां मायां चेमां तवोत्तमाम् ||१२२||
आस्येनानुप्रविष्टोऽहं शरीरं भगवंस्तव |
दृष्टवानखिलाँल्लोकान्समस्ताञ्जठरे तव ||१२३||
तव देव शरीरस्था देवदानवराक्षसाः |
यक्षगन्धर्वनागाश्च जगत्स्थावरजङ्गमम् ||१२४||
त्वत्प्रसादाच्च मे देव स्मृतिर्न परिहीयते |
द्रुतमन्तः शरीरे ते सततं परिधावतः ||१२५||
इच्छामि पुण्डरीकाक्ष ज्ञातुं त्वाहमनिन्दित |
इह भूत्वा शिशुः साक्षात्किं भवानवतिष्ठते ||१२६||
पीत्वा जगदिदं विश्वमेतदाख्यातुमर्हसि ||१२६||
किमर्थं च जगत्सर्वं शरीरस्थं तवानघ |
कियन्तं च त्वया कालमिह स्थेयमरिंदम ||१२७||
एतदिच्छामि देवेश श्रोतुं ब्राह्मणकाम्यया |
त्वत्तः कमलपत्राक्ष विस्तरेण यथातथम् ||१२८||
महद्ध्येतदचिन्त्यं च यदहं दृष्टवान्प्रभो ||१२८||
इत्युक्तः स मया श्रीमान्देवदेवो महाद्युतिः |
सान्त्वयन्मामिदं वाक्यमुवाच वदतां वरः ||१२९||
१८७
देव उवाच||
कामं देवापि मां विप्र न विजानन्ति तत्त्वतः |
त्वत्प्रीत्या तु प्रवक्ष्यामि यथेदं विसृजाम्यहम् ||१||
पितृभक्तोऽसि विप्रर्षे मां चैव शरणं गतः |
अतो दृष्टोऽस्मि ते साक्षाद्ब्रह्मचर्यं च ते महत् ||२||
आपो नारा इति प्रोक्ताः सञ्ज्ञानाम कृतं मया |
तेन नारायणोऽस्म्युक्तो मम तद्ध्ययनं सदा ||३||
अहं नारायणो नाम प्रभवः शाश्वतोऽव्ययः |
विधाता सर्वभूतानां संहर्ता च द्विजोत्तम ||४||
अहं विष्णुरहं ब्रह्मा शक्रश्चाहं सुराधिपः |
अहं वैश्रवणो राजा यमः प्रेताधिपस्तथा ||५||
अहं शिवश्च सोमश्च कश्यपश्च प्रजापतिः |
अहं धाता विधाता च यज्ञश्चाहं द्विजोत्तम ||६||
अग्निरास्यं क्षितिः पादौ चन्द्रादित्यौ च लोचने |
सदिशं च नभः कायो वायुर्मनसि मे स्थितः ||७||
मया क्रतुशतैरिष्टं बहुभिः स्वाप्तदक्षिणैः |
यजन्ते वेदविदुषो मां देवयजने स्थितम् ||८||
पृथिव्यां क्षत्रियेन्द्राश्च पार्थिवाः स्वर्गकाङ्क्षिणः |
यजन्ते मां तथा वैश्याः स्वर्गलोकजिगीषवः ||९||
चतुःसमुद्रपर्यन्तां मेरुमन्दरभूषणाम् |
शेषो भूत्वाहमेवैतां धारयामि वसुन्धराम् ||१०||
वाराहं रूपमास्थाय मयेयं जगती पुरा |
मज्जमाना जले विप्र वीर्येणासीत्समुद्धृता ||११||
अग्निश्च वडवावक्त्रो भूत्वाहं द्विजसत्तम |
पिबाम्यपः समाविद्धास्ताश्चैव विसृजाम्यहम् ||१२||
ब्रह्म वक्त्रं भुजौ क्षत्रमूरू मे संश्रिता विशः |
पादौ शूद्रा भजन्ते मे विक्रमेण क्रमेण च ||१३||
ऋग्वेदः सामवेदश्च यजुर्वेदोऽप्यथर्वणः |
मत्तः प्रादुर्भवन्त्येते मामेव प्रविशन्ति च ||१४||
यतयः शान्तिपरमा यतात्मानो मुमुक्षवः |
कामक्रोधद्वेषमुक्ता निःसङ्गा वीतकल्मषाः ||१५||
सत्त्वस्था निरहङ्कारा नित्यमध्यात्मकोविदाः |
मामेव सततं विप्राश्चिन्तयन्त उपासते ||१६||
अहं संवर्तको ज्योतिरहं सर्वर्तको यमः |
अहं संवर्तकः सूर्यो अहं संवर्तकोऽनिलः ||१७||
तारारूपाणि दृश्यन्ते यान्येतानि नभस्तले |
मम रूपाण्यथैतानि विद्धि त्वं द्विजसत्तम ||१८||
रत्नाकराः समुद्राश्च सर्व एव चतुर्दिशम् |
वसनं शयनं चैव निलयं चैव विद्धि मे ||१९||
कामं क्रोधं च हर्षं च भयं मोहं तथैव च |
ममैव विद्धि रूपाणि सर्वाण्येतानि सत्तम ||२०||
प्राप्नुवन्ति नरा विप्र यत्कृत्वा कर्मशोभनम् |
सत्यं दानं तपश्चोग्रमहिंसा चैव जन्तुषु ||२१||
मद्विधानेन विहिता मम देहविहारिणः |
मयाभिभूतविज्ञाना विचेष्टन्ते न कामतः ||२२||
सम्यग्वेदमधीयाना यजन्तो विविधैर्मखैः |
शान्तात्मानो जितक्रोधाः प्राप्नुवन्ति द्विजातयः ||२३||
प्राप्तुं न शक्यो यो विद्वन्नरैर्दुष्कृतकर्मभिः |
लोभाभिभूतैः कृपणैरनार्यैरकृतात्मभिः ||२४||
तं मां महाफलं विद्धि पदं सुकृतकर्मणः |
दुष्प्रापं विप्रमूढानां मार्गं योगैर्निषेवितम् ||२५||
यदा यदा च धर्मस्य ग्लानिर्भवति सत्तम |
अभ्युत्थानमधर्मस्य तदात्मानं सृजाम्यहम् ||२६||
दैत्या हिंसानुरक्ताश्च अवध्याः सुरसत्तमैः |
राक्षसाश्चापि लोकेऽस्मिन्यदोत्पत्स्यन्ति दारुणाः ||२७||
तदाहं सम्प्रसूयामि गृहेषु शुभकर्मणाम् |
प्रविष्टो मानुषं देहं सर्वं प्रशमयाम्यहम् ||२८||
सृष्ट्वा देवमनुष्यांश्च गन्धर्वोरगराक्षसान् |
स्थावराणि च भूतानि संहराम्यात्ममायया ||२९||
कर्मकाले पुनर्देहमनुचिन्त्य सृजाम्यहम् |
प्रविश्य मानुषं देहं मर्यादाबन्धकारणात् ||३०||
श्वेतः कृतयुगे वर्णः पीतस्त्रेतायुगे मम |
रक्तो द्वापरमासाद्य कृष्णः कलियुगे तथा ||३१||
त्रयो भागा ह्यधर्मस्य तस्मिन्काले भवन्त्युत |
अन्तकाले च सम्प्राप्ते कालो भूत्वातिदारुणः ||३२||
त्रैलोक्यं नाशयाम्येकः कृत्स्नं स्थावरजङ्गमम् ||३२||
अहं त्रिवर्त्मा सर्वात्मा सर्वलोकसुखावहः |
अभिभूः सर्वगोऽनन्तो हृषीकेश उरुक्रमः ||३३||
कालचक्रं नयाम्येको ब्रह्मन्नहमरूपि वै |
शमनं सर्वभूतानां सर्वलोककृतोद्यमम् ||३४||
एवं प्रणिहितः सम्यङ्मयात्मा मुनिसत्तम |
सर्वभूतेषु विप्रेन्द्र न च मां वेत्ति कश्चन ||३५||
यच्च किञ्चित्त्वया प्राप्तं मयि क्लेषात्मकं द्विज |
सुखोदयाय तत्सर्वं श्रेयसे च तवानघ ||३६||
यच्च किञ्चित्त्वया लोके दृष्टं स्थावरजङ्गमम् |
विहितः सर्वथैवासौ ममात्मा मुनिसत्तम ||३७||
अर्धं मम शरीरस्य सर्वलोकपितामहः |
अहं नारायणो नाम शङ्खचक्रगदाधरः ||३८||
यावद्युगानां विप्रर्षे सहस्रपरिवर्तनम् |
तावत्स्वपिमि विश्वात्मा सर्वलोकपितामहः ||३९||
एवं सर्वमहं कालमिहासे मुनिसत्तम |
अशिशुः शिशुरूपेण यावद्ब्रह्मा न बुध्यते ||४०||
मया च विप्र दत्तोऽयं वरस्ते ब्रह्मरूपिणा |
असकृत्परितुष्टेन विप्रर्षिगणपूजित ||४१||
सर्वमेकार्णवं दृष्ट्वा नष्टं स्थावरजङ्गमम् |
विक्लवोऽसि मया ज्ञातस्ततस्ते दर्शितं जगत् ||४२||
अभ्यन्तरं शरीरस्य प्रविष्टोऽसि यदा मम |
दृष्ट्वा लोकं समस्तं च विस्मितो नावबुध्यसे ||४३||
ततोऽसि वक्त्राद्विप्रर्षे द्रुतं निःसारितो मया |
आख्यातस्ते मया चात्मा दुर्ज्ञेयोऽपि सुरासुरैः ||४४||
यावत्स भगवान्ब्रह्मा न बुध्यति महातपाः |
तावत्त्वमिह विप्रर्षे विश्रब्धश्चर वै सुखम् ||४५||
ततो विबुद्धे तस्मिंस्तु सर्वलोकपितामहे |
एकीभूतो हि स्रक्ष्यामि शरीराद्द्विजसत्तम ||४६||
आकाशं पृथिवीं ज्योतिर्वायुं सलिलमेव च |
लोके यच्च भवेच्छेषमिह स्थावरजङ्गमम् ||४७||
मार्कण्डेय उवाच||
इत्युक्त्वान्तर्हितस्तात स देवः परमाद्भुतः |
प्रजाश्चेमाः प्रपश्यामि विचित्रा बहुधाकृताः ||४८||
एतद्दृष्टं मया राजंस्तस्मिन्प्राप्ते युगक्षये |
आश्चर्यं भरतश्रेष्ठ सर्वधर्मभृतां वर ||४९||
यः स देवो मया दृष्टः पुरा पद्मनिभेक्षणः |
स एष पुरुषव्याघ्र सम्बन्धी ते जनार्दनः ||५०||
अस्यैव वरदानाद्धि स्मृतिर्न प्रजहाति माम् |
दीर्घमायुश्च कौन्तेय स्वच्छन्दमरणं तथा ||५१||
स एष कृष्णो वार्ष्णेयः पुराणपुरुषो विभुः |
आस्ते हरिरचिन्त्यात्मा क्रीडन्निव महाभुजः ||५२||
एष धाता विधाता च संहर्ता चैव सात्वतः |
श्रीवत्सवक्षा गोविन्दः प्रजापतिपतिः प्रभुः ||५३||
दृष्ट्वेमं वृष्णिशार्दूलं स्मृतिर्मामियमागता |
आदिदेवमजं विष्णुं पुरुषं पीतवाससम् ||५४||
सर्वेषामेव भूतानां पिता माता च माधवः |
गच्छध्वमेनं शरणं शरण्यं कौरवर्षभाः ||५५||
१८८
वैशम्पायन उवाच||
एवमुक्तास्तु ते पार्था यमौ च पुरुषर्षभौ |
द्रौपद्या कृष्णया सार्धं नमश्चक्रुर्जनार्दनम् ||१||
स चैतान्पुरुषव्याघ्र साम्ना परमवल्गुना |
सान्त्वयामास मानार्हान्मन्यमानो यथाविधि ||२||
युधिष्ठिरस्तु कौन्तेयो मार्कण्डेयं महामुनिम् |
पुनः पप्रच्छ साम्राज्ये भविष्यां जगतो गतिम् ||३||
आश्चर्यभूतं भवतः श्रुतं नो वदतां वर |
मुने भार्गव यद्वृत्तं युगादौ प्रभवाप्ययौ ||४||
अस्मिन्कलियुगेऽप्यस्ति पुनः कौतूहलं मम |
समाकुलेषु धर्मेषु किं नु शेषं भविष्यति ||५||
किंवीर्या मानवास्तत्र किमाहारविहारिणः |
किमायुषः किंवसना भविष्यन्ति युगक्षये ||६||
कां च काष्ठां समासाद्य पुनः सम्पत्स्यते कृतम् |
विस्तरेण मुने ब्रूहि विचित्राणीह भाषसे ||७||
इत्युक्तः स मुनिश्रेष्ठः पुनरेवाभ्यभाषत |
रमयन्वृष्णिशार्दूलं पाण्डवांश्च महामुनिः ||८||
मार्कण्डेय उवाच||
भविष्यं सर्वलोकस्य वृत्तान्तं भरतर्षभ |
कलुषं कालमासाद्य कथ्यमानं निबोध मे ||९||
कृते चतुष्पात्सकलो निर्व्याजोपाधिवर्जितः |
वृषः प्रतिष्ठितो धर्मो मनुष्येष्वभवत्पुरा ||१०||
अधर्मपादविद्धस्तु त्रिभिरंशैः प्रतिष्ठितः |
त्रेतायां द्वापरेऽर्धेन व्यामिश्रो धर्म उच्यते ||११||
त्रिभिरंशैरधर्मस्तु लोकानाक्रम्य तिष्ठति |
चतुर्थांशेन धर्मस्तु मनुष्यानुपतिष्ठति ||१२||
आयुर्वीर्यमथो बुद्धिर्बलं तेजश्च पाण्डव |
मनुष्याणामनुयुगं ह्रसतीति निबोध मे ||१३||
राजानो ब्राह्मणा वैश्याः शूद्राश्चैव युधिष्ठिर |
व्याजैर्धर्मं चरिष्यन्ति धर्मवैतंसिका नराः ||१४||
सत्यं सङ्क्षेप्स्यते लोके नरैः पण्डितमानिभिः |
सत्यहान्या ततस्तेषामायुरल्पं भविष्यति ||१५||
आयुषः प्रक्षयाद्विद्यां न शक्ष्यन्त्युपशिक्षितुम् |
विद्याहीनानविज्ञानाल्लोभोऽप्यभिभविष्यति ||१६||
लोभक्रोधपरा मूढाः कामसक्ताश्च मानवाः |
वैरबद्धा भविष्यन्ति परस्परवधेप्सवः ||१७||
ब्राह्मणाः क्षत्रिया वैश्याः सङ्कीर्यन्तः परस्परम् |
शूद्रतुल्या भविष्यन्ति तपःसत्यविवर्जिताः ||१८||
अन्त्या मध्या भविष्यन्ति मध्याश्चान्तावसायिनः |
ईदृशो भविता लोको युगान्ते पर्युपस्थिते ||१९||
वस्त्राणां प्रवरा शाणी धान्यानां कोरदूषकाः |
भार्यामित्राश्च पुरुषा भविष्यन्ति युगक्षये ||२०||
मत्स्यामिषेण जीवन्तो दुहन्तश्चाप्यजैडकम् |
गोषु नष्टासु पुरुषा भविष्यन्ति युगक्षये ||२१||
अन्योन्यं परिमुष्णन्तो हिंसयन्तश्च मानवाः |
अजपा नास्तिकाः स्तेना भविष्यन्ति युगक्षये ||२२||
सरित्तीरेषु कुद्दालैर्वापयिष्यन्ति चौषधीः |
ताश्चाप्यल्पफलास्तेषां भविष्यन्ति युगक्षये ||२३||
श्राद्धे दैवे च पुरुषा ये च नित्यं धृतव्रताः |
तेऽपि लोभसमायुक्ता भोक्ष्यन्तीह परस्परम् ||२४||
पिता पुत्रस्य भोक्ता च पितुः पुत्रस्तथैव च |
अतिक्रान्तानि भोज्यानि भविष्यन्ति युगक्षये ||२५||
न व्रतानि चरिष्यन्ति ब्राह्मणा वेदनिन्दकाः |
न यक्ष्यन्ति न होष्यन्ति हेतुवादविलोभिताः ||२६||
निम्ने कृषिं करिष्यन्ति योक्ष्यन्ति धुरि धेनुकाः |
एकहायनवत्सांश्च वाहयिष्यन्ति मानवाः ||२७||
पुत्रः पितृवधं कृत्वा पिता पुत्रवधं तथा |
निरुद्वेगो बृहद्वादी न निन्दामुपलप्स्यते ||२८||
म्लेच्छभूतं जगत्सर्वं निश्क्रियं यज्ञवर्जितम् |
भविष्यति निरानन्दमनुत्सवमथो तथा ||२९||
प्रायशः कृपणानां हि तथा बन्धुमतामपि |
विधवानां च वित्तानि हरिष्यन्तीह मानवाः ||३०||
अल्पवीर्यबलाः स्तब्धा लोभमोहपरायणाः |
तत्कथादानसन्तुष्टा दुष्टानामपि मानवाः ||३१||
परिग्रहं करिष्यन्ति पापाचारपरिग्रहाः ||३१||
सङ्घातयन्तः कौन्तेय राजानः पापबुद्धयः |
परस्परवधोद्युक्ता मूर्खाः पण्डितमानिनः ||३२||
भविष्यन्ति युगस्यान्ते क्षत्रिया लोककण्टकाः ||३२||
अरक्षितारो लुब्धाश्च मानाहङ्कारदर्पिताः |
केवलं दण्डरुचयो भविष्यन्ति युगक्षये ||३३||
आक्रम्याक्रम्य साधूनां दारांश्चैव धनानि च |
भोक्ष्यन्ते निरनुक्रोशा रुदतामपि भारत ||३४||
न कन्यां याचते कश्चिन्नापि कन्या प्रदीयते |
स्वयङ्ग्राहा भविष्यन्ति युगान्ते पर्युपस्थिते ||३५||
राजानश्चाप्यसन्तुष्टाः परार्थान्मूढचेतसः |
सर्वोपायैर्हरिष्यन्ति युगान्ते पर्युपस्थिते ||३६||
म्लेच्छीभूतं जगत्सर्वं भविष्यति च भारत |
हस्तो हस्तं परिमुषेद्युगान्ते पर्युपस्थिते ||३७||
सत्यं सङ्क्षिप्यते लोके नरैः पण्डितमानिभिः |
स्थविरा बालमतयो बालाः स्थविरबुद्धयः ||३८||
भीरवः शूरमानीनः शूरा भीरुविषादिनः |
न विश्वसन्ति चान्योन्यं युगान्ते पर्युपस्थिते ||३९||
एकाहार्यं जगत्सर्वं लोभमोहव्यवस्थितम् |
अधर्मो वर्धति महान्न च धर्मः प्रवर्तते ||४०||
ब्राह्मणाः क्षत्रिया वैश्या न शिष्यन्ति जनाधिप |
एकवर्णस्तदा लोको भविष्यति युगक्षये ||४१||
न क्षंस्यति पिता पुत्रं पुत्रश्च पितरं तथा |
भार्या च पतिशुश्रूषां न करिष्यति काचन ||४२||
ये यवान्ना जनपदा गोधूमान्नास्तथैव च |
तान्देशान्संश्रयिष्यन्ति युगान्ते पर्युपस्थिते ||४३||
स्वैराहाराश्च पुरुषा योषितश्च विशां पते |
अन्योन्यं न सहिष्यन्ति युगान्ते पर्युपस्थिते ||४४||
म्लेच्छभूतं जगत्सर्वं भविष्यति युधिष्ठिर |
न श्राद्धैर्हि पितॄंश्चापि तर्पयिष्यन्ति मानवाः ||४५||
न कश्चित्कस्यचिच्छ्रोता न कश्चित्कस्यचिद्गुरुः |
तमोग्रस्तस्तदा लोको भविष्यति नराधिप ||४६||
परमायुश्च भविता तदा वर्षाणि षोडश |
ततः प्राणान्विमोक्ष्यन्ति युगान्ते पर्युपस्थिते ||४७||
पञ्चमे वाथ षष्ठे वा वर्षे कन्या प्रसूयते |
सप्तवर्षाष्टवर्षाश्च प्रजास्यन्ति नरास्तदा ||४८||
पत्यौ स्त्री तु तदा राजन्पुरुषो वा स्त्रियं प्रति |
युगान्ते राजशार्दूल न तोषमुपयास्यति ||४९||
अल्पद्रव्या वृथालिङ्गा हिंसा च प्रभविष्यति |
न कश्चित्कस्यचिद्दाता भविष्यति युगक्षये ||५०||
अट्टशूला जनपदाः शिवशूलाश्चतुष्पथाः |
केशशूलाः स्त्रियश्चापि भविष्यन्ति युगक्षये ||५१||
म्लेच्छाः क्रूराः सर्वभक्षा दारुणाः सर्वकर्मसु |
भाविनः पश्चिमे काले मनुष्या नात्र संशयः ||५२||
क्रयविक्रयकाले च सर्वः सर्वस्य वञ्चनम् |
युगान्ते भरतश्रेष्ठ वृत्तिलोभात्करिष्यति ||५३||
ज्ञानानि चाप्यविज्ञाय करिष्यन्ति क्रियास्तथा |
आत्मच्छन्देन वर्तन्ते युगान्ते पर्युपस्थिते ||५४||
स्वभावात्क्रूरकर्माणश्चान्योन्यमभिशङ्किनः |
भवितारो जनाः सर्वे सम्प्राप्ते युगसङ्क्षये ||५५||
आरामांश्चैव वृक्षांश्च नाशयिष्यन्ति निर्व्यथाः |
भविता सङ्क्षयो लोके जीवितस्य च देहिनाम् ||५६||
तथा लोभाभिभूताश्च चरिष्यन्ति महीमिमाम् |
ब्राह्मणाश्च भविष्यन्ति ब्रह्मस्वानि च भुञ्जते ||५७||
हाहाकृता द्विजाश्चैव भयार्ता वृषलार्दिताः |
त्रातारमलभन्तो वै भ्रमिष्यन्ति महीमिमाम् ||५८||
जीवितान्तकरा रौद्राः क्रूराः प्राणिविहिंसकाः |
यदा भविष्यन्ति नरास्तदा सङ्क्षेप्स्यते युगम् ||५९||
आश्रयिष्यन्ति च नदीः पर्वतान्विषमाणि च |
प्रधावमाना वित्रस्ता द्विजाः कुरुकुलोद्वह ||६०||
दस्युप्रपीडिता राजन्काका इव द्विजोत्तमाः |
कुराजभिश्च सततं करभारप्रपीडिताः ||६१||
धैर्यं त्यक्त्वा महीपाल दारुणे युगसङ्क्षये |
विकर्माणि करिष्यन्ति शूद्राणां परिचारकाः ||६२||
शूद्रा धर्मं प्रवक्ष्यन्ति ब्राह्मणाः पर्युपासकाः |
श्रोतारश्च भविष्यन्ति प्रामाण्येन व्यवस्थिताः ||६३||
विपरीतश्च लोकोऽयं भविष्यत्यधरोत्तरः |
एडूकान्पूजयिष्यन्ति वर्जयिष्यन्ति देवताः ||६४||
शूद्राः परिचरिष्यन्ति न द्विजान्युगसङ्क्षये ||६४||
आश्रमेषु महर्षीणां ब्राह्मणावसथेषु च |
देवस्थानेषु चैत्येषु नागानामालयेषु च ||६५||
एडूकचिह्ना पृथिवी न देवगृहभूषिता |
भविष्यति युगे क्षीणे तद्युगान्तस्य लक्षणम् ||६६||
यदा रौद्रा धर्महीना मांसादाः पानपास्तथा |
भविष्यन्ति नरा नित्यं तदा सङ्क्षेप्स्यते युगम् ||६७||
पुष्पे पुष्पं यदा राजन्फले फलमुपाश्रितम् |
प्रजास्यति महाराज तदा सङ्क्षेप्स्यते युगम् ||६८||
अकालवर्षी पर्जन्यो भविष्यति गते युगे |
अक्रमेण मनुष्याणां भविष्यति तदा क्रिया ||६९||
विरोधमथ यास्यन्ति वृषला ब्राह्मणैः सह ||६९||
मही म्लेच्छसमाकीर्णा भविष्यति ततोऽचिरात् |
करभारभयाद्विप्रा भजिष्यन्ति दिशो दश ||७०||
निर्विशेषा जनपदा नरावृष्टिभिरर्दिताः |
आश्रमानभिपत्स्यन्ति फलमूलोपजीविनः ||७१||
एवं पर्याकुले लोके मर्यादा न भविष्यति |
न स्थास्यन्त्युपदेशे च शिष्या विप्रियकारिणः ||७२||
आचार्योपनिधिश्चैव वत्स्यते तदनन्तरम् |
अर्थयुक्त्या प्रवत्स्यन्ति मित्रसम्बन्धिबान्धवाः ||७३||
अभावः सर्वभूतानां युगान्ते च भविष्यति ||७३||
दिशः प्रज्वलिताः सर्वा नक्षत्राणि चलानि च |
ज्योतींषि प्रतिकूलानि वाताः पर्याकुलास्तथा ||७४||
उल्कापाताश्च बहवो महाभयनिदर्शकाः ||७४||
षड्भिरन्यैश्च सहितो भास्करः प्रतपिष्यति |
तुमुलाश्चापि निर्ह्रादा दिग्दाहाश्चापि सर्वशः ||७५||
कबन्धान्तर्हितो भानुरुदयास्तमये तदा ||७५||
अकालवर्षी च तदा भविष्यति सहस्रदृक् |
सस्यानि च न रोक्ष्यन्ति युगान्ते पर्युपस्थिते ||७६||
अभीक्ष्णं क्रूरवादिन्यः परुषा रुदितप्रियाः |
भर्तॄणां वचने चैव न स्थास्यन्ति तदा स्त्रियः ||७७||
पुत्राश्च मातापितरौ हनिष्यन्ति युगक्षये |
सूदयिष्यन्ति च पतीन्स्त्रियः पुत्रानपाश्रिताः ||७८||
अपर्वणि महाराज सूर्यं राहुरुपैष्यति |
युगान्ते हुतभुक्चापि सर्वतः प्रज्वलिष्यति ||७९||
पानीयं भोजनं चैव याचमानास्तदाध्वगाः |
न लप्स्यन्ते निवासं च निरस्ताः पथि शेरते ||८०||
निर्घातवायसा नागाः शकुनाः समृगद्विजाः |
रूक्षा वाचो विमोक्ष्यन्ति युगान्ते पर्युपस्थिते ||८१||
मित्रसम्बन्धिनश्चापि सन्त्यक्ष्यन्ति नरास्तदा |
जनं परिजनं चापि युगान्ते पर्युपस्थिते ||८२||
अथ देशान्दिशश्चापि पत्तनानि पुराणि च |
क्रमशः संश्रयिष्यन्ति युगान्ते पर्युपस्थिते ||८३||
हा तात हा सुतेत्येवं तदा वाचः सुदारुणाः |
विक्रोशमानश्चान्योन्यं जनो गां पर्यटिष्यति ||८४||
ततस्तुमुलसङ्घाते वर्तमाने युगक्षये |
द्विजातिपूर्वको लोकः क्रमेण प्रभविष्यति ||८५||
ततः कालान्तरेऽन्यस्मिन्पुनर्लोकविवृद्धये |
भविष्यति पुनर्दैवमनुकूलं यदृच्छया ||८६||
यदा चन्द्रश्च सूर्यश्च तथा तिष्यबृहस्पती |
एकराशौ समेष्यन्ति प्रपत्स्यति तदा कृतम् ||८७||
कालवर्षी च पर्जन्यो नक्षत्राणि शुभानि च |
प्रदक्षिणा ग्रहाश्चापि भविष्यन्त्यनुलोमगाः ||८८||
क्षेमं सुभिक्षमारोग्यं भविष्यति निरामयम् ||८८||
कल्किर्विष्णुयशा नाम द्विजः कालप्रचोदितः |
उत्पत्स्यते महावीर्यो महाबुद्धिपराक्रमः ||८९||
सम्भूतः सम्भलग्रामे ब्राह्मणावसथे शुभे |
मनसा तस्य सर्वाणि वाहनान्यायुधानि च ||९०||
उपस्थास्यन्ति योधाश्च शस्त्राणि कवचानि च ||९०||
स धर्मविजयी राजा चक्रवर्ती भविष्यति |
स चेमं सङ्कुलं लोकं प्रसादमुपनेष्यति ||९१||
उत्थितो ब्राह्मणो दीप्तः क्षयान्तकृदुदारधीः |
स सङ्क्षेपो हि सर्वस्य युगस्य परिवर्तकः ||९२||
स सर्वत्र गतान्क्षुद्रान्ब्राह्मणैः परिवारितः |
उत्सादयिष्यति तदा सर्वान्म्लेच्छगणान्द्विजः ||९३||
१८९
मार्कण्डेय उवाच||
ततश्चोरक्षयं कृत्वा द्विजेभ्यः पृथिवीमिमाम् |
वाजिमेधे महायज्ञे विधिवत्कल्पयिष्यति ||१||
स्थापयित्वा स मर्यादाः स्वयम्भुविहिताः शुभाः |
वनं पुण्ययशःकर्मा जरावान्संश्रयिष्यति ||२||
तच्छीलमनुवर्त्स्यन्ते मनुष्या लोकवासिनः |
विप्रैश्चोरक्षये चैव कृते क्षेमं भविष्यति ||३||
कृष्णाजिनानि शक्तीश्च त्रिशूलान्यायुधानि च |
स्थापयन्विप्रशार्दूलो देशेषु विजितेषु च ||४||
संस्तूयमानो विप्रेन्द्रैर्मानयानो द्विजोत्तमान् |
कल्किश्चरिष्यति महीं सदा दस्युवधे रतः ||५||
हा तात हा सुतेत्येवं तास्ता वाचः सुदारुणाः |
विक्रोशमानान्सुभृशं दस्यून्नेष्यति सङ्क्षयम् ||६||
ततोऽधर्मविनाशो वै धर्मवृद्धिश्च भारत |
भविष्यति कृते प्राप्ते क्रियावांश्च जनस्तथा ||७||
आरामाश्चैव चैत्याश्च तटाकान्यवटास्तथा |
यज्ञक्रियाश्च विविधा भविष्यन्ति कृते युगे ||८||
ब्राह्मणाः साधवश्चैव मुनयश्च तपस्विनः |
आश्रमाः सहपाषण्डाः स्थिताः सत्ये जनाः प्रजाः ||९||
जास्यन्ति सर्वबीजानि उप्यमानानि चैव ह |
सर्वेष्वृतुषु राजेन्द्र सर्वं सस्यं भविष्यति ||१०||
नरा दानेषु निरता व्रतेषु नियमेषु च |
जपयज्ञपरा विप्रा धर्मकामा मुदा युताः ||११||
पालयिष्यन्ति राजानो धर्मेणेमां वसुन्धराम् ||११||
व्यवहाररता वैश्या भविष्यन्ति कृते युगे |
षट्कर्मनिरता विप्राः क्षत्रिया रक्षणे रताः ||१२||
शुश्रूषायां रताः शूद्रास्तथा वर्णत्रयस्य च |
एष धर्मः कृतयुगे त्रेतायां द्वापरे तथा ||१३||
पश्चिमे युगकाले च यः स ते सम्प्रकीर्तितः ||१३||
सर्वलोकस्य विदिता युगसङ्ख्या च पाण्डव |
एतत्ते सर्वमाख्यातमतीतानागतं मया ||१४||
वायुप्रोक्तमनुस्मृत्य पुराणमृषिसंस्तुतम् ||१४||
एवं संसारमार्गा मे बहुशश्चिरजीविना |
दृष्टाश्चैवानुभूताश्च तांस्ते कथितवानहम् ||१५||
इदं चैवापरं भूयः सह भ्रातृभिरच्युत |
धर्मसंशयमोक्षार्थं निबोध वचनं मम ||१६||
धर्मे त्वयात्मा संयोज्यो नित्यं धर्मभृतां वर |
धर्मात्मा हि सुखं राजा प्रेत्य चेह च नन्दति ||१७||
निबोध च शुभां वाणीं यां प्रवक्ष्यामि तेऽनघ |
न ब्राह्मणे परिभवः कर्तव्यस्ते कदाचन ||१८||
ब्राह्मणो रुषितो हन्यादपि लोकान्प्रतिज्ञया ||१८||
वैशम्पायन उवाच||
मार्कण्डेयवचः श्रुत्वा कुरूणां प्रवरो नृपः |
उवाच वचनं धीमान्परमं परमद्युतिः ||१९||
कस्मिन्धर्मे मया स्थेयं प्रजाः संरक्षता मुने |
कथं च वर्तमानो वै न च्यवेयं स्वधर्मतः ||२०||
मार्कण्डेय उवाच||
दयावान्सर्वभूतेषु हितो रक्तोऽनसूयकः |
अपत्यानामिव स्वेषां प्रजानां रक्षणे रतः ||२१||
चर धर्मं त्यजाधर्मं पितॄन्देवांश्च पूजय ||२१||
प्रमादाद्यत्कृतं तेऽभूत्संयग्दानेन तज्जय |
अलं ते मानमाश्रित्य सततं परवान्भव ||२२||
विजित्य पृथिवीं सर्वां मोदमानः सुखी भव |
एष भूतो भविष्यश्च धर्मस्ते समुदीरितः ||२३||
न तेऽस्त्यविदितं किञ्चिदतीतानागतं भुवि |
तस्मादिमं परिक्लेशं त्वं तात हृदि मा कृथाः ||२४||
एष कालो महाबाहो अपि सर्वदिवौकसाम् |
मुह्यन्ति हि प्रजास्तात कालेनाभिप्रचोदिताः ||२५||
मा च तेऽत्र विचारो भूद्यन्मयोक्तं तवानघ |
अतिशङ्क्य वचो ह्येतद्धर्मलोपो भवेत्तव ||२६||
जातोऽसि प्रथिते वंशे कुरूणां भरतर्षभ |
कर्मणा मनसा वाचा सर्वमेतत्समाचर ||२७||
युधिष्ठिर उवाच||
यत्त्वयोक्तं द्विजश्रेष्ठ वाक्यं श्रुतिमनोहरम् |
तथा करिष्ये यत्नेन भवतः शासनं विभो ||२८||
न मे लोभोऽस्ति विप्रेन्द्र न भयं न च मत्सरः |
करिष्यामि हि तत्सर्वमुक्तं यत्ते मयि प्रभो ||२९||
वैशम्पायन उवाच||
श्रुत्वा तु वचनं तस्य पाण्डवस्य महात्मनः |
प्रहृष्टाः पाण्डवा राजन्सहिताः शार्ङ्गधन्वना ||३०||
तथा कथां शुभां श्रुत्वा मार्कण्डेयस्य धीमतः |
विस्मिताः समपद्यन्त पुराणस्य निवेदनात् ||३१||
मण्डूकोपाख्यानम्
१९०
वैशम्पायन उवाच||
भूय एव ब्राह्मणमहाभाग्यं वक्तुमर्हसीत्यब्रवीत्पाण्डवेयो मार्कण्डेयम् ||१||
अथाचष्ट मार्कण्डेयः ||२||
अयोध्यायामिक्ष्वाकुकुलोत्पन्नः पार्थिवः परिक्षिन्नाम मृगयामगमत् ||३||
तमेकाश्वेन मृगमनुसरन्तं मृगो दूरमपाहरत् ||४||
अथाध्वनि जातश्रमः क्षुत्तृष्णाभिभूतश्च कस्मिंश्चिदुद्देशे नीलं वनषण्डमपश्यत्
तच्च विवेश ||५||
ततस्तस्य वनषण्डस्य मध्येऽतीव रमणीयं सरो दृष्ट्वा साश्व एव व्यगाहत ||६||
अथाश्वस्तः स बिसमृणालमश्वस्याग्रे निक्षिप्य पुष्करिणीतीरे समाविशत् ||७||
ततः शयानो मधुरं गीतशब्दमशृणोत् ||८||
स श्रुत्वाचिन्तयत्
नेह मनुष्यगतिं पश्यामि
कस्य खल्वयं गीतशब्द इति ||९||
अथापश्यत्कन्यां परमरूपदर्शनीयां पुष्पाण्यवचिन्वतीं गायन्तीं च ||१०||
अथ सा राज्ञः समीपे पर्यक्रामत् ||११||
तामब्रवीद्राजा
कस्यासि सुभगे त्वमिति ||१२||
सा प्रत्युवाच
कन्यास्मीति ||१३||
तां राजोवाच
अर्थी त्वयाहमिति ||१४||
अथोवाच कन्या
समयेनाहं शक्या त्वया लब्धुम्
नान्यथेति ||१५||
तां राजा समयमपृच्छत् ||१६||
ततः कन्येदमुवाच
उदकं मे न दर्शयितव्यमिति ||१७||
स राजा बाढमित्युक्त्वा तां समागम्य तया सहास्ते ||१८||
तत्रैवासीने राजनि सेनान्वगच्छत्
पदेनानुपदं दृष्ट्वा राजानं परिवार्यातिष्ठत् ||१९||
पर्याश्वस्तश्च राजा तयैव सह शिबिकया प्रायादविघाटितया
स्वनगरमनुप्राप्य रहसि तया सह रमन्नास्ते
नान्यत्किञ्चनापश्यत् ||२०||
अथ प्रधानामात्यस्तस्याभ्याशचराः स्त्रियोऽपृच्छत्
किमत्र प्रयोजनं वर्तत इति ||२१||
अथाब्रुवंस्ताः स्त्रियः
अपूर्वमिव पश्याम उदकं नात्र नीयतेति ||२२||
अथामात्योऽनुदकं वनं कारयित्वोदारवृक्षं बहुमूलपुष्पफलं रहस्युपगम्य राजानमब्रवीत्
वनमिदमुदारमनुदकम्
साध्वत्र रम्यतामिति ||२३||
स तस्य वचनात्तयैव सह देव्या तद्वनं प्राविशत्
स कदाचित्तस्मिन्वने रम्ये तयैव सह व्यवहरत्
अथ क्षुत्तृष्णार्दितः श्रान्तोऽतिमात्रमतिमुक्तागारमपश्यत् ||२४||
तत्प्रविश्य राजा सह प्रियया सुधातलसुकृतां विमलसलिलपूर्णां वापीमपश्यत् ||२५||
दृष्ट्वैव च तां तस्या एव तीरे सहैव तया देव्या व्यतिष्ठत् ||२६||
अथ तां देवीं स राजाब्रवीत्
साध्ववतर वापीसलिलमिति ||२७||
सा तद्वचः श्रुत्वावतीर्य वापीं न्यमज्जत्
न पुनरुदमज्जत् ||२८||
तां मृगयमाणो राजा नापश्यत् ||२९||
वापीमपि निःस्राव्य मण्डूकं श्वभ्रमुखे दृष्ट्वा क्रुद्ध आज्ञापयामास
सर्वमण्डूकवधः क्रियतामिति
यो मयार्थी स मृतकैर्मण्डूकैरुपायनैर्मामुपतिष्ठेदिति ||३०||
अथ मण्डूकवधे घोरे क्रियमाणे दिक्षु सर्वासु मण्डूकान्भयमाविशत्
ते भीता मण्डूकराज्ञे यथावृत्तं न्यवेदयन् ||३१||
ततो मण्डूकराट्तापसवेषधारी राजानमभ्यगच्छत् ||३२||
उपेत्य चैनमुवाच
मा राजन्क्रोधवशं गमः
प्रसादं कुरु
नार्हसि मण्डूकानामनपराधिनां वधं कर्तुमिति ||३३||
श्लोकौ चात्र भवतः
मा मण्डूकाञ्जिघांस त्वं कोपं सन्धारयाच्युत |
प्रक्षीयते धनोद्रेको जनानामविजानताम् ||३४||
प्रतिजानीहि नैतांस्त्वं प्राप्य क्रोधं विमोक्ष्यसे |
अलं कृत्वा तवाधर्मं मण्डूकैः किं हतैर्हि ते ||३५||
तमेवंवादिनमिष्टजनशोकपरीतात्मा राजा प्रोवाच
न हि क्षम्यते तन्मया
हनिष्याम्येतान्
एतैर्दुरात्मभिः प्रिया मे भक्षिता
सर्वथैव मे वध्या मण्डूकाः
नार्हसि विद्वन्मामुपरोद्धुमिति ||३६||
स तद्वाक्यमुपलभ्य व्यथितेन्द्रियमनाः प्रोवाच
प्रसीद राजन्
अहमायुर्नाम मण्डूकराजः
मम सा दुहिता सुशोभना नाम
तस्या दौःशील्यमेतत्
बहवो हि राजानस्तया विप्रलब्धपूर्वा इति ||३७||
तमब्रवीद्राजा
तयास्म्यर्थी
सा मे दीयतामिति ||३८||
अथैनां राज्ञे पितादात्
अब्रवीच्चैनाम्
एनं राजानं शुश्रूषस्वेति ||३९||
स उवाच दुहितरम्
यस्मात्त्वया राजानो विप्रलब्धास्तस्मादब्रह्मण्यानि तवापत्यानि भविष्यन्त्यनृतकत्वात्तवेति ||४०||
स च राजा तामुपलभ्य तस्यां सुरतगुणनिबद्धहृदयो लोकत्रयैश्वर्यमिवोपलभ्य हर्षबाष्पकलया वाचा प्रणिपत्याभिपूज्य मण्डूकराजानमब्रवीत्
अनुगृहीतोऽस्मीति ||४१||
स च मण्डूकराजो जामातरमनुज्ञाप्य यथागतमगच्छत् ||४२||
अथ कस्यचित्कालस्य तस्यां कुमारास्त्रयस्तस्य राज्ञः सम्बभूवुः शलो दलो बलश्चेति
ततस्तेषां ज्येष्ठं शलं समये पिता राज्येऽभिषिच्य तपसि धृतात्मा वनं जगाम ||४३||
अथ कदाचिच्छलो मृगयामचरत्
मृगं चासाद्य रथेनान्वधावत् ||४४||
सूतं चोवाच
शीघ्रं मां वहस्वेति ||४५||
स तथोक्तः सूतो राजानमब्रवीत्
मा क्रियतामनुबन्धः
नैष शक्यस्त्वया मृगो ग्रहीतुं यद्यपि ते रथे युक्तौ वाम्यौ स्यातामिति ||४६||
ततोऽब्रवीद्राजा सूतम्
आचक्ष्व मे वाम्यौ
हन्मि वा त्वामिति ||४७||
स एवमुक्तो राजभयभीतो वामदेवशापभीतश्च सन्नाचख्यौ राज्ञे
वामदेवस्याश्वौ वाम्यौ मनोजवाविति ||४८||
अथैनमेवं ब्रुवाणमब्रवीद्राजा
वामदेवाश्रमं याहीति ||४९||
स गत्वा वामदेवाश्रमं तमृषिमब्रवीत्
भगवन्मृगो मया विद्धः पलायते
तं सम्भावयेयम्
अर्हसि मे वाम्यौ दातुमिति ||५०||
तमब्रवीदृषिः
ददानि ते वाम्यौ
कृतकार्येण भवता ममैव निर्यात्यौ क्षिप्रमिति ||५१||
स च तावश्वौ प्रतिगृह्यानुज्ञाप्य चर्षिं प्रायाद्वाम्यसंयुक्तेन रथेन मृगं प्रति
गच्छंश्चाब्रवीत्सूतम्
अश्वरत्नाविमावयोग्यौ ब्राह्मणानाम्
नैतौ प्रतिदेयौ वामदेवायेति ||५२||
एवमुक्त्वा मृगमवाप्य स्वनगरमेत्याश्वावन्तःपुरेऽस्थापयत् ||५३||
अथर्षिश्चिन्तयामास
तरुणो राजपुत्रः कल्याणं पत्रमासाद्य रमते
न मे प्रतिनिर्यातयति
अहो कष्टमिति ||५४||
मनसा निश्चित्य मासि पूर्णे शिष्यमब्रवीत्
गच्छात्रेय
राजानं ब्रूहि
यदि पर्याप्तं निर्यातयोपाध्यायवाम्याविति ||५५||
स गत्वैवं तं राजानमब्रवीत् ||५६||
तं राजा प्रत्युवाच
राज्ञामेतद्वाहनम्
अनर्हा ब्राह्मणा रत्नानामेवंविधानाम्
किं च ब्राह्मणानामश्वैः कार्यम्
साधु प्रतिगम्यतामिति ||५७||
स गत्वैवमुपाध्यायायाचष्ट ||५८||
तच्छ्रुत्वा वचनमप्रियं वामदेवः क्रोधपरीतात्मा स्वयमेव राजानमभिगम्याश्वार्थमभ्यचोदयत्
न चादाद्राजा ||५९||
वामदेव उवाच||
प्रयच्छ वाम्यौ मम पार्थिव त्वं; कृतं हि ते कार्यमन्यैरशक्यम् |
मा त्वा वधीद्वरुणो घोरपाशै; र्ब्रह्मक्षत्रस्यान्तरे वर्तमानः ||६०||
राजोवाच||
अनड्वाहौ सुव्रतौ साधु दान्ता; वेतद्विप्राणां वाहनं वामदेव |
ताभ्यां याहि त्वं यत्र कामो महर्षे; छन्दांसि वै त्वादृशं संवहन्ति ||६१||
वामदेव उवाच||
छन्दांसि वै मादृशं संवहन्ति; लोकेऽमुष्मिन्पार्थिव यानि सन्ति |
अस्मिंस्तु लोके मम यानमेत; दस्मद्विधानामपरेषां च राजन् ||६२||
राजोवाच||
चत्वारो वा गर्दभास्त्वां वहन्तु; श्रेष्ठाश्वतर्यो हरयो वा तुरङ्गाः |
तैस्त्वं याहि क्षत्रियस्यैष वाहो; मम वाम्यौ न तवैतौ हि विद्धि ||६३||
वामदेव उवाच||
घोरं व्रतं ब्राह्मणस्यैतदाहु; रेतद्राजन्यदिहाजीवमानः |
अयस्मया घोररूपा महान्तो; वहन्तु त्वां शितशूलाश्चतुर्धा ||६४||
राजोवाच||
ये त्वा विदुर्ब्राह्मणं वामदेव; वाचा हन्तुं मनसा कर्मणा वा |
ते त्वां सशिष्यमिह पातयन्तु; मद्वाक्यनुन्नाः शितशूलासिहस्ताः ||६५||
वामदेव उवाच||
नानुयोगा ब्राह्मणानां भवन्ति; वाचा राजन्मनसा कर्मणा वा |
यस्त्वेवं ब्रह्म तपसान्वेति विद्वां; स्तेन श्रेष्ठो भवति हि जीवमानः ||६६||
मार्कण्डेय उवाच||
एवमुक्ते वामदेवेन राज; न्समुत्तस्थू राक्षसा घोररूपाः |
तैः शूलहस्तैर्वध्यमानः स राजा; प्रोवाचेदं वाक्यमुच्चैस्तदानीम् ||६७||
इक्ष्वाकवो यदि ब्रह्मन्दलो वा; विधेया मे यदि वान्ये विशोऽपि |
नोत्स्रक्ष्येऽहं वामदेवस्य वाम्यौ; नैवंविधा धर्मशीला भवन्ति ||६८||
एवं ब्रुवन्नेव स यातुधानै; र्हतो जगामाशु महीं क्षितीशः |
ततो विदित्वा नृपतिं निपातित; मिक्ष्वाकवो वै दलमभ्यषिञ्चन् ||६९||
राज्ये तदा तत्र गत्वा स विप्रः; प्रोवाचेदं वचनं वामदेवः |
दलं राजानं ब्राह्मणानां हि देय; मेवं राजन्सर्वधर्मेषु दृष्टम् ||७०||
बिभेषि चेत्त्वमधर्मान्नरेन्द्र; प्रयच्छ मे शीघ्रमेवाद्य वाम्यौ |
एतच्छ्रुत्वा वामदेवस्य वाक्यं; स पार्थिवः सूतमुवाच रोषात् ||७१||
एकं हि मे सायकं चित्ररूपं; दिग्धं विषेणाहर सङ्गृहीतम् |
येन विद्धो वामदेवः शयीत; संदश्यमानः श्वभिरार्तरूपः ||७२||
वामदेव उवाच||
जानामि पुत्रं दशवर्षं तवाहं; जातं महिष्यां श्येनजितं नरेन्द्र |
तं जहि त्वं मद्वचनात्प्रणुन्न; स्तूर्णं प्रियं सायकैर्घोररूपैः ||७३||
मार्कण्डेय उवाच||
एवमुक्तो वामदेवेन राज; न्नन्तःपुरे राजपुत्रं जघान |
स सायकस्तिग्मतेजा विसृष्टः; श्रुत्वा दलस्तच्च वाक्यं बभाषे ||७४||
इक्ष्वाकवो हन्त चरामि वः प्रियं; निहन्मीमं विप्रमद्य प्रमथ्य |
आनीयतामपरस्तिग्मतेजाः; पश्यध्वं मे वीर्यमद्य क्षितीशाः ||७५||
वामदेव उवाच||
यं त्वमेनं सायकं घोररूपं; विषेण दिग्धं मम संदधासि |
न त्वमेनं शरवर्यं विमोक्तुं; सन्धातुं वा शक्ष्यसि मानवेन्द्र ||७६||
राजोवाच||
इक्ष्वाकवः पश्यत मां गृहीतं; न वै शक्नोम्येष शरं विमोक्तुम् |
न चास्य कर्तुं नाशमभ्युत्सहामि; आयुष्मान्वै जीवतु वामदेवः ||७७||
वामदेव उवाच||
संस्पृशैनां महिषीं सायकेन; ततस्तस्मादेनसो मोक्ष्यसे त्वम् |
मार्कण्डेय उवाच||
ततस्तथा कृतवान्पार्थिवस्तु; ततो मुनिं राजपुत्री बभाषे |
यथा युक्तं वामदेवाहमेनं; दिने दिने संविशन्ती व्यशंसम् ||७९||
ब्राह्मणेभ्यो मृगयन्ती सूनृतानि; तथा ब्रह्मन्पुण्यलोकं लभेयम् ||७९||
वामदेव उवाच||
त्वया त्रातं राजकुलं शुभेक्षणे; वरं वृणीष्वाप्रतिमं ददानि ते |
प्रशाधीमं स्वजनं राजपुत्रि; इक्ष्वाकुराज्यं सुमहच्चाप्यनिन्द्ये ||८०||
राजपुत्र्युवाच||
वरं वृणे भगवन्नेकमेव; विमुच्यतां किल्बिषादद्य भर्ता |
शिवेन चाध्याहि सपुत्रबान्धवं; वरो वृतो ह्येष मया द्विजाग्र्य ||८१||
मार्कण्डेय उवाच||
श्रुत्वा वचः स मुनी राजपुत्र्या; स्तथास्त्विति प्राह कुरुप्रवीर |
ततः स राजा मुदितो बभूव; वाम्यौ चास्मै सम्प्रददौ प्रणम्य ||८२||
इन्द्रद्युम्नोपाख्यानम्
१९१
वैशम्पायन उवाच||
मार्कण्डेयमृषयः पाण्डवाश्च पर्यपृच्छन्
अस्ति कश्चिद्भवतश्चिरजाततर इति ||१||
स तानुवाच
अस्ति खलु राजर्षिरिन्द्रद्युम्नो नाम क्षीणपुण्यस्त्रिदिवात्प्रच्युतः
कीर्तिस्ते व्युच्छिन्नेति
स मामुपातिष्ठत्
अथ प्रत्यभिजानाति मां भवानिति ||२||
तमहमब्रुवम्
न वयं रासायनिकाः शरीरोपतापेनात्मनः समारभामहेऽर्थानामनुष्ठानम् ||३||
अस्ति खलु हिमवति प्राकारकर्णो नामोलूकः
स भवन्तं यदि जानीयात्
प्रकृष्टे चाध्वनि हिमवान्
तत्रासौ प्रतिवसतीति ||४||
स मामश्वो भूत्वा तत्रावहद्यत्र बभूवोलूकः ||५||
अथैनं स राजर्षिः पर्यपृच्छत्
प्रत्यभिजानाति मां भवानिति ||६||
स मुहूर्तं ध्यात्वाब्रवीदेनम्
नाभिजाने भवन्तमिति ||७||
स एवमुक्तो राजर्षिरिन्द्रद्युम्नः पुनस्तमुलूकमब्रवीत्
अस्ति कश्चिद्भवतश्चिरजाततर इति ||८||
स एवमुक्तोऽब्रवीदेनम्
अस्ति खल्विन्द्रद्युम्नसरो नाम
तस्मिन्नाडीजङ्घो नाम बकः प्रतिवसति
सोऽस्मत्तश्चिरजाततरः
तं पृच्छेति ||९||
तत इन्द्रद्युम्नो मां चोलूकं चादाय तत्सरोऽगच्छद्यत्रासौ नाडीजङ्घो नाम बको बभूव ||१०||
सोऽस्माभिः पृष्टः
भवानिन्द्रद्युम्नं राजानं प्रत्यभिजानातीति ||११||
स एवमुक्तोऽब्रवीन्मुहूर्तं ध्यात्वा
नाभिजानाम्यहमिन्द्रद्युम्नं राजानमिति ||१२||
ततः सोऽस्माभिः पृष्टः
अस्ति कश्चिदन्यो भवतश्चिरजाततर इति ||१३||
स नोऽब्रवीदस्ति खल्विहैव सरस्यकूपारो नाम कच्छपः प्रतिवसति
स मत्तश्चिरजाततर इति
स यदि कथञ्चिदभिजानीयादिमं राजानं तमकूपारं पृच्छाम इति ||१४||
ततः स बकस्तमकूपारं कच्छपं विज्ञापयामास
अस्त्यस्माकमभिप्रेतं भवन्तं कञ्चिदर्थमभिप्रष्टुम्
साध्वागम्यतां तावदिति ||१५||
एतच्छ्रुत्वा स कच्छपस्तस्मात्सरस उत्थायाभ्यगच्छद्यत्र तिष्ठामो वयं तस्य सरसस्तीरे ||१६||
आगतं चैनं वयमपृच्छाम
भवानिन्द्रद्युम्नं राजानमभिजानातीति ||१७||
स मुहूर्तं ध्यात्वा बाष्पपूर्णनयन उद्विग्नहृदयो वेपमानो विसञ्ज्ञकल्पः प्राञ्जलिरब्रवीत्
किमहमेनं न प्रत्यभिजानामि
अहं ह्यनेन सहस्रकृत्वः पूर्वमग्निचितिषूपहितपूर्वः
सरश्चेदमस्य दक्षिणादत्ताभिर्गोभिरतिक्रममाणाभिः कृतम्
अत्र चाहं प्रतिवसामीति ||१८||
अथैतत्कच्छपेनोदाहृतं श्रुत्वा समनन्तरं देवलोकाद्देवरथः प्रादुरासीत् ||१९||
वाचश्चाश्रूयन्तेन्द्रद्युम्नं प्रति
प्रस्तुतस्ते स्वर्गः
यथोचितं स्थानमभिपद्यस्व
कीर्तिमानसि
अव्यग्रो याहीति ||२०||
दिवं स्पृशति भूमिं च शब्दः पुण्यस्य कर्मणः |
यावत्स शब्दो भवति तावत्पुरुष उच्यते ||२१||
अकीर्तिः कीर्त्यते यस्य लोके भूतस्य कस्यचित् |
पतत्येवाधमाँल्लोकान्यावच्छब्दः स कीर्त्यते ||२२||
तस्मात्कल्याणवृत्तः स्यादत्यन्ताय नरो भुवि |
विहाय वृत्तं पापिष्ठं धर्ममेवाभिसंश्रयेत् ||२३||
इत्येतच्छ्रुत्वा स राजाब्रवीत्
तिष्ठ तावद्यावदिदानीमिमौ वृद्धौ यथास्थानं प्रतिपादयामीति ||२४||
स मां प्राकारकर्णं चोलूकं यथोचिते स्थाने प्रतिपाद्य तेनैव यानेन संसिद्धो यथोचितं स्थानं प्रतिपन्नः ||२५||
एतन्मयानुभूतं चिरजीविना दृष्टमिति पाण्डवानुवाच मार्कण्डेयः ||२६||
पाण्डवाश्चोचुः प्रीताः
साधु
शोभनं कृतं भवता राजानमिन्द्रद्युम्नं स्वर्गलोकाच्च्युतं स्वे स्थाने स्वर्गे पुनः प्रतिपादयतेति ||२७||
अथैनानब्रवीदसौ
ननु देवकीपुत्रेणापि कृष्णेन नरके मज्जमानो राजर्षिर्नृगस्तस्मात्कृच्छ्रात्समुद्धृत्य पुनः स्वर्गं प्रतिपादित इति ||२८||
धुन्धुमारोपाख्यानम्
१९२
वैशम्पायन उवाच||
युधिष्ठिरो धर्मराजः पप्रच्छ भरतर्षभ |
मार्कण्डेयं तपोवृद्धं दीर्घायुषमकल्मषम् ||१||
विदितास्तव धर्मज्ञ देवदानवराक्षसाः |
राजवंशाश्च विविधा ऋषिवंशाश्च शाश्वताः ||२||
न तेऽस्त्यविदितं किञ्चिदस्मिँल्लोके द्विजोत्तम ||२||
कथां वेत्सि मुने दिव्यां मनुष्योरगरक्षसाम् |
एतदिच्छाम्यहं श्रोतुं तत्त्वेन कथितं द्विज ||३||
कुवलाश्व इति ख्यात इक्ष्वाकुरपराजितः |
कथं नाम विपर्यासाद्धुन्धुमारत्वमागतः ||४||
एतदिच्छामि तत्त्वेन ज्ञातुं भार्गवसत्तम |
विपर्यस्तं यथा नाम कुवलाश्वस्य धीमतः ||५||
मार्कण्डेय उवाच||
हन्त ते कथयिष्यामि शृणु राजन्युधिष्ठिर |
धर्मिष्ठमिदमाख्यानं धुन्धुमारस्य तच्छृणु ||६||
यथा स राजा इक्ष्वाकुः कुवलाश्वो महीपतिः |
धुन्धुमारत्वमगमत्तच्छृणुष्व महीपते ||७||
महर्षिर्विश्रुतस्तात उत्तङ्क इति भारत |
मरुधन्वसु रम्येषु आश्रमस्तस्य कौरव ||८||
उत्तङ्कस्तु महाराज तपोऽतप्यत्सुदुश्चरम् |
आरिराधयिषुर्विष्णुं बहून्वर्षगणान्विभो ||९||
तस्य प्रीतः स भगवान्साक्षाद्दर्शनमेयिवान् |
दृष्ट्वैव चर्षिः प्रह्वस्तं तुष्टाव विविधैः स्तवैः ||१०||
त्वया देव प्रजाः सर्वाः सदेवासुरमानवाः |
स्थावराणि च भूतानि जङ्गमानि तथैव च ||११||
ब्रह्म वेदाश्च वेद्यं च त्वया सृष्टं महाद्युते ||११||
शिरस्ते गगनं देव नेत्रे शशिदिवाकरौ |
निःश्वासः पवनश्चापि तेजोऽग्निश्च तवाच्युत ||१२||
बाहवस्ते दिशः सर्वाः कुक्षिश्चापि महार्णवः ||१२||
ऊरू ते पर्वता देव खं नाभिर्मधुसूदन |
पादौ ते पृथिवी देवी रोमाण्योषधयस्तथा ||१३||
इन्द्रसोमाग्निवरुणा देवासुरमहोरगाः |
प्रह्वास्त्वामुपतिष्ठन्ति स्तुवन्तो विविधैः स्तवैः ||१४||
त्वया व्याप्तानि सर्वाणि भूतानि भुवनेश्वर |
योगिनः सुमहावीर्याः स्तुवन्ति त्वां महर्षयः ||१५||
त्वयि तुष्टे जगत्स्वस्थं त्वयि क्रुद्धे महद्भयम् |
भयानामपनेतासि त्वमेकः पुरुषोत्तम ||१६||
देवानां मानुषाणां च सर्वभूतसुखावहः |
त्रिभिर्विक्रमणैर्देव त्रयो लोकास्त्वयाहृताः ||१७||
असुराणां समृद्धानां विनाशश्च त्वया कृतः ||१७||
तव विक्रमणैर्देवा निर्वाणमगमन्परम् |
पराभवं च दैत्येन्द्रास्त्वयि क्रुद्धे महाद्युते ||१८||
त्वं हि कर्ता विकर्ता च भूतानामिह सर्वशः |
आराधयित्वा त्वां देवाः सुखमेधन्ति सर्वशः ||१९||
एवं स्तुतो हृषीकेश उत्तङ्केन महात्मना |
उत्तङ्कमब्रवीद्विष्णुः प्रीतस्तेऽहं वरं वृणु ||२०||
उत्तङ्क उवाच||
पर्याप्तो मे वरो ह्येष यदहं दृष्टवान्हरिम् |
पुरुषं शाश्वतं दिव्यं स्रष्टारं जगतः प्रभुम् ||२१||
विष्णुरुवाच||
प्रीतस्तेऽहमलौल्येन भक्त्या च द्विजसत्तम |
अवश्यं हि त्वया ब्रह्मन्मत्तो ग्राह्यो वरो द्विज ||२२||
एवं सञ्छन्द्यमानस्तु वरेण हरिणा तदा |
उत्तङ्कः प्राञ्जलिर्वव्रे वरं भरतसत्तम ||२३||
यदि मे भगवान्प्रीतः पुण्डरीकनिभेक्षणः |
धर्मे सत्ये दमे चैव बुद्धिर्भवतु मे सदा ||२४||
अभ्यासश्च भवेद्भक्त्या त्वयि नित्यं महेश्वर ||२४||
विष्णुरुवाच||
सर्वमेतद्धि भविता मत्प्रसादात्तव द्विज |
प्रतिभास्यति योगश्च येन युक्तो दिवौकसाम् ||२५||
त्रयाणामपि लोकानां महत्कार्यं करिष्यसि ||२५||
उत्सादनार्थं लोकानां धुन्धुर्नाम महासुरः |
तपस्यति तपो घोरं शृणु यस्तं हनिष्यति ||२६||
बृहदश्व इति ख्यातो भविष्यति महीपतिः |
तस्य पुत्रः शुचिर्दान्तः कुवलाश्व इति श्रुतः ||२७||
स योगबलमास्थाय मामकं पार्थिवोत्तमः |
शासनात्तव विप्रर्षे धुन्धुमारो भविष्यति ||२८||
मार्कण्डेय उवाच||
उत्तङ्कमेवमुक्त्वा तु विष्णुरन्तरधीयत |
१९३
मार्कण्डेय उवाच||
इक्ष्वाकौ संस्थिते राजञ्शशादः पृथिवीमिमाम् |
प्राप्तः परमधर्मात्मा सोऽयोध्यायां नृपोऽभवत् ||१||
शशादस्य तु दायादः ककुत्स्थो नाम वीर्यवान् |
अनेनाश्चापि काकुत्स्थः पृथुश्चानेनसः सुतः ||२||
विष्वगश्वः पृथोः पुत्रस्तस्मादार्द्रस्तु जज्ञिवान् |
आर्द्रस्य युवनाश्वस्तु श्रावस्तस्तस्य चात्मजः ||३||
जज्ञे श्रावस्तको राजा श्रावस्ती येन निर्मिता |
श्रावस्तस्य तु दायादो बृहदश्वो महाबलः ||४||
बृहदश्वसुतश्चापि कुवलाश्व इति स्मृतः ||४||
कुवलाश्वस्य पुत्राणां सहस्राण्येकविंशतिः |
सर्वे विद्यासु निष्णाता बलवन्तो दुरासदाः ||५||
कुवलाश्वस्तु पितृतो गुणैरभ्यधिकोऽभवत् |
समये तं ततो राज्ये बृहदश्वोऽभ्यषेचयत् ||६||
कुवलाश्वं महाराज शूरमुत्तमधार्मिकम् ||६||
पुत्रसङ्क्रामितश्रीस्तु बृहदश्वो महीपतिः |
जगाम तपसे धीमांस्तपोवनममित्रहा ||७||
अथ शुश्राव राजर्षिं तमुत्तङ्को युधिष्ठिर |
वनं सम्प्रस्थितं राजन्बृहदश्वं द्विजोत्तमः ||८||
तमुत्तङ्को महातेजाः सर्वास्त्रविदुषां वरम् |
न्यवारयदमेयात्मा समासाद्य नरोत्तमम् ||९||
उत्तङ्क उवाच||
भवता रक्षणं कार्यं तत्तावत्कर्तुमर्हसि |
निरुद्विग्ना वयं राजंस्त्वत्प्रसादाद्वसेमहि ||१०||
त्वया हि पृथिवी राजन्रक्ष्यमाणा महात्मना |
भविष्यति निरुद्विग्ना नारण्यं गन्तुमर्हसि ||११||
पालने हि महान्धर्मः प्रजानामिह दृश्यते |
न तथा दृश्यतेऽरण्ये मा ते भूद्बुद्धिरीदृशी ||१२||
ईदृशो न हि राजेन्द्र धर्मः क्वचन दृश्यते |
प्रजानां पालने यो वै पुरा राजर्षिभिः कृतः ||१३||
रक्षितव्याः प्रजा राज्ञा तास्त्वं रक्षितुमर्हसि ||१३||
निरुद्विग्नस्तपश्चर्तुं न हि शक्नोमि पार्थिव |
ममाश्रमसमीपे वै समेषु मरुधन्वसु ||१४||
समुद्रो वालुकापूर्ण उज्जानक इति स्मृतः |
बहुयोजनविस्तीर्णो बहुयोजनमायतः ||१५||
तत्र रौद्रो दानवेन्द्रो महावीर्यपराक्रमः |
मधुकैटभयोः पुत्रो धुन्धुर्नाम सुदारुणः ||१६||
अन्तर्भूमिगतो राजन्वसत्यमितविक्रमः |
तं निहत्य महाराज वनं त्वं गन्तुमर्हसि ||१७||
शेते लोकविनाशाय तप आस्थाय दारुणम् |
त्रिदशानां विनाशाय लोकानां चापि पार्थिव ||१८||
अवध्यो देवतानां स दैत्यानामथ रक्षसाम् |
नागानामथ यक्षाणां गन्धर्वाणां च सर्वशः ||१९||
अवाप्य स वरं राजन्सर्वलोकपितामहात् ||१९||
तं विनाशय भद्रं ते मा ते बुद्धिरतोऽन्यथा |
प्राप्स्यसे महतीं कीर्तिं शाश्वतीमव्ययां ध्रुवाम् ||२०||
क्रूरस्य स्वपतस्तस्य वालुकान्तर्हितस्य वै |
संवत्सरस्य पर्यन्ते निःश्वासः सम्प्रवर्तते ||२१||
यदा तदा भूश्चलति सशैलवनकानना ||२१||
तस्य निःश्वासवातेन रज उद्धूयते महत् |
आदित्यपथमावृत्य सप्ताहं भूमिकम्पनम् ||२२||
सविस्फुलिङ्गं सज्वालं सधूमं ह्यतिदारुणम् ||२२||
तेन राजन्न शक्नोमि तस्मिन्स्थातुं स्व आश्रमे |
तं विनाशय राजेन्द्र लोकानां हितकाम्यया ||२३||
लोकाः स्वस्था भवन्त्वद्य तस्मिन्विनिहतेऽसुरे ||२३||
त्वं हि तस्य विनाशाय पर्याप्त इति मे मतिः |
तेजसा तव तेजश्च विष्णुराप्याययिष्यति ||२४||
विष्णुना च वरो दत्तो मम पूर्वं ततो वधे |
यस्तं महासुरं रौद्रं वधिष्यति महीपतिः ||२५||
तेजस्तं वैष्णवमिति प्रवेक्ष्यति दुरासदम् ||२५||
तत्तेजस्त्वं समाधाय राजेन्द्र भुवि दुःसहम् |
तं निषूदय संदुष्टं दैत्यं रौद्रपराक्रमम् ||२६||
न हि धुन्धुर्महातेजास्तेजसाल्पेन शक्यते |
निर्दग्धुं पृथिवीपाल स हि वर्षशतैरपि ||२७||
१९४
मार्कण्डेय उवाच||
स एवमुक्तो राजर्षिरुत्तङ्केनापराजितः |
उत्तङ्कं कौरवश्रेष्ठ कृताञ्जलिरथाब्रवीत् ||१||
न तेऽभिगमनं ब्रह्मन्मोघमेतद्भविष्यति |
पुत्रो ममायं भगवन्कुवलाश्व इति स्मृतः ||२||
धृतिमान्क्षिप्रकारी च वीर्येणाप्रतिमो भुवि |
प्रियं वै सर्वमेतत्ते करिष्यति न संशयः ||३||
पुत्रैः परिवृतः सर्वैः शूरैः परिघबाहुभिः |
विसर्जयस्व मां ब्रह्मन्न्यस्तशस्त्रोऽस्मि साम्प्रतम् ||४||
तथास्त्विति च तेनोक्तो मुनिनामिततेजसा |
स तमादिश्य तनयमुत्तङ्काय महात्मने ||५||
क्रियतामिति राजर्षिर्जगाम वनमुत्तमम् ||५||
युधिष्ठिर उवाच||
क एष भगवन्दैत्यो महावीर्यस्तपोधन |
कस्य पुत्रोऽथ नप्ता वा एतदिच्छामि वेदितुम् ||६||
एवं महाबलो दैत्यो न श्रुतो मे तपोधन |
एतदिच्छामि भगवन्याथातथ्येन वेदितुम् ||७||
सर्वमेव महाप्राज्ञ विस्तरेण तपोधन ||७||
मार्कण्डेय उवाच||
शृणु राजन्निदं सर्वं यथावृत्तं नराधिप |
एकार्णवे तदा घोरे नष्टे स्थावरजङ्गमे ||८||
प्रनष्टेषु च भूतेषु सर्वेषु भरतर्षभ ||८||
प्रभवः सर्वभूतानां शाश्वतः पुरुषोऽव्ययः |
सुष्वाप भगवान्विष्णुरप्शय्यामेक एव ह ||९||
नागस्य भोगे महति शेषस्यामिततेजसः ||९||
लोककर्ता महाभाग भगवानच्युतो हरिः |
नागभोगेन महता परिरभ्य महीमिमाम् ||१०||
स्वपतस्तस्य देवस्य पद्मं सूर्यसमप्रभम् |
नाभ्यां विनिःसृतं तत्र यत्रोत्पन्नः पितामहः ||११||
साक्षाल्लोकगुरुर्ब्रह्मा पद्मे सूर्येन्दुसप्रभे ||११||
चतुर्वेदश्चतुर्मूर्तिस्तथैव च चतुर्मुखः |
स्वप्रभावाद्दुराधर्षो महाबलपराक्रमः ||१२||
कस्यचित्त्वथ कालस्य दानवौ वीर्यवत्तरौ |
मधुश्च कैटभश्चैव दृष्टवन्तौ हरिं प्रभुम् ||१३||
शयानं शयने दिव्ये नागभोगे महाद्युतिम् |
बहुयोजनविस्तीर्णे बहुयोजनमायते ||१४||
किरीटकौस्तुभधरं पीतकौशेयवाससम् |
दीप्यमानं श्रिया राजंस्तेजसा वपुषा तथा ||१५||
सहस्रसूर्यप्रतिममद्भुतोपमदर्शनम् ||१५||
विस्मयः सुमहानासीन्मधुकैटभयोस्तदा |
दृष्ट्वा पितामहं चैव पद्मे पद्मनिभेक्षणम् ||१६||
वित्रासयेतामथ तौ ब्रह्माणममितौजसम् |
वित्रास्यमानो बहुशो ब्रह्मा ताभ्यां महायशाः ||१७||
अकम्पयत्पद्मनालं ततोऽबुध्यत केशवः ||१७||
अथापश्यत गोविन्दो दानवौ वीर्यवत्तरौ |
दृष्ट्वा तावब्रवीद्देवः स्वागतं वां महाबलौ ||१८||
ददानि वां वरं श्रेष्ठं प्रीतिर्हि मम जायते ||१८||
तौ प्रहस्य हृषीकेशं महावीर्यौ महासुरौ |
प्रत्यब्रूतां महाराज सहितौ मधुसूदनम् ||१९||
आवां वरय देव त्वं वरदौ स्वः सुरोत्तम |
दातारौ स्वो वरं तुभ्यं तद्ब्रवीह्यविचारयन् ||२०||
भगवानुवाच||
प्रतिगृह्णे वरं वीरावीप्सितश्च वरो मम |
युवां हि वीर्यसम्पन्नौ न वामस्ति समः पुमान् ||२१||
वध्यत्वमुपगच्छेतां मम सत्यपराक्रमौ |
एतदिच्छाम्यहं कामं प्राप्तुं लोकहिताय वै ||२२||
मधुकैटभावूचतुः||
अनृतं नोक्तपूर्वं नौ स्वैरेष्वपि कुतोऽन्यथा |
सत्ये धर्मे च निरतौ विद्ध्यावां पुरुषोत्तम ||२३||
बले रूपे च वीर्ये च शमे च न समोऽस्ति नौ |
धर्मे तपसि दाने च शीलसत्त्वदमेषु च ||२४||
उपप्लवो महानस्मानुपावर्तत केशव |
उक्तं प्रतिकुरुष्व त्वं कालो हि दुरतिक्रमः ||२५||
आवामिच्छावहे देव कृतमेकं त्वया विभो |
अनावृतेऽस्मिन्नाकाशे वधं सुरवरोत्तम ||२६||
पुत्रत्वमभिगच्छाव तव चैव सुलोचन |
वर एष वृतो देव तद्विद्धि सुरसत्तम ||२७||
भगवानुवाच||
बाढमेवं करिष्यामि सर्वमेतद्भविष्यति |
मार्कण्डेय उवाच||
विचिन्त्य त्वथ गोविन्दो नापश्यद्यदनावृतम् |
अवकाशं पृथिव्यां वा दिवि वा मधुसूदनः ||२९||
स्वकावनावृतावूरू दृष्ट्वा देववरस्तदा |
मधुकैटभयो राजञ्शिरसी मधुसूदनः ||३०||
चक्रेण शितधारेण न्यकृन्तत महायशाः ||३०||
१९५
मार्कण्डेय उवाच||
धुन्धुर्नाम महातेजास्तयोः पुत्रो महाद्युतिः |
स तपोऽतप्यत महन्महावीर्यपराक्रमः ||१||
अतिष्ठदेकपादेन कृशो धमनिसन्ततः |
तस्मै ब्रह्मा ददौ प्रीतो वरं वव्रे स च प्रभो ||२||
देवदानवयक्षाणां सर्पगन्धर्वरक्षसाम् |
अवध्योऽहं भवेयं वै वर एष वृतो मया ||३||
एवं भवतु गच्छेति तमुवाच पितामहः |
स एवमुक्तस्तत्पादौ मूर्ध्ना स्पृश्य जगाम ह ||४||
स तु धुन्धुर्वरं लब्ध्वा महावीर्यपराक्रमः |
अनुस्मरन्पितृवधं ततो विष्णुमुपाद्रवत् ||५||
स तु देवान्सगन्धर्वाञ्जित्वा धुन्धुरमर्षणः |
बबाध सर्वानसकृद्देवान्विष्णुं च वै भृशम् ||६||
समुद्रो वालुकापूर्ण उज्जानक इति स्मृतः |
आगम्य च स दुष्टात्मा तं देशं भरतर्षभ ||७||
बाधते स्म परं शक्त्या तमुत्तङ्काश्रमं प्रभो ||७||
अन्तर्भूमिगतस्तत्र वालुकान्तर्हितस्तदा |
मधुकैटभयोः पुत्रो धुन्धुर्भीमपराक्रमः ||८||
शेते लोकविनाशाय तपोबलसमाश्रितः |
उत्तङ्कस्याश्रमाभ्याशे निःश्वसन्पावकार्चिषः ||९||
एतस्मिन्नेव काले तु सभृत्यबलवाहनः |
कुवलाश्वो नरपतिरन्वितो बलशालिनाम् ||१०||
सहस्रैरेकविंशत्या पुत्राणामरिमर्दनः |
प्रायादुत्तङ्कसहितो धुन्धोस्तस्य निवेशनम् ||११||
तमाविशत्ततो विष्णुर्भगवांस्तेजसा प्रभुः |
उत्तङ्कस्य नियोगेन लोकानां हितकाम्यया ||१२||
तस्मिन्प्रयाते दुर्धर्षे दिवि शब्दो महानभूत् |
एष श्रीमान्नृपसुतो धुन्धुमारो भविष्यति ||१३||
दिव्यैश्च पुष्पैस्तं देवाः समन्तात्पर्यवाकिरन् |
देवदुन्दुभयश्चैव नेदुः स्वयमुदीरिताः ||१४||
शीतश्च वायुः प्रववौ प्रयाणे तस्य धीमतः |
विपांसुलां महीं कुर्वन्ववर्ष च सुरेश्वरः ||१५||
अन्तरिक्षे विमानानि देवतानां युधिष्ठिर |
तत्रैव समदृश्यन्त धुन्धुर्यत्र महासुरः ||१६||
कुवलाश्वस्य धुन्धोश्च युद्धकौतूहलान्विताः |
देवगन्धर्वसहिताः समवैक्षन्महर्षयः ||१७||
नारायणेन कौरव्य तेजसाप्यायितस्तदा |
स गतो नृपतिः क्षिप्रं पुत्रैस्तैः सर्वतोदिशम् ||१८||
अर्णवं खानयामास कुवलाश्वो महीपतिः |
कुवलाश्वस्य पुत्रैस्तु तस्मिन्वै वालुकार्णवे ||१९||
सप्तभिर्दिवसैः खात्वा दृष्टो धुन्धुर्महाबलः |
आसीद्घोरं वपुस्तस्य वालुकान्तर्हितं महत् ||२०||
दीप्यमानं यथा सूर्यस्तेजसा भरतर्षभ ||२०||
ततो धुन्धुर्महाराज दिशमाश्रित्य पश्चिमाम् |
सुप्तोऽभूद्राजशार्दूल कालानलसमद्युतिः ||२१||
कुवलाश्वस्य पुत्रैस्तु सर्वतः परिवारितः |
अभिद्रुतः शरैस्तीक्ष्णैर्गदाभिर्मुसलैरपि ||२२||
पट्टिशैः परिघैः प्रासैः खड्गैश्च विमलैः शितैः ||२२||
स वध्यमानः सङ्क्रुद्धः समुत्तस्थौ महाबलः |
क्रुद्धश्चाभक्षयत्तेषां शस्त्राणि विविधानि च ||२३||
आस्याद्वमन्पावकं स संवर्तकसमं तदा |
तान्सर्वान्नृपतेः पुत्रानदहत्स्वेन तेजसा ||२४||
मुखजेनाग्निना क्रुद्धो लोकानुद्वर्तयन्निव |
क्षणेन राजशार्दूल पुरेव कपिलः प्रभुः ||२५||
सगरस्यात्मजान्क्रुद्धस्तदद्भुतमिवाभवत् ||२५||
तेषु क्रोधाग्निदग्धेषु तदा भरतसत्तम |
तं प्रबुद्धं महात्मानं कुम्भकर्णमिवापरम् ||२६||
आससाद महातेजाः कुवलाश्वो महीपतिः ||२६||
तस्य वारि महाराज सुस्राव बहु देहतः |
तदापीयत तत्तेजो राजा वारिमयं नृप ||२७||
योगी योगेन वह्निं च शमयामास वारिणा ||२७||
ब्रह्मास्त्रेण तदा राजा दैत्यं क्रूरपराक्रमम् |
ददाह भरतश्रेष्ठ सर्वलोकाभयाय वै ||२८||
सोऽस्त्रेण दग्ध्वा राजर्षिः कुवलाश्वो महासुरम् |
सुरशत्रुममित्रघ्नस्त्रिलोकेश इवापरः ||२९||
धुन्धुमार इति ख्यातो नाम्ना समभवत्ततः ||२९||
प्रीतैश्च त्रिदशैः सर्वैर्महर्षिसहितैस्तदा |
वरं वृणीष्वेत्युक्तः स प्राञ्जलिः प्रणतस्तदा ||३०||
अतीव मुदितो राजन्निदं वचनमब्रवीत् ||३०||
दद्यां वित्तं द्विजाग्र्येभ्यः शत्रूणां चापि दुर्जयः |
सख्यं च विष्णुना मे स्याद्भूतेष्वद्रोह एव च ||३१||
धर्मे रतिश्च सततं स्वर्गे वासस्तथाक्षयः ||३१||
तथास्त्विति ततो देवैः प्रीतैरुक्तः स पार्थिवः |
ऋषिभिश्च सगन्धर्वैरुत्तङ्केन च धीमता ||३२||
सभाज्य चैनं विविधैराशीर्वादैस्ततो नृपम् |
देवा महर्षयश्चैव स्वानि स्थानानि भेजिरे ||३३||
तस्य पुत्रास्त्रयः शिष्टा युधिष्ठिर तदाभवन् |
दृढाश्वः कपिलाश्वश्च चन्द्राश्वश्चैव भारत ||३४||
तेभ्यः परम्परा राजन्निक्ष्वाकूणां महात्मनाम् ||३४||
एवं स निहतस्तेन कुवलाश्वेन सत्तम |
धुन्धुर्दैत्यो महावीर्यो मधुकैटभयोः सुतः ||३५||
कुवलाश्वस्तु नृपतिर्धुन्धुमार इति स्मृतः |
नाम्ना च गुणसंयुक्तस्तदा प्रभृति सोऽभवत् ||३६||
एतत्ते सर्वमाख्यातं यन्मां त्वं परिपृच्छसि |
धौन्धुमारमुपाख्यानं प्रथितं यस्य कर्मणा ||३७||
इदं तु पुण्यमाख्यानं विष्णोः समनुकीर्तनम् |
शृणुयाद्यः स धर्मात्मा पुत्रवांश्च भवेन्नरः ||३८||
आयुष्मान्धृतिमांश्चैव श्रुत्वा भवति पर्वसु |
न च व्याधिभयं किञ्चित्प्राप्नोति विगतज्वरः ||३९||
पतिव्रतोपाख्यानम्
१९६
वैशम्पायन उवाच||
ततो युधिष्ठिरो राजा मार्कण्डेयं महाद्युतिम् |
पप्रच्छ भरतश्रेष्ठो धर्मप्रश्नं सुदुर्वचम् ||१||
श्रोतुमिच्छामि भगवन्स्त्रीणां माहात्म्यमुत्तमम् |
कथ्यमानं त्वया विप्र सूक्ष्मं धर्मं च तत्त्वतः ||२||
प्रत्यक्षेण हि विप्रर्षे देवा दृश्यन्ति सत्तम |
सूर्याचन्द्रमसौ वायुः पृथिवी वह्निरेव च ||३||
पिता माता च भगवन्गाव एव च सत्तम |
यच्चान्यदेव विहितं तच्चापि भृगुनन्दन ||४||
मन्येऽहं गुरुवत्सर्वमेकपत्न्यस्तथा स्त्रियः |
पतिव्रतानां शुश्रूषा दुष्करा प्रतिभाति मे ||५||
पतिव्रतानां माहात्म्यं वक्तुमर्हसि नः प्रभो |
निरुध्य चेन्द्रियग्रामं मनः संरुध्य चानघ ||६||
पतिं दैवतवच्चापि चिन्तयन्त्यः स्थिता हि याः ||६||
भगवन्दुष्करं ह्येतत्प्रतिभाति मम प्रभो |
मातापितृषु शुश्रूषा स्त्रीणां भर्तृषु च द्विज ||७||
स्त्रीणां धर्मात्सुघोराद्धि नान्यं पश्यामि दुष्करम् |
साध्वाचाराः स्त्रियो ब्रह्मन्यत्कुर्वन्ति सदादृताः ||८||
दुष्करं बत कुर्वन्ति पितरो मातरश्च वै ||८||
एकपत्न्यश्च या नार्यो याश्च सत्यं वदन्त्युत |
कुक्षिणा दश मासांश्च गर्भं सन्धारयन्ति याः ||९||
नार्यः कालेन सम्भूय किमद्भुततरं ततः ||९||
संशयं परमं प्राप्य वेदनामतुलामपि |
प्रजायन्ते सुतान्नार्यो दुःखेन महता विभो ||१०||
पुष्णन्ति चापि महता स्नेहेन द्विजसत्तम ||१०||
ये च क्रूरेषु सर्वेषु वर्तमाना जुगुप्सिताः |
स्वकर्म कुर्वन्ति सदा दुष्करं तच्च मे मतम् ||११||
क्षत्रधर्मसमाचारं तथ्यं चाख्याहि मे द्विज |
धर्मः सुदुर्लभो विप्र नृशंसेन दुरात्मना ||१२||
एतदिच्छामि भगवन्प्रश्नं प्रश्नविदां वर |
श्रोतुं भृगुकुलश्रेष्ठ शुश्रूषे तव सुव्रत ||१३||
मार्कण्डेय उवाच||
हन्त ते सर्वमाख्यास्ये प्रश्नमेतं सुदुर्वचम् |
तत्त्वेन भरतश्रेष्ठ गदतस्तन्निबोध मे ||१४||
मातरं सदृशीं तात पितॄनन्ये च मन्यते |
दुष्करं कुरुते माता विवर्धयति या प्रजाः ||१५||
तपसा देवतेज्याभिर्वन्दनेन तितिक्षया |
अभिचारैरुपायैश्च ईहन्ते पितरः सुतान् ||१६||
एवं कृच्छ्रेण महता पुत्रं प्राप्य सुदुर्लभम् |
चिन्तयन्ति सदा वीर कीदृशोऽयं भविष्यति ||१७||
आशंसते च पुत्रेषु पिता माता च भारत |
यशः कीर्तिमथैश्वर्यं प्रजा धर्मं तथैव च ||१८||
तयोराशां तु सफलां यः करोति स धर्मवित् |
पिता माता च राजेन्द्र तुष्यतो यस्य नित्यदा ||१९||
इह प्रेत्य च तस्याथ कीर्तिर्धर्मश्च शाश्वतः ||१९||
नैव यज्ञः स्त्रियः कश्चिन्न श्राद्धं नोपवासकम् |
या तु भर्तरि शुश्रूषा तया स्वर्गमुपाश्नुते ||२०||
एतत्प्रकरणं राजन्नधिकृत्य युधिष्ठिर |
प्रतिव्रतानां नियतं धर्मं चावहितः शृणु ||२१||
१९७
मार्कण्डेय उवाच||
कश्चिद्द्विजातिप्रवरो वेदाध्यायी तपोधनः |
तपस्वी धर्मशीलश्च कौशिको नाम भारत ||१||
साङ्गोपनिषदान्वेदानधीते द्विजसत्तमः |
स वृक्षमूले कस्मिंश्चिद्वेदानुच्चारयन्स्थितः ||२||
उपरिष्टाच्च वृक्षस्य बलाका संन्यलीयत |
तया पुरीषमुत्सृष्टं ब्राह्मणस्य तदोपरि ||३||
तामवेक्ष्य ततः क्रुद्धः समपध्यायत द्विजः |
भृशं क्रोधाभिभूतेन बलाका सा निरीक्षिता ||४||
अपध्याता च विप्रेण न्यपतद्वसुधातले |
बलाकां पतितां दृष्ट्वा गतसत्त्वामचेतनाम् ||५||
कारुण्यादभिसन्तप्तः पर्यशोचत तां द्विजः ||५||
अकार्यं कृतवानस्मि रागद्वेषबलात्कृतः |
इत्युक्त्वा बहुशो विद्वान्ग्रामं भैक्षाय संश्रितः ||६||
ग्रामे शुचीनि प्रचरन्कुलानि भरतर्षभ |
प्रविष्टस्तत्कुलं यत्र पूर्वं चरितवांस्तु सः ||७||
देहीति याचमानो वै तिष्ठेत्युक्तः स्त्रिया ततः |
शौचं तु यावत्कुरुते भाजनस्य कुटुम्बिनी ||८||
एतस्मिन्नन्तरे राजन्क्षुधासम्पीडितो भृशम् |
भर्ता प्रविष्टः सहसा तस्या भरतसत्तम ||९||
सा तु दृष्ट्वा पतिं साध्वी ब्राह्मणं व्यपहाय तम् |
पाद्यमाचमनीयं च ददौ भर्त्रे तथासनम् ||१०||
प्रह्वा पर्यचरच्चापि भर्तारमसितेक्षणा |
आहारेणाथ भक्ष्यैश्च वाक्यैः सुमधुरैस्तथा ||११||
उच्छिष्टं भुञ्जते भर्तुः सा तु नित्यं युधिष्ठिर |
दैवतं च पतिं मेने भर्तुश्चित्तानुसारिणी ||१२||
न कर्मणा न मनसा नात्यश्नान्नापि चापिबत् |
तं सर्वभावोपगता पतिशुश्रूषणे रता ||१३||
साध्वाचारा शुचिर्दक्षा कुटुम्बस्य हितैषिणी |
भर्तुश्चापि हितं यत्तत्सततं सानुवर्तते ||१४||
देवतातिथिभृत्यानां श्वश्रूश्वशुरयोस्तथा |
शुश्रूषणपरा नित्यं सततं संयतेन्द्रिया ||१५||
सा ब्राह्मणं तदा दृष्ट्वा संस्थितं भैक्षकाङ्क्षिणम् |
कुर्वती पतिशुश्रूषां सस्माराथ शुभेक्षणा ||१६||
व्रीडिता साभवत्साध्वी तदा भरतसत्तम |
भिक्षामादाय विप्राय निर्जगाम यशस्विनी ||१७||
ब्राह्मण उवाच||
किमिदं भवति त्वं मां तिष्ठेत्युक्त्वा वराङ्गने |
उपरोधं कृतवती न विसर्जितवत्यसि ||१८||
मार्कण्डेय उवाच||
ब्राह्मणं क्रोधसन्तप्तं ज्वलन्तमिव तेजसा |
दृष्ट्वा साध्वी मनुष्येन्द्र सान्त्वपूर्वं वचोऽब्रवीत् ||१९||
क्षन्तुमर्हसि मे विप्र भर्ता मे दैवतं महत् |
स चापि क्षुधितः श्रान्तः प्राप्तः शुश्रूषितो मया ||२०||
ब्राह्मण उवाच||
ब्राह्मणा न गरीयांसो गरीयांस्ते पतिः कृतः |
गृहस्थधर्मे वर्तन्ती ब्राह्मणानवमन्यसे ||२१||
इन्द्रोऽप्येषां प्रणमते किं पुनर्मानुषा भुवि |
अवलिप्ते न जानीषे वृद्धानां न श्रुतं त्वया ||२२||
ब्राह्मणा ह्यग्निसदृशा दहेयुः पृथिवीमपि ||२२||
स्त्र्युवाच||
नावजानाम्यहं विप्रान्देवैस्तुल्यान्मनस्विनः |
अपराधमिमं विप्र क्षन्तुमर्हसि मेऽनघ ||२३||
जानामि तेजो विप्राणां महाभाग्यं च धीमताम् |
अपेयः सागरः क्रोधात्कृतो हि लवणोदकः ||२४||
तथैव दीप्ततपसां मुनीनां भावितात्मनाम् |
येषां क्रोधाग्निरद्यापि दण्डके नोपशाम्यति ||२५||
ब्राह्मणानां परिभवाद्वातापिश्च दुरात्मवान् |
अगस्त्यमृषिमासाद्य जीर्णः क्रूरो महासुरः ||२६||
प्रभावा बहवश्चापि श्रूयन्ते ब्रह्मवादिनाम् |
क्रोधः सुविपुलो ब्रह्मन्प्रसादश्च महात्मनाम् ||२७||
अस्मिंस्त्वतिक्रमे ब्रह्मन्क्षन्तुमर्हसि मेऽनघ |
पतिशुश्रूषया धर्मो यः स मे रोचते द्विज ||२८||
दैवतेष्वपि सर्वेषु भर्ता मे दैवतं परम् |
अविशेषेण तस्याहं कुर्यां धर्मं द्विजोत्तम ||२९||
शुश्रूषायाः फलं पश्य पत्युर्ब्राह्मण यादृशम् |
बलाका हि त्वया दग्धा रोषात्तद्विदितं मम ||३०||
