||८ महाभारते कर्णपर्वम् ||
धृतराष्ट्रसंजयसंवादः
१
वैशम्पायन उवाच||
ततो द्रोणे हते राजन्दुर्योधनमुखा नृपाः |
भृशमुद्विग्नमनसो द्रोणपुत्रमुपागमन् ||१||
ते द्रोणमुपशोचन्तः कश्मलाभिहतौजसः |
पर्युपासन्त शोकार्तास्ततः शारद्वतीसुतम् ||२||
मुहूर्तं ते समाश्वास्य हेतुभिः शास्त्रसंमितैः |
रात्र्यागमे महीपालाः स्वानि वेश्मानि भेजिरे ||३||
विशेषतः सूतपुत्रो राजा चैव सुयोधनः |
दुःशासनोऽथ शकुनिर्न निद्रामुपलेभिरे ||४||
ते वेश्मस्वपि कौरव्य पृथ्वीशा नाप्नुवन्सुखम् |
चिन्तयन्तः क्षयं तीव्रं निद्रां नैवोपलेभिरे ||५||
सहितास्ते निशायां तु दुर्योधननिवेशने |
अतिप्रचण्डाद्विद्वेषात्पाण्डवानां महात्मनाम् ||६||
यत्तद्द्यूतपरिक्लिष्टां कृष्णामानिन्यिरे सभाम् |
तत्स्मरन्तोऽन्वतप्यन्त भृशमुद्विग्नचेतसः ||७||
चिन्तयन्तश्च पार्थानां तान्क्लेशान्द्यूतकारितान् |
कृच्छ्रेण क्षणदां राजन्निन्युरब्दशतोपमाम् ||८||
ततः प्रभाते विमले स्थिता दिष्टस्य शासने |
चक्रुरावश्यकं सर्वे विधिदृष्टेन कर्मणा ||९||
ते कृत्वावश्यकार्याणि समाश्वस्य च भारत |
योगमाज्ञापयामासुर्युद्धाय च विनिर्ययुः ||१०||
कर्णं सेनापतिं कृत्वा कृतकौतुकमङ्गलाः |
वाचयित्वा द्विजश्रेष्ठान्दधिपात्रघृताक्षतैः ||११||
निष्कैर्गोभिर्हिरण्येन वासोभिश्च महाधनैः |
वर्ध्यमाना जयाशीर्भिः सूतमागधबन्दिभिः ||१२||
तथैव पाण्डवा राजन्कृतसर्वाह्णिकक्रियाः |
शिबिरान्निर्ययू राजन्युद्धाय कृतनिश्चयाः ||१३||
ततः प्रववृते युद्धं तुमुलं रोमहर्षणम् |
कुरूणां पाण्डवानां च परस्परवधैषिणाम् ||१४||
तयोर्द्वे दिवसे युद्धं कुरुपाण्डवसेनयोः |
कर्णे सेनापतौ राजन्नभूदद्भुतदर्शनम् ||१५||
ततः शत्रुक्षयं कृत्वा सुमहान्तं रणे वृषः |
पश्यतां धार्तराष्ट्राणां फल्गुनेन निपातितः ||१६||
ततस्तत्सञ्जयः सर्वं गत्वा नागाह्वयं पुरम् |
आचख्यौ धृतराष्ट्राय यद्वृत्तं कुरुजाङ्गले ||१७||
जनमेजय उवाच||
आपगेयं हतं श्रुत्वा द्रोणं च समरे परैः |
यो जगाम परामार्तिं वृद्धो राजाम्बिकासुतः ||१८||
स श्रुत्वा निहतं कर्णं दुर्योधनहितैषिणम् |
कथं द्विजवर प्राणानधारयत दुःखितः ||१९||
यस्मिञ्जयाशां पुत्राणाममन्यत स पार्थिवः |
तस्मिन्हते स कौरव्यः कथं प्राणानधारयत् ||२०||
दुर्मरं बत मन्येऽहं नृणां कृच्छ्रेऽपि वर्तताम् |
यत्र कर्णं हतं श्रुत्वा नात्यजज्जीवितं नृपः ||२१||
तथा शान्तनवं वृद्धं ब्रह्मन्बाह्लिकमेव च |
द्रोणं च सोमदत्तं च भूरिश्रवसमेव च ||२२||
तथैव चान्यान्सुहृदः पुत्रपौत्रांश्च पातितान् |
श्रुत्वा यन्नाजहात्प्राणांस्तन्मन्ये दुष्करं द्विज ||२३||
एतन्मे सर्वमाचक्ष्व विस्तरेण तपोधन |
न हि तृप्यामि पूर्वेषां शृण्वानश्चरितं महत् ||२४||
वैशम्पायन उवाच||
हते कर्णे महाराज निशि गावल्गणिस्तदा |
दीनो ययौ नागपुरमश्वैर्वातसमैर्जवे ||२५||
स हास्तिनपुरं गत्वा भृशमुद्विग्नमानसः |
जगाम धृतराष्ट्रस्य क्षयं प्रक्षीणबान्धवम् ||२६||
स समुद्वीक्ष्य राजानं कश्मलाभिहतौजसम् |
ववन्दे प्राञ्जलिर्भूत्वा मूर्ध्ना पादौ नृपस्य ह ||२७||
सम्पूज्य च यथान्यायं धृतराष्ट्रं महीपतिम् |
हा कष्टमिति चोक्त्वा स ततो वचनमाददे ||२८||
सञ्जयोऽहं क्षितिपते कच्चिदास्ते सुखं भवान् |
स्वदोषेणापदं प्राप्य कच्चिन्नाद्य विमुह्यसि ||२९||
हितान्युक्तानि विदुरद्रोणगाङ्गेयकेशवैः |
अगृहीतान्यनुस्मृत्य कच्चिन्न कुरुषे व्यथाम् ||३०||
रामनारदकण्वैश्च हितमुक्तं सभातले |
नगृहीतमनुस्मृत्य कच्चिन्न कुरुषे व्यथाम् ||३१||
सुहृदस्त्वद्धिते युक्तान्भीष्मद्रोणमुखान्परैः |
निहतान्युधि संस्मृत्य कच्चिन्न कुरुषे व्यथाम् ||३२||
तमेवंवादिनं राजा सूतपुत्रं कृताञ्जलिम् |
सुदीर्घमभिनिःश्वस्य दुःखार्त इदमब्रवीत् ||३३||
गाङ्गेये निहते शूरे दिव्यास्त्रवति सञ्जय |
द्रोणे च परमेष्वासे भृशं मे व्यथितं मनः ||३४||
यो रथानां सहस्राणि दंशितानां दशैव हि |
अहन्यहनि तेजस्वी निजघ्ने वसुसम्भवः ||३५||
स हतो यज्ञसेनस्य पुत्रेणेह शिखण्डिना |
पाण्डवेयाभिगुप्तेन भृशं मे व्यथितं मनः ||३६||
भार्गवः प्रददौ यस्मै परमास्त्रं महात्मने |
साक्षाद्रामेण यो बाल्ये धनुर्वेद उपाकृतः ||३७||
यस्य प्रसादात्कौन्तेया राजपुत्रा महाबलाः |
महारथत्वं सम्प्राप्तास्तथान्ये वसुधाधिपाः ||३८||
तं द्रोणं निहतं श्रुत्वा धृष्टद्युम्नेन संयुगे |
सत्यसन्धं महेष्वासं भृशं मे व्यथितं मनः ||३९||
त्रैलोक्ये यस्य शास्त्रेषु न पुमान्विद्यते समः |
तं द्रोणं निहतं श्रुत्वा किमकुर्वत मामकाः ||४०||
संशप्तकानां च बले पाण्डवेन महात्मना |
धनञ्जयेन विक्रम्य गमिते यमसादनम् ||४१||
नारायणास्त्रे निहते द्रोणपुत्रस्य धीमतः |
हतशेषेष्वनीकेषु किमकुर्वत मामकाः ||४२||
विप्रद्रुतानहं मन्ये निमग्नः शोकसागरे |
प्लवमानान्हते द्रोणे सन्ननौकानिवार्णवे ||४३||
दुर्योधनस्य कर्णस्य भोजस्य कृतवर्मणः |
मद्रराजस्य शल्यस्य द्रौणेश्चैव कृपस्य च ||४४||
मत्पुत्रशेषस्य तथा तथान्येषां च सञ्जय |
विप्रकीर्णेष्वनीकेषु मुखवर्णोऽभवत्कथम् ||४५||
एतत्सर्वं यथा वृत्तं तत्त्वं गावल्गणे रणे |
आचक्ष्व पाण्डवेयानां मामकानां च सर्वशः ||४६||
सञ्जय उवाच||
पाण्डवेयैर्हि यद्वृत्तं कौरवेयेषु मारिष |
तच्छ्रुत्वा मा व्यथां कार्षीदिष्टे न व्यथते मनः ||४७||
यस्मादभावी भावी वा भवेदर्थो नरं प्रति |
अप्राप्तौ तस्य वा प्राप्तौ न कश्चिद्व्यथते बुधः ||४८||
धृतराष्ट्र उवाच||
न व्यथा शृण्वतः काचिद्विद्यते मम सञ्जय |
दिष्टमेतत्पुरा मन्ये कथयस्व यथेच्छकम् ||४९||
२
सञ्जय उवाच||
हते द्रोणे महेष्वासे तव पुत्रा महारथाः |
बभूवुराश्वस्तमुखा विषण्णा गतचेतसः ||१||
अवाङ्मुखाः शस्त्रभृतः सर्व एव विशां पते |
अप्रेक्षमाणाः शोकार्ता नाभ्यभाषन्परस्परम् ||२||
तान्दृष्ट्वा व्यथिताकारान्सैन्यानि तव भारत |
ऊर्ध्वमेवाभ्यवेक्षन्त दुःखत्रस्तान्यनेकशः ||३||
शस्त्राण्येषां च राजेन्द्र शोणिताक्तान्यशेषतः |
प्राभ्रश्यन्त कराग्रेभ्यो दृष्ट्वा द्रोणं निपातितम् ||४||
तानि बद्धान्यनिष्टानि लम्बमानानि भारत |
अदृश्यन्त महाराज नक्षत्राणि यथा दिवि ||५||
तथार्तं स्तिमितं दृष्ट्वा गतसत्त्वमिव स्थितम् |
स्वं बलं तन्महाराज राजा दुर्योधनोऽब्रवीत् ||६||
भवतां बाहुवीर्यं हि समाश्रित्य मया युधि |
पाण्डवेयाः समाहूता युद्धं चेदं प्रवर्तितम् ||७||
तदिदं निहते द्रोणे विषण्णमिव लक्ष्यते |
युध्यमानाश्च समरे योधा वध्यन्ति सर्वतः ||८||
जयो वापि वधो वापि युध्यमानस्य संयुगे |
भवेत्किमत्र चित्रं वै युध्यध्वं सर्वतोमुखाः ||९||
पश्यध्वं च महात्मानं कर्णं वैकर्तनं युधि |
प्रचरन्तं महेष्वासं दिव्यैरस्त्रैर्महाबलम् ||१०||
यस्य वै युधि सन्त्रासात्कुन्तीपुत्रो धनञ्जयः |
निवर्तते सदामर्षात्सिंहात्क्षुद्रमृगो यथा ||११||
येन नागायुतप्राणो भीमसेनो महाबलः |
मानुषेणैव युद्धेन तामवस्थां प्रवेशितः ||१२||
येन दिव्यास्त्रविच्छूरो मायावी स घटोत्कचः |
अमोघया रणे शक्त्या निहतो भैरवं नदन् ||१३||
तस्य दुष्पारवीर्यस्य सत्यसन्धस्य धीमतः |
बाह्वोर्द्रविणमक्षय्यमद्य द्रक्ष्यथ संयुगे ||१४||
द्रोणपुत्रस्य विक्रान्तं राधेयस्यैव चोभयोः |
पाण्डुपाञ्चालसैन्येषु द्रक्ष्यथापि महात्मनोः ||१५||
सर्व एव भवन्तश्च शूराः प्राज्ञाः कुलोद्गताः |
शीलवन्तः कृतास्त्राश्च द्रक्ष्यथाद्य परस्परम् ||१६||
एवमुक्ते महाराज कर्णो वैकर्तनो नृपः |
सिंहनादं विनद्योच्चैः प्रायुध्यत महाबलः ||१७||
स सृञ्जयानां सर्वेषां पाञ्चालानां च पश्यताम् |
केकयानां विदेहानामकरोत्कदनं महत् ||१८||
तस्येषुधाराः शतशः प्रादुरासञ्शरासनात् |
अग्रे पुङ्खे च संसक्ता यथा भ्रमरपङ्क्तयः ||१९||
स पीडयित्वा पाञ्चालान्पाण्डवांश्च तरस्विनः |
हत्वा सहस्रशो योधानर्जुनेन निपातितः ||२०||
धृतराष्ट्रशोकः
३
वैशम्पायन उवाच||
एतच्छ्रुत्वा महाराज धृतराष्ट्रोऽम्बिकासुतः |
शोकस्यान्तमपश्यन्वै हतं मत्वा सुयोधनम् ||१||
विह्वलः पतितो भूमौ नष्टचेता इव द्विपः ||१||
तस्मिन्निपतिते भूमौ विह्वले राजसत्तमे |
आर्तनादो महानासीत्स्त्रीणां भरतसत्तम ||२||
स शब्दः पृथिवीं सर्वां पूरयामास सर्वशः |
शोकार्णवे महाघोरे निमग्ना भरतस्त्रियः ||३||
राजानं च समासाद्य गान्धारी भरतर्षभ |
निःसञ्ज्ञा पतिता भूमौ सर्वाण्यन्तःपुराणि च ||४||
ततस्ताः सञ्जयो राजन्समाश्वासयदातुराः |
मुह्यमानाः सुबहुशो मुञ्चन्त्यो वारि नेत्रजम् ||५||
समाश्वस्ताः स्त्रियस्तास्तु वेपमाना मुहुर्मुहुः |
कदल्य इव वातेन धूयमानाः समन्ततः ||६||
राजानं विदुरश्चापि प्रज्ञाचक्षुषमीश्वरम् |
आश्वासयामास तदा सिञ्चंस्तोयेन कौरवम् ||७||
स लब्ध्वा शनकैः सञ्ज्ञां ताश्च दृष्ट्वा स्त्रियो नृप |
उन्मत्त इव राजा स स्थितस्तूष्णीं विशां पते ||८||
ततो ध्यात्वा चिरं कालं निःश्वसंश्च पुनः पुनः |
स्वान्पुत्रान्गर्हयामास बहु मेने च पाण्डवान् ||९||
गर्हयित्वात्मनो बुद्धिं शकुनेः सौबलस्य च |
ध्यात्वा च सुचिरं कालं वेपमानो मुहुर्मुहुः ||१०||
संस्तभ्य च मनो भूयो राजा धैर्यसमन्वितः |
पुनर्गावल्गणिं सूतं पर्यपृच्छत सञ्जयम् ||११||
यत्त्वया कथितं वाक्यं श्रुतं सञ्जय तन्मया |
कच्चिद्दुर्योधनः सूत न गतो वै यमक्षयम् ||१२||
ब्रूहि सञ्जय तत्त्वेन पुनरुक्तां कथामिमाम् ||१२||
एवमुक्तोऽब्रवीत्सूतो राजानं जनमेजय |
हतो वैकर्तनो राजन्सह पुत्रैर्महारथैः ||१३||
भ्रातृभिश्च महेष्वासैः सूतपुत्रैस्तनुत्यजैः ||१३||
दुःशासनश्च निहतः पाण्डवेन यशस्विना |
पीतं च रुधिरं कोपाद्भीमसेनेन संयुगे ||१४||
४
वैशम्पायन उवाच||
एतच्छ्रुत्वा महाराज धृतराष्ट्रोऽम्बिकासुतः |
अब्रवीत्सञ्जयं सूतं शोकव्याकुलचेतनः ||१||
दुष्प्रणीतेन मे तात मनसाभिप्लुतात्मनः |
हतं वैकर्तनं श्रुत्वा शोको मर्माणि कृन्तति ||२||
कृतास्त्रपरमाः शल्ये दुःखपारं तितीर्षवः |
कुरूणां सृञ्जयानां च के नु जीवन्ति के मृताः ||३||
सञ्जय उवाच||
हतः शान्तनवो राजन्दुराधर्षः प्रतापवान् |
हत्वा पाण्डवयोधानामर्बुदं दशभिर्दिनैः ||४||
ततो द्रोणो महेष्वासः पाञ्चालानां रथव्रजान् |
निहत्य युधि दुर्धर्षः पश्चाद्रुक्मरथो हतः ||५||
हतशिष्टस्य भीष्मेण द्रोणेन च महात्मना |
अर्धं निहत्य सैन्यस्य कर्णो वैकर्तनो हतः ||६||
विविंशतिर्महाराज राजपुत्रो महाबलः |
आनर्तयोधाञ्शतशो निहत्य निहतो रणे ||७||
अथ पुत्रो विकर्णस्ते क्षत्रव्रतमनुस्मरन् |
क्षीणवाहायुधः शूरः स्थितोऽभिमुखतः परान् ||८||
घोररूपान्परिक्लेशान्दुर्योधनकृतान्बहून् |
प्रतिज्ञां स्मरता चैव भीमसेनेन पातितः ||९||
विन्दानुविन्दावावन्त्यौ राजपुत्रौ महाबलौ |
कृत्वा नसुकरं कर्म गतौ वैवस्वतक्षयम् ||१०||
सिन्धुराष्ट्रमुखानीह दश राष्ट्राणि यस्य वै |
वशे तिष्ठन्ति वीरस्य यः स्थितस्तव शासने ||११||
अक्षौहिणीर्दशैकां च निर्जित्य निशितैः शरैः |
अर्जुनेन हतो राजन्महावीर्यो जयद्रथः ||१२||
तथा दुर्योधनसुतस्तरस्वी युद्धदुर्मदः |
वर्तमानः पितुः शास्त्रे सौभद्रेण निपातितः ||१३||
तथा दौःशासनिर्वीरो बाहुशाली रणोत्कटः |
द्रौपदेयेन विक्रम्य गमितो यमसादनम् ||१४||
किरातानामधिपतिः सागरानूपवासिनाम् |
देवराजस्य धर्मात्मा प्रियो बहुमतः सखा ||१५||
भगदत्तो महीपालः क्षत्रधर्मरतः सदा |
धनञ्जयेन विक्रम्य गमितो यमसादनम् ||१६||
तथा कौरवदायादः सौमदत्तिर्महायशाः |
हतो भूरिश्रवा राजञ्शूरः सात्यकिना युधि ||१७||
श्रुतायुरपि चाम्बष्ठः क्षत्रियाणां धनुर्धरः |
चरन्नभीतवत्सङ्ख्ये निहतः सव्यसाचिना ||१८||
तव पुत्रः सदा सङ्ख्ये कृतास्त्रो युद्धदुर्मदः |
दुःशासनो महाराज भीमसेनेन पातितः ||१९||
यस्य राजन्गजानीकं बहुसाहस्रमद्भुतम् |
सुदक्षिणः स सङ्ग्रामे निहतः सव्यसाचिना ||२०||
कोसलानामधिपतिर्हत्वा बहुशतान्परान् |
सौभद्रेण हि विक्रम्य गमितो यमसादनम् ||२१||
बहुशो योधयित्वा च भीमसेनं महारथः |
चित्रसेनस्तव सुतो भीमसेनेन पातितः ||२२||
मद्रराजात्मजः शूरः परेषां भयवर्धनः |
असिचर्मधरः श्रीमान्सौभद्रेण निपातितः ||२३||
समः कर्णस्य समरे यः स कर्णस्य पश्यतः |
वृषसेनो महातेजाः शीघ्रास्त्रः कृतनिश्चयः ||२४||
अभिमन्योर्वधं स्मृत्वा प्रतिज्ञामपि चात्मनः |
धनञ्जयेन विक्रम्य गमितो यमसादनम् ||२५||
नित्यप्रसक्तवैरो यः पाण्डवैः पृथिवीपतिः |
विश्राव्य वैरं पार्थेन श्रुतायुः स निपातितः ||२६||
शल्यपुत्रस्तु विक्रान्तः सहदेवेन मारिष |
हतो रुक्मरथो राजन्भ्राता मातुलजो युधि ||२७||
राजा भगीरथो वृद्धो बृहत्क्षत्रश्च केकयः |
पराक्रमन्तौ विक्रान्तौ निहतौ वीर्यवत्तरौ ||२८||
भगदत्तसुतो राजन्कृतप्रज्ञो महाबलः |
श्येनवच्चरता सङ्ख्ये नकुलेन निपातितः ||२९||
पितामहस्तव तथा बाह्लिकः सह बाह्लिकैः |
भीमसेनेन विक्रम्य गमितो यमसादनम् ||३०||
जयत्सेनस्तथा राजञ्जारासन्धिर्महाबलः |
मागधो निहतः सङ्ख्ये सौभद्रेण महात्मना ||३१||
पुत्रस्ते दुर्मुखो राजन्दुःसहश्च महारथः |
गदया भीमसेनेन निहतौ शूरमानिनौ ||३२||
दुर्मर्षणो दुर्विषहो दुर्जयश्च महारथः |
कृत्वा नसुकरं कर्म गता वैवस्वतक्षयम् ||३३||
सचिवो वृषवर्मा ते सूतः परमवीर्यवान् |
भीमसेनेन विक्रम्य गमितो यमसादनम् ||३४||
नागायुतबलो राजा नागायुतबलो महान् |
सगणः पाण्डुपुत्रेण निहतः सव्यसाचिना ||३५||
वसातयो महाराज द्विसाहस्राः प्रहारिणः |
शूरसेनाश्च विक्रान्ताः सर्वे युधि निपातिताः ||३६||
अभीषाहाः कवचिनः प्रहरन्तो मदोत्कटाः |
शिबयश्च रथोदाराः कलिङ्गसहिता हताः ||३७||
गोकुले नित्यसंवृद्धा युद्धे परमकोविदाः |
श्रेणयो बहुसाहस्राः संशप्तकगणाश्च ये ||३८||
ते सर्वे पार्थमासाद्य गता वैवस्वतक्षयम् ||३८||
स्यालौ तव महाराज राजानौ वृषकाचलौ |
त्वदर्थे सम्पराक्रान्तौ निहतौ सव्यसाचिना ||३९||
उग्रकर्मा महेष्वासो नामतः कर्मतस्तथा |
शाल्वराजो महाराज भीमसेनेन पातितः ||४०||
ओघवांश्च महाराज बृहन्तः सहितो रणे |
पराक्रमन्तौ मित्रार्थे गतौ वैवस्वतक्षयम् ||४१||
तथैव रथिनां श्रेष्ठः क्षेमधूर्तिर्विशां पते |
निहतो गदया राजन्भीमसेनेन संयुगे ||४२||
तथा राजा महेष्वासो जलसन्धो महाबलः |
सुमहत्कदनं कृत्वा हतः सात्यकिना रणे ||४३||
अलायुधो राक्षसेन्द्रः खरबन्धुरयानगः |
घटोत्कचेन विक्रम्य गमितो यमसादनम् ||४४||
राधेयाः सूतपुत्राश्च भ्रातरश्च महारथाः |
केकयाः सर्वशश्चापि निहताः सव्यसाचिना ||४५||
मालवा मद्रकाश्चैव द्रविडाश्चोग्रविक्रमाः |
यौधेयाश्च ललित्थाश्च क्षुद्रकाश्चाप्युशीनराः ||४६||
मावेल्लकास्तुण्डिकेराः सावित्रीपुत्रकाञ्चलाः |
प्राच्योदीच्याः प्रतीच्याश्च दाक्षिणात्याश्च मारिष ||४७||
पत्तीनां निहताः सङ्घा हयानामयुतानि च |
रथव्रजाश्च निहता हताश्च वरवारणाः ||४८||
सध्वजाः सायुधाः शूराः सवर्माम्बरभूषणाः |
कालेन महता यत्ताः कुले ये च विवर्धिताः ||४९||
ते हताः समरे राजन्पार्थेनाक्लिष्टकर्मणा |
अन्ये तथामितबलाः परस्परवधैषिणः ||५०||
एते चान्ये च बहवो राजानः सगणा रणे |
हताः सहस्रशो राजन्यन्मां त्वं परिपृच्छसि ||५१||
एवमेष क्षयो वृत्तः कर्णार्जुनसमागमे ||५१||
महेन्द्रेण यथा वृत्रो यथा रामेण रावणः |
यथा कृष्णेन निहतो मुरो रणनिपातितः ||५२||
कार्तवीर्यश्च रामेण भार्गवेण हतो यथा ||५२||
सज्ञातिबान्धवः शूरः समरे युद्धदुर्मदः |
रणे कृत्वा महायुद्धं घोरं त्रैलोक्यविश्रुतम् ||५३||
तथार्जुनेन निहतो द्वैरथे युद्धदुर्मदः |
सामात्यबान्धवो राजन्कर्णः प्रहरतां वरः ||५४||
जयाशा धार्तराष्ट्राणां वैरस्य च मुखं यतः |
तीर्णं तत्पाण्डवै राजन्यत्पुरा नावबुध्यसे ||५५||
उच्यमानो महाराज बन्धुभिर्हितकाङ्क्षिभिः |
तदिदं समनुप्राप्तं व्यसनं त्वां महात्ययम् ||५६||
पुत्राणां राज्यकामानां त्वया राजन्हितैषिणा |
अहितानीव चीर्णानि तेषां ते फलमागतम् ||५७||
धृतराष्ट्र उवाच||
आख्याता मामकास्तात निहता युधि पाण्डवैः |
निहतान्पाण्डवेयानां मामकैर्ब्रूहि सञ्जय ||५८||
सञ्जय उवाच||
कुन्तयो युधि विक्रान्ता महासत्त्वा महाबलाः |
सानुबन्धाः सहामात्या भीष्मेण युधि पातिताः ||५९||
समः किरीटिना सङ्ख्ये वीर्येण च बलेन च |
सत्यजित्सत्यसन्धेन द्रोणेन निहतो रणे ||६०||
तथा विराटद्रुपदौ वृद्धौ सहसुतौ नृपौ |
पराक्रमन्तौ मित्रार्थे द्रोणेन निहतौ रणे ||६१||
यो बाल एव समरे संमितः सव्यसाचिना |
केशवेन च दुर्धर्षो बलदेवेन चाभिभूः ||६२||
स एष कदनं कृत्वा महद्रणविशारदः |
परिवार्य महामात्रैः षड्भिः परमकै रथैः ||६३||
अशक्नुवद्भिर्बीभत्सुमभिमन्युर्निपातितः ||६३||
तं कृतं विरथं वीरं क्षत्रधर्मे व्यवस्थितम् |
दौःशासनिर्महाराज सौभद्रं हतवान्रणे ||६४||
बृहन्तस्तु महेष्वासः कृतास्त्रो युद्धदुर्मदः |
दुःशासनेन विक्रम्य गमितो यमसादनम् ||६५||
मणिमान्दण्डधारश्च राजानौ युद्धदुर्मदौ |
पराक्रमन्तौ मित्रार्थे द्रोणेन विनिपातितौ ||६६||
अंशुमान्भोजराजस्तु सहसैन्यो महारथः |
भारद्वाजेन विक्रम्य गमितो यमसादनम् ||६७||
चित्रायुधश्चित्रयोधी कृत्वा तौ कदनं महत् |
चित्रमार्गेण विक्रम्य कर्णेन निहतौ युधि ||६८||
वृकोदरसमो युद्धे दृढः केकयजो युधि |
केकयेनैव विक्रम्य भ्रात्रा भ्राता निपातितः ||६९||
जनमेजयो गदायोधी पार्वतीयः प्रतापवान् |
दुर्मुखेन महाराज तव पुत्रेण पातितः ||७०||
रोचमानौ नरव्याघ्रौ रोचमानौ ग्रहाविव |
द्रोणेन युगपद्राजन्दिवं सम्प्रेषितौ शरैः ||७१||
नृपाश्च प्रतियुध्यन्तः पराक्रान्ता विशां पते |
कृत्वा नसुकरं कर्म गता वैवस्वतक्षयम् ||७२||
पुरुजित्कुन्तिभोजश्च मातुलः सव्यसाचिनः |
सङ्ग्रामनिर्जिताँल्लोकान्गमितो द्रोणसायकैः ||७३||
अभिभूः काशिराजश्च काशिकैर्बहुभिर्वृतः |
वसुदानस्य पुत्रेण न्यासितो देहमाहवे ||७४||
अमितौजा युधामन्युरुत्तमौजाश्च वीर्यवान् |
निहत्य शतशः शूरान्परैर्विनिहतौ रणे ||७५||
क्षत्रधर्मा च पाञ्चाल्यः क्षत्रवर्मा च मारिष |
द्रोणेन परमेष्वासौ गमितौ यमसादनम् ||७६||
शिखण्डितनयो युद्धे क्षत्रदेवो युधां पतिः |
लक्ष्मणेन हतो राजंस्तव पौत्रेण भारत ||७७||
सुचित्रश्चित्रधर्मा च पितापुत्रौ महारथौ |
प्रचरन्तौ महावीर्यौ द्रोणेन निहतौ रणे ||७८||
वार्धक्षेमिर्महाराज कृत्वा कदनमाहवे |
बाह्लिकेन महाराज कौरवेण निपातितः ||७९||
धृष्टकेतुर्महाराज चेदीनां प्रवरो रथः |
कृत्वा नसुकरं कर्म गतो वैवस्वतक्षयम् ||८०||
तथा सत्यधृतिस्तात कृत्वा कदनमाहवे |
पाण्डवार्थे पराक्रान्तो गमितो यमसादनम् ||८१||
पुत्रस्तु शिशुपालस्य सुकेतुः पृथिवीपते |
निहत्य शात्रवान्सङ्ख्ये द्रोणेन निहतो युधि ||८२||
तथा सत्यधृतिर्वीरो मदिराश्वश्च वीर्यवान् |
सूर्यदत्तश्च विक्रान्तो निहतो द्रोणसायकैः ||८३||
श्रेणिमांश्च महाराज युध्यमानः पराक्रमी |
कृत्वा नसुकरं कर्म गतो वैवस्वतक्षयम् ||८४||
तथैव युधि विक्रान्तो मागधः परवीरहा |
भीष्मेण निहतो राजन्युध्यमानः पराक्रमी ||८५||
वसुदानश्च कदनं कुर्वाणोऽतीव संयुगे |
भारद्वाजेन विक्रम्य गमितो यमसादनम् ||८६||
एते चान्ये च बहवः पाण्डवानां महारथाः |
हता द्रोणेन विक्रम्य यन्मां त्वं परिपृच्छसि ||८७||
धृतराष्ट्र उवाच||
हतप्रवीरे सैन्येऽस्मिन्मामके वदतां वर |
अहताञ्शंस मे सूत येऽत्र जीवन्ति केचन ||८८||
एतेषु निहतेष्वद्य ये त्वया परिकीर्तिताः |
अहतान्मन्यसे यांस्त्वं तेऽपि स्वर्गजितो मताः ||८९||
सञ्जय उवाच||
यस्मिन्महास्त्राणि समर्पितानि; चित्राणि शुभ्राणि चतुर्विधानि |
दिव्यानि राजन्निहितानि चैव; द्रोणेन वीरद्विजसत्तमेन ||९०||
महारथः कृतिमान्क्षिप्रहस्तो; दृढायुधो दृढमुष्टिर्दृढेषुः |
स वीर्यवान्द्रोणपुत्रस्तरस्वी; व्यवस्थितो योद्धुकामस्त्वदर्थे ||९१||
आनर्तवासी हृदिकात्मजोऽसौ; महारथः सात्वतानां वरिष्ठः |
स्वयं भोजः कृतवर्मा कृतास्त्रो; व्यवस्थितो योद्धुकामस्त्वदर्थे ||९२||
शारद्वतो गौतमश्चापि राज; न्महाबलो बहुचित्रास्त्रयोधी |
धनुश्चित्रं सुमहद्भारसाहं; व्यवस्थितो योत्स्यमानः प्रगृह्य ||९३||
आर्तायनिः समरे दुष्प्रकम्प्यः; सेनाग्रणीः प्रथमस्तावकानाम् |
स्वस्रेयांस्तान्पाण्डवेयान्विसृज्य; सत्यां वाचं तां चिकीर्षुस्तरस्वी ||९४||
तेजोवधं सूतपुत्रस्य सङ्ख्ये; प्रतिश्रुत्वाजातशत्रोः पुरस्तात् |
दुराधर्षः शक्रसमानवीर्यः; शल्यः स्थितो योद्धुकामस्त्वदर्थे ||९५||
आजानेयैः सैन्धवैः पार्वतीयै; र्नदीजकाम्बोजवनायुबाह्लिकैः |
गान्धारराजः स्वबलेन युक्तो; व्यवस्थितो योद्धुकामस्त्वदर्थे ||९६||
तथा सुतस्ते ज्वलनार्कवर्णं; रथं समास्थाय कुरुप्रवीर |
व्यवस्थितः कुरुमित्रो नरेन्द्र; व्यभ्रे सूर्यो भ्राजमानो यथा वै ||९७||
दुर्योधनो नागकुलस्य मध्ये; महावीर्यः सह सैन्यप्रवीरैः |
रथेन जाम्बूनदभूषणेन; व्यवस्थितः समरे योद्धुकामः ||९८||
स राजमध्ये पुरुषप्रवीरो; रराज जाम्बूनदचित्रवर्मा |
पद्मप्रभो वह्निरिवाल्पधूमो; मेघान्तरे सूर्य इव प्रकाशः ||९९||
तथा सुषेणोऽप्यसिचर्मपाणि; स्तवात्मजः सत्यसेनश्च वीरः |
व्यवस्थितौ चित्रसेनेन सार्धं; हृष्टात्मानौ समरे योद्धुकामौ ||१००||
ह्रीनिषेधा भरता राजपुत्रा; श्चित्रायुधः श्रुतकर्मा जयश्च |
शलश्च सत्यव्रतदुःशलौ च; व्यवस्थिता बलिनो योद्धुकामाः ||१०१||
कैतव्यानामधिपः शूरमानी; रणे रणे शत्रुहा राजपुत्रः |
पत्री हयी नागरथप्रयायी; व्यवस्थितो योद्धुकामस्त्वदर्थे ||१०२||
वीरः श्रुतायुश्च श्रुतायुधश्च; चित्राङ्गदश्चित्रवर्मा स वीरः |
व्यवस्थिता ये तु सैन्ये नराग्र्याः; प्रहारिणो मानिनः सत्यसन्धाः ||१०३||
कर्णात्मजः सत्यसेनो महात्मा; व्यवस्थितः समरे योद्धुकामः |
अथापरौ कर्णसुतौ वरार्हौ; व्यवस्थितौ लघुहस्तौ नरेन्द्र ||१०४||
बलं महद्दुर्भिदमल्पधैर्यैः; समाश्रितौ योत्स्यमानौ त्वदर्थे ||१०४||
एतैश्च मुख्यैरपरैश्च राज; न्योधप्रवीरैरमितप्रभावैः |
व्यवस्थितो नागकुलस्य मध्ये; यथा महेन्द्रः कुरुराजो जयाय ||१०५||
धृतराष्ट्र उवाच||
आख्याता जीवमाना ये परेभ्योऽन्ये यथातथम् |
इतीदमभिगच्छामि व्यक्तमर्थाभिपत्तितः ||१०६||
वैशम्पायन उवाच||
एवं ब्रुवन्नेव तदा धृतराष्ट्रोऽम्बिकासुतः |
हतप्रवीरं विध्वस्तं किञ्चिच्छेषं स्वकं बलम् ||१०७||
श्रुत्वा व्यामोहमगमच्छोकव्याकुलितेन्द्रियः ||१०७||
मुह्यमानोऽब्रवीच्चापि मुहूर्तं तिष्ठ सञ्जय |
व्याकुलं मे मनस्तात श्रुत्वा सुमहदप्रियम् ||१०८||
नष्टचित्तस्ततः सोऽथ बभूव जगतीपतिः ||१०८||
संजयवचनम्
धृतराष्ट्रजल्पनम्
५
जनमेजय उवाच||
श्रुत्वा कर्णं हतं युद्धे पुत्रांश्चैवापलायिनः |
नरेन्द्रः किञ्चिदाश्वस्तो द्विजश्रेष्ठ किमब्रवीत् ||१||
प्राप्तवान्परमं दुःखं पुत्रव्यसनजं महत् |
तस्मिन्यदुक्तवान्काले तन्ममाचक्ष्व पृच्छतः ||२||
वैशम्पायन उवाच||
श्रुत्वा कर्णस्य निधनमश्रद्धेयमिवाद्भुतम् |
भूतसंमोहनं भीमं मेरोः पर्यसनं यथा ||३||
चित्तमोहमिवायुक्तं भार्गवस्य महामतेः |
पराजयमिवेन्द्रस्य द्विषद्भ्यो भीमकर्मणः ||४||
दिवः प्रपतनं भानोरुर्व्यामिव महाद्युतेः |
संशोषणमिवाचिन्त्यं समुद्रस्याक्षयाम्भसः ||५||
महीवियद्दिगीशानां सर्वनाशमिवाद्भुतम् |
कर्मणोरिव वैफल्यमुभयोः पुण्यपापयोः ||६||
सञ्चिन्त्य निपुणं बुद्ध्या धृतराष्ट्रो जनेश्वरः |
नेदमस्तीति सञ्चिन्त्य कर्णस्य निधनं प्रति ||७||
प्राणिनामेतदात्मत्वात्स्यादपीति विनाशनम् |
शोकाग्निना दह्यमानो धम्यमान इवाशयः ||८||
विध्वस्तात्मा श्वसन्दीनो हा हेत्युक्त्वा सुदुःखितः |
विललाप महाराज धृतराष्ट्रोऽम्बिकासुतः ||९||
धृतराष्ट्र उवाच||
सञ्जयाधिरथो वीरः सिंहद्विरदविक्रमः |
वृषमप्रतिमस्कन्धो वृषभाक्षगतिस्वनः ||१०||
वृषभो वृषभस्येव यो युद्धे न निवर्तते |
शत्रोरपि महेन्द्रस्य वज्रसंहननो युवा ||११||
यस्य ज्यातलशब्देन शरवृष्टिरवेण च |
रथाश्वनरमातङ्गा नावतिष्ठन्ति संयुगे ||१२||
यमाश्रित्य महाबाहुं द्विषत्सङ्घघ्नमच्युतम् |
दुर्योधनोऽकरोद्वैरं पाण्डुपुत्रैर्महाबलैः ||१३||
स कथं रथिनां श्रेष्ठः कर्णः पार्थेन संयुगे |
निहतः पुरुषव्याघ्रः प्रसह्यासह्यविक्रमः ||१४||
यो नामन्यत वै नित्यमच्युतं न धनञ्जयम् |
न वृष्णीनपि तानन्यान्स्वबाहुबलमाश्रितः ||१५||
शार्ङ्गगाण्डीवधन्वानौ सहितावपराजितौ |
अहं दिव्याद्रथादेकः पातयिष्यामि संयुगे ||१६||
इति यः सततं मन्दमवोचल्लोभमोहितम् |
दुर्योधनमपादीनं राज्यकामुकमातुरम् ||१७||
यश्चाजैषीदतिबलानमित्रानपि दुर्जयान् |
गान्धारान्मद्रकान्मत्स्यांस्त्रिगर्तांस्तङ्गणाञ्शकान् ||१८||
पाञ्चालांश्च विदेहांश्च कुणिन्दान्काशिकोसलान् |
सुह्मानङ्गांश्च पुण्ड्रांश्च निषादान्वङ्गकीचकान् ||१९||
वत्सान्कलिङ्गांस्तरलानश्मकानृषिकांस्तथा |
यो जित्वा समरे वीरश्चक्रे बलिभृतः पुरा ||२०||
उच्चैःश्रवा वरोऽश्वानां राज्ञां वैश्रवणो वरः |
वरो महेन्द्रो देवानां कर्णः प्रहरतां वरः ||२१||
यं लब्ध्वा मागधो राजा सान्त्वमानार्थगौरवैः |
अरौत्सीत्पार्थिवं क्षत्रमृते कौरवयादवान् ||२२||
तं श्रुत्वा निहतं कर्णं द्वैरथे सव्यसाचिना |
शोकार्णवे निमग्नोऽहमप्लवः सागरे यथा ||२३||
ईदृशैर्यद्यहं दुःखैर्न विनश्यामि सञ्जय |
वज्राद्दृढतरं मन्ये हृदयं मम दुर्भिदम् ||२४||
ज्ञातिसम्बन्धिमित्राणामिमं श्रुत्वा पराजयम् |
को मदन्यः पुमाँल्लोके न जह्यात्सूत जीवितम् ||२५||
विषमग्निं प्रपातं वा पर्वताग्रादहं वृणे |
न हि शक्ष्यामि दुःखानि सोढुं कष्टानि सञ्जय ||२६||
सञ्जय उवाच||
श्रिया कुलेन यशसा तपसा च श्रुतेन च |
त्वामद्य सन्तो मन्यन्ते ययातिमिव नाहुषम् ||२७||
श्रुते महर्षिप्रतिमः कृतकृत्योऽसि पार्थिव |
पर्यवस्थापयात्मानं मा विषादे मनः कृथाः ||२८||
धृतराष्ट्र उवाच||
दैवमेव परं मन्ये धिक्पौरुषमनर्थकम् |
यत्र रामप्रतीकाशः कर्णोऽहन्यत संयुगे ||२९||
हत्वा युधिष्ठिरानीकं पाञ्चालानां रथव्रजान् |
प्रताप्य शरवर्षेण दिशः सर्वा महारथः ||३०||
मोहयित्वा रणे पार्थान्वज्रहस्त इवासुरान् |
स कथं निहतः शेते वातरुग्ण इव द्रुमः ||३१||
शोकस्यान्तं न पश्यामि समुद्रस्येव विप्लुकाः |
चिन्ता मे वर्धते तीव्रा मुमूर्षा चापि जायते ||३२||
कर्णस्य निधनं श्रुत्वा विजयं फल्गुनस्य च |
अश्रद्धेयमहं मन्ये वधं कर्णस्य सञ्जय ||३३||
वज्रसारमयं नूनं हृदयं सुदृढं मम |
यच्छ्रुत्वा पुरुषव्याघ्रं हतं कर्णं न दीर्यते ||३४||
आयुर्नूनं सुदीर्घं मे विहितं दैवतैः पुरा |
यत्र कर्णं हतं श्रुत्वा जीवामीह सुदुःखितः ||३५||
धिग्जीवितमिदं मेऽद्य सुहृद्धीनस्य सञ्जय |
अद्य चाहं दशामेतां गतः सञ्जय गर्हिताम् ||३६||
कृपणं वर्तयिष्यामि शोच्यः सर्वस्य मन्दधीः ||३६||
अहमेव पुरा भूत्वा सर्वलोकस्य सत्कृतः |
परिभूतः कथं सूत पुनः शक्ष्यामि जीवितुम् ||३७||
दुःखात्सुदुःखं व्यसनं प्राप्तवानस्मि सञ्जय ||३७||
तस्माद्भीष्मवधे चैव द्रोणस्य च महात्मनः |
नात्र शेषं प्रपश्यामि सूतपुत्रे हते युधि ||३८||
स हि पारं महानासीत्पुत्राणां मम सञ्जय |
युद्धे विनिहतः शूरो विसृजन्सायकान्बहून् ||३९||
को हि मे जीवितेनार्थस्तमृते पुरुषर्षभम् |
रथादतिरथो नूनमपतत्सायकार्दितः ||४०||
पर्वतस्येव शिखरं वज्रपातविदारितम् |
शयीत पृथिवीं नूनं शोभयन्रुधिरोक्षितः ||४१||
मातङ्ग इव मत्तेन मातङ्गेन निपातितः ||४१||
यद्बलं धार्तराष्ट्राणां पाण्डवानां यतो भयम् |
सोऽर्जुनेन हतः कर्णः प्रतिमानं धनुष्मताम् ||४२||
स हि वीरो महेष्वासः पुत्राणामभयङ्करः |
शेते विनिहतो वीरः शक्रेणेव यथा बलः ||४३||
पङ्गोरिवाध्वगमनं दरिद्रस्येव कामितम् |
दुर्योधनस्य चाकूतं तृषितस्येव पिप्लुकाः ||४४||
अन्यथा चिन्तितं कार्यमन्यथा तत्तु जायते |
अहो नु बलवद्दैवं कालश्च दुरतिक्रमः ||४५||
पलायमानः कृपणं दीनात्मा दीनपौरुषः |
कच्चिन्न निहतः सूत पुत्रो दुःशासनो मम ||४६||
कच्चिन्न नीचाचरितं कृतवांस्तात संयुगे |
कच्चिन्न निहतः शूरो यथा न क्षत्रिया हताः ||४७||
युधिष्ठिरस्य वचनं मा युद्धमिति सर्वदा |
दुर्योधनो नाभ्यगृह्णान्मूढः पथ्यमिवौषधम् ||४८||
शरतल्पे शयानेन भीष्मेण सुमहात्मना |
पानीयं याचितः पार्थः सोऽविध्यन्मेदिनीतलम् ||४९||
जलस्य धारां विहितां दृष्ट्वा तां पाण्डवेन ह |
अब्रवीत्स महाबाहुस्तात संशाम्य पाण्डवैः ||५०||
प्रशमाद्धि भवेच्छान्तिर्मदन्तं युद्धमस्तु च |
भ्रातृभावेन पृथिवीं भुङ्क्ष्व पाण्डुसुतैः सह ||५१||
अकुर्वन्वचनं तस्य नूनं शोचति मे सुतः |
तदिदं समनुप्राप्तं वचनं दीर्घदर्शिनः ||५२||
अहं तु निहतामात्यो हतपुत्रश्च सञ्जय |
द्यूततः कृच्छ्रमापन्नो लूनपक्ष इव द्विजः ||५३||
यथा हि शकुनिं गृह्य छित्त्वा पक्षौ च सञ्जय |
विसर्जयन्ति संहृष्टाः क्रीडमानाः कुमारकाः ||५४||
छिन्नपक्षतया तस्य गमनं नोपपद्यते |
तथाहमपि सम्प्राप्तो लूनपक्ष इव द्विजः ||५५||
क्षीणः सर्वार्थहीनश्च निर्बन्धुर्ज्ञातिवर्जितः |
कां दिशं प्रतिपत्स्यामि दीनः शत्रुवशं गतः ||५६||
दुर्योधनस्य वृद्ध्यर्थं पृथिवीं योऽजयत्प्रभुः |
स जितः पाण्डवैः शूरैः समर्थैर्वीर्यशालिभिः ||५७||
तस्मिन्हते महेष्वासे कर्णे युधि किरीटिना |
के वीराः पर्यवर्तन्त तन्ममाचक्ष्व सञ्जय ||५८||
कच्चिन्नैकः परित्यक्तः पाण्डवैर्निहतो रणे |
उक्तं त्वया पुरा वीर यथा वीरा निपातिताः ||५९||
भीष्ममप्रतियुध्यन्तं शिखण्डी सायकोत्तमैः |
पातयामास समरे सर्वशस्त्रभृतां वरम् ||६०||
तथा द्रौपदिना द्रोणो न्यस्तसर्वायुधो युधि |
युक्तयोगो महेष्वासः शरैर्बहुभिराचितः ||६१||
निहतः खड्गमुद्यम्य धृष्टद्युम्नेन सञ्जय ||६१||
अन्तरेण हतावेतौ छलेन च विशेषतः |
अश्रौषमहमेतद्वै भीष्मद्रोणौ निपातितौ ||६२||
भीष्मद्रोणौ हि समरे न हन्याद्वज्रभृत्स्वयम् |
न्यायेन युध्यमानौ हि तद्वै सत्यं ब्रवीमि ते ||६३||
कर्णं त्वस्यन्तमस्त्राणि दिव्यानि च बहूनि च |
कथमिन्द्रोपमं वीरं मृत्युर्युद्धे समस्पृशत् ||६४||
यस्य विद्युत्प्रभां शक्तिं दिव्यां कनकभूषणाम् |
प्रायच्छद्द्विषतां हन्त्रीं कुण्डलाभ्यां पुरंदरः ||६५||
यस्य सर्पमुखो दिव्यः शरः कनकभूषणः |
अशेत निहतः पत्री चन्दनेष्वरिसूदनः ||६६||
भीष्मद्रोणमुखान्वीरान्योऽवमन्य महारथान् |
जामदग्न्यान्महाघोरं ब्राह्ममस्त्रमशिक्षत ||६७||
यश्च द्रोणमुखान्दृष्ट्वा विमुखानर्दिताञ्शरैः |
सौभद्रस्य महाबाहुर्व्यधमत्कार्मुकं शरैः ||६८||
यश्च नागायुतप्राणं वातरंहसमच्युतम् |
विरथं भ्रातरं कृत्वा भीमसेनमुपाहसत् ||६९||
सहदेवं च निर्जित्य शरैः संनतपर्वभिः |
कृपया विरथं कृत्वा नाहनद्धर्मवित्तया ||७०||
यश्च मायासहस्राणि ध्वंसयित्वा रणोत्कटम् |
घटोत्कचं राक्षसेन्द्रं शक्रशक्त्याभिजघ्निवान् ||७१||
एतानि दिवसान्यस्य युद्धे भीतो धनञ्जयः |
नागमद्द्वैरथं वीरः स कथं निहतो रणे ||७२||
रथसङ्गो न चेत्तस्य धनुर्वा न व्यशीर्यत |
न चेदस्त्राणि निर्णेशुः स कथं निहतः परैः ||७३||
को हि शक्तो रणे कर्णं विधुन्वानं महद्धनुः |
विमुञ्चन्तं शरान्घोरान्दिव्यान्यस्त्राणि चाहवे ||७४||
जेतुं पुरुषशार्दूलं शार्दूलमिव वेगितम् ||७४||
ध्रुवं तस्य धनुश्छिन्नं रथो वापि गतो महीम् |
अस्त्राणि वा प्रनष्टानि यथा शंससि मे हतम् ||७५||
न ह्यन्यदनुपश्यामि कारणं तस्य नाशने ||७५||
न हन्यामर्जुनं यावत्तावत्पादौ न धावये |
इति यस्य महाघोरं व्रतमासीन्महात्मनः ||७६||
यस्य भीतो वने नित्यं धर्मराजो युधिष्ठिरः |
त्रयोदश समा निद्रां न लेभे पुरुषर्षभः ||७७||
यस्य वीर्यवतो वीर्यं समाश्रित्य महात्मनः |
मम पुत्रः सभां भार्यां पाण्डूनां नीतवान्बलात् ||७८||
तत्र चापि सभामध्ये पाण्डवानां च पश्यताम् |
दासभार्येति पाञ्चालीमब्रवीत्कुरुसंसदि ||७९||
यश्च गाण्डीवमुक्तानां स्पर्शमुग्रमचिन्तयन् |
अपतिर्ह्यसि कृष्णेति ब्रुवन्पार्थानवैक्षत ||८०||
यस्य नासीद्भयं पार्थैः सपुत्रैः सजनार्दनैः |
स्वबाहुबलमाश्रित्य मुहूर्तमपि सञ्जय ||८१||
तस्य नाहं वधं मन्ये देवैरपि सवासवैः |
प्रतीपमुपधावद्भिः किं पुनस्तात पाण्डवैः ||८२||
न हि ज्यां स्पृशमानस्य तलत्रे चापि गृह्णतः |
पुमानाधिरथेः कश्चित्प्रमुखे स्थातुमर्हति ||८३||
अपि स्यान्मेदिनी हीना सोमसूर्यप्रभांशुभिः |
न वधः पुरुषेन्द्रस्य समरेष्वपलायिनः ||८४||
यदि मन्दः सहायेन भ्रात्रा दुःशासनेन च |
वासुदेवस्य दुर्बुद्धिः प्रत्याख्यानमरोचयत् ||८५||
स नूनमृषभस्कन्धं दृष्ट्वा कर्णं निपातितम् |
दुःशासनं च निहतं मन्ये शोचति पुत्रकः ||८६||
हतं वैकर्तनं श्रुत्वा द्वैरथे सव्यसाचिना |
जयतः पाण्डवान्दृष्ट्वा किं स्विद्दुर्योधनोऽब्रवीत् ||८७||
दुर्मर्षणं हतं श्रुत्वा वृषसेनं च संयुगे |
प्रभग्नं च बलं दृष्ट्वा वध्यमानं महारथैः ||८८||
पराङ्मुखांस्तथा राज्ञः पलायनपरायणान् |
विद्रुतान्रथिनो दृष्ट्वा मन्ये शोचति पुत्रकः ||८९||
अनेयश्चाभिमानेन बालबुद्धिरमर्षणः |
हतोत्साहं बलं दृष्ट्वा किं स्विद्दुर्योधनोऽब्रवीत् ||९०||
भ्रातरं निहतं दृष्ट्वा भीमसेनेन संयुगे |
रुधिरं पीयमानेन किं स्विद्दुर्योधनोऽब्रवीत् ||९१||
सह गान्धारराजेन सभायां यदभाषत |
कर्णोऽर्जुनं रणे हन्ता हते तस्मिन्किमब्रवीत् ||९२||
द्यूतं कृत्वा पुरा हृष्टो वञ्चयित्वा च पाण्डवान् |
शकुनिः सौबलस्तात हते कर्णे किमब्रवीत् ||९३||
कृतवर्मा महेष्वासः सात्वतानां महारथः |
कर्णं विनिहतं दृष्ट्वा हार्दिक्यः किमभाषत ||९४||
ब्राह्मणाः क्षत्रिया वैश्या यस्य शिक्षामुपासते |
धनुर्वेदं चिकीर्षन्तो द्रोणपुत्रस्य धीमतः ||९५||
युवा रूपेण सम्पन्नो दर्शनीयो महायशाः |
अश्वत्थामा हते कर्णे किमभाषत सञ्जय ||९६||
आचार्यत्वं धनुर्वेदे गतः परमतत्त्ववित् |
कृपः शारद्वतस्तात हते कर्णे किमब्रवीत् ||९७||
मद्रराजो महेष्वासः शल्यः समितिशोभनः |
दिष्टं तेन हि तत्सर्वं यथा कर्णो निपातितः ||९८||
ये च केचन राजानः पृथिव्यां योद्धुमागताः |
वैकर्तनं हतं दृष्ट्वा किमभाषन्त सञ्जय ||९९||
कर्णे तु निहते वीरे रथव्याघ्रे नरर्षभे |
किं वो मुखमनीकानामासीत्सञ्जय भागशः ||१००||
मद्रराजः कथं शल्यो नियुक्तो रथिनां वरः |
वैकर्तनस्य सारथ्ये तन्ममाचक्ष्व सञ्जय ||१०१||
केऽरक्षन्दक्षिणं चक्रं सूतपुत्रस्य संयुगे |
वामं चक्रं ररक्षुर्वा के वा वीरस्य पृष्ठतः ||१०२||
के कर्णं वाजहुः शूराः के क्षुद्राः प्राद्रवन्भयात् |
कथं च वः समेतानां हतः कर्णो महारथः ||१०३||
पाण्डवाश्च कथं शूराः प्रत्युदीयुर्महारथम् |
सृजन्तं शरवर्षाणि वारिधारा इवाम्बुदम् ||१०४||
स च सर्पमुखो दिव्यो महेषुप्रवरस्तदा |
व्यर्थः कथं समभवत्तन्ममाचक्ष्व सञ्जय ||१०५||
मामकस्यास्य सैन्यस्य हृतोत्सेधस्य सञ्जय |
अवशेषं न पश्यामि ककुदे मृदिते सति ||१०६||
तौ हि वीरौ महेष्वासौ मदर्थे कुरुसत्तमौ |
भीष्मद्रोणौ हतौ श्रुत्वा को न्वर्थो जीवितेन मे ||१०७||
न मृष्यामि च राधेयं हतमाहवशोभिनम् |
यस्य बाह्वोर्बलं तुल्यं कुञ्जराणां शतं शतम् ||१०८||
द्रोणे हते च यद्वृत्तं कौरवाणां परैः सह |
सङ्ग्रामे नरवीराणां तन्ममाचक्ष्व सञ्जय ||१०९||
यथा च कर्णः कौन्तेयैः सह युद्धमयोजयत् |
यथा च द्विषतां हन्ता रणे शान्तस्तदुच्यताम् ||११०||
कर्णाभिषेकः
६
सञ्जय उवाच||
हते द्रोणे महेष्वासे तस्मिन्नहनि भारत |
कृते च मोघसङ्कल्पे द्रोणपुत्रे महारथे ||१||
द्रवमाणे महाराज कौरवाणां बले तथा |
व्यूह्य पार्थः स्वकं सैन्यमतिष्ठद्भ्रातृभिः सह ||२||
तमवस्थितमाज्ञाय पुत्रस्ते भरतर्षभ |
द्रवच्च स्वबलं दृष्ट्वा पौरुषेण न्यवारयत् ||३||
स्वमनीकमवस्थाप्य बाहुवीर्ये व्यवस्थितः |
युद्ध्वा च सुचिरं कालं पाण्डवैः सह भारत ||४||
लब्धलक्षैः परैर्हृष्टैर्व्यायच्छद्भिश्चिरं तदा |
सन्ध्याकालं समासाद्य प्रत्याहारमकारयत् ||५||
कृत्वावहारं सैन्यानां प्रविश्य शिबिरं स्वकम् |
कुरवोऽऽत्महितं मन्त्रं मन्त्रयां चक्रिरे तदा ||६||
पर्यङ्केषु परार्ध्येषु स्पर्ध्यास्तरणवत्सु च |
वरासनेषूपविष्टाः सुखशय्यास्विवामराः ||७||
ततो दुर्योधनो राजा साम्ना परमवल्गुना |
तानाभाष्य महेष्वासान्प्राप्तकालमभाषत ||८||
मतिं मतिमतां श्रेष्ठाः सर्वे प्रब्रूत माचिरम् |
एवं गते तु यत्कार्यं भवेत्कार्यकरं नृपाः ||९||
एवमुक्ते नरेन्द्रेण नरसिंहा युयुत्सवः |
चक्रुर्नानाविधाश्चेष्टाः सिंहासनगतास्तदा ||१०||
तेषां निशम्येङ्गितानि युद्धे प्राणाञ्जुहूषताम् |
समुद्वीक्ष्य मुखं राज्ञो बालार्कसमवर्चसः ||११||
आचार्यपुत्रो मेधावी वाक्यज्ञो वाक्यमाददे ||११||
रागो योगस्तथा दाक्ष्यं नयश्चेत्यर्थसाधकाः |
उपायाः पण्डितैः प्रोक्ताः सर्वे दैवसमाश्रिताः ||१२||
लोकप्रवीरा येऽस्माकं देवकल्पा महारथाः |
नीतिमन्तस्तथा युक्ता दक्षा रक्ताश्च ते हताः ||१३||
न त्वेव कार्यं नैराश्यमस्माभिर्विजयं प्रति |
सुनीतैरिह सर्वार्थैर्दैवमप्यनुलोम्यते ||१४||
ते वयं प्रवरं नॄणां सर्वैर्गुणगणैर्युतम् |
कर्णं सेनापतिं कृत्वा प्रमथिष्यामहे रिपून् ||१५||
ततो दुर्योधनः प्रीतः प्रियं श्रुत्वा वचस्तदा |
प्रीतिसंस्कारसंयुक्तं तथ्यमात्महितं शुभम् ||१६||
स्वं मनः समवस्थाप्य बाहुवीर्यमुपाश्रितः |
दुर्योधनो महाराज राधेयमिदमब्रवीत् ||१७||
कर्ण जानामि ते वीर्यं सौहृदं च परं मयि |
तथापि त्वां महाबाहो प्रवक्ष्यामि हितं वचः ||१८||
श्रुत्वा यथेष्टं च कुरु वीर यत्तव रोचते |
भवान्प्राज्ञतमो नित्यं मम चैव परा गतिः ||१९||
भीष्मद्रोणावतिरथौ हतौ सेनापती मम |
सेनापतिर्भवानस्तु ताभ्यां द्रविणवत्तरः ||२०||
वृद्धौ च तौ महेष्वासौ सापेक्षौ च धनञ्जये |
मानितौ च मया वीरौ राधेय वचनात्तव ||२१||
पितामहत्वं सम्प्रेक्ष्य पाण्डुपुत्रा महारणे |
रक्षितास्तात भीष्मेण दिवसानि दशैव ह ||२२||
न्यस्तशस्त्रे च भवति हतो भीष्मः पितामहः |
शिखण्डिनं पुरस्कृत्य फल्गुनेन महाहवे ||२३||
हते तस्मिन्महाभागे शरतल्पगते तदा |
त्वयोक्ते पुरुषव्याघ्र द्रोणो ह्यासीत्पुरःसरः ||२४||
तेनापि रक्षिताः पार्थाः शिष्यत्वादिह संयुगे |
स चापि निहतो वृद्धो धृष्टद्युम्नेन सत्वरम् ||२५||
निहताभ्यां प्रधानाभ्यां ताभ्याममितविक्रम |
त्वत्समं समरे योधं नान्यं पश्यामि चिन्तयन् ||२६||
भवानेव तु नः शक्तो विजयाय न संशयः |
पूर्वं मध्ये च पश्चाच्च तवैव विदितं हि तत् ||२७||
स भवान्धुर्यवत्सङ्ख्ये धुरमुद्वोढुमर्हसि |
अभिषेचय सेनान्ये स्वयमात्मानमात्मना ||२८||
देवतानां यथा स्कन्दः सेनानीः प्रभुरव्ययः |
तथा भवानिमां सेनां धार्तराष्ट्रीं बिभर्तु मे ||२९||
जहि शत्रुगणान्सर्वान्महेन्द्र इव दानवान् ||२९||
अवस्थितं रणे ज्ञात्वा पाण्डवास्त्वां महारथम् |
द्रविष्यन्ति सपाञ्चाला विष्णुं दृष्ट्वेव दानवाः ||३०||
तस्मात्त्वं पुरुषव्याघ्र प्रकर्षेथा महाचमूम् ||३०||
भवत्यवस्थिते यत्ते पाण्डवा गतचेतसः |
भविष्यन्ति सहामात्याः पाञ्चालैः सृञ्जयैः सह ||३१||
यथा ह्यभ्युदितः सूर्यः प्रतपन्स्वेन तेजसा |
व्यपोहति तमस्तीव्रं तथा शत्रून्व्यपोह नः ||३२||
कर्ण उवाच||
उक्तमेतन्मया पूर्वं गान्धारे तव संनिधौ |
जेष्यामि पाण्डवान्राजन्सपुत्रान्सजनार्दनान् ||३३||
सेनापतिर्भविष्यामि तवाहं नात्र संशयः |
स्थिरो भव महाराज जितान्विद्धि च पाण्डवान् ||३४||
सञ्जय उवाच||
एवमुक्तो महातेजास्ततो दुर्योधनो नृपः |
उत्तस्थौ राजभिः सार्धं देवैरिव शतक्रतुः ||३५||
सेनापत्येन सत्कर्तुं कर्णं स्कन्दमिवामराः ||३५||
ततोऽभिषिषिचुस्तूर्णं विधिदृष्टेन कर्मणा |
दुर्योधनमुखा राजन्राजानो विजयैषिणः ||३६||
शातकौम्भमयैः कुम्भैर्माहेयैश्चाभिमन्त्रितैः ||३६||
तोयपूर्णैर्विषाणैश्च द्वीपिखड्गमहर्षभैः |
मणिमुक्तामयैश्चान्यैः पुण्यगन्धैस्तथौषधैः ||३७||
औदुम्बरे समासीनमासने क्षौमसंवृतम् |
शास्त्रदृष्टेन विधिना सम्भारैश्च सुसम्भृतैः ||३८||
जय पार्थान्सगोविन्दान्सानुगांस्त्वं महाहवे |
इति तं बन्दिनः प्राहुर्द्विजाश्च भरतर्षभ ||३९||
जहि पार्थान्सपाञ्चालान्राधेय विजयाय नः |
उद्यन्निव सदा भानुस्तमांस्युग्रैर्गभस्तिभिः ||४०||
न ह्यलं त्वद्विसृष्टानां शराणां ते सकेशवाः |
कृतघ्नाः सूर्यरश्मीनां ज्वलतामिव दर्शने ||४१||
न हि पार्थाः सपाञ्चालाः स्थातुं शक्तास्तवाग्रतः |
आत्तशस्त्रस्य समरे महेन्द्रस्येव दानवाः ||४२||
अभिषिक्तस्तु राधेयः प्रभया सोऽमितप्रभः |
व्यत्यरिच्यत रूपेण दिवाकर इवापरः ||४३||
सेनापत्येन राधेयमभिषिच्य सुतस्तव |
अमन्यत तदात्मानं कृतार्थं कालचोदितः ||४४||
कर्णोऽपि राजन्सम्प्राप्य सेनापत्यमरिंदमः |
योगमाज्ञापयामास सूर्यस्योदयनं प्रति ||४५||
तव पुत्रैर्वृतः कर्णः शुशुभे तत्र भारत |
देवैरिव यथा स्कन्दः सङ्ग्रामे तारकामये ||४६||
षोडशयुद्धदिवसः
७
धृतराष्ट्र उवाच||
सेनापत्यं तु सम्प्राप्य कर्णो वैकर्तनस्तदा |
तथोक्तश्च स्वयं राज्ञा स्निग्धं भ्रातृसमं वचः ||१||
योगमाज्ञाप्य सेनाया आदित्येऽभ्युदिते तदा |
अकरोत्किं महाप्राज्ञस्तन्ममाचक्ष्व सञ्जय ||२||
सञ्जय उवाच||
कर्णस्य मतमाज्ञाय पुत्रस्ते भरतर्षभ |
योगमाज्ञापयामास नान्दीतूर्यपुरःसरम् ||३||
महत्यपररात्रे तु तव पुत्रस्य मारिष |
योगो योगेति सहसा प्रादुरासीन्महास्वनः ||४||
नागानां कल्पमानानां रथानां च वरूथिनाम् |
संनह्यतां पदातीनां वाजिनां च विशां पते ||५||
क्रोशतां चापि योधानां त्वरितानां परस्परम् |
बभूव तुमुलः शब्दो दिवस्पृक्सुमहांस्तदा ||६||
ततः श्वेतपताकेन बालार्काकारवाजिना |
हेमपृष्ठेन धनुषा हस्तिकक्ष्येण केतुना ||७||
तूणेन शरपूर्णेन साङ्गदेन वरूथिना |
शतघ्नीकिङ्किणीशक्तिशूलतोमरधारिणा ||८||
कार्मुकेणोपपन्नेन विमलादित्यवर्चसा |
रथेनातिपताकेन सूतपुत्रो व्यदृश्यत ||९||
धमन्तं वारिजं तात हेमजालविभूषितम् |
विधुन्वानं महच्चापं कार्तस्वरविभूषितम् ||१०||
दृष्ट्वा कर्णं महेष्वासं रथस्थं रथिनां वरम् |
भानुमन्तमिवोद्यन्तं तमो घ्नन्तं सहस्रशः ||११||
न भीष्मव्यसनं केचिन्नापि द्रोणस्य मारिष |
नान्येषां पुरुषव्याघ्र मेनिरे तत्र कौरवाः ||१२||
ततस्तु त्वरयन्योधाञ्शङ्खशब्देन मारिष |
कर्णो निष्कासयामास कौरवाणां वरूथिनीम् ||१३||
व्यूहं व्यूह्य महेष्वासो माकरं शत्रुतापनः |
प्रत्युद्ययौ तदा कर्णः पाण्डवान्विजिगीषया ||१४||
मकरस्य तु तुण्डे वै कर्णो राजन्व्यवस्थितः |
नेत्राभ्यां शकुनिः शूर उलूकश्च महारथः ||१५||
द्रोणपुत्रस्तु शिरसि ग्रीवायां सर्वसोदराः |
मध्ये दुर्योधनो राजा बलेन महता वृतः ||१६||
वामे पादे तु राजेन्द्र कृतवर्मा व्यवस्थितः |
नारायणबलैर्युक्तो गोपालैर्युद्धदुर्मदः ||१७||
पादे तु दक्षिणे राजन्गौतमः सत्यविक्रमः |
त्रिगर्तैश्च महेष्वासैर्दाक्षिणात्यैश्च संवृतः ||१८||
अनुपादस्तु यो वामस्तत्र शल्यो व्यवस्थितः |
महत्या सेनया सार्धं मद्रदेशसमुत्थया ||१९||
दक्षिणे तु महाराज सुषेणः सत्यसङ्गरः |
वृतो रथसहस्रैश्च दन्तिनां च शतैस्तथा ||२०||
पुच्छे आस्तां महावीरौ भ्रातरौ पार्थिवौ तदा |
चित्रसेनश्च चित्रश्च महत्या सेनया वृतौ ||२१||
ततः प्रयाते राजेन्द्र कर्णे नरवरोत्तमे |
धनञ्जयमभिप्रेक्ष्य धर्मराजोऽब्रवीदिदम् ||२२||
पश्य पार्थ महासेनां धार्तराष्ट्रस्य संयुगे |
कर्णेन निर्मितां वीर गुप्तां वीरैर्महारथैः ||२३||
हतवीरतमा ह्येषा धार्तराष्ट्री महाचमूः |
फल्गुशेषा महाबाहो तृणैस्तुल्या मता मम ||२४||
एको ह्यत्र महेष्वासः सूतपुत्रो व्यवस्थितः |
सदेवासुरगन्धर्वैः सकिंनरमहोरगैः ||२५||
चराचरैस्त्रिभिर्लोकैर्योऽजय्यो रथिनां वरः ||२५||
तं हत्वाद्य महाबाहो विजयस्तव फल्गुन |
उद्धृतश्च भवेच्छल्यो मम द्वादशवार्षिकः ||२६||
एवं ज्ञात्वा महाबाहो व्यूहं व्यूह यथेच्छसि ||२६||
भ्रातुस्तद्वचनं श्रुत्वा पाण्डवः श्वेतवाहनः |
अर्धचन्द्रेण व्यूहेन प्रत्यव्यूहत तां चमूम् ||२७||
वामपार्श्वेऽभवद्राजन्भीमसेनो व्यवस्थितः |
दक्षिणे च महेष्वासो धृष्टद्युम्नो महाबलः ||२८||
मध्ये व्यूहस्य साक्षात्तु पाण्डवः कृष्णसारथिः |
नकुलः सहदेवश्च धर्मराजश्च पृष्ठतः ||२९||
चक्ररक्षौ तु पाञ्चाल्यौ युधामन्यूत्तमौजसौ |
नार्जुनं जहतुर्युद्धे पाल्यमानौ किरीटिना ||३०||
शेषा नृपतयो वीराः स्थिता व्यूहस्य दंशिताः |
यथाभावं यथोत्साहं यथासत्त्वं च भारत ||३१||
एवमेतन्महाव्यूहं व्यूह्य भारत पाण्डवाः |
तावकाश्च महेष्वासा युद्धायैव मनो दधुः ||३२||
दृष्ट्वा व्यूढां तव चमूं सूतपुत्रेण संयुगे |
निहतान्पाण्डवान्मेने तव पुत्रः सहान्वयः ||३३||
तथैव पाण्डवीं सेनां व्यूढां दृष्ट्वा युधिष्ठिरः |
धार्तराष्ट्रान्हतान्मेने सकर्णान्वै जनाधिप ||३४||
ततः शङ्खाश्च भेर्यश्च पणवानकगोमुखाः |
सहसैवाभ्यहन्यन्त सशब्दाश्च समन्ततः ||३५||
सेनयोरुभयो राजन्प्रावाद्यन्त महास्वनाः |
सिंहनादश्च सञ्जज्ञे शूराणां जयगृद्धिनाम् ||३६||
हयहेषितशब्दाश्च वारणानां च बृंहितम् |
रथनेमिस्वनाश्चोग्राः सम्बभूवुर्जनाधिप ||३७||
न द्रोणव्यसनं कश्चिज्जानीते भरतर्षभ |
दृष्ट्वा कर्णं महेष्वासं मुखे व्यूहस्य दंशितम् ||३८||
उभे सेने महासत्त्वे प्रहृष्टनरकुञ्जरे |
योद्धुकामे स्थिते राजन्हन्तुमन्योन्यमञ्जसा ||३९||
तत्र यत्तौ सुसंरब्धौ दृष्ट्वान्योन्यं व्यवस्थितौ |
अनीकमध्ये राजेन्द्र रेजतुः कर्णपाण्डवौ ||४०||
नृत्यमाने तु ते सेने समेयातां परस्परम् |
तयोः पक्षैः प्रपक्षैश्च निर्जग्मुर्वै युयुत्सवः ||४१||
ततः प्रववृते युद्धं नरवारणवाजिनाम् |
रथिनां च महाराज अन्योन्यं निघ्नतां दृढम् ||४२||
८
सञ्जय उवाच||
ते सेनेऽन्योन्यमासाद्य प्रहृष्टाश्वनरद्विपे |
बृहत्यौ सम्प्रजह्राते देवासुरचमूपमे ||१||
ततो गजा रथाश्चाश्वाः पत्तयश्च महाहवे |
सम्प्रहारं परं चक्रुर्देहपाप्मप्रणाशनम् ||२||
पूर्णचन्द्रार्कपद्मानां कान्तित्विड्गन्धतः समैः |
उत्तमाङ्गैर्नृसिंहानां नृसिंहास्तस्तरुर्महीम् ||३||
अर्धचन्द्रैस्तथा भल्लैः क्षुरप्रैरसिपट्टिशैः |
परश्वधैश्चाप्यकृन्तन्नुत्तमाङ्गानि युध्यताम् ||४||
व्यायतायतबाहूनां व्यायतायतबाहुभिः |
व्यायता बाहवः पेतुश्छिन्नमुष्ट्यायुधाङ्गदाः ||५||
तैः स्फुरद्भिर्मही भाति रक्ताङ्गुलितलैस्तदा |
गरुडप्रहतैरुग्रैः पञ्चास्यैरिव पन्नगैः ||६||
हयस्यन्दननागेभ्यः पेतुर्वीरा द्विषद्धताः |
विमानेभ्यो यथा क्षीणे पुण्ये स्वर्गसदस्तथा ||७||
गदाभिरन्यैर्गुर्वीभिः परिघैर्मुसलैरपि |
पोथिताः शतशः पेतुर्वीरा वीरतरै रणे ||८||
रथा रथैर्विनिहता मत्ता मत्तैर्द्विपैर्द्विपाः |
सादिनः सादिभिश्चैव तस्मिन्परमसङ्कुले ||९||
रथा वररथैर्नागैरश्वारोहाश्च पत्तिभिः |
अश्वारोहैः पदाताश्च निहता युधि शेरते ||१०||
रथाश्वपत्तयो नागै रथैर्नागाश्च पत्तयः |
रथपत्तिद्विपाश्चाश्वैर्नृभिश्चाश्वरथद्विपाः ||११||
रथाश्वेभनराणां च नराश्वेभरथैः कृतम् |
पाणिपादैश्च शस्त्रैश्च रथैश्च कदनं महत् ||१२||
तथा तस्मिन्बले शूरैर्वध्यमाने हतेऽपि च |
अस्मानभ्यागमन्पार्था वृकोदरपुरोगमाः ||१३||
धृष्टद्युम्नः शिखण्डी च द्रौपदेयाः प्रभद्रकाः |
सात्यकिश्चेकितानश्च द्रविडैः सैनिकैः सह ||१४||
भृता वित्तेन महता पाण्ड्याश्चौड्राः सकेरलाः |
व्यूढोरस्का दीर्घभुजाः प्रांशवः प्रियदर्शनाः ||१५||
आपीडिनो रक्तदन्ता मत्तमातङ्गविक्रमाः |
नानाविरागवसना गन्धचूर्णावचूर्णिताः ||१६||
बद्धासयः पाशहस्ता वारणप्रतिवारणाः |
समानमृत्यवो राजन्ननीकस्थाः परस्परम् ||१७||
कलापिनश्चापहस्ता दीर्घकेशाः प्रियाहवाः |
पत्तयः सात्यकेरन्ध्रा घोररूपपराक्रमाः ||१८||
अथापरे पुनः शूराश्चेदिपाञ्चालकेकयाः |
करूषाः कोसलाः काश्या मागधाश्चापि दुद्रुवुः ||१९||
तेषां रथाश्च नागाश्च प्रवराश्चापि पत्तयः |
नानाविधरवैर्हृष्टा नृत्यन्ति च हसन्ति च ||२०||
तस्य सैन्यस्य महतो महामात्रवरैर्वृतः |
मध्यं वृकोदरोऽभ्यागात्त्वदीयं नागधूर्गतः ||२१||
स नागप्रवरोऽत्युग्रो विधिवत्कल्पितो बभौ |
उदयाद्र्यग्र्यभवनं यथाभ्युदितभास्करम् ||२२||
तस्यायसं वर्मवरं वररत्नविभूषितम् |
तारोद्भासस्य नभसः शारदस्य समत्विषम् ||२३||
स तोमरप्रासकरश्चारुमौलिः स्वलङ्कृतः |
चरन्मध्यंदिनार्काभस्तेजसा व्यदहद्रिपून् ||२४||
तं दृष्ट्वा द्विरदं दूरात्क्षेमधूर्तिर्द्विपस्थितः |
आह्वयानोऽभिदुद्राव प्रमनाः प्रमनस्तरम् ||२५||
तयोः समभवद्युद्धं द्विपयोरुग्ररूपयोः |
यदृच्छया द्रुमवतोर्महापर्वतयोरिव ||२६||
संसक्तनागौ तौ वीरौ तोमरैरितरेतरम् |
बलवत्सूर्यरश्म्याभैर्भित्त्वा भित्त्वा विनेदतुः ||२७||
व्यपसृत्य तु नागाभ्यां मण्डलानि विचेरतुः |
प्रगृह्य चैव धनुषी जघ्नतुर्वै परस्परम् ||२८||
क्ष्वेडितास्फोटितरवैर्बाणशब्दैश्च सर्वशः |
तौ जनान्हर्षयित्वा च सिंहनादान्प्रचक्रतुः ||२९||
समुद्यतकराभ्यां तौ द्विपाभ्यां कृतिनावुभौ |
वातोद्धूतपताकाभ्यां युयुधाते महाबलौ ||३०||
तावन्योन्यस्य धनुषी छित्त्वान्योन्यं विनेदतुः |
शक्तितोमरवर्षेण प्रावृण्मेघाविवाम्बुभिः ||३१||
क्षेमधूर्तिस्तदा भीमं तोमरेण स्तनान्तरे |
निर्बिभेद तु वेगेन षड्भिश्चाप्यपरैर्नदन् ||३२||
स भीमसेनः शुशुभे तोमरैरङ्गमाश्रितैः |
क्रोधदीप्तवपुर्मेघैः सप्तसप्तिरिवांशुमान् ||३३||
ततो भास्करवर्णाभमञ्जोगतिमयस्मयम् |
ससर्ज तोमरं भीमः प्रत्यमित्राय यत्नवान् ||३४||
ततः कुलूताधिपतिश्चापमायम्य सायकैः |
दशभिस्तोमरं छित्त्वा शक्त्या विव्याध पाण्डवम् ||३५||
अथ कार्मुकमादाय महाजलदनिस्वनम् |
रिपोरभ्यर्दयन्नागमुन्मदः पाण्डवः शरैः ||३६||
स शरौघार्दितो नागो भीमसेनेन संयुगे |
निगृह्यमाणो नातिष्ठद्वातध्वस्त इवाम्बुदः ||३७||
तामभ्यधावद्द्विरदं भीमसेनस्य नागराट् |
महावातेरितं मेघं वातोद्धूत इवाम्बुदः ||३८||
संनिवर्त्यात्मनो नागं क्षेमधूर्तिः प्रयत्नतः |
विव्याधाभिद्रुतं बाणैर्भीमसेनं सकुञ्जरम् ||३९||
ततः साधुविसृष्टेन क्षुरेण पुरुषर्षभः |
छित्त्वा शरासनं शत्रोर्नागमामित्रमार्दयत् ||४०||
ततः खजाकया भीमं क्षेमधूर्तिः पराभिनत् |
जघान चास्य द्विरदं नाराचैः सर्वमर्मसु ||४१||
पुरा नागस्य पतनादवप्लुत्य स्थितो महीम् |
भीमसेनो रिपोर्नागं गदया समपोथयत् ||४२||
तस्मात्प्रमथितान्नागात्क्षेमधूर्तिमवद्रुतम् |
उद्यतासिमुपायान्तं गदयाहन्वृकोदरः ||४३||
स पपात हतः सासिर्व्यसुः स्वमभितो द्विपम् |
वज्रप्ररुग्णमचलं सिंहो वज्रहतो यथा ||४४||
निहतं नृपतिं दृष्ट्वा कुलूतानां यशस्करम् |
प्राद्रवद्व्यथिता सेना त्वदीया भरतर्षभ ||४५||
९
सञ्जय उवाच||
ततः कर्णो महेष्वासः पाण्डवानामनीकिनीम् |
जघान समरे शूरः शरैः संनतपर्वभिः ||१||
तथैव पाण्डवा राजंस्तव पुत्रस्य वाहिनीम् |
कर्णस्य प्रमुखे क्रुद्धा विनिजघ्नुर्महारथाः ||२||
कर्णो राजन्महाबाहुर्न्यवधीत्पाण्डवीं चमूम् |
नाराचैरर्करश्म्याभैः कर्मारपरिमार्जितैः ||३||
तत्र भारत कर्णेन नाराचैस्ताडिता गजाः |
नेदुः सेदुश्च मम्लुश्च बभ्रमुश्च दिशो दश ||४||
वध्यमाने बले तस्मिन्सूतपुत्रेण मारिष |
नकुलोऽभ्यद्रवत्तूर्णं सूतपुत्रं महारणे ||५||
भीमसेनस्तथा द्रौणिं कुर्वाणं कर्म दुष्करम् |
विन्दानुविन्दौ कैकेयौ सात्यकिः समवारयत् ||६||
श्रुतकर्माणमायान्तं चित्रसेनो महीपतिः |
प्रतिविन्ध्यं तथा चित्रश्चित्रकेतनकार्मुकः ||७||
दुर्योधनस्तु राजानं धर्मपुत्रं युधिष्ठिरम् |
संशप्तकगणान्क्रुद्धो अभ्यधावद्धनञ्जयः ||८||
धृष्टद्युम्नः कृपं चाथ तस्मिन्वीरवरक्षये |
शिखण्डी कृतवर्माणं समासादयदच्युतम् ||९||
श्रुतकीर्तिस्तथा शल्यं माद्रीपुत्रः सुतं तव |
दुःशासनं महाराज सहदेवः प्रतापवान् ||१०||
केकयौ सात्यकिं युद्धे शरवर्षेण भास्वता |
सात्यकिः केकयौ चैव छादयामास भारत ||११||
तावेनं भ्रातरौ वीरं जघ्नतुर्हृदये भृशम् |
विषाणाभ्यां यथा नागौ प्रतिनागं महाहवे ||१२||
शरसम्भिन्नवर्माणौ तावुभौ भ्रातरौ रणे |
सात्यकिं सत्यकर्माणं राजन्विव्यधतुः शरैः ||१३||
तौ सात्यकिर्महाराज प्रहसन्सर्वतोदिशम् |
छादयञ्शरवर्षेण वारयामास भारत ||१४||
वार्यमाणौ ततस्तौ तु शैनेयशरवृष्टिभिः |
शैनेयस्य रथं तूर्णं छादयामासतुः शरैः ||१५||
तयोस्तु धनुषी चित्रे छित्त्वा शौरिर्महाहवे |
अथ तौ सायकैस्तीक्ष्णैश्छादयामास दुःसहैः ||१६||
अथान्ये धनुषी मृष्टे प्रगृह्य च महाशरान् |
सात्यकिं पूरयन्तौ तौ चेरतुर्लघु सुष्ठु च ||१७||
ताभ्यां मुक्ता महाबाणाः कङ्कबर्हिणवाससः |
द्योतयन्तो दिशः सर्वाः सम्पेतुः स्वर्णभूषणाः ||१८||
बाणान्धकारमभवत्तयो राजन्महाहवे |
अन्योन्यस्य धनुश्चैव चिच्छिदुस्ते महारथाः ||१९||
ततः क्रुद्धो महाराज सात्वतो युद्धदुर्मदः |
धनुरन्यत्समादाय सज्यं कृत्वा च संयुगे ||२०||
क्षुरप्रेण सुतीक्ष्णेन अनुविन्दशिरोऽहरत् ||२०||
तच्छिरो न्यपतद्भूमौ कुण्डलोत्पीडितं महत् |
शम्बरस्य शिरो यद्वन्निहतस्य महारणे ||२१||
शोषयन्केकयान्सर्वाञ्जगामाशु वसुन्धराम् ||२१||
तं दृष्ट्वा निहतं शूरं भ्राता तस्य महारथः |
सज्यमन्यद्धनुः कृत्वा शैनेयं प्रत्यवारयत् ||२२||
स शक्त्या सात्यकिं विद्ध्वा स्वर्णपुङ्खैः शिलाशितैः |
ननाद बलवन्नादं तिष्ठ तिष्ठेति चाब्रवीत् ||२३||
स सात्यकिं पुनः क्रुद्धः केकयानां महारथः |
शरैरग्निशिखाकारैर्बाह्वोरुरसि चार्दयत् ||२४||
स शरैः क्षतसर्वाङ्गः सात्वतः सत्त्वकोविदः |
रराज समरे राजन्सपत्र इव किंशुकः ||२५||
सात्यकिः समरे विद्धः केकयेन महात्मना |
केकयं पञ्चविंशत्या विव्याध प्रहसन्निव ||२६||
शतचन्द्रचिते गृह्य चर्मणी सुभुजौ तु तौ |
व्यरोचेतां महारङ्गे निस्त्रिंशवरधारिणौ ||२७||
यथा देवासुरे युद्धे जम्भशक्रौ महाबलौ ||२७||
मण्डलानि ततस्तौ च विचरन्तौ महारणे |
अन्योन्यमसिभिस्तूर्णं समाजघ्नतुराहवे ||२८||
केकयस्य ततश्चर्म द्विधा चिच्छेद सात्वतः |
सात्यकेश्च तथैवासौ चर्म चिच्छेद पार्थिवः ||२९||
चर्म च्छित्त्वा तु कैकेयस्तारागणशतैर्वृतम् |
चचार मण्डलान्येव गतप्रत्यागतानि च ||३०||
तं चरन्तं महारङ्गे निस्त्रिंशवरधारिणम् |
अपहस्तेन चिच्छेद शैनेयस्त्वरयान्वितः ||३१||
सवर्मा केकयो राजन्द्विधा छिन्नो महाहवे |
निपपात महेष्वासो वज्रनुन्न इवाचलः ||३२||
तं निहत्य रणे शूरः शैनेयो रथसत्तमः |
युधामन्यो रथं तूर्णमारुरोह परन्तपः ||३३||
ततोऽन्यं रथमास्थाय विधिवत्कल्पितं पुनः |
केकयानां महत्सैन्यं व्यधमत्सात्यकिः शरैः ||३४||
सा वध्यमाना समरे केकयस्य महाचमूः |
तमुत्सृज्य रथं शत्रुं प्रदुद्राव दिशो दश ||३५||
१०
सञ्जय उवाच||
श्रुतकर्मा महाराज चित्रसेनं महीपतिम् |
आजघ्ने समरे क्रुद्धः पञ्चाशद्भिः शिलीमुखैः ||१||
अभिसारस्तु तं राजा नवभिर्निशितैः शरैः |
श्रुतकर्माणमाहत्य सूतं विव्याध पञ्चभिः ||२||
श्रुतकर्मा ततः क्रुद्धश्चित्रसेनं चमूमुखे |
नाराचेन सुतीक्ष्णेन मर्मदेशे समर्दयत् ||३||
एतस्मिन्नन्तरे चैनं श्रुतकीर्तिर्महायशाः |
नवत्या जगतीपालं छादयामास पत्रिभिः ||४||
प्रतिलब्य ततः सञ्ज्ञां चित्रसेनो महारथः |
धनुश्चिच्छेद भल्लेन तं च विव्याध सप्तभिः ||५||
सोऽन्यत्कार्मुकमादाय वेगघ्नं रुक्मभूषणम् |
चित्ररूपतरं चक्रे चित्रसेनं शरोर्मिभिः ||६||
स शरैश्चित्रितो राजंश्चित्रमाल्यधरो युवा |
युवेव समशोभत्स गोष्ठीमध्ये स्वलङ्कृतः ||७||
श्रुतकर्माणमथ वै नाराचेन स्तनान्तरे |
बिभेद समरे क्रुद्धस्तिष्ठ तिष्ठेति चाब्रवीत् ||८||
श्रुतकर्मापि समरे नाराचेन समर्दितः |
सुस्राव रुधिरं भूरि गैरिकाम्भ इवाचलः ||९||
ततः स रुधिराक्ताङ्गो रुधिरेण कृतच्छविः |
रराज समरे राजन्सपुष्प इव किंशुकः ||१०||
श्रुतकर्मा ततो राजञ्शत्रूणां समभिद्रुतः |
शत्रुसंवरणं कृत्वा द्विधा चिच्छेद कार्मुकम् ||११||
अथैनं छिन्नधन्वानं नाराचानां त्रिभिः शतैः |
विव्याध भरतश्रेष्ठ श्रुतकर्मा महायशाः ||१२||
ततोऽपरेण भल्लेन भृशं तीक्ष्णेन सत्वरः |
जहार सशिरस्त्राणं शिरस्तस्य महात्मनः ||१३||
तच्छिरो न्यपतद्भूमौ सुमहच्चित्रवर्मणः |
यदृच्छया यथा चन्द्रश्च्युतः स्वर्गान्महीतले ||१४||
राजानं निहतं दृष्ट्वा अभिसारं च मारिष |
अभ्यद्रवन्त वेगेन चित्रसेनस्य सैनिकाः ||१५||
ततः क्रुद्धो महेष्वासस्तत्सैन्यं प्राद्रवच्छरैः |
अन्तकाले यथा क्रुद्धः सर्वभूतानि प्रेतराट् ||१६||
द्रावयन्निषुभिस्तूर्णं श्रुतकर्मा व्यरोचत ||१६||
प्रतिविन्ध्यस्ततश्चित्रं भित्त्वा पञ्चभिराशुगैः |
सारथिं त्रिभिरानर्च्छद्ध्वजमेकेषुणा ततः ||१७||
तं चित्रो नवभिर्भल्लैर्बाह्वोरुरसि चार्दयत् |
स्वर्णपुङ्खैः शिलाधौतैः कङ्कबर्हिणवाजितैः ||१८||
प्रतिविन्ध्यो धनुस्तस्य छित्त्वा भारत सायकैः |
पञ्चभिर्निशितैर्बाणैरथैनं सम्प्रजघ्निवान् ||१९||
ततः शक्तिं महाराज हेमदण्डां दुरासदाम् |
प्राहिणोत्तव पुत्राय घोरामग्निशिखामिव ||२०||
तामापतन्तीं सहसा शक्तिमुल्कामिवाम्बरात् |
द्विधा चिच्छेद समरे प्रतिविन्ध्यो हसन्निव ||२१||
सा पपात तदा छिन्ना प्रतिविन्ध्यशरैः शितैः |
युगान्ते सर्वभूतानि त्रासयन्ती यथाशनिः ||२२||
शक्तिं तां प्रहतां दृष्ट्वा चित्रो गृह्य महागदाम् |
प्रतिविन्ध्याय चिक्षेप रुक्मजालविभूषिताम् ||२३||
सा जघान हयांस्तस्य सारथिं च महारणे |
रथं प्रमृद्य वेगेन धरणीमन्वपद्यत ||२४||
एतस्मिन्नेव काले तु रथादाप्लुत्य भारत |
शक्तिं चिक्षेप चित्राय स्वर्णघण्टामलङ्कृताम् ||२५||
तामापतन्तीं जग्राह चित्रो राजन्महामनाः |
ततस्तामेव चिक्षेप प्रतिविन्ध्याय भारत ||२६||
समासाद्य रणे शूरं प्रतिविन्ध्यं महाप्रभा |
निर्भिद्य दक्षिणं बाहुं निपपात महीतले ||२७||
पतिताभासयच्चैव तं देशमशनिर्यथा ||२७||
प्रतिविन्ध्यस्ततो राजंस्तोमरं हेमभूषितम् |
प्रेषयामास सङ्क्रुद्धश्चित्रस्य वधकाम्यया ||२८||
स तस्य देवावरणं भित्त्वा हृदयमेव च |
जगाम धरणीं तूर्णं महोरग इवाशयम् ||२९||
स पपात तदा राजंस्तोमरेण समाहतः |
प्रसार्य विपुलौ बाहू पीनौ परिघसंनिभौ ||३०||
चित्रं सम्प्रेक्ष्य निहतं तावका रणशोभिनः |
अभ्यद्रवन्त वेगेन प्रतिविन्ध्यं समन्ततः ||३१||
सृजन्तो विविधान्बाणाञ्शतघ्नीश्च सकिङ्किणीः |
त एनं छादयामासुः सूर्यमभ्रगणा इव ||३२||
तानपास्य महाबाहुः शरजालेन संयुगे |
व्यद्रावयत्तव चमूं वज्रहस्त इवासुरीम् ||३३||
ते वध्यमानाः समरे तावकाः पाण्डवैर्नृप |
विप्रकीर्यन्त सहसा वातनुन्ना घना इव ||३४||
विप्रद्रुते बले तस्मिन्वध्यमाने समन्ततः |
द्रौणिरेकोऽभ्ययात्तूर्णं भीमसेनं महाबलम् ||३५||
ततः समागमो घोरो बभूव सहसा तयोः |
यथा देवासुरे युद्धे वृत्रवासवयोरभूत् ||३६||
११
सञ्जय उवाच||
भीमसेनं ततो द्रौणी राजन्विव्याध पत्रिणा |
त्वरया परया युक्तो दर्शयन्नस्त्रलाघवम् ||१||
अथैनं पुनराजघ्ने नवत्या निशितैः शरैः |
सर्वमर्माणि सम्प्रेक्ष्य मर्मज्ञो लघुहस्तवत् ||२||
भीमसेनः समाकीर्णो द्रौणिना निशितैः शरैः |
रराज समरे राजन्रश्मिवानिव भास्करः ||३||
ततः शरसहस्रेण सुप्रयुक्तेन पाण्डवः |
द्रोणपुत्रमवच्छाद्य सिंहनादममुञ्चत ||४||
शरैः शरांस्ततो द्रौणिः संवार्य युधि पाण्डवम् |
ललाटेऽभ्यहनद्राजन्नाराचेन स्मयन्निव ||५||
ललाटस्थं ततो बाणं धारयामास पाण्डवः |
यथा शृङ्गं वने दृप्तः खड्गो धारयते नृप ||६||
ततो द्रौणिं रणे भीमो यतमानं पराक्रमी |
त्रिभिर्विव्याध नाराचैर्ललाटे विस्मयन्निव ||७||
ललाटस्थैस्ततो बाणैर्ब्राह्मणः स व्यरोचत |
प्रावृषीव यथा सिक्तस्त्रिशृङ्गः पर्वतोत्तमः ||८||
ततः शरशतैर्द्रौणिमर्दयामास पाण्डवः |
न चैनं कम्पयामास मातरिश्वेव पर्वतम् ||९||
तथैव पाण्डवं युद्धे द्रौणिः शरशतैः शितैः |
नाकम्पयत संहृष्टो वार्योघ इव पर्वतम् ||१०||
तावन्योन्यं शरैर्घोरैश्छादयानौ महारथौ |
रथचर्यागतौ शूरौ शुशुभाते रणोत्कटौ ||११||
आदित्याविव संदीप्तौ लोकक्षयकरावुभौ |
स्वरश्मिभिरिवान्योन्यं तापयन्तौ शरोत्तमैः ||१२||
कृतप्रतिकृते यत्नं कुर्वाणौ च महारणे |
