||१३ महाभारते अनुशासनपर्वम् ||
दानधर्मपर्व
मृत्युगौतम्यादिसंवादः
१
युधिष्ठिर उवाच||
शमो बहुविधाकारः सूक्ष्म उक्तः पितामह |
न च मे हृदये शान्तिरस्ति कृत्वेदमीदृशम् ||१||
अस्मिन्नर्थे बहुविधा शान्तिरुक्ता त्वयानघ |
स्वकृते का नु शान्तिः स्याच्छमाद्बहुविधादपि ||२||
शराचितशरीरं हि तीव्रव्रणमुदीक्ष्य च |
शमं नोपलभे वीर दुष्कृतान्येव चिन्तयन् ||३||
रुधिरेणावसिक्ताङ्गं प्रस्रवन्तं यथाचलम् |
त्वां दृष्ट्वा पुरुषव्याघ्र सीदे वर्षास्विवाम्बुजम् ||४||
अतः कष्टतरं किं नु मत्कृते यत्पितामहः |
इमामवस्थां गमितः प्रत्यमित्रै रणाजिरे ||५||
तथैवान्ये नृपतयः सहपुत्राः सबान्धवाः ||५||
वयं हि धार्तराष्ट्राश्च कालमन्युवशानुगाः |
कृत्वेदं निन्दितं कर्म प्राप्स्यामः कां गतिं नृप ||६||
अहं तव ह्यन्तकरः सुहृद्वधकरस्तथा |
न शान्तिमधिगच्छामि पश्यंस्त्वां दुःखितं क्षितौ ||७||
भीष्म उवाच||
परतन्त्रं कथं हेतुमात्मानमनुपश्यसि |
कर्मण्यस्मिन्महाभाग सूक्ष्मं ह्येतदतीन्द्रियम् ||८||
अत्राप्युदाहरन्तीममितिहासं पुरातनम् |
संवादं मृत्युगौतम्योः काललुब्धकपन्नगैः ||९||
गौतमी नाम कौन्तेय स्थविरा शमसंयुता |
सर्पेण दष्टं स्वं पुत्रमपश्यद्गतचेतनम् ||१०||
अथ तं स्नायुपाशेन बद्ध्वा सर्पममर्षितः |
लुब्धकोऽर्जुनको नाम गौतम्याः समुपानयत् ||११||
तां चाब्रवीदयं ते स पुत्रहा पन्नगाधमः |
ब्रूहि क्षिप्रं महाभागे वध्यतां केन हेतुना ||१२||
अग्नौ प्रक्षिप्यतामेष च्छिद्यतां खण्डशोऽपि वा |
न ह्ययं बालहा पापश्चिरं जीवितुमर्हति ||१३||
गौतम्युवाच||
विसृजैनमबुद्धिस्त्वं न वध्योऽर्जुनक त्वया |
को ह्यात्मानं गुरुं कुर्यात्प्राप्तव्ये सति चिन्तयन् ||१४||
प्लवन्ते धर्मलघवो लोकेऽम्भसि यथा प्लवाः |
मज्जन्ति पापगुरवः शस्त्रं स्कन्नमिवोदके ||१५||
न चामृत्युर्भविता वै हतेऽस्मि; न्को वात्ययः स्यादहतेऽस्मिञ्जनस्य |
अस्योत्सर्गे प्राणयुक्तस्य जन्तो; र्मृत्योर्लोकं को नु गच्छेदनन्तम् ||१६||
लुब्धक उवाच||
जानाम्येवं नेह गुणागुणज्ञाः; सर्वे नियुक्ता गुरवो वै भवन्ति |
स्वस्थस्यैते तूपदेशा भवन्ति; तस्मात्क्षुद्रं सर्पमेनं हनिष्ये ||१७||
समीप्सन्तः कालयोगं त्यजन्ति; सद्यः शुचं त्वर्थविदस्त्यजन्ति |
श्रेयः क्षयः शोचतां नित्यशो हि; तस्मात्त्याज्यं जहि शोकं हतेऽस्मिन् ||१८||
गौतम्युवाच||
न चैवार्तिर्विद्यतेऽस्मद्विधानां; धर्मारामः सततं सज्जनो हि |
नित्यायस्तो बालजनो न चास्ति; धर्मो ह्येष प्रभवाम्यस्य नाहम् ||१९||
न ब्राह्मणानां कोपोऽस्ति कुतः कोपाच्च यातना |
मार्दवात्क्षम्यतां साधो मुच्यतामेष पन्नगः ||२०||
लुब्धक उवाच||
हत्वा लाभः श्रेय एवाव्ययं स्या; त्सद्यो लाभो बलवद्भिः प्रशस्तः |
कालाल्लाभो यस्तु सद्यो भवेत; हते श्रेयः कुत्सिते त्वीदृशे स्यात् ||२१||
गौतम्युवाच||
कार्थप्राप्तिर्गृह्य शत्रुं निहत्य; का वा शान्तिः प्राप्य शत्रुं नमुक्त्वा |
कस्मात्सौम्य भुजगे न क्षमेयं; मोक्षं वा किं कारणं नास्य कुर्याम् ||२२||
लुब्धक उवाच||
अस्मादेकस्माद्बहवो रक्षितव्या; नैको बहुभ्यो गौतमि रक्षितव्यः |
कृतागसं धर्मविदस्त्यजन्ति; सरीसृपं पापमिमं जहि त्वम् ||२३||
गौतम्युवाच||
नास्मिन्हते पन्नगे पुत्रको मे; सम्प्राप्स्यते लुब्धक जीवितं वै |
गुणं चान्यं नास्य वधे प्रपश्ये; तस्मात्सर्पं लुब्धक मुञ्च जीवम् ||२४||
लुब्धक उवाच||
वृत्रं हत्वा देवराट्श्रेष्ठभाग्वै; यज्ञं हत्वा भागमवाप चैव |
शूली देवो देववृत्तं कुरु त्वं; क्षिप्रं सर्पं जहि मा भूद्विशङ्का ||२५||
भीष्म उवाच||
असकृत्प्रोच्यमानापि गौतमी भुजगं प्रति |
लुब्धकेन महाभागा पापे नैवाकरोन्मतिम् ||२६||
ईषदुच्छ्वसमानस्तु कृच्छ्रात्संस्तभ्य पन्नगः |
उत्ससर्ज गिरं मन्दां मानुषीं पाशपीडितः ||२७||
को न्वर्जुनक दोषोऽत्र विद्यते मम बालिश |
अस्वतन्त्रं हि मां मृत्युर्विवशं यदचूचुदत् ||२८||
तस्यायं वचनाद्दष्टो न कोपेन न काम्यया |
तस्य तत्किल्बिषं लुब्ध विद्यते यदि किल्बिषम् ||२९||
लुब्धक उवाच||
यद्यन्यवशगेनेदं कृतं ते पन्नगाशुभम् |