क्रोधः शत्रुः शरीरस्थो मनुष्याणां द्विजोत्तम |
यः क्रोधमोहौ त्यजति तं देवा ब्राह्मणं विदुः ||३१||
यो वदेदिह सत्यानि गुरुं सन्तोषयेत च |
हिंसितश्च न हिंसेत तं देवा ब्राह्मणं विदुः ||३२||
जितेन्द्रियो धर्मपरः स्वाध्यायनिरतः शुचिः |
कामक्रोधौ वशे यस्य तं देवा ब्राह्मणं विदुः ||३३||
यस्य चात्मसमो लोको धर्मज्ञस्य मनस्विनः |
सर्वधर्मेषु च रतस्तं देवा ब्राह्मणं विदुः ||३४||
योऽध्यापयेदधीयीत यजेद्वा याजयीत वा |
दद्याद्वापि यथाशक्ति तं देवा ब्राह्मणं विदुः ||३५||
ब्रह्मचारी च वेदान्यो अधीयीत द्विजोत्तमः |
स्वाध्याये चाप्रमत्तो वै तं देवा ब्राह्मणं विदुः ||३६||
यद्ब्राह्मणानां कुशलं तदेषां परिकीर्तयेत् |
सत्यं तथा व्याहरतां नानृते रमते मनः ||३७||
धनं तु ब्राह्मणस्याहुः स्वाध्यायं दममार्जवम् |
इन्द्रियाणां निग्रहं च शाश्वतं द्विजसत्तम ||३८||
सत्यार्जवे धर्ममाहुः परं धर्मविदो जनाः ||३८||
दुर्ज्ञेयः शाश्वतो धर्मः स तु सत्ये प्रतिष्ठितः |
श्रुतिप्रमाणो धर्मः स्यादिति वृद्धानुशासनम् ||३९||
बहुधा दृश्यते धर्मः सूक्ष्म एव द्विजोत्तम |
भवानपि च धर्मज्ञः स्वाध्यायनिरतः शुचिः ||४०||
न तु तत्त्वेन भगवन्धर्मान्वेत्सीति मे मतिः ||४०||
मातापितृभ्यां शुश्रूषुः सत्यवादी जितेन्द्रियः |
मिथिलायां वसन्व्याधः स ते धर्मान्प्रवक्ष्यति ||४१||
तत्र गच्छस्व भद्रं ते यथाकामं द्विजोत्तम ||४१||
अत्युक्तमपि मे सर्वं क्षन्तुमर्हस्यनिन्दित |
स्त्रियो ह्यवध्याः सर्वेषां ये धर्मविदुषो जनाः ||४२||
ब्राह्मण उवाच||
प्रीतोऽस्मि तव भद्रं ते गतः क्रोधश्च शोभने |
उपालम्भस्त्वया ह्युक्तो मम निःश्रेयसं परम् ||४३||
स्वस्ति तेऽस्तु गमिष्यामि साधयिष्यामि शोभने ||४३||
मार्कण्डेय उवाच||
तया विसृष्टो निर्गम्य स्वमेव भवनं ययौ |
विनिन्दन्स द्विजोऽऽत्मानं कौशिको नरसत्तम ||४४||
ब्राह्मणव्याधसंवादः
१९८
मार्कण्डेय उवाच||
चिन्तयित्वा तदाश्चर्यं स्त्रिया प्रोक्तमशेषतः |
विनिन्दन्स द्विजोऽऽत्मानमागस्कृत इवाबभौ ||१||
चिन्तयानः स धर्मस्य सूक्ष्मां गतिमथाब्रवीत् |
श्रद्दधानेन भाव्यं वै गच्छामि मिथिलामहम् ||२||
कृतात्मा धर्मवित्तस्यां व्याधो निवसते किल |
तं गच्छाम्यहमद्यैव धर्मं प्रष्टुं तपोधनम् ||३||
इति सञ्चिन्त्य मनसा श्रद्दधानः स्त्रिया वचः |
बलाकाप्रत्ययेनासौ धर्म्यैश्च वचनैः शुभैः ||४||
सम्प्रतस्थे स मिथिलां कौतूहलसमन्वितः ||४||
अतिक्रामन्नरण्यानि ग्रामांश्च नगराणि च |
ततो जगाम मिथिलां जनकेन सुरक्षिताम् ||५||
धर्मसेतुसमाकीर्णां यज्ञोत्सववतीं शुभाम् |
गोपुराट्टालकवतीं गृहप्राकारशोभिताम् ||६||
प्रविश्य स पुरीं रम्यां विमानैर्बहुभिर्वृताम् |
पण्यैश्च बहुभिर्युक्तां सुविभक्तमहापथाम् ||७||
अश्वै रथैस्तथा नागैर्यानैश्च बहुभिर्वृताम् |
हृष्टपुष्टजनाकीर्णां नित्योत्सवसमाकुलाम् ||८||
सोऽपश्यद्बहुवृत्तान्तां ब्राह्मणः समतिक्रमन् |
धर्मव्याधमपृच्छच्च स चास्य कथितो द्विजैः ||९||
अपश्यत्तत्र गत्वा तं सूनामध्ये व्यवस्थितम् |
मार्गमाहिषमांसानि विक्रीणन्तं तपस्विनम् ||१०||
आकुलत्वात्तु क्रेतॄणामेकान्ते संस्थितो द्विजः ||१०||
स तु ज्ञात्वा द्विजं प्राप्तं सहसा सम्भ्रमोत्थितः |
आजगाम यतो विप्रः स्थित एकान्त आसने ||११||
व्याध उवाच||
अभिवादये त्वा भगवन्स्वागतं ते द्विजोत्तम |
अहं व्याधस्तु भद्रं ते किं करोमि प्रशाधि माम् ||१२||
एकपत्न्या यदुक्तोऽसि गच्छ त्वं मिथिलामिति |
जानाम्येतदहं सर्वं यदर्थं त्वमिहागतः ||१३||
मार्कण्डेय उवाच||
श्रुत्वा तु तस्य तद्वाक्यं स विप्रो भृशहर्षितः |
द्वितीयमिदमाश्चर्यमित्यचिन्तयत द्विजः ||१४||
अदेशस्थं हि ते स्थानमिति व्याधोऽब्रवीद्द्विजम् |
गृहं गच्छाव भगवन्यदि रोचयसेऽनघ ||१५||
बाढमित्येव संहृष्टो विप्रो वचनमब्रवीत् |
अग्रतस्तु द्विजं कृत्वा स जगाम गृहान्प्रति ||१६||
प्रविश्य च गृहं रम्यमासनेनाभिपूजितः |
पाद्यमाचमनीयं च प्रतिगृह्य द्विजोत्तमः ||१७||
ततः सुखोपविष्टस्तं व्याधं वचनमब्रवीत् |
कर्मैतद्वै न सदृशं भवतः प्रतिभाति मे ||१८||
अनुतप्ये भृशं तात तव घोरेण कर्मणा ||१८||
व्याध उवाच||
कुलोचितमिदं कर्म पितृपैतामहं मम |
वर्तमानस्य मे धर्मे स्वे मन्युं मा कृथा द्विज ||१९||
धात्रा तु विहितं पूर्वं कर्म स्वं पालयाम्यहम् |
प्रयत्नाच्च गुरू वृद्धौ शुश्रूषेऽहं द्विजोत्तम ||२०||
सत्यं वदे नाभ्यसूये यथाशक्ति ददामि च |
देवतातिथिभृत्यानामवशिष्टेन वर्तये ||२१||
न कुत्सयाम्यहं किञ्चिन्न गर्हे बलवत्तरम् |
कृतमन्वेति कर्तारं पुरा कर्म द्विजोत्तम ||२२||
कृषिगोरक्ष्यवाणिज्यमिह लोकस्य जीवनम् |
दण्डनीतिस्त्रयी विद्या तेन लोका भवन्त्युत ||२३||
कर्म शूद्रे कृषिर्वैश्ये सङ्ग्रामः क्षत्रिये स्मृतः |
ब्रह्मचर्यं तपो मन्त्राः सत्यं च ब्राह्मणे सदा ||२४||
राजा प्रशास्ति धर्मेण स्वकर्मनिरताः प्रजाः |
विकर्माणश्च ये केचित्तान्युनक्ति स्वकर्मसु ||२५||
भेतव्यं हि सदा राज्ञां प्रजानामधिपा हि ते |
मारयन्ति विकर्मस्थं लुब्धा मृगमिवेषुभिः ||२६||
जनकस्येह विप्रर्षे विकर्मस्थो न विद्यते |
स्वकर्मनिरता वर्णाश्चत्वारोऽपि द्विजोत्तम ||२७||
स एष जनको राजा दुर्वृत्तमपि चेत्सुतम् |
दण्ड्यं दण्डे निक्षिपति तथा न ग्लाति धार्मिकम् ||२८||
सुयुक्तचारो नृपतिः सर्वं धर्मेण पश्यति |
श्रीश्च राज्यं च दण्डश्च क्षत्रियाणां द्विजोत्तम ||२९||
राजानो हि स्वधर्मेण श्रियमिच्छन्ति भूयसीम् |
सर्वेषामेव वर्णानां त्राता राजा भवत्युत ||३०||
परेण हि हतान्ब्रह्मन्वराहमहिषानहम् |
न स्वयं हन्मि विप्रर्षे विक्रीणामि सदा त्वहम् ||३१||
न भक्षयामि मांसानि ऋतुगामी तथा ह्यहम् |
सदोपवासी च तथा नक्तभोजी तथा द्विज ||३२||
अशीलश्चापि पुरुषो भूत्वा भवति शीलवान् |
प्राणिहिंसारतश्चापि भवते धार्मिकः पुनः ||३३||
व्यभिचारान्नरेन्द्राणां धर्मः सङ्कीर्यते महान् |
अधर्मो वर्धते चापि सङ्कीर्यन्ते तथा प्रजाः ||३४||
उरुण्डा वामनाः कुब्जाः स्थूलशीर्षास्तथैव च |
क्लीबाश्चान्धाश्च जायन्ते बधिरा लम्बचूचुकाः ||३५||
पार्थिवानामधर्मत्वात्प्रजानामभवः सदा ||३५||
स एष राजा जनकः सर्वं धर्मेण पश्यति |
अनुगृह्णन्प्रजाः सर्वाः स्वधर्मनिरताः सदा ||३६||
ये चैव मां प्रशंसन्ति ये च निन्दन्ति मानवाः |
सर्वान्सुपरिणीतेन कर्मणा तोषयाम्यहम् ||३७||
ये जीवन्ति स्वधर्मेण सम्भुञ्जन्ते च पार्थिवाः |
न किञ्चिदुपजीवन्ति दक्षा उत्थानशीलिनः ||३८||
शक्त्यान्नदानं सततं तितिक्षा धर्मनित्यता |
यथार्हं प्रतिपूजा च सर्वभूतेषु वै दया ||३९||
त्यागान्नान्यत्र मर्त्यानां गुणास्तिष्ठन्ति पूरुषे ||३९||
मृषावादं परिहरेत्कुर्यात्प्रियमयाचितः |
न च कामान्न संरम्भान्न द्वेषाद्धर्ममुत्सृजेत् ||४०||
प्रिये नातिभृशं हृष्येदप्रिये न च सञ्ज्वरेत् |
न मुह्येदर्थकृच्छ्रेषु न च धर्मं परित्यजेत् ||४१||
कर्म चेत्किञ्चिदन्यत्स्यादितरन्न समाचरेत् |
यत्कल्याणमभिध्यायेत्तत्रात्मानं नियोजयेत् ||४२||
न पापं प्रति पापः स्यात्साधुरेव सदा भवेत् |
आत्मनैव हतः पापो यः पापं कर्तुमिच्छति ||४३||
कर्म चैतदसाधूनां वृजिनानामसाधुवत् |
न धर्मोऽस्तीति मन्वानाः शुचीनवहसन्ति ये ||४४||
अश्रद्दधाना धर्मस्य ते नश्यन्ति न संशयः ||४४||
महादृतिरिवाध्मातः पापो भवति नित्यदा |
मूढानामवलिप्तानामसारं भाषितं भवेत् ||४५||
दर्शयत्यन्तरात्मानं दिवा रूपमिवांशुमान् ||४५||
न लोके राजते मूर्खः केवलात्मप्रशंसया |
अपि चेह मृजा हीनः कृतविद्यः प्रकाशते ||४६||
अब्रुवन्कस्यचिन्निन्दामात्मपूजामवर्णयन् |
न कश्चिद्गुणसम्पन्नः प्रकाशो भुवि दृश्यते ||४७||
विकर्मणा तप्यमानः पापाद्विपरिमुच्यते |
नैतत्कुर्यां पुनरिति द्वितीयात्परिमुच्यते ||४८||
कर्मणा येन तेनेह पापाद्द्विजवरोत्तम |
एवं श्रुतिरियं ब्रह्मन्धर्मेषु परिदृश्यते ||४९||
पापान्यबुद्ध्वेह पुरा कृतानि; प्राग्धर्मशीलो विनिहन्ति पश्चात् |
धर्मो ब्रह्मन्नुदते पूरुषाणां; यत्कुर्वते पापमिह प्रमादात् ||५०||
पापं कृत्वा हि मन्येत नाहमस्मीति पूरुषः |
चिकीर्षेदेव कल्याणं श्रद्दधानोऽनसूयकः ||५१||
वसनस्येव छिद्राणि साधूनां विवृणोति यः |
पापं चेत्पुरुषः कृत्वा कल्याणमभिपद्यते ||५२||
मुच्यते सर्वपापेभ्यो महाभ्रैरिव चन्द्रमाः ||५२||
यथादित्यः समुद्यन्वै तमः सर्वं व्यपोहति |
एवं कल्याणमातिष्ठन्सर्वपापैः प्रमुच्यते ||५३||
पापानां विद्ध्यधिष्ठानं लोभमेव द्विजोत्तम |
लुब्धाः पापं व्यवस्यन्ति नरा नातिबहुश्रुताः ||५४||
अधर्मा धर्मरूपेण तृणैः कूपा इवावृताः ||५४||
तेषां दमः पवित्राणि प्रलापा धर्मसंश्रिताः |
सर्वं हि विद्यते तेषु शिष्टाचारः सुदुर्लभः ||५५||
मार्कण्डेय उवाच||
स तु विप्रो महाप्राज्ञो धर्मव्याधमपृच्छत |
शिष्टाचारं कथमहं विद्यामिति नरोत्तम ||५६||
एतन्महामते व्याध प्रब्रवीहि यथातथम् ||५६||
व्याध उवाच||
यज्ञो दानं तपो वेदाः सत्यं च द्विजसत्तम |
पञ्चैतानि पवित्राणि शिष्टाचारेषु नित्यदा ||५७||
कामक्रोधौ वशे कृत्वा दम्भं लोभमनार्जवम् |
धर्म इत्येव सन्तुष्टास्ते शिष्टाः शिष्टसंमताः ||५८||
न तेषां विद्यतेऽवृत्तं यज्ञस्वाध्यायशीलिनाम् |
आचारपालनं चैव द्वितीयं शिष्टलक्षणम् ||५९||
गुरुशुश्रूषणं सत्यमक्रोधो दानमेव च |
एतच्चतुष्टयं ब्रह्मञ्शिष्टाचारेषु नित्यदा ||६०||
शिष्टाचारे मनः कृत्वा प्रतिष्ठाप्य च सर्वशः |
यामयं लभते तुष्टिं सा न शक्या ह्यतोऽन्यथा ||६१||
वेदस्योपनिषत्सत्यं सत्यस्योपनिषद्दमः |
दमस्योपनिषत्त्यागः शिष्टाचारेषु नित्यदा ||६२||
ये तु धर्ममसूयन्ते बुद्धिमोहान्विता नराः |
अपथा गच्छतां तेषामनुयातापि पीड्यते ||६३||
ये तु शिष्टाः सुनियताः श्रुतित्यागपरायणाः |
धर्म्यं पन्थानमारूढाः सत्यधर्मपरायणाः ||६४||
नियच्छन्ति परां बुद्धिं शिष्टाचारान्विता नराः |
उपाध्यायमते युक्ताः स्थित्या धर्मार्थदर्शिनः ||६५||
नास्तिकान्भिन्नमर्यादान्क्रूरान्पापमतौ स्थितान् |
त्यज ताञ्ज्ञानमाश्रित्य धार्मिकानुपसेव्य च ||६६||
कामलोभग्रहाकीर्णां पञ्चेन्द्रियजलां नदीम् |
नावं धृतिमयीं कृत्वा जन्मदुर्गाणि सन्तर ||६७||
क्रमेण सञ्चितो धर्मो बुद्धियोगमयो महान् |
शिष्टाचारे भवेत्साधू रागः शुक्लेव वाससि ||६८||
अहिंसा सत्यवचनं सर्वभूतहितं परम् |
अहिंसा परमो धर्मः स च सत्ये प्रतिष्ठितः ||६९||
सत्ये कृत्वा प्रतिष्ठां तु प्रवर्तन्ते प्रवृत्तयः ||६९||
सत्यमेव गरीयस्तु शिष्टाचारनिषेवितम् |
आचारश्च सतां धर्मः सन्तश्चाचारलक्षणाः ||७०||
यो यथाप्रकृतिर्जन्तुः स्वां स्वां प्रकृतिमश्नुते |
पापात्मा क्रोधकामादीन्दोषानाप्नोत्यनात्मवान् ||७१||
आरम्भो न्याययुक्तो यः स हि धर्म इति स्मृतः |
अनाचारस्त्वधर्मेति एतच्छिष्टानुशासनम् ||७२||
अक्रुध्यन्तोऽनसूयन्तो निरहङ्कारमत्सराः |
ऋजवः शमसम्पन्नाः शिष्टाचारा भवन्ति ते ||७३||
त्रैविद्यवृद्धाः शुचयो वृत्तवन्तो मनस्विनः |
गुरुशुश्रूषवो दान्ताः शिष्टाचारा भवन्त्युत ||७४||
तेषामदीनसत्त्वानां दुष्कराचारकर्मणाम् |
स्वैः कर्मभिः सत्कृतानां घोरत्वं सम्प्रणश्यति ||७५||
तं सदाचारमाश्चर्यं पुराणं शाश्वतं ध्रुवम् |
धर्मं धर्मेण पश्यन्तः स्वर्गं यान्ति मनीषिणः ||७६||
आस्तिका मानहीनाश्च द्विजातिजनपूजकाः |
श्रुतवृत्तोपसम्पन्नाः ते सन्तः स्वर्गगामिनः ||७७||
वेदोक्तः परमो धर्मो धर्मशास्त्रेषु चापरः |
शिष्टाचीर्णश्च शिष्टानां त्रिविधं धर्मलक्षणम् ||७८||
पारणं चापि विद्यानां तीर्थानामवगाहनम् |
क्षमा सत्यार्जवं शौचं शिष्टाचारनिदर्शनम् ||७९||
सर्वभूतदयावन्तो अहिंसानिरताः सदा |
परुषं न प्रभाषन्ते सदा सन्तो द्विजप्रियाः ||८०||
शुभानामशुभानां च कर्मणां फलसञ्चये |
विपाकमभिजानन्ति ते शिष्टाः शिष्टसंमताः ||८१||
न्यायोपेता गुणोपेताः सर्वलोकहितैषिणः |
सन्तः स्वर्गजितः शुक्लाः संनिविष्टाश्च सत्पथे ||८२||
दातारः संविभक्तारो दीनानुग्रहकारिणः |
सर्वभूतदयावन्तस्ते शिष्टाः शिष्टसंमताः ||८३||
सर्वपूज्याः श्रुतधनास्तथैव च तपस्विनः |
दाननित्याः सुखाँल्लोकानाप्नुवन्तीह च श्रियम् ||८४||
पीडया च कलत्रस्य भृत्यानां च समाहिताः |
अतिशक्त्या प्रयच्छन्ति सन्तः सद्भिः समागताः ||८५||
लोकयात्रां च पश्यन्तो धर्ममात्महितानि च |
एवं सन्तो वर्तमाना एधन्ते शाश्वतीः समाः ||८६||
अहिंसा सत्यवचनमानृशंस्यमथार्जवम् |
अद्रोहो नातिमानश्च ह्रीस्तितिक्षा दमः शमः ||८७||
धीमन्तो धृतिमन्तश्च भूतानामनुकम्पकाः |
अकामद्वेषसंयुक्तास्ते सन्तो लोकसत्कृताः ||८८||
त्रीण्येव तु पदान्याहुः सतां वृत्तमनुत्तमम् |
न द्रुह्येच्चैव दद्याच्च सत्यं चैव सदा वदेत् ||८९||
सर्वत्र च दयावन्तः सन्तः करुणवेदिनः |
गच्छन्तीह सुसन्तुष्टा धर्म्यं पन्थानमुत्तमम् ||९०||
शिष्टाचारा महात्मानो येषां धर्मः सुनिश्चितः ||९०||
अनसूया क्षमा शान्तिः सन्तोषः प्रियवादिता |
कामक्रोधपरित्यागः शिष्टाचारनिषेवणम् ||९१||
कर्मणा श्रुतसम्पन्नं सतां मार्गमनुत्तमम् |
शिष्टाचारं निषेवन्ते नित्यं धर्मेष्वतन्द्रिताः ||९२||
प्रज्ञाप्रासादमारुह्य मुह्यतो महतो जनान् |
प्रेक्षन्तो लोकवृत्तानि विविधानि द्विजोत्तम ||९३||
अतिपुण्यानि पापानि तानि द्विजवरोत्तम ||९३||
एतत्ते सर्वमाख्यातं यथाप्रज्ञं यथाश्रुतम् |
शिष्टाचारगुणान्ब्रह्मन्पुरस्कृत्य द्विजर्षभ ||९४||
१९९
मार्कण्डेय उवाच||
स तु विप्रमथोवाच धर्मव्याधो युधिष्ठिर |
यदहं ह्याचरे कर्म घोरमेतदसंशयम् ||१||
विधिस्तु बलवान्ब्रह्मन्दुस्तरं हि पुराकृतम् |
पुराकृतस्य पापस्य कर्मदोषो भवत्ययम् ||२||
दोषस्यैतस्य वै ब्रह्मन्विघाते यत्नवानहम् ||२||
विधिना विहिते पूर्वं निमित्तं घातको भवेत् |
निमित्तभूता हि वयं कर्मणोऽस्य द्विजोत्तम ||३||
येषां हतानां मांसानि विक्रीणामो वयं द्विज |
तेषामपि भवेद्धर्म उपभोगेन भक्षणात् ||४||
देवतातिथिभृत्यानां पितॄणां प्रतिपूजनात् ||४||
ओषध्यो वीरुधश्चापि पशवो मृगपक्षिणः |
अन्नाद्यभूता लोकस्य इत्यपि श्रूयते श्रुतिः ||५||
आत्ममांसप्रदानेन शिबिरौशीनरो नृपः |
स्वर्गं सुदुर्लभं प्राप्तः क्षमावान्द्विजसत्तम ||६||
राज्ञो महानसे पूर्वं रन्तिदेवस्य वै द्विज |
द्वे सहस्रे तु वध्येते पशूनामन्वहं तदा ||७||
समांसं ददतो ह्यन्नं रन्तिदेवस्य नित्यशः |
अतुला कीर्तिरभवन्नृपस्य द्विजसत्तम ||८||
चातुर्मास्येषु पशवो वध्यन्त इति नित्यशः ||८||
अग्नयो मांसकामाश्च इत्यपि श्रूयते श्रुतिः |
यज्ञेषु पशवो ब्रह्मन्वध्यन्ते सततं द्विजैः ||९||
संस्कृताः किल मन्त्रैश्च तेऽपि स्वर्गमवाप्नुवन् ||९||
यदि नैवाग्नयो ब्रह्मन्मांसकामाभवन्पुरा |
भक्ष्यं नैव भवेन्मांसं कस्यचिद्द्विजसत्तम ||१०||
अत्रापि विधिरुक्तश्च मुनिभिर्मांसभक्षणे |
देवतानां पितॄणां च भुङ्क्ते दत्त्वा तु यः सदा ||११||
यथाविधि यथाश्रद्धं न स दुष्यति भक्षणात् ||११||
अमांसाशी भवत्येवमित्यपि श्रूयते श्रुतिः |
भार्यां गच्छन्ब्रह्मचारी ऋतौ भवति ब्राह्मणः ||१२||
सत्यानृते विनिश्चित्य अत्रापि विधिरुच्यते |
सौदासेन पुरा राज्ञा मानुषा भक्षिता द्विज ||१३||
शापाभिभूतेन भृशमत्र किं प्रतिभाति ते ||१३||
स्वधर्म इति कृत्वा तु न त्यजामि द्विजोत्तम |
पुराकृतमिति ज्ञात्वा जीवाम्येतेन कर्मणा ||१४||
स्वकर्म त्यजतो ब्रह्मन्नधर्म इह दृश्यते |
स्वकर्मनिरतो यस्तु स धर्म इति निश्चयः ||१५||
पूर्वं हि विहितं कर्म देहिनं न विमुञ्चति |
धात्रा विधिरयं दृष्टो बहुधा कर्मनिर्णये ||१६||
द्रष्टव्यं तु भवेत्प्राज्ञ क्रूरे कर्मणि वर्तता |
कथं कर्म शुभं कुर्यां कथं मुच्ये पराभवात् ||१७||
कर्मणस्तस्य घोरस्य बहुधा निर्णयो भवेत् ||१७||
दाने च सत्यवाक्ये च गुरुशुश्रूषणे तथा |
द्विजातिपूजने चाहं धर्मे च निरतः सदा ||१८||
अतिवादातिमानाभ्यां निवृत्तोऽस्मि द्विजोत्तम ||१८||
कृषिं साध्विति मन्यन्ते तत्र हिंसा परा स्मृता |
कर्षन्तो लाङ्गलैः पुंसो घ्नन्ति भूमिशयान्बहून् ||१९||
जीवानन्यांश्च बहुशस्तत्र किं प्रतिभाति ते ||१९||
धान्यबीजानि यान्याहुर्व्रीह्यादीनि द्विजोत्तम |
सर्वाण्येतानि जीवानि तत्र किं प्रतिभाति ते ||२०||
अध्याक्रम्य पशूंश्चापि घ्नन्ति वै भक्षयन्ति च |
वृक्षानथौषधीश्चैव छिन्दन्ति पुरुषा द्विज ||२१||
जीवा हि बहवो ब्रह्मन्वृक्षेषु च फलेषु च |
उदके बहवश्चापि तत्र किं प्रतिभाति ते ||२२||
सर्वं व्याप्तमिदं ब्रह्मन्प्राणिभिः प्राणिजीवनैः |
मत्स्या ग्रसन्ते मत्स्यांश्च तत्र किं प्रतिभाति ते ||२३||
सत्त्वैः सत्त्वानि जीवन्ति बहुधा द्विजसत्तम |
प्राणिनोऽन्योन्यभक्षाश्च तत्र किं प्रतिभाति ते ||२४||
चङ्क्रम्यमाणा जीवांश्च धरणीसंश्रितान्बहून् |
पद्भ्यां घ्नन्ति नरा विप्र तत्र किं प्रतिभाति ते ||२५||
उपविष्टाः शयानाश्च घ्नन्ति जीवाननेकशः |
ज्ञानविज्ञानवन्तश्च तत्र किं प्रतिभाति ते ||२६||
जीवैर्ग्रस्तमिदं सर्वमाकाशं पृथिवी तथा |
अविज्ञानाच्च हिंसन्ति तत्र किं प्रतिभाति ते ||२७||
अहिंसेति यदुक्तं हि पुरुषैर्विस्मितैः पुरा |
के न हिंसन्ति जीवन्वै लोकेऽस्मिन्द्विजसत्तम ||२८||
बहु सञ्चिन्त्य इह वै नास्ति कश्चिदहिंसकः ||२८||
अहिंसायां तु निरता यतयो द्विजसत्तम |
कुर्वन्त्येव हि हिंसां ते यत्नादल्पतरा भवेत् ||२९||
आलक्ष्याश्चैव पुरुषाः कुले जाता महागुणाः |
महाघोराणि कर्माणि कृत्वा लज्जन्ति वै न च ||३०||
सुहृदः सुहृदोऽन्यांश्च दुर्हृदश्चापि दुर्हृदः |
सम्यक्प्रवृत्तान्पुरुषान्न सम्यगनुपश्यतः ||३१||
समृद्धैश्च न नन्दन्ति बान्धवा बान्धवैरपि |
गुरूंश्चैव विनिन्दन्ति मूढाः पण्डितमानिनः ||३२||
बहु लोके विपर्यस्तं दृश्यते द्विजसत्तम |
धर्मयुक्तमधर्मं च तत्र किं प्रतिभाति ते ||३३||
वक्तुं बहुविधं शक्यं धर्माधर्मेषु कर्मसु |
स्वकर्मनिरतो यो हि स यशः प्राप्नुयान्महत् ||३४||
२००
मार्कण्डेय उवाच||
धर्मव्याधस्तु निपुणं पुनरेव युधिष्ठिर |
विप्रर्षभमुवाचेदं सर्वधर्मभृतां वरः ||१||
श्रुतिप्रमाणो धर्मो हि वृद्धानामिति भाषितम् |
सूक्ष्मा गतिर्हि धर्मस्य बहुशाखा ह्यनन्तिका ||२||
प्राणात्यये विवाहे च वक्तव्यमनृतं भवेत् |
अनृतं च भवेत्सत्यं सत्यं चैवानृतं भवेत् ||३||
यद्भूतहितमत्यन्तं तत्सत्यमिति धारणा |
विपर्ययकृतोऽधर्मः पश्य धर्मस्य सूक्ष्मताम् ||४||
यत्करोत्यशुभं कर्म शुभं वा द्विजसत्तम |
अवश्यं तत्समाप्नोति पुरुषो नात्र संशयः ||५||
विषमां च दशां प्राप्य देवान्गर्हति वै भृशम् |
आत्मनः कर्मदोषाणि न विजानात्यपण्डितः ||६||
मूढो नैकृतिकश्चापि चपलश्च द्विजोत्तम |
सुखदुःखविपर्यासो यदा समुपपद्यते ||७||
नैनं प्रज्ञा सुनीतं वा त्रायते नैव पौरुषम् ||७||
यो यमिच्छेद्यथा कामं तं तं कामं समश्नुयात् |
यदि स्यादपराधीनं पुरुषस्य क्रियाफलम् ||८||
संयताश्चापि दक्षाश्च मतिमन्तश्च मानवाः |
दृश्यन्ते निष्फलाः सन्तः प्रहीणाः सर्वकर्मभिः ||९||
भूतानामपरः कश्चिद्धिंसायां सततोत्थितः |
वञ्चनायां च लोकस्य स सुखेनेह जीवति ||१०||
अचेष्टमानमासीनं श्रीः कञ्चिदुपतिष्ठति |
कश्चित्कर्माणि कुर्वन्हि न प्राप्यमधिगच्छति ||११||
देवानिष्ट्वा तपस्तप्त्वा कृपणैः पुत्रगृद्धिभिः |
दशमासधृता गर्भे जायन्ते कुलपांसनाः ||१२||
अपरे धनधान्यैश्च भोगैश्च पितृसञ्चितैः |
विपुलैरभिजायन्ते लब्धास्तैरेव मङ्गलैः ||१३||
कर्मजा हि मनुष्याणां रोगा नास्त्यत्र संशयः |
आधिभिश्चैव बाध्यन्ते व्याधैः क्षुद्रमृगा इव ||१४||
ते चापि कुशलैर्वैद्यैर्निपुणैः सम्भृतौषधैः |
व्याधयो विनिवार्यन्ते मृगा व्याधैरिव द्विज ||१५||
येषामस्ति च भोक्तव्यं ग्रहणीदोषपीडिताः |
न शक्नुवन्ति ते भोक्तुं पश्य धर्मभृतां वर ||१६||
अपरे बाहुबलिनः क्लिश्यन्ते बहवो जनाः |
दुःखेन चाधिगच्छन्ति भोजनं द्विजसत्तम ||१७||
इति लोकमनाक्रन्दं मोहशोकपरिप्लुतम् |
स्रोतसासकृदाक्षिप्तं ह्रियमाणं बलीयसा ||१८||
न म्रियेयुर्न जीर्येयुः सर्वे स्युः सार्वकामिकाः |
नाप्रियं प्रतिपश्येयुर्वशित्वं यदि वै भवेत् ||१९||
उपर्युपरि लोकस्य सर्वो गन्तुं समीहते |
यतते च यथाशक्ति न च तद्वर्तते तथा ||२०||
बहवः सम्प्रदृश्यन्ते तुल्यनक्षत्रमङ्गलाः |
महच्च फलवैषम्यं दृश्यते कर्मसन्धिषु ||२१||
न कश्चिदीशते ब्रह्मन्स्वयङ्ग्राहस्य सत्तम |
कर्मणां प्राकृतानां वै इह सिद्धिः प्रदृश्यते ||२२||
यथा श्रुतिरियं ब्रह्मञ्जीवः किल सनातनः |
शरीरमध्रुवं लोके सर्वेषां प्राणिनामिह ||२३||
वध्यमाने शरीरे तु देहनाशो भवत्युत |
जीवः सङ्क्रमतेऽन्यत्र कर्मबन्धनिबन्धनः ||२४||
ब्राह्मण उवाच||
कथं धर्मभृतां श्रेष्ठ जीवो भवति शाश्वतः |
एतदिच्छाम्यहं ज्ञातुं तत्त्वेन वदतां वर ||२५||
व्याध उवाच||
न जीवनाशोऽस्ति हि देहभेदे; मिथ्यैतदाहुर्म्रियतेति मूढाः |
जीवस्तु देहान्तरितः प्रयाति; दशार्धतैवास्य शरीरभेदः ||२६||
अन्यो हि नाश्नाति कृतं हि कर्म; स एव कर्ता सुखदुःखभागी |
यत्तेन किञ्चिद्धि कृतं हि कर्म; तदश्नुते नास्ति कृतस्य नाशः ||२७||
अपुण्यशीलाश्च भवन्ति पुण्या; नरोत्तमाः पापकृतो भवन्ति |
नरोऽनुयातस्त्विह कर्मभिः स्वै; स्ततः समुत्पद्यति भावितस्तैः ||२८||
ब्राह्मण उवाच||
कथं सम्भवते योनौ कथं वा पुण्यपापयोः |
जातीः पुण्या ह्यपुण्याश्च कथं गच्छति सत्तम ||२९||
व्याध उवाच||
गर्भाधानसमायुक्तं कर्मेदं सम्प्रदृश्यते |
समासेन तु ते क्षिप्रं प्रवक्ष्यामि द्विजोत्तम ||३०||
यथा सम्भृतसम्भारः पुनरेव प्रजायते |
शुभकृच्छुभयोनीषु पापकृत्पापयोनिषु ||३१||
शुभैः प्रयोगैर्देवत्वं व्यामिश्रैर्मानुषो भवेत् |
मोहनीयैर्वियोनीषु त्वधोगामी च किल्बिषैः ||३२||
जातिमृत्युजरादुःखैः सततं समभिद्रुतः |
संसारे पच्यमानश्च दोषैरात्मकृतैर्नरः ||३३||
तिर्यग्योनिसहस्राणि गत्वा नरकमेव च |
जीवाः सम्परिवर्तन्ते कर्मबन्धनिबन्धनाः ||३४||
जन्तुस्तु कर्मभिस्तैस्तैः स्वकृतैः प्रेत्य दुःखितः |
तद्दुःखप्रतिघातार्थमपुण्यां योनिमश्नुते ||३५||
ततः कर्म समादत्ते पुनरन्यन्नवं बहु |
पच्यते तु पुनस्तेन भुक्त्वापथ्यमिवातुरः ||३६||
अजस्रमेव दुःखार्तोऽदुःखितः सुखसञ्ज्ञितः |
ततोऽनिवृत्तबन्धत्वात्कर्मणामुदयादपि ||३७||
परिक्रामति संसारे चक्रवद्बहुवेदनः ||३७||
स चेन्निवृत्तबन्धस्तु विशुद्धश्चापि कर्मभिः |
प्राप्नोति सुकृताँल्लोकान्यत्र गत्वा न शोचति ||३८||
पापं कुर्वन्पापवृत्तः पापस्यान्तं न गच्छति |
तस्मात्पुण्यं यतेत्कर्तुं वर्जयेत च पातकम् ||३९||
अनसूयुः कृतज्ञश्च कल्याणान्येव सेवते |
सुखानि धर्ममर्थं च स्वर्गं च लभते नरः ||४०||
संस्कृतस्य हि दान्तस्य नियतस्य यतात्मनः |
प्राज्ञस्यानन्तरा वृत्तिरिह लोके परत्र च ||४१||
सतां धर्मेण वर्तेत क्रियां शिष्टवदाचरेत् |
असङ्क्लेशेन लोकस्य वृत्तिं लिप्सेत वै द्विज ||४२||
सन्ति ह्यागतविज्ञानाः शिष्टाः शास्त्रविचक्षणाः |
स्वधर्मेण क्रिया लोके कर्मणः सोऽप्यसङ्करः ||४३||
प्राज्ञो धर्मेण रमते धर्मं चैवोपजीवति |
तस्य धर्मादवाप्तेषु धनेषु द्विजसत्तम ||४४||
तस्यैव सिञ्चते मूलं गुणान्पश्यति यत्र वै ||४४||
धर्मात्मा भवति ह्येवं चित्तं चास्य प्रसीदति |
स मैत्रजनसन्तुष्ट इह प्रेत्य च नन्दति ||४५||
शब्दं स्पर्शं तथा रूपं गन्धानिष्टांश्च सत्तम |
प्रभुत्वं लभते चापि धर्मस्यैतत्फलं विदुः ||४६||
धर्मस्य च फलं लब्ध्वा न तृप्यति महाद्विज |
अतृप्यमाणो निर्वेदमादत्ते ज्ञानचक्षुषा ||४७||
प्रज्ञाचक्षुर्नर इह दोषं नैवानुरुध्यते |
विरज्यति यथाकामं न च धर्मं विमुञ्चति ||४८||
सर्वत्यागे च यतते दृष्ट्वा लोकं क्षयात्मकम् |
ततो मोक्षे प्रयतते नानुपायादुपायतः ||४९||
एवं निर्वेदमादत्ते पापं कर्म जहाति च |
धार्मिकश्चापि भवति मोक्षं च लभते परम् ||५०||
तपो निःश्रेयसं जन्तोस्तस्य मूलं शमो दमः |
तेन सर्वानवाप्नोति कामान्यान्मनसेच्छति ||५१||
इन्द्रियाणां निरोधेन सत्येन च दमेन च |
ब्रह्मणः पदमाप्नोति यत्परं द्विजसत्तम ||५२||
ब्राह्मण उवाच||
इन्द्रियाणि तु यान्याहुः कानि तानि यतव्रत |
निग्रहश्च कथं कार्यो निग्रहस्य च किं फलम् ||५३||
कथं च फलमाप्नोति तेषां धर्मभृतां वर |
एतदिच्छामि तत्त्वेन धर्मं ज्ञातुं सुधार्मिक ||५४||
२०१
मार्कण्डेय उवाच||
एवमुक्तस्तु विप्रेण धर्मव्याधो युधिष्ठिर |
प्रत्युवाच यथा विप्रं तच्छृणुष्व नराधिप ||१||
व्याध उवाच||
विज्ञानार्थं मनुष्याणां मनः पूर्वं प्रवर्तते |
तत्प्राप्य कामं भजते क्रोधं च द्विजसत्तम ||२||
ततस्तदर्थं यतते कर्म चारभते महत् |
इष्टानां रूपगन्धानामभ्यासं च निषेवते ||३||
ततो रागः प्रभवति द्वेषश्च तदनन्तरम् |
ततो लोभः प्रभवति मोहश्च तदनन्तरम् ||४||
तस्य लोभाभिभूतस्य रागद्वेषहतस्य च |
न धर्मे जायते बुद्धिर्व्याजाद्धर्मं करोति च ||५||
व्याजेन चरते धर्ममर्थं व्याजेन रोचते |
व्याजेन सिध्यमानेषु धनेषु द्विजसत्तम ||६||
तत्रैव रमते बुद्धिस्ततः पापं चिकीर्षति ||६||
सुहृद्भिर्वार्यमाणश्च पण्डितैश्च द्विजोत्तम |
उत्तरं श्रुतिसम्बद्धं ब्रवीति श्रुतियोजितम् ||७||
अधर्मस्त्रिविधस्तस्य वर्धते रागदोषतः |
पापं चिन्तयते चापि ब्रवीति च करोति च ||८||
तस्याधर्मप्रवृत्तस्य गुणा नश्यन्ति साधवः |
एकशीलाश्च मित्रत्वं भजन्ते पापकर्मिणः ||९||
स तेनासुखमाप्नोति परत्र च विहन्यते |
पापात्मा भवति ह्येवं धर्मलाभं तु मे शृणु ||१०||
यस्त्वेतान्प्रज्ञया दोषान्पूर्वमेवानुपश्यति |
कुशलः सुखदुःखेषु साधूंश्चाप्युपसेवते ||११||
तस्य साधुसमारम्भाद्बुद्धिर्धर्मेषु जायते ||११||
ब्राह्मण उवाच||
ब्रवीषि सूनृतं धर्मं यस्य वक्ता न विद्यते |
दिव्यप्रभावः सुमहानृषिरेव मतोऽसि मे ||१२||
व्याध उवाच||
ब्राह्मणा वै महाभागाः पितरोऽग्रभुजः सदा |
तेषां सर्वात्मना कार्यं प्रियं लोके मनीषिणा ||१३||
यत्तेषां च प्रियं तत्ते वक्ष्यामि द्विजसत्तम |
नमस्कृत्वा ब्राह्मणेभ्यो ब्राह्मीं विद्यां निबोध मे ||१४||
इदं विश्वं जगत्सर्वमजय्यं चापि सर्वशः |
महाभूतात्मकं ब्रह्मन्नातः परतरं भवेत् ||१५||
महाभूतानि खं वायुरग्निरापस्तथा च भूः |
शब्दः स्पर्शश्च रूपं च रसो गन्धश्च तद्गुणाः ||१६||
तेषामपि गुणाः सर्वे गुणवृत्तिः परस्परम् |
पूर्वपूर्वगुणाः सर्वे क्रमशो गुणिषु त्रिषु ||१७||
षष्ठस्तु चेतना नाम मन इत्यभिधीयते |
सप्तमी तु भवेद्बुद्धिरहङ्कारस्ततः परम् ||१८||
इन्द्रियाणि च पञ्चैव रजः सत्त्वं तमस्तथा |
इत्येष सप्तदशको राशिरव्यक्तसञ्ज्ञकः ||१९||
सर्वैरिहेन्द्रियार्थैस्तु व्यक्ताव्यक्तैः सुसंवृतः |
चतुर्विंशक इत्येष व्यक्ताव्यक्तमयो गुणः ||२०||
एतत्ते सर्वमाख्यातं किं भूयो श्रोतुमिच्छसि ||२०||
२०२
मार्कण्डेय उवाच||
एवमुक्तः स विप्रस्तु धर्मव्याधेन भारत |
कथामकथयद्भूयो मनसः प्रीतिवर्धनीम् ||१||
ब्राह्मण||
महाभूतानि यान्याहुः पञ्च धर्मविदां वर |
एकैकस्य गुणान्सम्यक्पञ्चानामपि मे वद ||२||
व्याध उवाच||
भूमिरापस्तथा ज्योतिर्वायुराकाशमेव च |
गुणोत्तराणि सर्वाणि तेषां वक्ष्यामि ते गुणान् ||३||
भूमिः पञ्चगुणा ब्रह्मन्नुदकं च चतुर्गुणम् |
गुणास्त्रयस्तेजसि च त्रयश्चाकाशवातयोः ||४||
शब्दः स्पर्शश्च रूपं च रसो गन्धश्च पञ्चमः |
एते गुणाः पञ्च भूमेः सर्वेभ्यो गुणवत्तराः ||५||
शब्दः स्पर्शश्च रूपं च रसश्चापि द्विजोत्तम |
अपामेते गुणा ब्रह्मन्कीर्तितास्तव सुव्रत ||६||
शब्दः स्पर्शश्च रूपं च तेजसोऽथ गुणास्त्रयः |
शब्दः स्पर्शश्च वायौ तु शब्द आकाश एव च ||७||
एते पञ्चदश ब्रह्मन्गुणा भूतेषु पञ्चसु |
वर्तन्ते सर्वभूतेषु येषु लोकाः प्रतिष्ठिताः ||८||
अन्योन्यं नातिवर्तन्ते सम्पच्च भवति द्विज ||८||
यदा तु विषमीभावमाचरन्ति चराचराः |
तदा देही देहमन्यं व्यतिरोहति कालतः ||९||
आनुपूर्व्या विनश्यन्ति जायन्ते चानुपूर्वशः |
तत्र तत्र हि दृश्यन्ते धातवः पाञ्चभौतिकाः ||१०||
यैरावृतमिदं सर्वं जगत्स्थावरजङ्गमम् ||१०||
इन्द्रियैः सृज्यते यद्यत्तत्तद्व्यक्तमिति स्मृतम् |
अव्यक्तमिति विज्ञेयं लिङ्गग्राह्यमतीन्द्रियम् ||११||
यथास्वं ग्राहकान्येषां शब्दादीनामिमानि तु |
इन्द्रियाणि यदा देही धारयन्निह तप्यते ||१२||
लोके विततमात्मानं लोकं चात्मनि पश्यति |
परावरज्ञः सक्तः सन्सर्वभूतानि पश्यति ||१३||
पश्यतः सर्वभूतानि सर्वावस्थासु सर्वदा |
ब्रह्मभूतस्य संयोगो नाशुभेनोपपद्यते ||१४||
ज्ञानमूलात्मकं क्लेशमतिवृत्तस्य मोहजम् |
लोको बुद्धिप्रकाशेन ज्ञेयमार्गेण दृश्यते ||१५||
अनादिनिधनं जन्तुमात्मयोनिं सदाव्ययम् |
अनौपम्यममूर्तं च भगवानाह बुद्धिमान् ||१६||
तपोमूलमिदं सर्वं यन्मां विप्रानुपृच्छसि ||१६||
इन्द्रियाण्येव तत्सर्वं यत्स्वर्गनरकावुभौ |
निगृहीतविसृष्टानि स्वर्गाय नरकाय च ||१७||
एष योगविधिः कृत्स्नो यावदिन्द्रियधारणम् |
एतन्मूलं हि तपसः कृत्स्नस्य नरकस्य च ||१८||
इन्द्रियाणां प्रसङ्गेन दोषमृच्छत्यसंशयम् |
संनियम्य तु तान्येव ततः सिद्धिमवाप्नुते ||१९||
षण्णामात्मनि नित्यानामैश्वर्यं योऽधिगच्छति |
न स पापैः कुतोऽनर्थैर्युज्यते विजितेन्द्रियः ||२०||
रथः शरीरं पुरुषस्य दृष्ट; मात्मा नियन्तेन्द्रियाण्याहुरश्वान् |
तैरप्रमत्तः कुशली सदश्वै; र्दान्तैः सुखं याति रथीव धीरः ||२१||
षण्णामात्मनि नित्यानामिन्द्रियाणां प्रमाथिनाम् |
यो धीरो धारयेद्रश्मीन्स स्यात्परमसारथिः ||२२||
इन्द्रियाणां प्रसृष्टानां हयानामिव वर्त्मसु |
धृतिं कुर्वीत सारथ्ये धृत्या तानि जयेद्ध्रुवम् ||२३||
इन्द्रियाणां हि चरतां यन्मनोऽनुविधीयते |
तदस्य हरते बुद्धिं नावं वायुरिवाम्भसि ||२४||
येषु विप्रतिपद्यन्ते षट्सु मोहात्फलागमे |
तेष्वध्यवसिताध्यायी विन्दते ध्यानजं फलम् ||२५||
२०३
मार्कण्डेय उवाच||
एवं तु सूक्ष्मे कथिते धर्मव्याधेन भारत |
ब्राह्मणः स पुनः सूक्ष्मं पप्रच्छ सुसमाहितः ||१||
ब्राह्मण उवाच||
सत्त्वस्य रजसश्चैव तमसश्च यथातथम् |
गुणांस्तत्त्वेन मे ब्रूहि यथावदिह पृच्छतः ||२||
व्याध उवाच||
हन्त ते कथयिष्यामि यन्मां त्वं परिपृच्छसि |
एषां गुणान्पृथक्त्वेन निबोध गदतो मम ||३||
मोहात्मकं तमस्तेषां रज एषां प्रवर्तकम् |
प्रकाशबहुलत्वाच्च सत्त्वं ज्याय इहोच्यते ||४||
अविद्याबहुलो मूढः स्वप्नशीलो विचेतनः |
दुर्दृशीकस्तमोध्वस्तः सक्रोधस्तामसोऽलसः ||५||
प्रवृत्तवाक्यो मन्त्री च योऽनुराग्यभ्यसूयकः |
विवित्समानो विप्रर्षे स्तब्धो मानी स राजसः ||६||
प्रकाशबहुलो धीरो निर्विवित्सोऽनसूयकः |
अक्रोधनो नरो धीमान्दान्तश्चैव स सात्त्विकः ||७||
सात्त्विकस्त्वथ सम्बुद्धो लोकवृत्तेन क्लिश्यते |
यदा बुध्यति बोद्धव्यं लोकवृत्तं जुगुप्सते ||८||
वैराग्यस्य हि रूपं तु पूर्वमेव प्रवर्तते |
मृदुर्भवत्यहङ्कारः प्रसीदत्यार्जवं च यत् ||९||
ततोऽस्य सर्वद्वंद्वानि प्रशाम्यन्ति परस्परम् |
न चास्य संयमो नाम क्वचिद्भवति कश्चन ||१०||
शूद्रयोनौ हि जातस्य सद्गुणानुपतिष्ठतः |
वैश्यत्वं भवति ब्रह्मन्क्षत्रियत्वं तथैव च ||११||
आर्जवे वर्तमानस्य ब्राह्मण्यमभिजायते |
गुणास्ते कीर्तिताः सर्वे किं भूयः श्रोतुमिच्छसि ||१२||
ब्राह्मण उवाच||
पार्थिवं धातुमासाद्य शारीरोऽग्निः कथं भवेत् |
अवकाशविशेषेण कथं वर्तयतेऽनिलः ||१३||
मार्कण्डेय उवाच||
प्रश्नमेतं समुद्दिष्टं ब्राह्मणेन युधिष्ठिर |
व्याधः स कथयामास ब्राह्मणाय महात्मने ||१४||
व्याध उवाच||
मूर्धानमाश्रितो वह्निः शरीरं परिपालयन् |
प्राणो मूर्धनि चाग्नौ च वर्तमानो विचेष्टते ||१५||
भूतं भव्यं भविष्यच्च सर्वं प्राणे प्रतिष्ठितम् ||१५||
श्रेष्ठं तदेव भूतानां ब्रह्मज्योतिरुपास्महे |
स जन्तुः सर्वभूतात्मा पुरुषः स सनातनः ||१६||
मनो बुद्धिरहङ्कारो भूतानां विषयश्च सः ||१६||
एवं त्विह स सर्वत्र प्राणेन परिपाल्यते |
पृष्ठतस्तु समानेन स्वां स्वां गतिमुपाश्रितः ||१७||
बस्तिमूले गुदे चैव पावकः समुपाश्रितः |
वहन्मूत्रं पुरीषं चाप्यपानः परिवर्तते ||१८||
प्रयत्ने कर्मणि बले य एकस्त्रिषु वर्तते |
उदान इति तं प्राहुरध्यात्मविदुषो जनाः ||१९||
सन्धौ सन्धौ संनिविष्टः सर्वेष्वपि तथानिलः |
शरीरेषु मनुष्याणां व्यान इत्युपदिष्यते ||२०||
धातुष्वग्निस्तु विततः स तु वायुसमीरितः |
रसान्धातूंश्च दोषांश्च वर्तयन्परिधावति ||२१||
प्राणानां संनिपातात्तु संनिपातः प्रजायते |
ऊष्मा चाग्निरिति ज्ञेयो योऽन्नं पचति देहिनाम् ||२२||
अपानोदानयोर्मध्ये प्राणव्यानौ समाहितौ |
समन्वितस्त्वधिष्ठानं सम्यक्पचति पावकः ||२३||
तस्यापि पायुपर्यन्तस्तथा स्याद्गुदसञ्ज्ञितः |
स्रोतांसि तस्माज्जायन्ते सर्वप्राणेषु देहिनाम् ||२४||
अग्निवेगवहः प्राणो गुदान्ते प्रतिहन्यते |
स ऊर्ध्वमागम्य पुनः समुत्क्षिपति पावकम् ||२५||
पक्वाशयस्त्वधो नाभ्या ऊर्ध्वमामाशयः स्थितः |
नाभिमध्ये शरीरस्य प्राणाः सर्वे प्रतिष्ठिताः ||२६||
प्रवृत्ता हृदयात्सर्वास्तिर्यगूर्ध्वमधस्तथा |
वहन्त्यन्नरसान्नाड्यो दश प्राणप्रचोदिताः ||२७||
योगिनामेष मार्गस्तु येन गच्छन्ति तत्परम् |
जितक्लमासना धीरा मूर्धन्यात्मानमादधुः ||२८||
एवं सर्वेषु विततौ प्राणापानौ हि देहिषु ||२८||
एकादशविकारात्मा कलासम्भारसम्भृतः |
मूर्तिमन्तं हि तं विद्धि नित्यं कर्मजितात्मकम् ||२९||
तस्मिन्यः संस्थितो ह्यग्निर्नित्यं स्थाल्यामिवाहितः |
आत्मानं तं विजानीहि नित्यं योगजितात्मकम् ||३०||
देवो यः संस्थितस्तस्मिन्नब्बिन्दुरिव पुष्करे |
क्षेत्रज्ञं तं विजानीहि नित्यं त्यागजितात्मकम् ||३१||
जीवात्मकानि जानीहि रजः सत्त्वं तमस्तथा |
जीवमात्मगुणं विद्धि तथात्मानं परात्मकम् ||३२||
सचेतनं जीवगुणं वदन्ति; स चेष्टते चेष्टयते च सर्वम् |
ततः परं क्षेत्रविदो वदन्ति; प्राकल्पयद्यो भुवनानि सप्त ||३३||
एवं सर्वेषु भूतेषु भूतात्मा न प्रकाशते |
दृश्यते त्वग्र्यया बुद्ध्या सूक्ष्मया ज्ञानवेदिभिः ||३४||
चित्तस्य हि प्रसादेन हन्ति कर्म शुभाशुभम् |
प्रसन्नात्मात्मनि स्थित्वा सुखमानन्त्यमश्नुते ||३५||
लक्षणं तु प्रसादस्य यथा तृप्तः सुखं स्वपेत् |
निवाते वा यथा दीपो दीप्येत्कुशलदीपितः ||३६||
पूर्वरात्रे परे चैव युञ्जानः सततं मनः |
लघ्वाहारो विशुद्धात्मा पश्यन्नात्मानमात्मनि ||३७||
प्रदीप्तेनेव दीपेन मनोदीपेन पश्यति |
दृष्ट्वात्मानं निरात्मानं तदा स तु विमुच्यते ||३८||
सर्वोपायैस्तु लोभस्य क्रोधस्य च विनिग्रहः |
एतत्पवित्रं यज्ञानां तपो वै सङ्क्रमो मतः ||३९||
नित्यं क्रोधात्तपो रक्षेच्छ्रियं रक्षेत मत्सरात् |
विद्यां मानापमानाभ्यामात्मानं तु प्रमादतः ||४०||
आनृशंस्यं परो धर्मः क्षमा च परमं बलम् |
आत्मज्ञानं परं ज्ञानं परं सत्यव्रतं व्रतम् ||४१||
सत्यस्य वचनं श्रेयः सत्यं ज्ञानं हितं भवेत् |
यद्भूतहितमत्यन्तं तद्वै सत्यं परं मतम् ||४२||
यस्य सर्वे समारम्भाः निराशीर्बन्धनाः सदा |
त्यागे यस्य हुतं सर्वं स त्यागी स च बुद्धिमान् ||४३||
यतो न गुरुरप्येनं च्यावयेदुपपादयन् |
तं विद्याद्ब्रह्मणो योगं वियोगं योगसञ्ज्ञितम् ||४४||
न हिंस्यात्सर्वभूतानि मैत्रायणगतश्चरेत् |
नेदं जीवितमासाद्य वैरं कुर्वीत केनचित् ||४५||
आकिञ्चन्यं सुसन्तोषो निराशित्वमचापलम् |
एतदेव परं ज्ञानं सदात्मज्ञानमुत्तमम् ||४६||
परिग्रहं परित्यज्य भव बुद्ध्या यतव्रतः |
अशोकं स्थानमातिष्ठेन्निश्चलं प्रेत्य चेह च ||४७||
तपोनित्येन दान्तेन मुनिना संयतात्मना |
अजितं जेतुकामेन भाव्यं सङ्गेष्वसङ्गिना ||४८||
गुणागुणमनासङ्गमेककार्यमनन्तरम् |
एतद्ब्राह्मण ते वृत्तमाहुरेकपदं सुखम् ||४९||
परित्यजति यो दुःखं सुखं चाप्युभयं नरः |
ब्रह्म प्राप्नोति सोऽत्यन्तमसङ्गेन च गच्छति ||५०||
यथाश्रुतमिदं सर्वं समासेन द्विजोत्तम |
एतत्ते सर्वमाख्यातं किं भूयः श्रोतुमिच्छसि ||५१||
२०४
मार्कण्डेय उवाच||
एवं सङ्कथिते कृत्स्ने मोक्षधर्मे युधिष्ठिर |
दृढं प्रीतमना विप्रो धर्मव्याधमुवाच ह ||१||
न्याययुक्तमिदं सर्वं भवता परिकीर्तितम् |
न तेऽस्त्यविदितं किञ्चिद्धर्मेष्विह हि दृश्यते ||२||
व्याध उवाच||
प्रत्यक्षं मम यो धर्मस्तं पश्य द्विजसत्तम |
येन सिद्धिरियं प्राप्ता मया ब्राह्मणपुङ्गव ||३||
उत्तिष्ठ भगवन्क्षिप्रं प्रविश्याभ्यन्तरं गृहम् |
द्रष्टुमर्हसि धर्मज्ञ मातरं पितरं च मे ||४||
मार्कण्डेय उवाच||
इत्युक्तः स प्रविश्याथ ददर्श परमार्चितम् |
सौधं हृद्यं चतुःशालमतीव च मनोहरम् ||५||
देवतागृहसङ्काशं दैवतैश्च सुपूजितम् |
शयनासनसम्बाधं गन्धैश्च परमैर्युतम् ||६||
तत्र शुक्लाम्बरधरौ पितरावस्य पूजितौ |
कृताहारौ सुतुष्टौ तावुपविष्टौ वरासने ||७||
धर्मव्याधस्तु तौ दृष्ट्वा पादेषु शिरसापतत् ||७||
वृद्धावूचतुः||
उत्तिष्ठोत्तिष्ठ धर्मज्ञ धर्मस्त्वामभिरक्षतु |
प्रीतौ स्वस्तव शौचेन दीर्घमायुरवाप्नुहि ||८||
सत्पुत्रेण त्वया पुत्र नित्यकालं सुपूजितौ ||८||
न तेऽन्यद्दैवतं किञ्चिद्दैवतेष्वपि वर्तते |
प्रयतत्वाद्द्विजातीनां दमेनासि समन्वितः ||९||
पितुः पितामहा ये च तथैव प्रपितामहाः |
प्रीतास्ते सततं पुत्र दमेनावां च पूजया ||१०||
मनसा कर्मणा वाचा शुश्रूषा नैव हीयते |
न चान्या वितथा बुद्धिर्दृश्यते साम्प्रतं तव ||११||
जामदग्न्येन रामेण यथा वृद्धौ सुपूजितौ |
तथा त्वया कृतं सर्वं तद्विशिष्टं च पुत्रक ||१२||
मार्कण्डेय उवाच||
ततस्तं ब्राह्मणं ताभ्यां धर्मव्याधो न्यवेदयत् |
तौ स्वागतेन तं विप्रमर्चयामासतुस्तदा ||१३||
प्रतिगृह्य च तां पूजां द्विजः पप्रच्छ तावुभौ |
सपुत्राभ्यां सभृत्याभ्यां कच्चिद्वां कुशलं गृहे ||१४||
अनामयं च वां कच्चित्सदैवेह शरीरयोः ||१४||
वृद्धावूचतुः||
कुशलं नो गृहे विप्र भृत्यवर्गे च सर्वशः |
कच्चित्त्वमप्यविघ्नेन सम्प्राप्तो भगवन्निह ||१५||
मार्कण्डेय उवाच||
बाढमित्येव तौ विप्रः प्रत्युवाच मुदान्वितः |
धर्मव्याधस्तु तं विप्रमर्थवद्वाक्यमब्रवीत् ||१६||
पिता माता च भगवन्नेतौ मे दैवतं परम् |
यद्दैवतेभ्यः कर्तव्यं तदेताभ्यां करोम्यहम् ||१७||
त्रयस्त्रिंशद्यथा देवाः सर्वे शक्रपुरोगमाः |
सम्पूज्याः सर्वलोकस्य तथा वृद्धाविमौ मम ||१८||
उपहारानाहरन्तो देवतानां यथा द्विजाः |
कुर्वते तद्वदेताभ्यां करोम्यहमतन्द्रितः ||१९||
एतौ मे परमं ब्रह्मन्पिता माता च दैवतम् |
एतौ पुष्पैः फलै रत्नैस्तोषयामि सदा द्विज ||२०||
एतावेवाग्नयो मह्यं यान्वदन्ति मनीषिणः |
यज्ञा वेदाश्च चत्वारः सर्वमेतौ मम द्विज ||२१||
एतदर्थं मम प्राणा भार्या पुत्राः सुहृज्जनाः |
सपुत्रदारः शुश्रूषां नित्यमेव करोम्यहम् ||२२||
स्वयं च स्नापयाम्येतौ तथा पादौ प्रधावये |
आहारं सम्प्रयच्छामि स्वयं च द्विजसत्तम ||२३||
अनुकूलाः कथा वच्मि विप्रियं परिवर्जयन् |
अधर्मेणापि संयुक्तं प्रियमाभ्यां करोम्यहम् ||२४||
धर्ममेव गुरुं ज्ञात्वा करोमि द्विजसत्तम |
अतन्द्रितः सदा विप्र शुश्रूषां वै करोम्यहम् ||२५||
पञ्चैव गुरवो ब्रह्मन्पुरुषस्य बुभूषतः |
पिता माताग्निरात्मा च गुरुश्च द्विजसत्तम ||२६||
एतेषु यस्तु वर्तेत सम्यगेव द्विजोत्तम |
भवेयुरग्नयस्तस्य परिचीर्णास्तु नित्यशः ||२७||
गार्हस्थ्ये वर्तमानस्य धर्म एष सनातनः ||२७||
२०५
मार्कण्डेय उवाच||
गुरू निवेद्य विप्राय तौ मातापितरावुभौ |
पुनरेव स धर्मात्मा व्याधो ब्राह्मणमब्रवीत् ||१||
प्रवृत्तचक्षुर्जातोऽस्मि सम्पश्य तपसो बलम् |
यदर्थमुक्तोऽसि तया गच्छस्व मिथिलामिति ||२||
पतिशुश्रूषपरया दान्तया सत्यशीलया |
मिथिलायां वसन्व्याधः स ते धर्मान्प्रवक्ष्यति ||३||
ब्राह्मण उवाच||
पतिव्रतायाः सत्यायाः शीलाढ्याया यतव्रत |
संस्मृत्य वाक्यं धर्मज्ञ गुणवानसि मे मतः ||४||
व्याध उवाच||
यत्तदा त्वं द्विजश्रेष्ठ तयोक्तो मां प्रति प्रभो |
दृष्टमेतत्तया सम्यगेकपत्न्या न संशयः ||५||
त्वदनुग्रहबुद्ध्या तु विप्रैतद्दर्शितं मया |
वाक्यं च शृणु मे तात यत्ते वक्ष्ये हितं द्विज ||६||
त्वया विनिकृता माता पिता च द्विजसत्तम |
अनिसृष्टोऽसि निष्क्रान्तो गृहात्ताभ्यामनिन्दित ||७||
वेदोच्चारणकार्यार्थमयुक्तं तत्त्वया कृतम् ||७||
तव शोकेन वृद्धौ तावन्धौ जातौ तपस्विनौ |
तौ प्रसादयितुं गच्छ मा त्वा धर्मोऽत्यगान्महान् ||८||
तपस्वी त्वं महात्मा च धर्मे च निरतः सदा |
सर्वमेतदपार्थं ते क्षिप्रं तौ सम्प्रसादय ||९||
श्रद्दधस्व मम ब्रह्मन्नान्यथा कर्तुमर्हसि |
गम्यतामद्य विप्रर्षे श्रेयस्ते कथयाम्यहम् ||१०||
ब्राह्मण उवाच||
यदेतदुक्तं भवता सर्वं सत्यमसंशयम् |
प्रीतोऽस्मि तव धर्मज्ञ साध्वाचार गुणान्वित ||११||
व्याध उवाच||
दैवतप्रतिमो हि त्वं यस्त्वं धर्ममनुव्रतः |
पुराणं शाश्वतं दिव्यं दुष्प्रापमकृतात्मभिः ||१२||
अतन्द्रितः कुरु क्षिप्रं मातापित्रोर्हि पूजनम् |
अतः परमहं धर्मं नान्यं पश्यामि कञ्चन ||१३||
ब्राह्मण उवाच||
इहाहमागतो दिष्ट्या दिष्ट्या मे सङ्गतं त्वया |
ईदृशा दुर्लभा लोके नरा धर्मप्रदर्शकाः ||१४||
एको नरसहस्रेषु धर्मविद्विद्यते न वा |
प्रीतोऽस्मि तव सत्येन भद्रं ते पुरुषोत्तम ||१५||
पतमानो हि नरके भवतास्मि समुद्धृतः |
भवितव्यमथैवं च यद्दृष्टोऽसि मयानघ ||१६||
राजा ययातिर्दौहित्रैः पतितस्तारितो यथा |
सद्भिः पुरुषशार्दूल तथाहं भवता त्विह ||१७||
मातापितृभ्यां शुश्रूषां करिष्ये वचनात्तव |
नाकृतात्मा वेदयति धर्माधर्मविनिश्चयम् ||१८||
दुर्ज्ञेयः शाश्वतो धर्मः शूद्रयोनौ हि वर्तता |
न त्वां शूद्रमहं मन्ये भवितव्यं हि कारणम् ||१९||
येन कर्मविपाकेन प्राप्तेयं शूद्रता त्वया ||१९||
एतदिच्छामि विज्ञातुं तत्त्वेन हि महामते |
कामया ब्रूहि मे तथ्यं सर्वं त्वं प्रयतात्मवान् ||२०||
व्याध उवाच||
अनतिक्रमणीया हि ब्राह्मणा वै द्विजोत्तम |
शृणु सर्वमिदं वृत्तं पूर्वदेहे ममानघ ||२१||
अहं हि ब्राह्मणः पूर्वमासं द्विजवरात्मज |
वेदाध्यायी सुकुशलो वेदाङ्गानां च पारगः ||२२||
आत्मदोषकृतैर्ब्रह्मन्नवस्थां प्राप्तवानिमाम् ||२२||
कश्चिद्राजा मम सखा धनुर्वेदपरायणः |
संसर्गाद्धनुषि श्रेष्ठस्ततोऽहमभवं द्विज ||२३||
एतस्मिन्नेव काले तु मृगयां निर्गतो नृपः |
सहितो योधमुख्यैश्च मन्त्रिभिश्च सुसंवृतः ||२४||
ततोऽभ्यहन्मृगांस्तत्र सुबहूनाश्रमं प्रति ||२४||
अथ क्षिप्तः शरो घोरो मयापि द्विजसत्तम |
ताडितश्च मुनिस्तेन शरेणानतपर्वणा ||२५||
भूमौ निपतितो ब्रह्मन्नुवाच प्रतिनादयन् |
नापराध्याम्यहं किञ्चित्केन पापमिदं कृतम् ||२६||
मन्वानस्तं मृगं चाहं सम्प्राप्तः सहसा मुनिम् |
अपश्यं तमृषिं विद्धं शरेणानतपर्वणा ||२७||
तमुग्रतपसं विप्रं निष्टनन्तं महीतले ||२७||
अकार्यकरणाच्चापि भृशं मे व्यथितं मनः |
अजानता कृतमिदं मयेत्यथ तमब्रुवम् ||२८||
क्षन्तुमर्हसि मे ब्रह्मन्निति चोक्तो मया मुनिः ||२८||
ततः प्रत्यब्रवीद्वाक्यमृषिर्मां क्रोधमूर्छितः |
व्याधस्त्वं भविता क्रूर शूद्रयोनाविति द्विज ||२९||
२०६
व्याध उवाच||
एवं शप्तोऽहमृषिणा तदा द्विजवरोत्तम |
अभिप्रसादयमृषिं गिरा वाक्यविशारदम् ||१||
अजानता मयाकार्यमिदमद्य कृतं मुने |
क्षन्तुमर्हसि तत्सर्वं प्रसीद भगवन्निति ||२||
ऋषिरुवाच||
नान्यथा भविता शाप एवमेतदसंशयम् |
आनृशंस्यादहं किञ्चित्कर्तानुग्रहमद्य ते ||३||
शूद्रयोनौ वर्तमानो धर्मज्ञो भविता ह्यसि |
मातापित्रोश्च शुश्रूषां करिष्यसि न संशयः ||४||
तया शुश्रूषया सिद्धिं महतीं समवाप्स्यसि |
जातिस्मरश्च भविता स्वर्गं चैव गमिष्यसि ||५||
शापक्षयान्ते निर्वृत्ते भवितासि पुनर्द्विजः ||५||
व्याध उवाच||
एवं शप्तः पुरा तेन ऋषिणास्म्युग्रतेजसा |
प्रसादश्च कृतस्तेन ममैवं द्विपदां वर ||६||
शरं चोद्धृतवानस्मि तस्य वै द्विजसत्तम |
आश्रमं च मया नीतो न च प्राणैर्व्ययुज्यत ||७||
एतत्ते सर्वमाख्यातं यथा मम पुराभवत् |
अभितश्चापि गन्तव्यं मया स्वर्गं द्विजोत्तम ||८||
ब्राह्मण उवाच||
एवमेतानि पुरुषा दुःखानि च सुखानि च |
प्राप्नुवन्ति महाबुद्धे नोत्कण्ठां कर्तुमर्हसि ||९||
दुष्करं हि कृतं तात जानता जातिमात्मनः ||९||
कर्मदोषश्च वै विद्वन्नात्मजातिकृतेन वै |
कञ्चित्कालं मृष्यतां वै ततोऽसि भविता द्विजः ||१०||
साम्प्रतं च मतो मेऽसि ब्राह्मणो नात्र संशयः ||१०||
ब्राह्मणः पतनीयेषु वर्तमानो विकर्मसु |
दाम्भिको दुष्कृतप्रायः शूद्रेण सदृशो भवेत् ||११||
यस्तु शूद्रो दमे सत्ये धर्मे च सततोत्थितः |
तं ब्राह्मणमहं मन्ये वृत्तेन हि भवेद्द्विजः ||१२||
कर्मदोषेण विषमां गतिमाप्नोति दारुणाम् |
क्षीणदोषमहं मन्ये चाभितस्त्वां नरोत्तम ||१३||
कर्तुमर्हसि नोत्कण्ठां त्वद्विधा ह्यविषादिनः |
लोकवृत्तान्तवृत्तज्ञा नित्यं धर्मपरायणाः ||१४||
व्याध उवाच||
प्रज्ञया मानसं दुःखं हन्याच्छारीरमौषधैः |
एतद्विज्ञानसामर्थ्यं न बालैः समतां व्रजेत् ||१५||
अनिष्टसम्प्रयोगाच्च विप्रयोगात्प्रियस्य च |
मानुषा मानसैर्दुःखैर्युज्यन्ते अल्पबुद्धयः ||१६||
गुणैर्भूतानि युज्यन्ते वियुज्यन्ते तथैव च |
सर्वाणि नैतदेकस्य शोकस्थानं हि विद्यते ||१७||
अनिष्टेनान्वितं पश्यंस्तथा क्षिप्रं विरज्यते |
ततश्च प्रतिकुर्वन्ति यदि पश्यन्त्युपक्रमम् ||१८||
शोचतो न भवेत्किञ्चित्केवलं परितप्यते ||१८||
परित्यजन्ति ये दुःखं सुखं वाप्युभयं नराः |
त एव सुखमेधन्ते ज्ञानतृप्ता मनीषिणः ||१९||
असन्तोषपरा मूढाः सन्तोषं यान्ति पण्डिताः |
असन्तोषस्य नास्त्यन्तस्तुष्टिस्तु परमं सुखम् ||२०||
न शोचन्ति गताध्वानः पश्यन्तः परमां गतिम् ||२०||
न विषादे मनः कार्यं विषादो विषमुत्तमम् |
मारयत्यकृतप्रज्ञं बालं क्रुद्ध इवोरगः ||२१||
यं विषादोऽभिभवति विषमे समुपस्थिते |
तेजसा तस्य हीनस्य पुरुषार्थो न विद्यते ||२२||
अवश्यं क्रियमाणस्य कर्मणो दृश्यते फलम् |
न हि निर्वेदमागम्य किञ्चित्प्राप्नोति शोभनम् ||२३||
अथाप्युपायं पश्येत दुःखस्य परिमोक्षणे |
अशोचन्नारभेतैव युक्तश्चाव्यसनी भवेत् ||२४||
भूतेष्वभावं सञ्चिन्त्य ये तु बुद्धेः परं गताः |
न शोचन्ति कृतप्रज्ञाः पश्यन्तः परमां गतिम् ||२५||
न शोचामि च वै विद्वन्कालाकाङ्क्षी स्थितोऽस्म्यहम् |
एतैर्निदर्शनैर्ब्रह्मन्नावसीदामि सत्तम ||२६||
ब्राह्मण उवाच||
कृतप्रज्ञोऽसि मेधावी बुद्धिश्च विपुला तव |
नाहं भवन्तं शोचामि ज्ञानतृप्तोऽसि धर्मवित् ||२७||
आपृच्छे त्वां स्वस्ति तेऽस्तु धर्मस्त्वा परिरक्षतु |
अप्रमादस्तु कर्तव्यो धर्मे धर्मभृतां वर ||२८||
मार्कण्डेय उवाच||
बाढमित्येव तं व्याधः कृताञ्जलिरुवाच ह |
प्रदक्षिणमथो कृत्वा प्रस्थितो द्विजसत्तमः ||२९||
स तु गत्वा द्विजः सर्वां शुश्रूषां कृतवांस्तदा |
मातापितृभ्यां वृद्धाभ्यां यथान्यायं सुसंशितः ||३०||
एतत्ते सर्वमाख्यातं निखिलेन युधिष्ठिर |
पृष्टवानसि यं तात धर्मं धर्मभृतां वर ||३१||
पतिव्रताया माहात्म्यं ब्राह्मणस्य च सत्तम |
मातापित्रोश्च शुश्रूषा व्याधे धर्मश्च कीर्तितः ||३२||
युधिष्ठिर उवाच||
अत्यद्भुतमिदं ब्रह्मन्धर्माख्यानमनुत्तमम् |
सर्वधर्मभृतां श्रेष्ठ कथितं द्विजसत्तम ||३३||
सुखश्रव्यतया विद्वन्मुहूर्तमिव मे गतम् |
न हि तृप्तोऽस्मि भगवञ्शृण्वानो धर्ममुत्तमम् ||३४||
आङ्गिरसम्
२०७
वैशम्पायन उवाच||
श्रुत्वेमां धर्मसंयुक्तां धर्मराजः कथां शुभाम् |
पुनः पप्रच्छ तमृषिं मार्कण्डेयं तपस्विनम् ||१||
युधिष्ठिर उवाच||
कथमग्निर्वनं यातः कथं चाप्यङ्गिराः पुरा |
नष्टेऽग्नौ हव्यमवहदग्निर्भूत्वा महानृषिः ||२||
अग्निर्यदा त्वेक एव बहुत्वं चास्य कर्मसु |
दृश्यते भगवन्सर्वमेतदिच्छामि वेदितुम् ||३||
कुमारश्च यथोत्पन्नो यथा चाग्नेः सुतोऽभवत् |
यथा रुद्राच्च सम्भूतो गङ्गायां कृत्तिकासु च ||४||
एतदिच्छाम्यहं त्वत्तः श्रोतुं भार्गवनन्दन |
कौतूहलसमाविष्टो यथातथ्यं महामुने ||५||
मार्कण्डेय उवाच||
अत्राप्युदाहरन्तीममितिहासं पुरातनम् |
यथा क्रुद्धो हुतवहस्तपस्तप्तुं वनं गतः ||६||
यथा च भगवानग्निः स्वयमेवाङ्गिराभवत् |
सन्तापयन्स्वप्रभया नाशयंस्तिमिराणि च ||७||
आश्रमस्थो महाभागो हव्यवाहं विशेषयन् |
तथा स भूत्वा तु तदा जगत्सर्वं प्रकाशयन् ||८||
तपश्चरंश्च हुतभुक्सन्तप्तस्तस्य तेजसा |
भृशं ग्लानश्च तेजस्वी न स किञ्चित्प्रजज्ञिवान् ||९||
अथ सञ्चिन्तयामास भगवान्हव्यवाहनः |
अन्योऽग्निरिह लोकानां ब्रह्मणा सम्प्रवर्तितः ||१०||
अग्नित्वं विप्रनष्टं हि तप्यमानस्य मे तपः ||१०||
कथमग्निः पुनरहं भवेयमिति चिन्त्य सः |
अपश्यदग्निवल्लोकांस्तापयन्तं महामुनिम् ||११||
सोपासर्पच्छनैर्भीतस्तमुवाच तदाङ्गिराः |
शीघ्रमेव भवस्वाग्निस्त्वं पुनर्लोकभावनः ||१२||
विज्ञातश्चासि लोकेषु त्रिषु संस्थानचारिषु ||१२||
त्वमग्ने प्रथमः सृष्टो ब्रह्मणा तिमिरापहः |
स्वस्थानं प्रतिपद्यस्व शीघ्रमेव तमोनुद ||१३||
अग्निरुवाच||
नष्टकीर्तिरहं लोके भवाञ्जातो हुताशनः |
भवन्तमेव ज्ञास्यन्ति पावकं न तु मां जनाः ||१४||
निक्षिपाम्यहमग्नित्वं त्वमग्निः प्रथमो भव |
भविष्यामि द्वितीयोऽहं प्राजापत्यक एव च ||१५||
अङ्गिरा उवाच||
कुरु पुण्यं प्रजास्वर्ग्यं भवाग्निस्तिमिरापहः |
मां च देव कुरुष्वाग्ने प्रथमं पुत्रमञ्जसा ||१६||
मार्कण्डेय उवाच||
तच्छ्रुत्वाङ्गिरसो वाक्यं जातवेदास्तथाकरोत् |
राजन्बृहस्पतिर्नाम तस्याप्यङ्गिरसः सुतः ||१७||
ज्ञात्वा प्रथमजं तं तु वह्नेराङ्गिरसं सुतम् |
उपेत्य देवाः पप्रच्छुः कारणं तत्र भारत ||१८||
स तु पृष्टस्तदा देवैस्ततः कारणमब्रवीत् |
प्रत्यगृह्णंस्तु देवाश्च तद्वचोऽङ्गिरसस्तदा ||१९||
अत्र नानाविधानग्नीन्प्रवक्ष्यामि महाप्रभान् |
कर्मभिर्बहुभिः ख्यातान्नानात्वं ब्राह्मणेष्विह ||२०||
२०८
मार्कण्डेय उवाच||
ब्रह्मणो यस्तृतीयस्तु पुत्रः कुरुकुलोद्वह |
तस्यापवसुता भार्या प्रजास्तस्यापि मे शृणु ||१||
बृहज्ज्योतिर्बृहत्कीर्तिर्बृहद्ब्रह्मा बृहन्मनाः |
बृहन्मन्त्रो बृहद्भासस्तथा राजन्बृहस्पतिः ||२||
प्रजासु तासु सर्वासु रूपेणाप्रतिमाभवत् |
देवी भानुमती नाम प्रथमाङ्गिरसः सुता ||३||
भूतानामेव सर्वेषां यस्यां रागस्तदाभवत् |
रागाद्रागेति यामाहुर्द्वितीयाङ्गिरसः सुता ||४||
यां कपर्दिसुतामाहुर्दृश्यादृश्येति देहिनः |
तनुत्वात्सा सिनीवाली तृतीयाङ्गिरसः सुता ||५||
पश्यत्यर्चिष्मती भाभिर्हविर्भिश्च हविष्मती |
षष्ठीमङ्गिरसः कन्यां पुण्यामाहुर्हविष्मतीम् ||६||
महामखेष्वाङ्गिरसी दीप्तिमत्सु महामती |
महामतीति विख्याता सप्तमी कथ्यते सुता ||७||
यां तु दृष्ट्वा भगवतीं जनः कुहुकुहायते |
एकानंशेति यामाहुः कुहूमङ्गिरसः सुताम् ||८||
२०९
मार्कण्डेय उवाच||
बृहस्पतेश्चान्द्रमसी भार्याभूद्या यशस्विनी |
अग्नीन्साजनयत्पुण्यान्षडेकां चापि पुत्रिकाम् ||१||
आहुतिष्वेव यस्याग्नेर्हविषाज्यं विधीयते |
सोऽग्निर्बृहस्पतेः पुत्रः शंयुर्नाम महाप्रभः ||२||
चातुर्मास्येषु यस्येष्ट्यामश्वमेधेऽग्रजः पशुः |
दीप्तो ज्वालैरनेकाभैरग्निरेकोऽथ वीर्यवान् ||३||
शंयोरप्रतिमा भार्या सत्या सत्या च धर्मजा |
अग्निस्तस्य सुतो दीप्तस्तिस्रः कन्याश्च सुव्रताः ||४||
प्रथमेनाज्यभागेन पूज्यते योऽग्निरध्वरे |
अग्निस्तस्य भरद्वाजः प्रथमः पुत्र उच्यते ||५||
पौर्णमास्येषु सर्वेषु हविषाज्यं स्रुवोद्यतम् |
भरतो नामतः सोऽग्निर्द्वितीयः शंयुतः सुतः ||६||
तिस्रः कन्या भवन्त्यन्या यासां स भरतः पतिः |
भरतस्तु सुतस्तस्य भरत्येका च पुत्रिका ||७||
भरतो भरतस्याग्नेः पावकस्तु प्रजापतेः |
महानत्यर्थमहितस्तथा भरतसत्तम ||८||
भरद्वाजस्य भार्या तु वीरा वीरश्च पिण्डदः |
प्राहुराज्येन तस्येज्यां सोमस्येव द्विजाः शनैः ||९||
हविषा यो द्वितीयेन सोमेन सह युज्यते |
रथप्रभू रथध्वानः कुम्भरेताः स उच्यते ||१०||
सरय्वां जनयत्सिद्धिं भानुं भाभिः समावृणोत् |
आग्नेयमानयन्नित्यमाह्वानेष्वेष कथ्यते ||११||
यस्तु न च्यवते नित्यं यशसा वर्चसा श्रिया |
अग्निर्निश्च्यवनो नाम पृथिवीं स्तौति केवलम् ||१२||
विपाप्मा कलुषैर्मुक्तो विशुद्धश्चार्चिषा ज्वलन् |
विपापोऽग्निः सुतस्तस्य सत्यः समयकर्मसु ||१३||
आक्रोशतां हि भूतानां यः करोति हि निष्कृतिम् |
अग्निः स निष्कृतिर्नाम शोभयत्यभिसेवितः ||१४||
अनुकूजन्ति येनेह वेदनार्ताः स्वयं जनाः |
तस्य पुत्रः स्वनो नाम पावकः स रुजस्करः ||१५||
यस्तु विश्वस्य जगतो बुद्धिमाक्रम्य तिष्ठति |
तं प्राहुरध्यात्मविदो विश्वजिन्नाम पावकम् ||१६||
अन्तराग्निः श्रितो यो हि भुक्तं पचति देहिनाम् |
स यज्ञे विश्वभुङ्नाम सर्वलोकेषु भारत ||१७||
ब्रह्मचारी यतात्मा च सततं विपुलव्रतः |
ब्राह्मणाः पूजयन्त्येनं पाकयज्ञेषु पावकम् ||१८||
प्रथितो गोपतिर्नाम नदी यस्याभवत्प्रिया |
तस्मिन्सर्वाणि कर्माणि क्रियन्ते कर्मकर्तृभिः ||१९||
वडवामुखः पिबत्यम्भो योऽसौ परमदारुणः |
ऊर्ध्वभागूर्ध्वभाङ्नाम कविः प्राणाश्रितस्तु सः ||२०||
उदग्द्वारं हविर्यस्य गृहे नित्यं प्रदीयते |
ततः स्विष्टं भवेदाज्यं स्विष्टकृत्परमः स्मृतः ||२१||
यः प्रशान्तेषु भूतेषु मन्युर्भवति पावकः |
क्रोधस्य तु रसो जज्ञे मन्यती चाथ पुत्रिका ||२२||
स्वाहेति दारुणा क्रूरा सर्वभूतेषु तिष्ठति ||२२||
त्रिदिवे यस्य सदृशो नास्ति रूपेण कश्चन |
अतुल्यत्वात्कृतो देवैर्नाम्ना कामस्तु पावकः ||२३||
संहर्षाद्धारयन्क्रोधं धन्वी स्रग्वी रथे स्थितः |
समरे नाशयेच्छत्रूनमोघो नाम पावकः ||२४||
उक्थो नाम महाभाग त्रिभिरुक्थैरभिष्टुतः |
महावाचं त्वजनयत्सकामाश्वं हि यं विदुः ||२५||
२१०
मार्कण्डेय उवाच||
काश्यपो ह्यथ वासिष्ठः प्राणश्च प्राणपुत्रकः |
अग्निराङ्गिरसश्चैव च्यवनस्त्रिषुवर्चकः ||१||
अचरन्त तपस्तीव्रं पुत्रार्थे बहुवार्षिकम् |
पुत्रं लभेम धर्मिष्ठं यशसा ब्रह्मणा समम् ||२||
महाव्याहृतिभिर्ध्यातः पञ्चभिस्तैस्तदा त्वथ |
जज्ञे तेजोमयोऽर्चिष्मान्पञ्चवर्णः प्रभावनः ||३||
समिद्धोऽग्निः शिरस्तस्य बाहू सूर्यनिभौ तथा |
त्वङ्नेत्रे च सुवर्णाभे कृष्णे जङ्घे च भारत ||४||
पञ्चवर्णः स तपसा कृतस्तैः पञ्चभिर्जनैः |
पाञ्चजन्यः श्रुतो वेदे पञ्चवंशकरस्तु सः ||५||
दश वर्षसहस्राणि तपस्तप्त्वा महातपाः |
जनयत्पावकं घोरं पितॄणां स प्रजाः सृजन् ||६||
बृहद्रथन्तरं मूर्ध्नो वक्त्राच्च तरसाहरौ |
शिवं नाभ्यां बलादिन्द्रं वाय्वग्नी प्राणतोऽसृजत् ||७||
बाहुभ्यामनुदात्तौ च विश्वे भूतानि चैव ह |
एतान्सृष्ट्वा ततः पञ्च पितॄणामसृजत्सुतान् ||८||
बृहदूर्जस्य प्रणिधिः काश्यपस्य बृहत्तरः |
भानुरङ्गिरसो वीरः पुत्रो वर्चस्य सौभरः ||९||
प्राणस्य चानुदात्तश्च व्याख्याताः पञ्च वंशजाः |
देवान्यज्ञमुषश्चान्यान्सृजन्पञ्चदशोत्तरान् ||१०||
अभीममतिभीमं च भीमं भीमबलाबलम् |
एतान्यज्ञमुषः पञ्च देवानभ्यसृजत्तपः ||११||
सुमित्रं मित्रवन्तं च मित्रज्ञं मित्रवर्धनम् |
मित्रधर्माणमित्येतान्देवानभ्यसृजत्तपः ||१२||
सुरप्रवीरं वीरं च सुकेशं च सुवर्चसम् |
सुराणामपि हन्तारं पञ्चैतानसृजत्तपः ||१३||
त्रिविधं संस्थिता ह्येते पञ्च पञ्च पृथक्पृथक् |
मुष्णन्त्यत्र स्थिता ह्येते स्वर्गतो यज्ञयाजिनः ||१४||
तेषामिष्टं हरन्त्येते निघ्नन्ति च महद्भुवि |
स्पर्धया हव्यवाहानां निघ्नन्त्येते हरन्ति च ||१५||
हविर्वेद्यां तदादानं कुशलैः सम्प्रवर्तितम् |
तदेते नोपसर्पन्ति यत्र चाग्निः स्थितो भवेत् ||१६||
चितोऽग्निरुद्वहन्यज्ञं पक्षाभ्यां तान्प्रबाधते |
मन्त्रैः प्रशमिता ह्येते नेष्टं मुष्णन्ति यज्ञियम् ||१७||
बृहदुक्थतपस्यैव पुत्रो भूमिमुपाश्रितः |
अग्निहोत्रे हूयमाने पृथिव्यां सद्भिरिज्यते ||१८||
रथन्तरश्च तपसः पुत्रोऽग्निः परिपठ्यते |
मित्रविन्दाय वै तस्य हविरध्वर्यवो विदुः ||१९||
मुमुदे परमप्रीतः सह पुत्रैर्महायशाः ||१९||
२११
मार्कण्डेय उवाच||
गुरुभिर्नियमैर्युक्तो भरतो नाम पावकः |
अग्निः पुष्टिमतिर्नाम तुष्टः पुष्टिं प्रयच्छति ||१||
भरत्येष प्रजाः सर्वास्ततो भरत उच्यते ||१||
अग्निर्यस्तु शिवो नाम शक्तिपूजापरश्च सः |
दुःखार्तानां स सर्वेषां शिवकृत्सततं शिवः ||२||
तपसस्तु फलं दृष्ट्वा सम्प्रवृद्धं तपो महत् |
उद्धर्तुकामो मतिमान्पुत्रो जज्ञे पुरंदरः ||३||
ऊष्मा चैवोष्मणो जज्ञे सोऽग्निर्भूतेषु लक्ष्यते |
अग्निश्चापि मनुर्नाम प्राजापत्यमकारयत् ||४||
शम्भुमग्निमथ प्राहुर्ब्राह्मणा वेदपारगाः |
आवसथ्यं द्विजाः प्राहुर्दीप्तमग्निं महाप्रभम् ||५||
ऊर्जस्करान्हव्यवाहान्सुवर्णसदृशप्रभान् |
अग्निस्तपो ह्यजनयत्पञ्च यज्ञसुतानिह ||६||
प्रशान्तेऽग्निर्महाभाग परिश्रान्तो गवाम्पतिः |
असुराञ्जनयन्घोरान्मर्त्यांश्चैव पृथग्विधान् ||७||
तपसश्च मनुं पुत्रं भानुं चाप्यङ्गिरासृजत् |
बृहद्भानुं तु तं प्राहुर्ब्राह्मणा वेदपारगाः ||८||
भानोर्भार्या सुप्रजा तु बृहद्भासा तु सोमजा |
असृजेतां तु षट्पुत्राञ्शृणु तासां प्रजाविधिम् ||९||
दुर्बलानां तु भूतानां तनुं यः सम्प्रयच्छति |
तमग्निं बलदं प्राहुः प्रथमं भानुतः सुतम् ||१०||
यः प्रशान्तेषु भूतेषु मन्युर्भवति दारुणः |
अग्निः स मन्युमान्नाम द्वितीयो भानुतः सुतः ||११||
दर्शे च पौर्णमासे च यस्येह हविरुच्यते |
विष्णुर्नामेह योऽग्निस्तु धृतिमान्नाम सोऽङ्गिराः ||१२||
इन्द्रेण सहितं यस्य हविराग्रयणं स्मृतम् |
अग्निराग्रयणो नाम भानोरेवान्वयस्तु सः ||१३||
चातुर्मास्येषु नित्यानां हविषां यो निरग्रहः |
चतुर्भिः सहितः पुत्रैर्भानोरेवान्वयस्तु सः ||१४||
निशां त्वजनयत्कन्यामग्नीषोमावुभौ तथा |
मनोरेवाभवद्भार्या सुषुवे पञ्च पावकान् ||१५||
पूज्यते हविषाग्र्येण चातुर्मास्येषु पावकः |