कृतप्रतिकृते यत्नं चक्राते तावभीतवत् ||१३||
व्याघ्राविव च सङ्ग्रामे चेरतुस्तौ महारथौ |
शरदंष्ट्रौ दुराधर्षौ चापव्यात्तौ भयानकौ ||१४||
अभूतां तावदृश्यौ च शरजालैः समन्ततः |
मेघजालैरिव च्छन्नौ गगने चन्द्रभास्करौ ||१५||
प्रकाशौ च मुहूर्तेन तत्रैवास्तामरिंदमौ |
विमुक्तौ मेघजालेन शशिसूर्यौ यथा दिवि ||१६||
अपसव्यं ततश्चक्रे द्रौणिस्तत्र वृकोदरम् |
किरञ्शरशतैरुग्रैर्धाराभिरिव पर्वतम् ||१७||
न तु तन्ममृषे भीमः शत्रोर्विजयलक्षणम् |
प्रतिचक्रे च तं राजन्पाण्डवोऽप्यपसव्यतः ||१८||
मण्डलानां विभागेषु गतप्रत्यागतेषु च |
बभूव तुमुलं युद्धं तयोस्तत्र महामृधे ||१९||
चरित्वा विविधान्मार्गान्मण्डलं स्थानमेव च |
शरैः पूर्णायतोत्सृष्टैरन्योन्यमभिजघ्नतुः ||२०||
अन्योन्यस्य वधे यत्नं चक्रतुस्तौ महारथौ |
ईषतुर्विरथं चैव कर्तुमन्योन्यमाहवे ||२१||
ततो द्रौणिर्महास्त्राणि प्रादुश्चक्रे महारथः |
तान्यस्त्रैरेव समरे प्रतिजघ्नेऽस्य पाण्डवः ||२२||
ततो घोरं महाराज अस्त्रयुद्धमवर्तत |
ग्रहयुद्धं यथा घोरं प्रजासंहरणे अभूत् ||२३||
ते बाणाः समसज्जन्त क्षिप्तास्ताभ्यां तु भारत |
द्योतयन्तो दिशः सर्वास्तच्च सैन्यं समन्ततः ||२४||
बाणसङ्घावृतं घोरमाकाशं समपद्यत |
उक्लापातकृतं यद्वत्प्रजानां सङ्क्षये नृप ||२५||
बाणाभिघातात्सञ्जज्ञे तत्र भारत पावकः |
सविस्फुलिङ्गो दीप्तार्चिः सोऽदहद्वाहिनीद्वयम् ||२६||
तत्र सिद्धा महाराज सम्पतन्तोऽब्रुवन्वचः |
अति युद्धानि सर्वाणि युद्धमेतत्ततोऽधिकम् ||२७||
सर्वयुद्धानि चैतस्य कलां नार्हन्ति षोडशीम् |
नैतादृशं पुनर्युद्धं न भूतं न भविष्यति ||२८||
अहो ज्ञानेन संयुक्तावुभौ चोग्रपराक्रमौ |
अहो भीमे बलं भीममेतयोश्च कृतास्त्रता ||२९||
अहो वीर्यस्य सारत्वमहो सौष्ठवमेतयोः |
स्थितावेतौ हि समरे कालान्तकयमोपमौ ||३०||
रुद्रौ द्वाविव सम्भूतौ यथा द्वाविव भास्करौ |
यमौ वा पुरुषव्याघ्रौ घोररूपाविमौ रणे ||३१||
श्रूयन्ते स्म तदा वाचः सिद्धानां वै मुहुर्मुहुः |
सिंहनादश्च सञ्जज्ञे समेतानां दिवौकसाम् ||३२||
अद्भुतं चाप्यचिन्त्यं च दृष्ट्वा कर्म तयोर्मृधे ||३२||
तौ शूरौ समरे राजन्परस्परकृतागसौ |
परस्परमुदैक्षेतां क्रोधादुद्वृत्य चक्षुषी ||३३||
क्रोधरक्तेक्षणौ तौ तु क्रोधात्प्रस्फुरिताधरौ |
क्रोधात्संदष्टदशनौ संदष्टदशनच्छदौ ||३४||
अन्योन्यं छादयन्तौ स्म शरवृष्ट्या महारथौ |
शराम्बुधारौ समरे शस्त्रविद्युत्प्रकाशिनौ ||३५||
तावन्योन्यं ध्वजौ विद्ध्वा सारथी च महारथौ |
अन्योन्यस्य हयान्विद्ध्वा बिभिदाते परस्परम् ||३६||
ततः क्रुद्धौ महाराज बाणौ गृह्य महाहवे |
उभौ चिक्षिपतुस्तूर्णमन्योन्यस्य वधैषिणौ ||३७||
तौ सायकौ महाराज द्योतमानौ चमूमुखे |
आजघ्नाते समासाद्य वज्रवेगौ दुरासदौ ||३८||
तौ परस्परवेगाच्च शराभ्यां च भृशाहतौ |
निपेततुर्महावीरौ स्वरथोपस्थयोस्तदा ||३९||
ततस्तु सारथिर्ज्ञात्वा द्रोणपुत्रमचेतनम् |
अपोवाह रणाद्राजन्सर्वक्षत्रस्य पश्यतः ||४०||
तथैव पाण्डवं राजन्विह्वलन्तं मुहुर्मुहुः |
अपोवाह रथेनाजौ सारथिः शत्रुतापनम् ||४१||
१२
धृतराष्ट्र उवाच||
यथा संशप्तकैः सार्धमर्जुनस्याभवद्रणः |
अन्येषां च मदीयानां पाण्डवैस्तद्ब्रवीहि मे ||१||
सञ्जय उवाच||
शृणु राजन्यथावृत्तं सङ्ग्रामं ब्रुवतो मम |
वीराणां शत्रुभिः सार्धं देहपाप्मप्रणाशनम् ||२||
पार्थः संशप्तकगणं प्रविश्यार्णवसंनिभम् |
व्यक्षोभयदमित्रघ्नो महावात इवार्णवम् ||३||
शिरांस्युन्मथ्य वीराणां शितैर्भल्लैर्धनञ्जयः |
पूर्णचन्द्राभवक्त्राणि स्वक्षिभ्रूदशनानि च ||४||
सन्तस्तार क्षितिं क्षिप्रं विनालैर्नलिनैरिव ||४||
सुवृत्तानायतान्पुष्टांश्चन्दनागुरुभूषितान् |
सायुधान्सतनुत्राणान्पञ्चास्योरगसंनिभान् ||५||
बाहून्क्षुरैरमित्राणां विचकर्तार्जुनो रणे ||५||
धुर्यान्धुर्यतरान्सूतान्ध्वजांश्चापानि सायकान् |
पाणीनरत्नीनसकृद्भल्लैश्चिच्छेद पाण्डवः ||६||
द्विपान्हयान्रथांश्चैव सारोहानर्जुनो रणे |
शरैरनेकसाहस्रै राजन्निन्ये यमक्षयम् ||७||
तं प्रवीरं प्रतीयाता नर्दमाना इवर्षभाः |
वाशितार्थमभिक्रुद्धा हुङ्कृत्वा चाभिदुद्रुवुः ||८||
निघ्नन्तमभिजघ्नुस्ते शरैः शृङ्गैरिवर्षभाः ||८||
तस्य तेषां च तद्युद्धमभवल्लोमहर्षणम् |
त्रैलोक्यविजये यादृग्दैत्यानां सह वज्रिणा ||९||
अस्त्रैरस्त्राणि संवार्य द्विषतां सर्वतोऽर्जुनः |
इषुभिर्बहुभिस्तूर्णं विद्ध्वा प्राणान्ररास सः ||१०||
छिन्नत्रिवेणुचक्राक्षान्हतयोधाश्वसारथीन् |
विध्वस्तायुधतूणीरान्समुन्मथितकेतनान् ||११||
सञ्छिन्नयोक्त्ररश्मीकान्वित्रिवेणून्विकूबरान् |
विध्वस्तबन्धुरयुगान्विशस्तायुधमण्डलान् ||१२||
रथान्विशकलीकुर्वन्महाभ्राणीव मारुतः ||१२||
विस्मापयन्प्रेक्षणीयं द्विषातां भयवर्धनम् |
महारथसहस्रस्य समं कर्मार्जुनोऽकरोत् ||१३||
सिद्धदेवर्षिसङ्घाश्च चारणाश्चैव तुष्टुवुः |
देवदुन्दुभयो नेदुः पुष्पवर्षाणि चापतन् ||१४||
केशवार्जुनयोर्मूर्ध्नि प्राह वाक्चाशरीरिणी ||१४||
चन्द्रार्कानिलवह्नीनां कान्तिदीप्तिबलद्युतीः |
यौ सदा बिभ्रतुर्वीरौ ताविमौ केशवार्जुनौ ||१५||
ब्रह्मेशानाविवाजय्यौ वीरावेकरथे स्थितौ |
सर्वभूतवरौ वीरौ नरनारायणावुभौ ||१६||
इत्येतन्महदाश्चर्यं दृष्ट्वा श्रुत्वा च भारत |
अश्वत्थामा सुसंयत्तः कृष्णावभ्यद्रवद्रणे ||१७||
अथ पाण्डवमस्यन्तं यमकालान्तकाञ्शरान् |
सेषुणा पाणिनाहूय हसन्द्रौणिरथाब्रवीत् ||१८||
यदि मां मन्यसे वीर प्राप्तमर्हमिवातिथिम् |
ततः सर्वात्मनाद्य त्वं युद्धातिथ्यं प्रयच्छ मे ||१९||
एवमाचार्यपुत्रेण समाहूतो युयुत्सया |
बहु मेनेऽर्जुनोऽऽत्मानमिदं चाह जनार्दनम् ||२०||
संशप्तकाश्च मे वध्या द्रौणिराह्वयते च माम् |
यदत्रानन्तरं प्राप्तं प्रशाधि त्वं महाभुज ||२१||
एवमुक्तोऽवहत्पार्थं कृष्णो द्रोणात्मजान्तिकम् |
जैत्रेण विधिनाहूतं वायुरिन्द्रमिवाध्वरे ||२२||
तमामन्त्र्यैकमनसा केशवो द्रौणिमब्रवीत् |
अश्वत्थामन्स्थिरो भूत्वा प्रहराशु सहस्व च ||२३||
निर्वेष्टुं भर्तृपिण्डं हि कालोऽयमुपजीविनाम् |
सूक्ष्मो विवादो विप्राणां स्थूलौ क्षात्रौ जयाजयौ ||२४||
यां न सङ्क्षमसे मोहाद्दिव्यां पार्थस्य सत्क्रियाम् |
तामाप्तुमिच्छन्युध्यस्व स्थिरो भूत्वाद्य पाण्डवम् ||२५||
इत्युक्तो वासुदेवेन तथेत्युक्त्वा द्विजोत्तमः |
विव्याध केशवं षष्ट्या नाराचैरर्जुनं त्रिभिः ||२६||
तस्यार्जुनः सुसङ्क्रुद्धस्त्रिभिर्भल्लैः शरासनम् |
चिच्छेदाथान्यदादत्त द्रौणिर्घोरतरं धनुः ||२७||
सज्यं कृत्वा निमेषात्तद्विव्याधार्जुनकेशवौ |
त्रिभिः शरैर्वासुदेवं सहस्रेण च पाण्डवम् ||२८||
ततः शरसहस्राणि प्रयुतान्यर्बुदानि च |
ससृजे द्रौणिरायस्तः संस्तभ्य च रणेऽर्जुनम् ||२९||
इषुधेर्धनुषो ज्याया अङ्गुलीभ्यश्च मारिष |
बाह्वोः कराभ्यामुरसो वदनघ्राणनेत्रतः ||३०||
कर्णाभ्यां शिरसोऽङ्गेभ्यो लोमवर्त्मभ्य एव च |
रथध्वजेभ्यश्च शरा निष्पेतुर्ब्रह्मवादिनः ||३१||
शरजालेन महता विद्ध्वा केशवपाण्डवौ |
ननाद मुदितो द्रौणिर्महामेघौघनिस्वनः ||३२||
तस्य नानदतः श्रुत्वा पाण्डवोऽच्युतमब्रवीत् |
पश्य माधव दौरात्म्यं द्रोणपुत्रस्य मां प्रति ||३३||
वधप्राप्तौ मन्यते नौ प्रवेश्य शरवेश्मनि |
एषोऽस्य हन्मि सङ्कल्पं शिक्षया च बलेन च ||३४||
अश्वत्थाम्नः शरानस्तांश्छित्त्वैकैकं त्रिधा त्रिधा |
व्यधमद्भरतश्रेष्ठो नीहारमिव मारुतः ||३५||
ततः संशप्तकान्भूयः साश्वसूतरथद्विपान् |
ध्वजपत्तिगणानुग्रैर्बाणैर्विव्याध पाण्डवः ||३६||
ये ये ददृशिरे तत्र यद्यद्रूपं यथा यथा |
ते ते तत्तच्छरैर्व्याप्तं मेनिरेऽऽत्मानमेव च ||३७||
ते गाण्डीवप्रणुदिता नानारूपाः पतत्रिणः |
क्रोशे साग्रे स्थितान्घ्नन्ति द्विपांश्च पुरुषान्रणे ||३८||
भल्लैश्छिन्नाः कराः पेतुः करिणां मदकर्षिणाम् |
छिन्ना यथा परशुभिः प्रवृद्धाः शरदि द्रुमाः ||३९||
पश्चात्तु शैलवत्पेतुस्ते गजाः सह सादिभिः |
वज्रिवज्रप्रमथिता यथैवाद्रिचयास्तथा ||४०||
गन्धर्वनगराकारान्विधिवत्कल्पितान्रथान् |
विनीतजवनान्युक्तानास्थितान्युद्धदुर्मदान् ||४१||
शरैर्विशकलीकुर्वन्नमित्रानभ्यवीवृषत् |
अलङ्कृतानश्वसादीन्पत्तींश्चाहन्धनञ्जयः ||४२||
धनञ्जययुगान्तार्कः संशप्तकमहार्णवम् |
व्यशोषयत दुःशोषं तीव्रैः शरगभस्तिभिः ||४३||
पुनर्द्रौणिमहाशैलं नाराचैः सूर्यसंनिभैः |
निर्बिभेद महावेगैस्त्वरन्वज्रीव पर्वतम् ||४४||
तमाचार्यसुतः क्रुद्धः साश्वयन्तारमाशुगैः |
युयुत्सुर्नाशकद्योद्धुं पार्थस्तानन्तराच्छिनत् ||४५||
ततः परमसङ्क्रुद्धः काण्डकोशानवासृजत् |
अश्वत्थामाभिरूपाय गृहानतिथये यथा ||४६||
अथ संशप्तकांस्त्यक्त्वा पाण्डवो द्रौणिमभ्ययात् |
अपाङ्क्तेयमिव त्यक्त्वा दाता पाङ्क्तेयमर्थिनम् ||४७||
ततः समभवद्युद्धं शुक्राङ्गिरसवर्चसोः |
नक्षत्रमभितो व्योम्नि शुक्राङ्गिरसयोरिव ||४८||
सन्तापयन्तावन्योन्यं दीप्तैः शरगभस्तिभिः |
लोकत्रासकरावास्तां विमार्गस्थौ ग्रहाविव ||४९||
ततोऽविध्यद्भ्रुवोर्मध्ये नाराचेनार्जुनो भृशम् |
स तेन विबभौ द्रौणिरूर्ध्वरश्मिर्यथा रविः ||५०||
अथ कृष्णौ शरशतैरश्वत्थाम्नार्दितौ भृशम् |
सरश्मिजालनिकरौ युगान्तार्काविवासतुः ||५१||
ततोऽर्जुनः सर्वतोधारमस्त्र; मवासृजद्वासुदेवाभिगुप्तः |
द्रौणायनिं चाभ्यहनत्पृषत्कै; र्वज्राग्निवैवस्वतदण्डकल्पैः ||५२||
स केशवं चार्जुनं चातितेजा; विव्याध मर्मस्वतिरौद्रकर्मा |
बाणैः सुमुक्तैरतितीव्रवेगै; र्यैराहतो मृत्युरपि व्यथेत ||५३||
द्रौणेरिषूनर्जुनः संनिवार्य; व्यायच्छतस्तद्द्विगुणैः सुपुङ्खैः |
तं साश्वसूतध्वजमेकवीर; मावृत्य संशप्तकसैन्यमार्छत् ||५४||
धनूंषि बाणानिषुधीर्धनुर्ज्याः; पाणीन्भुजान्पाणिगतं च शस्त्रम् |
छत्राणि केतूंस्तुरगानथैषां; वस्त्राणि माल्यान्यथ भूषणानि ||५५||
चर्माणि वर्माणि मनोरथांश्च; प्रियाणि सर्वाणि शिरांसि चैव |
चिच्छेद पार्थो द्विषतां प्रमुक्तै; र्बाणैः स्थितानामपराङ्मुखानाम् ||५६||
सुकल्पिताः स्यन्दनवाजिनागाः; समास्थिताः कृतयत्नैर्नृवीरैः |
पार्थेरितैर्बाणगणैर्निरस्ता; स्तैरेव सार्धं नृवरैर्निपेतुः ||५७||
पद्मार्कपूर्णेन्दुसमाननानि; किरीटमालामुकुटोत्कटानि |
भल्लार्धचन्द्रक्षुरहिंसितानि; प्रपेतुरुर्व्यां नृशिरांस्यजस्रम् ||५८||
अथ द्विपैर्देवपतिद्विपाभै; र्देवारिदर्पोल्बणमन्युदर्पैः |
कलिङ्गवङ्गाङ्गनिषादवीरा; जिघांसवः पाण्डवमभ्यधावन् ||५९||
तेषां द्विपानां विचकर्त पार्थो; वर्माणि मर्माणि करान्नियन्तॄन् |
ध्वजाः पताकाश्च ततः प्रपेतु; र्वज्राहतानीव गिरेः शिरांसि ||६०||
तेषु प्ररुग्णेषु गुरोस्तनूजं; बाणैः किरीटी नवसूर्यवर्णैः |
प्रच्छादयामास महाभ्रजालै; र्वायुः समुद्युक्तमिवांशुमन्तम् ||६१||
ततोऽर्जुनेषूनिषुभिर्निरस्य; द्रौणिः शरैरर्जुनवासुदेवौ |
प्रच्छादयित्व दिवि चन्द्रसूर्यौ; ननाद सोऽम्भोद इवातपान्ते ||६२||
तमर्जुनस्तांश्च पुनस्त्वदीया; नभ्यर्दितस्तैरविकृत्तशस्त्रैः |
बाणान्धकारं सहसैव कृत्वा; विव्याध सर्वानिषुभिः सुपुङ्खैः ||६३||
नाप्याददत्संदधन्नैव मुञ्च; न्बाणान्रणेऽदृश्यत सव्यसाची |
हतांश्च नागांस्तुरगान्पदाती; न्संस्यूतदेहान्ददृशू रथांश्च ||६४||
सन्धाय नाराचवरान्दशाशु; द्रौणिस्त्वरन्नेकमिवोत्ससर्ज |
तेषां च पञ्चार्जुनमभ्यविध्य; न्पञ्चाच्युतं निर्बिभिदुः सुमुक्ताः ||६५||
तैराहतौ सर्वमनुष्यमुख्या; वसृक्क्षरन्तौ धनदेन्द्रकल्पौ |
समाप्तविद्येन यथाभिभूतौ; हतौ स्विदेतौ किमु मेनिरेऽन्ये ||६६||
अथार्जुनं प्राह दशार्हनाथः; प्रमाद्यसे किं जहि योधमेतम् |
कुर्याद्धि दोषं समुपेक्षितोऽसौ; कष्टो भवेद्व्याधिरिवाक्रियावान् ||६७||
तथेति चोक्त्वाच्युतमप्रमादी; द्रौणिं प्रयत्नादिषुभिस्ततक्ष |
छित्त्वाश्वरश्मींस्तुरगानविध्य; त्ते तं रणादूहुरतीव दूरम् ||६८||
आवृत्य नेयेष पुनस्तु युद्धं; पार्थेन सार्धं मतिमान्विमृश्य |
जानञ्जयं नियतं वृष्णिवीरे; धनञ्जये चाङ्गिरसां वरिष्ठः ||६९||
प्रतीपकाये तु रणादश्वत्थाम्नि हृते हयैः |
मन्त्रौषधिक्रियादानैर्व्याधौ देहादिवाहृते ||७०||
संशप्तकानभिमुखौ प्रयातौ केशवार्जुनौ |
वातोद्धूतपताकेन स्यन्दनेनौघनादिना ||७१||
१३
सञ्जय उवाच||
अथोत्तरेण पाण्डूनां सेनायां ध्वनिरुत्थितः |
रथनागाश्वपत्तीनां दण्डधारेण वध्यताम् ||१||
निवर्तयित्वा तु रथं केशवोऽर्जुनमब्रवीत् |
वाहयन्नेव तुरगान्गरुडानिलरंहसः ||२||
मागधोऽथाप्यतिक्रान्तो द्विरदेन प्रमाथिना |
भगदत्तादनवरः शिक्षया च बलेन च ||३||
एनं हत्वा निहन्तासि पुनः संशप्तकानिति |
वाक्यान्ते प्रापयत्पार्थं दण्डधारान्तिकं प्रति ||४||
स मागधानां प्रवरोऽङ्कुशग्रहो; ग्रहेष्वसह्यो विकचो यथा ग्रहः |
सपत्नसेनां प्रममाथ दारुणो; महीं समग्रां विकचो यथा ग्रहः ||५||
सुकल्पितं दानवनागसंनिभं; महाभ्रसंह्रादममित्रमर्दनम् |
रथाश्वमातङ्गगणान्सहस्रशः; समास्थितो हन्ति शरैर्द्विपानपि ||६||
रथानधिष्ठाय सवाजिसारथी; न्रथांश्च पद्भिस्त्वरितो व्यपोथयत् |
द्विपांश्च पद्भ्यां चरणैः करेण च; द्विपास्थितो हन्ति स कालचक्रवत् ||७||
नरांश्च कार्ष्णायसवर्मभूषणा; न्निपात्य साश्वानपि पत्तिभिः सह |
व्यपोथयद्दन्तिवरेण शुष्मिणा; सशब्दवत्स्थूलनडान्यथा तथा ||८||
अथार्जुनो ज्यातलनेमिनिस्वने; मृदङ्गभेरीबहुशङ्खनादिते |
नराश्वमातङ्गसहस्रनादितै; रथोत्तमेनाभ्यपतद्द्विपोत्तमम् ||९||
ततोऽर्जुनं द्वादशभिः शरोत्तमै; र्जनार्दनं षोडशभिः समार्दयत् |
स दण्डधारस्तुरगांस्त्रिभिस्त्रिभि; स्ततो ननाद प्रजहास चासकृत् ||१०||
ततोऽस्य पार्थः सगुणेषुकार्मुकं; चकर्त भल्लैर्ध्वजमप्यलङ्कृतम् |
पुनर्नियन्तॄन्सह पादगोप्तृभि; स्ततस्तु चुक्रोध गिरिव्रजेश्वरः ||११||
ततोऽर्जुनं भिन्नकटेन दन्तिना; घनाघनेनानिलतुल्यरंहसा |
अतीव चुक्षोभयिषुर्जनार्दनं; धनञ्जयं चाभिजघान तोमरैः ||१२||
अथास्य बाहू द्विपहस्तसंनिभौ; शिरश्च पूर्णेन्दुनिभाननं त्रिभिः |
क्षुरैः प्रचिच्छेद सहैव पाण्डव; स्ततो द्विपं बाणशतैः समार्दयत् ||१३||
स पार्थबाणैस्तपनीयभूषणैः; समारुचत्काञ्चनवर्मभृद्द्विपः |
तथा चकाशे निशि पर्वतो यथा; दवाग्निना प्रज्वलितौषधिद्रुमः ||१४||
स वेदनार्तोऽम्बुदनिस्वनो नदं; श्चलन्भ्रमन्प्रस्खलितोऽऽतुरो द्रवन् |
पपात रुग्णः सनियन्तृकस्तथा; यथा गिरिर्वज्रनिपातचूर्णितः ||१५||
हिमावदातेन सुवर्णमालिना; हिमाद्रिकूटप्रतिमेन दन्तिना |
हते रणे भ्रातरि दण्ड आव्रज; ज्जिघांसुरिन्द्रावरजं धनञ्जयम् ||१६||
स तोमरैरर्ककरप्रभैस्त्रिभि; र्जनार्दनं पञ्चभिरेव चार्जुनम् |
समर्पयित्वा विननाद चार्दयं; स्ततोऽस्य बाहू विचकर्त पाण्डवः ||१७||
क्षुरप्रकृत्तौ सुभृशं सतोमरौ; च्युताङ्गदौ चन्दनरूषितौ भुजौ |
गजात्पतन्तौ युगपद्विरेजतु; र्यथाद्रिशृङ्गात्पतितौ महोरगौ ||१८||
अथार्धचन्द्रेण हृतं किरीटिना; पपात दण्डस्य शिरः क्षितिं द्विपात् |
तच्छोणिताभं निपतद्विरेजे; दिवाकरोऽस्तादिव पश्चिमां दिशम् ||१९||
अथ द्विपं श्वेतनगाग्रसंनिभं; दिवाकरांशुप्रतिमैः शरोत्तमैः |
बिभेद पार्थः स पपात नानद; न्हिमाद्रिकूटः कुलिशाहतो यथा ||२०||
ततोऽपरे तत्प्रतिमा गजोत्तमा; जिगीषवः संयति सव्यसाचिनम् |
तथा कृतास्तेन यथैव तौ द्विपौ; ततः प्रभग्नं सुमहद्रिपोर्बलम् ||२१||
गजा रथाश्वाः पुरुषाश्च सङ्घशः; परस्परघ्नाः परिपेतुराहवे |
परस्परप्रस्खलिताः समाहता; भृशं च तत्तत्कुलभाषिणो हताः ||२२||
अथार्जुनं स्वे परिवार्य सैनिकाः; पुरंदरं देवगणा इवाब्रुवन् |
अभैष्म यस्मान्मरणादिव प्रजाः; स वीर दिष्ट्या निहतस्त्वया रिपुः ||२३||
न चेत्परित्रास्य इमाञ्जनान्भया; द्द्विषद्भिरेवं बलिभिः प्रपीडितान् |
तथाभविष्यद्द्विषतां प्रमोदनं; यथा हतेष्वेष्विह नोऽरिषु त्वया ||२४||
इतीव भूयश्च सुहृद्भिरीरिता; निशम्य वाचः सुमनास्ततोऽर्जुनः |
यथानुरूपं प्रतिपूज्य तं जनं; जगाम संशप्तकसङ्घहा पुनः ||२५||
१४
सञ्जय उवाच||
प्रत्यागत्य पुनर्जिष्णुरहन्संशप्तकान्बहून् |
वक्रानुवक्रगमनादङ्गारक इव ग्रहः ||१||
पार्थबाणहता राजन्नराश्वरथकुञ्जराः |
विचेलुर्बभ्रमुर्नेदुः पेतुर्मम्लुश्च मारिष ||२||
धुर्यं धुर्यतरान्सूतान्रथांश्च परिसङ्क्षिपन् |
पाणीन्पाणिगतं शस्त्रं बाहूनपि शिरांसि च ||३||
भल्लैः क्षुरैरर्धचन्द्रैर्वत्सदन्तैश्च पाण्डवः |
चिच्छेदामित्रवीराणां समरे प्रतियुध्यताम् ||४||
वाशितार्थे युयुत्सन्तो वृषभा वृषभं यथा |
आपतन्त्यर्जुनं शूराः शतशोऽथ सहस्रशः ||५||
तेषां तस्य च तद्युद्धमभवल्लोमहर्षणम् |
त्रैलोक्यविजये यादृग्दैत्यानां सह वज्रिणा ||६||
तमविध्यत्त्रिभिर्बाणैर्दन्दशूकैरिवाहिभिः |
उग्रायुधस्ततस्तस्य शिरः कायादपाहरत् ||७||
तेऽर्जुनं सर्वतः क्रुद्धा नानाशस्त्रैरवीवृषन् |
मरुद्भिः प्रेषिता मेघा हिमवन्तमिवोष्णगे ||८||
अस्त्रैरस्त्राणि संवार्य द्विषतां सर्वतोऽर्जुनः |
सम्यगस्तैः शरैः सर्वान्सहितानहनद्बहून् ||९||
छिन्नत्रिवेणुजङ्घेषान्निहतपार्ष्णिसारथीन् |
सञ्छिन्नरश्मियोक्त्राक्षान्व्यनुकर्षयुगान्रथान् ||१०||
विध्वस्तसर्वसंनाहान्बाणैश्चक्रेऽर्जुनस्त्वरन् ||१०||
ते रथास्तत्र विध्वस्ताः परार्ध्या भान्त्यनेकशः |
धनिनामिव वेश्मानि हतान्यग्न्यनिलाम्बुभिः ||११||
द्विपाः सम्भिन्नमर्माणो वज्राशनिसमैः शरैः |
पेतुर्गिर्यग्रवेश्मानि वज्रवाताग्निभिर्यथा ||१२||
सारोहास्तुरगाः पेतुर्बहवोऽर्जुनताडिताः |
निर्जिह्वान्त्राः क्षितौ क्षीणा रुधिरार्द्राः सुदुर्दृशः ||१३||
नराश्वनागा नाराचैः संस्यूताः सव्यसाचिना |
बभ्रमुश्चस्खलुः पेतुर्नेदुर्मम्लुश्च मारिष ||१४||
अणकैश्च शिलाधौतैर्वज्राशनिविषोपमैः |
शरैर्निजघ्निवान्पार्थो महेन्द्र इव दानवान् ||१५||
महार्हवर्माभरणा नानारूपाम्बरायुधाः |
सरथाः सध्वजा वीरा हताः पार्थेन शेरते ||१६||
विजिताः पुण्यकर्माणो विशिष्टाभिजनश्रुताः |
गताः शरीरैर्वसुधामूर्जितैः कर्मभिर्दिवम् ||१७||
अथार्जुनरथं वीरास्त्वदीयाः समुपाद्रवन् |
नानाजनपदाध्यक्षाः सगणा जातमन्यवः ||१८||
उह्यमाना रथाश्वैस्ते पत्तयश्च जिघांसवः |
समभ्यधावन्नस्यन्तो विविधं क्षिप्रमायुधम् ||१९||
तदायुधमहावर्षं क्षिप्तं योधमहाम्बुदैः |
व्यधमन्निशितैर्बाणैः क्षिप्रमर्जुनमारुतः ||२०||
साश्वपत्तिद्विपरथं महाशस्त्रौघमप्लवम् |
सहसा सन्तितीर्षन्तं पार्थं शस्त्रास्त्रसेतुना ||२१||
अथाब्रवीद्वासुदेवः पार्थं किं क्रीडसेऽनघ |
संशप्तकान्प्रमथ्यैतांस्ततः कर्णवधे त्वर ||२२||
तथेत्युक्त्वार्जुनः क्षिप्रं शिष्टान्संशप्तकांस्तदा |
आक्षिप्य शस्त्रेण बलाद्दैत्यानिन्द्र इवावधीत् ||२३||
आदधत्संदधन्नेषून्दृष्टः कैश्चिद्रणेऽर्जुनः |
विमुञ्चन्वा शराञ्शीघ्रं दृश्यते स्म हि कैरपि ||२४||
आश्चर्यमिति गोविन्दो ब्रुवन्नश्वानचोदयत् |
हंसांसगौरास्ते सेनां हंसाः सर इवाविशन् ||२५||
ततः सङ्ग्रामभूमिं तां वर्तमाने जनक्षये |
अवेक्षमाणो गोविन्दः सव्यसाचिनमब्रवीत् ||२६||
एष पार्थ महारौद्रो वर्तते भरतक्षयः |
पृथिव्यां पार्थिवानां वै दुर्योधनकृते महान् ||२७||
पश्य भारत चापानि रुक्मपृष्ठानि धन्विनाम् |
महतामपविद्धानि कलापानिषुधीस्तथा ||२८||
जातरूपमयैः पुङ्खैः शरांश्च नतपर्वणः |
तैलधौतांश्च नाराचान्निर्मुक्तानिव पन्नगान् ||२९||
हस्तिदन्तत्सरून्खड्गाञ्जातरूपपरिष्कृतान् |
आकीर्णांस्तोमरांश्चापांश्चित्रान्हेमविभूषितान् ||३०||
वर्माणि चापविद्धानि रुक्मपृष्ठानि भारत |
सुवर्णविकृतान्प्रासाञ्शक्तीः कनकभूषिताः ||३१||
जाम्बूनदमयैः पट्टैर्बद्धाश्च विपुला गदाः |
जातरूपमयीश्चर्ष्टीः पट्टिशान्हेमभूषितान् ||३२||
दण्डैः कनकचित्रैश्च विप्रविद्धान्परश्वधान् |
अयस्कुशान्तान्पतितान्मुसलानि गुरूणि च ||३३||
शतघ्नीः पश्य चित्राश्च विपुलान्परिघांस्तथा |
चक्राणि चापविद्धानि मुद्गरांश्च बहून्रणे ||३४||
नानाविधानि शस्त्राणि प्रगृह्य जयगृद्धिनः |
जीवन्त इव लक्ष्यन्ते गतसत्त्वास्तरस्विनः ||३५||
गदाविमथितैर्गात्रैर्मुसलैर्भिन्नमस्तकान् |
गजवाजिरथक्षुण्णान्पश्य योधान्सहस्रशः ||३६||
मनुष्यगजवाजीनां शरशक्त्यृष्टितोमरैः |
निस्त्रिंशैः पट्टिशैः प्रासैर्नखरैर्लगुडैरपि ||३७||
शरीरैर्बहुधा भिन्नैः शोणितौघपरिप्लुतैः |
गतासुभिरमित्रघ्न संवृता रणभूमयः ||३८||
बाहुभिश्चन्दनादिग्धैः साङ्गदैः शुभभूषणैः |
सतलत्रैः सकेयूरैर्भाति भारत मेदिनी ||३९||
साङ्गुलित्रैर्भुजाग्रैश्च विप्रविद्धैरलङ्कृतैः |
हस्तिहस्तोपमैश्छिन्नैरूरुभिश्च तरस्विनाम् ||४०||
बद्धचूडामणिवरैः शिरोभिश्च सकुण्डलैः |
निकृत्तैर्वृषभाक्षाणां विराजति वसुन्धरा ||४१||
कबन्धैः शोणितादिग्धैश्छिन्नगात्रशिरोधरैः |
भूर्भाति भरतश्रेष्ठ शान्तार्चिर्भिरिवाग्निभिः ||४२||
रथान्बहुविधान्भग्नान्हेमकिङ्किणिनः शुभान् |
अश्वांश्च बहुधा पश्य शोणितेन परिप्लुतान् ||४३||
योधानां च महाशङ्खान्पाण्डुरांश्च प्रकीर्णकान् |
निरस्तजिह्वान्मातङ्गाञ्शयानान्पर्वतोपमान् ||४४||
वैजयन्तीविचित्रांश्च हतांश्च गजयोधिनः |
वारणानां परिस्तोमान्सुयुक्ताम्बरकम्बलान् ||४५||
विपाटिता विचित्राश्च रूपचित्राः कुथास्तथा |
भिन्नाश्च बहुधा घण्टाः पतद्भिश्चूर्णिता गजैः ||४६||
वैडूर्यमणिदण्डांश्च पतितानङ्कुशान्भुवि |
बद्धाः सादिध्वजाग्रेषु सुवर्णविकृताः कशाः ||४७||
विचित्रान्मणिचित्रांश्च जातरूपपरिष्कृतान् |
अश्वास्तरपरिस्तोमान्राङ्कवान्पतितान्भुवि ||४८||
चूडामणीन्नरेन्द्राणां विचित्राः काञ्चनस्रजः |
छत्राणि चापविद्धानि चामरव्यजनानि च ||४९||
चन्द्रनक्षत्रभासैश्च वदनैश्चारुकुण्डलैः |
कॢप्तश्मश्रुभिरत्यर्थं वीराणां समलङ्कृतैः ||५०||
वदनैः पश्य सञ्छन्नां महीं शोणितकर्दमाम् ||५०||
सजीवांश्च नरान्पश्य कूजमानान्समन्ततः |
उपास्यमानान्बहुभिर्न्यस्तशस्त्रैर्विशां पते ||५१||
ज्ञातिभिः सहितैस्तत्र रोदमानैर्मुहुर्मुहुः |
व्युत्क्रान्तानपरान्योधांश्छादयित्वा तरस्विनः ||५२||
पुनर्युद्धाय गच्छन्ति जयगृद्धाः प्रमन्यवः ||५२||
अपरे तत्र तत्रैव परिधावन्ति मानिनः |
ज्ञातिभिः पतितैः शूरैर्याच्यमानास्तथोदकम् ||५३||
जलार्थं च गताः केचिन्निष्प्राणा बहवोऽर्जुन |
संनिवृत्ताश्च ते शूरास्तान्दृष्ट्वैव विचेतसः ||५४||
जलं दृष्ट्वा प्रधावन्ति क्रोशमानाः परस्परम् |
जलं पीत्वा मृतान्पश्य पिबतोऽन्यांश्च भारत ||५५||
परित्यज्य प्रियानन्ये बान्धवान्बान्धवप्रिय |
व्युत्क्रान्ताः समदृश्यन्त तत्र तत्र महारणे ||५६||
पश्यापरान्नरश्रेष्ठ संदष्टौष्ठपुटान्पुनः |
भ्रुकुटीकुटिलैर्वक्त्रैः प्रेक्षमाणान्समन्ततः ||५७||
एतत्तवैवानुरूपं कर्मार्जुन महाहवे |
दिवि वा देवराजस्य त्वया यत्कृतमाहवे ||५८||
एवं तां दर्शयन्कृष्णो युद्धभूमिं किरीटिने |
गच्छन्नेवाशृणोच्छब्दं दुर्योधनबले महत् ||५९||
शङ्खदुन्दुभिनिर्घोषान्भेरीपणवमिश्रितान् |
रथाश्वगजनादांश्च शस्त्रशब्दांश्च दारुणान् ||६०||
प्रविश्य तद्बलं कृष्णस्तुरगैर्वातवेगिभिः |
पाण्ड्येनाभ्यर्दितां सेनां त्वदीयां वीक्ष्य धिष्ठितः ||६१||
स हि नानाविधैर्बाणैरिष्वासप्रवरो युधि |
न्यहनद्द्विषतां व्रातान्गतासूनन्तको यथा ||६२||
गजवाजिमनुष्याणां शरीराणि शितैः शरैः |
भित्त्वा प्रहरतां श्रेष्ठो विदेहासूंश्चकार सः ||६३||
शत्रुप्रवीरैरस्तानि नानाशस्त्राणि सायकैः |
भित्त्वा तानहनत्पाण्ड्यः शत्रूञ्शक्र इवासुरान् ||६४||
१५
धृतराष्ट्र उवाच||
प्रोक्तस्त्वया पूर्वमेव प्रवीरो लोकविश्रुतः |
न त्वस्य कर्म सङ्ग्रामे त्वया सञ्जय कीर्तितम् ||१||
तस्य विस्तरतो ब्रूहि प्रवीरस्याद्य विक्रमम् |
शिक्षां प्रभावं वीर्यं च प्रमाणं दर्पमेव च ||२||
सञ्जय उवाच||
द्रोणभीष्मकृपद्रौणिकर्णार्जुनजनार्दनान् |
समाप्तविद्यान्धनुषि श्रेष्ठान्यान्मन्यसे युधि ||३||
तुल्यता कर्णभीष्माभ्यामात्मनो येन दृश्यते |
वासुदेवार्जुनाभ्यां च न्यूनतां नात्मनीच्छति ||४||
स पाण्ड्यो नृपतिश्रेष्ठः सर्वशस्त्रभृतां वरः |
कर्णस्यानीकमवधीत्परिभूत इवान्तकः ||५||
तदुदीर्णरथाश्वं च पत्तिप्रवरकुञ्जरम् |
कुलालचक्रवद्भ्रान्तं पाण्ड्येनाधिष्ठितं बलम् ||६||
व्यश्वसूतध्वजरथान्विप्रविद्धायुधान्रिपून् |
सम्यगस्तैः शरैः पाण्ड्यो वायुर्मेघानिवाक्षिपत् ||७||
द्विरदान्प्रहतप्रोथान्विपताकध्वजायुधान् |
सपादरक्षानवधीद्वज्रेणारीनिवारिहा ||८||
सशक्तिप्रासतूणीरानश्वारोहान्हयानपि |
पुलिन्दखशबाह्लीकान्निषादान्ध्रकतङ्गणान् ||९||
दाक्षिणात्यांश्च भोजांश्च क्रूरान्सङ्ग्रामकर्कशान् |
विशस्त्रकवचान्बाणैः कृत्वा पाण्ड्योऽकरोद्व्यसून् ||१०||
चतुरङ्गं बलं बाणैर्निघ्नन्तं पाण्ड्यमाहवे |
दृष्ट्वा द्रौणिरसम्भ्रान्तमसम्भ्रान्ततरोऽभ्ययात् ||११||
आभाष्य चैनं मधुरमभि नृत्यन्नभीतवत् |
प्राह प्रहरतां श्रेष्ठः स्मितपूर्वं समाह्वयन् ||१२||
राजन्कमलपत्राक्ष प्रधानायुधवाहन |
वज्रसंहननप्रख्य प्रधानबलपौरुष ||१३||
मुष्टिश्लिष्टायुधाभ्यां च व्यायताभ्यां महद्धनुः |
दोर्भ्यां विस्फारयन्भासि महाजलदवद्भृशम् ||१४||
शरवर्षैर्महावेगैरमित्रानभिवर्षतः |
मदन्यं नानुपश्यामि प्रतिवीरं तवाहवे ||१५||
रथद्विरदपत्त्यश्वानेकः प्रमथसे बहून् |
मृगसङ्घानिवारण्ये विभीर्भीमबलो हरिः ||१६||
महता रथघोषेण दिवं भूमिं च नादयन् |
वर्षान्ते सस्यहा पीथो भाभिरापूरयन्निव ||१७||
संस्पृशानः शरांस्तीक्ष्णांस्तूणादाशीविषोपमान् |
मयैवैकेन युध्यस्व त्र्यम्बकेणान्धको यथा ||१८||
एवमुक्तस्तथेत्युक्त्वा प्रहरेति च ताडितः |
कर्णिना द्रोणतनयं विव्याध मलयध्वजः ||१९||
मर्मभेदिभिरत्युग्रैर्बाणैरग्निशिखोपमैः |
स्मयन्नभ्यहनद्द्रौणिः पाण्ड्यमाचार्यसत्तमः ||२०||
ततो नवापरांस्तीक्ष्णान्नाराचान्कङ्कवाससः |
गत्या दशम्या संयुक्तानश्वत्थामा व्यवासृजत् ||२१||
तेषां पञ्चाच्छिनत्पाण्ड्यः पञ्चभिर्निशितैः शरैः |
चत्वारोऽभ्याहनन्वाहानाशु ते व्यसवोऽभवन् ||२२||
अथ द्रोणसुतस्येषूंस्तांश्छित्त्वा निशितैः शरैः |
धनुर्ज्यां विततां पाण्ड्यश्चिच्छेदादित्यवर्चसः ||२३||
विज्यं धनुरथाधिज्यं कृत्वा द्रौणिरमित्रहा |
ततः शरसहस्राणि प्रेषयामास पाण्ड्यतः ||२४||
इषुसम्बाधमाकाशमकरोद्दिश एव च ||२४||
ततस्तानस्यतः सर्वान्द्रौणेर्बाणान्महात्मनः |
जानानोऽप्यक्षयान्पाण्ड्योऽशातयत्पुरुषर्षभः ||२५||
प्रहितांस्तान्प्रयत्नेन छित्त्वा द्रौणेरिषूनरिः |
चक्ररक्षौ ततस्तस्य प्राणुदन्निशितैः शरैः ||२६||
अथारेर्लाघवं दृष्ट्वा मण्डलीकृतकार्मुकः |
प्रास्यद्द्रोणसुतो बाणान्वृष्टिं पूषानुजो यथा ||२७||
अष्टावष्टगवान्यूहुः शकटानि यदायुधम् |
अह्नस्तदष्टभागेन द्रौणिश्चिक्षेप मारिष ||२८||
तमन्तकमिव क्रुद्धमन्तकालान्तकोपमम् |
ये ये ददृशिरे तत्र विसञ्ज्ञाः प्रायशोऽभवन् ||२९||
पर्जन्य इव घर्मान्ते वृष्ट्या साद्रिद्रुमां महीम् |
आचार्यपुत्रस्तां सेनां बाणवृष्ट्याभ्यवीवृषत् ||३०||
द्रौणिपर्जन्यमुक्तां तां बाणवृष्टिं सुदुःसहाम् |
वायव्यास्त्रेण स क्षिप्रं रुद्ध्वा पाण्ड्यानिलोऽनदत् ||३१||
तस्य नानदतः केतुं चन्दनागुरुभूषितम् |
मलयप्रतिमं द्रौणिश्छित्त्वाश्वांश्चतुरोऽहनत् ||३२||
सूतमेकेषुणा हत्वा महाजलदनिस्वनम् |
धनुश्छित्त्वार्धचन्द्रेण व्यधमत्तिलशो रथम् ||३३||
अस्त्रैरस्त्राणि संवार्य छित्त्वा सर्वायुधानि च |
प्राप्तमप्यहितं द्रौणिर्न जघान रणेप्सया ||३४||
हतेश्वरो दन्तिवरः सुकल्पित; स्त्वराभिसृष्टः प्रतिशर्मगो बली |
तमध्यतिष्ठन्मलयेश्वरो महा; न्यथाद्रिशृङ्गं हरिरुन्नदंस्तथा ||३५||
स तोमरं भास्कररश्मिसंनिभं; बलास्त्रसर्गोत्तमयत्नमन्युभिः |
ससर्ज शीघ्रं प्रतिपीडयन्गजं; गुरोः सुतायाद्रिपतीश्वरो नदन् ||३६||
मणिप्रतानोत्तमवज्रहाटकै; रलङ्कृतं चांशुकमाल्यमौक्तिकैः |
हतोऽस्यसावित्यसकृन्मुदा नद; न्पराभिनद्द्रौणिवराङ्गभूषणम् ||३७||
तदर्कचन्द्रग्रहपावकत्विषं; भृशाभिघातात्पतितं विचूर्णितम् |
महेन्द्रवज्राभिहतं महावनं; यथाद्रिशृङ्गं धरणीतले तथा ||३८||
ततः प्रजज्वाल परेण मन्युना; पदाहतो नागपतिर्यथा तथा |
समादधे चान्तकदण्डसंनिभा; निषूनमित्रान्तकरांश्चतुर्दश ||३९||
द्विपस्य पादाग्रकरान्स पञ्चभि; र्नृपस्य बाहू च शिरोऽथ च त्रिभिः |
जघान षड्भिः षडृतूत्तमत्विषः; स पाण्ड्यराजानुचरान्महारथान् ||४०||
सुदीर्घवृत्तौ वरचन्दनोक्षितौ; सुवर्णमुक्तामणिवज्रभूषितौ |
भुजौ धरायां पतितौ नृपस्य तौ; विवेष्टतुस्तार्क्ष्यहताविवोरगौ ||४१||
शिरश्च तत्पूर्णशशिप्रभाननं; सरोषताम्रायतनेत्रमुन्नसम् |
क्षितौ विबभ्राज पतत्सकुण्डलं; विशाखयोर्मध्यगतः शशी यथा ||४२||
समाप्तविद्यं तु गुरोः सुतं नृपः; समाप्तकर्माणमुपेत्य ते सुतः |
सुहृद्वृतोऽत्यर्थमपूजयन्मुदा; जिते बलौ विष्णुमिवामरेश्वरः ||४३||
१६
धृतराष्ट्र उवाच||
पाण्ड्ये हते किमकरोदर्जुनो युधि सञ्जय |
एकवीरेण कर्णेन द्रावितेषु परेषु च ||१||
समाप्तविद्यो बलवान्युक्तो वीरश्च पाण्डवः |
सर्वभूतेष्वनुज्ञातः शङ्करेण महात्मना ||२||
तस्मान्महद्भयं तीव्रममित्रघ्नाद्धनञ्जयात् |
स यत्तत्राकरोत्पार्थस्तन्ममाचक्ष्व सञ्जय ||३||
सञ्जय उवाच||
हते पाण्ड्येऽर्जुनं कृष्णस्त्वरन्नाह वचो हितम् |
पश्यातिमान्यं राजानमपयातांश्च पाण्डवान् ||४||
अश्वत्थाम्नश्च सङ्कल्पाद्धताः कर्णेन सृञ्जयाः |
तथाश्वनरनागानां कृतं च कदनं महत् ||५||
इत्याचष्ट सुदुर्धर्षो वासुदेवः किरीटिने ||५||
एतच्छ्रुत्वा च दृष्ट्वा च भ्रातुर्घोरं महद्भयम् |
वाहयाश्वान्हृषीकेश क्षिप्रमित्याह पाण्डवः ||६||
ततः प्रायाद्धृषीकेशो रथेनाप्रतियोधिना |
दारुणश्च पुनस्तत्र प्रादुरासीत्समागमः ||७||
ततः प्रववृते भूयः सङ्ग्रामो राजसत्तम |
कर्णस्य पाण्डवानां च यमराष्ट्रविवर्धनः ||८||
धनूंषि बाणान्परिघानसितोमरपट्टिशान् |
मुसलानि भुशुण्डीश्च शक्तिऋष्टिपरश्वधान् ||९||
गदाः प्रासानसीन्कुन्तान्भिण्डिपालान्महाङ्कुशान् |
प्रगृह्य क्षिप्रमापेतुः परस्परजिगीषया ||१०||
बाणज्यातलशब्देन द्यां दिशः प्रदिशो वियत् |
पृथिवीं नेमिघोषेण नादयन्तोऽभ्ययुः परान् ||११||
तेन शब्देन महता संहृष्टाश्चक्रुराहवम् |
वीरा वीरैर्महाघोरं कलहान्तं तितीर्षवः ||१२||
ज्यातलत्रधनुःशब्दाः कुञ्जराणां च बृंहितम् |
ताडितानां च पततां निनादः सुमहानभूत् ||१३||
बाणशब्दांश्च विविधाञ्शूराणामभिगर्जताम् |
श्रुत्वा शब्दं भृशं त्रेसुर्जघ्नुर्मम्लुश्च भारत ||१४||
तेषां नानद्यतां चैव शस्त्रवृष्टिं च मुञ्चताम् |
बहूनाधिरथिः कर्णः प्रममाथ रणेषुभिः ||१५||
पञ्च पाञ्चालवीराणां रथान्दश च पञ्च च |
साश्वसूतध्वजान्कर्णः शरैर्निन्ये यमक्षयम् ||१६||
योधमुख्या महावीर्याः पाण्डूनां कर्णमाहवे |
शीघ्रास्त्रा दिवमावृत्य परिवव्रुः समन्ततः ||१७||
ततः कर्णो द्विषत्सेनां शरवर्षैर्विलोडयन् |
विजगाहेऽण्डजापूर्णां पद्मिनीमिव यूथपः ||१८||
द्विषन्मध्यमवस्कन्द्य राधेयो धनुरुत्तमम् |
विधुन्वानः शितैर्बाणैः शिरांस्युन्मथ्य पातयत् ||१९||
चर्मवर्माणि सञ्छिन्द्य निर्वापमिव देहिनाम् |
विषेहुर्नास्य सम्पर्कं द्वितीयस्य पतत्रिणः ||२०||
वर्मदेहासुमथनैर्धनुषः प्रच्युतैः शरैः |
मौर्व्या तलत्रैर्न्यवधीत्कशया वाजिनो यथा ||२१||
पाण्डुसृञ्जयपाञ्चालाञ्शरगोचरमानयत् |
ममर्द कर्णस्तरसा सिंहो मृगगणानिव ||२२||
ततः पाञ्चालपुत्राश्च द्रौपदेयाश्च मारिष |
यमौ च युयुधानश्च सहिताः कर्णमभ्ययुः ||२३||
व्यायच्छमानाः सुभृशं कुरुपाण्डवसृञ्जयाः |
प्रियानसून्रणे त्यक्त्वा योधा जग्मुः परस्परम् ||२४||
सुसंनद्धाः कवचिनः सशिरस्त्राणभूषणाः |
गदाभिर्मुसलैश्चान्ये परिघैश्च महारथाः ||२५||
समभ्यधावन्त भृशं देवा दण्डैरिवोद्यतैः |
नदन्तश्चाह्वयन्तश्च प्रवल्गन्तश्च मारिष ||२६||
ततो निजघ्नुरन्योन्यं पेतुश्चाहवताडिताः |
वमन्तो रुधिरं गात्रैर्विमस्तिष्केक्षणा युधि ||२७||
दन्तपूर्णैः सरुधिरैर्वक्त्रैर्दाडिमसंनिभैः |
जीवन्त इव चाप्येते तस्थुः शस्त्रोपबृंहिताः ||२८||
परस्परं चाप्यपरे पट्टिशैरसिभिस्तथा |
शक्तिभिर्भिण्डिपालैश्च नखरप्रासतोमरैः ||२९||
ततक्षुश्चिच्छिदुश्चान्ये बिभिदुश्चिक्षिपुस्तथा |
सञ्चकर्तुश्च जघ्नुश्च क्रुद्धा निर्बिभिदुश्च ह ||३०||
पेतुरन्योन्यनिहता व्यसवो रुधिरोक्षिताः |
क्षरन्तः स्वरसं रक्तं प्रकृताश्चन्दना इव ||३१||
रथै रथा विनिहता हस्तिनश्चापि हस्तिभिः |
नरा नरवरैः पेतुरश्वाश्चाश्वैः सहस्रशः ||३२||
ध्वजाः शिरांसि च्छत्राणि द्विपहस्ता नृणां भुजाः |
क्षुरैर्भल्लार्धचन्द्रैश्च छिन्नाः शस्त्राणि तत्यजुः ||३३||
नरांश्च नागांश्च रथान्हयान्ममृदुराहवे |
अश्वारोहैर्हताः शूराश्छिन्नहस्ताश्च दन्तिनः ||३४||
सपताका ध्वजाः पेतुर्विशीर्णा इव पर्वताः |
पत्तिभिश्च समाप्लुत्य द्विरदाः स्यन्दनास्तथा ||३५||
प्रहता हन्यमानाश्च पतिताश्चैव सर्वशः |
अश्वारोहाः समासाद्य त्वरिताः पत्तिभिर्हताः ||३६||
सादिभिः पत्तिसङ्घाश्च निहता युधि शेरते ||३६||
मृदितानीव पद्मानि प्रम्लाना इव च स्रजः |
हतानां वदनान्यासन्गात्राणि च महामते ||३७||
रूपाण्यत्यर्थकाम्यानि द्विरदाश्वनृणां नृप |
समुन्नानीव वस्त्राणि प्रापुर्दुर्दर्शतां परम् ||३८||
१७
सञ्जय उवाच||
हस्तिभिस्तु महामात्रास्तव पुत्रेण चोदिताः |
धृष्टद्युम्नं जिघांसन्तः क्रुद्धाः पार्षतमभ्ययुः ||१||
प्राच्याश्च दाक्षिणात्याश्च प्रवीरा गजयोधिनः |
अङ्गा वङ्गाश्च पुण्ड्राश्च मागधास्ताम्रलिप्तकाः ||२||
मेकलाः कोशला मद्रा दशार्णा निषधास्तथा |
गजयुद्धेषु कुशलाः कलिङ्गैः सह भारत ||३||
शरतोमरनाराचैर्वृष्टिमन्त इवाम्बुदाः |
सिषिचुस्ते ततः सर्वे पाञ्चालाचलमाहवे ||४||
तान्संमिमर्दिषुर्नागान्पार्ष्ण्यङ्गुष्ठाङ्कुशैर्भृशम् |
पोथितान्पार्षतो बाणैर्नाराचैश्चाभ्यवीवृषत् ||५||
एकैकं दशभिः षड्भिरष्टाभिरपि भारत |
द्विरदानभिविव्याध क्षिप्तैर्गिरिनिभाञ्शरैः ||६||
प्रच्छाद्यमानो द्विरदैर्मेघैरिव दिवाकरः ||६||
पर्यासुः पाण्डुपाञ्चाला नदन्तो निशितायुधाः |
तान्नागानभिवर्षन्तो ज्यातन्त्रीशरनादितैः ||७||
नकुलः सहदेवश्च द्रौपदेयाः प्रभद्रकाः |
सात्यकिश्च शिखण्डी च चेकितानश्च वीर्यवान् ||८||
ते म्लेच्छैः प्रेषिता नागा नरानश्वान्रथानपि |
हस्तैराक्षिप्य ममृदुः पद्भिश्चाप्यतिमन्यवः ||९||
बिभिदुश्च विषाणाग्रैः समाक्षिप्य च चिक्षिपुः |
विषाणलग्नैश्चाप्यन्ये परिपेतुर्विभीषणाः ||१०||
प्रमुखे वर्तमानं तु द्विपं वङ्गस्य सात्यकिः |
नाराचेनोग्रवेगेन भित्त्वा मर्मण्यपातयत् ||११||
तस्यावर्जितनागस्य द्विरदादुत्पतिष्यतः |
नाराचेनाभिनद्वक्षः सोऽपतद्भुवि सात्यकेः ||१२||
पुण्ड्रस्यापततो नागं चलन्तमिव पर्वतम् |
सहदेवः प्रयत्नात्तैर्नाराचैर्व्यहनत्त्रिभिः ||१३||
विपताकं वियन्तारं विवर्मध्वजजीवितम् |
तं कृत्वा द्विरदं भूयः सहदेवोऽङ्गमभ्यगात् ||१४||
सहदेवं तु नकुलो वारयित्वाङ्गमार्दयत् |
नाराचैर्यमदण्डाभैस्त्रिभिर्नागं शतेन च ||१५||
दिवाकरकरप्रख्यानङ्गश्चिक्षेप तोमरान् |
नकुलाय शतान्यष्टौ त्रिधैकैकं तु सोऽच्छिनत् ||१६||
तथार्धचन्द्रेण शिरस्तस्य चिच्छेद पाण्डवः |
स पपात हतो म्लेच्छस्तेनैव सह दन्तिना ||१७||
आचार्यपुत्रे निहते हस्तिशिक्षाविशारदे |
अङ्गाः क्रुद्धा महामात्रा नागैर्नकुलमभ्ययुः ||१८||
चलत्पताकैः प्रमुखैर्हेमकक्ष्यातनुच्छदैः |
मिमर्दिशन्तस्त्वरिताः प्रदीप्तैरिव पर्वतैः ||१९||
मेकलोत्कलकालिङ्गा निषादास्ताम्रलिप्तकाः |
शरतोमरवर्षाणि विमुञ्चन्तो जिघांसवः ||२०||
तैश्छाद्यमानं नकुलं दिवाकरमिवाम्बुदैः |
परि पेतुः सुसंरब्धाः पाण्डुपाञ्चालसोमकाः ||२१||
ततस्तदभवद्युद्धं रथिनां हस्तिभिः सह |
सृजतां शरवर्षाणि तोमरांश्च सहस्रशः ||२२||
नागानां प्रस्फुटुः कुम्भा मर्माणि विविधानि च |
दन्ताश्चैवातिविद्धानां नाराचैर्भूषणानि च ||२३||
तेषामष्टौ महानागांश्चतुःषष्ट्या सुतेजनैः |
सहदेवो जघानाशु ते पेतुः सह सादिभिः ||२४||
अञ्जोगतिभिरायम्य प्रयत्नाद्धनुरुत्तमम् |
नाराचैरहनन्नागान्नकुलः कुरनन्दन ||२५||
ततः शैनेयपाञ्चाल्यौ द्रौपदेयाः प्रभद्रकाः |
शिखण्डी च महानागान्सिषिचुः शरवृष्टिभिः ||२६||
ते पाण्डुयोधाम्बुधरैः शत्रुद्विरदपर्वताः |
बाणवर्षैर्हताः पेतुर्वज्रवर्षैरिवाचलाः ||२७||
एवं हत्वा तव गजांस्ते पाण्डुनरकुञ्जराः |
द्रुतं सेनामवैक्षन्त भिन्नकूलामिवापगाम् ||२८||
ते तां सेनामवालोक्य पाण्डुपुत्रस्य सैनिकाः |
विक्षोभयित्वा च पुनः कर्णमेवाभिदुद्रुवुः ||२९||
सहदेवं ततः क्रुद्धं दहन्तं तव वाहिनीम् |
दुःशासनो महाराज भ्राता भ्रातरमभ्ययात् ||३०||
तौ समेतौ महायुद्धे दृष्ट्वा तत्र नराधिपाः |
सिंहनादरवांश्चक्रुर्वासांस्यादुधुवुश्च ह ||३१||
ततो भारत क्रुद्धेन तव पुत्रेण धन्विना |
पाण्डुपुत्रस्त्रिभिर्बाणैर्वक्षस्यभिहतो बली ||३२||
सहदेवस्ततो राजन्नाराचेन तवात्मजम् |
विद्ध्वा विव्याध सप्तत्या सारथिं च त्रिभिस्त्रिभिः ||३३||
दुःशासनस्तदा राजंश्छित्त्वा चापं महाहवे |
सहदेवं त्रिसप्तत्या बाह्वोरुरसि चार्दयत् ||३४||
सहदेवस्ततः क्रुद्धः खड्गं गृह्य महाहवे |
व्याविध्यत युधां श्रेष्ठः श्रीमांस्तव सुतं प्रति ||३५||
समार्गणगणं चापं छित्त्वा तस्य महानसिः |
निपपात ततो भूमौ च्युतः सर्प इवाम्बरात् ||३६||
अथान्यद्धनुरादाय सहदेवः प्रतापवान् |
दुःशासनाय चिक्षेप बाणमन्तकरं ततः ||३७||
तमापतन्तं विशिखं यमदण्डोपमत्विषम् |
खड्गेन शितधारेण द्विधा चिच्छेद कौरवः ||३८||
तमापतन्तं सहसा निस्त्रिंशं निशितैः शरैः |
पातयामास समरे सहदेवो हसन्निव ||३९||
ततो बाणांश्चतुःषष्टिं तव पुत्रो महारणे |
सहदेवरथे तूर्णं पातयामास भारत ||४०||
ताञ्शरान्समरे राजन्वेगेनापततो बहून् |
एकैकं पञ्चभिर्बाणैः सहदेवो न्यकृन्तत ||४१||
स निवार्य महाबाणांस्तव पुत्रेण प्रेषितान् |
अथास्मै सुबहून्बाणान्माद्रीपुत्रः समाचिनोत् ||४२||
ततः क्रुद्धो महाराज सहदेवः प्रतापवान् |
समाधत्त शरं घोरं मृत्युकालान्तकोपमम् ||४३||
विकृष्य बलवच्चापं तव पुत्राय सोऽसृजत् ||४३||
स तं निर्भिद्य वेगेन भित्त्वा च कवचं महत् |
प्राविशद्धरणीं राजन्वल्मीकमिव पन्नगः ||४४||
ततः स मुमुहे राजंस्तव पुत्रो महारथः ||४४||
मूढं चैनं समालक्ष्य सारथिस्त्वरितो रथम् |
अपोवाह भृशं त्रस्तो वध्यमानं शितैः शरैः ||४५||
पराजित्य रणे तं तु पाण्डवः पाण्डुपूर्वज |
दुर्योधनबलं हृष्टः प्रामथद्वै समन्ततः ||४६||
पिपीलिकापुटं राजन्यथामृद्नान्नरो रुषा |
तथा सा कौरवी सेना मृदिता तेन भारत ||४७||
नकुलं रभसं युद्धे दारयन्तं वरूथिनीम् |
कर्णो वैकर्तनो राजन्वारयामास वै तदा ||४८||
नकुलश्च तदा कर्णं प्रहसन्निदमब्रवीत् |
चिरस्य बत दृष्टोऽहं दैवतैः सौम्यचक्षुषा ||४९||
यस्य मे त्वं रणे पाप चक्षुर्विषयमागतः |
त्वं हि मूलमनर्थानां वैरस्य कलहस्य च ||५०||
त्वद्दोषात्कुरवः क्षीणाः समासाद्य परस्परम् |
त्वामद्य समरे हत्वा कृतकृत्योऽस्मि विज्वरः ||५१||
एवमुक्तः प्रत्युवाच नकुलं सूतनन्दनः |
सदृशं राजपुत्रस्य धन्विनश्च विशेषतः ||५२||
प्रहरस्व रणे बाल पश्यामस्तव पौरुषम् |
कर्म कृत्वा रणे शूर ततः कत्थितुमर्हसि ||५३||
अनुक्त्वा समरे तात शूरा युध्यन्ति शक्तितः |
स युध्यस्व मया शक्त्या विनेष्ये दर्पमद्य ते ||५४||
इत्युक्त्वा प्राहरत्तूर्णं पाण्डुपुत्राय सूतजः |
विव्याध चैनं समरे त्रिसप्तत्या शिलीमुखैः ||५५||
नकुलस्तु ततो विद्धः सूतपुत्रेण भारत |
अशीत्याशीविषप्रख्यैः सूतपुत्रमविध्यत ||५६||
तस्य कर्णो धनुश्छित्त्वा स्वर्णपुङ्खैः शिलाशितैः |
त्रिंशता परमेष्वासः शरैः पाण्डवमार्दयत् ||५७||
ते तस्य कवचं भित्त्वा पपुः शोणितमाहवे |
आशीविषा यथा नागा भित्त्वा गां सलिलं पपुः ||५८||
अथान्यद्धनुरादाय हेमपृष्ठं दुरासदम् |
कर्णं विव्याध विंशत्या सारथिं च त्रिभिः शरैः ||५९||
ततः क्रुद्धो महाराज नकुलः परवीरहा |
क्षुरप्रेण सुतीक्ष्णेन कर्णस्य धनुरच्छिनत् ||६०||
अथैनं छिन्नधन्वानं सायकानां शतैस्त्रिभिः |
आजघ्ने प्रहसन्वीरः सर्वलोकमहारथम् ||६१||
कर्णमभ्यर्दितं दृष्ट्वा पाण्डुपुत्रेण मारिष |
विस्मयं परमं जग्मू रथिनः सह दैवतैः ||६२||
अथान्यद्धनुरादाय कर्णो वैकर्तनस्तदा |
नकुलं पञ्चभिर्बाणैर्जत्रुदेशे समार्दयत् ||६३||
उरःस्थैरथ तैर्बाणैर्माद्रीपुत्रो व्यरोचत |
स्वरश्मिभिरिवादित्यो भुवने विसृजन्प्रभाम् ||६४||
नकुलस्तु ततः कर्णं विद्ध्वा सप्तभिरायसैः |
अथास्य धनुषः कोटिं पुनश्चिच्छेद मारिष ||६५||
सोऽन्यत्कार्मुकमादाय समरे वेगवत्तरम् |
नकुलस्य ततो बाणैः सर्वतोऽवारयद्दिशः ||६६||
सञ्छाद्यमानः सहसा कर्णचापच्युतैः शरैः |
चिच्छेद स शरांस्तूर्णं शरैरेव महारथः ||६७||
ततो बाणमयं जालं विततं व्योम्न्यदृश्यत |
खद्योतानां गणैरेव सम्पतद्भिर्यथा नभः ||६८||
तैर्विमुक्तैः शरशतैश्छादितं गगनं तदा |
शलभानां यथा व्रातैस्तद्वदासीत्समाकुलम् ||६९||
ते शरा हेमविकृताः सम्पतन्तो मुहुर्मुहुः |
श्रेणीकृता अभासन्त हंसाः श्रेणीगता इव ||७०||
बाणजालावृते व्योम्नि छादिते च दिवाकरे |
समसर्पत्ततो भूतं किञ्चिदेव विशां पते ||७१||
निरुद्धे तत्र मार्गे तु शरसङ्घैः समन्ततः |
व्यरोचतां महाभागौ बालसूर्याविवोदितौ ||७२||
कर्णचापच्युतैर्बाणैर्वध्यमानास्तु सोमकाः |
अवालीयन्त राजेन्द्र वेदनार्ताः शरार्दिताः ||७३||
नकुलस्य तथा बाणैर्वध्यमाना चमूस्तव |
व्यशीर्यत दिशो राजन्वातनुन्ना इवाम्बुदाः ||७४||
ते सेने वध्यमाने तु ताभ्यां दिव्यैर्महाशरैः |
शरपातमपक्रम्य ततः प्रेक्षकवत्स्थिते ||७५||
प्रोत्सारिते जने तस्मिन्कर्णपाण्डवयोः शरैः |
विव्याधाते महात्मानावन्योन्यं शरवृष्टिभिः ||७६||
निदर्शयन्तौ त्वस्त्राणि दिव्यानि रणमूर्धनि |
छादयन्तौ च सहसा परस्परवधैषिणौ ||७७||
नकुलेन शरा मुक्ताः कङ्कबर्हिणवाससः |
ते तु कर्णमवच्छाद्य व्यतिष्ठन्त यथा परे ||७८||
शरवेश्मप्रविष्टौ तौ ददृशाते न कैश्चन |
चन्द्रसूर्यौ यथा राजंश्छाद्यमानौ जलागमे ||७९||
ततः क्रुद्धो रणे कर्णः कृत्वा घोरतरं वपुः |
पाण्डवं छादयामास समन्ताच्छरवृष्टिभिः ||८०||
स च्छाद्यमानः समरे सूतपुत्रेण पाण्डवः |
न चकार व्यथां राजन्भास्करो जलदैर्यथा ||८१||
ततः प्रहस्याधिरथिः शरजालानि मारिष |
प्रेषयामास समरे शतशोऽथ सहस्रशः ||८२||
एकच्छायमभूत्सर्वं तस्य बाणैर्महात्मनः |
अभ्रच्छायेव सञ्जज्ञे सम्पतद्भिः शरोत्तमैः ||८३||
ततः कर्णो महाराज धनुश्छित्त्वा महात्मनः |
सारथिं पातयामास रथनीडाद्धसन्निव ||८४||
तथाश्वांश्चतुरश्चास्य चतुर्भिर्निशितैः शरैः |
यमस्य सदनं तूर्णं प्रेषयामास भारत ||८५||
अथास्य तं रथं तूर्णं तिलशो व्यधमच्छरैः |
पताकां चक्ररक्षौ च ध्वजं खड्गं च मारिष ||८६||
शतचन्द्रं ततश्चर्म सर्वोपकरणानि च ||८६||
हताश्वो विरथश्चैव विवर्मा च विशां पते |
अवतीर्य रथात्तूर्णं परिघं गृह्य विष्ठितः ||८७||
तमुद्यतं महाघोरं परिघं तस्य सूतजः |
व्यहनत्सायकै राजञ्शतशोऽथ सहस्रशः ||८८||
व्यायुधं चैनमालक्ष्य शरैः संनतपर्वभिः |
आर्दयद्बहुशः कर्णो न चैनं समपीडयत् ||८९||
स वध्यमानः समरे कृतास्त्रेण बलीयसा |
प्राद्रवत्सहसा राजन्नकुलो व्याकुलेन्द्रियः ||९०||
तमभिद्रुत्य राधेयः प्रहसन्वै पुनः पुनः |
सज्यमस्य धनुः कण्ठे सोऽवासृजत भारत ||९१||
ततः स शुशुभे राजन्कण्ठासक्तमहाधनुः |
परिवेषमनुप्राप्तो यथा स्याद्व्योम्नि चन्द्रमाः ||९२||
यथैव च सितो मेघः शक्रचापेन शोभितः ||९२||
तमब्रवीत्तदा कर्णो व्यर्थं व्याहृतवानसि |
वदेदानीं पुनर्हृष्टो वध्यं मां त्वं पुनः पुनः ||९३||
मा योत्सीर्गुरुभिः सार्धं बलवद्भिश्च पाण्डव |
सदृशैस्तात युध्यस्व व्रीडां मा कुरु पाण्डव ||९४||
गृहं वा गच्छ माद्रेय यत्र वा कृष्णफल्गुनौ ||९४||
एवमुक्त्वा महाराज व्यसर्जयत तं ततः |
वधप्राप्तं तु तं राजन्नावधीत्सूतनन्दनः ||९५||
स्मृत्वा कुन्त्या वचो राजंस्तत एनं व्यसर्जयत् ||९५||
विसृष्टः पाण्डवो राजन्सूतपुत्रेण धन्विना |
व्रीडन्निव जगामाथ युधिष्ठिररथं प्रति ||९६||
आरुरोह रथं चापि सूतपुत्रप्रतापितः |
निःश्वसन्दुःखसन्तप्तः कुम्भे क्षिप्त इवोरगः ||९७||
तं विसृज्य रणे कर्णः पाञ्चालांस्त्वरितो ययौ |
रथेनातिपताकेन चन्द्रवर्णहयेन च ||९८||
तत्राक्रन्दो महानासीत्पाण्डवानां विशां पते |
दृष्ट्वा सेनापतिं यान्तं पाञ्चालानां रथव्रजान् ||९९||
तत्राकरोन्महाराज कदनं सूतनन्दनः |
मध्यं गते दिनकरे चक्रवत्प्रचरन्प्रभुः ||१००||
भग्नचक्रै रथैः केचिच्छिन्नध्वजपताकिभिः |
ससूतैर्हतसूतैश्च भग्नाक्षैश्चैव मारिष ||१०१||
ह्रियमाणानपश्याम पाञ्चालानां रथव्रजान् ||१०१||
तत्र तत्र च सम्भ्रान्ता विचेरुर्मत्तकुञ्जराः |
दवाग्निना परीताङ्गा यथैव स्युर्महावने ||१०२||
भिन्नकुम्भा विरुधिराश्छिन्नहस्ताश्च वारणाः |
भिन्नगात्रवराश्चैव च्छिन्नवालाश्च मारिष ||१०३||
छिन्नाभ्राणीव सम्पेतुर्वध्यमाना महात्मना ||१०३||
अपरे त्रासिता नागा नाराचशततोमरैः |
तमेवाभिमुखा यान्ति शलभा इव पावकम् ||१०४||
अपरे निष्टनन्तः स्म व्यदृश्यन्त महाद्विपाः |
क्षरन्तः शोणितं गात्रैर्नगा इव जलप्लवम् ||१०५||
उरश्छदैर्विमुक्ताश्च वालबन्धैश्च वाजिनः |
राजतैश्च तथा कांस्यैः सौवर्णैश्चैव भूषणैः ||१०६||
हीना आस्तरणैश्चैव खलीनैश्च विवर्जिताः |
चामरैश्च कुथाभिश्च तूणीरैः पतितैरपि ||१०७||
निहतैः सादिभिश्चैव शूरैराहवशोभिभिः |
अपश्याम रणे तत्र भ्राम्यमाणान्हयोत्तमान् ||१०८||
प्रासैः खड्गैश्च संस्यूतानृष्टिभिश्च नराधिप |
हययोधानपश्याम कञ्चुकोष्णीषधारिणः ||१०९||
रथान्हेमपरिष्कारान्सुयुक्ताञ्जवनैर्हयैः |
भ्रममाणानपश्याम हतेषु रथिषु द्रुतम् ||११०||
भग्नाक्षकूबरान्कांश्चिच्छिन्नचक्रांश्च मारिष |
विपताकाध्वजांश्चान्याञ्छिन्नेषायुगबन्धुरान् ||१११||
विहीनान्रथिनस्तत्र धावमानान्समन्ततः |
सूर्यपुत्रशरैस्त्रस्तानपश्याम विशां पते ||११२||
विशस्त्रांश्च तथैवान्यान्सशस्त्रांश्च बहून्हतान् |
तावकाञ्जालसञ्छन्नानुरोघण्टाविभूषितान् ||११३||
नानावर्णविचित्राभिः पताकाभिरलङ्कृतान् |
पदातीनन्वपश्याम धावमानान्समन्ततः ||११४||
शिरांसि बाहूनूरूंश्च छिन्नानन्यांस्तथा युधि |
कर्णचापच्युतैर्बाणैरपश्याम विनाकृतान् ||११५||
महान्व्यतिकरो रौद्रो योधानामन्वदृश्यत |
कर्णसायकनुन्नानां हतानां निशितैः शरैः ||११६||
ते वध्यमानाः समरे सूतपुत्रेण सृञ्जयाः |
तमेवाभिमुखा यान्ति पतङ्गा इव पावकम् ||११७||
तं दहन्तमनीकानि तत्र तत्र महारथम् |
क्षत्रिया वर्जयामासुर्युगान्ताग्निमिवोल्बणम् ||११८||
हतशेषास्तु ये वीराः पाञ्चालानां महारथाः |
तान्प्रभग्नान्द्रुतान्कर्णः पृष्ठतो विकिरञ्शरैः ||११९||
अभ्यधावत तेजस्वी विशीर्णकवचध्वजान् ||११९||
तापयामास तान्बाणैः सूतपुत्रो महारथः |
मध्यंदिनमनुप्राप्तो भूतानीव तमोनुदः ||१२०||
१८
सञ्जय उवाच||
युयुत्सुं तव पुत्रं तु प्राद्रवन्तं महद्बलम् |
उलूकोऽभ्यपतत्तूर्णं तिष्ठ तिष्ठेति चाब्रवीत् ||१||
युयुत्सुस्तु ततो राजञ्शितधारेण पत्रिणा |
उलूकं ताडयामास वज्रेणेन्द्र इवाचलम् ||२||
उलूकस्तु ततः क्रुद्धस्तव पुत्रस्य संयुगे |
क्षुरप्रेण धनुश्छित्त्वा ताडयामास कर्णिना ||३||
तदपास्य धनुश्छिन्नं युयुत्सुर्वेगवत्तरम् |
अन्यदादत्त सुमहच्चापं संरक्तलोचनः ||४||
शाकुनिं च ततः षष्ट्या विव्याध भरतर्षभ |
सारथिं त्रिभिरानर्छत्तं च भूयो व्यविध्यत ||५||
उलूकस्तं तु विंशत्या विद्ध्वा हेमविभूषितैः |
अथास्य समरे क्रुद्धो ध्वजं चिच्छेद काञ्चनम् ||६||
स च्छिन्नयष्टिः सुमहाञ्शीर्यमाणो महाध्वजः |
पपात प्रमुखे राजन्युयुत्सोः काञ्चनोज्ज्वलः ||७||
ध्वजमुन्मथितं दृष्ट्वा युयुत्सुः क्रोधमूर्छितः |
उलूकं पञ्चभिर्बाणैराजघान स्तनान्तरे ||८||
उलूकस्तस्य भल्लेन तैलधौतेन मारिष |
शिरश्चिच्छेद सहसा यन्तुर्भरतसत्तम ||९||
जघान चतुरोऽश्वांश्च तं च विव्याध पञ्चभिः |
सोऽतिविद्धो बलवता प्रत्यपायाद्रथान्तरम् ||१०||
तं निर्जित्य रणे राजन्नुलूकस्त्वरितो ययौ |
पाञ्चालान्सृञ्जयांश्चैव विनिघ्नन्निशितैः शरैः ||११||
शतानीकं महाराज श्रुतकर्मा सुतस्तव |
व्यश्वसूतरथं चक्रे निमेषार्धादसम्भ्रमम् ||१२||
हताश्वे तु रथे तिष्ठञ्शतानीको महाबलः |
गदां चिक्षेप सङ्क्रुद्धस्तव पुत्रस्य मारिष ||१३||
सा कृत्वा स्यन्दनं भस्म हयांश्चैव ससारथीन् |
पपात धरणीं तूर्णं दारयन्तीव भारत ||१४||
तावुभौ विरथौ वीरौ कुरूणां कीर्तिवर्धनौ |
अपाक्रमेतां युद्धार्तौ प्रेक्षमाणौ परस्परम् ||१५||
पुत्रस्तु तव सम्भ्रान्तो विवित्सो रथमाविशत् |
शतानीकोऽपि त्वरितः प्रतिविन्ध्यरथं गतः ||१६||
सुतसोमस्तु शकुनिं विव्याध निशितैः शरैः |
नाकम्पयत संरब्धो वार्योघ इव पर्वतम् ||१७||
सुतसोमस्तु तं दृष्ट्वा पितुरत्यन्तवैरिणम् |
शरैरनेकसाहस्रैश्छादयामास भारत ||१८||
ताञ्शराञ्शकुनिस्तूर्णं चिच्छेदान्यैः पतत्रिभिः |
लघ्वस्त्रश्चित्रयोधी च जितकाशी च संयुगे ||१९||
निवार्य समरे चापि शरांस्तान्निशितैः शरैः |
आजघान सुसङ्क्रुद्धः सुतसोमं त्रिभिः शरैः ||२०||
तस्याश्वान्केतनं सूतं तिलशो व्यधमच्छरैः |
स्यालस्तव महावीर्यस्ततस्ते चुक्रुशुर्जनाः ||२१||
हताश्वो विरथश्चैव छिन्नधन्वा च मारिष |
धन्वी धनुर्वरं गृह्य रथाद्भूमावतिष्ठत ||२२||
व्यसृजत्सायकांश्चैव स्वर्णपुङ्खाञ्शिलाशितान् ||२२||
छादयामासुरथ ते तव स्यालस्य तं रथम् |
पतङ्गानामिव व्राताः शरव्राता महारथम् ||२३||
रथोपस्थान्समीक्ष्यापि विव्यथे नैव सौबलः |
प्रमृद्नंश्च शरांस्तांस्ताञ्शरव्रातैर्महायशाः ||२४||
तत्रातुष्यन्त योधाश्च सिद्धाश्चापि दिवि स्थिताः |
सुतसोमस्य तत्कर्म दृष्ट्वाश्रद्धेयमद्भुतम् ||२५||
रथस्थं नृपतिं तं तु पदातिः सन्नयोधयत् ||२५||
तस्य तीक्ष्णैर्महावेगैर्भल्लैः संनतपर्वभिः |
व्यहनत्कार्मुकं राजा तूणीरं चैव सर्वशः ||२६||
स च्छिन्नधन्वा समरे खड्गमुद्यम्य नानदन् |
वैडूर्योत्पलवर्णाभं हस्तिदन्तमयत्सरुम् ||२७||
भ्राम्यमाणं ततस्तं तु विमलाम्ब्बरवर्चसम् |
कालोपमं ततो मेने सुतसोमस्य धीमतः ||२८||
सोऽचरत्सहसा खड्गी मण्डलानि सहस्रशः |
चतुर्विंशन्महाराज शिक्षाबलसमन्वितः ||२९||
सौबलस्तु ततस्तस्य शरांश्चिक्षेप वीर्यवान् |
तानापतत एवाशु चिच्छेद परमासिना ||३०||
ततः क्रुद्धो महाराज सौबलः परवीरहा |
प्राहिणोत्सुतसोमस्य शरानाशीविषोपमान् ||३१||
चिच्छेद तांश्च खड्गेन शिक्षया च बलेन च |
दर्शयँल्लाघवं युद्धे तार्क्ष्यवीर्यसमद्युतिः ||३२||
तस्य सञ्चरतो राजन्मण्डलावर्तने तदा |
क्षुरप्रेण सुतीक्ष्णेन खड्गं चिच्छेद सुप्रभम् ||३३||
स च्छिन्नः सहसा भूमौ निपपात महानसिः |
अवशस्य स्थितं हस्ते तं खड्गं सत्सरुं तदा ||३४||
छिन्नमाज्ञाय निस्त्रिंशमवप्लुत्य पदानि षट् |
प्राविध्यत ततः शेषं सुतसोमो महारथः ||३५||
स च्छित्त्वा सगुणं चापं रणे तस्य महात्मनः |
पपात धरणीं तूर्णं स्वर्णवज्रविभूषितः ||३६||
सुतसोमस्ततोऽगच्छच्छ्रुतकीर्तेर्महारथम् ||३६||
सौबलोऽपि धनुर्गृह्य घोरमन्यत्सुदुःसहम् |
अभ्ययात्पाण्डवानीकं निघ्नञ्शत्रुगणान्बहून् ||३७||
तत्र नादो महानासीत्पाण्डवानां विशां पते |
सौबलं समरे दृष्ट्वा विचरन्तमभीतवत् ||३८||
तान्यनीकानि दृप्तानि शस्त्रवन्ति महान्ति च |
द्राव्यमाणान्यदृश्यन्त सौबलेन महात्मना ||३९||
यथा दैत्यचमूं राजन्देवराजो ममर्द ह |
तथैव पाण्डवीं सेनां सौबलेयो व्यनाशयत् ||४०||
धृष्टद्युम्नं कृपो राजन्वारयामास संयुगे |
यथा दृप्तं वने नागं शरभो वारयेद्युधि ||४१||
निरुद्धः पार्षतस्तेन गौतमेन बलीयसा |
पदात्पदं विचलितुं नाशक्नोत्तत्र भारत ||४२||
गौतमस्य वपुर्दृष्ट्वा धृष्टद्युम्नरथं प्रति |
वित्रेसुः सर्वभूतानि क्षयं प्राप्तं च मेनिरे ||४३||
तत्रावोचन्विमनसो रथिनः सादिनस्तथा |
द्रोणस्य निधने नूनं सङ्क्रुद्धो द्विपदां वरः ||४४||
शारद्वतो महातेजा दिव्यास्त्रविदुदारधीः |
अपि स्वस्ति भवेदद्य धृष्टद्युम्नस्य गौतमात् ||४५||
अपीयं वाहिनी कृत्स्ना मुच्येत महतो भयात् |
अप्ययं ब्राह्मणः सर्वान्न नो हन्यात्समागतान् ||४६||
यादृशं दृश्यते रूपमन्तकप्रतिमं भृशम् |
गमिष्यत्यद्य पदवीं भारद्वाजस्य संयुगे ||४७||
आचार्यः क्षिप्रहस्तश्च विजयी च सदा युधि |
अस्त्रवान्वीर्यसम्पन्नः क्रोधेन च समन्वितः ||४८||
पार्षतश्च भृशं युद्धे विमुखोऽद्यापि लक्ष्यते |
इत्येवं विविधा वाचस्तावकानां परैः सह ||४९||
विनिःश्वस्य ततः क्रुद्धः कृपः शारद्वतो नृप |
पार्षतं छादयामास निश्चेष्टं सर्वमर्मसु ||५०||
स वध्यमानः समरे गौतमेन महात्मना |
कर्तव्यं न प्रजानाति मोहितः परमाहवे ||५१||
तमब्रवीत्ततो यन्ता कच्चित्क्षेमं नु पार्षत |
ईदृशं व्यसनं युद्धे न ते दृष्टं कदाचन ||५२||
दैवयोगात्तु ते बाणा नातरन्मर्मभेदिनः |
प्रेषिता द्विजमुख्येन मर्माण्युद्दिश्य सर्वशः ||५३||
व्यावर्तये तत्र रथं नदीवेगमिवार्णवात् |
अवध्यं ब्राह्मणं मन्ये येन ते विक्रमो हतः ||५४||
धृष्टद्युम्नस्ततो राजञ्शनकैरब्रवीद्वचः |
मुह्यते मे मनस्तात गात्रे स्वेदश्च जायते ||५५||
वेपथुं च शरीरे मे रोमहर्षं च पश्य वै |
वर्जयन्ब्राह्मणं युद्धे शनैर्याहि यतोऽच्युतः ||५६||
अर्जुनं भीमसेनं वा समरे प्राप्य सारथे |
क्षेममद्य भवेद्यन्तरिति मे नैष्ठिकी मतिः ||५७||
ततः प्रायान्महाराज सारथिस्त्वरयन्हयान् |
यतो भीमो महेष्वासो युयुधे तव सैनिकैः ||५८||
प्रद्रुतं तु रथं दृष्ट्वा धृष्टद्युम्नस्य मारिष |
किरञ्शरशतान्येव गौतमोऽनुययौ तदा ||५९||
शङ्खं च पूरयामास मुहुर्मुहुररिंदमः |
पार्षतं प्राद्रवद्यन्तं महेन्द्र इव शम्बरम् ||६०||
शिखण्डिनं तु समरे भीष्ममृत्युं दुरासदम् |
हार्दिक्यो वारयामास स्मयन्निव मुहुर्मुहुः ||६१||
शिखण्डी च समासाद्य हृदिकानां महारथम् |
पञ्चभिर्निशितैर्भल्लैर्जत्रुदेशे समार्दयत् ||६२||
कृतवर्मा तु सङ्क्रुद्धो भित्त्वा षष्टिभिराशुगैः |
धनुरेकेन चिच्छेद हसन्राजन्महारथः ||६३||
अथान्यद्धनुरादाय द्रुपदस्यात्मजो बली |
तिष्ठ तिष्ठेति सङ्क्रुद्धो हार्दिक्यं प्रत्यभाषत ||६४||
ततोऽस्य नवतिं बाणान्रुक्मपुङ्खान्सुतेजनान् |
प्रेषयामास राजेन्द्र तेऽस्याभ्रश्यन्त वर्मणः ||६५||
वितथांस्तान्समालक्ष्य पतितांश्च महीतले |
क्षुरप्रेण सुतीक्ष्णेन कार्मुकं चिच्छिदे बली ||६६||
अथैनं छिन्नधन्वानं भग्नशृङ्गमिवर्षभम् |
अशीत्या मार्गणैः क्रुद्धो बाह्वोरुरसि चार्दयत् ||६७||
कृतवर्मा तु सङ्क्रुद्धो मार्गणैः कृतविक्षतः |
धनुरन्यत्समादाय समार्गणगणं प्रभो ||६८||
शिखण्डिनं बाणवरैः स्कन्धदेशेऽभ्यताडयत् ||६८||
स्कन्धदेशे स्थितैर्बाणैः शिखण्डी च रराज ह |
शाखाप्रतानैर्विमलैः सुमहान्स यथा द्रुमः ||६९||
तावन्योन्यं भृशं विद्ध्वा रुधिरेण समुक्षितौ |
अन्योन्यशृङ्गाभिहतौ रेजतुर्वृषभाविव ||७०||
अन्योन्यस्य वधे यत्नं कुर्वाणौ तौ महारथौ |
रथाभ्यां चेरतुस्तत्र मण्डलानि सहस्रशः ||७१||
कृतवर्मा महाराज पार्षतं निशितैः शरैः |
रणे विव्याध सप्तत्या स्वर्णपुङ्खैः शिलाशितैः ||७२||
ततोऽस्य समरे बाणं भोजः प्रहरतां वरः |
जीवितान्तकरं घोरं व्यसृजत्त्वरयान्वितः ||७३||
स तेनाभिहतो राजन्मूर्छामाशु समाविशत् |
ध्वजयष्टिं च सहसा शिश्रिये कश्मलावृतः ||७४||
अपोवाह रणात्तं तु सारथी रथिनां वरम् |
हार्दिक्यशरसन्तप्तं निःश्वसन्तं पुनः पुनः ||७५||
पराजिते ततः शूरे द्रुपदस्य सुते प्रभो |
प्राद्रवत्पाण्डवी सेना वध्यमाना समन्ततः ||७६||
१९
सञ्जय उवाच||
श्वेताश्वोऽपि महाराज व्यधमत्तावकं बलम् |
यथा वायुः समासाद्य तूलराशिं समन्ततः ||१||
प्रत्युद्ययुस्त्रिगर्तास्तं शिबयः कौरवैः सह |
शाल्वाः संशप्तकाश्चैव नारायणबलं च यत् ||२||
सत्यसेनः सत्यकीर्तिर्मित्रदेवः श्रुतञ्जयः |
सौश्रुतिश्चित्रसेनश्च मित्रवर्मा च भारत ||३||
त्रिगर्तराजः समरे भ्रातृभिः परिवारितः |
पुत्रैश्चैव महेष्वासैर्नानाशस्त्रधरैर्युधि ||४||
ते सृजन्तः शरव्रातान्किरन्तोऽर्जुनमाहवे |
अभ्यद्रवन्त समरे वार्योघा इव सागरम् ||५||
ते त्वर्जुनं समासाद्य योधाः शतसहस्रशः |
अगच्छन्विलयं सर्वे तार्क्ष्यं दृष्ट्वेव पन्नगाः ||६||
ते वध्यमानाः समरे नाजहुः पाण्डवं तदा |
दह्यमाना यथा राजञ्शलभा इव पावकम् ||७||
सत्यसेनस्त्रिभिर्बाणैर्विव्याध युधि पाण्डवम् |
मित्रदेवस्त्रिषष्ट्या च चन्द्रदेवश्च सप्तभिः ||८||
मित्रवर्मा त्रिसप्तत्या सौश्रुतिश्चापि पञ्चभिः |
शत्रुञ्जयश्च विंशत्या सुशर्मा नवभिः शरैः ||९||
शत्रुञ्जयं च राजानं हत्वा तत्र शिलाशितैः |
सौश्रुतेः सशिरस्त्राणं शिरः कायादपाहरत् ||१०||
त्वरितश्चन्द्रदेवं च शरैर्निन्ये यमक्षयम् ||१०||
अथेतरान्महाराज यतमानान्महारथान् |
पञ्चभिः पञ्चभिर्बाणैरेकैकं प्रत्यवारयत् ||११||
सत्यसेनस्तु सङ्क्रुद्धस्तोमरं व्यसृजन्महत् |
समुद्दिश्य रणे कृष्णं सिंहनादं ननाद च ||१२||
स निर्भिद्य भुजं सव्यं माधवस्य महात्मनः |
अयस्मयो महाचण्डो जगाम धरणीं तदा ||१३||
माधवस्य तु विद्धस्य तोमरेण महारणे |
प्रतोदः प्रापतद्धस्ताद्रश्मयश्च विशां पते ||१४||
स प्रतोदं पुनर्गृह्य रश्मींश्चैव महायशाः |
वाहयामास तानश्वान्सत्यसेनरथं प्रति ||१५||
विष्वक्सेनं तु निर्भिन्नं प्रेक्ष्य पार्थो धनञ्जयः |
सत्यसेनं शरैस्तीक्ष्णैर्दारयित्वा महाबलः ||१६||
ततः सुनिशितैर्बाणै राज्ञस्तस्य महच्छिरः |
कुण्डलोपचितं कायाच्चकर्त पृतनान्तरे ||१७||
तं निहत्य शितैर्बाणैर्मित्रवर्माणमाक्षिपत् |
वत्सदन्तेन तीक्ष्णेन सारथिं चास्य मारिष ||१८||
ततः शरशतैर्भूयः संशप्तकगणान्वशी |
पातयामास सङ्क्रुद्धः शतशोऽथ सहस्रशः ||१९||
ततो रजतपुङ्खेन राज्ञः शीर्षं महात्मनः |
मित्रदेवस्य चिच्छेद क्षुरप्रेण महायशाः ||२०||
सुशर्माणं च सङ्क्रुद्धो जत्रुदेशे समार्दयत् ||२०||
ततः संशप्तकाः सर्वे परिवार्य धनञ्जयम् |
शस्त्रौघैर्ममृदुः क्रुद्धा नादयन्तो दिशो दश ||२१||
अभ्यर्दितस्तु तैर्जिष्णुः शक्रतुल्यपराक्रमः |
ऐन्द्रमस्त्रममेयात्मा प्रादुश्चक्रे महारथः ||२२||
ततः शरसहस्राणि प्रादुरासन्विशां पते ||२२||
ध्वजानां छिद्यमानानां कार्मुकाणां च संयुगे |
रथानां सपताकानां तूणीराणां शरैः सह ||२३||
अक्षाणामथ योक्त्राणां चक्राणां रश्मिभिः सह |
कूबराणां वरूथानां पृषत्कानां च संयुगे ||२४||
अश्मनां पततां चैव प्रासानामृष्टिभिः सह |
गदानां परिघाणां च शक्तीनां तोमरैः सह ||२५||
शतघ्नीनां सचक्राणां भुजानामूरुभिः सह |
कण्ठसूत्राङ्गदानां च केयूराणां च मारिष ||२६||
हाराणामथ निष्काणां तनुत्राणां च भारत |
छत्राणां व्यजनानां च शिरसां मुकुटैः सह ||२७||
अश्रूयत महाञ्शब्दस्तत्र तत्र विशां पते ||२७||
सकुण्डलानि स्वक्षीणि पूर्णचन्द्रनिभानि च |
शिरांस्युर्व्यामदृश्यन्त तारागण इवाम्बरे ||२८||
सुस्रग्वीणि सुवासांसि चन्दनेनोक्षितानि च |
शरीराणि व्यदृश्यन्त हतानां च महीतले ||२९||
गन्धर्वनगराकारं घोरमायोधनं तदा ||२९||
निहतै राजपुत्रैश्च क्षत्रियैश्च महाबलैः |
हस्तिभिः पतितैश्चैव तुरगैश्चाभवन्मही ||३०||
अगम्यमार्गा समरे विशीर्णैरिव पर्वतैः ||३०||
नासीच्चक्रपथश्चैव पाण्डवस्य महात्मनः |
निघ्नतः शात्रवान्भल्लैर्हस्त्यश्वं चामितं महत् ||३१||
आ तुम्बादवसीदन्ति रथचक्राणि मारिष |
रणे विचरतस्तस्य तस्मिँल्लोहितकर्दमे ||३२||
सीदमानानि चक्राणि समूहुस्तुरगा भृशम् |
श्रमेण महता युक्ता मनोमारुतरंहसः ||३३||
वध्यमानं तु तत्सैन्यं पाण्डुपुत्रेण धन्विना |
प्रायशो विमुखं सर्वं नावतिष्ठत संयुगे ||३४||
ताञ्जित्वा समरे जिष्णुः संशप्तकगणान्बहून् |
रराज स महाराज विधूमोऽग्निरिव ज्वलन् ||३५||