कारणं वै त्वमप्यत्र तस्मात्त्वमपि किल्बिषी ||३०||
मृत्पात्रस्य क्रियायां हि दण्डचक्रादयो यथा |
कारणत्वे प्रकल्प्यन्ते तथा त्वमपि पन्नग ||३१||
किल्बिषी चापि मे वध्यः किल्बिषी चासि पन्नग |
आत्मानं कारणं ह्यत्र त्वमाख्यासि भुजङ्गम ||३२||
सर्प उवाच||
सर्व एते ह्यस्ववशा दण्डचक्रादयो यथा |
तथाहमपि तस्मान्मे नैष हेतुर्मतस्तव ||३३||
अथ वा मतमेतत्ते तेऽप्यन्योन्यप्रयोजकाः |
कार्यकारणसंदेहो भवत्यन्योन्यचोदनात् ||३४||
एवं सति न दोषो मे नास्मि वध्यो न किल्बिषी |
किल्बिषं समवाये स्यान्मन्यसे यदि किल्बिषम् ||३५||
लुब्धक उवाच||
कारणं यदि न स्याद्वै न कर्ता स्यास्त्वमप्युत |
विनाशे कारणं त्वं च तस्माद्वध्योऽसि मे मतः ||३६||
असत्यपि कृते कार्ये नेह पन्नग लिप्यते |
तस्मान्नात्रैव हेतुः स्याद्वध्यः किं बहु भाषसे ||३७||
सर्प उवाच||
कार्याभावे क्रिया न स्यात्सत्यसत्यपि कारणे |
तस्मात्त्वमस्मिन्हेतौ मे वाच्यो हेतुर्विशेषतः ||३८||
यद्यहं कारणत्वेन मतो लुब्धक तत्त्वतः |
अन्यः प्रयोगे स्यादत्र किल्बिषी जन्तुनाशने ||३९||
लुब्धक उवाच||
वध्यस्त्वं मम दुर्बुद्धे बालघाती नृशंसकृत् |
भाषसे किं बहु पुनर्वध्यः सन्पन्नगाधम ||४०||
सर्प उवाच||
यथा हवींषि जुह्वाना मखे वै लुब्धकर्त्विजः |
न फलं प्राप्नुवन्त्यत्र परलोके तथा ह्यहम् ||४१||
भीष्म उवाच||
तथा ब्रुवति तस्मिंस्तु पन्नगे मृत्युचोदिते |
आजगाम ततो मृत्युः पन्नगं चाब्रवीदिदम् ||४२||
कालेनाहं प्रणुदितः पन्नग त्वामचूचुदम् |
विनाशहेतुर्नास्य त्वमहं वा प्राणिनः शिशोः ||४३||
यथा वायुर्जलधरान्विकर्षति ततस्ततः |
तद्वज्जलदवत्सर्प कालस्याहं वशानुगः ||४४||
सात्त्विका राजसाश्चैव तामसा ये च केचन |
भावाः कालात्मकाः सर्वे प्रवर्तन्ते हि जन्तुषु ||४५||
जङ्गमाः स्थावराश्चैव दिवि वा यदि वा भुवि |
सर्वे कालात्मकाः सर्प कालात्मकमिदं जगत् ||४६||
प्रवृत्तयश्च या लोके तथैव च निवृत्तयः |
तासां विकृतयो याश्च सर्वं कालात्मकं स्मृतम् ||४७||
आदित्यश्चन्द्रमा विष्णुरापो वायुः शतक्रतुः |
अग्निः खं पृथिवी मित्र ओषध्यो वसवस्तथा ||४८||
सरितः सागराश्चैव भावाभावौ च पन्नग |
सर्वे कालेन सृज्यन्ते ह्रियन्ते च तथा पुनः ||४९||
एवं ज्ञात्वा कथं मां त्वं सदोषं सर्प मन्यसे |
अथ चैवङ्गते दोषो मयि त्वमपि दोषवान् ||५०||
सर्प उवाच||
निर्दोषं दोषवन्तं वा न त्वा मृत्यो ब्रवीम्यहम् |
त्वयाहं चोदित इति ब्रवीम्येतावदेव तु ||५१||
यदि काले तु दोषोऽस्ति यदि तत्रापि नेष्यते |
दोषो नैव परीक्ष्यो मे न ह्यत्राधिकृता वयम् ||५२||
निर्मोक्षस्त्वस्य दोषस्य मया कार्यो यथा तथा |
मृत्यो विदोषः स्यामेव यथा तन्मे प्रयोजनम् ||५३||
भीष्म उवाच||
सर्पोऽथार्जुनकं प्राह श्रुतं ते मृत्युभाषितम् |
नानागसं मां पाशेन सन्तापयितुमर्हसि ||५४||
लुब्धक उवाच||
मृत्योः श्रुतं मे वचनं तव चैव भुजङ्गम |
नैव तावद्विदोषत्वं भवति त्वयि पन्नग ||५५||
मृत्युस्त्वं चैव हेतुर्हि जन्तोरस्य विनाशने |
उभयं कारणं मन्ये न कारणमकारणम् ||५६||
धिङ्मृत्युं च दुरात्मानं क्रूरं दुःखकरं सताम् |
त्वां चैवाहं वधिष्यामि पापं पापस्य कारणम् ||५७||
मृत्युरुवाच||
विवशौ कालवशगावावां तद्दिष्टकारिणौ |
नावां दोषेण गन्तव्यौ यदि सम्यक्प्रपश्यसि ||५८||
लुब्धक उवाच||
युवामुभौ कालवशौ यदि वै मृत्युपन्नगौ |
हर्षक्रोधौ कथं स्यातामेतदिच्छामि वेदितुम् ||५९||
मृत्युरुवाच||
याः काश्चिदिह चेष्टाः स्युः सर्वाः कालप्रचोदिताः |
पूर्वमेवैतदुक्तं हि मया लुब्धक कालतः ||६०||
तस्मादुभौ कालवशावावां तद्दिष्टकारिणौ |
नावां दोषेण गन्तव्यौ त्वया लुब्धक कर्हिचित् ||६१||
भीष्म उवाच||
अथोपगम्य कालस्तु तस्मिन्धर्मार्थसंशये |
अब्रवीत्पन्नगं मृत्युं लुब्धमर्जुनकं च तम् ||६२||
काल उवाच||
नैवाहं नाप्ययं मृत्युर्नायं लुब्धक पन्नगः |
किल्बिषी जन्तुमरणे न वयं हि प्रयोजकाः ||६३||
अकरोद्यदयं कर्म तन्नोऽर्जुनक चोदकम् |
प्रणाशहेतुर्नान्योऽस्य वध्यतेऽयं स्वकर्मणा ||६४||
यदनेन कृतं कर्म तेनायं निधनं गतः |