पर्जन्यसहितः श्रीमानग्निर्वैश्वानरस्तु सः ||१६||
अस्य लोकस्य सर्वस्य यः पतिः परिपठ्यते |
सोऽग्निर्विश्वपतिर्नाम द्वितीयो वै मनोः सुतः ||१७||
ततः स्विष्टं भवेदाज्यं स्विष्टकृत्परमः स्मृतः ||१७||
कन्या सा रोहिणी नाम हिरण्यकशिपोः सुता |
कर्मणासौ बभौ भार्या स वह्निः स प्रजापतिः ||१८||
प्राणमाश्रित्य यो देहं प्रवर्तयति देहिनाम् |
तस्य संनिहितो नाम शब्दरूपस्य साधनः ||१९||
शुक्लकृष्णगतिर्देवो यो बिभर्ति हुताशनम् |
अकल्मषः कल्मषाणां कर्ता क्रोधाश्रितस्तु सः ||२०||
कपिलं परमर्षिं च यं प्राहुर्यतयः सदा |
अग्निः स कपिलो नाम साङ्ख्ययोगप्रवर्तकः ||२१||
अग्निर्यच्छति भूतानि येन भूतानि नित्यदा |
कर्मस्विह विचित्रेषु सोऽग्रणीर्वह्निरुच्यते ||२२||
इमानन्यान्समसृजत्पावकान्प्रथितान्भुवि |
अग्निहोत्रस्य दुष्टस्य प्रायश्चित्तार्थमुल्बणान् ||२३||
संस्पृशेयुर्यदान्योन्यं कथञ्चिद्वायुनाग्नयः |
इष्टिरष्टाकपालेन कार्या वै शुचयेऽग्नये ||२४||
दक्षिणाग्निर्यदा द्वाभ्यां संसृजेत तदा किल |
इष्टिरष्टाकपालेन कार्या वै वीतयेऽग्नये ||२५||
यद्यग्नयो हि स्पृश्येयुर्निवेशस्था दवाग्निना |
इष्टिरष्टाकपालेन कार्या तु शुचयेऽग्नये ||२६||
अग्निं रजस्वला चेत्स्त्री संस्पृशेदग्निहोत्रिकम् |
इष्टिरष्टाकपालेन कार्या दस्युमतेऽग्नये ||२७||
मृतः श्रूयेत यो जीवन्परेयुः पशवो यथा |
इष्टिरष्टाकपालेन कर्तव्याभिमतेऽग्नये ||२८||
आर्तो न जुहुयादग्निं त्रिरात्रं यस्तु ब्राह्मणः |
इष्टिरष्टाकपालेन कार्या स्यादुत्तराग्नये ||२९||
दर्शं च पौर्णमासं च यस्य तिष्ठेत्प्रतिष्ठितम् |
इष्टिरष्टाकपालेन कार्या पथिकृतेऽग्नये ||३०||
सूतिकाग्निर्यदा चाग्निं संस्पृशेदग्निहोत्रिकम् |
इष्टिरष्टाकपालेन कार्या चाग्निमतेऽग्नये ||३१||
२१२
मार्कण्डेय उवाच||
आपस्य मुदिता भार्या सहस्य परमा प्रिया |
भूपतिर्भुवभर्ता च जनयत्पावकं परम् ||१||
भूतानां चापि सर्वेषां यं प्राहुः पावकं पतिम् |
आत्मा भुवनभर्तेति सान्वयेषु द्विजातिषु ||२||
महतां चैव भूतानां सर्वेषामिह यः पतिः |
भगवान्स महातेजा नित्यं चरति पावकः ||३||
अग्निर्गृहपतिर्नाम नित्यं यज्ञेषु पूज्यते |
हुतं वहति यो हव्यमस्य लोकस्य पावकः ||४||
अपां गर्भो महाभागः सहपुत्रो महाद्भुतः |
भूपतिर्भुवभर्ता च महतः पतिरुच्यते ||५||
दहन्मृतानि भूतानि तस्याग्निर्भरतोऽभवत् |
अग्निष्टोमे च नियतः क्रतुश्रेष्ठो भरस्य तु ||६||
आयान्तं नियतं दृष्ट्वा प्रविवेशार्णवं भयात् |
देवास्तं नाधिगच्छन्ति मार्गमाणा यथादिशम् ||७||
दृष्ट्वा त्वग्निरथर्वाणं ततो वचनमब्रवीत् |
देवानां वह हव्यं त्वमहं वीर सुदुर्बलः ||८||
अथर्वन्गच्छ मध्वक्षं प्रियमेतत्कुरुष्व मे ||८||
प्रेष्य चाग्निरथर्वाणमन्यं देशं ततोऽगमत् |
मत्स्यास्तस्य समाचख्युः क्रुद्धस्तानग्निरब्रवीत् ||९||
भक्ष्या वै विविधैर्भावैर्भविष्यथ शरीरिणाम् |
अथर्वाणं तथा चापि हव्यवाहोऽब्रवीद्वचः ||१०||
अनुनीयमानोऽपि भृशं देववाक्याद्धि तेन सः |
नैच्छद्वोढुं हविः सर्वं शरीरं च समत्यजत् ||११||
स तच्छरीरं सन्त्यज्य प्रविवेश धरां तदा |
भूमिं स्पृष्ट्वासृजद्धातून्पृथक्पृथगतीव हि ||१२||
आस्यात्सुगन्धि तेजश्च अस्थिभ्यो देवदारु च |
श्लेष्मणः स्फटिकं तस्य पित्तान्मरकतं तथा ||१३||
यकृत्कृष्णायसं तस्य त्रिभिरेव बभुः प्रजाः |
नखास्तस्याभ्रपटलं शिराजालानि विद्रुमम् ||१४||
शरीराद्विविधाश्चान्ये धातवोऽस्याभवन्नृप ||१४||
एवं त्यक्त्वा शरीरं तु परमे तपसि स्थितः |
भृग्वङ्गिरादिभिर्भूयस्तपसोत्थापितस्तदा ||१५||
भृशं जज्वाल तेजस्वी तपसाप्यायितः शिखी |
दृष्ट्वा ऋषीन्भयाच्चापि प्रविवेश महार्णवम् ||१६||
तस्मिन्नष्टे जगद्भीतमथर्वाणमथाश्रितम् |
अर्चयामासुरेवैनमथर्वाणं सुरर्षयः ||१७||
अथर्वा त्वसृजल्लोकानात्मनालोक्य पावकम् |
मिषतां सर्वभूतानामुन्ममाथ महार्णवम् ||१८||
एवमग्निर्भगवता नष्टः पूर्वमथर्वणा |
आहूतः सर्वभूतानां हव्यं वहति सर्वदा ||१९||
एवं त्वजनयद्धिष्ण्यान्वेदोक्तान्विबुधान्बहून् |
विचरन्विविधान्देशान्भ्रममाणस्तु तत्र वै ||२०||
सिन्धुवर्जं पञ्च नद्यो देविकाथ सरस्वती |
गङ्गा च शतकुम्भा च शरयूर्गण्डसाह्वया ||२१||
चर्मण्वती मही चैव मेध्या मेधातिथिस्तथा |
ताम्रावती वेत्रवती नद्यस्तिस्रोऽथ कौशिकी ||२२||
तमसा नर्मदा चैव नदी गोदावरी तथा |
वेण्णा प्रवेणी भीमा च मेद्रथा चैव भारत ||२३||
भारती सुप्रयोगा च कावेरी मुर्मुरा तथा |
कृष्णा च कृष्णवेण्णा च कपिला शोण एव च ||२४||
एता नद्यस्तु धिष्ण्यानां मातरो याः प्रकीर्तिताः ||२४||
अद्भुतस्य प्रिया भार्या तस्याः पुत्रो विडूरथः |
यावन्तः पावकाः प्रोक्ताः सोमास्तावन्त एव च ||२५||
अत्रेश्चाप्यन्वये जाता ब्रह्मणो मानसाः प्रजाः |
अत्रिः पुत्रान्स्रष्टुकामस्तानेवात्मन्यधारयत् ||२६||
तस्य तद्ब्रह्मणः कायान्निर्हरन्ति हुताशनाः ||२६||
एवमेते महात्मानः कीर्तितास्तेऽग्नयो मया |
अप्रमेया यथोत्पन्नाः श्रीमन्तस्तिमिरापहाः ||२७||
अद्भुतस्य तु माहात्म्यं यथा वेदेषु कीर्तितम् |
तादृशं विद्धि सर्वेषामेको ह्येष हुताशनः ||२८||
एक एवैष भगवान्विज्ञेयः प्रथमोऽङ्गिराः |
बहुधा निःसृतः कायाज्ज्योतिष्टोमः क्रतुर्यथा ||२९||
इत्येष वंशः सुमहानग्नीनां कीर्तितो मया |
पावितो विविधैर्मन्त्रैर्हव्यं वहति देहिनाम् ||३०||
२१३
मार्कण्डेय उवाच||
अग्नीनां विविधो वंशः कीर्तितस्ते मयानघ |
शृणु जन्म तु कौरव्य कार्त्तिकेयस्य धीमतः ||१||
अद्भुतस्याद्भुतं पुत्रं प्रवक्ष्याम्यमितौजसम् |
जातं सप्तर्षिभार्याभिर्ब्रह्मण्यं कीर्तिवर्धनम् ||२||
देवासुराः पुरा यत्ता विनिघ्नन्तः परस्परम् |
तत्राजयन्सदा देवान्दानवा घोररूपिणः ||३||
वध्यमानं बलं दृष्ट्वा बहुशस्तैः पुरंदरः |
स्वसैन्यनायकार्थाय चिन्तामाप भृशं तदा ||४||
देवसेनां दानवैर्यो भग्नां दृष्ट्वा महाबलः |
पालयेद्वीर्यमाश्रित्य स ज्ञेयः पुरुषो मया ||५||
स शैलं मानसं गत्वा ध्यायन्नर्थमिमं भृशम् |
शुश्रावार्तस्वरं घोरमथ मुक्तं स्त्रिया तदा ||६||
अभिधावतु मा कश्चित्पुरुषस्त्रातु चैव ह |
पतिं च मे प्रदिशतु स्वयं वा पतिरस्तु मे ||७||
पुरंदरस्तु तामाह मा भैर्नास्ति भयं तव |
एवमुक्त्वा ततोऽपश्यत्केशिनं स्थितमग्रतः ||८||
किरीटिनं गदापाणिं धातुमन्तमिवाचलम् |
हस्ते गृहीत्वा तां कन्यामथैनं वासवोऽब्रवीत् ||९||
अनार्यकर्मन्कस्मात्त्वमिमां कन्यां जिहीर्षसि |
वज्रिणं मां विजानीहि विरमास्याः प्रबाधनात् ||१०||
केश्युवाच||
विसृजस्व त्वमेवैनां शक्रैषा प्रार्थिता मया |
क्षमं ते जीवतो गन्तुं स्वपुरं पाकशासन ||११||
मार्कण्डेय उवाच||
एवमुक्त्वा गदां केशी चिक्षेपेन्द्रवधाय वै |
तामापतन्तीं चिच्छेद मध्ये वज्रेण वासवः ||१२||
अथास्य शैलशिखरं केशी क्रुद्धो व्यवासृजत् |
तदापतन्तं सम्प्रेक्ष्य शैलशृङ्गं शतक्रतुः ||१३||
बिभेद राजन्वज्रेण भुवि तन्निपपात ह ||१३||
पतता तु तदा केशी तेन शृङ्गेण ताडितः |
हित्वा कन्यां महाभागां प्राद्रवद्भृशपीडितः ||१४||
अपयातेऽसुरे तस्मिंस्तां कन्यां वासवोऽब्रवीत् |
कासि कस्यासि किं चेह कुरुषे त्वं शुभानने ||१५||
कन्योवाच||
अहं प्रजापतेः कन्या देवसेनेति विश्रुता |
भगिनी दैत्यसेना मे सा पूर्वं केशिना हृता ||१६||
सहैवावां भगिन्यौ तु सखीभिः सह मानसम् |
आगच्छावेह रत्यर्थमनुज्ञाप्य प्रजापतिम् ||१७||
नित्यं चावां प्रार्थयते हर्तुं केशी महासुरः |
इच्छत्येनं दैत्यसेना न त्वहं पाकशासन ||१८||
सा हृता तेन भगवन्मुक्ताहं त्वद्बलेन तु |
त्वया देवेन्द्र निर्दिष्टं पतिमिच्छामि दुर्जयम् ||१९||
इन्द्र उवाच||
मम मातृष्वसेया त्वं माता दाक्षायणी मम |
आख्यातं त्वहमिच्छामि स्वयमात्मबलं त्वया ||२०||
कन्योवाच||
अबलाहं महाबाहो पतिस्तु बलवान्मम |
वरदानात्पितुर्भावी सुरासुरनमस्कृतः ||२१||
इन्द्र उवाच||
कीदृशं वै बलं देवि पत्युस्तव भविष्यति |
एतदिच्छाम्यहं श्रोतुं तव वाक्यमनिन्दिते ||२२||
कन्योवाच||
देवदानवयक्षाणां किंनरोरगरक्षसाम् |
जेता स दृष्टो दुष्टानां महावीर्यो महाबलः ||२३||
यस्तु सर्वाणि भूतानि त्वया सह विजेष्यति |
स हि मे भविता भर्ता ब्रह्मण्यः कीर्तिवर्धनः ||२४||
मार्कण्डेय उवाच||
इन्द्रस्तस्या वचः श्रुत्वा दुःखितोऽचिन्तयद्भृशम् |
अस्या देव्याः पतिर्नास्ति यादृशं सम्प्रभाषते ||२५||
अथापश्यत्स उदये भास्करं भास्करद्युतिः |
सोमं चैव महाभागं विशमानं दिवाकरम् ||२६||
अमावास्यां सम्प्रवृत्तं मुहूर्तं रौद्रमेव च |
देवासुरं च सङ्ग्रामं सोऽपश्यदुदये गिरौ ||२७||
लोहितैश्च घनैर्युक्तां पूर्वां सन्ध्यां शतक्रतुः |
अपश्यल्लोहितोदं च भगवान्वरुणालयम् ||२८||
भृगुभिश्चाङ्गिरोभिश्च हुतं मन्त्रैः पृथग्विधैः |
हव्यं गृहीत्वा वह्निं च प्रविशन्तं दिवाकरम् ||२९||
पर्व चैव चतुर्विंशं तदा सूर्यमुपस्थितम् |
तथा धर्मगतं रौद्रं सोमं सूर्यगतं च तम् ||३०||
समालोक्यैकतामेव शशिनो भास्करस्य च |
समवायं तु तं रौद्रं दृष्ट्वा शक्रो व्यचिन्तयत् ||३१||
एष रौद्रश्च सङ्घातो महान्युक्तश्च तेजसा |
सोमस्य वह्निसूर्याभ्यामद्भुतोऽयं समागमः ||३२||
जनयेद्यं सुतं सोमः सोऽस्या देव्याः पतिर्भवेत् ||३२||
अग्निश्चैतैर्गुणैर्युक्तः सर्वैरग्निश्च देवता |
एष चेज्जनयेद्गर्भं सोऽस्या देव्याः पतिर्भवेत् ||३३||
एवं सञ्चिन्त्य भगवान्ब्रह्मलोकं तदा गतः |
गृहीत्वा देवसेनां तामवन्दत्स पितामहम् ||३४||
उवाच चास्या देव्यास्त्वं साधु शूरं पतिं दिश ||३४||
ब्रह्मोवाच||
यथैतच्चिन्तितं कार्यं त्वया दानवसूदन |
तथा स भविता गर्भो बलवानुरुविक्रमः ||३५||
स भविष्यति सेनानीस्त्वया सह शतक्रतो |
अस्या देव्याः पतिश्चैव स भविष्यति वीर्यवान् ||३६||
मार्कण्डेय उवाच||
एतच्छ्रुत्वा नमस्तस्मै कृत्वासौ सह कन्यया |
तत्राभ्यगच्छद्देवेन्द्रो यत्र देवर्षयोऽभवन् ||३७||
वसिष्ठप्रमुखा मुख्या विप्रेन्द्राः सुमहाव्रताः ||३७||
भागार्थं तपसोपात्तं तेषां सोमं तथाध्वरे |
पिपासवो ययुर्देवाः शतक्रतुपुरोगमाः ||३८||
इष्टिं कृत्वा यथान्यायं सुसमिद्धे हुताशने |
जुहुवुस्ते महात्मानो हव्यं सर्वदिवौकसाम् ||३९||
समाहूतो हुतवहः सोऽद्भुतः सूर्यमण्डलात् |
विनिःसृत्याययौ वह्निर्वाग्यतो विधिवत्प्रभुः ||४०||
आगम्याहवनीयं वै तैर्द्विजैर्मन्त्रतो हुतम् ||४०||
स तत्र विविधं हव्यं प्रतिगृह्य हुताशनः |
ऋषिभ्यो भरतश्रेष्ठ प्रायच्छत दिवौकसाम् ||४१||
निष्क्रामंश्चाप्यपश्यत्स पत्नीस्तेषां महात्मनाम् |
स्वेष्वाश्रमेषूपविष्टाः स्नायन्तीश्च यथासुखम् ||४२||
रुक्मवेदिनिभास्तास्तु चन्द्रलेखा इवामलाः |
हुताशनार्चिप्रतिमाः सर्वास्तारा इवाद्भुताः ||४३||
स तद्गतेन मनसा बभूव क्षुभितेन्द्रियः |
पत्नीर्दृष्ट्वा द्विजेन्द्राणां वह्निः कामवशं ययौ ||४४||
स भूयश्चिन्तयामास न न्याय्यं क्षुभितोऽस्मि यत् |
साध्वीः पत्नीर्द्विजेन्द्राणामकामाः कामयाम्यहम् ||४५||
नैताः शक्या मया द्रष्टुं स्प्रष्टुं वाप्यनिमित्ततः |
गार्हपत्यं समाविश्य तस्मात्पश्याम्यभीक्ष्णशः ||४६||
संस्पृशन्निव सर्वास्ताः शिखाभिः काञ्चनप्रभाः |
पश्यमानश्च मुमुदे गार्हपत्यं समाश्रितः ||४७||
निरुष्य तत्र सुचिरमेवं वह्निर्वशं गतः |
मनस्तासु विनिक्षिप्य कामयानो वराङ्गनाः ||४८||
कामसन्तप्तहृदयो देहत्यागे सुनिश्चितः |
अलाभे ब्राह्मणस्त्रीणामग्निर्वनमुपागतः ||४९||
स्वाहा तं दक्षदुहिता प्रथमं कामयत्तदा |
सा तस्य छिद्रमन्वैच्छच्चिरात्प्रभृति भामिनी ||५०||
अप्रमत्तस्य देवस्य न चापश्यदनिन्दिता ||५०||
सा तं ज्ञात्वा यथावत्तु वह्निं वनमुपागतम् |
तत्त्वतः कामसन्तप्तं चिन्तयामास भामिनी ||५१||
अहं सप्तर्षिपत्नीनां कृत्वा रूपाणि पावकम् |
कामयिष्यामि कामार्तं तासां रूपेण मोहितम् ||५२||
एवं कृते प्रीतिरस्य कामावाप्तिश्च मे भवेत् ||५२||
२१४
मार्कण्डेय उवाच||
शिवा भार्या त्वङ्गिरसः शीलरूपगुणान्विता |
तस्याः सा प्रथमं रूपं कृत्वा देवी जनाधिप ||१||
जगाम पावकाभ्याशं तं चोवाच वराङ्गना ||१||
मामग्ने कामसन्तप्तां त्वं कामयितुमर्हसि |
करिष्यसि न चेदेवं मृतां मामुपधारय ||२||
अहमङ्गिरसो भार्या शिवा नाम हुताशन |
सखीभिः सहिता प्राप्ता मन्त्रयित्वा विनिश्चयम् ||३||
अग्निरुवाच||
कथं मां त्वं विजानीषे कामार्तमितराः कथम् |
यास्त्वया कीर्तिताः सर्वाः सप्तर्षीणां प्रियाः स्त्रियः ||४||
शिवोवाच||
अस्माकं त्वं प्रियो नित्यं बिभीमस्तु वयं तव |
त्वच्चित्तमिङ्गितैर्ज्ञात्वा प्रेषितास्मि तवान्तिकम् ||५||
मैथुनायेह सम्प्राप्ता कामं प्राप्तं द्रुतं चर |
मातरो मां प्रतीक्षन्ते गमिष्यामि हुताशन ||६||
मार्कण्डेय उवाच||
ततोऽग्निरुपयेमे तां शिवां प्रीतिमुदायुतः |
प्रीत्या देवी च संयुक्ता शुक्रं जग्राह पाणिना ||७||
अचिन्तयन्ममेदं ये रूपं द्रक्ष्यन्ति कानने |
ते ब्राह्मणीनामनृतं दोषं वक्ष्यन्ति पावके ||८||
तस्मादेतद्रक्ष्यमाणा गरुडी सम्भवाम्यहम् |
वनान्निर्गमनं चैव सुखं मम भविष्यति ||९||
सुपर्णी सा तदा भूत्वा निर्जगाम महावनात् |
अपश्यत्पर्वतं श्वेतं शरस्तम्बैः सुसंवृतम् ||१०||
दृष्टीविषैः सप्तशीर्षैर्गुप्तं भोगिभिरद्भुतैः |
रक्षोभिश्च पिशाचैश्च रौद्रैर्भूतगणैस्तथा ||११||
राक्षसीभिश्च सम्पूर्णमनेकैश्च मृगद्विजैः ||११||
सा तत्र सहसा गत्वा शैलपृष्ठं सुदुर्गमम् |
प्राक्षिपत्काञ्चने कुण्डे शुक्रं सा त्वरिता सती ||१२||
शिष्टानामपि सा देवी सप्तर्षीणां महात्मनाम् |
पत्नीसरूपतां कृत्वा कामयामास पावकम् ||१३||
दिव्यरूपमरुन्धत्याः कर्तुं न शकितं तया |
तस्यास्तपःप्रभावेण भर्तृशुश्रूषणेन च ||१४||
षट्कृत्वस्तत्तु निक्षिप्तमग्ने रेतः कुरूत्तम |
तस्मिन्कुण्डे प्रतिपदि कामिन्या स्वाहया तदा ||१५||
तत्स्कन्नं तेजसा तत्र सम्भृतं जनयत्सुतम् |
ऋषिभिः पूजितं स्कन्नमनयत्स्कन्दतां ततः ||१६||
षट्शिरा द्विगुणश्रोत्रो द्वादशाक्षिभुजक्रमः |
एकग्रीवस्त्वेककायः कुमारः समपद्यत ||१७||
द्वितीयायामभिव्यक्तस्तृतीयायां शिशुर्बभौ |
अङ्गप्रत्यङ्गसम्भूतश्चतुर्थ्यामभवद्गुहः ||१८||
लोहिताभ्रेण महता संवृतः सह विद्युता |
लोहिताभ्रे सुमहति भाति सूर्य इवोदितः ||१९||
गृहीतं तु धनुस्तेन विपुलं लोमहर्षणम् |
न्यस्तं यत्त्रिपुरघ्नेन सुरारिविनिकृन्तनम् ||२०||
तद्गृहीत्वा धनुःश्रेष्ठं ननाद बलवांस्तदा |
संमोहयन्निवेमान्स त्रीँल्लोकान्सचराचरान् ||२१||
तस्य तं निनदं श्रुत्वा महामेघौघनिस्वनम् |
उत्पेततुर्महानागौ चित्रश्चैरावतश्च ह ||२२||
तावापतन्तौ सम्प्रेक्ष्य स बालार्कसमद्युतिः |
द्वाभ्यां गृहीत्वा पाणिभ्यां शक्तिं चान्येन पाणिना ||२३||
अपरेणाग्निदायादस्ताम्रचूडं भुजेन सः ||२३||
महाकायमुपश्लिष्टं कुक्कुटं बलिनां वरम् |
गृहीत्वा व्यनदद्भीमं चिक्रीड च महाबलः ||२४||
द्वाभ्यां भुजाभ्यां बलवान्गृहीत्वा शङ्खमुत्तमम् |
प्राध्मापयत भूतानां त्रासनं बलिनामपि ||२५||
द्वाभ्यां भुजाभ्यामाकाशं बहुशो निजघान सः |
क्रीडन्भाति महासेनस्त्रीँल्लोकान्वदनैः पिबन् ||२६||
पर्वताग्रेऽप्रमेयात्मा रश्मिमानुदये यथा ||२६||
स तस्य पर्वतस्याग्रे निषण्णोऽद्भुतविक्रमः |
व्यलोकयदमेयात्मा मुखैर्नानाविधैर्दिशः ||२७||
स पश्यन्विविधान्भावांश्चकार निनदं पुनः ||२७||
तस्य तं निनदं श्रुत्वा न्यपतन्बहुधा जनाः |
भीताश्चोद्विग्नमनसस्तमेव शरणं ययुः ||२८||
ये तु तं संश्रिता देवं नानावर्णास्तदा जनाः |
तानप्याहुः पारिषदान्ब्राह्मणाः सुमहाबलान् ||२९||
स तूत्थाय महाबाहुरुपसान्त्व्य च ताञ्जनान् |
धनुर्विकृष्य व्यसृजद्बाणाञ्श्वेते महागिरौ ||३०||
बिभेद स शरैः शैलं क्रौञ्चं हिमवतः सुतम् |
तेन हंसाश्च गृध्राश्च मेरुं गच्छन्ति पर्वतम् ||३१||
स विशीर्णोऽपतच्छैलो भृशमार्तस्वरान्रुवन् |
तस्मिन्निपतिते त्वन्ये नेदुः शैला भृशं भयात् ||३२||
स तं नादं भृशार्तानां श्रुत्वापि बलिनां वरः |
न प्राव्यथदमेयात्मा शक्तिमुद्यम्य चानदत् ||३३||
सा तदा विपुला शक्तिः क्षिप्ता तेन महात्मना |
बिभेद शिखरं घोरं श्वेतस्य तरसा गिरेः ||३४||
स तेनाभिहतो दीनो गिरिः श्वेतोऽचलैः सह |
उत्पपात महीं त्यक्त्वा भीतस्तस्मान्महात्मनः ||३५||
ततः प्रव्यथिता भूमिर्व्यशीर्यत समन्ततः |
आर्ता स्कन्दं समासाद्य पुनर्बलवती बभौ ||३६||
पर्वताश्च नमस्कृत्य तमेव पृथिवीं गताः |
अथायमभजल्लोकः स्कन्दं शुक्लस्य पञ्चमीम् ||३७||
२१५
मार्कण्डेय उवाच||
ऋषयस्तु महाघोरान्दृष्ट्वोत्पातान्पृथग्विधान् |
अकुर्वञ्शान्तिमुद्विग्ना लोकानां लोकभावनाः ||१||
निवसन्ति वने ये तु तस्मिंश्चैत्ररथे जनाः |
तेऽब्रुवन्नेष नोऽनर्थः पावकेनाहृतो महान् ||२||
सङ्गम्य षड्भिः पत्नीभिः सप्तर्षीणामिति स्म ह ||२||
अपरे गरुडीमाहुस्त्वयानर्थोऽयमाहृतः |
यैर्दृष्टा सा तदा देवी तस्या रूपेण गच्छती ||३||
न तु तत्स्वाहया कर्म कृतं जानाति वै जनः ||३||
सुपर्णी तु वचः श्रुत्वा ममायं तनयस्त्विति |
उपगम्य शनैः स्कन्दमाहाहं जननी तव ||४||
अथ सप्तर्षयः श्रुत्वा जातं पुत्रं महौजसम् |
तत्यजुः षट्तदा पत्नीर्विना देवीमरुन्धतीम् ||५||
षड्भिरेव तदा जातमाहुस्तद्वनवासिनः |
सप्तर्षीनाह च स्वाहा मम पुत्रोऽयमित्युत ||६||
अहं जाने नैतदेवमिति राजन्पुनः पुनः ||६||
विश्वामित्रस्तु कृत्वेष्टिं सप्तर्षीणां महामुनिः |
पावकं कामसन्तप्तमदृष्टः पृष्ठतोऽन्वगात् ||७||
तत्तेन निखिलं सर्वमवबुद्धं यथातथम् ||७||
विश्वामित्रस्तु प्रथमं कुमारं शरणं गतः |
स्तवं दिव्यं सम्प्रचक्रे महासेनस्य चापि सः ||८||
मङ्गलानि च सर्वाणि कौमाराणि त्रयोदश |
जातकर्मादिकास्तस्य क्रियाश्चक्रे महामुनिः ||९||
षड्वक्त्रस्य तु माहात्म्यं कुक्कुटस्य च साधनम् |
शक्त्या देव्याः साधनं च तथा पारिषदामपि ||१०||
विश्वामित्रश्चकारैतत्कर्म लोकहिताय वै |
तस्मादृषिः कुमारस्य विश्वामित्रोऽभवत्प्रियः ||११||
अन्वजानाच्च स्वाहाया रूपान्यत्वं महामुनिः |
अब्रवीच्च मुनीन्सर्वान्नापराध्यन्ति वै स्त्रियः ||१२||
श्रुत्वा तु तत्त्वतस्तस्मात्ते पत्नीः सर्वतोऽत्यजन् ||१२||
स्कन्दं श्रुत्वा ततो देवा वासवं सहिताब्रुवन् |
अविषह्यबलं स्कन्दं जहि शक्राशु माचिरम् ||१३||
यदि वा न निहंस्येनमद्येन्द्रोऽयं भविष्यति |
त्रैलोक्यं संनिगृह्यास्मांस्त्वां च शक्र महाबलः ||१४||
स तानुवाच व्यथितो बालोऽयं सुमहाबलः |
स्रष्टारमपि लोकानां युधि विक्रम्य नाशयेत् ||१५||
सर्वास्त्वद्याभिगच्छन्तु स्कन्दं लोकस्य मातरः |
कामवीर्या घ्नन्तु चैनं तथेत्युक्त्वा च ता ययुः ||१६||
तमप्रतिबलं दृष्ट्वा विषण्णवदनास्तु ताः |
अशक्योऽयं विचिन्त्यैवं तमेव शरणं ययुः ||१७||
ऊचुश्चापि त्वमस्माकं पुत्रोऽस्माभिर्धृतं जगत् |
अभिनन्दस्व नः सर्वाः प्रस्नुताः स्नेहविक्लवाः ||१८||
ताः सम्पूज्य महासेनः कामांश्चासां प्रदाय सः |
अपश्यदग्निमायान्तं पितरं बलिनां बली ||१९||
स तु सम्पूजितस्तेन सह मातृगणेन ह |
परिवार्य महासेनं रक्षमाणः स्थितः स्थिरम् ||२०||
सर्वासां या तु मातॄणां नारी क्रोधसमुद्भवा |
धात्री सा पुत्रवत्स्कन्दं शूलहस्ताभ्यरक्षत ||२१||
लोहितस्योदधेः कन्या क्रूरा लोहितभोजना |
परिष्वज्य महासेनं पुत्रवत्पर्यरक्षत ||२२||
अग्निर्भूत्वा नैगमेयश्छागवक्त्रो बहुप्रजः |
रमयामास शैलस्थं बालं क्रीडनकैरिव ||२३||
२१६
मार्कण्डेय उवाच||
ग्रहाः सोपग्रहाश्चैव ऋषयो मातरस्तथा |
हुताशनमुखाश्चापि दीप्ताः पारिषदां गणाः ||१||
एते चान्ये च बहवो घोरास्त्रिदिववासिनः |
परिवार्य महासेनं स्थिता मातृगणैः सह ||२||
संदिग्धं विजयं दृष्ट्वा विजयेप्सुः सुरेश्वरः |
आरुह्यैरावतस्कन्धं प्रययौ दैवतैः सह ||३||
विजिघांसुर्महासेनमिन्द्रस्तूर्णतरं ययौ ||३||
उग्रं तच्च महावेगं देवानीकं महाप्रभम् |
विचित्रध्वजसंनाहं नानावाहनकार्मुकम् ||४||
प्रवराम्बरसंवीतं श्रिया जुष्टमलङ्कृतम् ||४||
विजिघांसुं तदायान्तं कुमारः शक्रमभ्ययात् |
विनदन्पथि शक्रस्तु द्रुतं याति महाबलः ||५||
संहर्षयन्देवसेनां जिघांसुः पावकात्मजम् ||५||
सम्पूज्यमानस्त्रिदशैस्तथैव परमर्षिभिः |
समीपमुपसम्प्राप्तः कार्त्तिकेयस्य वासवः ||६||
सिंहनादं ततश्चक्रे देवेशः सहितः सुरैः |
गुहोऽपि शब्दं तं श्रुत्वा व्यनदत्सागरो यथा ||७||
तस्य शब्देन महता समुद्धूतोदधिप्रभम् |
बभ्राम तत्र तत्रैव देवसैन्यमचेतनम् ||८||
जिघांसूनुपसम्प्राप्तान्देवान्दृष्ट्वा स पावकिः |
विससर्ज मुखात्क्रुद्धः प्रवृद्धाः पावकार्चिषः ||९||
ता देवसैन्यान्यदहन्वेष्टमानानि भूतले ||९||
ते प्रदीप्तशिरोदेहाः प्रदीप्तायुधवाहनाः |
प्रच्युताः सहसा भान्ति चित्रास्तारागणा इव ||१०||
दह्यमानाः प्रपन्नास्ते शरणं पावकात्मजम् |
देवा वज्रधरं त्यक्त्वा ततः शान्तिमुपागताः ||११||
त्यक्तो देवैस्ततः स्कन्दे वज्रं शक्रोऽभ्यवासृजत् |
तद्विसृष्टं जघानाशु पार्श्वं स्कन्दस्य दक्षिणम् ||१२||
बिभेद च महाराज पार्श्वं तस्य महात्मनः ||१२||
वज्रप्रहारात्स्कन्दस्य सञ्जातः पुरुषोऽपरः |
युवा काञ्चनसंनाहः शक्तिधृग्दिव्यकुण्डलः ||१३||
यद्वज्रविशनाज्जातो विशाखस्तेन सोऽभवत् ||१३||
तं जातमपरं दृष्ट्वा कालानलसमद्युतिम् |
भयादिन्द्रस्ततः स्कन्दं प्राञ्जलिः शरणं गतः ||१४||
तस्याभयं ददौ स्कन्दः सहसैन्यस्य सत्तम |
ततः प्रहृष्टास्त्रिदशा वादित्राण्यभ्यवादयन् ||१५||
२१७
मार्कण्डेय उवाच||
स्कन्दस्य पार्षदान्घोराञ्शृणुष्वाद्भुतदर्शनान् |
वज्रप्रहारात्स्कन्दस्य जज्ञुस्तत्र कुमारकाः ||१||
ये हरन्ति शिशूञ्जातान्गर्भस्थांश्चैव दारुणाः ||१||
वज्रप्रहारात्कन्याश्च जज्ञिरेऽस्य महाबलाः |
कुमाराश्च विशाखं तं पितृत्वे समकल्पयन् ||२||
स भूत्वा भगवान्सङ्ख्ये रक्षंश्छागमुखस्तदा |
वृतः कन्यागणैः सर्वैरात्मनीनैश्च पुत्रकैः ||३||
मातॄणां प्रेक्षतीनां च भद्रशाखश्च कौशलः |
ततः कुमारपितरं स्कन्दमाहुर्जना भुवि ||४||
रुद्रमग्निमुमां स्वाहां प्रदेशेषु महाबलाम् |
यजन्ति पुत्रकामाश्च पुत्रिणश्च सदा जनाः ||५||
यास्तास्त्वजनयत्कन्यास्तपो नाम हुताशनः |
किं करोमीति ताः स्कन्दं सम्प्राप्ताः समभाषत ||६||
मातर ऊचुः||
भवेम सर्वलोकस्य वयं मातर उत्तमाः |
प्रसादात्तव पूज्याश्च प्रियमेतत्कुरुष्व नः ||७||
मार्कण्डेय उवाच||
सोऽब्रवीद्बाढमित्येवं भविष्यध्वं पृथग्विधाः |
अशिवाश्च शिवाश्चैव पुनः पुनरुदारधीः ||८||
ततः सङ्कल्प्य पुत्रत्वे स्कंदं मातृगणोऽगमत् |
काकी च हलिमा चैव रुद्राथ बृहली तथा ||९||
आर्या पलाला वै मित्रा सप्तैताः शिशुमातरः ||९||
एतासां वीर्यसम्पन्नः शिशुर्नामातिदारुणः |
स्कन्दप्रसादजः पुत्रो लोहिताक्षो भयङ्करः ||१०||
एष वीराष्टकः प्रोक्तः स्कन्दमातृगणोद्भवः |
छागवक्त्रेण सहितो नवकः परिकीर्त्यते ||११||
षष्ठं छागमयं वक्त्रं स्कन्दस्यैवेति विद्धि तत् |
षट्शिरोऽभ्यन्तरं राजन्नित्यं मातृगणार्चितम् ||१२||
षण्णां तु प्रवरं तस्य शीर्षाणामिह शब्द्यते |
शक्तिं येनासृजद्दिव्यां भद्रशाख इति स्म ह ||१३||
इत्येतद्विविधाकारं वृत्तं शुक्लस्य पञ्चमीम् |
तत्र युद्धं महाघोरं वृत्तं षष्ठ्यां जनाधिप ||१४||
२१८
मार्कण्डेय उवाच||
उपविष्टं ततः स्कन्दं हिरण्यकवचस्रजम् |
हिरण्यचूडमुकुटं हिरण्याक्षं महाप्रभम् ||१||
लोहिताम्बरसंवीतं तीक्ष्णदंष्ट्रं मनोरमम् |
सर्वलक्षणसम्पन्नं त्रैलोक्यस्यापि सुप्रियम् ||२||
ततस्तं वरदं शूरं युवानं मृष्टकुण्डलम् |
अभजत्पद्मरूपा श्रीः स्वयमेव शरीरिणी ||३||
श्रिया जुष्टः पृथुयशाः स कुमारवरस्तदा |
निषण्णो दृश्यते भूतैः पौर्णमास्यां यथा शशी ||४||
अपूजयन्महात्मानो ब्राह्मणास्तं महाबलम् |
इदमाहुस्तदा चैव स्कन्दं तत्र महर्षयः ||५||
हिरण्यवर्ण भद्रं ते लोकानां शङ्करो भव |
त्वया षड्रात्रजातेन सर्वे लोका वशीकृताः ||६||
अभयं च पुनर्दत्तं त्वयैवैषां सुरोत्तम |
तस्मादिन्द्रो भवानस्तु त्रैलोक्यस्याभयङ्करः ||७||
स्कन्द उवाच||
किमिन्द्रः सर्वलोकानां करोतीह तपोधनाः |
कथं देवगणांश्चैव पाति नित्यं सुरेश्वरः ||८||
ऋषय ऊचुः||
इन्द्रो दिशति भूतानां बलं तेजः प्रजाः सुखम् |
तुष्टः प्रयच्छति तथा सर्वान्दायान्सुरेश्वरः ||९||
दुर्वृत्तानां संहरति वृत्तस्थानां प्रयच्छति |
अनुशास्ति च भूतानि कार्येषु बलसूदनः ||१०||
असूर्ये च भवेत्सूर्यस्तथाचन्द्रे च चन्द्रमाः |
भवत्यग्निश्च वायुश्च पृथिव्यापश्च कारणैः ||११||
एतदिन्द्रेण कर्तव्यमिन्द्रे हि विपुलं बलम् |
त्वं च वीर बलश्रेष्ठस्तस्मादिन्द्रो भवस्व नः ||१२||
शक्र उवाच||
भवस्वेन्द्रो महाबाहो सर्वेषां नः सुखावहः |
अभिषिच्यस्व चैवाद्य प्राप्तरूपोऽसि सत्तम ||१३||
स्कन्द उवाच||
शाधि त्वमेव त्रैलोक्यमव्यग्रो विजये रतः |
अहं ते किङ्करः शक्र न ममेन्द्रत्वमीप्सितम् ||१४||
शक्र उवाच||
बलं तवाद्भुतं वीर त्वं देवानामरीञ्जहि |
अवज्ञास्यन्ति मां लोका वीर्येण तव विस्मिताः ||१५||
इन्द्रत्वेऽपि स्थितं वीर बलहीनं पराजितम् |
आवयोश्च मिथो भेदे प्रयतिष्यन्त्यतन्द्रिताः ||१६||
भेदिते च त्वयि विभो लोको द्वैधमुपेष्यति |
द्विधाभूतेषु लोकेषु निश्चितेष्वावयोस्तथा ||१७||
विग्रहः सम्प्रवर्तेत भूतभेदान्महाबल ||१७||
तत्र त्वं मां रणे तात यथाश्रद्धं विजेष्यसि |
तस्मादिन्द्रो भवानद्य भविता मा विचारय ||१८||
स्कन्द उवाच||
त्वमेव राजा भद्रं ते त्रैलोक्यस्य ममैव च |
करोमि किं च ते शक्र शासनं तद्ब्रवीहि मे ||१९||
शक्र उवाच||
यदि सत्यमिदं वाक्यं निश्चयाद्भाषितं त्वया |
यदि वा शासनं स्कन्द कर्तुमिच्छसि मे शृणु ||२०||
अभिषिच्यस्व देवानां सेनापत्ये महाबल |
अहमिन्द्रो भविष्यामि तव वाक्यान्महाबल ||२१||
स्कन्द उवाच||
दानवानां विनाशाय देवानामर्थसिद्धये |
गोब्राह्मणस्य त्राणार्थं सेनापत्येऽभिषिञ्च माम् ||२२||
मार्कण्डेय उवाच||
सोऽभिषिक्तो मघवता सर्वैर्देवगणैः सह |
अतीव शुशुभे तत्र पूज्यमानो महर्षिभिः ||२३||
तस्य तत्काञ्चनं छत्रं ध्रियमाणं व्यरोचत |
यथैव सुसमिद्धस्य पावकस्यात्ममण्डलम् ||२४||
विश्वकर्मकृता चास्य दिव्या माला हिरण्मयी |
आबद्धा त्रिपुरघ्नेन स्वयमेव यशस्विना ||२५||
आगम्य मनुजव्याघ्र सह देव्या परन्तप |
अर्चयामास सुप्रीतो भगवान्गोवृषध्वजः ||२६||
रुद्रमग्निं द्विजाः प्राहू रुद्रसूनुस्ततस्तु सः |
रुद्रेण शुक्रमुत्सृष्टं तच्छ्वेतः पर्वतोऽभवत् ||२७||
पावकस्येन्द्रियं श्वेते कृत्तिकाभिः कृतं नगे ||२७||
पूज्यमानं तु रुद्रेण दृष्ट्वा सर्वे दिवौकसः |
रुद्रसूनुं ततः प्राहुर्गुहं गुणवतां वरम् ||२८||
अनुप्रविश्य रुद्रेण वह्निं जातो ह्ययं शिशुः |
तत्र जातस्ततः स्कन्दो रुद्रसूनुस्ततोऽभवत् ||२९||
रुद्रस्य वह्नेः स्वाहायाः षण्णां स्त्रीणां च तेजसा |
जातः स्कन्दः सुरश्रेष्ठो रुद्रसूनुस्ततोऽभवत् ||३०||
अरजे वाससी रक्ते वसानः पावकात्मजः |
भाति दीप्तवपुः श्रीमान्रक्ताभ्राभ्यामिवांशुमान् ||३१||
कुक्कुटश्चाग्निना दत्तस्तस्य केतुरलङ्कृतः |
रथे समुच्छ्रितो भाति कालाग्निरिव लोहितः ||३२||
विवेश कवचं चास्य शरीरं सहजं ततः |
युध्यमानस्य देवस्य प्रादुर्भवति तत्सदा ||३३||
शक्तिर्वर्म बलं तेजः कान्तत्वं सत्यमक्षतिः |
ब्रह्मण्यत्वमसंमोहो भक्तानां परिरक्षणम् ||३४||
निकृन्तनं च शत्रूणां लोकानां चाभिरक्षणम् |
स्कन्देन सह जातानि सर्वाण्येव जनाधिप ||३५||
एवं देवगणैः सर्वैः सोऽभिषिक्तः स्वलङ्कृतः |
बभौ प्रतीतः सुमनाः परिपूर्णेन्दुदर्शनः ||३६||
इष्टैः स्वाध्यायघोषैश्च देवतूर्यरवैरपि |
देवगन्धर्वगीतैश्च सर्वैरप्सरसां गणैः ||३७||
एतैश्चान्यैश्च विविधैर्हृष्टतुष्टैरलङ्कृतैः |
क्रीडन्निव तदा देवैरभिषिक्तः स पावकिः ||३८||
अभिषिक्तं महासेनमपश्यन्त दिवौकसः |
विनिहत्य तमः सूर्यं यथेहाभ्युदितं तथा ||३९||
अथैनमभ्ययुः सर्वा देवसेनाः सहस्रशः |
अस्माकं त्वं पतिरिति ब्रुवाणाः सर्वतोदिशम् ||४०||
ताः समासाद्य भगवान्सर्वभूतगणैर्वृतः |
अर्चितश्च स्तुतश्चैव सान्त्वयामास ता अपि ||४१||
शतक्रतुश्चाभिषिच्य स्कन्दं सेनापतिं तदा |
सस्मार तां देवसेनां या सा तेन विमोक्षिता ||४२||
अयं तस्याः पतिर्नूनं विहितो ब्रह्मणा स्वयम् |
इति चिन्त्यानयामास देवसेनां स्वलङ्कृताम् ||४३||
स्कन्दं चोवाच बलभिदियं कन्या सुरोत्तम |
अजाते त्वयि निर्दिष्टा तव पत्नी स्वयम्भुवा ||४४||
तस्मात्त्वमस्या विधिवत्पाणिं मन्त्रपुरस्कृतम् |
गृहाण दक्षिणं देव्याः पाणिना पद्मवर्चसम् ||४५||
एवमुक्तः स जग्राह तस्याः पाणिं यथाविधि |
बृहस्पतिर्मन्त्रविधिं जजाप च जुहाव च ||४६||
एवं स्कन्दस्य महिषीं देवसेनां विदुर्बुधाः |
षष्ठीं यां ब्राह्मणाः प्राहुर्लक्ष्मीमाशां सुखप्रदाम् ||४७||
सिनीवालीं कुहूं चैव सद्वृत्तिमपराजिताम् ||४७||
यदा स्कन्दः पतिर्लब्धः शाश्वतो देवसेनया |
तदा तमाश्रयल्लक्ष्मीः स्वयं देवी शरीरिणी ||४८||
श्रीजुष्टः पञ्चमीं स्कन्दस्तस्माच्छ्रीपञ्चमी स्मृता |
षष्ठ्यां कृतार्थोऽभूद्यस्मात्तस्मात्षष्ठी महातिथिः ||४९||
२१९
मार्कण्डेय उवाच||
श्रिया जुष्टं महासेनं देवसेनापतिं कृतम् |
सप्तर्षिपत्न्यः षड्देव्यस्तत्सकाशमथागमन् ||१||
ऋषिभिः सम्परित्यक्ता धर्मयुक्ता महाव्रताः |
द्रुतमागम्य चोचुस्ता देवसेनापतिं प्रभुम् ||२||
वयं पुत्र परित्यक्ता भर्तृभिर्देवसंमितैः |
अकारणाद्रुषा तात पुण्यस्थानात्परिच्युताः ||३||
अस्माभिः किल जातस्त्वमिति केनाप्युदाहृतम् |
असत्यमेतत्संश्रुत्य तस्मान्नस्त्रातुमर्हसि ||४||
अक्षयश्च भवेत्स्वर्गस्त्वत्प्रसादाद्धि नः प्रभो |
त्वां पुत्रं चाप्यभीप्सामः कृत्वैतदनृणो भव ||५||
स्कन्द उवाच||
मातरो हि भवत्यो मे सुतो वोऽहमनिन्दिताः |
यच्चाभीप्सथ तत्सर्वं सम्भविष्यति वस्तथा ||६||
मार्कण्डेय उवाच||
एवमुक्ते ततः शक्रं किं कार्यमिति सोऽब्रवीत् |
उक्तः स्कन्देन ब्रूहीति सोऽब्रवीद्वासवस्ततः ||७||
अभिजित्स्पर्धमाना तु रोहिण्या कन्यसी स्वसा |
इच्छन्ती ज्येष्ठतां देवी तपस्तप्तुं वनं गता ||८||
तत्र मूढोऽस्मि भद्रं ते नक्षत्रं गगनाच्च्युतम् |
कालं त्विमं परं स्कन्द ब्रह्मणा सह चिन्तय ||९||
धनिष्ठादिस्तदा कालो ब्रह्मणा परिनिर्मितः |
रोहिण्याद्योऽभवत्पूर्वमेवं सङ्ख्या समाभवत् ||१०||
एवमुक्ते तु शक्रेण त्रिदिवं कृत्तिका गताः |
नक्षत्रं शकटाकारं भाति तद्वह्निदैवतम् ||११||
विनता चाब्रवीत्स्कन्दं मम त्वं पिण्डदः सुतः |
इच्छामि नित्यमेवाहं त्वया पुत्र सहासितुम् ||१२||
स्कन्द उवाच||
एवमस्तु नमस्तेऽस्तु पुत्रस्नेहात्प्रशाधि माम् |
स्नुषया पूज्यमाना वै देवि वत्स्यसि नित्यदा ||१३||
मार्कण्डेय उवाच||
अथ मातृगणः सर्वः स्कन्दं वचनमब्रवीत् |
वयं सर्वस्य लोकस्य मातरः कविभिः स्तुताः ||१४||
इच्छामो मातरस्तुभ्यं भवितुं पूजयस्व नः ||१४||
स्कन्द उवाच||
मातरस्तु भवत्यो मे भवतीनामहं सुतः |
उच्यतां यन्मया कार्यं भवतीनामथेप्सितम् ||१५||
मातर ऊचुः||
यास्तु ता मातरः पूर्वं लोकस्यास्य प्रकल्पिताः |
अस्माकं तद्भवेत्स्थानं तासां चैव न तद्भवेत् ||१६||
भवेम पूज्या लोकस्य न ताः पूज्याः सुरर्षभ |
प्रजास्माकं हृतास्ताभिस्त्वत्कृते ताः प्रयच्छ नः ||१७||
स्कन्द उवाच||
दत्ताः प्रजा न ताः शक्या भवतीभिर्निषेवितुम् |
अन्यां वः कां प्रयच्छामि प्रजां यां मनसेच्छथ ||१८||
मातर ऊचुः||
इच्छाम तासां मातॄणां प्रजा भोक्तुं प्रयच्छ नः |
त्वया सह पृथग्भूता ये च तासामथेश्वराः ||१९||
स्कन्द उवाच||
प्रजा वो दद्मि कष्टं तु भवतीभिरुदाहृतम् |
परिरक्षत भद्रं वः प्रजाः साधु नमस्कृताः ||२०||
मातर ऊचुः||
परिरक्षाम भद्रं ते प्रजाः स्कन्द यथेच्छसि |
त्वया नो रोचते स्कन्द सहवासश्चिरं प्रभो ||२१||
स्कन्द उवाच||
यावत्षोडश वर्षाणि भवन्ति तरुणाः प्रजाः |
प्रबाधत मनुष्याणां तावद्रूपैः पृथग्विधैः ||२२||
अहं च वः प्रदास्यामि रौद्रमात्मानमव्ययम् |
परमं तेन सहिता सुखं वत्स्यथ पूजिताः ||२३||
मार्कण्डेय उवाच||
ततः शरीरात्स्कन्दस्य पुरुषः काञ्चनप्रभः |
भोक्तुं प्रजाः स मर्त्यानां निष्पपात महाबलः ||२४||
अपतत्स तदा भूमौ विसञ्ज्ञोऽथ क्षुधान्वितः |
स्कन्देन सोऽभ्यनुज्ञातो रौद्ररूपोऽभवद्ग्रहः ||२५||
स्कन्दापस्मारमित्याहुर्ग्रहं तं द्विजसत्तमाः ||२५||
विनता तु महारौद्रा कथ्यते शकुनिग्रहः |
पूतनां राक्षसीं प्राहुस्तं विद्यात्पूतनाग्रहम् ||२६||
कष्टा दारुणरूपेण घोररूपा निशाचरी |
पिशाची दारुणाकारा कथ्यते शीतपूतना ||२७||
गर्भान्सा मानुषीणां तु हरते घोरदर्शना ||२७||
अदितिं रेवतीं प्राहुर्ग्रहस्तस्यास्तु रैवतः |
सोऽपि बालाञ्शिशून्घोरो बाधते वै महाग्रहः ||२८||
दैत्यानां या दितिर्माता तामाहुर्मुखमण्डिकाम् |
अत्यर्थं शिशुमांसेन सम्प्रहृष्टा दुरासदा ||२९||
कुमाराश्च कुमार्यश्च ये प्रोक्ताः स्कन्दसम्भवाः |
तेऽपि गर्भभुजः सर्वे कौरव्य सुमहाग्रहाः ||३०||
तासामेव कुमारीणां पतयस्ते प्रकीर्तिताः |
अज्ञायमाना गृह्णन्ति बालकान्रौद्रकर्मिणः ||३१||
गवां माता तु या प्राज्ञैः कथ्यते सुरभिर्नृप |
शकुनिस्तामथारुह्य सह भुङ्क्ते शिशून्भुवि ||३२||
सरमा नाम या माता शुनां देवी जनाधिप |
सापि गर्भान्समादत्ते मानुषीणां सदैव हि ||३३||
पादपानां च या माता करञ्जनिलया हि सा |
करञ्जे तां नमस्यन्ति तस्मात्पुत्रार्थिनो नराः ||३४||
इमे त्वष्टादशान्ये वै ग्रहा मांसमधुप्रियाः |
द्विपञ्चरात्रं तिष्ठन्ति सततं सूतिकागृहे ||३५||
कद्रूः सूक्ष्मवपुर्भूत्वा गर्भिणीं प्रविशेद्यदा |
भुङ्क्ते सा तत्र तं गर्भं सा तु नागं प्रसूयते ||३६||
गन्धर्वाणां तु या माता सा गर्भं गृह्य गच्छति |
ततो विलीनगर्भा सा मानुषी भुवि दृश्यते ||३७||
या जनित्री त्वप्सरसां गर्भमास्ते प्रगृह्य सा |
उपविष्टं ततो गर्भं कथयन्ति मनीषिणः ||३८||
लोहितस्योदधेः कन्या धात्री स्कन्दस्य सा स्मृता |
लोहितायनिरित्येवं कदम्बे सा हि पूज्यते ||३९||
पुरुषेषु यथा रुद्रस्तथार्या प्रमदास्वपि |
आर्या माता कुमारस्य पृथक्कामार्थमिज्यते ||४०||
एवमेते कुमाराणां मया प्रोक्ता महाग्रहाः |
यावत्षोडश वर्षाणि अशिवास्ते शिवास्ततः ||४१||
ये च मातृगणाः प्रोक्ताः पुरुषाश्चैव ये ग्रहाः |
सर्वे स्कन्दग्रहा नाम ज्ञेया नित्यं शरीरिभिः ||४२||
तेषां प्रशमनं कार्यं स्नानं धूपमथाञ्जनम् |
बलिकर्मोपहारश्च स्कन्दस्येज्या विशेषतः ||४३||
एवमेतेऽर्चिताः सर्वे प्रयच्छन्ति शुभं नृणाम् |
आयुर्वीर्यं च राजेन्द्र सम्यक्पूजानमस्कृताः ||४४||
ऊर्ध्वं तु षोडशाद्वर्षाद्ये भवन्ति ग्रहा नृणाम् |
तानहं सम्प्रवक्ष्यामि नमस्कृत्य महेश्वरम् ||४५||
यः पश्यति नरो देवाञ्जाग्रद्वा शयितोऽपि वा |
उन्माद्यति स तु क्षिप्रं तं तु देवग्रहं विदुः ||४६||
आसीनश्च शयानश्च यः पश्यति नरः पितॄन् |
उन्माद्यति स तु क्षिप्रं स ज्ञेयस्तु पितृग्रहः ||४७||
अवमन्यति यः सिद्धान्क्रुद्धाश्चापि शपन्ति यम् |
उन्माद्यति स तु क्षिप्रं ज्ञेयः सिद्धग्रहस्तु सः ||४८||
उपाघ्राति च यो गन्धान्रसांश्चापि पृथग्विधान् |
उन्माद्यति स तु क्षिप्रं स ज्ञेयो राक्षसो ग्रहः ||४९||
गन्धर्वाश्चापि यं दिव्याः संस्पृशन्ति नरं भुवि |
उन्माद्यति स तु क्षिप्रं ग्रहो गान्धर्व एव सः ||५०||
आविशन्ति च यं यक्षाः पुरुषं कालपर्यये |
उन्माद्यति स तु क्षिप्रं ज्ञेयो यक्षग्रहस्तु सः ||५१||
अधिरोहन्ति यं नित्यं पिशाचाः पुरुषं क्वचित् |
उन्माद्यति स तु क्षिप्रं पैशाचं तं ग्रहं विदुः ||५२||
यस्य दोषैः प्रकुपितं चित्तं मुह्यति देहिनः |
उन्माद्यति स तु क्षिप्रं साधनं तस्य शास्त्रतः ||५३||
वैक्लव्याच्च भयाच्चैव घोराणां चापि दर्शनात् |
उन्माद्यति स तु क्षिप्रं सत्त्वं तस्य तु साधनम् ||५४||
कश्चित्क्रीडितुकामो वै भोक्तुकामस्तथापरः |
अभिकामस्तथैवान्य इत्येष त्रिविधो ग्रहः ||५५||
यावत्सप्ततिवर्षाणि भवन्त्येते ग्रहा नृणाम् |
अतः परं देहिनां तु ग्रहतुल्यो भवेज्ज्वरः ||५६||
अप्रकीर्णेन्द्रियं दान्तं शुचिं नित्यमतन्द्रितम् |
आस्तिकं श्रद्दधानं च वर्जयन्ति सदा ग्रहाः ||५७||
इत्येष ते ग्रहोद्देशो मानुषाणां प्रकीर्तितः |
न स्पृशन्ति ग्रहा भक्तान्नरान्देवं महेश्वरम् ||५८||
२२०
मार्कण्डेय उवाच||
यदा स्कन्देन मातॄणामेवमेतत्प्रियं कृतम् |
अथैनमब्रवीत्स्वाहा मम पुत्रस्त्वमौरसः ||१||
इच्छाम्यहं त्वया दत्तां प्रीतिं परमदुर्लभाम् |
तामब्रवीत्ततः स्कन्दः प्रीतिमिच्छसि कीदृशीम् ||२||
स्वाहोवाच||
दक्षस्याहं प्रिया कन्या स्वाहा नाम महाभुज |
बाल्यात्प्रभृति नित्यं च जातकामा हुताशने ||३||
न च मां कामिनीं पुत्र सम्यग्जानाति पावकः |
इच्छामि शाश्वतं वासं वस्तुं पुत्र सहाग्निना ||४||
स्कन्द उवाच||
हव्यं कव्यं च यत्किञ्चिद्द्विजा मन्त्रपुरस्कृतम् |
होष्यन्त्यग्नौ सदा देवि स्वाहेत्युक्त्वा समुद्यतम् ||५||
अद्य प्रभृति दास्यन्ति सुवृत्ताः सत्पथे स्थिताः |
एवमग्निस्त्वया सार्धं सदा वत्स्यति शोभने ||६||
मार्कण्डेय उवाच||
एवमुक्ता ततः स्वाहा तुष्टा स्कन्देन पूजिता |
पावकेन समायुक्ता भर्त्रा स्कन्दमपूजयत् ||७||
ततो ब्रह्मा महासेनं प्रजापतिरथाब्रवीत् |
अभिगच्छ महादेवं पितरं त्रिपुरार्दनम् ||८||
रुद्रेणाग्निं समाविश्य स्वाहामाविश्य चोमया |
हितार्थं सर्वलोकानां जातस्त्वमपराजितः ||९||
उमायोन्यां च रुद्रेण शुक्रं सिक्तं महात्मना |
आस्ते गिरौ निपतितं मिञ्जिकामिञ्जिकं यतः ||१०||
सम्भूतं लोहितोदे तु शुक्रशेषमवापतत् |
सूर्यरश्मिषु चाप्यन्यदन्यच्चैवापतद्भुवि ||११||
आसक्तमन्यद्वृक्षेषु तदेवं पञ्चधापतत् ||११||
त एते विविधाकारा गणा ज्ञेया मनीषिभिः |
तव पारिषदा घोरा य एते पिशिताशनाः ||१२||
एवमस्त्विति चाप्युक्त्वा महासेनो महेश्वरम् |
अपूजयदमेयात्मा पितरं पितृवत्सलः ||१३||
अर्कपुष्पैस्तु ते पञ्च गणाः पूज्या धनार्थिभिः |
व्याधिप्रशमनार्थं च तेषां पूजां समाचरेत् ||१४||
मिञ्जिकामिञ्जिकं चैव मिथुनं रुद्रसम्भवम् |
नमस्कार्यं सदैवेह बालानां हितमिच्छता ||१५||
स्त्रियो मानुषमांसादा वृद्धिका नाम नामतः |
वृक्षेषु जातास्ता देव्यो नमस्कार्याः प्रजार्थिभिः ||१६||
एवमेते पिशाचानामसङ्ख्येया गणाः स्मृताः |
घण्टायाः सपताकायाः शृणु मे सम्भवं नृप ||१७||
ऐरावतस्य घण्टे द्वे वैजयन्त्याविति श्रुते |
गुहस्य ते स्वयं दत्ते शक्रेणानाय्य धीमता ||१८||
एका तत्र विशाखस्य घण्टा स्कन्दस्य चापरा |
पताका कार्त्तिकेयस्य विशाखस्य च लोहिता ||१९||
यानि क्रीडनकान्यस्य देवैर्दत्तानि वै तदा |
तैरेव रमते देवो महासेनो महाबलः ||२०||
स संवृतः पिशाचानां गणैर्देवगणैस्तथा |
शुशुभे काञ्चने शैले दीप्यमानः श्रिया वृतः ||२१||
तेन वीरेण शुशुभे स शैलः शुभकाननः |
आदित्येनेवांशुमता मन्दरश्चारुकन्दरः ||२२||
सन्तानकवनैः फुल्लैः करवीरवनैरपि |
पारिजातवनैश्चैव जपाशोकवनैस्तथा ||२३||
कदम्बतरुषण्डैश्च दिव्यैर्मृगगणैरपि |
दिव्यैः पक्षिगणैश्चैव शुशुभे श्वेतपर्वतः ||२४||
तत्र देवगणाः सर्वे सर्वे चैव महर्षयः |
मेघतूर्यरवाश्चैव क्षुब्धोदधिसमस्वनाः ||२५||
तत्र दिव्याश्च गन्धर्वा नृत्यन्त्यप्सरसस्तथा |
हृष्टानां तत्र भूतानां श्रूयते निनदो महान् ||२६||
एवं सेन्द्रं जगत्सर्वं श्वेतपर्वतसंस्थितम् |
प्रहृष्टं प्रेक्षते स्कन्दं न च ग्लायति दर्शनात् ||२७||
२२१
मार्कण्डेय उवाच||
यदाभिषिक्तो भगवान्सेनापत्येन पावकिः |
तदा सम्प्रस्थितः श्रीमान्हृष्टो भद्रवटं हरः ||१||
रथेनादित्यवर्णेन पार्वत्या सहितः प्रभुः ||१||
सहस्रं तस्य सिंहानां तस्मिन्युक्तं रथोत्तमे |
उत्पपात दिवं शुभ्रं कालेनाभिप्रचोदितः ||२||
ते पिबन्त इवाकाशं त्रासयन्तश्चराचरान् |
सिंहा नभस्यगच्छन्त नदन्तश्चारुकेसराः ||३||
तस्मिन्रथे पशुपतिः स्थितो भात्युमया सह |
विद्युता सहितः सूर्यः सेन्द्रचापे घने यथा ||४||
अग्रतस्तस्य भगवान्धनेशो गुह्यकैः सह |
आस्थाय रुचिरं याति पुष्पकं नरवाहनः ||५||
ऐरावतं समास्थाय शक्रश्चापि सुरैः सह |
पृष्ठतोऽनुययौ यान्तं वरदं वृषभध्वजम् ||६||
जम्भकैर्यक्षरक्षोभिः स्रग्विभिः समलङ्कृतः |
यात्यमोघो महायक्षो दक्षिणं पक्षमास्थितः ||७||
तस्य दक्षिणतो देवा मरुतश्चित्रयोधिनः |
गच्छन्ति वसुभिः सार्धं रुद्रैश्च सह सङ्गताः ||८||
यमश्च मृत्युना सार्धं सर्वतः परिवारितः |
घोरैर्व्याधिशतैर्याति घोररूपवपुस्तथा ||९||
यमस्य पृष्ठतश्चैव घोरस्त्रिशिखरः शितः |
विजयो नाम रुद्रस्य याति शूलः स्वलङ्कृतः ||१०||
तमुग्रपाशो वरुणो भगवान्सलिलेश्वरः |
परिवार्य शनैर्याति यादोभिर्विविधैर्वृतः ||११||
पृष्ठतो विजयस्यापि याति रुद्रस्य पट्टिशः |
गदामुसलशक्त्याद्यैर्वृतः प्रहरणोत्तमैः ||१२||
पट्टिशं त्वन्वगाद्राजंश्छत्रं रौद्रं महाप्रभम् |
कमण्डलुश्चाप्यनु तं महर्षिगणसंवृतः ||१३||
तस्य दक्षिणतो भाति दण्डो गच्छञ्श्रिया वृतः |
भृग्वङ्गिरोभिः सहितो देवैश्चाप्यभिपूजितः ||१४||
एषां तु पृष्ठतो रुद्रो विमले स्यन्दने स्थितः |
याति संहर्षयन्सर्वांस्तेजसा त्रिदिवौकसः ||१५||
ऋषयश्चैव देवाश्च गन्धर्वा भुजगास्तथा |
नद्यो नदा द्रुमाश्चैव तथैवाप्सरसां गणाः ||१६||
नक्षत्राणि ग्रहाश्चैव देवानां शिशवश्च ये |
स्त्रियश्च विविधाकारा यान्ति रुद्रस्य पृष्ठतः ||१७||
सृजन्त्यः पुष्पवर्षाणि चारुरूपा वराङ्गनाः ||१७||
पर्जन्यश्चाप्यनुययौ नमस्कृत्य पिनाकिनम् |
छत्रं तु पाण्डुरं सोमस्तस्य मूर्धन्यधारयत् ||१८||
चामरे चापि वायुश्च गृहीत्वाग्निश्च विष्ठितौ ||१८||
शक्रश्च पृष्ठतस्तस्य याति राजञ्श्रिया वृतः |
सह राजर्षिभिः सर्वैः स्तुवानो वृषकेतनम् ||१९||
गौरी विद्याथ गान्धारी केशिनी मित्रसाह्वया |
सावित्र्या सह सर्वास्ताः पार्वत्या यान्ति पृष्ठतः ||२०||
तत्र विद्यागणाः सर्वे ये केचित्कविभिः कृताः |
यस्य कुर्वन्ति वचनं सेन्द्रा देवाश्चमूमुखे ||२१||
स गृहीत्वा पताकां तु यात्यग्रे राक्षसो ग्रहः |
व्यापृतस्तु श्मशाने यो नित्यं रुद्रस्य वै सखा ||२२||
पिङ्गलो नाम यक्षेन्द्रो लोकस्यानन्ददायकः ||२२||
एभिः स सहितस्तत्र ययौ देवो यथासुखम् |
अग्रतः पृष्ठतश्चैव न हि तस्य गतिर्ध्रुवा ||२३||
रुद्रं सत्कर्मभिर्मर्त्याः पूजयन्तीह दैवतम् |
शिवमित्येव यं प्राहुरीशं रुद्रं पिनाकिनम् ||२४||
भावैस्तु विविधाकारैः पूजयन्ति महेश्वरम् ||२४||
देवसेनापतिस्त्वेवं देवसेनाभिरावृतः |
अनुगच्छति देवेशं ब्रह्मण्यः कृत्तिकासुतः ||२५||
अथाब्रवीन्महासेनं महादेवो बृहद्वचः |
सप्तमं मारुतस्कन्धं रक्ष नित्यमतन्द्रितः ||२६||
स्कन्द उवाच||
सप्तमं मारुतस्कन्धं पालयिष्याम्यहं प्रभो |
यदन्यदपि मे कार्यं देव तद्वद माचिरम् ||२७||
रुद्र उवाच||
कार्येष्वहं त्वया पुत्र संद्रष्टव्यः सदैव हि |
दर्शनान्मम भक्त्या च श्रेयः परमवाप्स्यसि ||२८||
मार्कण्डेय उवाच||
इत्युक्त्वा विससर्जैनं परिष्वज्य महेष्वरः |
विसर्जिते ततः स्कन्दे बभूवौत्पातिकं महत् ||२९||
सहसैव महाराज देवान्सर्वान्प्रमोहयत् ||२९||
जज्वाल खं सनक्षत्रं प्रमूढं भुवनं भृशम् |
चचाल व्यनदच्चोर्वी तमोभूतं जगत्प्रभो ||३०||
ततस्तद्दारुणं दृष्ट्वा क्षुभितः शङ्करस्तदा |
उमा चैव महाभागा देवाश्च समहर्षयः ||३१||
ततस्तेषु प्रमूढेषु पर्वताम्बुदसंनिभम् |
नानाप्रहरणं घोरमदृश्यत महद्बलम् ||३२||
तद्धि घोरमसङ्ख्येयं गर्जच्च विविधा गिरः |
अभ्यद्रवद्रणे देवान्भगवन्तं च शङ्करम् ||३३||
तैर्विसृष्टान्यनीकेषु बाणजालान्यनेकशः |
पर्वताश्च शतघ्न्यश्च प्रासाश्च परिघा गदाः ||३४||
निपतद्भिश्च तैर्घोरैर्देवानीकं महायुधैः |
क्षणेन व्यद्रवत्सर्वं विमुखं चाप्यदृश्यत ||३५||
निकृत्तयोधनागाश्वं कृत्तायुधमहारथम् |
दानवैरर्दितं सैन्यं देवानां विमुखं बभौ ||३६||
असुरैर्वध्यमानं तत्पावकैरिव काननम् |
अपतद्दग्धभूयिष्ठं महाद्रुमवनं यथा ||३७||
ते विभिन्नशिरोदेहाः प्रच्यवन्ते दिवौकसः |
न नाथमध्यगच्छन्त वध्यमाना महारणे ||३८||
अथ तद्विद्रुतं सैन्यं दृष्ट्वा देवः पुरंदरः |
आश्वासयन्नुवाचेदं बलवद्दानवार्दितम् ||३९||
भयं त्यजत भद्रं वः शूराः शस्त्राणि गृह्णत |
कुरुध्वं विक्रमे बुद्धिं मा वः काचिद्व्यथा भवेत् ||४०||
जयतैनान्सुदुर्वृत्तान्दानवान्घोरदर्शनान् |
अभिद्रवत भद्रं वो मया सह महासुरान् ||४१||
शक्रस्य वचनं श्रुत्वा समाश्वस्ता दिवौकसः |
दानवान्प्रत्ययुध्यन्त शक्रं कृत्वा व्यपाश्रयम् ||४२||
ततस्ते त्रिदशाः सर्वे मरुतश्च महाबलाः |
प्रत्युद्ययुर्महावेगाः साध्याश्च वसुभिः सह ||४३||
तैर्विसृष्टान्यनीकेषु क्रुद्धैः शस्त्राणि संयुगे |
शराश्च दैत्यकायेषु पिबन्ति स्मासृगुल्बणम् ||४४||
तेषां देहान्विनिर्भिद्य शरास्ते निशितास्तदा |
निष्पतन्तो अदृश्यन्त नगेभ्य इव पन्नगाः ||४५||
तानि दैत्यशरीराणि निर्भिन्नानि स्म सायकैः |
अपतन्भूतले राजंश्छिन्नाभ्राणीव सर्वशः ||४६||
ततस्तद्दानवं सैन्यं सर्वैर्देवगणैर्युधि |
त्रासितं विविधैर्बाणैः कृतं चैव पराङ्मुखम् ||४७||
अथोत्क्रुष्टं तदा हृष्टैः सर्वैर्देवैरुदायुधैः |
संहतानि च तूर्याणि तदा सर्वाण्यनेकशः ||४८||
एवमन्योन्यसंयुक्तं युद्धमासीत्सुदारुणम् |
देवानां दानवानां च मांसशोणितकर्दमम् ||४९||
अनयो देवलोकस्य सहसैव व्यदृश्यत |
तथा हि दानवा घोरा विनिघ्नन्ति दिवौकसः ||५०||
ततस्तूर्यप्रणादाश्च भेरीणां च महास्वनाः |
बभूवुर्दानवेन्द्राणां सिंहनादाश्च दारुणाः ||५१||
अथ दैत्यबलाद्घोरान्निष्पपात महाबलः |
दानवो महिषो नाम प्रगृह्य विपुलं गिरिम् ||५२||
ते तं घनैरिवादित्यं दृष्ट्वा सम्परिवारितम् |
समुद्यतगिरिं राजन्व्यद्रवन्त दिवौकसः ||५३||
अथाभिद्रुत्य महिषो देवांश्चिक्षेप तं गिरिम् |
पतता तेन गिरिणा देवसैन्यस्य पार्थिव ||५४||
भीमरूपेण निहतमयुतं प्रापतद्भुवि ||५४||
अथ तैर्दानवैः सार्धं महिषस्त्रासयन्सुरान् |
अभ्यद्रवद्रणे तूर्णं सिंहः क्षुद्रमृगानिव ||५५||
तमापतन्तं महिषं दृष्ट्वा सेन्द्रा दिवौकसः |
व्यद्रवन्त रणे भीता विशीर्णायुधकेतनाः ||५६||
ततः स महिषः क्रुद्धस्तूर्णं रुद्ररथं ययौ |
अभिद्रुत्य च जग्राह रुद्रस्य रथकूबरम् ||५७||
यदा रुद्ररथं क्रुद्धो महिषः सहसा गतः |
रेसतू रोदसी गाढं मुमुहुश्च महर्षयः ||५८||
व्यनदंश्च महाकाया दैत्या जलधरोपमाः |
आसीच्च निश्चितं तेषां जितमस्माभिरित्युत ||५९||
तथाभूते तु भगवान्नावधीन्महिषं रणे |
सस्मार च तदा स्कन्दं मृत्युं तस्य दुरात्मनः ||६०||
महिषोऽपि रथं दृष्ट्वा रौद्रं रुद्रस्य नानदत् |
देवान्सन्त्रासयंश्चापि दैत्यांश्चापि प्रहर्षयन् ||६१||
ततस्तस्मिन्भये घोरे देवानां समुपस्थिते |
आजगाम महासेनः क्रोधात्सूर्य इव ज्वलन् ||६२||
लोहिताम्बरसंवीतो लोहितस्रग्विभूषणः |
लोहितास्यो महाबाहुर्हिरण्यकवचः प्रभुः ||६३||
रथमादित्यसङ्काशमास्थितः कनकप्रभम् |
तं दृष्ट्वा दैत्यसेना सा व्यद्रवत्सहसा रणे ||६४||
स चापि तां प्रज्वलितां महिषस्य विदारिणीम् |
मुमोच शक्तिं राजेन्द्र महासेनो महाबलः ||६५||
सा मुक्ताभ्यहनच्छक्तिर्महिषस्य शिरो महत् |
पपात भिन्ने शिरसि महिषस्त्यक्तजीवितः ||६६||
क्षिप्ताक्षिप्ता तु सा शक्तिर्हत्वा शत्रून्सहस्रशः |
स्कन्दहस्तमनुप्राप्ता दृश्यते देवदानवैः ||६७||
प्रायः शरैर्विनिहता महासेनेन धीमता |
शेषा दैत्यगणा घोरा भीतास्त्रस्ता दुरासदैः ||६८||
स्कन्दस्य पार्षदैर्हत्वा भक्षिताः शतसङ्घशः ||६८||
दानवान्भक्षयन्तस्ते प्रपिबन्तश्च शोणितम् |
क्षणान्निर्दानवं सर्वमकार्षुर्भृशहर्षिताः ||६९||
तमांसीव यथा सूर्यो वृक्षानग्निर्घनान्खगः |
तथा स्कन्दोऽजयच्छत्रून्स्वेन वीर्येण कीर्तिमान् ||७०||
सम्पूज्यमानस्त्रिदशैरभिवाद्य महेश्वरम् |
शुशुभे कृत्तिकापुत्रः प्रकीर्णांशुरिवांशुमान् ||७१||
नष्टशत्रुर्यदा स्कन्दः प्रयातश्च महेश्वरम् |
अथाब्रवीन्महासेनं परिष्वज्य पुरंदरः ||७२||
ब्रह्मदत्तवरः स्कन्द त्वयायं महिषो हतः |
देवास्तृणमया यस्य बभूवुर्जयतां वर ||७३||
सोऽयं त्वया महाबाहो शमितो देवकण्टकः ||७३||
शतं महिषतुल्यानां दानवानां त्वया रणे |
निहतं देवशत्रूणां यैर्वयं पूर्वतापिताः ||७४||
तावकैर्भक्षिताश्चान्ये दानवाः शतसङ्घशः |
अजेयस्त्वं रणेऽरीणामुमापतिरिव प्रभुः ||७५||
एतत्ते प्रथमं देव ख्यातं कर्म भविष्यति |
त्रिषु लोकेषु कीर्तिश्च तवाक्षय्या भविष्यति ||७६||
वशगाश्च भविष्यन्ति सुरास्तव सुरात्मज ||७६||
महासेनेत्येवमुक्त्वा निवृत्तः सह दैवतैः |
अनुज्ञातो भगवता त्र्यम्बकेन शचीपतिः ||७७||
गतो भद्रवटं रुद्रो निवृत्ताश्च दिवौकसः |
उक्ताश्च देवा रुद्रेण स्कन्दं पश्यत मामिव ||७८||
स हत्वा दानवगणान्पूज्यमानो महर्षिभिः |
एकाह्नैवाजयत्सर्वं त्रैलोक्यं वह्निनन्दनः ||७९||
स्कन्दस्य य इदं जन्म पठते सुसमाहितः |
स पुष्टिमिह सम्प्राप्य स्कन्दसालोक्यतामियात् ||८०||
द्रौपदिसत्यभामासंवादपर्व
२२२
वैशम्पायन उवाच||
उपासीनेषु विप्रेषु पाण्डवेषु महात्मसु |
द्रौपदी सत्यभामा च विविशाते तदा समम् ||१||
जाहस्यमाने सुप्रीते सुखं तत्र निषीदतुः ||१||
चिरस्य दृष्ट्वा राजेन्द्र तेऽन्योन्यस्य प्रियंवदे |
कथयामासतुश्चित्राः कथाः कुरुयदुक्षिताम् ||२||
अथाब्रवीत्सत्यभामा कृष्णस्य महिषी प्रिया |
सात्राजिती याज्ञसेनीं रहसीदं सुमध्यमा ||३||
केन द्रौपदि वृत्तेन पाण्डवानुपतिष्ठसि |
लोकपालोपमान्वीरान्यूनः परमसंमतान् ||४||
कथं च वशगास्तुभ्यं न कुप्यन्ति च ते शुभे ||४||
तव वश्या हि सततं पाण्डवाः प्रियदर्शने |
मुखप्रेक्षाश्च ते सर्वे तत्त्वमेतद्ब्रवीहि मे ||५||
व्रतचर्या तपो वापि स्नानमन्त्रौषधानि वा |
विद्यावीर्यं मूलवीर्यं जपहोमस्तथागदाः ||६||
मम आचक्ष्व पाञ्चालि यशस्यं भगवेदनम् |
येन कृष्णे भवेन्नित्यं मम कृष्णो वशानुगः ||७||
एवमुक्त्वा सत्यभामा विरराम यशस्विनी |
पतिव्रता महाभागा द्रौपदी प्रत्युवाच ताम् ||८||
असत्स्त्रीणां समाचारं सत्ये मामनुपृच्छसि |
असदाचरिते मार्गे कथं स्यादनुकीर्तनम् ||९||
अनुप्रश्नः संशयो वा नैतत्त्वय्युपपद्यते |
तथा ह्युपेता बुद्ध्या त्वं कृष्णस्य महिषी प्रिया ||१०||
यदैव भर्ता जानीयान्मन्त्रमूलपरां स्त्रियम् |
उद्विजेत तदैवास्याः सर्पाद्वेश्मगतादिव ||११||
उद्विग्नस्य कुतः शान्तिरशान्तस्य कुतः सुखम् |
न जातु वशगो भर्ता स्त्रियाः स्यान्मन्त्रकारणात् ||१२||
अमित्रप्रहितांश्चापि गदान्परमदारुणान् |
मूलप्रवादैर्हि विषं प्रयच्छन्ति जिघांसवः ||१३||
जिह्वया यानि पुरुषस्त्वचा वाप्युपसेवते |
तत्र चूर्णानि दत्तानि हन्युः क्षिप्रमसंशयम् ||१४||
जलोदरसमायुक्ताः श्वित्रिणः पलितास्तथा |
अपुमांसः कृताः स्त्रीभिर्जडान्धबधिरास्तथा ||१५||
पापानुगास्तु पापास्ताः पतीनुपसृजन्त्युत |
न जातु विप्रियं भर्तुः स्त्रिया कार्यं कथञ्चन ||१६||
वर्ताम्यहं तु यां वृत्तिं पाण्डवेषु महात्मसु |
तां सर्वां शृणु मे सत्यां सत्यभामे यशस्विनि ||१७||
अहङ्कारं विहायाहं कामक्रोधौ च सर्वदा |
सदारान्पाण्डवान्नित्यं प्रयतोपचराम्यहम् ||१८||
प्रणयं प्रतिसङ्गृह्य निधायात्मानमात्मनि |
शुश्रूषुर्निरभीमाना पतीनां चित्तरक्षिणी ||१९||
दुर्व्याहृताच्छङ्कमाना दुःस्थिताद्दुरवेक्षितात् |
दुरासिताद्दुर्व्रजितादिङ्गिताध्यासितादपि ||२०||
सूर्यवैश्वानरनिभान्सोमकल्पान्महारथान् |
सेवे चक्षुर्हणः पार्थानुग्रतेजःप्रतापिनः ||२१||
देवो मनुष्यो गन्धर्वो युवा चापि स्वलङ्कृतः |
द्रव्यवानभिरूपो वा न मेऽन्यः पुरुषो मतः ||२२||
नाभुक्तवति नास्नाते नासंविष्टे च भर्तरि |
न संविशामि नाश्नामि सदा कर्मकरेष्वपि ||२३||
क्षेत्राद्वनाद्वा ग्रामाद्वा भर्तारं गृहमागतम् |
प्रत्युत्थायाभिनन्दामि आसनेनोदकेन च ||२४||
प्रमृष्टभाण्डा मृष्टान्ना काले भोजनदायिनी |
संयता गुप्तधान्या च सुसंमृष्टनिवेशना ||२५||
अतिरस्कृतसम्भाषा दुःस्त्रियो नानुसेवती |
अनुकूलवती नित्यं भवाम्यनलसा सदा ||२६||
अनर्मे चापि हसनं द्वारि स्थानमभीक्ष्णशः |
अवस्करे चिरस्थानं निष्कुटेषु च वर्जये ||२७||
अतिहासातिरोषौ च क्रोधस्थानं च वर्जये |
निरताहं सदा सत्ये भर्तॄणामुपसेवने ||२८||
सर्वथा भर्तृरहितं न ममेष्टं कथञ्चन ||२८||
यदा प्रवसते भर्ता कुटुम्बार्थेन केनचित् |
सुमनोवर्णकापेता भवामि व्रतचारिणी ||२९||
यच्च भर्ता न पिबति यच्च भर्ता न खादति |
यच्च नाश्नाति मे भर्ता सर्वं तद्वर्जयाम्यहम् ||३०||
यथोपदेशं नियता वर्तमाना वराङ्गने |
स्वलङ्कृता सुप्रयता भर्तुः प्रियहिते रता ||३१||
ये च धर्माः कुटुम्बेषु श्वश्र्वा मे कथिताः पुरा |
भिक्षाबलिश्राद्धमिति स्थालीपाकाश्च पर्वसु ||३२||
मान्यानां मानसत्कारा ये चान्ये विदिता मया ||३२||
तान्सर्वाननुवर्तामि दिवारात्रमतन्द्रिता |
विनयान्नियमांश्चापि सदा सर्वात्मना श्रिता ||३३||
मृदून्सतः सत्यशीलान्सत्यधर्मानुपालिनः |
आशीविषानिव क्रुद्धान्पतीन्परिचराम्यहम् ||३४||
पत्याश्रयो हि मे धर्मो मतः स्त्रीणां सनातनः |
स देवः सा गतिर्नान्या तस्य का विप्रियं चरेत् ||३५||
अहं पतीन्नातिशये नात्यश्ने नातिभूषये |
नापि परिवदे श्वश्रूं सर्वदा परियन्त्रिता ||३६||
अवधानेन सुभगे नित्योत्थानतयैव च |
भर्तारो वशगा मह्यं गुरुशुश्रूषणेन च ||३७||
नित्यमार्यामहं कुन्तीं वीरसूं सत्यवादिनीम् |
स्वयं परिचराम्येका स्नानाच्छादनभोजनैः ||३८||
नैतामतिशये जातु वस्त्रभूषणभोजनैः |
नापि परिवदे चाहं तां पृथां पृथिवीसमाम् ||३९||
अष्टावग्रे ब्राह्मणानां सहस्राणि स्म नित्यदा |
भुञ्जते रुक्मपात्रीषु युधिष्ठिरनिवेशने ||४०||
अष्टाशीतिसहस्राणि स्नातका गृहमेधिनः |
त्रिंशद्दासीक एकैको यान्बिभर्ति युधिष्ठिरः ||४१||
दशान्यानि सहस्राणि येषामन्नं सुसंस्कृतम् |
ह्रियते रुक्मपात्रीभिर्यतीनामूर्ध्वरेतसाम् ||४२||
तान्सर्वानग्रहारेण ब्राह्मणान्ब्रह्मवादिनः |
यथार्हं पूजयामि स्म पानाच्छादनभोजनैः ||४३||
शतं दासीसहस्राणि कौन्तेयस्य महात्मनः |
कम्बुकेयूरधारिण्यो निष्ककण्ठ्यः स्वलङ्कृताः ||४४||
महार्हमाल्याभरणाः सुवर्णाश्चन्दनोक्षिताः |
मणीन्हेम च बिभ्रत्यो नृत्यगीतविशारदाः ||४५||
तासां नाम च रूपं च भोजनाच्छादनानि च |
सर्वासामेव वेदाहं कर्म चैव कृताकृतम् ||४६||
शतं दासीसहस्राणि कुन्तीपुत्रस्य धीमतः |
पात्रीहस्ता दिवारात्रमतिथीन्भोजयन्त्युत ||४७||
शतमश्वसहस्राणि दश नागायुतानि च |
युधिष्ठिरस्यानुयात्रमिन्द्रप्रस्थनिवासिनः ||४८||
एतदासीत्तदा राज्ञो यन्महीं पर्यपालयत् |
येषां सङ्ख्याविधिं चैव प्रदिशामि शृणोमि च ||४९||
अन्तःपुराणां सर्वेषां भृत्यानां चैव सर्वशः |
आ गोपालाविपालेभ्यः सर्वं वेद कृताकृतम् ||५०||
सर्वं राज्ञः समुदयमायं च व्ययमेव च |
एकाहं वेद्मि कल्याणि पाण्डवानां यशस्विनाम् ||५१||
मयि सर्वं समासज्य कुटुम्बं भरतर्षभाः |
उपासनरताः सर्वे घटन्ते स्म शुभानने ||५२||
तमहं भारमासक्तमनाधृष्यं दुरात्मभिः |
सुखं सर्वं परित्यज्य रात्र्यहानि घटामि वै ||५३||
अधृष्यं वरुणस्येव निधिपूर्णमिवोदधिम् |
एकाहं वेद्मि कोशं वै पतीनां धर्मचारिणाम् ||५४||
अनिशायां निशायां च सहायाः क्षुत्पिपासयोः |
आराधयन्त्याः कौरव्यांस्तुल्या रात्रिरहश्च मे ||५५||
प्रथमं प्रतिबुध्यामि चरमं संविशामि च |
नित्यकालमहं सत्ये एतत्संवननं मम ||५६||
एतज्जानाम्यहं कर्तुं भर्तृसंवननं महत् |
असत्स्त्रीणां समाचारं नाहं कुर्यां न कामये ||५७||
तच्छ्रुत्वा धर्मसहितं व्याहृतं कृष्णया तदा |
उवाच सत्या सत्कृत्य पाञ्चालीं धर्मचारिणीम् ||५८||
अभिपन्नास्मि पाञ्चालि याज्ञसेनि क्षमस्व मे |
कामकारः सखीनां हि सोपहासं प्रभाषितुम् ||५९||
२२३
द्रौपद्युवाच||
इमं तु ते मार्गमपेतदोषं; वक्ष्यामि चित्तग्रहणाय भर्तुः |
यस्मिन्यथावत्सखि वर्तमाना; भर्तारमाच्छेत्स्यसि कामिनीभ्यः ||१||
नैतादृशं दैवतमस्ति सत्ये; सर्वेषु लोकेषु सदैवतेषु |
यथा पतिस्तस्य हि सर्वकामा; लभ्याः प्रसादे कुपितश्च हन्यात् ||२||
तस्मादपत्यं विविधाश्च भोगाः; शय्यासनान्यद्भुतदर्शनानि |
वस्त्राणि माल्यानि तथैव गन्धाः; स्वर्गश्च लोको विषमा च कीर्तिः ||३||
सुखं सुखेनेह न जातु लभ्यं; दुःखेन साध्वी लभते सुखानि |
सा कृष्णमाराधय सौहृदेन; प्रेम्णा च नित्यं प्रतिकर्मणा च ||४||
तथाशनैश्चारुभिरग्र्यमाल्यै; र्दाक्षिण्ययोगैर्विविधैश्च गन्धैः |
अस्याः प्रियोऽस्मीति यथा विदित्वा; त्वामेव संश्लिष्यति सर्वभावैः ||५||
श्रुत्वा स्वरं द्वारगतस्य भर्तुः; प्रत्युत्थिता तिष्ठ गृहस्य मध्ये |
दृष्ट्वा प्रविष्टं त्वरितासनेन; पाद्येन चैव प्रतिपूजय त्वम् ||६||
सम्प्रेषितायामथ चैव दास्या; मुत्थाय सर्वं स्वयमेव कुर्याः |
जानातु कृष्णस्तव भावमेतं; सर्वात्मना मां भजतीति सत्ये ||७||
त्वत्संनिधौ यत्कथयेत्पतिस्ते; यद्यप्यगुह्यं परिरक्षितव्यम् |
काचित्सपत्नी तव वासुदेवं; प्रत्यादिशेत्तेन भवेद्विरागः ||८||
प्रियांश्च रक्तांश्च हितांश्च भर्तु; स्तान्भोजयेथा विविधैरुपायैः |
द्वेष्यैरपक्षैरहितैश्च तस्य; भिद्यस्व नित्यं कुहकोद्धतैश्च ||९||
मदं प्रमादं पुरुषेषु हित्वा; संयच्छ भावं प्रतिगृह्य मौनम् |
प्रद्युम्नसाम्बावपि ते कुमारौ; नोपासितव्यौ रहिते कदाचित् ||१०||
महाकुलीनाभिरपापिकाभिः; स्त्रीभिः सतीभिस्तव सख्यमस्तु |
चण्डाश्च शौण्डाश्च महाशनाश्च; चौराश्च दुष्टाश्चपलाश्च वर्ज्याः ||११||
एतद्यशस्यं भगवेदनं च; स्वर्ग्यं तथा शत्रुनिबर्हणं च |
महार्हमाल्याभरणाङ्गरागा; भर्तारमाराधय पुण्यगन्धा ||१२||
२२४
वैशम्पायन उवाच||
मार्कण्डेयादिभिर्विप्रैः पाण्डवैश्च महात्मभिः |
कथाभिरनुकूलाभिः सहासित्वा जनार्दनः ||१||
ततस्तैः संविदं कृत्वा यथावन्मधुसूदनः |