युधिष्ठिरं महाराज विसृजन्तं शरान्बहून् |
स्वयं दुर्योधनो राजा प्रत्यगृह्णादभीतवत् ||३६||
तमापतन्तं सहसा तव पुत्रं महाबलम् |
धर्मराजो द्रुतं विद्ध्वा तिष्ठ तिष्ठेति चाब्रवीत् ||३७||
सा च तं प्रतिविव्याध नवभिर्निशितैः शरैः |
सारथिं चास्य भल्लेन भृशं क्रुद्धोऽभ्यताडयत् ||३८||
ततो युधिष्ठिरो राजा हेमपुङ्खाञ्शिलीमुखान् |
दुर्योधनाय चिक्षेप त्रयोदश शिलाशितान् ||३९||
चतुर्भिश्चतुरो वाहांस्तस्य हत्वा महारथः |
पञ्चमेन शिरः कायात्सारथेस्तु समाक्षिपत् ||४०||
षष्ठेन च ध्वजं राज्ञः सप्तमेन च कार्मुकम् |
अष्टमेन तथा खड्गं पातयामास भूतले ||४१||
पञ्चभिर्नृपतिं चापि धर्मराजोऽर्दयद्भृशम् ||४१||
हताश्वात्तु रथात्तस्मादवप्लुत्य सुतस्तव |
उत्तमं व्यसनं प्राप्तो भूमावेव व्यतिष्ठत ||४२||
तं तु कृच्छ्रगतं दृष्ट्वा कर्णद्रौणिकृपादयः |
अभ्यवर्तन्त सहिताः परीप्सन्तो नराधिपम् ||४३||
अथ पाण्डुसुताः सर्वे परिवार्य युधिष्ठिरम् |
अभ्ययुः समरे राजंस्ततो युद्धमवर्तत ||४४||
अथ तूर्यसहस्राणि प्रावाद्यन्त महामृधे |
क्ष्वेडाः किलकिलाशब्दाः प्रादुरासन्महीपते ||४५||
यदभ्यगच्छन्समरे पाञ्चालाः कौरवैः सह ||४५||
नरा नरैः समाजग्मुर्वारणा वरवारणैः |
रथाश्च रथिभिः सार्धं हयाश्च हयसादिभिः ||४६||
द्वंद्वान्यासन्महाराज प्रेक्षणीयानि संयुगे |
विस्मापनान्यचिन्त्यानि शस्त्रवन्त्युत्तमानि च ||४७||
अयुध्यन्त महावेगाः परस्परवधैषिणः |
अन्योन्यं समरे जघ्नुर्योधव्रतमनुष्ठिताः ||४८||
न हि ते समरं चक्रुः पृष्ठतो वै कथञ्चन ||४८||
मुहूर्तमेव तद्युद्धमासीन्मधुरदर्शनम् |
तत उन्मत्तवद्राजन्निर्मर्यादमवर्तत ||४९||
रथी नागं समासाद्य विचरन्रणमूर्धनि |
प्रेषयामास कालाय शरैः संनतपर्वभिः ||५०||
नागा हयान्समासाद्य विक्षिपन्तो बहूनथ |
द्रावयामासुरत्युग्रास्तत्र तत्र तदा तदा ||५१||
विद्राव्य च बहूनश्वान्नागा राजन्बलोत्कटाः |
विषाणैश्चापरे जघ्नुर्ममृदुश्चापरे भृशम् ||५२||
साश्वारोहांश्च तुरगान्विषाणैर्बिभिदू रणे |
अपरांश्चिक्षिपुर्वेगात्प्रगृह्यातिबलास्तथा ||५३||
पादातैराहता नागा विवरेषु समन्ततः |
चक्रुरार्तस्वरं घोरं व्यद्रवन्त दिशो दश ||५४||
पदातीनां तु सहसा प्रद्रुतानां महामृधे |
उत्सृज्याभरणं तूर्णमवप्लुत्य रणाजिरे ||५५||
निमित्तं मन्यमानास्तु परिणम्य महागजाः |
जगृहुर्बिभिदुश्चैव चित्राण्याभरणानि च ||५६||
प्रतिमानेषु कुम्भेषु दन्तवेष्टेषु चापरे |
निगृहीता भृशं नागाः प्रासतोमरशक्तिभिः ||५७||
निगृह्य च गदाः केचित्पार्श्वस्थैर्भृशदारुणैः |
रथाश्वसादिभिस्तत्र सम्भिन्ना न्यपतन्भुवि ||५८||
सरथं सादिनं तत्र अपरे तु महागजाः |
भूमावमृद्नन्वेगेन सवर्माणं पताकिनम् ||५९||
रथं नागाः समासाद्य धुरि गृह्य च मारिष |
व्याक्षिपन्सहसा तत्र घोररूपे महामृधे ||६०||
नाराचैर्निहतश्चापि निपपात महागजः |
पर्वतस्येव शिखरं वज्रभग्नं महीतले ||६१||
योधा योधान्समासाद्य मुष्टिभिर्व्यहनन्युधि |
केशेष्वन्योन्यमाक्षिप्य चिच्छिदुर्बिभिदुः सह ||६२||
उद्यम्य च भुजावन्यो निक्षिप्य च महीतले |
पदा चोरः समाक्रम्य स्फुरतो व्यहनच्छिरः ||६३||
मृतमन्यो महाराज पद्भ्यां ताडितवांस्तदा |
जीवतश्च तथैवान्यः शस्त्रं काये न्यमज्जयत् ||६४||
मुष्टियुद्धं महच्चासीद्योधानां तत्र भारत |
तथा केशग्रहश्चोग्रो बाहुयुद्धं च केवलम् ||६५||
समासक्तस्य चान्येन अविज्ञातस्तथापरः |
जहार समरे प्राणान्नानाशस्त्रैरनेकधा ||६६||
संसक्तेषु च योधेषु वर्तमाने च सङ्कुले |
कबन्धान्युत्थितानि स्म शतशोऽथ सहस्रशः ||६७||
लोहितैः सिच्यमानानि शस्त्राणि कवचानि च |
महारङ्गानुरक्तानि वस्त्राणीव चकाशिरे ||६८||
एवमेतन्महायुद्धं दारुणं भृशसङ्कुलम् |
उन्मत्तरङ्गप्रतिमं शब्देनापूरयज्जगत् ||६९||
नैव स्वे न परे राजन्विज्ञायन्ते शरातुराः |
योद्धव्यमिति युध्यन्ते राजानो जयगृद्धिनः ||७०||
स्वान्स्वे जघ्नुर्महाराज परांश्चैव समागतान् |
उभयोः सेनयोर्वीरैर्व्याकुलं समपद्यत ||७१||
रथैर्भग्नैर्महाराज वारणैश्च निपातितैः |
हयैश्च पतितैस्तत्र नरैश्च विनिपातितैः ||७२||
अगम्यरूपा पृथिवी मांसशोणितकर्दमा |
क्षणेनासीन्महाराज क्षतजौघप्रवर्तिनी ||७३||
पाञ्चालानवधीत्कर्णस्त्रिगर्तांश्च धनञ्जयः |
भीमसेनः कुरून्राजन्हस्त्यनीकं च सर्वशः ||७४||
एवमेष क्षयो वृत्तः कुरुपाण्डवसेनयोः |
अपराह्णे महाराज काङ्क्षन्त्योर्विपुलं जयम् ||७५||
२०
धृतराष्ट्र उवाच||
अतितीव्राणि दुःखानि दुःसहानि बहूनि च |
तवाहं सञ्जयाश्रौषं पुत्राणां मम सङ्क्षयम् ||१||
तथा तु मे कथयसे यथा युद्धं तु वर्तते |
न सन्ति सूत कौरव्या इति मे नैष्ठिकी मतिः ||२||
दुर्योधनस्तु विरथः कृतस्तत्र महारणे |
धर्मपुत्रः कथं चक्रे तस्मिन्वा नृपतिः कथम् ||३||
अपराह्णे कथं युद्धमभवल्लोमहर्षणम् |
तन्ममाचक्ष्व तत्त्वेन कुशलो ह्यसि सञ्जय ||४||
सञ्जय उवाच||
संसक्तेषु च सैन्येषु युध्यमानेषु भागशः |
रथमन्यं समास्थाय पुत्रस्तव विशां पते ||५||
क्रोधेन महताविष्टः सविषो भुजगो यथा |
दुर्योधनस्तु दृष्ट्वा वै धर्मराजं युधिष्ठिरम् ||६||
उवाच सूत त्वरितं याहि याहीति भारत ||६||
अत्र मां प्रापय क्षिप्रं सारथे यत्र पाण्डवः |
ध्रियमाणेन छत्रेण राजा राजति दंशितः ||७||
स सूतश्चोदितो राज्ञा राज्ञः स्यन्दनमुत्तमम् |
युधिष्ठिरस्याभिमुखं प्रेषयामास संयुगे ||८||
ततो युधिष्ठिरः क्रुद्धः प्रमत्त इव सद्गवः |
सारथिं चोदयामास याहि यत्र सुयोधनः ||९||
तौ समाजग्मतुर्वीरौ भ्रातरौ रथसत्तमौ |
समेत्य च महावीर्यौ संनद्धौ युद्धदुर्मदौ ||१०||
ततक्षतुर्महेष्वासौ शरैरन्योन्यमाहवे ||१०||
ततो दुर्योधनो राजा धर्मशीलस्य मारिष |
शिलाशितेन भल्लेन धनुश्चिच्छेद संयुगे ||११||
तं नामृष्यत सङ्क्रुद्धो व्यवसायं युधिष्ठिरः ||११||
अपविध्य धनुश्छिन्नं क्रोधसंरक्तलोचनः |
अन्यत्कार्मुकमादाय धर्मपुत्रश्चमूमुखे ||१२||
दुर्योधनस्य चिच्छेद ध्वजं कार्मुकमेव च |
अथान्यद्धनुरादाय प्रत्यविध्यत पाण्डवम् ||१३||
तावन्योन्यं सुसंरब्धौ शरवर्षाण्यमुञ्चताम् |
सिंहाविव सुसङ्क्रुद्धौ परस्परजिगीषया ||१४||
अन्योन्यं जघ्नतुश्चैव नर्दमानौ वृषाविव |
अन्योन्यं प्रेक्षमाणौ च चेरतुस्तौ महारथौ ||१५||
ततः पूर्णायतोत्सृष्टैरन्योन्यं सुकृतव्रणौ |
विरेजतुर्महाराज पुष्पिताविव किंशुकौ ||१६||
ततो राजन्प्रतिभयान्सिंहनादान्मुहुर्मुहुः |
तलयोश्च तथा शब्दान्धनुषोश्च महाहवे ||१७||
शङ्खशब्दरवांश्चैव चक्रतुस्तौ रथोत्तमौ |
अन्योन्यं च महाराज पीडयां चक्रतुर्भृशम् ||१८||
ततो युधिष्ठिरो राजा तव पुत्रं त्रिभिः शरैः |
आजघानोरसि क्रुद्धो वज्रवेगो दुरासदः ||१९||
प्रतिविव्याध तं तूर्णं तव पुत्रो महीपतिम् |
पञ्चभिर्निशितैर्बाणैर्हेमपुङ्खैः शिलाशितैः ||२०||
ततो दुर्योधनो राजा शक्तिं चिक्षेप भारत |
सर्वपारशवीं तीक्ष्णां महोल्काप्रतिमां तदा ||२१||
तामापतन्तीं सहसा धर्मराजः शिलाशितैः |
त्रिभिश्चिच्छेद सहसा तं च विव्याध सप्तभिः ||२२||
निपपात ततः साथ हेमदण्डा महाघना |
निपतन्ती महोल्केव व्यराजच्छिखिसंनिभा ||२३||
शक्तिं विनिहतां दृष्ट्वा पुत्रस्तव विशां पते |
नवभिर्निशितैर्भल्लैर्निजघान युधिष्ठिरम् ||२४||
सोऽतिविद्धो बलवतामग्रणीः शत्रुतापनः |
दुर्योधनं समुद्दिश्य बाणं जग्राह सत्वरः ||२५||
समाधत्त च तं बाणं धनुष्युग्रं महाबलः |
चिक्षेप च ततो राजा राज्ञः क्रुद्धः पराक्रमी ||२६||
स तु बाणः समासाद्य तव पुत्रं महारथम् |
व्यमोहयत राजानं धरणीं च जगाम ह ||२७||
ततो दुर्योधनः क्रुद्धो गदामुद्यम्य वेगितः |
विधित्सुः कलहस्यान्तमभिदुद्राव पाण्डवम् ||२८||
तमालक्ष्योद्यतगदं दण्डहस्तमिवान्तकम् |
धर्मराजो महाशक्तिं प्राहिणोत्तव सूनवे ||२९||
दीप्यमानां महावेगां महोल्कां ज्वलितामिव ||२९||
रथस्थः स तया विद्धो वर्म भित्त्वा महाहवे |
भृशं संविग्नहृदयः पपात च मुमोह च ||३०||
ततस्त्वरितमागत्य कृतवर्मा तवात्मजम् |
प्रत्यपद्यत राजानं मग्नं वै व्यसनार्णवे ||३१||
भीमोऽपि महतीं गृह्य गदां हेमपरिष्कृताम् |
अभिदुद्राव वेगेन कृतवर्माणमाहवे ||३२||
एवं तदभवद्युद्धं त्वदीयानां परैः सह ||३२||
२१
सञ्जय उवाच||
ततः कर्णं पुरस्कृत्य त्वदीया युद्धदुर्मदाः |
पुनरावृत्य सङ्ग्रामं चक्रुर्देवासुरोपमम् ||१||
द्विरदरथनराश्वशङ्खशब्दैः; परिहृषिता विविधैश्च शस्त्रपातैः |
द्विरदरथपदातिसार्थवाहाः; परिपतिताभिमुखाः प्रजह्रिरे ते ||२||
शरपरशुवरासिपट्टिशै; रिषुभिरनेकविधैश्च सादिताः |
द्विरदरथहया महाहवे; वरपुरुषैः पुरुषाश्च वाहनैः ||३||
कमलदिनकरेन्दुसंनिभैः; सितदशनैः सुमुखाक्षिनासिकैः |
रुचिरमुकुटकुण्डलैर्मही; पुरुषशिरोभिरवस्तृता बभौ ||४||
परिघमुसलशक्तितोमरै; र्नखरभुशुण्डिगदाशतैर्द्रुताः |
द्विरदनरहयाः सहस्रशो; रुधिरनदीप्रवहास्तदाभवन् ||५||
प्रहतनररथाश्वकुञ्जरं; प्रतिभयदर्शनमुल्बणं तदा |
तदहितनिहतं बभौ बलं; पितृपतिराष्ट्रमिव प्रजाक्षये ||६||
अथ तव नरदेव सैनिका; स्तव च सुताः सुरसूनुसंनिभाः |
अमितबलपुरःसरा रणे; कुरुवृषभाः शिनिपुत्रमभ्ययुः ||७||
तदतिरुचिरभीममाबभौ; पुरुषवराश्वरथद्विपाकुलम् |
लवणजलसमुद्धतस्वनं; बलममरासुरसैन्यसंनिभम् ||८||
सुरपतिसमविक्रमस्तत; स्त्रिदशवरावरजोपमं युधि |
दिनकरकिरणप्रभैः पृषत्कै; रवितनयोऽभ्यहनच्छिनिप्रवीरम् ||९||
तमपि सरथवाजिसारथिं; शिनिवृषभो विविधैः शरैस्त्वरन् |
भुजगविषसमप्रभै रणे; पुरुषवरं समवास्तृणोत्तदा ||१०||
शिनिवृषभशरप्रपीडितं; तव सुहृदो वसुषेणमभ्ययुः |
त्वरितमतिरथा रथर्षभं; द्विरदरथाश्वपदातिभिः सह ||११||
तमुदधिनिभमाद्रवद्बली; त्वरिततरैः समभिद्रुतं परैः |
द्रुपदसुतसखस्तदाकरो; त्पुरुषरथाश्वगजक्षयं महत् ||१२||
अथ पुरुषवरौ कृताह्निकौ; भवमभिपूज्य यथाविधि प्रभुम् |
अरिवधकृतनिश्चयौ द्रुतं; तव बलमर्जुनकेशवौ सृतौ ||१३||
जलदनिनदनिस्वनं रथं; पवनविधूतपताककेतनम् |
सितहयमुपयान्तमन्तिकं; हृतमनसो ददृशुस्तदारयः ||१४||
अथ विस्फार्य गाण्डीवं रणे नृत्यन्निवार्जुनः |
शरसम्बाधमकरोत्खं दिशः प्रदिशस्तथा ||१५||
रथान्विमानप्रतिमान्सज्जयन्त्रायुधध्वजान् |
ससारथींस्तदा बाणैरभ्राणीवानिलोऽवधीत् ||१६||
गजान्गजप्रयन्तॄंश्च वैजयन्त्यायुधध्वजान् |
सादिनोऽश्वांश्च पत्तींश्च शरैर्निन्ये यमक्षयम् ||१७||
तमन्तकमिव क्रुद्धमनिवार्यं महारथम् |
दुर्योधनोऽभ्ययादेको निघ्नन्बाणैः पृथग्विधैः ||१८||
तस्यार्जुनो धनुः सूतं केतुमश्वांश्च सायकैः |
हत्वा सप्तभिरेकैकं छत्रं चिच्छेद पत्रिणा ||१९||
नवमं च समासाद्य व्यसृजत्प्रतिघातिनम् |
दुर्योधनायेषुवरं तं द्रौणिः सप्तधाच्छिनत् ||२०||
ततो द्रौणेर्धनुश्छित्त्वा हत्वा चाश्ववराञ्शरैः |
कृपस्यापि तथात्युग्रं धनुश्चिच्छेद पाण्डवः ||२१||
हार्दिक्यस्य धनुश्छित्त्वा ध्वजं चाश्वं तथावधीत् |
दुःशासनस्येषुवरं छित्त्वा राधेयमभ्ययात् ||२२||
अथ सात्यकिमुत्सृज्य त्वरन्कर्णोऽर्जुनं त्रिभिः |
विद्ध्वा विव्याध विंशत्या कृष्णं पार्थं पुनस्त्रिभिः ||२३||
अथ सात्यकिरागत्य कर्णं विद्ध्वा शितैः शरैः |
नवत्या नवभिश्चोग्रैः शतेन पुनरार्दयत् ||२४||
ततः प्रवीराः पाण्डूनां सर्वे कर्णमपीडयन् |
युधामन्युः शिखण्डी च द्रौपदेयाः प्रभद्रकाः ||२५||
उत्तमौजा युयुत्सुश्च यमौ पार्षत एव च |
चेदिकारूषमत्स्यानां केकयानां च यद्बलम् ||२६||
चेकितानश्च बलवान्धर्मराजश्च सुव्रतः ||२६||
एते रथाश्वद्विरदैः पत्तिभिश्चोग्रविक्रमैः |
परिवार्य रणे कर्णं नानाशस्त्रैरवाकिरन् ||२७||
भाषन्तो वाग्भिरुग्राभिः सर्वे कर्णवधे वृताः ||२७||
तां शस्त्रवृष्टिं बहुधा छित्त्वा कर्णः शितैः शरैः |
अपोवाह स्म तान्सर्वान्द्रुमान्भङ्क्त्वेव मारुतः ||२८||
रथिनः समहामात्रान्गजानश्वान्ससादिनः |
शरव्रातांश्च सङ्क्रुद्धो निघ्नन्कर्णो व्यदृश्यत ||२९||
तद्वध्यमानं पाण्डूनां बलं कर्णास्त्रतेजसा |
विशस्त्रक्षतदेहं च प्राय आसीत्पराङ्मुखम् ||३०||
अथ कर्णास्त्रमस्त्रेण प्रतिहत्यार्जुनः स्वयम् |
दिशः खं चैव भूमिं च प्रावृणोच्छरवृष्टिभिः ||३१||
मुसलानीव निष्पेतुः परिघा इव चेषवः |
शतघ्न्य इव चाप्यन्ये वज्राण्युग्राणि वापरे ||३२||
तैर्वध्यमानं तत्सैन्यं सपत्त्यश्वरथद्विपम् |
निमीलिताक्षमत्यर्थमुदभ्राम्यत्समन्ततः ||३३||
निष्कैवल्यं तदा युद्धं प्रापुरश्वनरद्विपाः |
वध्यमानाः शरैरन्ये तदा भीताः प्रदुद्रुवुः ||३४||
एवं तेषां तदा युद्धे संसक्तानां जयैषिणाम् |
गिरिमस्तं समासाद्य प्रत्यपद्यत भानुमान् ||३५||
तमसा च महाराज रजसा च विशेषतः |
न किञ्चित्प्रत्यपश्याम शुभं वा यदि वाशुभम् ||३६||
ते त्रसन्तो महेष्वासा रात्रियुद्धस्य भारत |
अपयानं ततश्चक्रुः सहिताः सर्ववाजिभिः ||३७||
कौरवेषु च यातेषु तदा राजन्दिनक्षये |
जयं सुमनसः प्राप्य पार्थाः स्वशिबिरं ययुः ||३८||
वादित्रशब्दैर्विविधैः सिंहनादैश्च नर्तितैः |
परानवहसन्तश्च स्तुवन्तश्चाच्युतार्जुनौ ||३९||
कृतेऽवहारे तैर्वीरैः सैनिकाः सर्व एव ते |
आशिषः पाण्डवेयेषु प्रायुज्यन्त नरेश्वराः ||४०||
ततः कृतेऽवहारे च प्रहृष्टाः कुरुपाण्डवाः |
निशायां शिबिरं गत्वा न्यविशन्त नरेश्वराः ||४१||
यक्षरक्षःपिशाचाश्च श्वापदानि च सङ्घशः |
जग्मुरायोधनं घोरं रुद्रस्यानर्तनोपमम् ||४२||
सप्तदशयुद्धदिवसः
२२
धृतराष्ट्र उवाच||
स्वेन च्छन्देन नः सर्वान्नावधीद्व्यक्तमर्जुनः |
न ह्यस्य समरे मुच्येतान्तकोऽप्याततायिनः ||१||
पार्थो ह्येकोऽहरद्भद्रामेकश्चाग्निमतर्पयत् |
एकश्चेमां महीं जित्वा चक्रे बलिभृतो नृपान् ||२||
एको निवातकवचानवधीद्दिव्यकार्मुकः |
एकः किरातरूपेण स्थितं शर्वमयोधयत् ||३||
एकोऽभ्यरक्षद्भरतानेको भवमतोषयत् |
तेनैकेन जिताः सर्वे मदीया उग्रतेजसः ||४||
ते न निन्द्याः प्रशस्याश्च यत्ते चक्रुर्ब्रवीहि तत् ||४||
सञ्जय उवाच||
हतप्रहतविध्वस्ता विवर्मायुधवाहनाः |
दीनस्वरा दूयमाना मानिनः शत्रुभिर्जिताः ||५||
शिबिरस्थाः पुनर्मन्त्रं मन्त्रयन्ति स्म कौरवाः |
भग्नदंष्ट्रा हतविषाः पदाक्रान्ता इवोरगाः ||६||
तानब्रवीत्ततः कर्णः क्रुद्धः सर्प इव श्वसन् |
करं करेणाभिपीड्य प्रेक्षमाणस्तवात्मजम् ||७||
यत्तो दृढश्च दक्षश्च धृतिमानर्जुनः सदा |
स बोधयति चाप्येनं प्राप्तकालमधोक्षजः ||८||
सहसास्त्रविसर्गेण वयं तेनाद्य वञ्चिताः |
श्वस्त्वहं तस्य सङ्कल्पं सर्वं हन्ता महीपते ||९||
एवमुक्तस्तथेत्युक्त्वा सोऽनुजज्ञे नृपोत्तमान् |
सुखोषितास्ते रजनीं हृष्टा युद्धाय निर्ययुः ||१०||
तेऽपश्यन्विहितं व्यूहं धर्मराजेन दुर्जयम् |
प्रयत्नात्कुरुमुख्येन बृहस्पत्युशनोमतात् ||११||
अथ प्रतीपकर्तारं सततं विजितात्मनाम् |
सस्मार वृषभस्कन्धं कर्णं दुर्योधनस्तदा ||१२||
पुरंदरसमं युद्धे मरुद्गणसमं बले |
कार्तवीर्यसमं वीर्ये कर्णं राज्ञोऽगमन्मनः ||१३||
सूतपुत्रं महेष्वासं बन्धुमात्ययिकेष्विव ||१३||
धृतराष्ट्र उवाच||
यद्वोऽगमन्मनो मन्दाः कर्णं वैकर्तनं तदा |
अप्यद्राक्षत तं यूयं शीतार्ता इव भास्करम् ||१४||
कृतेऽवहारे सैन्यानां प्रवृत्ते च रणे पुनः |
कथं वैकर्तनः कर्णस्तत्रायुध्यत सञ्जय ||१५||
कथं च पाण्डवाः सर्वे युयुधुस्तत्र सूतजम् ||१५||
कर्णो ह्येको महाबाहुर्हन्यात्पार्थान्ससोमकान् |
कर्णस्य भुजयोर्वीर्यं शक्रविष्णुसमं मतम् ||१६||
तथास्त्राणि सुघोराणि विक्रमश्च महात्मनः ||१६||
दुर्योधनं तदा दृष्ट्वा पाण्डवेन भृशार्दितम् |
पराक्रान्तान्पाण्डुसुतान्दृष्ट्वा चापि महाहवे ||१७||
कर्णमाश्रित्य सङ्ग्रामे दर्पो दुर्योधने पुनः |
जेतुमुत्सहते पार्थान्सपुत्रान्सहकेशवान् ||१८||
अहो बत महद्दुःखं यत्र पाण्डुसुतान्रणे |
नातरद्रभसः कर्णो दैवं नूनं परायणम् ||१९||
अहो द्यूतस्य निष्ठेयं घोरा सम्प्रति वर्तते ||१९||
अहो दुःखानि तीव्राणि दुर्योधनकृतान्यहम् |
सहिष्यामि सुघोराणि शल्यभूतानि सञ्जय ||२०||
सौबलं च तथा तात नीतिमानिति मन्यते |
युद्धेषु नाम दिव्येषु वर्तमानेषु सञ्जय |
अश्रौषं निहतान्पुत्रान्नित्यमेव च निर्जितान् ||२२||
न पाण्डवानां समरे कश्चिदस्ति निवारकः |
स्त्रीमध्यमिव गाहन्ति दैवं हि बलवत्तरम् ||२३||
सञ्जय उवाच||
अतिक्रान्तं हि यत्कार्यं पश्चाच्चिन्तयतीति च |
तच्चास्य न भवेत्कार्यं चिन्तया च विनश्यति ||२४||
तदिदं तव कार्यं तु दूरप्राप्तं विजानता |
न कृतं यत्त्वया पूर्वं प्राप्ताप्राप्तविचारणे ||२५||
उक्तोऽसि बहुधा राजन्मा युध्यस्वेति पाण्डवैः |
गृह्णीषे न च तन्मोहात्पाण्डवेषु विशां पते ||२६||
त्वया पापानि घोराणि समाचीर्णानि पाण्डुषु |
त्वत्कृते वर्तते घोरः पार्थिवानां जनक्षयः ||२७||
तत्त्विदानीमतिक्रम्य मा शुचो भरतर्षभ |
शृणु सर्वं यथावृत्तं घोरं वैशसमच्युत ||२८||
प्रभातायां रजन्यां तु कर्णो राजानमभ्ययात् |
समेत्य च महाबाहुर्दुर्योधनमभाषत ||२९||
अद्य राजन्समेष्यामि पाण्डवेन यशस्विना |
हनिष्यामि च तं वीरं स वा मां निहनिष्यति ||३०||
बहुत्वान्मम कार्याणां तथा पार्थस्य पार्थिव |
नाभूत्समागमो राजन्मम चैवार्जुनस्य च ||३१||
इदं तु मे यथाप्रज्ञं शृणु वाक्यं विशां पते |
अनिहत्य रणे पार्थं नाहमेष्यामि भारत ||३२||
हतप्रवीरे सैन्येऽस्मिन्मयि चैव स्थिते युधि |
अभियास्यति मां पार्थः शक्रशक्त्या विनाकृतम् ||३३||
ततः श्रेयस्करं यत्ते तन्निबोध जनेश्वर |
आयुधानां च यद्वीर्यं द्रव्याणामर्जुनस्य च ||३४||
कायस्य महतो भेदे लाघवे दूरपातने |
सौष्ठवे चास्त्रयोगे च सव्यसाची न मत्समः ||३५||
सर्वायुधमहामात्रं विजयं नाम तद्धनुः |
इन्द्रार्थमभिकामेन निर्मितं विश्वकर्मणा ||३६||
येन दैत्यगणान्राजञ्जितवान्वै शतक्रतुः |
यस्य घोषेण दैत्यानां विमुह्यन्ति दिशो दश ||३७||
तद्भार्गवाय प्रायच्छच्छक्रः परमसंमतम् ||३७||
तद्दिव्यं भार्गवो मह्यमददाद्धनुरुत्तमम् |
येन योत्स्ये महाबाहुमर्जुनं जयतां वरम् ||३८||
यथेन्द्रः समरे सर्वान्दैतेयान्वै समागतान् ||३८||
धनुर्घोरं रामदत्तं गाण्डीवात्तद्विशिष्यते |
त्रिःसप्तकृत्वः पृथिवी धनुषा तेन निर्जिता ||३९||
धनुषो यस्य कर्माणि दिव्यानि प्राह भार्गवः |
तद्रामो ह्यददान्मह्यं येन योत्स्यामि पाण्डवम् ||४०||
अद्य दुर्योधनाहं त्वां नन्दयिष्ये सबान्धवम् |
निहत्य समरे वीरमर्जुनं जयतां वरम् ||४१||
सपर्वतवनद्वीपा हतद्विड्भूः ससागरा |
पुत्रपौत्रप्रतिष्ठा ते भविष्यत्यद्य पार्थिव ||४२||
नासाध्यं विद्यते मेऽद्य त्वत्प्रियार्थं विशेषतः |
सम्यग्धर्मानुरक्तस्य सिद्धिरात्मवतो यथा ||४३||
न हि मां समरे सोढुं स शक्तोऽग्निं तरुर्यथा |
अवश्यं तु मया वाच्यं येन हीनोऽस्मि फल्गुनात् ||४४||
ज्या तस्य धनुषो दिव्या तथाक्षय्यौ महेषुधी |
तस्य दिव्यं धनुः श्रेष्ठं गाण्डीवमजरं युधि ||४५||
विजयं च महद्दिव्यं ममापि धनुरुत्तमम् |
तत्राहमधिकः पार्थाद्धनुषा तेन पार्थिव ||४६||
मया चाभ्यधिको वीरः पाण्डवस्तन्निबोध मे |
रश्मिग्राहश्च दाशार्हः सर्वलोकनमस्कृतः ||४७||
अग्निदत्तश्च वै दिव्यो रथः काञ्चनभूषणः |
अच्छेद्यः सर्वतो वीर वाजिनश्च मनोजवाः ||४८||
ध्वजश्च दिव्यो द्युतिमान्वानरो विस्मयङ्करः ||४८||
कृष्णश्च स्रष्टा जगतो रथं तमभिरक्षति |
एभिर्द्रव्यैरहं हीनो योद्धुमिच्छामि पाण्डवम् ||४९||
अयं तु सदृशो वीरः शल्यः समितिशोभनः |
सारथ्यं यदि मे कुर्याद्ध्रुवस्ते विजयो भवेत् ||५०||
तस्य मे सारथिः शल्यो भवत्वसुकरः परैः |
नाराचान्गार्ध्रपत्रांश्च शकटानि वहन्तु मे ||५१||
रथाश्च मुख्या राजेन्द्र युक्ता वाजिभिरुत्तमैः |
आयान्तु पश्चात्सततं मामेव भरतर्षभ ||५२||
एवमभ्यधिकः पार्थाद्भविष्यामि गुणैरहम् |
शल्यो ह्यभ्यधिकः कृष्णादर्जुनादधिको ह्यहम् ||५३||
यथाश्वहृदयं वेद दाशार्हः परवीरहा |
तथा शल्योऽपि जानीते हयानां वै महारथः ||५४||
बाहुवीर्ये समो नास्ति मद्रराजस्य कश्चन |
तथास्त्रैर्मत्समो नास्ति कश्चिदेव धनुर्धरः ||५५||
तथा शल्यसमो नास्ति हययाने ह कश्चन |
सोऽयमभ्यधिकः पार्थाद्भविष्यति रथो मम ||५६||
एतत्कृतं महाराज त्वयेच्छामि परन्तप |
एवं कृते कृतं मह्यं सर्वकामैर्भविष्यति ||५७||
ततो द्रष्टासि समरे यत्करिष्यामि भारत |
सर्वथा पाण्डवान्सर्वाञ्जेष्याम्यद्य समागतान् ||५८||
दुर्योधन उवाच||
सर्वमेतत्करिष्यामि यथा त्वं कर्ण मन्यसे |
सोपासङ्गा रथाः साश्वा अनुयास्यन्ति सूतज ||५९||
नाराचान्गार्ध्रपक्षांश्च शकटानि वहन्तु ते |
अनुयास्याम कर्ण त्वां वयं सर्वे च पार्थिवाः ||६०||
सञ्जय उवाच||
एवमुक्त्वा महाराज तव पुत्राः प्रतापवान् |
अभिगम्याब्रवीद्राजा मद्रराजमिदं वचः ||६१||
शल्यसारथ्याभ्युपगमः
२३
सञ्जय उवाच||
पुत्रस्तव महाराज मद्रराजमिदं वचः |
विनयेनोपसङ्गम्य प्रणयाद्वाक्यमब्रवीत् ||१||
सत्यव्रत महाभाग द्विषतामघवर्धन |
मद्रेश्वर रणे शूर परसैन्यभयङ्कर ||२||
श्रुतवानसि कर्णस्य ब्रुवतो वदतां वर |
यथा नृपतिसिंहानां मध्ये त्वां वरयत्ययम् ||३||
तस्मात्पार्थविनाशार्थं हितार्थं मम चैव हि |
सारथ्यं रथिनां श्रेष्ठ सुमनाः कर्तुमर्हसि ||४||
अस्याभीशुग्रहो लोके नान्योऽस्ति भवता समः |
स पातु सर्वतः कर्णं भवान्ब्रह्मेव शङ्करम् ||५||
पार्थस्य सचिवः कृष्णो यथाभीशुग्रहो वरः |
तथा त्वमपि राधेयं सर्वतः परिपालय ||६||
भीष्मो द्रोणः कृपः कर्णो भवान्भोजश्च वीर्यवान् |
शकुनिः सौबलो द्रौणिरहमेव च नो बलम् ||७||
एषामेव कृतो भागो नवधा पृतनापते ||७||
नैव भागोऽत्र भीष्मस्य द्रोणस्य च महात्मनः |
ताभ्यामतीत्य तौ भागौ निहता मम शत्रवः ||८||
वृद्धौ हि तौ नरव्याघ्रौ छलेन निहतौ च तौ |
कृत्वा नसुकरं कर्म गतौ स्वर्गमितोऽनघ ||९||
तथान्ये पुरुषव्याघ्राः परैर्विनिहता युधि |
अस्मदीयाश्च बहवः स्वर्गायोपगता रणे ||१०||
त्यक्त्वा प्राणान्यथाशक्ति चेष्टाः कृत्वा च पुष्कलाः ||१०||
कर्णो ह्येको महाबाहुरस्मत्प्रियहिते रतः |
भवांश्च पुरुषव्याघ्र सर्वलोकमहारथः ||११||
तस्मिञ्जयाशा विपुला मम मद्रजनाधिप ||११||
पार्थस्य समरे कृष्णो यथाभीशुवरग्रहः |
तेन युक्तो रणे पार्थो रक्ष्यमाणश्च पार्थिव ||१२||
यानि कर्माणि कुरुते प्रत्यक्षाणि तथैव ते ||१२||
पूर्वं न समरे ह्येवमवधीदर्जुनो रिपून् |
अहन्यहनि मद्रेश द्रावयन्दृश्यते युधि ||१३||
भागोऽवशिष्टः कर्णस्य तव चैव महाद्युते |
तं भागं सह कर्णेन युगपन्नाशयाहवे ||१४||
सूर्यारुणौ यथा दृष्ट्वा तमो नश्यति मारिष |
तथा नश्यन्तु कौन्तेयाः सपाञ्चालाः ससृञ्जयाः ||१५||
रथानां प्रवरः कर्णो यन्तॄणां प्रवरो भवान् |
संनिपातः समो लोके भवतोर्नास्ति कश्चन ||१६||
यथा सर्वास्ववस्थासु वार्ष्णेयः पाति पाण्डवम् |
तथा भवान्परित्रातु कर्णं वैकर्तनं रणे ||१७||
त्वया सारथिना ह्येष अप्रधृष्यो भविष्यति |
देवतानामपि रणे सशक्राणां महीपते ||१८||
किं पुनः पाण्डवेयानां मातिशङ्कीर्वचो मम ||१८||
दुर्योधनवचः श्रुत्वा शल्यः क्रोधसमन्वितः |
त्रिशिखां भ्रुकुटीं कृत्वा धुन्वन्हस्तौ पुनः पुनः ||१९||
क्रोधरक्ते महानेत्रे परिवर्त्य महाभुजः |
कुलैश्वर्यश्रुतिबलैर्दृप्तः शल्योऽब्रवीदिदम् ||२०||
अवमन्यसे मां गान्धारे ध्रुवं मां परिशङ्कसे |
यन्मां ब्रवीषि विस्रब्धं सारथ्यं क्रियतामिति ||२१||
अस्मत्तोऽभ्यधिकं कर्णं मन्यमानः प्रशंससि |
न चाहं युधि राधेयं गणये तुल्यमात्मना ||२२||
आदिश्यतामभ्यधिको ममांशः पृथिवीपते |
तमहं समरे हत्वा गमिष्यामि यथागतम् ||२३||
अथ वाप्येक एवाहं योत्स्यामि कुरुनन्दन |
पश्य वीर्यं ममाद्य त्वं सङ्ग्रामे दहतो रिपून् ||२४||
न चाभिकामान्कौरव्य विधाय हृदये पुमान् |
अस्मद्विधः प्रवर्तेत मा मा त्वमतिशङ्किथाः ||२५||
युधि चाप्यवमानो मे न कर्तव्यः कथञ्चन |
पश्य हीमौ मम भुजौ वज्रसंहननोपमौ ||२६||
धनुः पश्य च मे चित्रं शरांश्चाशीविषोपमान् |
रथं पश्य च मे कॢप्तं सदश्वैर्वातवेगितैः ||२७||
गदां च पश्य गान्धारे हेमपट्टविभूषिताम् ||२७||
दारयेयं महीं क्रुद्धो विकिरेयं च पर्वतान् |
शोषयेयं समुद्रांश्च तेजसा स्वेन पार्थिव ||२८||
तन्मामेवंविधं जानन्समर्थमरिनिग्रहे |
कस्माद्युनक्षि सारथ्ये न्यूनस्याधिरथेर्नृप ||२९||
न नाम धुरि राजेन्द्र प्रयोक्तुं त्वमिहार्हसि |
न हि पापीयसः श्रेयान्भूत्वा प्रेष्यत्वमुत्सहे ||३०||
यो ह्यभ्युपगतं प्रीत्या गरीयांसं वशे स्थितम् |
वशे पापीयसो धत्ते तत्पापमधरोत्तरम् ||३१||
ब्राह्मणा ब्रह्मणा सृष्टा मुखात्क्षत्रमथोरसः |
ऊरुभ्यामसृजद्वैश्याञ्शूद्रान्पद्भ्यामिति श्रुतिः ||३२||
तेभ्यो वर्णविशेषाश्च प्रतिलोमानुलोमजाः ||३२||
अथान्योन्यस्य संयोगाच्चातुर्वर्ण्यस्य भारत |
गोप्तारः सङ्ग्रहीतारो दातारः क्षत्रियाः स्मृताः ||३३||
याजनाध्यापनैर्विप्रा विशुद्धैश्च प्रतिग्रहैः |
लोकस्यानुग्रहार्थाय स्थापिता ब्रह्मणा भुवि ||३४||
कृषिश्च पाशुपाल्यं च विशां दानं च सर्वशः |
ब्रह्मक्षत्रविशां शूद्रा विहिताः परिचारकाः ||३५||
ब्रह्मक्षत्रस्य विहिताः सूता वै परिचारकाः |
न विट्शूद्रस्य तत्रैव शृणु वाक्यं ममानघ ||३६||
सोऽहं मूर्धावसिक्तः सन्राजर्षिकुलसम्भवः |
महारथः समाख्यातः सेव्यः स्तव्यश्च बन्दिनाम् ||३७||
सोऽहमेतादृशो भूत्वा नेहारिकुलमर्दन |
सूतपुत्रस्य सङ्ग्रामे सारथ्यं कर्तुमुत्सहे ||३८||
अवमानमहं प्राप्य न योत्स्यामि कथञ्चन |
आपृच्छ्य त्वाद्य गान्धारे गमिष्यामि यथागतम् ||३९||
एवमुक्त्वा नरव्याघ्रः शल्यः समितिशोभनः |
उत्थाय प्रययौ तूर्णं राजमध्यादमर्षितः ||४०||
प्रणयाद्बहुमानाच्च तं निगृह्य सुतस्तव |
अब्रवीन्मधुरं वाक्यं साम सर्वार्थसाधकम् ||४१||
यथा शल्य त्वमात्थेदमेवमेतदसंशयम् |
अभिप्रायस्तु मे कश्चित्तं निबोध जनेश्वर ||४२||
न कर्णोऽभ्यधिकस्त्वत्तः शङ्के नैव कथञ्चन |
न हि मद्रेश्वरो राजा कुर्याद्यदनृतं भवेत् ||४३||
ऋतमेव हि पूर्वास्ते वहन्ति पुरुषोत्तमाः |
तस्मादार्तायनिः प्रोक्तो भवानिति मतिर्मम ||४४||
शल्यभूतश्च शत्रूणां यस्मात्त्वं भुवि मानद |
तस्माच्छल्येति ते नाम कथ्यते पृथिवीपते ||४५||
यदेव व्याहृतं पूर्वं भवता भूरिदक्षिण |
तदेव कुरु धर्मज्ञ मदर्थं यद्यदुच्यसे ||४६||
न च त्वत्तो हि राधेयो न चाहमपि वीर्यवान् |
वृणीमस्त्वां हयाग्र्याणां यन्तारमिति संयुगे ||४७||
यथा ह्यभ्यधिकं कर्णं गुणैस्तात धनञ्जयात् |
वासुदेवादपि त्वां च लोकोऽयमिति मन्यते ||४८||
कर्णो ह्यभ्यधिकः पार्थादस्त्रैरेव नरर्षभ |
भवानप्यधिकः कृष्णादश्वयाने बले तथा ||४९||
यथाश्वहृदयं वेद वासुदेवो महामनाः |
द्विगुणं त्वं तथा वेत्थ मद्रराज न संशयः ||५०||
शल्य उवाच||
यन्मा ब्रवीषि गान्धारे मध्ये सैन्यस्य कौरव |
विशिष्टं देवकीपुत्रात्प्रीतिमानस्म्यहं त्वयि ||५१||
एष सारथ्यमातिष्ठे राधेयस्य यशस्विनः |
युध्यतः पाण्डवाग्र्येण यथा त्वं वीर मन्यसे ||५२||
समयश्च हि मे वीर कश्चिद्वैकर्तनं प्रति |
उत्सृजेयं यथाश्रद्धमहं वाचोऽस्य संनिधौ ||५३||
सञ्जय उवाच||
तथेति राजन्पुत्रस्ते सह कर्णेन भारत |
अब्रवीन्मद्रराजस्य सुतं भरतसत्तम ||५४||
त्रिपुरवधोपाख्यानम्
२४
दुर्योधन उवाच||
भूय एव तु मद्रेश यत्ते वक्ष्यामि तच्छृणु |
यथा पुरा वृत्तमिदं युद्धे देवासुरे विभो ||१||
यदुक्तवान्पितुर्मह्यं मार्कण्डेयो महानृषिः |
तदशेषेण ब्रुवतो मम राजर्षिसत्तम ||२||
त्वं निबोध न चाप्यत्र कर्तव्या ते विचारणा ||२||
देवानामसुराणां च महानासीत्समागमः |
बभूव प्रथमो राजन्सङ्ग्रामस्तारकामयः ||३||
निर्जिताश्च तदा दैत्या दैवतैरिति नः श्रुतम् ||३||
निर्जितेषु च दैत्येषु तारकस्य सुतास्त्रयः |
ताराक्षः कमलाक्षश्च विद्युन्माली च पार्थिव ||४||
तप उग्रं समास्थाय नियमे परमे स्थिताः |
तपसा कर्शयामासुर्देहान्स्वाञ्शत्रुतापन ||५||
दमेन तपसा चैव नियमेन च पार्थिव |
तेषां पितामहः प्रीतो वरदः प्रददौ वरान् ||६||
अवध्यत्वं च ते राजन्सर्वभूतेषु सर्वदा |
सहिता वरयामासुः सर्वलोकपितामहम् ||७||
तानब्रवीत्तदा देवो लोकानां प्रभुरीश्वरः |
नास्ति सर्वामरत्वं हि निवर्तध्वमतोऽसुराः ||८||
वरमन्यं वृणीध्वं वै यादृशं सम्प्ररोचते ||८||
ततस्ते सहिता राजन्सम्प्रधार्यासकृद्बहु |
सर्वलोकेश्वरं वाक्यं प्रणम्यैनमथाब्रुवन् ||९||
अस्माकं त्वं वरं देव प्रयच्छेमं पितामह |
वयं पुराणि त्रीण्येव समास्थाय महीमिमाम् ||१०||
विचरिष्याम लोकेऽस्मिंस्त्वत्प्रसादपुरस्कृताः ||१०||
ततो वर्षसहस्रे तु समेष्यामः परस्परम् |
एकीभावं गमिष्यन्ति पुराण्येतानि चानघ ||११||
समागतानि चैतानि यो हन्याद्भगवंस्तदा |
एकेषुणा देववरः स नो मृत्युर्भविष्यति ||१२||
एवमस्त्विति तान्देवः प्रत्युक्त्वा प्राविशद्दिवम् ||१२||
ते तु लब्धवराः प्रीताः सम्प्रधार्य परस्परम् |
पुरत्रयविसृष्ट्यर्थं मयं वव्रुर्महासुरम् ||१३||
विश्वकर्माणमजरं दैत्यदानवपूजितम् ||१३||
ततो मयः स्वतपसा चक्रे धीमान्पुराणि ह |
त्रीणि काञ्चनमेकं तु रौप्यं कार्ष्णायसं तथा ||१४||
काञ्चनं दिवि तत्रासीदन्तरिक्षे च राजतम् |
आयसं चाभवद्भूमौ चक्रस्थं पृथिवीपते ||१५||
एकैकं योजनशतं विस्तारायामसंमितम् |
गृहाट्टाट्टालकयुतं बृहत्प्राकारतोरणम् ||१६||
गुणप्रसवसम्बाधमसम्बाधमनामयम् |
प्रासादैर्विविधैश्चैव द्वारैश्चाप्युपशोभितम् ||१७||
पुरेषु चाभवन्राजन्राजानो वै पृथक्पृथक् |
काञ्चनं तारकाक्षस्य चित्रमासीन्महात्मनः ||१८||
राजतं कमलाक्षस्य विद्युन्मालिन आयसम् ||१८||
त्रयस्ते दैत्यराजानस्त्रीँल्लोकानाशु तेजसा |
आक्रम्य तस्थुर्वर्षाणां पूगान्नाम प्रजापतिः ||१९||
तेषां दानवमुख्यानां प्रयुतान्यर्बुदानि च |
कोट्यश्चाप्रतिवीराणां समाजग्मुस्ततस्ततः ||२०||
महदैश्वर्यमिच्छन्तस्त्रिपुरं दुर्गमाश्रिताः ||२०||
सर्वेषां च पुनस्तेषां सर्वयोगवहो मयः |
तमाश्रित्य हि ते सर्वे अवर्तन्ताकुतोभयाः ||२१||
यो हि यं मनसा कामं दध्यौ त्रिपुरसंश्रयः |
तस्मै कामं मयस्तं तं विदधे मायया तदा ||२२||
तारकाक्षसुतश्चासीद्धरिर्नाम महाबलः |
तपस्तेपे परमकं येनातुष्यत्पितामहः ||२३||
स तुष्टमवृणोद्देवं वापी भवतु नः पुरे |
शस्त्रैर्विनिहता यत्र क्षिप्ताः स्युर्बलवत्तराः ||२४||
स तु लब्ध्वा वरं वीरस्तारकाक्षसुतो हरिः |
ससृजे तत्र वापीं तां मृतानां जीवनीं प्रभो ||२५||
येन रूपेण दैत्यस्तु येन वेषेण चैव ह |
मृतस्तस्यां परिक्षिप्तस्तादृशेनैव जज्ञिवान् ||२६||
तां प्राप्य त्रैपुरस्थास्तु सर्वाँल्लोकान्बबाधिरे |
महता तपसा सिद्धाः सुराणां भयवर्धनाः ||२७||
न तेषामभवद्राजन्क्षयो युद्धे कथञ्चन ||२७||
ततस्ते लोभमोहाभ्यामभिभूता विचेतसः |
निर्ह्रीकाः संस्थितिं सर्वे स्थापितां समलूलुपन् ||२८||
विद्राव्य सगणान्देवांस्तत्र तत्र तदा तदा |
विचेरुः स्वेन कामेन वरदानेन दर्पिताः ||२९||
देवारण्यानि सर्वाणि प्रियाणि च दिवौकसाम् |
ऋषीणामाश्रमान्पुण्यान्यूपाञ्जनपदांस्तथा ||३०||
व्यनाशयन्त मर्यादा दानवा दुष्टचारिणः ||३०||
ते देवाः सहिताः सर्वे पितामहमरिंदम |
अभिजग्मुस्तदाख्यातुं विप्रकारं सुरेतरैः ||३१||
ते तत्त्वं सर्वमाख्याय शिरसाभिप्रणम्य च |
वधोपायमपृच्छन्त भगवन्तं पितामहम् ||३२||
श्रुत्वा तद्भगवान्देवो देवानिदमुवाच ह |
असुराश्च दुरात्मानस्ते चापि विबुधद्विषः ||३३||
अपराध्यन्ति सततं ये युष्मान्पीडयन्त्युत ||३३||
अहं हि तुल्यः सर्वेषां भूतानां नात्र संशयः |
अधार्मिकास्तु हन्तव्या इत्यहं प्रब्रवीमि वः ||३४||
ते यूयं स्थाणुमीशानं जिष्णुमक्लिष्टकारिणम् |
योद्धारं वृणुतादित्याः स तान्हन्ता सुरेतरान् ||३५||
इति तस्य वचः श्रुत्वा देवाः शक्रपुरोगमाः |
ब्रह्माणमग्रतः कृत्वा वृषाङ्कं शरणं ययुः ||३६||
तपः परं समातस्थुर्गृणन्तो ब्रह्म शाश्वतम् |
ऋषिभिः सह धर्मज्ञा भवं सर्वात्मना गताः ||३७||
तुष्टुवुर्वाग्भिरर्थ्याभिर्भयेष्वभयकृत्तमम् |
सर्वात्मानं महात्मानं येनाप्तं सर्वमात्मना ||३८||
तपोविशेषैर्बहुभिर्योगं यो वेद चात्मनः |
यः साङ्ख्यमात्मनो वेद यस्य चात्मा वशे सदा ||३९||
ते तं ददृशुरीशानं तेजोराशिमुमापतिम् |
अनन्यसदृशं लोके व्रतवन्तमकल्मषम् ||४०||
एकं च भगवन्तं ते नानारूपमकल्पयन् |
आत्मनः प्रतिरूपाणि रूपाण्यथ महात्मनि ||४१||
परस्परस्य चापश्यन्सर्वे परमविस्मिताः ||४१||
सर्वभूतमयं चेशं तमजं जगतः पतिम् |
देवा ब्रह्मर्षयश्चैव शिरोभिर्धरणीं गताः ||४२||
तान्स्वस्तिवाक्येनाभ्यर्च्य समुत्थाप्य च शङ्करः |
ब्रूत ब्रूतेति भगवान्स्मयमानोऽभ्यभाषत ||४३||
त्र्यम्बकेणाभ्यनुज्ञातास्ततस्तेऽस्वस्थचेतसः |
नमो नमस्तेऽस्तु विभो तत इत्यब्रुवन्भवम् ||४४||
नमो देवातिदेवाय धन्विने चातिमन्यवे |
प्रजापतिमखघ्नाय प्रजापतिभिरीड्यसे ||४५||
नमः स्तुताय स्तुत्याय स्तूयमानाय मृत्यवे |
विलोहिताय रुद्राय नीलग्रीवाय शूलिने ||४६||
अमोघाय मृगाक्षाय प्रवरायुधयोधिने |
दुर्वारणाय शुक्राय ब्रह्मणे ब्रह्मचारिणे ||४७||
ईशानायाप्रमेयाय नियन्त्रे चर्मवाससे |
तपोनित्याय पिङ्गाय व्रतिने कृत्तिवाससे ||४८||
कुमारपित्रे त्र्यक्षाय प्रवरायुधधारिणे |
प्रपन्नार्तिविनाशाय ब्रह्मद्विट्सङ्घघातिने ||४९||
वनस्पतीनां पतये नराणां पतये नमः |
गवां च पतये नित्यं यज्ञानां पतये नमः ||५०||
नमोऽस्तु ते ससैन्याय त्र्यम्बकायोग्रतेजसे |
मनोवाक्कर्मभिर्देव त्वां प्रपन्नान्भजस्व नः ||५१||
ततः प्रसन्नो भगवान्स्वागतेनाभिनन्द्य तान् |
प्रोवाच व्येतु वस्त्रासो ब्रूत किं करवाणि वः ||५२||
पितृदेवर्षिसङ्घेभ्यो वरे दत्ते महात्मना |
सत्कृत्य शङ्करं प्राह ब्रह्मा लोकहितं वचः ||५३||
तवातिसर्गाद्देवेश प्राजापत्यमिदं पदम् |
मयाधितिष्ठता दत्तो दानवेभ्यो महान्वरः ||५४||
तानतिक्रान्तमर्यादान्नान्यः संहर्तुमर्हति |
त्वामृते भूतभव्येश त्वं ह्येषां प्रत्यरिर्वधे ||५५||
स त्वं देव प्रपन्नानां याचतां च दिवौकसाम् |
कुरु प्रसादं देवेश दानवाञ्जहि शूलभृत् ||५६||
श्रीभगवानुवाच||
हन्तव्याः शत्रवः सर्वे युष्माकमिति मे मतिः |
न त्वेकोऽहं वधे तेषां समर्थो वै सुरद्विषाम् ||५७||
ते यूयं सहिताः सर्वे मदीयेनास्त्रतेजसा |
जयध्वं युधि ताञ्शत्रून्सङ्घातो हि महाबलः ||५८||
देवा ऊचुः||
अस्मत्तेजोबलं यावत्तावद्द्विगुणमेव च |
तेषामिति ह मन्यामो दृष्टतेजोबला हि ते ||५९||
भगवानुवाच||
वध्यास्ते सर्वतः पापा ये युष्मास्वपराधिनः |
मम तेजोबलार्धेन सर्वांस्तान्घ्नत शात्रवान् ||६०||
देवा ऊचुः||
बिभर्तुं तेजसोऽर्धं ते न शक्ष्यामो महेश्वर |
सर्वेषां नो बलार्धेन त्वमेव जहि शात्रवान् ||६१||
दुर्योधन उवाच||
ततस्तथेति देवेशस्तैरुक्तो राजसत्तम |
अर्धमादाय सर्वेभ्यस्तेजसाभ्यधिकोऽभवत् ||६२||
स तु देवो बलेनासीत्सर्वेभ्यो बलवत्तरः |
महादेव इति ख्यातस्तदाप्रभृति शङ्करः ||६३||
ततोऽब्रवीन्महादेवो धनुर्बाणधरस्त्वहम् |
हनिष्यामि रथेनाजौ तान्रिपून्वै दिवौकसः ||६४||
ते यूयं मे रथं चैव धनुर्बाणं तथैव च |
पश्यध्वं यावदद्यैतान्पातयामि महीतले ||६५||
देवा ऊचुः||
मूर्तिसर्वस्वमादाय त्रैलोक्यस्य ततस्ततः |
रथं ते कल्पयिष्याम देवेश्वर महौजसम् ||६६||
तथैव बुद्ध्या विहितं विश्वकर्मकृतं शुभम् |
ततो विबुधशार्दूलास्तं रथं समकल्पयन् ||६७||
वन्धुरं पृथिवीं देवीं विशालपुरमालिनीम् |
सपर्वतवनद्वीपां चक्रुर्भूतधरां तदा ||६८||
मन्दरं पर्वतं चाक्षं जङ्घास्तस्य महानदीः |
दिशश्च प्रदिशश्चैव परिवारं रथस्य हि ||६९||
अनुकर्षान्ग्रहान्दीप्तान्वरूथं चापि तारकाः |
धर्मार्थकामसंयुक्तं त्रिवेणुं चापि बन्धुरम् ||७०||
ओषधीर्विविधास्तत्र नानापुष्पफलोद्गमाः ||७०||
सूर्याचन्द्रमसौ कृत्वा चक्रे रथवरोत्तमे |
पक्षौ पूर्वापरौ तत्र कृते रात्र्यहनी शुभे ||७१||
दश नागपतीनीषां धृतराष्ट्रमुखान्दृढाम् |
द्यां युगं युगचर्माणि संवर्तकबलाहकान् ||७२||
शम्यां धृतिं च मेधां च स्थितिं संनतिमेव च |
ग्रहनक्षत्रताराभिश्चर्म चित्रं नभस्तलम् ||७३||
सुराम्बुप्रेतवित्तानां पतीँल्लोकेश्वरान्हयान् |
सिनीवालीमनुमतिं कुहूं राकां च सुव्रताम् ||७४||
योक्त्राणि चक्रुर्वाहानां रोहकांश्चापि कण्ठकम् ||७४||
कर्म सत्यं तपोऽर्थश्च विहितास्तत्र रश्मयः |
अधिष्ठानं मनस्त्वासीत्परिरथ्यं सरस्वती ||७५||
नानावर्णाश्च चित्राश्च पताकाः पवनेरिताः |
विद्युदिन्द्रधनुर्नद्धं रथं दीप्तं व्यदीपयत् ||७६||
एवं तस्मिन्महाराज कल्पिते रथसत्तमे |
देवैर्मनुजशार्दूल द्विषतामभिमर्दने ||७७||
स्वान्यायुधानि मुख्यानि न्यदधाच्छङ्करो रथे |
रथयष्टिं वियत्कृष्टां स्थापयामास गोवृषम् ||७८||
ब्रह्मदण्डः कालदण्डो रुद्रदण्डस्तथा ज्वरः |
परिस्कन्दा रथस्यास्य सर्वतोदिशमुद्यताः ||७९||
अथर्वाङ्गिरसावास्तां चक्ररक्षौ महात्मनः |
ऋग्वेदः सामवेदश्च पुराणं च पुरःसराः ||८०||
इतिहासयजुर्वेदौ पृष्ठरक्षौ बभूवतुः |
दिव्या वाचश्च विद्याश्च परिपार्श्वचराः कृताः ||८१||
तोत्त्रादयश्च राजेन्द्र वषट्कारस्तथैव च |
ओङ्कारश्च मुखे राजन्नतिशोभाकरोऽभवत् ||८२||
विचित्रमृतुभिः षड्भिः कृत्वा संवत्सरं धनुः |
तस्मान्नॄणां कालरात्रिर्ज्या कृता धनुषोऽजरा ||८३||
इषुश्चाप्यभवद्विष्णुर्ज्वलनः सोम एव च |
अग्नीषोमौ जगत्कृत्स्नं वैष्णवं चोच्यते जगत् ||८४||
विष्णुश्चात्मा भगवतो भवस्यामिततेजसः |
तस्माद्धनुर्ज्यासंस्पर्शं न विषेहुर्हरस्य ते ||८५||
तस्मिञ्शरे तिग्ममन्युर्मुमोचाविषहं प्रभुः |
भृग्वङ्गिरोमन्युभवं क्रोधाग्निमतिदुःसहम् ||८६||
स नीललोहितो धूम्रः कृत्तिवासा भयङ्करः |
आदित्यायुतसङ्काशस्तेजोज्वालावृतो ज्वलन् ||८७||
दुश्च्यावश्च्यावनो जेता हन्ता ब्रह्मद्विषां हरः |
नित्यं त्राता च हन्ता च धर्माधर्माश्रिताञ्जनान् ||८८||
प्रमाथिभिर्घोररूपैर्भीमोदग्रैर्गणैर्वृतः |
विभाति भगवान्स्थाणुस्तैरेवात्मगुणैर्वृतः ||८९||
तस्याङ्गानि समाश्रित्य स्थितं विश्वमिदं जगत् |
जङ्गमाजङ्गमं राजञ्शुशुभेऽद्भुतदर्शनम् ||९०||
दृष्ट्वा तु तं रथं दिव्यं कवची स शरासनी |
बाणमादत्त तं दिव्यं सोमविष्ण्वग्निसम्भवम् ||९१||
तस्य वाजांस्ततो देवाः कल्पयां चक्रिरे विभोः |
पुण्यगन्धवहं राजञ्श्वसनं राजसत्तम ||९२||
तमास्थाय महादेवस्त्रासयन्दैवतान्यपि |
आरुरोह तदा यत्तः कम्पयन्निव रोदसी ||९३||
स शोभमानो वरदः खड्गी बाणी शरासनी |
हसन्निवाब्रवीद्देवो सारथिः को भविष्यति ||९४||
तमब्रुवन्देवगणा यं भवान्संनियोक्ष्यते |
स भविष्यति देवेश सारथिस्ते न संशयः ||९५||
तानब्रवीत्पुनर्देवो मत्तः श्रेष्ठतरो हि यः |
तं सारथिं कुरुध्वं मे स्वयं सञ्चिन्त्य माचिरम् ||९६||
एतच्छ्रुत्वा ततो देवा वाक्यमुक्तं महात्मना |
गत्वा पितामहं देवं प्रसाद्यैवं वचोऽब्रुवन् ||९७||
देव त्वयेदं कथितं त्रिदशारिनिबर्हणम् |
तथा च कृतमस्माभिः प्रसन्नो वृषभध्वजः ||९८||
रथश्च विहितोऽस्माभिर्विचित्रायुधसंवृतः |
सारथिं तु न जानीमः कः स्यात्तस्मिन्रथोत्तमे ||९९||
तस्माद्विधीयतां कश्चित्सारथिर्देवसत्तम |
सफलां तां गिरं देव कर्तुमर्हसि नो विभो ||१००||
एवमस्मासु हि पुरा भगवन्नुक्तवानसि |
हितं कर्तास्मि भवतामिति तत्कर्तुमर्हसि ||१०१||
स देव युक्तो रथसत्तमो नो; दुरावरो द्रावणः शात्रवाणाम् |
पिनाकपाणिर्विहितोऽत्र योद्धा; विभीषयन्दानवानुद्यतोऽसौ ||१०२||
तथैव वेदाश्चतुरो हयाग्र्या; धरा सशैला च रथो महात्मन् |
नक्षत्रवंशोऽनुगतो वरूथे; यस्मिन्योद्धा सारथिनाभिरक्ष्यः ||१०३||
तत्र सारथिरेष्टव्यः सर्वैरेतैर्विशेषवान् |
तत्प्रतिष्ठो रथो देव हया योद्धा तथैव च ||१०४||
कवचानि च शस्त्राणि कार्मुकं च पितामह ||१०४||
त्वामृते सारथिं तत्र नान्यं पश्यामहे वयम् |
त्वं हि सर्वैर्गुणैर्युक्तो देवताभ्योऽधिकः प्रभो ||१०५||
सारथ्ये तूर्णमारोह संयच्छ परमान्हयान् ||१०५||
इति ते शिरसा नत्वा त्रिलोकेशं पितामहम् |
देवाः प्रसादयामासुः सारथ्यायेति नः श्रुतम् ||१०६||
ब्रह्मोवाच||
नात्र किञ्चिन्मृषा वाक्यं यदुक्तं वो दिवौकसः |
संयच्छामि हयानेष युध्यतो वै कपर्दिनः ||१०७||
ततः स भगवान्देवो लोकस्रष्टा पितामहः |
सारथ्ये कल्पितो देवैरीशानस्य महात्मनः ||१०८||
तस्मिन्नारोहति क्षिप्रं स्यन्दनं लोकपूजिते |
शिरोभिरगमंस्तूर्णं ते हया वातरंहसः ||१०९||
महेश्वरे त्वारुहति जानुभ्यामगमन्महीम् |
अभीशून्हि त्रिलोकेशः सङ्गृह्य प्रपितामहः |
तानश्वांश्चोदयामास मनोमारुतरंहसः ||१११||
ततोऽधिरूढे वरदे प्रयाते चासुरान्प्रति |
साधु साध्विति विश्वेशः स्मयमानोऽभ्यभाषत ||११२||
याहि देव यतो दैत्याश्चोदयाश्वानतन्द्रितः |
पश्य बाह्वोर्बलं मेऽद्य निघ्नतः शात्रवान्रणे ||११३||
ततस्तांश्चोदयामास वायुवेगसमाञ्जवे |
येन तत्त्रिपुरं राजन्दैत्यदानवरक्षितम् ||११४||
अथाधिज्यं धनुः कृत्वा शर्वः सन्धाय तं शरम् |
युक्त्वा पाशुपतास्त्रेण त्रिपुरं समचिन्तयत् ||११५||
तस्मिन्स्थिते तदा राजन्क्रुद्धे विधृतकार्मुके |
पुराणि तानि कालेन जग्मुरेकत्वतां तदा ||११६||
एकीभावं गते चैव त्रिपुरे समुपागते |
बभूव तुमुलो हर्षो दैवतानां महात्मनाम् ||११७||
ततो देवगणाः सर्वे सिद्धाश्च परमर्षयः |
जयेति वाचो मुमुचुः संस्तुवन्तो मुदान्विताः ||११८||
ततोऽग्रतः प्रादुरभूत्त्रिपुरं जघ्नुषोऽसुरान् |
अनिर्देश्योग्रवपुषो देवस्यासह्यतेजसः ||११९||
स तद्विकृष्य भगवान्दिव्यं लोकेश्वरो धनुः |
त्रैलोक्यसारं तमिषुं मुमोच त्रिपुरं प्रति ||१२०||
तत्सासुरगणं दग्ध्वा प्राक्षिपत्पश्चिमार्णवे ||१२०||
एवं तत्त्रिपुरं दग्धं दानवाश्चाप्यशेषतः |
महेश्वरेण क्रुद्धेन त्रैलोक्यस्य हितैषिणा ||१२१||
स चात्मक्रोधजो वह्निर्हाहेत्युक्त्वा निवारितः |
मा कार्षीर्भस्मसाल्लोकानिति त्र्यक्षोऽब्रवीच्च तम् ||१२२||
ततः प्रकृतिमापन्ना देवा लोकास्तथर्षयः |
तुष्टुवुर्वाग्भिरर्थ्याभिः स्थाणुमप्रतिमौजसम् ||१२३||
तेऽनुज्ञाता भगवता जग्मुः सर्वे यथागतम् |
कृतकामाः प्रसन्नेन प्रजापतिमुखाः सुराः ||१२४||
यथैव भगवान्ब्रह्मा लोकधाता पितामहः |
संयच्छ त्वं हयानस्य राधेयस्य महात्मनः ||१२५||
त्वं हि कृष्णाच्च कर्णाच्च फल्गुनाच्च विशेषतः |
विशिष्टो राजशार्दूल नास्ति तत्र विचारणा ||१२६||
युद्धे ह्ययं रुद्रकल्पस्त्वं च ब्रह्मसमोऽनघ |
तस्माच्छक्तौ युवां जेतुं मच्छत्रूंस्ताविवासुरान् ||१२७||
यथा शल्याद्य कर्णोऽयं श्वेताश्वं कृष्णसारथिम् |
प्रमथ्य हन्यात्कौन्तेयं तथा शीघ्रं विधीयताम् ||१२८||
त्वयि कर्णश्च राज्यं च वयं चैव प्रतिष्ठिताः ||१२८||
इमं चाप्यपरं भूय इतिहासं निबोध मे |
पितुर्मम सकाशे यं ब्राह्मणः प्राह धर्मवित् ||१२९||
श्रुत्वा चैतद्वचश्चित्रं हेतुकार्यार्थसंहितम् |
कुरु शल्य विनिश्चित्य मा भूदत्र विचारणा ||१३०||
भार्गवाणां कुले जातो जमदग्निर्महातपाः |
तस्य रामेति विख्यातः पुत्रस्तेजोगुणान्वितः ||१३१||
स तीव्रं तप आस्थाय प्रसादयितवान्भवम् |
अस्त्रहेतोः प्रसन्नात्मा नियतः संयतेन्द्रियः ||१३२||
तस्य तुष्टो महादेवो भक्त्या च प्रशमेन च |
हृद्गतं चास्य विज्ञाय दर्शयामास शङ्करः ||१३३||
ईश्वर उवाच||
राम तुष्टोऽस्मि भद्रं ते विदितं मे तवेप्सितम् |
कुरुष्व पूतमात्मानं सर्वमेतदवाप्स्यसि ||१३४||
दास्यामि ते तदास्त्राणि यदा पूतो भविष्यसि |
अपात्रमसमर्थं च दहन्त्यस्त्राणि भार्गव ||१३५||
इत्युक्तो जामदग्न्यस्तु देवदेवेन शूलिना |
प्रत्युवाच महात्मानं शिरसावनतः प्रभुम् ||१३६||
यदा जानासि देवेश पात्रं मामस्त्रधारणे |
तदा शुश्रूषतेऽस्त्राणि भवान्मे दातुमर्हति ||१३७||
दुर्योधन उवाच||
ततः स तपसा चैव दमेन नियमेन च |
पूजोपहारबलिभिर्होममन्त्रपुरस्कृतैः ||१३८||
आराधयितवाञ्शर्वं बहून्वर्षगणांस्तदा |
प्रसन्नश्च महादेवो भार्गवस्य महात्मनः ||१३९||
अब्रवीत्तस्य बहुशो गुणान्देव्याः समीपतः |
भक्तिमानेष सततं मयि रामो दृढव्रतः ||१४०||
एवं तस्य गुणान्प्रीतो बहुशोऽकथयत्प्रभुः |
देवतानां पितॄणां च समक्षमरिसूदनः ||१४१||
एतस्मिन्नेव काले तु दैत्या आसन्महाबलाः |
तैस्तदा दर्पमोहान्धैरबाध्यन्त दिवौकसः ||१४२||
ततः सम्भूय विबुधास्तान्हन्तुं कृतनिश्चयाः |
चक्रुः शत्रुवधे यत्नं न शेकुर्जेतुमेव ते ||१४३||
अभिगम्य ततो देवा महेश्वरमथाब्रुवन् |
प्रसादयन्तस्तं भक्त्या जहि शत्रुगणानिति ||१४४||
प्रतिज्ञाय ततो देवो देवतानां रिपुक्षयम् |
रामं भार्गवमाहूय सोऽभ्यभाषत शङ्करः ||१४५||
रिपून्भार्गव देवानां जहि सर्वान्समागतान् |
लोकानां हितकामार्थं मत्प्रीत्यर्थं तथैव च ||१४६||
राम उवाच||
अकृतास्त्रस्य देवेश का शक्तिर्मे महेश्वर |
निहन्तुं दानवान्सर्वान्कृतास्त्रान्युद्धदुर्मदान् ||१४७||
ईश्वर उवाच||
गच्छ त्वं मदनुध्यानान्निहनिष्यसि दानवान् |
विजित्य च रिपून्सर्वान्गुणान्प्राप्स्यसि पुष्कलान् ||१४८||
दुर्योधन उवाच||
एतच्छ्रुत्वा च वचनं प्रतिगृह्य च सर्वशः |
रामः कृतस्वस्त्ययनः प्रययौ दानवान्प्रति ||१४९||
अवधीद्देवशत्रूंस्तान्मददर्पबलान्वितान् |
वज्राशनिसमस्पर्शैः प्रहारैरेव भार्गवः ||१५०||
स दानवैः क्षततनुर्जामदग्न्यो द्विजोत्तमः |
संस्पृष्टः स्थाणुना सद्यो निर्व्रणः समजायत ||१५१||
प्रीतश्च भगवान्देवः कर्मणा तेन तस्य वै |
वरान्प्रादाद्ब्रह्मविदे भार्गवाय महात्मने ||१५२||
उक्तश्च देवदेवेन प्रीतियुक्तेन शूलिना |
निपातात्तव शस्त्राणां शरीरे याभवद्रुजा ||१५३||
तया ते मानुषं कर्म व्यपोढं भृगुनन्दन |
गृहाणास्त्राणि दिव्यानि मत्सकाशाद्यथेप्सितम् ||१५४||
ततोऽस्त्राणि समस्तानि वरांश्च मनसेप्सितान् |
लब्ध्वा बहुविधान्रामः प्रणम्य शिरसा शिवम् ||१५५||
अनुज्ञां प्राप्य देवेशाज्जगाम स महातपाः |
एवमेतत्पुरावृत्तं तदा कथितवानृषिः ||१५६||
भार्गवोऽप्यददात्सर्वं धनुर्वेदं महात्मने |
कर्णाय पुरुषव्याघ्र सुप्रीतेनान्तरात्मना ||१५७||
वृजिनं हि भवेत्किञ्चिद्यदि कर्णस्य पार्थिव |
नास्मै ह्यस्त्राणि दिव्यानि प्रादास्यद्भृगुनन्दनः ||१५८||
नापि सूतकुले जातं कर्णं मन्ये कथञ्चन |
देवपुत्रमहं मन्ये क्षत्रियाणां कुलोद्भवम् ||१५९||
सकुण्डलं सकवचं दीर्घबाहुं महारथम् |
कथमादित्यसदृशं मृगी व्याघ्रं जनिष्यति ||१६०||
पश्य ह्यस्य भुजौ पीनौ नागराजकरोपमौ |
वक्षः पश्य विशालं च सर्वशत्रुनिबर्हणम् ||१६१||
२५
दुर्योधन उवाच||
एवं स भगवान्देवः सर्वलोकपितामहः |
सारथ्यमकरोत्तत्र यत्र रुद्रोऽभवद्रथी ||१||
रथिनाभ्यधिको वीरः कर्तव्यो रथसारथिः |
तस्मात्त्वं पुरुषव्याघ्र नियच्छ तुरगान्युधि ||२||
सञ्जय उवाच||
ततः शल्यः परिष्वज्य सुतं ते वाक्यमब्रवीत् |
दुर्योधनममित्रघ्नः प्रीतो मद्राधिपस्तदा ||३||
एवं चेन्मन्यसे राजन्गान्धारे प्रियदर्शन |
तस्मात्ते यत्प्रियं किञ्चित्तत्सर्वं करवाण्यहम् ||४||
यत्रास्मि भरतश्रेष्ठ योग्यः कर्मणि कर्हिचित् |
तत्र सर्वात्मना युक्तो वक्ष्ये कार्यधुरं तव ||५||
यत्तु कर्णमहं ब्रूयां हितकामः प्रियाप्रियम् |
मम तत्क्षमतां सर्वं भवान्कर्णश्च सर्वशः ||६||
कर्ण उवाच||
ईशानस्य यथा ब्रह्मा यथा पार्थस्य केशवः |
तथा नित्यं हिते युक्तो मद्रराज भजस्व नः ||७||
शल्य उवाच||
आत्मनिन्दात्मपूजा च परनिन्दा परस्तवः |
अनाचरितमार्याणां वृत्तमेतच्चतुर्विधम् ||८||
यत्तु विद्वन्प्रवक्ष्यामि प्रत्ययार्थमहं तव |
आत्मनः स्तवसंयुक्तं तन्निबोध यथातथम् ||९||
अहं शक्रस्य सारथ्ये योग्यो मातलिवत्प्रभो |
अप्रमादप्रयोगाच्च ज्ञानविद्याचिकित्सितैः ||१०||
ततः पार्थेन सङ्ग्रामे युध्यमानस्य तेऽनघ |
वाहयिष्यामि तुरगान्विज्वरो भव सूतज ||११||
२६
दुर्योधन उवाच||
अयं ते कर्ण सारथ्यं मद्रराजः करिष्यति |
कृष्णादभ्यधिको यन्ता देवेन्द्रस्येव मातलिः ||१||
यथा हरिहयैर्युक्तं सङ्गृह्णाति स मातलिः |
शल्यस्तव तथाद्यायं संयन्ता रथवाजिनाम् ||२||
योधे त्वयि रथस्थे च मद्रराजे च सारथौ |
रथश्रेष्ठो ध्रुवं सङ्ख्ये पार्थो नाभिभविष्यति ||३||
सञ्जय उवाच||
ततो दुर्योधनो भूयो मद्रराजं तरस्विनम् |
उवाच राजन्सङ्ग्रामे संयच्छन्तं हयोत्तमान् ||४||
त्वयाभिगुप्तो राधेयो विजेष्यति धनञ्जयम् |
इत्युक्तो रथमास्थाय तथेति प्राह भारत ||५||
शल्येऽभ्युपगते कर्णः सारथिं सुमनोऽब्रवीत् |
स्वं सूत स्यन्दनं मह्यं कल्पयेत्यसकृत्त्वरन् ||६||
ततो जैत्रं रथवरं गन्धर्वनगरोपमम् |
विधिवत्कल्पितं भर्त्रे जयेत्युक्त्वा न्यवेदयत् ||७||
तं रथं रथिनां श्रेष्ठः कर्णोऽभ्यर्च्य यथाविधि |
सम्पादितं ब्रह्मविदा पूर्वमेव पुरोधसा ||८||
कृत्वा प्रदक्षिणं यत्नादुपस्थाय च भास्करम् |
समीपस्थं मद्रराजं समारोपयदग्रतः ||९||
ततः कर्णस्य दुर्धर्षं स्यन्दनप्रवरं महत् |
आरुरोह महातेजाः शल्यः सिंह इवाचलम् ||१०||
ततः शल्यास्थितं राजन्कर्णः स्वरथमुत्तमम् |
अध्यतिष्ठद्यथाम्भोदं विद्युत्वन्तं दिवाकरः ||११||
तावेकरथमारूढावादित्याग्निसमत्विषौ |
व्यभ्राजेतां यथा मेघं सूर्याग्नी सहितौ दिवि ||१२||
संस्तूयमानौ तौ वीरौ तदास्तां द्युतिमत्तरौ |
ऋत्विक्सदस्यैरिन्द्राग्नी हूयमानाविवाध्वरे ||१३||
स शल्यसङ्गृहीताश्वे रथे कर्णः स्थितोऽभवत् |
धनुर्विस्फारयन्घोरं परिवेषीव भास्करः ||१४||
आस्थितः स रथश्रेष्ठं कर्णः शरगभस्तिमान् |
प्रबभौ पुरुषव्याघ्रो मन्दरस्थ इवांशुमान् ||१५||
तं रथस्थं महावीरं यान्तं चामिततेजसम् |
दुर्योधनः स्म राधेयमिदं वचनमब्रवीत् ||१६||
अकृतं द्रोणभीष्माभ्यां दुष्करं कर्म संयुगे |
कुरुष्वाधिरथे वीर मिषतां सर्वधन्विनाम् ||१७||
मनोगतं मम ह्यासीद्भीष्मद्रोणौ महारथौ |
अर्जुनं भीमसेनं च निहन्ताराविति ध्रुवम् ||१८||
ताभ्यां यदकृतं वीर वीरकर्म महामृधे |
तत्कर्म कुरु राधेय वज्रपाणिरिवापरः ||१९||
गृहाण धर्मराजं वा जहि वा त्वं धनञ्जयम् |
भीमसेनं च राधेय माद्रीपुत्रौ यमावपि ||२०||
जयश्च तेऽस्तु भद्रं च प्रयाहि पुरुषर्षभ |
पाण्डुपुत्रस्य सैन्यानि कुरु सर्वाणि भस्मसात् ||२१||
ततस्तूर्यसहस्राणि भेरीणामयुतानि च |
वाद्यमानान्यरोचन्त मेघशब्दा यथा दिवि ||२२||
प्रतिगृह्य तु तद्वाक्यं रथस्थो रथसत्तमः |
अभ्यभाषत राधेयः शल्यं युद्धविशारदम् ||२३||
चोदयाश्वान्महाबाहो यावद्धन्मि धनञ्जयम् |
भीमसेनं यमौ चोभौ राजानं च युधिष्ठिरम् ||२४||
अद्य पश्यतु मे शल्य बाहुवीर्यं धनञ्जयः |
अस्यतः कङ्कपत्राणां सहस्राणि शतानि च ||२५||
अद्य क्षेप्स्याम्यहं शल्य शरान्परमतेजनान् |
पाण्डवानां विनाशाय दुर्योधनजयाय च ||२६||
शल्य उवाच||
सूतपुत्र कथं नु त्वं पाण्डवानवमन्यसे |
सर्वास्त्रज्ञान्महेष्वासान्सर्वानेव महारथान् ||२७||
अनिवर्तिनो महाभागानजेयान्सत्यविक्रमान् |
अपि सञ्जनयेयुर्ये भयं साक्षाच्छतक्रतोः ||२८||
यदा श्रोष्यसि निर्घोषं विस्फूर्जितमिवाशनेः |
राधेय गाण्डिवस्याजौ तदा नैवं वदिष्यसि ||२९||
सञ्जय उवाच||
अनादृत्य तु तद्वाक्यं मद्रराजेन भाषितम् |
द्रक्ष्यस्यद्येत्यवोचद्वै शल्यं कर्णो नरेश्वर ||३०||
दृष्ट्वा कर्णं महेष्वासं युयुत्सुं समवस्थितम् |
चुक्रुशुः कुरवः सर्वे हृष्टरूपाः परन्तप ||३१||
ततो दुन्दुभिघोषेण भेरीणां निनदेन च |
बाणशब्दैश्च विविधैर्गर्जितैश्च तरस्विनाम् ||३२||
निर्ययुस्तावका युद्धे मृत्युं कृत्वा निवर्तनम् ||३२||
प्रयाते तु ततः कर्णे योधेषु मुदितेषु च |
चचाल पृथिवी राजन्ररास च सुविस्वरम् ||३३||
निश्चरन्तो व्यदृश्यन्त सूर्यात्सप्त महाग्रहाः |
उल्कापातश्च सञ्जज्ञे दिशां दाहस्तथैव च ||३४||
तथाशन्यश्च सम्पेतुर्ववुर्वाताश्च दारुणाः ||३४||
मृगपक्षिगणाश्चैव बहुशः पृतनां तव |
अपसव्यं तदा चक्रुर्वेदयन्तो महद्भयम् ||३५||
प्रस्थितस्य च कर्णस्य निपेतुस्तुरगा भुवि |
अस्थिवर्षं च पतितमन्तरिक्षाद्भयानकम् ||३६||
जज्वलुश्चैव शस्त्राणि ध्वजाश्चैव चकम्पिरे |
अश्रूणि च व्यमुञ्चन्त वाहनानि विशां पते ||३७||
एते चान्ये च बहव उत्पातास्तत्र मारिष |
समुत्पेतुर्विनाशाय कौरवाणां सुदारुणाः ||३८||
न च तान्गणयामासुः सर्वे ते दैवमोहिताः |
प्रस्थितं सूतपुत्रं च जयेत्यूचुर्नरा भुवि ||३९||
निर्जितान्पाण्डवांश्चैव मेनिरे तव कौरवाः ||३९||
ततो रथस्थः परवीरहन्ता; भीष्मद्रोणावात्तवीर्यौ निरीक्ष्य |
समज्वलद्भारत पावकाभो; वैकर्तनोऽसौ रथकुञ्जरो वृषः ||४०||
स शल्यमाभाष्य जगाद वाक्यं; पार्थस्य कर्माप्रतिमं च दृष्ट्वा |
मानेन दर्पेण च दह्यमानः; क्रोधेन दीप्यन्निव निःश्वसित्वा ||४१||
नाहं महेन्द्रादपि वज्रपाणेः; क्रुद्धाद्बिभेम्यात्तधनू रथस्थः |
दृष्ट्वा तु भीष्मप्रमुखाञ्शयाना; न्न त्वेव मां स्थिरता सञ्जहाति ||४२||
महेन्द्रविष्णुप्रतिमावनिन्दितौ; रथाश्वनागप्रवरप्रमाथिनौ |
अवध्यकल्पौ निहतौ यदा परै; स्ततो ममाद्यापि रणेऽस्ति साध्वसम् ||४३||
समीक्ष्य सङ्ख्येऽतिबलान्नराधिपै; र्नराश्वमातङ्गरथाञ्शरैर्हतान् |
कथं न सर्वानहितान्रणेऽवधी; न्महास्त्रविद्ब्राह्मणपुङ्गवो गुरुः ||४४||
स संस्मरन्द्रोणहवं महाहवे; ब्रवीमि सत्यं कुरवो निबोधत |
न वो मदन्यः प्रसहेद्रणेऽर्जुनं; क्रमागतं मृत्युमिवोग्ररूपिणम् ||४५||
शिक्षा प्रसादश्च बलं धृतिश्च; द्रोणे महास्त्राणि च संनतिश्च |
स चेदगान्मृत्युवशं महात्मा; सर्वानन्यानातुरानद्य मन्ये ||४६||
नेह ध्रुवं किञ्चिदपि प्रचिन्त्यं; विदुर्लोके कर्मणोऽनित्ययोगात् |
सूर्योदये को हि विमुक्तसंशयो; गर्वं कुर्वीताद्य गुरौ निपातिते ||४७||
न नूनमस्त्राणि बलं पराक्रमः; क्रिया सुनीतं परमायुधानि वा |
अलं मनुष्यस्य सुखाय वर्तितुं; तथा हि युद्धे निहतः परैर्गुरुः ||४८||
हुताशनादित्यसमानतेजसं; पराक्रमे विष्णुपुरंदरोपमम् |
नये बृहस्पत्युशनःसमं सदा; न चैनमस्त्रं तदपात्सुदुःसहम् ||४९||
सम्प्रक्रुष्टे रुदितस्त्रीकुमारे; पराभूते पौरुषे धार्तराष्ट्रे |
मया कृत्यमिति जानामि शल्य; प्रयाहि तस्माद्द्विषतामनीकम् ||५०||
यत्र राजा पाण्डवः सत्यसन्धो; व्यवस्थितो भीमसेनार्जुनौ च |
वासुदेवः सृञ्जयाः सात्यकिश्च; यमौ च कस्तौ विषहेन्मदन्यः ||५१||
तस्मात्क्षिप्रं मद्रपते प्रयाहि; रणे पाञ्चालान्पाण्डवान्सृञ्जयांश्च |
तान्वा हनिष्यामि समेत्य सङ्ख्ये; यास्यामि वा द्रोणमुखाय मन्ये ||५२||
न त्वेवाहं न गमिष्यामि मध्यं; तेषां शूराणामिति मा शल्य विद्धि |
मित्रद्रोहो मर्षणीयो न मेऽयं; त्यक्त्वा प्राणाननुयास्यामि द्रोणम् ||५३||
प्राज्ञस्य मूढस्य च जीवितान्ते; प्राणप्रमोक्षोऽन्तकवक्त्रगस्य |
अतो विद्वन्नभियास्यामि पार्थं; दिष्टं न शक्यं व्यतिवर्तितुं वै ||५४||
कल्याणवृत्तः सततं हि राज; न्वैचित्रवीर्यस्य सुतो ममासीत् |
तस्यार्थसिद्ध्यर्थमहं त्यजामि; प्रियान्भोगान्दुस्त्यजं जीवितं च ||५५||
वैयाघ्रचर्माणमकूजनाक्षं; हैमत्रिकोशं रजतत्रिवेणुम् |
रथप्रबर्हं तुरगप्रबर्है; र्युक्तं प्रादान्मह्यमिदं हि रामः ||५६||
धनूंषि चित्राणि निरीक्ष्य शल्य; ध्वजं गदां सायकांश्चोग्ररूपान् |
असिं च दीप्तं परमायुधं च; शङ्खं च शुभ्रं स्वनवन्तमुग्रम् ||५७||
पताकिनं वज्रनिपातनिस्वनं; सिताश्वयुक्तं शुभतूणशोभितम् |
इमं समास्थाय रथं रथर्षभं; रणे हनिष्याम्यहमर्जुनं बलात् ||५८||
तं चेन्मृत्युः सर्वहरोऽभिरक्षते; सदाप्रमत्तः समरे पाण्डुपुत्रम् |
तं वा हनिष्यामि समेत्य युद्धे; यास्यामि वा भीष्ममुखो यमाय ||५९||
यमवरुणकुबेरवासवा वा; यदि युगपत्सगणा महाहवे |
जुगुपिषव इहैत्य पाण्डवं; किमु बहुना सह तैर्जयामि तम् ||६०||
इति रणरभसस्य कत्थत; स्तदुपनिशम्य वचः स मद्रराट् |
अवहसदवमन्य वीर्यवा; न्प्रतिषिषिधे च जगाद चोत्तरम् ||६१||
विरम विरम कर्ण कत्थना; दतिरभसोऽस्यति चाप्ययुक्तवाक् |
क्व च हि नरवरो धनञ्जयः; क्व पुनरिह त्वमुपारमाबुध ||६२||
यदुसदनमुपेन्द्रपालितं; त्रिदिवमिवामरराजरक्षितम् |
प्रसभमिह विलोक्य को हरे; त्पुरुषवरावरजामृतेऽर्जुनात् ||६३||
त्रिभुवनसृजमीश्वरेश्वरं; क इह पुमान्भवमाह्वयेद्युधि |
मृगवधकलहे ऋतेऽर्जुना; त्सुरपतिवीर्यसमप्रभावतः ||६४||
असुरसुरमहोरगान्नरा; न्गरुडपिशाचसयक्षराक्षसान् |
इषुभिरजयदग्निगौरवा; त्स्वभिलषितं च हविर्ददौ जयः ||६५||
स्मरसि ननु यदा परैर्हृतः; स च धृतराष्ट्रसुतो विमोक्षितः |
दिनकरज नरोत्तमैर्यदा; मरुषु बहून्विनिहत्य तानरीन् ||६६||
प्रथममपि पलायिते त्वयि; प्रियकलहा धृतराष्ट्रसूनवः |
स्मरसि ननु यदा प्रमोचिताः; खचरगणानवजित्य पाण्डवैः ||६७||
समुदितबलवाहनाः पुनः; पुरुषवरेण जिताः स्थ गोग्रहे |
सगुरुगुरुसुताः सभीष्मकाः; किमु न जितः स तदा त्वयार्जुनः ||६८||
इदमपरमुपस्थितं पुन; स्तव निधनाय सुयुद्धमद्य वै |
यदि न रिपुभयात्पलायसे; समरगतोऽद्य हतोऽसि सूतज ||६९||
सञ्जय उवाच||
इति बहुपरुषं प्रभाषति; प्रमनसि मद्रपतौ रिपुस्तवम् |
भृशमतिरुषितः परं वृषः; कुरुपृतनापतिराह मद्रपम् ||७०||
भवतु भवतु किं विकत्थसे; ननु मम तस्य च युद्धमुद्यतम् |
यदि स जयति मां महाहवे; तत इदमस्तु सुकत्थितं तव ||७१||
एवमस्त्विति मद्रेश उक्त्वा नोत्तरमुक्तवान् |
याहि मद्रेश चाप्येनं कर्णः प्राह युयुत्सया ||७२||
स रथः प्रययौ शत्रूञ्श्वेताश्वः शल्यसारथिः |
निघ्नन्नमित्रान्समरे तमो घ्नन्सविता यथा ||७३||
ततः प्रायात्प्रीतिमान्वै रथेन; वैयाघ्रेण श्वेतयुजाथ कर्णः |
स चालोक्य ध्वजिनीं पाण्डवानां; धनञ्जयं त्वरया पर्यपृच्छत् ||७४||
मद्रककुत्सनम्
२७
सञ्जय उवाच||
प्रयानेव तदा कर्णो हर्षयन्वाहिनीं तव |
एकैकं समरे दृष्ट्वा पाण्डवं पर्यपृच्छत ||१||
यो ममाद्य महात्मानं दर्शयेच्छ्वेतवाहनम् |
तस्मै दद्यामभिप्रेतं वरं यं मनसेच्छति ||२||
स चेत्तदभिमन्येत तस्मै दद्यामहं पुनः |
शकटं रत्नसम्पूर्णं यो मे ब्रूयाद्धनञ्जयम् ||३||
स चेत्तदभिमन्येत पुरुषोऽर्जुनदर्शिवान् |
अन्यं तस्मै पुनर्दद्यां सौवर्णं हस्तिषड्गवम् ||४||
तथा तस्मै पुनर्दद्यां स्त्रीणां शतमलङ्कृतम् |
श्यामानां निष्ककण्ठीनां गीतवाद्यविपश्चिताम् ||५||
स चेत्तदभिमन्येत पुरुषोऽर्जुनदर्शिवान् |
अन्यं तस्मै वरं दद्यां श्वेतान्पञ्चशतान्हयान् ||६||
हेमभाण्डपरिच्छन्नान्सुमृष्टमणिकुण्डलान् |
सुदान्तानपि चैवाहं दद्यामष्टशतान्परान् ||७||
रथं च शुभ्रं सौवर्णं दद्यां तस्मै स्वलङ्कृतम् |
युक्तं परमकाम्बोजैर्यो मे ब्रूयाद्धनञ्जयम् ||८||
अन्यं तस्मै वरं दद्यां कुञ्जराणां शतानि षट् |
काञ्चनैर्विविधैर्भाण्डैराच्छन्नान्हेममालिनः ||९||
उत्पन्नानपरान्तेषु विनीतान्हस्तिशिक्षकैः ||९||
स चेत्तदभिमन्येत पुरुषोऽर्जुनदर्शिवान् |
अन्यं तस्मै वरं दद्यां यमसौ कामयेत्स्वयम् ||१०||
पुत्रदारान्विहारांश्च यदन्यद्वित्तमस्ति मे |
तच्च तस्मै पुनर्दद्यां यद्यत्स मनसेच्छति ||११||
हत्वा च सहितौ कृष्णौ तयोर्वित्तानि सर्वशः |
तस्मै दद्यामहं यो मे प्रब्रूयात्केशवार्जुनौ ||१२||
एता वाचः सुबहुशः कर्ण उच्चारयन्युधि |
दध्मौ सागरसम्भूतं सुस्वनं शङ्खमुत्तमम् ||१३||
ता वाचः सूतपुत्रस्य तथा युक्ता निशम्य तु |
दुर्योधनो महाराज प्रहृष्टः सानुगोऽभवत् ||१४||
ततो दुन्दुभिनिर्घोषो मृदङ्गानां च सर्वशः |
सिंहनादः सवादित्रः कुञ्जराणां च निस्वनः ||१५||
प्रादुरासीत्तदा राजंस्त्वत्सैन्ये भरतर्षभ |
योधानां सम्प्रहृष्टानां तथा समभवत्स्वनः ||१६||
तथा प्रहृष्टे सैन्ये तु प्लवमानं महारथम् |
विकत्थमानं समरे राधेयमरिकर्शनम् ||१७||
मद्रराजः प्रहस्येदं वचनं प्रत्यभाषत ||१७||
मा सूतपुत्र मानेन सौवर्णं हस्तिषड्गवम् |
प्रयच्छ पुरुषायाद्य द्रक्ष्यसि त्वं धनञ्जयम् ||१८||
बाल्यादिव त्वं त्यजसि वसु वैश्रवणो यथा |
अयत्नेनैव राधेय द्रष्टास्यद्य धनञ्जयम् ||१९||
परासृजसि मिथ्या किं किं च त्वं बहु मूढवत् |
अपात्रदाने ये दोषास्तान्मोहान्नावबुध्यसे ||२०||
यत्प्रवेदयसे वित्तं बहुत्वेन खलु त्वया |