विनाशहेतुः कर्मास्य सर्वे कर्मवशा वयम् ||६५||
कर्मदायादवाँल्लोकः कर्मसम्बन्धलक्षणः |
कर्माणि चोदयन्तीह यथान्योन्यं तथा वयम् ||६६||
यथा मृत्पिण्डतः कर्ता कुरुते यद्यदिच्छति |
एवमात्मकृतं कर्म मानवः प्रतिपद्यते ||६७||
यथा छायातपौ नित्यं सुसम्बद्धौ निरन्तरम् |
तथा कर्म च कर्ता च सम्बद्धावात्मकर्मभिः ||६८||
एवं नाहं न वै मृत्युर्न सर्पो न तथा भवान् |
न चेयं ब्राह्मणी वृद्धा शिशुरेवात्र कारणम् ||६९||
तस्मिंस्तथा ब्रुवाणे तु ब्राह्मणी गौतमी नृप |
स्वकर्मप्रत्ययाँल्लोकान्मत्वार्जुनकमब्रवीत् ||७०||
नैव कालो न भुजगो न मृत्युरिह कारणम् |
स्वकर्मभिरयं बालः कालेन निधनं गतः ||७१||
मया च तत्कृतं कर्म येनायं मे मृतः सुतः |
यातु कालस्तथा मृत्युर्मुञ्चार्जुनक पन्नगम् ||७२||
भीष्म उवाच||
ततो यथागतं जग्मुर्मृत्युः कालोऽथ पन्नगः |
अभूद्विरोषोऽर्जुनको विशोका चैव गौतमी ||७३||
एतच्छ्रुत्वा शमं गच्छ मा भूश्चिन्तापरो नृप |
स्वकर्मप्रत्ययाँल्लोकांस्त्रीन्विद्धि मनुजर्षभ ||७४||
न तु त्वया कृतं पार्थ नापि दुर्योधनेन वै |
कालेन तत्कृतं विद्धि विहता येन पार्थिवाः ||७५||
वैशम्पायन उवाच||
इत्येतद्वचनं श्रुत्वा बभूव विगतज्वरः |
युधिष्ठिरो महातेजाः पप्रच्छेदं च धर्मवित् ||७६||
सुदर्शनोपाख्यानम्
२
युधिष्ठिर उवाच||
पितामह महाप्राज्ञ सर्वशास्त्रविशारद |
श्रुतं मे महदाख्यानमिदं मतिमतां वर ||१||
भूयस्तु श्रोतुमिच्छामि धर्मार्थसहितं नृप |
कथ्यमानं त्वया किञ्चित्तन्मे व्याख्यातुमर्हसि ||२||
केन मृत्युर्गृहस्थेन धर्ममाश्रित्य निर्जितः |
इत्येतत्सर्वमाचक्ष्व तत्त्वेन मम पार्थिव ||३||
भीष्म उवाच||
अत्राप्युदाहरन्तीममितिहासं पुरातनम् |
यथा मृत्युर्गृहस्थेन धर्ममाश्रित्य निर्जितः ||४||
मनोः प्रजापते राजन्निक्ष्वाकुरभवत्सुतः |
तस्य पुत्रशतं जज्ञे नृपतेः सूर्यवर्चसः ||५||
दशमस्तस्य पुत्रस्तु दशाश्वो नाम भारत |
माहिष्मत्यामभूद्राजा धर्मात्मा सत्यविक्रमः ||६||
दशाश्वस्य सुतस्त्वासीद्राजा परमधार्मिकः |
सत्ये तपसि दाने च यस्य नित्यं रतं मनः ||७||
मदिराश्व इति ख्यातः पृथिव्यां पृथिवीपतिः |
धनुर्वेदे च वेदे च निरतो योऽभवत्सदा ||८||
मदिराश्वस्य पुत्रस्तु द्युतिमान्नाम पार्थिवः |
महाभागो महातेजा महासत्त्वो महाबलः ||९||
पुत्रो द्युतिमतस्त्वासीत्सुवीरो नाम पार्थिवः |
धर्मात्मा कोशवांश्चापि देवराज इवापरः ||१०||
सुवीरस्य तु पुत्रोऽभूत्सर्वसङ्ग्रामदुर्जयः |
दुर्जयेत्यभिविख्यातः सर्वशास्त्रविशारदः ||११||
दुर्जयस्येन्द्रवपुषः पुत्रोऽग्निसदृशद्युतिः |
दुर्योधनो नाम महान्राजासीद्राजसत्तम ||१२||
तस्येन्द्रसमवीर्यस्य सङ्ग्रामेष्वनिवर्तिनः |
विषयश्च प्रभावश्च तुल्यमेवाभ्यवर्तत ||१३||
रत्नैर्धनैश्च पशुभिः सस्यैश्चापि पृथग्विधैः |
नगरं विषयश्चास्य प्रतिपूर्णं तदाभवत् ||१४||
न तस्य विषये चाभूत्कृपणो नापि दुर्गतः |
व्याधितो वा कृशो वापि तस्मिन्नाभून्नरः क्वचित् ||१५||
सुदक्षिणो मधुरवागनसूयुर्जितेन्द्रियः |
धर्मात्मा चानृशंसश्च विक्रान्तोऽथाविकत्थनः ||१६||
यज्वा वदान्यो मेधावी ब्रह्मण्यः सत्यसङ्गरः |
न चावमन्ता दाता च वेदवेदाङ्गपारगः ||१७||
तं नर्मदा देवनदी पुण्या शीतजला शिवा |
चकमे पुरुषश्रेष्ठं स्वेन भावेन भारत ||१८||
तस्य जज्ञे तदा नद्यां कन्या राजीवलोचना |
नाम्ना सुदर्शना राजन्रूपेण च सुदर्शना ||१९||
तादृग्रूपा न नारीषु भूतपूर्वा युधिष्ठिर |
दुर्योधनसुता यादृगभवद्वरवर्णिनी ||२०||
तामग्निश्चकमे साक्षाद्राजकन्यां सुदर्शनाम् |
भूत्वा च ब्राह्मणः साक्षाद्वरयामास तं नृपम् ||२१||
दरिद्रश्चासवर्णश्च ममायमिति पार्थिवः |
न दित्सति सुतां तस्मै तां विप्राय सुदर्शनाम् ||२२||
ततोऽस्य वितते यज्ञे नष्टोऽभूद्धव्यवाहनः |
ततो दुर्योधनो राजा वाक्यमाहर्त्विजस्तदा ||२३||
दुष्कृतं मम किं नु स्याद्भवतां वा द्विजर्षभाः |
येन नाशं जगामाग्निः कृतं कुपुरुषेष्विव ||२४||
न ह्यल्पं दुष्कृतं नोऽस्ति येनाग्निर्नाशमागतः |
भवतां वाथ वा मह्यं तत्त्वेनैतद्विमृश्यताम् ||२५||