आरुरुक्षू रथं सत्यामाह्वयामास केशवः ||२||
सत्यभामा ततस्तत्र स्वजित्वा द्रुपदात्मजाम् |
उवाच वचनं हृद्यं यथाभावसमाहितम् ||३||
कृष्णे मा भूत्तवोत्कण्ठा मा व्यथा मा प्रजागरः |
भर्तृभिर्देवसङ्काशैर्जितां प्राप्स्यसि मेदिनीम् ||४||
न ह्येवं शीलसम्पन्ना नैवं पूजितलक्षणाः |
प्राप्नुवन्ति चिरं क्लेशं यथा त्वमसितेक्षणे ||५||
अवश्यं च त्वया भूमिरियं निहतकण्टका |
भर्तृभिः सह भोक्तव्या निर्द्वंद्वेति श्रुतं मया ||६||
धार्तराष्ट्रवधं कृत्वा वैराणि प्रतियात्य च |
युधिष्ठिरस्थां पृथिवीं द्रष्टासि द्रुपदात्मजे ||७||
यास्ताः प्रव्राजमानां त्वां प्राहसन्दर्पमोहिताः |
ताः क्षिप्रं हतसङ्कल्पा द्रक्ष्यसि त्वं कुरुस्त्रियः ||८||
तव दुःखोपपन्नाया यैराचरितमप्रियम् |
विद्धि सम्प्रस्थितान्सर्वांस्तान्कृष्णे यमसादनम् ||९||
पुत्रस्ते प्रतिविन्ध्यश्च सुतसोमस्तथा विभुः |
श्रुतकर्मार्जुनिश्चैव शतानीकश्च नाकुलिः ||१०||
सहदेवाच्च यो जातः श्रुतसेनस्तवात्मजः ||१०||
सर्वे कुशलिनो वीराः कृतास्त्राश्च सुतास्तव |
अभिमन्युरिव प्रीता द्वारवत्यां रता भृशम् ||११||
त्वमिवैषां सुभद्रा च प्रीत्या सर्वात्मना स्थिता |
प्रीयते भावनिर्द्वंद्वा तेभ्यश्च विगतज्वरा ||१२||
भेजे सर्वात्मना चैव प्रद्युम्नजननी तथा |
भानुप्रभृतिभिश्चैनान्विशिनष्टि च केशवः ||१३||
भोजनाच्छादने चैषां नित्यं मे श्वशुरः स्थितः |
रामप्रभृतयः सर्वे भजन्त्यन्धकवृष्णयः ||१४||
तुल्यो हि प्रणयस्तेषां प्रद्युम्नस्य च भामिनि ||१४||
एवमादि प्रियं प्रीत्या हृद्यमुक्त्वा मनोनुगम् |
गमनाय मनश्चक्रे वासुदेवरथं प्रति ||१५||
तां कृष्णां कृष्णमहिषी चकाराभिप्रदक्षिणम् |
आरुरोह रथं शौरेः सत्यभामा च भामिनी ||१६||
स्मयित्वा तु यदुश्रेष्ठो द्रौपदीं परिसान्त्व्य च |
उपावर्त्य ततः शीघ्रैर्हयैः प्रायात्परन्तपः ||१७||
घोषयात्रापर्व
२२५
जनमेजय उवाच||
एवं वने वर्तमाना नराग्र्याः; शीतोष्णवातातपकर्शिताङ्गाः |
सरस्तदासाद्य वनं च पुण्यं; ततः परं किमकुर्वन्त पार्थाः ||१||
वैशम्पायन उवाच||
सरस्तदासाद्य तु पाण्डुपुत्रा; जनं समुत्सृज्य विधाय चैषाम् |
वनानि रम्याण्यथ पर्वतांश्च; नदीप्रदेशांश्च तदा विचेरुः ||२||
तथा वने तान्वसतः प्रवीरा; न्स्वाध्यायवन्तश्च तपोधनाश्च |
अभ्याययुर्वेदविदः पुराणा; स्तान्पूजयामासुरथो नराग्र्याः ||३||
ततः कदाचित्कुशलः कथासु; विप्रोऽभ्यगच्छद्भुवि कौरवेयान् |
स तैः समेत्याथ यदृच्छयैव; वैचित्रवीर्यं नृपमभ्यगच्छत् ||४||
अथोपविष्टः प्रतिसत्कृतश्च; वृद्धेन राज्ञा कुरुसत्तमेन |
प्रचोदितः सन्कथयां बभूव; धर्मानिलेन्द्रप्रभवान्यमौ च ||५||
कृशांश्च वातातपकर्शिताङ्गा; न्दुःखस्य चोग्रस्य मुखे प्रपन्नान् |
तां चाप्यनाथामिव वीरनाथां; कृष्णां परिक्लेशगुणेन युक्ताम् ||६||
ततः कथां तस्य निशम्य राजा; वैचित्रवीर्यः कृपयाभितप्तः |
वने स्थितान्पार्थिवपुत्रपौत्रा; ञ्श्रुत्वा तदा दुःखनदीं प्रपन्नान् ||७||
प्रोवाच दैन्याभिहतान्तरात्मा; निःश्वासबाष्पोपहतः स पार्थान् |
वाचं कथञ्चित्स्थिरतामुपेत्य; तत्सर्वमात्मप्रभवं विचिन्त्य ||८||
कथं नु सत्यः शुचिरार्यवृत्तो; ज्येष्ठः सुतानां मम धर्मराजः |
अजातशत्रुः पृथिवीतलस्थः; शेते पुरा राङ्कवकूटशायी ||९||
प्रबोध्यते मागधसूतपूगै; र्नित्यं स्तुवद्भिः स्वयमिन्द्रकल्पः |
पतत्रिसङ्घैः स जघन्यरात्रे; प्रबोध्यते नूनमिडातलस्थः ||१०||
कथं नु वातातपकर्शिताङ्गो; वृकोदरः कोपपरिप्लुताङ्गः |
शेते पृथिव्यामतथोचिताङ्गः; कृष्णासमक्षं वसुधातलस्थः ||११||
तथार्जुनः सुकुमारो मनस्वी; वशे स्थितो धर्मसुतस्य राज्ञः |
विदूयमानैरिव सर्वगात्रै; र्ध्रुवं न शेते वसतीरमर्षात् ||१२||
यमौ च कृष्णां च युधिष्ठिरं च; भीमं च दृष्ट्वा सुखविप्रयुक्तान् |
विनिःश्वसन्सर्प इवोग्रतेजा; ध्रुवं न शेते वसतीरमर्षात् ||१३||
तथा यमौ चाप्यसुखौ सुखार्हौ; समृद्धरूपावमरौ दिवीव |
प्रजागरस्थौ ध्रुवमप्रशान्तौ; धर्मेण सत्येन च वार्यमाणौ ||१४||
समीरणेनापि समो बलेन; समीरणस्यैव सुतो बलीयान् |
स धर्मपाशेन सितोग्रतेजा; ध्रुवं विनिःश्वस्य सहत्यमर्षम् ||१५||
स चापि भूमौ परिवर्तमानो; वधं सुतानां मम काङ्क्षमाणः |
सत्येन धर्मेण च वार्यमाणः; कालं प्रतीक्षत्यधिको रणेऽन्यैः ||१६||
अजातशत्रौ तु जिते निकृत्या; दुःशासनो यत्परुषाण्यवोचत् |
तानि प्रविष्टानि वृकोदराङ्गं; दहन्ति मर्माग्निरिवेन्धनानि ||१७||
न पापकं ध्यास्यति धर्मपुत्रो; धनञ्जयश्चाप्यनुवर्तते तम् |
अरण्यवासेन विवर्धते तु; भीमस्य कोपोऽग्निरिवानिलेन ||१८||
स तेन कोपेन विदीर्यमाणः; करं करेणाभिनिपीड्य वीरः |
विनिःश्वसत्युष्णमतीव घोरं; दहन्निवेमान्मम पुत्रपौत्रान् ||१९||
गाण्डीवधन्वा च वृकोदरश्च; संरम्भिणावन्तककालकल्पौ |
न शेषयेतां युधि शत्रुसेनां; शरान्किरन्तावशनिप्रकाशान् ||२०||
दुर्योधनः शकुनिः सूतपुत्रो; दुःशासनश्चापि सुमन्दचेताः |
मधु प्रपश्यन्ति न तु प्रपातं; वृकोदरं चैव धनञ्जयं च ||२१||
शुभाशुभं पुरुषः कर्म कृत्वा; प्रतीक्षते तस्य फलं स्म कर्ता |
स तेन युज्यत्यवशः फलेन; मोक्षः कथं स्यात्पुरुषस्य तस्मात् ||२२||
क्षेत्रे सुकृष्टे ह्युपिते च बीजे; देवे च वर्षत्यृतुकालयुक्तम् |
न स्यात्फलं तस्य कुतः प्रसिद्धि; रन्यत्र दैवादिति चिन्तयामि ||२३||
कृतं मताक्षेण यथा न साधु; साधुप्रवृत्तेन च पाण्डवेन |
मया च दुष्पुत्रवशानुगेन; यथा कुरूणामयमन्तकालः ||२४||
ध्रुवं प्रवास्यत्यसमीरितोऽपि; ध्रुवं प्रजास्यत्युत गर्भिणी या |
ध्रुवं दिनादौ रजनीप्रणाश; स्तथा क्षपादौ च दिनप्रणाशः ||२५||
क्रियेत कस्मान्न परे च कुर्यु; र्वित्तं न दद्युः पुरुषाः कथञ्चित् |
प्राप्यार्थकालं च भवेदनर्थः; कथं नु तत्स्यादिति तत्कुतः स्यात् ||२६||
कथं न भिद्येत न च स्रवेत; न च प्रसिच्येदिति रक्षितव्यम् |
अरक्ष्यमाणः शतधा विशीर्ये; द्ध्रुवं न नाशोऽस्ति कृतस्य लोके ||२७||
गतो ह्यरण्यादपि शक्रलोकं; धनञ्जयः पश्यत वीर्यमस्य |
अस्त्राणि दिव्यानि चतुर्विधानि; ज्ञात्वा पुनर्लोकमिमं प्रपन्नः ||२८||
स्वर्गं हि गत्वा सशरीर एव; को मानुषः पुनरागन्तुमिच्छेत् |
अन्यत्र कालोपहताननेका; न्समीक्षमाणस्तु कुरून्मुमूर्षून् ||२९||
धनुर्ग्राहश्चार्जुनः सव्यसाची; धनुश्च तद्गाण्डिवं लोकसारम् |
अस्त्राणि दिव्यानि च तानि तस्य; त्रयस्य तेजः प्रसहेत को नु ||३०||
निशम्य तद्वचनं पार्थिवस्य; दुर्योधनो रहिते सौबलश्च |
अबोधयत्कर्णमुपेत्य सर्वं; स चाप्यहृष्टोऽभवदल्पचेताः ||३१||
२२६
वैशम्पायन उवाच||
धृतराष्ट्रस्य तद्वाक्यं निशम्य सहसौबलः |
दुर्योधनमिदं काले कर्णो वचनमब्रवीत् ||१||
प्रव्राज्य पाण्डवान्वीरान्स्वेन वीर्येण भारत |
भुङ्क्ष्वेमां पृथिवीमेको दिवं शम्बरहा यथा ||२||
प्राच्याश्च दाक्षिणात्याश्च प्रतीच्योदीच्यवासिनः |
कृताः करप्रदाः सर्वे राजानस्ते नराधिप ||३||
या हि सा दीप्यमानेव पाण्डवान्भजते पुरा |
साद्य लक्ष्मीस्त्वया राजन्नवाप्ता भ्रातृभिः सह ||४||
इन्द्रप्रस्थगते यां तां दीप्यमानां युधिष्ठिरे |
अपश्याम श्रियं राजन्नचिरं शोककर्शिताः ||५||
सा तु बुद्धिबलेनेयं राज्ञस्तस्माद्युधिष्ठिरात् |
त्वयाक्षिप्ता महाबाहो दीप्यमानेव दृश्यते ||६||
तथैव तव राजेन्द्र राजानः परवीरहन् |
शासनेऽधिष्ठिताः सर्वे किं कुर्म इति वादिनः ||७||
तवाद्य पृथिवी राजन्निखिला सागराम्बरा |
सपर्वतवना देवी सग्रामनगराकरा ||८||
नानावनोद्देशवती पत्तनैरुपशोभिता ||८||
वन्द्यमानो द्विजै राजन्पूज्यमानश्च राजभिः |
पौरुषाद्दिवि देवेषु भ्राजसे रश्मिवानिव ||९||
रुद्रैरिव यमो राजा मरुद्भिरिव वासवः |
कुरुभिस्त्वं वृतो राजन्भासि नक्षत्रराडिव ||१०||
ये स्म ते नाद्रियन्तेऽऽज्ञा नोद्विजन्ते कदा च न |
पश्यामस्ताञ्श्रिया हीनान्पाण्डवान्वनवासिनः ||११||
श्रूयन्ते हि महाराज सरो द्वैतवनं प्रति |
वसन्तः पाण्डवाः सार्धं ब्राह्मणैर्वनवासिभिः ||१२||
स प्रयाहि महाराज श्रिया परमया युतः |
प्रतपन्पाण्डुपुत्रांस्त्वं रश्मिवानिव तेजसा ||१३||
स्थितो राज्ये च्युतान्राज्याच्छ्रिया हीनाञ्श्रिया वृतः |
असमृद्धान्समृद्धार्थः पश्य पाण्डुसुतान्नृप ||१४||
महाभिजनसम्पन्नं भद्रे महति संस्थितम् |
पाण्डवास्त्वाभिवीक्षन्तां ययातिमिव नाहुषम् ||१५||
यां श्रियं सुहृदश्चैव दुर्हृदश्च विशां पते |
पश्यन्ति पुरुषे दीप्तां सा समर्था भवत्युत ||१६||
समस्थो विषमस्थान्हि दुर्हृदो योऽभिवीक्षते |
जगतीस्थानिवाद्रिस्थः किं ततः परमं सुखम् ||१७||
न पुत्रधनलाभेन न राज्येनापि विन्दति |
प्रीतिं नृपतिशार्दूल याममित्राघदर्शनात् ||१८||
किं नु तस्य सुखं न स्यादाश्रमे यो धनञ्जयम् |
अभिवीक्षेत सिद्धार्थो वल्कलाजिनवाससम् ||१९||
सुवाससो हि ते भार्या वल्कलाजिनवाससम् |
पश्यन्त्वसुखितां कृष्णां सा च निर्विद्यतां पुनः ||२०||
विनिन्दतां तथात्मानं जीवितं च धनच्युता ||२०||
न तथा हि सभामध्ये तस्या भवितुमर्हति |
वैमनस्यं यथा दृष्ट्वा तव भार्याः स्वलङ्कृताः ||२१||
एवमुक्त्वा तु राजानं कर्णः शकुनिना सह |
तूष्णीं बभूवतुरुभौ वाक्यान्ते जनमेजय ||२२||
२२७
वैशम्पायन उवाच||
कर्णस्य वचनं श्रुत्वा राजा दुर्योधनस्तदा |
हृष्टो भूत्वा पुनर्दीन इदं वचनमब्रवीत् ||१||
ब्रवीषि यदिदं कर्ण सर्वं मे मनसि स्थितम् |
न त्वभ्यनुज्ञां लप्स्यामि गमने यत्र पाण्डवाः ||२||
परिदेवति तान्वीरान्धृतराष्ट्रो महीपतिः |
मन्यतेऽभ्यधिकांश्चापि तपोयोगेन पाण्डवान् ||३||
अथ वाप्यनुबुध्येत नृपोऽस्माकं चिकीर्षितम् |
एवमप्यायतिं रक्षन्नाभ्यनुज्ञातुमर्हति ||४||
न हि द्वैतवने किञ्चिद्विद्यतेऽन्यत्प्रयोजनम् |
उत्सादनमृते तेषां वनस्थानां मम द्विषाम् ||५||
जानासि हि यथा क्षत्ता द्यूतकाल उपस्थिते |
अब्रवीद्यच्च मां त्वां च सौबलं च वचस्तदा ||६||
तानि पूर्वाणि वाक्यानि यच्चान्यत्परिदेवितम् |
विचिन्त्य नाधिगच्छामि गमनायेतराय वा ||७||
ममापि हि महान्हर्षो यदहं भीमफल्गुनौ |
क्लिष्टावरण्ये पश्येयं कृष्णया सहिताविति ||८||
न तथा प्राप्नुयां प्रीतिमवाप्य वसुधामपि |
दृष्ट्वा यथा पाण्डुसुतान्वल्कलाजिनवाससः ||९||
किं नु स्यादधिकं तस्माद्यदहं द्रुपदात्मजाम् |
द्रौपदीं कर्ण पश्येयं काषायवसनां वने ||१०||
यदि मां धर्मराजश्च भीमसेनश्च पाण्डवः |
युक्तं परमया लक्ष्म्या पश्येतां जीवितं भवेत् ||११||
उपायं न तु पश्यामि येन गच्छेम तद्वनम् |
यथा चाभ्यनुजानीयाद्गच्छन्तं मां महीपतिः ||१२||
स सौबलेन सहितस्तथा दुःशासनेन च |
उपायं पश्य निपुणं येन गच्छेम तद्वनम् ||१३||
अहमप्यद्य निश्चित्य गमनायेतराय वा |
काल्यमेव गमिष्यामि समीपं पार्थिवस्य ह ||१४||
मयि तत्रोपविष्टे तु भीष्मे च कुरुसत्तमे |
उपायो यो भवेद्दृष्टस्तं ब्रूयाः सहसौबलः ||१५||
ततो भीष्मस्य राज्ञश्च निशम्य गमनं प्रति |
व्यवसायं करिष्येऽहमनुनीय पितामहम् ||१६||
तथेत्युक्त्वा तु ते सर्वे जग्मुरावसथान्प्रति |
व्युषितायां रजन्यां तु कर्णो राजानमभ्ययात् ||१७||
ततो दुर्योधनं कर्णः प्रहसन्निदमब्रवीत् |
उपायः परिदृष्टोऽयं तं निबोध जनेश्वर ||१८||
घोषा द्वैतवने सर्वे त्वत्प्रतीक्षा नराधिप |
घोषयात्रापदेशेन गमिष्यामो न संशयः ||१९||
उचितं हि सदा गन्तुं घोषयात्रां विशां पते |
एवं च त्वां पिता राजन्समनुज्ञातुमर्हति ||२०||
तथा कथयमानौ तौ घोषयात्राविनिश्चयम् |
गान्धारराजः शकुनिः प्रत्युवाच हसन्निव ||२१||
उपायोऽयं मया दृष्टो गमनाय निरामयः |
अनुज्ञास्यति नो राजा चोदयिष्यति चाप्युत ||२२||
घोषा द्वैतवने सर्वे त्वत्प्रतीक्षा नराधिप |
घोषयात्रापदेशेन गमिष्यामो न संशयः ||२३||
ततः प्रहसिताः सर्वे तेऽन्योन्यस्य तलान्ददुः |
तदेव च विनिश्चित्य ददृशुः कुरुसत्तमम् ||२४||
२२८
वैशम्पायन उवाच||
धृतराष्ट्रं ततः सर्वे ददृशुर्जनमेजय |
पृष्ट्वा सुखमथो राज्ञः पृष्ट्वा राज्ञा च भारत ||१||
ततस्तैर्विहितः पूर्वं समङ्गो नाम बल्लवः |
समीपस्थास्तदा गावो धृतराष्ट्रे न्यवेदयत् ||२||
अनन्तरं च राधेयः शकुनिश्च विशां पते |
आहतुः पार्थिवश्रेष्ठं धृतराष्ट्रं जनाधिपम् ||३||
रमणीयेषु देशेषु घोषाः सम्प्रति कौरव |
स्मारणासमयः प्राप्तो वत्सानामपि चाङ्कनम् ||४||
मृगया चोचिता राजन्नस्मिन्काले सुतस्य ते |
दुर्योधनस्य गमनं त्वमनुज्ञातुमर्हसि ||५||
धृतराष्ट्र उवाच||
मृगया शोभना तात गवां च समवेक्षणम् |
विश्रम्भस्तु न गन्तव्यो बल्लवानामिति स्मरे ||६||
ते तु तत्र नरव्याघ्राः समीप इति नः श्रुतम् |
अतो नाभ्यनुजानामि गमनं तत्र वः स्वयम् ||७||
छद्मना निर्जितास्ते हि कर्शिताश्च महावने |
तपोनित्याश्च राधेय समर्थाश्च महारथाः ||८||
धर्मराजो न सङ्क्रुध्येद्भीमसेनस्त्वमर्षणः |
यज्ञसेनस्य दुहिता तेज एव तु केवलम् ||९||
यूयं चाप्यपराध्येयुर्दर्पमोहसमन्विताः |
ततो विनिर्दहेयुस्ते तपसा हि समन्विताः ||१०||
अथ वा सायुधा वीरा मन्युनाभिपरिप्लुताः |
सहिता बद्धनिस्त्रिंशा दहेयुः शस्त्रतेजसा ||११||
अथ यूयं बहुत्वात्तानारभध्वं कथञ्चन |
अनार्यं परमं तत्स्यादशक्यं तच्च मे मतम् ||१२||
उषितो हि महाबाहुरिन्द्रलोके धनञ्जयः |
दिव्यान्यस्त्राण्यवाप्याथ ततः प्रत्यागतो वनम् ||१३||
अकृतास्त्रेण पृथिवी जिता बीभत्सुना पुरा |
किं पुनः स कृतास्त्रोऽद्य न हन्याद्वो महारथः ||१४||
अथ वा मद्वचः श्रुत्वा तत्र यत्ता भविष्यथ |
उद्विग्नवासो विश्रम्भाद्दुःखं तत्र भविष्यति ||१५||
अथ वा सैनिकाः केचिदपकुर्युर्युधिष्ठिरे |
तदबुद्धिकृतं कर्म दोषमुत्पादयेच्च वः ||१६||
तस्माद्गच्छन्तु पुरुषाः स्मारणायाप्तकारिणः |
न स्वयं तत्र गमनं रोचये तव भारत ||१७||
शकुनिरुवाच||
धर्मज्ञः पाण्डवो ज्येष्ठः प्रतिज्ञातं च संसदि |
तेन द्वादश वर्षाणि वस्तव्यानीति भारत ||१८||
अनुवृत्ताश्च ते सर्वे पाण्डवा धर्मचारिणः |
युधिष्ठिरश्च कौन्तेयो न नः कोपं करिष्यति ||१९||
मृगयां चैव नो गन्तुमिच्छा संवर्धते भृशम् |
स्मारणं च चिकीर्षामो न तु पाण्डवदर्शनम् ||२०||
न चानार्यसमाचारः कश्चित्तत्र भविष्यति |
न च तत्र गमिष्यामो यत्र तेषां प्रतिश्रयः ||२१||
वैशम्पायन उवाच||
एवमुक्तः शकुनिना धृतराष्ट्रो जनेश्वरः |
दुर्योधनं सहामात्यमनुजज्ञे न कामतः ||२२||
अनुज्ञातस्तु गान्धारिः कर्णेन सहितस्तदा |
निर्ययौ भरतश्रेष्ठो बलेन महता वृतः ||२३||
दुःशासनेन च तथा सौबलेन च देविना |
संवृतो भ्रातृभिश्चान्यैः स्त्रीभिश्चापि सहस्रशः ||२४||
तं निर्यान्तं महाबाहुं द्रष्टुं द्वैतवनं सरः |
पौराश्चानुययुः सर्वे सहदारा वनं च तत् ||२५||
अष्टौ रथसहस्राणि त्रीणि नागायुतानि च |
पत्तयो बहुसाहस्रा हयाश्च नवतिः शताः ||२६||
शकटापणवेश्याश्च वणिजो बन्दिनस्तथा |
नराश्च मृगयाशीलाः शतशोऽथ सहस्रशः ||२७||
ततः प्रयाणे नृपतेः सुमहानभवत्स्वनः |
प्रावृषीव महावायोरुद्धतस्य विशां पते ||२८||
गव्यूतिमात्रे न्यवसद्राजा दुर्योधनस्तदा |
प्रयातो वाहनैः सर्वैस्ततो द्वैतवनं सरः ||२९||
२२९
वैशम्पायन उवाच||
अथ दुर्योधनो राजा तत्र तत्र वने वसन् |
जगाम घोषानभितस्तत्र चक्रे निवेशनम् ||१||
रमणीये समाज्ञाते सोदके समहीरुहे |
देशे सर्वगुणोपेते चक्रुरावसथं नराः ||२||
तथैव तत्समीपस्थान्पृथगावसथान्बहून् |
कर्णस्य शकुनेश्चैव भ्रातॄणां चैव सर्वशः ||३||
ददर्श स तदा गावः शतशोऽथ सहस्रशः |
अङ्कैर्लक्षैश्च ताः सर्वा लक्षयामास पार्थिवः ||४||
अङ्कयामास वत्सांश्च जज्ञे चोपसृतास्त्वपि |
बालवत्साश्च या गावः कालयामास ता अपि ||५||
अथ स स्मारणं कृत्वा लक्षयित्वा त्रिहायनान् |
वृतो गोपालकैः प्रीतो व्यहरत्कुरुनन्दनः ||६||
स च पौरजनः सर्वः सैनिकाश्च सहस्रशः |
यथोपजोषं चिक्रीडुर्वने तस्मिन्यथामराः ||७||
ततो गोपाः प्रगातारः कुशला नृत्तवादिते |
धार्तराष्ट्रमुपातिष्ठन्कन्याश्चैव स्वलङ्कृताः ||८||
स स्त्रीगणवृतो राजा प्रहृष्टः प्रददौ वसु |
तेभ्यो यथार्हमन्नानि पानानि विविधानि च ||९||
ततस्ते सहिताः सर्वे तरक्षून्महिषान्मृगान् |
गवयर्क्षवराहांश्च समन्तात्पर्यकालयन् ||१०||
स ताञ्शरैर्विनिर्भिन्दन्गजान्बध्नन्महावने |
रमणीयेषु देशेषु ग्राहयामास वै मृगान् ||११||
गोरसानुपयुञ्जान उपभोगांश्च भारत |
पश्यन्सुरमणीयानि पुष्पितानि वनानि च ||१२||
मत्तभ्रमरजुष्टानि बर्हिणाभिरुतानि च |
अगच्छदानुपूर्व्येण पुण्यं द्वैतवनं सरः ||१३||
ऋद्ध्या परमया युक्तो महेन्द्र इव वज्रभृत् ||१३||
यदृच्छया च तदहो धर्मपुत्रो युधिष्ठिरः |
ईजे राजर्षियज्ञेन सद्यस्केन विशां पते ||१४||
दिव्येन विधिना राजा वन्येन कुरुसत्तमः ||१४||
कृत्वा निवेशमभितः सरसस्तस्य कौरवः |
द्रौपद्या सहितो धीमान्धर्मपत्न्या नराधिपः ||१५||
ततो दुर्योधनः प्रेष्यानादिदेश सहानुजः |
आक्रीडावसथाः क्षिप्रं क्रियन्तामिति भारत ||१६||
ते तथेत्येव कौरव्यमुक्त्वा वचनकारिणः |
चिकीर्षन्तस्तदाक्रीडाञ्जग्मुर्द्वैतवनं सरः ||१७||
सेनाग्रं धार्तराष्ट्रस्य प्राप्तं द्वैतवनं सरः |
प्रविशन्तं वनद्वारि गन्धर्वाः समवारयन् ||१८||
तत्र गन्धर्वराजो वै पूर्वमेव विशां पते |
कुबेरभवनाद्राजन्नाजगाम गणावृतः ||१९||
गणैरप्सरसां चैव त्रिदशानां तथात्मजैः |
विहारशीलः क्रीडार्थं तेन तत्संवृतं सरः ||२०||
तेन तत्संवृतं दृष्ट्वा ते राजपरिचारकाः |
प्रतिजग्मुस्ततो राजन्यत्र दुर्योधनो नृपः ||२१||
स तु तेषां वचः श्रुत्वा सैनिकान्युद्धदुर्मदान् |
प्रेषयामास कौरव्य उत्सारयत तानिति ||२२||
तस्य तद्वचनं श्रुत्वा राज्ञः सेनाग्रयायिनः |
सरो द्वैतवनं गत्वा गन्धर्वानिदमब्रुवन् ||२३||
राजा दुर्योधनो नाम धृतराष्ट्रसुतो बली |
विजिहीर्षुरिहायाति तदर्थमपसर्पत ||२४||
एवमुक्तास्तु गन्धर्वाः प्रहसन्तो विशां पते |
प्रत्यब्रुवंस्तान्पुरुषानिदं सुपरुषं वचः ||२५||
न चेतयति वो राजा मन्दबुद्धिः सुयोधनः |
योऽस्मानाज्ञापयत्येवं वश्यानिव दिवौकसः ||२६||
यूयं मुमूर्षवश्चापि मन्दप्रज्ञा न संशयः |
ये तस्य वचनादेवमस्मान्ब्रूत विचेतसः ||२७||
गच्छत त्वरिताः सर्वे यत्र राजा स कौरवः |
द्वेष्यं माद्यैव गच्छध्वं धर्मराजनिवेशनम् ||२८||
एवमुक्तास्तु गन्धर्वै राज्ञः सेनाग्रयायिनः |
सम्प्राद्रवन्यतो राजा धृतराष्ट्रसुतोऽभवत् ||२९||
२३०
वैशम्पायन उवाच||
ततस्ते सहिताः सर्वे दुर्योधनमुपागमन् |
अब्रुवंश्च महाराज यदूचुः कौरवं प्रति ||१||
गन्धर्वैर्वारिते सैन्ये धार्तराष्ट्रः प्रतापवान् |
अमर्षपूर्णः सैन्यानि प्रत्यभाषत भारत ||२||
शासतैनानधर्मज्ञान्मम विप्रियकारिणः |
यदि प्रक्रीडितो देवैः सर्वैः सह शतक्रतुः ||३||
दुर्योधनवचः श्रुत्वा धार्तराष्ट्रा महाबलाः |
सर्व एवाभिसंनद्धा योधाश्चापि सहस्रशः ||४||
ततः प्रमथ्य गन्धर्वांस्तद्वनं विविशुर्बलात् |
सिंहनादेन महता पूरयन्तो दिशो दश ||५||
ततोऽपरैरवार्यन्त गन्धर्वैः कुरुसैनिकाः |
ते वार्यमाणा गन्धर्वैः साम्नैव वसुधाधिप ||६||
ताननादृत्य गन्धर्वांस्तद्वनं विविशुर्महत् ||६||
यदा वाचा न तिष्ठन्ति धार्तराष्ट्राः सराजकाः |
ततस्ते खेचराः सर्वे चित्रसेने न्यवेदयन् ||७||
गन्धर्वराजस्तान्सर्वानब्रवीत्कौरवान्प्रति |
अनार्याञ्शासतेत्येवं चित्रसेनोऽत्यमर्षणः ||८||
अनुज्ञातास्तु गन्धर्वाश्चित्रसेनेन भारत |
प्रगृहीतायुधाः सर्वे धार्तराष्ट्रानभिद्रवन् ||९||
तान्दृष्ट्वा पततः शीघ्रान्गन्धर्वानुद्यतायुधान् |
सर्वे ते प्राद्रवन्सङ्ख्ये धार्तराष्ट्रस्य पश्यतः ||१०||
तान्दृष्ट्वा द्रवतः सर्वान्धार्तराष्ट्रान्पराङ्मुखान् |
वैकर्तनस्तदा वीरो नासीत्तत्र पराङ्मुखः ||११||
आपतन्तीं तु सम्प्रेक्ष्य गन्धर्वाणां महाचमूम् |
महता शरवर्षेण राधेयः प्रत्यवारयत् ||१२||
क्षुरप्रैर्विशिखैर्भल्लैर्वत्सदन्तैस्तथायसैः |
गन्धर्वाञ्शतशोऽभ्यघ्नँल्लघुत्वात्सूतनन्दनः ||१३||
पातयन्नुत्तमाङ्गानि गन्धर्वाणां महारथः |
क्षणेन व्यधमत्सर्वां चित्रसेनस्य वाहिनीम् ||१४||
ते वध्यमाना गन्धर्वाः सूतपुत्रेण धीमता |
भूय एवाभ्यवर्तन्त शतशोऽथ सहस्रशः ||१५||
गन्धर्वभूता पृथिवी क्षणेन समपद्यत |
आपतद्भिर्महावेगैश्चित्रसेनस्य सैनिकैः ||१६||
अथ दुर्योधनो राजा शकुनिश्चापि सौबलः |
दुःशासनो विकर्णश्च ये चान्ये धृतराष्ट्रजाः ||१७||
न्यहनंस्तत्तदा सैन्यं रथैर्गरुडनिस्वनैः ||१७||
भूयश्च योधयामासुः कृत्वा कर्णमथाग्रतः |
महता रथघोषेण हयचारेण चाप्युत ||१८||
वैकर्तनं परीप्सन्तो गन्धर्वान्समवारयन् ||१८||
ततः संन्यपतन्सर्वे गन्धर्वाः कौरवैः सह |
तदा सुतुमुलं युद्धमभवल्लोमहर्षणम् ||१९||
ततस्ते मृदवोऽभूवन्गन्धर्वाः शरपीडिताः |
उच्चुक्रुशुश्च कौरव्या गन्धर्वान्प्रेक्ष्य पीडितान् ||२०||
गन्धर्वांस्त्रासितान्दृष्ट्वा चित्रसेनोऽत्यमर्षणः |
उत्पपातासनात्क्रुद्धो वधे तेषां समाहितः ||२१||
ततो मायास्त्रमास्थाय युयुधे चित्रमार्गवित् |
तयामुह्यन्त कौरव्याश्चित्रसेनस्य मायया ||२२||
एकैको हि तदा योधो धार्तराष्ट्रस्य भारत |
पर्यवर्तत गन्धर्वैर्दशभिर्दशभिः सह ||२३||
ततः सम्पीड्यमानास्ते बलेन महता तदा |
प्राद्रवन्त रणे भीता यत्र राजा युधिष्ठिरः ||२४||
भज्यमानेष्वनीकेषु धार्तराष्ट्रेषु सर्वशः |
कर्णो वैकर्तनो राजंस्तस्थौ गिरिरिवाचलः ||२५||
दुर्योधनश्च कर्णश्च शकुनिश्चापि सौबलः |
गन्धर्वान्योधयां चक्रुः समरे भृशविक्षताः ||२६||
सर्व एव तु गन्धर्वाः शतशोऽथ सहस्रशः |
जिघांसमानाः सहिताः कर्णमभ्यद्रवन्रणे ||२७||
असिभिः पट्टिशैः शूलैर्गदाभिश्च महाबलाः |
सूतपुत्रं जिघांसन्तः समन्तात्पर्यवारयन् ||२८||
अन्येऽस्य युगमच्छिन्दन्ध्वजमन्ये न्यपातयन् |
ईषामन्ये हयानन्ये सूतमन्ये न्यपातयन् ||२९||
अन्ये छत्रं वरूथं च बन्धुरं च तथापरे |
गन्धर्वा बहुसाहस्राः खण्डशोऽभ्यहनन्रथम् ||३०||
ततो रथादवप्लुत्य सूतपुत्रोऽसिचर्मभृत् |
विकर्णरथमास्थाय मोक्षायाश्वानचोदयत् ||३१||
२३१
वैशम्पायन उवाच||
गन्धर्वैस्तु महाराज भग्ने कर्णे महारथे |
सम्प्राद्रवच्चमूः सर्वा धार्तराष्ट्रस्य पश्यतः ||१||
तान्दृष्ट्वा द्रवतः सर्वान्धार्तराष्ट्रान्पराङ्मुखान् |
दुर्योधनो महाराज नासीत्तत्र पराङ्मुखः ||२||
तामापतन्तीं सम्प्रेक्ष्य गन्धर्वाणां महाचमूम् |
महता शरवर्षेण सोऽभ्यवर्षदरिंदमः ||३||
अचिन्त्य शरवर्षं तु गन्धर्वास्तस्य तं रथम् |
दुर्योधनं जिघांसन्तः समन्तात्पर्यवारयन् ||४||
युगमीषां वरूथं च तथैव ध्वजसारथी |
अश्वांस्त्रिवेणुं तल्पं च तिलशोऽभ्यहनन्रथम् ||५||
दुर्योधनं चित्रसेनो विरथं पतितं भुवि |
अभिद्रुत्य महाबाहुर्जीवग्राहमथाग्रहीत् ||६||
तस्मिन्गृहीते राजेन्द्र स्थितं दुःशासनं रथे |
पर्यगृह्णन्त गन्धर्वाः परिवार्य समन्ततः ||७||
विविंशतिं चित्रसेनमादायान्ये प्रदुद्रुवुः |
विन्दानुविन्दावपरे राजदारांश्च सर्वशः ||८||
सैन्यास्तु धार्तराष्ट्रस्य गन्धर्वैः समभिद्रुताः |
पूर्वं प्रभग्नैः सहिताः पाण्डवानभ्ययुस्तदा ||९||
शकटापणवेश्याश्च यानयुग्यं च सर्वशः |
शरणं पाण्डवाञ्जग्मुर्ह्रियमाणे महीपतौ ||१०||
प्रियदर्शनो महाबाहुर्धार्तराष्ट्रो महाबलः |
गन्धर्वैर्ह्रियते राजा पार्थास्तमनुधावत ||११||
दुःशासनो दुर्विषहो दुर्मुखो दुर्जयस्तथा |
बद्ध्वा ह्रियन्ते गन्धर्वै राजदाराश्च सर्वशः ||१२||
इति दुर्योधनामात्याः क्रोशन्तो राजगृद्धिनः |
आर्ता दीनस्वराः सर्वे युधिष्ठिरमुपागमन् ||१३||
तांस्तथा व्यथितान्दीनान्भिक्षमाणान्युधिष्ठिरम् |
वृद्धान्दुर्योधनामात्यान्भीमसेनोऽभ्यभाषत ||१४||
अन्यथा वर्तमानानामर्थो जातोऽयमन्यथा |
अस्माभिर्यदनुष्ठेयं गन्धर्वैस्तदनुष्ठितम् ||१५||
दुर्मन्त्रितमिदं तात राज्ञो दुर्द्यूतदेविनः |
द्वेष्टारमन्ये क्लीबस्य पातयन्तीति नः श्रुतम् ||१६||
तदिदं कृतं नः प्रत्यक्षं गन्धर्वैरतिमानुषम् |
दिष्ट्या लोके पुमानस्ति कश्चिदस्मत्प्रिये स्थितः ||१७||
येनास्माकं हृतो भार आसीनानां सुखावहः ||१७||
शीतवातातपसहांस्तपसा चैव कर्शितान् |
समस्थो विषमस्थान्हि द्रष्टुमिच्छति दुर्मतिः ||१८||
अधर्मचारिणस्तस्य कौरव्यस्य दुरात्मनः |
ये शीलमनुवर्तन्ते ते पश्यन्ति पराभवम् ||१९||
अधर्मो हि कृतस्तेन येनैतदुपशिक्षितम् |
अनृशंसास्तु कौन्तेयास्तस्याध्यक्षान्ब्रवीमि वः ||२०||
एवं ब्रुवाणं कौन्तेयं भीमसेनममर्षणम् |
न कालः परुषस्यायमिति राजाभ्यभाषत ||२१||
२३२
युधिष्ठिर उवाच||
अस्मानभिगतांस्तात भयार्ताञ्शरणैषिणः |
कौरवान्विषमप्राप्तान्कथं ब्रूयास्त्वमीदृशम् ||१||
भवन्ति भेदा ज्ञातीनां कलहाश्च वृकोदर |
प्रसक्तानि च वैराणि ज्ञातिधर्मो न नश्यति ||२||
यदा तु कश्चिज्ज्ञातीनां बाह्यः प्रार्थयते कुलम् |
न मर्षयन्ति तत्सन्तो बाह्येनाभिप्रमर्षणम् ||३||
जानाति ह्येष दुर्बुद्धिरस्मानिह चिरोषितान् |
स एष परिभूयास्मानकार्षीदिदमप्रियम् ||४||
दुर्योधनस्य ग्रहणाद्गन्धर्वेण बलाद्रणे |
स्त्रीणां बाह्याभिमर्शाच्च हतं भवति नः कुलम् ||५||
शरणं च प्रपन्नानां त्राणार्थं च कुलस्य नः |
उत्तिष्ठध्वं नरव्याघ्राः सज्जीभवत माचिरम् ||६||
अर्जुनश्च यमौ चैव त्वं च भीमापराजितः |
मोक्षयध्वं धार्तराष्ट्रं ह्रियमाणं सुयोधनम् ||७||
एते रथा नरव्याघ्राः सर्वशस्त्रसमन्विताः |
इन्द्रसेनादिभिः सूतैः संयताः कनकध्वजाः ||८||
एतानास्थाय वै तात गन्धर्वान्योद्धुमाहवे |
सुयोधनस्य मोक्षाय प्रयतध्वमतन्द्रिताः ||९||
य एव कश्चिद्राजन्यः शरणार्थमिहागतम् |
परं शक्त्याभिरक्षेत किं पुनस्त्वं वृकोदर ||१०||
क इहान्यो भवेत्त्राणमभिधावेति चोदितः |
प्राञ्जलिं शरणापन्नं दृष्ट्वा शत्रुमपि ध्रुवम् ||११||
वरप्रदानं राज्यं च पुत्रजन्म च पाण्डव |
शत्रोश्च मोक्षणं क्लेशात्त्रीणि चैकं च तत्समम् ||१२||
किं ह्यभ्यधिकमेतस्माद्यदापन्नः सुयोधनः |
त्वद्बाहुबलमाश्रित्य जीवितं परिमार्गति ||१३||
स्वयमेव प्रधावेयं यदि न स्याद्वृकोदर |
विततोऽयं क्रतुर्वीर न हि मेऽत्र विचारणा ||१४||
साम्नैव तु यथा भीम मोक्षयेथाः सुयोधनम् |
तथा सर्वैरुपायैस्त्वं यतेथाः कुरुनन्दन ||१५||
न साम्ना प्रतिपद्येत यदि गन्धर्वराडसौ |
पराक्रमेण मृदुना मोक्षयेथाः सुयोधनम् ||१६||
अथासौ मृदुयुद्धेन न मुञ्चेद्भीम कौरवान् |
सर्वोपायैर्विमोच्यास्ते निगृह्य परिपन्थिनः ||१७||
एतावद्धि मया शक्यं संदेष्टुं वै वृकोदर |
वैताने कर्मणि तते वर्तमाने च भारत ||१८||
वैशम्पायन उवाच||
अजातशत्रोर्वचनं तच्छ्रुत्वा तु धनञ्जयः |
प्रतिजज्ञे गुरोर्वाक्यं कौरवाणां विमोक्षणम् ||१९||
अर्जुन उवाच||
यदि साम्ना न मोक्ष्यन्ति गन्धर्वा धृतराष्ट्रजान् |
अद्य गन्धर्वराजस्य भूमिः पास्यति शोणितम् ||२०||
वैशम्पायन उवाच||
अर्जुनस्य तु तां श्रुत्वा प्रतिज्ञां सत्यवादिनः |
कौरवाणां तदा राजन्पुनः प्रत्यागतं मनः ||२१||
२३३
वैशम्पायन उवाच||
युधिष्ठिरवचः श्रुत्वा भीमसेनपुरोगमाः |
प्रहृष्टवदनाः सर्वे समुत्तस्थुर्नरर्षभाः ||१||
अभेद्यानि ततः सर्वे समनह्यन्त भारत |
जाम्बूनदविचित्राणि कवचानि महारथाः ||२||
ते दंशिता रथैः सर्वे ध्वजिनः सशरासनाः |
पाण्डवाः प्रत्यदृश्यन्त ज्वलिता इव पावकाः ||३||
तान्रथान्साधु सम्पन्नान्संयुक्ताञ्जवनैर्हयैः |
आस्थाय रथशार्दूलाः शीघ्रमेव ययुस्ततः ||४||
ततः कौरवसैन्यानां प्रादुरासीन्महास्वनः |
प्रयातान्सहितान्दृष्ट्वा पाण्डुपुत्रान्महारथान् ||५||
जितकाशिनश्च खचरास्त्वरिताश्च महारथाः |
क्षणेनैव वने तस्मिन्समाजग्मुरभीतवत् ||६||
न्यवर्तन्त ततः सर्वे गन्धर्वा जितकाशिनः |
दृष्ट्वा रथगतान्वीरान्पाण्डवांश्चतुरो रणे ||७||
तांस्तु विभ्राजतो दृष्ट्वा लोकपालानिवोद्यतान् |
व्यूढानीका व्यतिष्ठन्त गन्धमादनवासिनः ||८||
राज्ञस्तु वचनं श्रुत्वा धर्मराजस्य धीमतः |
क्रमेण मृदुना युद्धमुपक्रामन्त भारत ||९||
न तु गन्धर्वराजस्य सैनिका मन्दचेतसः |
शक्यन्ते मृदुना श्रेयः प्रतिपादयितुं तदा ||१०||
ततस्तान्युधि दुर्धर्षः सव्यसाची परन्तपः |
सान्त्वपूर्वमिदं वाक्यमुवाच खचरान्रणे ||११||
नैतद्गन्धर्वराजस्य युक्तं कर्म जुगुप्सितम् |
परदाराभिमर्शश्च मानुषैश्च समागमः ||१२||
उत्सृजध्वं महावीर्यान्धृतराष्ट्रसुतानिमान् |
दारांश्चैषां विमुञ्चध्वं धर्मराजस्य शासनात् ||१३||
एवमुक्तास्तु गन्धर्वाः पाण्डवेन यशस्विना |
उत्स्मयन्तस्तदा पार्थमिदं वचनमब्रुवन् ||१४||
एकस्यैव वयं तात कुर्याम वचनं भुवि |
यस्य शासनमाज्ञाय चराम विगतज्वराः ||१५||
तेनैकेन यथादिष्टं तथा वर्ताम भारत |
न शास्ता विद्यतेऽस्माकमन्यस्तस्मात्सुरेश्वरात् ||१६||
एवमुक्तस्तु गन्धर्वैः कुन्तीपुत्रो धनञ्जयः |
गन्धर्वान्पुनरेवेदं वचनं प्रत्यभाषत ||१७||
यदि साम्ना न मोक्षध्वं गन्धर्वा धृतराष्ट्रजम् |
मोक्षयिष्यामि विक्रम्य स्वयमेव सुयोधनम् ||१८||
एवमुक्त्वा ततः पार्थः सव्यसाची धनञ्जयः |
ससर्ज निशितान्बाणान्खचरान्खचरान्प्रति ||१९||
तथैव शरवर्षेण गन्धर्वास्ते बलोत्कटाः |
पाण्डवानभ्यवर्तन्त पाण्डवाश्च दिवौकसः ||२०||
ततः सुतुमुलं युद्धं गन्धर्वाणां तरस्विनाम् |
बभूव भीमवेगानां पाण्डवानां च भारत ||२१||
२३४
वैशम्पायन उवाच||
ततो दिव्यास्त्रसम्पन्ना गन्धर्वा हेममालिनः |
विसृजन्तः शरान्दीप्तान्समन्तात्पर्यवारयन् ||१||
चत्वारः पाण्डवा वीरा गन्धर्वाश्च सहस्रशः |
रणे संन्यपतन्राजंस्तदद्भुतमिवाभवत् ||२||
यथा कर्णस्य च रथो धार्तराष्ट्रस्य चोभयोः |
गन्धर्वैः शतशश्छिन्नौ तथा तेषां प्रचक्रिरे ||३||
तान्समापततो राजन्गन्धर्वाञ्शतशो रणे |
प्रत्यगृह्णन्नरव्याघ्राः शरवर्षैरनेकशः ||४||
अवकीर्यमाणाः खगमाः शरवर्षैः समन्ततः |
न शेकुः पाण्डुपुत्राणां समीपे परिवर्तितुम् ||५||
अभिक्रुद्धानभिप्रेक्ष्य गन्धर्वानर्जुनस्तदा |
लक्षयित्वाथ दिव्यानि महास्त्राण्युपचक्रमे ||६||
सहस्राणां सहस्रं स प्राहिणोद्यमसादनम् |
आग्नेयेनार्जुनः सङ्ख्ये गन्धर्वाणां बलोत्कटः ||७||
तथा भीमो महेष्वासः संयुगे बलिनां वरः |
गन्धर्वाञ्शतशो राजञ्जघान निशितैः शरैः ||८||
माद्रीपुत्रावपि तथा युध्यमानौ बलोत्कटौ |
परिगृह्याग्रतो राजञ्जघ्नतुः शतशः परान् ||९||
ते वध्यमाना गन्धर्वा दिव्यैरस्त्रैर्महात्मभिः |
उत्पेतुः खमुपादाय धृतराष्ट्रसुतांस्ततः ||१०||
तानुत्पतिष्णून्बुद्ध्वा तु कुन्तीपुत्रो धनञ्जयः |
महता शरजालेन समन्तात्पर्यवारयत् ||११||
ते बद्धाः शरजालेन शकुन्ता इव पञ्जरे |
ववर्षुरर्जुनं क्रोधाद्गदाशक्त्यृष्टिवृष्टिभिः ||१२||
गदाशक्त्यसिवृष्टीस्ता निहत्य स महास्त्रवित् |
गात्राणि चाहनद्भल्लैर्गन्धर्वाणां धनञ्जयः ||१३||
शिरोभिः प्रपतद्भिश्च चरणैर्बाहुभिस्तथा |
अश्मवृष्टिरिवाभाति परेषामभवद्भयम् ||१४||
ते वध्यमाना गन्धर्वाः पाण्डवेन महात्मना |
भूमिष्ठमन्तरिक्षस्थाः शरवर्षैरवाकिरन् ||१५||
तेषां तु शरवर्षाणि सव्यसाची परन्तपः |
अस्त्रैः संवार्य तेजस्वी गन्धर्वान्प्रत्यविध्यत ||१६||
स्थूणाकर्णेन्द्रजालं च सौरं चापि तथार्जुनः |
आग्नेयं चापि सौम्यं च ससर्ज कुरुनन्दनः ||१७||
ते दह्यमाना गन्धर्वाः कुन्तीपुत्रस्य सायकैः |
दैतेया इव शक्रेण विषादमगमन्परम् ||१८||
ऊर्ध्वमाक्रममाणाश्च शरजालेन वारिताः |
विसर्पमाणा भल्लैश्च वार्यन्ते सव्यसाचिना ||१९||
गन्धर्वांस्त्रासितान्दृष्ट्वा कुन्तीपुत्रेण धीमता |
चित्रसेनो गदां गृह्य सव्यसाचिनमाद्रवत् ||२०||
तस्याभिपततस्तूर्णं गदाहस्तस्य संयुगे |
गदां सर्वायसीं पार्थः शरैश्चिच्छेद सप्तधा ||२१||
स गदां बहुधा दृष्ट्वा कृत्तां बाणैस्तरस्विना |
संवृत्य विद्ययात्मानं योधयामास पाण्डवम् ||२२||
अस्त्राणि तस्य दिव्यानि योधयामास खे स्थितः ||२२||
गन्धर्वराजो बलवान्माययान्तर्हितस्तदा |
अन्तर्हितं समालक्ष्य प्रहरन्तमथार्जुनः ||२३||
ताडयामास खचरैर्दिव्यास्त्रप्रतिमन्त्रितैः ||२३||
अन्तर्धानवधं चास्य चक्रे क्रुद्धोऽर्जुनस्तदा |
शब्दवेध्यमुपाश्रित्य बहुरूपो धनञ्जयः ||२४||
स वध्यमानस्तैरस्त्रैरर्जुनेन महात्मना |
अथास्य दर्शयामास तदात्मानं प्रियः सखा ||२५||
चित्रसेनमथालक्ष्य सखायं युधि दुर्बलम् |
सञ्जहारास्त्रमथ तत्प्रसृष्टं पाण्डवर्षभः ||२६||
दृष्ट्वा तु पाण्डवाः सर्वे संहृतास्त्रं धनञ्जयम् |
सञ्जह्रुः प्रद्रुतानश्वाञ्शरवेगान्धनूंषि च ||२७||
चित्रसेनश्च भीमश्च सव्यसाची यमावपि |
पृष्ट्वा कौशलमन्योन्यं रथेष्वेवावतस्थिरे ||२८||
२३५
वैशम्पायन उवाच||
ततोऽर्जुनश्चित्रसेनं प्रहसन्निदमब्रवीत् |
मध्ये गन्धर्वसैन्यानां महेष्वासो महाद्युतिः ||१||
किं ते व्यवसितं वीर कौरवाणां विनिग्रहे |
किमर्थं च सदारोऽयं निगृहीतः सुयोधनः ||२||
चित्रसेन उवाच||
विदितोऽयमभिप्रायस्तत्रस्थेन महात्मना |
दुर्योधनस्य पापस्य कर्णस्य च धनञ्जय ||३||
वनस्थान्भवतो ज्ञात्वा क्लिश्यमानाननर्हवत् |
इमेऽवहसितुं प्राप्ता द्रौपदीं च यशस्विनीम् ||४||
ज्ञात्वा चिकीर्षितं चैषां मामुवाच सुरेश्वरः |
गच्छ दुर्योधनं बद्ध्वा सामात्यं त्वमिहानय ||५||
धनञ्जयश्च ते रक्ष्यः सह भ्रातृभिराहवे |
स हि प्रियः सखा तुभ्यं शिष्यश्च तव पाण्डवः ||६||
वचनाद्देवराजस्य ततोऽस्मीहागतो द्रुतम् |
अयं दुरात्मा बद्धश्च गमिष्यामि सुरालयम् ||७||
अर्जुन उवाच||
उत्सृज्यतां चित्रसेन भ्रातास्माकं सुयोधनः |
धर्मराजस्य संदेशान्मम चेदिच्छसि प्रियम् ||८||
चित्रसेन उवाच||
पापोऽयं नित्यसंदुष्टो न विमोक्षणमर्हति |
प्रलब्धा धर्मराजस्य कृष्णायाश्च धनञ्जय ||९||
नेदं चिकीर्षितं तस्य कुन्तीपुत्रो महाव्रतः |
जानाति धर्मराजो हि श्रुत्वा कुरु यथेच्छसि ||१०||
वैशम्पायन उवाच||
ते सर्व एव राजानमभिजग्मुर्युधिष्ठिरम् |
अभिगम्य च तत्सर्वं शशंसुस्तस्य दुष्कृतम् ||११||
अजातशत्रुस्तच्छ्रुत्वा गन्धर्वस्य वचस्तदा |
मोक्षयामास तान्सर्वान्गन्धर्वान्प्रशशंस च ||१२||
दिष्ट्या भवद्भिर्बलिभिः शक्तैः सर्वैर्न हिंसितः |
दुर्वृत्तो धार्तराष्ट्रोऽयं सामात्यज्ञातिबान्धवः ||१३||
उपकारो महांस्तात कृतोऽयं मम खेचराः |
कुलं न परिभूतं मे मोक्षेणास्य दुरात्मनः ||१४||
आज्ञापयध्वमिष्टानि प्रीयामो दर्शनेन वः |
प्राप्य सर्वानभिप्रायांस्ततो व्रजत माचिरम् ||१५||
अनुज्ञातास्तु गन्धर्वाः पाण्डुपुत्रेण धीमता |
सहाप्सरोभिः संहृष्टाश्चित्रसेनमुखा ययुः ||१६||
देवराडपि गन्धर्वान्मृतांस्तान्समजीवयत् |
दिव्येनामृतवर्षेण ये हताः कौरवैर्युधि ||१७||
ज्ञातींस्तानवमुच्याथ राजदारांश्च सर्वशः |
कृत्वा च दुष्करं कर्म प्रीतियुक्ताश्च पाण्डवाः ||१८||
सस्त्रीकुमारैः कुरुभिः पूज्यमाना महारथाः |
बभ्राजिरे महात्मानः कुरुमध्ये यथाग्नयः ||१९||
ततो दुर्योधनं मुच्य भ्रातृभिः सहितं तदा |
युधिष्ठिरः सप्रणयमिदं वचनमब्रवीत् ||२०||
मा स्म तात पुनः कार्षीरीदृशं साहसं क्वचित् |
न हि साहसकर्तारः सुखमेधन्ति भारत ||२१||
स्वस्तिमान्सहितः सर्वैर्भ्रातृभिः कुरुनन्दन |
गृहान्व्रज यथाकामं वैमनस्यं च मा कृथाः ||२२||
पाण्डवेनाभ्यनुज्ञातो राजा दुर्योधनस्तदा |
विदीर्यमाणो व्रीडेन जगाम नगरं प्रति ||२३||
तस्मिन्गते कौरवेये कुन्तीपुत्रो युधिष्ठिरः |
भ्रातृभिः सहितो वीरः पूज्यमानो द्विजातिभिः ||२४||
तपोधनैश्च तैः सर्वैर्वृतः शक्र इवामरैः |
वने द्वैतवने तस्मिन्विजहार मुदा युतः ||२५||
२३६
जनमेजय उवाच||
शत्रुभिर्जितबद्धस्य पाण्डवैश्च महात्मभिः |
मोक्षितस्य युधा पश्चान्मानस्थस्य दुरात्मनः ||१||
कत्थनस्यावलिप्तस्य गर्वितस्य च नित्यशः |
सदा च पौरुषौदार्यैः पाण्डवानवमन्यतः ||२||
दुर्योधनस्य पापस्य नित्याहङ्कारवादिनः |
प्रवेशो हास्तिनपुरे दुष्करः प्रतिभाति मे ||३||
तस्य लज्जान्वितस्यैव शोकव्याकुलचेतसः |
प्रवेशं विस्तरेण त्वं वैशम्पायन कीर्तय ||४||
वैशम्पायन उवाच||
धर्मराजनिसृष्टस्तु धार्तराष्ट्रः सुयोधनः |
लज्जयाधोमुखः सीदन्नुपासर्पत्सुदुःखितः ||५||
स्वपुरं प्रययौ राजा चतुरङ्गबलानुगः |
शोकोपहतया बुद्ध्या चिन्तयानः पराभवम् ||६||
विमुच्य पथि यानानि देशे सुयवसोदके |
संनिविष्टः शुभे रम्ये भूमिभागे यथेप्सितम् ||७||
हस्त्यश्वरथपादातं यथास्थानं न्यवेशयत् ||७||
अथोपविष्टं राजानं पर्यङ्के ज्वलनप्रभे |
उपप्लुतं यथा सोमं राहुणा रात्रिसङ्क्षये ||८||
उपगम्याब्रवीत्कर्णो दुर्योधनमिदं तदा ||८||
दिष्ट्या जीवसि गान्धारे दिष्ट्या नः सङ्गमः पुनः |
दिष्ट्या त्वया जिताश्चैव गन्धर्वाः कामरूपिणः ||९||
दिष्ट्या समग्रान्पश्यामि भ्रातॄंस्ते कुरुनन्दन |
विजिगीषून्रणान्मुक्तान्निर्जितारीन्महारथान् ||१०||
अहं त्वभिद्रुतः सर्वैर्गन्धर्वैः पश्यतस्तव |
नाशक्नुवं स्थापयितुं दीर्यमाणां स्ववाहिनीम् ||११||
शरक्षताङ्गश्च भृशं व्यपयातोऽभिपीडितः |
इदं त्वत्यद्भुतं मन्ये यद्युष्मानिह भारत ||१२||
अरिष्टानक्षतांश्चापि सदारधनवाहनान् |
विमुक्तान्सम्प्रपश्यामि तस्माद्युद्धादमानुषात् ||१३||
नैतस्य कर्ता लोकेऽस्मिन्पुमान्विद्येत भारत |
यत्कृतं ते महाराज सह भ्रातृभिराहवे ||१४||
एवमुक्तस्तु कर्णेन राजा दुर्योधनस्तदा |
उवाचावाक्षिरा राजन्बाष्पगद्गदया गिरा ||१५||
२३७
दुर्योधन उवाच||
अजानतस्ते राधेय नाभ्यसूयाम्यहं वचः |
जानासि त्वं जिताञ्शत्रून्गन्धर्वांस्तेजसा मया ||१||
आयोधितास्तु गन्धर्वाः सुचिरं सोदरैर्मम |
मया सह महाबाहो कृतश्चोभयतः क्षयः ||२||
मायाधिकास्त्वयुध्यन्त यदा शूरा वियद्गताः |
तदा नो नसमं युद्धमभवत्सह खेचरैः ||३||
पराजयं च प्राप्ताः स्म रणे बन्धनमेव च |
सभृत्यामात्यपुत्राश्च सदारधनवाहनाः ||४||
उच्चैराकाशमार्गेण ह्रियामस्तैः सुदुःखिताः ||४||
अथ नः सैनिकाः केचिदमात्याश्च महारथान् |
उपगम्याब्रुवन्दीनाः पाण्डवाञ्शरणप्रदान् ||५||
एष दुर्योधनो राजा धार्तराष्ट्रः सहानुजः |
सामात्यदारो ह्रियते गन्धर्वैर्दिवमास्थितैः ||६||
तं मोक्षयत भद्रं वः सहदारं नराधिपम् |
परामर्शो मा भविष्यत्कुरुदारेषु सर्वशः ||७||
एवमुक्ते तु धर्मात्मा ज्येष्ठः पाण्डुसुतस्तदा |
प्रसाद्य सोदरान्सर्वानाज्ञापयत मोक्षणे ||८||
अथागम्य तमुद्देशं पाण्डवाः पुरुषर्षभाः |
सान्त्वपूर्वमयाचन्त शक्ताः सन्तो महारथाः ||९||
यदा चास्मान्न मुमुचुर्गन्धर्वाः सान्त्विता अपि |
ततोऽर्जुनश्च भीमश्च यमजौ च बलोत्कटौ ||१०||
मुमुचुः शरवर्षाणि गन्धर्वान्प्रत्यनेकशः ||१०||
अथ सर्वे रणं मुक्त्वा प्रयाताः खचरा दिवम् |
अस्मानेवाभिकर्षन्तो दीनान्मुदितमानसाः ||११||
ततः समन्तात्पश्यामि शरजालेन वेष्टितम् |
अमानुषाणि चास्त्राणि प्रयुञ्जानं धनञ्जयम् ||१२||
समावृता दिशो दृष्ट्वा पाण्डवेन शितैः शरैः |
धनञ्जयसखात्मानं दर्शयामास वै तदा ||१३||
चित्रसेनः पाण्डवेन समाश्लिष्य परन्तपः |
कुशलं परिपप्रच्छ तैः पृष्टश्चाप्यनामयम् ||१४||
ते समेत्य तथान्योन्यं संनाहान्विप्रमुच्य च |
एकीभूतास्ततो वीरा गन्धर्वाः सह पाण्डवैः ||१५||
अपूजयेतामन्योन्यं चित्रसेनधनञ्जयौ ||१५||
२३८
दुर्योधन उवाच||
चित्रसेनं समागम्य प्रहसन्नर्जुनस्तदा |
इदं वचनमक्लीबमब्रवीत्परवीरहा ||१||
भ्रातॄनर्हसि नो वीर मोक्तुं गन्धर्वसत्तम |
अनर्हा धर्षणं हीमे जीवमानेषु पाण्डुषु ||२||
एवमुक्तस्तु गन्धर्वः पाण्डवेन महात्मना |
उवाच यत्कर्ण वयं मन्त्रयन्तो विनिर्गताः ||३||
द्रष्टारः स्म सुखाद्धीनान्सदारान्पाण्डवानिति ||३||
तस्मिन्नुच्चार्यमाणे तु गन्धर्वेण वचस्यथ |
भूमेर्विवरमन्वैच्छं प्रवेष्टुं व्रीडयान्वितः ||४||
युधिष्ठिरमथागम्य गन्धर्वाः सह पाण्डवैः |
अस्मद्दुर्मन्त्रितं तस्मै बद्धांश्चास्मान्न्यवेदयन् ||५||
स्त्रीसमक्षमहं दीनो बद्धः शत्रुवशं गतः |
युधिष्ठिरस्योपहृतः किं नु दुःखमतः परम् ||६||
ये मे निराकृता नित्यं रिपुर्येषामहं सदा |
तैर्मोक्षितोऽहं दुर्बुद्धिर्दत्तं तैर्जीवितं च मे ||७||
प्राप्तः स्यां यद्यहं वीर वधं तस्मिन्महारणे |
श्रेयस्तद्भविता मह्यमेवम्भूतं न जीवितम् ||८||
भवेद्यशः पृथिव्यां मे ख्यातं गन्धर्वतो वधात् |
प्राप्ताश्च लोकाः पुण्याः स्युर्महेन्द्रसदनेऽक्षयाः ||९||
यत्त्वद्य मे व्यवसितं तच्छृणुध्वं नरर्षभाः |
इह प्रायमुपासिष्ये यूयं व्रजत वै गृहान् ||१०||
भ्रातरश्चैव मे सर्वे प्रयान्त्वद्य पुरं प्रति ||१०||
कर्णप्रभृतयश्चैव सुहृदो बान्धवाश्च ये |
दुःशासनं पुरस्कृत्य प्रयान्त्वद्य पुरं प्रति ||११||
न ह्यहं प्रतियास्यामि पुरं शत्रुनिराकृतः |
शत्रुमानापहो भूत्वा सुहृदां मानकृत्तथा ||१२||
स सुहृच्छोकदो भूत्वा शत्रूणां हर्षवर्धनः |
वारणाह्वयमासाद्य किं वक्ष्यामि जनाधिपम् ||१३||
भीष्मो द्रोणः कृपो द्रौणिर्विदुरः सञ्जयस्तथा |
बाह्लीकः सोमदत्तश्च ये चान्ये वृद्धसंमताः ||१४||
ब्राह्मणाः श्रेणिमुख्याश्च तथोदासीनवृत्तयः |
किं मां वक्ष्यन्ति किं चापि प्रतिवक्ष्यामि तानहम् ||१५||
रिपूणां शिरसि स्थित्वा तथा विक्रम्य चोरसि |
आत्मदोषात्परिभ्रष्टः कथं वक्ष्यामि तानहम् ||१६||
दुर्विनीताः श्रियं प्राप्य विद्यामैश्वर्यमेव च |
तिष्ठन्ति न चिरं भद्रे यथाहं मदगर्वितः ||१७||
अहो बत यथेदं मे कष्टं दुश्चरितं कृतम् |
स्वयं दुर्बुद्धिना मोहाद्येन प्राप्तोऽस्मि संशयम् ||१८||
तस्मात्प्रायमुपासिष्ये न हि शक्ष्यामि जीवितुम् |
चेतयानो हि को जीवेत्कृच्छ्राच्छत्रुभिरुद्धृतः ||१९||
शत्रुभिश्चावहसितो मानी पौरुषवर्जितः |
पाण्डवैर्विक्रमाढ्यैश्च सावमानमवेक्षितः ||२०||
वैशम्पायन उवाच||
एवं चिन्तापरिगतो दुःशासनमथाब्रवीत् |
दुःशासन निबोधेदं वचनं मम भारत ||२१||
प्रतीच्छ त्वं मया दत्तमभिषेकं नृपो भव |
प्रशाधि पृथिवीं स्फीतां कर्णसौबलपालिताम् ||२२||
भ्रातॄन्पालय विस्रब्धं मरुतो वृत्रहा यथा |
बान्धवास्त्वोपजीवन्तु देवा इव शतक्रतुम् ||२३||
ब्राह्मणेषु सदा वृत्तिं कुर्वीथाश्चाप्रमादतः |
बन्धूनां सुहृदां चैव भवेथास्त्वं गतिः सदा ||२४||
ज्ञातींश्चाप्यनुपश्येथा विष्णुर्देवगणानिव |
गुरवः पालनीयास्ते गच्छ पालय मेदिनीम् ||२५||
नन्दयन्सुहृदः सर्वाञ्शात्रवांश्चावभर्त्सयन् |
कण्ठे चैनं परिष्वज्य गम्यतामित्युवाच ह ||२६||
तस्य तद्वचनं श्रुत्वा दीनो दुःशासनोऽब्रवीत् |
अश्रुकण्ठः सुदुःखार्तः प्राञ्जलिः प्रणिपत्य च ||२७||
सगद्गदमिदं वाक्यं भ्रातरं ज्येष्ठमात्मनः ||२७||
प्रसीदेत्यपतद्भूमौ दूयमानेन चेतसा |
दुःखितः पादयोस्तस्य नेत्रजं जलमुत्सृजन् ||२८||
उक्तवांश्च नरव्याघ्रो नैतदेवं भविष्यति |
विदीर्येत्सनगा भूमिर्द्यौश्चापि शकलीभवेत् ||२९||
रविरात्मप्रभां जह्यात्सोमः शीतांशुतां त्यजेत् ||२९||
वायुः शैघ्र्यमथो जह्याद्धिमवांश्च परिव्रजेत् |
शुष्येत्तोयं समुद्रेषु वह्निरप्युष्णतां त्यजेत् ||३०||
न चाहं त्वदृते राजन्प्रशासेयं वसुन्धराम् |
पुनः पुनः प्रसीदेति वाक्यं चेदमुवाच ह ||३१||
त्वमेव नः कुले राजा भविष्यसि शतं समाः ||३१||
एवमुक्त्वा स राजेन्द्र सस्वनं प्ररुरोद ह |
पादौ सङ्गृह्य मानार्हौ भ्रातुर्ज्येष्ठस्य भारत ||३२||
तथा तौ दुःखितौ दृष्ट्वा दुःशासनसुयोधनौ |
अभिगम्य व्यथाविष्टः कर्णस्तौ प्रत्यभाषत ||३३||
विषीदथः किं कौरव्यौ बालिश्यात्प्राकृताविव |
न शोकः शोचमानस्य विनिवर्तेत कस्यचित् ||३४||
यदा च शोचतः शोको व्यसनं नापकर्षति |
सामर्थ्यं किं त्वतः शोके शोचमानौ प्रपश्यथः ||३५||
धृतिं गृह्णीत मा शत्रूञ्शोचन्तौ नन्दयिष्यथः ||३५||
कर्तव्यं हि कृतं राजन्पाण्डवैस्तव मोक्षणम् |
नित्यमेव प्रियं कार्यं राज्ञो विषयवासिभिः ||३६||
पाल्यमानास्त्वया ते हि निवसन्ति गतज्वराः ||३६||
नार्हस्येवङ्गते मन्युं कर्तुं प्राकृतवद्यथा |
विषण्णास्तव सोदर्यास्त्वयि प्रायं समास्थिते ||३७||
उत्तिष्ठ व्रज भद्रं ते समाश्वासय सोदरान् ||३७||
राजन्नद्यावगच्छामि तवेह लघुसत्त्वताम् |
किमत्र चित्रं यद्वीर मोक्षितः पाण्डवैरसि ||३८||
सद्यो वशं समापन्नः शत्रूणां शत्रुकर्शन ||३८||
सेनाजीवैश्च कौरव्य तथा विषयवासिभिः |
अज्ञातैर्यदि वा ज्ञातैः कर्तव्यं नृपतेः प्रियम् ||३९||
प्रायः प्रधानाः पुरुषाः क्षोभयन्त्यरिवाहिनीम् |
निगृह्यन्ते च युद्धेषु मोक्ष्यन्ते च स्वसैनिकैः ||४०||
सेनाजीवाश्च ये राज्ञां विषये सन्ति मानवाः |
तैः सङ्गम्य नृपार्थाय यतितव्यं यथातथम् ||४१||
यद्येवं पाण्डवै राजन्भवद्विषयवासिभिः |
यदृच्छया मोक्षितोऽद्य तत्र का परिदेवना ||४२||
न चैतत्साधु यद्राजन्पाण्डवास्त्वां नृपोत्तम |
स्वसेनया सम्प्रयान्तं नानुयान्ति स्म पृष्ठतः ||४३||
शूराश्च बलवन्तश्च संयुगेष्वपलायिनः |
भवतस्ते सभायां वै प्रेष्यतां पूर्वमागताः ||४४||
पाण्डवेयानि रत्नानि त्वमद्याप्युपभुञ्जसे |
सत्त्वस्थान्पाण्डवान्पश्य न ते प्रायमुपाविशन् ||४५||
उत्तिष्ठ राजन्भद्रं ते न चिन्तां कर्तुमर्हसि ||४५||
अवश्यमेव नृपते राज्ञो विषयवासिभिः |
प्रियाण्याचरितव्यानि तत्र का परिदेवना ||४६||
मद्वाक्यमेतद्राजेन्द्र यद्येवं न करिष्यसि |
स्थास्यामीह भवत्पादौ शुश्रूषन्नरिमर्दन ||४७||
नोत्सहे जीवितुमहं त्वद्विहीनो नरर्षभ |
प्रायोपविष्टस्तु नृप राज्ञां हास्यो भविष्यसि ||४८||
वैशम्पायन उवाच||
एवमुक्तस्तु कर्णेन राजा दुर्योधनस्तदा |
नैवोत्थातुं मनश्चक्रे स्वर्गाय कृतनिश्चयः ||४९||
२३९
वैशम्पायन उवाच||
प्रायोपविष्टं राजानं दुर्योधनममर्षणम् |
उवाच सान्त्वयन्राजञ्शकुनिः सौबलस्तदा ||१||
सम्यगुक्तं हि कर्णेन तच्छ्रुतं कौरव त्वया |
मयाहृतां श्रियं स्फीतां मोहात्समपहाय किम् ||२||
त्वमबुद्ध्या नृपवर प्राणानुत्स्रष्टुमिच्छसि ||२||
अद्य चाप्यवगच्छामि न वृद्धाः सेवितास्त्वया |
यः समुत्पतितं हर्षं दैन्यं वा न नियच्छति ||३||
स नश्यति श्रियं प्राप्य पात्रमाममिवाम्भसि ||३||
अतिभीरुमतिक्लीबं दीर्घसूत्रं प्रमादिनम् |
व्यसनाद्विषयाक्रान्तं न भजन्ति नृपं श्रियः ||४||
सत्कृतस्य हि ते शोको विपरीते कथं भवेत् |
मा कृतं शोभनं पार्थैः शोकमालम्ब्य नाशय ||५||
यत्र हर्षस्त्वया कार्यः सत्कर्तव्याश्च पाण्डवाः |
तत्र शोचसि राजेन्द्र विपरीतमिदं तव ||६||
प्रसीद मा त्यजात्मानं तुष्टश्च सुकृतं स्मर |
प्रयच्छ राज्यं पार्थानां यशो धर्ममवाप्नुहि ||७||
क्रियामेतां समाज्ञाय कृतघ्नो न भविष्यसि |
सौभ्रात्रं पाण्डवैः कृत्वा समवस्थाप्य चैव तान् ||८||
पित्र्यं राज्यं प्रयच्छैषां ततः सुखमवाप्नुहि ||८||
शकुनेस्तु वचः श्रुत्वा दुःशासनमवेक्ष्य च |
पादयोः पतितं वीरं विक्लवं भ्रातृसौहृदात् ||९||
बाहुभ्यां साधुजाताभ्यां दुःशासनमरिंदमम् |
उत्थाप्य सम्परिष्वज्य प्रीत्याजिघ्रत मूर्धनि ||१०||
कर्णसौबलयोश्चापि संस्मृत्य वचनान्यसौ |
निर्वेदं परमं गत्वा राजा दुर्योधनस्तदा ||११||
व्रीडयाभिपरीतात्मा नैराश्यमगमत्परम् ||११||
सुहृदां चैव तच्छ्रुत्वा समन्युरिदमब्रवीत् |
न धर्मधनसौख्येन नैश्वर्येण न चाज्ञया ||१२||
नैव भोगैश्च मे कार्यं मा विहन्यत गच्छत ||१२||
निश्चितेयं मम मतिः स्थिता प्रायोपवेशने |
गच्छध्वं नगरं सर्वे पूज्याश्च गुरवो मम ||१३||
त एवमुक्ताः प्रत्यूचू राजानमरिमर्दनम् |
या गतिस्तव राजेन्द्र सास्माकमपि भारत ||१४||
कथं वा सम्प्रवेक्ष्यामस्त्वद्विहीनाः पुरं वयम् ||१४||
स सुहृद्भिरमात्यैश्च भ्रातृभिः स्वजनेन च |
बहुप्रकारमप्युक्तो निश्चयान्न व्यचाल्यत ||१५||
दर्भप्रस्तरमास्तीर्य निश्चयाद्धृतराष्ट्रजः |
संस्पृश्यापः शुचिर्भूत्वा भूतलं समुपाश्रितः ||१६||
कुशचीराम्बरधरः परं नियममास्थितः |
वाग्यतो राजशार्दूलः स स्वर्गगतिकाङ्क्षया ||१७||
मनसोपचितिं कृत्वा निरस्य च बहिष्क्रियाः ||१७||
अथ तं निश्चयं तस्य बुद्ध्वा दैतेयदानवाः |
पातालवासिनो रौद्राः पूर्वं देवैर्विनिर्जिताः ||१८||
ते स्वपक्षक्षयं तं तु ज्ञात्वा दुर्योधनस्य वै |
आह्वानाय तदा चक्रुः कर्म वैतानसम्भवम् ||१९||
बृहस्पत्युशनोक्तैश्च मन्त्रैर्मन्त्रविशारदाः |
अथर्ववेदप्रोक्तैश्च याश्चोपनिषदि क्रियाः ||२०||
मन्त्रजप्यसमायुक्तास्तास्तदा समवर्तयन् ||२०||
जुह्वत्यग्नौ हविः क्षीरं मन्त्रवत्सुसमाहिताः |
ब्राह्मणा वेदवेदाङ्गपारगाः सुदृढव्रताः ||२१||
कर्मसिद्धौ तदा तत्र जृम्भमाणा महाद्भुता |
कृत्या समुत्थिता राजन्किं करोमीति चाब्रवीत् ||२२||
आहुर्दैत्याश्च तां तत्र सुप्रीतेनान्तरात्मना |
प्रायोपविष्टं राजानं धार्तराष्ट्रमिहानय ||२३||
तथेति च प्रतिश्रुत्य सा कृत्या प्रययौ तदा |
निमेषादगमच्चापि यत्र राजा सुयोधनः ||२४||
समादाय च राजानं प्रविवेश रसातलम् |
दानवानां मुहूर्ताच्च तमानीतं न्यवेदयत् ||२५||
तमानीतं नृपं दृष्ट्वा रात्रौ संहत्य दानवाः |
प्रहृष्टमनसः सर्वे किञ्चिदुत्फुल्ललोचनाः ||२६||
साभिमानमिदं वाक्यं दुर्योधनमथाब्रुवन् ||२६||
२४०
दानवा ऊचुः||
भोः सुयोधन राजेन्द्र भरतानां कुलोद्वह |
शूरैः परिवृतो नित्यं तथैव च महात्मभिः ||१||
अकार्षीः साहसमिदं कस्मात्प्रायोपवेशनम् |
आत्मत्यागी ह्यवाग्याति वाच्यतां चायशस्करीम् ||२||
न हि कार्यविरुद्धेषु बह्वपायेषु कर्मसु |
मूलघातिषु सज्जन्ते बुद्धिमन्तो भवद्विधाः ||३||
नियच्छैतां मतिं राजन्धर्मार्थसुखनाशिनीम् |
यशःप्रतापधैर्यघ्नीं शत्रूणां हर्षवर्धनीम् ||४||
श्रूयतां च प्रभो तत्त्वं दिव्यतां चात्मनो नृप |
निर्माणं च शरीरस्य ततो धैर्यमवाप्नुहि ||५||
पुरा त्वं तपसास्माभिर्लब्धो देवान्महेश्वरात् |
पूर्वकायश्च सर्वस्ते निर्मितो वज्रसञ्चयैः ||६||
अस्त्रैरभेद्यः शस्त्रैश्चाप्यधःकायश्च तेऽनघ |
कृतः पुष्पमयो देव्या रूपतः स्त्रीमनोहरः ||७||
एवमीश्वरसंयुक्तस्तव देहो नृपोत्तम |
देव्या च राजशार्दूल दिव्यस्त्वं हि न मानुषः ||८||
क्षत्रियाश्च महावीर्या भगदत्तपुरोगमाः |
दिव्यास्त्रविदुषः शूराः क्षपयिष्यन्ति ते रिपून् ||९||
तदलं ते विषादेन भयं तव न विद्यते |
साह्यार्थं च हि ते वीराः सम्भूता भुवि दानवाः ||१०||
भीष्मद्रोणकृपादींश्च प्रवेक्ष्यन्त्यपरेऽसुराः |
यैराविष्टा घृणां त्यक्त्वा योत्स्यन्ते तव वैरिभिः ||११||
नैव पुत्रान्न च भ्रातॄन्न पितॄन्न च बान्धवान् |
नैव शिष्यान्न च ज्ञातीन्न बालान्स्थविरान्न च ||१२||
युधि सम्प्रहरिष्यन्तो मोक्ष्यन्ति कुरुसत्तम |
निःस्नेहा दानवाविष्टाः समाक्रान्तेऽन्तरात्मनि ||१३||
प्रहरिष्यन्ति बन्धुभ्यः स्नेहमुत्सृज्य दूरतः |
हृष्टाः पुरुषशार्दूलाः कलुषीकृतमानसाः ||१४||
अविज्ञानविमूढाश्च दैवाच्च विधिनिर्मितात् ||१४||
व्याभाषमाणाश्चान्योन्यं न मे जीवन्विमोक्ष्यसे |
सर्वशस्त्रास्त्रमोक्षेण पौरुषे समवस्थिताः ||१५||
श्लाघमानाः कुरुश्रेष्ठ करिष्यन्ति जनक्षयम् ||१५||
तेऽपि शक्त्या महात्मानः प्रतियोत्स्यन्ति पाण्डवाः |
वधं चैषां करिष्यन्ति दैवयुक्ता महाबलाः ||१६||
दैत्यरक्षोगणाश्चापि सम्भूताः क्षत्रयोनिषु |
योत्स्यन्ति युधि विक्रम्य शत्रुभिस्तव पार्थिव ||१७||
गदाभिर्मुसलैः खड्गैः शस्त्रैरुच्चावचैस्तथा ||१७||
यच्च तेऽन्तर्गतं वीर भयमर्जुनसम्भवम् |
तत्रापि विहितोऽस्माभिर्वधोपायोऽर्जुनस्य वै ||१८||
हतस्य नरकस्यात्मा कर्णमूर्तिमुपाश्रितः |
तद्वैरं संस्मरन्वीर योत्स्यते केशवार्जुनौ ||१९||
स ते विक्रमशौण्डीरो रणे पार्थं विजेष्यति |
कर्णः प्रहरतां श्रेष्ठः सर्वांश्चारीन्महारथः ||२०||
ज्ञात्वैतच्छद्मना वज्री रक्षार्थं सव्यसाचिनः |
कुण्डले कवचं चैव कर्णस्यापहरिष्यति ||२१||
तस्मादस्माभिरप्यत्र दैत्याः शतसहस्रशः |
नियुक्ता राक्षसाश्चैव ये ते संशप्तका इति ||२२||
प्रख्यातास्तेऽर्जुनं वीरं निहनिष्यन्ति मा शुचः ||२२||
असपत्ना त्वया हीयं भोक्तव्या वसुधा नृप |
मा विषादं नयस्वास्मान्नैतत्त्वय्युपपद्यते ||२३||
विनष्टे त्वयि चास्माकं पक्षो हीयेत कौरव ||२३||
गच्छ वीर न ते बुद्धिरन्या कार्या कथञ्चन |
त्वमस्माकं गतिर्नित्यं देवतानां च पाण्डवाः ||२४||
वैशम्पायन उवाच||
एवमुक्त्वा परिष्वज्य दैत्यास्तं राजकुञ्जरम् |
समाश्वास्य च दुर्धर्षं पुत्रवद्दानवर्षभाः ||२५||
स्थिरां कृत्वा बुद्धिमस्य प्रियाण्युक्त्वा च भारत |
गम्यतामित्यनुज्ञाय जयमाप्नुहि चेत्यथ ||२६||
तैर्विसृष्टं महाबाहुं कृत्या सैवानयत्पुनः |
तमेव देशं यत्रासौ तदा प्रायमुपाविशत् ||२७||
प्रतिनिक्षिप्य तं वीरं कृत्या समभिपूज्य च |
अनुज्ञाता च राज्ञा सा तत्रैवान्तरधीयत ||२८||
गतायामथ तस्यां तु राजा दुर्योधनस्तदा |
स्वप्नभूतमिदं सर्वमचिन्तयत भारत ||२९||
विजेष्यामि रणे पाण्डूनिति तस्याभवन्मतिः ||२९||
कर्णं संशप्तकांश्चैव पार्थस्यामित्रघातिनः |
अमन्यत वधे युक्तान्समर्थांश्च सुयोधनः ||३०||
एवमाशा दृढा तस्य धार्तराष्ट्रस्य दुर्मतेः |
विनिर्जये पाण्डवानामभवद्भरतर्षभ ||३१||
कर्णोऽप्याविष्टचित्तात्मा नरकस्यान्तरात्मना |
अर्जुनस्य वधे क्रूरामकरोत्स मतिं तदा ||३२||
संशप्तकाश्च ते वीरा राक्षसाविष्टचेतसः |
रजस्तमोभ्यामाक्रान्ताः फल्गुनस्य वधैषिणः ||३३||
भीष्मद्रोणकृपाद्याश्च दानवाक्रान्तचेतसः |
न तथा पाण्डुपुत्राणां स्नेहवन्तो विशां पते ||३४||
न चाचचक्षे कस्मैचिदेतद्राजा सुयोधनः ||३४||
दुर्योधनं निशान्ते च कर्णो वैकर्तनोऽब्रवीत् |
स्मयन्निवाञ्जलिं कृत्वा पार्थिवं हेतुमद्वचः ||३५||
न मृतो जयते शत्रूञ्जीवन्भद्राणि पश्यति |
मृतस्य भद्राणि कुतः कौरवेय कुतो जयः ||३६||
न कालोऽद्य विषादस्य भयस्य मरणस्य वा ||३६||
परिष्वज्याब्रवीच्चैनं भुजाभ्यां स महाभुजः |
उत्तिष्ठ राजन्किं शेषे कस्माच्छोचसि शत्रुहन् ||३७||
शत्रून्प्रताप्य वीर्येण स कथं मर्तुमिच्छसि ||३७||
अथ वा ते भयं जातं दृष्ट्वार्जुनपराक्रमम् |
सत्यं ते प्रतिजानामि वधिष्यामि रणेऽर्जुनम् ||३८||
गते त्रयोदशे वर्षे सत्येनायुधमालभे |
आनयिष्याम्यहं पार्थान्वशं तव जनाधिप ||३९||
एवमुक्तस्तु कर्णेन दैत्यानां वचनात्तथा |
प्रणिपातेन चान्येषामुदतिष्ठत्सुयोधनः ||४०||
दैत्यानां तद्वचः श्रुत्वा हृदि कृत्वा स्थिरां मतिम् ||४०||
ततो मनुजशार्दूलो योजयामास वाहिनीम् |
रथनागाश्वकलिलां पदातिजनसङ्कुलाम् ||४१||
गङ्गौघप्रतिमा राजन्प्रयाता सा महाचमूः |
श्वेतच्छत्रैः पताकाभिश्चामरैश्च सुपाण्डुरैः ||४२||
रथैर्नागैः पदातैश्च शुशुभेऽतीव सङ्कुला |
व्यपेताभ्रघने काले द्यौरिवाव्यक्तशारदी ||४३||
जयाशीर्भिर्द्विजेन्द्रैस्तु स्तूयमानोऽधिराजवत् |
गृह्णन्नञ्जलिमालाश्च धार्तराष्ट्रो जनाधिपः ||४४||
सुयोधनो ययावग्रे श्रिया परमया ज्वलन् |
कर्णेन सार्धं राजेन्द्र सौबलेन च देविना ||४५||
दुःशासनादयश्चास्य भ्रातरः सर्व एव ते |
भूरिश्रवाः सोमदत्तो महाराजश्च बाह्लिकः ||४६||
रथैर्नानाविधाकारैर्हयैर्गजवरैस्तथा |
प्रयान्तं नृपसिंहं तमनुजग्मुः कुरूद्वहाः ||४७||
कालेनाल्पेन राजंस्ते विविशुः स्वपुरं तदा ||४७||
२४१
जनमेजय उवाच||
वसमानेषु पार्थेषु वने तस्मिन्महात्मसु |
धार्तराष्ट्रा महेष्वासाः किमकुर्वन्त सत्तम ||१||
कर्णो वैकर्तनश्चापि शकुनिश्च महाबलः |
भीष्मद्रोणकृपाश्चैव तन्मे शंसितुमर्हसि ||२||
वैशम्पायन उवाच||
एवं गतेषु पार्थेषु विसृष्टे च सुयोधने |
आगते हास्तिनपुरं मोक्षिते पाण्डुनन्दनैः ||३||
भीष्मोऽब्रवीन्महाराज धार्तराष्ट्रमिदं वचः ||३||
उक्तं तात मया पूर्वं गच्छतस्ते तपोवनम् |
गमनं मे न रुचितं तव तन्न कृतं च ते ||४||
ततः प्राप्तं त्वया वीर ग्रहणं शत्रुभिर्बलात् |
मोक्षितश्चासि धर्मज्ञैः पाण्डवैर्न च लज्जसे ||५||
प्रत्यक्षं तव गान्धारे ससैन्यस्य विशां पते |
सूतपुत्रोऽपयाद्भीतो गन्धर्वाणां तदा रणात् ||६||
क्रोशतस्तव राजेन्द्र ससैन्यस्य नृपात्मज ||६||
दृष्टस्ते विक्रमश्चैव पाण्डवानां महात्मनाम् |
कर्णस्य च महाबाहो सूतपुत्रस्य दुर्मतेः ||७||
न चापि पादभाक्कर्णः पाण्डवानां नृपोत्तम |
धनुर्वेदे च शौर्ये च धर्मे वा धर्मवत्सल ||८||
तस्य तेऽहं क्षमं मन्ये पाण्डवैस्तैर्महात्मभिः |
सन्धिं सन्धिविदां श्रेष्ठ कुलस्यास्य विवृद्धये ||९||
एवमुक्तस्तु भीष्मेण धार्तराष्ट्रो जनेश्वरः |
प्रहस्य सहसा राजन्विप्रतस्थे ससौबलः ||१०||
तं तु प्रस्थितमाज्ञाय कर्णदुःशासनादयः |
अनुजग्मुर्महेष्वासा धार्तराष्ट्रं महाबलम् ||११||
तांस्तु सम्प्रस्थितान्दृष्ट्वा भीष्मः कुरुपितामहः |
लज्जया व्रीडितो राजञ्जगाम स्वं निवेशनम् ||१२||
गते भीष्मे महाराज धार्तराष्ट्रो जनाधिपः |
पुनरागम्य तं देशममन्त्रयत मन्त्रिभिः ||१३||
किमस्माकं भवेच्छ्रेयः किं कार्यमवशिष्यते |
कथं नु सुकृतं च स्यान्मन्त्रयामास भारत ||१४||
कर्ण उवाच||
दुर्योधन निबोधेदं यत्त्वा वक्ष्यामि कौरव |
श्रुत्वा च तत्तथा सर्वं कर्तुमर्हस्यरिंदम ||१५||
तवाद्य पृथिवी वीर निःसपत्ना नृपोत्तम |
तां पालय यथा शक्रो हतशत्रुर्महामनाः ||१६||
वैशम्पायन उवाच||
एवमुक्तस्तु कर्णेन कर्णं राजाब्रवीत्पुनः |
न किञ्चिद्दुर्लभं तस्य यस्य त्वं पुरुषर्षभ ||१७||
सहायश्चानुरक्तश्च मदर्थं च समुद्यतः |
अभिप्रायस्तु मे कश्चित्तं वै शृणु यथातथम् ||१८||
राजसूयं पाण्डवस्य दृष्ट्वा क्रतुवरं तदा |
मम स्पृहा समुत्पन्ना तां सम्पादय सूतज ||१९||
एवमुक्तस्ततः कर्णो राजानमिदमब्रवीत् |
तवाद्य पृथिवीपाला वश्याः सर्वे नृपोत्तम ||२०||
आहूयन्तां द्विजवराः सम्भाराश्च यथाविधि |
सम्भ्रियन्तां कुरुश्रेष्ठ यज्ञोपकरणानि च ||२१||
ऋत्विजश्च समाहूता यथोक्तं वेदपारगाः |
क्रियां कुर्वन्तु ते राजन्यथाशास्त्रमरिंदम ||२२||
बह्वन्नपानसंयुक्तः सुसमृद्धगुणान्वितः |
प्रवर्ततां महायज्ञस्तवापि भरतर्षभ ||२३||
एवमुक्तस्तु कर्णेन धार्तराष्ट्रो विशां पते |
पुरोहितं समानाय्य इदं वचनमब्रवीत् ||२४||
राजसूयं क्रतुश्रेष्ठं समाप्तवरदक्षिणम् |
आहर त्वं मम कृते यथान्यायं यथाक्रमम् ||२५||
स एवमुक्तो नृपतिमुवाच द्विजपुङ्गवः |
न स शक्यः क्रतुश्रेष्ठो जीवमाने युधिष्ठिरे ||२६||