शक्यं बहुविधैर्यज्ञैर्यष्टुं सूत यजस्व तैः ||२१||
यच्च प्रार्थयसे हन्तुं कृष्णौ मोहान्मृषैव तत् |
न हि शुश्रुम संमर्दे क्रोष्ट्रा सिंहौ निपातितौ ||२२||
अप्रार्थितं प्रार्थयसे सुहृदो न हि सन्ति ते |
ये त्वां न वारयन्त्याशु प्रपतन्तं हुताशने ||२३||
कालकार्यं न जानीषे कालपक्वोऽस्यसंशयम् |
बह्वबद्धमकर्णीयं को हि ब्रूयाज्जिजीविषुः ||२४||
समुद्रतरणं दोर्भ्यां कण्ठे बद्ध्वा यथा शिलाम् |
गिर्यग्राद्वा निपतनं तादृक्तव चिकीर्षितम् ||२५||
सहितः सर्वयोधैस्त्वं व्यूढानीकैः सुरक्षितः |
धनञ्जयेन युध्यस्व श्रेयश्चेत्प्राप्तुमिच्छसि ||२६||
हितार्थं धार्तराष्ट्रस्य ब्रवीमि त्वा न हिंसया |
श्रद्धत्स्वैतन्मया प्रोक्तं यदि तेऽस्ति जिजीविषा ||२७||
कर्ण उवाच||
स्ववीर्येऽहं पराश्वस्य प्रार्थयाम्यर्जुनं रणे |
त्वं तु मित्रमुखः शत्रुर्मां भीषयितुमिच्छसि ||२८||
न मामस्मादभिप्रायात्कश्चिदद्य निवर्तयेत् |
अपीन्द्रो वज्रमुद्यम्य किं नु मर्त्यः करिष्यति ||२९||
सञ्जय उवाच||
इति कर्णस्य वाक्यान्ते शल्यः प्राहोत्तरं वचः |
चुकोपयिषुरत्यर्थं कर्णं मद्रेश्वरः पुनः ||३०||
यदा वै त्वां फल्गुनवेगनुन्ना; ज्याचोदिता हस्तवता विसृष्टाः |
अन्वेतारः कङ्कपत्राः शिताग्रा; स्तदा तप्स्यस्यर्जुनस्याभियोगात् ||३१||
यदा दिव्यं धनुरादाय पार्थः; प्रभासयन्पृतनां सव्यसाची |
त्वामर्दयेत निशितैः पृषत्कै; स्तदा पश्चात्तप्स्यसे सूतपुत्र ||३२||
बालश्चन्द्रं मातुरङ्के शयानो; यथा कश्चित्प्रार्थयतेऽपहर्तुम् |
तद्वन्मोहाद्यतमानो रथस्थ; स्त्वं प्रार्थयस्यर्जुनमद्य जेतुम् ||३३||
त्रिशूलमाश्लिष्य सुतीक्ष्णधारं; सर्वाणि गात्राणि निघर्षसि त्वम् |
सुतीक्ष्णधारोपमकर्मणा त्वं; युयुत्ससे योऽर्जुनेनाद्य कर्ण ||३४||
सिद्धं सिंहं केसरिणं बृहन्तं; बालो मूढः क्षुद्रमृगस्तरस्वी |
समाह्वयेत्तद्वदेतत्तवाद्य; समाह्वानं सूतपुत्रार्जुनस्य ||३५||
मा सूतपुत्राह्वय राजपुत्रं; महावीर्यं केसरिणं यथैव |
वने सृगालः पिशितस्य तृप्तो; मा पार्थमासाद्य विनङ्क्ष्यसि त्वम् ||३६||
ईषादन्तं महानागं प्रभिन्नकरटामुखम् |
शशकाह्वयसे युद्धे कर्ण पार्थं धनञ्जयम् ||३७||
बिलस्थं कृष्णसर्पं त्वं बाल्यात्काष्ठेन विध्यसि |
महाविषं पूर्णकोशं यत्पार्थं योद्धुमिच्छसि ||३८||
सिंहं केसरिणं क्रुद्धमतिक्रम्याभिनर्दसि |
सृगाल इव मूढत्वान्नृसिंहं कर्ण पाण्डवम् ||३९||
सुपर्णं पतगश्रेष्ठं वैनतेयं तरस्विनम् |
लट्वेवाह्वयसे पाते कर्ण पार्थं धनञ्जयम् ||४०||
सर्वाम्भोनिलयं भीममूर्मिमन्तं झषायुतम् |
चन्द्रोदये विवर्तन्तमप्लवः सन्तितीर्षसि ||४१||
ऋषभं दुन्दुभिग्रीवं तीक्ष्णशृङ्गं प्रहारिणम् |
वत्स आह्वयसे युद्धे कर्ण पार्थं धनञ्जयम् ||४२||
महाघोषं महामेघं दर्दुरः प्रतिनर्दसि |
कामतोयप्रदं लोके नरपर्जन्यमर्जुनम् ||४३||
यथा च स्वगृहस्थः श्वा व्याघ्रं वनगतं भषेत् |
तथा त्वं भषसे कर्ण नरव्याघ्रं धनञ्जयम् ||४४||
सृगालोऽपि वने कर्ण शशैः परिवृतो वसन् |
मन्यते सिंहमात्मानं यावत्सिंहं न पश्यति ||४५||
तथा त्वमपि राधेय सिंहमात्मानमिच्छसि |
अपश्यञ्शत्रुदमनं नरव्याघ्रं धनञ्जयम् ||४६||
व्याघ्रं त्वं मन्यसेऽऽत्मानं यावत्कृष्णौ न पश्यसि |
समास्थितावेकरथे सूर्याचन्द्रमसाविव ||४७||
यावद्गाण्डीवनिर्घोषं न शृणोषि महाहवे |
तावदेव त्वया कर्ण शक्यं वक्तुं यथेच्छसि ||४८||
रथशब्दधनुःशब्दैर्नादयन्तं दिशो दश |
नर्दन्तमिव शार्दूलं दृष्ट्वा क्रोष्टा भविष्यसि ||४९||
नित्यमेव सृगालस्त्वं नित्यं सिंहो धनञ्जयः |
वीरप्रद्वेषणान्मूढ नित्यं क्रोष्टेव लक्ष्यसे ||५०||
यथाखुः स्याद्बिडालश्च श्वा व्याघ्रश्च बलाबले |
यथा सृगालः सिंहश्च यथा च शशकुञ्जरौ ||५१||
यथानृतं च सत्यं च यथा चापि विषामृते |
तथा त्वमपि पार्थश्च प्रख्यातावात्मकर्मभिः ||५२||
सञ्जय उवाच||
अधिक्षिप्तस्तु राधेयः शल्येनामिततेजसा |
शल्यमाह सुसङ्क्रुद्धो वाक्षल्यमवधारयन् ||५३||
गुणान्गुणवतः शल्य गुणवान्वेत्ति नागुणः |
त्वं तु नित्यं गुणैर्हीनः किं ज्ञास्यस्यगुणो गुणान् ||५४||
अर्जुनस्य महास्त्राणि क्रोधं वीर्यं धनुः शरान् |
अहं शल्याभिजानामि न त्वं जानासि तत्तथा ||५५||
एवमेवात्मनो वीर्यमहं वीर्यं च पाण्डवे |
जानन्नेवाह्वये युद्धे शल्य नाग्निं पतङ्गवत् ||५६||
अस्ति चायमिषुः शल्य सुपुङ्खो रक्तभोजनः |
एकतूणीशयः पत्री सुधौतः समलङ्कृतः ||५७||
शेते चन्दनपूर्णेन पूजितो बहुलाः समाः |
आहेयो विषवानुग्रो नराश्वद्विपसङ्घहा ||५८||
एकवीरो महारौद्रस्तनुत्रास्थिविदारणः |
निर्भिन्द्यां येन रुष्टोऽहमपि मेरुं महागिरिम् ||५९||
तमहं जातु नास्येयमन्यस्मिन्फल्गुनादृते |
कृष्णाद्वा देवकीपुत्रात्सत्यं चात्र शृणुष्व मे ||६०||
तेनाहमिषुणा शल्य वासुदेवधनञ्जयौ |
योत्स्ये परमसङ्क्रुद्धस्तत्कर्म सदृशं मम ||६१||
सर्वेषां वासुदेवानां कृष्णे लक्ष्मीः प्रतिष्ठिता |
सर्वेषां पाण्डुपुत्राणां जयः पार्थे प्रतिष्ठितः ||६२||
उभयं तत्समासाद्य कोऽतिवर्तितुमर्हति ||६२||
तावेतौ पुरुषव्याघ्रौ समेतौ स्यन्दने स्थितौ |
मामेकमभिसंयातौ सुजातं शल्य पश्य मे ||६३||
पितृष्वसामातुलजौ भ्रातरावपराजितौ |
मणी सूत्र इव प्रोतौ द्रष्टासि निहतौ मया ||६४||
अर्जुने गाण्डिवं कृष्णे चक्रं तार्क्ष्यकपिध्वजौ |
भीरूणां त्रासजननौ शल्य हर्षकरौ मम ||६५||
त्वं तु दुष्प्रकृतिर्मूढो महायुद्धेष्वकोविदः |
भयावतीर्णः सन्त्रासादबद्धं बहु भाषसे ||६६||
संस्तौषि त्वं तु केनापि हेतुना तौ कुदेशज |
तौ हत्वा समरे हन्ता त्वामद्धा सहबान्धवम् ||६७||
पापदेशज दुर्बुद्धे क्षुद्र क्षत्रियपांसन |
सुहृद्भूत्वा रिपुः किं मां कृष्णाभ्यां भीषयन्नसि ||६८||
तौ वा ममाद्य हन्तारौ हन्तास्मि समरे स्थितौ |
नाहं बिभेमि कृष्णाभ्यां विजानन्नात्मनो बलम् ||६९||
वासुदेवसहस्रं वा फल्गुनानां शतानि च |
अहमेको हनिष्यामि जोषमास्स्व कुदेशज ||७०||
स्त्रियो बालाश्च वृद्धाश्च प्रायः क्रीडागता जनाः |
या गाथाः सम्प्रगायन्ति कुर्वन्तोऽध्ययनं यथा ||७१||
ता गाथाः शृणु मे शल्य मद्रकेषु दुरात्मसु ||७१||
ब्राह्मणैः कथिताः पूर्वं यथावद्राजसंनिधौ |
श्रुत्वा चैकमना मूढ क्षम वा ब्रूहि वोत्तरम् ||७२||
मित्रध्रुङ्मद्रको नित्यं यो नो द्वेष्टि स मद्रकः |
मद्रके सङ्गतं नास्ति क्षुद्रवाक्ये नराधमे ||७३||
दुरात्मा मद्रको नित्यं नित्यं चानृतिकोऽनृजुः |
यावदन्तं हि दौरात्म्यं मद्रकेष्विति नः श्रुतम् ||७४||
पिता माता च पुत्रश्च श्वश्रूश्वशुरमातुलाः |
जामाता दुहिता भ्राता नप्ता ते ते च बान्धवाः ||७५||
वयस्याभ्यागताश्चान्ये दासीदासं च सङ्गतम् |
पुम्भिर्विमिश्रा नार्यश्च ज्ञाताज्ञाताः स्वयेच्छया ||७६||
येषां गृहेषु शिष्टानां सक्तुमन्थाशिनां सदा |
पीत्वा सीधुं सगोमांसं नर्दन्ति च हसन्ति च ||७७||
यानि चैवाप्यबद्धानि प्रवर्तन्ते च कामतः |
कामप्रलापिनोऽन्योन्यं तेषु धर्मः कथं भवेत् ||७८||
मद्रकेषु विलुप्तेषु प्रख्याताशुभकर्मसु |
नापि वैरं न सौहार्दं मद्रकेषु समाचरेत् ||७९||
मद्रके सङ्गतं नास्ति मद्रको हि सचापलः |
मद्रकेषु च दुःस्पर्शं शौचं गान्धारकेषु च ||८०||
राजयाजकयाज्येन नष्टं दत्तं हविर्भवेत् |
शूद्रसंस्कारको विप्रो यथा याति पराभवम् |
तथा ब्रह्मद्विषो नित्यं गच्छन्तीह पराभवम् ||८२||
मद्रके सङ्गतं नास्ति हतं वृश्चिकतो विषम् |
आथर्वणेन मन्त्रेण सर्वा शान्तिः कृता भवेत् ||८३||
इति वृश्चिकदष्टस्य नानाविषहतस्य च |
कुर्वन्ति भेषजं प्राज्ञाः सत्यं तच्चापि दृश्यते ||८४||
एवं विद्वञ्जोषमास्स्व शृणु चात्रोत्तरं वचः ||८४||
वासांस्युत्सृज्य नृत्यन्ति स्त्रियो या मद्यमोहिताः |
मिथुनेऽसंयताश्चापि यथाकामचराश्च ताः ||८५||
तासां पुत्रः कथं धर्मं मद्रको वक्तुमर्हति ||८५||
यास्तिष्ठन्त्यः प्रमेहन्ति यथैवोष्ट्रीदशेरके |
तासां विभ्रष्टलज्जानां निर्लज्जानां ततस्ततः ||८६||
त्वं पुत्रस्तादृशीनां हि धर्मं वक्तुमिहेच्छसि ||८६||
सुवीरकं याच्यमाना मद्रका कषति स्फिजौ |
अदातुकामा वचनमिदं वदति दारुणम् ||८७||
मा मा सुवीरकं कश्चिद्याचतां दयितो मम |
पुत्रं दद्यां प्रतिपदं न तु दद्यां सुवीरकम् ||८८||
नार्यो बृहत्यो निर्ह्रीका मद्रकाः कम्बलावृताः |
घस्मरा नष्टशौचाश्च प्राय इत्यनुशुश्रुम ||८९||
एवमादि मयान्यैर्वा शक्यं वक्तुं भवेद्बहु |
आ केशाग्रान्नखाग्राच्च वक्तव्येषु कुवर्त्मसु ||९०||
मद्रकाः सिन्धुसौवीरा धर्मं विद्युः कथं त्विह |
पापदेशोद्भवा म्लेच्छा धर्माणामविचक्षणाः ||९१||
एष मुख्यतमो धर्मः क्षत्रियस्येति नः श्रुतम् |
यदाजौ निहतः शेते सद्भिः समभिपूजितः ||९२||
आयुधानां सम्पराये यन्मुच्येयमहं ततः |
न मे स प्रथमः कल्पो निधने स्वर्गमिच्छतः ||९३||
सोऽहं प्रियः सखा चास्मि धार्तराष्ट्रस्य धीमतः |
तदर्थे हि मम प्राणा यच्च मे विद्यते वसु ||९४||
व्यक्तं त्वमप्युपहितः पाण्डवैः पापदेशज |
यथा ह्यमित्रवत्सर्वं त्वमस्मासु प्रवर्तसे ||९५||
कामं न खलु शक्योऽहं त्वद्विधानां शतैरपि |
सङ्ग्रामाद्विमुखः कर्तुं धर्मज्ञ इव नास्तिकैः ||९६||
सारङ्ग इव घर्मार्तः कामं विलप शुष्य च |
नाहं भीषयितुं शक्यः क्षत्रवृत्ते व्यवस्थितः ||९७||
तनुत्यजां नृसिंहानामाहवेष्वनिवर्तिनाम् |
या गतिर्गुरुणा प्राङ्मे प्रोक्ता रामेण तां स्मर ||९८||
स्वेषां त्राणार्थमुद्युक्तं वधाय द्विषतामपि |
विद्धि मामास्थितं वृत्तं पौरूरवसमुत्तमम् ||९९||
न तद्भूतं प्रपश्यामि त्रिषु लोकेषु मद्रक |
यो मामस्मादभिप्रायाद्वारयेदिति मे मतिः ||१००||
एवं विद्वञ्जोषमास्स्व त्रासात्किं बहु भाषसे |
मा त्वा हत्वा प्रदास्यामि क्रव्याद्भ्यो मद्रकाधम ||१०१||
मित्रप्रतीक्षया शल्य धार्तराष्ट्रस्य चोभयोः |
अपवादतितिक्षाभिस्त्रिभिरेतैर्हि जीवसि ||१०२||
पुनश्चेदीदृशं वाक्यं मद्रराज वदिष्यसि |
शिरस्ते पातयिष्यामि गदया वज्रकल्पया ||१०३||
श्रोतारस्त्विदमद्येह द्रष्टारो वा कुदेशज |
कर्णं वा जघ्नतुः कृष्णौ कर्णो वापि जघान तौ ||१०४||
एवमुक्त्वा तु राधेयः पुनरेव विशां पते |
अब्रवीन्मद्रराजानं याहि याहीत्यसम्भ्रमम् ||१०५||
हंसकाकीयोपाख्यानम्
२८
सञ्जय उवाच||
मारिषाधिरथेः श्रुत्वा वचो युद्धाभिनन्दिनः |
शल्योऽब्रवीत्पुनः कर्णं निदर्शनमुदाहरन् ||१||
यथैव मत्तो मद्येन त्वं तथा न च वा तथा |
तथाहं त्वां प्रमाद्यन्तं चिकित्सामि सुहृत्तया ||२||
इमां काकोपमां कर्ण प्रोच्यमानां निबोध मे |
श्रुत्वा यथेष्टं कुर्यास्त्वं विहीन कुलपांसन ||३||
नाहमात्मनि किञ्चिद्वै किल्बिषं कर्ण संस्मरे |
येन त्वं मां महाबाहो हन्तुमिच्छस्यनागसम् ||४||
अवश्यं तु मया वाच्यं बुध्यतां यदि ते हितम् |
विशेषतो रथस्थेन राज्ञश्चैव हितैषिणा ||५||
समं च विषमं चैव रथिनश्च बलाबलम् |
श्रमः खेदश्च सततं हयानां रथिना सह ||६||
आयुधस्य परिज्ञानं रुतं च मृगपक्षिणाम् |
भारश्चाप्यतिभारश्च शल्यानां च प्रतिक्रिया ||७||
अस्त्रयोगश्च युद्धं च निमित्तानि तथैव च |
सर्वमेतन्मया ज्ञेयं रथस्यास्य कुटुम्बिना ||८||
अतस्त्वां कथये कर्ण निदर्शनमिदं पुनः ||८||
वैश्यः किल समुद्रान्ते प्रभूतधनधान्यवान् |
यज्वा दानपतिः क्षान्तः स्वकर्मस्थोऽभवच्छुचिः ||९||
बहुपुत्रः प्रियापत्यः सर्वभूतानुकम्पकः |
राज्ञो धर्मप्रधानस्य राष्ट्रे वसति निर्भयः ||१०||
पुत्राणां तस्य बालानां कुमाराणां यशस्विनाम् |
काको बहूनामभवदुच्चिष्टकृतभोजनः ||११||
तस्मै सदा प्रयच्छन्ति वैश्यपुत्राः कुमारकाः |
मांसोदनं दधि क्षीरं पायसं मधुसर्पिषी ||१२||
स चोच्छिष्टभृतः काको वैश्यपुत्रैः कुमारकैः |
सदृशान्पक्षिणो दृप्तः श्रेयसश्चावमन्यते ||१३||
अथ हंसाः समुद्रान्ते कदाचिदभिपातिनः |
गरुडस्य गतौ तुल्याश्चक्राङ्गा हृष्टचेतसः ||१४||
कुमारकास्ततो हंसान्दृष्ट्वा काकमथाब्रुवन् |
भवानेव विशिष्टो हि पतत्रिभ्यो विहङ्गम ||१५||
प्रतार्यमाणस्तु स तैरल्पबुद्धिभिरण्डजः |
तद्वचः सत्यमित्येव मौर्ख्याद्दर्पाच्च मन्यते ||१६||
तान्सोऽभिपत्य जिज्ञासुः क एषां श्रेष्ठभागिति |
उच्छिष्टदर्पितः काको बहूनां दूरपातिनाम् ||१७||
तेषां यं प्रवरं मेने हंसानां दूरपातिनाम् |
तमाह्वयत दुर्बुद्धिः पताम इति पक्षिणम् ||१८||
तच्छ्रुत्वा प्राहसन्हंसा ये तत्रासन्समागताः |
भाषतो बहु काकस्य बलिनः पततां वराः ||१९||
इदमूचुश्च चक्राङ्गा वचः काकं विहङ्गमाः ||१९||
वयं हंसाश्चरामेमां पृथिवीं मानसौकसः |
पक्षिणां च वयं नित्यं दूरपातेन पूजिताः ||२०||
कथं नु हंसं बलिनं वज्राङ्गं दूरपातिनम् |
काको भूत्वा निपतने समाह्वयसि दुर्मते ||२१||
कथं त्वं पतनं काक सहास्माभिर्ब्रवीषि तत् ||२१||
अथ हंसवचो मूढः कुत्सयित्वा पुनः पुनः |
प्रजगादोत्तरं काकः कत्थनो जातिलाघवात् ||२२||
शतमेकं च पातानां पतितास्मि न संशयः |
शतयोजनमेकैकं विचित्रं विविधं तथा ||२३||
उड्डीनमवडीनं च प्रडीनं डीनमेव च |
निडीनमथ सण्डीनं तिर्यक्चातिगतानि च ||२४||
विडीनं परिडीनं च पराडीनं सुडीनकम् |
अतिडीनं महाडीनं निडीनं परिडीनकम् ||२५||
गतागतप्रतिगता बह्वीश्च निकुडीनिकाः |
कर्तास्मि मिषतां वोऽद्य ततो द्रक्ष्यथ मे बलम् ||२६||
एवमुक्ते तु काकेन प्रहस्यैको विहङ्गमः |
उवाच हंसस्तं काकं वचनं तन्निबोध मे ||२७||
शतमेकं च पातानां त्वं काक पतिता ध्रुवम् |
एकमेव तु ये पातं विदुः सर्वे विहङ्गमाः ||२८||
तमहं पतिता काक नान्यं जानामि कञ्चन |
पत त्वमपि रक्ताक्ष येन वा तेन मन्यसे ||२९||
अथ काकाः प्रजहसुर्ये तत्रासन्समागताः |
कथमेकेन पातेन हंसः पातशतं जयेत् ||३०||
एकेनैव शतस्यैकं पातेनाभिभविष्यति |
हंसस्य पतितं काको बलवानाशुविक्रमः ||३१||
प्रपेततुः स्पर्धयाथ ततस्तौ हंसवायसौ |
एकपाती च चक्राङ्गः काकः पातशतेन च ||३२||
पेतिवानथ चक्राङ्गः पेतिवानथ वायसः |
विसिस्मापयिषुः पातैराचक्षाणोऽऽत्मनः क्रियाम् ||३३||
अथ काकस्य चित्राणि पतितानीतराणि च |
दृष्ट्वा प्रमुदिताः काका विनेदुरथ तैः स्वरैः ||३४||
हंसांश्चावहसन्ति स्म प्रावदन्नप्रियाणि च |
उत्पत्योत्पत्य च प्राहुर्मुहूर्तमिति चेति च ||३५||
वृक्षाग्रेभ्यः स्थलेभ्यश्च निपतन्त्युत्पतन्ति च |
कुर्वाणा विविधान्रावानाशंसन्तस्तदा जयम् ||३६||
हंसस्तु मृदुकेनैव विक्रान्तुमुपचक्रमे |
प्रत्यहीयत काकाच्च मुहूर्तमिव मारिष ||३७||
अवमन्य रयं हंसानिदं वचनमब्रवीत् |
योऽसावुत्पतितो हंसः सोऽसावेव प्रहीयते ||३८||
अथ हंसः स तच्छ्रुत्वा प्रापतत्पश्चिमां दिशम् |
उपर्युपरि वेगेन सागरं वरुणालयम् ||३९||
ततो भीः प्राविशत्काकं तदा तत्र विचेतसम् |
द्वीपद्रुमानपश्यन्तं निपतन्तं श्रमान्वितम् ||४०||
निपतेयं क्व नु श्रान्त इति तस्मिञ्जलार्णवे ||४०||
अविषह्यः समुद्रो हि बहुसत्त्वगणालयः |
महाभूतशतोद्भासी नभसोऽपि विशिष्यते ||४१||
गाम्भीर्याद्धि समुद्रस्य न विशेषः कुलाधम |
दिगम्बराम्भसां कर्ण समुद्रस्था हि दुर्जयाः ||४२||
विदूरपातात्तोयस्य किं पुनः कर्ण वायसः ||४२||
अथ हंसोऽभ्यतिक्रम्य मुहूर्तमिति चेति च |
अवेक्षमाणस्तं काकं नाशक्नोद्व्यपसर्पितुम् ||४३||
अतिक्रम्य च चक्राङ्गः काकं तं समुदैक्षत ||४३||
तं तथा हीयमानं च हंसो दृष्ट्वाब्रवीदिदम् |
उज्जिहीर्षुर्निमज्जन्तं स्मरन्सत्पुरुषव्रतम् ||४४||
बहूनि पतनानि त्वमाचक्षाणो मुहुर्मुहुः |
पतस्यव्याहरंश्चेदं न नो गुह्यं प्रभाषसे ||४५||
किं नाम पतनं काक यत्त्वं पतसि साम्प्रतम् |
जलं स्पृशसि पक्षाभ्यां तुण्डेन च पुनः पुनः ||४६||
स पक्षाभ्यां स्पृशन्नार्तस्तुण्डेन जलमर्णवे |
काको दृढं परिश्रान्तः सहसा निपपात ह ||४७||
हंस उवाच||
शतमेकं च पातानां यत्प्रभाषसि वायस |
नानाविधानीह पुरा तच्चानृतमिहाद्य ते ||४८||
काक उवाच||
उच्छिष्टदर्पितो हंस मन्येऽऽत्मानं सुपर्णवत् |
अवमन्य बहूंश्चाहं काकानन्यांश्च पक्षिणः ||४९||
प्राणैर्हंस प्रपद्ये त्वां द्वीपान्तं प्रापयस्व माम् ||४९||
यद्यहं स्वस्तिमान्हंस स्वदेशं प्राप्नुयां पुनः |
न कञ्चिदवमन्येयमापदो मां समुद्धर ||५०||
तमेवंवादिनं दीनं विलपन्तमचेतनम् |
काक काकेति वाशन्तं निमज्जन्तं महार्णवे ||५१||
तथैत्य वायसं हंसो जलक्लिन्नं सुदुर्दशम् |
पद्भ्यामुत्क्षिप्य वेपन्तं पृष्ठमारोपयच्छनैः ||५२||
आरोप्य पृष्ठं काकं तं हंसः कर्ण विचेतसम् |
आजगाम पुनर्द्वीपं स्पर्धया पेततुर्यतः ||५३||
संस्थाप्य तं चापि पुनः समाश्वास्य च खेचरम् |
गतो यथेप्सितं देशं हंसो मन इवाशुगः ||५४||
उच्छिष्टभोजनात्काको यथा वैश्यकुले तु सः |
एवं त्वमुच्छिष्टभृतो धार्तराष्ट्रैर्न संशयः ||५५||
सदृशाञ्श्रेयसश्चापि सर्वान्कर्णातिमन्यसे ||५५||
द्रोणद्रौणिकृपैर्गुप्तो भीष्मेणान्यैश्च कौरवैः |
विराटनगरे पार्थमेकं किं नावधीस्तदा ||५६||
यत्र व्यस्ताः समस्ताश्च निर्जिताः स्थ किरीटिना |
सृगाला इव सिंहेन क्व ते वीर्यमभूत्तदा ||५७||
भ्रातरं च हतं दृष्ट्वा निर्जितः सव्यसाचिना |
पश्यतां कुरुवीराणां प्रथमं त्वं पलायथाः ||५८||
तथा द्वैतवने कर्ण गन्धर्वैः समभिद्रुतः |
कुरून्समग्रानुत्सृज्य प्रथमं त्वं पलायथाः ||५९||
हत्वा जित्वा च गन्धर्वांश्चित्रसेनमुखान्रणे |
कर्ण दुर्योधनं पार्थः सभार्यं सममोचयत् ||६०||
पुनः प्रभावः पार्थस्य पुराणः केशवस्य च |
कथितः कर्ण रामेण सभायां राजसंसदि ||६१||
सततं च तदश्रौषीर्वचनं द्रोणभीष्मयोः |
अवध्यौ वदतोः कृष्णौ संनिधौ वै महीक्षिताम् ||६२||
कियन्तं तत्र वक्ष्यामि येन येन धनञ्जयः |
त्वत्तोऽतिरिक्तः सर्वेभ्यो भूतेभ्यो ब्राह्मणो यथा ||६३||
इदानीमेव द्रष्टासि प्रधने स्यन्दने स्थितौ |
पुत्रं च वसुदेवस्य पाण्डवं च धनञ्जयम् ||६४||
देवासुरमनुष्येषु प्रख्यातौ यौ नरर्षभौ |
प्रकाशेनाभिविख्यातौ त्वं तु खद्योतवन्नृषु ||६५||
एवं विद्वान्मावमंस्थाः सूतपुत्राच्युतार्जुनौ |
नृसिंहौ तौ नरश्वा त्वं जोषमास्स्व विकत्थन ||६६||
२९
सञ्जय उवाच||
मद्राधिपस्याधिरथिस्तदैवं; वचो निशम्याप्रियमप्रतीतः |
उवाच शल्यं विदितं ममैत; द्यथाविधावर्जुनवासुदेवौ ||१||
शौरे रथं वाहयतोऽर्जुनस्य; बलं महास्त्राणि च पाण्डवस्य |
अहं विजानामि यथावदद्य; परोक्षभूतं तव तत्तु शल्य ||२||
तौ चाप्रधृष्यौ शस्त्रभृतां वरिष्ठौ; व्यपेतभीर्योधयिष्यामि कृष्णौ |
सन्तापयत्यभ्यधिकं तु रामा; च्छापोऽद्य मां ब्राह्मणसत्तमाच्च ||३||
अवात्सं वै ब्राह्मणच्छद्मनाहं; रामे पुरा दिव्यमस्त्रं चिकीर्षुः |
तत्रापि मे देवराजेन विघ्नो; हितार्थिना फल्गुनस्यैव शल्य ||४||
कृतोऽवभेदेन ममोरुमेत्य; प्रविश्य कीटस्य तनुं विरूपाम् |
गुरोर्भयाच्चापि न चेलिवानहं; तच्चावबुद्धो ददृशे स विप्रः ||५||
पृष्टश्चाहं तमवोचं महर्षिं; सूतोऽहमस्मीति स मां शशाप |
सूतोपधावाप्तमिदं त्वयास्त्रं; न कर्मकाले प्रतिभास्यति त्वाम् ||६||
अन्यत्र यस्मात्तव मृत्युकाला; दब्राह्मणे ब्रह्म न हि ध्रुवं स्यात् |
तदद्य पर्याप्तमतीव शस्त्र; मस्मिन्सङ्ग्रामे तुमुले तात भीमे ||७||
अपां पतिर्वेगवानप्रमेयो; निमज्जयिष्यन्निवहान्प्रजानाम् |
महानगं यः कुरुते समुद्रं; वेलैव तं वारयत्यप्रमेयम् ||८||
प्रमुञ्चन्तं बाणसङ्घानमोघा; न्मर्मच्छिदो वीरहणः सपत्रान् |
कुन्तीपुत्रं प्रतियोत्स्यामि युद्धे; ज्याकर्षिणामुत्तममद्य लोके ||९||
एवं बलेनातिबलं महास्त्रं; समुद्रकल्पं सुदुरापमुग्रम् |
शरौघिणं पार्थिवान्मज्जयन्तं; वेलेव पार्थमिषुभिः संसहिष्ये ||१०||
अद्याहवे यस्य न तुल्यमन्यं; मन्ये मनुष्यं धनुराददानम् |
सुरासुरान्वै युधि यो जयेत; तेनाद्य मे पश्य युद्धं सुघोरम् ||११||
अतिमानी पाण्डवो युद्धकामो; अमानुषैरेष्यति मे महास्त्रैः |
तस्यास्त्रमस्त्रैरभिहत्य सङ्ख्ये; शरोत्तमैः पातयिष्यामि पार्थम् ||१२||
दिवाकरेणापि समं तपन्तं; समाप्तरश्मिं यशसा ज्वलन्तम् |
तमोनुदं मेघ इवातिमात्रो; धनञ्जयं छादयिष्यामि बाणैः ||१३||
वैश्वानरं धूमशिखं ज्वलन्तं; तेजस्विनं लोकमिमं दहन्तम् |
मेघो भूत्वा शरवर्षैर्यथाग्निं; तथा पार्थं शमयिष्यामि युद्धे ||१४||
प्रमाथिनं बलवन्तं प्रहारिणं; प्रभञ्जनं मातरिश्वानमुग्रम् |
युद्धे सहिष्ये हिमवानिवाचलो; धनञ्जयं क्रुद्धममृष्यमाणम् ||१५||
विशारदं रथमार्गेष्वसक्तं; धुर्यं नित्यं समरेषु प्रवीरम् |
लोके वरं सर्वधनुर्धराणां; धनञ्जयं संयुगे संसहिष्ये ||१६||
अद्याहवे यस्य न तुल्यमन्यं; मध्येमनुष्यं धनुराददानम् |
सर्वामिमां यः पृथिवीं सहेत; तथा विद्वान्योत्स्यमानोऽस्मि तेन ||१७||
यः सर्वभूतानि सदेवकानि; प्रस्थेऽजयत्खाण्डवे सव्यसाची |
को जीवितं रक्षमाणो हि तेन; युयुत्सते मामृते मानुषोऽन्यः ||१८||
अहं तस्य पौरुषं पाण्डवस्य; ब्रूयां हृष्टः समितौ क्षत्रियाणाम् |
किं त्वं मूर्खः प्रभषन्मूढचेता; मामवोचः पौरुषमर्जुनस्य ||१९||
अप्रियो यः परुषो निष्ठुरो हि; क्षुद्रः क्षेप्ता क्षमिणश्चाक्षमावान् |
हन्यामहं तादृशानां शतानि; क्षमामि त्वां क्षमया कालयोगात् ||२०||
अवोचस्त्वं पाण्डवार्थेऽप्रियाणि; प्रधर्षयन्मां मूढवत्पापकर्मन् |
मय्यार्जवे जिह्मगतिर्हतस्त्वं; मित्रद्रोही सप्तपदं हि मित्रम् ||२१||
कालस्त्वयं मृत्युमयोऽतिदारुणो; दुर्योधनो युद्धमुपागमद्यत् |
तस्यार्थसिद्धिमभिकाङ्क्षमाण; स्तमभ्येष्ये यत्र नैकान्त्यमस्ति ||२२||
मित्रं मिदेर्नन्दतेः प्रीयतेर्वा; सन्त्रायतेर्मानद मोदतेर्वा |
ब्रवीति तच्चामुत विप्रपूर्वा; त्तच्चापि सर्वं मम दुर्योधनेऽस्ति ||२३||
शत्रुः शदेः शासतेः शायतेर्वा; शृणातेर्वा श्वयतेर्वापि सर्गे |
उपसर्गाद्बहुधा सूदतेश्च; प्रायेण सर्वं त्वयि तच्च मह्यम् ||२४||
दुर्योधनार्थं तव चाप्रियार्थं; यशोर्थमात्मार्थमपीश्वरार्थम् |
तस्मादहं पाण्डववासुदेवौ; योत्स्ये यत्नात्कर्म तत्पश्य मेऽद्य ||२५||
अस्त्राणि पश्याद्य ममोत्तमानि; ब्राह्माणि दिव्यान्यथ मानुषाणि |
आसादयिष्याम्यहमुग्रवीर्यं; द्विपोत्तमं मत्तमिवाभिमत्तः ||२६||
अस्त्रं ब्राह्मं मनसा तद्ध्यजय्यं; क्षेप्स्ये पार्थायाप्रतिमं जयाय |
तेनापि मे नैव मुच्येत युद्धे; न चेत्पतेद्विषमे मेऽद्य चक्रम् ||२७||
वैवस्वताद्दण्डहस्ताद्वरुणाद्वापि पाशिनः |
सगदाद्वा धनपतेः सवज्राद्वापि वासवात् ||२८||
नान्यस्मादपि कस्माच्चिद्बिभिमो ह्याततायिनः |
इति शल्य विजानीहि यथा नाहं बिभेम्यभीः ||२९||
तस्माद्भयं न मे पार्थान्नापि चैव जनार्दनात् |
अद्य युद्धं हि ताभ्यां मे सम्पराये भविष्यति ||३०||
श्वभ्रे ते पततां चक्रमिति मे ब्राह्मणोऽवदत् |
युध्यमानस्य सङ्ग्रामे प्राप्तस्यैकायने भयम् ||३१||
तस्माद्बिभेमि बलवद्ब्राह्मणव्याहृतादहम् |
एते हि सोमराजान ईश्वराः सुखदुःखयोः ||३२||
होमधेन्वा वत्समस्य प्रमत्त इषुणाहनम् |
चरन्तमजने शल्य ब्राह्मणात्तपसो निधेः ||३३||
ईषादन्तान्सप्तशतान्दासीदासशतानि च |
ददतो द्विजमुख्याय प्रसादं न चकार मे ||३४||
कृष्णानां श्वेतवत्सानां सहस्राणि चतुर्दश |
आहरन्न लभे तस्मात्प्रसादं द्विजसत्तमात् ||३५||
ऋद्धं गेहं सर्वकामैर्यच्च मे वसु किञ्चन |
तत्सर्वमस्मै सत्कृत्य प्रयच्छामि न चेच्छति ||३६||
ततोऽब्रवीन्मां याचन्तमपराद्धं प्रयत्नतः |
व्याहृतं यन्मया सूत तत्तथा न तदन्यथा ||३७||
अनृतोक्तं प्रजा हन्यात्ततः पापमवाप्नुयात् |
तस्माद्धर्माभिरक्षार्थं नानृतं वक्तुमुत्सहे ||३८||
मा त्वं ब्रह्मगतिं हिंस्याः प्रायश्चित्तं कृतं त्वया |
मद्वाक्यं नानृतं लोके कश्चित्कुर्यात्समाप्नुहि ||३९||
इत्येतत्ते मया प्रोक्तं क्षिप्तेनापि सुहृत्तया |
जानामि त्वाधिक्षिपन्तं जोषमास्स्वोत्तरं शृणु ||४०||
बाल्हीकमद्रककुत्सनम्
३०
सञ्जय उवाच||
ततः पुनर्महाराज मद्रराजमरिंदमम् |
अभ्यभाषत राधेयः संनिवार्योत्तरं वचः ||१||
यत्त्वं निदर्शनार्थं मां शल्य जल्पितवानसि |
नाहं शक्यस्त्वया वाचा विभीषयितुमाहवे ||२||
यदि मां देवताः सर्वा योधयेयुः सवासवाः |
तथापि मे भयं न स्यात्किमु पार्थात्सकेशवात् ||३||
नाहं भीषयितुं शक्यो वाङ्मात्रेण कथञ्चन |
अन्यं जानीहि यः शक्यस्त्वया भीषयितुं रणे ||४||
नीचस्य बलमेतावत्पारुष्यं यत्त्वमात्थ माम् |
अशक्तोऽस्मद्गुणान्प्राप्तुं वल्गसे बहु दुर्मते ||५||
न हि कर्णः समुद्भूतो भयार्थमिह मारिष |
विक्रमार्थमहं जातो यशोर्थं च तथैव च ||६||
इदं तु मे त्वमेकाग्रः शृणु मद्रजनाधिप |
संनिधौ धृतराष्ट्रस्य प्रोच्यमानं मया श्रुतम् ||७||
देशांश्च विविधांश्चित्रान्पूर्ववृत्तांश्च पार्थिवान् |
ब्राह्मणाः कथयन्तः स्म धृतराष्ट्रमुपासते ||८||
तत्र वृद्धः पुरावृत्ताः कथाः काश्चिद्द्विजोत्तमः |
बाह्लीकदेशं मद्रांश्च कुत्सयन्वाक्यमब्रवीत् ||९||
बहिष्कृता हिमवता गङ्गया च तिरस्कृताः |
सरस्वत्या यमुनया कुरुक्षेत्रेण चापि ये ||१०||
पञ्चानां सिन्धुषष्ठानां नदीनां येऽन्तराश्रिताः |
तान्धर्मबाह्यानशुचीन्बाह्लीकान्परिवर्जयेत् ||११||
गोवर्धनो नाम वटः सुभाण्डं नाम चत्वरम् |
एतद्राजकुलद्वारमाकुमारः स्मराम्यहम् ||१२||
कार्येणात्यर्थगाढेन बाह्लीकेषूषितं मया |
तत एषां समाचारः संवासाद्विदितो मम ||१३||
शाकलं नाम नगरमापगा नाम निम्नगा |
जर्तिका नाम बाह्लीकास्तेषां वृत्तं सुनिन्दितम् ||१४||
धानागौडासवे पीत्वा गोमांसं लशुनैः सह |
अपूपमांसवाट्यानामाशिनः शीलवर्जिताः ||१५||
हसन्ति गान्ति नृत्यन्ति स्त्रीभिर्मत्ता विवाससः |
नगरागारवप्रेषु बहिर्माल्यानुलेपनाः ||१६||
मत्तावगीतैर्विविधैः खरोष्ट्रनिनदोपमैः |
आहुरन्योन्यमुक्तानि प्रब्रुवाणा मदोत्कटाः ||१७||
हा हते हा हतेत्येव स्वामिभर्तृहतेति च |
आक्रोशन्त्यः प्रनृत्यन्ति मन्दाः पर्वस्वसंयताः ||१८||
तेषां किलावलिप्तानां निवसन्कुरुजाङ्गले |
कश्चिद्बाह्लीकमुख्यानां नातिहृष्टमना जगौ ||१९||
सा नूनं बृहती गौरी सूक्ष्मकम्बलवासिनी |
मामनुस्मरती शेते बाह्लीकं कुरुवासिनम् ||२०||
शतद्रुकनदीं तीर्त्वा तां च रम्यामिरावतीम् |
गत्वा स्वदेशं द्रक्ष्यामि स्थूलशङ्खाः शुभाः स्त्रियः ||२१||
मनःशिलोज्ज्वलापाङ्गा गौर्यस्त्रिककुदाञ्जनाः |
केवलाजिनसंवीताः कूर्दन्त्यः प्रियदर्शनाः ||२२||
मृदङ्गानकशङ्खानां मर्दलानां च निस्वनैः |
खरोष्ट्राश्वतरैश्चैव मत्ता यास्यामहे सुखम् ||२३||
शमीपीलुकरीराणां वनेषु सुखवर्त्मसु |
अपूपान्सक्तुपिण्डीश्च खादन्तो मथितान्विताः ||२४||
पथिषु प्रबला भूत्वा कदासमृदितेऽध्वनि |
खलोपहारं कुर्वाणास्ताडयिष्याम भूयसः ||२५||
एवं हीनेषु व्रात्येषु बाह्लीकेषु दुरात्मसु |
कश्चेतयानो निवसेन्मुहूर्तमपि मानवः ||२६||
ईदृशा ब्राह्मणेनोक्ता बाह्लीका मोघचारिणः |
येषां षड्भागहर्ता त्वमुभयोः शुभपापयोः ||२७||
इत्युक्त्वा ब्राह्मणः साधुरुत्तरं पुनरुक्तवान् |
बाह्लीकेष्वविनीतेषु प्रोच्यमानं निबोधत ||२८||
तत्र स्म राक्षसी गाति सदा कृष्णचतुर्दशीम् |
नगरे शाकले स्फीते आहत्य निशि दुन्दुभिम् ||२९||
कदा वा घोषिका गाथाः पुनर्गास्यन्ति शाकले |
गव्यस्य तृप्ता मांसस्य पीत्वा गौडं महासवम् ||३०||
गौरीभिः सह नारीभिर्बृहतीभिः स्वलङ्कृताः |
पलाण्डुगण्डूषयुतान्खादन्ते चैडकान्बहून् ||३१||
वाराहं कौक्कुटं मांसं गव्यं गार्दभमौष्ट्रकम् |
ऐडं च ये न खादन्ति तेषां जन्म निरर्थकम् ||३२||
इति गायन्ति ये मत्ताः शीधुना शाकलावतः |
सबालवृद्धाः कूर्दन्तस्तेषु वृत्तं कथं भवेत् ||३३||
इति शल्य विजानीहि हन्त भूयो ब्रवीमि ते |
यदन्योऽप्युक्तवानस्मान्ब्राह्मणः कुरुसंसदि ||३४||
पञ्च नद्यो वहन्त्येता यत्र पीलुवनान्यपि |
शतद्रुश्च विपाशा च तृतीयेरावती तथा ||३५||
चन्द्रभागा वितस्ता च सिन्धुषष्ठा बहिर्गताः ||३५||
आरट्टा नाम ते देशा नष्टधर्मान्न तान्व्रजेत् |
व्रात्यानां दासमीयानां विदेहानामयज्वनाम् ||३६||
न देवाः प्रतिगृह्णन्ति पितरो ब्राह्मणास्तथा |
तेषां प्रनष्टधर्माणां बाह्लीकानामिति श्रुतिः ||३७||
ब्राह्मणेन तथा प्रोक्तं विदुषा साधुसंसदि |
काष्ठकुण्डेषु बाह्लीका मृण्मयेषु च भुञ्जते ||३८||
सक्तुवाट्यावलिप्तेषु श्वादिलीढेषु निर्घृणाः ||३८||
आविकं चौष्ट्रिकं चैव क्षीरं गार्दभमेव च |
तद्विकारांश्च बाह्लीकाः खादन्ति च पिबन्ति च ||३९||
पुत्रसङ्करिणो जाल्माः सर्वान्नक्षीरभोजनाः |
आरट्टा नाम बाह्लीका वर्जनीया विपश्चिता ||४०||
उत शल्य विजानीहि हन्त भूयो ब्रवीमि ते |
यदन्योऽप्युक्तवान्सभ्यो ब्राह्मणः कुरुसंसदि ||४१||
युगन्धरे पयः पीत्वा प्रोष्य चाप्यच्युतस्थले |
तद्वद्भूतिलये स्नात्वा कथं स्वर्गं गमिष्यति ||४२||
पञ्च नद्यो वहन्त्येता यत्र निःसृत्य पर्वतात् |
आरट्टा नाम बाह्लीका न तेष्वार्यो द्व्यहं वसेत् ||४३||
बहिश्च नाम ह्लीकश्च विपाशायां पिशाचकौ |
तयोरपत्यं बाह्लीका नैषा सृष्टिः प्रजापतेः ||४४||
कारस्करान्महिषकान्कलिङ्गान्कीकटाटवीन् |
कर्कोटकान्वीरकांश्च दुर्धर्मांश्च विवर्जयेत् ||४५||
इति तीर्थानुसर्तारं राक्षसी काचिदब्रवीत् |
एकरात्रा शमीगेहे महोलूखलमेखला ||४६||
आरट्टा नाम ते देशा बाह्लीका नाम ते जनाः |
वसातिसिन्धुसौवीरा इति प्रायो विकुत्सिताः ||४७||
उत शल्य विजानीहि हन्त भूयो ब्रवीमि ते |
उच्यमानं मया सम्यक्तदेकाग्रमनाः शृणु ||४८||
ब्राह्मणः शिल्पिनो गेहमभ्यगच्छत्पुरातिथिः |
आचारं तत्र सम्प्रेक्ष्य प्रीतः शिल्पिनमब्रवीत् ||४९||
मया हिमवतः शृङ्गमेकेनाध्युषितं चिरम् |
दृष्टाश्च बहवो देशा नानाधर्मसमाकुलाः ||५०||
न च केन च धर्मेण विरुध्यन्ते प्रजा इमाः |
सर्वे हि तेऽब्रुवन्धर्मं यथोक्तं वेदपारगैः ||५१||
अटता तु सदा देशान्नानाधर्मसमाकुलान् |
आगच्छता महाराज बाह्लीकेषु निशामितम् ||५२||
तत्रैव ब्राह्मणो भूत्वा ततो भवति क्षत्रियः |
वैश्यः शूद्रश्च बाह्लीकस्ततो भवति नापितः ||५३||
नापितश्च ततो भूत्वा पुनर्भवति ब्राह्मणः |
द्विजो भूत्वा च तत्रैव पुनर्दासोऽपि जायते ||५४||
भवत्येकः कुले विप्रः शिष्टान्ये कामचारिणः |
गान्धारा मद्रकाश्चैव बाह्लीकाः केऽप्यचेतसः ||५५||
एतन्मया श्रुतं तत्र धर्मसङ्करकारकम् |
कृत्स्नामटित्वा पृथिवीं बाह्लीकेषु विपर्ययः ||५६||
उत शल्य विजानीहि हन्त भूयो ब्रवीमि ते |
यदप्यन्योऽब्रवीद्वाक्यं बाह्लीकानां विकुत्सितम् ||५७||
सती पुरा हृता काचिदारट्टा किल दस्युभिः |
अधर्मतश्चोपयाता सा तानभ्यशपत्ततः ||५८||
बालां बन्धुमतीं यन्मामधर्मेणोपगच्छथ |
तस्मान्नार्यो भविष्यन्ति बन्धक्यो वै कुलेषु वः ||५९||
न चैवास्मात्प्रमोक्ष्यध्वं घोरात्पापान्नराधमाः ||५९||
कुरवः सहपाञ्चालाः शाल्वा मत्स्याः सनैमिषाः |
कोसलाः काशयोऽङ्गाश्च कलिङ्गा मगधास्तथा ||६०||
चेदयश्च महाभागा धर्मं जानन्ति शाश्वतम् |
नानादेशेषु सन्तश्च प्रायो बाह्या लयादृते ||६१||
आ मत्स्येभ्यः कुरुपाञ्चालदेश्या; आ नैमिषाच्चेदयो ये विशिष्टाः |
धर्मं पुराणमुपजीवन्ति सन्तो; मद्रानृते पञ्चनदांश्च जिह्मान् ||६२||
एवं विद्वन्धर्मकथांश्च राजं; स्तूष्णीम्भूतो जडवच्छल्य भूयाः |
त्वं तस्य गोप्ता च जनस्य राजा; षड्भागहर्ता शुभदुष्कृतस्य ||६३||
अथ वा दुष्कृतस्य त्वं हर्ता तेषामरक्षिता |
रक्षिता पुण्यभाग्राजा प्रजानां त्वं त्वपुण्यभाक् ||६४||
पूज्यमाने पुरा धर्मे सर्वदेशेषु शाश्वते |
धर्मं पाञ्चनदं दृष्ट्वा धिगित्याह पितामहः ||६५||
व्रात्यानां दाशमीयानां कृतेऽप्यशुभकर्मणाम् |
इति पाञ्चनदं धर्ममवमेने पितामहः ||६६||
स्वधर्मस्थेषु वर्णेषु सोऽप्येतं नाभिपूजयेत् ||६६||
उत शल्य विजानीहि हन्त भूयो ब्रवीमि ते |
कल्माषपादः सरसि निमज्जन्राक्षसोऽब्रवीत् ||६७||
क्षत्रियस्य मलं भैक्षं ब्राह्मणस्यानृतं मलम् |
मलं पृथिव्या बाह्लीकाः स्त्रीणां मद्रस्त्रियो मलम् ||६८||
निमज्जमानमुद्धृत्य कश्चिद्राजा निशाचरम् |
अपृच्छत्तेन चाख्यातं प्रोक्तवान्यन्निबोध तत् ||६९||
मानुषाणां मलं म्लेच्छा म्लेच्छानां मौष्टिका मलम् |
मौष्टिकानां मलं शण्डाः शण्डानां राजयाजकाः ||७०||
राजयाजकयाज्यानां मद्रकाणां च यन्मलम् |
तद्भवेद्वै तव मलं यद्यस्मान्न विमुञ्चसि ||७१||
इति रक्षोपसृष्टेषु विषवीर्यहतेषु च |
राक्षसं भेषजं प्रोक्तं संसिद्धं वचनोत्तरम् ||७२||
ब्राह्मं पाञ्चालाः कौरवेयाः स्वधर्मः; सत्यं मत्स्याः शूरसेनाश्च यज्ञः |
प्राच्या दासा वृषला दाक्षिणात्याः; स्तेना बाह्लीकाः सङ्करा वै सुराष्ट्राः ||७३||
कृतघ्नता परवित्तापहारः; सुरापानं गुरुदारावमर्शः |
येषां धर्मस्तान्प्रति नास्त्यधर्म; आरट्टकान्पाञ्चनदान्धिगस्तु ||७४||
आ पाञ्चालेभ्यः कुरवो नैमिषाश्च; मत्स्याश्चैवाप्यथ जानन्ति धर्मम् |
कलिङ्गकाश्चाङ्गका मागधाश्च; शिष्टान्धर्मानुपजीवन्ति वृद्धाः ||७५||
प्राचीं दिशं श्रिता देवा जातवेदःपुरोगमाः |
दक्षिणां पितरो गुप्तां यमेन शुभकर्मणा ||७६||
प्रतीचीं वरुणः पाति पालयन्नसुरान्बली |
उदीचीं भगवान्सोमो ब्रह्मण्यो ब्राह्मणैः सह ||७७||
रक्षःपिशाचान्हिमवान्गुह्यकान्गन्धमादनः |
ध्रुवः सर्वाणि भूतानि विष्णुर्लोकाञ्जनार्दनः ||७८||
इङ्गितज्ञाश्च मगधाः प्रेक्षितज्ञाश्च कोसलाः |
अर्धोक्ताः कुरुपाञ्चालाः शाल्वाः कृत्स्नानुशासनाः ||७९||
पार्वतीयाश्च विषमा यथैव गिरयस्तथा ||७९||
सर्वज्ञा यवना राजञ्शूराश्चैव विशेषतः |
म्लेच्छाः स्वसञ्ज्ञानियता नानुक्त इतरो जनः ||८०||
प्रतिरब्धास्तु बाह्लीका न च केचन मद्रकाः |
स त्वमेतादृशः शल्य नोत्तरं वक्तुमर्हसि ||८१||
एतज्ज्ञात्वा जोषमास्स्व प्रतीपं मा स्म वै कृथाः |
स त्वां पूर्वमहं हत्वा हनिष्ये केशवार्जुनौ ||८२||
शल्य उवाच||
आतुराणां परित्यागः स्वदारसुतविक्रयः |
अङ्गेषु वर्तते कर्ण येषामधिपतिर्भवान् ||८३||
रथातिरथसङ्ख्यायां यत्त्वा भीष्मस्तदाब्रवीत् |
तान्विदित्वात्मनो दोषान्निर्मन्युर्भव मा क्रुधः ||८४||
सर्वत्र ब्राह्मणाः सन्ति सन्ति सर्वत्र क्षत्रियाः |
वैश्याः शूद्रास्तथा कर्ण स्त्रियः साध्व्यश्च सुव्रताः ||८५||
रमन्ते चोपहासेन पुरुषाः पुरुषैः सह |
अन्योन्यमवतक्षन्तो देशे देशे समैथुनाः ||८६||
परवाच्येषु निपुणः सर्वो भवति सर्वदा |
आत्मवाच्यं न जानीते जानन्नपि विमुह्यति ||८७||
सञ्जय उवाच||
कर्णोऽपि नोत्तरं प्राह शल्योऽप्यभिमुखः परान् |
पुनः प्रहस्य राधेयः पुनर्याहीत्यचोदयत् ||८८||
३१
सञ्जय उवाच||
ततः परानीकभिदं व्यूहमप्रतिमं परैः |
समीक्ष्य कर्णः पार्थानां धृष्टद्युम्नाभिरक्षितम् ||१||
प्रययौ रथघोषेण सिंहनादरवेण च |
वादित्राणां च निनदैः कम्पयन्निव मेदिनीम् ||२||
वेपमान इव क्रोधाद्युद्धशौण्डः परन्तपः |
पतिव्यूह्य महातेजा यथावद्भरतर्षभ ||३||
व्यधमत्पाण्डवीं सेनामासुरीं मघवानिव |
युधिष्ठिरं चाभिभवन्नसपव्यं चकार ह ||४||
धृतराष्ट्र उवाच||
कथं सञ्जय राधेयः प्रत्यव्यूहत पाण्डवान् |
धृष्टद्युम्नमुखान्वीरान्भीमसेनाभिरक्षितान् ||५||
के च प्रपक्षौ पक्षौ वा मम सैन्यस्य सञ्जय |
प्रविभज्य यथान्यायं कथं वा समवस्थिताः ||६||
कथं पाण्डुसुताश्चापि प्रत्यव्यूहन्त मामकान् |
कथं चैतन्महायुद्धं प्रावर्तत सुदारुणम् ||७||
क्व च बीभत्सुरभवद्यत्कर्णोऽयाद्युधिष्ठिरम् |
को ह्यर्जुनस्य सांनिध्ये शक्तोऽभ्येतुं युधिष्ठिरम् ||८||
सर्वभूतानि यो ह्येकः खाण्डवे जितवान्पुरा |
कस्तमन्यत्र राधेयात्प्रतियुध्येज्जिजीविषुः ||९||
सञ्जय उवाच||
शृणु व्यूहस्य रचनामर्जुनश्च यथा गतः |
परिदाय नृपं तेभ्यः सङ्ग्रामश्चाभवद्यथा ||१०||
कृपः शारद्वतो राजन्मागधश्च तरस्विनः |
सात्वतः कृतवर्मा च दक्षिणं पक्षमाश्रिताः ||११||
तेषां प्रपक्षे शकुनिरुलूकश्च महारथः |
सादिभिर्विमलप्रासैस्तवानीकमरक्षताम् ||१२||
गान्धारिभिरसम्भ्रान्तैः पार्वतीयैश्च दुर्जयैः |
शलभानामिव व्रातैः पिशाचैरिव दुर्दृशैः ||१३||
चतुस्त्रिंशत्सहस्राणि रथानामनिवर्तिनाम् |
संशप्तका युद्धशौण्डा वामं पार्श्वमपालयन् ||१४||
समुच्चितास्तव सुतैः कृष्णार्जुनजिघांसवः |
तेषां प्रपक्षः काम्बोजाः शकाश्च यवनैः सह ||१५||
निदेशात्सूतपुत्रस्य सरथाः साश्वपत्तयः |
आह्वयन्तोऽर्जुनं तस्थुः केशवं च महाबलम् ||१६||
मध्येसेनामुखं कर्णो व्यवातिष्ठत दंशितः |
चित्रवर्माङ्गदः स्रग्वी पालयन्ध्वजिनीमुखम् ||१७||
रक्ष्यमाणः सुसंरब्धैः पुत्रैः शस्त्रभृतां वरः |
वाहिनीप्रमुखं वीरः सम्प्रकर्षन्नशोभत ||१८||
अयोरत्निर्महाबाहुः सूर्यवैश्वानरद्युतिः |
महाद्विपस्कन्धगतः पिङ्गलः प्रियदर्शनः ||१९||
दुःशासनो वृतः सैन्यैः स्थितो व्यूहस्य पृष्ठतः ||१९||
तमन्वयान्महाराज स्वयं दुर्योधनो नृपः |
चित्राश्वैश्चित्रसंनाहैः सोदर्यैरभिरक्षितः ||२०||
रक्ष्यमाणो महावीर्यैः सहितैर्मद्रकेकयैः |
अशोभत महाराज देवैरिव शतक्रतुः ||२१||
अश्वत्थामा कुरूणां च ये प्रवीरा महारथाः |
नित्यमत्ताश्च मातङ्गाः शूरैर्म्लेच्छैरधिष्ठिताः ||२२||
अन्वयुस्तद्रथानीकं क्षरन्त इव तोयदाः ||२२||
ते ध्वजैर्वैजयन्तीभिर्ज्वलद्भिः परमायुधैः |
सादिभिश्चास्थिता रेजुर्द्रुमवन्त इवाचलाः ||२३||
तेषां पदातिनागानां पादरक्षाः सहस्रशः |
पट्टिशासिधराः शूरा बभूवुरनिवर्तिनः ||२४||
सादिभिः स्यन्दनैर्नागैरधिकं समलङ्कृतैः |
स व्यूहराजो विबभौ देवासुरचमूपमः ||२५||
बार्हस्पत्यः सुविहितो नायकेन विपश्चिता |
नृत्यतीव महाव्यूहः परेषामादधद्भयम् ||२६||
तस्य पक्षप्रपक्षेभ्यो निष्पतन्ति युयुत्सवः |
पत्त्यश्वरथमातङ्गाः प्रावृषीव बलाहकाः ||२७||
ततः सेनामुखे कर्णं दृष्ट्वा राजा युधिष्ठिरः |
धनञ्जयममित्रघ्नमेकवीरमुवाच ह ||२८||
पश्यार्जुन महाव्यूहं कर्णेन विहितं रणे |
युक्तं पक्षैः प्रपक्षैश्च सेनानीकं प्रकाशते ||२९||
तदेतद्वै समालोक्य प्रत्यमित्रं महद्बलम् |
यथा नाभिभवत्यस्मांस्तथा नीतिर्विधीयताम् ||३०||
एवमुक्तोऽर्जुनो राज्ञा प्राञ्जलिर्नृपमब्रवीत् |
यथा भवानाह तथा तत्सर्वं न तदन्यथा ||३१||
यस्त्वस्य विहितो घातस्तं करिष्यामि भारत |
प्रधानवध एवास्य विनाशस्तं करोम्यहम् ||३२||
युधिष्ठिर उवाच||
तस्मात्त्वमेव राधेयं भीमसेनः सुयोधनम् |
वृषसेनं च नकुलः सहदेवोऽपि सौबलम् ||३३||
दुःशासनं शतानीको हार्दिक्यं शिनिपुङ्गवः |
धृष्टद्युम्नस्तथा द्रौणिं स्वयं यास्याम्यहं कृपम् ||३४||
द्रौपदेया धार्तराष्ट्राञ्शिष्टान्सह शिखण्डिना |
ते ते च तांस्तानहितानस्माकं घ्नन्तु मामकाः ||३५||
सञ्जय उवाच||
इत्युक्तो धर्मराजेन तथेत्युक्त्वा धनञ्जयः |
व्यादिदेश स्वसैन्यानि स्वयं चागाच्चमूमुखम् ||३६||
अथ तं रथमायान्तं दृष्ट्वात्यद्भुतदर्शनम् |
उवाचाधिरथिं शल्यः पुनस्तं युद्धदुर्मदम् ||३७||
अयं स रथ आयाति श्वेताश्वः कृष्णसारथिः |
निघ्नन्नमित्रान्कौन्तेयो यं यं त्वं परिपृच्छसि ||३८||
श्रूयते तुमुलः शब्दो रथनेमिस्वनो महान् |
एष रेणुः समुद्भूतो दिवमावृत्य तिष्ठति ||३९||
चक्रनेमिप्रणुन्ना च कम्पते कर्ण मेदिनी |
प्रवात्येष महावायुरभितस्तव वाहिनीम् ||४०||
क्रव्यादा व्याहरन्त्येते मृगाः कुर्वन्ति भैरवम् ||४०||
पश्य कर्ण महाघोरं भयदं लोमहर्षणम् |
कबन्धं मेघसङ्काशं भानुमावृत्य संस्थितम् ||४१||
पश्य यूथैर्बहुविधैर्मृगाणां सर्वतोदिशम् |
बलिभिर्दृप्तशार्दूलैरादित्योऽभिनिरीक्ष्यते ||४२||
पश्य कङ्कांश्च गृध्रांश्च समवेतान्सहस्रशः |
स्थितानभिमुखान्घोरानन्योन्यमभिभाषतः ||४३||
सिताश्चाश्वाः समायुक्तास्तव कर्ण महारथे |
प्रदराः प्रज्वलन्त्येते ध्वजश्चैव प्रकम्पते ||४४||
उदीर्यतो हयान्पश्य महाकायान्महाजवान् |
प्लवमानान्दर्शनीयानाकाशे गरुडानिव ||४५||
ध्रुवमेषु निमित्तेषु भूमिमावृत्य पार्थिवाः |
स्वप्स्यन्ति निहताः कर्ण शतशोऽथ सहस्रशः ||४६||
शङ्खानां तुमुलः शब्दः श्रूयते लोमहर्षणः |
आनकानां च राधेय मृदङ्गानां च सर्वशः ||४७||
बाणशब्दान्बहुविधान्नराश्वरथनिस्वनान् |
ज्यातलत्रेषुशब्दांश्च शृणु कर्ण महात्मनाम् ||४८||
हेमरूप्यप्रमृष्टानां वाससां शिल्पिनिर्मिताः |
नानावर्णा रथे भान्ति श्वसनेन प्रकम्पिताः ||४९||
सहेमचन्द्रतारार्काः पताकाः किङ्किणीयुताः |
पश्य कर्णार्जुनस्यैताः सौदामिन्य इवाम्बुदे ||५०||
ध्वजाः कणकणायन्ते वातेनाभिसमीरिताः |
सपताका रथाश्चापि पाञ्चालानां महात्मनाम् ||५१||
नागाश्वरथपत्त्यौघांस्तावकान्समभिघ्नतः |
ध्वजाग्रं दृश्यते त्वस्य ज्याशब्दश्चापि श्रूयते ||५२||
अद्य द्रष्टासि तं वीरं श्वेताश्वं कृष्णसारथिम् |
निघ्नन्तं शात्रवान्सङ्ख्ये यं कर्ण परिपृच्छसि ||५३||
अद्य तौ पुरुषव्याघ्रौ लोहिताक्षौ परन्तपौ |
वासुदेवार्जुनौ कर्ण द्रष्टास्येकरथस्थितौ ||५४||
सारथिर्यस्य वार्ष्णेयो गाण्डीवं यस्य कार्मुकम् |
तं चेद्धन्तासि राधेय त्वं नो राजा भविष्यसि ||५५||
एष संशप्तकाहूतस्तानेवाभिमुखो गतः |
करोति कदनं चैषां सङ्ग्रामे द्विषतां बली ||५६||
इति ब्रुवाणं मद्रेशं कर्णः प्राहातिमन्युमान् ||५६||
पश्य संशप्तकैः क्रुद्धैः सर्वतः समभिद्रुतः |
एष सूर्य इवाम्भोदैश्छन्नः पार्थो न दृश्यते ||५७||
एतदन्तोऽर्जुनः शल्य निमग्नः शोकसागरे ||५७||
शल्य उवाच||
वरुणं कोऽम्भसा हन्यादिन्धनेन च पावकम् |
को वानिलं निगृह्णीयात्पिबेद्वा को महार्णवम् ||५८||
ईदृग्रूपमहं मन्ये पार्थस्य युधि निग्रहम् |
न हि शक्योऽर्जुनो जेतुं सेन्द्रैः सर्वैः सुरासुरैः ||५९||
अथैवं परितोषस्ते वाचोक्त्वा सुमना भव |
न स शक्यो युधा जेतुमन्यं कुरु मनोरथम् ||६०||
बाहुभ्यामुद्धरेद्भूमिं दहेत्क्रुद्ध इमाः प्रजाः |
पातयेत्त्रिदिवाद्देवान्योऽर्जुनं समरे जयेत् ||६१||
पश्य कुन्तीसुतं वीरं भीममक्लिष्टकारिणम् |
प्रभासन्तं महाबाहुं स्थितं मेरुमिवाचलम् ||६२||
अमर्षी नित्यसंरब्धश्चिरं वैरमनुस्मरन् |
एष भीमो जयप्रेप्सुर्युधि तिष्ठति वीर्यवान् ||६३||
एष धर्मभृतां श्रेष्ठो धर्मराजो युधिष्ठिरः |
तिष्ठत्यसुकरः सङ्ख्ये परैः परपुरञ्जयः ||६४||
एतौ च पुरुषव्याघ्रावश्विनाविव सोदरौ |
नकुलः सहदेवश्च तिष्ठतो युधि दुर्जयौ ||६५||
दृश्यन्त एते कार्ष्णेयाः पञ्च पञ्चाचला इव |
व्यवस्थिता योत्स्यमानाः सर्वेऽर्जुनसमा युधि ||६६||
एते द्रुपदपुत्राश्च धृष्टद्युम्नपुरोगमाः |
हीनाः सत्यजिता वीरास्तिष्ठन्ति परमौजसः ||६७||
इति संवदतोरेव तयोः पुरुषसिंहयोः |
ते सेने समसज्जेतां गङ्गायमुनवद्भृशम् ||६८||
३२
धृतराष्ट्र उवाच||
तथा व्यूढेष्वनीकेषु संसक्तेषु च सञ्जय |
संशप्तकान्कथं पार्थो गतः कर्णश्च पाण्डवान् ||१||
एतद्विस्तरतो युद्धं प्रब्रूहि कुशलो ह्यसि |
न हि तृप्यामि वीराणां शृण्वानो विक्रमान्रणे ||२||
सञ्जय उवाच||
तत्स्थाने समवस्थाप्य प्रत्यमित्रं महाबलम् |
अव्यूहतार्जुनो व्यूहं पुत्रस्य तव दुर्नये ||३||
तत्सादिनागकलिलं पदातिरथसङ्कुलम् |
धृष्टद्युम्नमुखैर्व्यूढमशोभत महद्बलम् ||४||
पारावतसवर्णाश्वश्चन्द्रादित्यसमद्युतिः |
पार्षतः प्रबभौ धन्वी कालो विग्रहवानिव ||५||
पार्षतं त्वभि सन्तस्थुर्द्रौपदेया युयुत्सवः |
सानुगा भीमवपुषश्चन्द्रं तारागणा इव ||६||
अथ व्यूढेष्वनीकेषु प्रेक्ष्य संशप्तकान्रणे |
क्रुद्धोऽर्जुनोऽभिदुद्राव व्याक्षिपन्गाण्डिवं धनुः ||७||
अथ संशप्तकाः पार्थमभ्यधावन्वधैषिणः |
विजये कृतसङ्कल्पा मृत्युं कृत्वा निवर्तनम् ||८||
तदश्वसङ्घबहुलं मत्तनागरथाकुलम् |
पत्तिमच्छूरवीरौघैर्द्रुतमर्जुनमाद्रवत् ||९||
स सम्प्रहारस्तुमुलस्तेषामासीत्किरीटिना |
तस्यैव नः श्रुतो यादृङ्निवातकवचैः सह ||१०||
रथानश्वान्ध्वजान्नागान्पत्तीन्रथपतीनपि |
इषून्धनूंषि खड्गांश्च चक्राणि च परश्वधान् ||११||
सायुधानुद्यतान्बाहूनुद्यतान्यायुधानि च |
चिच्छेद द्विषतां पार्थः शिरांसि च सहस्रशः ||१२||
तस्मिन्सैन्ये महावर्ते पातालावर्तसंनिभे |
निमग्नं तं रथं मत्वा नेदुः संशप्तका मुदा ||१३||
स पुरस्तादरीन्हत्वा पश्चार्धेनोत्तरेण च |
दक्षिणेन च बीभत्सुः क्रुद्धो रुद्रः पशूनिव ||१४||
अथ पाञ्चालचेदीनां सृञ्जयानां च मारिष |
त्वदीयैः सह सङ्ग्राम आसीत्परमदारुणः ||१५||
कृपश्च कृतवर्मा च शकुनिश्चापि सौबलः |
हृष्टसेनाः सुसंरब्धा रथानीकैः प्रहारिणः ||१६||
कोसलैः काशिमत्स्यैश्च कारूषैः केकयैरपि |
शूरसेनैः शूरवीरैर्युयुधुर्युद्धदुर्मदाः ||१७||
तेषामन्तकरं युद्धं देहपाप्मप्रणाशनम् |
शूद्रविट्क्षत्रवीराणां धर्म्यं स्वर्ग्यं यशस्करम् ||१८||
दुर्योधनोऽपि सहितो भ्रातृभिर्भरतर्षभ |
गुप्तः कुरुप्रवीरैश्च मद्राणां च महारथैः ||१९||
पाण्डवैः सहपाञ्चालैश्चेदिभिः सात्यकेन च |
युध्यमानं रणे कर्णं कुरुवीरोऽभ्यपालयत् ||२०||
कर्णोऽपि निशितैर्बाणैर्विनिहत्य महाचमूम् |
प्रमृद्य च रथश्रेष्ठान्युधिष्ठिरमपीडयत् ||२१||
विपत्रायुधदेहासून्कृत्वा शत्रून्सहस्रशः |
युक्त्वा स्वर्गयशोभ्यां च स्वेभ्यो मुदमुदावहत् ||२२||
धृतराष्ट्र उवाच||
यत्तत्प्रविश्य पार्थानां सेनां कुर्वञ्जनक्षयम् |
कर्णो राजानमभ्यर्च्छत्तन्ममाचक्ष्व सञ्जय ||२३||
के च प्रवीराः पार्थानां युधि कर्णमवारयन् |
कांश्च प्रमथ्याधिरथिर्युधिष्ठिरमपीडयत् ||२४||
सञ्जय उवाच||
धृष्टद्युम्नमुखान्पार्थान्दृष्ट्वा कर्णो व्यवस्थितान् |
समभ्यधावत्त्वरितः पाञ्चालाञ्शत्रुकर्शनः ||२५||
तं तूर्णमभिधावन्तं पाञ्चाला जितकाशिनः |
प्रत्युद्ययुर्महाराज हंसा इव महार्णवम् ||२६||
ततः शङ्खसहस्राणां निस्वनो हृदयङ्गमः |
प्रादुरासीदुभयतो भेरीशब्दश्च दारुणः ||२७||
नानावादित्रनादश्च द्विपाश्वरथनिस्वनः |
सिंहनादश्च वीराणामभवद्दारुणस्तदा ||२८||
साद्रिद्रुमार्णवा भूमिः सवाताम्बुदमम्बरम् |
सार्केन्दुग्रहनक्षत्रा द्यौश्च व्यक्तं व्यघूर्णत ||२९||
अति भूतानि तं शब्दं मेनिरेऽति च विव्यथुः |
यानि चाप्लवसत्त्वानि प्रायस्तानि मृतानि च ||३०||
अथ कर्णो भृशं क्रुद्धः शीघ्रमस्त्रमुदीरयन् |
जघान पाण्डवीं सेनामासुरीं मघवानिव ||३१||
स पाण्डवरथांस्तूर्णं प्रविश्य विसृजञ्शरान् |
प्रभद्रकाणां प्रवरानहनत्सप्तसप्ततिम् ||३२||
ततः सुपुङ्खैर्निशितै रथश्रेष्ठो रथेषुभिः |
अवधीत्पञ्चविंशत्या पाञ्चालान्पञ्चविंशतिम् ||३३||
सुवर्णपुङ्खैर्नाराचैः परकायविदारणैः |
चेदिकानवधीद्वीरः शतशोऽथ सहस्रशः ||३४||
तं तथा समरे कर्म कुर्वाणमतिमानुषम् |
परिवव्रुर्महाराज पाञ्चालानां रथव्रजाः ||३५||
ततः सन्धाय विशिखान्पञ्च भारत दुःसहान् |
पाञ्चालानवधीत्पञ्च कर्णो वैकर्तनो वृषः ||३६||
भानुदेवं चित्रसेनं सेनाबिन्दुं च भारत |
तपनं शूरसेनं च पाञ्चालानवधीद्रणे ||३७||
पाञ्चालेषु च शूरेषु वध्यमानेषु सायकैः |
हाहाकारो महानासीत्पाञ्चालानां महाहवे ||३८||
तेषां सङ्कीर्यमाणानां हाहाकारकृता दिशः |
पुनरेव च तान्कर्णो जघानाशु पतत्रिभिः ||३९||
चक्ररक्षौ तु कर्णस्य पुत्रौ मारिष दुर्जयौ |
सुषेणः सत्यसेनश्च त्यक्त्वा प्राणानयुध्यताम् ||४०||
पृष्ठगोपस्तु कर्णस्य ज्येष्ठः पुत्रो महारथः |
वृषसेनः स्वयं कर्णं पृष्ठतः पर्यपालयत् ||४१||
धृष्टद्युम्नः सात्यकिश्च द्रौपदेया वृकोदरः |
जनमेजयः शिखण्डी च प्रवीराश्च प्रभद्रकाः ||४२||
चेदिकेकयपाञ्चाला यमौ मत्स्याश्च दंशिताः |
समभ्यधावन्राधेयं जिघांसन्तः प्रहारिणः ||४३||
त एनं विविधैः शस्त्रैः शरधाराभिरेव च |
अभ्यवर्षन्विमृद्नन्तः प्रावृषीवाम्बुदा गिरिम् ||४४||
पितरं तु परीप्सन्तः कर्णपुत्राः प्रहारिणः |
त्वदीयाश्चापरे राजन्वीरा वीरानवारयन् ||४५||
सुषेणो भीमसेनस्य छित्त्वा भल्लेन कार्मुकम् |
नाराचैः सप्तभिर्विद्ध्वा हृदि भीमं ननाद ह ||४६||
अथान्यद्धनुरादाय सुदृढं भीमविक्रमः |
सज्यं वृकोदरः कृत्वा सुषेणस्याच्छिनद्धनुः ||४७||
विव्याध चैनं नवभिः क्रुद्धो नृत्यन्निवेषुभिः |
कर्णं च तूर्णं विव्याध त्रिसप्तत्या शितैः शरैः ||४८||
सत्यसेनं च दशभिः साश्वसूतध्वजायुधम् |
पश्यतां सुहृदां मध्ये कर्णपुत्रमपातयत् ||४९||
क्षुरप्रणुन्नं तत्तस्य शिरश्चन्द्रनिभाननम् |
शुभदर्शनमेवासीन्नालभ्रष्टमिवाम्बुजम् ||५०||
हत्वा कर्णसुतं भीमस्तावकान्पुनरार्दयत् |
कृपहार्दिक्ययोश्छित्त्वा चापे तावप्यथार्दयत् ||५१||
दुःशासनं त्रिभिर्विद्ध्वा शकुनिं षड्भिरायसैः |
उलूकं च पतत्रिं च चकार विरथावुभौ ||५२||
हे सुषेण हतोऽसीति ब्रुवन्नादत्त सायकम् |
तमस्य कर्णश्चिच्छेद त्रिभिश्चैनमताडयत् ||५३||
अथान्यमपि जग्राह सुपर्वाणं सुतेजनम् |
सुषेणायासृजद्भीमस्तमप्यस्याच्छिनद्वृषः ||५४||
पुनः कर्णस्त्रिसप्तत्या भीमसेनं रथेषुभिः |
पुत्रं परीप्सन्विव्याध क्रूरं क्रूरैर्जिघांसया ||५५||
सुषेणस्तु धनुर्गृह्य भारसाधनमुत्तमम् |
नकुलं पञ्चभिर्बाणैर्बाह्वोरुरसि चार्दयत् ||५६||
नकुलस्तं तु विंशत्या विद्ध्वा भारसहैर्दृढैः |
ननाद बलवन्नादं कर्णस्य भयमादधत् ||५७||
तं सुषेणो महाराज विद्ध्वा दशभिराशुगैः |
चिच्छेद च धनुः शीघ्रं क्षुरप्रेण महारथः ||५८||
अथान्यद्धनुरादाय नकुलः क्रोधमूर्च्छितः |
सुषेणं बहुभिर्बाणैर्वारयामास संयुगे ||५९||
स तु बाणैर्दिशो राजन्नाच्छाद्य परवीरहा |
आजघ्ने सारथिं चास्य सुषेणं च ततस्त्रिभिः ||६०||
चिच्छेद चास्य सुदृढं धनुर्भल्लैस्त्रिभिस्त्रिधा ||६०||
अथान्यद्धनुरादाय सुषेणः क्रोधमूर्छितः |
अविध्यन्नकुलं षष्ट्या सहदेवं च सप्तभिः ||६१||
तद्युद्धं सुमहद्घोरमासीद्देवासुरोपमम् |
निघ्नतां सायकैस्तूर्णमन्योन्यस्य वधं प्रति ||६२||
सात्यकिर्वृषसेनस्य हत्वा सूतं त्रिभिः शरैः |
धनुश्चिच्छेद भल्लेन जघानाश्वांश्च सप्तभिः ||६३||
ध्वजमेकेषुणोन्मथ्य त्रिभिस्तं हृद्यताडयत् ||६३||
अथावसन्नः स्वरथे मुहूर्तात्पुनरुत्थितः |
अथो जिघांसुः शैनेयं खड्गचर्मभृदभ्ययात् ||६४||
तस्य चाप्लवतः शीघ्रं वृषसेनस्य सात्यकिः |
वराहकर्णैर्दशभिरविध्यदसिचर्मणी ||६५||
दुःशासनस्तु तं दृष्ट्वा विरथं व्यायुधं कृतम् |
आरोप्य स्वरथे तूर्णमपोवाह रथान्तरम् ||६६||
अथान्यं रथमास्थाय वृषसेनो महारथः |
कर्णस्य युधि दुर्धर्षः पुनः पृष्ठमपालयत् ||६७||
दुःशासनं तु शैनेयो नवैर्नवभिराशुगैः |
विसूताश्वरथं कृत्वा ललाटे त्रिभिरार्पयत् ||६८||
स त्वन्यं रथमास्थाय विधिवत्कल्पितं पुनः |
युयुधे पाण्डुभिः सार्धं कर्णस्याप्याययन्बलम् ||६९||
धृष्टद्युम्नस्ततः कर्णमविध्यद्दशभिः शरैः |
द्रौपदेयास्त्रिसप्तत्या युयुधानस्तु सप्तभिः ||७०||
भीमसेनश्चतुःषष्ट्या सहदेवश्च पञ्चभिः |
नकुलस्त्रिंशता बाणैः शतानीकश्च सप्तभिः ||७१||
शिखण्डी दशभिर्वीरो धर्मराजः शतेन तु ||७१||
एते चान्ये च राजेन्द्र प्रवीरा जयगृद्धिनः |
अभ्यर्दयन्महेष्वासं सूतपुत्रं महामृधे ||७२||
तान्सूतपुत्रो विशिखैर्दशभिर्दशभिः शितैः |
रथे चारु चरन्वीरः प्रत्यविध्यदरिंदमः ||७३||
तत्रास्त्रवीर्यं कर्णस्य लाघवं च महात्मनः |
अपश्याम महाराज तदद्भुतमिवाभवत् ||७४||
न ह्याददानं ददृशुः संदधानं च सायकान् |
विमुञ्चन्तं च संरम्भाद्ददृशुस्ते महारथम् ||७५||
द्यौर्वियद्भूर्दिशश्चाशु प्रणुन्ना निशितैः शरैः |
अरुणाभ्रावृताकारं तस्मिन्देशे बभौ वियत् ||७६||
नृत्यन्निव हि राधेयश्चापहस्तः प्रतापवान् |
यैर्विद्धः प्रत्यविध्यत्तानेकैकं त्रिगुणैः शरैः ||७७||
दशभिर्दशभिश्चैनान्पुनर्विद्ध्वा ननाद ह |
साश्वसूतध्वजच्छत्रास्ततस्ते विवरं ददुः ||७८||
तान्प्रमृद्नन्महेष्वासान्राधेयः शरवृष्टिभिः |
राजानीकमसम्बाधं प्राविशच्छत्रुकर्शनः ||७९||
स रथांस्त्रिशतान्हत्वा चेदीनामनिवर्तिनाम् |
राधेयो निशितैर्बाणैस्ततोऽभ्यार्च्छद्युधिष्ठिरम् ||८०||
ततस्ते पाण्डवा राजञ्शिखण्डी च ससात्यकिः |
राधेयात्परिरक्षन्तो राजानं पर्यवारयन् ||८१||
तथैव तावकाः सर्वे कर्णं दुर्वारणं रणे |
यत्ताः सेनामहेष्वासाः पर्यरक्षन्त सर्वशः ||८२||
नानावादित्रघोषाश्च प्रादुरासन्विशां पते |
सिंहनादश्च सञ्जज्ञे शूराणामनिवर्तिनाम् ||८३||
ततः पुनः समाजग्मुरभीताः कुरुपाण्डवाः |
युधिष्ठिरमुखाः पार्थाः सूतपुत्रमुखा वयम् ||८४||
३३
सञ्जय उवाच||
विदार्य कर्णस्तां सेनां धर्मराजमुपाद्रवत् |
रथहस्त्यश्वपत्तीनां सहस्रैः परिवारितः ||१||
नानायुधसहस्राणि प्रेषितान्यरिभिर्वृषः |
छित्त्वा बाणशतैरुग्रैस्तानविध्यदसम्भ्रमः ||२||
निचकर्त शिरांस्येषां बाहूनूरूंश्च सर्वशः |
ते हता वसुधां पेतुर्भग्नाश्चान्ये विदुद्रुवुः ||३||
द्रविडान्ध्रनिषादास्तु पुनः सात्यकिचोदिताः |
अभ्यर्दयञ्जिघांसन्तः पत्तयः कर्णमाहवे ||४||
ते विबाहुशिरस्त्राणाः प्रहताः कर्णसायकैः |
पेतुः पृथिव्यां युगपच्छिन्नं शालवनं यथा ||५||
एवं योधशतान्याजौ सहस्राण्ययुतानि च |
हतानीयुर्महीं देहैर्यशसापूरयन्दिशः ||६||
अथ वैकर्तनं कर्णं रणे क्रुद्धमिवान्तकम् |
रुरुधुः पाण्डुपाञ्चाला व्याधिं मन्त्रौषधैरिव ||७||
स तान्प्रमृद्याभ्यपतत्पुनरेव युधिष्ठिरम् |
मन्त्रौषधिक्रियातीतो व्याधिरत्युल्बणो यथा ||८||
स राजगृद्धिभी रुद्धः पाण्डुपाञ्चालकेकयैः |
नाशकत्तानतिक्रान्तुं मृत्युर्ब्रह्मविदो यथा ||९||
ततो युधिष्ठिरः कर्णमदूरस्थं निवारितम् |
अब्रवीत्परवीरघ्नः क्रोधसंरक्तलोचनः ||१०||
कर्ण कर्ण वृथादृष्टे सूतपुत्र वचः शृणु |
सदा स्पर्धसि सङ्ग्रामे फल्गुनेन यशस्विना ||११||
तथास्मान्बाधसे नित्यं धार्तराष्ट्रमते स्थितः ||११||
यद्बलं यच्च ते वीर्यं प्रद्वेषो यश्च पाण्डुषु |
तत्सर्वं दर्शयस्वाद्य पौरुषं महदास्थितः ||१२||
युद्धश्रद्धां स तेऽद्याहं विनेष्यामि महाहवे ||१२||
एवमुक्त्वा महाराज कर्णं पाण्डुसुतस्तदा |
सुवर्णपुङ्खैर्दशभिर्विव्याधायस्मयैः शितैः ||१३||
तं सूतपुत्रो नवभिः प्रत्यविध्यदरिंदमः |
वत्सदन्तैर्महेष्वासः प्रहसन्निव भारत ||१४||
ततः क्षुराभ्यां पाञ्चाल्यौ चक्ररक्षौ महात्मनः |
जघान समरे शूरः शरैः संनतपर्वभिः ||१५||
तावुभौ धर्मराजस्य प्रवीरौ परिपार्श्वतः |
रथाभ्याशे चकाशेते चन्द्रस्येव पुनर्वसू ||१६||
युधिष्ठिरः पुनः कर्णमविध्यत्त्रिंशता शरैः |
सुषेणं सत्यसेनं च त्रिभिस्त्रिभिरताडयत् ||१७||
शल्यं नवत्या विव्याध त्रिसप्तत्या च सूतजम् |
तांश्चास्य गोप्तॄन्विव्याध त्रिभिस्त्रिभिरजिह्मगैः ||१८||
ततः प्रहस्याधिरथिर्विधुन्वानः स कार्मुकम् |
भित्त्वा भल्लेन राजानं विद्ध्वा षष्ट्यानदन्मुदा ||१९||
ततः प्रवीराः पाण्डूनामभ्यधावन्युधिष्ठिरम् |
सूतपुत्रात्परीप्सन्तः कर्णमभ्यर्दयञ्शरैः ||२०||
सात्यकिश्चेकितानश्च युयुत्सुः पाण्ड्य एव च |
धृष्टद्युम्नः शिखण्डी च द्रौपदेयाः प्रभद्रकाः ||२१||
यमौ च भीमसेनश्च शिशुपालस्य चात्मजः |
कारूषा मत्स्यशेषाश्च केकयाः काशिकोसलाः ||२२||
एते च त्वरिता वीरा वसुषेणमवारयन् ||२२||
जनमेजयश्च पाञ्चाल्यः कर्णं विव्याध सायकैः |
वराहकर्णैर्नाराचैर्नालीकैर्निशितैः शरैः ||२३||
वत्सदन्तैर्विपाठैश्च क्षुरप्रैश्चटकामुखैः ||२३||
नानाप्रहरणैश्चोग्रै रथहस्त्यश्वसादिनः |
सर्वतोऽभ्याद्रवन्कर्णं परिवार्य जिघांसया ||२४||
स पाण्डवानां प्रवरैः सर्वतः समभिद्रुतः |
उदैरयद्ब्राह्ममस्त्रं शरैः सम्पूरयन्दिशः ||२५||
ततः शरमहाज्वालो वीर्योष्मा कर्णपावकः |
निर्दहन्पाण्डववनं चारु पर्यचरद्रणे ||२६||
स संवार्य महास्त्राणि महेष्वासो महात्मनाम् |
प्रहस्य पुरुषेन्द्रस्य शरैश्चिच्छेद कार्मुकम् ||२७||
ततः सन्धाय नवतिं निमेषान्नतपर्वणाम् |
बिभेद कवचं राज्ञो रणे कर्णः शितैः शरैः ||२८||
तद्वर्म हेमविकृतं रराज निपतत्तदा |
सविद्युदभ्रं सवितुः शिष्टं वातहतं यथा ||२९||
तदङ्गं पुरुषेन्द्रस्य भ्रष्टवर्म व्यरोचत |
रत्नैरलङ्कृतं दिव्यैर्व्यभ्रं निशि यथा नभः ||३०||
स विवर्मा शरैः पार्थो रुधिरेण समुक्षितः |
क्रुद्धः सर्वायसीं शक्तिं चिक्षेपाधिरथिं प्रति ||३१||
तां ज्वलन्तीमिवाकाशे शरैश्चिच्छेद सप्तभिः |
सा छिन्ना भूमिमपतन्महेष्वासस्य सायकैः ||३२||
ततो बाह्वोर्ललाटे च हृदि चैव युधिष्ठिरः |
चतुर्भिस्तोमरैः कर्णं ताडयित्वा मुदानदत् ||३३||
उद्भिन्नरुधिरः कर्णः क्रुद्धः सर्प इव श्वसन् |
ध्वजं चिच्छेद भल्लेन त्रिभिर्विव्याध पाण्डवम् ||३४||
इषुधी चास्य चिच्छेद रथं च तिलशोऽच्छिनत् ||३४||
एवं पार्थो व्यपायात्स निहतप्रार्ष्टिसारथिः |
अशक्नुवन्प्रमुखतः स्थातुं कर्णस्य दुर्मनाः ||३५||
तमभिद्रुत्य राधेयः स्कन्धं संस्पृश्य पाणिना |
अब्रवीत्प्रहसन्राजन्कुत्सयन्निव पाण्डवम् ||३६||
कथं नाम कुले जातः क्षत्रधर्मे व्यवस्थितः |
प्रजह्यात्समरे शत्रून्प्राणान्रक्षन्महाहवे ||३७||
न भवान्क्षत्रधर्मेषु कुशलोऽसीति मे मतिः |
ब्राह्मे बले भवान्युक्तः स्वाध्याये यज्ञकर्मणि ||३८||
मा स्म युध्यस्व कौन्तेय मा च वीरान्समासदः |
मा चैनानप्रियं ब्रूहि मा च व्रज महारणम् ||३९||
एवमुक्त्वा ततः पार्थं विसृज्य च महाबलः |
न्यहनत्पाण्डवीं सेनां वज्रहस्त इवासुरीम् ||४०||
ततः प्रायाद्द्रुतं राजन्व्रीडन्निव जनेश्वरः ||४०||
अथ प्रयान्तं राजानमन्वयुस्ते तदाच्युतम् |
चेदिपाण्डवपाञ्चालाः सात्यकिश्च महारथः ||४१||
द्रौपदेयास्तथा शूरा माद्रीपुत्रौ च पाण्डवौ ||४१||
ततो युधिष्ठिरानीकं दृष्ट्वा कर्णः पराङ्मुखम् |
कुरुभिः सहितो वीरैः पृष्ठगैः पृष्ठमन्वयात् ||४२||
शङ्खभेरीनिनादैश्च कार्मुकाणां च निस्वनैः |
बभूव धार्तराष्ट्राणां सिंहनादरवस्तदा ||४३||
युधिष्ठिरस्तु कौरव्य रथमारुह्य सत्वरः |
श्रुतकीर्तेर्महाराज दृष्टवान्कर्णविक्रमम् ||४४||
काल्यमानं बलं दृष्ट्वा धर्मराजो युधिष्ठिरः |
तान्योधानब्रवीत्क्रुद्धो हतैनं वै सहस्रशः ||४५||
ततो राज्ञाभ्यनुज्ञाताः पाण्डवानां महारथाः |
भीमसेनमुखाः सर्वे पुत्रांस्ते प्रत्युपाद्रवन् ||४६||
अभवत्तुमुलः शब्दो योधानां तत्र भारत |
हस्त्यश्वरथपत्तीनां शस्त्राणां च ततस्ततः ||४७||
उत्तिष्ठत प्रहरत प्रैताभिपततेति च |
इति ब्रुवाणा अन्योन्यं जघ्नुर्योधा रणाजिरे ||४८||
अभ्रच्छायेव तत्रासीच्छरवृष्टिभिरम्बरे |
समावृत्तैर्नरवरैर्निघ्नद्भिरितरेतरम् ||४९||
विपताकाध्वजच्छत्रा व्यश्वसूतायुधा रणे |
व्यङ्गाङ्गावयवाः पेतुः क्षितौ क्षीणा हतेश्वराः ||५०||
प्रवराणीव शैलानां शिखराणि द्विपोत्तमाः |
सारोहा निहताः पेतुर्वज्रभिन्ना इवाद्रयः ||५१||
छिन्नभिन्नविपर्यस्तैर्वर्मालङ्कारविग्रहैः |
सारोहास्तुरगाः पेतुर्हतवीराः सहस्रशः ||५२||
विप्रविद्धायुधाङ्गाश्च द्विरदाश्वरथैर्हताः |
प्रतिवीरैश्च संमर्दे पत्तिसङ्घाः सहस्रशः ||५३||
विशालायतताम्राक्षैः पद्मेन्दुसदृशाननैः |
शिरोभिर्युद्धशौण्डानां सर्वतः संस्तृता मही ||५४||
तथा तु वितते व्योम्नि निस्वनं शुश्रुवुर्जनाः |
विमानैरप्सरःसङ्घैर्गीतवादित्रनिस्वनैः ||५५||
हतान्कृत्तानभिमुखान्वीरान्वीरैः सहस्रशः |
आरोप्यारोप्य गच्छन्ति विमानेष्वप्सरोगणाः ||५६||
तद्दृष्ट्वा महदाश्चर्यं प्रत्यक्षं स्वर्गलिप्सया |
प्रहृष्टमनसः शूराः क्षिप्रं जग्मुः परस्परम् ||५७||
रथिनो रथिभिः सार्धं चित्रं युयुधुराहवे |
पत्तयः पत्तिभिर्नागा नागैः सह हयैर्हयाः ||५८||
एवं प्रवृत्ते सङ्ग्रामे गजवाजिजनक्षये |
सैन्ये च रजसा व्याप्ते स्वे स्वाञ्जघ्नुः परे परान् ||५९||
कचाकचि बभौ युद्धं दन्तादन्ति नखानखि |
मुष्टियुद्धं नियुद्धं च देहपाप्मविनाशनम् ||६०||
तथा वर्तति सङ्ग्रामे गजवाजिजनक्षये |
नराश्वगजदेहेभ्यः प्रसृता लोहितापगा ||६१||
नराश्वगजदेहान्सा व्युवाह पतितान्बहून् ||६१||
नराश्वगजसम्बाधे नराश्वगजसादिनाम् |
लोहितोदा महाघोरा नदी लोहितकर्दमा ||६२||
नराश्वगजदेहान्सा वहन्ती भीरुभीषणी ||६२||
तस्याः परमपारं च व्रजन्ति विजयैषिणः |
गाधेन च प्लवन्तश्च निमज्ज्योन्मज्ज्य चापरे ||६३||
ते तु लोहितदिग्धाङ्गा रक्तवर्मायुधाम्बराः |
सस्नुस्तस्यां पपुश्चासृङ्मम्लुश्च भरतर्षभ ||६४||
रथानश्वान्नरान्नागानायुधाभरणानि च |
वसनान्यथ वर्माणि हन्यमानान्हतानपि ||६५||
भूमिं खं द्यां दिशश्चैव प्रायः पश्याम लोहितम् ||६५||
लोहितस्य तु गन्धेन स्पर्शेन च रसेन च |
रूपेण चातिरिक्तेन शब्देन च विसर्पता ||६६||