एतद्राज्ञो वचः श्रुत्वा विप्रास्ते भरतर्षभ |
नियता वाग्यताश्चैव पावकं शरणं ययुः ||२६||
तान्दर्शयामास तदा भगवान्हव्यवाहनः |
स्वं रूपं दीप्तिमत्कृत्वा शरदर्कसमद्युतिः ||२७||
ततो महात्मा तानाह दहनो ब्राह्मणर्षभान् |
वरयाम्यात्मनोऽर्थाय दुर्योधनसुतामिति ||२८||
ततस्ते काल्यमुत्थाय तस्मै राज्ञे न्यवेदयन् |
ब्राह्मणा विस्मिताः सर्वे यदुक्तं चित्रभानुना ||२९||
ततः स राजा तच्छ्रुत्वा वचनं ब्रह्मवादिनाम् |
अवाप्य परमं हर्षं तथेति प्राह बुद्धिमान् ||३०||
प्रायाचत नृपः शुल्कं भगवन्तं विभावसुम् |
नित्यं सांनिध्यमिह ते चित्रभानो भवेदिति ||३१||
तमाह भगवानग्निरेवमस्त्विति पार्थिवम् ||३१||
ततः सांनिध्यमध्यापि माहिष्मत्यां विभावसोः |
दृष्टं हि सहदेवेन दिशो विजयता तदा ||३२||
ततस्तां समलङ्कृत्य कन्यामहतवाससम् |
ददौ दुर्योधनो राजा पावकाय महात्मने ||३३||
प्रतिजग्राह चाग्निस्तां राजपुत्रीं सुदर्शनाम् |
विधिना वेददृष्टेन वसोर्धारामिवाध्वरे ||३४||
तस्या रूपेण शीलेन कुलेन वपुषा श्रिया |
अभवत्प्रीतिमानग्निर्गर्भं तस्यां समादधे ||३५||
तस्यां समभवत्पुत्रो नाम्नाग्नेयः सुदर्शनः |
शिशुरेवाध्यगात्सर्वं स च ब्रह्म सनातनम् ||३६||
अथौघवान्नाम नृपो नृगस्यासीत्पितामहः |
तस्याप्योघवती कन्या पुत्रश्चौघरथोऽभवत् ||३७||
तामोघवान्ददौ तस्मै स्वयमोघवतीं सुताम् |
सुदर्शनाय विदुषे भार्यार्थे देवरूपिणीम् ||३८||
स गृहस्थाश्रमरतस्तया सह सुदर्शनः |
कुरुक्षेत्रेऽवसद्राजन्नोघवत्या समन्वितः ||३९||
गृहस्थश्चावजेष्यामि मृत्युमित्येव स प्रभो |
प्रतिज्ञामकरोद्धीमान्दीप्ततेजा विशां पते ||४०||
तामथौघवतीं राजन्स पावकसुतोऽब्रवीत् |
अतिथेः प्रतिकूलं ते न कर्तव्यं कथञ्चन ||४१||
येन येन च तुष्येत नित्यमेव त्वयातिथिः |
अप्यात्मनः प्रदानेन न ते कार्या विचारणा ||४२||
एतद्व्रतं मम सदा हृदि सम्परिवर्तते |
गृहस्थानां हि सुश्रोणि नातिथेर्विद्यते परम् ||४३||
प्रमाणं यदि वामोरु वचस्ते मम शोभने |
इदं वचनमव्यग्रा हृदि त्वं धारयेः सदा ||४४||
निष्क्रान्ते मयि कल्याणि तथा संनिहितेऽनघे |
नातिथिस्तेऽवमन्तव्यः प्रमाणं यद्यहं तव ||४५||
तमब्रवीदोघवती यता मूर्ध्नि कृताञ्जलिः |
न मे त्वद्वचनात्किञ्चिदकर्तव्यं कथञ्चन ||४६||
जिगीषमाणं तु गृहे तदा मृत्युः सुदर्शनम् |
पृष्ठतोऽन्वगमद्राजन्रन्ध्रान्वेषी तदा सदा ||४७||
इध्मार्थं तु गते तस्मिन्नग्निपुत्रे सुदर्शने |
अतिथिर्ब्राह्मणः श्रीमांस्तामाहौघवतीं तदा ||४८||
आतिथ्यं दत्तमिच्छामि त्वयाद्य वरवर्णिनि |
प्रमाणं यदि धर्मस्ते गृहस्थाश्रमसंमतः ||४९||
इत्युक्ता तेन विप्रेण राजपुत्री यशस्विनी |
विधिना प्रतिजग्राह वेदोक्तेन विशां पते ||५०||
आसनं चैव पाद्यं च तस्मै दत्त्वा द्विजातये |
प्रोवाचौघवती विप्रं केनार्थः किं ददामि ते ||५१||
तामब्रवीत्ततो विप्रो राजपुत्रीं सुदर्शनाम् |
त्वया ममार्थः कल्याणि निर्विशङ्के तदाचर ||५२||
यदि प्रमाणं धर्मस्ते गृहस्थाश्रमसंमतः |
प्रदानेनात्मनो राज्ञि कर्तुमर्हसि मे प्रियम् ||५३||
तथा सञ्छन्द्यमानोऽन्यैरीप्सितैर्नृपकन्यया |
नान्यमात्मप्रदानात्स तस्या वव्रे वरं द्विजः ||५४||
सा तु राजसुता स्मृत्वा भर्तुर्वचनमादितः |
तथेति लज्जमाना सा तमुवाच द्विजर्षभम् ||५५||
ततो रहः स विप्रर्षिः सा चैवोपविवेश ह |
संस्मृत्य भर्तुर्वचनं गृहस्थाश्रमकाङ्क्षिणः ||५६||
अथेध्मान्समुपादाय स पावकिरुपागमत् |
मृत्युना रौद्रभावेन नित्यं बन्धुरिवान्वितः ||५७||
ततस्त्वाश्रममागम्य स पावकसुतस्तदा |
तामाजुहावौघवतीं क्वासि यातेति चासकृत् ||५८||
तस्मै प्रतिवचः सा तु भर्त्रे न प्रददौ तदा |
कराभ्यां तेन विप्रेण स्पृष्टा भर्तृव्रता सती ||५९||
उच्छिष्टास्मीति मन्वाना लज्जिता भर्तुरेव च |
तूष्णीम्भूताभवत्साध्वी न चोवाचाथ किञ्चन ||६०||
अथ तां पुनरेवेदं प्रोवाच स सुदर्शनः |
क्व सा साध्वी क्व सा याता गरीयः किमतो मम ||६१||
पतिव्रता सत्यशीला नित्यं चैवार्जवे रता |
कथं न प्रत्युदेत्यद्य स्मयमाना यथा पुरा ||६२||