आहर्तुं कौरवश्रेष्ठ कुले तव नृपोत्तम ||२६||
दीर्घायुर्जीवति च वै धृतराष्ट्रः पिता तव |
अतश्चापि विरुद्धस्ते क्रतुरेष नृपोत्तम ||२७||
अस्ति त्वन्यन्महत्सत्रं राजसूयसमं प्रभो |
तेन त्वं यज राजेन्द्र शृणु चेदं वचो मम ||२८||
य इमे पृथिवीपालाः करदास्तव पार्थिव |
ते करान्सम्प्रयच्छन्तु सुवर्णं च कृताकृतम् ||२९||
तेन ते क्रियतामद्य लाङ्गलं नृपसत्तम |
यज्ञवाटस्य ते भूमिः कृष्यतां तेन भारत ||३०||
तत्र यज्ञो नृपश्रेष्ठ प्रभूतान्नः सुसंस्कृतः |
प्रवर्ततां यथान्यायं सर्वतो ह्यनिवारितः ||३१||
एष ते वैष्णवो नाम यज्ञः सत्पुरुषोचितः |
एतेन नेष्टवान्कश्चिदृते विष्णुं पुरातनम् ||३२||
राजसूयं क्रतुश्रेष्ठं स्पर्धत्येष महाक्रतुः |
अस्माकं रोचते चैव श्रेयश्च तव भारत ||३३||
अविघ्नश्च भवेदेष सफला स्यात्स्पृहा तव ||३३||
एवमुक्तस्तु तैर्विप्रैर्धार्तराष्ट्रो महीपतिः |
कर्णं च सौबलं चैव भ्रातॄंश्चैवेदमब्रवीत् ||३४||
रोचते मे वचः कृत्स्नं ब्राह्मणानां न संशयः |
रोचते यदि युष्माकं तन्मा प्रब्रूत माचिरम् ||३५||
एवमुक्तास्तु ते सर्वे तथेत्यूचुर्नराधिपम् |
संदिदेश ततो राजा व्यापारस्थान्यथाक्रमम् ||३६||
हलस्य करणे चापि व्यादिष्टाः सर्वशिल्पिनः |
यथोक्तं च नृपश्रेष्ठ कृतं सर्वं यथाक्रमम् ||३७||
२४२
वैशम्पायन उवाच||
ततस्तु शिल्पिनः सर्वे अमात्यप्रवराश्च ह |
विदुरश्च महाप्राज्ञो धार्तराष्ट्रे न्यवेदयत् ||१||
सज्जं क्रतुवरं राजन्कालप्राप्तं च भारत |
सौवर्णं च कृतं दिव्यं लाङ्गलं सुमहाधनम् ||२||
एतच्छ्रुत्वा नृपश्रेष्ठो धार्तराष्ट्रो विशां पते |
आज्ञापयामास नृपः क्रतुराजप्रवर्तनम् ||३||
ततः प्रववृते यज्ञः प्रभूतान्नः सुसंस्कृतः |
दीक्षितश्चापि गान्धारिर्यथाशास्त्रं यथाक्रमम् ||४||
प्रहृष्टो धृतराष्ट्रोऽभूद्विदुरश्च महायशाः |
भीष्मो द्रोणः कृपः कर्णो गान्धारी च यशस्विनी ||५||
निमन्त्रणार्थं दूतांश्च प्रेषयामास शीघ्रगान् |
पार्थिवानां च राजेन्द्र ब्राह्मणानां तथैव च ||६||
ते प्रयाता यथोद्दिष्टं दूतास्त्वरितवाहनाः ||६||
तत्र कञ्चित्प्रयातं तु दूतं दुःशासनोऽब्रवीत् |
गच्छ द्वैतवनं शीघ्रं पाण्डवान्पापपूरुषान् ||७||
निमन्त्रय यथान्यायं विप्रांस्तस्मिन्महावने ||७||
स गत्वा पाण्डवावासमुवाचाभिप्रणम्य तान् |
दुर्योधनो महाराज यजते नृपसत्तमः ||८||
स्ववीर्यार्जितमर्थौघमवाप्य कुरुनन्दनः |
तत्र गच्छन्ति राजानो ब्राह्मणाश्च ततस्ततः ||९||
अहं तु प्रेषितो राजन्कौरवेण महात्मना |
आमन्त्रयति वो राजा धार्तराष्ट्रो जनेश्वरः ||१०||
मनोऽभिलषितं राज्ञस्तं क्रतुं द्रष्टुमर्हथ ||१०||
ततो युधिष्ठिरो राजा तच्छ्रुत्वा दूतभाषितम् |
अब्रवीन्नृपशार्दूलो दिष्ट्या राजा सुयोधनः ||११||
यजते क्रतुमुख्येन पूर्वेषां कीर्तिवर्धनः ||११||
वयमप्युपयास्यामो न त्विदानीं कथञ्चन |
समयः परिपाल्यो नो यावद्वर्षं त्रयोदशम् ||१२||
श्रुत्वैतद्धर्मराजस्य भीमो वचनमब्रवीत् |
तदा तु नृपतिर्गन्ता धर्मराजो युधिष्ठिरः ||१३||
अस्त्रशस्त्रप्रदीप्तेऽग्नौ यदा तं पातयिष्यति |
वर्षात्त्रयोदशादूर्ध्वं रणसत्रे नराधिपः ||१४||
यदा क्रोधहविर्मोक्ता धार्तराष्ट्रेषु पाण्डवः |
आगन्तारस्तदा स्मेति वाच्यस्ते स सुयोधनः ||१५||
शेषास्तु पाण्डवा राजन्नैवोचुः किञ्चिदप्रियम् |
दूतश्चापि यथावृत्तं धार्तराष्ट्रे न्यवेदयत् ||१६||
अथाजग्मुर्नरश्रेष्ठा नानाजनपदेश्वराः |
ब्राह्मणाश्च महाभागा धार्तराष्ट्रपुरं प्रति ||१७||
ते त्वर्चिता यथाशास्त्रं यथावर्णं यथाक्रमम् |
मुदा परमया युक्ताः प्रीत्या चापि नरेश्वर ||१८||
धृतराष्ट्रोऽपि राजेन्द्र संवृतः सर्वकौरवैः |
हर्षेण महता युक्तो विदुरं प्रत्यभाषत ||१९||
यथा सुखी जनः सर्वः क्षत्तः स्यादन्नसंयुतः |
तुष्येच्च यज्ञसदने तथा क्षिप्रं विधीयताम् ||२०||
विदुरस्त्वेवमाज्ञप्तः सर्ववर्णानरिंदम |
यथाप्रमाणतो विद्वान्पूजयामास धर्मवित् ||२१||
भक्ष्यभोज्यान्नपानेन माल्यैश्चापि सुगन्धिभिः |
वासोभिर्विविधैश्चैव योजयामास हृष्टवत् ||२२||
कृत्वा ह्यवभृथं वीरो यथाशास्त्रं यथाक्रमम् |
सान्त्वयित्वा च राजेन्द्रो दत्त्वा च विविधं वसु ||२३||
विसर्जयामास नृपान्ब्राह्मणांश्च सहस्रशः ||२३||
विसर्जयित्वा स नृपान्भ्रातृभिः परिवारितः |
विवेश हास्तिनपुरं सहितः कर्णसौबलैः ||२४||
२४३
वैशम्पायन उवाच||
प्रविशन्तं महाराज सूतास्तुष्टुवुरच्युतम् |
जनाश्चापि महेष्वासं तुष्टुवू राजसत्तमम् ||१||
लाजैश्चन्दनचूर्णैश्चाप्यवकीर्य जनास्तदा |
ऊचुर्दिष्ट्या नृपाविघ्नात्समाप्तोऽयं क्रतुस्तव ||२||
अपरे त्वब्रुवंस्तत्र वातिकास्तं महीपतिम् |
युधिष्ठिरस्य यज्ञेन न समो ह्येष तु क्रतुः ||३||
नैव तस्य क्रतोरेष कलामर्हति षोडशीम् ||३||
एवं तत्राब्रुवन्केचिद्वातिकास्तं नरेश्वरम् |
सुहृदस्त्वब्रुवंस्तत्र अति सर्वानयं क्रतुः ||४||
ययातिर्नहुषश्चापि मान्धाता भरतस्तथा |
क्रतुमेनं समाहृत्य पूताः सर्वे दिवं गताः ||५||
एता वाचः शुभाः शृण्वन्सुहृदां भरतर्षभ |
प्रविवेश पुरं हृष्टः स्ववेश्म च नराधिपः ||६||
अभिवाद्य ततः पादौ मातापित्रोर्विशां पते |
भीष्मद्रोणकृपाणां च विदुरस्य च धीमतः ||७||
अभिवादितः कनीयोभिर्भ्रातृभिर्भ्रातृवत्सलः |
निषसादासने मुख्ये भ्रातृभिः परिवारितः ||८||
तमुत्थाय महाराज सूतपुत्रोऽब्रवीद्वचः |
दिष्ट्या ते भरतश्रेष्ठ समाप्तोऽयं महाक्रतुः ||९||
हतेषु युधि पार्थेषु राजसूये तथा त्वया |
आहृतेऽहं नरश्रेष्ठ त्वां सभाजयिता पुनः ||१०||
तमब्रवीन्महाराजो धार्तराष्ट्रो महायशाः |
सत्यमेतत्त्वया वीर पाण्डवेषु दुरात्मसु ||११||
निहतेषु नरश्रेष्ठ प्राप्ते चापि महाक्रतौ |
राजसूये पुनर्वीर त्वं मां संवर्धयिष्यसि ||१२||
एवमुक्त्वा महाप्राज्ञः कर्णमाश्लिष्य भारत |
राजसूयं क्रतुश्रेष्ठं चिन्तयामास कौरवः ||१३||
सोऽब्रवीत्सुहृदश्चापि पार्श्वस्थान्नृपसत्तमः |
कदा तु तं क्रतुवरं राजसूयं महाधनम् ||१४||
निहत्य पाण्डवान्सर्वानाहरिष्यामि कौरवाः ||१४||
तमब्रवीत्तदा कर्णः शृणु मे राजकुञ्जर |
पादौ न धावये तावद्यावन्न निहतोऽर्जुनः ||१५||
अथोत्क्रुष्टं महेष्वासैर्धार्तराष्ट्रैर्महारथैः |
प्रतिज्ञाते फल्गुनस्य वधे कर्णेन संयुगे ||१६||
विजितांश्चाप्यमन्यन्त पाण्डवान्धृतराष्ट्रजाः ||१६||
दुर्योधनोऽपि राजेन्द्र विसृज्य नरपुङ्गवान् |
प्रविवेश गृहं श्रीमान्यथा चैत्ररथं प्रभुः ||१७||
तेऽपि सर्वे महेष्वासा जग्मुर्वेश्मानि भारत ||१७||
पाण्डवाश्च महेष्वासा दूतवाक्यप्रचोदिताः |
चिन्तयन्तस्तमेवार्थं नालभन्त सुखं क्वचित् ||१८||
भूयश्च चारै राजेन्द्र प्रवृत्तिरुपपादिता |
प्रतिज्ञा सूतपुत्रस्य विजयस्य वधं प्रति ||१९||
एतच्छ्रुत्वा धर्मसुतः समुद्विग्नो नराधिप |
अभेद्यकवचं मत्वा कर्णमद्भुतविक्रमम् ||२०||
अनुस्मरंश्च सङ्क्लेशान्न शान्तिमुपयाति सः ||२०||
तस्य चिन्तापरीतस्य बुद्धिर्जज्ञे महात्मनः |
बहुव्यालमृगाकीर्णं त्यक्तुं द्वैतवनं वनम् ||२१||
धार्तराष्ट्रोऽपि नृपतिः प्रशशास वसुन्धराम् |
भ्रातृभिः सहितो वीरैर्भीष्मद्रोणकृपैस्तथा ||२२||
सङ्गम्य सूतपुत्रेण कर्णेनाहवशोभिना |
दुर्योधनः प्रिये नित्यं वर्तमानो महीपतिः ||२३||
पूजयामास विप्रेन्द्रान्क्रतुभिर्भूरिदक्षिणैः ||२३||
भ्रातॄणां च प्रियं राजन्स चकार परन्तपः |
निश्चित्य मनसा वीरो दत्तभुक्तफलं धनम् ||२४||
मृगस्वप्नभयपर्व
२४४
जनमेजय उवाच||
दुर्योधनं मोचयित्वा पाण्डुपुत्रा महाबलाः |
किमकार्षुर्वने तस्मिंस्तन्ममाख्यातुमर्हसि ||१||
वैशम्पायन उवाच||
ततः शयानं कौन्तेयं रात्रौ द्वैतवने मृगाः |
स्वप्नान्ते दर्शयामासुर्बाष्पकण्ठा युधिष्ठिरम् ||२||
तानब्रवीत्स राजेन्द्रो वेपमानान्कृताञ्जलीन् |
ब्रूत यद्वक्तुकामाः स्थ के भवन्तः किमिष्यते ||३||
एवमुक्ताः पाण्डवेन कौन्तेयेन यशस्विना |
प्रत्यब्रुवन्मृगास्तत्र हतशेषा युधिष्ठिरम् ||४||
वयं मृगा द्वैतवने हतशिष्टाः स्म भारत |
नोत्सीदेम महाराज क्रियतां वासपर्ययः ||५||
भवन्तो भ्रातरः शूराः सर्व एवास्त्रकोविदाः |
कुलान्यल्पावशिष्टानि कृतवन्तो वनौकसाम् ||६||
बीजभूता वयं केचिदवशिष्टा महामते |
विवर्धेमहि राजेन्द्र प्रसादात्ते युधिष्ठिर ||७||
तान्वेपमानान्वित्रस्तान्बीजमात्रावशेषितान् |
मृगान्दृष्ट्वा सुदुःखार्तो धर्मराजो युधिष्ठिरः ||८||
तांस्तथेत्यब्रवीद्राजा सर्वभूतहिते रतः |
तथ्यं भवन्तो ब्रुवते करिष्यामि च तत्तथा ||९||
इत्येवं प्रतिबुद्धः स रात्र्यन्ते राजसत्तमः |
अब्रवीत्सहितान्भ्रातॄन्दयापन्नो मृगान्प्रति ||१०||
उक्तो रात्रौ मृगैरस्मि स्वप्नान्ते हतशेषितैः |
तनुभूताः स्म भद्रं ते दया नः क्रियतामिति ||११||
ते सत्यमाहुः कर्तव्या दयास्माभिर्वनौकसाम् |
साष्टमासं हि नो वर्षं यदेनानुपयुञ्ज्महे ||१२||
पुनर्बहुमृगं रम्यं काम्यकं काननोत्तमम् |
मरुभूमेः शिरः ख्यातं तृणबिन्दुसरः प्रति ||१३||
तत्रेमा वसतीः शिष्टा विहरन्तो रमेमहि ||१३||
ततस्ते पाण्डवाः शीघ्रं प्रययुर्धर्मकोविदाः |
ब्राह्मणैः सहिता राजन्ये च तत्र सहोषिताः ||१४||
इन्द्रसेनादिभिश्चैव प्रेष्यैरनुगतास्तदा ||१४||
ते यात्वानुसृतैर्मार्गैः स्वन्नैः शुचिजलान्वितैः |
ददृशुः काम्यकं पुण्यमाश्रमं तापसायुतम् ||१५||
विविशुस्ते स्म कौरव्या वृता विप्रर्षभैस्तदा |
तद्वनं भरतश्रेष्ठाः स्वर्गं सुकृतिनो यथा ||१६||
व्रीहिद्रौणिकपर्व
२४५
वैशम्पायन उवाच||
वने निवसतां तेषां पाण्डवानां महात्मनाम् |
वर्षाण्येकादशातीयुः कृच्छ्रेण भरतर्षभ ||१||
फलमूलाशनास्ते हि सुखार्हा दुःखमुत्तमम् |
प्राप्तकालमनुध्यान्तः सेहुरुत्तमपूरुषाः ||२||
युधिष्ठिरस्तु राजर्षिरात्मकर्मापराधजम् |
चिन्तयन्स महाबाहुर्भ्रातॄणां दुःखमुत्तमम् ||३||
न सुष्वाप सुखं राजा हृदि शल्यैरिवार्पितैः |
दौरात्म्यमनुपश्यंस्तत्काले द्यूतोद्भवस्य हि ||४||
संस्मरन्परुषा वाचः सूतपुत्रस्य पाण्डवः |
निःश्वासपरमो दीनो बिभ्रत्कोपविषं महत् ||५||
अर्जुनो यमजौ चोभौ द्रौपदी च यशस्विनी |
स च भीमो महातेजाः सर्वेषामुत्तमो बली ||६||
युधिष्ठिरमुदीक्षन्तः सेहुर्दुःखमनुत्तमम् ||६||
अवशिष्टमल्पकालं मन्वानाः पुरुषर्षभाः |
वपुरन्यदिवाकार्षुरुत्साहामर्षचेष्टितैः ||७||
कस्यचित्त्वथ कालस्य व्यासः सत्यवतीसुतः |
आजगाम महायोगी पाण्डवानवलोककः ||८||
तमागतमभिप्रेक्ष्य कुन्तीपुत्रो युधिष्ठिरः |
प्रत्युद्गम्य महात्मानं प्रत्यगृह्णाद्यथाविधि ||९||
तमासीनमुपासीनः शुश्रूषुर्नियतेन्द्रियः |
तोषयन्प्रणिपातेन व्यासं पाण्डवनन्दनः ||१०||
तानवेक्ष्य कृशान्पौत्रान्वने वन्येन जीवतः |
महर्षिरनुकम्पार्थमब्रवीद्बाष्पगद्गदम् ||११||
युधिष्ठिर महाबाहो शृणु धर्मभृतां वर |
नातप्ततपसः पुत्र प्राप्नुवन्ति महत्सुखम् ||१२||
सुखदुःखे हि पुरुषः पर्यायेणोपसेवते |
नात्यन्तमसुखं कश्चित्प्राप्नोति पुरुषर्षभ ||१३||
प्रज्ञावांस्त्वेव पुरुषः संयुक्तः परया धिया |
उदयास्तमयज्ञो हि न शोचति न हृष्यति ||१४||
सुखमापतितं सेवेद्दुःखमापतितं सहेत् |
कालप्राप्तमुपासीत सस्यानामिव कर्षकः ||१५||
तपसो हि परं नास्ति तपसा विन्दते महत् |
नासाध्यं तपसः किञ्चिदिति बुध्यस्व भारत ||१६||
सत्यमार्जवमक्रोधः संविभागो दमः शमः |
अनसूयाविहिंसा च शौचमिन्द्रियसंयमः ||१७||
साधनानि महाराज नराणां पुण्यकर्मणाम् ||१७||
अधर्मरुचयो मूढास्तिर्यग्गतिपरायणाः |
कृच्छ्रां योनिमनुप्राप्य न सुखं विन्दते जनाः ||१८||
इह यत्क्रियते कर्म तत्परत्रोपभुज्यते |
तस्माच्छरीरं युञ्जीत तपसा नियमेन च ||१९||
यथाशक्ति प्रयच्छेच्च सम्पूज्याभिप्रणम्य च |
काले पात्रे च हृष्टात्मा राजन्विगतमत्सरः ||२०||
सत्यवादी लभेतायुरनायासमथार्जवी |
अक्रोधनोऽनसूयश्च निर्वृतिं लभते पराम् ||२१||
दान्तः शमपरः शश्वत्परिक्लेशं न विन्दति |
न च तप्यति दान्तात्मा दृष्ट्वा परगतां श्रियम् ||२२||
संविभक्ता च दाता च भोगवान्सुखवान्नरः |
भवत्यहिंसकश्चैव परमारोग्यमश्नुते ||२३||
मान्यान्मानयिता जन्म कुले महति विन्दति |
व्यसनैर्न तु संयोगं प्राप्नोति विजितेन्द्रियः ||२४||
शुभानुशयबुद्धिर्हि संयुक्तः कालधर्मणा |
प्रादुर्भवति तद्योगात्कल्याणमतिरेव सः ||२५||
युधिष्ठिर उवाच||
भगवन्दानधर्माणां तपसो वा महामुने |
किं स्विद्बहुगुणं प्रेत्य किं वा दुष्करमुच्यते ||२६||
व्यास उवाच||
दानान्न दुष्करतरं पृथिव्यामस्ति किञ्चन |
अर्थे हि महती तृष्णा स च दुःखेन लभ्यते ||२७||
परित्यज्य प्रियान्प्राणान्धनार्थं हि महाहवम् |
प्रविशन्ति नरा वीराः समुद्रमटवीं तथा ||२८||
कृषिगोरक्ष्यमित्येके प्रतिपद्यन्ति मानवाः |
पुरुषाः प्रेष्यतामेके निर्गच्छन्ति धनार्थिनः ||२९||
तस्य दुःखार्जितस्यैवं परित्यागः सुदुष्करः |
न दुष्करतरं दानात्तस्माद्दानं मतं मम ||३०||
विशेषस्त्वत्र विज्ञेयो न्यायेनोपार्जितं धनम् |
पात्रे देशे च काले च साधुभ्यः प्रतिपादयेत् ||३१||
अन्यायसमुपात्तेन दानधर्मो धनेन यः |
क्रियते न स कर्तारं त्रायते महतो भयात् ||३२||
पात्रे दानं स्वल्पमपि काले दत्तं युधिष्ठिर |
मनसा सुविशुद्धेन प्रेत्यानन्तफलं स्मृतम् ||३३||
अत्राप्युदाहरन्तीममितिहासं पुरातनम् |
व्रीहिद्रोणपरित्यागाद्यत्फलं प्राप मुद्गलः ||३४||
२४६
युधिष्ठिर उवाच||
व्रीहिद्रोणः परित्यक्तः कथं तेन महात्मना |
कस्मै दत्तश्च भगवन्विधिना केन चात्थ मे ||१||
प्रत्यक्षधर्मा भगवान्यस्य तुष्टो हि कर्मभिः |
सफलं तस्य जन्माहं मन्ये सद्धर्मचारिणः ||२||
व्यास उवाच||
शिलोञ्छवृत्तिर्धर्मात्मा मुद्गलः संशितव्रतः |
आसीद्राजन्कुरुक्षेत्रे सत्यवागनसूयकः ||३||
अतिथिव्रती क्रियावांश्च कापोतीं वृत्तिमास्थितः |
सत्रमिष्टीकृतं नाम समुपास्ते महातपाः ||४||
सपुत्रदारो हि मुनिः पक्षाहारो बभूव सः |
कपोतवृत्त्या पक्षेण व्रीहिद्रोणमुपार्जयत् ||५||
दर्शं च पौर्णमासं च कुर्वन्विगतमत्सरः |
देवतातिथिशेषेण कुरुते देहयापनम् ||६||
तस्येन्द्रः सहितो देवैः साक्षात्त्रिभुवनेश्वरः |
प्रत्यगृह्णान्महाराज भागं पर्वणि पर्वणि ||७||
स पर्वकालं कृत्वा तु मुनिवृत्त्या समन्वितः |
अतिथिभ्यो ददावन्नं प्रहृष्टेनान्तरात्मना ||८||
व्रीहिद्रोणस्य तदहो ददतोऽन्नं महात्मनः |
शिष्टं मात्सर्यहीनस्य वर्धत्यतिथिदर्शनात् ||९||
तच्छतान्यपि भुञ्जन्ति ब्राह्मणानां मनीषिणाम् |
मुनेस्त्यागविशुद्ध्या तु तदन्नं वृद्धिमृच्छति ||१०||
तं तु शुश्राव धर्मिष्ठं मुद्गलं संशितव्रतम् |
दुर्वासा नृप दिग्वासास्तमथाभ्याजगाम ह ||११||
बिभ्रच्चानियतं वेषमुन्मत्त इव पाण्डव |
विकचः परुषा वाचो व्याहरन्विविधा मुनिः ||१२||
अभिगम्याथ तं विप्रमुवाच मुनिसत्तमः |
अन्नार्थिनमनुप्राप्तं विद्धि मां मुनिसत्तम ||१३||
स्वागतं तेऽस्त्विति मुनिं मुद्गलः प्रत्यभाषत |
पाद्यमाचमनीयं च प्रतिवेद्यान्नमुत्तमम् ||१४||
प्रादात्स तपसोपात्तं क्षुधितायातिथिव्रती |
उन्मत्ताय परां श्रद्धामास्थाय स धृतव्रतः ||१५||
ततस्तदन्नं रसवत्स एव क्षुधयान्वितः |
बुभुजे कृत्स्नमुन्मत्तः प्रादात्तस्मै च मुद्गलः ||१६||
भुक्त्वा चान्नं ततः सर्वमुच्छिष्टेनात्मनस्ततः |
अथानुलिलिपेऽङ्गानि जगाम च यथागतम् ||१७||
एवं द्वितीये सम्प्राप्ते पर्वकाले मनीषिणः |
आगम्य बुभुजे सर्वमन्नमुञ्छोपजीविनः ||१८||
निराहारस्तु स मुनिरुञ्छमार्जयते पुनः |
न चैनं विक्रियां नेतुमशकन्मुद्गलं क्षुधा ||१९||
न क्रोधो न च मात्सर्यं नावमानो न सम्भ्रमः |
सपुत्रदारमुञ्छन्तमाविवेश द्विजोत्तमम् ||२०||
तथा तमुञ्छधर्माणं दुर्वासा मुनिसत्तमम् |
उपतस्थे यथाकालं षट्कृत्वः कृतनिश्चयः ||२१||
न चास्य मानसं किञ्चिद्विकारं ददृशे मुनिः |
शुद्धसत्त्वस्य शुद्धं स ददृशे निर्मलं मनः ||२२||
तमुवाच ततः प्रीतः स मुनिर्मुद्गलं तदा |
त्वत्समो नास्ति लोकेऽस्मिन्दाता मात्सर्यवर्जितः ||२३||
क्षुद्धर्मसञ्ज्ञां प्रणुदत्यादत्ते धैर्यमेव च |
विषयानुसारिणी जिह्वा कर्षत्येव रसान्प्रति ||२४||
आहारप्रभवाः प्राणा मनो दुर्निग्रहं चलम् |
मनसश्चेन्द्रियाणां चाप्यैकाग्र्यं निश्चितं तपः ||२५||
श्रमेणोपार्जितं त्यक्तुं दुःखं शुद्धेन चेतसा |
तत्सर्वं भवता साधो यथावदुपपादितम् ||२६||
प्रीताः स्मोऽनुगृहीताश्च समेत्य भवता सह |
इन्द्रियाभिजयो धैर्यं संविभागो दमः शमः ||२७||
दया सत्यं च धर्मश्च त्वयि सर्वं प्रतिष्ठितम् |
जितास्ते कर्मभिर्लोकाः प्राप्तोऽसि परमां गतिम् ||२८||
अहो दानं विघुष्टं ते सुमहत्स्वर्गवासिभिः |
सशरीरो भवान्गन्ता स्वर्गं सुचरितव्रत ||२९||
इत्येवं वदतस्तस्य तदा दुर्वाससो मुनेः |
देवदूतो विमानेन मुद्गलं प्रत्युपस्थितः ||३०||
हंससारसयुक्तेन किङ्किणीजालमालिना |
कामगेन विचित्रेण दिव्यगन्धवता तथा ||३१||
उवाच चैनं विप्रर्षिं विमानं कर्मभिर्जितम् |
समुपारोह संसिद्धिं प्राप्तोऽसि परमां मुने ||३२||
तमेवंवादिनमृषिर्देवदूतमुवाच ह |
इच्छामि भवता प्रोक्तान्गुणान्स्वर्गनिवासिनाम् ||३३||
के गुणास्तत्र वसतां किं तपः कश्च निश्चयः |
स्वर्गे स्वर्गसुखं किं च दोषो वा देवदूतक ||३४||
सतां सप्तपदं मित्रमाहुः सन्तः कुलोचिताः |
मित्रतां च पुरस्कृत्य पृच्छामि त्वामहं विभो ||३५||
यदत्र तथ्यं पथ्यं च तद्ब्रवीह्यविचारयन् |
श्रुत्वा तथा करिष्यामि व्यवसायं गिरा तव ||३६||
२४७
देवदूत उवाच||
महर्षेऽकार्यबुद्धिस्त्वं यः स्वर्गसुखमुत्तमम् |
सम्प्राप्तं बहु मन्तव्यं विमृशस्यबुधो यथा ||१||
उपरिष्टादसौ लोको योऽयं स्वरिति सञ्ज्ञितः |
ऊर्ध्वगः सत्पथः शश्वद्देवयानचरो मुने ||२||
नातप्ततपसः पुंसो नामहायज्ञयाजिनः |
नानृता नास्तिकाश्चैव तत्र गच्छन्ति मुद्गल ||३||
धर्मात्मानो जितात्मानः शान्ता दान्ता विमत्सराः |
दानधर्मरताः पुंसः शूराश्चाहतलक्षणाः ||४||
तत्र गच्छन्ति कर्माग्र्यं कृत्वा शमदमात्मकम् |
लोकान्पुण्यकृतां ब्रह्मन्सद्भिरासेवितान्नृभिः ||५||
देवाः साध्यास्तथा विश्वे मरुतश्च महर्षिभिः |
यामा धामाश्च मौद्गल्य गन्धर्वाप्सरसस्तथा ||६||
एषां देवनिकायानां पृथक्पृथगनेकशः |
भास्वन्तः कामसम्पन्ना लोकास्तेजोमयाः शुभाः ||७||
त्रयस्त्रिंशत्सहस्राणि योजनानां हिरण्मयः |
मेरुः पर्वतराड्यत्र देवोद्यानानि मुद्गल ||८||
नन्दनादीनि पुण्यानि विहाराः पुण्यकर्मणाम् |
न क्षुत्पिपासे न ग्लानिर्न शीतोष्णभयं तथा ||९||
बीभत्समशुभं वापि रोगा वा तत्र केचन |
मनोज्ञाः सर्वतो गन्धाः सुखस्पर्शाश्च सर्वशः ||१०||
शब्दाः श्रुतिमनोग्राह्याः सर्वतस्तत्र वै मुने |
न शोको न जरा तत्र नायासपरिदेवने ||११||
ईदृशः स मुने लोकः स्वकर्मफलहेतुकः |
सुकृतैस्तत्र पुरुषाः सम्भवन्त्यात्मकर्मभिः ||१२||
तैजसानि शरीराणि भवन्त्यत्रोपपद्यताम् |
कर्मजान्येव मौद्गल्य न मातृपितृजान्युत ||१३||
न च स्वेदो न दौर्गन्ध्यं पुरीषं मूत्रमेव च |
तेषां न च रजो वस्त्रं बाधते तत्र वै मुने ||१४||
न म्लायन्ति स्रजस्तेषां दिव्यगन्धा मनोरमाः |
पर्युह्यन्ते विमानैश्च ब्रह्मन्नेवंविधाश्च ते ||१५||
ईर्ष्याशोकक्लमापेता मोहमात्सर्यवर्जिताः |
सुखं स्वर्गजितस्तत्र वर्तयन्ति महामुने ||१६||
तेषां तथाविधानां तु लोकानां मुनिपुङ्गव |
उपर्युपरि शक्रस्य लोका दिव्यगुणान्विताः ||१७||
पुरस्ताद्ब्रह्मणस्तत्र लोकास्तेजोमयाः शुभाः |
यत्र यान्त्यृषयो ब्रह्मन्पूताः स्वैः कर्मभिः शुभैः ||१८||
ऋभवो नाम तत्रान्ये देवानामपि देवताः |
तेषां लोकाः परतरे तान्यजन्तीह देवताः ||१९||
स्वयम्प्रभास्ते भास्वन्तो लोकाः कामदुघाः परे |
न तेषां स्त्रीकृतस्तापो न लोकैश्वर्यमत्सरः ||२०||
न वर्तयन्त्याहुतिभिस्ते नाप्यमृतभोजनाः |
तथा दिव्यशरीरास्ते न च विग्रहमूर्तयः ||२१||
न सुखे सुखकामाश्च देवदेवाः सनातनाः |
न कल्पपरिवर्तेषु परिवर्तन्ति ते तथा ||२२||
जरा मृत्युः कुतस्तेषां हर्षः प्रीतिः सुखं न च |
न दुःखं न सुखं चापि रागद्वेषौ कुतो मुने ||२३||
देवानामपि मौद्गल्य काङ्क्षिता सा गतिः परा |
दुष्प्रापा परमा सिद्धिरगम्या कामगोचरैः ||२४||
त्रयस्त्रिंशदिमे लोकाः शेषा लोका मनीषिभिः |
गम्यन्ते नियमैः श्रेष्ठैर्दानैर्वा विधिपूर्वकैः ||२५||
सेयं दानकृता व्युष्टिरत्र प्राप्ता सुखावहा |
तां भुङ्क्ष्व सुकृतैर्लब्धां तपसा द्योतितप्रभः ||२६||
एतत्स्वर्गसुखं विप्र लोका नानाविधास्तथा |
गुणाः स्वर्गस्य प्रोक्तास्ते दोषानपि निबोध मे ||२७||
कृतस्य कर्मणस्तत्र भुज्यते यत्फलं दिवि |
न चान्यत्क्रियते कर्म मूलच्छेदेन भुज्यते ||२८||
सोऽत्र दोषो मम मतस्तस्यान्ते पतनं च यत् |
सुखव्याप्तमनस्कानां पतनं यच्च मुद्गल ||२९||
असन्तोषः परीतापो दृष्ट्वा दीप्ततराः श्रियः |
यद्भवत्यवरे स्थाने स्थितानां तच्च दुष्करम् ||३०||
सञ्ज्ञामोहश्च पततां रजसा च प्रधर्षणम् |
प्रम्लानेषु च माल्येषु ततः पिपतिषोर्भयम् ||३१||
आ ब्रह्मभवनादेते दोषा मौद्गल्य दारुणाः |
नाकलोके सुकृतिनां गुणास्त्वयुतशो नृणाम् ||३२||
अयं त्वन्यो गुणः श्रेष्ठश्च्युतानां स्वर्गतो मुने |
शुभानुशययोगेन मनुष्येषूपजायते ||३३||
तत्रापि सुमहाभागः सुखभागभिजायते |
न चेत्सम्बुध्यते तत्र गच्छत्यधमतां ततः ||३४||
इह यत्क्रियते कर्म तत्परत्रोपभुज्यते |
कर्मभूमिरियं ब्रह्मन्फलभूमिरसौ मता ||३५||
एतत्ते सर्वमाख्यातं यन्मां पृच्छसि मुद्गल |
तवानुकम्पया साधो साधु गच्छाम माचिरम् ||३६||
व्यास उवाच||
एतच्छ्रुत्वा तु मौद्गल्यो वाक्यं विममृशे धिया |
विमृश्य च मुनिश्रेष्ठो देवदूतमुवाच ह ||३७||
देवदूत नमस्तेऽस्तु गच्छ तात यथासुखम् |
महादोषेण मे कार्यं न स्वर्गेण सुखेन वा ||३८||
पतनं तन्महद्दुःखं परितापः सुदारुणः |
स्वर्गभाजश्च्यवन्तीह तस्मात्स्वर्गं न कामये ||३९||
यत्र गत्वा न शोचन्ति न व्यथन्ति चलन्ति वा |
तदहं स्थानमत्यन्तं मार्गयिष्यामि केवलम् ||४०||
इत्युक्त्वा स मुनिर्वाक्यं देवदूतं विसृज्य तम् |
शिलोञ्छवृत्तिमुत्सृज्य शममातिष्ठदुत्तमम् ||४१||
तुल्यनिन्दास्तुतिर्भूत्वा समलोष्टाश्मकाञ्चनः |
ज्ञानयोगेन शुद्धेन ध्याननित्यो बभूव ह ||४२||
ध्यानयोगाद्बलं लब्ध्वा प्राप्य चर्द्धिमनुत्तमाम् |
जगाम शाश्वतीं सिद्धिं परां निर्वाणलक्षणाम् ||४३||
तस्मात्त्वमपि कौन्तेय न शोकं कर्तुमर्हसि |
राज्यात्स्फीतात्परिभ्रष्टस्तपसा तदवाप्स्यसि ||४४||
सुखस्यानन्तरं दुःखं दुःखस्यानन्तरं सुखम् |
पर्यायेणोपवर्तन्ते नरं नेमिमरा इव ||४५||
पितृपैतामहं राज्यं प्राप्स्यस्यमितविक्रम |
वर्षात्त्रयोदशादूर्ध्वं व्येतु ते मानसो ज्वरः ||४६||
वैशम्पायन उवाच||
एवमुक्त्वा स भगवान्व्यासः पाण्डवनन्दनम् |
जगाम तपसे धीमान्पुनरेवाश्रमं प्रति ||४७||
द्रौपदीहरणपर्व
२४८
वैशम्पायन उवाच||
तस्मिन्बहुमृगेऽरण्ये रममाणा महारथाः |
काम्यके भरतश्रेष्ठा विजह्रुस्ते यथामराः ||१||
प्रेक्षमाणा बहुविधान्वनोद्देशान्समन्ततः |
यथर्तुकालरम्याश्च वनराजीः सुपुष्पिताः ||२||
पाण्डवा मृगयाशीलाश्चरन्तस्तन्महावनम् |
विजह्रुरिन्द्रप्रतिमाः कञ्चित्कालमरिंदमाः ||३||
ततस्ते यौगपद्येन ययुः सर्वे चतुर्दिशम् |
मृगयां पुरुषव्याघ्रा ब्राह्मणार्थे परन्तपाः ||४||
द्रौपदीमाश्रमे न्यस्य तृणबिन्दोरनुज्ञया |
महर्षेर्दीप्ततपसो धौम्यस्य च पुरोधसः ||५||
ततस्तु राजा सिन्धूनां वार्द्धक्षत्रिर्महायशाः |
विवाहकामः शाल्वेयान्प्रयातः सोऽभवत्तदा ||६||
महता परिबर्हेण राजयोग्येन संवृतः |
राजभिर्बहुभिः सार्धमुपायात्काम्यकं च सः ||७||
तत्रापश्यत्प्रियां भार्यां पाण्डवानां यशस्विनीम् |
तिष्ठन्तीमाश्रमद्वारि द्रौपदीं निर्जने वने ||८||
विभ्राजमानां वपुषा बिभ्रतीं रूपमुत्तमम् |
भ्राजयन्तीं वनोद्देशं नीलाभ्रमिव विद्युतम् ||९||
अप्सरा देवकन्या वा माया वा देवनिर्मिता |
इति कृत्वाञ्जलिं सर्वे ददृशुस्तामनिन्दिताम् ||१०||
ततः स राजा सिन्धूनां वार्द्धक्षत्रिर्जयद्रथः |
विस्मितस्तामनिन्द्याङ्गीं दृष्ट्वासीद्धृष्टमानसः ||११||
स कोटिकाश्यं राजानमब्रवीत्काममोहितः |
कस्य त्वेषानवद्याङ्गी यदि वापि न मानुषी ||१२||
विवाहार्थो न मे कश्चिदिमां दृष्ट्वातिसुन्दरीम् |
एतामेवाहमादाय गमिष्यामि स्वमालयम् ||१३||
गच्छ जानीहि सौम्यैनां कस्य का च कुतोऽपि वा |
किमर्थमागता सुभ्रूरिदं कण्टकितं वनम् ||१४||
अपि नाम वरारोहा मामेषा लोकसुन्दरी |
भजेदद्यायतापाङ्गी सुदती तनुमध्यमा ||१५||
अप्यहं कृतकामः स्यामिमां प्राप्य वरस्त्रियम् |
गच्छ जानीहि को न्वस्या नाथ इत्येव कोटिक ||१६||
स कोटिकाश्यस्तच्छ्रुत्वा रथात्प्रस्कन्द्य कुण्डली |
उपेत्य पप्रच्छ तदा क्रोष्टा व्याघ्रवधूमिव ||१७||
२४९
कोटिकाश्य उवाच||
का त्वं कदम्बस्य विनम्य शाखा; मेकाश्रमे तिष्ठसि शोभमाना |
देदीप्यमानाग्निशिखेव नक्तं; दोधूयमाना पवनेन सुभ्रूः ||१||
अतीव रूपेण समन्विता त्वं; न चाप्यरण्येषु बिभेषि किं नु |
देवी नु यक्षी यदि दानवी वा; वराप्सरा दैत्यवराङ्गना वा ||२||
वपुष्मती वोरगराजकन्या; वनेचरी वा क्षणदाचरस्त्री |
यद्येव राज्ञो वरुणस्य पत्नी; यमस्य सोमस्य धनेश्वरस्य ||३||
धातुर्विधातुः सवितुर्विभोर्वा; शक्रस्य वा त्वं सदनात्प्रपन्ना |
न ह्येव नः पृच्छसि ये वयं स्म; न चापि जानीम तवेह नाथम् ||४||
वयं हि मानं तव वर्धयन्तः; पृच्छाम भद्रे प्रभवं प्रभुं च |
आचक्ष्व बन्धूंश्च पतिं कुलं च; तत्त्वेन यच्चेह करोषि कार्यम् ||५||
अहं तु राज्ञः सुरथस्य पुत्रो; यं कोटिकाश्येति विदुर्मनुष्याः |
असौ तु यस्तिष्ठति काञ्चनाङ्गे; रथे हुतोऽग्निश्चयने यथैव ||६||
त्रिगर्तराजः कमलायताक्षि; क्षेमङ्करो नाम स एष वीरः ||६||
अस्मात्परस्त्वेष महाधनुष्मा; न्पुत्रः कुणिन्दाधिपतेर्वरिष्ठः |
निरीक्षते त्वां विपुलायतांसः; सुविस्मितः पर्वतवासनित्यः ||७||
असौ तु यः पुष्करिणीसमीपे; श्यामो युवा तिष्ठति दर्शनीयः |
इक्ष्वाकुराज्ञः सुबलस्य पुत्रः; स एष हन्ता द्विषतां सुगात्रि ||८||
यस्यानुयात्रं ध्वजिनः प्रयान्ति; सौवीरका द्वादश राजपुत्राः |
शोणाश्वयुक्तेषु रथेषु सर्वे; मखेषु दीप्ता इव हव्यवाहाः ||९||
अङ्गारकः कुञ्जरगुप्तकश्च; शत्रुञ्जयः सञ्जयसुप्रवृद्धौ |
प्रभङ्करोऽथ भ्रमरो रविश्च; शूरः प्रतापः कुहरश्च नाम ||१०||
यं षट्सहस्रा रथिनोऽनुयान्ति; नागा हयाश्चैव पदातिनश्च |
जयद्रथो नाम यदि श्रुतस्ते; सौवीरराजः सुभगे स एषः ||११||
तस्यापरे भ्रातरोऽदीनसत्त्वा; बलाहकानीकविदारणाध्याः |
सौवीरवीराः प्रवरा युवानो; राजानमेते बलिनोऽनुयान्ति ||१२||
एतैः सहायैरुपयाति राजा; मरुद्गणैरिन्द्र इवाभिगुप्तः |
अजानतां ख्यापय नः सुकेशि; कस्यासि भार्या दुहिता च कस्य ||१३||
२५०
वैशम्पायन उवाच||
अथाब्रवीद्द्रौपदी राजपुत्री; पृष्टा शिबीनां प्रवरेण तेन |
अवेक्ष्य मन्दं प्रविमुच्य शाखां; सङ्गृह्णती कौशिकमुत्तरीयम् ||१||
बुद्ध्याभिजानामि नरेन्द्रपुत्र; न मादृशी त्वामभिभाष्टुमर्हा |
न त्वेह वक्तास्ति तवेह वाक्य; मन्यो नरो वाप्यथ वापि नारी ||२||
एका ह्यहं सम्प्रति तेन वाचं; ददानि वै भद्र निबोध चेदम् |
अहं ह्यरण्ये कथमेकमेका; त्वामालपेयं निरता स्वधर्मे ||३||
जानामि च त्वां सुरथस्य पुत्रं; यं कोटिकाश्येति विदुर्मनुष्याः |
तस्मादहं शैब्य तथैव तुभ्य; माख्यामि बन्धून्प्रति तन्निबोध ||४||
अपत्यमस्मि द्रुपदस्य राज्ञः; कृष्णेति मां शैब्य विदुर्मनुष्याः |
साहं वृणे पञ्च जनान्पतित्वे; ये खाण्डवप्रस्थगताः श्रुतास्ते ||५||
युधिष्ठिरो भीमसेनार्जुनौ च; माद्र्याश्च पुत्रौ पुरुषप्रवीरौ |
ते मां निवेश्येह दिशश्चतस्रो; विभज्य पार्था मृगयां प्रयाताः ||६||
प्राचीं राजा दक्षिणां भीमसेनो; जयः प्रतीचीं यमजावुदीचीम् |
मन्ये तु तेषां रथसत्तमानां; कालोऽभितः प्राप्त इहोपयातुम् ||७||
संमानिता यास्यथ तैर्यथेष्टं; विमुच्य वाहानवगाहयध्वम् |
प्रियातिथिर्धर्मसुतो महात्मा; प्रीतो भविष्यत्यभिवीक्ष्य युष्मान् ||८||
एतावदुक्त्वा द्रुपदात्मजा सा; शैब्यात्मजं चन्द्रमुखी प्रतीता |
विवेश तां पर्णकुटीं प्रशस्तां; सञ्चिन्त्य तेषामतिथिस्वधर्मम् ||९||
२५१
वैशम्पायन उवाच||
अथासीनेषु सर्वेषु तेषु राजसु भारत |
कोटिकाश्यवचः श्रुत्वा शैब्यं सौवीरकोऽब्रवीत् ||१||
यदा वाचं व्याहरन्त्यामस्यां मे रमते मनः |
सीमन्तिनीनां मुख्यायां विनिवृत्तः कथं भवान् ||२||
एतां दृष्ट्वा स्त्रियो मेऽन्या यथा शाखामृगस्त्रियः |
प्रतिभान्ति महाबाहो सत्यमेतद्ब्रवीमि ते ||३||
दर्शनादेव हि मनस्तया मेऽपहृतं भृशम् |
तां समाचक्ष्व कल्याणीं यदि स्याच्छैब्य मानुषी ||४||
कोटिकाश्य उवाच||
एषा वै द्रौपदी कृष्णा राजपुत्री यशस्विनी |
पञ्चानां पाण्डुपुत्राणां महिषी संमता भृशम् ||५||
सर्वेषां चैव पार्थानां प्रिया बहुमता सती |
तया समेत्य सौवीर सुवीरान्सुसुखी व्रज ||६||
वैशम्पायन उवाच||
एवमुक्तः प्रत्युवाच पश्यामो द्रौपदीमिति |
पतिः सौवीरसिन्धूनां दुष्टभावो जयद्रथः ||७||
स प्रविश्याश्रमं शून्यं सिंहगोष्ठं वृको यथा |
आत्मना सप्तमः कृष्णामिदं वचनमब्रवीत् ||८||
कुशलं ते वरारोहे भर्तारस्तेऽप्यनामयाः |
येषां कुशलकामासि तेऽपि कच्चिदनामयाः ||९||
द्रौपद्युवाच||
कौरव्यः कुशली राजा कुन्तीपुत्रो युधिष्ठिरः |
अहं च भ्रातरश्चास्य यांश्चान्यान्परिपृच्छसि ||१०||
पाद्यं प्रतिगृहाणेदमासनं च नृपात्मज |
मृगान्पञ्चाशतं चैव प्रातराशं ददानि ते ||११||
ऐणेयान्पृषतान्न्यङ्कून्हरिणाञ्शरभाञ्शशान् |
ऋश्यान्रुरूञ्शम्बरांश्च गवयांश्च मृगान्बहून् ||१२||
वराहान्महिषांश्चैव याश्चान्या मृगजातयः |
प्रदास्यति स्वयं तुभ्यं कुन्तीपुत्रो युधिष्ठिरः ||१३||
जयद्रथ उवाच||
कुशलं प्रातराशस्य सर्वा मेऽपचितिः कृता |
एहि मे रथमारोह सुखमाप्नुहि केवलम् ||१४||
गतश्रीकांश्च्युतान्राज्यात्कृपणान्गतचेतसः |
अरण्यवासिनः पार्थान्नानुरोद्धुं त्वमर्हसि ||१५||
न वै प्राज्ञा गतश्रीकं भर्तारमुपयुञ्जते |
युञ्जानमनुयुञ्जीत न श्रियः सङ्क्षये वसेत् ||१६||
श्रिया विहीना राज्याच्च विनष्टाः शाश्वतीः समाः |
अलं ते पाण्डुपुत्राणां भक्त्या क्लेशमुपासितुम् ||१७||
भार्या मे भव सुश्रोणि त्यजैनान्सुखमाप्नुहि |
अखिलान्सिन्धुसौवीरानवाप्नुहि मया सह ||१८||
वैशम्पायन उवाच||
इत्युक्ता सिन्धुराजेन वाक्यं हृदयकम्पनम् |
कृष्णा तस्मादपाक्रामद्देशात्सभ्रुकुटीमुखी ||१९||
अवमत्यास्य तद्वाक्यमाक्षिप्य च सुमध्यमा |
मैवमित्यब्रवीत्कृष्णा लज्जस्वेति च सैन्धवम् ||२०||
सा काङ्क्षमाणा भर्तॄणामुपयानमनिन्दिता |
विलोभयामास परं वाक्यैर्वाक्यानि युञ्जती ||२१||
२५२
वैशम्पायन उवाच||
सरोषरागोपहतेन वल्गुना; सरागनेत्रेण नतोन्नतभ्रुवा |
मुखेन विस्फूर्य सुवीरराष्ट्रपं; ततोऽब्रवीत्तं द्रुपदात्मजा पुनः ||१||
यशस्विनस्तीक्ष्णविषान्महारथा; नधिक्षिपन्मूढ न लज्जसे कथम् |
महेन्द्रकल्पान्निरतान्स्वकर्मसु; स्थितान्समूहेष्वपि यक्षरक्षसाम् ||२||
न किञ्चिदीड्यं प्रवदन्ति पापं; वनेचरं वा गृहमेधिनं वा |
तपस्विनं सम्परिपूर्णविद्यं; भषन्ति हैवं श्वनराः सुवीर ||३||
अहं तु मन्ये तव नास्ति कश्चि; देतादृशे क्षत्रियसंनिवेशे |
यस्त्वाद्य पातालमुखे पतन्तं; पाणौ गृहीत्वा प्रतिसंहरेत ||४||
नागं प्रभिन्नं गिरिकूटकल्प; मुपत्यकां हैमवतीं चरन्तम् |
दण्डीव यूथादपसेधसे त्वं; यो जेतुमाशंससि धर्मराजम् ||५||
बाल्यात्प्रसुप्तस्य महाबलस्य; सिंहस्य पक्ष्माणि मुखाल्लुनासि |
पदा समाहत्य पलायमानः; क्रुद्धं यदा द्रक्ष्यसि भीमसेनम् ||६||
महाबलं घोरतरं प्रवृद्धं; जातं हरिं पर्वतकन्दरेषु |
प्रसुप्तमुग्रं प्रपदेन हंसि; यः क्रुद्धमासेत्स्यसि जिष्णुमुग्रम् ||७||
कृष्णोरगौ तीक्ष्णविषौ द्विजिह्वौ; मत्तः पदाक्रामसि पुच्छदेशे |
यः पाण्डवाभ्यां पुरुषोत्तमाभ्यां; जघन्यजाभ्यां प्रयुयुत्ससे त्वम् ||८||
यथा च वेणुः कदली नलो वा; फलन्त्यभावाय न भूतयेऽऽत्मनः |
तथैव मां तैः परिरक्ष्यमाणा; मादास्यसे कर्कटकीव गर्भम् ||९||
जयद्रथ उवाच||
जानामि कृष्णे विदितं ममैत; द्यथाविधास्ते नरदेवपुत्राः |
न त्वेवमेतेन विभीषणेन; शक्या वयं त्रासयितुं त्वयाद्य ||१०||
वयं पुनः सप्तदशेषु कृष्णे; कुलेषु सर्वेऽनवमेषु जाताः |
षड्भ्यो गुणेभ्योऽभ्यधिका विहीना; न्मन्यामहे द्रौपदि पाण्डुपुत्रान् ||११||
सा क्षिप्रमातिष्ठ गजं रथं वा; न वाक्यमात्रेण वयं हि शक्याः |
आशंस वा त्वं कृपणं वदन्ती; सौवीरराजस्य पुनः प्रसादम् ||१२||
द्रौपद्युवाच||
महाबला किं त्विह दुर्बलेव; सौवीरराजस्य मताहमस्मि |
याहं प्रमाथादिह सम्प्रतीता; सौवीरराजं कृपणं वदेयम् ||१३||
यस्या हि कृष्णौ पदवीं चरेतां; समास्थितावेकरथे सहायौ |
इन्द्रोऽपि तां नापहरेत्कथं चि; न्मनुष्यमात्रः कृपणः कुतोऽन्यः ||१४||
यदा किरीटी परवीरघाती; निघ्नन्रथस्थो द्विषतां मनांसि |
मदन्तरे त्वद्ध्वजिनीं प्रवेष्टा; कक्षं दहन्नग्निरिवोष्णगेषु ||१५||
जनार्दनस्यानुगा वृष्णिवीरा; महेष्वासाः केकयाश्चापि सर्वे |
एते हि सर्वे मम राजपुत्राः; प्रहृष्टरूपाः पदवीं चरेयुः ||१६||
मौर्वीविसृष्टाः स्तनयित्नुघोषा; गाण्डीवमुक्तास्त्वतिवेगवन्तः |
हस्तं समाहत्य धनञ्जयस्य; भीमाः शब्दं घोरतरं नदन्ति ||१७||
गाण्डीवमुक्तांश्च महाशरौघा; न्पतङ्गसङ्घानिव शीघ्रवेगान् |
सशङ्खघोषः सतलत्रघोषो; गाण्डीवधन्वा मुहुरुद्वमंश्च ||१८||
यदा शरानर्पयिता तवोरसि; तदा मनस्ते किमिवाभविष्यत् ||१८||
गदाहस्तं भीममभिद्रवन्तं; माद्रीपुत्रौ सम्पतन्तौ दिशश्च |
अमर्षजं क्रोधविषं वमन्तौ; दृष्ट्वा चिरं तापमुपैष्यसेऽधम ||१९||
यथा चाहं नातिचरे कथं चि; त्पतीन्महार्हान्मनसापि जातु |
तेनाद्य सत्येन वशीकृतं त्वां; द्रष्टास्मि पार्थैः परिकृष्यमाणम् ||२०||
न सम्भ्रमं गन्तुमहं हि शक्ष्ये; त्वया नृशंसेन विकृष्यमाणा |
समागताहं हि कुरुप्रवीरैः; पुनर्वनं काम्यकमागता च ||२१||
वैशम्पायन उवाच||
सा ताननुप्रेक्ष्य विशालनेत्रा; जिघृक्षमाणानवभर्त्सयन्ती |
प्रोवाच मा मा स्पृशतेति भीता; धौम्यं प्रचुक्रोश पुरोहितं सा ||२२||
जग्राह तामुत्तरवस्त्रदेशे; जयद्रथस्तं समवाक्षिपत्सा |
तया समाक्षिप्ततनुः स पापः; पपात शाखीव निकृत्तमूलः ||२३||
प्रगृह्यमाणा तु महाजवेन; मुहुर्विनिःश्वस्य च राजपुत्री |
सा कृष्यमाणा रथमारुरोह; धौम्यस्य पादावभिवाद्य कृष्णा ||२४||
धौम्य उवाच||
नेयं शक्या त्वया नेतुमविजित्य महारथान् |
धर्मं क्षत्रस्य पौराणमवेक्षस्व जयद्रथ ||२५||
क्षुद्रं कृत्वा फलं पापं प्राप्स्यसि त्वमसंशयम् |
आसाद्य पाण्डवान्वीरान्धर्मराजपुरोगमान् ||२६||
वैशम्पायन उवाच||
इत्युक्त्वा ह्रियमाणां तां राजपुत्रीं यशस्विनीम् |
अन्वगच्छत्तदा धौम्यः पदातिगणमध्यगः ||२७||
२५३
वैशम्पायन उवाच||
ततो दिशः सम्प्रविहृत्य पार्था; मृगान्वराहान्महिषांश्च हत्वा |
धनुर्धराः श्रेष्ठतमाः पृथिव्यां; पृथक्चरन्तः सहिता बभूवुः ||१||
ततो मृगव्यालगणानुकीर्णं; महावनं तद्विहगोपघुष्टम् |
भ्रातॄंश्च तानभ्यवदद्युधिष्ठिरः; श्रुत्वा गिरो व्याहरतां मृगाणाम् ||२||
आदित्यदीप्तां दिशमभ्युपेत्य; मृगद्विजाः क्रूरमिमे वदन्ति |
आयासमुग्रं प्रतिवेदयन्तो; महाहवं शत्रुभिर्वावमानम् ||३||
क्षिप्रं निवर्तध्वमलं मृगैर्नो; मनो हि मे दूयति दह्यते च |
बुद्धिं समाच्छाद्य च मे समन्यु; रुद्धूयते प्राणपतिः शरीरे ||४||
सरः सुपर्णेन हृतोरगं यथा; राष्ट्रं यथाराजकमात्तलक्ष्मि |
एवंविधं मे प्रतिभाति काम्यकं; शौण्डैर्यथा पीतरसश्च कुम्भः ||५||
ते सैन्धवैरत्यनिलौघवेगै; र्महाजवैर्वाजिभिरुह्यमानाः |
युक्तैर्बृहद्भिः सुरथैर्नृवीरा; स्तदाश्रमायाभिमुखा बभूवुः ||६||
तेषां तु गोमायुरनल्पघोषो; निवर्ततां वाममुपेत्य पार्श्वम् |
प्रव्याहरत्तं प्रविमृश्य राजा; प्रोवाच भीमं च धनञ्जयं च ||७||
यथा वदत्येष विहीनयोनिः; शालावृको वाममुपेत्य पार्श्वम् |
सुव्यक्तमस्मानवमन्य पापैः; कृतोऽभिमर्दः कुरुभिः प्रसह्य ||८||
इत्येव ते तद्वनमाविशन्तो; महत्यरण्ये मृगयां चरित्वा |
बालामपश्यन्त तदा रुदन्तीं; धात्रेयिकां प्रेष्यवधूं प्रियायाः ||९||
तामिन्द्रसेनस्त्वरितोऽभिसृत्य; रथादवप्लुत्य ततोऽभ्यधावत् |
प्रोवाच चैनां वचनं नरेन्द्र; धात्रेयिकामार्ततरस्तदानीम् ||१०||
किं रोदिषि त्वं पतिता धरण्यां; किं ते मुखं शुष्यति दीनवर्णम् |
कच्चिन्न पापैः सुनृशंसकृद्भिः; प्रमाथिता द्रौपदी राजपुत्री ||११||
अनिन्द्यरूपा सुविशालनेत्रा; शरीरतुल्या कुरुपुङ्गवानाम् ||११||
यद्येव देवी पृथिवीं प्रविष्टा; दिवं प्रपन्नाप्यथ वा समुद्रम् |
तस्या गमिष्यन्ति पदं हि पार्था; स्तथा हि सन्तप्यति धर्मराजः ||१२||
को हीदृशानामरिमर्दनानां; क्लेशक्षमाणामपराजितानाम् |
प्राणैः समामिष्टतमां जिहीर्षे; दनुत्तमं रत्नमिव प्रमूढः ||१३||
न बुध्यते नाथवतीमिहाद्य; बहिश्चरं हृदयं पाण्डवानाम् ||१३||
कस्याद्य कायं प्रतिभिद्य घोरा; महीं प्रवेक्ष्यन्ति शिताः शराग्र्याः |
मा त्वं शुचस्तां प्रति भीरु विद्धि; यथाद्य कृष्णा पुनरेष्यतीति ||१४||
निहत्य सर्वान्द्विषतः समग्रा; न्पार्थाः समेष्यन्त्यथ याज्ञसेन्या ||१४||
अथाब्रवीच्चारुमुखं प्रमृज्य; धात्रेयिका सारथिमिन्द्रसेनम् |
जयद्रथेनापहृता प्रमथ्य; पञ्चेन्द्रकल्पान्परिभूय कृष्णा ||१५||
तिष्ठन्ति वर्त्मानि नवान्यमूनि; वृक्षाश्च न म्लान्ति तथैव भग्नाः |
आवर्तयध्वं ह्यनुयात शीघ्रं; न दूरयातैव हि राजपुत्री ||१६||
संनह्यध्वं सर्व एवेन्द्रकल्पा; महान्ति चारूणि च दंशनानि |
गृह्णीत चापानि महाधनानि; शरांश्च शीघ्रं पदवीं व्रजध्वम् ||१७||
पुरा हि निर्भर्त्सनदण्डमोहिता; प्रमूढचित्ता वदनेन शुष्यता |
ददाति कस्मैचिदनर्हते तनुं; वराज्यपूर्णामिव भस्मनि स्रुचम् ||१८||
पुरा तुषाग्नाविव हूयते हविः; पुरा श्मशाने स्रगिवापविध्यते |
पुरा च सोमोऽध्वरगोऽवलिह्यते; शुना यथा विप्रजने प्रमोहिते ||१९||
महत्यरण्ये मृगयां चरित्वा; पुरा शृगालो नलिनीं विगाहते ||१९||
मा वः प्रियायाः सुनसं सुलोचनं; चन्द्रप्रभाच्छं वदनं प्रसन्नम् |
स्पृश्याच्छुभं कश्चिदकृत्यकारी; श्वा वै पुरोडाशमिवोपयुङ्क्षीत् ||२०||
एतानि वर्त्मान्यनुयात शीघ्रं; मा वः कालः क्षिप्रमिहात्यगाद्वै ||२०||
युधिष्ठिर उवाच||
भद्रे तूष्णीमास्स्व नियच्छ वाचं; मास्मत्सकाशे परुषाण्यवोचः |
राजानो वा यदि वा राजपुत्रा; बलेन मत्ता वञ्चनां प्राप्नुवन्ति ||२१||
वैशम्पायन उवाच||
एतावदुक्त्वा प्रययुर्हि शीघ्रं; तान्येव वर्त्मान्यनुवर्तमानाः |
मुहुर्मुहुर्व्यालवदुच्छ्वसन्तो; ज्यां विक्षिपन्तश्च महाधनुर्भ्यः ||२२||
ततोऽपश्यंस्तस्य सैन्यस्य रेणु; मुद्धूतं वै वाजिखुरप्रणुन्नम् |
पदातीनां मध्यगतं च धौम्यं; विक्रोशन्तं भीममभिद्रवेति ||२३||
ते सान्त्व्य धौम्यं परिदीनसत्त्वाः; सुखं भवानेत्विति राजपुत्राः |
श्येना यथैवामिषसम्प्रयुक्ता; जवेन तत्सैन्यमथाभ्यधावन् ||२४||
तेषां महेन्द्रोपमविक्रमाणां; संरब्धानां धर्षणाद्याज्ञसेन्याः |
क्रोधः प्रजज्वाल जयद्रथं च; दृष्ट्वा प्रियां तस्य रथे स्थितां च ||२५||
प्रचुक्रुशुश्चाप्यथ सिन्धुराजं; वृकोदरश्चैव धनञ्जयश्च |
यमौ च राजा च महाधनुर्धरा; स्ततो दिशः संमुमुहुः परेषाम् ||२६||
२५४
वैशम्पायन उवाच||
ततो घोरतरः शब्दो वने समभवत्तदा |
भीमसेनार्जुनौ दृष्ट्वा क्षत्रियाणाममर्षिणाम् ||१||
तेषां ध्वजाग्राण्यभिवीक्ष्य राजा; स्वयं दुरात्मा कुरुपुङ्गवानाम् |
जयद्रथो याज्ञसेनीमुवाच; रथे स्थितां भानुमतीं हतौजाः ||२||
आयान्तीमे पञ्च रथा महान्तो; मन्ये च कृष्णे पतयस्तवैते |
सा जानती ख्यापय नः सुकेशि; परं परं पाण्डवानां रथस्थम् ||३||
द्रौपद्युवाच||
किं ते ज्ञातैर्मूढ महाधनुर्धरै; रनायुष्यं कर्म कृत्वातिघोरम् |
एते वीराः पतयो मे समेता; न वः शेषः कश्चिदिहास्ति युद्धे ||४||
आख्यातव्यं त्वेव सर्वं मुमूर्षो; र्मया तुभ्यं पृष्टया धर्म एषः |
न मे व्यथा विद्यते त्वद्भयं वा; सम्पश्यन्त्याः सानुजं धर्मराजम् ||५||
यस्य ध्वजाग्रे नदतो मृदङ्गौ; नन्दोपनन्दौ मधुरौ युक्तरूपौ |
एतं स्वधर्मार्थविनिश्चयज्ञं; सदा जनाः कृत्यवन्तोऽनुयान्ति ||६||
य एष जाम्बूनदशुद्धगौरः; प्रचण्डघोणस्तनुरायताक्षः |
एतं कुरुश्रेष्ठतमं वदन्ति; युधिष्ठिरं धर्मसुतं पतिं मे ||७||
अप्येष शत्रोः शरणागतस्य; दद्यात्प्राणान्धर्मचारी नृवीरः |
परैह्येनं मूढ जवेन भूतये; त्वमात्मनः प्राञ्जलिर्न्यस्तशस्त्रः ||८||
अथाप्येनं पश्यसि यं रथस्थं; महाभुजं शालमिव प्रवृद्धम् |
संदष्टोष्ठं भ्रुकुटीसंहतभ्रुवं; वृकोदरो नाम पतिर्ममैषः ||९||
आजानेया बलिनः साधु दान्ता; महाबलाः शूरमुदावहन्ति |
एतस्य कर्माण्यतिमानुषाणि; भीमेति शब्दोऽस्य गतः पृथिव्याम् ||१०||
नास्यापराद्धाः शेषमिहाप्नुवन्ति; नाप्यस्य वैरं विस्मरते कदाचित् |
वैरस्यान्तं संविधायोपयाति; पश्चाच्छान्तिं न च गच्छत्यतीव ||११||
मृदुर्वदान्यो धृतिमान्यशस्वी; जितेन्द्रियो वृद्धसेवी नृवीरः |
भ्राता च शिष्यश्च युधिष्ठिरस्य; धनञ्जयो नाम पतिर्ममैषः ||१२||
यो वै न कामान्न भयान्न लोभा; त्त्यजेद्धर्मं न नृशंसं च कुर्यात् |
स एष वैश्वानरतुल्यतेजाः; कुन्तीसुतः शत्रुसहः प्रमाथी ||१३||
यः सर्वधर्मार्थविनिश्चयज्ञो; भयार्तानां भयहर्ता मनीषी |
यस्योत्तमं रूपमाहुः पृथिव्यां; यं पाण्डवाः परिरक्षन्ति सर्वे ||१४||
प्राणैर्गरीयांसमनुव्रतं वै; स एष वीरो नकुलः पतिर्मे |
यः खड्गयोधी लघुचित्रहस्तो; महांश्च धीमान्सहदेवोऽद्वितीयः ||१५||
यस्याद्य कर्म द्रक्ष्यसे मूढसत्त्व; शतक्रतोर्वा दैत्यसेनासु सङ्ख्ये |
शूरः कृतास्त्रो मतिमान्मनीषी; प्रियङ्करो धर्मसुतस्य राज्ञः ||१६||
य एष चन्द्रार्कसमानतेजा; जघन्यजः पाण्डवानां प्रियश्च |
बुद्ध्या समो यस्य नरो न विद्यते; वक्ता तथा सत्सु विनिश्चयज्ञः ||१७||
स एष शूरो नित्यममर्षणश्च; धीमान्प्राज्ञः सहदेवः पतिर्मे |
त्यजेत्प्राणान्प्रविशेद्धव्यवाहं; न त्वेवैष व्याहरेद्धर्मबाह्यम् ||१८||
सदा मनस्वी क्षत्रधर्मे निविष्टः; कुन्त्याः प्राणैरिष्टतमो नृवीरः ||१८||
विशीर्यन्तीं नावमिवार्णवान्ते; रत्नाभिपूर्णां मकरस्य पृष्ठे |
सेनां तवेमां हतसर्वयोधां; विक्षोभितां द्रक्ष्यसि पाण्डुपुत्रैः ||१९||
इत्येते वै कथिताः पाण्डुपुत्रा; यांस्त्वं मोहादवमन्य प्रवृत्तः |
यद्येतैस्त्वं मुच्यसेऽरिष्टदेहः; पुनर्जन्म प्राप्स्यसे जीव एव ||२०||
वैशम्पायन उवाच||
ततः पार्थाः पञ्च पञ्चेन्द्रकल्पा; स्त्यक्त्वा त्रस्तान्प्राञ्जलींस्तान्पदातीन् |
रथानीकं शरवर्षान्धकारं; चक्रुः क्रुद्धाः सर्वतः संनिगृह्य ||२१||
२५५
वैशम्पायन उवाच||
सन्तिष्ठत प्रहरत तूर्णं विपरिधावत |
इति स्म सैन्धवो राजा चोदयामास तान्नृपान् ||१||
ततो घोरतरः शब्दो रणे समभवत्तदा |
भीमार्जुनयमान्दृष्ट्वा सैन्यानां सयुधिष्ठिरान् ||२||
शिबिसिन्धुत्रिगर्तानां विषादश्चाप्यजायत |
तान्दृष्ट्वा पुरुषव्याघ्रान्व्याघ्रानिव बलोत्कटान् ||३||
हेमचित्रसमुत्सेधां सर्वशैक्यायसीं गदाम् |
प्रगृह्याभ्यद्रवद्भीमः सैन्धवं कालचोदितम् ||४||
तदन्तरमथावृत्य कोटिकाश्योऽभ्यहारयत् |
महता रथवंशेन परिवार्य वृकोदरम् ||५||
शक्तितोमरनाराचैर्वीरबाहुप्रचोदितैः |
कीर्यमाणोऽपि बहुभिर्न स्म भीमोऽभ्यकम्पत ||६||
गजं तु सगजारोहं पदातींश्च चतुर्दश |
जघान गदया भीमः सैन्धवध्वजिनीमुखे ||७||
पार्थः पञ्चशताञ्शूरान्पार्वतीयान्महारथान् |
परीप्समानः सौवीरं जघान ध्वजिनीमुखे ||८||
राजा स्वयं सुवीराणां प्रवराणां प्रहारिणाम् |
निमेषमात्रेण शतं जघान समरे तदा ||९||
ददृशे नकुलस्तत्र रथात्प्रस्कन्द्य खड्गधृक् |
शिरांसि पादरक्षाणां बीजवत्प्रवपन्मुहुः ||१०||
सहदेवस्तु संयाय रथेन गजयोधिनः |
पातयामास नाराचैर्द्रुमेभ्य इव बर्हिणः ||११||
ततस्त्रिगर्तः सधनुरवतीर्य महारथात् |
गदया चतुरो वाहान्राज्ञस्तस्य तदावधीत् ||१२||
तमभ्याशगतं राजा पदातिं कुन्तिनन्दनः |
अर्धचन्द्रेण बाणेन विव्याधोरसि धर्मराट् ||१३||
स भिन्नहृदयो वीरो वक्त्राच्छोणितमुद्वमन् |
पपाताभिमुखः पार्थं छिन्नमूल इव द्रुमः ||१४||
इन्द्रसेनद्वितीयस्तु रथात्प्रस्कन्द्य धर्मराट् |
हताश्वः सहदेवस्य प्रतिपेदे महारथम् ||१५||
नकुलं त्वभिसन्धाय क्षेमङ्करमहामुखौ |
उभावुभयतस्तीक्ष्णैः शरवर्षैरवर्षताम् ||१६||
तौ शरैरभिवर्षन्तौ जीमूताविव वार्षिकौ |
एकैकेन विपाठेन जघ्ने माद्रवतीसुतः ||१७||
त्रिगर्तराजः सुरथस्तस्याथ रथधूर्गतः |
रथमाक्षेपयामास गजेन गजयानवित् ||१८||
नकुलस्त्वपभीस्तस्माद्रथाच्चर्मासिपाणिमान् |
उद्भ्रान्तं स्थानमास्थाय तस्थौ गिरिरिवाचलः ||१९||
सुरथस्तं गजवरं वधाय नकुलस्य तु |
प्रेषयामास सक्रोधमभ्युच्छ्रितकरं ततः ||२०||
नकुलस्तस्य नागस्य समीपपरिवर्तिनः |
सविषाणं भुजं मूले खड्गेन निरकृन्तत ||२१||
स विनद्य महानादं गजः कङ्कणभूषणः |
पतन्नवाक्षिरा भूमौ हस्त्यारोहानपोथयत् ||२२||
स तत्कर्म महत्कृत्वा शूरो माद्रवतीसुतः |
भीमसेनरथं प्राप्य शर्म लेभे महारथः ||२३||
भीमस्त्वापततो राज्ञः कोटिकाश्यस्य सङ्गरे |
सूतस्य नुदतो वाहान्क्षुरेणापाहरच्छिरः ||२४||
न बुबोध हतं सूतं स राजा बाहुशालिना |
तस्याश्वा व्यद्रवन्सङ्ख्ये हतसूतास्ततस्ततः ||२५||
विमुखं हतसूतं तं भीमः प्रहरतां वरः |
जघान तलयुक्तेन प्रासेनाभ्येत्य पाण्डवः ||२६||
द्वादशानां तु सर्वेषां सौवीराणां धनञ्जयः |
चकर्त निषितैर्भल्लैर्धनूंषि च शिरांसि च ||२७||
शिबीनिक्ष्वाकुमुख्यांश्च त्रिगर्तान्सैन्धवानपि |
जघानातिरथः सङ्ख्ये बाणगोचरमागतान् ||२८||
सादिताः प्रत्यदृश्यन्त बहवः सव्यसाचिना |
सपताकाश्च मातङ्गाः सध्वजाश्च महारथाः ||२९||
प्रच्छाद्य पृथिवीं तस्थुः सर्वमायोधनं प्रति |
शरीराण्यशिरस्कानि विदेहानि शिरांसि च ||३०||
श्वगृध्रकङ्ककाकोलभासगोमायुवायसाः |
अतृप्यंस्तत्र वीराणां हतानां मांसशोणितैः ||३१||
हतेषु तेषु वीरेषु सिन्धुराजो जयद्रथः |
विमुच्य कृष्णां सन्त्रस्तः पलायनपरोऽभवत् ||३२||
स तस्मिन्सङ्कुले सैन्ये द्रौपदीमवतार्य वै |
प्राणप्रेप्सुरुपाधावद्वनं येन नराधमः ||३३||
द्रौपदीं धर्मराजस्तु दृष्ट्वा धौम्यपुरस्कृताम् |
माद्रीपुत्रेण वीरेण रथमारोपयत्तदा ||३४||
ततस्तद्विद्रुतं सैन्यमपयाते जयद्रथे |
आदिश्यादिश्य नाराचैराजघान वृकोदरः ||३५||
सव्यसाची तु तं दृष्ट्वा पलायन्तं जयद्रथम् |
वारयामास निघ्नन्तं भीमं सैन्धवसैनिकान् ||३६||
अर्जुन उवाच||
यस्यापचारात्प्राप्तोऽयमस्मान्क्लेशो दुरासदः |
तमस्मिन्समरोद्देशे न पश्यामि जयद्रथम् ||३७||
तमेवान्विष भद्रं ते किं ते योधैर्निपातितैः |
अनामिषमिदं कर्म कथं वा मन्यते भवान् ||३८||
वैशम्पायन उवाच||
इत्युक्तो भीमसेनस्तु गुडाकेशेन धीमता |
युधिष्ठिरमभिप्रेक्ष्य वाग्मी वचनमब्रवीत् ||३९||
हतप्रवीरा रिपवो भूयिष्ठं विद्रुता दिशः |
गृहीत्वा द्रौपदीं राजन्निवर्ततु भवानितः ||४०||
यमाभ्यां सह राजेन्द्र धौम्येन च महात्मना |
प्राप्याश्रमपदं राजन्द्रौपदीं परिसान्त्वय ||४१||
न हि मे मोक्ष्यते जीवन्मूढः सैन्धवको नृपः |
पातालतलसंस्थोऽपि यदि शक्रोऽस्य सारथिः ||४२||
युधिष्ठिर उवाच||
न हन्तव्यो महाबाहो दुरात्मापि स सैन्धवः |
दुःशलामभिसंस्मृत्य गान्धारीं च यशस्विनीम् ||४३||
वैशम्पायन उवाच||
तच्छ्रुत्वा द्रौपदी भीममुवाच व्याकुलेन्द्रिया |
कुपिता ह्रीमती प्राज्ञा पती भीमार्जुनावुभौ ||४४||
कर्तव्यं चेत्प्रियं मह्यं वध्यः स पुरुषाधमः |
सैन्धवापसदः पापो दुर्मतिः कुलपांसनः ||४५||
भार्याभिहर्ता निर्वैरो यश्च राज्यहरो रिपुः |
याचमानोऽपि सङ्ग्रामे न स जीवितुमर्हति ||४६||
इत्युक्तौ तौ नरव्याघ्रौ ययतुर्यत्र सैन्धवः |
राजा निववृते कृष्णामादाय सपुरोहितः ||४७||
स प्रविश्याश्रमपदं व्यपविद्धबृसीघटम् |
मार्कण्डेयादिभिर्विप्रैरनुकीर्णं ददर्श ह ||४८||
द्रौपदीमनुशोचद्भिर्ब्राह्मणैस्तैः समागतैः |
समियाय महाप्राज्ञः सभार्यो भ्रातृमध्यगः ||४९||
ते स्म तं मुदिता दृष्ट्वा पुनरभ्यागतं नृपम् |
जित्वा तान्सिन्धुसौवीरान्द्रौपदीं चाहृतां पुनः ||५०||
स तैः परिवृतो राजा तत्रैवोपविवेश ह |
प्रविवेशाश्रमं कृष्णा यमाभ्यां सह भामिनी ||५१||
भीमार्जुनावपि श्रुत्वा क्रोशमात्रगतं रिपुम् |
स्वयमश्वांस्तुदन्तौ तौ जवेनैवाभ्यधावताम् ||५२||
इदमत्यद्भुतं चात्र चकार पुरुषोऽर्जुनः |
क्रोशमात्रगतानश्वान्सैन्धवस्य जघान यत् ||५३||
स हि दिव्यास्त्रसम्पन्नः कृच्छ्रकालेऽप्यसम्भ्रमः |
अकरोद्दुष्करं कर्म शरैरस्त्रानुमन्त्रितैः ||५४||
ततोऽभ्यधावतां वीरावुभौ भीमधनञ्जयौ |
हताश्वं सैन्धवं भीतमेकं व्याकुलचेतसम् ||५५||
सैन्धवस्तु हतान्दृष्ट्वा तथाश्वान्स्वान्सुदुःखितः |
दृष्ट्वा विक्रमकर्माणि कुर्वाणं च धनञ्जयम् ||५६||
पलायनकृतोत्साहः प्राद्रवद्येन वै वनम् ||५६||
सैन्धवं त्वभिसम्प्रेक्ष्य पराक्रान्तं पलायने |
अनुयाय महाबाहुः फल्गुनो वाक्यमब्रवीत् ||५७||
अनेन वीर्येण कथं स्त्रियं प्रार्थयसे बलात् |
राजपुत्र निवर्तस्व न ते युक्तं पलायनम् ||५८||
कथं चानुचरान्हित्वा शत्रुमध्ये पलायसे ||५८||
इत्युच्यमानः पार्थेन सैन्धवो न न्यवर्तत |
तिष्ठ तिष्ठेति तं भीमः सहसाभ्यद्रवद्बली ||५९||
मा वधीरिति पार्थस्तं दयावानभ्यभाषत ||५९||
२५६
वैशम्पायन उवाच||
जयद्रथस्तु सम्प्रेक्ष्य भ्रातरावुद्यतायुधौ |
प्राद्रवत्तूर्णमव्यग्रो जीवितेप्सुः सुदुःखितः ||१||
तं भीमसेनो धावन्तमवतीर्य रथाद्बली |
अभिद्रुत्य निजग्राह केशपक्षेऽत्यमर्षणः ||२||
समुद्यम्य च तं रोषान्निष्पिपेष महीतले |
गले गृहीत्वा राजानं ताडयामास चैव ह ||३||
पुनः सञ्जीवमानस्य तस्योत्पतितुमिच्छतः |
पदा मूर्ध्नि महाबाहुः प्राहरद्विलपिष्यतः ||४||
तस्य जानुं ददौ भीमो जघ्ने चैनमरत्निना |
स मोहमगमद्राजा प्रहारवरपीडितः ||५||
विरोषं भीमसेनं तु वारयामास फल्गुनः |
दुःशलायाः कृते राजा यत्तदाहेति कौरव ||६||
भीमसेन उवाच||
नायं पापसमाचारो मत्तो जीवितुमर्हति |
द्रौपद्यास्तदनर्हायाः परिक्लेष्टा नराधमः ||७||
किं नु शक्यं मया कर्तुं यद्राजा सततं घृणी |
त्वं च बालिशया बुद्ध्या सदैवास्मान्प्रबाधसे ||८||
एवमुक्त्वा सटास्तस्य पञ्च चक्रे वृकोदरः |
अर्धचन्द्रेण बाणेन किञ्चिदब्रुवतस्तदा ||९||
विकल्पयित्वा राजानं ततः प्राह वृकोदरः |
जीवितुं चेच्छसे मूढ हेतुं मे गदतः शृणु ||१०||
दासोऽस्मीति त्वया वाच्यं संसत्सु च सभासु च |
एवं ते जीवितं दद्यामेष युद्धजितो विधिः ||११||
एवमस्त्विति तं राजा कृच्छ्रप्राणो जयद्रथः |
प्रोवाच पुरुषव्याघ्रं भीममाहवशोभिनम् ||१२||
तत एनं विचेष्टन्तं बद्ध्वा पार्थो वृकोदरः |
रथमारोपयामास विसञ्ज्ञं पांसुगुण्ठितम् ||१३||
ततस्तं रथमास्थाय भीमः पार्थानुगस्तदा |
अभ्येत्याश्रममध्यस्थमभ्यगच्छद्युधिष्ठिरम् ||१४||
दर्शयामास भीमस्तु तदवस्थं जयद्रथम् |
तं राजा प्राहसद्दृष्ट्वा मुच्यतामिति चाब्रवीत् ||१५||
राजानं चाब्रवीद्भीमो द्रौपद्यै कथयेति वै |
दासभावं गतो ह्येष पाण्डूनां पापचेतनः ||१६||
तमुवाच ततो ज्येष्ठो भ्राता सप्रणयं वचः |
मुञ्चैनमधमाचारं प्रमाणं यदि ते वयम् ||१७||
द्रौपदी चाब्रवीद्भीममभिप्रेक्ष्य युधिष्ठिरम् |
दासोऽयं मुच्यतां राज्ञस्त्वया पञ्चसटः कृतः ||१८||
स मुक्तोऽभ्येत्य राजानमभिवाद्य युधिष्ठिरम् |
ववन्दे विह्वलो राजा तांश्च सर्वान्मुनींस्तदा ||१९||
तमुवाच घृणी राजा धर्मपुत्रो युधिष्ठिरः |
तथा जयद्रथं दृष्ट्वा गृहीतं सव्यसाचिना ||२०||
अदासो गच्छ मुक्तोऽसि मैवं कार्षीः पुनः क्वचित् |
स्त्रीकामुक धिगस्तु त्वां क्षुद्रः क्षुद्रसहायवान् ||२१||
एवंविधं हि कः कुर्यात्त्वदन्यः पुरुषाधमः ||२१||
गतसत्त्वमिव ज्ञात्वा कर्तारमशुभस्य तम् |
सम्प्रेक्ष्य भरतश्रेष्ठः कृपां चक्रे नराधिपः ||२२||
धर्मे ते वर्धतां बुद्धिर्मा चाधर्मे मनः कृथाः |
साश्वः सरथपादातः स्वस्ति गच्छ जयद्रथ ||२३||
एवमुक्तस्तु सव्रीडं तूष्णीं किञ्चिदवाङ्मुखः |
जगाम राजा दुःखार्तो गङ्गाद्वाराय भारत ||२४||
स देवं शरणं गत्वा विरूपाक्षमुमापतिम् |
तपश्चचार विपुलं तस्य प्रीतो वृषध्वजः ||२५||
बलिं स्वयं प्रत्यगृह्णात्प्रीयमाणस्त्रिलोचनः |
वरं चास्मै ददौ देवः स च जग्राह तच्छृणु ||२६||
समस्तान्सरथान्पञ्च जयेयं युधि पाण्डवान् |
इति राजाब्रवीद्देवं नेति देवस्तमब्रवीत् ||२७||
अजय्यांश्चाप्यवध्यांश्च वारयिष्यसि तान्युधि |
ऋतेऽर्जुनं महाबाहुं देवैरपि दुरासदम् ||२८||
यमाहुरजितं देवं शङ्खचक्रगदाधरम् |
प्रधानः सोऽस्त्रविदुषां तेन कृष्णेन रक्ष्यते ||२९||
एवमुक्तस्तु नृपतिः स्वमेव भवनं ययौ |
पाण्डवाश्च वने तस्मिन्न्यवसन्काम्यके तदा ||३०||
२५७
जनमेजय उवाच||
एवं हृतायां कृष्णायां प्राप्य क्लेशमनुत्तमम् |
अत ऊर्ध्वं नरव्याघ्राः किमकुर्वत पाण्डवाः ||१||
वैशम्पायन उवाच||
एवं कृष्णां मोक्षयित्वा विनिर्जित्य जयद्रथम् |
आसां चक्रे मुनिगणैर्धर्मराजो युधिष्ठिरः ||२||
तेषां मध्ये महर्षीणां शृण्वतामनुशोचताम् |
मार्कण्डेयमिदं वाक्यमब्रवीत्पाण्डुनन्दनः ||३||
मन्ये कालश्च बलवान्दैवं च विधिनिर्मितम् |
भवितव्यं च भूतानां यस्य नास्ति व्यतिक्रमः ||४||
कथं हि पत्नीमस्माकं धर्मज्ञां धर्मचारिणीम् |
संस्पृशेदीदृशो भावः शुचिं स्तैन्यमिवानृतम् ||५||
न हि पापं कृतं किञ्चित्कर्म वा निन्दितं क्वचित् |
द्रौपद्या ब्राह्मणेष्वेव धर्मः सुचरितो महान् ||६||
तां जहार बलाद्राजा मूढबुद्धिर्जयद्रथः |
तस्याः संहरणात्प्राप्तः शिरसः केशवापनम् ||७||
पराजयं च सङ्ग्रामे ससहायः समाप्तवान् ||७||
प्रत्याहृता तथास्माभिर्हत्वा तत्सैन्धवं बलम् |
तद्दारहरणं प्राप्तमस्माभिरवितर्कितम् ||८||
दुःखश्चायं वने वासो मृगयायां च जीविका |
हिंसा च मृगजातीनां वनौकोभिर्वनौकसाम् ||९||
ज्ञातिभिर्विप्रवासश्च मिथ्या व्यवसितैरयम् ||९||
अस्ति नूनं मया कश्चिदल्पभाग्यतरो नरः |
भवता दृष्टपूर्वो वा श्रुतपूर्वोऽपि वा भवेत् ||१०||
रामोपाख्यानम्
२५८
मार्कण्डेय उवाच||
प्राप्तमप्रतिमं दुःखं रामेण भरतर्षभ |
रक्षसा जानकी तस्य हृता भार्या बलीयसा ||१||
आश्रमाद्राक्षसेन्द्रेण रावणेन विहायसा |
मायामास्थाय तरसा हत्वा गृध्रं जटायुषम् ||२||
प्रत्याजहार तां रामः सुग्रीवबलमाश्रितः |
बद्ध्वा सेतुं समुद्रस्य दग्ध्वा लङ्कां शितैः शरैः ||३||
युधिष्ठिर उवाच||
कस्मिन्रामः कुले जातः किंवीर्यः किम्पराक्रमः |
रावणः कस्य वा पुत्रः किं वैरं तस्य तेन ह ||४||
एतन्मे भगवन्सर्वं सम्यगाख्यातुमर्हसि |
श्रोतुमिच्छामि चरितं रामस्याक्लिष्टकर्मणः ||५||
मार्कण्डेय उवाच||
अजो नामाभवद्राजा महानिक्ष्वाकुवंशजः |
तस्य पुत्रो दशरथः शश्वत्स्वाध्यायवाञ्शुचिः ||६||
अभवंस्तस्य चत्वारः पुत्रा धर्मार्थकोविदाः |
रामलक्ष्मणशत्रुघ्ना भरतश्च महाबलः ||७||
रामस्य माता कौसल्या कैकेयी भरतस्य तु |
सुतौ लक्ष्मणशत्रुघ्नौ सुमित्रायाः परन्तपौ ||८||
विदेहराजो जनकः सीता तस्यात्मजा विभो |
यां चकार स्वयं त्वष्टा रामस्य महिषीं प्रियाम् ||९||
एतद्रामस्य ते जन्म सीतायाश्च प्रकीर्तितम् |
रावणस्यापि ते जन्म व्याख्यास्यामि जनेश्वर ||१०||
पितामहो रावणस्य साक्षाद्देवः प्रजापतिः |
स्वयम्भूः सर्वलोकानां प्रभुः स्रष्टा महातपाः ||११||
पुलस्त्यो नाम तस्यासीन्मानसो दयितः सुतः |
तस्य वैश्रवणो नाम गवि पुत्रोऽभवत्प्रभुः ||१२||
पितरं स समुत्सृज्य पितामहमुपस्थितः |
तस्य कोपात्पिता राजन्ससर्जात्मानमात्मना ||१३||
स जज्ञे विश्रवा नाम तस्यात्मार्धेन वै द्विजः |
प्रतीकाराय सक्रोधस्ततो वैश्रवणस्य वै ||१४||
पितामहस्तु प्रीतात्मा ददौ वैश्रवणस्य ह |
अमरत्वं धनेशत्वं लोकपालत्वमेव च ||१५||
ईशानेन तथा सख्यं पुत्रं च नलकूबरम् |
राजधानीनिवेशं च लङ्कां रक्षोगणान्विताम् ||१६||
२५९
मार्कण्डेय उवाच||
पुलस्त्यस्य तु यः क्रोधादर्धदेहोऽभवन्मुनिः |
विश्रवा नाम सक्रोधः स वैश्रवणमैक्षत ||१||
बुबुधे तं तु सक्रोधं पितरं राक्षसेश्वरः |
कुबेरस्तत्प्रसादार्थं यतते स्म सदा नृप ||२||
स राजराजो लङ्कायां निवसन्नरवाहनः |
राक्षसीः प्रददौ तिस्रः पितुर्वै परिचारिकाः ||३||
तास्तदा तं महात्मानं सन्तोषयितुमुद्यताः |
ऋषिं भरतशार्दूल नृत्तगीतविशारदाः ||४||
पुष्पोत्कटा च राका च मालिनी च विशां पते |
अन्योन्यस्पर्धया राजञ्श्रेयस्कामाः सुमध्यमाः ||५||
तासां स भगवांस्तुष्टो महात्मा प्रददौ वरान् |
लोकपालोपमान्पुत्रानेकैकस्या यथेप्सितान् ||६||
पुष्पोत्कटायां जज्ञाते द्वौ पुत्रौ राक्षसेश्वरौ |
कुम्भकर्णदशग्रीवौ बलेनाप्रतिमौ भुवि ||७||
मालिनी जनयामास पुत्रमेकं विभीषणम् |
राकायां मिथुनं जज्ञे खरः शूर्पणखा तथा ||८||
विभीषणस्तु रूपेण सर्वेभ्योऽभ्यधिकोऽभवत् |
स बभूव महाभागो धर्मगोप्ता क्रियारतिः ||९||
दशग्रीवस्तु सर्वेषां ज्येष्ठो राक्षसपुङ्गवः |
महोत्साहो महावीर्यो महासत्त्वपराक्रमः ||१०||
कुम्भकर्णो बलेनासीत्सर्वेभ्योऽभ्यधिकस्तदा |
मायावी रणशौण्डश्च रौद्रश्च रजनीचरः ||११||
खरो धनुषि विक्रान्तो ब्रह्मद्विट्पिशिताशनः |
सिद्धविघ्नकरी चापि रौद्रा शूर्पणखा तथा ||१२||
सर्वे वेदविदः शूराः सर्वे सुचरितव्रताः |
ऊषुः पित्रा सह रता गन्धमादनपर्वते ||१३||
ततो वैश्रवणं तत्र ददृशुर्नरवाहनम् |
पित्रा सार्धं समासीनमृद्ध्या परमया युतम् ||१४||
जातस्पर्धास्ततस्ते तु तपसे धृतनिश्चयाः |
ब्रह्माणं तोषयामासुर्घोरेण तपसा तदा ||१५||
अतिष्ठदेकपादेन सहस्रं परिवत्सरान् |
वायुभक्षो दशग्रीवः पञ्चाग्निः सुसमाहितः ||१६||
अधःशायी कुम्भकर्णो यताहारो यतव्रतः |
विभीषणः शीर्णपर्णमेकमभ्यवहारयत् ||१७||