विषादः सुमहानासीत्प्रायः सैन्यस्य भारत ||६६||
तत्तु विप्रहतं सैन्यं भीमसेनमुखैस्तव |
भूयः समाद्रवन्वीराः सात्यकिप्रमुखा रथाः ||६७||
तेषामापततां वेगमविषह्य महात्मनाम् |
पुत्राणां ते महत्सैन्यमासीद्राजन्पराङ्मुखम् ||६८||
तत्प्रकीर्णरथाश्वेभं नरवाजिसमाकुलम् |
विध्वस्तचर्मकवचं प्रविद्धायुधकार्मुकम् ||६९||
व्यद्रवत्तावकं सैन्यं लोड्यमानं समन्ततः |
सिंहार्दितं महारण्ये यथा गजकुलं तथा ||७०||
३४
सञ्जय उवाच||
तानभिद्रवतो दृष्ट्वा पाण्डवांस्तावकं बलम् |
क्रोशतस्तव पुत्रस्य न स्म राजन्न्यवर्तत ||१||
ततः पक्षात्प्रपक्षाच्च प्रपक्षैश्चापि दक्षिणात् |
उदस्तशस्त्राः कुरवो भीममभ्यद्रवन्रणे ||२||
कर्णोऽपि दृष्ट्वा द्रवतो धार्तराष्ट्रान्पराङ्मुखान् |
हंसवर्णान्हयाग्र्यांस्तान्प्रैषीद्यत्र वृकोदरम् ||३||
ते प्रेषिता महाराज शल्येनाहवशोभिना |
भीमसेनरथं प्राप्य समसज्जन्त वाजिनः ||४||
दृष्ट्वा कर्णं समायान्तं भीमः क्रोधसमन्वितः |
मतिं दध्रे विनाशाय कर्णस्य भरतर्षभ ||५||
सोऽब्रवीत्सात्यकिं वीरं धृष्टद्युम्नं च पार्षतम् |
एनं रक्षत राजानं धर्मात्मानं युधिष्ठिरम् ||६||
संशयान्महतो मुक्तं कथञ्चित्प्रेक्षतो मम ||६||
अग्रतो मे कृतो राजा छिन्नसर्वपरिच्छदः |
दुर्योधनस्य प्रीत्यर्थं राधेयेन दुरात्मना ||७||
अन्तमद्य करिष्यामि तस्य दुःखस्य पार्षत |
हन्ता वास्मि रणे कर्णं स वा मां निहनिष्यति ||८||
सङ्ग्रामेण सुघोरेण सत्यमेतद्ब्रवीमि वः ||८||
राजानमद्य भवतां न्यासभूतं ददामि वै |
अस्य संरक्षणे सर्वे यतध्वं विगतज्वराः ||९||
एवमुक्त्वा महाबाहुः प्रायादाधिरथिं प्रति |
सिंहनादेन महता सर्वाः संनादयन्दिशः ||१०||
दृष्ट्वा त्वरितमायान्तं भीमं युद्धाभिनन्दिनम् |
सूतपुत्रमथोवाच मद्राणामीश्वरो विभुः ||११||
पश्य कर्ण महाबाहुं क्रुद्धं पाण्डवनन्दनम् |
दीर्घकालार्जितं क्रोधं मोक्तुकामं त्वयि ध्रुवम् ||१२||
ईदृशं नास्य रूपं मे दृष्टपूर्वं कदाचन |
अभिमन्यौ हते कर्ण राक्षसे वा घटोत्कचे ||१३||
त्रैलोक्यस्य समस्तस्य शक्तः क्रुद्धो निवारणे |
बिभर्ति यादृशं रूपं कालाग्निसदृशं शुभम् ||१४||
इति ब्रुवति राधेयं मद्राणामीश्वरे नृप |
अभ्यवर्तत वै कर्णं क्रोधदीप्तो वृकोदरः ||१५||
तथागतं तु सम्प्रेक्ष्य भीमं युद्धाभिनन्दिनम् |
अब्रवीद्वचनं शल्यं राधेयः प्रहसन्निव ||१६||
यदुक्तं वचनं मेऽद्य त्वया मद्रजनेश्वर |
भीमसेनं प्रति विभो तत्सत्यं नात्र संशयः ||१७||
एष शूरश्च वीरश्च क्रोधनश्च वृकोदरः |
निरपेक्षः शरीरे च प्राणतश्च बलाधिकः ||१८||
अज्ञातवासं वसता विराटनगरे तदा |
द्रौपद्याः प्रियकामेन केवलं बाहुसंश्रयात् ||१९||
गूढभावं समाश्रित्य कीचकः सगणो हतः ||१९||
सोऽद्य सङ्ग्रामशिरसि संनद्धः क्रोधमूर्च्छितः |
किङ्करोद्यतदण्डेन मृत्युनापि व्रजेद्रणम् ||२०||
चिरकालाभिलषितो ममायं तु मनोरथः |
अर्जुनं समरे हन्यां मां वा हन्याद्धनञ्जयः ||२१||
स मे कदाचिदद्यैव भवेद्भीमसमागमात् ||२१||
निहते भीमसेने तु यदि वा विरथीकृते |
अभियास्यति मां पार्थस्तन्मे साधु भविष्यति ||२२||
अत्र यन्मन्यसे प्राप्तं तच्छीघ्रं सम्प्रधारय ||२२||
एतच्छ्रुत्वा तु वचनं राधेयस्य महात्मनः |
उवाच वचनं शल्यः सूतपुत्रं तथागतम् ||२३||
अभियासि महाबाहो भीमसेनं महाबलम् |
निरस्य भीमसेनं तु ततः प्राप्स्यसि फल्गुनम् ||२४||
यस्ते कामोऽभिलषितश्चिरात्प्रभृति हृद्गतः |
स वै सम्पत्स्यते कर्ण सत्यमेतद्ब्रवीमि ते ||२५||
एवमुक्ते ततः कर्णः शल्यं पुनरभाषत |
हन्ताहमर्जुनं सङ्ख्ये मां वा हन्ता धनञ्जयः ||२६||
युद्धे मनः समाधाय याहि याहीत्यचोदयत् ||२६||
ततः प्रायाद्रथेनाशु शल्यस्तत्र विशां पते |
यत्र भीमो महेष्वासो व्यद्रावयत वाहिनीम् ||२७||
ततस्तूर्यनिनादश्च भेरीणां च महास्वनः |
उदतिष्ठत राजेन्द्र कर्णभीमसमागमे ||२८||
भीमसेनोऽथ सङ्क्रुद्धस्तव सैन्यं दुरासदम् |
नाराचैर्विमलैस्तीक्ष्णैर्दिशः प्राद्रावयद्बली ||२९||
स संनिपातस्तुमुलो भीमरूपो विशां पते |
आसीद्रौद्रो महाराज कर्णपाण्डवयोर्मृधे ||३०||
ततो मुहूर्ताद्राजेन्द्र पाण्डवः कर्णमाद्रवत् ||३०||
तमापतन्तं सम्प्रेक्ष्य कर्णो वैकर्तनो वृषः |
आजघानोरसि क्रुद्धो नाराचेन स्तनान्तरे ||३१||
पुनश्चैनममेयात्मा शरवर्षैरवाकिरत् ||३१||
स विद्धः सूतपुत्रेण छादयामास पत्रिभिः |
विव्याध निशितैः कर्ण नवभिर्नतपर्वभिः ||३२||
तस्य कर्णो धनुर्मध्ये द्विधा चिच्छेद पत्रिणा |
अथ तं छिन्नधन्वानमभ्यविध्यत्स्तनान्तरे ||३३||
नाराचेन सुतीक्ष्णेन सर्वावरणभेदिना ||३३||
सोऽन्यत्कार्मुकमादाय सूतपुत्रं वृकोदरः |
राजन्मर्मसु मर्मज्ञो विद्ध्वा सुनिशितैः शरैः ||३४||
ननाद बलवन्नादं कम्पयन्निव रोदसी ||३४||
तं कर्णः पञ्चविंशत्या नाराचानां समार्दयत् |
मदोत्कटं वने दृप्तमुल्काभिरिव कुञ्जरम् ||३५||
ततः सायकभिन्नाङ्गः पाण्डवः क्रोधमूर्च्छितः |
संरम्भामर्षताम्राक्षः सूतपुत्रवधेच्छया ||३६||
स कार्मुके महावेगं भारसाधनमुत्तमम् |
गिरीणामपि भेत्तारं सायकं समयोजयत् ||३७||
विकृष्य बलवच्चापमा कर्णादतिमारुतिः |
तं मुमोच महेष्वासः क्रुद्धः कर्णजिघांसया ||३८||
स विसृष्टो बलवता बाणो वज्राशनिस्वनः |
अदारयद्रणे कर्णं वज्रवेग इवाचलम् ||३९||
स भीमसेनाभिहतो सूतपुत्रः कुरूद्वह |
निषसाद रथोपस्थे विसञ्ज्ञः पृतनापतिः ||४०||
ततो मद्राधिपो दृष्ट्वा विसञ्ज्ञं सूतनन्दनम् |
अपोवाह रथेनाजौ कर्णमाहवशोभिनम् ||४१||
ततः पराजिते कर्णे धार्तराष्ट्रीं महाचमूम् |
व्यद्रावयद्भीमसेनो यथेन्द्रो दानवीं चमूम् ||४२||
३५
धृतराष्ट्र उवाच||
सुदुष्करमिदं कर्म कृतं भीमेन सञ्जय |
येन कर्णो महाबाहू रथोपस्थे निपातितः ||१||
कर्णो ह्येको रणे हन्ता सृञ्जयान्पाण्डवैः सह |
इति दुर्योधनः सूत प्राब्रवीन्मां मुहुर्मुहुः ||२||
पराजितं तु राधेयं दृष्ट्वा भीमेन संयुगे |
ततः परं किमकरोत्पुत्रो दुर्योधनो मम ||३||
सञ्जय उवाच||
विभ्रान्तं प्रेक्ष्य राधेयं सूतपुत्रं महाहवे |
महत्या सेनया राजन्सोदर्यान्समभाषत ||४||
शीघ्रं गच्छत भद्रं वो राधेयं परिरक्षत |
भीमसेनभयागाधे मज्जन्तं व्यसनार्णवे ||५||
ते तु राज्ञा समादिष्टा भीमसेनजिघांसवः |
अभ्यवर्तन्त सङ्क्रुद्धाः पतङ्गा इव पावकम् ||६||
श्रुतायुर्दुर्धरः क्राथो विवित्सुर्विकटः समः |
निषङ्गी कवची पाशी तथा नन्दोपनन्दकौ ||७||
दुष्प्रधर्षः सुबाहुश्च वातवेगसुवर्चसौ |
धनुर्ग्राहो दुर्मदश्च तथा सत्त्वसमः सहः ||८||
एते रथैः परिवृता वीर्यवन्तो महाबलाः |
भीमसेनं समासाद्य समन्तात्पर्यवारयन् ||९||
ते व्यमुञ्चञ्शरव्रातान्नानालिङ्गान्समन्ततः ||९||
स तैरभ्यर्द्यमानस्तु भीमसेनो महाबलः |
तेषामापततां क्षिप्रं सुतानां ते नराधिप ||१०||
रथैः पञ्चाशता सार्धं पञ्चाशन्न्यहनद्रथान् ||१०||
विवित्सोस्तु ततः क्रुद्धो भल्लेनापाहरच्छिरः |
सकुण्डलशिरस्त्राणं पूर्णचन्द्रोपमं तदा ||११||
भीमेन च महाराज स पपात हतो भुवि ||११||
तं दृष्ट्वा निहतं शूरं भ्रातरः सर्वतः प्रभो |
अभ्यद्रवन्त समरे भीमं भीमपराक्रमम् ||१२||
ततोऽपराभ्यां भल्लाभ्यां पुत्रयोस्ते महाहवे |
जहार समरे प्राणान्भीमो भीमपराक्रमः ||१३||
तौ धरामन्वपद्येतां वातरुग्णाविव द्रुमौ |
विकटश्च समश्चोभौ देवगर्भसमौ नृप ||१४||
ततस्तु त्वरितो भीमः क्राथं निन्ये यमक्षयम् |
नाराचेन सुतीक्ष्णेन स हतो न्यपतद्भुवि ||१५||
हाहाकारस्ततस्तीव्रः सम्बभूव जनेश्वर |
वध्यमानेषु ते राजंस्तदा पुत्रेषु धन्विषु ||१६||
तेषां संलुलिते सैन्ये भीमसेनो महाबलः |
नन्दोपनन्दौ समरे प्रापयद्यमसादनम् ||१७||
ततस्ते प्राद्रवन्भीताः पुत्रास्ते विह्वलीकृताः |
भीमसेनं रणे दृष्ट्वा कालान्तकयमोपमम् ||१८||
पुत्रांस्ते निहतान्दृष्ट्वा सूतपुत्रो महामनाः |
हंसवर्णान्हयान्भूयः प्राहिणोद्यत्र पाण्डवः ||१९||
ते प्रेषिता महाराज मद्रराजेन वाजिनः |
भीमसेनरथं प्राप्य समसज्जन्त वेगिताः ||२०||
स संनिपातस्तुमुलो घोररूपो विशां पते |
आसीद्रौद्रो महाराज कर्णपाण्डवयोर्मृधे ||२१||
दृष्ट्वा मम महाराज तौ समेतौ महारथौ |
आसीद्बुद्धिः कथं नूनमेतदद्य भविष्यति ||२२||
ततो मुहूर्ताद्राजेन्द्र नातिकृच्छ्राद्धसन्निव |
विरथं भीमकर्माणं भीमं कर्णश्चकार ह ||२३||
विरथो भरतश्रेष्ठः प्रहसन्ननिलोपमः |
गदाहस्तो महाबाहुरपतत्स्यन्दनोत्तमात् ||२४||
नागान्सप्तशतान्राजन्नीषादन्तान्प्रहारिणः |
व्यधमत्सहसा भीमः क्रुद्धरूपः परन्तपः ||२५||
दन्तवेष्टेषु नेत्रेषु कम्भेषु स कटेषु च |
मर्मस्वपि च मर्मज्ञो निनदन्व्यधमद्भृशम् ||२६||
ततस्ते प्राद्रवन्भीताः प्रतीपं प्रहिताः पुनः |
महामात्रैस्तमावव्रुर्मेघा इव दिवाकरम् ||२७||
तान्स सप्तशतान्नागान्सारोहायुधकेतनान् |
भूमिष्ठो गदया जघ्ने शरन्मेघानिवानिलः ||२८||
ततः सुबलपुत्रस्य नागानतिबलान्पुनः |
पोथयामास कौन्तेयो द्वापञ्चाशतमाहवे ||२९||
तथा रथशतं साग्रं पत्तींश्च शतशोऽपरान् |
न्यहनत्पाण्डवो युद्धे तापयंस्तव वाहिनीम् ||३०||
प्रताप्यमानं सूर्येण भीमेन च महात्मना |
तव सैन्यं सञ्चुकोच चर्म वह्निगतं यथा ||३१||
ते भीमभयसन्त्रस्तास्तावका भरतर्षभ |
विहाय समरे भीमं दुद्रुवुर्वै दिशो दश ||३२||
रथाः पञ्चशताश्चान्ये ह्रादिनश्चर्मवर्मिणः |
भीममभ्यद्रवंस्तूर्णं शरपूगैः समन्ततः ||३३||
तान्ससूतरथान्सर्वान्सपताकाध्वजायुधान् |
पोथयामास गदया भीमो विष्णुरिवासुरान् ||३४||
ततः शकुनिनिर्दिष्टाः सादिनः शूरसंमताः |
त्रिसाहस्रा ययुर्भीमं शक्त्यृष्टिप्रासपाणयः ||३५||
तान्प्रत्युद्गम्य यवनानश्वारोहान्वरारिहा |
विचरन्विविधान्मार्गान्घातयामास पोथयन् ||३६||
तेषामासीन्महाञ्शब्दस्ताडितानां च सार्वशः |
असिभिश्छिद्यमानानां नडानामिव भारत ||३७||
एवं सुबलपुत्रस्य त्रिसाहस्रान्हयोत्तमान् |
हत्वान्यं रथमास्थाय क्रुद्धो राधेयमभ्ययात् ||३८||
कर्णोऽपि समरे राजन्धर्मपुत्रमरिंदमम् |
शरैः प्रच्छादयामास सारथिं चाप्यपातयत् ||३९||
ततः सम्प्रद्रुतं सङ्ख्ये रथं दृष्ट्वा महारथः |
अन्वधावत्किरन्बाणैः कङ्कपत्रैरजिह्मगैः ||४०||
राजानमभि धावन्तं शरैरावृत्य रोदसी |
क्रुद्धः प्रच्छादयामास शरजालेन मारुतिः ||४१||
संनिवृत्तस्ततस्तूर्णं राधेयः शत्रुकर्शनः |
भीमं प्रच्छादयामास समन्तान्निशितैः शरैः ||४२||
भीमसेनरथव्यग्रं कर्णं भारत सात्यकिः |
अभ्यर्दयदमेयात्मा पार्ष्णिग्रहणकारणात् ||४३||
अभ्यवर्तत कर्णस्तमर्दितोऽपि शरैर्भृशम् ||४३||
तावन्योन्यं समासाद्य वृषभौ सर्वधन्विनाम् |
विसृजन्तौ शरांश्चित्रान्विभ्राजेतां मनस्विनौ ||४४||
ताभ्यां वियति राजेन्द्र विततं भीमदर्शनम् |
क्रौञ्चपृष्ठारुणं रौद्रं बाणजालं व्यदृश्यत ||४५||
नैव सूर्यप्रभां खं वा न दिशः प्रदिशः कुतः |
प्राज्ञासिष्म वयं ताभ्यां शरैर्मुक्तैः सहस्रशः ||४६||
मध्याह्ने तपतो राजन्भास्करस्य महाप्रभाः |
हृताः सर्वाः शरौघैस्तैः कर्णमाधवयोस्तदा ||४७||
सौबलं कृतवर्माणं द्रौणिमाधिरथिं कृपम् |
संसक्तान्पाण्डवैर्दृष्ट्वा निवृत्ताः कुरवः पुनः ||४८||
तेषामापततां शब्दस्तीव्र आसीद्विशां पते |
उद्धूतानां यथा वृष्ट्या सागराणां भयावहः ||४९||
ते सेने भृशसंविग्ने दृष्ट्वान्योन्यं महारणे |
हर्षेण महता युक्ते परिगृह्य परस्परम् ||५०||
ततः प्रववृते युद्धं मध्यं प्राप्ते दिवाकरे |
यादृशं न कदाचिद्धि दृष्टपूर्वं न च श्रुतम् ||५१||
बलौघस्तु समासाद्य बलौघं सहसा रणे |
उपासर्पत वेगेन जलौघ इव सागरम् ||५२||
आसीन्निनादः सुमहान्बलौघानां परस्परम् |
गर्जतां सागरौघाणां यथा स्यान्निस्वनो महान् ||५३||
ते तु सेने समासाद्य वेगवत्यौ परस्परम् |
एकीभावमनुप्राप्ते नद्याविव समागमे ||५४||
ततः प्रववृते युद्धं घोररूपं विशां पते |
कुरूणां पाण्डवानां च लिप्सतां सुमहद्यशः ||५५||
कुरूणां गर्जतां तत्र अविच्छेदकृता गिरः |
श्रूयन्ते विविधा राजन्नामान्युद्दिश्य भारत ||५६||
यस्य यद्धि रणे न्यङ्गं पितृतो मातृतोऽपि वा |
कर्मतः शीलतो वापि स तच्छ्रावयते युधि ||५७||
तान्दृष्ट्वा समरे शूरांस्तर्जयानान्परस्परम् |
अभवन्मे मती राजन्नैषामस्तीति जीवितम् ||५८||
तेषां दृष्ट्वा तु क्रुद्धानां वपूंष्यमिततेजसाम् |
अभवन्मे भयं तीव्रं कथमेतद्भविष्यति ||५९||
ततस्ते पाण्डवा राजन्कौरवाश्च महारथाः |
ततक्षुः सायकैस्तीक्ष्णैर्निघ्नन्तो हि परस्परम् ||६०||
३६
सञ्जय उवाच||
क्षत्रियास्ते महाराज परस्परवधैषिणः |
अन्योन्यं समरे जघ्नुः कृतवैराः परस्परम् ||१||
रथौघाश्च हयौघाश्च नरौघाश्च समन्ततः |
गजौघाश्च महाराज संसक्ताः स्म परस्परम् ||२||
गदानां परिघाणां च कणपानां च सर्पताम् |
प्रासानां भिण्डिपालानां भुशुण्डीनां च सर्वशः ||३||
सम्पातं चान्वपश्याम सङ्ग्रामे भृशदारुणे |
शलभा इव सम्पेतुः समन्ताच्छरवृष्टयः ||४||
नागा नागान्समासाद्य व्यधमन्त परस्परम् |
हया हयांश्च समरे रथिनो रथिनस्तथा ||५||
पत्तयः पत्तिसङ्घैश्च हयसङ्घैर्हयास्तथा ||५||
पत्तयो रथमातङ्गान्रथा हस्त्यश्वमेव च |
नागाश्च समरे त्र्यङ्गं ममृदुः शीघ्रगा नृप ||६||
पततां तत्र शूराणां क्रोशतां च परस्परम् |
घोरमायोधनं जज्ञे पशूनां वैशसं यथा ||७||
रुधिरेण समास्तीर्णा भाति भारत मेदिनी |
शक्रगोपगणाकीर्णा प्रावृषीव यथा धरा ||८||
यथा वा वाससी शुक्ले महारजनरञ्जिते |
बिभृयाद्युवतिः श्यामा तद्वदासीद्वसुन्धरा ||९||
मांसशोणितचित्रेव शातकौम्भमयीव च ||९||
छिन्नानां चोत्तमाङ्गानां बाहूनां चोरुभिः सह |
कुण्डलानां प्रविद्धानां भूषणानां च भारत ||१०||
निष्काणामधिसूत्राणां शरीराणां च धन्विनाम् |
वर्मणां सपताकानां सङ्घास्तत्रापतन्भुवि ||११||
गजान्गजाः समासाद्य विषाणाग्रैरदारयन् |
विषाणाभिहतास्ते च भ्राजन्ते द्विरदा यथा ||१२||
रुधिरेणावसिक्ताङ्गा गैरिकप्रस्रवा इव |
यथा भ्राजन्ति स्यन्दन्तः पर्वता धातुमण्डिताः ||१३||
तोमरान्गजिभिर्मुक्तान्प्रतीपानास्थितान्बहून् |
हस्तैर्विचेरुस्ते नागा बभञ्जुश्चापरे तथा ||१४||
नाराचैश्छिन्नवर्माणो भ्राजन्ते स्म गजोत्तमाः |
हिमागमे महाराज व्यभ्रा इव महीधराः ||१५||
शरैः कनकपुङ्खैस्तु चिता रेजुर्गजोत्तमाः |
उल्काभिः सम्प्रदीप्ताग्राः पर्वता इव मारिष ||१६||
केचिदभ्याहता नागा नागैर्नगनिभा भुवि |
निपेतुः समरे तस्मिन्पक्षवन्त इवाद्रयः ||१७||
अपरे प्राद्रवन्नागाः शल्यार्ता व्रणपीडिताः |
प्रतिमानैश्च कुम्भैश्च पेतुरुर्व्यां महाहवे ||१८||
निषेदुः सिंहवच्चान्ये नदन्तो भैरवान्रवान् |
मम्लुश्च बहवो राजंश्चुकूजुश्चापरे तथा ||१९||
हयाश्च निहता बाणैः स्वर्णभाण्डपरिच्छदाः |
निषेदुश्चैव मम्लुश्च बभ्रमुश्च दिशो दश ||२०||
अपरे कृष्यमाणाश्च विवेष्टन्तो महीतले |
भावान्बहुविधांश्चक्रुस्ताडिताः शरतोमरैः ||२१||
नरास्तु निहता भूमौ कूजन्तस्तत्र मारिष |
दृष्ट्वा च बान्धवानन्ये पितॄनन्ये पितामहान् ||२२||
धावमानान्परांश्चैव दृष्ट्वान्ये तत्र भारत |
गोत्रनामानि ख्यातानि शशंसुरितरेतरम् ||२३||
तेषां छिन्ना महाराज भुजाः कनकभूषणाः |
उद्वेष्टन्ते विवेष्टन्ते पतन्ते चोत्पतन्ति च ||२४||
निपतन्ति तथा भूमौ स्फुरन्ति च सहस्रशः |
वेगांश्चान्ये रणे चक्रुः स्फुरन्त इव पन्नगाः ||२५||
ते भुजा भोगिभोगाभाश्चन्दनाक्ता विशां पते |
लोहितार्द्रा भृशं रेजुस्तपनीयध्वजा इव ||२६||
वर्तमाने तथा घोरे सङ्कुले सर्वतोदिशम् |
अविज्ञाताः स्म युध्यन्ते विनिघ्नन्तः परस्परम् ||२७||
भौमेन रजसा कीर्णे शस्त्रसम्पातसङ्कुले |
नैव स्वे न परे राजन्व्यज्ञायन्त तमोवृते ||२८||
तथा तदभवद्युद्धं घोररूपं भयानकम् |
शोणितोदा महानद्यः प्रसस्रुस्तत्र चासकृत् ||२९||
शीर्षपाषाणसञ्छन्नाः केशशैवलशाद्वलाः |
अस्थिसङ्घातसङ्कीर्णा धनुःशरवरोत्तमाः ||३०||
मांसकर्दमपङ्काश्च शोणितौघाः सुदारुणाः |
नदीः प्रवर्तयामासुर्यमराष्ट्रविवर्धनीः ||३१||
ता नद्यो घोररूपाश्च नयन्त्यो यमसादनम् |
अवगाढा मज्जयन्त्यः क्षत्रस्याजनयन्भयम् ||३२||
क्रव्यादानां नरव्याघ्र नर्दतां तत्र तत्र ह |
घोरमायोधनं जज्ञे प्रेतराजपुरोपमम् ||३३||
उत्थितान्यगणेयानि कबन्धानि समन्ततः |
नृत्यन्ति वै भूतगणाः सन्तृप्ता मांसशोणितैः ||३४||
पीत्वा च शोणितं तत्र वसां पीत्वा च भारत |
मेदोमज्जावसातृप्तास्तृप्ता मांसस्य चैव हि ||३५||
धावमानाश्च दृश्यन्ते काकगृध्रबलास्तथा ||३५||
शूरास्तु समरे राजन्भयं त्यक्त्वा सुदुस्त्यजम् |
योधव्रतसमाख्याताश्चक्रुः कर्माण्यभीतवत् ||३६||
शरशक्तिसमाकीर्णे क्रव्यादगणसङ्कुले |
व्यचरन्त गणैः शूराः ख्यापयन्तः स्वपौरुषम् ||३७||
अन्योन्यं श्रावयन्ति स्म नामगोत्राणि भारत |
पितृनामानि च रणे गोत्रनामानि चाभितः ||३८||
श्रावयन्तो हि बहवस्तत्र योधा विशां पते |
अन्योन्यमवमृद्नन्तः शक्तितोमरपट्टिशैः ||३९||
वर्तमाने तदा युद्धे घोररूपे सुदारुणे |
व्यषीदत्कौरवी सेना भिन्ना नौरिव सागरे ||४०||
३७
सञ्जय उवाच||
वर्तमाने तदा युद्धे क्षत्रियाणां निमज्जने |
गाण्डीवस्य महान्घोषः शुश्रुवे युधि मारिष ||१||
संशप्तकानां कदनमकरोद्यत्र पाण्डवः |
कोसलानां तथा राजन्नारायणबलस्य च ||२||
संशप्तकास्तु समरे शरवृष्टिं समन्ततः |
अपातयन्पार्थमूर्ध्नि जयगृद्धाः प्रमन्यवः ||३||
तां वृष्टिं सहसा राजंस्तरसा धारयन्प्रभुः |
व्यगाहत रणे पार्थो विनिघ्नन्रथिनां वरः ||४||
निगृह्य तु रथानीकं कङ्कपत्रैः शिलाशितैः |
आससाद रणे पार्थः सुशर्माणं महारथम् ||५||
स तस्य शरवर्षाणि ववर्ष रथिनां वरः |
तथा संशप्तकाश्चैव पार्थस्य समरे स्थिताः ||६||
सुशर्मा तु ततः पार्थं विद्ध्वा नवभिराशुगैः |
जनार्दनं त्रिभिर्बाणैरभ्यहन्दक्षिणे भुजे ||७||
ततोऽपरेण भल्लेन केतुं विव्याध मारिष ||७||
स वानरवरो राजन्विश्वकर्मकृतो महान् |
ननाद सुमहन्नादं भीषयन्वै ननर्द च ||८||
कपेस्तु निनदं श्रुत्वा सन्त्रस्ता तव वाहिनी |
भयं विपुलमादाय निश्चेष्टा समपद्यत ||९||
ततः सा शुशुभे सेना निश्चेष्टावस्थिता नृप |
नानापुष्पसमाकीर्णं यथा चैत्ररथं वनम् ||१०||
प्रतिलभ्य ततः सञ्ज्ञां योधास्ते कुरुसत्तम |
अर्जुनं सिषिचुर्बाणैः पर्वतं जलदा इव ||११||
परिवव्रुस्तदा सर्वे पाण्डवस्य महारथम् ||११||
ते हयान्रथचक्रे च रथेषाश्चापि भारत |
निगृह्य बलवत्तूर्णं सिंहनादमथानदन् ||१२||
अपरे जगृहुश्चैव केशवस्य महाभुजौ |
पार्थमन्ये महाराज रथस्थं जगृहुर्मुदा ||१३||
केशवस्तु तदा बाहू विधुन्वन्रणमूर्धनि |
पातयामास तान्सर्वान्दुष्टहस्तीव हस्तिनः ||१४||
ततः क्रुद्धो रणे पार्थः संवृतस्तैर्महारथैः |
निगृहीतं रथं दृष्ट्वा केशवं चाप्यभिद्रुतम् ||१५||
रथारूढांश्च सुबहून्पदातींश्चाप्यपातयत् ||१५||
आसन्नांश्च ततो योधाञ्शरैरासन्नयोधिभिः |
च्यावयामास समरे केशवं चेदमब्रवीत् ||१६||
पश्य कृष्ण महाबाहो संशप्तकगणान्मया |
कुर्वाणान्दारुणं कर्म वध्यमानान्सहस्रशः ||१७||
रथबन्धमिमं घोरं पृथिव्यां नास्ति कश्चन |
यः सहेत पुमाँल्लोके मदन्यो यदुपुङ्गव ||१८||
इत्येवमुक्त्वा बीभत्सुर्देवदत्तमथाधमत् |
पाञ्चजन्यं च कृष्णोऽपि पूरयन्निव रोदसी ||१९||
तं तु शङ्खस्वनं श्रुत्वा संशप्तकवरूथिनी |
सञ्चचाल महाराज वित्रस्ता चाभवद्भृशम् ||२०||
पदबन्धं ततश्चक्रे पाण्डवः परवीरहा |
नागमस्त्रं महाराज सम्प्रोदीर्य मुहुर्मुहुः ||२१||
यानुद्दिश्य रणे पार्थः पदबन्धं चकार ह |
ते बद्धाः पदबन्धेन पाण्डवेन महात्मना ||२२||
निश्चेष्टा अभवन्राजन्नश्मसारमया इव ||२२||
निश्चेष्टांस्तु ततो योधानवधीत्पाण्डुनन्दनः |
यथेन्द्रः समरे दैत्यांस्तारकस्य वधे पुरा ||२३||
ते वध्यमानाः समरे मुमुचुस्तं रथोत्तमम् |
आयुधानि च सर्वाणि विस्रष्टुमुपचक्रमुः ||२४||
ततः सुशर्मा राजेन्द्र गृहीतां वीक्ष्य वाहिनीम् |
सौपर्णमस्त्रं त्वरितः प्रादुश्चक्रे महारथः ||२५||
ततः सुपर्णाः सम्पेतुर्भक्षयन्तो भुजङ्गमान् |
ते वै विदुद्रुवुर्नागा दृष्ट्वा तान्खचरान्नृप ||२६||
बभौ बलं तद्विमुक्तं पदबन्धाद्विशां पते |
मेघवृन्दाद्यथा मुक्तो भास्करस्तापयन्प्रजाः ||२७||
विप्रमुक्तास्तु ते योधाः फल्गुनस्य रथं प्रति |
ससृजुर्बाणसङ्घांश्च शस्त्रसङ्घांश्च मारिष ||२८||
तां महास्त्रमयीं वृष्टिं सञ्छिद्य शरवृष्टिभिः |
व्यवातिष्ठत्ततो योधान्वासविः परवीरहा ||२९||
सुशर्मा तु ततो राजन्बाणेनानतपर्वणा |
अर्जुनं हृदये विद्ध्वा विव्याधान्यैस्त्रिभिः शरैः ||३०||
स गाढविद्धो व्यथितो रथोपस्थ उपाविशत् ||३०||
प्रतिलभ्य ततः सञ्ज्ञां श्वेताश्वः कृष्णसारथिः |
ऐन्द्रमस्त्रममेयात्मा प्रादुश्चक्रे त्वरान्वितः ||३१||
ततो बाणसहस्राणि समुत्पन्नानि मारिष ||३१||
सर्वदिक्षु व्यदृश्यन्त सूदयन्तो नृप द्विपान् |
हयान्रथांश्च समरे शस्त्रैः शतसहस्रशः ||३२||
वध्यमाने ततः सैन्ये विपुला भीः समाविशत् |
संशप्तकगणानां च गोपालानां च भारत ||३३||
न हि कश्चित्पुमांस्तत्र योऽर्जुनं प्रत्ययुध्यत ||३३||
पश्यतां तत्र वीराणामहन्यत महद्बलम् |
हन्यमानमपश्यंश्च निश्चेष्टाः स्म पराक्रमे ||३४||
अयुतं तत्र योधानां हत्वा पाण्डुसुतो रणे |
व्यभ्राजत रणे राजन्विधूमोऽग्निरिव ज्वलन् ||३५||
चतुर्दश सहस्राणि यानि शिष्टानि भारत |
रथानामयुतं चैव त्रिसाहस्राश्च दन्तिनः ||३६||
ततः संशप्तका भूयः परिवव्रुर्धनञ्जयम् |
मर्तव्यमिति निश्चित्य जयं वापि निवर्तनम् ||३७||
तत्र युद्धं महद्ध्यासीत्तावकानां विशां पते |
शूरेण बलिना सार्धं पाण्डवेन किरीटिना ||३८||
३८
सञ्जय उवाच||
कृतवर्मा कृपो द्रौणिः सूतपुत्रश्च मारिष |
उलूकः सौबलश्चैव राजा च सह सोदरैः ||१||
सीदमानां चमूं दृष्ट्वा पाण्डुपुत्रभयार्दिताम् |
समुज्जिहीर्षुर्वेगेन भिन्नां नावमिवार्णवे ||२||
ततो युद्धमतीवासीन्मुहूर्तमिव भारत |
भीरूणां त्रासजननं शूराणां हर्षवर्धनम् ||३||
कृपेण शरवर्षाणि विप्रमुक्तानि संयुगे |
सृञ्जयाः शातयामासुः शलभानां व्रजा इव ||४||
शिखण्डी तु ततः क्रुद्धो गौतमं त्वरितो ययौ |
ववर्ष शरवर्षाणि समन्तादेव ब्राह्मणे ||५||
कृपस्तु शरवर्षं तद्विनिहत्य महास्त्रवित् |
शिखण्डिनं रणे क्रुद्धो विव्याध दशभिः शरैः ||६||
ततः शिखण्डी कुपीतः शरैः सप्तभिराहवे |
कृपं विव्याध सुभृशं कङ्कपत्रैरजिह्मगैः ||७||
ततः कृपः शरैस्तीक्ष्णैः सोऽतिविद्धो महारथः |
व्यश्वसूतरथं चक्रे पार्षतं तु द्विजोत्तमः ||८||
हताश्वात्तु ततो यानादवप्लुत्य महारथः |
चर्मखड्गे च सङ्गृह्य सत्वरं ब्राह्मणं ययौ ||९||
तमापतन्तं सहसा शरैः संनतपर्वभिः |
छादयामास समरे तदद्भुतमिवाभवत् ||१०||
तत्राद्भुतमपश्याम शिलानां प्लवनं यथा |
निश्चेष्टो यद्रणे राजञ्शिखण्डी समतिष्ठत ||११||
कृपेण छादितं दृष्ट्वा नृपोत्तम शिखण्डिनम् |
प्रत्युद्ययौ कृपं तूर्णं धृष्टद्युम्नो महारथः ||१२||
धृष्टद्युम्नं ततो यान्तं शारद्वतरथं प्रति |
प्रतिजग्राह वेगेन कृतवर्मा महारथः ||१३||
युधिष्ठिरमथायान्तं शारद्वतरथं प्रति |
सपुत्रं सहसेनं च द्रोणपुत्रो न्यवारयत् ||१४||
नकुलं सहदेवं च त्वरमाणौ महारथौ |
प्रतिजग्राह ते पुत्रः शरवर्षेण वारयन् ||१५||
भीमसेनं करूषांश्च केकयान्सहसृञ्जयान् |
कर्णो वैकर्तनो युद्धे वारयामास भारत ||१६||
शिखण्डिनस्ततो बाणान्कृपः शारद्वतो युधि |
प्राहिणोत्त्वरया युक्तो दिधक्षुरिव मारिष ||१७||
ताञ्शरान्प्रेषितांस्तेन समन्ताद्धेमभूषणान् |
चिच्छेद खड्गमाविध्य भ्रामयंश्च पुनः पुनः ||१८||
शतचन्द्रं ततश्चर्म गौतमः पार्षतस्य ह |
व्यधमत्सायकैस्तूर्णं तत उच्चुक्रुशुर्जनाः ||१९||
स विचर्मा महाराज खड्गपाणिरुपाद्रवत् |
कृपस्य वशमापन्नो मृत्योरास्यमिवातुरः ||२०||
शारद्वतशरैर्ग्रस्तं क्लिश्यमानं महाबलम् |
चित्रकेतुसुतो राजन्सुकेतुस्त्वरितो ययौ ||२१||
विकिरन्ब्राह्मणं युद्धे बहुभिर्निशितैः शरैः |
अभ्यापतदमेयात्मा गौतमस्य रथं प्रति ||२२||
दृष्ट्वाविषह्यं तं युद्धे ब्राह्मणं चरितव्रतम् |
अपयातस्ततस्तूर्णं शिखण्डी राजसत्तम ||२३||
सुकेतुस्तु ततो राजन्गौतमं नवभिः शरैः |
विद्ध्वा विव्याध सप्तत्या पुनश्चैनं त्रिभिः शरैः ||२४||
अथास्य सशरं चापं पुनश्चिच्छेद मारिष |
सारथिं च शरेणास्य भृशं मर्मण्यताडयत् ||२५||
गौतमस्तु ततः क्रुद्धो धनुर्गृह्य नवं दृढम् |
सुकेतुं त्रिंशता बाणैः सर्वमर्मस्वताडयत् ||२६||
स विह्वलितसर्वाङ्गः प्रचचाल रथोत्तमे |
भूमिचाले यथा वृक्षश्चलत्याकम्पितो भृशम् ||२७||
चलतस्तस्य कायात्तु शिरो ज्वलितकुण्डलम् |
सोष्णीषं सशिरस्त्राणं क्षुरप्रेणान्वपातयत् ||२८||
तच्छिरः प्रापतद्भूमौ श्येनाहृतमिवामिषम् |
ततोऽस्य कायो वसुधां पश्चात्प्राप तदा च्युतः ||२९||
तस्मिन्हते महाराज त्रस्तास्तस्य पदानुगाः |
गौतमं समरे त्यक्त्वा दुद्रुवुस्ते दिशो दश ||३०||
धृष्टद्युम्नं तु समरे संनिवार्य महाबलः |
कृतवर्माब्रवीद्धृष्टस्तिष्ठ तिष्ठेति पार्षतम् ||३१||
तदभूत्तुमुलं युद्धं वृष्णिपार्षतयो रणे |
आमिषार्थे यथा युद्धं श्येनयोर्गृद्धयोर्नृप ||३२||
धृष्टद्युम्नस्तु समरे हार्दिक्यं नवभिः शरैः |
आजघानोरसि क्रुद्धः पीडयन्हृदिकात्मजम् ||३३||
कृतवर्मा तु समरे पार्षतेन दृढाहतः |
पार्षतं सरथं साश्वं छादयामास सायकैः ||३४||
सरथश्छादितो राजन्धृष्टद्युम्नो न दृश्यते |
मेघैरिव परिच्छन्नो भास्करो जलदागमे ||३५||
विधूय तं बाणगणं शरैः कनकभूषणैः |
व्यरोचत रणे राजन्धृष्टद्युम्नः कृतव्रणः ||३६||
ततस्तु पार्षतः क्रुद्धः शस्त्रवृष्टिं सुदारुणाम् |
कृतवर्माणमासाद्य व्यसृजत्पृतनापतिः ||३७||
तामापतन्तीं सहसा शस्त्रवृष्टिं निरन्तराम् |
शरैरनेकसाहस्रैर्हार्दिक्यो व्यधमद्युधि ||३८||
दृष्ट्वा तु दारितां युद्धे शस्त्रवृष्टिं दुरुत्तराम् |
कृतवर्माणमभ्येत्य वारयामास पार्षतः ||३९||
सारथिं चास्य तरसा प्राहिणोद्यमसादनम् |
भल्लेन शितधारेण स हतः प्रापतद्रथात् ||४०||
धृष्टद्युम्नस्तु बलवाञ्जित्वा शत्रुं महारथम् |
कौरवान्समरे तूर्णं वारयामास सायकैः ||४१||
ततस्ते तावका योधा धृष्टद्युम्नमुपाद्रवन् |
सिंहनादरवं कृत्वा ततो युद्धमवर्तत ||४२||
३९
सञ्जय उवाच||
द्रौणिर्युधिष्ठिरं दृष्ट्वा शैनेयेनाभिरक्षितम् |
द्रौपदेयैस्तथा शूरैरभ्यवर्तत हृष्टवत् ||१||
किरन्निषुगणान्घोरान्स्वर्णपुङ्खाञ्शिलाशितान् |
दर्शयन्विविधान्मार्गाञ्शिक्षार्थं लघुहस्तवत् ||२||
ततः खं पूरयामास शरैर्दिव्यास्त्रमन्त्रितैः |
युधिष्ठिरं च समरे पर्यवारयदस्त्रवित् ||३||
द्रौणायनिशरच्छन्नं न प्राज्ञायत किञ्चन |
बाणभूतमभूत्सर्वमायोधनशिरो हि तत् ||४||
बाणजालं दिविष्ठं तत्स्वर्णजालविभूषितम् |
शुशुभे भरतश्रेष्ठ वितानमिव विष्ठितम् ||५||
तेन छन्ने रणे राजन्बाणजालेन भास्वता |
अभ्रच्छायेव सञ्जज्ञे बाणरुद्धे नभस्तले ||६||
तत्राश्चर्यमपश्याम बाणभूते तथाविधे |
न स्म सम्पतते भूमौ दृष्ट्वा द्रौणेः पराक्रमम् ||७||
लाघवं द्रोणपुत्रस्य दृष्ट्वा तत्र महारथाः |
व्यस्मयन्त महाराज न चैनं प्रतिवीक्षितुम् ||८||
शेकुस्ते सर्वराजानस्तपन्तमिव भास्करम् ||८||
सात्यकिर्यतमानस्तु धर्मराजश्च पाण्डवः |
तथेतराणि सैन्यानि न स्म चक्रुः पराक्रमम् ||९||
वध्यमाने ततः सैन्ये द्रौपदेया महारथाः |
सात्यकिर्धर्मराजश्च पाञ्चालाश्चापि सङ्गताः ||१०||
त्यक्त्वा मृत्युभयं घोरं द्रौणायनिमुपाद्रवन् ||१०||
सात्यकिः पञ्चविंशत्या द्रौणिं विद्ध्वा शिलामुखैः |
पुनर्विव्याध नाराचैः सप्तभिः स्वर्णभूषितैः ||११||
युधिष्ठिरस्त्रिसप्तत्या प्रतिविन्ध्यश्च सप्तभिः |
श्रुतकर्मा त्रिभिर्बाणैः श्रुतकीर्तिस्तु सप्तभिः ||१२||
सुतसोमश्च नवभिः शतानीकश्च सप्तभिः |
अन्ये च बहवः शूरा विव्यधुस्तं समन्ततः ||१३||
सोऽतिक्रुद्धस्ततो राजन्नाशीविष इव श्वसन् |
सात्यकिं पञ्चविंशत्या प्राविध्यत शिलाशितैः ||१४||
श्रुतकीर्तिं च नवभिः सुतसोमं च पञ्चभिः |
अष्टभिः श्रुतकर्माणं प्रतिविन्ध्यं त्रिभिः शरैः ||१५||
शतानीकं च नवभिर्धर्मपुत्रं च सप्तभिः ||१५||
अथेतरांस्ततः शूरान्द्वाभ्यां द्वाभ्यामताडयत् |
श्रुतकीर्तेस्तथा चापं चिच्छेद निशितैः शरैः ||१६||
अथान्यद्धनुरादाय श्रुतकीर्तिर्महारथः |
द्रौणायनिं त्रिभिर्विद्ध्वा विव्याधान्यैः शितैः शरैः ||१७||
ततो द्रौणिर्महाराज शरवर्षेण भारत |
छादयामास तत्सैन्यं समन्ताच्च शरैर्नृपान् ||१८||
ततः पुनरमेयात्मा धर्मराजस्य कार्मुकम् |
द्रौणिश्चिच्छेद विहसन्विव्याध च शरैस्त्रिभिः ||१९||
ततो धर्मसुतो राजन्प्रगृह्यान्यन्महद्धनुः |
द्रौणिं विव्याध सप्तत्या बाह्वोरुरसि चार्दयत् ||२०||
सात्यकिस्तु ततः क्रुद्धो द्रौणेः प्रहरतो रणे |
अर्धचन्द्रेण तीक्ष्णेन धनुश्छित्त्वानदद्भृशम् ||२१||
छिन्नधन्वा ततो द्रौणिः शक्त्या शक्तिमतां वरः |
सारथिं पातयामास शैनेयस्य रथाद्द्रुतम् ||२२||
अथान्यद्धनुरादाय द्रोणपुत्रः प्रतापवान् |
शैनेयं शरवर्षेण छादयामास भारत ||२३||
तस्याश्वाः प्रद्रुताः सङ्ख्ये पतिते रथसारथौ |
तत्र तत्रैव धावन्तः समदृश्यन्त भारत ||२४||
युधिष्ठिरपुरोगास्ते द्रौणिं शस्त्रभृतां वरम् |
अभ्यवर्षन्त वेगेन विसृजन्तः शिताञ्शरान् ||२५||
आगच्छमानांस्तान्दृष्ट्वा रौद्ररूपान्परन्तपः |
प्रहसन्प्रतिजग्राह द्रोणपुत्रो महारणे ||२६||
ततः शरशतज्वालः सेनाकक्षं महारथः |
द्रौणिर्ददाह समरे कक्षमग्निर्यथा वने ||२७||
तद्बलं पाण्डुपुत्रस्य द्रोणपुत्रप्रतापितम् |
चुक्षुभे भरतश्रेष्ठ तिमिनेव नदीमुखम् ||२८||
दृष्ट्वा ते च महाराज द्रोणपुत्रपराक्रमम् |
निहतान्मेनिरे सर्वान्पाण्डून्द्रोणसुतेन वै ||२९||
युधिष्ठिरस्तु त्वरितो द्रौणिं श्लिष्य महारथम् |
अब्रवीद्द्रोणपुत्रं तु रोषामर्षसमन्वितः ||३०||
नैव नाम तव प्रीतिर्नैव नाम कृतज्ञता |
यतस्त्वं पुरुषव्याघ्र मामेवाद्य जिघांससि ||३१||
ब्राह्मणेन तपः कार्यं दानमध्ययनं तथा |
क्षत्रियेण धनुर्नाम्यं स भवान्ब्राह्मणब्रुवः ||३२||
मिषतस्ते महाबाहो जेष्यामि युधि कौरवान् |
कुरुष्व समरे कर्म ब्रह्मबन्धुरसि ध्रुवम् ||३३||
एवमुक्तो महाराज द्रोणपुत्रः स्मयन्निव |
युक्तत्वं तच्च सञ्चिन्त्य नोत्तरं किञ्चिदब्रवीत् ||३४||
अनुक्त्वा च ततः किञ्चिच्छरवर्षेण पाण्डवम् |
छादयामास समरे क्रुद्धोऽन्तक इव प्रजाः ||३५||
सञ्छाद्यमानस्तु तदा द्रोणपुत्रेण मारिष |
पार्थोऽपयातः शीघ्रं वै विहाय महतीं चमूम् ||३६||
अपयाते ततस्तस्मिन्धर्मपुत्रे युधिष्ठिरे |
द्रोणपुत्रः स्थितो राजन्प्रत्यादेशान्महात्मनः ||३७||
ततो युधिष्ठिरो राजा त्यक्त्वा द्रौणिं महाहवे |
प्रययौ तावकं सैन्यं युक्तः क्रूराय कर्मणे ||३८||
४०
सञ्जय उवाच||
भीमसेनं सपाञ्चाल्यं चेदिकेकयसंवृतम् |
वैकर्तनः स्वयं रुद्ध्वा वारयामास सायकैः ||१||
ततस्तु चेदिकारूषान्सृञ्जयांश्च महारथान् |
कर्णो जघान सङ्क्रुद्धो भीमसेनस्य पश्यतः ||२||
भीमसेनस्ततः कर्णं विहाय रथसत्तमम् |
प्रययौ कौरवं सैन्यं कक्षमग्निरिव ज्वलन् ||३||
सूतपुत्रोऽपि समरे पाञ्चालान्केकयांस्तथा |
सृञ्जयांश्च महेष्वासान्निजघान सहस्रशः ||४||
संशप्तकेषु पार्थश्च कौरवेषु वृकोदरः |
पाञ्चालेषु तथा कर्णः क्षयं चक्रूर्महारथाः ||५||
ते क्षत्रिया दह्यमानास्त्रिभिस्तैः पावकोपमैः |
जग्मुर्विनाशं समरे राजन्दुर्मन्त्रिते तव ||६||
ततो दुर्योधनः क्रुद्धो नकुलं नवभिः शरैः |
विव्याध भरतश्रेष्ठ चतुरश्चास्य वाजिनः ||७||
ततः पुनरमेयात्मा तव पुत्रो जनाधिपः |
क्षुरेण सहदेवस्य ध्वजं चिच्छेद काञ्चनम् ||८||
नकुलस्तु ततः क्रुद्धस्तव पुत्रं त्रिसप्तभिः |
जघान समरे राजन्सहदेवश्च पञ्चभिः ||९||
तावुभौ भरतश्रेष्ठौ श्रेष्ठौ सर्वधनुष्मताम् |
विव्याधोरसि सङ्क्रुद्धः पञ्चभिः पञ्चभिः शरैः ||१०||
ततोऽपराभ्यां भल्लाभ्यां धनुषी समकृन्तत |
यमयोः प्रहसन्राजन्विव्याधैव च सप्तभिः ||११||
तावन्ये धनुषी श्रेष्ठे शक्रचापनिभे शुभे |
प्रगृह्य रेजतुः शूरौ देवपुत्रसमौ युधि ||१२||
ततस्तौ रभसौ युद्धे भ्रातरौ भ्रातरं नृप |
शरैर्ववर्षतुर्घोरैर्महामेघौ यथाचलम् ||१३||
ततः क्रुद्धो महाराज तव पुत्रो महारथः |
पाण्डुपुत्रौ महेष्वासौ वारयामास पत्रिभिः ||१४||
धनुर्मण्डलमेवास्य दृश्यते युधि भारत |
सायकाश्चैव दृश्यन्ते निश्चरन्तः समन्ततः ||१५||
तस्य सायकसञ्छन्नौ चकाशेतां च पाण्डवौ |
मेघच्छन्नौ यथा व्योम्नि चन्द्रसूर्यौ हतप्रभौ ||१६||
ते तु बाणा महाराज हेमपुङ्खाः शिलाशिताः |
आच्छादयन्दिशः सर्वाः सूर्यस्येवांशवस्तदा ||१७||
बाणभूते ततस्तस्मिन्सञ्छन्ने च नभस्तले |
यमाभ्यां ददृशे रूपं कालान्तकयमोपमम् ||१८||
पराक्रमं तु तं दृष्ट्वा तव सूनोर्महारथाः |
मृत्योरुपान्तिकं प्राप्तौ माद्रीपुत्रौ स्म मेनिरे ||१९||
ततः सेनापती राजन्पाण्डवस्य महात्मनः |
पार्षतः प्रययौ तत्र यत्र राजा सुयोधनः ||२०||
माद्रीपुत्रौ ततः शूरौ व्यतिक्रम्य महारथौ |
धृष्टद्युम्नस्तव सुतं ताडयामास सायकैः ||२१||
तमविध्यदमेयात्मा तव पुत्रोऽत्यमर्षणः |
पाञ्चाल्यं पञ्चविंशत्या प्रहस्य पुरुषर्षभ ||२२||
ततः पुनरमेयात्मा पुत्रस्ते पृथिवीपते |
विद्ध्वा ननाद पाञ्चाल्यं षष्ट्या पञ्चभिरेव च ||२३||
अथास्य सशरं चापं हस्तावापं च मारिष |
क्षुरप्रेण सुतीक्ष्णेन राजा चिच्छेद संयुगे ||२४||
तदपास्य धनुश्छिन्नं पाञ्चाल्यः शत्रुकर्शनः |
अन्यदादत्त वेगेन धनुर्भारसहं नवम् ||२५||
प्रज्वलन्निव वेगेन संरम्भाद्रुधिरेक्षणः |
अशोभत महेष्वासो धृष्टद्युम्नः कृतव्रणः ||२६||
स पञ्चदश नाराचाञ्श्वसतः पन्नगानिव |
जिघांसुर्भरतश्रेष्ठं धृष्टद्युम्नो व्यवासृजत् ||२७||
ते वर्म हेमविकृतं भित्त्वा राज्ञः शिलाशिताः |
विविशुर्वसुधां वेगात्कङ्कबर्हिणवाससः ||२८||
सोऽतिविद्धो महाराज पुत्रस्तेऽतिव्यराजत |
वसन्ते पुष्पशबलः सपुष्प इव किंशुकः ||२९||
स छिन्नवर्मा नाराचैः प्रहारैर्जर्जरच्छविः |
धृष्टद्युम्नस्य भल्लेन क्रुद्धश्चिच्छेद कार्मुकम् ||३०||
अथैनं छिन्नधन्वानं त्वरमाणो महीपतिः |
सायकैर्दशभी राजन्भ्रुवोर्मध्ये समार्दयत् ||३१||
तस्य तेऽशोभयन्वक्त्रं कर्मारपरिमार्जिताः |
प्रफुल्लं चम्पकं यद्वद्भ्रमरा मधुलिप्सवः ||३२||
तदपास्य धनुश्छिन्नं धृष्टद्युम्नो महामनाः |
अन्यदादत्त वेगेन धनुर्भल्लांश्च षोडश ||३३||
ततो दुर्योधनस्याश्वान्हत्वा सूतं च पञ्चभिः |
धनुश्चिच्छेद भल्लेन जातरूपपरिष्कृतम् ||३४||
रथं सोपस्करं छत्रं शक्तिं खड्गं गदां ध्वजम् |
भल्लैश्चिच्छेद नवभिः पुत्रस्य तव पार्षतः ||३५||
तपनीयाङ्गदं चित्रं नागं मणिमयं शुभम् |
ध्वजं कुरुपतेश्छिन्नं ददृशुः सर्वपार्थिवाः ||३६||
दुर्योधनं तु विरथं छिन्नसर्वायुधं रणे |
भ्रातरः पर्यरक्षन्त सोदर्या भरतर्षभ ||३७||
तमारोप्य रथे राजन्दण्डधारो जनाधिपम् |
अपोवाह च सम्भ्रान्तो धृष्टद्युम्नस्य पश्यतः ||३८||
कर्णस्तु सात्यकिं जित्वा राजगृद्धी महाबलः |
द्रोणहन्तारमुग्रेषुं ससाराभिमुखं रणे ||३९||
तं पृष्ठतोऽभ्ययात्तूर्णं शैनेयो वितुदञ्शरैः |
वारणं जघनोपान्ते विषाणाभ्यामिव द्विपः ||४०||
स भारत महानासीद्योधानां सुमहात्मनाम् |
कर्णपार्षतयोर्मध्ये त्वदीयानां महारणः ||४१||
न पाण्डवानां नास्माकं योधः कश्चित्पराङ्मुखः |
प्रत्यदृश्यत यत्कर्णः पाञ्चालांस्त्वरितो ययौ ||४२||
तस्मिन्क्षणे नरश्रेष्ठ गजवाजिनरक्षयः |
प्रादुरासीदुभयतो राजन्मध्यङ्गतेऽहनि ||४३||
पाञ्चालास्तु महाराज त्वरिता विजिगीषवः |
सर्वतोऽभ्यद्रवन्कर्णं पतत्रिण इव द्रुमम् ||४४||
तेषामाधिरथिः क्रुद्धो यतमानान्मनस्विनः |
विचिन्वन्नेव बाणाग्रैः समासादयदग्रतः ||४५||
व्याघ्रकेतुं सुशर्माणं शङ्कुं चोग्रं धनञ्जयम् |
शुक्लं च रोचमानं च सिंहसेनं च दुर्जयम् ||४६||
ते वीरा रथवेगेन परिवव्रुर्नरोत्तमम् |
सृजन्तं सायकान्क्रुद्धं कर्णमाहवशोभिनम् ||४७||
युध्यमानांस्तु ताञ्शूरान्मनुजेन्द्रः प्रतापवान् |
अष्टाभिरष्टौ राधेयो न्यहनन्निशितैः शरैः ||४८||
अथापरान्महाराज सूतपुत्रः प्रतापवान् |
जघान बहुसाहस्रान्योधान्युद्धविशारदः ||४९||
विष्णुं च विष्णुकर्माणं देवापिं भद्रमेव च |
दण्डं च समरे राजंश्चित्रं चित्रायुधं हरिम् ||५०||
सिंहकेतुं रोचमानं शलभं च महारथम् |
निजघान सुसङ्क्रुद्धश्चेदीनां च महारथान् ||५१||
तेषामाददतः प्राणानासीदाधिरथेर्वपुः |
शोणिताभ्युक्षिताङ्गस्य रुद्रस्येवोर्जितं महत् ||५२||
तत्र भारत कर्णेन मातङ्गास्ताडिताः शरैः |
सर्वतोऽभ्यद्रवन्भीताः कुर्वन्तो महदाकुलम् ||५३||
निपेतुरुर्व्यां समरे कर्णसायकपीडिताः |
कुर्वन्तो विविधान्नादान्वज्रनुन्ना इवाचलाः ||५४||
गजवाजिमनुष्यैश्च निपतद्भिः समन्ततः |
रथैश्चावगतैर्मार्गे पर्यस्तीर्यत मेदिनी ||५५||
नैव भीष्मो न च द्रोणो नाप्यन्ये युधि तावकाः |
चक्रुः स्म तादृशं कर्म यादृशं वै कृतं रणे ||५६||
सूतपुत्रेण नागेषु रथेषु च हयेषु च |
नरेषु च नरव्याघ्र कृतं स्म कदनं महत् ||५७||
मृगमध्ये यथा सिंहो दृश्यते निर्भयश्चरन् |
पाञ्चालानां तथा मध्ये कर्णोऽचरदभीतवत् ||५८||
यथा मृगगणांस्त्रस्तान्सिंहो द्रावयते दिशः |
पाञ्चालानां रथव्रातान्कर्णो द्रावयते तथा ||५९||
सिंहास्यं च यथा प्राप्य न जीवन्ति मृगाः क्वचित् |
तथा कर्णमनुप्राप्य न जीवन्ति महारथाः ||६०||
वैश्वानरं यथा दीप्तं दह्यन्ते प्राप्य वै जनाः |
कर्णाग्निना रणे तद्वद्दग्धा भारत सृञ्जयाः ||६१||
कर्णेन चेदिष्वेकेन पाञ्चालेषु च भारत |
विश्राव्य नाम निहता बहवः शूरसंमताः ||६२||
मम चासीन्मनुष्येन्द्र दृष्ट्वा कर्णस्य विक्रमम् |
नैकोऽप्याधिरथेर्जीवन्पाञ्चाल्यो मोक्ष्यते युधि ||६३||
पाञ्चालान्विधमन्सङ्ख्ये सूतपुत्रः प्रतापवान् |
अभ्यधावत सङ्क्रुद्धो धर्मपुत्रं युधिष्ठिरम् ||६४||
धृष्टद्युम्नश्च राजानं द्रौपदेयाश्च मारिष |
परिवव्रुरमित्रघ्नं शतशश्चापरे जनाः ||६५||
शिखण्डी सहदेवश्च नकुलो नाकुलिस्तथा |
जनमेजयः शिनेर्नप्ता बहवश्च प्रभद्रकाः ||६६||
एते पुरोगमा भूत्वा धृष्टद्युम्नस्य संयुगे |
कर्णमस्यन्तमिष्वस्त्रैर्विचेरुरमितौजसः ||६७||
तांस्तत्राधिरथिः सङ्ख्ये चेदिपाञ्चालपाण्डवान् |
एको बहूनभ्यपतद्गरुत्मन्पन्नगानिव ||६८||
भीमसेनस्तु सङ्क्रुद्धः कुरून्मद्रान्सकेकयान् |
एकः सङ्ख्ये महेष्वासो योधयन्बह्वशोभत ||६९||
तत्र मर्मसु भीमेन नाराचैस्ताडिता गजाः |
प्रपतन्तो हतारोहाः कम्पयन्ति स्म मेदिनीम् ||७०||
वाजिनश्च हतारोहाः पत्तयश्च गतासवः |
शेरते युधि निर्भिन्ना वमन्तो रुधिरं बहु ||७१||
सहस्रशश्च रथिनः पतिताः पतितायुधाः |
अक्षताः समदृश्यन्त भीमाद्भीता गतासवः ||७२||
रथिभिर्वाजिभिः सूतैः पत्तिभिश्च तथा गजैः |
भीमसेनशरच्छिन्नैरास्तीर्णा वसुधाभवत् ||७३||
तत्स्तम्भितमिवातिष्ठद्भीमसेनबलार्दितम् |
दुर्योधनबलं राजन्निरुत्साहं कृतव्रणम् ||७४||
निश्चेष्टं तुमुले दीनं बभौ तस्मिन्महारणे |
प्रसन्नसलिलः काले यथा स्यात्सागरो नृप ||७५||
मन्युवीर्यबलोपेतं बलात्पर्यवरोपितम् |
अभवत्तव पुत्रस्य तत्सैन्यमिषुभिस्तदा ||७६||
रुधिरौघपरिक्लिन्नं रुधिरार्द्रं बभूव ह ||७६||
सूतपुत्रो रणे क्रुद्धः पाण्डवानामनीकिनीम् |
भीमसेनः कुरूंश्चापि द्रावयन्बह्वशोभत ||७७||
वर्तमाने तथा रौद्रे सङ्ग्रामेऽद्भुतदर्शने |
निहत्य पृतनामध्ये संशप्तकगणान्बहून् ||७८||
अर्जुनो जयतां श्रेष्ठो वासुदेवमथाब्रवीत् |
प्रभग्नं बलमेतद्धि योत्स्यमानं जनार्दन ||७९||
एते धावन्ति सगणाः संशप्तकमहारथाः |
अपारयन्तो मद्बाणान्सिंहशब्दान्मृगा इव ||८०||
दीर्यते च महत्सैन्यं सृञ्जयानां महारणे |
हस्तिकक्ष्यो ह्यसौ कृष्ण केतुः कर्णस्य धीमतः ||८१||
दृश्यते राजसैन्यस्य मध्ये विचरतो मुहुः ||८१||
न च कर्णं रणे शक्ता जेतुमन्ये महारथाः |
जानीते हि भवान्कर्णं वीर्यवन्तं पराक्रमे ||८२||
तत्र याहि यतः कर्णो द्रावयत्येष नो बलम् |
वर्जयित्वा रणे याहि सूतपुत्रं महारथम् |
श्रमो मा बाधते कृष्ण यथा वा तव रोचते ||८४||
एतच्छ्रुत्वा महाराज गोविन्दः प्रहसन्निव |
अब्रवीदर्जुनं तूर्णं कौरवाञ्जहि पाण्डव ||८५||
ततस्तव महत्सैन्यं गोविन्दप्रेरिता हयाः |
हंसवर्णाः प्रविविशुर्वहन्तः कृष्णपाण्डवौ ||८६||
केशवप्रहितैरश्वैः श्वेतैः काञ्चनभूषणैः |
प्रविशद्भिस्तव बलं चतुर्दिशमभिद्यत ||८७||
तौ विदार्य महासेनां प्रविष्टौ केशवार्जुनौ |
क्रुद्धौ संरम्भरक्ताक्षौ व्यभ्राजेतां महाद्युती ||८८||
युद्धशौण्डौ समाहूतावरिभिस्तौ रणाध्वरम् |
यज्वभिर्विधिनाहूतौ मखे देवाविवाश्विनौ ||८९||
क्रुद्धौ तौ तु नरव्याघ्रौ वेगवन्तौ बभूवतुः |
तलशब्देन रुषितौ यथा नागौ महाहवे ||९०||
विगाहन्स रथानीकमश्वसङ्घांश्च फल्गुनः |
व्यचरत्पृतनामध्ये पाशहस्त इवान्तकः ||९१||
तं दृष्ट्वा युधि विक्रान्तं सेनायां तव भारत |
संशप्तकगणान्भूयः पुत्रस्ते समचोदयत् ||९२||
ततो रथसहस्रेण द्विरदानां त्रिभिः शतैः |
चतुर्दशसहस्रैश्च तुरगाणां महाहवे ||९३||
द्वाभ्यां शतसहस्राभ्यां पदातीनां च धन्विनाम् |
शूराणां नामलब्धानां विदितानां समन्ततः ||९४||
अभ्यवर्तन्त तौ वीरौ छादयन्तो महारथाः ||९४||
स छाद्यमानः समरे शरैः परबलार्दनः |
दर्शयन्रौद्रमात्मानं पाशहस्त इवान्तकः ||९५||
निघ्नन्संशप्तकान्पार्थः प्रेक्षणीयतरोऽभवत् ||९५||
ततो विद्युत्प्रभैर्बाणैः कार्तस्वरविभूषितैः |
निरन्तरमिवाकाशमासीन्नुन्नैः किरीटिना ||९६||
किरीटिभुजनिर्मुक्तैः सम्पतद्भिर्महाशरैः |
समाच्छन्नं बभौ सर्वं काद्रवेयैरिव प्रभो ||९७||
रुक्मपुङ्खान्प्रसन्नाग्राञ्शरान्संनतपर्वणः |
अदर्शयदमेयात्मा दिक्षु सर्वासु पाण्डवः ||९८||
हत्वा दश सहस्राणि पार्थिवानां महारथः |
संशप्तकानां कौन्तेयः प्रपक्षं त्वरितोऽभ्ययात् ||९९||
प्रपक्षं स समासाद्य पार्थः काम्बोजरक्षितम् |
प्रममाथ बलाद्बाणैर्दानवानिव वासवः ||१००||
प्रचिच्छेदाशु भल्लैश्च द्विषतामाततायिनाम् |
शस्त्रपाणींस्तथा बाहूंस्तथापि च शिरांस्युत ||१०१||
अङ्गाङ्गावयवैश्छिन्नैर्व्यायुधास्तेऽपतन्क्षितौ |
विष्वग्वाताभिसम्भग्ना बहुशाखा इव द्रुमाः ||१०२||
हस्त्यश्वरथपत्तीनां व्रातान्निघ्नन्तमर्जुनम् |
सुदक्षिणादवरजः शरवृष्ट्याभ्यवीवृषत् ||१०३||
अस्यास्यतोऽर्धचन्द्राभ्यां स बाहू परिघोपमौ |
पूर्णचन्द्राभवक्त्रं च क्षुरेणाभ्यहनच्छिरः ||१०४||
स पपात ततो वाहात्स्वलोहितपरिस्रवः |
मनःशिलागिरेः शृङ्गं वज्रेणेवावदारितम् ||१०५||
सुदक्षिणादवरजं काम्बोजं ददृशुर्हतम् |
प्रांशुं कमलपत्राक्षमत्यर्थं प्रियदर्शनम् ||१०६||
काञ्चनस्तम्भसङ्काशं भिन्नं हेमगिरिं यथा ||१०६||
ततोऽभवत्पुनर्युद्धं घोरमद्भुतदर्शनम् |
नानावस्थाश्च योधानां बभूवुस्तत्र युध्यताम् ||१०७||
एतेष्वावर्जितैरश्वैः काम्बोजैर्यवनैः शकैः |
शोणिताक्तैस्तदा रक्तं सर्वमासीद्विशां पते ||१०८||
रथै रथाश्वसूतैश्च हतारोहैश्च वाजिभिः |
द्विरदैश्च हतारोहैर्महामात्रैर्हतद्विपैः ||१०९||
अन्योन्येन महाराज कृतो घोरो जनक्षयः ||१०९||
तस्मिन्प्रपक्षे पक्षे च वध्यमाने महात्मना |
अर्जुनं जयतां श्रेष्ठं त्वरितो द्रौणिराययौ ||११०||
विधुन्वानो महच्चापं कार्तस्वरविभूषितम् |
आददानः शरान्घोरान्स्वरश्मीनिव भास्करः ||१११||
तैः पतद्भिर्महाराज द्रौणिमुक्तैः समन्ततः |
सञ्छादितौ रथस्थौ तावुभौ कृष्णधनञ्जयौ ||११२||
ततः शरशतैस्तीक्ष्णैर्भारद्वाजः प्रतापवान् |
निश्चेष्टौ तावुभौ चक्रे युद्धे माधवपाण्डवौ ||११३||
हाहाकृतमभूत्सर्वं जङ्गमं स्थावरं तथा |
चराचरस्य गोप्तारौ दृष्ट्वा सञ्छादितौ शरैः ||११४||
सिद्धचारणसङ्घाश्च सम्पेतुर्वै समन्ततः |
चिन्तयन्तो भवेदद्य लोकानां स्वस्त्यपीत्यह ||११५||
न मया तादृशो राजन्दृष्टपूर्वः पराक्रमः |
सञ्जज्ञे यादृशो द्रौणेः कृष्णौ सञ्छादयिष्यतः ||११६||
द्रौणेस्तु धनुषः शब्दमहितत्रासनं रणे |
अश्रौषं बहुशो राजन्सिंहस्य नदतो यथा ||११७||
ज्या चास्य चरतो युद्धे सव्यदक्षिणमस्यतः |
विद्युदम्बुदमध्यस्था भ्राजमानेव साभवत् ||११८||
स तथा क्षिप्रकारी च दृढहस्तश्च पाण्डवः |
संमोहं परमं गत्वा प्रैक्षत द्रोणजं ततः ||११९||
स विक्रमं हृतं मेने आत्मनः सुमहात्मना |
तथास्य समरे राजन्वपुरासीत्सुदुर्दृशम् ||१२०||
द्रौणिपाण्डवयोरेवं वर्तमाने महारणे |
वर्धमाने च राजेन्द्र द्रोणपुत्रे महाबले ||१२१||
हीयमाने च कौन्तेये कृष्णं रोषः समभ्ययात् ||१२१||
स रोषान्निःश्वसन्राजन्निर्दहन्निव चक्षुषा |
द्रौणिं ह्यपश्यत्सङ्ग्रामे फल्गुनं च मुहुर्मुहुः ||१२२||
ततः क्रुद्धोऽब्रवीत्कृष्णः पार्थं सप्रणयं तदा |
अत्यद्भुतमिदं पार्थ तव पश्यामि संयुगे ||१२३||
अतिशेते हि यत्र त्वा द्रोणपुत्रोऽद्य भारत ||१२३||
कच्चित्ते गाण्डिवं हस्ते रथे तिष्ठसि चार्जुन |
कच्चित्कुशलिनौ बाहू कच्चिद्वीर्यं तदेव ते ||१२४||
एवमुक्तस्तु कृष्णेन क्षिप्त्वा भल्लांश्चतुर्दश |
त्वरमाणस्त्वराकाले द्रौणेर्धनुरथाच्छिनत् ||१२५||
ध्वजं छत्रं पताकां च रथं शक्तिं गदां तथा ||१२५||
जत्रुदेशे च सुभृशं वत्सदन्तैरताडयत् |
स मूर्च्छां परमां गत्वा ध्वजयष्टिं समाश्रितः ||१२६||
तं विसञ्ज्ञं महाराज किरीटिभयपीडितम् |
अपोवाह रणात्सूतो रक्षमाणो धनञ्जयात् ||१२७||
एतस्मिन्नेव काले तु विजयः शत्रुतापनः |
न्यवधीत्तावकं सैन्यं शतशोऽथ सहस्रशः ||१२८||
पश्यतस्तव पुत्रस्य तस्य वीरस्य भारत ||१२८||
एवमेष क्षयो वृत्तस्तावकानां परैः सह |
क्रूरो विशसनो घोरो राजन्दुर्मन्त्रिते तव ||१२९||
संशप्तकांश्च कौन्तेयः कुरूंश्चापि वृकोदरः |
वसुषेणं च पाञ्चालः कृत्स्नेन व्यधमद्रणे ||१३०||
४१
सञ्जय उवाच||
त्वरमाणः पुनः कृष्णः पार्थमभ्यवदच्छनैः |
पश्य कौरव्य राजानमपयातांश्च पाण्डवान् ||१||
कर्णं पश्य महारङ्गे ज्वलन्तमिव पावकम् |
असौ भीमो महेष्वासः संनिवृत्तो रणं प्रति ||२||
तमेतेऽनु निवर्तन्ते धृष्टद्युम्नपुरोगमाः |
पाञ्चालानां सृञ्जयानां पाण्डवानां च यन्मुखम् ||३||
निवृत्तैश्च तथा पार्थैर्भग्नं शत्रुबलं महत् ||३||
कौरवान्द्रवतो ह्येष कर्णो धारयतेऽर्जुन |
अन्तकप्रतिमो वेगे शक्रतुल्यपराक्रमः ||४||
असौ गच्छति कौरव्य द्रौणिरस्त्रभृतां वरः |
तमेष प्रद्रुतः सङ्ख्ये धृष्टद्युम्नो महारथः ||५||
सर्वं व्याचष्ट दुर्धर्षो वासुदेवः किरीटिने |
ततो राजन्प्रादुरासीन्महाघोरो महारणः ||६||
सिंहनादरवाश्चात्र प्रादुरासन्समागमे |
उभयोः सेनयो राजन्मृत्युं कृत्वा निवर्तनम् ||७||
४२
सञ्जय उवाच||
ततः पुनः समाजग्मुरभीताः कुरुसृञ्जयाः |
युधिष्ठिरमुखाः पार्था वैकर्तनमुखा वयम् ||१||
ततः प्रववृते भीमः सङ्ग्रामो लोमहर्षणः |
कर्णस्य पाण्डवानां च यमराष्ट्रविवर्धनः ||२||
तस्मिन्प्रवृत्ते सङ्ग्रामे तुमुले शोणितोदके |
संशप्तकेषु शूरेषु किञ्चिच्छिष्टेषु भारत ||३||
धृष्टद्युम्नो महाराज सहितः सर्वराजभिः |
कर्णमेवाभिदुद्राव पाण्डवाश्च महारथाः ||४||
आगच्छमानांस्तान्सङ्ख्ये प्रहृष्टान्विजयैषिणः |
दधारैको रणे कर्णो जलौघानिव पर्वतः ||५||
तमासाद्य तु ते कर्णं व्यशीर्यन्त महारथाः |
यथाचलं समासाद्य जलौघाः सर्वतोदिशम् ||६||
तयोरासीन्महाराज सङ्ग्रामो लोमहर्षणः ||६||
धृष्टद्युम्नस्तु राधेयं शरेण नतपर्वणा |
ताडयामास सङ्क्रुद्धस्तिष्ठ तिष्ठेति चाब्रवीत् ||७||
विजयं तु धनुःश्रेष्ठं विधुन्वानो महारथः |
पार्षतस्य धनुश्छित्त्वा शरानाशीविषोपमान् ||८||
ताडयामास सङ्क्रुद्धः पार्षतं नवभिः शरैः ||८||
ते वर्म हेमविकृतं भित्त्वा तस्य महात्मनः |
शोणिताक्ता व्यराजन्त शक्रगोपा इवानघ ||९||
तदपास्य धनुश्छिन्नं धृष्टद्युम्नो महारथः |
अन्यद्धनुरुपादाय शरांश्चाशीविषोपमान् ||१०||
कर्णं विव्याध सप्तत्या शरैः संनतपर्वभिः ||१०||
तथैव राजन्कर्णोऽपि पार्षतं शत्रुतापनम् |
द्रोणशत्रुं महेष्वासो विव्याध निशितैः शरैः ||११||
तस्य कर्णो महाराज शरं कनकभूषणम् |
प्रेषयामास सङ्क्रुद्धो मृत्युदण्डमिवापरम् ||१२||
तमापतन्तं सहसा घोररूपं विशां पते |
चिच्छेद सप्तधा राजञ्शैनेयः कृतहस्तवत् ||१३||
दृष्ट्वा विनिहितं बाणं शरैः कर्णो विशां पते |
सात्यकिं शरवर्षेण समन्तात्पर्यवारयत् ||१४||
विव्याध चैनं समरे नाराचैस्तत्र सप्तभिः |
तं प्रत्यविध्यच्छैनेयः शरैर्हेमविभूषितैः ||१५||
ततो युद्धमतीवासीच्चक्षुःश्रोत्रभयावहम् |
राजन्घोरं च चित्रं च प्रेक्षणीयं समन्ततः ||१६||
सर्वेषां तत्र भूतानां लोमहर्षो व्यजायत |
तद्दृष्ट्वा समरे कर्म कर्णशैनेययोर्नृप ||१७||
एतस्मिन्नन्तरे द्रौणिरभ्ययात्सुमहाबलम् |
पार्षतं शत्रुदमनं शत्रुवीर्यासुनाशनम् ||१८||
अभ्यभाषत सङ्क्रुद्धो द्रौणिर्दूरे धनञ्जये |
तिष्ठ तिष्ठाद्य ब्रह्मघ्न न मे जीवन्विमोक्ष्यसे ||१९||
इत्युक्त्वा सुभृशं वीरः शीघ्रकृन्निशितैः शरैः |
पार्षतं छादयामास घोररूपैः सुतेजनैः ||२०||
यतमानं परं शक्त्या यतमानो महारथः ||२०||
यथा हि समरे द्रौणिः पार्षतं वीक्ष्य मारिष |
तथा द्रौणिं रणे दृष्ट्वा पार्षतः परवीरहा ||२१||
नातिहृष्टमना भूत्वा मन्यते मृत्युमात्मनः ||२१||
द्रौणिस्तु दृष्ट्वा राजेन्द्र धृष्टद्युम्नं रणे स्थितम् |
क्रोधेन निःश्वसन्वीरः पार्षतं समुपाद्रवत् ||२२||
तावन्योन्यं तु दृष्ट्वैव संरम्भं जग्मतुः परम् ||२२||
अथाब्रवीन्महाराज द्रोणपुत्रः प्रतापवान् |
धृष्टद्युम्नं समीपस्थं त्वरमाणो विशां पते ||२३||
पाञ्चालापसदाद्य त्वां प्रेषयिष्यामि मृत्यवे ||२३||
पापं हि यत्त्वया कर्म घ्नता द्रोणं पुरा कृतम् |
अद्य त्वा पत्स्यते तद्वै यथा ह्यकुशलं तथा ||२४||
अरक्ष्यमाणः पार्थेन यदि तिष्ठसि संयुगे |
नापक्रमसि वा मूढ सत्यमेतद्ब्रवीमि ते ||२५||
एवमुक्तः प्रत्युवाच धृष्टद्युम्नः प्रतापवान् |
प्रतिवाक्यं स एवासिर्मामको दास्यते तव ||२६||
येनैव ते पितुर्दत्तं यतमानस्य संयुगे ||२६||
यदि तावन्मया द्रोणो निहतो ब्राह्मणब्रुवः |
त्वामिदानीं कथं युद्धे न हनिष्यामि विक्रमात् ||२७||
एवमुक्त्वा महाराज सेनापतिरमर्षणः |
निशितेनाथ बाणेन द्रौणिं विव्याध पार्षतः ||२८||
ततो द्रोणिः सुसङ्क्रुद्धः शरैः संनतपर्वभिः |
प्राच्छादयद्दिशो राजन्धृष्टद्युम्नस्य संयुगे ||२९||
नैवान्तरिक्षं न दिशो नैव योधाः समन्ततः |
दृश्यन्ते वै महाराज शरैश्छन्नाः सहस्रशः ||३०||
तथैव पार्षतो राजन्द्रौणिमाहवशोभिनम् |
शरैः सञ्छादयामास सूतपुत्रस्य पश्यतः ||३१||
राधेयोऽपि महाराज पाञ्चालान्सह पाण्डवैः |
द्रौपदेयान्युधामन्युं सात्यकिं च महारथम् ||३२||
एकः स वारयामास प्रेक्षणीयः समन्ततः ||३२||
धृष्टद्युम्नोऽपि समरे द्रौणेश्चिच्छेद कार्मुकम् |
तदपास्य धनुश्छिन्नमन्यदादत्त कार्मुकम् ||३३||
वेगवत्समरे घोरं शरांश्चाशीविषोपमान् ||३३||
स पार्षतस्य राजेन्द्र धनुः शक्तिं गदां ध्वजम् |
हयान्सूतं रथं चैव निमेषाद्व्यधमच्छरैः ||३४||
स छिन्नधन्वा विरथो हताश्वो हतसारथिः |
खड्गमादत्त विपुलं शतचन्द्रं च भानुमत् ||३५||
द्रौणिस्तदपि राजेन्द्र भल्लैः क्षिप्रं महारथः |
चिच्छेद समरे वीरः क्षिप्रहस्तो दृढायुधः ||३६||
रथादनवरूढस्य तदद्भुतमिवाभवत् ||३६||
धृष्टद्युम्नं तु विरथं हताश्वं छिन्नकार्मुकम् |
शरैश्च बहुधा विद्धमस्त्रैश्च शकलीकृतम् ||३७||
नातरद्भरतश्रेष्ठ यतमानो महारथः ||३७||
तस्यान्तमिषुभी राजन्यदा द्रौणिर्न जग्मिवान् |
अथ त्यक्त्वा धनुर्वीरः पार्षतं त्वरितोऽन्वगात् ||३८||
आसीदाद्रवतो राजन्वेगस्तस्य महात्मनः |
गरुडस्येव पततो जिघृक्षोः पन्नगोत्तमम् ||३९||
एतस्मिन्नेव काले तु माधवोऽर्जुनमब्रवीत् |
पश्य पार्थ यथा द्रौणिः पार्षतस्य वधं प्रति ||४०||
यत्नं करोति विपुलं हन्याच्चैनमसंशयम् ||४०||
तं मोचय महाबाहो पार्षतं शत्रुतापनम् |
द्रौणेरास्यमनुप्राप्तं मृत्योरास्यगतं यथा ||४१||
एवमुक्त्वा महाराज वासुदेवः प्रतापवान् |
प्रैषयत्तत्र तुरगान्यत्र द्रौणिर्व्यवस्थितः ||४२||
ते हयाश्चन्द्रसङ्काशाः केशवेन प्रचोदिताः |
पिबन्त इव तद्व्योम जग्मुर्द्रौणिरथं प्रति ||४३||
दृष्ट्वायान्तौ महावीर्यावुभौ कृष्णधनञ्जयौ |
धृष्टद्युम्नवधे राजंश्चक्रे यत्नं महाबलः ||४४||
विकृष्यमाणं दृष्ट्वैव धृष्टद्युम्नं जनेश्वर |
शरांश्चिक्षेप वै पार्थो द्रौणिं प्रति महाबलः ||४५||
ते शरा हेमविकृता गाण्डीवप्रेषिता भृशम् |
द्रौणिमासाद्य विविशुर्वल्मीकमिव पन्नगाः ||४६||
स विध्वस्तैः शरैर्घोरैर्द्रोणपुत्रः प्रतापवान् |
रथमारुरुहे वीरो धनञ्जयशरार्दितः ||४७||
प्रगृह्य च धनुः श्रेष्ठं पार्थं विव्याध सायकैः ||४७||
एतस्मिन्नन्तरे वीरः सहदेवो जनाधिप |
अपोवाह रथेनाजौ पार्षतं शत्रुतापनम् ||४८||
अर्जुनोऽपि महाराज द्रौणिं विव्याध पत्रिभिः |
तं द्रोणपुत्रः सङ्क्रुद्धो बाह्वोरुरसि चार्दयत् ||४९||
क्रोधितस्तु रणे पार्थो नाराचं कालसंमितम् |
द्रोणपुत्राय चिक्षेप कालदण्डमिवापरम् ||५०||
स ब्राह्मणस्यांसदेशे निपपात महाद्युतिः ||५०||
स विह्वलो महाराज शरवेगेन संयुगे |
निषसाद रथोपस्थे वैक्लव्यं च परं ययौ ||५१||
ततः कर्णो महाराज व्याक्षिपद्विजयं धनुः |
अर्जुनं समरे क्रुद्धः प्रेक्षमाणो मुहुर्मुहुः ||५२||
द्वैरथं चापि पार्थेन कामयानो महारणे ||५२||
तं तु हित्वा हतं वीरं सारथिः शत्रुकर्शनम् |
अपोवाह रथेनाजौ त्वरमाणो रणाजिरात् ||५३||
अथोत्क्रुष्टं महाराज पाञ्चालैर्जितकाशिभिः |
मोक्षितं पार्षतं दृष्ट्वा द्रोणपुत्रं च पीडितम् ||५४||
वादित्राणि च दिव्यानि प्रावाद्यन्त सहस्रशः |
सिंहनादश्च सञ्जज्ञे दृष्ट्वा घोरं महाद्भुतम् ||५५||
एवं कृत्वाब्रवीत्पार्थो वासुदेवं धनञ्जयः |
याहि संशप्तकान्कृष्ण कार्यमेतत्परं मम ||५६||
ततः प्रयातो दाशार्हः श्रुत्वा पाण्डवभाषितम् |
रथेनातिपताकेन मनोमारुतरंहसा ||५७||
४३
सञ्जय उवाच||
एतस्मिन्नन्तरे कृष्णः पार्थं वचनमब्रवीत् |
दर्शयन्निव कौन्तेयं धर्मराजं युधिष्ठिरम् ||१||
एष पाण्डव ते भ्राता धार्तराष्ट्रैर्महाबलैः |
जिघांसुभिर्महेष्वासैर्द्रुतं पार्थानुसर्यते ||२||
तथानुयान्ति संरब्धाः पाञ्चाला युद्धदुर्मदाः |
युधिष्ठिरं महात्मानं परीप्सन्तो महाजवाः ||३||
एष दुर्योधनः पार्थ रथानीकेन दंशितः |
राजा सर्वस्य लोकस्य राजानमनुधावति ||४||
जिघांसुः पुरुषव्याघ्रं भ्रातृभिः सहितो बली |
आशीविषसमस्पर्शैः सर्वयुद्धविशारदैः ||५||
एते जिघृक्षवो यान्ति द्विपाश्वरथपत्तयः |
युधिष्ठिरं धार्तराष्ट्रा रत्नोत्तममिवार्थिनः ||६||
पश्य सात्वतभीमाभ्यां निरुद्धाधिष्ठितः प्रभुः |
जिहीर्षवोऽमृतं दैत्याः शक्राग्निभ्यामिवावशाः ||७||
एते बहुत्वात्त्वरिताः पुनर्गच्छन्ति पाण्डवम् |
समुद्रमिव वार्योघाः प्रावृट्काले महारथाः ||८||
नदन्तः सिंहनादांश्च धमन्तश्चापि वारिजान् |
बलवन्तो महेष्वासा विधुन्वन्तो धनूंषि च ||९||
मृत्योर्मुखगतं मन्ये कुन्तीपुत्रं युधिष्ठिरम् |
हुतमग्नौ च भद्रं ते दुर्योधनवशं गतम् ||१०||
यथायुक्तमनीकं हि धार्तराष्ट्रस्य पाण्डव |
नास्य शक्रोऽपि मुच्येत सम्प्राप्तो बाणगोचरम् ||११||
दुर्योधनस्य शूरस्य द्रौणेः शारद्वतस्य च |
कर्णस्य चेषुवेगो वै पर्वतानपि दारयेत् ||१२||
दुर्योधनस्य शूरस्य शरौघाञ्शीघ्रमस्यतः |
सङ्क्रुद्धस्यान्तकस्येव को वेगं संसहेद्रणे ||१३||
कर्णेन च कृतो राजा विमुखः शत्रुतापनः |
बलवाँल्लघुहस्तश्च कृती युद्धविशारदः ||१४||
राधेयः पाण्डवश्रेष्ठं शक्तः पीडयितुं रणे |
सहितो धृतराष्ट्रस्य पुत्रैः शूरो महात्मभिः ||१५||
तस्यैवं युध्यमानस्य सङ्ग्रामे संयतात्मनः |
अन्यैरपि च पार्थस्य हृतं वर्म महारथैः ||१६||
उपवासकृशो राजा भृशं भरतसत्तम |
ब्राह्मे बले स्थितो ह्येष न क्षत्रेऽतिबले विभो ||१७||
न जीवति महाराजो मन्ये पार्थ युधिष्ठिरः |
यद्भीमसेनः सहते सिंहनादममर्षणः ||१८||
नर्दतां धार्तराष्ट्राणां पुनः पुनररिंदम |
धमतां च महाशङ्खान्सङ्ग्रामे जितकाशिनाम् ||१९||
युधिष्ठिरं पाण्डवेयं हतेति भरतर्षभ |
सञ्चोदयत्यसौ कर्णो धार्तराष्ट्रान्महाबलान् ||२०||
स्थूणाकर्णेन्द्रजालेन पार्थ पाशुपतेन च |
प्रच्छादयन्तो राजानमनुयान्ति महारथाः ||२१||
आतुरो मे मतो राजा संनिषेव्यश्च भारत ||२१||
यथैनमनुवर्तन्ते पाञ्चालाः सह पाण्डवैः |
त्वरमाणास्त्वराकाले सर्वशस्त्रभृतां वराः ||२२||
मज्जन्तमिव पाताले बलिनोऽप्युज्जिहीर्षवः ||२२||
न केतुर्दृश्यते राज्ञः कर्णेन निहतः शरैः |
पश्यतोर्यमयोः पार्थ सात्यकेश्च शिखण्डिनः ||२३||
धृष्टद्युम्नस्य भीमस्य शतानीकस्य वा विभो |
पाञ्चालानां च सर्वेषां चेदीनां चैव भारत ||२४||
एष कर्णो रणे पार्थ पाण्डवानामनीकिनीम् |
शरैर्विध्वंसयति वै नलिनीमिव कुञ्जरः ||२५||
एते द्रवन्ति रथिनस्त्वदीयाः पाण्डुनन्दन |
पश्य पश्य यथा पार्थ गच्छन्त्येते महारथाः ||२६||
एते भारत मातङ्गाः कर्णेनाभिहता रणे |
आर्तनादान्विकुर्वाणा विद्रवन्ति दिशो दश ||२७||
रथानां द्रवतां वृन्दं पश्य पार्थ समन्ततः |
द्राव्यमाणं रणे चैव कर्णेनामित्रकर्शिना ||२८||
हस्तिकक्ष्यां रणे पश्य चरन्तीं तत्र तत्र ह |
रथस्थं सूतपुत्रस्य केतुं केतुमतां वर ||२९||
असौ धावति राधेयो भीमसेनरथं प्रति |
किरञ्शरशतानीव विनिघ्नंस्तव वाहिनीम् ||३०||
एतान्पश्य च पाञ्चालान्द्राव्यमाणान्महात्मना |
शक्रेणेव यथा दैत्यान्हन्यमानान्महाहवे ||३१||
एष कर्णो रणे जित्वा पाञ्चालान्पाण्डुसृञ्जयान् |
दिशो विप्रेक्षते सर्वास्त्वदर्थमिति मे मतिः ||३२||
पश्य पार्थ धनुः श्रेष्ठं विकर्षन्साधु शोभते |
शत्रूञ्जित्वा यथा शक्रो देवसङ्घैः समावृतः ||३३||
एते नदन्ति कौरव्या दृष्ट्वा कर्णस्य विक्रमम् |
त्रासयन्तो रणे पार्थान्सृञ्जयांश्च सहस्रशः ||३४||
एष सर्वात्मना पाण्डूंस्त्रासयित्वा महारणे |
अभिभाषति राधेयः सर्वसैन्यानि मानदः ||३५||
अभिद्रवत गच्छध्वं द्रुतं द्रवत कौरवाः |
यथा जीवन्न वः कश्चिन्मुच्यते युधि सृञ्जयः ||३६||
तथा कुरुत संयत्ता वयं यास्याम पृष्ठतः |
एवमुक्त्वा ययावेष पृष्ठतो विकिरञ्शरैः ||३७||
पश्य कर्णं रणे पार्थ श्वेतच्छविविराजितम् |
उदयं पर्वतं यद्वच्छोभयन्वै दिवाकरः ||३८||
पूर्णचन्द्रनिकाशेन मूर्ध्नि छत्रेण भारत |
ध्रियमाणेन समरे तथा शतशलाकिना ||३९||
एष त्वां प्रेक्षते कर्णः सकटाक्षो विशां पते |
उत्तमं यत्नमास्थाय ध्रुवमेष्यति संयुगे ||४०||
पश्य ह्येनं महाबाहो विधुन्वानं महद्धनुः |
शरांश्चाशीविषाकारान्विसृजन्तं महाबलम् ||४१||
असौ निवृत्तो राधेयो दृश्यते वानरध्वज |
वधाय चात्मनोऽभ्येति दीपस्य शलभो यथा ||४२||
कर्णमेकाकिनं दृष्ट्वा रथानीकेन भारत |
रिरक्षिषुः सुसंयत्तो धार्तराष्ट्रोऽभिवर्तते ||४३||
सार्वैः सहैभिर्दुष्टात्मा वध्य एष प्रयत्नतः |
त्वया यशश्च राज्यं च सुखं चोत्तममिच्छता ||४४||
आत्मानं च कृतात्मानं समीक्ष्य भरतर्षभ |
कृतागसं च राधेयं धर्मात्मनि युधिष्ठिरे ||४५||
प्रतिपद्यस्व राधेयं प्राप्तकालमनन्तरम् |
आर्यां युद्धे मतिं कृत्वा प्रत्येहि रथयूथपम् ||४६||
पञ्च ह्येतानि मुख्यानां रथानां रथसत्तम |
शतान्यायान्ति वेगेन बलिनां भीमतेजसाम् ||४७||
पञ्च नागसहस्राणि द्विगुणा वाजिनस्तथा |
अभिसंहत्य कौन्तेय पदातिप्रयुतानि च ||४८||
अन्योन्यरक्षितं वीर बलं त्वामभिवर्तते ||४८||
सूतपुत्रे महेष्वासे दर्शयात्मानमात्मना |
उत्तमं यत्नमास्थाय प्रत्येहि भरतर्षभ ||४९||
असौ कर्णः सुसंरब्धः पाञ्चालानभिधावति |
केतुमस्य हि पश्यामि धृष्टद्युम्नरथं प्रति ||५०||
समुच्छेत्स्यति पाञ्चालानिति मन्ये परन्तप ||५०||
आचक्षे ते प्रियं पार्थ तदेवं भरतर्षभ |
राजा जीवति कौरव्यो धर्मपुत्रो युधिष्ठिरः ||५१||
असौ भिमो महाबाहुः संनिवृत्तश्चमूमुखे |
वृतः सृञ्जयसैन्येन सात्यकेन च भारत ||५२||
वध्यन्त एते समरे कौरवा निशितैः शरैः |
भीमसेनेन कौन्तेय पाञ्चालैश्च महात्मभिः ||५३||
सेना हि धार्तराष्ट्रस्य विमुखा चाभवद्रणात् |