उटजस्थस्तु तं विप्रः प्रत्युवाच सुदर्शनम् |
अतिथिं विद्धि सम्प्राप्तं पावके ब्राह्मणं च माम् ||६३||
अनया छन्द्यमानोऽहं भार्यया तव सत्तम |
तैस्तैरतिथिसत्कारैरार्जवेऽस्या दृढं मनः ||६४||
अनेन विधिना सेयं मामर्चति शुभानना |
अनुरूपं यदत्राद्य तद्भवान्वक्तुमर्हति ||६५||
कूटमुद्गरहस्तस्तु मृत्युस्तं वै समन्वयात् |
हीनप्रतिज्ञमत्रैनं वधिष्यामीति चिन्तयन् ||६६||
सुदर्शनस्तु मनसा कर्मणा चक्षुषा गिरा |
त्यक्तेर्ष्यस्त्यक्तमन्युश्च स्मयमानोऽब्रवीदिदम् ||६७||
सुरतं तेऽस्तु विप्राग्र्य प्रीतिर्हि परमा मम |
गृहस्थस्य हि धर्मोऽग्र्यः सम्प्राप्तातिथिपूजनम् ||६८||
अतिथिः पूजितो यस्य गृहस्थस्य तु गच्छति |
नान्यस्तस्मात्परो धर्म इति प्राहुर्मनीषिणः ||६९||
प्राणा हि मम दाराश्च यच्चान्यद्विद्यते वसु |
अतिथिभ्यो मया देयमिति मे व्रतमाहितम् ||७०||
निःसंदिग्धं मया वाक्यमेतत्ते समुदाहृतम् |
तेनाहं विप्र सत्येन स्वयमात्मानमालभे ||७१||
पृथिवी वायुराकाशमापो ज्योतिश्च पञ्चमम् |
बुद्धिरात्मा मनः कालो दिशश्चैव गुणा दश ||७२||
नित्यमेते हि पश्यन्ति देहिनां देहसंश्रिताः |
सुकृतं दुष्कृतं चापि कर्म धर्मभृतां वर ||७३||
यथैषा नानृता वाणी मयाद्य समुदाहृता |
तेन सत्येन मां देवाः पालयन्तु दहन्तु वा ||७४||
ततो नादः समभवद्दिक्षु सर्वासु भारत |
असकृत्सत्यमित्येव नैतन्मिथ्येति सर्वशः ||७५||
उटजात्तु ततस्तस्मान्निश्चक्राम स वै द्विजः |
वपुषा खं च भूमिं च व्याप्य वायुरिवोद्यतः ||७६||
स्वरेण विप्रः शैक्षेण त्रीँल्लोकाननुनादयन् |
उवाच चैनं धर्मज्ञं पूर्वमामन्त्र्य नामतः ||७७||
धर्मोऽहमस्मि भद्रं ते जिज्ञासार्थं तवानघ |
प्राप्तः सत्यं च ते ज्ञात्वा प्रीतिर्मे परमा त्वयि ||७८||
विजितश्च त्वया मृत्युर्योऽयं त्वामनुगच्छति |
रन्ध्रान्वेषी तव सदा त्वया धृत्या वशीकृतः ||७९||
न चास्ति शक्तिस्त्रैलोक्ये कस्यचित्पुरुषोत्तम |
पतिव्रतामिमां साध्वीं तवोद्वीक्षितुमप्युत ||८०||
रक्षिता त्वद्गुणैरेषा पतिव्रतगुणैस्तथा |
अधृष्या यदियं ब्रूयात्तथा तन्नान्यथा भवेत् ||८१||
एषा हि तपसा स्वेन संयुक्ता ब्रह्मवादिनी |
पावनार्थं च लोकस्य सरिच्छ्रेष्ठा भविष्यति ||८२||
अर्धेनौघवती नाम त्वामर्धेनानुयास्यति |
शरीरेण महाभागा योगो ह्यस्या वशे स्थितः ||८३||
अनया सह लोकांश्च गन्तासि तपसार्जितान् |
यत्र नावृत्तिमभ्येति शाश्वतांस्तान्सनातनान् ||८४||
अनेन चैव देहेन लोकांस्त्वमभिपत्स्यसे |
निर्जितश्च त्वया मृत्युरैश्वर्यं च तवोत्तमम् ||८५||
पञ्च भूतान्यतिक्रान्तः स्ववीर्याच्च मनोभवः |
गृहस्थधर्मेणानेन कामक्रोधौ च ते जितौ ||८६||
स्नेहो रागश्च तन्द्री च मोहो द्रोहश्च केवलः |
तव शुश्रूषया राजन्राजपुत्र्या विनिर्जिताः ||८७||
भीष्म उवाच||
शुक्लानां तु सहस्रेण वाजिनां रथमुत्तमम् |
युक्तं प्रगृह्य भगवान्व्यवसायो जगाम तम् ||८८||
मृत्युरात्मा च लोकाश्च जिता भूतानि पञ्च च |
बुद्धिः कालो मनो व्योम कामक्रोधौ तथैव च ||८९||
तस्माद्गृहाश्रमस्थस्य नान्यद्दैवतमस्ति वै |
ऋतेऽतिथिं नरव्याघ्र मनसैतद्विचारय ||९०||
अतिथिः पूजितो यस्य ध्यायते मनसा शुभम् |
न तत्क्रतुशतेनापि तुल्यमाहुर्मनीषिणः ||९१||
पात्रं त्वतिथिमासाद्य शीलाढ्यं यो न पूजयेत् |
स दत्त्वा सुकृतं तस्य क्षपयेत ह्यनर्चितः ||९२||
एतत्ते कथितं पुत्र मयाख्यानमनुत्तमम् |
यथा हि विजितो मृत्युर्गृहस्थेन पुराभवत् ||९३||
धन्यं यशस्यमायुष्यमिदमाख्यानमुत्तमम् |
बुभूषताभिमन्तव्यं सर्वदुश्चरितापहम् ||९४||
य इदं कथयेद्विद्वानहन्यहनि भारत |
सुदर्शनस्य चरितं पुण्याँल्लोकानवाप्नुयात् ||९५||
विश्वामित्रोपाख्यानम्
३
युधिष्ठिर उवाच||
ब्राह्मण्यं यदि दुष्प्रापं त्रिभिर्वर्णैर्नराधिप |
कथं प्राप्तं महाराज क्षत्रियेण महात्मना ||१||
विश्वामित्रेण धर्मात्मन्ब्राह्मणत्वं नरर्षभ |
श्रोतुमिच्छामि तत्त्वेन तन्मे ब्रूहि पितामह ||२||
तेन ह्यमितवीर्येण वसिष्ठस्य महात्मनः |
हतं पुत्रशतं सद्यस्तपसा प्रपितामह ||३||
यातुधानाश्च बहवो राक्षसास्तिग्मतेजसः |