उपवासरतिर्धीमान्सदा जप्यपरायणः |
तमेव कालमातिष्ठत्तीव्रं तप उदारधीः ||१८||
खरः शूर्पणखा चैव तेषां वै तप्यतां तपः |
परिचर्यां च रक्षां च चक्रतुर्हृष्टमानसौ ||१९||
पूर्णे वर्षसहस्रे तु शिरश्छित्त्वा दशाननः |
जुहोत्यग्नौ दुराधर्षस्तेनातुष्यज्जगत्प्रभुः ||२०||
ततो ब्रह्मा स्वयं गत्वा तपसस्तान्न्यवारयत् |
प्रलोभ्य वरदानेन सर्वानेव पृथक्पृथक् ||२१||
ब्रह्मोवाच||
प्रीतोऽस्मि वो निवर्तध्वं वरान्वृणुत पुत्रकाः |
यद्यदिष्टमृते त्वेकममरत्वं तथास्तु तत् ||२२||
यद्यदग्नौ हुतं सर्वं शिरस्ते महदीप्सया |
तथैव तानि ते देहे भविष्यन्ति यथेप्सितम् ||२३||
वैरूप्यं च न ते देहे कामरूपधरस्तथा |
भविष्यसि रणेऽरीणां विजेतासि न संशयः ||२४||
रावण उवाच||
गन्धर्वदेवासुरतो यक्षराक्षसतस्तथा |
सर्पकिंनरभूतेभ्यो न मे भूयात्पराभवः ||२५||
ब्रह्मोवाच||
य एते कीर्तिताः सर्वे न तेभ्योऽस्ति भयं तव |
ऋते मनुष्याद्भद्रं ते तथा तद्विहितं मया ||२६||
मार्कण्डेय उवाच||
एवमुक्तो दशग्रीवस्तुष्टः समभवत्तदा |
अवमेने हि दुर्बुद्धिर्मनुष्यान्पुरुषादकः ||२७||
कुम्भकर्णमथोवाच तथैव प्रपितामहः |
स वव्रे महतीं निद्रां तमसा ग्रस्तचेतनः ||२८||
तथा भविष्यतीत्युक्त्वा विभीषणमुवाच ह |
वरं वृणीष्व पुत्र त्वं प्रीतोऽस्मीति पुनः पुनः ||२९||
विभीषण उवाच||
परमापद्गतस्यापि नाधर्मे मे मतिर्भवेत् |
अशिक्षितं च भगवन्ब्रह्मास्त्रं प्रतिभातु मे ||३०||
ब्रह्मोवाच||
यस्माद्राक्षसयोनौ ते जातस्यामित्रकर्शन |
नाधर्मे रमते बुद्धिरमरत्वं ददामि ते ||३१||
मार्कण्डेय उवाच||
राक्षसस्तु वरं लब्ध्वा दशग्रीवो विशां पते |
लङ्कायाश्च्यावयामास युधि जित्वा धनेश्वरम् ||३२||
हित्वा स भगवाँल्लङ्कामाविशद्गन्धमादनम् |
गन्धर्वयक्षानुगतो रक्षःकिम्पुरुषैः सह ||३३||
विमानं पुष्पकं तस्य जहाराक्रम्य रावणः |
शशाप तं वैश्रवणो न त्वामेतद्वहिष्यति ||३४||
यस्तु त्वां समरे हन्ता तमेवैतद्वहिष्यति |
अवमन्य गुरुं मां च क्षिप्रं त्वं न भविष्यसि ||३५||
विभीषणस्तु धर्मात्मा सतां धर्ममनुस्मरन् |
अन्वगच्छन्महाराज श्रिया परमया युतः ||३६||
तस्मै स भगवांस्तुष्टो भ्राता भ्रात्रे धनेश्वरः |
सेनापत्यं ददौ धीमान्यक्षराक्षससेनयोः ||३७||
राक्षसाः पुरुषादाश्च पिशाचाश्च महाबलाः |
सर्वे समेत्य राजानमभ्यषिञ्चद्दशाननम् ||३८||
दशग्रीवस्तु दैत्यानां देवानां च बलोत्कटः |
आक्रम्य रत्नान्यहरत्कामरूपी विहङ्गमः ||३९||
रावयामास लोकान्यत्तस्माद्रावण उच्यते |
दशग्रीवः कामबलो देवानां भयमादधत् ||४०||
२६०
मार्कण्डेय उवाच||
ततो ब्रह्मर्षयः सिद्धा देवराजर्षयस्तथा |
हव्यवाहं पुरस्कृत्य ब्रह्माणं शरणं गताः ||१||
अग्निरुवाच||
यः स विश्रवसः पुत्रो दशग्रीवो महाबलः |
अवध्यो वरदानेन कृतो भगवता पुरा ||२||
स बाधते प्रजाः सर्वा विप्रकारैर्महाबलः |
ततो नस्त्रातु भगवन्नान्यस्त्राता हि विद्यते ||३||
ब्रह्मोवाच||
न स देवासुरैः शक्यो युद्धे जेतुं विभावसो |
विहितं तत्र यत्कार्यमभितस्तस्य निग्रहे ||४||
तदर्थमवतीर्णोऽसौ मन्नियोगाच्चतुर्भुजः |
विष्णुः प्रहरतां श्रेष्ठः स कर्मैतत्करिष्यति ||५||
मार्कण्डेय उवाच||
पितामहस्ततस्तेषां संनिधौ वाक्यमब्रवीत् |
सर्वैर्देवगणैः सार्धं सम्भवध्वं महीतले ||६||
विष्णोः सहायानृक्षीषु वानरीषु च सर्वशः |
जनयध्वं सुतान्वीरान्कामरूपबलान्वितान् ||७||
ततो भागानुभागेन देवगन्धर्वदानवाः |
अवतर्तुं महीं सर्वे रञ्जयामासुरञ्जसा ||८||
तेषां समक्षं गन्धर्वीं दुन्दुभीं नाम नामतः |
शशास वरदो देवो देवकार्यार्थसिद्धये ||९||
पितामहवचः श्रुत्वा गन्धर्वी दुन्दुभी ततः |
मन्थरा मानुषे लोके कुब्जा समभवत्तदा ||१०||
शक्रप्रभृतयश्चैव सर्वे ते सुरसत्तमाः |
वानरर्क्षवरस्त्रीषु जनयामासुरात्मजान् ||११||
तेऽन्ववर्तन्पितॄन्सर्वे यशसा च बलेन च ||११||
भेत्तारो गिरिशृङ्गाणां शालतालशिलायुधाः |
वज्रसंहननाः सर्वे सर्वे चौघबलास्तथा ||१२||
कामवीर्यधराश्चैव सर्वे युद्धविशारदाः |
नागायुतसमप्राणा वायुवेगसमा जवे ||१३||
यत्रेच्छकनिवासाश्च केचिदत्र वनौकसः ||१३||
एवं विधाय तत्सर्वं भगवाँल्लोकभावनः |
मन्थरां बोधयामास यद्यत्कार्यं यथा यथा ||१४||
सा तद्वचनमाज्ञाय तथा चक्रे मनोजवा |
इतश्चेतश्च गच्छन्ती वैरसन्धुक्षणे रता ||१५||
२६१
युधिष्ठिर उवाच||
उक्तं भगवता जन्म रामादीनां पृथक्पृथक् |
प्रस्थानकारणं ब्रह्मञ्श्रोतुमिच्छामि कथ्यताम् ||१||
कथं दाशरथी वीरौ भ्रातरौ रामलक्ष्मणौ |
प्रस्थापितौ वनं ब्रह्म मैथिली च यशस्विनी ||२||
मार्कण्डेय उवाच||
जातपुत्रो दशरथः प्रीतिमानभवन्नृपः |
क्रियारतिर्धर्मपरः सततं वृद्धसेविता ||३||
क्रमेण चास्य ते पुत्रा व्यवर्धन्त महौजसः |
वेदेषु सरहस्येषु धनुर्वेदे च पारगाः ||४||
चरितब्रह्मचर्यास्ते कृतदाराश्च पार्थिव |
यदा तदा दशरथः प्रीतिमानभवत्सुखी ||५||
ज्येष्ठो रामोऽभवत्तेषां रमयामास हि प्रजाः |
मनोहरतया धीमान्पितुर्हृदयतोषणः ||६||
ततः स राजा मतिमान्मत्वात्मानं वयोऽधिकम् |
मन्त्रयामास सचिवैर्धर्मज्ञैश्च पुरोहितैः ||७||
अभिषेकाय रामस्य यौवराज्येन भारत |
प्राप्तकालं च ते सर्वे मेनिरे मन्त्रिसत्तमाः ||८||
लोहिताक्षं महाबाहुं मत्तमातङ्गगामिनम् |
दीर्घबाहुं महोरस्कं नीलकुञ्चितमूर्धजम् ||९||
दीप्यमानं श्रिया वीरं शक्रादनवमं बले |
पारगं सर्वधर्माणां बृहस्पतिसमं मतौ ||१०||
सर्वानुरक्तप्रकृतिं सर्वविद्याविशारदम् |
जितेन्द्रियममित्राणामपि दृष्टिमनोहरम् ||११||
नियन्तारमसाधूनां गोप्तारं धर्मचारिणाम् |
धृतिमन्तमनाधृष्यं जेतारमपराजितम् ||१२||
पुत्रं राजा दशरथः कौसल्यानन्दवर्धनम् |
संदृश्य परमां प्रीतिमगच्छत्कुरुनन्दन ||१३||
चिन्तयंश्च महातेजा गुणान्रामस्य वीर्यवान् |
अभ्यभाषत भद्रं ते प्रीयमाणः पुरोहितम् ||१४||
अद्य पुष्यो निशि ब्रह्मन्पुण्यं योगमुपैष्यति |
सम्भाराः सम्भ्रियन्तां मे रामश्चोपनिमन्त्र्यताम् ||१५||
इति तद्राजवचनं प्रतिश्रुत्याथ मन्थरा |
कैकेयीमभिगम्येदं काले वचनमब्रवीत् ||१६||
अद्य कैकेयि दौर्भाग्यं राज्ञा ते ख्यापितं महत् |
आशीविषस्त्वां सङ्क्रुद्धश्चण्डो दशति दुर्भगे ||१७||
सुभगा खलु कौसल्या यस्याः पुत्रोऽभिषेक्ष्यते |
कुतो हि तव सौभाग्यं यस्याः पुत्रो न राज्यभाक् ||१८||
सा तद्वचनमाज्ञाय सर्वाभरणभूषिता |
वेदीविलग्नमध्येव बिभ्रती रूपमुत्तमम् ||१९||
विविक्ते पतिमासाद्य हसन्तीव शुचिस्मिता |
प्रणयं व्यञ्जयन्तीव मधुरं वाक्यमब्रवीत् ||२०||
सत्यप्रतिज्ञ यन्मे त्वं काममेकं निसृष्टवान् |
उपाकुरुष्व तद्राजंस्तस्मान्मुच्यस्व सङ्कटात् ||२१||
राजोवाच||
वरं ददानि ते हन्त तद्गृहाण यदिच्छसि |
अवध्यो वध्यतां कोऽद्य वध्यः कोऽद्य विमुच्यताम् ||२२||
धनं ददानि कस्याद्य ह्रियतां कस्य वा पुनः |
ब्राह्मणस्वादिहान्यत्र यत्किञ्चिद्वित्तमस्ति मे ||२३||
मार्कण्डेय उवाच||
सा तद्वचनमाज्ञाय परिगृह्य नराधिपम् |
आत्मनो बलमाज्ञाय तत एनमुवाच ह ||२४||
आभिषेचनिकं यत्ते रामार्थमुपकल्पितम् |
भरतस्तदवाप्नोतु वनं गच्छतु राघवः ||२५||
स तद्राजा वचः श्रुत्वा विप्रियं दारुणोदयम् |
दुःखार्तो भरतश्रेष्ठ न किञ्चिद्व्याजहार ह ||२६||
ततस्तथोक्तं पितरं रामो विज्ञाय वीर्यवान् |
वनं प्रतस्थे धर्मात्मा राजा सत्यो भवत्विति ||२७||
तमन्वगच्छल्लक्ष्मीवान्धनुष्माँल्लक्ष्मणस्तदा |
सीता च भार्या भद्रं ते वैदेही जनकात्मजा ||२८||
ततो वनं गते रामे राजा दशरथस्तदा |
समयुज्यत देहस्य कालपर्यायधर्मणा ||२९||
रामं तु गतमाज्ञाय राजानं च तथागतम् |
आनाय्य भरतं देवी कैकेयी वाक्यमब्रवीत् ||३०||
गतो दशरथः स्वर्गं वनस्थौ रामलक्ष्मणौ |
गृहाण राज्यं विपुलं क्षेमं निहतकण्टकम् ||३१||
तामुवाच स धर्मात्मा नृशंसं बत ते कृतम् |
पतिं हत्वा कुलं चेदमुत्साद्य धनलुब्धया ||३२||
अयशः पातयित्वा मे मूर्ध्नि त्वं कुलपांसने |
सकामा भव मे मातरित्युक्त्वा प्ररुरोद ह ||३३||
स चारित्रं विशोध्याथ सर्वप्रकृतिसंनिधौ |
अन्वयाद्भ्रातरं रामं विनिवर्तनलालसः ||३४||
कौसल्यां च सुमित्रां च कैकेयीं च सुदुःखितः |
अग्रे प्रस्थाप्य यानैः स शत्रुघ्नसहितो ययौ ||३५||
वसिष्ठवामदेवाभ्यां विप्रैश्चान्यैः सहस्रशः |
पौरजानपदैः सार्धं रामानयनकाङ्क्षया ||३६||
ददर्श चित्रकूटस्थं स रामं सहलक्ष्मणम् |
तापसानामलङ्कारं धारयन्तं धनुर्धरम् ||३७||
विसर्जितः स रामेण पितुर्वचनकारिणा |
नन्दिग्रामेऽकरोद्राज्यं पुरस्कृत्यास्य पादुके ||३८||
रामस्तु पुनराशङ्क्य पौरजानपदागमम् |
प्रविवेश महारण्यं शरभङ्गाश्रमं प्रति ||३९||
सत्कृत्य शरभङ्गं स दण्डकारण्यमाश्रितः |
नदीं गोदावरीं रम्यामाश्रित्य न्यवसत्तदा ||४०||
वसतस्तस्य रामस्य ततः शूर्पणखाकृतम् |
खरेणासीन्महद्वैरं जनस्थाननिवासिना ||४१||
रक्षार्थं तापसानां च राघवो धर्मवत्सलः |
चतुर्दश सहस्राणि जघान भुवि रक्षसाम् ||४२||
दूषणं च खरं चैव निहत्य सुमहाबलौ |
चक्रे क्षेमं पुनर्धीमान्धर्मारण्यं स राघवः ||४३||
हतेषु तेषु रक्षःसु ततः शूर्पणखा पुनः |
ययौ निकृत्तनासोष्ठी लङ्कां भ्रातुर्निवेशनम् ||४४||
ततो रावणमभ्येत्य राक्षसी दुःखमूर्छिता |
पपात पादयोर्भ्रातुः संशुष्करुधिरानना ||४५||
तां तथा विकृतां दृष्ट्वा रावणः क्रोधमूर्छितः |
उत्पपातासनात्क्रुद्धो दन्तैर्दन्तानुपस्पृशन् ||४६||
स्वानमात्यान्विसृज्याथ विविक्ते तामुवाच सः |
केनास्येवं कृता भद्रे मामचिन्त्यावमन्य च ||४७||
कः शूलं तीक्ष्णमासाद्य सर्वगात्रैर्निषेवते |
कः शिरस्यग्निमादाय विश्वस्तः स्वपते सुखम् ||४८||
आशीविषं घोरतरं पादेन स्पृशतीह कः |
सिंहं केसरिणं कश्च दंष्ट्रासु स्पृश्य तिष्ठति ||४९||
इत्येवं ब्रुवतस्तस्य स्रोतोभ्यस्तेजसोऽर्चिषः |
निश्चेरुर्दह्यतो रात्रौ वृक्षस्येव स्वरन्ध्रतः ||५०||
तस्य तत्सर्वमाचख्यौ भगिनी रामविक्रमम् |
खरदूषणसंयुक्तं राक्षसानां पराभवम् ||५१||
स निश्चित्य ततः कृत्यं स्वसारमुपसान्त्व्य च |
ऊर्ध्वमाचक्रमे राजा विधाय नगरे विधिम् ||५२||
त्रिकूटं समतिक्रम्य कालपर्वतमेव च |
ददर्श मकरावासं गम्भीरोदं महोदधिम् ||५३||
तमतीत्याथ गोकर्णमभ्यगच्छद्दशाननः |
दयितं स्थानमव्यग्रं शूलपाणेर्महात्मनः ||५४||
तत्राभ्यगच्छन्मारीचं पूर्वामात्यं दशाननः |
पुरा रामभयादेव तापस्यं समुपाश्रितम् ||५५||
२६२
मार्कण्डेय उवाच||
मारीचस्त्वथ सम्भ्रान्तो दृष्ट्वा रावणमागतम् |
पूजयामास सत्कारैः फलमूलादिभिस्तथा ||१||
विश्रान्तं चैनमासीनमन्वासीनः स राक्षसः |
उवाच प्रश्रितं वाक्यं वाक्यज्ञो वाक्यकोविदम् ||२||
न ते प्रकृतिमान्वर्णः कच्चित्क्षेमं पुरे तव |
कच्चित्प्रकृतयः सर्वा भजन्ते त्वां यथा पुरा ||३||
किमिहागमने चापि कार्यं ते राक्षसेश्वर |
कृतमित्येव तद्विद्धि यद्यपि स्यात्सुदुष्करम् ||४||
शशंस रावणस्तस्मै तत्सर्वं रामचेष्टितम् |
मारीचस्त्वब्रवीच्छ्रुत्वा समासेनैव रावणम् ||५||
अलं ते राममासाद्य वीर्यज्ञो ह्यस्मि तस्य वै |
बाणवेगं हि कस्तस्य शक्तः सोढुं महात्मनः ||६||
प्रव्रज्यायां हि मे हेतुः स एव पुरुषर्षभः |
विनाशमुखमेतत्ते केनाख्यातं दुरात्मना ||७||
तमुवाचाथ सक्रोधो रावणः परिभर्त्सयन् |
अकुर्वतोऽस्मद्वचनं स्यान्मृत्युरपि ते ध्रुवम् ||८||
मारीचश्चिन्तयामास विशिष्टान्मरणं वरम् |
अवश्यं मरणे प्राप्ते करिष्याम्यस्य यन्मतम् ||९||
ततस्तं प्रत्युवाचाथ मारीचो राक्षसेश्वरम् |
किं ते साह्यं मया कार्यं करिष्याम्यवशोऽपि तत् ||१०||
तमब्रवीद्दशग्रीवो गच्छ सीतां प्रलोभय |
रत्नशृङ्गो मृगो भूत्वा रत्नचित्रतनूरुहः ||११||
ध्रुवं सीता समालक्ष्य त्वां रामं चोदयिष्यति |
अपक्रान्ते च काकुत्स्थे सीता वश्या भविष्यति ||१२||
तामादायापनेष्यामि ततः स न भविष्यति |
भार्यावियोगाद्दुर्बुद्धिरेतत्साह्यं कुरुष्व मे ||१३||
इत्येवमुक्तो मारीचः कृत्वोदकमथात्मनः |
रावणं पुरतो यान्तमन्वगच्छत्सुदुःखितः ||१४||
ततस्तस्याश्रमं गत्वा रामस्याक्लिष्टकर्मणः |
चक्रतुस्तत्तथा सर्वमुभौ यत्पूर्वमन्त्रितम् ||१५||
रावणस्तु यतिर्भूत्वा मुण्डः कुण्डी त्रिदण्डधृक् |
मृगश्च भूत्वा मारीचस्तं देशमुपजग्मतुः ||१६||
दर्शयामास वैदेहीं मारीचो मृगरूपधृक् |
चोदयामास तस्यार्थे सा रामं विधिचोदिता ||१७||
रामस्तस्याः प्रियं कुर्वन्धनुरादाय सत्वरः |
रक्षार्थे लक्ष्मणं न्यस्य प्रययौ मृगलिप्सया ||१८||
स धन्वी बद्धतूणीरः खड्गगोधाङ्गुलित्रवान् |
अन्वधावन्मृगं रामो रुद्रस्तारामृगं यथा ||१९||
सोऽन्तर्हितः पुनस्तस्य दर्शनं राक्षसो व्रजन् |
चकर्ष महदध्वानं रामस्तं बुबुधे ततः ||२०||
निशाचरं विदित्वा तं राघवः प्रतिभानवान् |
अमोघं शरमादाय जघान मृगरूपिणम् ||२१||
स रामबाणाभिहतः कृत्वा रामस्वरं तदा |
हा सीते लक्ष्मणेत्येवं चुक्रोशार्तस्वरेण ह ||२२||
शुश्राव तस्य वैदेही ततस्तां करुणां गिरम् |
सा प्राद्रवद्यतः शब्दस्तामुवाचाथ लक्ष्मणः ||२३||
अलं ते शङ्कया भीरु को रामं विषहिष्यति |
मुहूर्ताद्द्रक्ष्यसे राममागतं तं शुचिस्मिते ||२४||
इत्युक्त्वा सा प्ररुदती पर्यशङ्कत देवरम् |
हता वै स्त्रीस्वभावेन शुद्धचारित्रभूषणम् ||२५||
सा तं परुषमारब्धा वक्तुं साध्वी पतिव्रता |
नैष कालो भवेन्मूढ यं त्वं प्रार्थयसे हृदा ||२६||
अप्यहं शस्त्रमादाय हन्यामात्मानमात्मना |
पतेयं गिरिशृङ्गाद्वा विशेयं वा हुताशनम् ||२७||
रामं भर्तारमुत्सृज्य न त्वहं त्वां कथञ्चन |
निहीनमुपतिष्ठेयं शार्दूली क्रोष्टुकं यथा ||२८||
एतादृशं वचः श्रुत्वा लक्ष्मणः प्रियराघवः |
पिधाय कर्णौ सद्वृत्तः प्रस्थितो येन राघवः ||२९||
स रामस्य पदं गृह्य प्रससार धनुर्धरः ||२९||
एतस्मिन्नन्तरे रक्षो रावणः प्रत्यदृश्यत |
अभव्यो भव्यरूपेण भस्मच्छन्न इवानलः ||३०||
यतिवेषप्रतिच्छन्नो जिहीर्षुस्तामनिन्दिताम् ||३०||
सा तमालक्ष्य सम्प्राप्तं धर्मज्ञा जनकात्मजा |
निमन्त्रयामास तदा फलमूलाशनादिभिः ||३१||
अवमन्य स तत्सर्वं स्वरूपं प्रतिपद्य च |
सान्त्वयामास वैदेहीमिति राक्षसपुङ्गवः ||३२||
सीते राक्षसराजोऽहं रावणो नाम विश्रुतः |
मम लङ्का पुरी नाम्ना रम्या पारे महोदधेः ||३३||
तत्र त्वं वरनारीषु शोभिष्यसि मया सह |
भार्या मे भव सुश्रोणि तापसं त्यज राघवम् ||३४||
एवमादीनि वाक्यानि श्रुत्वा सीताथ जानकी |
पिधाय कर्णौ सुश्रोणी मैवमित्यब्रवीद्वचः ||३५||
प्रपतेद्द्यौः सनक्षत्रा पृथिवी शकलीभवेत् |
शैत्यमग्निरियान्नाहं त्यजेयं रघुनन्दनम् ||३६||
कथं हि भिन्नकरटं पद्मिनं वनगोचरम् |
उपस्थाय महानागं करेणुः सूकरं स्पृशेत् ||३७||
कथं हि पीत्वा माध्वीकं पीत्वा च मधुमाधवीम् |
लोभं सौवीरके कुर्यान्नारी काचिदिति स्मरे ||३८||
इति सा तं समाभाष्य प्रविवेशाश्रमं पुनः |
तामनुद्रुत्य सुश्रोणीं रावणः प्रत्यषेधयत् ||३९||
भर्त्सयित्वा तु रूक्षेण स्वरेण गतचेतनाम् |
मूर्धजेषु निजग्राह खमुपाचक्रमे ततः ||४०||
तां ददर्श तदा गृध्रो जटायुर्गिरिगोचरः |
रुदतीं राम रामेति ह्रियमाणां तपस्विनीम् ||४१||
२६३
मार्कण्डेय उवाच||
सखा दशरथस्यासीज्जटायुररुणात्मजः |
गृध्रराजो महावीर्यः सम्पातिर्यस्य सोदरः ||१||
स ददर्श तदा सीतां रावणाङ्कगतां स्नुषाम् |
क्रोधादभ्यद्रवत्पक्षी रावणं राक्षसेश्वरम् ||२||
अथैनमब्रवीद्गृध्रो मुञ्च मुञ्चेति मैथिलीम् |
ध्रियमाणे मयि कथं हरिष्यसि निशाचर ||३||
न हि मे मोक्ष्यसे जीवन्यदि नोत्सृजसे वधूम् ||३||
उक्त्वैवं राक्षसेन्द्रं तं चकर्त नखरैर्भृशम् |
पक्षतुण्डप्रहारैश्च बहुशो जर्जरीकृतः ||४||
चक्षार रुधिरं भूरि गिरिः प्रस्रवणैरिव ||४||
स वध्यमानो गृध्रेण रामप्रियहितैषिणा |
खड्गमादाय चिच्छेद भुजौ तस्य पतत्रिणः ||५||
निहत्य गृध्रराजं स छिन्नाभ्रशिखरोपमम् |
ऊर्ध्वमाचक्रमे सीतां गृहीत्वाङ्केन राक्षसः ||६||
यत्र यत्र तु वैदेही पश्यत्याश्रममण्डलम् |
सरो वा सरितं वापि तत्र मुञ्चति भूषणम् ||७||
सा ददर्श गिरिप्रस्थे पञ्च वानरपुङ्गवान् |
तत्र वासो महद्दिव्यमुत्ससर्ज मनस्विनी ||८||
तत्तेषां वानरेन्द्राणां पपात पवनोद्धुतम् |
मध्ये सुपीतं पञ्चानां विद्युन्मेघान्तरे यथा ||९||
एवं हृतायां वैदेह्यां रामो हत्वा महामृगम् |
निवृत्तो ददृशे धीमान्भ्रातरं लक्ष्मणं तदा ||१०||
कथमुत्सृज्य वैदेहीं वने राक्षससेविते |
इत्येवं भ्रातरं दृष्ट्वा प्राप्तोऽसीति व्यगर्हयत् ||११||
मृगरूपधरेणाथ रक्षसा सोऽपकर्षणम् |
भ्रातुरागमनं चैव चिन्तयन्पर्यतप्यत ||१२||
गर्हयन्नेव रामस्तु त्वरितस्तं समासदत् |
अपि जीवति वैदेही नेति पश्यामि लक्ष्मण ||१३||
तस्य तत्सर्वमाचख्यौ सीताया लक्ष्मणो वचः |
यदुक्तवत्यसदृशं वैदेही पश्चिमं वचः ||१४||
दह्यमानेन तु हृदा रामोऽभ्यपतदाश्रमम् |
स ददर्श तदा गृध्रं निहतं पर्वतोपमम् ||१५||
राक्षसं शङ्कमानस्तु विकृष्य बलवद्धनुः |
अभ्यधावत काकुत्स्थस्ततस्तं सहलक्ष्मणः ||१६||
स तावुवाच तेजस्वी सहितौ रामलक्ष्मणौ |
गृध्रराजोऽस्मि भद्रं वां सखा दशरथस्य ह ||१७||
तस्य तद्वचनं श्रुत्वा सङ्गृह्य धनुषी शुभे |
कोऽयं पितरमस्माकं नाम्नाहेत्यूचतुश्च तौ ||१८||
ततो ददृशतुस्तौ तं छिन्नपक्षद्वयं तथा |
तयोः शशंस गृध्रस्तु सीतार्थे रावणाद्वधम् ||१९||
अपृच्छद्राघवो गृध्रं रावणः कां दिशं गतः |
तस्य गृध्रः शिरःकम्पैराचचक्षे ममार च ||२०||
दक्षिणामिति काकुत्स्थो विदित्वास्य तदिङ्गितम् |
संस्कारं लम्भयामास सखायं पूजयन्पितुः ||२१||
ततो दृष्ट्वाश्रमपदं व्यपविद्धबृसीघटम् |
विध्वस्तकलशं शून्यं गोमायुबलसेवितम् ||२२||
दुःखशोकसमाविष्टौ वैदेहीहरणार्दितौ |
जग्मतुर्दण्डकारण्यं दक्षिणेन परन्तपौ ||२३||
वने महति तस्मिंस्तु रामः सौमित्रिणा सह |
ददर्श मृगयूथानि द्रवमाणानि सर्वशः ||२४||
शब्दं च घोरं सत्त्वानां दावाग्नेरिव वर्धतः ||२४||
अपश्येतां मुहूर्ताच्च कबन्धं घोरदर्शनम् |
मेघपर्वतसङ्काशं शालस्कन्धं महाभुजम् ||२५||
उरोगतविशालाक्षं महोदरमहामुखम् ||२५||
यदृच्छयाथ तद्रक्षः करे जग्राह लक्ष्मणम् |
विषादमगमत्सद्यः सौमित्रिरथ भारत ||२६||
स राममभिसम्प्रेक्ष्य कृष्यते येन तन्मुखम् |
विषण्णश्चाब्रवीद्रामं पश्यावस्थामिमां मम ||२७||
हरणं चैव वैदेह्या मम चायमुपप्लवः |
राज्यभ्रंशश्च भवतस्तातस्य मरणं तथा ||२८||
नाहं त्वां सह वैदेह्या समेतं कोसलागतम् |
द्रक्ष्यामि पृथिवीराज्ये पितृपैतामहे स्थितम् ||२९||
द्रक्ष्यन्त्यार्यस्य धन्या ये कुशलाजशमीलवैः |
अभिषिक्तस्य वदनं सोमं साभ्रलवं यथा ||३०||
एवं बहुविधं धीमान्विललाप स लक्ष्मणः |
तमुवाचाथ काकुत्स्थः सम्भ्रमेष्वप्यसम्भ्रमः ||३१||
मा विषीद नरव्याघ्र नैष कश्चिन्मयि स्थिते |
छिन्ध्यस्य दक्षिणं बाहुं छिन्नः सव्यो मया भुजः ||३२||
इत्येवं वदता तस्य भुजो रामेण पातितः |
खड्गेन भृशतीक्ष्णेन निकृत्तस्तिलकाण्डवत् ||३३||
ततोऽस्य दक्षिणं बाहुं खड्गेनाजघ्निवान्बली |
सौमित्रिरपि सम्प्रेक्ष्य भ्रातरं राघवं स्थितम् ||३४||
पुनरभ्याहनत्पार्श्वे तद्रक्षो लक्ष्मणो भृशम् |
गतासुरपतद्भूमौ कबन्धः सुमहांस्ततः ||३५||
तस्य देहाद्विनिःसृत्य पुरुषो दिव्यदर्शनः |
ददृशे दिवमास्थाय दिवि सूर्य इव ज्वलन् ||३६||
पप्रच्छ रामस्तं वाग्मी कस्त्वं प्रब्रूहि पृच्छतः |
कामया किमिदं चित्रमाश्चर्यं प्रतिभाति मे ||३७||
तस्याचचक्षे गन्धर्वो विश्वावसुरहं नृप |
प्राप्तो ब्रह्मानुशापेन योनिं राक्षससेविताम् ||३८||
रावणेन हृता सीता राज्ञा लङ्कानिवासिना |
सुग्रीवमभिगच्छस्व स ते साह्यं करिष्यति ||३९||
एषा पम्पा शिवजला हंसकारण्डवायुता |
ऋश्यमूकस्य शैलस्य संनिकर्षे तटाकिनी ||४०||
संवसत्यत्र सुग्रीवश्चतुर्भिः सचिवैः सह |
भ्राता वानरराजस्य वालिनो हेममालिनः ||४१||
एतावच्छक्यमस्माभिर्वक्तुं द्रष्टासि जानकीम् |
ध्रुवं वानरराजस्य विदितो रावणालयः ||४२||
इत्युक्त्वान्तर्हितो दिव्यः पुरुषः स महाप्रभः |
विस्मयं जग्मतुश्चोभौ तौ वीरौ रामलक्ष्मणौ ||४३||
२६४
मार्कण्डेय उवाच||
ततोऽविदूरे नलिनीं प्रभूतकमलोत्पलाम् |
सीताहरणदुःखार्तः पम्पां रामः समासदत् ||१||
मारुतेन सुशीतेन सुखेनामृतगन्धिना |
सेव्यमानो वने तस्मिञ्जगाम मनसा प्रियाम् ||२||
विललाप स राजेन्द्रस्तत्र कान्तामनुस्मरन् |
कामबाणाभिसन्तप्तः सौमित्रिस्तमथाब्रवीत् ||३||
न त्वामेवंविधो भावः स्प्रष्टुमर्हति मानद |
आत्मवन्तमिव व्याधिः पुरुषं वृद्धशीलिनम् ||४||
प्रवृत्तिरुपलब्धा ते वैदेह्या रावणस्य च |
तां त्वं पुरुषकारेण बुद्ध्या चैवोपपादय ||५||
अभिगच्छाव सुग्रीवं शैलस्थं हरिपुङ्गवम् |
मयि शिष्ये च भृत्ये च सहाये च समाश्वस ||६||
एवं बहुविधैर्वाक्यैर्लक्ष्मणेन स राघवः |
उक्तः प्रकृतिमापेदे कार्ये चानन्तरोऽभवत् ||७||
निषेव्य वारि पम्पायास्तर्पयित्वा पितॄनपि |
प्रतस्थतुरुभौ वीरौ भ्रातरौ रामलक्ष्मणौ ||८||
तावृश्यमूकमभ्येत्य बहुमूलफलं गिरिम् |
गिर्यग्रे वानरान्पञ्च वीरौ ददृशतुस्तदा ||९||
सुग्रीवः प्रेषयामास सचिवं वानरं तयोः |
बुद्धिमन्तं हनूमन्तं हिमवन्तमिव स्थितम् ||१०||
तेन सम्भाष्य पूर्वं तौ सुग्रीवमभिजग्मतुः |
सख्यं वानरराजेन चक्रे रामस्ततो नृप ||११||
तद्वासो दर्शयामासुस्तस्य कार्ये निवेदिते |
वानराणां तु यत्सीता ह्रियमाणाभ्यवासृजत् ||१२||
तत्प्रत्ययकरं लब्ध्वा सुग्रीवं प्लवगाधिपम् |
पृथिव्यां वानरैश्वर्ये स्वयं रामोऽभ्यषेचयत् ||१३||
प्रतिजज्ञे च काकुत्स्थः समरे वालिनो वधम् |
सुग्रीवश्चापि वैदेह्याः पुनरानयनं नृप ||१४||
इत्युक्त्वा समयं कृत्वा विश्वास्य च परस्परम् |
अभ्येत्य सर्वे किष्किन्धां तस्थुर्युद्धाभिकाङ्क्षिणः ||१५||
सुग्रीवः प्राप्य किष्किन्धां ननादौघनिभस्वनः |
नास्य तन्ममृषे वाली तं तारा प्रत्यषेधयत् ||१६||
यथा नदति सुग्रीवो बलवानेष वानरः |
मन्ये चाश्रयवान्प्राप्तो न त्वं निर्गन्तुमर्हसि ||१७||
हेममाली ततो वाली तारां ताराधिपाननाम् |
प्रोवाच वचनं वाग्मी तां वानरपतिः पतिः ||१८||
सर्वभूतरुतज्ञा त्वं पश्य बुद्ध्या समन्विता |
केनापाश्रयवान्प्राप्तो ममैष भ्रातृगन्धिकः ||१९||
चिन्तयित्वा मुहूर्तं तु तारा ताराधिपप्रभा |
पतिमित्यब्रवीत्प्राज्ञा शृणु सर्वं कपीश्वर ||२०||
हृतदारो महासत्त्वो रामो दशरथात्मजः |
तुल्यारिमित्रतां प्राप्तः सुग्रीवेण धनुर्धरः ||२१||
भ्राता चास्य महाबाहुः सौमित्रिरपराजितः |
लक्ष्मणो नाम मेधावी स्थितः कार्यार्थसिद्धये ||२२||
मैन्दश्च द्विविदश्चैव हनूमांश्चानिलात्मजः |
जाम्बवानृक्षराजश्च सुग्रीवसचिवाः स्थिताः ||२३||
सर्व एते महात्मानो बुद्धिमन्तो महाबलाः |
अलं तव विनाशाय रामवीर्यव्यपाश्रयात् ||२४||
तस्यास्तदाक्षिप्य वचो हितमुक्तं कपीश्वरः |
पर्यशङ्कत तामीर्षुः सुग्रीवगतमानसाम् ||२५||
तारां परुषमुक्त्वा स निर्जगाम गुहामुखात् |
स्थितं माल्यवतोऽभ्याशे सुग्रीवं सोऽभ्यभाषत ||२६||
असकृत्त्वं मया मूढ निर्जितो जीवितप्रियः |
मुक्तो ज्ञातिरिति ज्ञात्वा का त्वरा मरणे पुनः ||२७||
इत्युक्तः प्राह सुग्रीवो भ्रातरं हेतुमद्वचः |
प्राप्तकालममित्रघ्नो रामं सम्बोधयन्निव ||२८||
हृतदारस्य मे राजन्हृतराज्यस्य च त्वया |
किं नु जीवितसामर्थ्यमिति विद्धि समागतम् ||२९||
एवमुक्त्वा बहुविधं ततस्तौ संनिपेततुः |
समरे वालिसुग्रीवौ शालतालशिलायुधौ ||३०||
उभौ जघ्नतुरन्योन्यमुभौ भूमौ निपेततुः |
उभौ ववल्गतुश्चित्रं मुष्टिभिश्च निजघ्नतुः ||३१||
उभौ रुधिरसंसिक्तौ नखदन्तपरिक्षतौ |
शुशुभाते तदा वीरौ पुष्पिताविव किंशुकौ ||३२||
न विशेषस्तयोर्युद्धे तदा कश्चन दृश्यते |
सुग्रीवस्य तदा मालां हनूमान्कण्ठ आसजत् ||३३||
स मालया तदा वीरः शुशुभे कण्ठसक्तया |
श्रीमानिव महाशैलो मलयो मेघमालया ||३४||
कृतचिह्नं तु सुग्रीवं रामो दृष्ट्वा महाधनुः |
विचकर्ष धनुःश्रेष्ठं वालिमुद्दिश्य लक्ष्यवत् ||३५||
विस्फारस्तस्य धनुषो यन्त्रस्येव तदा बभौ |
वितत्रास तदा वाली शरेणाभिहतो हृदि ||३६||
स भिन्नमर्माभिहतो वक्त्राच्छोणितमुद्वमन् |
ददर्शावस्थितं राममारात्सौमित्रिणा सह ||३७||
गर्हयित्वा स काकुत्स्थं पपात भुवि मूर्छितः |
तारा ददर्श तं भूमौ तारापतिमिव च्युतम् ||३८||
हते वालिनि सुग्रीवः किष्किन्धां प्रत्यपद्यत |
तां च तारापतिमुखीं तारां निपतितेश्वराम् ||३९||
रामस्तु चतुरो मासान्पृष्ठे माल्यवतः शुभे |
निवासमकरोद्धीमान्सुग्रीवेणाभ्युपस्थितः ||४०||
रावणोऽपि पुरीं गत्वा लङ्कां कामबलात्कृतः |
सीतां निवेशयामास भवने नन्दनोपमे ||४१||
अशोकवनिकाभ्याशे तापसाश्रमसंनिभे ||४१||
भर्तृस्मरणतन्वङ्गी तापसीवेषधारिणी |
उपवासतपःशीला तत्र सा पृथुलेक्षणा ||४२||
उवास दुःखवसतीः फलमूलकृताशना ||४२||
दिदेश राक्षसीस्तत्र रक्षणे राक्षसाधिपः |
प्रासासिशूलपरशुमुद्गरालातधारिणीः ||४३||
द्व्यक्षीं त्र्यक्षीं ललाटाक्षीं दीर्घजिह्वामजिह्विकाम् |
त्रिस्तनीमेकपादां च त्रिजटामेकलोचनाम् ||४४||
एताश्चान्याश्च दीप्ताक्ष्यः करभोत्कटमूर्धजाः |
परिवार्यासते सीतां दिवारात्रमतन्द्रिताः ||४५||
तास्तु तामायतापाङ्गीं पिशाच्यो दारुणस्वनाः |
तर्जयन्ति सदा रौद्राः परुषव्यञ्जनाक्षराः ||४६||
खादाम पाटयामैनां तिलशः प्रविभज्य ताम् |
येयं भर्तारमस्माकमवमन्येह जीवति ||४७||
इत्येवं परिभर्त्सन्तीस्त्रास्यमाना पुनः पुनः |
भर्तृशोकसमाविष्टा निःश्वस्येदमुवाच ताः ||४८||
आर्याः खादत मां शीघ्रं न मे लोभोऽस्ति जीविते |
विना तं पुण्डरीकाक्षं नीलकुञ्चितमूर्धजम् ||४९||
अप्येवाहं निराहारा जीवितप्रियवर्जिता |
शोषयिष्यामि गात्राणि व्याली तालगता यथा ||५०||
न त्वन्यमभिगच्छेयं पुमांसं राघवादृते |
इति जानीत सत्यं मे क्रियतां यदनन्तरम् ||५१||
तस्यास्तद्वचनं श्रुत्वा राक्षस्यस्ताः खरस्वनाः |
आख्यातुं राक्षसेन्द्राय जग्मुस्तत्सर्वमादितः ||५२||
गतासु तासु सर्वासु त्रिजटा नाम राक्षसी |
सान्त्वयामास वैदेहीं धर्मज्ञा प्रियवादिनी ||५३||
सीते वक्ष्यामि ते किञ्चिद्विश्वासं कुरु मे सखि |
भयं ते व्येतु वामोरु शृणु चेदं वचो मम ||५४||
अविन्ध्यो नाम मेधावी वृद्धो राक्षसपुङ्गवः |
स रामस्य हितान्वेषी त्वदर्थे हि स मावदत् ||५५||
सीता मद्वचनाद्वाच्या समाश्वास्य प्रसाद्य च |
भर्ता ते कुशली रामो लक्ष्मणानुगतो बली ||५६||
सख्यं वानरराजेन शक्रप्रतिमतेजसा |
कृतवान्राघवः श्रीमांस्त्वदर्थे च समुद्यतः ||५७||
मा च तेऽस्तु भयं भीरु रावणाल्लोकगर्हितात् |
नलकूबरशापेन रक्षिता ह्यस्यनिन्दिते ||५८||
शप्तो ह्येष पुरा पापो वधूं रम्भां परामृशन् |
न शक्तो विवशां नारीमुपैतुमजितेन्द्रियः ||५९||
क्षिप्रमेष्यति ते भर्ता सुग्रीवेणाभिरक्षितः |
सौमित्रिसहितो धीमांस्त्वां चेतो मोक्षयिष्यति ||६०||
स्वप्ना हि सुमहाघोरा दृष्टा मेऽनिष्टदर्शनाः |
विनाशायास्य दुर्बुद्धेः पौलस्त्यकुलघातिनः ||६१||
दारुणो ह्येष दुष्टात्मा क्षुद्रकर्मा निशाचरः |
स्वभावाच्छीलदोषेण सर्वेषां भयवर्धनः ||६२||
स्पर्धते सर्वदेवैर्यः कालोपहतचेतनः |
मया विनाशलिङ्गानि स्वप्ने दृष्टानि तस्य वै ||६३||
तैलाभिषिक्तो विकचो मज्जन्पङ्के दशाननः |
असकृत्खरयुक्ते तु रथे नृत्यन्निव स्थितः ||६४||
कुम्भकर्णादयश्चेमे नग्नाः पतितमूर्धजाः |
कृष्यन्ते दक्षिणामाशां रक्तमाल्यानुलेपनाः ||६५||
श्वेतातपत्रः सोष्णीषः शुक्लमाल्यविभूषणः |
श्वेतपर्वतमारूढ एक एव विभीषणः ||६६||
सचिवाश्चास्य चत्वारः शुक्लमाल्यानुलेपनाः |
श्वेतपर्वतमारूढा मोक्ष्यन्तेऽस्मान्महाभयात् ||६७||
रामस्यास्त्रेण पृथिवी परिक्षिप्ता ससागरा |
यशसा पृथिवीं कृत्स्नां पूरयिष्यति ते पतिः ||६८||
अस्थिसञ्चयमारूढो भुञ्जानो मधुपायसम् |
लक्ष्मणश्च मया दृष्टो निरीक्षन्सर्वतोदिशः ||६९||
रुदती रुधिरार्द्राङ्गी व्याघ्रेण परिरक्षिता |
असकृत्त्वं मया दृष्टा गच्छन्ती दिशमुत्तराम् ||७०||
हर्षमेष्यसि वैदेहि क्षिप्रं भर्तृसमन्विता |
राघवेण सह भ्रात्रा सीते त्वमचिरादिव ||७१||
इति सा मृगशावाक्षी तच्छ्रुत्वा त्रिजटावचः |
बभूवाशावती बाला पुनर्भर्तृसमागमे ||७२||
यावदभ्यागता रौद्राः पिशाच्यस्ताः सुदारुणाः |
ददृशुस्तां त्रिजटया सहासीनां यथा पुरा ||७३||
२६५
मार्कण्डेय उवाच||
ततस्तां भर्तृशोकार्तां दीनां मलिनवाससम् |
मणिशेषाभ्यलङ्कारां रुदतीं च पतिव्रताम् ||१||
राक्षसीभिरुपास्यन्तीं समासीनां शिलातले |
रावणः कामबाणार्तो ददर्शोपससर्प च ||२||
देवदानवगन्धर्वयक्षकिम्पुरुषैर्युधि |
अजितोऽशोकवनिकां ययौ कन्दर्पमोहितः ||३||
दिव्याम्बरधरः श्रीमान्सुमृष्टमणिकुण्डलः |
विचित्रमाल्यमुकुटो वसन्त इव मूर्तिमान् ||४||
स कल्पवृक्षसदृशो यत्नादपि विभूषितः |
श्मशानचैत्यद्रुमवद्भूषितोऽपि भयङ्करः ||५||
स तस्यास्तनुमध्यायाः समीपे रजनीचरः |
ददृशे रोहिणीमेत्य शनैश्चर इव ग्रहः ||६||
स तामामन्त्र्य सुश्रोणीं पुष्पकेतुशराहतः |
इदमित्यब्रवीद्बालां त्रस्तां रौहीमिवाबलाम् ||७||
सीते पर्याप्तमेतावत्कृतो भर्तुरनुग्रहः |
प्रसादं कुरु तन्वङ्गि क्रियतां परिकर्म ते ||८||
भजस्व मां वरारोहे महार्हाभरणाम्बरा |
भव मे सर्वनारीणामुत्तमा वरवर्णिनि ||९||
सन्ति मे देवकन्याश्च राजर्षीणां तथाङ्गनाः |
सन्ति दानवकन्याश्च दैत्यानां चापि योषितः ||१०||
चतुर्दश पिशाचानां कोट्यो मे वचने स्थिताः |
द्विस्तावत्पुरुषादानां रक्षसां भीमकर्मणाम् ||११||
ततो मे त्रिगुणा यक्षा ये मद्वचनकारिणः |
केचिदेव धनाध्यक्षं भ्रातरं मे समाश्रिताः ||१२||
गन्धर्वाप्सरसो भद्रे मामापानगतं सदा |
उपतिष्ठन्ति वामोरु यथैव भ्रातरं मम ||१३||
पुत्रोऽहमपि विप्रर्षेः साक्षाद्विश्रवसो मुनेः |
पञ्चमो लोकपालानामिति मे प्रथितं यशः ||१४||
दिव्यानि भक्ष्यभोज्यानि पानानि विविधानि च |
यथैव त्रिदशेशस्य तथैव मम भामिनि ||१५||
क्षीयतां दुष्कृतं कर्म वनवासकृतं तव |
भार्या मे भव सुश्रोणि यथा मन्दोदरी तथा ||१६||
इत्युक्ता तेन वैदेही परिवृत्य शुभानना |
तृणमन्तरतः कृत्वा तमुवाच निशाचरम् ||१७||
अशिवेनातिवामोरूरजस्रं नेत्रवारिणा |
स्तनावपतितौ बाला सहितावभिवर्षती ||१८||
उवाच वाक्यं तं क्षुद्रं वैदेही पतिदेवता ||१८||
असकृद्वदतो वाक्यमीदृशं राक्षसेश्वर |
विषादयुक्तमेतत्ते मया श्रुतमभाग्यया ||१९||
तद्भद्रसुख भद्रं ते मानसं विनिवर्त्यताम् |
परदारास्म्यलभ्या च सततं च पतिव्रता ||२०||
न चैवोपयिकी भार्या मानुषी कृपणा तव |
विवशां धर्षयित्वा च कां त्वं प्रीतिमवाप्स्यसि ||२१||
प्रजापतिसमो विप्रो ब्रह्मयोनिः पिता तव |
न च पालयसे धर्मं लोकपालसमः कथम् ||२२||
भ्रातरं राजराजानं महेश्वरसखं प्रभुम् |
धनेश्वरं व्यपदिशन्कथं त्विह न लज्जसे ||२३||
इत्युक्त्वा प्रारुदत्सीता कम्पयन्ती पयोधरौ |
शिरोधरां च तन्वङ्गी मुखं प्रच्छाद्य वाससा ||२४||
तस्या रुदत्या भामिन्या दीर्घा वेणी सुसंयता |
ददृशे स्वसिता स्निग्धा काली व्यालीव मूर्धनि ||२५||
तच्छ्रुत्वा रावणो वाक्यं सीतयोक्तं सुनिष्ठुरम् |
प्रत्याख्यातोऽपि दुर्मेधाः पुनरेवाब्रवीद्वचः ||२६||
काममङ्गानि मे सीते दुनोतु मकरध्वजः |
न त्वामकामां सुश्रोणीं समेष्ये चारुहासिनीम् ||२७||
किं नु शक्यं मया कर्तुं यत्त्वमद्यापि मानुषम् |
आहारभूतमस्माकं राममेवानुरुध्यसे ||२८||
इत्युक्त्वा तामनिन्द्याङ्गीं स राक्षसगणेश्वरः |
तत्रैवान्तर्हितो भूत्वा जगामाभिमतां दिशम् ||२९||
राक्षसीभिः परिवृता वैदेही शोककर्शिता |
सेव्यमाना त्रिजटया तत्रैव न्यवसत्तदा ||३०||
२६६
मार्कण्डेय उवाच||
राघवस्तु ससौमित्रिः सुग्रीवेणाभिपालितः |
वसन्माल्यवतः पृष्ठे ददर्श विमलं नभः ||१||
स दृष्ट्वा विमले व्योम्नि निर्मलं शशलक्षणम् |
ग्रहनक्षत्रताराभिरनुयातममित्रहा ||२||
कुमुदोत्पलपद्मानां गन्धमादाय वायुना |
महीधरस्थः शीतेन सहसा प्रतिबोधितः ||३||
प्रभाते लक्ष्मणं वीरमभ्यभाषत दुर्मनाः |
सीतां संस्मृत्य धर्मात्मा रुद्धां राक्षसवेश्मनि ||४||
गच्छ लक्ष्मण जानीहि किष्किन्धायां कपीश्वरम् |
प्रमत्तं ग्राम्यधर्मेषु कृतघ्नं स्वार्थपण्डितम् ||५||
योऽसौ कुलाधमो मूढो मया राज्येऽभिषेचितः |
सर्ववानरगोपुच्छा यमृक्षाश्च भजन्ति वै ||६||
यदर्थं निहतो वाली मया रघुकुलोद्वह |
त्वया सह महाबाहो किष्किन्धोपवने तदा ||७||
कृतघ्नं तमहं मन्ये वानरापसदं भुवि |
यो मामेवङ्गतो मूढो न जानीतेऽद्य लक्ष्मण ||८||
असौ मन्ये न जानीते समयप्रतिपादनम् |
कृतोपकारं मां नूनमवमन्याल्पया धिया ||९||
यदि तावदनुद्युक्तः शेते कामसुखात्मकः |
नेतव्यो वालिमार्गेण सर्वभूतगतिं त्वया ||१०||
अथापि घटतेऽस्माकमर्थे वानरपुङ्गवः |
तमादायैहि काकुत्स्थ त्वरावान्भव मा चिरम् ||११||
इत्युक्तो लक्ष्मणो भ्रात्रा गुरुवाक्यहिते रतः |
प्रतस्थे रुचिरं गृह्य समार्गणगुणं धनुः ||१२||
किष्किन्धाद्वारमासाद्य प्रविवेशानिवारितः ||१२||
सक्रोध इति तं मत्वा राजा प्रत्युद्ययौ हरिः |
तं सदारो विनीतात्मा सुग्रीवः प्लवगाधिपः ||१३||
पूजया प्रतिजग्राह प्रीयमाणस्तदर्हया ||१३||
तमब्रवीद्रामवचः सौमित्रिरकुतोभयः |
स तत्सर्वमशेषेण श्रुत्वा प्रह्वः कृताञ्जलिः ||१४||
सभृत्यदारो राजेन्द्र सुग्रीवो वानराधिपः |
इदमाह वचः प्रीतो लक्ष्मणं नरकुञ्जरम् ||१५||
नास्मि लक्ष्मण दुर्मेधा न कृतघ्नो न निर्घृणः |
श्रूयतां यः प्रयत्नो मे सीतापर्येषणे कृतः ||१६||
दिशः प्रस्थापिताः सर्वे विनीता हरयो मया |
सर्वेषां च कृतः कालो मासेनागमनं पुनः ||१७||
यैरियं सवना साद्रिः सपुरा सागराम्बरा |
विचेतव्या मही वीर सग्रामनगराकरा ||१८||
स मासः पञ्चरात्रेण पूर्णो भवितुमर्हति |
ततः श्रोष्यसि रामेण सहितः सुमहत्प्रियम् ||१९||
इत्युक्तो लक्ष्मणस्तेन वानरेन्द्रेण धीमता |
त्यक्त्वा रोषमदीनात्मा सुग्रीवं प्रत्यपूजयत् ||२०||
स रामं सहसुग्रीवो माल्यवत्पृष्ठमास्थितम् |
अभिगम्योदयं तस्य कार्यस्य प्रत्यवेदयत् ||२१||
इत्येवं वानरेन्द्रास्ते समाजग्मुः सहस्रशः |
दिशस्तिस्रो विचित्याथ न तु ये दक्षिणां गताः ||२२||
आचख्युस्ते तु रामाय महीं सागरमेखलाम् |
विचितां न तु वैदेह्या दर्शनं रावणस्य वा ||२३||
गतास्तु दक्षिणामाशां ये वै वानरपुङ्गवाः |
आशावांस्तेषु काकुत्स्थः प्राणानार्तोऽप्यधारयत् ||२४||
द्विमासोपरमे काले व्यतीते प्लवगास्ततः |
सुग्रीवमभिगम्येदं त्वरिता वाक्यमब्रुवन् ||२५||
रक्षितं वालिना यत्तत्स्फीतं मधुवनं महत् |
त्वया च प्लवगश्रेष्ठ तद्भुङ्क्ते पवनात्मजः ||२६||
वालिपुत्रोऽङ्गदश्चैव ये चान्ये प्लवगर्षभाः |
विचेतुं दक्षिणामाशां राजन्प्रस्थापितास्त्वया ||२७||
तेषां तं प्रणयं श्रुत्वा मेने स कृतकृत्यताम् |
कृतार्थानां हि भृत्यानामेतद्भवति चेष्टितम् ||२८||
स तद्रामाय मेधावी शशंस प्लवगर्षभः |
रामश्चाप्यनुमानेन मेने दृष्टां तु मैथिलीम् ||२९||
हनूमत्प्रमुखाश्चापि विश्रान्तास्ते प्लवङ्गमाः |
अभिजग्मुर्हरीन्द्रं तं रामलक्ष्मणसंनिधौ ||३०||
गतिं च मुखवर्णं च दृष्ट्वा रामो हनूमतः |
अगमत्प्रत्ययं भूयो दृष्टा सीतेति भारत ||३१||
हनूमत्प्रमुखास्ते तु वानराः पूर्णमानसाः |
प्रणेमुर्विधिवद्रामं सुग्रीवं लक्ष्मणं तथा ||३२||
तानुवाचागतान्रामः प्रगृह्य सशरं धनुः |
अपि मां जीवयिष्यध्वमपि वः कृतकृत्यता ||३३||
अपि राज्यमयोध्यायां कारयिष्याम्यहं पुनः |
निहत्य समरे शत्रूनाहृत्य जनकात्मजाम् ||३४||
अमोक्षयित्वा वैदेहीमहत्वा च रिपून्रणे |
हृतदारोऽवधूतश्च नाहं जीवितुमुत्सहे ||३५||
इत्युक्तवचनं रामं प्रत्युवाचानिलात्मजः |
प्रियमाख्यामि ते राम दृष्टा सा जानकी मया ||३६||
विचित्य दक्षिणामाशां सपर्वतवनाकराम् |
श्रान्ताः काले व्यतीते स्म दृष्टवन्तो महागुहाम् ||३७||
प्रविशामो वयं तां तु बहुयोजनमायताम् |
अन्धकारां सुविपिनां गहनां कीटसेविताम् ||३८||
गत्वा सुमहदध्वानमादित्यस्य प्रभां ततः |
दृष्टवन्तः स्म तत्रैव भवनं दिव्यमन्तरा ||३९||
मयस्य किल दैत्यस्य तदासीद्वेश्म राघव |
तत्र प्रभावती नाम तपोऽतप्यत तापसी ||४०||
तया दत्तानि भोज्यानि पानानि विविधानि च |
भुक्त्वा लब्धबलाः सन्तस्तयोक्तेन पथा ततः ||४१||
निर्याय तस्मादुद्देशात्पश्यामो लवणाम्भसः |
समीपे सह्यमलयौ दर्दुरं च महागिरिम् ||४२||
ततो मलयमारुह्य पश्यन्तो वरुणालयम् |
विषण्णा व्यथिताः खिन्ना निराशा जीविते भृशम् ||४३||
अनेकशतविस्तीर्णं योजनानां महोदधिम् |
तिमिनक्रझषावासं चिन्तयन्तः सुदुःखिताः ||४४||
तत्रानशनसङ्कल्पं कृत्वासीना वयं तदा |
ततः कथान्ते गृध्रस्य जटायोरभवत्कथा ||४५||
ततः पर्वतशृङ्गाभं घोररूपं भयावहम् |
पक्षिणं दृष्टवन्तः स्म वैनतेयमिवापरम् ||४६||
सोऽस्मानतर्कयद्भोक्तुमथाभ्येत्य वचोऽब्रवीत् |
भोः क एष मम भ्रातुर्जटायोः कुरुते कथाम् ||४७||
सम्पातिर्नाम तस्याहं ज्येष्ठो भ्राता खगाधिपः |
अन्योन्यस्पर्धयारूढावावामादित्यसंसदम् ||४८||
ततो दग्धाविमौ पक्षौ न दग्धौ तु जटायुषः |
तदा मे चिरदृष्टः स भ्राता गृध्रपतिः प्रियः ||४९||
निर्दग्धपक्षः पतितो ह्यहमस्मिन्महागिरौ ||४९||
तस्यैवं वदतोऽस्माभिर्हतो भ्राता निवेदितः |
व्यसनं भवतश्चेदं सङ्क्षेपाद्वै निवेदितम् ||५०||
स सम्पातिस्तदा राजञ्श्रुत्वा सुमहदप्रियम् |
विषण्णचेताः पप्रच्छ पुनरस्मानरिंदम ||५१||
कः स रामः कथं सीता जटायुश्च कथं हतः |
इच्छामि सर्वमेवैतच्छ्रोतुं प्लवगसत्तमाः ||५२||
तस्याहं सर्वमेवैतं भवतो व्यसनागमम् |
प्रायोपवेशने चैव हेतुं विस्तरतोऽब्रुवम् ||५३||
सोऽस्मानुत्थापयामास वाक्येनानेन पक्षिराट् |
रावणो विदितो मह्यं लङ्का चास्य महापुरी ||५४||
दृष्टा पारे समुद्रस्य त्रिकूटगिरिकन्दरे |
भवित्री तत्र वैदेही न मेऽस्त्यत्र विचारणा ||५५||
इति तस्य वचः श्रुत्वा वयमुत्थाय सत्वराः |
सागरप्लवने मन्त्रं मन्त्रयामः परन्तप ||५६||
नाध्यवस्यद्यदा कश्चित्सागरस्य विलङ्घने |
ततः पितरमाविश्य पुप्लुवेऽहं महार्णवम् ||५७||
शतयोजनविस्तीर्णं निहत्य जलराक्षसीम् ||५७||
तत्र सीता मया दृष्टा रावणान्तःपुरे सती |
उपवासतपःशीला भर्तृदर्शनलालसा ||५८||
जटिला मलदिग्धाङ्गी कृशा दीना तपस्विनी ||५८||
निमित्तैस्तामहं सीतामुपलभ्य पृथग्विधैः |
उपसृत्याब्रुवं चार्यामभिगम्य रहोगताम् ||५९||
सीते रामस्य दूतोऽहं वानरो मारुतात्मजः |
त्वद्दर्शनमभिप्रेप्सुरिह प्राप्तो विहायसा ||६०||
राजपुत्रौ कुशलिनौ भ्रातरौ रामलक्ष्मणौ |
सर्वशाखामृगेन्द्रेण सुग्रीवेणाभिपालितौ ||६१||
कुशलं त्वाब्रवीद्रामः सीते सौमित्रिणा सह |
सखिभावाच्च सुग्रीवः कुशलं त्वानुपृच्छति ||६२||
क्षिप्रमेष्यति ते भर्ता सर्वशाखामृगैः सह |
प्रत्ययं कुरु मे देवि वानरोऽस्मि न राक्षसः ||६३||
मुहूर्तमिव च ध्यात्वा सीता मां प्रत्युवाच ह |
अवैमि त्वां हनूमन्तमविन्ध्यवचनादहम् ||६४||
अविन्ध्यो हि महाबाहो राक्षसो वृद्धसंमतः |
कथितस्तेन सुग्रीवस्त्वद्विधैः सचिवैर्वृतः ||६५||
गम्यतामिति चोक्त्वा मां सीता प्रादादिमं मणिम् |
धारिता येन वैदेही कालमेतमनिन्दिता ||६६||
प्रत्ययार्थं कथां चेमां कथयामास जानकी |
क्षिप्तामिषीकां काकस्य चित्रकूटे महागिरौ ||६७||
भवता पुरुषव्याघ्र प्रत्यभिज्ञानकारणात् ||६७||
श्रावयित्वा तदात्मानं ततो दग्ध्वा च तां पुरीम् |
सम्प्राप्त इति तं रामः प्रियवादिनमर्चयत् ||६८||
२६७
मार्कण्डेय उवाच||
ततस्तत्रैव रामस्य समासीनस्य तैः सह |
समाजग्मुः कपिश्रेष्ठाः सुग्रीववचनात्तदा ||१||
वृतः कोटिसहस्रेण वानराणां तरस्विनाम् |
श्वशुरो वालिनः श्रीमान्सुषेणो राममभ्ययात् ||२||
कोटीशतवृतौ चापि गजो गवय एव च |
वानरेन्द्रौ महावीर्यौ पृथक्पृथगदृश्यताम् ||३||
षष्टिकोटिसहस्राणि प्रकर्षन्प्रत्यदृश्यत |
गोलाङ्गूलो महाराज गवाक्षो भीमदर्शनः ||४||
गन्धमादनवासी तु प्रथितो गन्धमादनः |
कोटीसहस्रमुग्राणां हरीणां समकर्षत ||५||
पनसो नाम मेधावी वानरः सुमहाबलः |
कोटीर्दश द्वादश च त्रिंशत्पञ्च प्रकर्षति ||६||
श्रीमान्दधिमुखो नाम हरिवृद्धोऽपि वीर्यवान् |
प्रचकर्ष महत्सैन्यं हरीणां भीमतेजसाम् ||७||
कृष्णानां मुखपुण्ड्राणामृक्षाणां भीमकर्मणाम् |
कोटीशतसहस्रेण जाम्बवान्प्रत्यदृश्यत ||८||
एते चान्ये च बहवो हरियूथपयूथपाः |
असङ्ख्येया महाराज समीयू रामकारणात् ||९||
शिरीषकुसुमाभानां सिंहानामिव नर्दताम् |
श्रूयते तुमुलः शब्दस्तत्र तत्र प्रधावताम् ||१०||
गिरिकूटनिभाः केचित्केचिन्महिषसंनिभाः |
शरदभ्रप्रतीकाशाः पिष्टहिङ्गुलकाननाः ||११||
उत्पतन्तः पतन्तश्च प्लवमानाश्च वानराः |
उद्धुन्वन्तोऽपरे रेणून्समाजग्मुः समन्ततः ||१२||
स वानरमहालोकः पूर्णसागरसंनिभः |
निवेशमकरोत्तत्र सुग्रीवानुमते तदा ||१३||
ततस्तेषु हरीन्द्रेषु समावृत्तेषु सर्वशः |
तिथौ प्रशस्ते नक्षत्रे मुहूर्ते चाभिपूजिते ||१४||
तेन व्यूढेन सैन्येन लोकानुद्वर्तयन्निव |
प्रययौ राघवः श्रीमान्सुग्रीवसहितस्तदा ||१५||
मुखमासीत्तु सैन्यस्य हनूमान्मारुतात्मजः |
जघनं पालयामास सौमित्रिरकुतोभयः ||१६||
बद्धगोधाङ्गुलित्राणौ राघवौ तत्र रेजतुः |
वृतौ हरिमहामात्रैश्चन्द्रसूर्यौ ग्रहैरिव ||१७||
प्रबभौ हरिसैन्यं तच्छालतालशिलायुधम् |
सुमहच्छालिभवनं यथा सूर्योदयं प्रति ||१८||
नलनीलाङ्गदक्राथमैन्दद्विविदपालिता |
ययौ सुमहती सेना राघवस्यार्थसिद्धये ||१९||
विधिवत्सुप्रशस्तेषु बहुमूलफलेषु च |
प्रभूतमधुमांसेषु वारिमत्सु शिवेषु च ||२०||
निवसन्ती निराबाधा तथैव गिरिसानुषु |
उपायाद्धरिसेना सा क्षारोदमथ सागरम् ||२१||
द्वितीयसागरनिभं तद्बलं बहुलध्वजम् |
वेलावनं समासाद्य निवासमकरोत्तदा ||२२||
ततो दाशरथिः श्रीमान्सुग्रीवं प्रत्यभाषत |
मध्ये वानरमुख्यानां प्राप्तकालमिदं वचः ||२३||
उपायः को नु भवतां मतः सागरलङ्घने |
इयं च महती सेना सागरश्चापि दुस्तरः ||२४||
तत्रान्ये व्याहरन्ति स्म वानराः पटुमानिनः |
समर्था लङ्घने सिन्धोर्न तु कृत्स्नस्य वानराः ||२५||
केचिन्नौभिर्व्यवस्यन्ति केचीच्च विविधैः प्लवैः |
नेति रामश्च तान्सर्वान्सान्त्वयन्प्रत्यभाषत ||२६||
शतयोजनविस्तारं न शक्ताः सर्ववानराः |
क्रान्तुं तोयनिधिं वीरा नैषा वो नैष्ठिकी मतिः ||२७||
नावो न सन्ति सेनाया बह्व्यस्तारयितुं तथा |
वणिजामुपघातं च कथमस्मद्विधश्चरेत् ||२८||
विस्तीर्णं चैव नः सैन्यं हन्याच्छिद्रेषु वै परः |
प्लवोडुपप्रतारश्च नैवात्र मम रोचते ||२९||
अहं त्विमं जलनिधिं समारप्स्याम्युपायतः |
प्रतिशेष्याम्युपवसन्दर्शयिष्यति मां ततः ||३०||
न चेद्दर्शयिता मार्गं धक्ष्याम्येनमहं ततः |
महास्त्रैरप्रतिहतैरत्यग्निपवनोज्ज्वलैः ||३१||
इत्युक्त्वा सहसौमित्रिरुपस्पृश्याथ राघवः |
प्रतिशिश्ये जलनिधिं विधिवत्कुशसंस्तरे ||३२||
सागरस्तु ततः स्वप्ने दर्शयामास राघवम् |
देवो नदनदीभर्ता श्रीमान्यादोगणैर्वृतः ||३३||
कौसल्यामातरित्येवमाभाष्य मधुरं वचः |
इदमित्याह रत्नानामाकरैः शतशो वृतः ||३४||
ब्रूहि किं ते करोम्यत्र साहाय्यं पुरुषर्षभ |
इक्ष्वाकुरस्मि ते ज्ञातिरिति रामस्तमब्रवीत् ||३५||
मार्गमिच्छामि सैन्यस्य दत्तं नदनदीपते |
येन गत्वा दशग्रीवं हन्यां पौलस्त्यपांसनम् ||३६||
यद्येवं याचतो मार्गं न प्रदास्यति मे भवान् |
शरैस्त्वां शोषयिष्यामि दिव्यास्त्रप्रतिमन्त्रितैः ||३७||
इत्येवं ब्रुवतः श्रुत्वा रामस्य वरुणालयः |
उवाच व्यथितो वाक्यमिति बद्धाञ्जलिः स्थितः ||३८||
नेच्छामि प्रतिघातं ते नास्मि विघ्नकरस्तव |
शृणु चेदं वचो राम श्रुत्वा कर्तव्यमाचर ||३९||
यदि दास्यामि ते मार्गं सैन्यस्य व्रजतोऽऽज्ञया |
अन्येऽप्याज्ञापयिष्यन्ति मामेवं धनुषो बलात् ||४०||
अस्ति त्वत्र नलो नाम वानरः शिल्पिसंमतः |
त्वष्टुर्देवस्य तनयो बलवान्विश्वकर्मणः ||४१||
स यत्काष्ठं तृणं वापि शिलां वा क्षेप्स्यते मयि |
सर्वं तद्धारयिष्यामि स ते सेतुर्भविष्यति ||४२||
इत्युक्त्वान्तर्हिते तस्मिन्रामो नलमुवाच ह |
कुरु सेतुं समुद्रे त्वं शक्तो ह्यसि मतो मम ||४३||
तेनोपायेन काकुत्स्थः सेतुबन्धमकारयत् |
दशयोजनविस्तारमायतं शतयोजनम् ||४४||
नलसेतुरिति ख्यातो योऽद्यापि प्रथितो भुवि |
रामस्याज्ञां पुरस्कृत्य धार्यते गिरिसंनिभः ||४५||
तत्रस्थं स तु धर्मात्मा समागच्छद्विभीषणः |
भ्राता वै राक्षसेन्द्रस्य चतुर्भिः सचिवैः सह ||४६||
प्रतिजग्राह रामस्तं स्वागतेन महामनाः |
सुग्रीवस्य तु शङ्काभूत्प्रणिधिः स्यादिति स्म ह ||४७||
राघवस्तस्य चेष्टाभिः सम्यक्च चरितेङ्गितैः |
यदा तत्त्वेन तुष्टोऽभूत्तत एनमपूजयत् ||४८||
सर्वराक्षसराज्ये चाप्यभ्यषिञ्चद्विभीषणम् |
चक्रे च मन्त्रानुचरं सुहृदं लक्ष्मणस्य च ||४९||
विभीषणमते चैव सोऽत्यक्रामन्महार्णवम् |
ससैन्यः सेतुना तेन मासेनैव नराधिप ||५०||
ततो गत्वा समासाद्य लङ्कोद्यानान्यनेकशः |
भेदयामास कपिभिर्महान्ति च बहूनि च ||५१||
तत्रास्तां रावणामात्यौ राक्षसौ शुकसारणौ |
चारौ वानररूपेण तौ जग्राह विभीषणः ||५२||
प्रतिपन्नौ यदा रूपं राक्षसं तौ निशाचरौ |
दर्शयित्वा ततः सैन्यं रामः पश्चादवासृजत् ||५३||
निवेश्योपवने सैन्यं तच्छूरः प्राज्ञवानरम् |
प्रेषयामास दौत्येन रावणस्य ततोऽङ्गदम् ||५४||
२६८
मार्कण्डेय उवाच||
प्रभूतान्नोदके तस्मिन्बहुमूलफले वने |
सेनां निवेश्य काकुत्स्थो विधिवत्पर्यरक्षत ||१||
रावणश्च विधिं चक्रे लङ्कायां शास्त्रनिर्मितम् |
प्रकृत्यैव दुराधर्षा दृढप्राकारतोरणा ||२||
अगाधतोयाः परिखा मीननक्रसमाकुलाः |
बभूवुः सप्त दुर्धर्षाः खादिरैः शङ्कुभिश्चिताः ||३||
कर्णाट्टयन्त्रदुर्धर्षा बभूवुः सहुडोपलाः |
साशीविषघटायोधाः ससर्जरसपांसवः ||४||
मुसलालातनाराचतोमरासिपरश्वधैः |
अन्विताश्च शतघ्नीभिः समधूच्छिष्टमुद्गराः ||५||
पुरद्वारेषु सर्वेषु गुल्माः स्थावरजङ्गमाः |
बभूवुः पत्तिबहुलाः प्रभूतगजवाजिनः ||६||
अङ्गदस्त्वथ लङ्काया द्वारदेशमुपागतः |
विदितो राक्षसेन्द्रस्य प्रविवेश गतव्यथः ||७||
मध्ये राक्षसकोटीनां बह्वीनां सुमहाबलः |
शुशुभे मेघमालाभिरादित्य इव संवृतः ||८||
स समासाद्य पौलस्त्यममात्यैरभिसंवृतम् |
रामसंदेशमामन्त्र्य वाग्मी वक्तुं प्रचक्रमे ||९||
आह त्वां राघवो राजन्कोसलेन्द्रो महायशाः |
प्राप्तकालमिदं वाक्यं तदादत्स्व कुरुष्व च ||१०||
अकृतात्मानमासाद्य राजानमनये रतम् |
विनश्यन्त्यनयाविष्टा देशाश्च नगराणि च ||११||
त्वयैकेनापराद्धं मे सीतामाहरता बलात् |
वधायानपराद्धानामन्येषां तद्भविष्यति ||१२||
ये त्वया बलदर्पाभ्यामाविष्टेन वनेचराः |
ऋषयो हिंसिताः पूर्वं देवाश्चाप्यवमानिताः ||१३||
राजर्षयश्च निहता रुदन्त्यश्चाहृताः स्त्रियः |
तदिदं समनुप्राप्तं फलं तस्यानयस्य ते ||१४||
हन्तास्मि त्वां सहामात्यं युध्यस्व पुरुषो भव |
पश्य मे धनुषो वीर्यं मानुषस्य निशाचर ||१५||
मुच्यतां जानकी सीता न मे मोक्ष्यसि कर्हिचित् |
अराक्षसमिमं लोकं कर्तास्मि निशितैः शरैः ||१६||
इति तस्य ब्रुवाणस्य दूतस्य परुषं वचः |
श्रुत्वा न ममृषे राजा रावणः क्रोधमूर्छितः ||१७||
इङ्गितज्ञास्ततो भर्तुश्चत्वारो रजनीचराः |
चतुर्ष्वङ्गेषु जगृहुः शार्दूलमिव पक्षिणः ||१८||
तांस्तथाङ्गेषु संसक्तानङ्गदो रजनीचरान् |
आदायैव खमुत्पत्य प्रासादतलमाविशत् ||१९||
वेगेनोत्पततस्तस्य पेतुस्ते रजनीचराः |
भुवि सम्भिन्नहृदयाः प्रहारपरिपीडिताः ||२०||
स मुक्तो हर्म्यशिखरात्तस्मात्पुनरवापतत् |
लङ्घयित्वा पुरीं लङ्कां स्वबलस्य समीपतः ||२१||
कोसलेन्द्रमथाभ्येत्य सर्वमावेद्य चाङ्गदः |
विशश्राम स तेजस्वी राघवेणाभिनन्दितः ||२२||
ततः सर्वाभिसारेण हरीणां वातरंहसाम् |
भेदयामास लङ्कायाः प्राकारं रघुनन्दनः ||२३||
विभीषणर्क्षाधिपती पुरस्कृत्याथ लक्ष्मणः |
दक्षिणं नगरद्वारमवामृद्नाद्दुरासदम् ||२४||
करभारुणगात्राणां हरीणां युद्धशालिनाम् |
कोटीशतसहस्रेण लङ्कामभ्यपतत्तदा ||२५||
उत्पतद्भिः पतद्भिश्च निपतद्भिश्च वानरैः |
नादृश्यत तदा सूर्यो रजसा नाशितप्रभः ||२६||
शालिप्रसूनसदृशैः शिरीषकुसुमप्रभैः |
तरुणादित्यसदृशैः शरगौरैश्च वानरैः ||२७||
प्राकारं ददृशुस्ते तु समन्तात्कपिलीकृतम् |
राक्षसा विस्मिता राजन्सस्त्रीवृद्धाः समन्ततः ||२८||
बिभिदुस्ते मणिस्तम्भान्कर्णाट्टशिखराणि च |
भग्नोन्मथितवेगानि यन्त्राणि च विचिक्षिपुः ||२९||
परिगृह्य शतघ्नीश्च सचक्राः सहुडोपलाः |
चिक्षिपुर्भुजवेगेन लङ्कामध्ये महाबलाः ||३०||
प्राकारस्थाश्च ये केचिन्निशाचरगणास्तदा |
प्रदुद्रुवुस्ते शतशः कपिभिः समभिद्रुताः ||३१||
ततस्तु राजवचनाद्राक्षसाः कामरूपिणः |
निर्ययुर्विकृताकाराः सहस्रशतसङ्घशः ||३२||
शस्त्रवर्षाणि वर्षन्तो द्रावयन्तो वनौकसः |
प्राकारं शोधयन्तस्ते परं विक्रममास्थिताः ||३३||
स माषराशिसदृशैर्बभूव क्षणदाचरैः |
कृतो निर्वानरो भूयः प्राकारो भीमदर्शनैः ||३४||
पेतुः शूलविभिन्नाङ्गा बहवो वानरर्षभाः |
स्तम्भतोरणभग्नाश्च पेतुस्तत्र निशाचराः ||३५||
केशाकेश्यभवद्युद्धं रक्षसां वानरैः सह |
नखैर्दन्तैश्च वीराणां खादतां वै परस्परम् ||३६||
निष्टनन्तो ह्युभयतस्तत्र वानरराक्षसाः |
हता निपतिता भूमौ न मुञ्चन्ति परस्परम् ||३७||
रामस्तु शरजालानि ववर्ष जलदो यथा |
तानि लङ्कां समासाद्य जघ्नुस्तान्रजनीचरान् ||३८||
सौमित्रिरपि नाराचैर्दृढधन्वा जितक्लमः |
आदिश्यादिश्य दुर्गस्थान्पातयामास राक्षसान् ||३९||
ततः प्रत्यवहारोऽभूत्सैन्यानां राघवाज्ञया |
कृते विमर्दे लङ्कायां लब्धलक्षो जयोत्तरः ||४०||
२६९
मार्कण्डेय उवाच||
ततो निविशमानांस्तान्सैनिकान्रावणानुगाः |
अभिजग्मुर्गणानेके पिशाचक्षुद्ररक्षसाम् ||१||
पर्वणः पूतनो जम्भः खरः क्रोधवशो हरिः |
प्ररुजश्चारुजश्चैव प्रघसश्चैवमादयः ||२||
ततोऽभिपततां तेषामदृश्यानां दुरात्मनाम् |
अन्तर्धानवधं तज्ज्ञश्चकार स विभीषणः ||३||
ते दृश्यमाना हरिभिर्बलिभिर्दूरपातिभिः |
निहताः सर्वशो राजन्महीं जग्मुर्गतासवः ||४||
अमृष्यमाणः सबलो रावणो निर्ययावथ |
व्यूह्य चौशनसं व्यूहं हरीन्सर्वानहारयत् ||५||
राघवस्त्वभिनिर्याय व्यूढानीकं दशाननम् |
बार्हस्पत्यं विधिं कृत्वा प्रत्यव्यूहन्निशाचरम् ||६||
समेत्य युयुधे तत्र ततो रामेण रावणः |
युयुधे लक्ष्मणश्चैव तथैवेन्द्रजिता सह ||७||
विरूपाक्षेण सुग्रीवस्तारेण च निखर्वटः |
तुण्डेन च नलस्तत्र पटुशः पनसेन च ||८||
विषह्यं यं हि यो मेने स स तेन समेयिवान् |
युयुधे युद्धवेलायां स्वबाहुबलमाश्रितः ||९||
स सम्प्रहारो ववृधे भीरूणां भयवर्धनः |
लोमसंहर्षणो घोरः पुरा देवासुरे यथा ||१०||
रावणो राममानर्छच्छक्तिशूलासिवृष्टिभिः |
निशितैरायसैस्तीक्ष्णै रावणं चापि राघवः ||११||
तथैवेन्द्रजितं यत्तं लक्ष्मणो मर्मभेदिभिः |
इन्द्रजिच्चापि सौमित्रिं बिभेद बहुभिः शरैः ||१२||
विभीषणः प्रहस्तं च प्रहस्तश्च विभीषणम् |
खगपत्रैः शरैस्तीक्ष्णैरभ्यवर्षद्गतव्यथः ||१३||
तेषां बलवतामासीन्महास्त्राणां समागमः |
विव्यथुः सकला येन त्रयो लोकाश्चराचराः ||१४||
२७०
मार्कण्डेय उवाच||
ततः प्रहस्तः सहसा समभ्येत्य विभीषणम् |
गदया ताडयामास विनद्य रणकर्कशः ||१||
स तयाभिहतो धीमान्गदया भीमवेगया |
नाकम्पत महाबाहुर्हिमवानिव सुस्थिरः ||२||
ततः प्रगृह्य विपुलां शतघण्टां विभीषणः |
अभिमन्त्र्य महाशक्तिं चिक्षेपास्य शिरः प्रति ||३||
पतन्त्या स तया वेगाद्राक्षसोऽशनिनादया |
हृतोत्तमाङ्गो ददृशे वातरुग्ण इव द्रुमः ||४||
तं दृष्ट्वा निहतं सङ्ख्ये प्रहस्तं क्षणदाचरम् |
अभिदुद्राव धूम्राक्षो वेगेन महता कपीन् ||५||
तस्य मेघोपमं सैन्यमापतद्भीमदर्शनम् |
दृष्ट्वैव सहसा दीर्णा रणे वानरपुङ्गवाः ||६||
ततस्तान्सहसा दीर्णान्दृष्ट्वा वानरपुङ्गवान् |
निर्याय कपिशार्दूलो हनूमान्पर्यवस्थितः ||७||
तं दृष्ट्वावस्थितं सङ्ख्ये हरयः पवनात्मजम् |
वेगेन महता राजन्संन्यवर्तन्त सर्वशः ||८||
ततः शब्दो महानासीत्तुमुलो लोमहर्षणः |
रामरावणसैन्यानामन्योन्यमभिधावताम् ||९||
तस्मिन्प्रवृत्ते सङ्ग्रामे घोरे रुधिरकर्दमे |
धूम्राक्षः कपिसैन्यं तद्द्रावयामास पत्रिभिः ||१०||
तं राक्षसमहामात्रमापतन्तं सपत्नजित् |
तरसा प्रतिजग्राह हनूमान्पवनात्मजः ||११||
तयोर्युद्धमभूद्घोरं हरिराक्षसवीरयोः |
जिगीषतोर्युधान्योन्यमिन्द्रप्रह्लादयोरिव ||१२||
गदाभिः परिघैश्चैव राक्षसो जघ्निवान्कपिम् |
कपिश्च जघ्निवान्रक्षः सस्कन्धविटपैर्द्रुमैः ||१३||
ततस्तमतिकायेन साश्वं सरथसारथिम् |
धूम्राक्षमवधीद्धीमान्हनूमान्मारुतात्मजः ||१४||
ततस्तं निहतं दृष्ट्वा धूम्राक्षं राक्षसोत्तमम् |
हरयो जातविस्रम्भा जघ्नुरभ्येत्य सैनिकान् ||१५||
ते वध्यमाना बलिभिर्हरिभिर्जितकाशिभिः |
राक्षसा भग्नसङ्कल्पा लङ्कामभ्यपतन्भयात् ||१६||
तेऽभिपत्य पुरं भग्ना हतशेषा निशाचराः |
सर्वं राज्ञे यथावृत्तं रावणाय न्यवेदयन् ||१७||
श्रुत्वा तु रावणस्तेभ्यः प्रहस्तं निहतं युधि |
धूम्राक्षं च महेष्वासं ससैन्यं वानरर्षभैः ||१८||
सुदीर्घमिव निःश्वस्य समुत्पत्य वरासनात् |
उवाच कुम्भकर्णस्य कर्मकालोऽयमागतः ||१९||
इत्येवमुक्त्वा विविधैर्वादित्रैः सुमहास्वनैः |
शयानमतिनिद्रालुं कुम्भकर्णमबोधयत् ||२०||
प्रबोध्य महता चैनं यत्नेनागतसाध्वसः |
स्वस्थमासीनमव्यग्रं विनिद्रं राक्षसाधिपः ||२१||
ततोऽब्रवीद्दशग्रीवः कुम्भकर्णं महाबलम् ||२१||
धन्योऽसि यस्य ते निद्रा कुम्भकर्णेयमीदृशी |
य इमं दारुणं कालं न जानीषे महाभयम् ||२२||
एष तीर्त्वार्णवं रामः सेतुना हरिभिः सह |
अवमन्येह नः सर्वान्करोति कदनं महत् ||२३||
मया ह्यपहृता भार्या सीता नामास्य जानकी |
तां मोक्षयिषुरायातो बद्ध्वा सेतुं महार्णवे ||२४||
तेन चैव प्रहस्तादिर्महान्नः स्वजनो हतः |
तस्य नान्यो निहन्तास्ति त्वदृते शत्रुकर्शन ||२५||
स दंशितोऽभिनिर्याय त्वमद्य बलिनां वर |
रामादीन्समरे सर्वाञ्जहि शत्रूनरिंदम ||२६||
दूषणावरजौ चैव वज्रवेगप्रमाथिनौ |
तौ त्वां बलेन महता सहितावनुयास्यतः ||२७||
इत्युक्त्वा राक्षसपतिः कुम्भकर्णं तरस्विनम् |
संदिदेशेतिकर्तव्ये वज्रवेगप्रमाथिनौ ||२८||
तथेत्युक्त्वा तु तौ वीरौ रावणं दूषणानुजौ |
कुम्भकर्णं पुरस्कृत्य तूर्णं निर्ययतुः पुरात् ||२९||
२७१
मार्कण्डेय उवाच||
ततो विनिर्याय पुरात्कुम्भकर्णः सहानुगः |
अपश्यत्कपिसैन्यं तज्जितकाश्यग्रतः स्थितम् ||१||
तमभ्येत्याशु हरयः परिवार्य समन्ततः |
अभ्यघ्नंश्च महाकायैर्बहुभिर्जगतीरुहैः ||२||
करजैरतुदंश्चान्ये विहाय भयमुत्तमम् ||२||
बहुधा युध्यमानास्ते युद्धमार्गैः प्लवङ्गमाः |
नानाप्रहरणैर्भीमं राक्षसेन्द्रमताडयन् ||३||
स ताड्यमानः प्रहसन्भक्षयामास वानरान् |
पनसं च गवाक्षं च वज्रबाहुं च वानरम् ||४||
तद्दृष्ट्वा व्यथनं कर्म कुम्भकर्णस्य रक्षसः |
उदक्रोशन्परित्रस्तास्तारप्रभृतयस्तदा ||५||
तं तारमुच्चैः क्रोशन्तमन्यांश्च हरियूथपान् |
अभिदुद्राव सुग्रीवः कुम्भकर्णमपेतभीः ||६||
ततोऽभिपत्य वेगेन कुम्भकर्णं महामनाः |
शालेन जघ्निवान्मूर्ध्नि बलेन कपिकुञ्जरः ||७||
स महात्मा महावेगः कुम्भकर्णस्य मूर्धनि |
बिभेद शालं सुग्रीवो न चैवाव्यथयत्कपिः ||८||
ततो विनद्य प्रहसञ्शालस्पर्शविबोधितः |
दोर्भ्यामादाय सुग्रीवं कुम्भकर्णोऽहरद्बलात् ||९||
ह्रियमाणं तु सुग्रीवं कुम्भकर्णेन रक्षसा |
अवेक्ष्याभ्यद्रवद्वीरः सौमित्रिर्मित्रनन्दनः ||१०||
सोऽभिपत्य महावेगं रुक्मपुङ्खं महाशरम् |
प्राहिणोत्कुम्भकर्णाय लक्ष्मणः परवीरहा ||११||
स तस्य देहावरणं भित्त्वा देहं च सायकः |
जगाम दारयन्भूमिं रुधिरेण समुक्षितः ||१२||
तथा स भिन्नहृदयः समुत्सृज्य कपीश्वरम् |
कुम्भकर्णो महेष्वासः प्रगृहीतशिलायुधः ||१३||
अभिदुद्राव सौमित्रिमुद्यम्य महतीं शिलाम् ||१३||
तस्याभिद्रवतस्तूर्णं क्षुराभ्यामुच्छ्रितौ करौ |
चिच्छेद निशिताग्राभ्यां स बभूव चतुर्भुजः ||१४||
तानप्यस्य भुजान्सर्वान्प्रगृहीतशिलायुधान् |
क्षुरैश्चिच्छेद लघ्वस्त्रं सौमित्रिः प्रतिदर्शयन् ||१५||
स बभूवातिकायश्च बहुपादशिरोभुजः |
तं ब्रह्मास्त्रेण सौमित्रिर्ददाहाद्रिचयोपमम् ||१६||
स पपात महावीर्यो दिव्यास्त्राभिहतो रणे |
महाशनिविनिर्दग्धः पादपोऽङ्कुरवानिव ||१७||
तं दृष्ट्वा वृत्रसङ्काशं कुम्भकर्णं तरस्विनम् |
गतासुं पतितं भूमौ राक्षसाः प्राद्रवन्भयात् ||१८||
तथा तान्द्रवतो योधान्दृष्ट्वा तौ दूषणानुजौ |
अवस्थाप्याथ सौमित्रिं सङ्क्रुद्धावभ्यधावताम् ||१९||
तावाद्रवन्तौ सङ्क्रुद्धौ वज्रवेगप्रमाथिनौ |
प्रतिजग्राह सौमित्रिर्विनद्योभौ पतत्रिभिः ||२०||
ततः सुतुमुलं युद्धमभवल्लोमहर्षणम् |
दूषणानुजयोः पार्थ लक्ष्मणस्य च धीमतः ||२१||
महता शरवर्षेण राक्षसौ सोऽभ्यवर्षत |
तौ चापि वीरौ सङ्क्रुद्धावुभौ तौ समवर्षताम् ||२२||
मुहूर्तमेवमभवद्वज्रवेगप्रमाथिनोः |
सौमित्रेश्च महाबाहोः सम्प्रहारः सुदारुणः ||२३||
अथाद्रिशृङ्गमादाय हनूमान्मारुतात्मजः |
अभिद्रुत्याददे प्राणान्वज्रवेगस्य रक्षसः ||२४||
नीलश्च महता ग्राव्णा दूषणावरजं हरिः |
प्रमाथिनमभिद्रुत्य प्रममाथ महाबलः ||२५||
ततः प्रावर्तत पुनः सङ्ग्रामः कटुकोदयः |
रामरावणसैन्यानामन्योन्यमभिधावताम् ||२६||
शतशो नैरृतान्वन्या जघ्नुर्वन्यांश्च नैरृताः |
नैरृतास्तत्र वध्यन्ते प्रायशो न तु वानराः ||२७||
२७२
मार्कण्डेय उवाच||
ततः श्रुत्वा हतं सङ्ख्ये कुम्भकर्णं सहानुगम् |
प्रहस्तं च महेष्वासं धूम्राक्षं चातितेजसम् ||१||
पुत्रमिन्द्रजितं शूरं रावणः प्रत्यभाषत |
जहि रामममित्रघ्न सुग्रीवं च सलक्ष्मणम् ||२||
त्वया हि मम सत्पुत्र यशो दीप्तमुपार्जितम् |
जित्वा वज्रधरं सङ्ख्ये सहस्राक्षं शचीपतिम् ||३||
अन्तर्हितः प्रकाशो वा दिव्यैर्दत्तवरैः शरैः |
जहि शत्रूनमित्रघ्न मम शस्त्रभृतां वर ||४||
रामलक्ष्मणसुग्रीवाः शरस्पर्शं न तेऽनघ |