विप्रधावति वेगेन भीमस्य निहता शरैः ||५४||
विपन्नसस्येव मही रुधिरेण समुक्षिता |
भारती भरतश्रेष्ठ सेना कृपणदर्शना ||५५||
निवृत्तं पश्य कौन्तेय भीमसेनं युधां पतिम् |
आशीविषमिव क्रुद्धं तस्माद्द्रवति वाहिनी ||५६||
पीतरक्तासितसितास्ताराचन्द्रार्कमण्डिताः |
पताका विप्रकीर्यन्ते छत्राण्येतानि चार्जुन ||५७||
सौवर्णा राजताश्चैव तैजसाश्च पृथग्विधाः |
केतवो विनिपात्यन्ते हस्त्यश्वं विप्रकीर्यते ||५८||
रथेभ्यः प्रपतन्त्येते रथिनो विगतासवः |
नानावर्णैर्हता बाणैः पाञ्चालैरपलायिभिः ||५९||
निर्मनुष्यान्गजानश्वान्रथांश्चैव धनञ्जय |
समाद्रवन्ति पाञ्चाला धार्तराष्ट्रांस्तरस्विनः ||६०||
मृद्नन्ति च नरव्याघ्रा भीमसेनव्यपाश्रयात् |
बलं परेषां दुर्धर्षं त्यक्त्वा प्राणानरिंदम ||६१||
एते नदन्ति पाञ्चाला धमन्त्यपि च वारिजान् |
अभिद्रवन्ति च रणे निघ्नन्तः सायकैः परान् ||६२||
पश्य स्वर्गस्य माहात्म्यं पाञ्चाला हि परन्तप |
धार्तराष्ट्रान्विनिघ्नन्ति क्रुद्धाः सिंहा इव द्विपान् ||६३||
सर्वतश्चाभिपन्नैषा धार्तराष्ट्री महाचमूः |
पाञ्चालैर्मानसादेत्य हंसैर्गङ्गेव वेगितैः ||६४||
सुभृशं च पराक्रान्ताः पाञ्चालानां निवारणे |
कृपकर्णादयो वीरा ऋषभाणामिवर्षभाः ||६५||
सुनिमग्नांश्च भीमास्त्रैर्धार्तराष्ट्रान्महारथान् |
धृष्टद्युम्नमुखा वीरा घ्नन्ति शत्रून्सहस्रशः ||६६||
विषण्णभूयिष्ठरथा धार्तराष्ट्री महाचमूः ||६६||
पश्य भीमेन नाराचैश्छिन्ना नागाः पतन्त्यमी |
वज्रिवज्राहतानीव शिखराणि महीभृताम् ||६७||
भीमसेनस्य निर्विद्धा बाणैः संनतपर्वभिः |
स्वान्यनीकानि मृद्नन्तो द्रवन्त्येते महागजाः ||६८||
नाभिजानासि भीमस्य सिंहनादं दुरुत्सहम् |
नदतोऽर्जुन सङ्ग्रामे वीरस्य जितकाशिनः ||६९||
एष नैषादिरभ्येति द्विपमुख्येन पाण्डवम् |
जिघांसुस्तोमरैः क्रुद्धो दण्डपाणिरिवान्तकः ||७०||
सतोमरावस्य भुजौ छिन्नौ भीमेन गर्जतः |
तीक्ष्णैरग्निशिखाप्रख्यैर्नाराचैर्दशभिर्हतः ||७१||
हत्वैनं पुनरायाति नागानन्यान्प्रहारिणः |
पश्य नीलाम्बुदनिभान्महामात्रैरधिष्ठितान् ||७२||
शक्तितोमरसङ्काशैर्विनिघ्नन्तं वृकोदरम् ||७२||
सप्त सप्त च नागांस्तान्वैजयन्तीश्च सध्वजाः |
निहत्य निशितैर्बाणैश्छिन्नाः पार्थाग्रजेन ते ||७३||
दशभिर्दशभिश्चैको नाराचैर्निहतो गजः ||७३||
न चासौ धार्तराष्ट्राणां श्रूयते निनदस्तथा |
पुरंदरसमे क्रुद्धे निवृत्ते भरतर्षभे ||७४||
अक्षौहिण्यस्तथा तिस्रो धार्तराष्ट्रस्य संहताः |
क्रुद्धेन नरसिंहेन भीमसेनेन वारिताः ||७५||
सञ्जय उवाच||
भीमसेनेन तत्कर्म कृतं दृष्ट्वा सुदुष्करम् |
अर्जुनो व्यधमच्छिष्टानहितान्निशितैः शरैः ||७६||
ते वध्यमानाः समरे संशप्तकगणाः प्रभो |
शक्रस्यातिथितां गत्वा विशोका ह्यभवन्मुदा ||७७||
पार्थश्च पुरुषव्याघ्रः शरैः संनतपर्वभिः |
जघान धार्तराष्ट्रस्य चतुर्विधबलां चमूम् ||७८||
४४
धृतराष्ट्र उवाच||
निवृत्ते भीमसेने च पाण्डवे च युधिष्ठिरे |
वध्यमाने बले चापि मामके पाण्डुसृञ्जयैः ||१||
द्रवमाणे बलौघे च निराक्रन्दे मुहुर्मुहुः |
किमकुर्वन्त कुरवस्तन्ममाचक्ष्व सञ्जय ||२||
सञ्जय उवाच||
दृष्ट्वा भीमं महाबाहुं सूतपुत्रः प्रतापवान् |
क्रोधरक्तेक्षणो राजन्भीमसेनमुपाद्रवत् ||३||
तावकं च बलं दृष्ट्वा भीमसेनात्पराङ्मुखम् |
यत्नेन महता राजन्पर्यवस्थापयद्बली ||४||
व्यवस्थाप्य महाबाहुस्तव पुत्रस्य वाहिनीम् |
प्रत्युद्ययौ तदा कर्णः पाण्डवान्युद्धदुर्मदान् ||५||
प्रत्युद्ययुस्तु राधेयं पाण्डवानां महारथाः |
धुन्वानाः कार्मुकाण्याजौ विक्षिपन्तश्च सायकान् ||६||
भीमसेनः शिनेर्नप्ता शिखण्डी जनमेजयः |
धृष्टद्युम्नश्च बलवान्सर्वे चापि प्रभद्रकाः ||७||
पाञ्चालाश्च नरव्याघ्राः समन्तात्तव वाहिनीम् |
अभ्यद्रवन्त सङ्क्रुद्धाः समरे जितकाशिनः ||८||
तथैव तावका राजन्पाण्डवानामनीकिनीम् |
अभ्यद्रवन्त त्वरिता जिघांसन्तो महारथाः ||९||
रथनागाश्वकलिलं पत्तिध्वजसमाकुलम् |
बभूव पुरुषव्याघ्र सैन्यमद्भुतदर्शनम् ||१०||
शिखण्डी च ययौ कर्णं धृष्टद्युम्नः सुतं तव |
दुःशासनं महाराज महत्या सेनया वृतम् ||११||
नकुलो वृषसेनं च चित्रसेनं युधिष्ठिरः |
उलूकं समरे राजन्सहदेवः समभ्ययात् ||१२||
सात्यकिः शकुनिं चापि भीमसेनश्च कौरवान् |
अर्जुनं च रणे यत्तं द्रोणपुत्रो महारथः ||१३||
युधामन्युं महेष्वासं गौतमोऽभ्यपतद्रणे |
कृतवर्मा च बलवानुत्तमौजसमाद्रवत् ||१४||
भीमसेनः कुरून्सर्वान्पुत्रांश्च तव मारिष |
सहानीकान्महाबाहुरेक एवाभ्यवारयत् ||१५||
शिखण्डी च ततः कर्णं विचरन्तमभीतवत् |
भीष्महन्ता महाराज वारयामास पत्रिभिः ||१६||
प्रतिरब्धस्ततः कर्णो रोषात्प्रस्फुरिताधरः |
शिखण्डिनं त्रिभिर्बाणैर्भ्रुवोर्मध्ये व्यताडयत् ||१७||
धारयंस्तु स तान्बाणाञ्शिखण्डी बह्वशोभत |
राजतः पर्वतो यद्वत्त्रिभिः शृङ्गैः समन्वितः ||१८||
सोऽतिविद्धो महेष्वासः सूतपुत्रेण संयुगे |
कर्णं विव्याध समरे नवत्या निशितैः शरैः ||१९||
तस्य कर्णो हयान्हत्वा सारथिं च त्रिभिः शरैः |
उन्ममाथ ध्वजं चास्य क्षुरप्रेण महारथः ||२०||
हताश्वात्तु ततो यानादवप्लुत्य महारथः |
शक्तिं चिक्षेप कर्णाय सङ्क्रुद्धः शत्रुतापनः ||२१||
तां छित्त्वा समरे कर्णस्त्रिभिर्भारत सायकैः |
शिखण्डिनमथाविध्यन्नवभिर्निशितैः शरैः ||२२||
कर्णचापच्युतान्बाणान्वर्जयंस्तु नरोत्तमः |
अपयातस्ततस्तूर्णं शिखण्डी जयतां वरः ||२३||
ततः कर्णो महाराज पाण्डुसैन्यान्यशातयत् |
तूलराशिं समासाद्य यथा वायुर्महाजवः ||२४||
धृष्टद्युम्नो महाराज तव पुत्रेण पीडितः |
दुःशासनं त्रिभिर्बाणैरभ्यविध्यत्स्तनान्तरे ||२५||
तस्य दुःशासनो बाहुं सव्यं विव्याध मारिष |
शितेन रुक्मपुङ्खेन भल्लेन नतपर्वणा ||२६||
धृष्टद्युम्नस्तु निर्विद्धः शरं घोरममर्षणः |
दुःशासनाय सङ्क्रुद्धः प्रेषयामास भारत ||२७||
आपतन्तं महावेगं धृष्टद्युम्नसमीरितम् |
शरैश्चिच्छेद पुत्रस्ते त्रिभिरेव विशां पते ||२८||
अथापरैः सप्तदशैर्भल्लैः कनकभूषणैः |
धृष्टद्युम्नं समासाद्य बाह्वोरुरसि चार्दयत् ||२९||
ततः स पार्षतः क्रुद्धो धनुश्चिच्छेद मारिष |
क्षुरप्रेण सुतीक्ष्णेन तत उच्चुक्रुशुर्जनाः ||३०||
अथान्यद्धनुरादाय पुत्रस्ते भरतर्षभ |
धृष्टद्युम्नं शरव्रातैः समन्तात्पर्यवारयत् ||३१||
तव पुत्रस्य ते दृष्ट्वा विक्रमं तं महात्मनः |
व्यहसन्त रणे योधाः सिद्धाश्चाप्सरसां गणाः ||३२||
ततः प्रववृते युद्धं तावकानां परैः सह |
घोरं प्राणभृतां काले घोररूपं परन्तप ||३३||
नकुलं वृषसेनस्तु विद्ध्वा पञ्चभिरायसैः |
पितुः समीपे तिष्ठन्तं त्रिभिरन्यैरविध्यत ||३४||
नकुलस्तु ततः क्रुद्धो वृषसेनं स्मयन्निव |
नाराचेन सुतीक्ष्णेन विव्याध हृदये दृढम् ||३५||
सोऽतिविद्धो बलवता शत्रुणा शत्रुकर्शनः |
शत्रुं विव्याध विंशत्या स च तं पञ्चभिः शरैः ||३६||
ततः शरसहस्रेण तावुभौ पुरुषर्षभौ |
अन्योन्यमाच्छादयतामथाभज्यत वाहिनी ||३७||
दृष्ट्वा तु प्रद्रुतां सेनां धार्तराष्ट्रस्य सूतजः |
निवारयामास बलादनुपत्य विशां पते ||३८||
निवृत्ते तु ततः कर्णे नकुलः कौरवान्ययौ ||३८||
कर्णपुत्रस्तु समरे हित्वा नकुलमेव तु |
जुगोप चक्रं त्वरितं राधेयस्यैव मारिष ||३९||
उलूकस्तु रणे क्रुद्धः सहदेवेन वारितः |
तस्याश्वांश्चतुरो हत्वा सहदेवः प्रतापवान् ||४०||
सारथिं प्रेषयामास यमस्य सदनं प्रति ||४०||
उलूकस्तु ततो यानादवप्लुत्य विशां पते |
त्रिगर्तानां बलं पूर्णं जगाम पितृनन्दनः ||४१||
सात्यकिः शकुनिं विद्ध्वा विंशत्या निशितैः शरैः |
ध्वजं चिच्छेद भल्लेन सौबलस्य हसन्निव ||४२||
सौबलस्तस्य समरे क्रुद्धो राजन्प्रतापवान् |
विदार्य कवचं भूयो ध्वजं चिच्छेद काञ्चनम् ||४३||
अथैनं निशितैर्बाणैः सात्यकिः प्रत्यविध्यत |
सारथिं च महाराज त्रिभिरेव समार्दयत् ||४४||
अथास्य वाहांस्त्वरितः शरैर्निन्ये यमक्षयम् ||४४||
ततोऽवप्लुत्य सहसा शकुनिर्भरतर्षभ |
आरुरोह रथं तूर्णमुलूकस्य महारथः ||४५||
अपोवाहाथ शीघ्रं स शैनेयाद्युद्धशालिनः ||४५||
सात्यकिस्तु रणे राजंस्तावकानामनीकिनीम् |
अभिदुद्राव वेगेन ततोऽनीकमभिद्यत ||४६||
शैनेयशरनुन्नं तु ततः सैन्यं विशां पते |
भेजे दश दिशस्तूर्णं न्यपतच्च गतासुवत् ||४७||
भीमसेनं तव सुतो वारयामास संयुगे |
तं तु भीमो मुहूर्तेन व्यश्वसूतरथध्वजम् ||४८||
चक्रे लोकेश्वरं तत्र तेनातुष्यन्त चारणाः ||४८||
ततोऽपायान्नृपस्तत्र भीमसेनस्य गोचरात् |
कुरुसैन्यं ततः सर्वं भीमसेनमुपाद्रवत् ||४९||
तत्र रावो महानासीद्भीममेकं जिघांसताम् ||४९||
युधामन्युः कृपं विद्ध्वा धनुरस्याशु चिच्छिदे |
अथान्यद्धनुरादाय कृपः शस्त्रभृतां वरः ||५०||
युधामन्योर्ध्वजं सूतं छत्रं चापातयत्क्षितौ |
ततोऽपायाद्रथेनैव युधामन्युर्महारथः ||५१||
उत्तमौजास्तु हार्दिक्यं शरैर्भीमपराक्रमम् |
छादयामास सहसा मेघो वृष्ट्या यथाचलम् ||५२||
तद्युद्धं सुमहच्चासीद्घोररूपं परन्तप |
यादृशं न मया युद्धं दृष्टपूर्वं विशां पते ||५३||
कृतवर्मा ततो राजन्नुत्तमौजसमाहवे |
हृदि विव्याध स तदा रथोपस्थ उपाविशत् ||५४||
सारथिस्तमपोवाह रथेन रथिनां वरम् |
ततस्तु सत्वरं राजन्पाण्डुसैन्यमुपाद्रवत् ||५५||
४५
सञ्जय उवाच||
द्रौणिस्तु रथवंशेन महता परिवारितः |
आपतत्सहसा राजन्यत्र राजा व्यवस्थितः ||१||
तमापतन्तं सहसा शूरः शौरिसहायवान् |
दधार सहसा पार्थो वेलेव मकरालयम् ||२||
ततः क्रुद्धो महाराज द्रोणपुत्रः प्रतापवान् |
अर्जुनं वासुदेवं च छादयामास पत्रिभिः ||३||
अवच्छन्नौ ततः कृष्णौ दृष्ट्वा तत्र महारथाः |
विस्मयं परमं गत्वा प्रैक्षन्त कुरवस्तदा ||४||
अर्जुनस्तु ततो दिव्यमस्त्रं चक्रे हसन्निव |
तदस्त्रं ब्राह्मणो युद्धे वारयामास भारत ||५||
यद्यद्धि व्याक्षिपद्युद्धे पाण्डवोऽस्त्रं जिघांसया |
तत्तदस्त्रं महेष्वासो द्रोणपुत्रो व्यशातयत् ||६||
अस्त्रयुद्धे ततो राजन्वर्तमाने भयावहे |
अपश्याम रणे द्रौणिं व्यात्ताननमिवान्तकम् ||७||
स दिशो विदिशश्चैव छादयित्वा विजिह्मगैः |
वासुदेवं त्रिभिर्बाणैरविध्यद्दक्षिणे भुजे ||८||
ततोऽर्जुनो हयान्हत्वा सर्वांस्तस्य महात्मनः |
चकार समरे भूमिं शोणितौघतरङ्गिणीम् ||९||
निहता रथिनः पेतुः पार्थचापच्युतैः शरैः |
हयाश्च पर्यधावन्त मुक्तयोक्त्रास्ततस्ततः ||१०||
तद्दृष्ट्वा कर्म पार्थस्य द्रौणिराहवशोभिनः |
अवाकिरद्रणे कृष्णं समन्तान्निशितैः शरैः ||११||
ततोऽर्जुनं महाराज द्रौणिरायम्य पत्रिणा |
वक्षोदेशे समासाद्य ताडयामास संयुगे ||१२||
सोऽतिविद्धो रणे तेन द्रोणपुत्रेण भारत |
आदत्त परिघं घोरं द्रौणेश्चैनमवाक्षिपत् ||१३||
तमापतन्तं परिघं कार्तस्वरविभूषितम् |
द्रौणिश्चिच्छेद सहसा तत उच्चुक्रुशुर्जनाः ||१४||
सोऽनेकधापतद्भूमौ भारद्वाजस्य सायकैः |
विशीर्णः पर्वतो राजन्यथा स्यान्मातरिश्वना ||१५||
ततोऽर्जुनो रणे द्रौणिं विव्याध दशभिः शरैः |
सारथिं चास्य भल्लेन रथनीडादपाहरत् ||१६||
स सङ्गृह्य स्वयं वाहान्कृष्णौ प्राच्छादयच्छरैः |
तत्राद्भुतमपश्याम द्रौणेराशु पराक्रमम् ||१७||
अयच्छत्तुरगान्यच्च फल्गुनं चाप्ययोधयत् |
तदस्य समरे राजन्सर्वे योधा अपूजयन् ||१८||
यदा त्वग्रस्यत रणे द्रोणपुत्रेण फल्गुनः |
ततो रश्मीन्रथाश्वानां क्षुरप्रैश्चिच्छिदे जयः ||१९||
प्राद्रवंस्तुरगास्ते तु शरवेगप्रबाधिताः |
ततोऽभून्निनदो भूयस्तव सैन्यस्य भारत ||२०||
पाण्डवास्तु जयं लब्ध्वा तव सैन्यमुपाद्रवन् |
समन्तान्निशितान्बाणान्विमुञ्चन्तो जयैषिणः ||२१||
पाण्डवैस्तु महाराज धार्तराष्ट्री महाचमूः |
पुनः पुनरथो वीरैरभज्यत जयोद्धतैः ||२२||
पश्यतां ते महाराज पुत्राणां चित्रयोधिनाम् |
शकुनेः सौबलेयस्य कर्णस्य च महात्मनः ||२३||
वार्यमाणा महासेना पुत्रैस्तव जनेश्वर |
नावतिष्ठत सङ्ग्रामे ताड्यमाना समन्ततः ||२४||
ततो योधैर्महाराज पलायद्भिस्ततस्ततः |
अभवद्व्याकुलं भीतैः पुत्राणां ते महद्बलम् ||२५||
तिष्ठ तिष्ठेति सततं सूतपुत्रस्य जल्पतः |
नावतिष्ठत सा सेना वध्यमाना महात्मभिः ||२६||
अथोत्क्रुष्टं महाराज पाण्डवैर्जितकाशिभिः |
धार्तराष्ट्रबलं दृष्ट्वा द्रवमाणं समन्ततः ||२७||
ततो दुर्योधनः कर्णमब्रवीत्प्रणयादिव |
पश्य कर्ण यथा सेना पाण्डवैरर्दिता भृशम् ||२८||
त्वयि तिष्ठति सन्त्रासात्पलायति समन्ततः |
एतज्ज्ञात्वा महाबाहो कुरु प्राप्तमरिंदम ||२९||
सहस्राणि च योधानां त्वामेव पुरुषर्षभ |
क्रोशन्ति समरे वीर द्राव्यमाणानि पाण्डवैः ||३०||
एतच्छ्रुत्वा तु राधेयो दुर्योधनवचो महत् |
मद्रराजमिदं वाक्यमब्रवीत्सूतनन्दनः ||३१||
पश्य मे भुजयोर्वीर्यमस्त्राणां च जनेश्वर |
अद्य हन्मि रणे सर्वान्पाञ्चालान्पाण्डुभिः सह ||३२||
वाहयाश्वान्नरव्याघ्र भद्रेणैव जनेश्वर ||३२||
एवमुक्त्वा महाराज सूतपुत्रः प्रतापवान् |
प्रगृह्य विजयं वीरो धनुःश्रेष्ठं पुरातनम् ||३३||
सज्यं कृत्वा महाराज संमृज्य च पुनः पुनः ||३३||
संनिवार्य च योधान्स्वान्सत्येन शपथेन च |
प्रायोजयदमेयात्मा भार्गवास्त्रं महाबलः ||३४||
ततो राजन्सहस्राणि प्रयुतान्यर्बुदानि च |
कोटिशश्च शरास्तीक्ष्णा निरगच्छन्महामृधे ||३५||
ज्वलितैस्तैर्महाघोरैः कङ्कबर्हिणवाजितैः |
सञ्छन्ना पाण्डवी सेना न प्राज्ञायत किञ्चन ||३६||
हाहाकारो महानासीत्पाञ्चालानां विशां पते |
पीडितानां बलवता भार्गवास्त्रेण संयुगे ||३७||
निपतद्भिर्गजै राजन्नरैश्चापि सहस्रशः |
रथैश्चापि नरव्याघ्र हयैश्चापि समन्ततः ||३८||
प्राकम्पत मही राजन्निहतैस्तैस्ततस्ततः |
व्याकुलं सर्वमभवत्पाण्डवानां महद्बलम् ||३९||
कर्णस्त्वेको युधां श्रेष्ठो विधूम इव पावकः |
दहञ्शत्रून्नरव्याघ्र शुशुभे स परन्तपः ||४०||
ते वध्यमानाः कर्णेन पाञ्चालाश्चेदिभिः सह |
तत्र तत्र व्यमुह्यन्त वनदाहे यथा द्विपाः ||४१||
चुक्रुशुस्ते नरव्याघ्र यथाप्राग्वा नरोत्तमाः ||४१||
तेषां तु क्रोशतां श्रुत्वा भीतानां रणमूर्धनि |
धावतां च दिशो राजन्वित्रस्तानां समन्ततः ||४२||
आर्तनादो महांस्तत्र प्रेतानामिव सम्प्लवे ||४२||
वध्यमानांस्तु तान्दृष्ट्वा सूतपुत्रेण मारिष |
वित्रेसुः सर्वभूतानि तिर्यग्योनिगतान्यपि ||४३||
ते वध्यमानाः समरे सूतपुत्रेण सृञ्जयाः |
अर्जुनं वासुदेवं च व्याक्रोशन्त मुहुर्मुहुः ||४४||
प्रेतराजपुरे यद्वत्प्रेतराजं विचेतसः ||४४||
अथाब्रवीद्वासुदेवं कुन्तीपुत्रो धनञ्जयः |
भार्गवास्त्रं महाघोरं दृष्ट्वा तत्र सभीरितम् ||४५||
पश्य कृष्ण महाबाहो भार्गवास्त्रस्य विक्रमम् |
नैतदस्त्रं हि समरे शक्यं हन्तुं कथञ्चन ||४६||
सूतपुत्रं च संरब्धं पश्य कृष्ण महारणे |
अन्तकप्रतिमं वीरं कुर्वाणं कर्म दारुणम् ||४७||
सुतीक्ष्णं चोदयन्नश्वान्प्रेक्षते मां मुहुर्मुहुः |
न च पश्यामि समरे कर्णस्य प्रपलायितम् ||४८||
जीवन्प्राप्नोति पुरुषः सङ्ख्ये जयपराजयौ |
जितस्य तु हृषीकेश वध एव कुतो जयः ||४९||
ततो जनार्दनः प्रायाद्द्रष्टुमिच्छन्युधिष्ठिरम् |
श्रमेण ग्राहयिष्यंश्च कर्णं युद्धेन मारिष ||५०||
अर्जुनं चाब्रवीत्कृष्णो भृशं राजा परिक्षतः |
तमाश्वास्य कुरुश्रेष्ठ ततः कर्णं हनिष्यसि ||५१||
ततो धनञ्जयो द्रष्टुं राजानं बाणपीडितम् |
रथेन प्रययौ क्षिप्रं सङ्ग्रामे केशवाज्ञया ||५२||
गच्छन्नेव तु कौन्तेयो धर्मराजदिदृक्षया |
सैन्यमालोकयामास नापश्यत्तत्र चाग्रजम् ||५३||
युद्धं कृत्वा तु कौन्तेयो द्रोणपुत्रेण भारत |
दुःसहं वज्रिणा सङ्ख्ये पराजिग्ये भृगोः सुतम् ||५४||
द्रौणिं पराजित्य ततोग्रधन्वा; कृत्वा महद्दुष्करमार्यकर्म |
आलोकयामास ततः स्वसैन्यं; धनञ्जयः शत्रुभिरप्रधृष्यः ||५५||
स युध्यमानः पृतनामुखस्था; ञ्शूराञ्शूरो हर्षयन्सव्यसाची |
पूर्वापदानैः प्रथितैः प्रशंस; न्स्थिरांश्चकारात्मरथाननीके ||५६||
अपश्यमानस्तु किरीटमाली; युधि ज्येष्ठं भ्रातरमाजमीढम् |
उवाच भीमं तरसाभ्युपेत्य; राज्ञः प्रवृत्तिस्त्विह केति राजन् ||५७||
भीम उवाच||
अपयात इतो राजा धर्मपुत्रो युधिष्ठिरः |
कर्णबाणविभुग्नाङ्गो यदि जीवेत्कथञ्चन ||५८||
अर्जुन उवाच||
तस्माद्भवाञ्शीघ्रमितः प्रयातु; राज्ञः प्रवृत्त्यै कुरुसत्तमस्य |
नूनं हि विद्धोऽतिभृशं पृषत्कैः; कर्णेन राजा शिबिरं गतोऽसौ ||५९||
यः सम्प्रहारे निशि सम्प्रवृत्ते; द्रोणेन विद्धोऽतिभृशं तरस्वी |
तस्थौ च तत्रापि जयप्रतीक्षो; द्रोणेन यावन्न हतः किलासीत् ||६०||
स संशयं गमितः पाण्डवाग्र्यः; सङ्ख्येऽद्य कर्णेन महानुभावः |
ज्ञातुं प्रयाह्याशु तमद्य भीम; स्थास्याम्यहं शत्रुगणान्निरुध्य ||६१||
भीम उवाच||
त्वमेव जानीहि महानुभाव; राज्ञः प्रवृत्तिं भरतर्षभस्य |
अहं हि यद्यर्जुन यामि तत्र; वक्ष्यन्ति मां भीत इति प्रवीराः ||६२||
ततोऽब्रवीदर्जुनो भीमसेनं; संशप्तकाः प्रत्यनीकं स्थिता मे |
एतानहत्वा न मया तु शक्य; मितोऽपयातुं रिपुसङ्घगोष्ठात् ||६३||
अथाब्रवीदर्जुनं भीमसेनः; स्ववीर्यमाश्रित्य कुरुप्रवीर |
संशप्तकान्प्रतियोत्स्यामि सङ्ख्ये; सर्वानहं याहि धनञ्जयेति ||६४||
तद्भीमसेनस्य वचो निशम्य; सुदुर्वचं भ्रातुरमित्रमध्ये |
द्रष्टुं कुरुश्रेष्ठमभिप्रयातुं; प्रोवाच वृष्णिप्रवरं तदानीम् ||६५||
चोदयाश्वान्हृषीकेश विगाह्यैतं रथार्णवम् |
अजातशत्रुं राजानं द्रष्टुमिच्छामि केशव ||६६||
ततो हयान्सर्वदाशार्हमुख्यः; प्राचोदयद्भीममुवाच चेदम् |
नैतच्चित्रं तव कर्माद्य वीर; यास्यामहे जहि भीमारिसङ्घान् ||६७||
ततो ययौ हृषीकेशो यत्र राजा युधिष्ठिरः |
शीघ्राच्छीघ्रतरं राजन्वाजिभिर्गरुडोपमैः ||६८||
प्रत्यनीके व्यवस्थाप्य भीमसेनमरिंदमम् |
संदिश्य चैव राजेन्द्र युद्धं प्रति वृकोदरम् ||६९||
ततस्तु गत्वा पुरुषप्रवीरौ; राजानमासाद्य शयानमेकम् |
रथादुभौ प्रत्यवरुह्य तस्मा; द्ववन्दतुर्धर्मराजस्य पादौ ||७०||
तौ दृष्ट्वा पुरुषव्याघ्रौ क्षेमिणौ पुरुषर्षभ |
मुदाभ्युपगतौ कृष्णावश्विनाविव वासवम् ||७१||
तावभ्यनन्दद्राजा हि विवस्वानश्विनाविव |
हते महासुरे जम्भे शक्रविष्णू यथा गुरुः ||७२||
मन्यमानो हतं कर्णं धर्मराजो युधिष्ठिरः |
हर्षगद्गदया वाचा प्रीतः प्राह परन्तपौ ||७३||
४६
सञ्जय उवाच||
महासत्त्वौ तु तौ दृष्ट्वा सहितौ केशवार्जुनौ |
हतमाधिरथिं मेने सङ्ख्ये गाण्डीवधन्वना ||१||
तावभ्यनन्दत्कौन्तेयः साम्ना परमवल्गुना |
स्मितपूर्वममित्रघ्नः पूजयन्भरतर्षभ ||२||
युधिष्ठिर उवाच||
स्वागतं देवकीपुत्र स्वागतं ते धनञ्जय |
प्रियं मे दर्शनं बाढं युवयोरच्युतार्जुनौ ||३||
अक्षताभ्यामरिष्टाभ्यां कथं युध्य महारथम् |
आशीविषसमं युद्धे सर्वशस्त्रविशारदम् ||४||
अग्रगं धार्तराष्ट्राणां सर्वेषां शर्म वर्म च |
रक्षितं वृषसेनेन सुषेणेन च धन्विना ||५||
अनुज्ञातं महावीर्यं रमेणास्त्रेषु दुर्जयम् |
त्रातारं धार्तराष्ट्राणां गन्तारं वाहिनीमुखे ||६||
हन्तारमरिसैन्यानाममित्रगणमर्दनम् |
दुर्योधनहिते युक्तमस्मद्युद्धाय चोद्यतम् ||७||
अप्रधृष्यं महायुद्धे देवैरपि सवासवैः |
अनलानिलयोस्तुल्यं तेजसा च बलेन च ||८||
पातालमिव गम्भीरं सुहृदानन्दवर्धनम् |
अन्तकाभममित्राणां कर्णं हत्वा महाहवे ||९||
दिष्ट्या युवामनुप्राप्तौ जित्वासुरमिवामरौ ||९||
तेन युद्धमदीनेन मया ह्यद्याच्युतार्जुनौ |
कुपितेनान्तकेनेव प्रजाः सर्वा जिघांसता ||१०||
तेन केतुश्च मे छिन्नो हतौ च पार्ष्णिसारथी |
हतवाहः कृतश्चास्मि युयुधानस्य पश्यतः ||११||
धृष्टद्युम्नस्य यमयोर्वीरस्य च शिखण्डिनः |
पश्यतां द्रौपदेयानां पाञ्चालानां च सर्वशः ||१२||
एताञ्जित्वा महावीर्यान्कर्णः शत्रुगणान्बहून् |
जितवान्मां महाबाहो यतमानं महारणे ||१३||
अनुसृत्य च मां युद्धे परुषाण्युक्तवान्बहु |
तत्र तत्र युधां श्रेष्ठः परिभूय न संशयः ||१४||
भीमसेनप्रभावात्तु यज्जीवामि धनञ्जय |
बहुनात्र किमुक्तेन नाहं तत्सोढुमुत्सहे ||१५||
त्रयोदशाहं वर्षाणि यस्माद्भीतो धनञ्जय |
न स्म निद्रां लभे रात्रौ न चाहनि सुखं क्वचित् ||१६||
तस्य द्वेषेण संयुक्तः परिदह्ये धनञ्जय |
आत्मनो मरणं जानन्वाध्रीणस इव द्विपः ||१७||
यस्यायमगमत्कालश्चिन्तयानस्य मे विभो |
कथं शक्यो मया कर्णो युद्धे क्षपयितुं भवेत् ||१८||
जाग्रत्स्वपंश्च कौन्तेय कर्णमेव सदा ह्यहम् |
पश्यामि तत्र तत्रैव कर्णभूतमिदं जगत् ||१९||
यत्र यत्र हि गच्छामि कर्णाद्भीतो धनञ्जय |
तत्र तत्र हि पश्यामि कर्णमेवाग्रतः स्थितम् ||२०||
सोऽहं तेनैव वीरेण समरेष्वपलायिना |
सहयः सरथः पार्थ जित्वा जीवन्विसर्जितः ||२१||
को नु मे जीवितेनार्थो राज्येनार्थोऽथ वा पुनः |
ममैवं धिक्कृतस्येह कर्णेनाहवशोभिना ||२२||
न प्राप्तपूर्वं यद्भीष्मात्कृपाद्द्रोणाच्च संयुगे |
तत्प्राप्तमद्य मे युद्धे सूतपुत्रान्महारथात् ||२३||
तत्त्वा पृच्छामि कौन्तेय यथा ह्यकुशलस्तथा |
तन्ममाचक्ष्व कार्त्स्न्येन यथा कर्णस्त्वया हतः ||२४||
शक्रवीर्यसमो युद्धे यमतुल्यपराक्रमः |
रामतुल्यस्तथास्त्रे यः स कथं वै निषूदितः ||२५||
महारथः समाख्यातः सर्वयुद्धविशारदः |
धनुर्धराणां प्रवरः सर्वेषामेकपूरुषः ||२६||
पूजितो धृतराष्ट्रेण सपुत्रेण विशां पते |
सदा त्वदर्थं राधेयः स कथं निहतस्त्वया ||२७||
धृतराष्ट्रो हि योधेषु सर्वेष्वेव सदार्जुन |
तव मृत्युं रणे कर्णं मन्यते पुरुषर्षभः ||२८||
स त्वया पुरुषव्याघ्र कथं युद्धे निषूदितः |
तं ममाचक्ष्व बीभत्सो यथा कर्णो हतस्त्वया ||२९||
सोत्सेधमस्य च शिरः पश्यतां सुहृदां हृतम् |
त्वया पुरुषशार्दूल शार्दूलेन यथा रुरोः ||३०||
यः पर्युपासीत्प्रदिशो दिशश्च; त्वां सूतपुत्रः समरे परीप्सन् |
दित्सुः कर्णः समरे हस्तिपूगं; स हीदानीं कङ्कपत्रैः सुतीक्ष्णैः ||३१||
त्वया रणे निहतः सूतपुत्रः; कच्चिच्छेते भूमितले दुरात्मा |
कच्चित्प्रियं मे परमं त्वयाद्य; कृतं रणे सूतपुत्रं निहत्य ||३२||
यः सर्वतः पर्यपतत्त्वदर्थे; मदान्वितो गर्वितः सूतपुत्रः |
स शूरमानी समरे समेत्य; कच्चित्त्वया निहतः संयुगेऽद्य ||३३||
रौक्मं रथं हस्तिवरैश्च युक्तं; रथं दित्सुर्यः परेभ्यस्त्वदर्थे |
सदा रणे स्पर्धते यः स पापः; कच्चित्त्वया निहतस्तात युद्धे ||३४||
योऽसौ नित्यं शूरमदेन मत्तो; विकत्थते संसदि कौरवाणाम् |
प्रियोऽत्यर्थं तस्य सुयोधनस्य; कच्चित्स पापो निहतस्त्वयाद्य ||३५||
कच्चित्समागम्य धनुःप्रमुक्तै; स्त्वत्प्रेषितैर्लोहितार्थैर्विहङ्गैः |
शेतेऽद्य पापः स विभिन्नगात्रः; कच्चिद्भग्नो धार्तराष्ट्रस्य बाहुः ||३६||
योऽसौ सदा श्लाघते राजमध्ये; दुर्योधनं हर्षयन्दर्पपूर्णः |
अहं हन्ता फल्गुनस्येति मोहा; त्कच्चिद्धतस्तस्य न वै तथा रथः ||३७||
नाहं पादौ धावयिष्ये कदा चि; द्यावत्स्थितः पार्थ इत्यल्पबुद्धिः |
व्रतं तस्यैतत्सर्वदा शक्रसूनो; कच्चित्त्वया निहतः सोऽद्य कर्णः ||३८||
योऽसौ कृष्णामब्रवीद्दुष्टबुद्धिः; कर्णः सभायां कुरुवीरमध्ये |
किं पाण्डवांस्त्वं न जहासि कृष्णे; सुदुर्बलान्पतितान्हीनसत्त्वान् ||३९||
यत्तत्कर्णः प्रत्यजानात्त्वदर्थे; नाहत्वाहं सह कृष्णेन पार्थम् |
इहोपयातेति स पापबुद्धिः; कच्चिच्छेते शरसम्भिन्नगात्रः ||४०||
कच्चित्सङ्ग्रामे विदितो वा तदायं; समागमः सृञ्जयकौरवाणाम् |
यत्रावस्थामीदृशीं प्रापितोऽहं; कच्चित्त्वया सोऽद्य हतः समेत्य ||४१||
कच्चित्त्वया तस्य सुमन्दबुद्धे; र्गाण्डीवमुक्तैर्विशिखैर्ज्वलद्भिः |
सकुण्डलं भानुमदुत्तमाङ्गं; कायात्प्रकृत्तं युधि सव्यसाचिन् ||४२||
यत्तन्मया बाणसमर्पितेन; ध्यातोऽसि कर्णस्य वधाय वीर |
तन्मे त्वया कच्चिदमोघमद्य; ध्यातं कृतं कर्णनिपातनेन ||४३||
यद्दर्पपूर्णः स सुयोधनोऽस्मा; नवेक्षते कर्णसमाश्रयेण |
कच्चित्त्वया सोऽद्य समाश्रयोऽस्य; भग्नः पराक्रम्य सुयोधनस्य ||४४||
यो नः पुरा षण्ढतिलानवोच; त्सभामध्ये पार्थिवानां समक्षम् |
स दुर्मतिः कच्चिदुपेत्य सङ्ख्ये; त्वया हतः सूतपुत्रोऽत्यमर्षी ||४५||
यः सूतपुत्रः प्रहसन्दुरात्मा; पुराब्रवीन्निर्जितां सौबलेन |
स्वयं प्रसह्यानय याज्ञसेनी; मपीह कच्चित्स हतस्त्वयाद्य ||४६||
यः शस्त्रभृच्छ्रेष्ठतमं पृथिव्यां; पितामहं व्याक्षिपदल्पचेताः |
सङ्ख्यायमानोऽर्धरथः स कच्चि; त्त्वया हतोऽद्याधिरथिर्दुरात्मा ||४७||
अमर्षणं निकृतिसमीरणेरितं; हृदि श्रितं ज्वलनमिमं सदा मम |
हतो मया सोऽद्य समेत्य पापधी; रिति ब्रुवन्प्रशमय मेऽद्य फल्गुन ||४८||
४७
सञ्जय उवाच||
तद्धर्मशीलस्य वचो निशम्य; राज्ञः क्रुद्धस्याधिरथौ महात्मा |
उवाच दुर्धर्षमदीनसत्त्वं; युधिष्ठिरं जिष्णुरनन्तवीर्यः ||१||
संशप्तकैर्युध्यमानस्य मेऽद्य; सेनाग्रयायी कुरुसैन्यस्य राजन् |
आशीविषाभान्खगमान्प्रमुञ्च; न्द्रौणिः पुरस्तात्सहसा व्यतिष्ठत् ||२||
दृष्ट्वा रथं मेघनिभं ममेम; मम्बष्ठसेना मरणे व्यतिष्ठत् |
तेषामहं पञ्च शतानि हत्वा; ततो द्रौणिमगमं पार्थिवाग्र्य ||३||
ततोऽपरान्बाणसङ्घाननेका; नाकर्णपूर्णायतविप्रमुक्तान् |
ससर्ज शिक्षास्त्रबलप्रयत्नै; स्तथा यथा प्रावृषि कालमेघः ||४||
नैवाददानं न च संदधानं; जानीमहे कतरेणास्यतीति |
वामेन वा यदि वा दक्षिणेन; स द्रोणपुत्रः समरे पर्यवर्तत् ||५||
अविध्यन्मां पञ्चभिर्द्रोणपुत्रः; शितैः शरैः पञ्चभिर्वासुदेवम् |
अहं तु तं त्रिंशता वज्रकल्पैः; समार्दयं निमिषस्यान्तरेण ||६||
स विक्षरन्रुधिरं सर्वगात्रै; रथानीकं सूतसूनोर्विवेश |
मयाभिभूतः सैनिकानां प्रबर्हा; नसावपश्यन्रुधिरेण प्रदिग्धान् ||७||
ततोऽभिभूतं युधि वीक्ष्य सैन्यं; विध्वस्तयोधं द्रुतवाजिनागम् |
पञ्चाशता रथमुख्यैः समेतः; कर्णस्त्वरन्मामुपायात्प्रमाथी ||८||
तान्सूदयित्वाहमपास्य कर्णं; द्रष्टुं भवन्तं त्वरयाभियातः |
सर्वे पाञ्चाला ह्युद्विजन्ते स्म कर्णा; द्गन्धाद्गावः केसरिणो यथैव ||९||
महाझषस्येव मुखं प्रपन्नाः; प्रभद्रकाः कर्णमभि द्रवन्ति |
मृत्योरास्यं व्यात्तमिवान्वपद्य; न्प्रभद्रकाः कर्णमासाद्य राजन् ||१०||
आयाहि पश्याद्य युयुत्समानं; मां सूतपुत्रं च वृतौ जयाय |
षट्साहस्रा भारत राजपुत्राः; स्वर्गाय लोकाय रथा निमग्नाः ||११||
समेत्याहं सूतपुत्रेण सङ्ख्ये; वृत्रेण वज्रीव नरेन्द्रमुख्य |
योत्स्ये भृशं भारत सूतपुत्र; मस्मिन्सङ्ग्रामे यदि वै दृश्यतेऽद्य ||१२||
कर्णं न चेदद्य निहन्मि राज; न्सबान्धवं युध्यमानं प्रसह्य |
प्रतिश्रुत्याकुर्वतां वै गतिर्या; कष्टां गच्छेयं तामहं राजसिंह ||१३||
आमन्त्रये त्वां ब्रूहि जयं रणे मे; पुरा भीमं धार्तराष्ट्रा ग्रसन्ते |
सौतिं हनिष्यामि नरेन्द्रसिंह; सैन्यं तथा शत्रुगणांश्च सर्वान् ||१४||
युधिष्ठिरार्जुनयोः विवादः
कृष्णकृतम् सांत्वनम्
४८
सञ्जय उवाच||
श्रुत्वा कर्णं कल्यमुदारवीर्यं; क्रुद्धः पार्थः फल्गुनस्यामितौजाः |
धनञ्जयं वाक्यमुवाच चेदं; युधिष्ठिरः कर्णशराभितप्तः ||१||
इदं यदि द्वैतवने ह्यवक्ष्यः; कर्णं योद्धुं न प्रसहे नृपेति |
वयं तदा प्राप्तकालानि सर्वे; वृत्तान्युपैष्याम तदैव पार्थ ||२||
मयि प्रतिश्रुत्य वधं हि तस्य; बलस्य चाप्तस्य तथैव वीर |
आनीय नः शत्रुमध्यं स कस्मा; त्समुत्क्षिप्य स्थण्डिले प्रत्यपिंष्ठाः ||३||
अन्वाशिष्म वयमर्जुन त्वयि; यियासवो बहु कल्याणमिष्टम् |
तन्नः सर्वं विफलं राजपुत्र; फलार्थिनां निचुल इवातिपुष्पः ||४||
प्रच्छादितं बडिशमिवामिषेण; प्रच्छादितो गवय इवापवाचा |
अनर्थकं मे दर्शितवानसि त्वं; राज्यार्थिनो राज्यरूपं विनाशम् ||५||
यत्तत्पृथां वागुवाचान्तरिक्षे; सप्ताहजाते त्वयि मन्दबुद्धौ |
जातः पुत्रो वासवविक्रमोऽयं; सर्वाञ्शूराञ्शात्रवाञ्जेष्यतीति ||६||
अयं जेता खाण्डवे देवसङ्घा; न्सर्वाणि भूतान्यपि चोत्तमौजाः |
अयं जेता मद्रकलिङ्गकेकया; नयं कुरून्हन्ति च राजमध्ये ||७||
अस्मात्परो न भविता धनुर्धरो; न वै भूतः कश्चन जातु जेता |
इच्छन्नार्यः सर्वभूतानि कुर्या; द्वशे वशी सर्वसमाप्तविद्यः ||८||
कान्त्या शशाङ्कस्य जवेन वायोः; स्थैर्येण मेरोः क्षमया पृथिव्याः |
सूर्यस्य भासा धनदस्य लक्ष्म्या; शौर्येण शक्रस्य बलेन विष्णोः ||९||
तुल्यो महात्मा तव कुन्ति पुत्रो; जातोऽदितेर्विष्णुरिवारिहन्ता |
स्वेषां जयाय द्विषतां वधाय; ख्यातोऽमितौजाः कुलतन्तुकर्ता ||१०||
इत्यन्तरिक्षे शतशृङ्गमूर्ध्नि; तपस्विनां शृण्वतां वागुवाच |
एवंविधं त्वां तच्च नाभूत्तवाद्य; देवा हि नूनमनृतं वदन्ति ||११||
तथापरेषामृषिसत्तमानां; श्रुत्वा गिरं पूजयतां सदैव |
न संनतिं प्रैमि सुयोधनस्य; न त्वा जानाम्याधिरथेर्भयार्तम् ||१२||
त्वष्ट्रा कृतं वाहमकूजनाक्षं; शुभं समास्थाय कपिध्वजं त्वम् |
खड्गं गृहीत्वा हेमचित्रं समिद्धं; धनुश्चेदं गाण्डिवं तालमात्रम् ||१३||
स केशवेनोह्यमानः कथं नु; कर्णाद्भीतो व्यपयातोऽसि पार्थ ||१३||
धनुश्चैतत्केशवाय प्रदाय; यन्ताभविष्यस्त्वं रणे चेद्दुरात्मन् |
ततोऽहनिष्यत्केशवः कर्णमुग्रं; मरुत्पतिर्वृत्रमिवात्तवज्रः ||१४||
मासेऽपतिष्यः पञ्चमे त्वं प्रकृच्छ्रे; न वा गर्भोऽप्यभविष्यः पृथायाः |
तत्ते श्रमो राजपुत्राभविष्य; न्न सङ्ग्रामादपयातुं दुरात्मन् ||१५||
४९
सञ्जय उवाच||
युधिष्ठिरेणैवमुक्तः कौन्तेयः श्वेतवाहनः |
असिं जग्राह सङ्क्रुद्धो जिघांसुर्भरतर्षभम् ||१||
तस्य कोपं समुद्वीक्ष्य चित्तज्ञः केशवस्तदा |
उवाच किमिदं पार्थ गृहीतः खड्ग इत्युत ||२||
नेह पश्यामि योद्धव्यं तव किञ्चिद्धनञ्जय |
ते ध्वस्ता धार्तराष्ट्रा हि सर्वे भीमेन धीमता ||३||
अपयातोऽसि कौन्तेय राजा द्रष्टव्य इत्यपि |
स राजा भवता दृष्टः कुशली च युधिष्ठिरः ||४||
तं दृष्ट्वा नृपशार्दूलं शार्दूलसमविक्रमम् |
हर्षकाले तु सम्प्राप्ते कस्मात्त्वा मन्युराविशत् ||५||
न तं पश्यामि कौन्तेय यस्ते वध्यो भवेदिह |
कस्माद्भवान्महाखड्गं परिगृह्णाति सत्वरम् ||६||
तत्त्वा पृच्छामि कौन्तेय किमिदं ते चिकीर्षितम् |
परामृशसि यत्क्रुद्धः खड्गमद्भुतविक्रम ||७||
एवमुक्तस्तु कृष्णेन प्रेक्षमाणो युधिष्ठिरम् |
अर्जुनः प्राह गोविन्दं क्रुद्धः सर्प इव श्वसन् ||८||
दद गाण्डीवमन्यस्मा इति मां योऽभिचोदयेत् |
छिन्द्यामहं शिरस्तस्य इत्युपांशुव्रतं मम ||९||
तदुक्तोऽहमदीनात्मन्राज्ञामितपराक्रम |
समक्षं तव गोविन्द न तत्क्षन्तुमिहोत्सहे ||१०||
तस्मादेनं वधिष्यामि राजानं धर्मभीरुकम् |
प्रतिज्ञां पालयिष्यामि हत्वेमं नरसत्तमम् ||११||
एतदर्थं मया खड्गो गृहीतो यदुनन्दन ||११||
सोऽहं युधिष्ठिरं हत्वा सत्येऽप्यानृण्यतां गतः |
विशोको विज्वरश्चापि भविष्यामि जनार्दन ||१२||
किं वा त्वं मन्यसे प्राप्तमस्मिन्काले समुत्थिते |
त्वमस्य जगतस्तात वेत्थ सर्वं गतागतम् ||१३||
तत्तथा प्रकरिष्यामि यथा मां वक्ष्यते भवान् ||१३||
कृष्ण उवाच||
इदानीं पार्थ जानामि न वृद्धाः सेवितास्त्वया |
अकाले पुरुषव्याघ्र संरम्भक्रिययानया ||१४||
न हि धर्मविभागज्ञः कुर्यादेवं धनञ्जय ||१४||
अकार्याणां च कार्याणां संयोगं यः करोति वै |
कार्याणामक्रियाणां च स पार्थ पुरुषाधमः ||१५||
अनुसृत्य तु ये धर्मं कवयः समुपस्थिताः |
समासविस्तरविदां न तेषां वेत्थ निश्चयम् ||१६||
अनिश्चयज्ञो हि नरः कार्याकार्यविनिश्चये |
अवशो मुह्यते पार्थ यथा त्वं मूढ एव तु ||१७||
न हि कार्यमकार्यं वा सुखं ज्ञातुं कथञ्चन |
श्रुतेन ज्ञायते सर्वं तच्च त्वं नावबुध्यसे ||१८||
अविज्ञानाद्भवान्यच्च धर्मं रक्षति धर्मवित् |
प्राणिनां हि वधं पार्थ धार्मिको नावबुध्यते ||१९||
प्राणिनामवधस्तात सर्वज्यायान्मतो मम |
अनृतं तु भवेद्वाच्यं न च हिंस्यात्कथञ्चन ||२०||
स कथं भ्रातरं ज्येष्ठं राजानं धर्मकोविदम् |
हन्याद्भवान्नरश्रेष्ठ प्राकृतोऽन्यः पुमानिव ||२१||
अयुध्यमानस्य वधस्तथाशस्त्रस्य भारत |
पराङ्मुखस्य द्रवतः शरणं वाभिगच्छतः ||२२||
कृताञ्जलेः प्रपन्नस्य न वधः पूज्यते बुधैः ||२२||
त्वया चैव व्रतं पार्थ बालेनैव कृतं पुरा |
तस्मादधर्मसंयुक्तं मौढ्यात्कर्म व्यवस्यसि ||२३||
स गुरुं पार्थ कस्मात्त्वं हन्या धर्ममनुस्मरन् |
असम्प्रधार्य धर्माणां गतिं सूक्ष्मां दुरन्वयाम् ||२४||
इदं धर्मरहस्यं च वक्ष्यामि भरतर्षभ |
यद्ब्रूयात्तव भीष्मो वा धर्मज्ञो वा युधिष्ठिरः ||२५||
विदुरो वा तथा क्षत्ता कुन्ती वापि यशस्विनी |
तत्ते वक्ष्यामि तत्त्वेन तन्निबोध धनञ्जय ||२६||
सत्यस्य वचनं साधु न सत्याद्विद्यते परम् |
तत्त्वेनैतत्सुदुर्ज्ञेयं यस्य सत्यमनुष्ठितम् ||२७||
भवेत्सत्यमवक्तव्यं वक्तव्यमनृतं भवेत् |
सर्वस्वस्यापहारे तु वक्तव्यमनृतं भवेत् ||२८||
प्राणात्यये विवाहे च वक्तव्यमनृतं भवेत् |
यत्रानृतं भवेत्सत्यं सत्यं चाप्यनृतं भवेत् ||२९||
तादृशं पश्यते बालो यस्य सत्यमनुष्ठितम् |
सत्यानृते विनिश्चित्य ततो भवति धर्मवित् ||३०||
किमाश्चर्यं कृतप्रज्ञः पुरुषोऽपि सुदारुणः |
सुमहत्प्राप्नुयात्पुण्यं बलाकोऽन्धवधादिव ||३१||
किमाश्चर्यं पुनर्मूढो धर्मकामोऽप्यपण्डितः |
सुमहत्प्राप्नुयात्पापमापगामिव कौशिकः ||३२||
अर्जुन उवाच||
आचक्ष्व भगवन्नेतद्यथा विद्यामहं तथा |
बलाकान्धाभिसम्बद्धं नदीनां कौशिकस्य च ||३३||
कृष्ण उवाच||
मृगव्याधोऽभवत्कश्चिद्बलाको नाम भारत |
यात्रार्थं पुत्रदारस्य मृगान्हन्ति न कामतः ||३४||
सोऽन्धौ च मातापितरौ बिभर्त्यन्यांश्च संश्रितान् |
स्वधर्मनिरतो नित्यं सत्यवागनसूयकः ||३५||
स कदाचिन्मृगाँल्लिप्सुर्नान्वविन्दत्प्रयत्नवान् |
अथापश्यत्स पीतोदं श्वापदं घ्राणचक्षुषम् ||३६||
अदृष्टपूर्वमपि तत्सत्त्वं तेन हतं तदा |
अन्वेव च ततो व्योम्नः पुष्पवर्षमवापतत् ||३७||
अप्सरोगीतवादित्रैर्नादितं च मनोरमम् |
विमानमागमत्स्वर्गान्मृगव्याधनिनीषया ||३८||
तद्भूतं सर्वभूतानामभावाय किलार्जुन |
तपस्तप्त्वा वरं प्राप्तं कृतमन्धं स्वयम्भुवा ||३९||
तद्धत्वा सर्वभूतानामभावकृतनिश्चयम् |
ततो बलाकः स्वरगादेवं धर्मः सुदुर्विदः ||४०||
कौशिकोऽप्यभवद्विप्रस्तपस्वी न बहुश्रुतः |
नदीनां सङ्गमे ग्रामाददूरे स किलावसत् ||४१||
सत्यं मया सदा वाच्यमिति तस्याभवद्व्रतम् |
सत्यवादीति विख्यातः स तदासीद्धनञ्जय ||४२||
अथ दस्युभयात्केचित्तदा तद्वनमाविशन् |
दस्यवोऽपि गताः क्रूरा व्यमार्गन्त प्रयत्नतः ||४३||
अथ कौशिकमभ्येत्य प्राहुस्तं सत्यवादिनम् |
कतमेन पथा याता भगवन्बहवो जनाः ||४४||
सत्येन पृष्टः प्रब्रूहि यदि तान्वेत्थ शंस नः ||४४||
स पृष्टः कौशिकः सत्यं वचनं तानुवाच ह |
बहुवृक्षलतागुल्ममेतद्वनमुपाश्रिताः ||४५||
ततस्ते तान्समासाद्य क्रूरा जघ्नुरिति श्रुतिः ||४५||
तेनाधर्मेण महता वाग्दुरुक्तेन कौशिकः |
गतः सुकष्टं नरकं सूक्ष्मधर्मेष्वकोविदः ||४६||
अप्रभूतश्रुतो मूढो धर्माणामविभागवित् ||४६||
वृद्धानपृष्ट्वा संदेहं महच्छ्वभ्रमितोऽर्हति |
तत्र ते लक्षणोद्देशः कश्चिदेव भविष्यति ||४७||
दुष्करं परमज्ञानं तर्केणात्र व्यवस्यति |
श्रुतिर्धर्म इति ह्येके वदन्ति बहवो जनाः ||४८||
न त्वेतत्प्रतिसूयामि न हि सर्वं विधीयते |
प्रभवार्थाय भूतानां धर्मप्रवचनं कृतम् ||४९||
धारणाद्धर्ममित्याहुर्धर्मो धारयति प्रजाः |
यः स्याद्धारणसंयुक्तः स धर्म इति निश्चयः ||५०||
येऽन्यायेन जिहीर्षन्तो जना इच्छन्ति कर्हिचित् |
अकूजनेन चेन्मोक्षो नात्र कूजेत्कथञ्चन ||५१||
अवश्यं कूजितव्यं वा शङ्केरन्वाप्यकूजतः |
श्रेयस्तत्रानृतं वक्तुं सत्यादिति विचारितम् ||५२||
प्राणात्यये विवाहे वा सर्वज्ञातिधनक्षये |
नर्मण्यभिप्रवृत्ते वा प्रवक्तव्यं मृषा भवेत् ||५३||
अधर्मं नात्र पश्यन्ति धर्मतत्त्वार्थदर्शिनः ||५३||
यः स्तेनैः सह सम्बन्धान्मुच्यते शपथैरपि |
श्रेयस्तत्रानृतं वक्तुं तत्सत्यमविचारितम् ||५४||
न च तेभ्यो धनं देयं शक्ये सति कथञ्चन |
पापेभ्यो हि धनं दत्तं दातारमपि पीडयेत् ||५५||
तस्माद्धर्मार्थमनृतमुक्त्वा नानृतवाग्भवेत् ||५५||
एष ते लक्षणोद्देशः समुद्दिष्टो यथाविधि |
एतच्छ्रुत्वा ब्रूहि पार्थ यदि वध्यो युधिष्ठिरः ||५६||
अर्जुन उवाच||
यथा ब्रूयान्महाप्राज्ञो यथा ब्रूयान्महामतिः |
हितं चैव यथास्माकं तथैतद्वचनं तव ||५७||
भवान्मातृसमोऽस्माकं तथा पितृसमोऽपि च |
गतिश्च परमा कृष्ण तेन ते वाक्यमद्भुतम् ||५८||
न हि ते त्रिषु लोकेषु विद्यतेऽविदितं क्वचित् |
तस्माद्भवान्परं धर्मं वेद सर्वं यथातथम् ||५९||
अवध्यं पाण्डवं मन्ये धर्मराजं युधिष्ठिरम् |
तस्मिन्समयसंयोगे ब्रूहि किञ्चिदनुग्रहम् ||६०||
इदं चापरमत्रैव शृणु हृत्स्थं विवक्षितम् ||६०||
जानासि दाशार्ह मम व्रतं त्वं; यो मां ब्रूयात्कश्चन मानुषेषु |
अन्यस्मै त्वं गाण्डिवं देहि पार्थ; यस्त्वत्तोऽस्त्रैर्भविता वा विशिष्टः ||६१||
हन्यामहं केशव तं प्रसह्य; भीमो हन्यात्तूबरकेति चोक्तः |
तन्मे राजा प्रोक्तवांस्ते समक्षं; धनुर्देहीत्यसकृद्वृष्णिसिंह ||६२||
तं हत्वा चेत्केशव जीवलोके; स्थाता कालं नाहमप्यल्पमात्रम् |
सा च प्रतिज्ञा मम लोकप्रबुद्धा; भवेत्सत्या धर्मभृतां वरिष्ठ ||६३||
यथा जीवेत्पाण्डवोऽहं च कृष्ण; तथा बुद्धिं दातुमद्यार्हसि त्वम् ||६३||
वासुदेव उवाच||
राजा श्रान्तो जगतो विक्षतश्च; कर्णेन सङ्ख्ये निशितैर्बाणसङ्घैः |
तस्मात्पार्थ त्वां परुषाण्यवोच; त्कर्णे द्यूतं ह्यद्य रणे निबद्धम् ||६४||
तस्मिन्हते कुरवो निर्जिताः स्यु; रेवम्बुद्धिः पार्थिवो धर्मपुत्रः |
यदावमानं लभते महान्तं; तदा जीवन्मृत इत्युच्यते सः ||६५||
तन्मानितः पार्थिवोऽयं सदैव; त्वया सभीमेन तथा यमाभ्याम् |
वृद्धैश्च लोके पुरुषप्रवीरै; स्तस्यावमानं कलया त्वं प्रयुङ्क्ष्व ||६६||
त्वमित्यत्रभवन्तं त्वं ब्रूहि पार्थ युधिष्ठिरम् |
त्वमित्युक्तो हि निहतो गुरुर्भवति भारत ||६७||
एवमाचर कौन्तेय धर्मराजे युधिष्ठिरे |
अधर्मयुक्तं संयोगं कुरुष्वैवं कुरूद्वह ||६८||
अथर्वाङ्गिरसी ह्येषा श्रुतीनामुत्तमा श्रुतिः |
अविचार्यैव कार्यैषा श्रेयःकामैर्नरैः सदा ||६९||
वधो ह्ययं पाण्डव धर्मराज्ञ; स्त्वत्तो युक्तो वेत्स्यते चैवमेषः |
ततोऽस्य पादावभिवाद्य पश्चा; च्छमं ब्रूयाः सान्त्वपूर्वं च पार्थम् ||७०||
भ्राता प्राज्ञस्तव कोपं न जातु; कुर्याद्राजा कञ्चन पाण्डवेयः |
मुक्तोऽनृताद्भ्रातृवधाच्च पार्थ; हृष्टः कर्णं त्वं जहि सूतपुत्रम् ||७१||
सञ्जय उवाच||
इत्येवमुक्तस्तु जनार्दनेन; पार्थः प्रशस्याथ सुहृद्वधं तम् |
ततोऽब्रवीदर्जुनो धर्मराज; मनुक्तपूर्वं परुषं प्रसह्य ||७२||
मा त्वं राजन्व्याहर व्याहरत्सु; न तिष्ठसे क्रोशमात्रे रणार्धे |
भीमस्तु मामर्हति गर्हणाय; यो युध्यते सर्वयोधप्रवीरः ||७३||
काले हि शत्रून्प्रतिपीड्य सङ्ख्ये; हत्वा च शूरान्पृथिवीपतींस्तान् |
यः कुञ्जराणामधिकं सहस्रं; हत्वानदत्तुमुलं सिंहनादम् ||७४||
सुदुष्करं कर्म करोति वीरः; कर्तुं यथा नार्हसि त्वं कदाचित् |
रथादवप्लुत्य गदां परामृशं; स्तया निहन्त्यश्वनरद्विपान्रणे ||७५||
वरासिना वाजिरथाश्वकुञ्जरां; स्तथा रथाङ्गैर्धनुषा च हन्त्यरीन् |
प्रमृद्य पद्भ्यामहितान्निहन्ति यः; पुनश्च दोर्भ्यां शतमन्युविक्रमः ||७६||
महाबलो वैश्रवणान्तकोपमः; प्रसह्य हन्ता द्विषतां यथार्हम् |
स भीमसेनोऽर्हति गर्हणां मे; न त्वं नित्यं रक्ष्यसे यः सुहृद्भिः ||७७||
महारथान्नागवरान्हयांश्च; पदातिमुख्यानपि च प्रमथ्य |
एको भीमो धार्तराष्ट्रेषु मग्नः; स मामुपालब्धुमरिंदमोऽर्हति ||७८||
कलिङ्गवङ्गाङ्गनिषादमागधा; न्सदामदान्नीलबलाहकोपमान् |
निहन्ति यः शत्रुगणाननेकशः; स माभिवक्तुं प्रभवत्यनागसम् ||७९||
सुयुक्तमास्थाय रथं हि काले; धनुर्विकर्षञ्शरपूर्णमुष्टिः |
सृजत्यसौ शरवर्षाणि वीरो; महाहवे मेघ इवाम्बुधाराः ||८०||
बलं तु वाचि द्विजसत्तमानां; क्षात्रं बुधा बाहुबलं वदन्ति |
त्वं वाग्बलो भारत निष्ठुरश्च; त्वमेव मां वेत्सि यथाविधोऽहम् ||८१||
यतामि नित्यं तव कर्तुमिष्टं; दारैः सुतैर्जीवितेनात्मना च |
एवं च मां वाग्विशिखैर्निहंसि; त्वत्तः सुखं न वयं विद्म किञ्चित् ||८२||
अवामंस्था मां द्रौपदीतल्पसंस्थो; महारथान्प्रतिहन्मि त्वदर्थे |
तेनातिशङ्की भारत निष्ठुरोऽसि; त्वत्तः सुखं नाभिजानामि किञ्चित् ||८३||
प्रोक्तः स्वयं सत्यसन्धेन मृत्यु; स्तव प्रियार्थं नरदेव युद्धे |
वीरः शिखण्डी द्रौपदोऽसौ महात्मा; मयाभिगुप्तेन हतश्च तेन ||८४||
न चाभिनन्दामि तवाधिराज्यं; यतस्त्वमक्षेष्वहिताय सक्तः |
स्वयं कृत्वा पापमनार्यजुष्ट; मेभिर्युद्धे तर्तुमिच्छस्यरींस्तु ||८५||
अक्षेषु दोषा बहवो विधर्माः; श्रुतास्त्वया सहदेवोऽब्रवीद्यान् |
तान्नैषि सन्तर्तुमसाधुजुष्टा; न्येन स्म सर्वे निरयं प्रपन्नाः ||८६||
त्वं देविता त्वत्कृते राज्यनाश; स्त्वत्सम्भवं व्यसनं नो नरेन्द्र |
मास्मान्क्रूरैर्वाक्प्रतोदैस्तुद त्वं; भूयो राजन्कोपयन्नल्पभाग्यान् ||८७||
एता वाचः परुषाः सव्यसाची; स्थिरप्रज्ञं श्रावयित्वा ततक्ष |
तदानुतेपे सुरराजपुत्रो; विनिःश्वसंश्चाप्यसिमुद्बबर्ह ||८८||
तमाह कृष्णः किमिदं पुनर्भवा; न्विकोशमाकाशनिभं करोत्यसिम् |
प्रब्रूहि सत्यं पुनरुत्तरं विधे; र्वचः प्रवक्ष्याम्यहमर्थसिद्धये ||८९||
इत्येव पृष्टः पुरुषोत्तमेन; सुदुःखितः केशवमाह वाक्यम् |
अहं हनिष्ये स्वशरीरमेव; प्रसह्य येनाहितमाचरं वै ||९०||
निशम्य तत्पार्थवचोऽब्रवीदिदं; धनञ्जयं धर्मभृतां वरिष्ठः |
प्रब्रूहि पार्थ स्वगुणानिहात्मन; स्तथा स्वहार्दं भवतीह सद्यः ||९१||
तथास्तु कृष्णेत्यभिनन्द्य वाक्यं; धनञ्जयः प्राह धनुर्विनाम्य |
युधिष्ठिरं धर्मभृतां वरिष्ठं; शृणुष्व राजन्निति शक्रसूनुः ||९२||
न मादृशोऽन्यो नरदेव विद्यते; धनुर्धरो देवमृते पिनाकिनम् |
अहं हि तेनानुमतो महात्मना; क्षणेन हन्यां सचराचरं जगत् ||९३||
मया हि राजन्सदिगीश्वरा दिशो; विजित्य सर्वा भवतः कृता वशे |
स राजसूयश्च समाप्तदक्षिणः; सभा च दिव्या भवतो ममौजसा ||९४||
पाणौ पृषत्का लिखिता ममेमे; धनुश्च सङ्ख्ये विततं सबाणम् |
पादौ च मे सशरौ सहध्वजौ; न मादृशं युद्धगतं जयन्ति ||९५||
हता उदीच्या निहताः प्रतीच्याः; प्राच्या निरस्ता दाक्षिणात्या विशस्ताः |
संशप्तकानां किञ्चिदेवावशिष्टं; सर्वस्य सैन्यस्य हतं मयार्धम् ||९६||
शेते मया निहता भारती च; चमू राजन्देवचमूप्रकाशा |
ये नास्त्रज्ञास्तानहं हन्मि शस्त्रै; स्तस्माल्लोकं नेह करोमि भस्मसात् ||९७||
इत्येवमुक्त्वा पुनराह पार्थो; युधिष्ठिरं धर्मभृतां वरिष्ठम् |
अप्यपुत्रा तेन राधा भवित्री; कुन्ती मया वा तदृतं विद्धि राजन् ||९८||
प्रसीद राजन्क्षम यन्मयोक्तं; काले भवान्वेत्स्यति तन्नमस्ते ||९८||
प्रसाद्य राजानममित्रसाहं; स्थितोऽब्रवीच्चैनमभिप्रपन्नः |
याम्येष भीमं समरात्प्रमोक्तुं; सर्वात्मना सूतपुत्रं च हन्तुम् ||९९||
तव प्रियार्थं मम जीवितं हि; ब्रवीमि सत्यं तदवेहि राजन् |
इति प्रायादुपसङ्गृह्य पादौ; समुत्थितो दीप्ततेजाः किरीटी ||१००||
नेदं चिरात्क्षिप्रमिदं भविष्य; त्यावर्ततेऽसावभियामि चैनम् ||१००||
एतच्छ्रुत्वा पाण्डवो धर्मराजो; भ्रातुर्वाक्यं परुषं फल्गुनस्य |
उत्थाय तस्माच्छयनादुवाच; पार्थं ततो दुःखपरीतचेताः ||१०१||
कृतं मया पार्थ यथा न साधु; येन प्राप्तं व्यसनं वः सुघोरम् |
तस्माच्छिरश्छिन्द्धि ममेदमद्य; कुलान्तकस्याधमपूरुषस्य ||१०२||
पापस्य पापव्यसनान्वितस्य; विमूढबुद्धेरलसस्य भीरोः |
वृद्धावमन्तुः परुषस्य चैव; किं ते चिरं मामनुवृत्य रूक्षम् ||१०३||
गच्छाम्यहं वनमेवाद्य पापः; सुखं भवान्वर्ततां मद्विहीनः |
योग्यो राजा भीमसेनो महात्मा; क्लीबस्य वा मम किं राज्यकृत्यम् ||१०४||
न चास्मि शक्तः परुषाणि सोढुं; पुनस्तवेमानि रुषान्वितस्य |
भीमोऽस्तु राजा मम जीवितेन; किं कार्यमद्यावमतस्य वीर ||१०५||
इत्येवमुक्त्वा सहसोत्पपात; राजा ततस्तच्छयनं विहाय |
इयेष निर्गन्तुमथो वनाय; तं वासुदेवः प्रणतोऽभ्युवाच ||१०६||
राजन्विदितमेतत्ते यथा गाण्डीवधन्वनः |
प्रतिज्ञा सत्यसन्धस्य गाण्डीवं प्रति विश्रुता ||१०७||
ब्रूयाद्य एवं गाण्डीवं देह्यन्यस्मै त्वमित्युत |
स वध्योऽस्य पुमाँल्लोके त्वया चोक्तोऽयमीदृशम् ||१०८||
अतः सत्यां प्रतिज्ञां तां पार्थेन परिरक्षता |
मच्छन्दादवमानोऽयं कृतस्तव महीपते ||१०९||
गुरूणामवमानो हि वध इत्यभिधीयते ||१०९||
तस्मात्त्वं वै महाबाहो मम पार्थस्य चोभयोः |
व्यतिक्रममिमं राजन्सङ्क्षमस्वार्जुनं प्रति ||११०||
शरणं त्वां महाराज प्रपन्नौ स्व उभावपि |
क्षन्तुमर्हसि मे राजन्प्रणतस्याभियाचतः ||१११||
राधेयस्याद्य पापस्य भूमिः पास्यति शोणितम् |
सत्यं ते प्रतिजानामि हतं विद्ध्यद्य सूतजम् ||११२||
यस्येच्छसि वधं तस्य गतमेवाद्य जीवितम् ||११२||
इति कृष्णवचः श्रुत्वा धर्मराजो युधिष्ठिरः |
ससम्भ्रमं हृषीकेशमुत्थाप्य प्रणतं तदा ||११३||
कृताञ्जलिमिदं वाक्यमुवाचानन्तरं वचः ||११३||
एवमेतद्यथात्थ त्वमस्त्येषोऽतिक्रमो मम |
अनुनीतोऽस्मि गोविन्द तारितश्चाद्य माधव ||११४||
मोक्षिता व्यसनाद्घोराद्वयमद्य त्वयाच्युत ||११४||
भवन्तं नाथमासाद्य आवां व्यसनसागरात् |
घोरादद्य समुत्तीर्णावुभावज्ञानमोहितौ ||११५||
त्वद्बुद्धिप्लवमासाद्य दुःखशोकार्णवाद्वयम् |
समुत्तीर्णाः सहामात्याः सनाथाः स्म त्वयाच्युत ||११६||
५०
सञ्जय उवाच||
इति स्म कृष्णवचनात्प्रत्युच्चार्य युधिष्ठिरम् |
बभूव विमनाः पार्थः किञ्चित्कृत्वेव पातकम् ||१||
ततोऽब्रवीद्वासुदेवः प्रहसन्निव पाण्डवम् |
कथं नाम भवेदेतद्यदि त्वं पार्थ धर्मजम् ||२||
असिना तीक्ष्णधारेण हन्या धर्मे व्यवस्थितम् ||२||
त्वमित्युक्त्वैव राजानमेवं कश्मलमाविशः |
हत्वा तु नृपतिं पार्थ अकरिष्यः किमुत्तरम् ||३||
एवं सुदुर्विदो धर्मो मन्दप्रज्ञैर्विशेषतः ||३||
स भवान्धर्मभीरुत्वाद्ध्रुवमैष्यन्महत्तमः |
नरकं घोररूपं च भ्रातुर्ज्येष्ठस्य वै वधात् ||४||
स त्वं धर्मभृतां श्रेष्ठं राजानं धर्मसंहितम् |
प्रसादय कुरुश्रेष्ठमेतदत्र मतं मम ||५||
प्रसाद्य भक्त्या राजानं प्रीतं चैव युधिष्ठिरम् |
प्रयामस्त्वरिता योद्धुं सूतपुत्ररथं प्रति ||६||
हत्वा सुदुर्जयं कर्णं त्वमद्य निशितैः शरैः |
विपुलां प्रीतिमाधत्स्व धर्मपुत्रस्य मानद ||७||
एतदत्र महाबाहो प्राप्तकालं मतं मम |
एवं कृते कृतं चैव तव कार्यं भविष्यति ||८||
ततोऽर्जुनो महाराज लज्जया वै समन्वितः |
धर्मराजस्य चरणौ प्रपेदे शिरसानघ ||९||
उवाच भरतश्रेष्ठ प्रसीदेति पुनः पुनः |
क्षमस्व राजन्यत्प्रोक्तं धर्मकामेन भीरुणा ||१०||
पादयोः पतितं दृष्ट्वा धर्मराजो युधिष्ठिरः |
धनञ्जयममित्रघ्नं रुदन्तं भरतर्षभ ||११||
उत्थाप्य भ्रातरं राजा धर्मराजो धनञ्जयम् |
समाश्लिष्य च सस्नेहं प्ररुरोद महीपतिः ||१२||
रुदित्वा तु चिरं कालं भ्रातरौ सुमहाद्युती |
कृतशौचौ नरव्याघ्रौ प्रीतिमन्तौ बभूवतुः ||१३||
तत आश्लिष्य स प्रेम्णा मूर्ध्नि चाघ्राय पाण्डवम् |
प्रीत्या परमया युक्तः प्रस्मयंश्चाब्रवीज्जयम् ||१४||
कर्णेन मे महाबाहो सर्वसैन्यस्य पश्यतः |
कवचं च ध्वजश्चैव धनुः शक्तिर्हया गदा ||१५||
शरैः कृत्ता महेष्वास यतमानस्य संयुगे ||१५||
सोऽहं ज्ञात्वा रणे तस्य कर्म दृष्ट्वा च फल्गुन |
व्यवसीदामि दुःखेन न च मे जीवितं प्रियम् ||१६||
तमद्य यदि वै वीर न हनिष्यसि सूतजम् |
प्राणानेव परित्यक्ष्ये जीवितार्थो हि को मम ||१७||
एवमुक्तः प्रत्युवाच विजयो भरतर्षभ |
सत्येन ते शपे राजन्प्रसादेन तवैव च ||१८||
भीमेन च नरश्रेष्ठ यमाभ्यां च महीपते ||१८||
यथाद्य समरे कर्णं हनिष्यामि हतोऽथ वा |
महीतले पतिष्यामि सत्येनायुधमालभे ||१९||
एवमाभाष्य राजानमब्रवीन्माधवं वचः |
अद्य कर्णं रणे कृष्ण सूदयिष्ये न संशयः ||२०||
तदनुध्याहि भद्रं ते वधं तस्य दुरात्मनः ||२०||
एवमुक्तोऽब्रवीत्पार्थं केशवो राजसत्तम |
शक्तोऽस्मि भरतश्रेष्ठ यत्नं कर्तुं यथाबलम् ||२१||
एवं चापि हि मे कामो नित्यमेव महारथ |
कथं भवान्रणे कर्णं निहन्यादिति मे मतिः ||२२||
भूयश्चोवाच मतिमान्माधवो धर्मनन्दनम् |
युधिष्ठिरेमं बीभत्सुं त्वं सान्त्वयितुमर्हसि ||२३||
अनुज्ञातुं च कर्णस्य वधायाद्य दुरात्मनः ||२३||
श्रुत्वा ह्ययमहं चैव त्वां कर्णशरपीडितम् |
प्रवृत्तिं ज्ञातुमायाताविह पाण्डवनन्दन ||२४||
दिष्ट्यासि राजन्निरुजो दिष्ट्या न ग्रहणं गतः |
परिसान्त्वय बीभत्सुं जयमाशाधि चानघ ||२५||
युधिष्ठिर उवाच||
एह्येहि पार्थ बीभत्सो मां परिष्वज पाण्डव |
वक्तव्यमुक्तोऽस्म्यहितं त्वया क्षान्तं च तन्मया ||२६||
अहं त्वामनुजानामि जहि कर्णं धनञ्जय |
मन्युं च मा कृथाः पार्थ यन्मयोक्तोऽसि दारुणम् ||२७||
सञ्जय उवाच||
ततो धनञ्जयो राजञ्शिरसा प्रणतस्तदा |
पादौ जग्राह पाणिभ्यां भ्रातुर्ज्येष्ठस्य मारिष ||२८||
समुत्थाप्य ततो राजा परिष्वज्य च पीडितम् |
मूर्ध्न्युपाघ्राय चैवैनमिदं पुनरुवाच ह ||२९||
धनञ्जय महाबाहो मानितोऽस्मि दृढं त्वया |
माहात्म्यं विजयं चैव भूयः प्राप्नुहि शाश्वतम् ||३०||
अर्जुन उवाच||
अद्य तं पापकर्माणं सानुबन्धं रणे शरैः |
नयाम्यन्तं समासाद्य राधेयं बलगर्वितम् ||३१||
येन त्वं पीडितो बाणैर्दृढमायम्य कार्मुकम् |
तस्याद्य कर्मणः कर्णः फलं प्राप्स्यति दारुणम् ||३२||
अद्य त्वामहमेष्यामि कर्णं हत्वा महीपते |
सभाजयितुमाक्रन्दादिति सत्यं ब्रवीमि ते ||३३||
नाहत्वा विनिवर्तेऽहं कर्णमद्य रणाजिरात् |
इति सत्येन ते पादौ स्पृशामि जगतीपते ||३४||
सञ्जय उवाच||
प्रसाद्य धर्मराजानं प्रहृष्टेनान्तरात्मना |
पार्थः प्रोवाच गोविन्दं सूतपुत्रवधोद्यतः ||३५||
कल्प्यतां च रथो भूयो युज्यन्तां च हयोत्तमाः |
आयुधानि च सर्वाणि सज्ज्यन्तां वै महारथे ||३६||
उपावृत्ताश्च तुरगाः शिक्षिताश्चाश्वसादिनः |
रथोपकरणैः सर्वैरुपायान्तु त्वरान्विताः ||३७||
एवमुक्ते महाराज फल्गुनेन महात्मना |
उवाच दारुकं कृष्णः कुरु सर्वं यथाब्रवीत् ||३८||
अर्जुनो भरतश्रेष्ठः श्रेष्ठः सर्वधनुष्मताम् ||३८||
आज्ञप्तस्त्वथ कृष्णेन दारुको राजसत्तम |
योजयामास स रथं वैयाघ्रं शत्रुतापनम् ||३९||
युक्तं तु रथमास्थाय दारुकेण महात्मना |
आपृच्छ्य धर्मराजानं ब्राह्मणान्स्वस्ति वाच्य च ||४०||
समङ्गलस्वस्त्ययनमारुरोह रथोत्तमम् ||४०||
तस्य राजा महाप्राज्ञो धर्मराजो युधिष्ठिरः |
आशिषोऽयुङ्क्त परमा युक्ताः कर्णवधं प्रति ||४१||
तं प्रयान्तं महेष्वासं दृष्ट्वा भूतानि भारत |
निहतं मेनिरे कर्णं पाण्डवेन महात्मना ||४२||
बभूवुर्विमलाः सर्वा दिशो राजन्समन्ततः |
चाषाश्च शतपत्राश्च क्रौञ्चाश्चैव जनेश्वर ||४३||
प्रदक्षिणमकुर्वन्त तदा वै पाण्डुनन्दनम् ||४३||
बहवः पक्षिणो राजन्पुंनामानः शुभाः शिवाः |
त्वरयन्तोऽर्जुनं युद्धे हृष्टरूपा ववाशिरे ||४४||
कङ्का गृध्रा वडाश्चैव वायसाश्च विशां पते |
अग्रतस्तस्य गच्छन्ति भक्ष्यहेतोर्भयानकाः ||४५||
निमित्तानि च धन्यानि पार्थस्य प्रशशंसिरे |
विनाशमरिसैन्यानां कर्णस्य च वधं तथा ||४६||
प्रयातस्याथ पार्थस्य महान्स्वेदो व्यजायत |
चिन्ता च विपुला जज्ञे कथं न्वेतद्भविष्यति ||४७||
ततो गाण्डीवधन्वानमब्रवीन्मधुसूदनः |
दृष्ट्वा पार्थं तदायस्तं चिन्तापरिगतं तदा ||४८||
गाण्डीवधन्वन्सङ्ग्रामे ये त्वया धनुषा जिताः |
न तेषां मानुषो जेता त्वदन्य इह विद्यते ||४९||
दृष्टा हि बहवः शूराः शक्रतुल्यपराक्रमाः |
त्वां प्राप्य समरे वीरं ये गताः परमां गतिम् ||५०||
को हि द्रोणं च भीष्मं च भगदत्तं च मारिष |
विन्दानुविन्दावावन्त्यौ काम्बोजं च सुदक्षिणम् ||५१||
श्रुतायुषं महावीर्यमच्युतायुषमेव च |
प्रत्युद्गम्य भवेत्क्षेमी यो न स्यात्त्वमिव क्षमी ||५२||
तव ह्यस्त्राणि दिव्यानि लाघवं बलमेव च |
वेधः पातश्च लक्षश्च योगश्चैव तवार्जुन ||५३||
असंमोहश्च युद्धेषु विज्ञानस्य च संनतिः ||५३||
भवान्देवासुरान्सर्वान्हन्यात्सहचराचरान् |
पृथिव्यां हि रणे पार्थ न योद्धा त्वत्समः पुमान् ||५४||
धनुर्ग्रहा हि ये केचित्क्षत्रिया युद्धदुर्मदाः |
आ देवात्त्वत्समं तेषां न पश्यामि शृणोमि वा ||५५||
ब्रह्मणा च प्रजाः सृष्टा गाण्डीवं च महाद्भुतम् |
येन त्वं युध्यसे पार्थ तस्मान्नास्ति त्वया समः ||५६||
अवश्यं तु मया वाच्यं यत्पथ्यं तव पाण्डव |
मावमंस्था महाबाहो कर्णमाहवशोभिनम् ||५७||
कर्णो हि बलवान्धृष्टः कृतास्त्रश्च महारथः |
कृती च चित्रयोधी च देशे काले च कोविदः ||५८||
तेजसा वह्निसदृशो वायुवेगसमो जवे |
अन्तकप्रतिमः क्रोधे सिंहसंहननो बली ||५९||
अयोरत्निर्महाबाहुर्व्यूढोरस्कः सुदुर्जयः |
अतिमानी च शूरश्च प्रवीरः प्रियदर्शनः ||६०||
सर्वैर्योधगुणैर्युक्तो मित्राणामभयङ्करः |
सततं पाण्डवद्वेषी धार्तराष्ट्रहिते रतः ||६१||
सर्वैरवध्यो राधेयो देवैरपि सवासवैः |
ऋते त्वामिति मे बुद्धिस्त्वमद्य जहि सूतजम् ||६२||
देवैरपि हि संयत्तैर्बिभ्रद्भिर्मांसशोणितम् |
अशक्यः समरे जेतुं सर्वैरपि युयुत्सुभिः ||६३||
दुरात्मानं पापमतिं नृशंसं; दुष्टप्रज्ञं पाण्डवेयेषु नित्यम् |
हीनस्वार्थं पाण्डवेयैर्विरोधे; हत्वा कर्णं धिष्ठितार्थो भवाद्य ||६४||
वीरं मन्यत आत्मानं येन पापः सुयोधनः |
तमद्य मूलं पापानां जय सौतिं धनञ्जय ||६५||
५१
सञ्जय उवाच||
ततः पुनरमेयात्मा केशवोऽर्जुनमब्रवीत् |
कृतसङ्कल्पमायस्तं वधे कर्णस्य सर्वशः ||१||
अद्य सप्तदशाहानि वर्तमानस्य भारत |
विनाशस्यातिघोरस्य नरवारणवाजिनाम् ||२||
भूत्वा हि विपुला सेना तावकानां परैः सह |
अन्योन्यं समरे प्राप्य किञ्चिच्छेषा विशां पते ||३||
भूत्वा हि कौरवाः पार्थ प्रभूतगजवाजिनः |
त्वां वै शत्रुं समासाद्य विनष्टा रणमूर्धनि ||४||
एते च सर्वे पाञ्चालाः सृञ्जयाश्च सहान्वयाः |
त्वां समासाद्य दुर्धर्षं पाण्डवाश्च व्यवस्थिताः ||५||
पाञ्चालैः पाण्डवैर्मत्स्यैः कारूषैश्चेदिकेकयैः |
त्वया गुप्तैरमित्रघ्न कृतः शत्रुगणक्षयः ||६||
को हि शक्तो रणे जेतुं कौरवांस्तात सङ्गतान् |
अन्यत्र पाण्डवान्युद्धे त्वया गुप्तान्महारथान् ||७||
त्वं हि शक्तो रणे जेतुं ससुरासुरमानुषान् |
त्रीँल्लोकान्सममुद्युक्तान्किं पुनः कौरवं बलम् ||८||
भगदत्तं हि राजानं कोऽन्यः शक्तस्त्वया विना |
जेतुं पुरुषशार्दूल योऽपि स्याद्वासवोपमः ||९||
तथेमां विपुलां सेनां गुप्तां पार्थ त्वयानघ |
न शेकुः पार्थिवाः सर्वे चक्षुर्भिरभिवीक्षितुम् ||१०||
तथैव सततं पार्थ रक्षिताभ्यां त्वया रणे |
धृष्टद्युम्नशिखण्डिभ्यां भीष्मद्रोणौ निपातितौ ||११||
को हि शक्तो रणे पार्थ पाञ्चालानां महारथौ |
भीष्मद्रोणौ युधा जेतुं शक्रतुल्यपराक्रमौ ||१२||
को हि शान्तनवं सङ्ख्ये द्रोणं वैकर्तनं कृपम् |
द्रौणिं च सौमदत्तिं च कृतवर्माणमेव च ||१३||
सैन्धवं मद्रराजं च राजानं च सुयोधनम् ||१३||
वीरान्कृतास्त्रान्समरे सर्वानेवानुवर्तिनः |
अक्षौहिणीपतीनुग्रान्संरब्धान्युद्धदुर्मदान् ||१४||
श्रेण्यश्च बहुलाः क्षीणाः प्रदीर्णाश्वरथद्विपाः |
नानाजनपदाश्चोग्राः क्षत्रियाणाममर्षिणाम् ||१५||
गोवासदासमीयानां वसातीनां च भारत |
व्रात्यानां वाटधानानां भोजानां चापि मानिनाम् ||१६||
उदीर्णाश्च महासेना ब्रह्मक्षत्रस्य भारत |
त्वां समासाद्य निधनं गताः साश्वरथद्विपाः ||१७||
उग्राश्च क्रूरकर्माणस्तुखारा यवनाः खशाः |
दार्वाभिसारा दरदाः शका रमठतङ्गणाः ||१८||
अन्ध्रकाश्च पुलिन्दाश्च किराताश्चोग्रविक्रमाः |
म्लेच्छाश्च पार्वतीयाश्च सागरानूपवासिनः ||१९||
संरम्भिणो युद्धशौण्डा बलिनो दृब्धपाणयः ||१९||
एते सुयोधनस्यार्थे संरब्धाः कुरुभिः सह |
न शक्या युधि निर्जेतुं त्वदन्येन परन्तप ||२०||
धार्तराष्ट्रमुदग्रं हि व्यूढं दृष्ट्वा महाबलम् |
यस्य त्वं न भवेस्त्राता प्रतीयात्को नु मानवः ||२१||
तत्सागरमिवोद्धूतं रजसा संवृतं बलम् |
विदार्य पाण्डवैः क्रुद्धैस्त्वया गुप्तैर्हतं विभो ||२२||
मागधानामधिपतिर्जयत्सेनो महाबलः |
अद्य सप्तैव चाहानि हतः सङ्ख्येऽभिमन्युना ||२३||
ततो दश सहस्राणि गजानां भीमकर्मणाम् |
जघान गदया भीमस्तस्य राज्ञः परिच्छदम् ||२४||
ततोऽन्येऽपि हता नागा रथाश्च शतशो बलात् ||२४||
तदेवं समरे तात वर्तमाने महाभये |
भीमसेनं समासाद्य त्वां च पाण्डव कौरवाः ||२५||
सवाजिरथनागाश्च मृत्युलोकमितो गताः ||२५||
तथा सेनामुखे तत्र निहते पार्थ पाण्डवैः |
भीष्मः प्रासृजदुग्राणि शरवर्षाणि मारिष ||२६||
स चेदिकाशिपाञ्चालान्करूषान्मत्स्यकेकयान् |
शरैः प्रच्छाद्य निधनमनयत्परुषास्त्रवित् ||२७||
तस्य चापच्युतैर्बाणैः परदेहविदारणैः |
पूर्णमाकाशमभवद्रुक्मपुङ्खैरजिह्मगैः ||२८||
गत्या दशम्या ते गत्वा जघ्नुर्वाजिरथद्विपान् |
हित्वा नव गतीर्दुष्टाः स बाणान्व्यायतोऽमुचत् ||२९||
दिनानि दश भीष्मेण निघ्नता तावकं बलम् |
शून्याः कृता रथोपस्था हताश्च गजवाजिनः ||३०||
दर्शयित्वात्मनो रूपं रुद्रोपेन्द्रसमं युधि |
पाण्डवानामनीकानि प्रविगाह्य व्यशातयत् ||३१||
विनिघ्नन्पृथिवीपालांश्चेदिपाञ्चालकेकयान् |
व्यदहत्पाण्डवीं सेनां नराश्वगजसङ्कुलाम् ||३२||
मज्जन्तमप्लवे मन्दमुज्जिहीर्षुः सुयोधनम् |
तथा चरन्तं समरे तपन्तमिव भास्करम् ||३३||
न शेकुः सृञ्जया द्रष्टुं तथैवान्ये महीक्षितः ||३३||
विचरन्तं तथा तं तु सङ्ग्रामे जितकाशिनम् |
सर्वोद्योगेन सहसा पाण्डवाः समुपाद्रवन् ||३४||
स तु विद्राव्य समरे पाण्डवान्सृञ्जयानपि |
एक एव रणे भीष्म एकवीरत्वमागतः ||३५||
तं शिखण्डी समासाद्य त्वया गुप्तो महारथम् |
जघान पुरुषव्याघ्रं शरैः संनतपर्वभिः ||३६||
स एष पतितः शेते शरतल्पे पितामहः |
त्वां प्राप्य पुरुषव्याघ्र गृध्रः प्राप्येव वायसम् ||३७||
द्रोणः पञ्च दिनान्युग्रो विधम्य रिपुवाहिनीः |
कृत्वा व्यूहं महायुद्धे पातयित्वा महारथान् ||३८||
जयद्रथस्य समरे कृत्वा रक्षां महारथः |
अन्तकप्रतिमश्चोग्रां रात्रिं युद्ध्वादहत्प्रजाः ||३९||
अद्येति द्वे दिने वीरो भारद्वाजः प्रतापवान् |
धृष्टद्युम्नं समासाद्य स गतः परमां गतिम् ||४०||
यदि चैव परान्युद्धे सूतपुत्रमुखान्रथान् |
नावारयिष्यः सङ्ग्रामे न स्म द्रोणो व्यनङ्क्ष्यत ||४१||
भवता तु बलं सर्वं धार्तराष्ट्रस्य वारितम् |
ततो द्रोणो हतो युद्धे पार्षतेन धनञ्जय ||४२||
क इवान्यो रणे कुर्यात्त्वदन्यः क्षत्रियो युधि |
यादृशं ते कृतं पार्थ जयद्रथवधं प्रति ||४३||
निवार्य सेनां महतीं हत्वा शूरांश्च पार्थिवान् |
निहतः सैन्धवो राजा त्वयास्त्रबलतेजसा ||४४||
आश्चर्यं सिन्धुराजस्य वधं जानन्ति पार्थिवाः |
अनाश्चर्यं हि तत्त्वत्तस्त्वं हि पार्थ महारथः ||४५||
त्वां हि प्राप्य रणे क्षत्रमेकाहादिति भारत |
तप्यमानमसंयुक्तं न भवेदिति मे मतिः ||४६||
सेयं पार्थ चमूर्घोरा धार्तराष्ट्रस्य संयुगे |
हता ससर्ववीरा हि भीष्मद्रोणौ यदा हतौ ||४७||
शीर्णप्रवरयोधाद्य हतवाजिनरद्विपा |
हीना सूर्येन्दुनक्षत्रैर्द्यौरिवाभाति भारती ||४८||
विध्वस्ता हि रणे पार्थ सेनेयं भीमविक्रमात् |
आसुरीव पुरा सेना शक्रस्येव पराक्रमैः ||४९||
तेषां हतावशिष्टास्तु पञ्च सन्ति महारथाः |
अश्वत्थामा कृतवर्मा कर्णो मद्राधिपः कृपः ||५०||
तांस्त्वमद्य नरव्याघ्र हत्वा पञ्च महारथान् |
हतामित्रः प्रयच्छोर्वीं राज्ञः सद्वीपपत्तनाम् ||५१||
साकाशजलपातालां सपर्वतमहावनाम् |
प्राप्नोत्वमितवीर्यश्रीरद्य पार्थो वसुन्धराम् ||५२||
एतां पुरा विष्णुरिव हत्वा दैतेयदानवान् |
प्रयच्छ मेदिनीं राज्ञे शक्रायेव यथा हरिः ||५३||
अद्य मोदन्तु पाञ्चाला निहतेष्वरिषु त्वया |
विष्णुना निहतेष्वेव दानवेयेषु देवताः ||५४||
यदि वा द्विपदां श्रेष्ठ द्रोणं मानयतो गुरुम् |
अश्वत्थाम्नि कृपा तेऽस्ति कृपे चाचार्यगौरवात् ||५५||
अत्यन्तोपचितान्वा त्वं मानयन्भ्रातृबान्धवान् |