मन्युनाविष्टदेहेन सृष्टाः कालान्तकोपमाः ||४||
महान्कुशिकवंशश्च ब्रह्मर्षिशतसङ्कुलः |
स्थापितो नरलोकेऽस्मिन्विद्वान्ब्राह्मणसंस्तुतः ||५||
ऋचीकस्यात्मजश्चैव शुनःशेपो महातपाः |
विमोक्षितो महासत्रात्पशुतामभ्युपागतः ||६||
हरिश्चन्द्रक्रतौ देवांस्तोषयित्वात्मतेजसा |
पुत्रतामनुसम्प्राप्तो विश्वामित्रस्य धीमतः ||७||
नाभिवादयते ज्येष्ठं देवरातं नराधिप |
पुत्राः पञ्चशताश्चापि शप्ताः श्वपचतां गताः ||८||
त्रिशङ्कुर्बन्धुसन्त्यक्त इक्ष्वाकुः प्रीतिपूर्वकम् |
अवाक्षिरा दिवं नीतो दक्षिणामाश्रितो दिशम् ||९||
विश्वामित्रस्य विपुला नदी राजर्षिसेविता |
कौशिकीति शिवा पुण्या ब्रह्मर्षिगणसेविता ||१०||
तपोविघ्नकरी चैव पञ्चचूडा सुसंमता |
रम्भा नामाप्सराः शापाद्यस्य शैलत्वमागता ||११||
तथैवास्य भयाद्बद्ध्वा वसिष्ठः सलिले पुरा |
आत्मानं मज्जयामास विपाशः पुनरुत्थितः ||१२||
तदाप्रभृति पुण्या हि विपाशाभून्महानदी |
विख्याता कर्मणा तेन वसिष्ठस्य महात्मनः ||१३||
वाग्भिश्च भगवान्येन देवसेनाग्रगः प्रभुः |
स्तुतः प्रीतमनाश्चासीच्छापाच्चैनममोचयत् ||१४||
ध्रुवस्यौत्तानपादस्य ब्रह्मर्षीणां तथैव च |
मध्ये ज्वलति यो नित्यमुदीचीमाश्रितो दिशम् ||१५||
तस्यैतानि च कर्माणि तथान्यानि च कौरव |
क्षत्रियस्येत्यतो जातमिदं कौतूहलं मम ||१६||
किमेतदिति तत्त्वेन प्रब्रूहि भरतर्षभ |
देहान्तरमनासाद्य कथं स ब्राह्मणोऽभवत् ||१७||
एतत्तत्त्वेन मे राजन्सर्वमाख्यातुमर्हसि |
मतङ्गस्य यथातत्त्वं तथैवैतद्ब्रवीहि मे ||१८||
स्थाने मतङ्गो ब्राह्मण्यं नालभद्भरतर्षभ |
चण्डालयोनौ जातो हि कथं ब्राह्मण्यमाप्नुयात् ||१९||
४
भीष्म उवाच||
श्रूयतां पार्थ तत्त्वेन विश्वामित्रो यथा पुरा |
ब्राह्मणत्वं गतस्तात ब्रह्मर्षित्वं तथैव च ||१||
भरतस्यान्वये चैवाजमीढो नाम पार्थिवः |
बभूव भरतश्रेष्ठ यज्वा धर्मभृतां वरः ||२||
तस्य पुत्रो महानासीज्जह्नुर्नाम नरेश्वरः |
दुहितृत्वमनुप्राप्ता गङ्गा यस्य महात्मनः ||३||
तस्यात्मजस्तुल्यगुणः सिन्धुद्वीपो महायशाः |
सिन्धुद्वीपाच्च राजर्षिर्बलाकाश्वो महाबलः ||४||
वल्लभस्तस्य तनयः साक्षाद्धर्म इवापरः |
कुशिकस्तस्य तनयः सहस्राक्षसमद्युतिः ||५||
कुशिकस्यात्मजः श्रीमान्गाधिर्नाम जनेश्वरः |
अपुत्रः स महाबाहुर्वनवासमुदावसत् ||६||
कन्या जज्ञे सुता तस्य वने निवसतः सतः |
नाम्ना सत्यवती नाम रूपेणाप्रतिमा भुवि ||७||
तां वव्रे भार्गवः श्रीमांश्च्यवनस्यात्मजः प्रभुः |
ऋचीक इति विख्यातो विपुले तपसि स्थितः ||८||
स तां न प्रददौ तस्मै ऋचीकाय महात्मने |
दरिद्र इति मत्वा वै गाधिः शत्रुनिबर्हणः ||९||
प्रत्याख्याय पुनर्यान्तमब्रवीद्राजसत्तमः |
शुल्कं प्रदीयतां मह्यं ततो वेत्स्यसि मे सुताम् ||१०||
ऋचीक उवाच||
किं प्रयच्छामि राजेन्द्र तुभ्यं शुल्कमहं नृप |
दुहितुर्ब्रूह्यसंसक्तो मात्राभूत्ते विचारणा ||११||
गाधिरुवाच||
चन्द्ररश्मिप्रकाशानां हयानां वातरंहसाम् |
एकतः श्यामकर्णानां सहस्रं देहि भार्गव ||१२||
भीष्म उवाच||
ततः स भृगुशार्दूलश्च्यवनस्यात्मजः प्रभुः |
अब्रवीद्वरुणं देवमादित्यं पतिमम्भसाम् ||१३||
एकतः श्यामकर्णानां हयानां चन्द्रवर्चसाम् |
सहस्रं वातवेगानां भिक्षे त्वां देवसत्तम ||१४||
तथेति वरुणो देव आदित्यो भृगुसत्तमम् |
उवाच यत्र ते छन्दस्तत्रोत्थास्यन्ति वाजिनः ||१५||
ध्यातमात्रे ऋचीकेन हयानां चन्द्रवर्चसाम् |
गङ्गाजलात्समुत्तस्थौ सहस्रं विपुलौजसाम् ||१६||
अदूरे कन्यकुब्जस्य गङ्गायास्तीरमुत्तमम् |
अश्वतीर्थं तदद्यापि मानवाः परिचक्षते ||१७||
तत्तदा गाधये तात सहस्रं वाजिनां शुभम् |
ऋचीकः प्रददौ प्रीतः शुल्कार्थं जपतां वरः ||१८||
ततः स विस्मितो राजा गाधिः शापभयेन च |
ददौ तां समलङ्कृत्य कन्यां भृगुसुताय वै ||१९||
जग्राह पाणिं विधिना तस्य ब्रह्मर्षिसत्तमः |
सा च तं पतिमासाद्य परं हर्षमवाप ह ||२०||
स तुतोष च विप्रर्षिस्तस्या वृत्तेन भारत |
छन्दयामास चैवैनां वरेण वरवर्णिनीम् ||२१||
मात्रे तत्सर्वमाचख्यौ सा कन्या राजसत्तमम् |