समर्थाः प्रतिसंसोढुं कुतस्तदनुयायिनः ||५||
अकृता या प्रहस्तेन कुम्भकर्णेन चानघ |
खरस्यापचितिः सङ्ख्ये तां गच्छस्व महाभुज ||६||
त्वमद्य निशितैर्बाणैर्हत्वा शत्रून्ससैनिकान् |
प्रतिनन्दय मां पुत्र पुरा बद्ध्वेव वासवम् ||७||
इत्युक्तः स तथेत्युक्त्वा रथमास्थाय दंशितः |
प्रययाविन्द्रजिद्राजंस्तूर्णमायोधनं प्रति ||८||
तत्र विश्राव्य विस्पष्टं नाम राक्षसपुङ्गवः |
आह्वयामास समरे लक्ष्मणं शुभलक्षणम् ||९||
तं लक्ष्मणोऽप्यभ्यधावत्प्रगृह्य सशरं धनुः |
त्रासयंस्तलघोषेण सिंहः क्षुद्रमृगं यथा ||१०||
तयोः समभवद्युद्धं सुमहज्जयगृद्धिनोः |
दिव्यास्त्रविदुषोस्तीव्रमन्योन्यस्पर्धिनोस्तदा ||११||
रावणिस्तु यदा नैनं विशेषयति सायकैः |
ततो गुरुतरं यत्नमातिष्ठद्बलिनां वरः ||१२||
तत एनं महावेगैरर्दयामास तोमरैः |
तानागतान्स चिच्छेद सौमित्रिर्निशितैः शरैः ||१३||
ते निकृत्ताः शरैस्तीक्ष्णैर्न्यपतन्वसुधातले ||१३||
तमङ्गदो वालिसुतः श्रीमानुद्यम्य पादपम् |
अभिद्रुत्य महावेगस्ताडयामास मूर्धनि ||१४||
तस्येन्द्रजिदसम्भ्रान्तः प्रासेनोरसि वीर्यवान् |
प्रहर्तुमैच्छत्तं चास्य प्रासं चिच्छेद लक्ष्मणः ||१५||
तमभ्याशगतं वीरमङ्गदं रावणात्मजः |
गदयाताडयत्सव्ये पार्श्वे वानरपुङ्गवम् ||१६||
तमचिन्त्य प्रहारं स बलवान्वालिनः सुतः |
ससर्जेन्द्रजितः क्रोधाच्छालस्कन्धममित्रजित् ||१७||
सोऽङ्गदेन रुषोत्सृष्टो वधायेन्द्रजितस्तरुः |
जघानेन्द्रजितः पार्थ रथं साश्वं ससारथिम् ||१८||
ततो हताश्वात्प्रस्कन्द्य रथात्स हतसारथिः |
तत्रैवान्तर्दधे राजन्मायया रावणात्मजः ||१९||
अन्तर्हितं विदित्वा तं बहुमायं च राक्षसम् |
रामस्तं देशमागम्य तत्सैन्यं पर्यरक्षत ||२०||
स राममुद्दिश्य शरैस्ततो दत्तवरैस्तदा |
विव्याध सर्वगात्रेषु लक्ष्मणं च महारथम् ||२१||
तमदृश्यं शरैः शूरौ माययान्तर्हितं तदा |
योधयामासतुरुभौ रावणिं रामलक्ष्मणौ ||२२||
स रुषा सर्वगात्रेषु तयोः पुरुषसिंहयोः |
व्यसृजत्सायकान्भूयः शतशोऽथ सहस्रशः ||२३||
तमदृश्यं विचिन्वन्तः सृजन्तमनिशं शरान् |
हरयो विविशुर्व्योम प्रगृह्य महतीः शिलाः ||२४||
तांश्च तौ चाप्यदृश्यः स शरैर्विव्याध राक्षसः |
स भृशं ताडयन्वीरो रावणिर्माययावृतः ||२५||
तौ शरैराचितौ वीरौ भ्रातरौ रामलक्ष्मणौ |
पेततुर्गगनाद्भूमिं सूर्याचन्द्रमसाविव ||२६||
२७३
मार्कण्डेय उवाच||
तावुभौ पतितौ दृष्ट्वा भ्रातरावमितौजसौ |
बबन्ध रावणिर्भूयः शरैर्दत्तवरैस्तदा ||१||
तौ वीरौ शरजालेन बद्धाविन्द्रजिता रणे |
रेजतुः पुरुषव्याघ्रौ शकुन्ताविव पञ्जरे ||२||
तौ दृष्ट्वा पतितौ भूमौ शतशः सायकैश्चितौ |
सुग्रीवः कपिभिः सार्धं परिवार्य ततः स्थितः ||३||
सुषेणमैन्दद्विविदैः कुमुदेनाङ्गदेन च |
हनूमन्नीलतारैश्च नलेन च कपीश्वरः ||४||
ततस्तं देशमागम्य कृतकर्मा विभीषणः |
बोधयामास तौ वीरौ प्रज्ञास्त्रेण प्रबोधितौ ||५||
विशल्यौ चापि सुग्रीवः क्षणेनोभौ चकार तौ |
विशल्यया महौषध्या दिव्यमन्त्रप्रयुक्तया ||६||
तौ लब्धसञ्ज्ञौ नृवरौ विशल्यावुदतिष्ठताम् |
गततन्द्रीक्लमौ चास्तां क्षणेनोभौ महारथौ ||७||
ततो विभीषणः पार्थ राममिक्ष्वाकुनन्दनम् |
उवाच विज्वरं दृष्ट्वा कृताञ्जलिरिदं वचः ||८||
अयमम्भो गृहीत्वा तु राजराजस्य शासनात् |
गुह्यकोऽभ्यागतः श्वेतात्त्वत्सकाशमरिंदम ||९||
इदमम्भः कुबेरस्ते महाराजः प्रयच्छति |
अन्तर्हितानां भूतानां दर्शनार्थं परन्तप ||१०||
अनेन स्पृष्टनयनो भूतान्यन्तर्हितान्युत |
भवान्द्रक्ष्यति यस्मै च भवानेतत्प्रदास्यति ||११||
तथेति रामस्तद्वारि प्रतिगृह्याथ सत्कृतम् |
चकार नेत्रयोः शौचं लक्ष्मणश्च महामनाः ||१२||
सुग्रीवजाम्बवन्तौ च हनूमानङ्गदस्तथा |
मैन्दद्विविदनीलाश्च प्रायः प्लवगसत्तमाः ||१३||
तथा समभवच्चापि यदुवाच विभीषणः |
क्षणेनातीन्द्रियाण्येषां चक्षूंष्यासन्युधिष्ठिर ||१४||
इन्द्रजित्कृतकर्मा तु पित्रे कर्म तदात्मनः |
निवेद्य पुनरागच्छत्त्वरयाजिशिरः प्रति ||१५||
तमापतन्तं सङ्क्रुद्धं पुनरेव युयुत्सया |
अभिदुद्राव सौमित्रिर्विभीषणमते स्थितः ||१६||
अकृताह्निकमेवैनं जिघांसुर्जितकाशिनम् |
शरैर्जघान सङ्क्रुद्धः कृतसञ्ज्ञोऽथ लक्ष्मणः ||१७||
तयोः समभवद्युद्धं तदान्योन्यं जिगीषतोः |
अतीव चित्रमाश्चर्यं शक्रप्रह्लादयोरिव ||१८||
अविध्यदिन्द्रजित्तीक्ष्णैः सौमित्रिं मर्मभेदिभिः |
सौमित्रिश्चानलस्पर्शैरविध्यद्रावणिं शरैः ||१९||
सौमित्रिशरसंस्पर्शाद्रावणिः क्रोधमूर्छितः |
असृजल्लक्ष्मणायाष्टौ शरानाशीविषोपमान् ||२०||
तस्यासून्पावकस्पर्शैः सौमित्रिः पत्रिभिस्त्रिभिः |
यथा निरहरद्वीरस्तन्मे निगदतः शृणु ||२१||
एकेनास्य धनुष्मन्तं बाहुं देहादपातयत् |
द्वितीयेन सनाराचं भुजं भूमौ न्यपातयत् ||२२||
तृतीयेन तु बाणेन पृथुधारेण भास्वता |
जहार सुनसं चारु शिरो भ्राजिष्णुकुण्डलम् ||२३||
विनिकृत्तभुजस्कन्धं कबन्धं भीमदर्शनम् |
तं हत्वा सूतमप्यस्त्रैर्जघान बलिनां वरः ||२४||
लङ्कां प्रवेशयामासुर्वाजिनस्तं रथं तदा |
ददर्श रावणस्तं च रथं पुत्रविनाकृतम् ||२५||
स पुत्रं निहतं दृष्ट्वा त्रासात्सम्भ्रान्तलोचनः |
रावणः शोकमोहार्तो वैदेहीं हन्तुमुद्यतः ||२६||
अशोकवनिकास्थां तां रामदर्शनलालसाम् |
खड्गमादाय दुष्टात्मा जवेनाभिपपात ह ||२७||
तं दृष्ट्वा तस्य दुर्बुद्धेरविन्ध्यः पापनिश्चयम् |
शमयामास सङ्क्रुद्धं श्रूयतां येन हेतुना ||२८||
महाराज्ये स्थितो दीप्ते न स्त्रियं हन्तुमर्हसि |
हतैवैषा यदा स्त्री च बन्धनस्था च ते गृहे ||२९||
न चैषा देहभेदेन हता स्यादिति मे मतिः |
जहि भर्तारमेवास्या हते तस्मिन्हता भवेत् ||३०||
न हि ते विक्रमे तुल्यः साक्षादपि शतक्रतुः |
असकृद्धि त्वया सेन्द्रास्त्रासितास्त्रिदशा युधि ||३१||
एवं बहुविधैर्वाक्यैरविन्ध्यो रावणं तदा |
क्रुद्धं संशमयामास जगृहे च स तद्वचः ||३२||
निर्याणे स मतिं कृत्वा निधायासिं क्षपाचरः |
आज्ञापयामास तदा रथो मे कल्प्यतामिति ||३३||
२७४
मार्कण्डेय उवाच||
ततः क्रुद्धो दशग्रीवः प्रिये पुत्रे निपातिते |
निर्ययौ रथमास्थाय हेमरत्नविभूषितम् ||१||
संवृतो राक्षसैर्घोरैर्विविधायुधपाणिभिः |
अभिदुद्राव रामं स पोथयन्हरियूथपान् ||२||
तमाद्रवन्तं सङ्क्रुद्धं मैन्दनीलनलाङ्गदाः |
हनूमाञ्जाम्बवांश्चैव ससैन्याः पर्यवारयन् ||३||
ते दशग्रीवसैन्यं तदृक्षवानरयूथपाः |
द्रुमैर्विध्वंसयां चक्रुर्दशग्रीवस्य पश्यतः ||४||
ततः स्वसैन्यमालोक्य वध्यमानमरातिभिः |
मायावी व्यदधान्मायां रावणो राक्षसेश्वरः ||५||
तस्य देहाद्विनिष्क्रान्ताः शतशोऽथ सहस्रशः |
राक्षसाः प्रत्यदृश्यन्त शरशक्त्यृष्टिपाणयः ||६||
तान्रामो जघ्निवान्सर्वान्दिव्येनास्त्रेण राक्षसान् |
अथ भूयोऽपि मायां स व्यदधाद्राक्षसाधिपः ||७||
कृत्वा रामस्य रूपाणि लक्ष्मणस्य च भारत |
अभिदुद्राव रामं च लक्ष्मणं च दशाननः ||८||
ततस्ते राममर्छन्तो लक्ष्मणं च क्षपाचराः |
अभिपेतुस्तदा राजन्प्रगृहीतोच्चकार्मुकाः ||९||
तां दृष्ट्वा राक्षसेन्द्रस्य मायामिक्ष्वाकुनन्दनः |
उवाच रामं सौमित्रिरसम्भ्रान्तो बृहद्वचः ||१०||
जहीमान्राक्षसान्पापानात्मनः प्रतिरूपकान् |
जघान रामस्तांश्चान्यानात्मनः प्रतिरूपकान् ||११||
ततो हर्यश्वयुक्तेन रथेनादित्यवर्चसा |
उपतस्थे रणे रामं मातलिः शक्रसारथिः ||१२||
मातलिरुवाच||
अयं हर्यश्वयुग्जैत्रो मघोनः स्यन्दनोत्तमः |
अनेन शक्रः काकुत्स्थ समरे दैत्यदानवान् ||१३||
शतशः पुरुषव्याघ्र रथोदारेण जघ्निवान् ||१३||
तदनेन नरव्याघ्र मया यत्तेन संयुगे |
स्यन्दनेन जहि क्षिप्रं रावणं मा चिरं कृथाः ||१४||
इत्युक्तो राघवस्तथ्यं वचोऽशङ्कत मातलेः |
मायेयं राक्षसस्येति तमुवाच विभीषणः ||१५||
नेयं माया नरव्याघ्र रावणस्य दुरात्मनः |
तदातिष्ठ रथं शीघ्रमिममैन्द्रं महाद्युते ||१६||
ततः प्रहृष्टः काकुत्स्थस्तथेत्युक्त्वा विभीषणम् |
रथेनाभिपपाताशु दशग्रीवं रुषान्वितः ||१७||
हाहाकृतानि भूतानि रावणे समभिद्रुते |
सिंहनादाः सपटहा दिवि दिव्याश्च नानदन् ||१८||
स रामाय महाघोरं विससर्ज निशाचरः |
शूलमिन्द्राशनिप्रख्यं ब्रह्मदण्डमिवोद्यतम् ||१९||
तच्छूलमन्तरा रामश्चिच्छेद निशितैः शरैः |
तद्दृष्ट्वा दुष्करं कर्म रावणं भयमाविशत् ||२०||
ततः क्रुद्धः ससर्जाशु दशग्रीवः शिताञ्शरान् |
सहस्रायुतशो रामे शस्त्राणि विविधानि च ||२१||
ततो भुशुण्डीः शूलांश्च मुसलानि परश्वधान् |
शक्तीश्च विविधाकाराः शतघ्नीश्च शितक्षुराः ||२२||
तां मायां विकृतां दृष्ट्वा दशग्रीवस्य रक्षसः |
भयात्प्रदुद्रुवुः सर्वे वानराः सर्वतोदिशम् ||२३||
ततः सुपत्रं सुमुखं हेमपुङ्खं शरोत्तमम् |
तूणादादाय काकुत्स्थो ब्रह्मास्त्रेण युयोज ह ||२४||
तं बाणवर्यं रामेण ब्रह्मास्त्रेणाभिमन्त्रितम् |
जहृषुर्देवगन्धर्वा दृष्ट्वा शक्रपुरोगमाः ||२५||
अल्पावशेषमायुश्च ततोऽमन्यन्त रक्षसः |
ब्रह्मास्त्रोदीरणाच्छत्रोर्देवगन्धर्वकिंनराः ||२६||
ततः ससर्ज तं रामः शरमप्रतिमौजसम् |
रावणान्तकरं घोरं ब्रह्मदण्डमिवोद्यतम् ||२७||
स तेन राक्षसश्रेष्ठः सरथः साश्वसारथिः |
प्रजज्वाल महाज्वालेनाग्निनाभिपरिष्कृतः ||२८||
ततः प्रहृष्टास्त्रिदशाः सगन्धर्वाः सचारणाः |
निहतं रावणं दृष्ट्वा रामेणाक्लिष्टकर्मणा ||२९||
तत्यजुस्तं महाभागं पञ्च भूतानि रावणम् |
भ्रंशितः सर्वलोकेषु स हि ब्रह्मास्त्रतेजसा ||३०||
शरीरधातवो ह्यस्य मांसं रुधिरमेव च |
नेशुर्ब्रह्मास्त्रनिर्दग्धा न च भस्माप्यदृश्यत ||३१||
२७५
मार्कण्डेय उवाच||
स हत्वा रावणं क्षुद्रं राक्षसेन्द्रं सुरद्विषम् |
बभूव हृष्टः ससुहृद्रामः सौमित्रिणा सह ||१||
ततो हते दशग्रीवे देवाः सर्षिपुरोगमाः |
आशीर्भिर्जययुक्ताभिरानर्चुस्तं महाभुजम् ||२||
रामं कमलपत्राक्षं तुष्टुवुः सर्वदेवताः |
गन्धर्वाः पुष्पवर्षैश्च वाग्भिश्च त्रिदशालयाः ||३||
पूजयित्वा यथा रामं प्रतिजग्मुर्यथागतम् |
तन्महोत्सवसङ्काशमासीदाकाशमच्युत ||४||
ततो हत्वा दशग्रीवं लङ्कां रामो महायशाः |
विभीषणाय प्रददौ प्रभुः परपुरञ्जयः ||५||
ततः सीतां पुरस्कृत्य विभीषणपुरस्कृताम् |
अविन्ध्यो नाम सुप्रज्ञो वृद्धामात्यो विनिर्ययौ ||६||
उवाच च महात्मानं काकुत्स्थं दैन्यमास्थितम् |
प्रतीच्छ देवीं सद्वृत्तां महात्मञ्जानकीमिति ||७||
एतच्छ्रुत्वा वचस्तस्मादवतीर्य रथोत्तमात् |
बाष्पेणापिहितां सीतां ददर्शेक्ष्वाकुनन्दनः ||८||
तां दृष्ट्वा चारुसर्वाङ्गीं यानस्थां शोककर्शिताम् |
मलोपचितसर्वाङ्गीं जटिलां कृष्णवाससम् ||९||
उवाच रामो वैदेहीं परामर्शविशङ्कितः |
गच्छ वैदेहि मुक्ता त्वं यत्कार्यं तन्मया कृतम् ||१०||
मामासाद्य पतिं भद्रे न त्वं राक्षसवेश्मनि |
जरां व्रजेथा इति मे निहतोऽसौ निशाचरः ||११||
कथं ह्यस्मद्विधो जातु जानन्धर्मविनिश्चयम् |
परहस्तगतां नारीं मुहूर्तमपि धारयेत् ||१२||
सुवृत्तामसुवृत्तां वाप्यहं त्वामद्य मैथिलि |
नोत्सहे परिभोगाय श्वावलीढं हविर्यथा ||१३||
ततः सा सहसा बाला तच्छ्रुत्वा दारुणं वचः |
पपात देवी व्यथिता निकृत्ता कदली यथा ||१४||
यो ह्यस्या हर्षसम्भूतो मुखरागस्तदाभवत् |
क्षणेन स पुनर्भ्रष्टो निःश्वासादिव दर्पणे ||१५||
ततस्ते हरयः सर्वे तच्छ्रुत्वा रामभाषितम् |
गतासुकल्पा निश्चेष्टा बभूवुः सहलक्ष्मणाः ||१६||
ततो देवो विशुद्धात्मा विमानेन चतुर्मुखः |
पितामहो जगत्स्रष्टा दर्शयामास राघवम् ||१७||
शक्रश्चाग्निश्च वायुश्च यमो वरुण एव च |
यक्षाधिपश्च भगवांस्तथा सप्तर्षयोऽमलाः ||१८||
राजा दशरथश्चैव दिव्यभास्वरमूर्तिमान् |
विमानेन महार्हेण हंसयुक्तेन भास्वता ||१९||
ततोऽन्तरिक्षं तत्सर्वं देवगन्धर्वसङ्कुलम् |
शुशुभे तारकाचित्रं शरदीव नभस्तलम् ||२०||
तत उत्थाय वैदेहि तेषां मध्ये यशस्विनी |
उवाच वाक्यं कल्याणी रामं पृथुलवक्षसम् ||२१||
राजपुत्र न ते कोपं करोमि विदिता हि मे |
गतिः स्त्रीणां नराणां च शृणु चेदं वचो मम ||२२||
अन्तश्चरति भूतानां मातरिश्वा सदागतिः |
स मे विमुञ्चतु प्राणान्यदि पापं चराम्यहम् ||२३||
अग्निरापस्तथाकाशं पृथिवी वायुरेव च |
विमुञ्चन्तु मम प्राणान्यदि पापं चराम्यहम् ||२४||
ततोऽन्तरिक्षे वागासीत्सर्वा विश्रावयन्दिशः |
पुण्या संहर्षणी तेषां वानराणां महात्मनाम् ||२५||
वायुरुवाच||
भो भो राघव सत्यं वै वायुरस्मि सदागतिः |
अपापा मैथिली राजन्सङ्गच्छ सह भार्यया ||२६||
अग्निरुवाच||
अहमन्तःशरीरस्थो भूतानां रघुनन्दन |
सुसूक्ष्ममपि काकुत्स्थ मैथिली नापराध्यति ||२७||
वरुण उवाच||
रसा वै मत्प्रसूता हि भूतदेहेषु राघव |
अहं वै त्वां प्रब्रवीमि मैथिली प्रतिगृह्यताम् ||२८||
ब्रह्मोवाच||
पुत्र नैतदिहाश्चर्यं त्वयि राजर्षिधर्मिणि |
साधो सद्वृत्तमार्गस्थे शृणु चेदं वचो मम ||२९||
शत्रुरेष त्वया वीर देवगन्धर्वभोगिनाम् |
यक्षाणां दानवानां च महर्षीणां च पातितः ||३०||
अवध्यः सर्वभूतानां मत्प्रसादात्पुराभवत् |
कस्माच्चित्कारणात्पापः कञ्चित्कालमुपेक्षितः ||३१||
वधार्थमात्मनस्तेन हृता सीता दुरात्मना |
नलकूबरशापेन रक्षा चास्याः कृता मया ||३२||
यदि ह्यकामामासेवेत्स्त्रियमन्यामपि ध्रुवम् |
शतधास्य फलेद्देह इत्युक्तः सोऽभवत्पुरा ||३३||
नात्र शङ्का त्वया कार्या प्रतीच्छेमां महाद्युते |
कृतं त्वया महत्कार्यं देवानाममरप्रभ ||३४||
दशरथ उवाच||
प्रीतोऽस्मि वत्स भद्रं ते पिता दशरथोऽस्मि ते |
अनुजानामि राज्यं च प्रशाधि पुरुषोत्तम ||३५||
राम उवाच||
अभिवादये त्वां राजेन्द्र यदि त्वं जनको मम |
गमिष्यामि पुरीं रम्यामयोध्यां शासनात्तव ||३६||
मार्कण्डेय उवाच||
तमुवाच पिता भूयः प्रहृष्टो मनुजाधिप |
गच्छायोध्यां प्रशाधि त्वं राम रक्तान्तलोचन ||३७||
ततो देवान्नमस्कृत्य सुहृद्भिरभिनन्दितः |
महेन्द्र इव पौलोम्या भार्यया स समेयिवान् ||३८||
ततो वरं ददौ तस्मै अविन्ध्याय परन्तपः |
त्रिजटां चार्थमानाभ्यां योजयामास राक्षसीम् ||३९||
तमुवाच ततो ब्रह्मा देवैः शक्रमुखैर्वृतः |
कौसल्यामातरिष्टांस्ते वरानद्य ददानि कान् ||४०||
वव्रे रामः स्थितिं धर्मे शत्रुभिश्चापराजयम् |
राक्षसैर्निहतानां च वानराणां समुद्भवम् ||४१||
ततस्ते ब्रह्मणा प्रोक्ते तथेति वचने तदा |
समुत्तस्थुर्महाराज वानरा लब्धचेतसः ||४२||
सीता चापि महाभागा वरं हनुमते ददौ |
रामकीर्त्या समं पुत्र जीवितं ते भविष्यति ||४३||
दिव्यास्त्वामुपभोगाश्च मत्प्रसादकृताः सदा |
उपस्थास्यन्ति हनुमन्निति स्म हरिलोचन ||४४||
ततस्ते प्रेक्षमाणानां तेषामक्लिष्टकर्मणाम् |
अन्तर्धानं ययुर्देवाः सर्वे शक्रपुरोगमाः ||४५||
दृष्ट्वा तु रामं जानक्या समेतं शक्रसारथिः |
उवाच परमप्रीतः सुहृन्मध्य इदं वचः ||४६||
देवगन्धर्वयक्षाणां मानुषासुरभोगिनाम् |
अपनीतं त्वया दुःखमिदं सत्यपराक्रम ||४७||
सदेवासुरगन्धर्वा यक्षराक्षसपन्नगाः |
कथयिष्यन्ति लोकास्त्वां यावद्भूमिर्धरिष्यति ||४८||
इत्येवमुक्त्वानुज्ञाप्य रामं शस्त्रभृतां वरम् |
सम्पूज्यापाक्रमत्तेन रथेनादित्यवर्चसा ||४९||
ततः सीतां पुरस्कृत्य रामः सौमित्रिणा सह |
सुग्रीवप्रमुखैश्चैव सहितः सर्ववानरैः ||५०||
विधाय रक्षां लङ्कायां विभीषणपुरस्कृतः |
सन्ततार पुनस्तेन सेतुना मकरालयम् ||५१||
पुष्पकेण विमानेन खेचरेण विराजता |
कामगेन यथा मुख्यैरमात्यैः संवृतो वशी ||५२||
ततस्तीरे समुद्रस्य यत्र शिश्ये स पार्थिवः |
तत्रैवोवास धर्मात्मा सहितः सर्ववानरैः ||५३||
अथैनान्राघवः काले समानीयाभिपूज्य च |
विसर्जयामास तदा रत्नैः सन्तोष्य सर्वशः ||५४||
गतेषु वानरेन्द्रेषु गोपुच्छर्क्षेषु तेषु च |
सुग्रीवसहितो रामः किष्किन्धां पुनरागमत् ||५५||
विभीषणेनानुगतः सुग्रीवसहितस्तदा |
पुष्पकेण विमानेन वैदेह्या दर्शयन्वनम् ||५६||
किष्किन्धां तु समासाद्य रामः प्रहरतां वरः |
अङ्गदं कृतकर्माणं यौवराज्येऽभ्यषेचयत् ||५७||
ततस्तैरेव सहितो रामः सौमित्रिणा सह |
यथागतेन मार्गेण प्रययौ स्वपुरं प्रति ||५८||
अयोध्यां स समासाद्य पुरीं राष्ट्रपतिस्ततः |
भरताय हनूमन्तं दूतं प्रस्थापयत्तदा ||५९||
लक्षयित्वेङ्गितं सर्वं प्रियं तस्मै निवेद्य च |
वायुपुत्रे पुनः प्राप्ते नन्दिग्राममुपागमत् ||६०||
स तत्र मलदिग्धाङ्गं भरतं चीरवाससम् |
अग्रतः पादुके कृत्वा ददर्शासीनमासने ||६१||
समेत्य भरतेनाथ शत्रुघ्नेन च वीर्यवान् |
राघवः सहसौमित्रिर्मुमुदे भरतर्षभ ||६२||
तथा भरतशत्रुघ्नौ समेतौ गुरुणा तदा |
वैदेह्या दर्शनेनोभौ प्रहर्षं समवापतुः ||६३||
तस्मै तद्भरतो राज्यमागतायाभिसत्कृतम् |
न्यासं निर्यातयामास युक्तः परमया मुदा ||६४||
ततस्तं वैष्णवे शूरं नक्षत्रेऽभिमतेऽहनि |
वसिष्ठो वामदेवश्च सहितावभ्यषिञ्चताम् ||६५||
सोऽभिषिक्तः कपिश्रेष्ठं सुग्रीवं ससुहृज्जनम् |
विभीषणं च पौलस्त्यमन्वजानाद्गृहान्प्रति ||६६||
अभ्यर्च्य विविधै रत्नैः प्रीतियुक्तौ मुदा युतौ |
समाधायेतिकर्तव्यं दुःखेन विससर्ज ह ||६७||
पुष्पकं च विमानं तत्पूजयित्वा स राघवः |
प्रादाद्वैश्रवणायैव प्रीत्या स रघुनन्दनः ||६८||
ततो देवर्षिसहितः सरितं गोमतीमनु |
दशाश्वमेधानाजह्रे जारूथ्यान्स निरर्गलान् ||६९||
२७६
मार्कण्डेय उवाच||
एवमेतन्महाबाहो रामेणामिततेजसा |
प्राप्तं व्यसनमत्युग्रं वनवासकृतं पुरा ||१||
मा शुचः पुरुषव्याघ्र क्षत्रियोऽसि परन्तप |
बाहुवीर्याश्रये मार्गे वर्तसे दीप्तनिर्णये ||२||
न हि ते वृजिनं किञ्चिद्दृश्यते परमण्वपि |
अस्मिन्मार्गे विषीदेयुः सेन्द्रा अपि सुरासुराः ||३||
संहत्य निहतो वृत्रो मरुद्भिर्वज्रपाणिना |
नमुचिश्चैव दुर्धर्षो दीर्घजिह्वा च राक्षसी ||४||
सहायवति सर्वार्थाः सन्तिष्ठन्तीह सर्वशः |
किं नु तस्याजितं सङ्ख्ये भ्राता यस्य धनञ्जयः ||५||
अयं च बलिनां श्रेष्ठो भीमो भीमपराक्रमः |
युवानौ च महेष्वासौ यमौ माद्रवतीसुतौ ||६||
एभिः सहायैः कस्मात्त्वं विषीदसि परन्तप ||६||
य इमे वज्रिणः सेनां जयेयुः समरुद्गणाम् |
त्वमप्येभिर्महेष्वासैः सहायैर्देवरूपिभिः ||७||
विजेष्यसि रणे सर्वानमित्रान्भरतर्षभ ||७||
इतश्च त्वमिमां पश्य सैन्धवेन दुरात्मना |
बलिना वीर्यमत्तेन हृतामेभिर्महात्मभिः ||८||
आनीतां द्रौपदीं कृष्णां कृत्वा कर्म सुदुष्करम् |
जयद्रथं च राजानं विजितं वशमागतम् ||९||
असहायेन रामेण वैदेही पुनराहृता |
हत्वा सङ्ख्ये दशग्रीवं राक्षसं भीमविक्रमम् ||१०||
यस्य शाखामृगा मित्रा ऋक्षाः कालमुखास्तथा |
जात्यन्तरगता राजन्नेतद्बुद्ध्यानुचिन्तय ||११||
तस्मात्त्वं कुरुशार्दूल मा शुचो भरतर्षभ |
त्वद्विधा हि महात्मानो न शोचन्ति परन्तप ||१२||
वैशम्पायन उवाच||
एवमाश्वासितो राजा मार्कण्डेयेन धीमता |
त्यक्त्वा दुःखमदीनात्मा पुनरेवेदमब्रवीत् ||१३||
सावित्र्युपाख्यानम्
२७७
युधिष्ठिर उवाच||
नात्मानमनुशोचामि नेमान्भ्रातॄन्महामुने |
हरणं चापि राज्यस्य यथेमां द्रुपदात्मजाम् ||१||
द्यूते दुरात्मभिः क्लिष्टाः कृष्णया तारिता वयम् |
जयद्रथेन च पुनर्वनादपहृता बलात् ||२||
अस्ति सीमन्तिनी काचिद्दृष्टपूर्वाथ वा श्रुता |
पतिव्रता महाभागा यथेयं द्रुपदात्मजा ||३||
मार्कण्डेय उवाच||
शृणु राजन्कुलस्त्रीणां महाभाग्यं युधिष्ठिर |
सर्वमेतद्यथा प्राप्तं सावित्र्या राजकन्यया ||४||
आसीन्मद्रेषु धर्मात्मा राजा परमधार्मिकः |
ब्रह्मण्यश्च शरण्यश्च सत्यसन्धो जितेन्द्रियः ||५||
यज्वा दानपतिर्दक्षः पौरजानपदप्रियः |
पार्थिवोऽश्वपतिर्नाम सर्वभूतहिते रतः ||६||
क्षमावाननपत्यश्च सत्यवाग्विजितेन्द्रियः |
अतिक्रान्तेन वयसा सन्तापमुपजग्मिवान् ||७||
अपत्योत्पादनार्थं स तीव्रं नियममास्थितः |
काले परिमिताहारो ब्रह्मचारी जितेन्द्रियः ||८||
हुत्वा शतसहस्रं स सावित्र्या राजसत्तम |
षष्ठे षष्ठे तदा काले बभूव मितभोजनः ||९||
एतेन नियमेनासीद्वर्षाण्यष्टादशैव तु |
पूर्णे त्वष्टादशे वर्षे सावित्री तुष्टिमभ्यगात् ||१०||
स्वरूपिणी तदा राजन्दर्शयामास तं नृपम् ||१०||
अग्निहोत्रात्समुत्थाय हर्षेण महतान्विता |
उवाच चैनं वरदा वचनं पार्थिवं तदा ||११||
ब्रह्मचर्येण शुद्धेन दमेन नियमेन च |
सर्वात्मना च मद्भक्त्या तुष्टास्मि तव पार्थिव ||१२||
वरं वृणीष्वाश्वपते मद्रराज यथेप्सितम् |
न प्रमादश्च धर्मेषु कर्तव्यस्ते कथञ्चन ||१३||
अश्वपतिरुवाच||
अपत्यार्थः समारम्भः कृतो धर्मेप्सया मया |
पुत्रा मे बहवो देवि भवेयुः कुलभावनाः ||१४||
तुष्टासि यदि मे देवि काममेतं वृणोम्यहम् |
सन्तानं हि परो धर्म इत्याहुर्मां द्विजातयः ||१५||
सावित्र्युवाच||
पूर्वमेव मया राजन्नभिप्रायमिमं तव |
ज्ञात्वा पुत्रार्थमुक्तो वै तव हेतोः पितामहः ||१६||
प्रसादाच्चैव तस्मात्ते स्वयम्भुविहिताद्भुवि |
कन्या तेजस्विनी सौम्य क्षिप्रमेव भविष्यति ||१७||
उत्तरं च न ते किञ्चिद्व्याहर्तव्यं कथञ्चन |
पितामहनिसर्गेण तुष्टा ह्येतद्ब्रवीमि ते ||१८||
मार्कण्डेय उवाच||
स तथेति प्रतिज्ञाय सावित्र्या वचनं नृपः |
प्रसादयामास पुनः क्षिप्रमेवं भवेदिति ||१९||
अन्तर्हितायां सावित्र्यां जगाम स्वगृहं नृपः |
स्वराज्ये चावसत्प्रीतः प्रजा धर्मेण पालयन् ||२०||
कस्मिंश्चित्तु गते काले स राजा नियतव्रतः |
ज्येष्ठायां धर्मचारिण्यां महिष्यां गर्भमादधे ||२१||
राजपुत्र्यां तु गर्भः स मालव्यां भरतर्षभ |
व्यवर्धत यथा शुक्ले तारापतिरिवाम्बरे ||२२||
प्राप्ते काले तु सुषुवे कन्यां राजीवलोचनाम् |
क्रियाश्च तस्या मुदितश्चक्रे स नृपतिस्तदा ||२३||
सावित्र्या प्रीतया दत्ता सावित्र्या हुतया ह्यपि |
सावित्रीत्येव नामास्याश्चक्रुर्विप्रास्तथा पिता ||२४||
सा विग्रहवतीव श्रीर्व्यवर्धत नृपात्मजा |
कालेन चापि सा कन्या यौवनस्था बभूव ह ||२५||
तां सुमध्यां पृथुश्रोणीं प्रतिमां काञ्चनीमिव |
प्राप्तेयं देवकन्येति दृष्ट्वा संमेनिरे जनाः ||२६||
तां तु पद्मपलाशाक्षीं ज्वलन्तीमिव तेजसा |
न कश्चिद्वरयामास तेजसा प्रतिवारितः ||२७||
अथोपोष्य शिरःस्नाता दैवतान्यभिगम्य सा |
हुत्वाग्निं विधिवद्विप्रान्वाचयामास पर्वणि ||२८||
ततः सुमनसः शेषाः प्रतिगृह्य महात्मनः |
पितुः सकाशमगमद्देवी श्रीरिव रूपिणी ||२९||
साभिवाद्य पितुः पादौ शेषाः पूर्वं निवेद्य च |
कृताञ्जलिर्वरारोहा नृपतेः पार्श्वतः स्थिता ||३०||
यौवनस्थां तु तां दृष्ट्वा स्वां सुतां देवरूपिणीम् |
अयाच्यमानां च वरैर्नृपतिर्दुःखितोऽभवत् ||३१||
राजोवाच||
पुत्रि प्रदानकालस्ते न च कश्चिद्वृणोति माम् |
स्वयमन्विच्छ भर्तारं गुणैः सदृशमात्मनः ||३२||
प्रार्थितः पुरुषो यश्च स निवेद्यस्त्वया मम |
विमृश्याहं प्रदास्यामि वरय त्वं यथेप्सितम् ||३३||
श्रुतं हि धर्मशास्त्रे मे पठ्यमानं द्विजातिभिः |
तथा त्वमपि कल्याणि गदतो मे वचः शृणु ||३४||
अप्रदाता पिता वाच्यो वाच्यश्चानुपयन्पतिः |
मृते भर्तरि पुत्रश्च वाच्यो मातुररक्षिता ||३५||
इदं मे वचनं श्रुत्वा भर्तुरन्वेषणे त्वर |
देवतानां यथा वाच्यो न भवेयं तथा कुरु ||३६||
मार्कण्डेय उवाच||
एवमुक्त्वा दुहितरं तथा वृद्धांश्च मन्त्रिणः |
व्यादिदेशानुयात्रं च गम्यतामित्यचोदयत् ||३७||
साभिवाद्य पितुः पादौ व्रीडितेव मनस्विनी |
पितुर्वचनमाज्ञाय निर्जगामाविचारितम् ||३८||
सा हैमं रथमास्थाय स्थविरैः सचिवैर्वृता |
तपोवनानि रम्याणि राजर्षीणां जगामह ||३९||
मान्यानां तत्र वृद्धानां कृत्वा पादाभिवन्दनम् |
वनानि क्रमशस्तात सर्वाण्येवाभ्यगच्छत ||४०||
एवं सर्वेषु तीर्थेषु धनोत्सर्गं नृपात्मजा |
कुर्वती द्विजमुख्यानां तं तं देशं जगाम ह ||४१||
२७८
मार्कण्डेय उवाच||
अथ मद्राधिपो राजा नारदेन समागतः |
उपविष्टः सभामध्ये कथायोगेन भारत ||१||
ततोऽभिगम्य तीर्थानि सर्वाण्येवाश्रमांस्तथा |
आजगाम पितुर्वेश्म सावित्री सह मन्त्रिभिः ||२||
नारदेन सहासीनं दृष्ट्वा सा पितरं शुभा |
उभयोरेव शिरसा चक्रे पादाभिवन्दनम् ||३||
नारद उवाच||
क्व गताभूत्सुतेयं ते कुतश्चैवागता नृप |
किमर्थं युवतीं भर्त्रे न चैनां सम्प्रयच्छसि ||४||
अश्वपतिरुवाच||
कार्येण खल्वनेनैव प्रेषिताद्यैव चागता |
तदस्याः शृणु देवर्षे भर्तारं योऽनया वृतः ||५||
मार्कण्डेय उवाच||
सा ब्रूहि विस्तरेणेति पित्रा सञ्चोदिता शुभा |
दैवतस्येव वचनं प्रतिगृह्येदमब्रवीत् ||६||
आसीच्छाल्वेषु धर्मात्मा क्षत्रियः पृथिवीपतिः |
द्युमत्सेन इति ख्यातः पश्चादन्धो बभूव ह ||७||
विनष्टचक्षुषस्तस्य बालपुत्रस्य धीमतः |
सामीप्येन हृतं राज्यं छिद्रेऽस्मिन्पूर्ववैरिणा ||८||
स बालवत्सया सार्धं भार्यया प्रस्थितो वनम् |
महारण्यगतश्चापि तपस्तेपे महाव्रतः ||९||
तस्य पुत्रः पुरे जातः संवृद्धश्च तपोवने |
सत्यवाननुरूपो मे भर्तेति मनसा वृतः ||१०||
नारद उवाच||
अहो बत महत्पापं सावित्र्या नृपते कृतम् |
अजानन्त्या यदनया गुणवान्सत्यवान्वृतः ||११||
सत्यं वदत्यस्य पिता सत्यं माता प्रभाषते |
ततोऽस्य ब्राह्मणाश्चक्रुर्नामैतत्सत्यवानिति ||१२||
बालस्याश्वाः प्रियाश्चास्य करोत्यश्वांश्च मृन्मयान् |
चित्रेऽपि च लिखत्यश्वांश्चित्राश्व इति चोच्यते ||१३||
राजोवाच||
अपीदानीं स तेजस्वी बुद्धिमान्वा नृपात्मजः |
क्षमावानपि वा शूरः सत्यवान्पितृनन्दनः ||१४||
नारद उवाच||
विवस्वानिव तेजस्वी बृहस्पतिसमो मतौ |
महेन्द्र इव शूरश्च वसुधेव क्षमान्वितः ||१५||
अश्वपतिरुवाच||
अपि राजात्मजो दाता ब्रह्मण्यो वापि सत्यवान् |
रूपवानप्युदारो वाप्यथ वा प्रियदर्शनः ||१६||
नारद उवाच||
साङ्कृते रन्तिदेवस्य स शक्त्या दानतः समः |
ब्रह्मण्यः सत्यवादी च शिबिरौशीनरो यथा ||१७||
ययातिरिव चोदारः सोमवत्प्रियदर्शनः |
रूपेणान्यतमोऽश्विभ्यां द्युमत्सेनसुतो बली ||१८||
स दान्तः स मृदुः शूरः स सत्यः स जितेन्द्रियः |
स मैत्रः सोऽनसूयश्च स ह्रीमान्धृतिमांश्च सः ||१९||
नित्यशश्चार्जवं तस्मिन्स्थितिस्तस्यैव च ध्रुवा |
सङ्क्षेपतस्तपोवृद्धैः शीलवृद्धैश्च कथ्यते ||२०||
अश्वपतिरुवाच||
गुणैरुपेतं सर्वैस्तं भगवन्प्रब्रवीषि मे |
दोषानप्यस्य मे ब्रूहि यदि सन्तीह केचन ||२१||
नारद उवाच||
एको दोषोऽस्य नान्योऽस्ति सोऽद्य प्रभृति सत्यवान् |
संवत्सरेण क्षीणायुर्देहन्यासं करिष्यति ||२२||
राजोवाच||
एहि सावित्रि गच्छ त्वमन्यं वरय शोभने |
तस्य दोषो महानेको गुणानाक्रम्य तिष्ठति ||२३||
यथा मे भगवानाह नारदो देवसत्कृतः |
संवत्सरेण सोऽल्पायुर्देहन्यासं करिष्यति ||२४||
सावित्र्युवाच||
सकृदंशो निपतति सकृत्कन्या प्रदीयते |
सकृदाह ददानीति त्रीण्येतानि सकृत्सकृत् ||२५||
दीर्घायुरथ वाल्पायुः सगुणो निर्गुणोऽपि वा |
सकृद्वृतो मया भर्ता न द्वितीयं वृणोम्यहम् ||२६||
मनसा निश्चयं कृत्वा ततो वाचाभिधीयते |
क्रियते कर्मणा पश्चात्प्रमाणं मे मनस्ततः ||२७||
नारद उवाच||
स्थिरा बुद्धिर्नरश्रेष्ठ सावित्र्या दुहितुस्तव |
नैषा चालयितुं शक्या धर्मादस्मात्कथञ्चन ||२८||
नान्यस्मिन्पुरुषे सन्ति ये सत्यवति वै गुणाः |
प्रदानमेव तस्मान्मे रोचते दुहितुस्तव ||२९||
राजोवाच||
अविचार्यमेतदुक्तं हि तथ्यं भगवता वचः |
करिष्याम्येतदेवं च गुरुर्हि भगवान्मम ||३०||
नारद उवाच||
अविघ्नमस्तु सावित्र्याः प्रदाने दुहितुस्तव |
साधयिष्यामहे तावत्सर्वेषां भद्रमस्तु वः ||३१||
मार्कण्डेय उवाच||
एवमुक्त्वा खमुत्पत्य नारदस्त्रिदिवं गतः |
राजापि दुहितुः सर्वं वैवाहिकमकारयत् ||३२||
२७९
मार्कण्डेय उवाच||
अथ कन्याप्रदाने स तमेवार्थं विचिन्तयन् |
समानिन्ये च तत्सर्वं भाण्डं वैवाहिकं नृपः ||१||
ततो वृद्धान्द्विजान्सर्वानृत्विजः सपुरोहितान् |
समाहूय तिथौ पुण्ये प्रययौ सह कन्यया ||२||
मेध्यारण्यं स गत्वा च द्युमत्सेनाश्रमं नृपः |
पद्भ्यामेव द्विजैः सार्धं राजर्षिं तमुपागमत् ||३||
तत्रापश्यन्महाभागं शालवृक्षमुपाश्रितम् |
कौश्यां बृस्यां समासीनं चक्षुर्हीनं नृपं तदा ||४||
स राजा तस्य राजर्षेः कृत्वा पूजां यथार्हतः |
वाचा सुनियतो भूत्वा चकारात्मनिवेदनम् ||५||
तस्यार्घ्यमासनं चैव गां चावेद्य स धर्मवित् |
किमागमनमित्येवं राजा राजानमब्रवीत् ||६||
तस्य सर्वमभिप्रायमितिकर्तव्यतां च ताम् |
सत्यवन्तं समुद्दिश्य सर्वमेव न्यवेदयत् ||७||
अश्वपतिरुवाच||
सावित्री नाम राजर्षे कन्येयं मम शोभना |
तां स्वधर्मेण धर्मज्ञ स्नुषार्थे त्वं गृहाण मे ||८||
द्युमत्सेन उवाच||
च्युताः स्म राज्याद्वनवासमाश्रिता; श्चराम धर्मं नियतास्तपस्विनः |
कथं त्वनर्हा वनवासमाश्रमे; सहिष्यते क्लेशमिमं सुता तव ||९||
अश्वपतिरुवाच||
सुखं च दुःखं च भवाभवात्मकं; यदा विजानाति सुताहमेव च |
न मद्विधे युज्यति वाक्यमीदृशं; विनिश्चयेनाभिगतोऽस्मि ते नृप ||१०||
आशां नार्हसि मे हन्तुं सौहृदाद्प्रणयेन च |
अभितश्चागतं प्रेम्णा प्रत्याख्यातुं न मार्हसि ||११||
अनुरूपो हि संयोगे त्वं ममाहं तवापि च |
स्नुषां प्रतीच्छ मे कन्यां भार्यां सत्यवतः सुताम् ||१२||
द्युमत्सेन उवाच||
पूर्वमेवाभिलषितः सम्बन्धो मे त्वया सह |
भ्रष्टराज्यस्त्वहमिति तत एतद्विचारितम् ||१३||
अभिप्रायस्त्वयं यो मे पूर्वमेवाभिकाङ्क्षितः |
स निर्वर्ततु मेऽद्यैव काङ्क्षितो ह्यसि मेऽतिथिः ||१४||
मार्कण्डेय उवाच||
ततः सर्वान्समानीय द्विजानाश्रमवासिनः |
यथाविधि समुद्वाहं कारयामासतुर्नृपौ ||१५||
दत्त्वा त्वश्वपतिः कन्यां यथार्हं च परिच्छदम् |
ययौ स्वमेव भवनं युक्तः परमया मुदा ||१६||
सत्यवानपि भार्यां तां लब्ध्वा सर्वगुणान्विताम् |
मुमुदे सा च तं लब्ध्वा भर्तारं मनसेप्सितम् ||१७||
गते पितरि सर्वाणि संन्यस्याभरणानि सा |
जगृहे वल्कलान्येव वस्त्रं काषायमेव च ||१८||
परिचारैर्गुणैश्चैव प्रश्रयेण दमेन च |
सर्वकामक्रियाभिश्च सर्वेषां तुष्टिमावहत् ||१९||
श्वश्रूं शरीरसत्कारैः सर्वैराच्छादनादिभिः |
श्वशुरं देवकार्यैश्च वाचः संयमनेन च ||२०||
तथैव प्रियवादेन नैपुणेन शमेन च |
रहश्चैवोपचारेण भर्तारं पर्यतोषयत् ||२१||
एवं तत्राश्रमे तेषां तदा निवसतां सताम् |
कालस्तपस्यतां कश्चिदतिचक्राम भारत ||२२||
सावित्र्यास्तु शयानायास्तिष्ठन्त्याश्च दिवानिशम् |
नारदेन यदुक्तं तद्वाक्यं मनसि वर्तते ||२३||
२८०
मार्कण्डेय उवाच||
ततः काले बहुतिथे व्यतिक्रान्ते कदाचन |
प्राप्तः स कालो मर्तव्यं यत्र सत्यवता नृप ||१||
गणयन्त्याश्च सावित्र्या दिवसे दिवसे गते |
तद्वाक्यं नारदेनोक्तं वर्तते हृदि नित्यशः ||२||
चतुर्थेऽहनि मर्तव्यमिति सञ्चिन्त्य भामिनी |
व्रतं त्रिरात्रमुद्दिश्य दिवारात्रं स्थिताभवत् ||३||
तं श्रुत्वा नियमं दुःखं वध्वा दुःखान्वितो नृपः |
उत्थाय वाक्यं सावित्रीमब्रवीत्परिसान्त्वयन् ||४||
अतितीव्रोऽयमारम्भस्त्वयारब्धो नृपात्मजे |
तिसृणां वसतीनां हि स्थानं परमदुष्करम् ||५||
सावित्र्युवाच||
न कार्यस्तात सन्तापः पारयिष्याम्यहं व्रतम् |
व्यवसायकृतं हीदं व्यवसायश्च कारणम् ||६||
द्युमत्सेन उवाच||
व्रतं भिन्धीति वक्तुं त्वां नास्मि शक्तः कथञ्चन |
पारयस्वेति वचनं युक्तमस्मद्विधो वदेत् ||७||
मार्कण्डेय उवाच||
एवमुक्त्वा द्युमत्सेनो विरराम महामनाः |
तिष्ठन्ती चापि सावित्री काष्ठभूतेव लक्ष्यते ||८||
श्वोभूते भर्तृमरणे सावित्र्या भरतर्षभ |
दुःखान्वितायास्तिष्ठन्त्याः सा रात्रिर्व्यत्यवर्तत ||९||
अद्य तद्दिवसं चेति हुत्वा दीप्तं हुताशनम् |
युगमात्रोदिते सूर्ये कृत्वा पौर्वाह्णिकीः क्रियाः ||१०||
ततः सर्वान्द्विजान्वृद्धाञ्श्वश्रूं श्वशुरमेव च |
अभिवाद्यानुपूर्व्येण प्राञ्जलिर्नियता स्थिता ||११||
अवैधव्याशिषस्ते तु सावित्र्यर्थं हिताः शुभाः |
ऊचुस्तपस्विनः सर्वे तपोवननिवासिनः ||१२||
एवमस्त्विति सावित्री ध्यानयोगपरायणा |
मनसा ता गिरः सर्वाः प्रत्यगृह्णात्तपस्विनाम् ||१३||
तं कालं च मुहूर्तं च प्रतीक्षन्ती नृपात्मजा |
यथोक्तं नारदवचश्चिन्तयन्ती सुदुःखिता ||१४||
ततस्तु श्वश्रूश्वशुरावूचतुस्तां नृपात्मजाम् |
एकान्तस्थमिदं वाक्यं प्रीत्या भरतसत्तम ||१५||
श्वशुरावूचतुः||
व्रतो यथोपदिष्टोऽयं यथावत्पारितस्त्वया |
आहारकालः सम्प्राप्तः क्रियतां यदनन्तरम् ||१६||
सावित्र्युवाच||
अस्तं गते मयादित्ये भोक्तव्यं कृतकामया |
एष मे हृदि सङ्कल्पः समयश्च कृतो मया ||१७||
मार्कण्डेय उवाच||
एवं सम्भाषमाणायाः सावित्र्या भोजनं प्रति |
स्कन्धे परशुमादाय सत्यवान्प्रस्थितो वनम् ||१८||
सावित्री त्वाह भर्तारं नैकस्त्वं गन्तुमर्हसि |
सह त्वयागमिष्यामि न हि त्वां हातुमुत्सहे ||१९||
सत्यवानुवाच||
वनं न गतपूर्वं ते दुःखः पन्थाश्च भामिनि |
व्रतोपवासक्षामा च कथं पद्भ्यां गमिष्यसि ||२०||
सावित्र्युवाच||
उपवासान्न मे ग्लानिर्नास्ति चापि परिश्रमः |
गमने च कृतोत्साहां प्रतिषेद्धुं न मार्हसि ||२१||
सत्यवानुवाच||
यदि ते गमनोत्साहः करिष्यामि तव प्रियम् |
मम त्वामन्त्रय गुरून्न मां दोषः स्पृशेदयम् ||२२||
मार्कण्डेय उवाच||
साभिगम्याब्रवीच्छ्वश्रूं श्वशुरं च महाव्रता |
अयं गच्छति मे भर्ता फलाहारो महावनम् ||२३||
इच्छेयमभ्यनुज्ञातुमार्यया श्वशुरेण च |
अनेन सह निर्गन्तुं न हि मे विरहः क्षमः ||२४||
गुर्वग्निहोत्रार्थकृते प्रस्थितश्च सुतस्तव |
न निवार्यो निवार्यः स्यादन्यथा प्रस्थितो वनम् ||२५||
संवत्सरः किञ्चिदूनो न निष्क्रान्ताहमाश्रमात् |
वनं कुसुमितं द्रष्टुं परं कौतूहलं हि मे ||२६||
द्युमत्सेन उवाच||
यतः प्रभृति सावित्री पित्रा दत्ता स्नुषा मम |
नानयाभ्यर्थनायुक्तमुक्तपूर्वं स्मराम्यहम् ||२७||
तदेषा लभतां कामं यथाभिलषितं वधूः |
अप्रमादश्च कर्तव्यः पुत्रि सत्यवतः पथि ||२८||
मार्कण्डेय उवाच||
उभाभ्यामभ्यनुज्ञाता सा जगाम यशस्विनी |
सह भर्त्रा हसन्तीव हृदयेन विदूयता ||२९||
सा वनानि विचित्राणि रमणीयानि सर्वशः |
मयूररवघुष्टानि ददर्श विपुलेक्षणा ||३०||
नदीः पुण्यवहाश्चैव पुष्पितांश्च नगोत्तमान् |
सत्यवानाह पश्येति सावित्रीं मधुराक्षरम् ||३१||
निरीक्षमाणा भर्तारं सर्वावस्थमनिन्दिता |
मृतमेव हि तं मेने काले मुनिवचः स्मरन् ||३२||
अनुवर्तती तु भर्तारं जगाम मृदुगामिनी |
द्विधेव हृदयं कृत्वा तं च कालमवेक्षती ||३३||
२८१
मार्कण्डेय उवाच||
अथ भार्यासहायः स फलान्यादाय वीर्यवान् |
कठिनं पूरयामास ततः काष्ठान्यपाटयत् ||१||
तस्य पाटयतः काष्ठं स्वेदो वै समजायत |
व्यायामेन च तेनास्य जज्ञे शिरसि वेदना ||२||
सोऽभिगम्य प्रियां भार्यामुवाच श्रमपीडितः |
व्यायामेन ममानेन जाता शिरसि वेदना ||३||
अङ्गानि चैव सावित्रि हृदयं दूयतीव च |
अस्वस्थमिव चात्मानं लक्षये मितभाषिणि ||४||
शूलैरिव शिरो विद्धमिदं संलक्षयाम्यहम् |
तत्स्वप्तुमिच्छे कल्याणि न स्थातुं शक्तिरस्ति मे ||५||
समासाद्याथ सावित्री भर्तारमुपगूह्य च |
उत्सङ्गेऽस्य शिरः कृत्वा निषसाद महीतले ||६||
ततः सा नारदवचो विमृशन्ती तपस्विनी |
तं मुहूर्तं क्षणं वेलां दिवसं च युयोज ह ||७||
मुहूर्तादिव चापश्यत्पुरुषं पीतवाससम् |
बद्धमौलिं वपुष्मन्तमादित्यसमतेजसम् ||८||
श्यामावदातं रक्ताक्षं पाशहस्तं भयावहम् |
स्थितं सत्यवतः पार्श्वे निरीक्षन्तं तमेव च ||९||
तं दृष्ट्वा सहसोत्थाय भर्तुर्न्यस्य शनैः शिरः |
कृताञ्जलिरुवाचार्ता हृदयेन प्रवेपता ||१०||
दैवतं त्वाभिजानामि वपुरेतद्ध्यमानुषम् |
कामया ब्रूहि मे देव कस्त्वं किं च चिकीर्षसि ||११||
यम उवाच||
पतिव्रतासि सावित्रि तथैव च तपोन्विता |
अतस्त्वामभिभाषामि विद्धि मां त्वं शुभे यमम् ||१२||
अयं ते सत्यवान्भर्ता क्षीणायुः पार्थिवात्मजः |
नेष्याम्येनमहं बद्ध्वा विद्ध्येतन्मे चिकीर्षितम् ||१३||
मार्कण्डेय उवाच||
इत्युक्त्वा पितृराजस्तां भगवान्स्वं चिकीर्षितम् |
यथावत्सर्वमाख्यातुं तत्प्रियार्थं प्रचक्रमे ||१४||
अयं हि धर्मसंयुक्तो रूपवान्गुणसागरः |
नार्हो मत्पुरुषैर्नेतुमतोऽस्मि स्वयमागतः ||१५||
ततः सत्यवतः कायात्पाशबद्धं वशं गतम् |
अङ्गुष्ठमात्रं पुरुषं निश्चकर्ष यमो बलात् ||१६||
ततः समुद्धृतप्राणं गतश्वासं हतप्रभम् |
निर्विचेष्टं शरीरं तद्बभूवाप्रियदर्शनम् ||१७||
यमस्तु तं तथा बद्ध्वा प्रयातो दक्षिणामुखः |
सावित्री चापि दुःखार्ता यममेवान्वगच्छत ||१८||
नियमव्रतसंसिद्धा महाभागा पतिव्रता ||१८||
यम उवाच||
निवर्त गच्छ सावित्रि कुरुष्वास्यौर्ध्वदेहिकम् |
कृतं भर्तुस्त्वयानृण्यं यावद्गम्यं गतं त्वया ||१९||
सावित्र्युवाच||
यत्र मे नीयते भर्ता स्वयं वा यत्र गच्छति |
मयापि तत्र गन्तव्यमेष धर्मः सनातनः ||२०||
तपसा गुरुवृत्त्या च भर्तुः स्नेहाद्व्रतेन च |
तव चैव प्रसादेन न मे प्रतिहता गतिः ||२१||
प्राहुः सप्तपदं मित्रं बुधास्तत्त्वार्थदर्शिनः |
मित्रतां च पुरस्कृत्य किञ्चिद्वक्ष्यामि तच्छृणु ||२२||
नानात्मवन्तस्तु वने चरन्ति; धर्मं च वासं च परिश्रमं च |
विज्ञानतो धर्ममुदाहरन्ति; तस्मात्सन्तो धर्ममाहुः प्रधानम् ||२३||
एकस्य धर्मेण सतां मतेन; सर्वे स्म तं मार्गमनुप्रपन्नाः |
मा वै द्वितीयं मा तृतीयं च वाञ्छे; तस्मात्सन्तो धर्ममाहुः प्रधानम् ||२४||
यम उवाच||
निवर्त तुष्टोऽस्मि तवानया गिरा; स्वराक्षरव्यञ्जनहेतुयुक्तया |
वरं वृणीष्वेह विनास्य जीवितं; ददानि ते सर्वमनिन्दिते वरम् ||२५||
सावित्र्युवाच||
च्युतः स्वराज्याद्वनवासमाश्रितो; विनष्टचक्षुः श्वशुरो ममाश्रमे |
स लब्धचक्षुर्बलवान्भवेन्नृप; स्तव प्रसादाज्ज्वलनार्कसंनिभः ||२६||
यम उवाच||
ददानि ते सर्वमनिन्दिते वरं; यथा त्वयोक्तं भविता च तत्तथा |
तवाध्वना ग्लानिमिवोपलक्षये; निवर्त गच्छस्व न ते श्रमो भवेत् ||२७||
सावित्र्युवाच||
कुतः श्रमो भर्तृसमीपतो हि मे; यतो हि भर्ता मम सा गतिर्ध्रुवा |
यतः पतिं नेष्यसि तत्र मे गतिः; सुरेश भूयश्च वचो निबोध मे ||२८||
सतां सकृत्सङ्गतमीप्सितं परं; ततः परं मित्रमिति प्रचक्षते |
न चाफलं सत्पुरुषेण सङ्गतं; ततः सतां संनिवसेत्समागमे ||२९||
यम उवाच||
मनोनुकूलं बुधबुद्धिवर्धनं; त्वयाहमुक्तो वचनं हिताश्रयम् |
विना पुनः सत्यवतोऽस्य जीवितं; वरं द्वितीयं वरयस्व भामिनि ||३०||
सावित्र्युवाच||
हृतं पुरा मे श्वशुरस्य धीमतः; स्वमेव राज्यं स लभेत पार्थिवः |
जह्यात्स्वधर्मं न च मे गुरुर्यथा; द्वितीयमेतं वरयामि ते वरम् ||३१||
यम उवाच||
स्वमेव राज्यं प्रतिपत्स्यतेऽचिरा; न्न च स्वधर्मात्परिहास्यते नृपः |
कृतेन कामेन मया नृपात्मजे; निवर्त गच्छस्व न ते श्रमो भवेत् ||३२||
सावित्र्युवाच||
प्रजास्त्वयेमा नियमेन संयता; नियम्य चैता नयसे न कामया |
अतो यमत्वं तव देव विश्रुतं; निबोध चेमां गिरमीरितां मया ||३३||
अद्रोहः सर्वभूतेषु कर्मणा मनसा गिरा |
अनुग्रहश्च दानं च सतां धर्मः सनातनः ||३४||
एवम्प्रायश्च लोकोऽयं मनुष्याः शक्तिपेशलाः |
सन्तस्त्वेवाप्यमित्रेषु दयां प्राप्तेषु कुर्वते ||३५||
यम उवाच||
पिपासितस्येव यथा भवेत्पय; स्तथा त्वया वाक्यमिदं समीरितम् |
विना पुनः सत्यवतोऽस्य जीवितं; वरं वृणीष्वेह शुभे यदिच्छसि ||३६||
सावित्र्युवाच||
ममानपत्यः पृथिवीपतिः पिता; भवेत्पितुः पुत्रशतं ममौरसम् |
कुलस्य सन्तानकरं च यद्भवे; त्तृतीयमेतं वरयामि ते वरम् ||३७||
यम उवाच||
कुलस्य सन्तानकरं सुवर्चसं; शतं सुतानां पितुरस्तु ते शुभे |
कृतेन कामेन नराधिपात्मजे; निवर्त दूरं हि पथस्त्वमागता ||३८||
सावित्र्युवाच||
न दूरमेतन्मम भर्तृसंनिधौ; मनो हि मे दूरतरं प्रधावति |
तथा व्रजन्नेव गिरं समुद्यतां; मयोच्यमानां शृणु भूय एव च ||३९||
विवस्वतस्त्वं तनयः प्रतापवां; स्ततो हि वैवस्वत उच्यसे बुधैः |
शमेन धर्मेण च रञ्जिताः प्रजा; स्ततस्तवेहेश्वर धर्मराजता ||४०||
आत्मन्यपि न विश्वासस्तावान्भवति सत्सु यः |
तस्मात्सत्सु विशेषेण सर्वः प्रणयमिच्छति ||४१||
सौहृदात्सर्वभूतानां विश्वासो नाम जायते |
तस्मात्सत्सु विशेषेण विश्वासं कुरुते जनः ||४२||
यम उवाच||
उदाहृतं ते वचनं यदङ्गने; शुभे न तादृक्त्वदृते मया श्रुतम् |
अनेन तुष्टोऽस्मि विनास्य जीवितं; वरं चतुर्थं वरयस्व गच्छ च ||४३||
सावित्र्युवाच||
ममात्मजं सत्यवतस्तथौरसं; भवेदुभाभ्यामिह यत्कुलोद्वहम् |
शतं सुतानां बलवीर्यशालिना; मिदं चतुर्थं वरयामि ते वरम् ||४४||
यम उवाच||
शतं सुतानां बलवीर्यशालिनां; भविष्यति प्रीतिकरं तवाबले |
परिश्रमस्ते न भवेन्नृपात्मजे; निवर्त दूरं हि पथस्त्वमागता ||४५||
सावित्र्युवाच||
सतां सदा शाश्वती धर्मवृत्तिः; सन्तो न सीदन्ति न च व्यथन्ति |
सतां सद्भिर्नाफलः सङ्गमोऽस्ति; सद्भ्यो भयं नानुवर्तन्ति सन्तः ||४६||
सन्तो हि सत्येन नयन्ति सूर्यं; सन्तो भूमिं तपसा धारयन्ति |
सन्तो गतिर्भूतभव्यस्य राज; न्सतां मध्ये नावसीदन्ति सन्तः ||४७||
आर्यजुष्टमिदं वृत्तमिति विज्ञाय शाश्वतम् |
सन्तः परार्थं कुर्वाणा नावेक्षन्ते प्रतिक्रियाम् ||४८||
न च प्रसादः सत्पुरुषेषु मोघो; न चाप्यर्थो नश्यति नापि मानः |
यस्मादेतन्नियतं सत्सु नित्यं; तस्मात्सन्तो रक्षितारो भवन्ति ||४९||
यम उवाच||
यथा यथा भाषसि धर्मसंहितं; मनोनुकूलं सुपदं महार्थवत् |
तथा तथा मे त्वयि भक्तिरुत्तमा; वरं वृणीष्वाप्रतिमं यतव्रते ||५०||
सावित्र्युवाच||
न तेऽपवर्गः सुकृताद्विनाकृत; स्तथा यथान्येषु वरेषु मानद |
वरं वृणे जीवतु सत्यवानयं; यथा मृता ह्येवमहं विना पतिम् ||५१||
न कामये भर्तृविनाकृता सुखं; न कामये भर्तृविनाकृता दिवम् |
न कामये भर्तृविनाकृता श्रियं; न भर्तृहीना व्यवसामि जीवितुम् ||५२||
वरातिसर्गः शतपुत्रता मम; त्वयैव दत्तो ह्रियते च मे पतिः |
वरं वृणे जीवतु सत्यवानयं; तवैव सत्यं वचनं भविष्यति ||५३||
मार्कण्डेय उवाच||
तथेत्युक्त्वा तु तान्पाशान्मुक्त्वा वैवस्वतो यमः |
धर्मराजः प्रहृष्टात्मा सावित्रीमिदमब्रवीत् ||५४||
एष भद्रे मया मुक्तो भर्ता ते कुलनन्दिनि |
अरोगस्तव नेयश्च सिद्धार्थश्च भविष्यति ||५५||
चतुर्वर्षशतं चायुस्त्वया सार्धमवाप्स्यति |
इष्ट्वा यज्ञैश्च धर्मेण ख्यातिं लोके गमिष्यति ||५६||
त्वयि पुत्रशतं चैव सत्यवाञ्जनयिष्यति |
ते चापि सर्वे राजानः क्षत्रियाः पुत्रपौत्रिणः ||५७||
ख्यातास्त्वन्नामधेयाश्च भविष्यन्तीह शाश्वताः ||५७||
पितुश्च ते पुत्रशतं भविता तव मातरि |
मालव्यां मालवा नाम शाश्वताः पुत्रपौत्रिणः ||५८||
भ्रातरस्ते भविष्यन्ति क्षत्रियास्त्रिदशोपमाः ||५८||
एवं तस्यै वरं दत्त्वा धर्मराजः प्रतापवान् |
निवर्तयित्वा सावित्रीं स्वमेव भवनं ययौ ||५९||
सावित्र्यपि यमे याते भर्तारं प्रतिलभ्य च |
जगाम तत्र यत्रास्या भर्तुः शावं कलेवरम् ||६०||
सा भूमौ प्रेक्ष्य भर्तारमुपसृत्योपगूह्य च |
उत्सङ्गे शिर आरोप्य भूमावुपविवेश ह ||६१||
सञ्ज्ञां च सत्यवाँल्लब्ध्वा सावित्रीमभ्यभाषत |
प्रोष्यागत इव प्रेम्णा पुनः पुनरुदीक्ष्य वै ||६२||
सत्यवानुवाच||
सुचिरं बत सुप्तोऽस्मि किमर्थं नावबोधितः |
क्व चासौ पुरुषः श्यामो योऽसौ मां सञ्चकर्ष ह ||६३||
सावित्र्युवाच||
सुचिरं बत सुप्तोऽसि ममाङ्के पुरुषर्षभ |
गतः स भगवान्देवः प्रजासंयमनो यमः ||६४||
विश्रान्तोऽसि महाभाग विनिद्रश्च नृपात्मज |
यदि शक्यं समुत्तिष्ठ विगाढां पश्य शर्वरीम् ||६५||
मार्कण्डेय उवाच||
उपलभ्य ततः सञ्ज्ञां सुखसुप्त इवोत्थितः |
दिशः सर्वा वनान्तांश्च निरीक्ष्योवाच सत्यवान् ||६६||
फलाहारोऽस्मि निष्क्रान्तस्त्वया सह सुमध्यमे |
ततः पाटयतः काष्ठं शिरसो मे रुजाभवत् ||६७||
शिरोभितापसन्तप्तः स्थातुं चिरमशक्नुवन् |
तवोत्सङ्गे प्रसुप्तोऽहमिति सर्वं स्मरे शुभे ||६८||
त्वयोपगूढस्य च मे निद्रयापहृतं मनः |
ततोऽपश्यं तमो घोरं पुरुषं च महौजसम् ||६९||
तद्यदि त्वं विजानासि किं तद्ब्रूहि सुमध्यमे |
स्वप्नो मे यदि वा दृष्टो यदि वा सत्यमेव तत् ||७०||
तमुवाचाथ सावित्री रजनी व्यवगाहते |
श्वस्ते सर्वं यथावृत्तमाख्यास्यामि नृपात्मज ||७१||
उत्तिष्ठोत्तिष्ठ भद्रं ते पितरौ पश्य सुव्रत |
विगाढा रजनी चेयं निवृत्तश्च दिवाकरः ||७२||
नक्तञ्चराश्चरन्त्येते हृष्टाः क्रूराभिभाषिणः |
श्रूयन्ते पर्णशब्दाश्च मृगाणां चरतां वने ||७३||
एताः शिवा घोरनादा दिशं दक्षिणपश्चिमाम् |
आस्थाय विरुवन्त्युग्राः कम्पयन्त्यो मनो मम ||७४||
सत्यवानुवाच||
वनं प्रतिभयाकारं घनेन तमसा वृतम् |
न विज्ञास्यसि पन्थानं गन्तुं चैव न शक्ष्यसि ||७५||
सावित्र्युवाच||
अस्मिन्नद्य वने दग्धे शुष्कवृक्षः स्थितो ज्वलन् |
वायुना धम्यमानोऽग्निर्दृश्यतेऽत्र क्वचित्क्वचित् ||७६||
ततोऽग्निमानयित्वेह ज्वालयिष्यामि सर्वतः |
काष्ठानीमानि सन्तीह जहि सन्तापमात्मनः ||७७||
यदि नोत्सहसे गन्तुं सरुजं त्वाभिलक्षये |
न च ज्ञास्यसि पन्थानं तमसा संवृते वने ||७८||
श्वः प्रभाते वने दृश्ये यास्यावोऽनुमते तव |
वसावेह क्षपामेतां रुचितं यदि तेऽनघ ||७९||
सत्यवानुवाच||
शिरोरुजा निवृत्ता मे स्वस्थान्यङ्गानि लक्षये |
मातापितृभ्यामिच्छामि सङ्गमं त्वत्प्रसादजम् ||८०||
न कदाचिद्विकाले हि गतपूर्वो मयाश्रमः |
अनागतायां सन्ध्यायां माता मे प्ररुणद्धि माम् ||८१||
दिवापि मयि निष्क्रान्ते सन्तप्येते गुरू मम |
विचिनोति च मां तातः सहैवाश्रमवासिभिः ||८२||
मात्रा पित्रा च सुभृशं दुःखिताभ्यामहं पुरा |
उपालब्धः सुबहुशश्चिरेणागच्छसीति ह ||८३||
का त्ववस्था तयोरद्य मदर्थमिति चिन्तये |
तयोरदृश्ये मयि च महद्दुःखं भविष्यति ||८४||
पुरा मामूचतुश्चैव रात्रावस्रायमाणकौ |
भृशं सुदुःखितौ वृद्धौ बहुशः प्रीतिसंयुतौ ||८५||
त्वया हीनौ न जीवाव मुहूर्तमपि पुत्रक |
यावद्धरिष्यसे पुत्र तावन्नौ जीवितं ध्रुवम् ||८६||
वृद्धयोरन्धयोर्यष्टिस्त्वयि वंशः प्रतिष्ठितः |
त्वयि पिण्डश्च कीर्तिश्च सन्तानं चावयोरिति ||८७||
माता वृद्धा पिता वृद्धस्तयोर्यष्टिरहं किल |
तौ रात्रौ मामपश्यन्तौ कामवस्थां गमिष्यतः ||८८||
निद्रायाश्चाभ्यसूयामि यस्या हेतोः पिता मम |
माता च संशयं प्राप्ता मत्कृतेऽनपकारिणी ||८९||
अहं च संशयं प्राप्तः कृच्छ्रामापदमास्थितः |
मातापितृभ्यां हि विना नाहं जीवितुमुत्सहे ||९०||
व्यक्तमाकुलया बुद्ध्या प्रज्ञाचक्षुः पिता मम |
एकैकमस्यां वेलायां पृच्छत्याश्रमवासिनम् ||९१||
नात्मानमनुशोचामि यथाहं पितरं शुभे |
भर्तारं चाप्यनुगतां मातरं परिदुर्बलाम् ||९२||
मत्कृतेन हि तावद्य सन्तापं परमेष्यतः |
जीवन्तावनुजीवामि भर्तव्यौ तौ मयेति ह ||९३||
तयोः प्रियं मे कर्तव्यमिति जीवामि चाप्यहम् ||९३||
मार्कण्डेय उवाच||
एवमुक्त्वा स धर्मात्मा गुरुवर्ती गुरुप्रियः |
उच्छ्रित्य बाहू दुःखार्तः सस्वरं प्ररुरोद ह ||९४||
ततोऽब्रवीत्तथा दृष्ट्वा भर्तारं शोककर्शितम् |
प्रमृज्याश्रूणि नेत्राभ्यां सावित्री धर्मचारिणी ||९५||
यदि मेऽस्ति तपस्तप्तं यदि दत्तं हुतं यदि |
श्वश्रूश्वशुरभर्तॄणां मम पुण्यास्तु शर्वरी ||९६||
न स्मराम्युक्तपूर्वां वै स्वैरेष्वप्यनृतां गिरम् |
तेन सत्येन तावद्य ध्रियेतां श्वशुरौ मम ||९७||
सत्यवानुवाच||
कामये दर्शनं पित्रोर्याहि सावित्रि माचिरम् |
पुरा मातुः पितुर्वापि यदि पश्यामि विप्रियम् ||९८||
न जीविष्ये वरारोहे सत्येनात्मानमालभे ||९८||
यदि धर्मे च ते बुद्धिर्मां चेज्जीवन्तमिच्छसि |
मम प्रियं वा कर्तव्यं गच्छस्वाश्रममन्तिकात् ||९९||
मार्कण्डेय उवाच||
सावित्री तत उत्थाय केशान्संयम्य भामिनी |
पतिमुत्थापयामास बाहुभ्यां परिगृह्य वै ||१००||
उत्थाय सत्यवांश्चापि प्रमृज्याङ्गानि पाणिना |
दिशः सर्वाः समालोक्य कठिने दृष्टिमादधे ||१०१||
तमुवाचाथ सावित्री श्वः फलानीह नेष्यसि |
योगक्षेमार्थमेतत्ते नेष्यामि परशुं त्वहम् ||१०२||
कृत्वा कठिनभारं सा वृक्षशाखावलम्बिनम् |
गृहीत्वा परशुं भर्तुः सकाशं पुनरागमत् ||१०३||
वामे स्कन्धे तु वामोरूर्भर्तुर्बाहुं निवेश्य सा |
दक्षिणेन परिष्वज्य जगाम मृदुगामिनी ||१०४||
सत्यवानुवाच||
अभ्यासगमनाद्भीरु पन्थानो विदिता मम |
वृक्षान्तरालोकितया ज्योत्स्नया चापि लक्षये ||१०५||
आगतौ स्वः पथा येन फलान्यवचितानि च |
यथागतं शुभे गच्छ पन्थानं मा विचारय ||१०६||
पलाशषण्डे चैतस्मिन्पन्था व्यावर्तते द्विधा |
तस्योत्तरेण यः पन्थास्तेन गच्छ त्वरस्व च ||१०७||
स्वस्थोऽस्मि बलवानस्मि दिदृक्षुः पितरावुभौ ||१०७||
मार्कण्डेय उवाच||
ब्रुवन्नेवं त्वरायुक्तः स प्रायादाश्रमं प्रति |
२८२
मार्कण्डेय उवाच||
एतस्मिन्नेव काले तु द्युमत्सेनो महावने |
लब्धचक्षुः प्रसन्नात्मा दृष्ट्या सर्वं ददर्श ह ||१||
स सर्वानाश्रमान्गत्वा शैब्यया सह भार्यया |
पुत्रहेतोः परामार्तिं जगाम मनुजर्षभ ||२||
तावाश्रमान्नदीश्चैव वनानि च सरांसि च |
तांस्तान्देशान्विचिन्वन्तौ दम्पती परिजग्मतुः ||३||
श्रुत्वा शब्दं तु यत्किञ्चिदुन्मुखौ सुतशङ्कया |
सावित्रीसहितोऽभ्येति सत्यवानित्यधावताम् ||४||
भिन्नैश्च परुषैः पादैः सव्रणैः शोणितोक्षितैः |
कुशकण्टकविद्धाङ्गावुन्मत्ताविव धावतः ||५||
ततोऽभिसृत्य तैर्विप्रैः सर्वैराश्रमवासिभिः |
परिवार्य समाश्वास्य समानीतौ स्वमाश्रमम् ||६||
तत्र भार्यासहायः स वृतो वृद्धैस्तपोधनैः |
आश्वासितो विचित्रार्थैः पूर्वराज्ञां कथाश्रयैः ||७||
ततस्तौ पुनराश्वस्तौ वृद्धौ पुत्रदिदृक्षया |
बाल्ये वृत्तानि पुत्रस्य स्मरन्तौ भृशदुःखितौ ||८||
पुनरुक्त्वा च करुणां वाचं तौ शोककर्शितौ |
हा पुत्र हा साध्वि वधूः क्वासि क्वासीत्यरोदताम् ||९||
सुवर्चा उवाच||
यथास्य भार्या सावित्री तपसा च दमेन च |
आचारेण च संयुक्ता तथा जीवति सत्यवान् ||१०||
गौतम उवाच||
वेदाः साङ्गा मयाधीतास्तपो मे सञ्चितं महत् |
कौमारं ब्रह्मचर्यं मे गुरवोऽग्निश्च तोषिताः ||११||
समाहितेन चीर्णानि सर्वाण्येव व्रतानि मे |
वायुभक्षोपवासश्च कुशलानि च यानि मे ||१२||
अनेन तपसा वेद्मि सर्वं परिचिकीर्षितम् |
सत्यमेतन्निबोध त्वं ध्रियते सत्यवानिति ||१३||
शिष्य उवाच||
उपाध्यायस्य मे वक्त्राद्यथा वाक्यं विनिःसृतम् |
नैतज्जातु भवेन्मिथ्या तथा जीवति सत्यवान् ||१४||
ऋषय ऊचुः||
यथास्य भार्या सावित्री सर्वैरेव सुलक्षणैः |
अवैधव्यकरैर्युक्ता तथा जीवति सत्यवान् ||१५||
भारद्वाज उवाच||
यथास्य भार्या सावित्री तपसा च दमेन च |
आचारेण च संयुक्ता तथा जीवति सत्यवान् ||१६||
दाल्भ्य उवाच||
यथा दृष्टिः प्रवृत्ता ते सावित्र्याश्च यथा व्रतम् |
गताहारमकृत्वा च तथा जीवति सत्यवान् ||१७||
माण्डव्य उवाच||
यथा वदन्ति शान्तायां दिशि वै मृगपक्षिणः |
पार्थिवी च प्रवृत्तिस्ते तथा जीवति सत्यवान् ||१८||
धौम्य उवाच||
सर्वैर्गुणैरुपेतस्ते यथा पुत्रो जनप्रियः |
दीर्घायुर्लक्षणोपेतस्तथा जीवति सत्यवान् ||१९||
मार्कण्डेय उवाच||
एवमाश्वासितस्तैस्तु सत्यवाग्भिस्तपस्विभिः |
तांस्तान्विगणयन्नर्थानवस्थित इवाभवत् ||२०||
ततो मुहूर्तात्सावित्री भर्त्रा सत्यवता सह |
आजगामाश्रमं रात्रौ प्रहृष्टा प्रविवेश ह ||२१||
ब्राह्मणा ऊचुः||
पुत्रेण सङ्गतं त्वाद्य चक्षुष्मन्तं निरीक्ष्य च |
सर्वे वयं वै पृच्छामो वृद्धिं ते पृथिवीपते ||२२||
समागमेन पुत्रस्य सावित्र्या दर्शनेन च |
चक्षुषश्चात्मनो लाभात्त्रिभिर्दिष्ट्या विवर्धसे ||२३||
सर्वैरस्माभिरुक्तं यत्तथा तन्नात्र संशयः |
भूयो भूयश्च वृद्धिस्ते क्षिप्रमेव भविष्यति ||२४||
मार्कण्डेय उवाच||
ततोऽग्निं तत्र सञ्ज्वाल्य द्विजास्ते सर्व एव हि |
उपासां चक्रिरे पार्थ द्युमत्सेनं महीपतिम् ||२५||
शैब्या च सत्यवांश्चैव सावित्री चैकतः स्थिताः |
सर्वैस्तैरभ्यनुज्ञाता विशोकाः समुपाविशन् ||२६||
ततो राज्ञा सहासीनाः सर्वे ते वनवासिनः |
जातकौतूहलाः पार्थ पप्रच्छुर्नृपतेः सुतम् ||२७||
प्रागेव नागतं कस्मात्सभार्येण त्वया विभो |
विरात्रे चागतं कस्मात्कोऽनुबन्धश्च तेऽभवत् ||२८||
सन्तापितः पिता माता वयं चैव नृपात्मज |
नाकस्मादिति जानीमस्तत्सर्वं वक्तुमर्हसि ||२९||
सत्यवानुवाच||
पित्राहमभ्यनुज्ञातः सावित्रीसहितो गतः |
अथ मेऽभूच्छिरोदुःखं वने काष्ठानि भिन्दतः ||३०||
सुप्तश्चाहं वेदनया चिरमित्युपलक्षये |
तावत्कालं च न मया सुप्तपूर्वं कदाचन ||३१||
सर्वेषामेव भवतां सन्तापो मा भवेदिति |
अतो विरात्रागमनं नान्यदस्तीह कारणम् ||३२||
गौतम उवाच||
अकस्माच्चक्षुषः प्राप्तिर्द्युमत्सेनस्य ते पितुः |
नास्य त्वं कारणं वेत्थ सावित्री वक्तुमर्हति ||३३||
श्रोतुमिच्छामि सावित्रि त्वं हि वेत्थ परावरम् |
त्वां हि जानामि सावित्रि सावित्रीमिव तेजसा ||३४||
त्वमत्र हेतुं जानीषे तस्मात्सत्यं निरुच्यताम् |
रहस्यं यदि ते नास्ति किञ्चिदत्र वदस्व नः ||३५||
सावित्र्युवाच||
एवमेतद्यथा वेत्थ सङ्कल्पो नान्यथा हि वः |
न च किञ्चिद्रहस्यं मे श्रूयतां तथ्यमत्र यत् ||३६||
मृत्युर्मे भर्तुराख्यातो नारदेन महात्मना |
स चाद्य दिवसः प्राप्तस्ततो नैनं जहाम्यहम् ||३७||
सुप्तं चैनं यमः साक्षादुपागच्छत्सकिङ्करः |
स एनमनयद्बद्ध्वा दिशं पितृनिषेविताम् ||३८||
अस्तौषं तमहं देवं सत्येन वचसा विभुम् |
पञ्च वै तेन मे दत्ता वराः शृणुत तान्मम ||३९||
चक्षुषी च स्वराज्यं च द्वौ वरौ श्वशुरस्य मे |
लब्धं पितुः पुत्रशतं पुत्राणामात्मनः शतम् ||४०||
चतुर्वर्षशतायुर्मे भर्ता लब्धश्च सत्यवान् |
भर्तुर्हि जीवितार्थं तु मया चीर्णं स्थिरं व्रतम् ||४१||
एतत्सत्यं मयाख्यातं कारणं विस्तरेण वः |
यथा वृत्तं सुखोदर्कमिदं दुःखं महन्मम ||४२||
ऋषय ऊचुः||
निमज्जमानं व्यसनैरभिद्रुतं; कुलं नरेन्द्रस्य तमोमये ह्रदे |
त्वया सुशीले धृतधर्मपुण्यया; समुद्धृतं साध्वि पुनः कुलीनया ||४३||
मार्कण्डेय उवाच||
तथा प्रशस्य ह्यभिपूज्य चैव ते; वरस्त्रियं तामृषयः समागताः |
नरेन्द्रमामन्त्र्य सपुत्रमञ्जसा; शिवेन जग्मुर्मुदिताः स्वमालयम् ||४४||
२८३
मार्कण्डेय उवाच||
तस्यां रात्र्यां व्यतीतायामुदिते सूर्यमण्डले |
कृतपूर्वाह्णिकाः सर्वे समेयुस्ते तपोधनाः ||१||
तदेव सर्वं सावित्र्या महाभाग्यं महर्षयः |
द्युमत्सेनाय नातृप्यन्कथयन्तः पुनः पुनः ||२||
ततः प्रकृतयः सर्वाः शाल्वेभ्योऽभ्यागता नृप |
आचख्युर्निहतं चैव स्वेनामात्येन तं नृपम् ||३||
तं मन्त्रिणा हतं श्रुत्वा ससहायं सबान्धवम् |
न्यवेदयन्यथातत्त्वं विद्रुतं च द्विषद्बलम् ||४||
ऐकमत्यं च सर्वस्य जनस्याथ नृपं प्रति |
सचक्षुर्वाप्यचक्षुर्वा स नो राजा भवत्विति ||५||
अनेन निश्चयेनेह वयं प्रस्थापिता नृप |
प्राप्तानीमानि यानानि चतुरङ्गं च ते बलम् ||६||
प्रयाहि राजन्भद्रं ते घुष्टस्ते नगरे जयः |
अध्यास्स्व चिररात्राय पितृपैतामहं पदम् ||७||
चक्षुष्मन्तं च तं दृष्ट्वा राजानं वपुषान्वितम् |
मूर्धभिः पतिताः सर्वे विस्मयोत्फुल्ललोचनाः ||८||
ततोऽभिवाद्य तान्वृद्धान्द्विजानाश्रमवासिनः |
तैश्चाभिपूजितः सर्वैः प्रययौ नगरं प्रति ||९||
शैब्या च सह सावित्र्या स्वास्तीर्णेन सुवर्चसा |
नरयुक्तेन यानेन प्रययौ सेनया वृता ||१०||
ततोऽभिषिषिचुः प्रीत्या द्युमत्सेनं पुरोहिताः |
पुत्रं चास्य महात्मानं यौवराज्येऽभ्यषेचयन् ||११||
ततः कालेन महता सावित्र्याः कीर्तिवर्धनम् |
तद्वै पुत्रशतं जज्ञे शूराणामनिवर्तिनाम् ||१२||
भ्रातॄणां सोदराणां च तथैवास्याभवच्छतम् |
मद्राधिपस्याश्वपतेर्मालव्यां सुमहाबलम् ||१३||
एवमात्मा पिता माता श्वश्रूः श्वशुर एव च |
भर्तुः कुलं च सावित्र्या सर्वं कृच्छ्रात्समुद्धृतम् ||१४||
तथैवैषापि कल्याणी द्रौपदी शीलसंमता |
तारयिष्यति वः सर्वान्सावित्रीव कुलाङ्गना ||१५||
वैशम्पायन उवाच||
एवं स पाण्डवस्तेन अनुनीतो महात्मना |
विशोको विज्वरो राजन्काम्यके न्यवसत्तदा ||१६||
कुण्डलाहरणपर्व
२८४
जनमेजय उवाच||
यत्तत्तदा महाब्रह्मँल्लोमशो वाक्यमब्रवीत् |
इन्द्रस्य वचनादेत्य पाण्डुपुत्रं युधिष्ठिरम् ||१||
यच्चापि ते भयं तीव्रं न च कीर्तयसे क्वचित् |
तच्चाप्यपहरिष्यामि सव्यसाचाविहागते ||२||
किं नु तद्विदुषां श्रेष्ठ कर्णं प्रति महद्भयम् |
आसीन्न च स धर्मात्मा कथयामास कस्यचित् ||३||
वैशम्पायन उवाच||
अहं ते राजशार्दूल कथयामि कथामिमाम् |
पृच्छते भरतश्रेष्ठ शुश्रूषस्व गिरं मम ||४||
द्वादशे समतिक्रान्ते वर्षे प्राप्ते त्रयोदशे |
पाण्डूनां हितकृच्छक्रः कर्णं भिक्षितुमुद्यतः ||५||
अभिप्रायमथो ज्ञात्वा महेन्द्रस्य विभावसुः |
कुण्डलार्थे महाराज सूर्यः कर्णमुपागमत् ||६||
महार्हे शयने वीरं स्पर्ध्यास्तरणसंवृते |
शयानमभिविश्वस्तं ब्रह्मण्यं सत्यवादिनम् ||७||
स्वप्नान्ते निशि राजेन्द्र दर्शयामास रश्मिवान् |
कृपया परयाविष्टः पुत्रस्नेहाच्च भारत ||८||
ब्राह्मणो वेदविद्भूत्वा सूर्यो योगाद्धि रूपवान् |
हितार्थमब्रवीत्कर्णं सान्त्वपूर्वमिदं वचः ||९||
कर्ण मद्वचनं तात शृणु सत्यभृतां वर |
ब्रुवतोऽद्य महाबाहो सौहृदात्परमं हितम् ||१०||
उपायास्यति शक्रस्त्वां पाण्डवानां हितेप्सया |
ब्राह्मणच्छद्मना कर्ण कुण्डलापजिहीर्षया ||११||
विदितं तेन शीलं ते सर्वस्य जगतस्तथा |
यथा त्वं भिक्षितः सद्भिर्ददास्येव न याचसे ||१२||
त्वं हि तात ददास्येव ब्राह्मणेभ्यः प्रयाचितः |
वित्तं यच्चान्यदप्याहुर्न प्रत्याख्यासि कर्हिचित् ||१३||
तं त्वामेवंविधं ज्ञात्वा स्वयं वै पाकशासनः |
आगन्ता कुण्डलार्थाय कवचं चैव भिक्षितुम् ||१४||
तस्मै प्रयाचमानाय न देये कुण्डले त्वया |
अनुनेयः परं शक्त्या श्रेय एतद्धि ते परम् ||१५||
कुण्डलार्थे ब्रुवंस्तात कारणैर्बहुभिस्त्वया |
अन्यैर्बहुविधैर्वित्तैः स निवार्यः पुनः पुनः ||१६||
रत्नैः स्त्रीभिस्तथा भोगैर्धनैर्बहुविधैरपि |
निदर्शनैश्च बहुभिः कुण्डलेप्सुः पुरंदरः ||१७||
यदि दास्यसि कर्ण त्वं सहजे कुण्डले शुभे |
आयुषः प्रक्षयं गत्वा मृत्योर्वशमुपेष्यसि ||१८||