कृतवर्माणमासाद्य न नेष्यसि यमक्षयम् ||५६||
भ्रातरं मातुरासाद्य शल्यं मद्रजनाधिपम् |
यदि त्वमरविन्दाक्ष दयावान्न जिघांससि ||५७||
इमं पापमतिं क्षुद्रमत्यन्तं पाण्डवान्प्रति |
कर्णमद्य नरश्रेष्ठ जह्याशु निशितैः शरैः ||५८||
एतत्ते सुकृतं कर्म नात्र किञ्चिन्न युज्यते |
वयमप्यत्र जानीमो नात्र दोषोऽस्ति कश्चन ||५९||
दहने यत्सपुत्राया निशि मातुस्तवानघ |
द्यूतार्थे यच्च युष्मासु प्रावर्तत सुयोधनः ||६०||
तत्र सर्वत्र दुष्टात्मा कर्णो मूलमिहार्जुन ||६०||
कर्णाद्धि मन्यते त्राणं नित्यमेव सुयोधनः |
ततो मामपि संरब्धो निग्रहीतुं प्रचक्रमे ||६१||
स्थिरा बुद्धिर्नरेन्द्रस्य धार्तराष्ट्रस्य मानद |
कर्णः पार्थान्रणे सर्वान्विजेष्यति न संशयः ||६२||
कर्णमाश्रित्य कौन्तेय धार्तराष्ट्रेण विग्रहः |
रोचितो भवता सार्धं जानतापि बलं तव ||६३||
कर्णो हि भाषते नित्यमहं पार्थान्समागतान् |
वासुदेवं सराजानं विजेष्यामि महारणे ||६४||
प्रोत्साहयन्दुरात्मानं धार्तराष्ट्रं सुदुर्मतिः |
समितौ गर्जते कर्णस्तमद्य जहि भारत ||६५||
यच्च युष्मासु पापं वै धार्तराष्ट्रः प्रयुक्तवान् |
तत्र सर्वत्र दुष्टात्मा कर्णः पापमतिर्मुखम् ||६६||
यच्च तद्धार्तराष्ट्राणां क्रूरैः षड्भिर्महारथैः |
अपश्यं निहतं वीरं सौभद्रमृषभेक्षणम् ||६७||
द्रोणद्रौणिकृपान्वीरान्कम्पयन्तो महारथान् |
निर्मनुष्यांश्च मातङ्गान्विरथांश्च महारथान् ||६८||
व्यश्वारोहांश्च तुरगान्पत्तीन्व्यायुधजीवितान् |
कुर्वन्तमृषभस्कन्धं कुरुवृष्णियशस्करम् ||६९||
विधमन्तमनीकानि व्यथयन्तं महारथान् |
मनुष्यवाजिमातङ्गान्प्रहिण्वन्तं यमक्षयम् ||७०||
शरैः सौभद्रमायस्तं दहन्तमिव वाहिनीम् |
तन्मे दहति गात्राणि सखे सत्येन ते शपे ||७१||
यत्तत्रापि च दुष्टात्मा कर्णोऽभ्यद्रुह्यत प्रभो |
अशक्नुवंश्चाभिमन्योः कर्णः स्थातुं रणेऽग्रतः ||७२||
सौभद्रशरनिर्भिन्नो विसञ्ज्ञः शोणितोक्षितः |
निःश्वसन्क्रोधसंदीप्तो विमुखः सायकार्दितः ||७३||
अपयानकृतोत्साहो निराशश्चापि जीविते |
तस्थौ सुविह्वलः सङ्ख्ये प्रहारजनितश्रमः ||७४||
अथ द्रोणस्य समरे तत्कालसदृशं तदा |
श्रुत्वा कर्णो वचः क्रूरं ततश्चिच्छेद कार्मुकम् ||७५||
ततश्छिन्नायुधं तेन रणे पञ्च महारथाः |
स चैव निकृतिप्रज्ञः प्रावधीच्छरवृष्टिभिः ||७६||
यच्च कर्णोऽब्रवीत्कृष्णां सभायां परुषं वचः |
प्रमुखे पाण्डवेयानां कुरूणां च नृशंसवत् ||७७||
विनष्टाः पाण्डवाः कृष्णे शाश्वतं नरकं गताः |
पतिमन्यं पृथुश्रोणि वृणीष्व मितभाषिणि ||७८||
लेखाभ्रु धृतराष्ट्रस्य दासी भूत्वा निवेशनम् |
प्रविशारालपक्ष्माक्षि न सन्ति पतयस्तव ||७९||
इत्युक्तवानधर्मज्ञस्तदा परमदुर्मतिः |
पापः पापं वचः कर्णः शृण्वतस्तव भारत ||८०||
तस्य पापस्य तद्वाक्यं सुवर्णविकृताः शराः |
शमयन्तु शिलाधौतास्त्वयास्ता जीवितच्छिदः ||८१||
यानि चान्यानि दुष्टात्मा पापानि कृतवांस्त्वयि |
तान्यद्य जीवितं चास्य शमयन्तु शरास्तव ||८२||
गाण्डीवप्रहितान्घोरानद्य गात्रैः स्पृशञ्शरान् |
कर्णः स्मरतु दुष्टात्मा वचनं द्रोणभीष्मयोः ||८३||
सुवर्णपुङ्खा नाराचाः शत्रुघ्ना वैद्युतप्रभाः |
त्वयास्तास्तस्य मर्माणि भित्त्वा पास्यन्ति शोणितम् ||८४||
उग्रास्त्वद्भुजनिर्मुक्ता मर्म भित्त्वा शिताः शराः |
अद्य कर्णं महावेगाः प्रेषयन्तु यमक्षयम् ||८५||
अद्य हाहाकृता दीना विषण्णास्त्वच्छरार्दिताः |
प्रपतन्तं रथात्कर्णं पश्यन्तु वसुधाधिपाः ||८६||
अद्य स्वशोणिते मग्नं शयानं पतितं भुवि |
अपविद्धायुधं कर्णं पश्यन्तु सुहृदो निजाः ||८७||
हस्तिकक्ष्यो महानस्य भल्लेनोन्मथितस्त्वया |
प्रकम्पमानः पततु भूमावाधिरथेर्ध्वजः ||८८||
त्वया शरशतैश्छिन्नं रथं हेमविभूषितम् |
हतयोधं समुत्सृज्य भीतः शल्यः पलायताम् ||८९||
ततः सुयोधनो दृष्ट्वा हतमाधिरथिं त्वया |
निराशो जीविते त्वद्य राज्ये चैव धनञ्जय ||९०||
एते द्रवन्ति पाञ्चाला वध्यमानाः शितैः शरैः |
कर्णेन भरतश्रेष्ठ पाण्डवानुज्जिहीर्षवः ||९१||
पाञ्चालान्द्रौपदेयांश्च धृष्टद्युम्नशिखण्डिनौ |
धृष्टद्युम्नतनूजांश्च शतानीकं च नाकुलिम् ||९२||
नकुलं सहदेवं च दुर्मुखं जनमेजयम् |
सुवर्माणं सात्यकिं च विद्धि कर्णवशं गतान् ||९३||
अभ्याहतानां कर्णेन पाञ्चालानां महारणे |
श्रूयते निनदो घोरस्त्वद्बन्धूनां परन्तप ||९४||
न त्वेव भीताः पाञ्चालाः कथञ्चित्स्युः पराङ्मुखाः |
न हि मृत्युं महेष्वासा गणयन्ति महारथाः ||९५||
य एकः पाण्डवीं सेनां शरौघैः समवेष्टयत् |
तं समासाद्य पाञ्चाला भीष्मं नासन्पराङ्मुखाः ||९६||
तथा ज्वलन्तमस्त्राग्निं गुरुं सर्वधनुष्मताम् |
निर्दहन्तं समारोहन्दुर्धर्षं द्रोणमोजसा ||९७||
ते नित्यमुदिता जेतुं युद्धे शत्रूनरिंदमाः |
न जात्वाधिरथेर्भीताः पाञ्चालाः स्युः पराङ्मुखाः ||९८||
तेषामापततां शूरः पाञ्चालानां तरस्विनाम् |
आदत्तेऽसूञ्शरैः कर्णः पतङ्गानामिवानलः ||९९||
तांस्तथाभिमुखान्वीरान्मित्रार्थे त्यक्तजीवितान् |
क्षयं नयति राधेयः पाञ्चालाञ्शतशो रणे ||१००||
अस्त्रं हि रामात्कर्णेन भार्गवादृषिसत्तमात् |
यदुपात्तं पुरा घोरं तस्य रूपमुदीर्यते ||१०१||
तापनं सर्वसैन्यानां घोररूपं सुदारुणम् |
समावृत्य महासेनां ज्वलति स्वेन तेजसा ||१०२||
एते चरन्ति सङ्ग्रामे कर्णचापच्युताः शराः |
भ्रमराणामिव व्रातास्तापयन्तः स्म तावकान् ||१०३||
एते चरन्ति पाञ्चाला दिक्षु सर्वासु भारत |
कर्णास्त्रं समरे प्राप्य दुर्निवारमनात्मभिः ||१०४||
एष भीमो दृढक्रोधो वृतः पार्थ समन्ततः |
सृञ्जयैर्योधयन्कर्णं पीड्यते स्म शितैः शरैः ||१०५||
पाण्डवान्सृञ्जयांश्चैव पाञ्चालांश्चैव भारत |
हन्यादुपेक्षितः कर्णो रोगो देहमिवाततः ||१०६||
नान्यं त्वत्तोऽभिपश्यामि योधं यौधिष्ठिरे बले |
यः समासाद्य राधेयं स्वस्तिमानाव्रजेद्गृहम् ||१०७||
तमद्य निशितैर्बाणैर्निहत्य भरतर्षभ |
यथाप्रतिज्ञं पार्थ त्वं कृत्वा कीर्तिमवाप्नुहि ||१०८||
त्वं हि शक्तो रणे जेतुं सकर्णानपि कौरवान् |
नान्यो युधि युधां श्रेष्ठ सत्यमेतद्ब्रवीमि ते ||१०९||
एतत्कृत्वा महत्कर्म हत्वा कर्णं महारथम् |
कृतार्थः सफलः पार्थ सुखी भव नरोत्तम ||११०||
५२
सञ्जय उवाच||
स केशवस्य बीभत्सुः श्रुत्वा भारत भाषितम् |
विशोकः सम्प्रहृष्टश्च क्षणेन समपद्यत ||१||
ततो ज्यामनुमृज्याशु व्याक्षिपद्गाण्डिवं धनुः |
दध्रे कर्णविनाशाय केशवं चाभ्यभाषत ||२||
त्वया नाथेन गोविन्द ध्रुव एष जयो मम |
प्रसन्नो यस्य मेऽद्य त्वं भूतभव्यभवत्प्रभुः ||३||
त्वत्सहायो ह्यहं कृष्ण त्रीँल्लोकान्वै समागतान् |
प्रापयेयं परं लोकं किमु कर्णं महारणे ||४||
पश्यामि द्रवतीं सेनां पाञ्चालानां जनार्दन |
पश्यामि कर्णं समरे विचरन्तमभीतवत् ||५||
भार्गवास्त्रं च पश्यामि विचरन्तं समन्ततः |
सृष्टं कर्णेन वार्ष्णेय शक्रेणेव महाशनिम् ||६||
अयं खलु स सङ्ग्रामो यत्र कृष्ण मया कृतम् |
कथयिष्यन्ति भूतानि यावद्भूमिर्धरिष्यति ||७||
अद्य कृष्ण विकर्णा मे कर्णं नेष्यन्ति मृत्यवे |
गाण्डीवमुक्ताः क्षिण्वन्तो मम हस्तप्रचोदिताः ||८||
अद्य राजा धृतराष्ट्रः स्वां बुद्धिमवमंस्यते |
दुर्योधनमराज्यार्हं यया राज्येऽभ्यषेचयत् ||९||
अद्य राज्यात्सुखाच्चैव श्रियो राष्ट्रात्तथा पुरात् |
पुत्रेभ्यश्च महाबाहो धृतराष्ट्रो वियोक्ष्यते ||१०||
अद्य दुर्योधनो राजा जीविताच्च निराशकः |
भविष्यति हते कर्णे कृष्ण सत्यं ब्रवीमि ते ||११||
अद्य दृष्ट्वा मया कर्णं शरैर्विशकलीकृतम् |
स्मरतां तव वाक्यानि शमं प्रति जनेश्वरः ||१२||
अद्यासौ सौबलः कृष्ण ग्लहं जानातु वै शरान् |
दुरोदरं च गाण्डीवं मण्डलं च रथं मम ||१३||
योऽसौ रणे नरं नान्यं पृथिव्यामभिमन्यते |
तस्याद्य सूतपुत्रस्य भूमिः पास्यति शोणितम् ||१४||
गाण्डीवसृष्टा दास्यन्ति कर्णस्य परमां गतिम् ||१४||
अद्य तप्स्यति राधेयः पाञ्चालीं यत्तदाब्रवीत् |
सभामध्ये वचः क्रूरं कुत्सयन्पाण्डवान्प्रति ||१५||
ये वै षण्ढतिलास्तत्र भवितारोऽद्य ते तिलाः |
हते वैकर्तने कर्णे सूतपुत्रे दुरात्मनि ||१६||
अहं वः पाण्डुपुत्रेभ्यस्त्रास्यामीति यदब्रवीत् |
अनृतं तत्करिष्यन्ति मामका निशिताः शराः ||१७||
हन्ताहं पाण्डवान्सर्वान्सपुत्रानिति योऽब्रवीत् |
तमद्य कर्णं हन्तास्मि मिषतां सर्वधन्विनाम् ||१८||
यस्य वीर्ये समाश्वस्य धार्तराष्ट्रो बृहन्मनाः |
अवामन्यत दुर्बुद्धिर्नित्यमस्मान्दुरात्मवान् ||१९||
तमद्य कर्णं राधेयं हन्तास्मि मधुसूदन ||१९||
अद्य कर्णे हते कृष्ण धार्तराष्ट्राः सराजकाः |
विद्रवन्तु दिशो भीताः सिंहत्रस्ता मृगा इव ||२०||
अद्य दुर्योधनो राजा पृथिवीमन्ववेक्षताम् |
हते कर्णे मया सङ्ख्ये सपुत्रे ससुहृज्जने ||२१||
अद्य कर्णं हतं दृष्ट्वा धार्तराष्ट्रोऽत्यमर्षणः |
जानातु मां रणे कृष्ण प्रवरं सर्वधन्विनाम् ||२२||
अद्याहमनृणः कृष्ण भविष्यामि धनुर्भृताम् |
क्रोधस्य च कुरूणां च शराणां गाण्डिवस्य च ||२३||
अद्य दुःखमहं मोक्ष्ये त्रयोदशसमार्जितम् |
हत्वा कर्णं रणे कृष्ण शम्बरं मघवानिव ||२४||
अद्य कर्णे हते युद्धे सोमकानां महारथाः |
कृतं कार्यं च मन्यन्तां मित्रकार्येप्सवो युधि ||२५||
न जाने च कथं प्रीतिः शैनेयस्याद्य माधव |
भविष्यति हते कर्णे मयि चापि जयाधिके ||२६||
अहं हत्वा रणे कर्णं पुत्रं चास्य महारथम् |
प्रीतिं दास्यामि भीमस्य यमयोः सात्यकेरपि ||२७||
धृष्टद्युम्नशिखण्डिभ्यां पाञ्चालानां च माधव |
अध्यानृण्यं गमिष्यामि हत्वा कर्णं महारणे ||२८||
अद्य पश्यन्तु सङ्ग्रामे धनञ्जयममर्षणम् |
युध्यन्तं कौरवान्सङ्ख्ये पातयन्तं च सूतजम् ||२९||
भवत्सकाशे वक्ष्ये च पुनरेवात्मसंस्तवम् ||२९||
धनुर्वेदे मत्समो नास्ति लोके; पराक्रमे वा मम कोऽस्ति तुल्यः |
को वाप्यन्यो मत्समोऽस्ति क्षमायां; तथा क्रोधे सदृशोऽन्यो न मेऽस्ति ||३०||
अहं धनुष्मानसुरान्सुरांश्च; सर्वाणि भूतानि च सङ्गतानि |
स्वबाहुवीर्याद्गमये पराभवं; मत्पौरुषं विद्धि परः परेभ्यः ||३१||
शरार्चिषा गाण्डिवेनाहमेकः; सर्वान्कुरून्बाह्लिकांश्चाभिपत्य |
हिमात्यये कक्षगतो यथाग्नि; स्तहा दहेयं सगणान्प्रसह्य ||३२||
पाणौ पृषत्का लिखिता ममैते; धनुश्च सव्ये निहितं सबाणम् |
पादौ च मे सरथौ सध्वजौ च; न मादृशं युद्धगतं जयन्ति ||३३||
५३
सञ्जय उवाच||
तेषामनीकानि बृहद्ध्वजानि; रणे समृद्धानि समागतानि |
गर्जन्ति भेरीनिनदोन्मुखानि; मेघैर्यथा मेघगणास्तपान्ते ||१||
महागजाभ्राकुलमस्त्रतोयं; वादित्रनेमीतलशब्दवच्च |
हिरण्यचित्रायुधवैद्युतं च; महारथैरावृतशब्दवच्च ||२||
तद्भीमवेगं रुधिरौघवाहि; खड्गाकुलं क्षत्रियजीववाहि |
अनार्तवं क्रूरमनिष्टवर्षं; बभूव तत्संहरणं प्रजानाम् ||३||
रथान्ससूतान्सहयान्गजांश्च; सर्वानरीन्मृत्युवशं शरौघैः |
निन्ये हयांश्चैव तथा ससादी; न्पदातिसङ्घांश्च तथैव पार्थः ||४||
कृपः शिखण्डी च रणे समेतौ; दुर्योधनं सात्यकिरभ्यगच्छत |
श्रुतश्रवा द्रोणसुतेन सार्धं; युधामन्युश्चित्रसेनेन चापि ||५||
कर्णस्य पुत्रस्तु रथी सुषेणं; समागतः सृञ्जयांश्चोत्तमौजाः |
गान्धारराजं सहदेवः क्षुधार्तो; महर्षभं सिंह इवाभ्यधावत् ||६||
शतानीको नाकुलिः कर्णपुत्रं; युवा युवानं वृषसेनं शरौघैः |
समार्दयत्कर्णसुतश्च वीरः; पाञ्चालेयं शरवर्षैरनेकैः ||७||
रथर्षभः कृतवर्माणमार्च्छ; न्माद्रीपुत्रो नकुलश्चित्रयोधी |
पाञ्चालानामधिपो याज्ञसेनिः; सेनापतिं कर्णमार्च्छत्ससैन्यम् ||८||
दुःशासनो भारत भारती च; संशप्तकानां पृतना समृद्धा |
भीमं रणे शस्त्रभृतां वरिष्ठं; तदा समार्च्छत्तमसह्यवेगम् ||९||
कर्णात्मजं तत्र जघान शूर; स्तथाच्छिनच्चोत्तमौजाः प्रसह्य |
तस्योत्तमाङ्गं निपपात भूमौ; निनादयद्गां निनदेन खं च ||१०||
सुषेणशीर्षं पतितं पृथिव्यां; विलोक्य कर्णोऽथ तदार्तरूपः |
क्रोधाद्धयांस्तस्य रथं ध्वजं च; बाणैः सुधारैर्निशितैर्न्यकृन्तत् ||११||
स तूत्तमौजा निशितैः पृषत्कै; र्विव्याध खड्गेन च भास्वरेण |
पार्ष्णिं हयांश्चैव कृपस्य हत्वा; शिखण्डिवाहं स ततोऽभ्यरोहत् ||१२||
कृपं तु दृष्ट्वा विरथं रथस्थो; नैच्छच्छरैस्ताडयितुं शिखण्डी |
तं द्रौणिरावार्य रथं कृपं स्म; समुज्जह्रे पङ्कगतां यथा गाम् ||१३||
हिरण्यवर्मा निशितैः पृषत्कै; स्तवात्मजानामनिलात्मजो वै |
अतापयत्सैन्यमतीव भीमः; काले शुचौ मध्यगतो यथार्कः ||१४||
५४
सञ्जय उवाच||
अथ त्विदानीं तुमुले विमर्दे; द्विषद्भिरेको बहुभिः समावृतः |
महाभये सारथिमित्युवाच; भीमश्चमूं वारयन्धार्तराष्ट्रीम् ||१||
त्वं सारथे याहि जवेन वाहै; र्नयाम्येतान्धार्तराष्ट्रान्यमाय ||१||
सञ्चोदितो भीमसेनेन चैवं; स सारथिः पुत्रबलं त्वदीयम् |
प्रायात्ततः सारथिरुग्रवेगो; यतो भीमस्तद्बलं गन्तुमैच्छत् ||२||
ततोऽपरे नागरथाश्वपत्तिभिः; प्रत्युद्ययुः कुरवस्तं समन्तात् |
भीमस्य वाहाग्र्यमुदारवेगं; समन्ततो बाणगणैर्निजघ्नुः ||३||
ततः शरानापततो महात्मा; चिच्छेद बाणैस्तपनीयपुङ्खैः |
ते वै निपेतुस्तपनीयपुङ्खा; द्विधा त्रिधा भीमशरैर्निकृत्ताः ||४||
ततो राजन्नागरथाश्वयूनां; भीमाहतानां तव राजमध्ये |
घोरो निनादः प्रबभौ नरेन्द्र; वज्राहतानामिव पर्वतानाम् ||५||
ते वध्यमानाश्च नरेन्द्रमुख्या; निर्भिन्ना वै भीमसेनप्रवेकैः |
भीमं समन्तात्समरेऽध्यरोह; न्वृक्षं शकुन्ता इव पुष्पहेतोः ||६||
ततोऽभिपातं तव सैन्यमध्ये; प्रादुश्चक्रे वेगमिवात्तवेगः |
यथान्तकाले क्षपयन्दिधक्षु; र्भूतान्तकृत्काल इवात्तदण्डः ||७||
तस्यातिवेगस्य रणेऽतिवेगं; नाशक्नुवन्धारयितुं त्वदीयाः |
व्यात्ताननस्यापततो यथैव; कालस्य काले हरतः प्रजा वै ||८||
ततो बलं भारत भारतानां; प्रदह्यमानं समरे महात्मन् |
भीतं दिशोऽकीर्यत भीमनुन्नं; महानिलेनाभ्रगणो यथैव ||९||
ततो धीमान्सारथिमब्रवीद्बली; स भीमसेनः पुनरेव हृष्टः |
सूताभिजानीहि परान्स्वकान्वा; रथान्ध्वजांश्चापततः समेतान् ||१०||
युध्यन्नहं नाभिजानामि किं चि; न्मा सैन्यं स्वं छादयिष्ये पृषत्कैः ||१०||
अरीन्विशोकाभिनिरीक्ष्य सर्वतो; मनस्तु चिन्ता प्रदुनोति मे भृशम् |
राजातुरो नागमद्यत्किरीटी; बहूनि दुःखान्यभिजातोऽस्मि सूत ||११||
एतद्दुःखं सारथे धर्मराजो; यन्मां हित्वा यातवाञ्शत्रुमध्ये |
नैनं जीवन्नापि जानाम्यजीव; न्बीभत्सुं वा तन्ममाद्यातिदुःखम् ||१२||
सोऽहं द्विषत्सैन्यमुदग्रकल्पं; विनाशयिष्ये परमप्रतीतः |
एतान्निहत्याजिमध्ये समेता; न्प्रीतो भविष्यामि सह त्वयाद्य ||१३||
सर्वांस्तूणीरान्मार्गणान्वान्ववेक्ष्य; किं शिष्टं स्यात्सायकानां रथे मे |
का वा जातिः किं प्रमाणं च तेषां; ज्ञात्वा व्यक्तं तन्ममाचक्ष्व सूत ||१४||
विशोक उवाच||
षण्मार्गणानामयुतानि वीर; क्षुराश्च भल्लाश्च तथायुताख्याः |
नाराचानां द्वे सहस्रे तु वीर; त्रीण्येव च प्रदराणां च पार्थ ||१५||
अस्त्यायुधं पाण्डवेयावशिष्टं; न यद्वहेच्छकटं षड्गवीयम् |
एतद्विद्वन्मुञ्च सहस्रशोऽपि; गदासिबाहुद्रविणं च तेऽस्ति ||१६||
भीम उवाच||
सूताद्येमं पश्य भीमप्रमुक्तैः; सम्भिन्दद्भिः पार्थिवानाशुवेगैः |
उग्रैर्बाणैराहवं घोररूपं; नष्टादित्यं मृत्युलोकेन तुल्यम् ||१७||
अद्यैव तद्विदितं पार्थिवानां; भविष्यति आकुमारं च सूत |
निमग्नो वा समरे भीमसेन; एकः कुरून्वा समरे विजेता ||१८||
सर्वे सङ्ख्ये कुरवो निष्पतन्तु; मां वा लोकाः कीर्तयन्त्वाकुमारम् |
सर्वानेकस्तानहं पातयिष्ये; ते वा सर्वे भीमसेनं तुदन्तु ||१९||
आशास्तारः कर्म चाप्युत्तमं वा; तन्मे देवाः केवलं साधयन्तु |
आयात्विहाद्यार्जुनः शत्रुघाती; शक्रस्तूर्णं यज्ञ इवोपहूतः ||२०||
ईक्षस्वैतां भारतीं दीर्यमाणा; मेते कस्माद्विद्रवन्ते नरेन्द्राः |
व्यक्तं धीमान्सव्यसाची नराग्र्यः; सैन्यं ह्येतच्छादयत्याशु बाणैः ||२१||
पश्य ध्वजांश्च द्रवतो विशोक; नागान्हयान्पत्तिसङ्घांश्च सङ्ख्ये |
रथान्विशीर्णाञ्शरशक्तिताडिता; न्पश्यस्वैतान्रथिनश्चैव सूत ||२२||
आपूर्यते कौरवी चाप्यभीक्ष्णं; सेना ह्यसौ सुभृशं हन्यमाना |
धनञ्जयस्याशनितुल्यवेगै; र्ग्रस्ता शरैर्बर्हिसुवर्णवाजैः ||२३||
एते द्रवन्ति स्म रथाश्वनागाः; पदातिसङ्घानवमर्दयन्तः |
संमुह्यमानाः कौरवाः सर्व एव; द्रवन्ति नागा इव दावभीताः ||२४||
हाहाकृताश्चैव रणे विशोक; मुञ्चन्ति नादान्विपुलान्गजेन्द्राः ||२४||
विशोक उवाच||
सर्वे कामाः पाण्डव ते समृद्धाः; कपिध्वजो दृश्यते हस्तिसैन्ये |
नीलाद्धनाद्विद्युतमुच्चरन्तीं; तथापश्यं विस्फुरद्वै धनुस्तत् ||२५||
कपिर्ह्यसौ वीक्ष्यते सर्वतो वै; ध्वजाग्रमारुह्य धनञ्जयस्य |
दिवाकराभो मणिरेष दिव्यो; विभ्राजते चैव किरीटसंस्थः ||२६||
पार्श्वे भीमं पाण्डुराभ्रप्रकाशं; पश्येमं त्वं देवदत्तं सुघोषम् |
अभीशुहस्तस्य जनार्दनस्य; विगाहमानस्य चमूं परेषाम् ||२७||
रविप्रभं वज्रनाभं क्षुरान्तं; पार्श्वे स्थितं पश्य जनार्दनस्य |
चक्रं यशो वर्धयत्केशवस्य; सदार्चितं यदुभिः पश्य वीर ||२८||
भीम उवाच||
ददामि ते ग्रामवरांश्चतुर्दश; प्रियाख्याने सारथे सुप्रसन्नः |
दसीशतं चापि रथांश्च विंशतिं; यदर्जुनं वेदयसे विशोक ||२९||
५५
सञ्जय उवाच||
श्रुत्वा च रथनिर्घोषं सिंहनादं च संयुगे |
अर्जुनः प्राह गोविन्दं शीघ्रं चोदय वाजिनः ||१||
अर्जुनस्य वचः श्रुत्वा गोविन्दोऽर्जुनमब्रवीत् |
एष गच्छामि सुक्षिप्रं यत्र भीमो व्यवस्थितः ||२||
आयान्तमश्वैर्हिमशङ्खवर्णैः; सुवर्णमुक्तामणिजालनद्धैः |
जम्भं जिघांसुं प्रगृहीतवज्रं; जयाय देवेन्द्रमिवोग्रमन्युम् ||३||
रथाश्वमातङ्गपदातिसङ्घा; बाणस्वनैर्नेमिखुरस्वनैश्च |
संनादयन्तो वसुधां दिशश्च; क्रुद्धा नृसिंहा जयमभ्युदीयुः ||४||
तेषां च पार्थस्य महत्तदासी; द्देहासुपाप्मक्षपणं सुयुद्धम् |
त्रैलोक्यहेतोरसुरैर्यथासी; द्देवस्य विष्णोर्जयतां वरस्य ||५||
तैरस्तमुच्चावचमायुधौघ; मेकः प्रचिच्छेद किरीटमाली |
क्षुरार्धचन्द्रैर्निशितैश्च बाणैः; शिरांसि तेषां बहुधा च बाहून् ||६||
छत्राणि वालव्यजनानि केतू; नश्वान्रथान्पत्तिगणान्द्विपांश्च |
ते पेतुरुर्व्यां बहुधा विरूपा; वातप्रभग्नानि यथा वनानि ||७||
सुवर्णजालावतता महागजाः; सवैजयन्तीध्वजयोधकल्पिताः |
सुवर्णपुङ्खैरिषुभिः समाचिता; श्चकाशिरे प्रज्वलिता यथाचलाः ||८||
विदार्य नागांश्च रथांश्च वाजिनः; शरोत्तमैर्वासववज्रसंनिभैः |
द्रुतं ययौ कर्णजिघांसया तथा; यथा मरुत्वान्बलभेदने पुरा ||९||
ततः स पुरुषव्याघ्रः सूतसैन्यमरिंदम |
प्रविवेश महाबाहुर्मकरः सागरं यथा ||१०||
तं दृष्ट्वा तावका राजन्रथपत्तिसमन्विताः |
गजाश्वसादिबहुलाः पाण्डवं समुपाद्रवन् ||११||
तत्राभिद्रवतां पार्थमारावः सुमहानभूत् |
सागरस्येव मत्तस्य यथा स्यात्सलिलस्वनः ||१२||
ते तु तं पुरुषव्याघ्रं व्याघ्रा इव महारथाः |
अभ्यद्रवन्त सङ्ग्रामे त्यक्त्वा प्राणकृतं भयम् ||१३||
तेषामापततां तत्र शरवर्षाणि मुञ्चताम् |
अर्जुनो व्यधमत्सैन्यं महावातो घनानिव ||१४||
तेऽर्जुनं सहिता भूत्वा रथवंशैः प्रहारिणः |
अभियाय महेष्वासा विव्यधुर्निशितैः शरैः ||१५||
ततोऽर्जुनः सहस्राणि रथवारणवाजिनाम् |
प्रेषयामास विशिखैर्यमस्य सदनं प्रति ||१६||
ते वध्यमानाः समरे पार्थचापच्युतैः शरैः |
तत्र तत्र स्म लीयन्ते भये जाते महारथाः ||१७||
तेषां चतुःशतान्वीरान्यतमानान्महारथान् |
अर्जुनो निशितैर्बाणैरनयद्यमसादनम् ||१८||
ते वध्यमानाः समरे नानालिङ्गैः शितैः शरैः |
अर्जुनं समभित्यज्य दुद्रुवुर्वै दिशो भयात् ||१९||
तेषां शब्दो महानासीद्द्रवतां वाहिनीमुखे |
महौघस्येव भद्रं ते गिरिमासाद्य दीर्यतः ||२०||
तां तु सेनां भृशं विद्ध्वा द्रावयित्वार्जुनः शरैः |
प्रायादभिमुखः पार्थः सूतानीकानि मारिष ||२१||
तस्य शब्दो महानासीत्परानभिमुखस्य वै |
गरुडस्येव पततः पन्नगार्थे यथा पुरा ||२२||
तं तु शब्दमभिश्रुत्य भीमसेनो महाबलः |
बभूव परमप्रीतः पार्थदर्शनलालसः ||२३||
श्रुत्वैव पार्थमायान्तं भीमसेनः प्रतापवान् |
त्यक्त्वा प्राणान्महाराज सेनां तव ममर्द ह ||२४||
स वायुवेगप्रतिमो वायुवेगसमो जवे |
वायुवद्व्यचरद्भीमो वायुपुत्रः प्रतापवान् ||२५||
तेनार्द्यमाना राजेन्द्र सेना तव विशां पते |
व्यभ्राम्यत महाराज भिन्ना नौरिव सागरे ||२६||
तां तु सेनां तदा भीमो दर्शयन्पाणिलाघवम् |
शरैरवचकर्तोग्रैः प्रेषयिष्यन्यमक्षयम् ||२७||
तत्र भारत भीमस्य बलं दृष्ट्वातिमानुषम् |
व्यत्रस्यन्त रणे योधाः कालस्येव युगक्षये ||२८||
तथार्दितान्भीमबलान्भीमसेनेन भारत |
दृष्ट्वा दुर्योधनो राजा इदं वचनमब्रवीत् ||२९||
सैनिकान्स महेष्वासो योधांश्च भरतर्षभ |
समादिशद्रणे सर्वान्हत भीममिति स्म ह ||३०||
तस्मिन्हते हतं मन्ये सर्वसैन्यमशेषतः ||३०||
प्रतिगृह्य च तामाज्ञां तव पुत्रस्य पार्थिवाः |
भीमं प्रच्छादयामासुः शरवर्षैः समन्ततः ||३१||
गजाश्च बहुला राजन्नराश्च जयगृद्धिनः |
रथा हयाश्च राजेन्द्र परिवव्रुर्वृकोदरम् ||३२||
स तैः परिवृतः शूरैः शूरो राजन्समन्ततः |
शुशुभे भरतश्रेष्ठ नक्षत्रैरिव चन्द्रमाः ||३३||
स रराज तथा सङ्ख्ये दर्शनीयो नरोत्तमः |
निर्विशेषं महाराज यथा हि विजयस्तथा ||३४||
तत्र ते पार्थिवाः सर्वे शरवृष्टीः समासृजन् |
क्रोधरक्तेक्षणाः क्रूरा हन्तुकामा वृकोदरम् ||३५||
स विदार्य महासेनां शरैः संनतपर्वभिः |
निश्चक्राम रणाद्भीमो मत्स्यो जालादिवाम्भसि ||३६||
हत्वा दश सहस्राणि गजानामनिवर्तिनाम् |
नृणां शतसहस्रे द्वे द्वे शते चैव भारत ||३७||
पञ्च चाश्वसहस्राणि रथानां शतमेव च |
हत्वा प्रास्यन्दयद्भीमो नदीं शोणितकर्दमाम् ||३८||
शोणितोदां रथावर्तां हस्तिग्राहसमाकुलाम् |
नरमीनामश्वनक्रां केशशैवलशाद्वलाम् ||३९||
सञ्छिन्नभुजनागेन्द्रां बहुरत्नापहारिणीम् |
ऊरुग्राहां मज्जपङ्कां शीर्षोपलसमाकुलाम् ||४०||
धनुष्काशां शरावापां गदापरिघकेतनाम् |
योधव्रातवतीं सङ्ख्ये वहन्तीं यमसादनम् ||४१||
क्षणेन पुरुषव्याघ्रः प्रावर्तयत निम्नगाम् |
यथा वैतरणीमुग्रां दुस्तरामकृतात्मभिः ||४२||
यतो यतः पाण्डवेयः प्रवृत्तो रथसत्तमः |
ततस्ततोऽपातयत योधाञ्शतसहस्रशः ||४३||
एवं दृष्ट्वा कृतं कर्म भीमसेनेन संयुगे |
दुर्योधनो महाराज शकुनिं वाक्यमब्रवीत् ||४४||
जय मातुल सङ्ग्रामे भीमसेनं महाबलम् |
अस्मिञ्जिते जितं मन्ये पाण्डवेयं महाबलम् ||४५||
ततः प्रायान्महाराज सौबलेयः प्रतापवान् |
रणाय महते युक्तो भ्रातृभिः परिवारितः ||४६||
स समासाद्य सङ्ग्रामे भीमं भीमपराक्रमम् |
वारयामास तं वीरो वेलेव मकरालयम् ||४७||
स न्यवर्तत तं भीमो वार्यमाणः शितैः शरैः ||४७||
शकुनिस्तस्य राजेन्द्र वामे पार्श्वे स्तनान्तरे |
प्रेषयामास नाराचान्रुक्मपुङ्खाञ्शिलाशितान् ||४८||
वर्म भित्त्वा तु सौवर्णं बाणास्तस्य महात्मनः |
न्यमज्जन्त महाराज कङ्कबर्हिणवाससः ||४९||
सोऽतिविद्धो रणे भीमः शरं हेमविभूषितम् |
प्रेषयामास सहसा सौबलं प्रति भारत ||५०||
तमायान्तं शरं घोरं शकुनिः शत्रुतापनः |
चिच्छेद शतधा राजन्कृतहस्तो महाबलः ||५१||
तस्मिन्निपतिते भूमौ भीमः क्रुद्धो विशां पते |
धनुश्चिच्छेद भल्लेन सौबलस्य हसन्निव ||५२||
तदपास्य धनुश्छिन्नं सौबलेयः प्रतापवान् |
अन्यदादत्त वेगेन धनुर्भल्लांश्च षोडश ||५३||
तैस्तस्य तु महाराज भल्लैः संनतपर्वभिः |
चतुर्भिः सारथिं ह्यार्च्छद्भीमं पञ्चभिरेव च ||५४||
ध्वजमेकेन चिच्छेद छत्रं द्वाभ्यां विशां पते |
चतुर्भिश्चतुरो वाहान्विव्याध सुबलात्मजः ||५५||
ततः क्रुद्धो महाराज भीमसेनः प्रतापवान् |
शक्तिं चिक्षेप समरे रुक्मदण्डामयस्मयीम् ||५६||
सा भीमभुजनिर्मुक्ता नागजिह्वेव चञ्चला |
निपपात रथे तूर्णं सौबलस्य महात्मनः ||५७||
ततस्तामेव सङ्गृह्य शक्तिं कनकभूषणाम् |
भीमसेनाय चिक्षेप क्रुद्धरूपो विशां पते ||५८||
सा निर्भिद्य भुजं सव्यं पाण्डवस्य महात्मनः |
पपात च ततो भूमौ यथा विद्युन्नभश्च्युता ||५९||
अथोत्क्रुष्टं महाराज धार्तराष्ट्रैः समन्ततः |
न तु तं ममृषे भीमः सिंहनादं तरस्विनाम् ||६०||
स सङ्गृह्य धनुः सज्यं त्वरमाणो महारथः |
मुहूर्तादिव राजेन्द्र छादयामास सायकैः ||६१||
सौबलस्य बलं सङ्ख्ये त्यक्त्वात्मानं महाबलः ||६१||
तस्याश्वांश्चतुरो हत्वा सूतं चैव विशां पते |
ध्वजं चिच्छेद भल्लेन त्वरमाणः पराक्रमी ||६२||
हताश्वं रथमुत्सृज्य त्वरमाणो नरोत्तमः |
तस्थौ विस्फारयंश्चापं क्रोधरक्तेक्षणः श्वसन् ||६३||
शरैश्च बहुधा राजन्भीममार्च्छत्समन्ततः ||६३||
प्रतिहत्य तु वेगेन भीमसेनः प्रतापवान् |
धनुश्चिच्छेद सङ्क्रुद्धो विव्याध च शितैः शरैः ||६४||
सोऽतिविद्धो बलवता शत्रुणा शत्रुकर्शनः |
निपपात ततो भूमौ किञ्चित्प्राणो नराधिप ||६५||
ततस्तं विह्वलं ज्ञात्वा पुत्रस्तव विशां पते |
अपोवाह रथेनाजौ भीमसेनस्य पश्यतः ||६६||
रथस्थे तु नरव्याघ्रे धार्तराष्ट्राः पराङ्मुखाः |
प्रदुद्रुवुर्दिशो भीता भीमाज्जाते महाभये ||६७||
सौबले निर्जिते राजन्भीमसेनेन धन्विना |
भयेन महता भग्नः पुत्रो दुर्योधनस्तव ||६८||
अपायाज्जवनैरश्वैः सापेक्षो मातुलं प्रति ||६८||
पराङ्मुखं तु राजानं दृष्ट्वा सैन्यानि भारत |
विप्रजग्मुः समुत्सृज्य द्वैरथानि समन्ततः ||६९||
तान्दृष्ट्वातिरथान्सर्वान्धार्तराष्ट्रान्पराङ्मुखान् |
जवेनाभ्यपतद्भीमः किरञ्शरशतान्बहून् ||७०||
ते वध्यमाना भीमेन धार्तराष्ट्राः पराङ्मुखाः |
कर्णमासाद्य समरे स्थिता राजन्समन्ततः ||७१||
स हि तेषां महावीर्यो द्वीपोऽभूत्सुमहाबलः ||७१||
भिन्ननौका यथा राजन्द्वीपमासाद्य निर्वृताः |
भवन्ति पुरुषव्याघ्र नाविकाः कालपर्यये ||७२||
तथा कर्णं समासाद्य तावका भरतर्षभ |
समाश्वस्ताः स्थिता राजन्सम्प्रहृष्टाः परस्परम् ||७३||
समाजग्मुश्च युद्धाय मृत्युं कृत्वा निवर्तनम् ||७३||
५६
धृतराष्ट्र उवाच||
ततो भग्नेषु सैन्येषु भीमसेनेन संयुगे |
दुर्योधनोऽब्रवीत्किं नु सौबलो वापि सञ्जय ||१||
कर्णो वा जयतां श्रेष्ठो योधा वा मामका युधि |
कृपो वा कृतवर्मा च द्रौणिर्दुःशासनोऽपि वा ||२||
अत्यद्भुतमिदं मन्ये पाण्डवेयस्य विक्रमम् |
यथाप्रतिज्ञं योधानां राधेयः कृतवानपि ||३||
कुरूणामपि सर्वेषां कर्णः शत्रुनिषूदनः |
शर्म वर्म प्रतिष्ठा च जीविताशा च सञ्जय ||४||
तत्प्रभग्नं बलं दृष्ट्वा कौन्तेयेनामितौजसा |
राधेयानामधिरथः कर्णः किमकरोद्युधि ||५||
पुत्रा वा मम दुर्धर्षा राजानो वा महारथाः |
एतन्मे सर्वमाचक्ष्व कुशलो ह्यसि सञ्जय ||६||
सञ्जय उवाच||
अपराह्णे महाराज सूतपुत्रः प्रतापवान् |
जघान सोमकान्सर्वान्भीमसेनस्य पश्यतः ||७||
भीमोऽप्यतिबलः सैन्यं धार्तराष्ट्रं व्यपोथयत् ||७||
द्राव्यमाणं बलं दृष्ट्वा भीमसेनेन धीमता |
यन्तारमब्रवीत्कर्णः पाञ्चालानेव मा वह ||८||
मद्रराजस्ततः शल्यः श्वेतानश्वान्महाजवान् |
प्राहिणोच्चेदिपाञ्चालान्करूषांश्च महाबलः ||९||
प्रविश्य च स तां सेनां शल्यः परबलार्दनः |
न्ययच्छत्तुरगान्हृष्टो यत्र यत्रैच्छदग्रणीः ||१०||
तं रथं मेघसङ्काशं वैयाघ्रपरिवारणम् |
संदृश्य पाण्डुपाञ्चालास्त्रस्ता आसन्विशां पते ||११||
ततो रथस्य निनदः प्रादुरासीन्महारणे |
पर्जन्यसमनिर्घोषः पर्वतस्येव दीर्यतः ||१२||
ततः शरशतैस्तीक्ष्णैः कर्णोऽप्याकर्णनिःसृतैः |
जघान पाण्डवबलं शतशोऽथ सहस्रशः ||१३||
तं तथा समरे कर्म कुर्वाणमतिमानुषम् |
परिवव्रुर्महेष्वासाः पाण्डवानां महारथाः ||१४||
तं शिखण्डी च भीमश्च धृष्टद्युम्नश्च पार्षतः |
नकुलः सहदेवश्च द्रौपदेयाः ससात्यकाः ||१५||
परिवव्रुर्जिघांसन्तो राधेयं शरवृष्टिभिः ||१५||
सात्यकिस्तु ततः कर्णं विंशत्या निशितैः शरैः |
अताडयद्रणे शूरो जत्रुदेशे नरोत्तमः ||१६||
शिखण्डी पञ्चविंशत्या धृष्टद्युम्नश्च पञ्चभिः |
द्रौपदेयाश्चतुःषष्ट्या सहदेवश्च सप्तभिः ||१७||
नकुलश्च शतेनाजौ कर्णं विव्याध सायकैः ||१७||
भीमसेनस्तु राधेयं नवत्या नतपर्वणाम् |
विव्याध समरे क्रुद्धो जत्रुदेशे महाबलः ||१८||
ततः प्रहस्याधिरथिर्विक्षिपन्धनुरुत्तमम् |
मुमोच निशितान्बाणान्पीडयन्सुमहाबलः ||१९||
तान्प्रत्यविध्यद्राधेयः पञ्चभिः पञ्चभिः शरैः ||१९||
सात्यकेस्तु धनुश्छित्त्वा ध्वजं च पुरुषर्षभः |
अथैनं नवभिर्बाणैराजघान स्तनान्तरे ||२०||
भीमसेनस्तु तं क्रुद्धो विव्याध त्रिंशता शरैः |
सारथिं च त्रिभिर्बाणैराजघान परन्तपः ||२१||
विरथान्द्रौपदेयांश्च चकार पुरुषर्षभः |
अक्ष्णोर्निमेषमात्रेण तदद्भुतमिवाभवत् ||२२||
विमुखीकृत्य तान्सर्वाञ्शरैः संनतपर्वभिः |
पाञ्चालानहनच्छूरश्चेदीनां च महारथान् ||२३||
ते वध्यमानाः समरे चेदिमत्स्या विशां पते |
कर्णमेकमभिद्रुत्य शरसङ्घैः समार्दयन् ||२४||
ताञ्जघान शितैर्बाणैः सूतपुत्रो महारथः ||२४||
एतदत्यद्भुतं कर्णे दृष्टवानस्मि भारत |
यदेकः समरे शूरान्सूतपुत्रः प्रतापवान् ||२५||
यतमानान्परं शक्त्यायोधयत्तांश्च धन्विनः |
पाण्डवेयान्महाराज शरैर्वारितवान्रणे ||२६||
तत्र भारत कर्णस्य लाघवेन महात्मनः |
तुतुषुर्देवताः सर्वाः सिद्धाश्च परमर्षयः ||२७||
अपूजयन्महेष्वासा धार्तराष्ट्रा नरोत्तमम् |
कर्णं रथवरश्रेष्ठं श्रेष्ठं सर्वधनुष्मताम् ||२८||
ततः कर्णो महाराज ददाह रिपुवाहिनीम् |
कक्षमिद्धो यथा वह्निर्निदाघे ज्वलितो महान् ||२९||
ते वध्यमानाः कर्णेन पाण्डवेयास्ततस्ततः |
प्राद्रवन्त रणे भीताः कर्णं दृष्ट्वा महाबलम् ||३०||
तत्राक्रन्दो महानासीत्पाञ्चालानां महारणे |
वध्यतां सायकैस्तीक्ष्णैः कर्णचापवरच्युतैः ||३१||
तेन शब्देन वित्रस्ता पाण्डवानां महाचमूः |
कर्णमेकं रणे योधं मेनिरे तत्र शात्रवाः ||३२||
तत्राद्भुतं परं चक्रे राधेयः शत्रुकर्शनः |
यदेकं पाण्डवाः सर्वे न शेकुरभिवीक्षितुम् ||३३||
यथौघः पर्वतश्रेष्ठमासाद्याभिप्रदीर्यते |
तथा तत्पाण्डवं सैन्यं कर्णमासाद्य दीर्यते ||३४||
कर्णोऽपि समरे राजन्विधूमोऽग्निरिव ज्वलन् |
दहंस्तस्थौ महाबाहुः पाण्डवानां महाचमूम् ||३५||
शिरांसि च महाराज कर्णांश्चञ्चलकुण्डलान् |
बाहूंश्च वीरो वीराणां चिच्छेद लघु चेषुभिः ||३६||
हस्तिदन्तान्त्सरून्खड्गान्ध्वजाञ्शक्तीर्हयान्गजान् |
रथांश्च विविधान्राजन्पताका व्यजनानि च ||३७||
अक्षेषायुगयोक्त्राणि चक्राणि विविधानि च |
चिच्छेद शतधा कर्णो योधव्रतमनुष्ठितः ||३८||
तत्र भारत कर्णेन निहतैर्गजवाजिभिः |
अगम्यरूपा पृथिवी मांसशोणितकर्दमा ||३९||
विषमं च समं चैव हतैरश्वपदातिभिः |
रथैश्च कुञ्जरैश्चैव न प्राज्ञायत किञ्चन ||४०||
नापि स्वे न परे योधाः प्राज्ञायन्त परस्परम् |
घोरे शरान्धकारे तु कर्णास्त्रे च विजृम्भिते ||४१||
राधेयचापनिर्मुक्तैः शरैः काञ्चनभूषितैः |
सञ्छादिता महाराज यतमाना महारथाः ||४२||
ते पाण्डवेयाः समरे कर्णेन स्म पुनः पुनः |
अभज्यन्त महाराज यतमाना महारथाः ||४३||
मृगसङ्घान्यथा क्रुद्धः सिंहो द्रावयते वने |
कर्णस्तु समरे योधांस्तत्र तत्र महायशाः ||४४||
कालयामास तत्सैन्यं यथा पशुगणान्वृकः ||४४||
दृष्ट्वा तु पाण्डवीं सेनां धार्तराष्ट्राः पराङ्मुखीम् |
अभिजग्मुर्महेष्वासा रुवन्तो भैरवान्रवान् ||४५||
दुर्योधनो हि राजेन्द्र मुदा परमया युतः |
वादयामास संहृष्टो नानावाद्यानि सर्वशः ||४६||
पाञ्चालापि महेष्वासा भग्ना भग्ना नरोत्तमाः |
न्यवर्तन्त यथा शूरा मृत्युं कृत्वा निवर्तनम् ||४७||
तान्निवृत्तान्रणे शूरान्राधेयः शत्रुतापनः |
अनेकशो महाराज बभञ्ज पुरुषर्षभः ||४८||
तत्र भारत कर्णेन पाञ्चाला विंशती रथाः |
निहताः सादयः क्रोधाच्चेदयश्च परःशताः ||४९||
कृत्वा शून्यान्रथोपस्थान्वाजिपृष्ठांश्च भारत |
निर्मनुष्यान्गजस्कन्धान्पादातांश्चैव विद्रुतान् ||५०||
आदित्य इव मध्याह्ने दुर्निरीक्ष्यः परन्तपः |
कालान्तकवपुः क्रूरः सूतपुत्रश्चचार ह ||५१||
एवमेतान्महाराज नरवाजिरथद्विपान् |
हत्वा तस्थौ महेष्वासः कर्णोऽरिगणसूदनः ||५२||
यथा भूतगणान्हत्वा कालस्तिष्ठेन्महाबलः |
तथा स सोमकान्हत्वा तस्थावेको महारथः ||५३||
तत्राद्भुतमपश्याम पाञ्चालानां पराक्रमम् |
वध्यमानापि कर्णेन नाजहू रणमूर्धनि ||५४||
राजा दुःशासनश्चैव कृपः शारद्वतस्तथा |
अश्वत्थामा कृतवर्मा शकुनिश्चापि सौबलः ||५५||
न्यहनन्पाण्डवीं सेनां शतशोऽथ सहस्रशः ||५५||
कर्णपुत्रौ च राजेन्द्र भ्रातरौ सत्यविक्रमौ |
अनाशयेतां बलिनः पाञ्चालान्वै ततस्ततः ||५६||
तत्र युद्धं तदा ह्यासीत्क्रूरं विशसनं महत् ||५६||
तथैव पाण्डवाः शूरा धृष्टद्युम्नशिखण्डिनौ |
द्रौपदेयाश्च सङ्क्रुद्धा अभ्यघ्नंस्तावकं बलम् ||५७||
एवमेष क्षयो वृत्तः पाण्डवानां ततस्ततः |
तावकानामपि रणे भीमं प्राप्य महाबलम् ||५८||
५७
सञ्जय उवाच||
अर्जुनस्तु महाराज कृत्वा सैन्यं पृथग्विधम् |
सूतपुत्रं सुसंरब्धं दृष्ट्वा चैव महारणे ||१||
शोणितोदां महीं कृत्वा मांसमज्जास्थिवाहिनीम् |
वासुदेवमिदं वाक्यमब्रवीत्पुरुषर्षभ ||२||
एष केतू रणे कृष्ण सूतपुत्रस्य दृश्यते |
भीमसेनादयश्चैते योधयन्ति महारथान् ||३||
एते द्रवन्ति पाञ्चालाः कर्णात्त्रस्ता जनार्दन ||३||
एष दुर्योधनो राजा श्वेतच्छत्रेण भास्वता |
कर्णेन भग्नान्पाञ्चालान्द्रावयन्बहु शोभते ||४||
कृपश्च कृतवर्मा च द्रौणिश्चैव महाबलः |
एते रक्षन्ति राजानं सूतपुत्रेण रक्षिताः ||५||
अवध्यमानास्तेऽस्माभिर्घातयिष्यन्ति सोमकान् ||५||
एष शल्यो रथोपस्थे रश्मिसञ्चारकोविदः |
सूतपुत्ररथं कृष्ण वाहयन्बहु शोभते ||६||
तत्र मे बुद्धिरुत्पन्ना वाहयात्र महारथम् |
नाहत्वा समरे कर्णं निवर्तिष्ये कथञ्चन ||७||
राधेयोऽप्यन्यथा पार्थान्सृञ्जयांश्च महारथान् |
निःशेषान्समरे कुर्यात्पश्यतोर्नौ जनार्दन ||८||
ततः प्रायाद्रथेनाशु केशवस्तव वाहिनीम् |
कर्णं प्रति महेष्वासं द्वैरथे सव्यसाचिना ||९||
प्रयातश्च महाबाहुः पाण्डवानुज्ञया हरिः |
आश्वासयन्रथेनैव पाण्डुसैन्यानि सर्वशः ||१०||
रथघोषः स सङ्ग्रामे पाण्डवेयस्य सम्बभौ |
वासवाशनितुल्यस्य महौघस्येव मारिष ||११||
महता रथघोषेण पाण्डवः सत्यविक्रमः |
अभ्ययादप्रमेयात्मा विजयस्तव वाहिनीम् ||१२||
तमायान्तं समीक्ष्यैव श्वेताश्वं कृष्णसारथिम् |
मद्रराजोऽब्रवीत्कर्णं केतुं दृष्ट्वा महात्मनः ||१३||
अयं स रथ आयाति श्वेताश्वः कृष्णसारथिः |
निघ्नन्नमित्रान्समरे यं कर्ण परिपृच्छसि ||१४||
एष तिष्ठति कौन्तेयः संस्पृशन्गाण्डिवं धनुः |
तं हनिष्यसि चेदद्य तन्नः श्रेयो भविष्यति ||१५||
एषा विदीर्यते सेना धार्तराष्ट्री समन्ततः |
अर्जुनस्य भयात्तूर्णं निघ्नतः शात्रवान्बहून् ||१६||
वर्जयन्सर्वसैन्यानि त्वरते हि धनञ्जयः |
त्वदर्थमिति मन्येऽहं यथास्योदीर्यते वपुः ||१७||
न ह्यवस्थाप्यते पार्थो युयुत्सुः केनचित्सह |
त्वामृते क्रोधदीप्तो हि पीड्यमाने वृकोदरे ||१८||
विरथं धर्मराजं च दृष्ट्वा सुदृढविक्षतम् |
शिखण्डिनं सात्यकिं च धृष्टद्युम्नं च पार्षतम् ||१९||
द्रौपदेयान्युधामन्युमुत्तमौजसमेव च |
नकुलं सहदेवं च भ्रातरौ द्वौ समीक्ष्य च ||२०||
सहसैकरथः पार्थस्त्वामभ्येति परन्तप |
क्रोधरक्तेक्षणः क्रुद्धो जिघांसुः सर्वधन्विनाम् ||२१||
त्वरितोऽभिपतत्यस्मांस्त्यक्त्वा सैन्यान्यसंशयम् |
त्वं कर्ण प्रतियाह्येनं नास्त्यन्यो हि धनुर्धरः ||२२||
न तं पश्यामि लोकेऽस्मिंस्त्वत्तोऽप्यन्यं धनुर्धरम् |
अर्जुनं समरे क्रुद्धं यो वेलामिव धारयेत् ||२३||
न चास्य रक्षां पश्यामि पृष्ठतो न च पार्श्वतः |
एक एवाभियाति त्वां पश्य साफल्यमात्मनः ||२४||
त्वं हि कृष्णौ रणे शक्तः संसाधयितुमाहवे |
तवैष भारो राधेय प्रत्युद्याहि धनञ्जयम् ||२५||
त्वं कृतो ह्येव भीष्मेण द्रोणद्रौणिकृपैरपि |
सव्यसाचिप्रतिरथस्तं निवर्तय पाण्डवम् ||२६||
लेलिहानं यथा सर्पं गर्जन्तमृषभं यथा |
लयस्थितं यथा व्याघ्रं जहि कर्ण धनञ्जयम् ||२७||
एते द्रवन्ति समरे धार्तराष्ट्रा महारथाः |
अर्जुनस्य भयात्तूर्णं निरपेक्षा जनाधिपाः ||२८||
द्रवतामथ तेषां तु युधि नान्योऽस्ति मानवः |
भयहा यो भवेद्वीर त्वामृते सूतनन्दन ||२९||
एते त्वां कुरवः सर्वे द्वीपमासाद्य संयुगे |
विष्ठिताः पुरुषव्याघ्र त्वत्तः शरणकाङ्क्षिणः ||३०||
वैदेहाम्बष्ठकाम्बोजास्तथा नग्नजितस्त्वया |
गान्धाराश्च यया धृत्या जिताः सङ्ख्ये सुदुर्जयाः ||३१||
तां धृतिं कुरु राधेय ततः प्रत्येहि पाण्डवम् |
वासुदेवं च वार्ष्णेयं प्रीयमाणं किरीटिना ||३२||
कर्ण उवाच||
प्रकृतिस्थो हि मे शल्य इदानीं संमतस्तथा |
प्रतिभासि महाबाहो विभीश्चैव धनञ्जयात् ||३३||
पश्य बाह्वोर्बलं मेऽद्य शिक्षितस्य च पश्य मे |
एकोऽद्य निहनिष्यामि पाण्डवानां महाचमूम् ||३४||
कृष्णौ च पुरुषव्याघ्रौ तच्च सत्यं ब्रवीमि ते |
नाहत्वा युधि तौ वीरावपयास्ये कथञ्चन ||३५||
स्वप्स्ये वा निहतस्ताभ्यामसत्यो हि रणे जयः |
कृतार्थो वा भविष्यामि हत्वा तावथ वा हतः ||३६||
नैतादृशो जातु बभूव लोके; रथोत्तमो यावदनुश्रुतं नः |
तमीदृशं प्रतियोत्स्यामि पार्थं; महाहवे पश्य च पौरुषं मे ||३७||
रथे चरत्येष रथप्रवीरः; शीघ्रैर्हयैः कौरवराजपुत्रः |
स वाद्य मां नेष्यति कृच्छ्रमेत; त्कर्णस्यान्तादेतदन्ताः स्थ सर्वे ||३८||
अस्वेदिनौ राजपुत्रस्य हस्ता; ववेपिनौ जातकिणौ बृहन्तौ |
दृढायुधः कृतिमान्क्षिप्रहस्तो; न पाण्डवेयेन समोऽस्ति योधः ||३९||
गृह्णात्यनेकानपि कङ्कपत्रा; नेकं यथा तान्क्षितिपान्प्रमथ्य |
ते क्रोशमात्रं निपतन्त्यमोघाः; कस्तेन योधोऽस्ति समः पृथिव्याम् ||४०||
अतोषयत्पाण्डवेयो हुताशं; कृष्णद्वितीयोऽतिरथस्तरस्वी |
लेभे चक्रं यत्र कृष्णो महात्मा; धनुर्गाण्डीवं पाण्डवः सव्यसाची ||४१||
श्वेताश्वयुक्तं च सुघोषमग्र्यं; रथं महाबाहुरदीनसत्त्वः |
महेषुधी चाक्षयौ दिव्यरूपौ; शस्त्राणि दिव्यानि च हव्यवाहात् ||४२||
तथेन्द्रलोके निजघान दैत्या; नसङ्ख्येयान्कालकेयांश्च सर्वान् |
लेभे शङ्खं देवदत्तं स्म तत्र; को नाम तेनाभ्यधिकः पृथिव्याम् ||४३||
महादेवं तोषयामास चैव; साक्षात्सुयुद्धेन महानुभावः |
लेभे ततः पाशुपतं सुघोरं; त्रैलोक्यसंहारकरं महास्त्रम् ||४४||
पृथक्पृथग्लोकपालाः समेता; ददुर्ह्यस्त्राण्यप्रमेयाणि यस्य |
यैस्ताञ्जघानाशु रणे नृसिंहा; न्स कालखञ्जानसुरान्समेतान् ||४५||
तथा विराटस्य पुरे समेता; न्सर्वानस्मानेकरथेन जित्वा |
जहार तद्गोधनमाजिमध्ये; वस्त्राणि चादत्त महारथेभ्यः ||४६||
तमीदृशं वीर्यगुणोपपन्नं; कृष्णद्वितीयं वरये रणाय |
अनन्तवीर्येण च केशवेन; नारायणेनाप्रतिमेन गुप्तम् ||४७||
वर्षायुतैर्यस्य गुणा न शक्या; वक्तुं समेतैरपि सर्वलोकैः |
महात्मनः शङ्खचक्रासिपाणे; र्विष्णोर्जिष्णोर्वसुदेवात्मजस्य ||४८||
भयं मे वै जायते साध्वसं च; दृष्ट्वा कृष्णावेकरथे समेतौ ||४८||
उभौ हि शूरौ कृतिनौ दृढास्त्रौ; महारथौ संहननोपपन्नौ |
एतादृशौ फल्गुनवासुदेवौ; कोऽन्यः प्रतीयान्मदृते नु शल्य ||४९||
एतावहं युधि वा पातयिष्ये; मां वा कृष्णौ निहनिष्यतोऽद्य |
इति ब्रुवञ्शल्यममित्रहन्ता; कर्णो रणे मेघ इवोन्ननाद ||५०||
अभ्येत्य पुत्रेण तवाभिनन्दितः; समेत्य चोवाच कुरुप्रवीरान् |
कृपं च भोजं च महाभुजावुभौ; तथैव गान्धारनृपं सहानुजम् ||५१||
गुरोः सुतं चावरजं तथात्मनः; पदातिनोऽथ द्विपसादिनोऽन्यान् ||५१||
निरुन्धताभिद्रवताच्युतार्जुनौ; श्रमेण संयोजयताशु सर्वतः |
यथा भवद्भिर्भृशविक्षतावुभौ; सुखेन हन्यामहमद्य भूमिपाः ||५२||
तथेति चोक्त्वा त्वरिताः स्म तेऽर्जुनं; जिघांसवो वीरतमाः समभ्ययुः |
नदीनदान्भूरिजलो महार्णवो; यथा तथा तान्समरेऽर्जुनोऽग्रसत् ||५३||
न संदधानो न तथा शरोत्तमा; न्प्रमुञ्चमानो रिपुभिः प्रदृश्यते |
धनञ्जयस्तस्य शरैश्च दारिता; हताश्च पेतुर्नरवाजिकुञ्जराः ||५४||
शरार्चिषं गाण्डिवचारुमण्डलं; युगान्तसूर्यप्रतिमानतेजसम् |
न कौरवाः शेकुरुदीक्षितुं जयं; यथा रविं व्याधितचक्षुषो जनाः ||५५||
तमभ्यधावद्विसृजञ्शरान्कृप; स्तथैव भोजस्तव चात्मजः स्वयम् |
जिघांसुभिस्तान्कुशलैः शरोत्तमा; न्महाहवे सञ्जवितान्प्रयत्नतः ||५६||
शरैः प्रचिच्छेद च पाण्डवस्त्वर; न्पराभिनद्वक्षसि च त्रिभिस्त्रिभिः ||५६||
स गाण्डिवाभ्यायतपूर्णमण्डल; स्तपन्रिपूनर्जुनभास्करो बभौ |
शरोग्ररश्मिः शुचिशुक्रमध्यगो; यथैव सूर्यः परिवेषगस्तथा ||५७||
अथाग्र्यबाणैर्दशभिर्धनञ्जयं; पराभिनद्द्रोणसुतोऽच्युतं त्रिभिः |
चतुर्भिरश्वांश्चतुरः कपिं तथा; शरैः स नाराचवरैरवाकिरत् ||५८||
तथा तु तत्तत्स्फुरदात्तकार्मुकं; त्रिभिः शरैर्यन्तृशिरः क्षुरेण |
हयांश्चतुर्भिश्चतुरस्त्रिभिर्ध्वजं; धनञ्जयो द्रौणिरथान्न्यपातयत् ||५९||
स रोषपूर्णोऽशनिवज्रहाटकै; रलङ्कृतं तक्षकभोगवर्चसम् |
सुबन्धनं कार्मुकमन्यदाददे; यथा महाहिप्रवरं गिरेस्तथा ||६०||
स्वमायुधं चोपविकीर्य भूतले; धनुश्च कृत्वा सगुणं गुणाधिकः |
समानयानावजितौ नरोत्तमौ; शरोत्तमैर्द्रौणिरविध्यदन्तिकात् ||६१||
कृपश्च भोजश्च तथात्मजश्च ते; तमोनुदं वारिधरा इवापतन् |
कृपस्य पार्थः सशरं शरासनं; हयान्ध्वजं सारथिमेव पत्रिभिः ||६२||
शरैः प्रचिच्छेद तवात्मजस्य; ध्वजं धनुश्च प्रचकर्त नर्दतः |
जघान चाश्वान्कृतवर्मणः शुभा; न्ध्वजं च चिच्छेद ततः प्रतापवान् ||६३||
सवाजिसूतेष्वसनान्सकेतना; ञ्जघान नागाश्वरथांस्त्वरंश्च सः |
ततः प्रकीर्णं सुमहद्बलं तव; प्रदारितं सेतुरिवाम्भसा यथा ||६४||
ततोऽर्जुनस्याशु रथेन केशव; श्चकार शत्रूनपसव्यमातुरान् ||६४||
ततः प्रयान्तं त्वरितं धनञ्जयं; शतक्रतुं वृत्रनिजघ्नुषं यथा |
समन्वधावन्पुनरुच्छ्रितैर्ध्वजै; रथैः सुयुक्तैरपरे युयुत्सवः ||६५||
अथाभिसृत्य प्रतिवार्य तानरी; न्धनञ्जयस्याभि रथं महारथाः |
शिखण्डिशैनेययमाः शितैः शरै; र्विदारयन्तो व्यनदन्सुभैरवम् ||६६||
ततोऽभिजघ्नुः कुपिताः परस्परं; शरैस्तदाञ्जोगतिभिः सुतेजनैः |
कुरुप्रवीराः सह सृञ्जयैर्यथा; सुराः पुरा देववरैरयोधयन् ||६७||
जयेप्सवः स्वर्गमनाय चोत्सुकाः; पतन्ति नागाश्वरथाः परन्तप |
जगर्जुरुच्चैर्बलवच्च विव्यधुः; शरैः सुमुक्तैरितरेतरं पृथक् ||६८||
शरान्धकारे तु महात्मभिः कृते; महामृधे योधवरैः परस्परम् |
बभुर्दशाशा न दिवं च पार्थिव; प्रभा च सूर्यस्य तमोवृताभवत् ||६९||
५८
सञ्जय उवाच||
राजन्कुरूणां प्रवरैर्बलैर्भीममभिद्रुतम् |
मज्जन्तमिव कौन्तेयमुज्जिहीर्षुर्धनञ्जयः ||१||
विमृद्य सूतपुत्रस्य सेनां भारत सायकैः |
प्राहिणोन्मृत्युलोकाय परवीरान्धनञ्जयः ||२||
ततोऽस्याम्बरमावृत्य शरजालानि भागशः |
अदृश्यन्त तथान्ये च निघ्नन्तस्तव वाहिनीम् ||३||
स पक्षिसङ्घाचरितमाकाशं पूरयञ्शरैः |
धनञ्जयो महाराज कुरूणामन्तकोऽभवत् ||४||
ततो भल्लैः क्षुरप्रैश्च नाराचैर्निर्मलैरपि |
गात्राणि प्राक्षिणोत्पार्थः शिरांसि च चकर्त ह ||५||
छिन्नगात्रैर्विकवचैर्विशिरस्कैः समन्ततः |
पतितैश्च पतद्भिश्च योधैरासीत्समावृतम् ||६||
धनञ्जयशराभ्यस्तैः स्यन्दनाश्वनरद्विपैः |
रणभूमिरभूद्राजन्महावैतरणी यथा ||७||
ईषाचक्राक्षभङ्गैश्च व्यश्वैः साश्वैश्च युध्यताम् |
ससूतैर्हतसूतैश्च रथैः स्तीर्णाभवन्मही ||८||
सुवर्णवर्मसंनाहैर्योधैः कनकभूषणैः |
आस्थिताः कृतवर्माणो भद्रा नित्यमदा द्विपाः ||९||
क्रुद्धाः क्रुद्धैर्महामात्रैः प्रेषितार्जुनमभ्ययुः ||९||
चतुःशताः शरवर्षैर्हताः पेतुः किरीटिना |
पर्यस्तानीव शृङ्गाणि ससत्त्वानि महागिरेः ||१०||
धनञ्जयशराभ्यस्तैः स्तीर्णा भूर्वरवारणैः |
अभिपेदेऽर्जुनरथो घनान्भिन्दन्निवांशुमान् ||११||
हतैर्गजमनुष्याश्वैर्भग्नैश्च बहुधा रथैः |
विशस्त्रपत्रकवचैर्युद्धशौण्डैर्गतासुभिः ||१२||
अपविद्धायुधैर्मार्गः स्तीर्णोऽभूत्फल्गुनेन वै ||१२||
व्यस्फूर्जयच्च गाण्डीवं सुमहद्भैरवस्वनम् |
घोरो वज्रविनिष्पेषः स्तनयित्नोरिवाम्बरे ||१३||
ततः प्रादीर्यत चमूर्धनञ्जयशराहता |
महावातसमाविद्धा महानौरिव सागरे ||१४||
नानारूपाः प्रहरणाः शरा गाण्डीवचोदिताः |
अलातोल्काशनिप्रख्यास्तव सैन्यं विनिर्दहन् ||१५||
महागिरौ वेणुवनं निशि प्रज्वलितं यथा |
तथा तव महत्सैन्यं प्रास्फुरच्छरपीडितम् ||१६||
सम्पिष्टदग्धविध्वस्तं तव सैन्यं किरीटिना |
हतं प्रविहतं बाणैः सर्वतः प्रद्रुतं दिशः ||१७||
महावने मृगगणा दावाग्निग्रसिता यथा |
कुरवः पर्यवर्तन्त निर्दग्धाः सव्यसाचिना ||१८||
उत्सृज्य हि महाबाहुं भीमसेनं तदा रणे |
बलं कुरूणामुद्विग्नं सर्वमासीत्पराङ्मुखम् ||१९||
ततः कुरुषु भग्नेषु बीभत्सुरपराजितः |
भीमसेनं समासाद्य मुहूर्तं सोऽभ्यवर्तत ||२०||
समागम्य स भीमेन मन्त्रयित्वा च फल्गुनः |
विशल्यमरुजं चास्मै कथयित्वा युधिष्ठिरम् ||२१||
भीमसेनाभ्यनुज्ञातस्ततः प्रायाद्धनञ्जयः |
नादयन्रथघोषेण पृथिवीं द्यां च भारत ||२२||
ततः परिवृतो भीमैर्दशभिः शत्रुपुङ्गवैः |
दुःशासनादवरजैस्तव पुत्रैर्धनञ्जयः ||२३||
ते तमभ्यर्दयन्बाणैरुल्काभिरिव कुञ्जरम् |
आततेष्वसनाः क्रूरा नृत्यन्त इव भारत ||२४||
अपसव्यांस्तु तांश्चक्रे रथेन मधुसूदनः |
ततस्ते प्राद्रवञ्शूराः पराङ्मुखरथेऽर्जुने ||२५||
तेषामापततां केतून्रथांश्चापानि सायकान् |
नाराचैरर्धचन्द्रैश्च क्षिप्रं पार्थो न्यपातयत् ||२६||
अथान्यैर्दशभिर्भल्लैः शिरांस्येषां न्यपातयत् |
रोषसंरक्तनेत्राणि संदष्टौष्ठानि भूतले ||२७||
तानि वक्त्राणि विबभुर्व्योम्नि तारागणा इव ||२७||
तांस्तु भल्लैर्महावेगैर्दशभिर्दश कौरवान् |
रुक्माङ्गदान्रुक्मपुङ्खैर्विद्ध्वा प्रायादमित्रहा ||२८||
५९
सञ्जय उवाच||
तं तु यान्तं महावेगैरश्वैः कपिवरध्वजम् |
युद्धायाभ्यद्रवन्वीराः कुरूणां नवती रथाः ||१||
परिवव्रुर्नरव्याघ्रा नरव्याघ्रं रणेऽर्जुनम् ||१||
कृष्णः श्वेतान्महावेगानश्वान्कनकभूषणान् |
मुक्ताजालप्रतिच्छन्नान्प्रैषीत्कर्णरथं प्रति ||२||
ततः कर्णरथं यान्तमरीन्घ्नन्तं धनञ्जयम् |
बाणवर्षैरभिघ्नन्तः संशप्तकरथा ययुः ||३||
त्वरमाणांस्तु तान्सर्वान्ससूतेष्वसनध्वजान् |
जघान नवतिं वीरानर्जुनो निशितैः शरैः ||४||
तेऽपतन्त हता बाणैर्नानारूपैः किरीटिना |
सविमाना यथा सिद्धाः स्वर्गात्पुण्यक्षये तथा ||५||
ततः सरथनागाश्वाः कुरवः कुरुसत्तम |
निर्भया भरतश्रेष्ठमभ्यवर्तन्त फल्गुनम् ||६||
तदायस्तममुक्तास्त्रमुदीर्णवरवारणम् |
पुत्राणां ते महत्सैन्यं समरौत्सीद्धनञ्जयः ||७||
शक्त्यृष्टितोमरप्रासैर्गदानिस्त्रिंशसायकैः |
प्राच्छादयन्महेष्वासाः कुरवः कुरुनन्दनम् ||८||
तां कुरूणां प्रविततां शस्त्रवृष्टिं समुद्यताम् |
व्यधमत्पाण्डवो बाणैस्तमः सूर्य इवांशुभिः ||९||
ततो म्लेच्छाः स्थितैर्मत्तैस्त्रयोदशशतैर्गजैः |
पार्श्वतोऽभ्यहनन्पार्थं तव पुत्रस्य शासनात् ||१०||
कर्णिनालीकनाराचैस्तोमरैः प्रासशक्तिभिः |
कम्पनैर्भिण्डिपालैश्च रथस्थं पार्थमार्दयन् ||११||
तामस्त्रवृष्टिं प्रहितां द्विपस्थैर्यवनैः स्मयन् |
चिच्छेद निशितैर्भल्लैरर्धचन्द्रैश्च फल्गुनः ||१२||
अथ तान्द्विरदान्सर्वान्नानालिङ्गैर्महाशरैः |
सपताकान्सहारोहान्गिरीन्वज्रैरिवाभिनत् ||१३||
ते हेमपुङ्खैरिषुभिराचिता हेममालिनः |
हताः पेतुर्महानागाः साग्निज्वाला इवाद्रयः ||१४||
ततो गाण्डीवनिर्घोषो महानासीद्विशां पते |
स्तनतां कूजतां चैव मनुष्यगजवाजिनाम् ||१५||
कुञ्जराश्च हता राजन्प्राद्रवंस्ते समन्ततः |
अश्वाश्च पर्यधावन्त हतारोहा दिशो दश ||१६||
रथा हीना महाराज रथिभिर्वाजिभिस्तथा |
गन्धर्वनगराकारा दृश्यन्ते स्म सहस्रशः ||१७||
अश्वारोहा महाराज धावमानास्ततस्ततः |
तत्र तत्रैव दृश्यन्ते पतिताः पार्थसायकैः ||१८||
तस्मिन्क्षणे पाण्डवस्य बाह्वोर्बलमदृश्यत |
यत्सादिनो वारणांश्च रथांश्चैकोऽजयद्युधि ||१९||
ततस्त्र्यङ्गेण महता बलेन भरतर्षभ |
दृष्ट्वा परिवृतं राजन्भीमसेनः किरीटिनम् ||२०||
हतावशेषानुत्सृज्य त्वदीयान्कतिचिद्रथान् |
जवेनाभ्यद्रवद्राजन्धनञ्जयरथं प्रति ||२१||
ततस्तत्प्राद्रवत्सैन्यं हतभूयिष्ठमातुरम् |
दृष्ट्वा यदर्जुनं भीमो जगाम भ्रातरं प्रति ||२२||
हतावशिष्टांस्तुरगानर्जुनेन महाजवान् |
भीमो व्यधमदभ्रान्तो गदापाणिर्महाहवे ||२३||
कालरात्रिमिवात्युग्रां नरनागाश्वभोजनाम् |
प्राकाराट्टपुरद्वारदारणीमतिदारुणाम् ||२४||
ततो गदां नृनागाश्वेष्वाशु भीमो व्यवासृजत् |
सा जघान बहूनश्वानश्वारोहांश्च मारिष ||२५||
कांस्यायसतनुत्रांस्तान्नरानश्वांश्च पाण्डवः |
पोथयामास गदया सशब्दं तेऽपतन्हताः ||२६||
हत्वा तु तद्गजानीकं भीमसेनो महाबलः |
पुनः स्वरथमास्थाय पृष्ठतोऽर्जुनमन्वगात् ||२७||
हतं पराङ्मुखप्रायं निरुत्साहं परं बलम् |
व्यालम्बत महाराज प्रायशः शस्त्रवेष्टितम् ||२८||
विलम्बमानं तत्सैन्यमप्रगल्भमवस्थितम् |
दृष्ट्वा प्राच्छादयद्बाणैरर्जुनः प्राणतापनैः ||२९||
ततः कुरूणामभवदार्तनादो महामृधे |
रथाश्वनागासुहरैर्वध्यतामर्जुनेषुभिः ||३०||
हाहाकृतं भृशं तस्थौ लीयमानं परस्परम् |
अलातचक्रवत्सैन्यं तदाभ्रमत तावकम् ||३१||
आदीप्तं तव तत्सैन्यं शरैश्छिन्नतनुच्छदम् |
आसीत्स्वशोणितक्लिन्नं फुल्लाशोकवनं यथा ||३२||
तद्दृष्ट्वा कुरवस्तत्र विक्रान्तं सव्यसाचिनः |
निराशाः समपद्यन्त सर्वे कर्णस्य जीविते ||३३||
अविषह्यं तु पार्थस्य शरसम्पातमाहवे |
मत्वा न्यवर्तन्कुरवो जिता गाण्डीवधन्वना ||३४||
ते हित्वा समरे पार्थं वध्यमानाश्च सायकैः |
प्रदुद्रुवुर्दिशो भीताश्चुक्रुशुश्चापि सूतजम् ||३५||
अभ्यद्रवत तान्पार्थः किरञ्शरशतान्बहून् |
हर्षयन्पाण्डवान्योधान्भीमसेनपुरोगमान् ||३६||
पुत्रास्तु ते महाराज जग्मुः कर्णरथं प्रति |
अगाधे मज्जतां तेषां द्वीपः कर्णोऽभवत्तदा ||३७||
कुरवो हि महाराज निर्विषाः पन्नगा इव |
कर्णमेवोपलीयन्त भयाद्गाण्डीवधन्वनः ||३८||
यथा सर्वाणि भूतानि मृत्योर्भीतानि भारत |
धर्ममेवोपलीयन्ते कर्मवन्ति हि यानि च ||३९||
तथा कर्णं महेष्वासं पुत्रास्तव नराधिप |
उपालीयन्त सन्त्रासात्पाण्डवस्य महात्मनः ||४०||
ताञ्शोणितपरिक्लिन्नान्विषमस्थाञ्शरातुरान् |
मा भैष्टेत्यब्रवीत्कर्णो ह्यभितो मामितेति च ||४१||
सम्भग्नं हि बलं दृष्ट्वा बलात्पार्थेन तावकम् |
धनुर्विस्फारयन्कर्णस्तस्थौ शत्रुजिघांसया ||४२||
पाञ्चालान्पुनराधावत्पश्यतः सव्यसाचिनः ||४२||
ततः क्षणेन क्षितिपाः क्षतजप्रतिमेक्षणाः |
कर्णं ववर्षुर्बाणौघैर्यथा मेघा महीधरम् ||४३||
ततः शरसहस्राणि कर्णमुक्तानि मारिष |
व्ययोजयन्त पाञ्चालान्प्राणैः प्राणभृतां वर ||४४||
ततो रणो महानासीत्पाञ्चालानां विशां पते |
वध्यतां सूतपुत्रेण मित्रार्थेऽमित्रघातिनाम् ||४५||
दुःशासनवधः
६०
सञ्जय उवाच||
ततः कर्णः कुरुषु प्रद्रुतेषु; वरूथिना श्वेतहयेन राजन् |
पाञ्चालपुत्रान्व्यधमत्सूतपुत्रो; महेषुभिर्वात इवाभ्रसङ्घान् ||१||
सूतं रथादञ्जलिकेन पात्य; जघान चाश्वाञ्जनमेजयस्य |
शतानीकं सुतसोमं च भल्लै; रवाकिरद्धनुषी चाप्यकृन्तत् ||२||
धृष्टद्युम्नं निर्बिभेदाथ षड्भि; र्जघान चाश्वं दक्षिणं तस्य सङ्ख्ये |
हत्वा चाश्वान्सात्यकेः सूतपुत्रः; कैकेयपुत्रं न्यवधीद्विशोकम् ||३||
तमभ्यधावन्निहते कुमारे; कैकेयसेनापतिरुग्रधन्वा |
शरैर्विभिन्नं भृशमुग्रवेगैः; कर्णात्मजं सोऽभ्यहनत्सुषेणम् ||४||
तस्यार्धचन्द्रैस्त्रिभिरुच्चकर्त; प्रसह्य बाहू च शिरश्च कर्णः |
स स्यन्दनाद्गामपतद्गतासुः; परश्वधैः शाल इवावरुग्णः ||५||
हताश्वमञ्जोगतिभिः सुषेणः; शिनिप्रवीरं निशितैः पृषत्कैः |
प्रच्छाद्य नृत्यन्निव सौतिपुत्रः; शैनेयबाणाभिहतः पपात ||६||
पुत्रे हते क्रोधपरीतचेताः; कर्णः शिनीनामृषभं जिघांसुः |
हतोऽसि शैनेय इति ब्रुवन्स; व्यवासृजद्बाणममित्रसाहम् ||७||
स तस्य चिच्छेद शरं शिखण्डी; त्रिभिस्त्रिभिश्च प्रतुतोद कर्णम् |
शिखण्डिनः कार्मुकं स ध्वजं च; च्छित्त्वा शराभ्यामहनत्सुजातम् ||८||
शिखण्डिनं षड्भिरविध्यदुग्रो; दान्तो धार्ष्टद्युम्नशिरश्चकर्त |
अथाभिनत्सुतसोमं शरेण; स संशितेनाधिरथिर्महात्मा ||९||
अथाक्रन्दे तुमुले वर्तमाने; धार्ष्टद्युम्ने निहते तत्र कृष्णः |
अपाञ्चाल्यं क्रियते याहि पार्थ; कर्णं जहीत्यब्रवीद्राजसिंह ||१०||
ततः प्रहस्याशु नरप्रवीरो; रथं रथेनाधिरथेर्जगाम |
भये तेषां त्राणमिच्छन्सुबाहु; रभ्याहतानां रथयूथपेन ||११||
विस्फार्य गाण्डीवमथोग्रघोषं; ज्यया समाहत्य तले भृशं च |
बाणान्धकारं सहसैव कृत्वा; जघान नागाश्वरथान्नरांश्च ||१२||
तं भीमसेनोऽनु ययौ रथेन; पृष्ठे रक्षन्पाण्डवमेकवीरम् |
तौ राजपुत्रौ त्वरितौ रथाभ्यां; कर्णाय यातावरिभिर्विमुक्तौ ||१३||
अत्रान्तरे सुमहत्सूतपुत्र; श्चक्रे युद्धं सोमकान्सम्प्रमृद्नन् |
रथाश्वमातङ्गगणाञ्जघान; प्रच्छादयामास दिशः शरैश्च ||१४||
तमुत्तमौजा जनमेजयश्च; क्रुद्धौ युधामन्युशिखण्डिनौ च |
कर्णं विनेदुः सहिताः पृषत्कैः; संमर्दमानाः सह पार्षतेन ||१५||
ते पञ्च पाञ्चालरथाः सुरूपै; र्वैकर्तनं कर्णमभिद्रवन्तः |
तस्माद्रथाच्च्यावयितुं न शेकु; र्धैर्यात्कृतात्मानमिवेन्द्रियाणि ||१६||
तेषां धनूंषि ध्वजवाजिसूतां; स्तूणं पताकाश्च निकृत्य बाणैः |
तान्पञ्चभिः स त्वहनत्पृषत्कैः; कर्णस्ततः सिंह इवोन्ननाद ||१७||
तस्यास्यतस्तानभिनिघ्नतश्च; ज्याबाणहस्तस्य धनुःस्वनेन |
साद्रिद्रुमा स्यात्पृथिवी विशीर्णा; इत्येव मत्वा जनता व्यषीदत् ||१८||
स शक्रचापप्रतिमेन धन्वना; भृशाततेनाधिरथिः शरान्सृजन् |
बभौ रणे दीप्तमरीचिमण्डलो; यथांशुमाली परिवेषवांस्तथा ||१९||
शिखण्डिनं द्वादशभिः पराभिन; च्छितैः शरैः षड्भिरथोत्तमौजसम् |
त्रिभिर्युधामन्युमविध्यदाशुगै; स्त्रिभिस्त्रिभिः सोमकपार्षतात्मजौ ||२०||
पराजिताः पञ्च महारथास्तु ते; महाहवे सूतसुतेन मारिष |
निरुद्यमास्तस्थुरमित्रमर्दना; यथेन्द्रियार्थात्मवता पराजिताः ||२१||
निमज्जतस्तानथ कर्णसागरे; विपन्ननावो वणिजो यथार्णवे |
उद्दध्रिरे नौभिरिवार्णवाद्रथैः; सुकल्पितैर्द्रौपदिजाः स्वमातुलान् ||२२||
ततः शिनीनामृषभः शितैः शरै; र्निकृत्य कर्णप्रहितानिषून्बहून् |
विदार्य कर्णं निशितैरयस्मयै; स्तवात्मजं ज्येष्ठमविध्यदष्टभिः ||२३||
कृपोऽथ भोजश्च तवात्मजस्तथा; स्वयं च कर्णो निशितैरताडयत् |
स तैश्चतुर्भिर्युयुधे यदूत्तमो; दिगीश्वरैर्दैत्यपतिर्यथा तथा ||२४||
समानतेनेष्वसनेन कूजता; भृशाततेनामितबाणवर्षिणा |
बभूव दुर्धर्षतरः स सात्यकिः; शरन्नभोमध्यगतो यथा रविः ||२५||
पुनः समासाद्य रथान्सुदंशिताः; शिनिप्रवीरं जुगुपुः परन्तपाः |
समेत्य पाञ्चालरथा महारणे; मरुद्गणाः शक्रमिवारिनिग्रहे ||२६||
ततोऽभवद्युद्धमतीव दारुणं; तवाहितानां तव सैनिकैः सह |
रथाश्वमातङ्गविनाशनं तथा; यथा सुराणामसुरैः पुराभवत् ||२७||
रथद्विपा वाजिपदातयोऽपि वा; भ्रमन्ति नानाविधशस्त्रवेष्टिताः |
परस्परेणाभिहताश्च चस्खलु; र्विनेदुरार्ता व्यसवोऽपतन्त च ||२८||
तथा गते भीममभीस्तवात्मजः; ससार राजावरजः किरञ्शरैः |
तमभ्यधावत्त्वरितो वृकोदरो; महारुरुं सिंह इवाभिपेतिवान् ||२९||
ततस्तयोर्युद्धमतीतमानुषं; प्रदीव्यतोः प्राणदुरोदरेऽभवत् |
परस्परेणाभिनिविष्टरोषयो; रुदग्रयोः शम्बरशक्रयोर्यथा ||३०||
शरैः शरीरान्तकरैः सुतेजनै; र्निजघ्नतुस्तावितरेतरं भृशम् |
सकृत्प्रभिन्नाविव वाशितान्तरे; महागजौ मन्मथसक्तचेतसौ ||३१||
तवात्मजस्याथ वृकोदरस्त्वर; न्धनुः क्षुराभ्यां ध्वजमेव चाच्छिनत् |
ललाटमप्यस्य बिभेद पत्रिणा; शिरश्च कायात्प्रजहार सारथेः ||३२||
स राजपुत्रोऽन्यदवाप्य कार्मुकं; वृकोदरं द्वादशभिः पराभिनत् |
स्वयं नियच्छंस्तुरगानजिह्मगैः; शरैश्च भीमं पुनरभ्यवीवृषत् ||३३||
६१
सञ्जय उवाच||
तत्राकरोद्दुष्करं राजपुत्रो; दुःशासनस्तुमुले युध्यमानः |
चिच्छेद भीमस्य धनुः क्षुरेण; षड्भिः शरैः सारथिमप्यविध्यत् ||१||
ततोऽभिनद्बहुभिः क्षिप्रमेव; वरेषुभिर्भीमसेनं महात्मा |
स विक्षरन्नाग इव प्रभिन्नो; गदामस्मै तुमुले प्राहिणोद्वै ||२||
तयाहरद्दश धन्वन्तराणि; दुःशासनं भीमसेनः प्रसह्य |
तया हतः पतितो वेपमानो; दुःशासनो गदया वेगवत्या ||३||
हयाः ससूताश्च हता नरेन्द्र; चूर्णीकृतश्चास्य रथः पतन्त्या |
विध्वस्तवर्माभरणाम्बरस्र; ग्विचेष्टमानो भृशवेदनार्तः ||४||
ततः स्मृत्वा भीमसेनस्तरस्वी; सापत्नकं यत्प्रयुक्तं सुतैस्ते |
रथादवप्लुत्य गतः स भूमौ; यत्नेन तस्मिन्प्रणिधाय चक्षुः ||५||
असिं समुद्धृत्य शितं सुधारं; कण्ठे समाक्रम्य च वेपमानम् |
उत्कृत्य वक्षः पतितस्य भूमा; वथापिबच्छोणितमस्य कोष्णम् ||६||
आस्वाद्य चास्वाद्य च वीक्षमाणः; क्रुद्धोऽतिवेलं प्रजगाद वाक्यम् ||६||
स्तन्यस्य मातुर्मधुसर्पिषो वा; माध्वीकपानस्य च सत्कृतस्य |
दिव्यस्य वा तोयरसस्य पाना; त्पयोदधिभ्यां मथिताच्च मुख्यात् ||७||
सर्वेभ्य एवाभ्यधिको रसोऽयं; मतो ममाद्याहितलोहितस्य ||७||
एवं ब्रुवाणं पुनराद्रवन्त; मास्वाद्य वल्गन्तमतिप्रहृष्टम् |
ये भीमसेनं ददृशुस्तदानीं; भयेन तेऽपि व्यथिता निपेतुः ||८||
ये चापि तत्रापतिता मनुष्या; स्तेषां करेभ्यः पतितं च शस्त्रम् |
भयाच्च सञ्चुक्रुशुरुच्चकैस्ते; निमीलिताक्षा ददृशुश्च तन्न ||९||
ये तत्र भीमं ददृशुः समन्ता; द्दौःशासनं तद्रुधिरं पिबन्तम् |
सर्वे पलायन्त भयाभिपन्ना; नायं मनुष्य इति भाषमाणाः ||१०||
शृण्वतां लोकवीराणामिदं वचनमब्रवीत् |
एष ते रुधिरं कण्ठात्पिबामि पुरुषाधम ||११||
ब्रूहीदानीं सुसंरब्धः पुनर्गौरिति गौरिति ||११||
प्रमाणकोट्यां शयनं कालकूटस्य भोजनम् |
दशनं चाहिभिः कष्टं दाहं च जतुवेश्मनि ||१२||
द्यूतेन राज्यहरणमरण्ये वसतिश्च या |
इष्वस्त्राणि च सङ्ग्रामेष्वसुखानि च वेश्मनि ||१३||
दुःखान्येतानि जानीमो न सुखानि कदाचन |
धृतराष्ट्रस्य दौरात्म्यात्सपुत्रस्य सदा वयम् ||१४||
इत्युक्त्वा वचनं राजञ्जयं प्राप्य वृकोदरः |
पुनराह महाराज स्मयंस्तौ केशवार्जुनौ ||१५||
दुःशासने यद्रणे संश्रुतं मे; तद्वै सर्वं कृतमद्येह वीरौ |
अद्यैव दास्याम्यपरं द्वितीयं; दुर्योधनं यज्ञपशुं विशस्य ||१६||
शिरो मृदित्वा च पदा दुरात्मनः; शान्तिं लप्स्ये कौरवाणां समक्षम् ||१६||
एतावदुक्त्वा वचनं प्रहृष्टो; ननाद चोच्चै रुधिरार्द्रगात्रः |
ननर्त चैवातिबलो महात्मा; वृत्रं निहत्येव सहस्रनेत्रः ||१७||
६२
सञ्जय उवाच||
दुःशासने तु निहते पुत्रास्तव महारथाः |
महाक्रोधविषा वीराः समरेष्वपलायिनः ||१||
दश राजन्महावीर्यो भीमं प्राच्छादयञ्शरैः ||१||
कवची निषङ्गी पाशी दण्डधारो धनुर्धरः |
अलोलुपः शलः सन्धो वातवेगसुवर्चसौ ||२||
एते समेत्य सहिता भ्रातृव्यसनकर्शिताः |
भीमसेनं महाबाहुं मार्गणैः समवारयन् ||३||
स वार्यमाणो विशिखैः समन्तात्तैर्महारथैः |
भीमः क्रोधाभिरक्ताक्षः क्रुद्धः काल इवाबभौ ||४||
तांस्तु भल्लैर्महावेगैर्दशभिर्दशभिः शितैः |
रुक्माङ्गदो रुक्मपुङ्खैः पार्थो निन्ये यमक्षयम् ||५||
हतेषु तेषु वीरेषु प्रदुद्राव बलं तव |
पश्यतः सूतपुत्रस्य पाण्डवस्य भयार्दितम् ||६||
ततः कर्णो महाराज प्रविवेश महारणम् |
दृष्ट्वा भीमस्य विक्रान्तमन्तकस्य प्रजास्विव ||७||
तस्य त्वाकारभावज्ञः शल्यः समितिशोभनः |
उवाच वचनं कर्णं प्राप्तकालमरिंदम ||८||
मा व्यथां कुरु राधेय नैतत्त्वय्युपपद्यते ||८||
एते द्रवन्ति राजानो भीमसेनभयार्दिताः |
दुर्योधनश्च संमूढो भ्रातृव्यसनदुःखितः ||९||
दुःशासनस्य रुधिरे पीयमाने महात्मना |
व्यापन्नचेतसश्चैव शोकोपहतमन्यवः ||१०||
दुर्योधनमुपासन्ते परिवार्य समन्ततः |
कृपप्रभृतयः कर्ण हतशेषाश्च सोदराः ||११||
पाण्डवा लब्धलक्षाश्च धनञ्जयपुरोगमाः |
त्वामेवाभिमुखाः शूरा युद्धाय समुपास्थिताः ||१२||
स त्वं पुरुषशार्दूल पौरुषे महति स्थितः |
क्षत्रधर्मं पुरस्कृत्य प्रत्युद्याहि धनञ्जयम् ||१३||
भारो हि धार्तराष्ट्रेण त्वयि सर्वः समर्पितः |