अथ तामब्रवीन्माता सुतां किञ्चिदवाङ्मुखीम् ||२२||
ममापि पुत्रि भर्ता ते प्रसादं कर्तुमर्हति |
अपत्यस्य प्रदानेन समर्थः स महातपाः ||२३||
ततः सा त्वरितं गत्वा तत्सर्वं प्रत्यवेदयत् |
मातुश्चिकीर्षितं राजन्नृचीकस्तामथाब्रवीत् ||२४||
गुणवन्तमपत्यं वै त्वं च सा जनयिष्यथः |
जनन्यास्तव कल्याणि मा भूद्वै प्रणयोऽन्यथा ||२५||
तव चैव गुणश्लाघी पुत्र उत्पत्स्यते शुभे |
अस्मद्वंशकरः श्रीमांस्तव भ्राता च वंशकृत् ||२६||
ऋतुस्नाता च साश्वत्थं त्वं च वृक्षमुदुम्बरम् |
परिष्वजेथाः कल्याणि तत इष्टमवाप्स्यथः ||२७||
चरुद्वयमिदं चैव मन्त्रपूतं शुचिस्मिते |
त्वं च सा चोपयुञ्जीथां ततः पुत्राववाप्स्यथः ||२८||
ततः सत्यवती हृष्टा मातरं प्रत्यभाषत |
यदृचीकेन कथितं तच्चाचख्यौ चरुद्वयम् ||२९||
तामुवाच ततो माता सुतां सत्यवतीं तदा |
पुत्रि मूर्ध्ना प्रपन्नायाः कुरुष्व वचनं मम ||३०||
भर्त्रा य एष दत्तस्ते चरुर्मन्त्रपुरस्कृतः |
एतं प्रयच्छ मह्यं त्वं मदीयं त्वं गृहाण च ||३१||
व्यत्यासं वृक्षयोश्चापि करवाव शुचिस्मिते |
यदि प्रमाणं वचनं मम मातुरनिन्दिते ||३२||
व्यक्तं भगवता चात्र कृतमेवं भविष्यति |
ततो मे त्वच्चरौ भावः पादपे च सुमध्यमे ||३३||
कथं विशिष्टो भ्राता ते भवेदित्येव चिन्तय ||३३||
तथा च कृतवत्यौ ते माता सत्यवती च सा |
अथ गर्भावनुप्राप्ते उभे ते वै युधिष्ठिर ||३४||
दृष्ट्वा गर्भमनुप्राप्तां भार्यां स च महानृषिः |
उवाच तां सत्यवतीं दुर्मना भृगुसत्तमः ||३५||
व्यत्यासेनोपयुक्तस्ते चरुर्व्यक्तं भविष्यति |
व्यत्यासः पादपे चापि सुव्यक्तं ते कृतः शुभे ||३६||
मया हि विश्वं यद्ब्रह्म त्वच्चरौ संनिवेशितम् |
क्षत्रवीर्यं च सकलं चरौ तस्या निवेशितम् ||३७||
त्रिलोकविख्यातगुणं त्वं विप्रं जनयिष्यसि |
सा च क्षत्रं विशिष्टं वै तत एतत्कृतं मया ||३८||
व्यत्यासस्तु कृतो यस्मात्त्वया मात्रा तथैव च |
तस्मात्सा ब्राह्मणश्रेष्ठं माता ते जनयिष्यति ||३९||
क्षत्रियं तूग्रकर्माणं त्वं भद्रे जनयिष्यसि |
न हि ते तत्कृतं साधु मातृस्नेहेन भामिनि ||४०||
सा श्रुत्वा शोकसन्तप्ता पपात वरवर्णिनी |
भूमौ सत्यवती राजंश्छिन्नेव रुचिरा लता ||४१||
प्रतिलभ्य च सा सञ्ज्ञां शिरसा प्रणिपत्य च |
उवाच भार्या भर्तारं गाधेयी ब्राह्मणर्षभम् ||४२||
प्रसादयन्त्यां भार्यायां मयि ब्रह्मविदां वर |
प्रसादं कुरु विप्रर्षे न मे स्यात्क्षत्रियः सुतः ||४३||
कामं ममोग्रकर्मा वै पौत्रो भवितुमर्हति |
न तु मे स्यात्सुतो ब्रह्मन्नेष मे दीयतां वरः ||४४||
एवमस्त्विति होवाच स्वां भार्यां सुमहातपाः |
ततः सा जनयामास जमदग्निं सुतं शुभम् ||४५||
विश्वामित्रं चाजनयद्गाधेर्भार्या यशस्विनी |
ऋषेः प्रभावाद्राजेन्द्र ब्रह्मर्षिं ब्रह्मवादिनम् ||४६||
ततो ब्राह्मणतां यातो विश्वामित्रो महातपाः |
क्षत्रियः सोऽप्यथ तथा ब्रह्मवंशस्य कारकः ||४७||
तस्य पुत्रा महात्मानो ब्रह्मवंशविवर्धनाः |
तपस्विनो ब्रह्मविदो गोत्रकर्तार एव च ||४८||
मधुच्छन्दश्च भगवान्देवरातश्च वीर्यवान् |
अक्षीणश्च शकुन्तश्च बभ्रुः कालपथस्तथा ||४९||
याज्ञवल्क्यश्च विख्यातस्तथा स्थूणो महाव्रतः |
उलूको यमदूतश्च तथर्षिः सैन्धवायनः ||५०||
कर्णजङ्घश्च भगवान्गालवश्च महानृषिः |
ऋषिर्वज्रस्तथाख्यातः शालङ्कायन एव च ||५१||
लालाट्यो नारदश्चैव तथा कूर्चमुखः स्मृतः |
वादुलिर्मुसलश्चैव रक्षोग्रीवस्तथैव च ||५२||
अङ्घ्रिको नैकभृच्चैव शिलायूपः सितः शुचिः |
चक्रको मारुतन्तव्यो वातघ्नोऽथाश्वलायनः ||५३||
श्यामायनोऽथ गार्ग्यश्च जाबालिः सुश्रुतस्तथा |
कारीषिरथ संश्रुत्यः परपौरवतन्तवः ||५४||
महानृषिश्च कपिलस्तथर्षिस्तारकायनः |
तथैव चोपगहनस्तथर्षिश्चार्जुनायनः ||५५||
मार्गमित्रिर्हिरण्याक्षो जङ्घारिर्बभ्रुवाहनः |
सूतिर्विभूतिः सूतश्च सुरङ्गश्च तथैव हि ||५६||
आराद्धिर्नामयश्चैव चाम्पेयोज्जयनौ तथा |
नवतन्तुर्बकनखः शयोनरतिरेव च ||५७||
शयोरुहश्चारुमत्स्यः शिरीषी चाथ गार्दभिः |
उज्जयोनिरदापेक्षी नारदी च महानृषिः ||५८||