कवचेन च संयुक्तः कुण्डलाभ्यां च मानद |
अवध्यस्त्वं रणेऽरीणामिति विद्धि वचो मम ||१९||
अमृतादुत्थितं ह्येतदुभयं रत्नसम्भवम् |
तस्माद्रक्ष्यं त्वया कर्ण जीवितं चेत्प्रियं तव ||२०||
कर्ण उवाच||
को मामेवं भवान्प्राह दर्शयन्सौहृदं परम् |
कामया भगवन्ब्रूहि को भवान्द्विजवेषधृक् ||२१||
ब्राह्मण उवाच||
अहं तात सहस्रांशुः सौहृदात्त्वां निदर्शये |
कुरुष्वैतद्वचो मे त्वमेतच्छ्रेयः परं हि ते ||२२||
कर्ण उवाच||
श्रेय एव ममात्यन्तं यस्य मे गोपतिः प्रभुः |
प्रवक्ताद्य हितान्वेषी शृणु चेदं वचो मम ||२३||
प्रसादये त्वां वरदं प्रणयाच्च ब्रवीम्यहम् |
न निवार्यो व्रतादस्मादहं यद्यस्मि ते प्रियः ||२४||
व्रतं वै मम लोकोऽयं वेत्ति कृत्स्नो विभावसो |
यथाहं द्विजमुख्येभ्यो दद्यां प्राणानपि ध्रुवम् ||२५||
यद्यागच्छति शक्रो मां ब्राह्मणच्छद्मनावृतः |
हितार्थं पाण्डुपुत्राणां खेचरोत्तम भिक्षितुम् ||२६||
दास्यामि विबुधश्रेष्ठ कुण्डले वर्म चोत्तमम् |
न मे कीर्तिः प्रणश्येत त्रिषु लोकेषु विश्रुता ||२७||
मद्विधस्यायशस्यं हि न युक्तं प्राणरक्षणम् |
युक्तं हि यशसा युक्तं मरणं लोकसंमतम् ||२८||
सोऽहमिन्द्राय दास्यामि कुण्डले सह वर्मणा |
यदि मां बलवृत्रघ्नो भिक्षार्थमुपयास्यति ||२९||
हितार्थं पाण्डुपुत्राणां कुण्डले मे प्रयाचितुम् |
तन्मे कीर्तिकरं लोके तस्याकीर्तिर्भविष्यति ||३०||
वृणोमि कीर्तिं लोके हि जीवितेनापि भानुमन् |
कीर्तिमानश्नुते स्वर्गं हीनकीर्तिस्तु नश्यति ||३१||
कीर्तिर्हि पुरुषं लोके सञ्जीवयति मातृवत् |
अकीर्तिर्जीवितं हन्ति जीवतोऽपि शरीरिणः ||३२||
अयं पुराणः श्लोको हि स्वयं गीतो विभावसो |
धात्रा लोकेश्वर यथा कीर्तिरायुर्नरस्य वै ||३३||
पुरुषस्य परे लोके कीर्तिरेव परायणम् |
इह लोके विशुद्धा च कीर्तिरायुर्विवर्धनी ||३४||
सोऽहं शरीरजे दत्त्वा कीर्तिं प्राप्स्यामि शाश्वतीम् |
दत्त्वा च विधिवद्दानं ब्राह्मणेभ्यो यथाविधि ||३५||
हुत्वा शरीरं सङ्ग्रामे कृत्वा कर्म सुदुष्करम् |
विजित्य वा परानाजौ यशः प्राप्स्यामि केवलम् ||३६||
भीतानामभयं दत्त्वा सङ्ग्रामे जीवितार्थिनाम् |
वृद्धान्बालान्द्विजातींश्च मोक्षयित्वा महाभयात् ||३७||
प्राप्स्यामि परमं लोके यशः स्वर्भानुसूदन |
जीवितेनापि मे रक्ष्या कीर्तिस्तद्विद्धि मे व्रतम् ||३८||
सोऽहं दत्त्वा मघवते भिक्षामेतामनुत्तमाम् |
ब्राह्मणच्छद्मिने देव लोके गन्ता परां गतिम् ||३९||
२८५
सूर्य उवाच||
माहितं कर्ण कार्षीस्त्वमात्मनः सुहृदां तथा |
पुत्राणामथ भार्याणामथो मातुरथो पितुः ||१||
शरीरस्याविरोधेन प्राणिनां प्राणभृद्वर |
इष्यते यशसः प्राप्तिः कीर्तिश्च त्रिदिवे स्थिरा ||२||
यस्त्वं प्राणविरोधेन कीर्तिमिच्छसि शाश्वतीम् |
सा ते प्राणान्समादाय गमिष्यति न संशयः ||३||
जीवतां कुरुते कार्यं पिता माता सुतास्तथा |
ये चान्ये बान्धवाः केचिल्लोकेऽस्मिन्पुरुषर्षभ ||४||
राजानश्च नरव्याघ्र पौरुषेण निबोध तत् ||४||
कीर्तिश्च जीवतः साध्वी पुरुषस्य महाद्युते |
मृतस्य कीर्त्या किं कार्यं भस्मीभूतस्य देहिनः ||५||
मृतः कीर्तिं न जानाति जीवन्कीर्तिं समश्नुते ||५||
मृतस्य कीर्तिर्मर्त्यस्य यथा माला गतायुषः |
अहं तु त्वां ब्रवीम्येतद्भक्तोऽसीति हितेप्सया ||६||
भक्तिमन्तो हि मे रक्ष्या इत्येतेनापि हेतुना |
भक्तोऽयं परया भक्त्या मामित्येव महाभुज ||७||
ममापि भक्तिरुत्पन्ना स त्वं कुरु वचो मम ||७||
अस्ति चात्र परं किञ्चिदध्यात्मं देवनिर्मितम् |
अतश्च त्वां ब्रवीम्येतत्क्रियतामविशङ्कया ||८||
देवगुह्यं त्वया ज्ञातुं न शक्यं पुरुषर्षभ |
तस्मान्नाख्यामि ते गुह्यं काले वेत्स्यति तद्भवान् ||९||
पुनरुक्तं च वक्ष्यामि त्वं राधेय निबोध तत् |
मास्मै ते कुण्डले दद्या भिक्षवे वज्रपाणये ||१०||
शोभसे कुण्डलाभ्यां हि रुचिराभ्यां महाद्युते |
विशाखयोर्मध्यगतः शशीव विमलो दिवि ||११||
कीर्तिश्च जीवतः साध्वी पुरुषस्येति विद्धि तत् |
प्रत्याख्येयस्त्वया तात कुण्डलार्थे पुरंदरः ||१२||
शक्या बहुविधैर्वाक्यैः कुण्डलेप्सा त्वयानघ |
विहन्तुं देवराजस्य हेतुयुक्तैः पुनः पुनः ||१३||
उपपत्त्युपपन्नार्थैर्माधुर्यकृतभूषणैः |
पुरंदरस्य कर्ण त्वं बुद्धिमेतामपानुद ||१४||
त्व हि नित्यं नरव्याघ्र स्पर्धसे सव्यसाचिना |
सव्यसाची त्वया चैव युधि शूरः समेष्यति ||१५||
न तु त्वामर्जुनः शक्तः कुण्डलाभ्यां समन्वितम् |
विजेतुं युधि यद्यस्य स्वयमिन्द्रः शरो भवेत् ||१६||
तस्मान्न देये शक्राय त्वयैते कुण्डले शुभे |
सङ्ग्रामे यदि निर्जेतुं कर्ण कामयसेऽर्जुनम् ||१७||
२८६
कर्ण उवाच||
भगवन्तमहं भक्तो यथा मां वेत्थ गोपते |
तथा परमतिग्मांशो नान्यं देवं कथञ्चन ||१||
न मे दारा न मे पुत्रा न चात्मा सुहृदो न च |
तथेष्टा वै सदा भक्त्या यथा त्वं गोपते मम ||२||
इष्टानां च महात्मानो भक्तानां च न संशयः |
कुर्वन्ति भक्तिमिष्टां च जानीषे त्वं च भास्कर ||३||
इष्टो भक्तश्च मे कर्णो न चान्यद्दैवतं दिवि |
जानीत इति वै कृत्वा भगवानाह मद्धितम् ||४||
भूयश्च शिरसा याचे प्रसाद्य च पुनः पुनः |
इति ब्रवीमि तिग्मांशो त्वं तु मे क्षन्तुमर्हसि ||५||
बिभेमि न तथा मृत्योर्यथा बिभ्येऽनृतादहम् |
विशेषेण द्विजातीनां सर्वेषां सर्वदा सताम् ||६||
प्रदाने जीवितस्यापि न मेऽत्रास्ति विचारणा ||६||
यच्च मामात्थ देव त्वं पाण्डवं फल्गुनं प्रति |
व्येतु सन्तापजं दुःखं तव भास्कर मानसम् ||७||
अर्जुनं प्रति मां चैव विजेष्यामि रणेऽर्जुनम् ||७||
तवापि विदितं देव ममाप्यस्त्रबलं महत् |
जामदग्न्यादुपात्तं यत्तथा द्रोणान्महात्मनः ||८||
इदं त्वमनुजानीहि सुरश्रेष्ठ व्रतं मम |
भिक्षते वज्रिणे दद्यामपि जीवितमात्मनः ||९||
सूर्य उवाच||
यदि तात ददास्येते वज्रिणे कुण्डले शुभे |
त्वमप्येनमथो ब्रूया विजयार्थं महाबल ||१०||
नियमेन प्रदद्यास्त्वं कुण्डले वै शतक्रतोः |
अवध्यो ह्यसि भूतानां कुण्डलाभ्यां समन्वितः ||११||
अर्जुनेन विनाशं हि तव दानवसूदनः |
प्रार्थयानो रणे वत्स कुण्डले ते जिहीर्षति ||१२||
स त्वमप्येनमाराध्य सूनृताभिः पुनः पुनः |
अभ्यर्थयेथा देवेशममोघार्थं पुरंदरम् ||१३||
अमोघां देहि मे शक्तिममित्रविनिबर्हिणीम् |
दास्यामि ते सहस्राक्ष कुण्डले वर्म चोत्तमम् ||१४||
इत्येवं नियमेन त्वं दद्याः शक्राय कुण्डले |
तया त्वं कर्ण सङ्ग्रामे हनिष्यसि रणे रिपून् ||१५||
नाहत्वा हि महाबाहो शत्रूनेति करं पुनः |
सा शक्तिर्देवराजस्य शतशोऽथ सहस्रशः ||१६||
वैशम्पायन उवाच||
एवमुक्त्वा सहस्रांशुः सहसान्तरधीयत |
ततः सूर्याय जप्यान्ते कर्णः स्वप्नं न्यवेदयत् ||१७||
यथादृष्टं यथातत्त्वं यथोक्तमुभयोर्निशि |
तत्सर्वमानुपूर्व्येण शशंसास्मै वृषस्तदा ||१८||
तच्छ्रुत्वा भगवान्देवो भानुः स्वर्भानुसूदनः |
उवाच तं तथेत्येव कर्णं सूर्यः स्मयन्निव ||१९||
ततस्तत्त्वमिति ज्ञात्वा राधेयः परवीरहा |
शक्तिमेवाभिकाङ्क्षन्वै वासवं प्रत्यपालयत् ||२०||
२८७
जनमेजय उवाच||
किं तद्गुह्यं न चाख्यातं कर्णायेहोष्णरश्मिना |
कीदृशे कुण्डले ते च कवचं चैव कीदृशम् ||१||
कुतश्च कवचं तस्य कुण्डले चैव सत्तम |
एतदिच्छाम्यहं श्रोतुं तन्मे ब्रूहि तपोधन ||२||
वैशम्पायन उवाच||
अयं राजन्ब्रवीम्येतद्यत्तद्गुह्यं विभावसोः |
यादृशे कुण्डले चैव कवचं चैव यादृशम् ||३||
कुन्तिभोजं पुरा राजन्ब्राह्मणः समुपस्थितः |
तिग्मतेजा महाप्रांशुः श्मश्रुदण्डजटाधरः ||४||
दर्शनीयोऽनवद्याङ्गस्तेजसा प्रज्वलन्निव |
मधुपिङ्गो मधुरवाक्तपःस्वाध्यायभूषणः ||५||
स राजानं कुन्तिभोजमब्रवीत्सुमहातपाः |
भिक्षामिच्छाम्यहं भोक्तुं तव गेहे विमत्सर ||६||
न मे व्यलीकं कर्तव्यं त्वया वा तव चानुगैः |
एवं वत्स्यामि ते गेहे यदि ते रोचतेऽनघ ||७||
यथाकामं च गच्छेयमागच्छेयं तथैव च |
शय्यासने च मे राजन्नापराध्येत कश्चन ||८||
तमब्रवीत्कुन्तिभोजः प्रीतियुक्तमिदं वचः |
एवमस्तु परं चेति पुनश्चैनमथाब्रवीत् ||९||
मम कन्या महाब्रह्मन्पृथा नाम यशस्विनी |
शीलवृत्तान्विता साध्वी नियता न च मानिनी ||१०||
उपस्थास्यति सा त्वां वै पूजयानवमन्य च |
तस्याश्च शीलवृत्तेन तुष्टिं समुपयास्यसि ||११||
एवमुक्त्वा तु तं विप्रमभिपूज्य यथाविधि |
उवाच कन्यामभ्येत्य पृथां पृथुललोचनाम् ||१२||
अयं वत्से महाभागो ब्राह्मणो वस्तुमिच्छति |
मम गेहे मया चास्य तथेत्येवं प्रतिश्रुतम् ||१३||
त्वयि वत्से पराश्वस्य ब्राह्मणस्याभिराधनम् |
तन्मे वाक्यं न मिथ्या त्वं कर्तुमर्हसि कर्हिचित् ||१४||
अयं तपस्वी भगवान्स्वाध्यायनियतो द्विजः |
यद्यद्ब्रूयान्महातेजास्तत्तद्देयममत्सरात् ||१५||
ब्राह्मणा हि परं तेजो ब्राह्मणा हि परं तपः |
ब्राह्मणानां नमस्कारैः सूर्यो दिवि विराजते ||१६||
अमानयन्हि मानार्हान्वातापिश्च महासुरः |
निहतो ब्रह्मदण्डेन तालजङ्घस्तथैव च ||१७||
सोऽयं वत्से महाभार आहितस्त्वयि साम्प्रतम् |
त्वं सदा नियता कुर्या ब्राह्मणस्याभिराधनम् ||१८||
जानामि प्रणिधानं ते बाल्यात्प्रभृति नन्दिनि |
ब्राह्मणेष्विह सर्वेषु गुरुबन्धुषु चैव ह ||१९||
तथा प्रेष्येषु सर्वेषु मित्रसम्बन्धिमातृषु |
मयि चैव यथावत्त्वं सर्वमादृत्य वर्तसे ||२०||
न ह्यतुष्टो जनोऽस्तीह पुरे चान्तःपुरे च ते |
सम्यग्वृत्त्यानवद्याङ्गि तव भृत्यजनेष्वपि ||२१||
संदेष्टव्यां तु मन्ये त्वां द्विजातिं कोपनं प्रति |
पृथे बालेति कृत्वा वै सुता चासि ममेति च ||२२||
वृष्णीनां त्वं कुले जाता शूरस्य दयिता सुता |
दत्ता प्रीतिमता मह्यं पित्रा बाला पुरा स्वयम् ||२३||
वसुदेवस्य भगिनी सुतानां प्रवरा मम |
अग्र्यमग्रे प्रतिज्ञाय तेनासि दुहिता मम ||२४||
तादृशे हि कुले जाता कुले चैव विवर्धिता |
सुखात्सुखमनुप्राप्ता ह्रदाद्ध्रदमिवागता ||२५||
दौष्कुलेया विशेषेण कथञ्चित्प्रग्रहं गताः |
बालभावाद्विकुर्वन्ति प्रायशः प्रमदाः शुभे ||२६||
पृथे राजकुले जन्म रूपं चाद्भुतदर्शनम् |
तेन तेनासि सम्पन्ना समुपेता च भामिनी ||२७||
सा त्वं दर्पं परित्यज्य दम्भं मानं च भामिनि |
आराध्य वरदं विप्रं श्रेयसा योक्ष्यसे पृथे ||२८||
एवं प्राप्स्यसि कल्याणि कल्याणमनघे ध्रुवम् |
कोपिते तु द्विजश्रेष्ठे कृत्स्नं दह्येत मे कुलम् ||२९||
२८८
कुन्त्युवाच||
ब्राह्मणं यन्त्रिता राजनुपस्थास्यामि पूजया |
यथाप्रतिज्ञं राजेन्द्र न च मिथ्या ब्रवीम्यहम् ||१||
एष चैव स्वभावो मे पूजयेयं द्विजानिति |
तव चैव प्रियं कार्यं श्रेयश्चैतत्परं मम ||२||
यद्येवैष्यति सायाह्ने यदि प्रातरथो निशि |
यद्यर्धरात्रे भगवान्न मे कोपं करिष्यति ||३||
लाभो ममैष राजेन्द्र यद्वै पूजयती द्विजान् |
आदेशे तव तिष्ठन्ती हितं कुर्यां नरोत्तम ||४||
विस्रब्धो भव राजेन्द्र न व्यलीकं द्विजोत्तमः |
वसन्प्राप्स्यति ते गेहे सत्यमेतद्ब्रवीमि ते ||५||
यत्प्रियं च द्विजस्यास्य हितं चैव तवानघ |
यतिष्यामि तथा राजन्व्येतु ते मानसो ज्वरः ||६||
ब्राह्मणा हि महाभागाः पूजिताः पृथिवीपते |
तारणाय समर्थाः स्युर्विपरीते वधाय च ||७||
साहमेतद्विजानन्ती तोषयिष्ये द्विजोत्तमम् |
न मत्कृते व्यथां राजन्प्राप्स्यसि द्विजसत्तमात् ||८||
अपराधे हि राजेन्द्र राज्ञामश्रेयसे द्विजाः |
भवन्ति च्यवनो यद्वत्सुकन्यायाः कृते पुरा ||९||
नियमेन परेणाहमुपस्थास्ये द्विजोत्तमम् |
यथा त्वया नरेन्द्रेदं भाषितं ब्राह्मणं प्रति ||१०||
राजोवाच||
एवमेतत्त्वया भद्रे कर्तव्यमविशङ्कया |
मद्धितार्थं कुलार्थं च तथात्मार्थं च नन्दिनि ||११||
वैशम्पायन उवाच||
एवमुक्त्वा तु तां कन्यां कुन्तिभोजो महायशाः |
पृथां परिददौ तस्मै द्विजाय सुतवत्सलः ||१२||
इयं ब्रह्मन्मम सुता बाला सुखविवर्धिता |
अपराध्येत यत्किञ्चिन्न तत्कार्यं हृदि त्वया ||१३||
द्विजातयो महाभागा वृद्धबालतपस्विषु |
भवन्त्यक्रोधनाः प्रायो विरुद्धेष्वपि नित्यदा ||१४||
सुमहत्यपराधेऽपि क्षान्तिः कार्या द्विजातिभिः |
यथाशक्ति यथोत्साहं पूजा ग्राह्या द्विजोत्तम ||१५||
तथेति ब्राह्मणेनोक्ते स राजा प्रीतमानसः |
हंसचन्द्रांशुसङ्काशं गृहमस्य न्यवेदयत् ||१६||
तत्राग्निशरणे कॢप्तमासनं तस्य भानुमत् |
आहारादि च सर्वं तत्तथैव प्रत्यवेदयत् ||१७||
निक्षिप्य राजपुत्री तु तन्द्रीं मानं तथैव च |
आतस्थे परमं यत्नं ब्राह्मणस्याभिराधने ||१८||
तत्र सा ब्राह्मणं गत्वा पृथा शौचपरा सती |
विधिवत्परिचारार्हं देववत्पर्यतोषयत् ||१९||
२८९
वैशम्पायन उवाच||
सा तु कन्या महाराज ब्राह्मणं संशितव्रतम् |
तोषयामास शुद्धेन मनसा संशितव्रता ||१||
प्रातरायास्य इत्युक्त्वा कदाचिद्द्विजसत्तमः |
तत आयाति राजेन्द्र साये रात्रावथो पुनः ||२||
तं च सर्वासु वेलासु भक्ष्यभोज्यप्रतिश्रयैः |
पूजयामास सा कन्या वर्धमानैस्तु सर्वदा ||३||
अन्नादिसमुदाचारः शय्यासनकृतस्तथा |
दिवसे दिवसे तस्य वर्धते न तु हीयते ||४||
निर्भर्त्सनापवादैश्च तथैवाप्रियया गिरा |
ब्राह्मणस्य पृथा राजन्न चकाराप्रियं तदा ||५||
व्यस्ते काले पुनश्चैति न चैति बहुशो द्विजः |
दुर्लभ्यमपि चैवान्नं दीयतामिति सोऽब्रवीत् ||६||
कृतमेव च तत्सर्वं पृथा तस्मै न्यवेदयत् |
शिष्यवत्पुत्रवच्चैव स्वसृवच्च सुसंयता ||७||
यथोपजोषं राजेन्द्र द्विजातिप्रवरस्य सा |
प्रीतिमुत्पादयामास कन्या यत्नैरनिन्दिता ||८||
तस्यास्तु शीलवृत्तेन तुतोष द्विजसत्तमः |
अवधानेन भूयोऽस्य परं यत्नमथाकरोत् ||९||
तां प्रभाते च साये च पिता पप्रच्छ भारत |
अपि तुष्यति ते पुत्रि ब्राह्मणः परिचर्यया ||१०||
तं सा परममित्येव प्रत्युवाच यशस्विनी |
ततः प्रीतिमवापाग्र्यां कुन्तिभोजो महामनाः ||११||
ततः संवत्सरे पूर्णे यदासौ जपतां वरः |
नापश्यद्दुष्कृतं किञ्चित्पृथायाः सौहृदे रतः ||१२||
ततः प्रीतमना भूत्वा स एनां ब्राह्मणोऽब्रवीत् |
प्रीतोऽस्मि परमं भद्रे परिचारेण ते शुभे ||१३||
वरान्वृणीष्व कल्याणि दुरापान्मानुषैरिह |
यैस्त्वं सीमन्तिनीः सर्वा यशसाभिभविष्यसि ||१४||
कुन्त्युवाच||
कृतानि मम सर्वाणि यस्या मे वेदवित्तम |
त्वं प्रसन्नः पिता चैव कृतं विप्र वरैर्मम ||१५||
ब्राह्मण उवाच||
यदि नेच्छसि भद्रे त्वं वरं मत्तः शुचिस्मिते |
इमं मन्त्रं गृहाण त्वमाह्वानाय दिवौकसाम् ||१६||
यं यं देवं त्वमेतेन मन्त्रेणावाहयिष्यसि |
तेन तेन वशे भद्रे स्थातव्यं ते भविष्यति ||१७||
अकामो वा सकामो वा न स नैष्यति ते वशम् |
विबुधो मन्त्रसंशान्तो वाक्ये भृत्य इवानतः ||१८||
वैशम्पायन उवाच||
न शशाक द्वितीयं सा प्रत्याख्यातुमनिन्दिता |
तं वै द्विजातिप्रवरं तदा शापभयान्नृप ||१९||
ततस्तामनवद्याङ्गीं ग्राहयामास वै द्विजः |
मन्त्रग्रामं तदा राजन्नथर्वशिरसि श्रुतम् ||२०||
तं प्रदाय तु राजेन्द्र कुन्तिभोजमुवाच ह |
उषितोऽस्मि सुखं राजन्कन्यया परितोषितः ||२१||
तव गेहे सुविहितः सदा सुप्रतिपूजितः |
साधयिष्यामहे तावदित्युक्त्वान्तरधीयत ||२२||
स तु राजा द्विजं दृष्ट्वा तत्रैवान्तर्हितं तदा |
बभूव विस्मयाविष्टः पृथां च समपूजयत् ||२३||
२९०
वैशम्पायन उवाच||
गते तस्मिन्द्विजश्रेष्ठे कस्मिंश्चित्कालपर्यये |
चिन्तयामास सा कन्या मन्त्रग्रामबलाबलम् ||१||
अयं वै कीदृशस्तेन मम दत्तो महात्मना |
मन्त्रग्रामो बलं तस्य ज्ञास्ये नातिचिरादिव ||२||
एवं सञ्चिन्तयन्ती सा ददर्शर्तुं यदृच्छया |
व्रीडिता साभवद्बाला कन्याभावे रजस्वला ||३||
अथोद्यन्तं सहस्रांशुं पृथा दीप्तं ददर्श ह |
न ततर्प च रूपेण भानोः सन्ध्यागतस्य सा ||४||
तस्या दृष्टिरभूद्दिव्या सापश्यद्दिव्यदर्शनम् |
आमुक्तकवचं देवं कुण्डलाभ्यां विभूषितम् ||५||
तस्याः कौतूहलं त्वासीन्मन्त्रं प्रति नराधिप |
आह्वानमकरोत्साथ तस्य देवस्य भामिनी ||६||
प्राणानुपस्पृश्य तदा आजुहाव दिवाकरम् |
आजगाम ततो राजंस्त्वरमाणो दिवाकरः ||७||
मधुपिङ्गो महाबाहुः कम्बुग्रीवो हसन्निव |
अङ्गदी बद्धमुकुटो दिशः प्रज्वालयन्निव ||८||
योगात्कृत्वा द्विधात्मानमाजगाम तताप च |
आबभाषे ततः कुन्तीं साम्ना परमवल्गुना ||९||
आगतोऽस्मि वशं भद्रे तव मन्त्रबलात्कृतः |
किं करोम्यवशो राज्ञि ब्रूहि कर्ता तदस्मि ते ||१०||
कुन्त्युवाच||
गम्यतां भगवंस्तत्र यतोऽसि समुपागतः |
कौतूहलात्समाहूतः प्रसीद भगवन्निति ||११||
सूर्य उवाच||
गमिष्येऽहं यथा मां त्वं ब्रवीषि तनुमध्यमे |
न तु देवं समाहूय न्याय्यं प्रेषयितुं वृथा ||१२||
तवाभिसन्धिः सुभगे सूर्यात्पुत्रो भवेदिति |
वीर्येणाप्रतिमो लोके कवची कुण्डलीति च ||१३||
सा त्वमात्मप्रदानं वै कुरुष्व गजगामिनि |
उत्पत्स्यति हि पुत्रस्ते यथासङ्कल्पमङ्गने ||१४||
अथ गच्छाम्यहं भद्रे त्वयासङ्गम्य सुस्मिते |
शप्स्यामि त्वामहं क्रुद्धो ब्राह्मणं पितरं च ते ||१५||
त्वत्कृते तान्प्रधक्ष्यामि सर्वानपि न संशयः |
पितरं चैव ते मूढं यो न वेत्ति तवानयम् ||१६||
तस्य च ब्राह्मणस्याद्य योऽसौ मन्त्रमदात्तव |
शीलवृत्तमविज्ञाय धास्यामि विनयं परम् ||१७||
एते हि विबुधाः सर्वे पुरंदरमुखा दिवि |
त्वया प्रलब्धं पश्यन्ति स्मयन्त इव भामिनि ||१८||
पश्य चैनान्सुरगणान्दिव्यं चक्षुरिदं हि ते |
पूर्वमेव मया दत्तं दृष्टवत्यसि येन माम् ||१९||
वैशम्पायन उवाच||
ततोऽपश्यत्त्रिदशान्राजपुत्री; सर्वानेव स्वेषु धिष्ण्येषु खस्थान् |
प्रभासन्तं भानुमन्तं महान्तं; यथादित्यं रोचमानं तथैव ||२०||
सा तान्दृष्ट्वा व्रीडमानेव बाला; सूर्यं देवी वचनं प्राह भीता |
गच्छ त्वं वै गोपते स्वं विमानं; कन्याभावाद्दुःख एषोपचारः ||२१||
पिता माता गुरवश्चैव येऽन्ये; देहस्यास्य प्रभवन्ति प्रदाने |
नाहं धर्मं लोपयिष्यामि लोके; स्त्रीणां वृत्तं पूज्यते देहरक्षा ||२२||
मया मन्त्रबलं ज्ञातुमाहूतस्त्वं विभावसो |
बाल्याद्बालेति कृत्वा तत्क्षन्तुमर्हसि मे विभो ||२३||
सूर्य उवाच||
बालेति कृत्वानुनयं तवाहं; ददानि नान्यानुनयं लभेत |
आत्मप्रदानं कुरु कुन्तिकन्ये; शान्तिस्तवैवं हि भवेच्च भीरु ||२४||
न चापि युक्तं गन्तुं हि मया मिथ्याकृतेन वै |
गमिष्याम्यनवद्याङ्गि लोके समवहास्यताम् ||२५||
सर्वेषां विबुधानां च वक्तव्यः स्यामहं शुभे ||२५||
सा त्वं मया समागच्छ पुत्रं लप्स्यसि मादृशम् |
विशिष्टा सर्वलोकेषु भविष्यसि च भामिनि ||२६||
२९१
वैशम्पायन उवाच||
सा तु कन्या बहुविधं ब्रुवन्ती मधुरं वचः |
अनुनेतुं सहस्रांशुं न शशाक मनस्विनी ||१||
न शशाक यदा बाला प्रत्याख्यातुं तमोनुदम् |
भीता शापात्ततो राजन्दध्यौ दीर्घमथान्तरम् ||२||
अनागसः पितुः शापो ब्राह्मणस्य तथैव च |
मन्निमित्तः कथं न स्यात्क्रुद्धादस्माद्विभावसोः ||३||
बालेनापि सता मोहाद्भृशं सापह्नवान्यपि |
नात्यासादयितव्यानि तेजांसि च तपांसि च ||४||
साहमद्य भृशं भीता गृहीता च करे भृशम् |
कथं त्वकार्यं कुर्यां वै प्रदानं ह्यात्मनः स्वयम् ||५||
सैवं शापपरित्रस्ता बहु चिन्तयती तदा |
मोहेनाभिपरीताङ्गी स्मयमाना पुनः पुनः ||६||
तं देवमब्रवीद्भीता बन्धूनां राजसत्तम |
व्रीडाविह्वलया वाचा शापत्रस्ता विशां पते ||७||
कुन्त्युवाच||
पिता मे ध्रियते देव माता चान्ये च बान्धवाः |
न तेषु ध्रियमाणेषु विधिलोपो भवेदयम् ||८||
त्वया मे सङ्गमो देव यदि स्याद्विधिवर्जितः |
मन्निमित्तं कुलस्यास्य लोके कीर्तिर्नशेत्ततः ||९||
अथ वा धर्ममेतं त्वं मन्यसे तपतां वर |
ऋते प्रदानाद्बन्धुभ्यस्तव कामं करोम्यहम् ||१०||
आत्मप्रदानं दुर्धर्ष तव कृत्वा सती त्वहम् |
त्वयि धर्मो यशश्चैव कीर्तिरायुश्च देहिनाम् ||११||
सूर्य उवाच||
न ते पिता न ते माता गुरवो वा शुचिस्मिते |
प्रभवन्ति वरारोहे भद्रं ते शृणु मे वचः ||१२||
सर्वान्कामयते यस्मात्कनेर्धातोश्च भामिनि |
तस्मात्कन्येह सुश्रोणि स्वतन्त्रा वरवर्णिनि ||१३||
नाधर्मश्चरितः कश्चित्त्वया भवति भामिनि |
अधर्मं कुत एवाहं चरेयं लोककाम्यया ||१४||
अनावृताः स्त्रियः सर्वा नराश्च वरवर्णिनि |
स्वभाव एष लोकानां विकारोऽन्य इति स्मृतः ||१५||
सा मया सह सङ्गम्य पुनः कन्या भविष्यसि |
पुत्रश्च ते महाबाहुर्भविष्यति महायशाः ||१६||
कुन्त्युवाच||
यदि पुत्रो मम भवेत्त्वत्तः सर्वतमोपह |
कुण्डली कवची शूरो महाबाहुर्महाबलः ||१७||
सूर्य उवाच||
भविष्यति महाबाहुः कुण्डली दिव्यवर्मभृत् |
उभयं चामृतमयं तस्य भद्रे भविष्यति ||१८||
कुन्त्युवाच||
यद्येतदमृतादस्ति कुण्डले वर्म चोत्तमम् |
मम पुत्रस्य यं वै त्वं मत्त उत्पादयिष्यसि ||१९||
अस्तु मे सङ्गमो देव यथोक्तं भगवंस्त्वया |
त्वद्वीर्यरूपसत्त्वौजा धर्मयुक्तो भवेत्स च ||२०||
सूर्य उवाच||
अदित्या कुण्डले राज्ञि दत्ते मे मत्तकाशिनि |
तेऽस्य दास्यामि वै भीरु वर्म चैवेदमुत्तमम् ||२१||
पृथोवाच||
परमं भगवन्देव सङ्गमिष्ये त्वया सह |
यदि पुत्रो भवेदेवं यथा वदसि गोपते ||२२||
वैशम्पायन उवाच||
तथेत्युक्त्वा तु तां कुन्तीमाविवेश विहङ्गमः |
स्वर्भानुशत्रुर्योगात्मा नाभ्यां पस्पर्श चैव ताम् ||२३||
ततः सा विह्वलेवासीत्कन्या सूर्यस्य तेजसा |
पपाताथ च सा देवी शयने मूढचेतना ||२४||
सूर्य उवाच||
साधयिष्यामि सुश्रोणि पुत्रं वै जनयिष्यसि |
सर्वशस्त्रभृतां श्रेष्ठं कन्या चैव भविष्यसि ||२५||
वैशम्पायन उवाच||
ततः सा व्रीडिता बाला तदा सूर्यमथाब्रवीत् |
एवमस्त्विति राजेन्द्र प्रस्थितं भूरिवर्चसम् ||२६||
इति स्मोक्ता कुन्तिराजात्मजा सा; विवस्वन्तं याचमाना सलज्जा |
तस्मिन्पुण्ये शयनीये पपात; मोहाविष्टा भज्यमाना लतेव ||२७||
तां तिग्मांशुस्तेजसा मोहयित्वा; योगेनाविष्यात्मसंस्थां चकार |
न चैवैनां दूषयामास भानुः; सञ्ज्ञां लेभे भूय एवाथ बाला ||२८||
२९२
वैशम्पायन उवाच||
ततो गर्भः समभवत्पृथायाः पृथिवीपते |
शुक्ले दशोत्तरे पक्षे तारापतिरिवाम्बरे ||१||
सा बान्धवभयाद्बाला तं गर्भं विनिगूहती |
धारयामास सुश्रोणी न चैनां बुबुधे जनः ||२||
न हि तां वेद नार्यन्या काचिद्धात्रेयिकामृते |
कन्यापुरगतां बालां निपुणां परिरक्षणे ||३||
ततः कालेन सा गर्भं सुषुवे वरवर्णिनी |
कन्यैव तस्य देवस्य प्रसादादमरप्रभम् ||४||
तथैव बद्धकवचं कनकोज्ज्वलकुण्डलम् |
हर्यक्षं वृषभस्कन्धं यथास्य पितरं तथा ||५||
जातमात्रं च तं गर्भं धात्र्या संमन्त्र्य भामिनी |
मञ्जूषायामवदधे स्वास्तीर्णायां समन्ततः ||६||
मधूच्छिष्टस्थितायां सा सुखायां रुदती तथा |
श्लक्ष्णायां सुपिधानायामश्वनद्यामवासृजत् ||७||
जानती चाप्यकर्तव्यं कन्याया गर्भधारणम् |
पुत्रस्नेहेन राजेन्द्र करुणं पर्यदेवयत् ||८||
समुत्सृजन्ती मञ्जूषामश्वनद्यास्तदा जले |
उवाच रुदती कुन्ती यानि वाक्यानि तच्छृणु ||९||
स्वस्ति तेऽस्त्वान्तरिक्षेभ्यः पार्थिवेभ्यश्च पुत्रक |
दिव्येभ्यश्चैव भूतेभ्यस्तथा तोयचराश्च ये ||१०||
शिवास्ते सन्तु पन्थानो मा च ते परिपन्थिनः |
आगमाश्च तथा पुत्र भवन्त्वद्रोहचेतसः ||११||
पातु त्वां वरुणो राजा सलिले सलिलेश्वरः |
अन्तरिक्षेऽन्तरिक्षस्थः पवनः सर्वगस्तथा ||१२||
पिता त्वां पातु सर्वत्र तपनस्तपतां वरः |
येन दत्तोऽसि मे पुत्र दिव्येन विधिना किल ||१३||
आदित्या वसवो रुद्राः साध्या विश्वे च देवताः |
मरुतश्च सहेन्द्रेण दिशश्च सदिगीश्वराः ||१४||
रक्षन्तु त्वां सुराः सर्वे समेषु विषमेषु च |
वेत्स्यामि त्वां विदेशेऽपि कवचेनोपसूचितम् ||१५||
धन्यस्ते पुत्र जनको देवो भानुर्विभावसुः |
यस्त्वां द्रक्ष्यति दिव्येन चक्षुषा वाहिनीगतम् ||१६||
धन्या सा प्रमदा या त्वां पुत्रत्वे कल्पयिष्यति |
यस्यास्त्वं तृषितः पुत्र स्तनं पास्यसि देवज ||१७||
को नु स्वप्नस्तया दृष्टो या त्वामादित्यवर्चसम् |
दिव्यवर्मसमायुक्तं दिव्यकुण्डलभूषितम् ||१८||
पद्मायतविशालाक्षं पद्मताम्रतलोज्ज्वलम् |
सुललाटं सुकेशान्तं पुत्रत्वे कल्पयिष्यति ||१९||
धन्या द्रक्ष्यन्ति पुत्र त्वां भूमौ संसर्पमाणकम् |
अव्यक्तकलवाक्यानि वदन्तं रेणुगुण्ठितम् ||२०||
धन्या द्रक्ष्यन्ति पुत्र त्वां पुनर्यौवनगे मुखे |
हिमवद्वनसम्भूतं सिंहं केसरिणं यथा ||२१||
एवं बहुविधं राजन्विलप्य करुणं पृथा |
अवासृजत मञ्जूषामश्वनद्यास्तदा जले ||२२||
रुदती पुत्रशोकार्ता निशीथे कमलेक्षणा |
धात्र्या सह पृथा राजन्पुत्रदर्शनलालसा ||२३||
विसर्जयित्वा मञ्जूषां सम्बोधनभयात्पितुः |
विवेश राजभवनं पुनः शोकातुरा ततः ||२४||
मञ्जूषा त्वश्वनद्याः सा ययौ चर्मण्वतीं नदीम् |
चर्मण्वत्याश्च यमुनां ततो गङ्गां जगाम ह ||२५||
गङ्गायाः सूतविषयं चम्पामभ्याययौ पुरीम् |
स मञ्जूषागतो गर्भस्तरङ्गैरुह्यमानकः ||२६||
अमृतादुत्थितं दिव्यं तत्तु वर्म सकुण्डलम् |
धारयामास तं गर्भं दैवं च विधिनिर्मितम् ||२७||
२९३
वैशम्पायन उवाच||
एतस्मिन्नेव काले तु धृतराष्ट्रस्य वै सखा |
सूतोऽधिरथ इत्येव सदारो जाह्नवीं ययौ ||१||
तस्य भार्याभवद्राजन्रूपेणासदृशी भुवि |
राधा नाम महाभागा न सा पुत्रमविन्दत ||२||
अपत्यार्थे परं यत्नमकरोच्च विशेषतः ||२||
सा ददर्शाथ मञ्जूषामुह्यमानां यदृच्छया |
दत्तरक्षाप्रतिसरामन्वालभनशोभिताम् ||३||
ऊर्मीतरङ्गैर्जाह्नव्याः समानीतामुपह्वरम् ||३||
सा तां कौतूहलात्प्राप्तां ग्राहयामास भामिनी |
ततो निवेदयामास सूतस्याधिरथस्य वै ||४||
स तामुद्धृत्य मञ्जूषामुत्सार्य जलमन्तिकात् |
यन्त्रैरुद्घाटयामास सोऽपश्यत्तत्र बालकम् ||५||
तरुणादित्यसङ्काशं हेमवर्मधरं तथा |
मृष्टकुण्डलयुक्तेन वदनेन विराजता ||६||
स सूतो भार्यया सार्धं विस्मयोत्फुल्ललोचनः |
अङ्कमारोप्य तं बालं भार्यां वचनमब्रवीत् ||७||
इदमत्यद्भुतं भीरु यतो जातोऽस्मि भामिनि |
दृष्टवान्देवगर्भोऽयं मन्येऽस्मान्समुपागतः ||८||
अनपत्यस्य पुत्रोऽयं देवैर्दत्तो ध्रुवं मम |
इत्युक्त्वा तं ददौ पुत्रं राधायै स महीपते ||९||
प्रतिजग्राह तं राधा विधिवद्दिव्यरूपिणम् |
पुत्रं कमलगर्भाभं देवगर्भं श्रिया वृतम् ||१०||
पुपोष चैनं विधिवद्ववृधे स च वीर्यवान् |
ततः प्रभृति चाप्यन्ये प्राभवन्नौरसाः सुताः ||११||
वसुवर्मधरं दृष्ट्वा तं बालं हेमकुण्डलम् |
नामास्य वसुषेणेति ततश्चक्रुर्द्विजातयः ||१२||
एवं स सूतपुत्रत्वं जगामामितविक्रमः |
वसुषेण इति ख्यातो वृष इत्येव च प्रभुः ||१३||
स ज्येष्ठपुत्रः सूतस्य ववृधेऽङ्गेषु वीर्यवान् |
चारेण विदितश्चासीत्पृथाया दिव्यवर्मभृत् ||१४||
सूतस्त्वधिरथः पुत्रं विवृद्धं समये ततः |
दृष्ट्वा प्रस्थापयामास पुरं वारणसाह्वयम् ||१५||
तत्रोपसदनं चक्रे द्रोणस्येष्वस्त्रकर्मणि |
सख्यं दुर्योधनेनैवमगच्छत्स च वीर्यवान् ||१६||
द्रोणात्कृपाच्च रामाच्च सोऽस्त्रग्रामं चतुर्विधम् |
लब्ध्वा लोकेऽभवत्ख्यातः परमेष्वासतां गतः ||१७||
सन्धाय धार्तराष्ट्रेण पार्थानां विप्रिये स्थितः |
योद्धुमाशंसते नित्यं फल्गुनेन महात्मना ||१८||
सदा हि तस्य स्पर्धासीदर्जुनेन विशां पते |
अर्जुनस्य च कर्णेन यतो दृष्टो बभूव सः ||१९||
तं तु कुण्डलिनं दृष्ट्वा वर्मणा च समन्वितम् |
अवध्यं समरे मत्वा पर्यतप्यद्युधिष्ठिरः ||२०||
यदा तु कर्णो राजेन्द्र भानुमन्तं दिवाकरम् |
स्तौति मध्यंदिने प्राप्ते प्राञ्जलिः सलिले स्थितः ||२१||
तत्रैनमुपतिष्ठन्ति ब्राह्मणा धनहेतवः |
नादेयं तस्य तत्काले किञ्चिदस्ति द्विजातिषु ||२२||
तमिन्द्रो ब्राह्मणो भूत्वा भिक्षां देहीत्युपस्थितः |
स्वागतं चेति राधेयस्तमथ प्रत्यभाषत ||२३||
२९४
वैशम्पायन उवाच||
देवराजमनुप्राप्तं ब्राह्मणच्छद्मना वृषः |
दृष्ट्वा स्वागतमित्याह न बुबोधास्य मानसम् ||१||
हिरण्यकण्ठीः प्रमदा ग्रामान्वा बहुगोकुलान् |
किं ददानीति तं विप्रमुवाचाधिरथिस्ततः ||२||
ब्राह्मण उवाच||
हिरण्यकण्ठ्यः प्रमदा यच्चान्यत्प्रीतिवर्धनम् |
नाहं दत्तमिहेच्छामि तदर्थिभ्यः प्रदीयताम् ||३||
यदेतत्सहजं वर्म कुण्डले च तवानघ |
एतदुत्कृत्य मे देहि यदि सत्यव्रतो भवान् ||४||
एतदिच्छाम्यहं क्षिप्रं त्वया दत्तं परन्तप |
एष मे सर्वलाभानां लाभः परमको मतः ||५||
कर्ण उवाच||
अवनिं प्रमदा गाश्च निर्वापं बहुवार्षिकम् |
तत्ते विप्र प्रदास्यामि न तु वर्म न कुण्डले ||६||
वैशम्पायन उवाच||
एवं बहुविधैर्वाक्यैर्याच्यमानः स तु द्विजः |
कर्णेन भरतश्रेष्ठ नान्यं वरमयाचत ||७||
सान्त्वितश्च यथाशक्ति पूजितश्च यथाविधि |
नैवान्यं स द्विजश्रेष्ठः कामयामास वै वरम् ||८||
यदा नान्यं प्रवृणुते वरं वै द्विजसत्तमः |
तदैनमब्रवीद्भूयो राधेयः प्रहसन्निव ||९||
सहजं वर्म मे विप्र कुण्डले चामृतोद्भवे |
तेनावध्योऽस्मि लोकेषु ततो नैतद्ददाम्यहम् ||१०||
विशालं पृथिवीराज्यं क्षेमं निहतकण्टकम् |
प्रतिगृह्णीष्व मत्तस्त्वं साधु ब्राह्मणपुङ्गव ||११||
कुण्डलाभ्यां विमुक्तोऽहं वर्मणा सहजेन च |
गमनीयो भविष्यामि शत्रूणां द्विजसत्तम ||१२||
यदा नान्यं वरं वव्रे भगवान्पाकशासनः |
ततः प्रहस्य कर्णस्तं पुनरित्यब्रवीद्वचः ||१३||
विदितो देवदेवेश प्रागेवासि मम प्रभो |
न तु न्याय्यं मया दातुं तव शक्र वृथा वरम् ||१४||
त्वं हि देवेश्वरः साक्षात्त्वया देयो वरो मम |
अन्येषां चैव भूतानामीश्वरो ह्यसि भूतकृत् ||१५||
यदि दास्यामि ते देव कुण्डले कवचं तथा |
वध्यतामुपयास्यामि त्वं च शक्रावहास्यताम् ||१६||
तस्माद्विनिमयं कृत्वा कुण्डले वर्म चोत्तमम् |
हरस्व शक्र कामं मे न दद्यामहमन्यथा ||१७||
शक्र उवाच||
विदितोऽहं रवेः पूर्वमायन्नेव तवान्तिकम् |
तेन ते सर्वमाख्यातमेवमेतन्न संशयः ||१८||
काममस्तु तथा तात तव कर्ण यथेच्छसि |
वर्जयित्वा तु मे वज्रं प्रवृणीष्व यदिच्छसि ||१९||
वैशम्पायन उवाच||
ततः कर्णः प्रहृष्टस्तु उपसङ्गम्य वासवम् |
अमोघां शक्तिमभ्येत्य वव्रे सम्पूर्णमानसः ||२०||
कर्ण उवाच||
वर्मणा कुण्डलाभ्यां च शक्तिं मे देहि वासव |
अमोघां शत्रुसङ्घानां घातनीं पृतनामुखे ||२१||
वैशम्पायन उवाच||
ततः सञ्चिन्त्य मनसा मुहूर्तमिव वासवः |
शक्त्यर्थं पृथिवीपाल कर्णं वाक्यमथाब्रवीत् ||२२||
कुण्डले मे प्रयच्छस्व वर्म चैव शरीरजम् |
गृहाण कर्ण शक्तिं त्वमनेन समयेन मे ||२३||
अमोघा हन्ति शतशः शत्रून्मम करच्युता |
पुनश्च पाणिमभ्येति मम दैत्यान्विनिघ्नतः ||२४||
सेयं तव करं प्राप्य हत्वैकं रिपुमूर्जितम् |
गर्जन्तं प्रतपन्तं च मामेवैष्यति सूतज ||२५||
कर्ण उवाच||
एकमेवाहमिच्छामि रिपुं हन्तुं महाहवे |
गर्जन्तं प्रतपन्तं च यतो मम भयं भवेत् ||२६||
इन्द्र उवाच||
एकं हनिष्यसि रिपुं गर्जन्तं बलिनं रणे |
त्वं तु यं प्रार्थयस्येकं रक्ष्यते स महात्मना ||२७||
यमाहुर्वेदविद्वांसो वराहमजितं हरिम् |
नारायणमचिन्त्यं च तेन कृष्णेन रक्ष्यते ||२८||
कर्ण उवाच||
एवमप्यस्तु भगवन्नेकवीरवधे मम |
अमोघा प्रवरा शक्तिर्येन हन्यां प्रतापिनम् ||२९||
उत्कृत्य तु प्रदास्यामि कुण्डले कवचं च ते |
निकृत्तेषु च गात्रेषु न मे बीभत्सता भवेत् ||३०||
इन्द्र उवाच||
न ते बीभत्सता कर्ण भविष्यति कथञ्चन |
व्रणश्चापि न गात्रेषु यस्त्वं नानृतमिच्छसि ||३१||
यादृशस्ते पितुर्वर्णस्तेजश्च वदतां वर |
तादृशेनैव वर्णेन त्वं कर्ण भविता पुनः ||३२||
विद्यमानेषु शस्त्रेषु यद्यमोघामसंशये |
प्रमत्तो मोक्ष्यसे चापि त्वय्येवैषा पतिष्यति ||३३||
कर्ण उवाच||
संशयं परमं प्राप्य विमोक्ष्ये वासवीमिमाम् |
यथा मामात्थ शक्र त्वं सत्यमेतद्ब्रवीमि ते ||३४||
वैशम्पायन उवाच||
ततः शक्तिं प्रज्वलितां प्रतिगृह्य विशां पते |
शस्त्रं गृहीत्वा निशितं सर्वगात्राण्यकृन्तत ||३५||
ततो देवा मानवा दानवाश्च; निकृन्तन्तं कर्णमात्मानमेवम् |
दृष्ट्वा सर्वे सिद्धसङ्घाश्च नेदु; र्न ह्यस्यासीद्दुःखजो वै विकारः ||३६||
ततो दिव्या दुन्दुभयः प्रणेदुः; पपातोच्चैः पुष्पवर्षं च दिव्यम् |
दृष्ट्वा कर्णं शस्त्रसङ्कृत्तगात्रं; मुहुश्चापि स्मयमानं नृवीरम् ||३७||
ततश्छित्त्वा कवचं दिव्यमङ्गा; त्तथैवार्द्रं प्रददौ वासवाय |
तथोत्कृत्य प्रददौ कुण्डले ते; वैकर्तनः कर्मणा तेन कर्णः ||३८||
ततः शक्रः प्रहसन्वञ्चयित्वा; कर्णं लोके यशसा योजयित्वा |
कृतं कार्यं पाण्डवानां हि मेने; ततः पश्चाद्दिवमेवोत्पपात ||३९||
श्रुत्वा कर्णं मुषितं धार्तराष्ट्रा; दीनाः सर्वे भग्नदर्पा इवासन् |
तां चावस्थां गमितं सूतपुत्रं; श्रुत्वा पार्था जहृषुः काननस्थाः ||४०||
जनमेजय उवाच||
क्वस्था वीराः पाण्डवास्ते बभूवुः; कुतश्चैतच्छ्रुतवन्तः प्रियं ते |
किं वाकार्षुर्द्वादशेऽब्दे व्यतीते; तन्मे सर्वं भगवान्व्याकरोतु ||४१||
वैशम्पायन उवाच||
लब्ध्वा कृष्णां सैन्धवं द्रावयित्वा; विप्रैः सार्धं काम्यकादाश्रमात्ते |
मार्कण्डेयाच्छ्रुतवन्तः पुराणं; देवर्षीणां चरितं विस्तरेण ||४२||
प्रत्याजग्मुः सरथाः सानुयात्राः; सर्वैः सार्धं सूदपौरोगवैश्च |
ततः पुण्यं द्वैतवनं नृवीरा; निस्तीर्योग्रं वनवासं समग्रम् ||४३||
आरणेयपर्व
२९५
जनमेजय उवाच||
एवं हृतायां कृष्णायां प्राप्य क्लेशमनुत्तमम् |
प्रतिलभ्य ततः कृष्णां किमकुर्वत पाण्डवाः ||१||
वैशम्पायन उवाच||
एवं हृतायां कृष्णायां प्राप्य क्लेशमनुत्तमम् |
विहाय काम्यकं राजा सह भ्रातृभिरच्युतः ||२||
पुनर्द्वैतवनं रम्यमाजगाम युधिष्ठिरः |
स्वादुमूलफलं रम्यं मार्कण्डेयाश्रमं प्रति ||३||
अनुगुप्तफलाहाराः सर्व एव मिताशनाः |
न्यवसन्पाण्डवास्तत्र कृष्णया सह भारत ||४||
वसन्द्वैतवने राजा कुन्तीपुत्रो युधिष्ठिरः |
भीमसेनोऽर्जुनश्चैव माद्रीपुत्रौ च पाण्डवौ ||५||
ब्राह्मणार्थे पराक्रान्ता धर्मात्मानो यतव्रताः |
क्लेशमार्छन्त विपुलं सुखोदर्कं परन्तपाः ||६||
अजातशत्रुमासीनं भ्रातृभिः सहितं वने |
आगम्य ब्राह्मणस्तूर्णं सन्तप्त इदमब्रवीत् ||७||
अरणीसहितं मह्यं समासक्तं वनस्पतौ |
मृगस्य घर्षमाणस्य विषाणे समसज्जत ||८||
तदादाय गतो राजंस्त्वरमाणो महामृगः |
आश्रमात्त्वरितः शीघ्रं प्लवमानो महाजवः ||९||
तस्य गत्वा पदं शीघ्रमासाद्य च महामृगम् |
अग्निहोत्रं न लुप्येत तदानयत पाण्डवाः ||१०||
ब्राह्मणस्य वचः श्रुत्वा सन्तप्तोऽथ युधिष्ठिरः |
धनुरादाय कौन्तेयः प्राद्रवद्भ्रातृभिः सह ||११||
सन्नद्धा धन्विनः सर्वे प्राद्रवन्नरपुङ्गवाः |
ब्राह्मणार्थे यतन्तस्ते शीघ्रमन्वगमन्मृगम् ||१२||
कर्णिनालीकनाराचानुत्सृजन्तो महारथाः |
नाविध्यन्पाण्डवास्तत्र पश्यन्तो मृगमन्तिकात् ||१३||
तेषां प्रयतमानानां नादृश्यत महामृगः |
अपश्यन्तो मृगं श्रान्ता दुःखं प्राप्ता मनस्विनः ||१४||
शीतलच्छायमासाद्य न्यग्रोधं गहने वने |
क्षुत्पिपासापरीताङ्गाः पाण्डवाः समुपाविशन् ||१५||
तेषां समुपविष्टानां नकुलो दुःखितस्तदा |
अब्रवीद्भ्रातरं ज्येष्ठममर्षात्कुरुसत्तम ||१६||
नास्मिन्कुले जातु ममज्ज धर्मो; न चालस्यादर्थलोपो बभूव |
अनुत्तराः सर्वभूतेषु भूयः; सम्प्राप्ताः स्मः संशयं केन राजन् ||१७||
२९६
युधिष्ठिर उवाच||
नापदामस्ति मर्यादा न निमित्तं न कारणम् |
धर्मस्तु विभजत्यत्र उभयोः पुण्यपापयोः ||१||
भीम उवाच||
प्रातिकाम्यनयत्कृष्णां सभायां प्रेष्यवत्तदा |
न मया निहतस्तत्र तेन प्राप्ताः स्म संशयम् ||२||
अर्जुन उवाच||
वाचस्तीक्ष्णास्थिभेदिन्यः सूतपुत्रेण भाषिताः |
अतितीक्ष्णा मया क्षान्तास्तेन प्राप्ताः स्म संशयम् ||३||
सहदेव उवाच||
शकुनिस्त्वां यदाजैषीदक्षद्यूतेन भारत |
स मया न हतस्तत्र तेन प्राप्ताः स्म संशयम् ||४||
वैशम्पायन उवाच||
ततो युधिष्ठिरो राजा नकुलं वाक्यमब्रवीत् |
आरुह्य वृक्षं माद्रेय निरीक्षस्व दिशो दश ||५||
पानीयमन्तिके पश्य वृक्षान्वाप्युदकाश्रयान् |
इमे हि भ्रातरः श्रान्तास्तव तात पिपासिताः ||६||
नकुलस्तु तथेत्युक्त्वा शीघ्रमारुह्य पादपम् |
अब्रवीद्भ्रातरं ज्येष्ठमभिवीक्ष्य समन्ततः ||७||
पश्यामि बहुलान्राजन्वृक्षानुदकसंश्रयान् |
सारसानां च निर्ह्रादमत्रोदकमसंशयम् ||८||
ततोऽब्रवीत्सत्यधृतिः कुन्तीपुत्रो युधिष्ठिरः |
गच्छ सौम्य ततः शीघ्रं तूर्णं पानीयमानय ||९||
नकुलस्तु तथेत्युक्त्वा भ्रातुर्ज्येष्ठस्य शासनात् |
प्राद्रवद्यत्र पानीयं शीघ्रं चैवान्वपद्यत ||१०||
स दृष्ट्वा विमलं तोयं सारसैः परिवारितम् |
पातुकामस्ततो वाचमन्तरिक्षात्स शुश्रुवे ||११||
मा तात साहसं कार्षीर्मम पूर्वपरिग्रहः |
प्रश्नानुक्त्वा तु माद्रेय ततः पिब हरस्व च ||१२||
अनादृत्य तु तद्वाक्यं नकुलः सुपिपासितः |
अपिबच्छीतलं तोयं पीत्वा च निपपात ह ||१३||
चिरायमाणे नकुले कुन्तीपुत्रो युधिष्ठिरः |
अब्रवीद्भ्रातरं वीरं सहदेवमरिंदमम् ||१४||
भ्राता चिरायते तात सहदेव तवाग्रजः |
तं चैवानय सोदर्यं पानीयं च त्वमानय ||१५||
सहदेवस्तथेत्युक्त्वा तां दिशं प्रत्यपद्यत |
ददर्श च हतं भूमौ भ्रातरं नकुलं तदा ||१६||
भ्रातृशोकाभिसन्तप्तस्तृषया च प्रपीडितः |
अभिदुद्राव पानीयं ततो वागभ्यभाषत ||१७||
मा तात साहसं कार्षीर्मम पूर्वपरिग्रहः |
प्रश्नानुक्त्वा यथाकामं ततः पिब हरस्व च ||१८||
अनादृत्य तु तद्वाक्यं सहदेवः पिपासितः |
अपिबच्छीतलं तोयं पीत्वा च निपपात ह ||१९||
अथाब्रवीत्स विजयं कुन्तीपुत्रो युधिष्ठिरः |
भ्रातरौ ते चिरगतौ बीभत्सो शत्रुकर्शन ||२०||
तौ चैवानय भद्रं ते पानीयं च त्वमानय ||२०||
एवमुक्तो गुडाकेशः प्रगृह्य सशरं धनुः |
आमुक्तखड्गो मेधावी तत्सरः प्रत्यपद्यत ||२१||
यतः पुरुषशार्दूलौ पानीयहरणे गतौ |
तौ ददर्श हतौ तत्र भ्रातरौ श्वेतवाहनः ||२२||
प्रसुप्ताविव तौ दृष्ट्वा नरसिंहः सुदुःखितः |
धनुरुद्यम्य कौन्तेयो व्यलोकयत तद्वनम् ||२३||
नापश्यत्तत्र किञ्चित्स भूतं तस्मिन्महावने |
सव्यसाची ततः श्रान्तः पानीयं सोऽभ्यधावत ||२४||
अभिधावंस्ततो वाचमन्तरिक्षात्स शुश्रुवे |
किमासीदसि पानीयं नैतच्छक्यं बलात्त्वया ||२५||
कौन्तेय यदि वै प्रश्नान्मयोक्तान्प्रतिपत्स्यसे |
ततः पास्यसि पानीयं हरिष्यसि च भारत ||२६||
वारितस्त्वब्रवीत्पार्थो दृश्यमानो निवारय |
यावद्बाणैर्विनिर्भिन्नः पुनर्नैवं वदिष्यसि ||२७||
एवमुक्त्वा ततः पार्थः शरैरस्त्रानुमन्त्रितैः |
ववर्ष तां दिशं कृत्स्नां शब्दवेधं च दर्शयन् ||२८||
कर्णिनालीकनाराचानुत्सृजन्भरतर्षभ |
अनेकैरिषुसङ्घातैरन्तरिक्षं ववर्ष ह ||२९||
यक्ष उवाच||
किं विघातेन ते पार्थ प्रश्नानुक्त्वा ततः पिब |
अनुक्त्वा तु ततः प्रश्नान्पीत्वैव न भविष्यसि ||३०||
वैशम्पायन उवाच||
स त्वमोघानिषून्मुक्त्वा तृष्णयाभिप्रपीडितः |
अविज्ञायैव तान्प्रश्नान्पीत्वैव निपपात ह ||३१||
अथाब्रवीद्भीमसेनं कुन्तीपुत्रो युधिष्ठिरः |
नकुलः सहदेवश्च बीभत्सुश्चापराजितः ||३२||
चिरं गतास्तोयहेतोर्न चागच्छन्ति भारत |
तांश्चैवानय भद्रं ते पानीयं च त्वमानय ||३३||
भीमसेनस्तथेत्युक्त्वा तां दिशं प्रत्यपद्यत |
यत्र ते पुरुषव्याघ्रा भ्रातरोऽस्य निपातिताः ||३४||
तान्दृष्ट्वा दुःखितो भीमस्तृषया च प्रपीडितः |
अमन्यत महाबाहुः कर्म तद्यक्षरक्षसाम् ||३५||
स चिन्तयामास तदा योद्धव्यं ध्रुवमद्य मे ||३५||
पास्यामि तावत्पानीयमिति पार्थो वृकोदरः |
ततोऽभ्यधावत्पानीयं पिपासुः पुरुषर्षभः ||३६||
यक्ष उवाच||
मा तात साहसं कार्षीर्मम पूर्वपरिग्रहः |
प्रश्नानुक्त्वा तु कौन्तेय ततः पिब हरस्व च ||३७||
वैशम्पायन उवाच||
एवमुक्तस्ततो भीमो यक्षेणामिततेजसा |
अविज्ञायैव तान्प्रश्नान्पीत्वैव निपपात ह ||३८||
ततः कुन्तीसुतो राजा विचिन्त्य पुरुषर्षभः |
समुत्थाय महाबाहुर्दह्यमानेन चेतसा ||३९||
अपेतजननिर्घोषं प्रविवेश महावनम् |
रुरुभिश्च वराहैश्च पक्षिभिश्च निषेवितम् ||४०||
नीलभास्वरवर्णैश्च पादपैरुपशोभितम् |
भ्रमरैरुपगीतं च पक्षिभिश्च महायशाः ||४१||
स गच्छन्कानने तस्मिन्हेमजालपरिष्कृतम् |
ददर्श तत्सरः श्रीमान्विश्वकर्मकृतं यथा ||४२||
उपेतं नलिनीजालैः सिन्धुवारैश्च वेतसैः |
केतकैः करवीरैश्च पिप्पलैश्चैव संवृतम् ||४३||
श्रमार्तस्तदुपागम्य सरो दृष्ट्वाथ विस्मितः ||४३||
यक्षप्रश्नाः
२९७
वैशम्पायन उवाच||
स ददर्श हतान्भ्रातॄँल्लोकपालानिव च्युतान् |
युगान्ते समनुप्राप्ते शक्रप्रतिमगौरवान् ||१||
विप्रकीर्णधनुर्बाणं दृष्ट्वा निहतमर्जुनम् |
भीमसेनं यमौ चोभौ निर्विचेष्टान्गतायुषः ||२||
स दीर्घमुष्णं निःश्वस्य शोकबाष्पपरिप्लुतः |
बुद्ध्या विचिन्तयामास वीराः केन निपातिताः ||३||
नैषां शस्त्रप्रहारोऽस्ति पदं नेहास्ति कस्यचित् |
भूतं महदिदं मन्ये भ्रातरो येन मे हताः ||४||
एकाग्रं चिन्तयिष्यामि पीत्वा वेत्स्यामि वा जलम् ||४||
स्यात्तु दुर्योधनेनेदमुपांशुविहितं कृतम् |
गान्धारराजरचितं सततं जिह्मबुद्धिना ||५||
यस्य कार्यमकार्यं वा सममेव भवत्युत |
कस्तस्य विश्वसेद्वीरो दुर्मतेरकृतात्मनः ||६||
अथ वा पुरुषैर्गूढैः प्रयोगोऽयं दुरात्मनः |
भवेदिति महाबाहुर्बहुधा समचिन्तयत् ||७||
तस्यासीन्न विषेणेदमुदकं दूषितं यथा |
मुखवर्णाः प्रसन्ना मे भ्रातॄणामित्यचिन्तयत् ||८||
एकैकशश्चौघबलानिमान्पुरुषसत्तमान् |
कोऽन्यः प्रतिसमासेत कालान्तकयमादृते ||९||
एतेनाध्यवसायेन तत्तोयमवगाढवान् |
गाहमानश्च तत्तोयमन्तरिक्षात्स शुश्रुवे ||१०||
यक्ष उवाच||
अहं बकः शैवलमत्स्यभक्षो; मया नीताः प्रेतवशं तवानुजाः |
त्वं पञ्चमो भविता राजपुत्र; न चेत्प्रश्नान्पृच्छतो व्याकरोषि ||११||
मा तात साहसं कार्षीर्मम पूर्वपरिग्रहः |
प्रश्नानुक्त्वा तु कौन्तेय ततः पिब हरस्व च ||१२||
युधिष्ठिर उवाच||
रुद्राणां वा वसूनां वा मरुतां वा प्रधानभाक् |
पृच्छामि को भवान्देवो नैतच्छकुनिना कृतम् ||१३||
हिमवान्पारियात्रश्च विन्ध्यो मलय एव च |
चत्वारः पर्वताः केन पातिता भुवि तेजसा ||१४||
अतीव ते महत्कर्म कृतं बलवतां वर |
यन्न देवा न गन्धर्वा नासुरा न च राक्षसाः ||१५||
विषहेरन्महायुद्धे कृतं ते तन्महाद्भुतम् ||१५||
न ते जानामि यत्कार्यं नाभिजानामि काङ्क्षितम् |
कौतूहलं महज्जातं साध्वसं चागतं मम ||१६||
येनास्म्युद्विग्नहृदयः समुत्पन्नशिरोज्वरः |
पृच्छामि भगवंस्तस्मात्को भवानिह तिष्ठति ||१७||
यक्ष उवाच||
यक्षोऽहमस्मि भद्रं ते नास्मि पक्षी जलेचरः |
मयैते निहताः सर्वे भ्रातरस्ते महौजसः ||१८||
वैशम्पायन उवाच||
ततस्तामशिवां श्रुत्वा वाचं स परुषाक्षराम् |
यक्षस्य ब्रुवतो राजन्नुपक्रम्य तदा स्थितः ||१९||
विरूपाक्षं महाकायं यक्षं तालसमुच्छ्रयम् |
ज्वलनार्कप्रतीकाशमधृष्यं पर्वतोपमम् ||२०||
सेतुमाश्रित्य तिष्ठन्तं ददर्श भरतर्षभः |
मेघगम्भीरया वाचा तर्जयन्तं महाबलम् ||२१||
यक्ष उवाच||
इमे ते भ्रातरो राजन्वार्यमाणा मयासकृत् |
बलात्तोयं जिहीर्षन्तस्ततो वै सूदिता मया ||२२||
न पेयमुदकं राजन्प्राणानिह परीप्सता |
पार्थ मा साहसं कार्षीर्मम पूर्वपरिग्रहः ||२३||
प्रश्नानुक्त्वा तु कौन्तेय ततः पिब हरस्व च ||२३||
युधिष्ठिर उवाच||
नैवाहं कामये यक्ष तव पूर्वपरिग्रहम् |
कामं नैतत्प्रशंसन्ति सन्तो हि पुरुषाः सदा ||२४||
यदात्मना स्वमात्मानं प्रशंसेत्पुरुषः प्रभो |
यथाप्रज्ञं तु ते प्रश्नान्प्रतिवक्ष्यामि पृच्छ माम् ||२५||
यक्ष उवाच||
किं स्विदादित्यमुन्नयति के च तस्याभितश्चराः |
कश्चैनमस्तं नयति कस्मिंश्च प्रतितिष्ठति ||२६||
युधिष्ठिर उवाच||
ब्रह्मादित्यमुन्नयति देवास्तस्याभितश्चराः |
धर्मश्चास्तं नयति च सत्ये च प्रतितिष्ठति ||२७||
यक्ष उवाच||
केन स्विच्छ्रोत्रियो भवति केन स्विद्विन्दते महत् |
केन द्वितीयवान्भवति राजन्केन च बुद्धिमान् ||२८||
युधिष्ठिर उवाच||
श्रुतेन श्रोत्रियो भवति तपसा विन्दते महत् |
धृत्या द्वितीयवान्भवति बुद्धिमान्वृद्धसेवया ||२९||
यक्ष उवाच||
किं ब्राह्मणानां देवत्वं कश्च धर्मः सतामिव |
कश्चैषां मानुषो भावः किमेषामसतामिव ||३०||
युधिष्ठिर उवाच||
स्वाध्याय एषां देवत्वं तप एषां सतामिव |
मरणं मानुषो भावः परिवादोऽसतामिव ||३१||
यक्ष उवाच||
किं क्षत्रियाणां देवत्वं कश्च धर्मः सतामिव |
कश्चैषां मानुषो भावः किमेषामसतामिव ||३२||
युधिष्ठिर उवाच||
इष्वस्त्रमेषां देवत्वं यज्ञ एषां सतामिव |
भयं वै मानुषो भावः परित्यागोऽसतामिव ||३३||
यक्ष उवाच||
किमेकं यज्ञियं साम किमेकं यज्ञियं यजुः |
का चैका वृश्चते यज्ञं कां यज्ञो नातिवर्तते ||३४||
युधिष्ठिर उवाच||
प्राणो वै यज्ञियं साम मनो वै यज्ञियं यजुः |
वागेका वृश्चते यज्ञं तां यज्ञो नातिवर्तते ||३५||
यक्ष उवाच||
किं स्विदापततां श्रेष्ठं किं स्विन्निपततां वरम् |
किं स्वित्प्रतिष्ठमानानां किं स्वित्प्रवदतां वरम् ||३६||
युधिष्ठिर उवाच||
वर्षमापततां श्रेष्ठं बीजं निपततां वरम् |
गावः प्रतिष्ठमानानां पुत्रः प्रवदतां वरः ||३७||
यक्ष उवाच||
इन्द्रियार्थाननुभवन्बुद्धिमाँल्लोकपूजितः |
संमतः सर्वभूतानामुच्छ्वसन्को न जीवति ||३८||
युधिष्ठिर उवाच||
देवतातिथिभृत्यानां पितॄणामात्मनश्च यः |
न निर्वपति पञ्चानामुच्छ्वसन्न स जीवति ||३९||
यक्ष उवाच||
किं स्विद्गुरुतरं भूमेः किं स्विदुच्चतरं च खात् |
किं स्विच्छीघ्रतरं वायोः किं स्विद्बहुतरं नृणाम् ||४०||
युधिष्ठिर उवाच||
माता गुरुतरा भूमेः पिता उच्चतरश्च खात् |
मनः शीघ्रतरं वायोश्चिन्ता बहुतरी नृणाम् ||४१||
यक्ष उवाच||
किं स्वित्सुप्तं न निमिषति किं स्विज्जातं न चोपति |
कस्य स्विद्धृदयं नास्ति किं स्विद्वेगेन वर्धते ||४२||
युधिष्ठिर उवाच||
मत्स्यः सुप्तो न निमिषत्यण्डं जातं न चोपति |
अश्मनो हृदयं नास्ति नदी वेगेन वर्धते ||४३||
यक्ष उवाच||
किं स्वित्प्रवसतो मित्रं किं स्विन्मित्रं गृहे सतः |
आतुरस्य च किं मित्रं किं स्विन्मित्रं मरिष्यतः ||४४||
युधिष्ठिर उवाच||
सार्थः प्रवसतो मित्रं भार्या मित्रं गृहे सतः |
आतुरस्य भिषङ्मित्रं दानं मित्रं मरिष्यतः ||४५||
यक्ष उवाच||
किं स्विदेको विचरति जातः को जायते पुनः |
किं स्विद्धिमस्य भैषज्यं किं स्विदावपनं महत् ||४६||
युधिष्ठिर उवाच||
सूर्य एको विचरति चन्द्रमा जायते पुनः |
अग्निर्हिमस्य भैषज्यं भूमिरावपनं महत् ||४७||
यक्ष उवाच||
किं स्विदेकपदं धर्म्यं किं स्विदेकपदं यशः |
किं स्विदेकपदं स्वर्ग्यं किं स्विदेकपदं सुखम् ||४८||
युधिष्ठिर उवाच||
दाक्ष्यमेकपदं धर्म्यं दानमेकपदं यशः |
सत्यमेकपदं स्वर्ग्यं शीलमेकपदं सुखम् ||४९||
यक्ष उवाच||
किं स्विदात्मा मनुष्यस्य किं स्विद्दैवकृतः सखा |
उपजीवनं किं स्विदस्य किं स्विदस्य परायणम् ||५०||
युधिष्ठिर उवाच||
पुत्र आत्मा मनुष्यस्य भार्या दैवकृतः सखा |
उपजीवनं च पर्जन्यो दानमस्य परायणम् ||५१||
यक्ष उवाच||
धन्यानामुत्तमं किं स्विद्धनानां किं स्विदुत्तमम् |
लाभानामुत्तमं किं स्वित्किं सुखानां तथोत्तमम् ||५२||
युधिष्ठिर उवाच||
धन्यानामुत्तमं दाक्ष्यं धनानामुत्तमं श्रुतम् |
लाभानां श्रेष्ठमारोग्यं सुखानां तुष्टिरुत्तमा ||५३||
यक्ष उवाच||
कश्च धर्मः परो लोके कश्च धर्मः सदाफलः |
किं नियम्य न शोचन्ति कैश्च सन्धिर्न जीर्यते ||५४||
युधिष्ठिर उवाच||
आनृशंस्यं परो धर्मस्त्रयीधर्मः सदाफलः |
मनो यम्य न शोचन्ति सद्भिः सन्धिर्न जीर्यते ||५५||
यक्ष उवाच||
किं नु हित्वा प्रियो भवति किं नु हित्वा न शोचति |
किं नु हित्वार्थवान्भवति किं नु हित्वा सुखी भवेत् ||५६||
युधिष्ठिर उवाच||
मानं हित्वा प्रियो भवति क्रोधं हित्वा न शोचति |
कामं हित्वार्थवान्भवति लोभं हित्वा सुखी भवेत् ||५७||
यक्ष उवाच||
मृतः कथं स्यात्पुरुषः कथं राष्ट्रं मृतं भवेत् |
श्राद्धं मृतं कथं च स्यात्कथं यज्ञो मृतो भवेत् ||५८||
युधिष्ठिर उवाच||
मृतो दरिद्रः पुरुषो मृतं राष्ट्रमराजकम् |
मृतमश्रोत्रियं श्राद्धं मृतो यज्ञस्त्वदक्षिणः ||५९||
यक्ष उवाच||
का दिक्किमुदकं प्रोक्तं किमन्नं पार्थ किं विषम् |
श्राद्धस्य कालमाख्याहि ततः पिब हरस्व च ||६०||
युधिष्ठिर उवाच||
सन्तो दिग्जलमाकाशं गौरन्नं प्रार्थना विषम् |
श्राद्धस्य ब्राह्मणः कालः कथं वा यक्ष मन्यसे ||६१||
यक्ष उवाच||
व्याख्याता मे त्वया प्रश्ना याथातथ्यं परन्तप |
पुरुषं त्विदानीमाख्याहि यश्च सर्वधनी नरः ||६२||
युधिष्ठिर उवाच||
दिवं स्पृशति भूमिं च शब्दः पुण्यस्य कर्मणः |
यावत्स शब्दो भवति तावत्पुरुष उच्यते ||६३||
तुल्ये प्रियाप्रिये यस्य सुखदुःखे तथैव च |
अतीतानागते चोभे स वै सर्वधनी नरः ||६४||
यक्ष उवाच||
व्याख्यातः पुरुषो राजन्यश्च सर्वधनी नरः |
तस्मात्तवैको भ्रातॄणां यमिच्छसि स जीवतु ||६५||
युधिष्ठिर उवाच||
श्यामो य एष रक्ताक्षो बृहच्छाल इवोद्गतः |
व्यूढोरस्को महाबाहुर्नकुलो यक्ष जीवतु ||६६||
यक्ष उवाच||
प्रियस्ते भीमसेनोऽयमर्जुनो वः परायणम् |
स कस्मान्नकुलं राजन्सापत्नं जीवमिच्छसि ||६७||
यस्य नागसहस्रेण दशसङ्ख्येन वै बलम् |
तुल्यं तं भीममुत्सृज्य नकुलं जीवमिच्छसि ||६८||
तथैनं मनुजाः प्राहुर्भीमसेनं प्रियं तव |
अथ केनानुभावेन सापत्नं जीवमिच्छसि ||६९||
यस्य बाहुबलं सर्वे पाण्डवाः समुपाश्रिताः |
अर्जुनं तमपाहाय नकुलं जीवमिच्छसि ||७०||
युधिष्ठिर उवाच||
आनृशंस्यं परो धर्मः परमार्थाच्च मे मतम् |
आनृशंस्यं चिकीर्षामि नकुलो यक्ष जीवतु ||७१||
धर्मशीलः सदा राजा इति मां मानवा विदुः |
स्वधर्मान्न चलिष्यामि नकुलो यक्ष जीवतु ||७२||
यथा कुन्ती तथा माद्री विशेषो नास्ति मे तयोः |
मातृभ्यां सममिच्छामि नकुलो यक्ष जीवतु ||७३||
यक्ष उवाच||
यस्य तेऽर्थाच्च कामाच्च आनृशंस्यं परं मतम् |
तस्मात्ते भ्रातरः सर्वे जीवन्तु भरतर्षभ ||७४||
२९८
वैशम्पायन उवाच||
ततस्ते यक्षवचनादुदतिष्ठन्त पाण्डवाः |
क्षुत्पिपासे च सर्वेषां क्षणे तस्मिन्व्यगच्छताम् ||१||
युधिष्ठिर उवाच||
सरस्येकेन पादेन तिष्ठन्तमपराजितम् |
पृच्छामि को भवान्देवो न मे यक्षो मतो भवान् ||२||
वसूनां वा भवानेको रुद्राणामथ वा भवान् |
अथ वा मरुतां श्रेष्ठो वज्री वा त्रिदशेश्वरः ||३||
मम हि भ्रातर इमे सहस्रशतयोधिनः |
न तं योगं प्रपश्यामि येन स्युर्विनिपातिताः ||४||
सुखं प्रतिविबुद्धानामिन्द्रियाण्युपलक्षये |
स भवान्सुहृदस्माकमथ वा नः पिता भवान् ||५||
यक्ष उवाच||
अहं ते जनकस्तात धर्मो मृदुपराक्रम |
त्वां दिदृक्षुरनुप्राप्तो विद्धि मां भरतर्षभ ||६||
यशः सत्यं दमः शौचमार्जवं ह्रीरचापलम् |
दानं तपो ब्रह्मचर्यमित्येतास्तनवो मम ||७||
अहिंसा समता शान्तिस्तपः शौचममत्सरः |
द्वाराण्येतानि मे विद्धि प्रियो ह्यसि सदा मम ||८||
दिष्ट्या पञ्चसु रक्तोऽसि दिष्ट्या ते षट्पदी जिता |
द्वे पूर्वे मध्यमे द्वे च द्वे चान्ते साम्परायिके ||९||
धर्मोऽहमस्मि भद्रं ते जिज्ञासुस्त्वामिहागतः |
आनृशंस्येन तुष्टोऽस्मि वरं दास्यामि तेऽनघ ||१०||
वरं वृणीष्व राजेन्द्र दाता ह्यस्मि तवानघ |
ये हि मे पुरुषा भक्ता न तेषामस्ति दुर्गतिः ||११||
युधिष्ठिर उवाच||
अरणीसहितं यस्य मृग आदाय गच्छति |
तस्याग्नयो न लुप्येरन्प्रथमोऽस्तु वरो मम ||१२||
धर्म उवाच||
अरणीसहितं तस्य ब्राह्मणस्य हृतं मया |
मृगवेषेण कौन्तेय जिज्ञासार्थं तव प्रभो ||१३||
वैशम्पायन उवाच||
ददानीत्येव भगवानुत्तरं प्रत्यपद्यत |
अन्यं वरय भद्रं ते वरं त्वममरोपम ||१४||
युधिष्ठिर उवाच||
वर्षाणि द्वादशारण्ये त्रयोदशमुपस्थितम् |
तत्र नो नाभिजानीयुर्वसतो मनुजाः क्वचित् ||१५||
वैशम्पायन उवाच||
ददानीत्येव भगवानुत्तरं प्रत्यपद्यत |
भूयश्चाश्वासयामास कौन्तेयं सत्यविक्रमम् ||१६||
यद्यपि स्वेन रूपेण चरिष्यथ महीमिमाम् |
न वो विज्ञास्यते कश्चित्त्रिषु लोकेषु भारत ||१७||
वर्षं त्रयोदशं चेदं मत्प्रसादात्कुरूद्वहाः |
विराटनगरे गूढा अविज्ञाताश्चरिष्यथ ||१८||
यद्वः सङ्कल्पितं रूपं मनसा यस्य यादृशम् |
तादृशं तादृशं सर्वे छन्दतो धारयिष्यथ ||१९||
अरणीसहितं चेदं ब्राह्मणाय प्रयच्छत |
जिज्ञासार्थं मया ह्येतदाहृतं मृगरूपिणा ||२०||
तृतीयं गृह्यतां पुत्र वरमप्रतिमं महत् |
त्वं हि मत्प्रभवो राजन्विदुरश्च ममांशभाक् ||२१||
युधिष्ठिर उवाच||
देवदेवो मया दृष्टो भवान्साक्षात्सनातनः |
यं ददासि वरं तुष्टस्तं ग्रहीष्याम्यहं पितः ||२२||
जयेयं लोभमोहौ च क्रोधं चाहं सदा विभो |
दाने तपसि सत्ये च मनो मे सततं भवेत् ||२३||
धर्म उवाच||
उपपन्नो गुणैः सर्वैः स्वभावेनासि पाण्डव |
भवान्धर्मः पुनश्चैव यथोक्तं ते भविष्यति ||२४||
वैशम्पायन उवाच||
इत्युक्त्वान्तर्दधे धर्मो भगवाँल्लोकभावनः |
समेताः पाण्डवाश्चैव सुखसुप्ता मनस्विनः ||२५||
अभ्येत्य चाश्रमं वीराः सर्व एव गतक्लमाः |
आरणेयं ददुस्तस्मै ब्राह्मणाय तपस्विने ||२६||
इदं समुत्थानसमागमं मह; त्पितुश्च पुत्रस्य च कीर्तिवर्धनम् |
पठन्नरः स्याद्विजितेन्द्रियो वशी; सपुत्रपौत्रः शतवर्षभाग्भवेत् ||२७||
न चाप्यधर्मे न सुहृद्विभेदने; परस्वहारे परदारमर्शने |
कदर्यभावे न रमेन्मनः सदा; नृणां सदाख्यानमिदं विजानताम् ||२८||
२९९
वैशम्पायन उवाच||
धर्मेण तेऽभ्यनुज्ञाताः पाण्डवाः सत्यविक्रमाः |
अज्ञातवासं वत्स्यन्तश्छन्ना वर्षं त्रयोदशम् ||१||
उपोपविश्य विद्वांसः सहिताः संशितव्रताः ||१||
ये तद्भक्ता वसन्ति स्म वनवासे तपस्विनः |
तानब्रुवन्महात्मानः शिष्टाः प्राञ्जलयस्तदा ||२||
अभ्यनुज्ञापयिष्यन्तस्तं निवासं धृतव्रताः ||२||
विदितं भवतां सर्वं धार्तराष्ट्रैर्यथा वयम् |
छद्मना हृतराज्याश्च निःस्वाश्च बहुशः कृताः ||३||
उषिताश्च वने कृच्छ्रं यत्र द्वादश वत्सरान् |
अज्ञातवाससमयं शेषं वर्षं त्रयोदशम् ||४||
तद्वत्स्यामो वयं छन्नास्तदनुज्ञातुमर्हथ ||४||
सुयोधनश्च दुष्टात्मा कर्णश्च सहसौबलः |
जानन्तो विषमं कुर्युरस्मास्वत्यन्तवैरिणः ||५||
युक्ताचाराश्च युक्ताश्च पौरस्य स्वजनस्य च ||५||
अपि नस्तद्भवेद्भूयो यद्वयं ब्राह्मणैः सह |
समस्ताः स्वेषु राष्ट्रेषु स्वराज्यस्था भवेमहि ||६||
इत्युक्त्वा दुःखशोकार्तः शुचिर्धर्मसुतस्तदा |
संमूर्छितोऽभवद्राजा साश्रुकण्ठो युधिष्ठिरः ||७||
तमथाश्वासयन्सर्वे ब्राह्मणा भ्रातृभिः सह |
अथ धौम्योऽब्रवीद्वाक्यं महार्थं नृपतिं तदा ||८||
राजन्विद्वान्भवान्दान्तः सत्यसन्धो जितेन्द्रियः |
नैवंविधाः प्रमुह्यन्ति नराः कस्याञ्चिदापदि ||९||
देवैरप्यापदः प्राप्ताश्छन्नैश्च बहुशस्तथा |
तत्र तत्र सपत्नानां निग्रहार्थं महात्मभिः ||१०||
इन्द्रेण निषधान्प्राप्य गिरिप्रस्थाश्रमे तदा |
छन्नेनोष्य कृतं कर्म द्विषतां बलनिग्रहे ||११||
विष्णुनाश्वशिरः प्राप्य तथादित्यां निवत्स्यता |
गर्भे वधार्थं दैत्यानामज्ञातेनोषितं चिरम् ||१२||
प्राप्य वामनरूपेण प्रच्छन्नं ब्रह्मरूपिणा |
बलेर्यथा हृतं राज्यं विक्रमैस्तच्च ते श्रुतम् ||१३||
और्वेण वसता छन्नमूरौ ब्रह्मर्षिणा तदा |
यत्कृतं तात लोकेषु तच्च सर्वं श्रुतं त्वया ||१४||
प्रच्छन्नं चापि धर्मज्ञ हरिणा वृत्रनिग्रहे |
वज्रं प्रविश्य शक्रस्य यत्कृतं तच्च ते श्रुतम् ||१५||
हुताशनेन यच्चापः प्रविश्य छन्नमासता |
विबुधानां कृतं कर्म तच्च सर्वं श्रुतं त्वया ||१६||
एवं विवस्वता तात छन्नेनोत्तमतेजसा |
निर्दग्धाः शत्रवः सर्वे वसता भुवि सर्वशः ||१७||
विष्णुना वसता चापि गृहे दशरथस्य वै |
दशग्रीवो हतश्छन्नं संयुगे भीमकर्मणा ||१८||
एवमेते महात्मानः प्रच्छन्नास्तत्र तत्र ह |
अजयञ्शात्रवान्युद्धे तथा त्वमपि जेष्यसि ||१९||
तथा धौम्येन धर्मज्ञो वाक्यैः सम्परितोषितः |
शास्त्रबुद्ध्या स्वबुद्ध्या च न चचाल युधिष्ठिरः ||२०||
अथाब्रवीन्महाबाहुर्भीमसेनो महाबलः |
राजानं बलिनां श्रेष्ठो गिरा सम्परिहर्षयन् ||२१||
अवेक्षया महाराज तव गाण्डीवधन्वना |
धर्मानुगतया बुद्ध्या न किञ्चित्साहसं कृतम् ||२२||
सहदेवो मया नित्यं नकुलश्च निवारितौ |
शक्तौ विध्वंसने तेषां शत्रुघ्नौ भीमविक्रमौ ||२३||
न वयं तत्प्रहास्यामो यस्मिन्योक्ष्यति नो भवान् |
भवान्विधत्तां तत्सर्वं क्षिप्रं जेष्यामहे परान् ||२४||
इत्युक्ते भीमसेनेन ब्राह्मणाः परमाशिषः |
प्रयुज्यापृच्छ्य भरतान्यथास्वान्स्वान्ययुर्गृहान् ||२५||
सर्वे वेदविदो मुख्या यतयो मुनयस्तथा |
आशीरुक्त्वा यथान्यायं पुनर्दर्शनकाङ्क्षिणः ||२६||
सह धौम्येन विद्वांसस्तथा ते पञ्च पाण्डवाः |
उत्थाय प्रययुर्वीराः कृष्णामादाय भारत ||२७||
क्रोशमात्रमतिक्रम्य तस्माद्देशान्निमित्ततः |
श्वोभूते मनुजव्याघ्राश्छन्नवासार्थमुद्यताः ||२८||
पृथक्षास्त्रविदः सर्वे सर्वे मन्त्रविशारदाः |
सन्धिविग्रहकालज्ञा मन्त्राय समुपाविशन् ||२९||
Mahabharata Critical Edition Only for Personal Studies
Encoding: ISCII
Electronic text (C) Bhandarkar Oriental Research Institute,
Pune, India, 1999
http://bombay.indology.info/mahabharata/statement.html
for further details
% File name : mbh03.itx
%--------------------------------------------
% Text title : 3 mahAbhArate AraNyakaparva.n
% Author : Veda Vyasa
% Language : sanskrit
% Subject : religion
% Description/comments : Access available at Prof John Smith's site
% http://bombay.indology.info/mahabharata/statement.html
% Transliterated by : Prof. Tokunaga
% Proofread by : Team at Bhandarkar Oriental Research Institute (BORI), Tokunaga
% Latest update : September 16, 2013
% Send corrections to : (sanskrit at cheerful dot c om)
%
% Site access : https://sanskritdocuments.org/
%-----------------------------------------------------
% The text is to be used for personal studies and research only.
% Any use for commercial purpose is prohibited as a 'gentleman's' agreement.
%--------------------------------------------------------
From https://sanskritdocuments.org
Questions, comments? Write to (sanskrit at cheerful dot c om) .