तमुद्वह महाबाहो यथाशक्ति यथाबलम् ||१४||
जये स्याद्विपुला कीर्तिर्ध्रुवः स्वर्गः पराजये ||१४||
वृषसेनश्च राधेय सङ्क्रुद्धस्तनयस्तव |
त्वयि मोहसमापन्ने पाण्डवानभिधावति ||१५||
एतच्छ्रुत्वा तु वचनं शल्यस्यामिततेजसः |
हृदि मानुष्यकं भावं चक्रे युद्धाय सुस्थिरम् ||१६||
ततः क्रुद्धो वृषसेनोऽभ्यधाव; दातस्थिवांसं स्वरथं हतारिम् |
वृकोदरं कालमिवात्तदण्डं; गदाहस्तं पोथमानं त्वदीयान् ||१७||
तमभ्यधावन्नकुलः प्रवीरो; रोषादमित्रं प्रतुदन्पृषत्कैः |
कर्णस्य पुत्रं समरे प्रहृष्टं; जिष्णुर्जिघांसुर्मघवेव जम्भम् ||१८||
ततो ध्वजं स्फाटिकचित्रकम्बुं; चिच्छेद वीरो नकुलः क्षुरेण |
कर्णात्मजस्येष्वसनं च चित्रं; भल्लेन जाम्बूनदपट्टनद्धम् ||१९||
अथान्यदादाय धनुः सुशीघ्रं; कर्णात्मजः पाण्डवमभ्यविध्यत् |
दिव्यैर्महास्त्रैर्नकुलं महास्त्रो; दुःशासनस्यापचितिं यियासुः ||२०||
ततः क्रुद्धो नकुलस्तं महात्मा; शरैर्महोल्काप्रतिमैरविध्यत् |
दिव्यैरस्त्रैरभ्यविध्यच्च सोऽपि; कर्णस्य पुत्रो नकुलं कृतास्त्रः ||२१||
कर्णस्य पुत्रो नकुलस्य राज; न्सर्वानश्वानक्षिणोदुत्तमास्त्रैः |
वनायुजान्सुकुमारस्य शुभ्रा; नलङ्कृताञ्जातरूपेण शीघ्रान् ||२२||
ततो हताश्वादवरुह्य याना; दादाय चर्म रुचिरं चाष्टचन्द्रम् |
आकाशसङ्काशमसिं गृहीत्वा; पोप्लूयमानः खगवच्चचार ||२३||
ततोऽन्तरिक्षे नृवराश्वनागां; श्चिच्छेद मार्गान्विचरन्विचित्रान् |
ते प्रापतन्नसिना गां विशस्ता; यथाश्वमेधे पशवः शमित्रा ||२४||
द्विसाहस्रा विदिता युद्धशौण्डा; नानादेश्याः सुभृताः सत्यसन्धाः |
एकेन शीघ्रं नकुलेन कृत्ताः; सारेप्सुनेवोत्तमचन्दनास्ते ||२५||
तमापतन्तं नकुलं सोऽभिपत्य; समन्ततः सायकैरभ्यविध्यत् |
स तुद्यमानो नकुलः पृषत्कै; र्विव्याध वीरं स चुकोप विद्धः ||२६||
तं कर्णपुत्रो विधमन्तमेकं; नराश्वमातङ्गरथप्रवेकान् |
क्रीडन्तमष्टादशभिः पृषत्कै; र्विव्याध वीरं स चुकोप विद्धः ||२७||
ततोऽभ्यधावत्समरे जिघांसुः; कर्णात्मजं पाण्डुसुतो नृवीरः |
तस्येषुभिर्व्यधमत्कर्णपुत्रो; महारणे चर्म सहस्रतारम् ||२८||
तस्यायसं निशितं तीक्ष्णधार; मसिं विकोशं गुरुभारसाहम् |
द्विषच्छरीरापहरं सुघोर; माधुन्वतः सर्पमिवोग्ररूपम् ||२९||
क्षिप्रं शरैः षड्भिरमित्रसाह; श्चकर्त खड्गं निशितैः सुधारैः |
पुनश्च पीतैर्निशितैः पृषत्कैः; स्तनान्तरे गाढमथाभ्यविध्यत् ||३०||
स भीमसेनस्य रथं हताश्वो; माद्रीसुतः कर्णसुताभितप्तः |
आपुप्लुवे सिंह इवाचलाग्रं; सम्प्रेक्षमाणस्य धनञ्जयस्य ||३१||
नकुलमथ विदित्वा छिन्नबाणासनासिं; विरथमरिशरार्तं कर्णपुत्रास्त्रभग्नम् |
पवनधुतपताका ह्रादिनो वल्गिताश्वा; वरपुरुषनियत्तास्ते रथाः शीघ्रमीयुः ||३२||
द्रुपदसुतवरिष्ठाः पञ्च शैनेयषष्ठा; द्रुपददुहितृपुत्राः पञ्च चामित्रसाहाः |
द्विरदरथनराश्वान्सूदयन्तस्त्वदीया; न्भुजगपतिनिकाशैर्मार्गणैरात्तशस्त्राः ||३३||
अथ तव रथमुख्यास्तान्प्रतीयुस्त्वरन्तो; हृदिकसुतकृपौ च द्रौणिदुर्योधनौ च |
शकुनिशुकवृकाश्च क्राथदेवावृधौ च; द्विरदजलदघोषैः स्यन्दनैः कार्मुकैश्च ||३४||
तव नरवरवर्यास्तान्दशैकं च वीरा; न्प्रवरशरवराग्र्यैस्ताडयन्तोऽभ्यरुन्धन् |
नवजलदसवर्णैर्हस्तिभिस्तानुदीयु; र्गिरिशिखरनिकाशैर्भीमवेगैः कुणिन्दाः ||३५||
सुकल्पिता हैमवता मदोत्कटा; रणाभिकामैः कृतिभिः समास्थिताः |
सुवर्णजालावतता बभुर्गजा; स्तथा यथा वै जलदाः सविद्युतः ||३६||
कुणिन्दपुत्रो दशभिर्महायसैः; कृपं ससूताश्वमपीडयद्भृशम् |
ततः शरद्वत्सुतसायकैर्हतः; सहैव नागेन पपात भूतले ||३७||
कुणिन्दपुत्रावरजस्तु तोमरै; र्दिवाकरांशुप्रतिमैरयस्मयैः |
रथं च विक्षोभ्य ननाद नर्दत; स्ततोऽस्य गान्धारपतिः शिरोऽहरत् ||३८||
ततः कुणिन्देषु हतेषु तेष्वथ; प्रहृष्टरूपास्तव ते महारथाः |
भृशं प्रदध्मुर्लवणाम्बुसम्भवा; न्परांश्च बाणासनपाणयोऽभ्ययुः ||३९||
अथाभवद्युद्धमतीव दारुणं; पुनः कुरूणां सह पाण्डुसृञ्जयैः |
शरासिशक्त्यृष्टिगदापरश्वधै; र्नराश्वनागासुहरं भृशाकुलम् ||४०||
रथाश्वमातङ्गपदातिभिस्ततः; परस्परं विप्रहतापतन्क्षितौ |
यथा सविद्युत्स्तनिता बलाहकाः; समास्थिता दिग्भ्य इवोग्रमारुतैः ||४१||
ततः शतानीकहतान्महागजां; स्तथा रथान्पत्तिगणांश्च तावकान् |
जघान भोजश्च हयानथापत; न्विशस्त्रकृत्ताः कृतवर्मणा द्विपाः ||४२||
अथापरे द्रौणिशराहता द्विपा; स्त्रयः ससर्वायुधयोधकेतवः |
निपेतुरुर्व्यां व्यसवः प्रपातिता; स्तथा यथा वज्रहता महाचलाः ||४३||
कुणिन्दराजावरजादनन्तरः; स्तनान्तरे पत्रिवरैरताडयत् |
तवात्मजं तस्य तवात्मजः शरैः; शितैः शरीरं बिभिदे द्विपं च तम् ||४४||
स नागराजः सह राजसूनुना; पपात रक्तं बहु सर्वतः क्षरन् |
शचीशवज्रप्रहतोऽम्बुदागमे; यथा जलं गैरिकपर्वतस्तथा ||४५||
कुणिन्दपुत्रप्रहितोऽपरद्विपः; शुकं ससूताश्वरथं व्यपोथयत् |
ततोऽपतत्क्राथशराभिदारितः; सहेश्वरो वज्रहतो यथा गिरिः ||४६||
रथी द्विपस्थेन हतोऽपतच्छरैः; क्राथाधिपः पर्वतजेन दुर्जयः |
सवाजिसूतेष्वसनस्तथापत; द्यथा महावातहतो महाद्रुमः ||४७||
वृको द्विपस्थं गिरिराजवासिनं; भृशं शरैर्द्वादशभिः पराभिनत् |
ततो वृकं साश्वरथं महाजवं; त्वरंश्चतुर्भिश्चरणे व्यपोथयत् ||४८||
स नागराजः सनियन्तृकोऽपत; त्पराहतो बभ्रुसुतेषुभिर्भृशम् |
स चापि देवावृधसूनुरर्दितः; पपात नुन्नः सहदेवसूनुना ||४९||
विषाणपोत्रापरगात्रघातिना; गजेन हन्तुं शकुनेः कुणिन्दजः |
जगाम वेगेन भृशार्दयंश्च तं; ततोऽस्य गान्धारपतिः शिरोऽहरत् ||५०||
ततः शतानीकहता महागजा; हया रथाः पत्तिगणाश्च तावकाः |
सुपर्णवातप्रहता यथा नगा; स्तथा गता गामवशा विचूर्णिताः ||५१||
ततोऽभ्यविध्यद्बहुभिः शितैः शरैः; कुणिन्दपुत्रो नकुलात्मजं स्मयन् |
ततोऽस्य कायान्निचकर्त नाकुलिः; शिरः क्षुरेणाम्बुजसंनिभाननम् ||५२||
ततः शतानीकमविध्यदाशुगै; स्त्रिभिः शितैः कर्णसुतोऽर्जुनं त्रिभिः |
त्रिभिश्च भीमं नकुलं च सप्तभि; र्जनार्दनं द्वादशभिश्च सायकैः ||५३||
तदस्य कर्मातिमनुष्यकर्मणः; समीक्ष्य हृष्टाः कुरवोऽभ्यपूजयन् |
पराक्रमज्ञास्तु धनञ्जयस्य ते; हुतोऽयमग्नाविति तं तु मेनिरे ||५४||
ततः किरीटी परवीरघाती; हताश्वमालोक्य नरप्रवीरम् |
तमभ्यधावद्वृषसेनमाहवे; स सूतजस्य प्रमुखे स्थितं तदा ||५५||
तमापतन्तं नरवीरमुग्रं; महाहवे बाणसहस्रधारिणम् |
अभ्यापतत्कर्णसुतो महारथो; यथैव चेन्द्रं नमुचिः पुरातने ||५६||
ततोऽद्भुतेनैकशतेन पार्थं; शरैर्विद्ध्वा सूतपुत्रस्य पुत्रः |
ननाद नादं सुमहानुभावो; विद्ध्वेव शक्रं नमुचिः पुरा वै ||५७||
पुनः स पार्थं वृषसेन उग्रै; र्बाणैरविध्यद्भुजमूलमध्ये |
तथैव कृष्णं नवभिः समार्दय; त्पुनश्च पार्थं दशभिः शिताग्रैः ||५८||
ततः किरीटी रणमूर्ध्नि कोपा; त्कृत्वा त्रिशाखां भ्रुकुटिं ललाटे |
मुमोच बाणान्विशिखान्महात्मा; वधाय राजन्सूतपुत्रस्य सङ्ख्ये ||५९||
विव्याध चैनं दशभिः पृषत्कै; र्मर्मस्वसक्तं प्रसभं किरीटी |
चिच्छेद चास्येष्वसनं भुजौ च; क्षुरैश्चतुर्भिः शिर एव चोग्रैः ||६०||
स पार्थबाणाभिहतः पपात; रथाद्विबाहुर्विशिरा धरायाम् |
सुपुष्पितः पर्णधरोऽतिकायो; वातेरितः शाल इवाद्रिशृङ्गात् ||६१||
तं प्रेक्ष्य बाणाभिहतं पतन्तं; रथात्सुतं सूतजः क्षिप्रकारी |
रथं रथेनाशु जगाम वेगा; त्किरीटिनः पुत्रवधाभितप्तः ||६२||
कर्णार्जुनयुद्धम्
६३
सञ्जय उवाच||
वृषसेनं हतं दृष्ट्वा शोकामर्षसमन्वितः |
मुक्त्वा शोकोद्भवं वारि नेत्राभ्यां सहसा वृषः ||१||
रथेन कर्णस्तेजस्वी जगामाभिमुखो रिपून् |
युद्धायामर्षताम्राक्षः समाहूय धनञ्जयम् ||२||
तौ रथौ सूर्यसङ्काशौ वैयाघ्रपरिवारणौ |
समेतौ ददृशुस्तत्र द्वाविवार्कौ समागतौ ||३||
श्वेताश्वौ पुरुषादित्यावास्थितावरिमर्दनौ |
शुशुभाते महात्मानौ चन्द्रादित्यौ यथा दिवि ||४||
तौ दृष्ट्वा विस्मयं जग्मुः सर्वभूतानि मारिष |
त्रैलोक्यविजये यत्ताविन्द्रवैरोचनाविव ||५||
रथज्यातलनिर्ह्रादैर्बाणशङ्खरवैरपि |
तौ रथावभिधावन्तौ समालोक्य महीक्षिताम् ||६||
ध्वजौ च दृष्ट्वा संसक्तौ विस्मयः समपद्यत |
हस्तिकक्ष्यां च कर्णस्य वानरं च किरीटिनः ||७||
तौ रथौ सम्प्रसक्तौ च दृष्ट्वा भारत पार्थिवाः |
सिंहनादरवांश्चक्रुः साधुवादांश्च पुष्कलान् ||८||
श्रुत्वा तु द्वैरथं ताभ्यां तत्र योधाः समन्ततः |
चक्रुर्बाहुवलं चैव तथा चेलवलं महत् ||९||
आजग्मुः कुरवस्तत्र वादित्रानुगतास्तदा |
कर्णं प्रहर्षयन्तश्च शङ्खान्दध्मुश्च पुष्कलान् ||१०||
तथैव पाण्डवाः सर्वे हर्षयन्तो धनञ्जयम् |
तूर्यशङ्खनिनादेन दिशः सर्वा व्यनादयन् ||११||
क्ष्वेडितास्फोटितोत्क्रुष्टैस्तुमुलं सर्वतोऽभवत् |
बाहुघोषाश्च वीराणां कर्णार्जुनसमागमे ||१२||
तौ दृष्ट्वा पुरुषव्याघ्रौ रथस्थौ रथिनां वरौ |
प्रगृहीतमहाचापौ शरशक्तिगदायुधौ ||१३||
वर्मिणौ बद्धनिस्त्रिंशौ श्वेताश्वौ शङ्खशोभिनौ |
तूणीरवरसम्पन्नौ द्वावपि स्म सुदर्शनौ ||१४||
रक्तचन्दनदिग्धाङ्गौ समदौ वृषभाविव |
आशीविषसमप्रख्यौ यमकालान्तकोपमौ ||१५||
इन्द्रवृत्राविव क्रुद्धौ सूर्याचन्द्रमसप्रभौ |
महाग्रहाविव क्रूरौ युगान्ते समुपस्थितौ ||१६||
देवगर्भौ देवसमौ देवतुल्यौ च रूपतः |
समेतौ पुरुषव्याघ्रौ प्रेक्ष्य कर्णधनञ्जयौ ||१७||
उभौ वरायुधधरावुभौ रणकृतश्रमौ |
उभौ च बाहुशब्देन नादयन्तौ नभस्तलम् ||१८||
उभौ विश्रुतकर्माणौ पौरुषेण बलेन च |
उभौ च सदृशौ युद्धे शम्बरामरराजयोः ||१९||
कार्तवीर्यसमौ युद्धे तथा दाशरथेः समौ |
विष्णुवीर्यसमौ वीर्ये तथा भवसमौ युधि ||२०||
उभौ श्वेतहयौ राजन्रथप्रवरवाहिनौ |
सारथी प्रवरौ चैव तयोरास्तां महाबलौ ||२१||
तौ तु दृष्ट्वा महाराज राजमानौ महारथौ |
सिद्धचारणसङ्घानां विस्मयः समपद्यत ||२२||
धार्तराष्ट्रास्ततः कर्णं सबला भरतर्षभ |
परिवव्रुर्महात्मानं क्षिप्रमाहवशोभिनम् ||२३||
तथैव पाण्डवा हृष्टा धृष्टद्युम्नपुरोगमाः |
परिवव्रुर्महात्मानं पार्थमप्रतिमं युधि ||२४||
तावकानां रणे कर्णो ग्लह आसीद्विशां पते |
तथैव पाण्डवेयानां ग्लहः पार्थोऽभवद्युधि ||२५||
त एव सभ्यास्तत्रासन्प्रेक्षकाश्चाभवन्स्म ते |
तत्रैषां ग्लहमानानां ध्रुवौ जयपराजयौ ||२६||
ताभ्यां द्यूतं समायत्तं विजयायेतराय वा |
अस्माकं पण्डवानां च स्थितानां रणमूर्धनि ||२७||
तौ तु स्थितौ महाराज समरे युद्धशालिनौ |
अन्योन्यं प्रतिसंरब्धावन्योन्यस्य जयैषिणौ ||२८||
तावुभौ प्रजिहीर्षेतामिन्द्रवृत्राविवाभितः |
भीमरूपधरावास्तां महाधूमाविव ग्रहौ ||२९||
ततोऽन्तरिक्षे साक्षेपा विवादा भरतर्षभ |
मिथो भेदाश्च भूतानामासन्कर्णार्जुनान्तरे ||३०||
व्याश्रयन्त दिशो भिन्नाः सर्वलोकाश्च मारिष ||३०||
देवदानवगन्धर्वाः पिशाचोरगराक्षसाः |
प्रतिपक्षग्रहं चक्रुः कर्णार्जुनसमागमे ||३१||
द्यौरासीत्कर्णतो व्यग्रा सनक्षत्रा विशां पते |
भूमिर्विशाला पार्थस्य माता पुत्रस्य भारत ||३२||
सरितः सागराश्चैव गिरयश्च नरोत्तम |
वृक्षाश्चौषधयस्तत्र व्याश्रयन्त किरीटिनम् ||३३||
असुरा यातुधानाश्च गुह्यकाश्च परन्तप |
कर्णतः समपद्यन्त खेचराणि वयांसि च ||३४||
रत्नानि निधयः सर्वे वेदाश्चाख्यानपञ्चमाः |
सोपवेदोपनिषदः सरहस्याः ससङ्ग्रहाः ||३५||
वासुकिश्चित्रसेनश्च तक्षकश्चोपतक्षकः |
पर्वताश्च तथा सर्वे काद्रवेयाश्च सान्वयाः ||३६||
विषवन्तो महारोषा नागाश्चार्जुनतोऽभवन् ||३६||
ऐरावताः सौरभेया वैशालेयाश्च भोगिनः |
एतेऽभवन्नर्जुनतः क्षुद्रसर्पास्तु कर्णतः ||३७||
ईहामृगा व्याडमृगा मङ्गल्याश्च मृगद्विजाः |
पार्थस्य विजयं राजन्सर्व एवाभिसंश्रिताः ||३८||
वसवो मरुतः साध्या रुद्रा विश्वेऽश्विनौ तथा |
अग्निरिन्द्रश्च सोमश्च पवनश्च दिशो दश ||३९||
धनञ्जयमुपाजग्मुरादित्याः कर्णतोऽभवन् ||३९||
देवास्तु पितृभिः सार्धं सगणार्जुनतोऽभवन् |
यमो वैश्रवणश्चैव वरुणश्च यतोऽर्जुनः ||४०||
देवब्रह्मनृपर्षीणां गणाः पाण्डवतोऽभवन् |
तुम्बुरुप्रमुखा राजन्गन्धर्वाश्च यतोऽर्जुनः ||४१||
प्रावेयाः सह मौनेयैर्गन्धर्वाप्सरसां गणाः |
ईहामृगव्याडमृगैर्द्विपाश्च रथपत्तिभिः ||४२||
उह्यमानास्तथा मेघैर्वायुना च मनीषिणः |
दिदृक्षवः समाजग्मुः कर्णार्जुनसमागमम् ||४३||
देवदानवगन्धर्वा नागा यक्षाः पतत्रिणः |
महर्षयो वेदविदः पितरश्च स्वधाभुजः ||४४||
तपो विद्यास्तथौषध्यो नानारूपाम्बरत्विषः |
अन्तरिक्षे महाराज विनदन्तोऽवतस्थिरे ||४५||
ब्रह्मा ब्रह्मर्षिभिः सार्धं प्रजापतिभिरेव च |
भवेनावस्थितो यानं दिव्यं तं देशमभ्ययात् ||४६||
दृष्ट्वा प्रजापतिं देवाः स्वयम्भुवमुपागमन् |
समोऽस्तु देव विजय एतयोर्नरसिंहयोः ||४७||
तदुपश्रुत्य मघवा प्रणिपत्य पितामहम् |
कर्णार्जुनविनाशेन मा नश्यत्वखिलं जगत् ||४८||
स्वयम्भो ब्रूहि तद्वाक्यं समोऽस्तु विजयोऽनयोः |
तत्तथास्तु नमस्तेऽस्तु प्रसीद भगवन्मम ||४९||
ब्रह्मेशानावथो वाक्यमूचतुस्त्रिदशेश्वरम् |
विजयो ध्रुव एवास्तु विजयस्य महात्मनः ||५०||
मनस्वी बलवाञ्शूरः कृतास्त्रश्च तपोधनः |
बिभर्ति च महातेजा धनुर्वेदमशेषतः ||५१||
अतिक्रमेच्च माहात्म्याद्दिष्टमेतस्य पर्ययात् |
अतिक्रान्ते च लोकानामभावो नियतो भवेत् ||५२||
न विद्यते व्यवस्थानं कृष्णयोः क्रुद्धयोः क्वचित् |
स्रष्टारौ ह्यसतश्चोभौ सतश्च पुरुषर्षभौ ||५३||
नरनारायणावेतौ पुराणावृषिसत्तमौ |
अनियत्तौ नियन्तारावभीतौ स्म परन्तपौ ||५४||
कर्णो लोकानयं मुख्यान्प्राप्नोतु पुरुषर्षभः |
वीरो वैकर्तनः शूरो विजयस्त्वस्तु कृष्णयोः ||५५||
वसूनां च सलोकत्वं मरुतां वा समाप्नुयात् |
सहितो द्रोणभीष्माभ्यां नाकलोके महीयताम् ||५६||
इत्युक्तो देवदेवाभ्यां सहस्राक्षोऽब्रवीद्वचः |
आमन्त्र्य सर्वभूतानि ब्रह्मेशानानुशासनात् ||५७||
श्रुतं भवद्भिर्यत्प्रोक्तं भगवद्भ्यां जगद्धितम् |
तत्तथा नान्यथा तद्धि तिष्ठध्वं गतमन्यवः ||५८||
इति श्रुत्वेन्द्रवचनं सर्वभूतानि मारिष |
विस्मितान्यभवन्राजन्पूजयां चक्रिरे च तत् ||५९||
व्यसृजंश्च सुगन्धीनि नानारूपाणि खात्तथा |
पुष्पवर्षाणि विबुधा देवतूर्याण्यवादयन् ||६०||
दिदृक्षवश्चाप्रतिमं द्वैरथं नरसिंहयोः |
देवदानवगन्धर्वाः सर्व एवावतस्थिरे ||६१||
रथौ च तौ श्वेतहयौ युक्तकेतू महास्वनौ ||६१||
समागता लोकवीराः शङ्खान्दध्मुः पृथक्पृथक् |
वासुदेवार्जुनौ वीरौ कर्णशल्यौ च भारत ||६२||
तद्भीरुसन्त्रासकरं युद्धं समभवत्तदा |
अन्योन्यस्पर्धिनोर्वीर्ये शक्रशम्बरयोरिव ||६३||
तयोर्ध्वजौ वीतमालौ शुशुभाते रथस्थितौ |
पृथग्रूपौ समार्छन्तौ क्रोधं युद्धे परस्परम् ||६४||
कर्णस्याशीविषनिभा रत्नसारवती दृढा |
पुरंदरधनुःप्रख्या हस्तिकक्ष्या व्यराजत ||६५||
कपिश्रेष्ठस्तु पार्थस्य व्यादितास्यो भयङ्करः |
भीषयन्नेव दंष्ट्राभिर्दुर्निरीक्ष्यो रविर्यथा ||६६||
युद्धाभिलाषुको भूत्वा ध्वजो गाण्डीवधन्वनः |
कर्णध्वजमुपातिष्ठत्सोऽवदीदभिनर्दयन् ||६७||
उत्पत्य च महावेगः कक्ष्यामभ्यहनत्कपिः |
नखैश्च दशनैश्चैव गरुडः पन्नगं यथा ||६८||
सुकिङ्किणीकाभरणा कालपाशोपमायसी |
अभ्यद्रवत्सुसङ्क्रुद्धा नागकक्ष्या महाकपिम् ||६९||
उभयोरुत्तमे युद्धे द्वैरथे द्यूत आहृते |
प्रकुर्वाते ध्वजौ युद्धं प्रत्यहेषन्हयान्हयाः ||७०||
अविध्यत्पुण्डरीकाक्षः शल्यं नयनसायकैः |
स चापि पुण्डरीकाक्षं तथैवाभिसमैक्षत ||७१||
तत्राजयद्वासुदेवः शल्यं नयनसायकैः |
कर्णं चाप्यजयद्दृष्ट्या कुन्तीपुत्रो धनञ्जयः ||७२||
अथाब्रवीत्सूतपुत्रः शल्यमाभाष्य सस्मितम् |
यदि पार्थो रणे हन्यादद्य मामिह कर्हिचित् ||७३||
किमुत्तरं तदा ते स्यात्सखे सत्यं ब्रवीहि मे ||७३||
शल्य उवाच||
यदि कर्ण रणे हन्यादद्य त्वां श्वेतवाहनः |
उभावेकरथेनाहं हन्यां माधवपाण्डवौ ||७४||
सञ्जय उवाच||
एवमेव तु गोविंदमर्जुनः प्रत्यभाषत |
तं प्रहस्याब्रवीत्कृष्णः पार्थं परमिदं वचः ||७५||
पतेद्दिवाकरः स्थानाच्छीर्येतानेकधा क्षितिः |
शैत्यमग्निरियान्न त्वा कर्णो हन्याद्धनञ्जयम् ||७६||
यदि त्वेवं कथञ्चित्स्याल्लोकपर्यसनं यथा |
हन्यां कर्णं तथा शल्यं बाहुभ्यामेव संयुगे ||७७||
इति कृष्णवचः श्रुत्वा प्रहसन्कपिकेतनः |
अर्जुनः प्रत्युवाचेदं कृष्णमक्लिष्टकारिणम् ||७८||
ममाप्येतावपर्याप्तौ कर्णशल्यौ जनार्दन ||७८||
सपताकाध्वजं कर्णं सशल्यरथवाजिनम् |
सच्छत्रकवचं चैव सशक्तिशरकार्मुकम् ||७९||
द्रष्टास्यद्य शरैः कर्णं रणे कृत्तमनेकधा |
अद्यैनं सरथं साश्वं सशक्तिकवचायुधम् ||८०||
न हि मे शाम्यते वैरं कृष्णां यत्प्राहसत्पुरा ||८०||
अद्य द्रष्टासि गोविन्द कर्णमुन्मथितं मया |
वारणेनेव मत्तेन पुष्पितं जगतीरुहम् ||८१||
अद्य ता मधुरा वाचः श्रोतासि मधुसूदन |
अद्याभिमन्युजननीमनृणः सान्त्वयिष्यसि ||८२||
कुन्तीं पितृष्वसारं च सम्प्रहृष्टो जनार्दन ||८२||
अद्य बाष्पमुखीं कृष्णां सान्त्वयिष्यसि माधव |
वाग्भिश्चामृतकल्पाभिर्धर्मराजं युधिष्ठिरम् ||८३||
६४
सञ्जय उवाच||
तद्देवनागासुरसिद्धसङ्घै; र्गन्धर्वयक्षाप्सरसां च सङ्घैः |
ब्रह्मर्षिराजर्षिसुपर्णजुष्टं; बभौ वियद्विस्मयनीयरूपम् ||१||
नानद्यमानं निनदैर्मनोज्ञै; र्वादित्रगीतस्तुतिभिश्च नृत्तैः |
सर्वेऽन्तरिक्षे ददृशुर्मनुष्याः; खस्थांश्च तान्विस्मयनीयरूपान् ||२||
ततः प्रहृष्टाः कुरुपाण्डुयोधा; वादित्रपत्रायुधसिंहनादैः |
निनादयन्तो वसुधां दिशश्च; स्वनेन सर्वे द्विषतो निजघ्नुः ||३||
नानाश्वमातङ्गरथायुताकुलं; वरासिशक्त्यृष्टिनिपातदुःसहम् |
अभीरुजुष्टं हतदेहसङ्कुलं; रणाजिरं लोहितरक्तमाबभौ ||४||
तथा प्रवृत्तेऽस्त्रभृतां पराभवे; धनञ्जयश्चाधिरथिश्च सायकैः |
दिशश्च सैन्यं च शितैरजिह्मगैः; परस्परं प्रोर्णुवतुः स्म दंशितौ ||५||
ततस्त्वदीयाश्च परे च सायकैः; कृतेऽन्धकारे विविदुर्न किञ्चन |
भयात्तु तावेव रथौ समाश्रयं; स्तमोनुदौ खे प्रसृता इवांशवः ||६||
ततोऽस्त्रमस्त्रेण परस्परस्य तौ; विधूय वाताविव पूर्वपश्चिमौ |
घनान्धकारे वितते तमोनुदौ; यथोदितौ तद्वदतीव रेजतुः ||७||
न चाभिमन्तव्यमिति प्रचोदिताः; परे त्वदीयाश्च तदावतस्थिरे |
महारथौ तौ परिवार्य सर्वतः; सुरासुरा वासवशम्बराविव ||८||
मृदङ्गभेरीपणवानकस्वनै; र्निनादिते भारत शङ्खनिस्वनैः |
ससिंहनादौ बभतुर्नरोत्तमौ; शशाङ्कसूर्याविव मेघसम्प्लवे ||९||
महाधनुर्मण्डलमध्यगावुभौ; सुवर्चसौ बाणसहस्ररश्मिनौ |
दिधक्षमाणौ सचराचरं जग; द्युगास्तसूर्याविव दुःसहौ रणे ||१०||
उभावजेयावहितान्तकावुभौ; जिघांसतुस्तौ कृतिनौ परस्परम् |
महाहवे वीरवरौ समीयतु; र्यथेन्द्रजम्भाविव कर्णपाण्डवौ ||११||
ततो महास्त्राणि महाधनुर्धरौ; विमुञ्चमानाविषुभिर्भयानकैः |
नराश्वनागानमितौ निजघ्नतुः; परस्परं जघ्नतुरुत्तमेषुभिः ||१२||
ततो विसस्रुः पुनरर्दिताः शरै; र्नरोत्तमाभ्यां कुरुपाण्डवाश्रयाः |
सनागपत्त्यश्वरथा दिशो गता; स्तथा यथा सिंहभयाद्वनौकसः ||१३||
ततस्तु दुर्योधनभोजसौबलाः; कृपश्च शारद्वतसूनुना सह |
महारथाः पञ्च धनञ्जयाच्युतौ; शरैः शरीरान्तकरैरताडयन् ||१४||
धनूंषि तेषामिषुधीन्हयान्ध्वजा; न्रथांश्च सूतांश्च धनञ्जयः शरैः |
समं च चिच्छेद पराभिनच्च ता; ञ्शरोत्तमैर्द्वादशभिश्च सूतजम् ||१५||
अथाभ्यधावंस्त्वरिताः शतं रथाः; शतं च नागार्जुनमाततायिनः |
शकास्तुखारा यवनाश्च सादिनः; सहैव काम्बोजवरैर्जिघांसवः ||१६||
वरायुधान्पाणिगतान्करैः सह; क्षुरैर्न्यकृन्तंस्त्वरिताः शिरांसि च |
हयांश्च नागांश्च रथांश्च युध्यतां; धनञ्जयः शत्रुगणं तमक्षिणोत् ||१७||
ततोऽन्तरिक्षे सुरतूर्यनिस्वनाः; ससाधुवादा हृषितैः समीरिताः |
निपेतुरप्युत्तमपुष्पवृष्टयः; सुरूपगन्धाः पवनेरिताः शिवाः ||१८||
तदद्भुतं देवमनुष्यसाक्षिकं; समीक्ष्य भूतानि विसिष्मियुर्नृप |
तवात्मजः सूतसुतश्च न व्यथां; न विस्मयं जग्मतुरेकनिश्चयौ ||१९||
अथाब्रवीद्द्रोणसुतस्तवात्मजं; करं करेण प्रतिपीड्य सान्त्वयन् |
प्रसीद दुर्योधन शाम्य पाण्डवै; रलं विरोधेन धिगस्तु विग्रहम् ||२०||
हतो गुरुर्ब्रह्मसमो महास्त्रवि; त्तथैव भीष्मप्रमुखा नरर्षभाः |
अहं त्ववध्यो मम चापि मातुलः; प्रशाधि राज्यं सह पाण्डवैश्चिरम् ||२१||
धनञ्जयः स्थास्यति वारितो मया; जनार्दनो नैव विरोधमिच्छति |
युधिष्ठिरो भूतहिते सदा रतो; वृकोदरस्तद्वशगस्तथा यमौ ||२२||
त्वया च पार्थैश्च परस्परेण; प्रजाः शिवं प्राप्नुयुरिच्छति त्वयि |
व्रजन्तु शेषाः स्वपुराणि पार्थिवा; निवृत्तवैराश्च भवन्तु सैनिकाः ||२३||
न चेद्वचः श्रोष्यसि मे नराधिप; ध्रुवं प्रतप्तासि हतोऽरिभिर्युधि |
इदं च दृष्टं जगता सह त्वया; कृतं यदेकेन किरीटमालिना ||२४||
यथा न कुर्याद्बलभिन्न चान्तको; न च प्रचेता भगवान्न यक्षराट् ||२४||
अतोऽपि भूयांश्च गुणैर्धनञ्जयः; स चाभिपत्स्यत्यखिलं वचो मम |
तवानुयात्रां च तथा करिष्यति; प्रसीद राजञ्जगतः शमाय वै ||२५||
ममापि मानः परमः सदा त्वयि; ब्रवीम्यतस्त्वां परमाच्च सौहृदात् |
निवारयिष्यामि हि कर्णमप्यहं; यदा भवान्सप्रणयो भविष्यति ||२६||
वदन्ति मित्रं सहजं विचक्षणा; स्तथैव साम्ना च धनेन चार्जितम् |
प्रतापतश्चोपनतं चतुर्विधं; तदस्ति सर्वं त्वयि पाण्डवेषु च ||२७||
निसर्गतस्ते तव वीर बान्धवाः; पुनश्च साम्ना च समाप्नुहि स्थिरम् |
त्वयि प्रसन्ने यदि मित्रतामियु; र्ध्रुवं नरेन्द्रेन्द्र तथा त्वमाचर ||२८||
स एवमुक्तः सुहृदा वचो हितं; विचिन्त्य निःश्वस्य च दुर्मनाब्रवीत् |
यथा भवानाह सखे तथैव त; न्ममापि च ज्ञापयतो वचः शृणु ||२९||
निहत्य दुःशासनमुक्तवान्बहु; प्रसह्य शार्दूलवदेष दुर्मतिः |
वृकोदरस्तद्धृदये मम स्थितं; न तत्परोक्षं भवतः कुतः शमः ||३०||
न चापि कर्णं गुरुपुत्र संस्तवा; दुपारमेत्यर्हसि वक्तुमच्युत |
श्रमेण युक्तो महताद्य फल्गुन; स्तमेष कर्णः प्रसभं हनिष्यति ||३१||
तमेवमुक्त्वाभ्यनुनीय चासकृ; त्तवात्मजः स्वाननुशास्ति सैनिकान् |
समाघ्नताभिद्रवताहितानिमा; न्सबाणशब्दान्किमु जोषमास्यते ||३२||
६५
सञ्जय उवाच||
तौ शङ्खभेरीनिनदे समृद्धे; समीयतुः श्वेतहयौ नराग्र्यौ |
वैकर्तनः सूतपुत्रोऽर्जुनश्च; दुर्मन्त्रिते तव पुत्रस्य राजन् ||१||
यथा गजौ हैमवतौ प्रभिन्नौ; प्रगृह्य दन्ताविव वाशितार्थे |
तथा समाजग्मतुरुग्रवेगौ; धनञ्जयश्चाधिरथिश्च वीरौ ||२||
बलाहकेनेव यथा बलाहको; यदृच्छया वा गिरिणा गिरिर्यथा |
तथा धनुर्ज्यातलनेमिनिस्वनौ; समीयतुस्ताविषुवर्षवर्षिणौ ||३||
प्रवृद्धशृङ्गद्रुमवीरुदोषधी; प्रवृद्धनानाविधपर्वतौकसौ |
यथाचलौ वा गलितौ महाबलौ; तथा महास्त्रैरितरेतरं घ्नतः ||४||
स संनिपातस्तु तयोर्महानभू; त्सुरेशवैरोचनयोर्यथा पुरा |
शरैर्विभुग्नाङ्गनियन्तृवाहनः; सुदुःसहोऽन्यैः पटुशोणितोदकः ||५||
प्रभूतपद्मोत्पलमत्स्यकच्छपौ; महाह्रदौ पक्षिगणानुनादितौ |
सुसंनिकृष्टावनिलोद्धतौ यथा; तथा रथौ तौ ध्वजिनौ समीयतुः ||६||
उभौ महेन्द्रस्य समानविक्रमा; वुभौ महेन्द्रप्रतिमौ महारथौ |
महेन्द्रवज्रप्रतिमैश्च सायकै; र्महेन्द्रवृत्राविव सम्प्रजह्रतुः ||७||
सनागपत्त्यश्वरथे उभे बले; विचित्रवर्णाभरणाम्बरस्रजे |
चकम्पतुश्चोन्नमतः स्म विस्मया; द्वियद्गताश्चार्जुनकर्णसंयुगे ||८||
भुजाः सवज्राङ्गुलयः समुच्छ्रिताः; ससिंहनादा हृषितैर्दिदृक्षुभिः |
यदार्जुनं मत्तमिव द्विपो द्विपं; समभ्ययादाधिरथिर्जिघांसया ||९||
अभ्यक्रोशन्सोमकास्तत्र पार्थं; त्वरस्व याह्यर्जुन विध्य कर्णम् |
छिन्ध्यस्य मूर्धानमलं चिरेण; श्रद्धां च राज्याद्धृतराष्ट्रसूनोः ||१०||
तथास्माकं बहवस्तत्र योधाः; कर्णं तदा याहि याहीत्यवोचन् |
जह्यर्जुनं कर्ण ततः सचीराः; पुनर्वनं यान्तु चिराय पार्थाः ||११||
ततः कर्णः प्रथमं तत्र पार्थं; महेषुभिर्दशभिः पर्यविध्यत् |
तमर्जुनः प्रत्यविध्यच्छिताग्रैः; कक्षान्तरे दशभिरतीव क्रुद्धः ||१२||
परस्परं तौ विशिखैः सुतीक्ष्णै; स्ततक्षतुः सूतपुत्रोऽर्जुनश्च |
परस्परस्यान्तरेप्सू विमर्दे; सुभीममभ्याययतुः प्रहृष्टौ ||१३||
अमृष्यमाणश्च महाविमर्दे; तत्राक्रुध्यद्भीमसेनो महात्मा |
अथाब्रवीत्पाणिना पाणिमाघ्न; न्संदष्टौष्ठो नृत्यति वादयन्निव ||१४||
कथं नु त्वां सूतपुत्रः किरीटि; न्महेषुभिर्दशभिरविध्यदग्रे ||१४||
यया धृत्या सर्वभूतान्यजैषी; र्ग्रासं ददद्वह्नये खाण्डवे त्वम् |
तया धृत्या सूतपुत्रं जहि त्व; महं वैनं गदया पोथयिष्ये ||१५||
अथाब्रवीद्वासुदेवोऽपि पार्थं; दृष्ट्वा रथेषून्प्रतिहन्यमानान् |
अमीमृदत्सर्वथा तेऽद्य कर्णो; ह्यस्त्रैरस्त्राणि किमिदं किरीटिन् ||१६||
स वीर किं मुह्यसि नावधीयसे; नदन्त्येते कुरवः सम्प्रहृष्टाः |
कर्णं पुरस्कृत्य विदुर्हि सर्वे; त्वदस्त्रमस्त्रैर्विनिपात्यमानम् ||१७||
यया धृत्या निहतं तामसास्त्रं; युगे युगे राक्षसाश्चापि घोराः |
दम्भोद्भवाश्चासुराश्चाहवेषु; तया धृत्या त्वं जहि सूतपुत्रम् ||१८||
अनेन वास्य क्षुरनेमिनाद्य; सञ्छिन्द्धि मूर्धानमरेः प्रसह्य |
मया निसृष्टेन सुदर्शनेन; वज्रेण शक्रो नमुचेरिवारेः ||१९||
किरातरूपी भगवान्यया च; त्वया महत्या परितोषितोऽभूत् |
तां त्वं धृतिं वीर पुनर्गृहीत्वा; सहानुबन्धं जहि सूतपुत्रम् ||२०||
ततो महीं सागरमेखलां त्वं; सपत्तनां ग्रामवतीं समृद्धाम् |
प्रयच्छ राज्ञे निहतारिसङ्घां; यशश्च पार्थातुलमाप्नुहि त्वम् ||२१||
सञ्चोदितो भीमजनार्दनाभ्यां; स्मृत्वा तदात्मानमवेक्ष्य सत्त्वम् |
महात्मनश्चागमने विदित्वा; प्रयोजनं केशवमित्युवाच ||२२||
प्रादुष्करोम्येष महास्त्रमुग्रं; शिवाय लोकस्य वधाय सौतेः |
तन्मेऽनुजानातु भवान्सुराश्च; ब्रह्मा भवो ब्रह्मविदश्च सर्वे ||२३||
इत्यूचिवान्ब्राह्ममसह्यमस्त्रं; प्रादुश्चक्रे मनसा संविधेयम् |
ततो दिशश्च प्रदिशश्च सर्वाः; समावृणोत्सायकैर्भूरितेजाः ||२४||
ससर्ज बाणान्भरतर्षभोऽपि; शतंशतानेकवदाशुवेगान् ||२४||
वैकर्तनेनापि तथाजिमध्ये; सहस्रशो बाणगणा विसृष्टाः |
ते घोषिणः पाण्डवमभ्युपेयुः; पर्जन्यमुक्ता इव वारिधाराः ||२५||
स भीमसेनं च जनार्दनं च; किरीटिनं चाप्यमनुष्यकर्मा |
त्रिभिस्त्रिभिर्भीमबलो निहत्य; ननाद घोरं महता स्वरेण ||२६||
स कर्णबाणाभिहतः किरीटी; भीमं तथा प्रेक्ष्य जनार्दनं च |
अमृष्यमाणः पुनरेव पार्थः; शरान्दशाष्टौ च समुद्बबर्ह ||२७||
सुषेणमेकेन शरेण विद्ध्वा; शल्यं चतुर्भिस्त्रिभिरेव कर्णम् |
ततः सुमुक्तैर्दशभिर्जघान; सभापतिं काञ्चनवर्मनद्धम् ||२८||
स राजपुत्रो विशिरा विबाहु; र्विवाजिसूतो विधनुर्विकेतुः |
ततो रथाग्रादपतत्प्रभग्नः; परश्वधैः शाल इवाभिकृत्तः ||२९||
पुनश्च कर्णं त्रिभिरष्टभिश्च; द्वाभ्यां चतुर्भिर्दशभिश्च विद्ध्वा |
चतुःशतान्द्विरदान्सायुधीया; न्हत्वा रथानष्टशतं जघान ||३०||
सहस्रमश्वांश्च पुनश्च सादी; नष्टौ सहस्राणि च पत्तिवीरान् ||३०||
दृष्ट्वाजिमुख्यावथ युध्यमानौ; दिदृक्षवः शूरवरावरिघ्नौ |
कर्णं च पार्थं च नियम्य वाहा; न्खस्था महीस्थाश्च जनावतस्थुः ||३१||
ततो धनुर्ज्या सहसातिकृष्टा; सुघोषमाच्छिद्यत पाण्डवस्य |
तस्मिन्क्षणे सूतपुत्रस्तु पार्थं; समाचिनोत्क्षुद्रकाणां शतेन ||३२||
निर्मुक्तसर्पप्रतिमैश्च तीक्ष्णै; स्तैलप्रधौतैः खगपत्रवाजैः |
षष्ट्या नाराचैर्वासुदेवं बिभेद; तदन्तरं सोमकाः प्राद्रवन्त ||३३||
ततो धनुर्ज्यामवधम्य शीघ्रं; शरानस्तानाधिरथेर्विधम्य |
सुसंरब्धः कर्णशरक्षताङ्गो; रणे पार्थः सोमकान्प्रत्यगृह्णात् ||३४||
न पक्षिणः सम्पतन्त्यन्तरिक्षे; क्षेपीयसास्त्रेण कृतेऽन्धकारे ||३४||
शल्यं च पार्थो दशभिः पृषत्कै; र्भृशं तनुत्रे प्रहसन्नविध्यत् |
ततः कर्णं द्वादशभिः सुमुक्तै; र्विद्ध्वा पुनः सप्तभिरभ्यविध्यत् ||३५||
स पार्थबाणासनवेगनुन्नै; र्दृढाहतः पत्रिभिरुग्रवेगैः |
विभिन्नगात्रः क्षतजोक्षिताङ्गः; कर्णो बभौ रुद्र इवाततेषुः ||३६||
ततस्त्रिभिश्च त्रिदशाधिपोपमं; शरैर्बिभेदाधिरथिर्धनञ्जयम् |
शरांस्तु पञ्च ज्वलितानिवोरगा; न्प्रवीरयामास जिघांसुरच्युते ||३७||
ते वर्म भित्त्वा पुरुषोत्तमस्य; सुवर्णचित्रं न्यपतन्सुमुक्ताः |
वेगेन गामाविविशुः सुवेगाः; स्नात्वा च कर्णाभिमुखाः प्रतीयुः ||३८||
तान्पञ्चभल्लैस्त्वरितैः सुमुक्तै; स्त्रिधा त्रिधैकैकमथोच्चकर्त |
धनञ्जयस्ते न्यपतन्पृथिव्यां; महाहयस्तक्षकपुत्रपक्षाः ||३९||
ततः प्रजज्वाल किरीटमाली; क्रोधेन कक्षं प्रदहन्निवाग्निः |
स कर्णमाकर्णविकृष्टसृष्टैः; शरैः शरीरान्तकरैर्ज्वलद्भिः ||४०||
मर्मस्वविध्यत्स चचाल दुःखा; द्धैर्यात्तु तस्थावतिमात्रधैर्यः ||४०||
ततः शरौघैः प्रदिशो दिशश्च; रविप्रभा कर्णरथश्च राजन् |
अदृश्य आसीत्कुपिते धनञ्जये; तुषारनीहारवृतं यथा नभः ||४१||
स चक्ररक्षानथ पादरक्षा; न्पुरःसरान्पृष्ठगोपांश्च सर्वान् |
दुर्योधनेनानुमतानरिघ्ना; न्समुच्चितान्सुरथान्सारभूतान् ||४२||
द्विसाहस्रान्समरे सव्यसाची; कुरुप्रवीरानृषभः कुरूणाम् |
क्षणेन सर्वान्सरथाश्वसूता; न्निनाय राजन्क्षयमेकवीरः ||४३||
अथापलायन्त विहाय कर्णं; तवात्मजाः कुरवश्चावशिष्टाः |
हतानवाकीर्य शरक्षतांश्च; लालप्यमानांस्तनयान्पितॄंश्च ||४४||
स सर्वतः प्रेक्ष्य दिशो विशून्या; भयावदीर्णैः कुरुभिर्विहीनः |
न विव्यथे भारत तत्र कर्णः; प्रतीपमेवार्जुनमभ्यधावत् ||४५||
६६
सञ्जय उवाच||
ततोऽपयाताः शरपातमात्र; मवस्थिताः कुरवो भिन्नसेनाः |
विद्युत्प्रकाशं ददृशुः समन्ता; द्धनञ्जयास्त्रं समुदीर्यमाणम् ||१||
तदर्जुनास्त्रं ग्रसते स्म वीरा; न्वियत्तथाकाशमनन्तघोषम् |
क्रुद्धेन पार्थेन तदाशु सृष्टं; वधाय कर्णस्य महाविमर्दे ||२||
रामादुपात्तेन महामहिम्ना; आथर्वणेनारिविनाशनेन |
तदर्जुनास्त्रं व्यधमद्दहन्तं; पार्थं च बाणैर्निशितैर्निजघ्ने ||३||
ततो विमर्दः सुमहान्बभूव; तस्यार्जुनस्याधिरथेश्च राजन् |
अन्योन्यमासादयतोः पृषत्कै; र्विषाणघातैर्द्विपयोरिवोग्रैः ||४||
ततो रिपुघ्नं समधत्त कर्णः; सुसंशितं सर्पमुखं ज्वलन्तम् |
रौद्रं शरं संयति सुप्रधौतं; पार्थार्थमत्यर्थचिराय गुप्तम् ||५||
सदार्चितं चन्दनचूर्णशायिनं; सुवर्णनालीशयनं महाविषम् |
प्रदीप्तमैरावतवंशसम्भवं; शिरो जिहीर्षुर्युधि फल्गुनस्य ||६||
तमब्रवीन्मद्रराजो महात्मा; वैकर्तनं प्रेक्ष्य हि संहितेषुम् |
न कर्ण ग्रीवामिषुरेष प्राप्स्यते; संलक्ष्य सन्धत्स्व शरं शिरोघ्नम् ||७||
अथाब्रवीत्क्रोधसंरक्तनेत्रः; कर्णः शल्यं सन्धितेषुः प्रसह्य |
न सन्धत्ते द्विः शरं शल्य कर्णो; न मादृशाः शाठ्ययुक्ता भवन्ति ||८||
तथैवमुक्त्वा विससर्ज तं शरं; बलाहकं वर्षघनाभिपूजितम् |
हतोऽसि वै फल्गुन इत्यवोच; त्ततस्त्वरन्नूर्जितमुत्ससर्ज ||९||
सन्धीयमानं भुजगं दृष्ट्वा कर्णेन माधवः |
आक्रम्य स्यन्दनं पद्भ्यां बलेन बलिनां वरः ||१०||
अवगाढे रथे भूमौ जानुभ्यामगमन्हयाः |
ततः शरः सोऽभ्यहनत्किरीटं तस्य धीमतः ||११||
अथार्जुनस्योत्तमगात्रभूषणं; धरावियद्द्योसलिलेषु विश्रुतम् |
बलास्त्रसर्गोत्तमयत्नमन्युभिः; शरेण मूर्ध्नः स जहार सूतजः ||१२||
दिवाकरेन्दुज्वलनग्रहत्विषं; सुवर्णमुक्तामणिजालभूषितम् |
पुरंदरार्थं तपसा प्रयत्नतः; स्वयं कृतं यद्भुवनस्य सूनुना ||१३||
महार्हरूपं द्विषतां भयङ्करं; विभाति चात्यर्थसुखं सुगन्धि तत् |
निजघ्नुषे देवरिपून्सुरेश्वरः; स्वयं ददौ यत्सुमनाः किरीटिने ||१४||
हराम्बुपाखण्डलवित्तगोप्तृभिः; पिनाकपाशाशनिसायकोत्तमैः |
सुरोत्तमैरप्यविषह्यमर्दितुं; प्रसह्य नागेन जहार यद्वृषः ||१५||
तदुत्तमेषून्मथितं विषाग्निना; प्रदीप्तमर्चिष्मदभिक्षिति प्रियम् |
पपात पार्थस्य किरीटमुत्तमं; दिवाकरोऽस्तादिव पर्वताज्ज्वलन् ||१६||
ततः किरीटं बहुरत्नमण्डितं; जहार नागोऽर्जुनमूर्धतो बलात् |
गिरेः सुजाताङ्कुरपुष्पितद्रुमं; महेन्द्रवज्रः शिखरं यथोत्तमम् ||१७||
मही वियद्द्यौः सलिलानि वायुना; यथा विभिन्नानि विभान्ति भारत |
तथैव शब्दो भुवनेष्वभूत्तदा; जना व्यवस्यन्व्यथिताश्च चस्खलुः ||१८||
ततः समुद्ग्रथ्य सितेन वाससा; स्वमूर्धजानव्यथितः स्थितोऽर्जुनः |
विभाति सम्पूर्णमरीचिभास्वता; शिरोगतेनोदयपर्वतो यथा ||१९||
बलाहकः कर्णभुजेरितस्ततो; हुताशनार्कप्रतिमद्युतिर्महान् |
महोरगः कृतवैरोऽर्जुनेन; किरीटमासाद्य समुत्पपात ||२०||
तमब्रवीद्विद्धि कृतागसं मे; कृष्णाद्य मातुर्वधजातवैरम् |
ततः कृष्णः पार्थमुवाच सङ्ख्ये; महोरगं कृतवैरं जहि त्वम् ||२१||
स एवमुक्तो मधुसूदनेन; गाण्डीवधन्वा रिपुषूग्रधन्वा |
उवाच को न्वेष ममाद्य नागः; स्वयं य आगाद्गरुडस्य वक्त्रम् ||२२||
कृष्ण उवाच||
योऽसौ त्वया खाण्डवे चित्रभानुं; सन्तर्पयानेन धनुर्धरेण |
वियद्गतो बाणनिकृत्तदेहो; ह्यनेकरूपो निहतास्य माता ||२३||
ततस्तु जिष्णुः परिहृत्य शेषां; श्चिच्छेद षड्भिर्निशितैः सुधारैः |
नागं वियत्तिर्यगिवोत्पतन्तं; स छिन्नगात्रो निपपात भूमौ ||२४||
तस्मिन्मुहूर्ते दशभिः पृषत्कैः; शिलाशितैर्बर्हिणवाजितैश्च |
विव्याध कर्णः पुरुषप्रवीरं; धनञ्जयं तिर्यगवेक्षमाणम् ||२५||
ततोऽर्जुनो द्वादशभिर्विमुक्तै; राकर्णमुक्तैर्निशितैः समर्प्य |
नाराचमाशीविषतुल्यवेग; माकर्णपूर्णायतमुत्ससर्ज ||२६||
स चित्रवर्मेषुवरो विदार्य; प्राणान्निरस्यन्निव साधु मुक्तः |
कर्णस्य पीत्वा रुधिरं विवेश; वसुन्धरां शोणितवाजदिग्धः ||२७||
ततो वृषो बाणनिपातकोपितो; महोरगो दण्डविघट्टितो यथा |
तथाशुकारी व्यसृजच्छरोत्तमा; न्महाविषः सर्प इवोत्तमं विषम् ||२८||
जनार्दनं द्वादशभिः पराभिन; न्नवैर्नवत्या च शरैस्तथार्जुनम् |
शरेण घोरेण पुनश्च पाण्डवं; विभिद्य कर्णोऽभ्यनदज्जहास च ||२९||
तमस्य हर्षं ममृषे न पाण्डवो; बिभेद मर्माणि ततोऽस्य मर्मवित् |
परं शरैः पत्रिभिरिन्द्रविक्रम; स्तथा यथेन्द्रो बलमोजसाहनत् ||३०||
ततः शराणां नवतीर्नवार्जुनः; ससर्ज कर्णेऽन्तकदण्डसंनिभाः |
शरैर्भृशायस्ततनुः प्रविव्यथे; तथा यथा वज्रविदारितोऽचलः ||३१||
मणिप्रवेकोत्तमवज्रहाटकै; रलङ्कृतं चास्य वराङ्गभूषणम् |
प्रविद्धमुर्व्यां निपपात पत्रिभि; र्धनञ्जयेनोत्तमकुण्डलेऽपि च ||३२||
महाधनं शिल्पिवरैः प्रयत्नतः; कृतं यदस्योत्तमवर्म भास्वरम् |
सुदीर्घकालेन तदस्य पाण्डवः; क्षणेन बाणैर्बहुधा व्यशातयत् ||३३||
स तं विवर्माणमथोत्तमेषुभिः; शरैश्चतुर्भिः कुपितः पराभिनत् |
स विव्यथेऽत्यर्थमरिप्रहारितो; यथातुरः पित्तकफानिलव्रणैः ||३४||
महाधनुर्मण्डलनिःसृतैः शितैः; क्रियाप्रयत्नप्रहितैर्बलेन च |
ततक्ष कर्णं बहुभिः शरोत्तमै; र्बिभेद मर्मस्वपि चार्जुनस्त्वरन् ||३५||
दृढाहतः पत्रिभिरुग्रवेगैः; पार्थेन कर्णो विविधैः शिताग्रैः |
बभौ गिरिर्गैरिकधातुरक्तः; क्षरन्प्रपातैरिव रक्तमम्भः ||३६||
साश्वं तु कर्णं सरथं किरीटी; समाचिनोद्भारत वत्सदन्तैः |
प्रच्छादयामास दिशश्च बाणैः; सर्वप्रयत्नात्तपनीयपुङ्खैः ||३७||
स वत्सदन्तैः पृथुपीनवक्षाः; समाचितः स्माधिरथिर्विभाति |
सुपुष्पिताशोकपलाशशाल्मलि; र्यथाचलः स्पन्दनचन्दनायुतः ||३८||
शरैः शरीरे बहुधा समर्पितै; र्विभाति कर्णः समरे विशां पते |
महीरुहैराचितसानुकन्दरो; यथा महेन्द्रः शुभकर्णिकारवान् ||३९||
स बाणसङ्घान्धनुषा व्यवासृज; न्विभाति कर्णः शरजालरश्मिवान् |
सलोहितो रक्तगभस्तिमण्डलो; दिवाकरोऽस्ताभिमुखो यथा तथा ||४०||
बाह्वन्तरादाधिरथेर्विमुक्ता; न्बाणान्महाहीनिव दीप्यमानान् |
व्यध्वंसयन्नर्जुनबाहुमुक्ताः; शराः समासाद्य दिशः शिताग्राः ||४१||
ततश्चक्रमपतत्तस्य भूमौ; स विह्वलः समरे सूतपुत्रः |
घूर्णे रथे ब्राह्मणस्याभिशापा; द्रामादुपात्तेऽप्रतिभाति चास्त्रे ||४२||
अमृष्यमाणो व्यसनानि तानि; हस्तौ विधुन्वन्स विगर्हमाणः |
धर्मप्रधानानभिपाति धर्म; इत्यब्रुवन्धर्मविदः सदैव ||४३||
ममापि निम्नोऽद्य न पाति भक्ता; न्मन्ये न नित्यं परिपाति धर्मः ||४३||
एवं ब्रुवन्प्रस्खलिताश्वसूतो; विचाल्यमानोऽर्जुनशस्त्रपातैः |
मर्माभिघाताच्चलितः क्रियासु; पुनः पुनर्धर्ममगर्हदाजौ ||४४||
ततः शरैर्भीमतरैरविध्यत्त्रिभिराहवे |
हस्ते कर्णस्तदा पार्थमभ्यविध्यच्च सप्तभिः ||४५||
ततोऽर्जुनः सप्तदश तिग्मतेजानजिह्मगान् |
इन्द्राशनिसमान्घोरानसृजत्पावकोपमान् ||४६||
निर्भिद्य ते भीमवेगा न्यपतन्पृथिवीतले |
कम्पितात्मा तथा कर्णः शक्त्या चेष्टामदर्शयत् ||४७||
बलेनाथ स संस्तभ्य ब्रह्मास्त्रं समुदैरयत् |
ऐन्द्रास्त्रमर्जुनश्चापि तद्दृष्ट्वाभिन्यमन्त्रयत् ||४८||
गाण्डीवं ज्यां च बाणांश्च अनुमन्त्र्य धनञ्जयः |
असृजच्छरवर्षाणि वर्षाणीव पुरंदरः ||४९||
ततस्तेजोमया बाणा रथात्पार्थस्य निःसृताः |
प्रादुरासन्महावीर्याः कर्णस्य रथमन्तिकात् ||५०||
तान्कर्णस्त्वग्रतोऽभ्यस्तान्मोघांश्चक्रे महारथः |
ततोऽब्रवीद्वृष्णिवीरस्तस्मिन्नस्त्रे विनाशिते ||५१||
विसृजास्त्रं परं पार्थ राधेयो ग्रसते शरान् |
ब्रह्मास्त्रमर्जुनश्चापि संमन्त्र्याथ प्रयोजयत् ||५२||
छादयित्वा ततो बाणैः कर्णं प्रभ्राम्य चार्जुनः |
तस्य कर्णः शरैः क्रुद्धश्चिच्छेद ज्यां सुतेजनैः ||५३||
ततो ज्यामवधायान्यामनुमृज्य च पाण्डवः |
शरैरवाकिरत्कर्णं दीप्यमानैः सहस्रशः ||५४||
तस्य ज्याच्छेदनं कर्णो ज्यावधानं च संयुगे |
नान्वबुध्यत शीघ्रत्वात्तदद्भुतमिवाभवत् ||५५||
अस्त्रैरस्त्राणि राधेयः प्रत्यहन्सव्यसाचिनः |
चक्रे चाभ्यधिकं पार्थात्स्ववीर्यं प्रतिदर्शयन् ||५६||
ततः कृष्णोऽर्जुनं दृष्ट्वा कर्णास्त्रेणाभिपीडितम् |
अभ्यस्येत्यब्रवीत्पार्थमातिष्ठास्त्रमनुत्तमम् ||५७||
ततोऽन्यमग्निसदृशं शरं सर्पविषोपमम् |
अश्मसारमयं दिव्यमनुमन्त्र्य धनञ्जयः ||५८||
रौद्रमस्त्रं समादाय क्षेप्तुकामः किरीटवान् |
ततोऽग्रसन्मही चक्रं राधेयस्य महामृधे ||५९||
ग्रस्तचक्रस्तु राधेयः कोपादश्रूण्यवर्तयत् |
सोऽब्रवीदर्जुनं चापि मुहूर्तं क्षम पाण्डव ||६०||
मध्ये चक्रमवग्रस्तं दृष्ट्वा दैवादिदं मम |
पार्थ कापुरुषाचीर्णमभिसन्धिं विवर्जय ||६१||
प्रकीर्णकेशे विमुखे ब्राह्मणे च कृताञ्जलौ |
शरणागते न्यस्तशस्त्रे तथा व्यसनगेऽर्जुन ||६२||
अबाणे भ्रष्टकवचे भ्रष्टभग्नायुधे तथा |
न शूराः प्रहरन्त्याजौ न राज्ञे पार्थिवास्तथा ||६३||
त्वं च शूरोऽसि कौन्तेय तस्मात्क्षम मुहूर्तकम् ||६३||
यावच्चक्रमिदं भूमेरुद्धरामि धनञ्जय |
न मां रथस्थो भूमिष्ठमसज्जं हन्तुमर्हसि ||६४||
न वासुदेवात्त्वत्तो वा पाण्डवेय बिभेम्यहम् ||६४||
त्वं हि क्षत्रियदायादो महाकुलविवर्धनः |
स्मृत्वा धर्मोपदेशं त्वं मुहूर्तं क्षम पाण्डव ||६५||
कर्णवधः
६७
सञ्जय उवाच||
अथाब्रवीद्वासुदेवो रथस्थो; राधेय दिष्ट्या स्मरसीह धर्मम् |
प्रायेण नीचा व्यसनेषु मग्ना; निन्दन्ति दैवं कुकृतं न तत्तत् ||१||
यद्द्रौपदीमेकवस्त्रां सभाया; मानाय्य त्वं चैव सुयोधनश्च |
दुःशासनः शकुनिः सौबलश्च; न ते कर्ण प्रत्यभात्तत्र धर्मः ||२||
यदा सभायां कौन्तेयमनक्षज्ञं युधिष्ठिरम् |
अक्षज्ञः शकुनिर्जेता तदा धर्मः क्व ते गतः ||३||
यदा रजस्वलां कृष्णां दुःशासनवशे स्थिताम् |
सभायां प्राहसः कर्ण क्व ते धर्मस्तदा गतः ||४||
राज्यलुब्धः पुनः कर्ण समाह्वयसि पाण्डवम् |
गान्धारराजमाश्रित्य क्व ते धर्मस्तदा गतः ||५||
एवमुक्ते तु राधेये वासुदेवेन पाण्डवम् |
मन्युरभ्याविशत्तीव्रः स्मृत्वा तत्तद्धनञ्जयम् ||६||
तस्य क्रोधेन सर्वेभ्यः स्रोतोभ्यस्तेजसोऽर्चिषः |
प्रादुरासन्महाराज तदद्भुतमिवाभवत् ||७||
तं समीक्ष्य ततः कर्णो ब्रह्मास्त्रेण धनञ्जयम् |
अभ्यवर्षत्पुनर्यत्नमकरोद्रथसर्जने ||८||
तदस्त्रमस्त्रेणावार्य प्रजहारास्य पाण्डवः ||८||
ततोऽन्यदस्त्रं कौन्तेयो दयितं जातवेदसः |
मुमोच कर्णमुद्दिश्य तत्प्रजज्वाल वै भृशम् ||९||
वारुणेन ततः कर्णः शमयामास पावकम् |
जीमूतैश्च दिशः सर्वाश्चक्रे तिमिरदुर्दिनाः ||१०||
पाण्डवेयस्त्वसम्भ्रान्तो वायव्यास्त्रेण वीर्यवान् |
अपोवाह तदाभ्राणि राधेयस्य प्रपश्यतः ||११||
तं हस्तिकक्ष्याप्रवरं च बाणैः; सुवर्णमुक्तामणिवज्रमृष्टम् |
कालप्रयत्नोत्तमशिल्पियत्नैः; कृतं सुरूपं वितमस्कमुच्चैः ||१२||
ऊर्जस्करं तव सैन्यस्य नित्य; ममित्रवित्रासनमीड्यरूपम् |
विख्यातमादित्यसमस्य लोके; त्विषा समं पावकभानुचन्द्रैः ||१३||
ततः क्षुरेणाधिरथेः किरीटी; सुवर्णपुङ्खेन शितेन यत्तः |
श्रिया ज्वलन्तं ध्वजमुन्ममाथ; महारथस्याधिरथेर्महात्मा ||१४||
यशश्च धर्मश्च जयश्च मारिष; प्रियाणि सर्वाणि च तेन केतुना |
तदा कुरूणां हृदयानि चापत; न्बभूव हाहेति च निस्वनो महान् ||१५||
अथ त्वरन्कर्णवधाय पाण्डवो; महेन्द्रवज्रानलदण्डसंनिभम् |
आदत्त पार्थोऽञ्जलिकं निषङ्गा; त्सहस्ररश्मेरिव रश्मिमुत्तमम् ||१६||
मर्मच्छिदं शोणितमांसदिग्धं; वैश्वानरार्कप्रतिमं महार्हम् |
नराश्वनागासुहरं त्र्यरत्निं; षड्वाजमञ्जोगतिमुग्रवेगम् ||१७||
सहस्रनेत्राशनितुल्यतेजसं; समानक्रव्यादमिवातिदुःसहम् |
पिनाकनारायणचक्रसंनिभं; भयङ्करं प्राणभृतां विनाशनम् ||१८||
युक्त्वा महास्त्रेण परेण मन्त्रवि; द्विकृष्य गाण्डीवमुवाच सस्वनम् |
अयं महास्त्रोऽप्रतिमो धृतः शरः; शरीरभिच्चासुहरश्च दुर्हृदः ||१९||
तपोऽस्ति तप्तं गुरवश्च तोषिता; मया यदिष्टं सुहृदां तथा श्रुतम् |
अनेन सत्येन निहन्त्वयं शरः; सुदंशितः कर्णमरिं ममाजितः ||२०||
इत्यूचिवांस्तं स मुमोच बाणं; धनञ्जयः कर्णवधाय घोरम् |
कृत्यामथर्वाङ्गिरसीमिवोग्रां; दीप्तामसह्यां युधि मृत्युनापि ||२१||
ब्रुवन्किरीटी तमतिप्रहृष्टो; अयं शरो मे विजयावहोऽस्तु |
जिघांसुरर्केन्दुसमप्रभावः; कर्णं समाप्तिं नयतां यमाय ||२२||
तेनेषुवर्येण किरीटमाली; प्रहृष्टरूपो विजयावहेन |
जिघांसुरर्केन्दुसमप्रभेण; चक्रे विषक्तं रिपुमाततायी ||२३||
तदुद्यतादित्यसमानवर्चसं; शरन्नभोमध्यगभास्करोपमम् |
वराङ्गमुर्व्यामपतच्चमूपते; र्दिवाकरोऽस्तादिव रक्तमण्डलः ||२४||
तदस्य देही सततं सुखोदितं; स्वरूपमत्यर्थमुदारकर्मणः |
परेण कृच्छ्रेण शरीरमत्यज; द्गृहं महर्द्धीव ससङ्गमीश्वरः ||२५||
शरैर्विभुग्नं व्यसु तद्विवर्मणः; पपात कर्णस्य शरीरमुच्छ्रितम् |
स्रवद्व्रणं गैरिकतोयविस्रवं; गिरेर्यथा वज्रहतं शिरस्तथा ||२६||
देहात्तु कर्णस्य निपातितस्य; तेजो दीप्तं खं विगाह्याचिरेण |
तदद्भुतं सर्वमनुष्ययोधाः; पश्यन्ति राजन्निहते स्म कर्णे ||२७||
तं सोमकाः प्रेक्ष्य हतं शयानं; प्रीता नादं सह सैन्यैरकुर्वन् |
तूर्याणि चाजघ्नुरतीव हृष्टा; वासांसि चैवादुधुवुर्भुजांश्च ||२८||
बलान्विताश्चाप्यपरे ह्यनृत्य; न्नन्योन्यमाश्लिष्य नदन्त ऊचुः ||२८||
दृष्ट्वा तु कर्णं भुवि निष्टनन्तं; हतं रथात्सायकेनावभिन्नम् |
महानिलेनाग्निमिवापविद्धं; यज्ञावसाने शयने निशान्ते ||२९||
शरैराचितसर्वाङ्गः शोणितौघपरिप्लुतः |
विभाति देहः कर्णस्य स्वरश्मिभिरिवांशुमान् ||३०||
प्रताप्य सेनामामित्रीं दीप्तैः शरगभस्तिभिः |
बलिनार्जुनकालेन नीतोऽस्तं कर्णभास्करः ||३१||
अस्तं गच्छन्यथादित्यः प्रभामादाय गच्छति |
एवं जीवितमादाय कर्णस्येषुर्जगाम ह ||३२||
अपराह्णे पराह्णस्य सूतपुत्रस्य मारिष |
छिन्नमञ्जलिकेनाजौ सोत्सेधमपतच्छिरः ||३३||
उपर्युपरि सैन्यानां तस्य शत्रोस्तदञ्जसा |
शिरः कर्णस्य सोत्सेधमिषुः सोऽपाहरद्द्रुतम् ||३४||
सञ्जय उवाच||
कर्णं तु शूरं पतितं पृथिव्यां; शराचितं शोणितदिग्धगात्रम् |
दृष्ट्वा शयानं भुवि मद्रराज; श्छिन्नध्वजेनापययौ रथेन ||३५||
कर्णे हते कुरवः प्राद्रवन्त; भयार्दिता गाढविद्धाश्च सङ्ख्ये |
अवेक्षमाणा मुहुरर्जुनस्य; ध्वजं महान्तं वपुषा ज्वलन्तम् ||३६||
सहस्रनेत्रप्रतिमानकर्मणः; सहस्रपत्रप्रतिमाननं शुभम् |
सहस्ररश्मिर्दिनसङ्क्षये यथा; तथापतत्तस्य शिरो वसुन्धराम् ||३७||
रणभूमिवर्णनम्
६८
सञ्जय उवाच||
शल्यस्तु कर्णार्जुनयोर्विमर्दे; बलानि दृष्ट्वा मृदितानि बाणैः |
दुर्योधनं यान्तमवेक्षमाणो; संदर्शयद्भारत युद्धभूमिम् ||१||
निपातितस्यन्दनवाजिनागं; दृष्ट्वा बलं तद्धतसूतपुत्रम् |
दुर्योधनोऽश्रुप्रतिपूर्णनेत्रो; मुहुर्मुहुर्न्यश्वसदार्तरूपः ||२||
कर्णं तु शूरं पतितं पृथिव्यां; शराचितं शोणितदिग्धगात्रम् |
यदृच्छया सूर्यमिवावनिस्थं; दिदृक्षवः सम्परिवार्य तस्थुः ||३||
प्रहृष्टवित्रस्तविषण्णविस्मृता; स्तथापरे शोकगता इवाभवन् |
परे त्वदीयाश्च परस्परेण; यथा यथैषां प्रकृतिस्तथाभवन् ||४||
प्रविद्धवर्माभरणाम्बरायुधं; धनञ्जयेनाभिहतं हतौजसम् |
निशम्य कर्णं कुरवः प्रदुद्रुवु; र्हतर्षभा गाव इवाकुलाकुलाः ||५||
कृत्वा विमर्दं भृशमर्जुनेन; कर्णं हतं केसरिणेव नागम् |
दृष्ट्वा शयानं भुवि मद्रराजो; भीतोऽपसर्पत्सरथः सुशीघ्रम् ||६||
मद्राधिपश्चापि विमूढचेता; स्तूर्णं रथेनापहृतध्वजेन |
दुर्योधनस्यान्तिकमेत्य शीघ्रं; सम्भाष्य दुःखार्तमुवाच वाक्यम् ||७||
विशीर्णनागाश्वरथप्रवीरं; बलं त्वदियं यमराष्ट्रकल्पम् |
अन्योन्यमासाद्य हतं महद्भि; र्नराश्वनागैर्गिरिकूटकल्पैः ||८||
नैतादृशं भारत युद्धमासी; द्यथाद्य कर्णार्जुनयोर्बभूव |
ग्रस्तौ हि कर्णेन समेत्य कृष्णा; वन्ये च सर्वे तव शत्रवो ये ||९||
दैवं तु यत्तत्स्ववशं प्रवृत्तं; तत्पाण्डवान्पाति हिनस्ति चास्मान् |
तवार्थसिद्ध्यर्थकरा हि सर्वे; प्रसह्य वीरा निहता द्विषद्भिः ||१०||
कुबेरवैवस्वतवासवानां; तुल्यप्रभावाम्बुपतेश्च वीराः |
वीर्येण शौर्येण बलेन चैव; तैस्तैश्च युक्ता विपुलैर्गुणौघैः ||११||
अवध्यकल्पा निहता नरेन्द्रा; स्तवार्थकामा युधि पाण्डवेयैः |
तन्मा शुचो भारत दिष्टमेत; त्पर्यायसिद्धिर्न सदास्ति सिद्धिः ||१२||
एतद्वचो मद्रपतेर्निशम्य; स्वं चापनीतं मनसा निरीक्ष्य |
दुर्योधनो दीनमना विसञ्ज्ञः; पुनः पुनर्न्यश्वसदार्तरूपः ||१३||
तं ध्यानमूकं कृपणं भृशार्त; मार्तायनिर्दीनमुवाच वाक्यम् |
पश्येदमुग्रं नरवाजिनागै; रायोधनं वीरहतैः प्रपन्नम् ||१४||
महीधराभैः पतितैर्महागजैः; सकृत्प्रविद्धैः शरविद्धमर्मभिः |
तैर्विह्वलद्भिश्च गतासुभिश्च; प्रध्वस्तयन्त्रायुधवर्मयोधैः ||१५||
वज्रापविद्धैरिव चाचलेन्द्रै; र्विभिन्नपाषाणमृगद्रुमौषधैः |
प्रविद्धघण्टाङ्कुशतोमरध्वजैः; सहेममालै रुधिरौघसम्प्लुतैः ||१६||
शरावभिन्नैः पतितैश्च वाजिभिः; श्वसद्भिरन्यैः क्षतजं वमद्भिः |
दीनैः स्तनद्भिः परिवृत्तनेत्रै; र्महीं दशद्भिः कृपणं नदद्भिः ||१७||
तथापविद्धैर्गजवाजियोधै; र्मन्दासुभिश्चैव गतासुभिश्च |
नराश्वनागैश्च रथैश्च मर्दितै; र्मही महावैतरणीव दुर्दृशा ||१८||
गजैर्निकृत्तापरहस्तगात्रै; रुद्वेपमानैः पतितैः पृथिव्याम् |
यशस्विभिर्नागरथाश्वयोधिभिः; पदातिभिश्चाभिमुखैर्हतैः परैः ||१९||
विशीर्णवर्माभरणाम्बरायुधै; र्वृता निशान्तैरिव पावकैर्मही ||१९||
शरप्रहाराभिहतैर्महाबलै; रवेक्ष्यमाणैः पतितैः सहस्रशः |
प्रनष्टसञ्ज्ञैः पुनरुच्छ्वसद्भि; र्मही बभूवानुगतैरिवाग्निभिः ||२०||
दिवश्च्युतैर्भूरतिदीप्तिमद्भि; र्नक्तं ग्रहैर्द्यौरमलेव दीप्तैः ||२०||
शरास्तु कर्णार्जुनबाहुमुक्ता; विदार्य नागाश्वमनुष्यदेहान् |
प्राणान्निरस्याशु महीमतीयु; र्महोरगा वासमिवाभितोऽस्त्रैः ||२१||
हतैर्मनुष्याश्वगजैश्च सङ्ख्ये; शरावभिन्नैश्च रथैर्बभूव |
धनञ्जयस्याधिरथेश्च मार्गे; गजैरगम्या वसुधातिदुर्गा ||२२||
रथैर्वरेषून्मथितैश्च योधैः; संस्यूतसूताश्ववरायुधध्वजैः |
विशीर्णशस्त्रैर्विनिकृत्तबन्धुरै; र्निकृत्तचक्राक्षयुगत्रिवेणुभिः ||२३||
विमुक्तयन्त्रैर्निहतैरयस्मयै; र्हतानुषङ्गैर्विनिषङ्गबन्धुरैः |
प्रभग्ननीडैर्मणिहेममण्डितैः; स्तृता मही द्यौरिव शारदैर्घनैः ||२४||
विकृष्यमणैर्जवनैरलङ्कृतै; र्हतेश्वरैराजिरथैः सुकल्पितैः |
मनुष्यमातङ्गरथाश्वराशिभि; र्द्रुतं व्रजन्तो बहुधा विचूर्णिताः ||२५||
सहेमपट्टाः परिघाः परश्वधाः; कडङ्गरायोमुसलानि पट्टिशाः |
पेतुश्च खड्गा विमला विकोशा; गदाश्च जाम्बूनदपट्टबद्धाः ||२६||
चापानि रुक्माङ्गदभूषणानि; शराश्च कार्तस्वरचित्रपुङ्खाः |
ऋष्ट्यश्च पीता विमला विकोशाः; प्रासाः सखड्गाः कनकावभासाः ||२७||
छत्राणि वालव्यजनानि शङ्खाः; स्रजश्च पुष्पोत्तमहेमचित्राः |
कुथाः पताकाम्बरवेष्टिताश्च; किरीटमाला मुकुटाश्च शुभ्राः ||२८||
प्रकीर्णका विप्रकीर्णाः कुथाश्च; प्रधानमुक्तातरलाश्च हाराः |
आपीडकेयूरवराङ्गदानि; ग्रैवेयनिष्काः ससुवर्णसूत्राः ||२९||
मण्युत्तमा वज्रसुवर्णमुक्ता; रत्नानि चोच्चावचमङ्गलानि |
गात्राणि चात्यन्तसुखोचितानि; शिरांसि चेन्दुप्रतिमाननानि ||३०||
देहांश्च भोगांश्च परिच्छदांश्च; त्यक्त्वा मनोज्ञानि सुखानि चापि |
स्वधर्मनिष्ठां महतीमवाप्य; व्याप्तांश्च लोकान्यशसा समीयुः ||३१||
इत्येवमुक्त्वा विरराम शल्यो; दुर्योधनः शोकपरीतचेताः |
हा कर्ण हा कर्ण इति ब्रुवाण; आर्तो विसञ्ज्ञो भृशमश्रुनेत्रः ||३२||
तं द्रोणपुत्रप्रमुखा नरेन्द्राः; सर्वे समाश्वास्य सह प्रयान्ति |
निरीक्षमाणा मुहुरर्जुनस्य; ध्वजं महान्तं यशसा ज्वलन्तम् ||३३||
नराश्वमातङ्गशरीरजेन; रक्तेन सिक्ता रुधिरेण भूमिः |
रक्ताम्बरस्रक्तपनीययोगा; न्नारी प्रकाशा इव सर्वगम्या ||३४||
प्रच्छन्नरूपा रुधिरेण राज; न्रौद्रे मुहूर्तेऽतिविराजमानाः |
नैवावतस्थुः कुरवः समीक्ष्य; प्रव्राजिता देवलोकाश्च सर्वे ||३५||
वधेन कर्णस्य सुदुःखितास्ते; हा कर्ण हा कर्ण इति ब्रुवाणाः |
द्रुतं प्रयाताः शिबिराणि राज; न्दिवाकरं रक्तमवेक्षमाणाः ||३६||
गाण्डीवमुक्तैस्तु सुवर्णपुङ्खैः; शितैः शरैः शोणितदिग्धवाजैः |
शरैश्चिताङ्गो भुवि भाति कर्णो; हतोऽपि सन्सूर्य इवांशुमाली ||३७||
कर्णस्य देहं रुधिरावसिक्तं; भक्तानुकम्पी भगवान्विवस्वान् |
स्पृष्ट्वा करैर्लोहितरक्तरूपः; सिष्णासुरभ्येति परं समुद्रम् ||३८||
इतीव सञ्चिन्त्य सुरर्षिसङ्घाः; सम्प्रस्थिता यान्ति यथानिकेतम् |
सञ्चिन्तयित्वा च जना विसस्रु; र्यथासुखं खं च महीतलं च ||३९||
तदद्भुतं प्राणभृतां भयङ्करं; निशम्य युद्धं कुरुवीरमुख्ययोः |
धनञ्जयस्याधिरथेश्च विस्मिताः; प्रशंसमानाः प्रययुस्तदा जनाः ||४०||
शरैः सङ्कृत्तवर्माणं वीरं विशसने हतम् |
गतासुमपि राधेयं नैव लक्ष्मीर्व्यमुञ्चत ||४१||
नानाभरणवान्राजन्मृष्टजाम्बूनदाङ्गदः |
हतो वैकर्तनः शेते पादपोऽङ्कुरवानिव ||४२||
कनकोत्तमसङ्काशः प्रदीप्त इव पावकः |
सपुत्रः पुरुषव्याघ्रः संशान्तः पार्थतेजसा ||४३||
प्रताप्य पाण्डवान्राजन्पाञ्चालांश्चास्त्रतेजसा ||४३||
ददानीत्येव योऽवोचन्न नास्तीत्यर्थितोऽर्थिभिः |
सद्भिः सदा सत्पुरुषः स हतो द्वैरथे वृषः ||४४||
यस्य ब्राह्मणसात्सर्वमात्मार्थं न महात्मनः |
नादेयं ब्राह्मणेष्वासीद्यस्य स्वमपि जीवितम् ||४५||
सदा नॄणां प्रियो दाता प्रियदानो दिवं गतः |
आदाय तव पुत्राणां जयाशां शर्म वर्म च ||४६||
हते स्म कर्णे सरितो न स्रवन्ति; जगाम चास्तं कलुषो दिवाकरः |
ग्रहश्च तिर्यग्ज्वलितार्कवर्णो; यमस्य पुत्रोऽभ्युदियाय राजन् ||४७||
नभः पफालाथ ननाद चोर्वी; ववुश्च वाताः परुषातिवेलम् |
दिशः सधूमाश्च भृशं प्रजज्वलु; र्महार्णवाश्चुक्षुभिरे च सस्वनाः ||४८||
सकाननाः साद्रिचयाश्चकम्पुः; प्रविव्यथुर्भूतगणाश्च मारिष |
बृहस्पती रोहिणीं सम्प्रपीड्य; बभूव चन्द्रार्कसमानवर्णः ||४९||
हते कर्णे न दिशो विप्रजज्ञु; स्तमोवृता द्यौर्विचचाल भूमिः |
पपात चोल्का ज्वलनप्रकाशा; निशाचराश्चाप्यभवन्प्रहृष्टाः ||५०||
शशिप्रकाशाननमर्जुनो यदा; क्षुरेण कर्णस्य शिरो न्यपातयत् |
अथान्तरिक्षे दिवि चेह चासकृ; द्बभूव हाहेति जनस्य निस्वनः ||५१||
स देवगन्धर्वमनुष्यपूजितं; निहत्य कर्णं रिपुमाहवेऽर्जुनः |
रराज पार्थः परमेण तेजसा; वृत्रं निहत्येव सहस्रलोचनः ||५२||
ततो रथेनाम्बुदवृन्दनादिना; शरन्नभोमध्यगभास्करत्विषा |
पताकिना भीमनिनादकेतुना; हिमेन्दुशङ्खस्फटिकावभासिना ||५३||
सुवर्णमुक्तामणिवज्रविद्रुमै; रलङ्कृतेनाप्रतिमानरंहसा ||५३||
नरोत्तमौ पाण्डवकेशिमर्दना; वुदाहितावग्निदिवाकरोपमौ |
रणाजिरे वीतभयौ विरेजतुः; समानयानाविव विष्णुवासवौ ||५४||
ततो धनुर्ज्यातलनेमिनिस्वनैः; प्रसह्य कृत्वा च रिपून्हतप्रभान् |
संसाधयित्वैव कुरूञ्शरौघैः; कपिध्वजः पक्षिवरध्वजश्च ||५५||
प्रसह्य शङ्खौ धमतुः सुघोषौ; मनांस्यरीणामवसादयन्तौ ||५५||
सुवर्णजालावततौ महास्वनौ; हिमावदातौ परिगृह्य पाणिभिः |
चुचुम्बतुः शङ्खवरौ नृणां वरौ; वराननाभ्यां युगपच्च दध्मतुः ||५६||
पाञ्चजन्यस्य निर्घोषो देवदत्तस्य चोभयोः |
पृथिवीमन्तरिक्षं च द्यामपश्चाप्यपूरयत् ||५७||
तौ शङ्खशब्देन निनादयन्तौ; वनानि शैलान्सरितो दिशश्च |
वित्रासयन्तौ तव पुत्रसेनां; युधिष्ठिरं नन्दयतः स्म वीरौ ||५८||
ततः प्रयाताः कुरवो जवेन; श्रुत्वैव शङ्खस्वनमीर्यमाणम् |
विहाय मद्राधिपतिं पतिं च; दुर्योधनं भारत भारतानाम् ||५९||
महाहवे तं बहु शोभमानं; धनञ्जयं भूतगणाः समेताः |
तदान्वमोदन्त जनार्दनं च; प्रभाकरावभ्युदितौ यथैव ||६०||
समाचितौ कर्णशरैः परन्तपा; वुभौ व्यभातां समरेऽच्युतार्जुनौ |
तमो निहत्याभ्युदितौ यथामलौ; शशाङ्कसूर्याविव रश्मिमालिनौ ||६१||
विहाय तान्बाणगणानथागतौ; सुहृद्वृतावप्रतिमानविक्रमौ |
सुखं प्रविष्टौ शिबिरं स्वमीश्वरौ; सदस्यहूताविव वासवाच्युतौ ||६२||
सदेवगन्धर्वमनुष्यचारणै; र्महर्षिभिर्यक्षमहोरगैरपि |
जयाभिवृद्ध्या परयाभिपूजितौ; निहत्य कर्णं परमाहवे तदा ||६३||
युधिष्ठिरानन्दः
६९
सञ्जय उवाच||
तथा निपातिते कर्णे तव सैन्ये च विद्रुते |
आश्लिष्य पार्थं दाशार्हो हर्षाद्वचनमब्रवीत् ||१||
हतो बलभिदा वृत्रस्त्वया कर्णो धनञ्जय |
वधं वै कर्णवृत्राभ्यां कथयिष्यन्ति मानवाः ||२||
वज्रिणा निहतो वृत्रः संयुगे भूरितेजसा |
त्वया तु निहतः कर्णो धनुषा निशितैः शरैः ||३||
तमिमं विक्रमं लोके प्रथितं ते यशोवहम् |
निवेदयावः कौन्तेय धर्मराजाय धीमते ||४||
वधं कर्णस्य सङ्ग्रामे दीर्घकालचिकीर्षितम् |
निवेद्य धर्मराजस्य त्वमानृण्यं गमिष्यसि ||५||
तथेत्युक्ते केशवस्तु पार्थेन यदुपुङ्गवः |
पर्यवर्तयदव्यग्रो रथं रथवरस्य तम् ||६||
धृष्टद्युम्नं युधामन्युं माद्रीपुत्रौ वृकोदरम् |
युयुधानं च गोविन्द इदं वचनमब्रवीत् ||७||
परानभिमुखा यत्तास्तिष्ठध्वं भद्रमस्तु वः |
यावदावेद्यते राज्ञे हतः कर्णोऽर्जुनेन वै ||८||
स तैः शूरैरनुज्ञातो ययौ राजनिवेशनम् |
पार्थमादाय गोविन्दो ददर्श च युधिष्ठिरम् ||९||
शयानं राजशार्दूलं काञ्चने शयनोत्तमे |
अगृह्णीतां च चरणौ मुदितौ पार्थिवस्य तौ ||१०||
तयोः प्रहर्षमालक्ष्य प्रहारांश्चातिमानुषान् |
राधेयं निहतं मत्वा समुत्तस्थौ युधिष्ठिरः ||११||
ततोऽस्मै तद्यथावृत्तं वासुदेवः प्रियंवदः |
कथयामास कर्णस्य निधनं यदुनन्दनः ||१२||
ईषदुत्स्मयमानस्तु कृष्णो राजानमब्रवीत् |
युधिष्ठिरं हतामित्रं कृताञ्जलिरथाच्युतः ||१३||
दिष्ट्या गाण्डीवधन्वा च पाण्डवश्च वृकोदरः |
त्वं चापि कुशली राजन्माद्रीपुत्रौ च पाण्डवौ ||१४||
मुक्ता वीरक्षयादस्मात्सङ्ग्रामाल्लोमहर्षणात् |
क्षिप्रमुत्तरकालानि कुरु कार्याणि पार्थिव ||१५||
हतो वैकर्तनः क्रूरः सूतपुत्रो महाबलः |
दिष्ट्या जयसि राजेन्द्र दिष्ट्या वर्धसि पाण्डव ||१६||
यः स द्यूतजितां कृष्णां प्राहसत्पुरुषाधमः |
तस्याद्य सूतपुत्रस्य भूमिः पिबति शोणितम् ||१७||
शेतेऽसौ शरदीर्णाङ्गः शत्रुस्ते कुरुपुङ्गव |
तं पश्य पुरुषव्याघ्र विभिन्नं बहुधा शरैः ||१८||
युधिष्ठिरस्तु दाशार्हं प्रहृष्टः प्रत्यपूजयत् |
दिष्ट्या दिष्ट्येति राजेन्द्र प्रीत्या चेदमुवाच ह ||१९||
नैतच्चित्रं महाबाहो त्वयि देवकिनन्दन |
त्वया सारथिना पार्थो यत्कुर्यादद्य पौरुषम् ||२०||
प्रगृह्य च कुरुश्रेष्ठः साङ्गदं दक्षिणं भुजम् |
उवाच धर्मभृत्पार्थ उभौ तौ केशवार्जुनौ ||२१||
नरनारायणौ देवौ कथितौ नारदेन ह |
धर्मसंस्थापने युक्तौ पुराणौ पुरुषोत्तमौ ||२२||
असकृच्चापि मेधावी कृष्णद्वैपायनो मम |
कथामेतां महाबाहो दिव्यामकथयत्प्रभुः ||२३||
तव कृष्ण प्रभावेण गाण्डीवेन धनञ्जयः |
जयत्यभिमुखाञ्शत्रून्न चासीद्विमुखः क्वचित् ||२४||
जयश्चैव ध्रुवोऽस्माकं न त्वस्माकं पराजयः |
यदा त्वं युधि पार्थस्य सारथ्यमुपजग्मिवान् ||२५||
एवमुक्त्वा महाराज तं रथं हेमभूषितम् |
दन्तवर्णैर्हयैर्युक्तं कालवालैर्महारथः ||२६||
आस्थाय पुरुषव्याघ्रः स्वबलेनाभिसंवृतः |
कृष्णार्जुनाभ्यां वीराभ्यामनुमन्य ततः प्रियम् ||२७||
आगतो बहुवृत्तान्तं द्रष्टुमायोधनं तदा |
आभाषमाणस्तौ वीरावुभौ माधवफल्गुनौ ||२८||
स ददर्श रणे कर्णं शयानं पुरुषर्षभम् |
गाण्डीवमुक्तैर्विशिखैः सर्वतः शकलीकृतम् ||२९||
सपुत्रं निहतं दृष्ट्वा कर्णं राजा युधिष्ठिरः |
प्रशशंस नरव्याघ्रावुभौ माधवपाण्डवौ ||३०||
अद्य राजास्मि गोविन्द पृथिव्यां भ्रातृभिः सह |
त्वया नाथेन वीरेण विदुषा परिपालितः ||३१||
हतं दृष्ट्वा नरव्याघ्रं राधेयमभिमानिनम् |
निराशोऽद्य दुरात्मासौ धार्तराष्ट्रो भविष्यति ||३२||
जीविताच्चापि राज्याच्च हते कर्णे महारथे ||३२||
त्वत्प्रसादाद्वयं चैव कृतार्थाः पुरुषर्षभ |
त्वं च गाण्डीवधन्वा च विजयी यदुनन्दन ||३३||
दिष्ट्या जयसि गोविन्द दिष्ट्या कर्णो निपातितः ||३३||
एवं स बहुशो हृष्टः प्रशशंस जनार्दनम् |
अर्जुनं चापि राजेन्द्र धर्मराजो युधिष्ठिरः ||३४||
ततो भीमप्रभृतिभिः सर्वैश्च भ्रातृभिर्वृतम् |
वर्धयन्ति स्म राजानं हर्षयुक्ता महारथाः ||३५||
नकुलः सहदेवश्च पाण्डवश्च वृकोदरः |
सात्यकिश्च महाराज वृष्णीनां प्रवरो रथः ||३६||
धृष्टद्युम्नः शिखण्डी च पाण्डुपाञ्चालसृञ्जयाः |
पूजयन्ति स्म कौन्तेयं निहते सूतनन्दने ||३७||
ते वर्धयित्वा नृपतिं पाण्डुपुत्रं युधिष्ठिरम् |
जितकाशिनो लब्धलक्षा युद्धशौण्डाः प्रहारिणः ||३८||
स्तुवन्तः स्तवयुक्ताभिर्वाग्भिः कृष्णौ परन्तपौ |
जग्मुः स्वशिबिरायैव मुदा युक्ता महारथाः ||३९||
एवमेष क्षयो वृत्तः सुमहाँल्लोमहर्षणः |
तव दुर्मन्त्रिते राजन्नतीतं किं नु शोचसि ||४०||
वैशम्पायन उवाच||
श्रुत्वा तदप्रियं राजन्धृतराष्ट्रो महीपतिः |
पपात भूमौ निश्चेष्टः कौरव्यः परमार्तिवान् ||४१||
तथा सत्यव्रता देवी गान्धारी धर्मदर्शिनी ||४१||
तं प्रत्यगृह्णाद्विदुरो नृपतिं सञ्जयस्तथा |
पर्याश्वासयतश्चैवं तावुभावेव भूमिपम् ||४२||
तथैवोत्थापयामासुर्गान्धारीं राजयोषितः |
ताभ्यामाश्वासितो राजा तूष्णीमासीद्विचेतनः ||४३||
Mahabharata Critical Edition Only for Personal Studies
Encoding: ISCII
Electronic text (C) Bhandarkar Oriental Research Institute,
Pune, India, 1999
http://bombay.indology.info/mahabharata/statement.html
for further details
% File name : mbh08.itx
%--------------------------------------------
% Text title : 8 mahAbhArate karNaparva.n
% Author : Veda Vyasa
% Language : sanskrit
% Subject : religion
% Description/comments : Access available at Prof John Smith's site
% http://bombay.indology.info/mahabharata/statement.html
% Transliterated by : Prof. Tokunaga
% Proofread by : Team at Bhandarkar Oriental Research Institute (BORI), Tokunaga
% Latest update : September 16, 2013
% Send corrections to : (sanskrit at cheerful dot c om)
%
% Site access : https://sanskritdocuments.org/
%-----------------------------------------------------
% The text is to be used for personal studies and research only.
% Any use for commercial purpose is prohibited as a 'gentleman's' agreement.
%--------------------------------------------------------
From https://sanskritdocuments.org
Questions, comments? Write to (sanskrit at cheerful dot c om) .