विश्वामित्रात्मजाः सर्वे मुनयो ब्रह्मवादिनः ||५८||
तन्नैष क्षत्रियो राजन्विश्वामित्रो महातपाः |
ऋचीकेनाहितं ब्रह्म परमेतद्युधिष्ठिर ||५९||
एतत्ते सर्वमाख्यातं तत्त्वेन भरतर्षभ |
विश्वामित्रस्य वै जन्म सोमसूर्याग्नितेजसः ||६०||
यत्र यत्र च संदेहो भूयस्ते राजसत्तम |
तत्र तत्र च मां ब्रूहि च्छेत्तास्मि तव संशयान् ||६१||
शुक्रवासवसंवादः
५
युधिष्ठिर उवाच||
आनृशंसस्य धर्मस्य गुणान्भक्तजनस्य च |
श्रोतुमिच्छामि कार्त्स्न्येन तन्मे ब्रूहि पितामह ||१||
भीष्म उवाच||
विषये काशिराजस्य ग्रामान्निष्क्रम्य लुब्धकः |
सविषं काण्डमादाय मृगयामास वै मृगम् ||२||
तत्र चामिषलुब्धेन लुब्धकेन महावने |
अविदूरे मृगं दृष्ट्वा बाणः प्रतिसमाहितः ||३||
तेन दुर्वारितास्त्रेण निमित्तचपलेषुणा |
महान्वनतरुर्विद्धो मृगं तत्र जिघांसता ||४||
स तीक्ष्णविषदिग्धेन शरेणातिबलात्कृतः |
उत्सृज्य फलपत्राणि पादपः शोषमागतः ||५||
तस्मिन्वृक्षे तथाभूते कोटरेषु चिरोषितः |
न जहाति शुको वासं तस्य भक्त्या वनस्पतेः ||६||
निष्प्रचारो निराहारो ग्लानः शिथिलवागपि |
कृतज्ञः सह वृक्षेण धर्मात्मा स व्यशुष्यत ||७||
तमुदारं महासत्त्वमतिमानुषचेष्टितम् |
समदुःखसुखं ज्ञात्वा विस्मितः पाकशासनः ||८||
ततश्चिन्तामुपगतः शक्रः कथमयं द्विजः |
तिर्यग्योनावसम्भाव्यमानृशंस्यं समास्थितः ||९||
अथ वा नात्र चित्रं हीत्यभवद्वासवस्य तु |
प्राणिनामिह सर्वेषां सर्वं सर्वत्र दृश्यते ||१०||
ततो ब्राह्मणवेषेण मानुषं रूपमास्थितः |
अवतीर्य महीं शक्रस्तं पक्षिणमुवाच ह ||११||
शुक भोः पक्षिणां श्रेष्ठ दाक्षेयी सुप्रजास्त्वया |
पृच्छे त्वा शुष्कमेतं वै कस्मान्न त्यजसि द्रुमम् ||१२||
अथ पृष्टः शुकः प्राह मूर्ध्ना समभिवाद्य तम् |
स्वागतं देवराजाय विज्ञातस्तपसा मया ||१३||
ततो दशशताक्षेण साधु साध्विति भाषितम् |
अहो विज्ञानमित्येवं तपसा पूजितस्ततः ||१४||
तमेवं शुभकर्माणं शुकं परमधार्मिकम् |
विजानन्नपि तां प्राप्तिं पप्रच्छ बलसूदनः ||१५||
निष्पत्रमफलं शुष्कमशरण्यं पतत्रिणाम् |
किमर्थं सेवसे वृक्षं यदा महदिदं वनम् ||१६||
अन्येऽपि बहवो वृक्षाः पत्रसञ्छन्नकोटराः |
शुभाः पर्याप्तसञ्चारा विद्यन्तेऽस्मिन्महावने ||१७||
गतायुषमसामर्थ्यं क्षीणसारं हतश्रियम् |
विमृश्य प्रज्ञया धीर जहीमं ह्यस्थिरं द्रुमम् ||१८||
तदुपश्रुत्य धर्मात्मा शुकः शक्रेण भाषितम् |
सुदीर्घमभिनिःश्वस्य दीनो वाक्यमुवाच ह ||१९||
अनतिक्रमणीयानि दैवतानि शचीपते |
यत्राभवस्तत्र भवस्तन्निबोध सुराधिप ||२०||
अस्मिन्नहं द्रुमे जातः साधुभिश्च गुणैर्युतः |
बालभावे च सङ्गुप्तः शत्रुभिश्च न धर्षितः ||२१||
किमनुक्रोशवैफल्यमुत्पादयसि मेऽनघ |
आनृशंस्येऽनुरक्तस्य भक्तस्यानुगतस्य च ||२२||
अनुक्रोशो हि साधूनां सुमहद्धर्मलक्षणम् |
अनुक्रोशश्च साधूनां सदा प्रीतिं प्रयच्छति ||२३||
त्वमेव दैवतैः सर्वैः पृच्छ्यसे धर्मसंशयान् |
अतस्त्वं देव देवानामाधिपत्ये प्रतिष्ठितः ||२४||
नार्हसि त्वं सहस्राक्ष त्याजयित्वेह भक्तितः |
समर्थमुपजीव्येमं त्यजेयं कथमद्य वै ||२५||
तस्य वाक्येन सौम्येन हर्षितः पाकशासनः |
शुकं प्रोवाच धर्मज्ञमानृशंस्येन तोषितः ||२६||
वरं वृणीष्वेति तदा स च वव्रे वरं शुकः |
आनृशंस्यपरो नित्यं तस्य वृक्षस्य सम्भवम् ||२७||
विदित्वा च दृढां शक्रस्तां शुके शीलसम्पदम् |
प्रीतः क्षिप्रमथो वृक्षममृतेनावसिक्तवान् ||२८||
ततः फलानि पत्राणि शाखाश्चापि मनोरमाः |
शुकस्य दृढभक्तित्वाच्छ्रीमत्त्वं चाप स द्रुमः ||२९||
शुकश्च कर्मणा तेन आनृशंस्यकृतेन ह |
आयुषोऽन्ते महाराज प्राप शक्रसलोकताम् ||३०||
एवमेव मनुष्येन्द्र भक्तिमन्तं समाश्रितः |
सर्वार्थसिद्धिं लभते शुकं प्राप्य यथा द्रुमः ||३१||
दैवपुरुषकारबलाबलम्
६
युधिष्ठिर उवाच||
पितामह महाप्राज्ञ सर्वशास्त्रविशारद |
दैवे पुरुषकारे च किं स्विच्छ्रेष्ठतरं भवेत् ||१||
भीष्म उवाच||
अत्राप्युदाहरन्तीममितिहासं पुरातनम् |
वसिष्ठस्य च संवादं ब्रह्मणश्च युधिष्ठिर ||२||
दैवमानुषयोः किं स्वित्कर्मणोः श्रेष्ठमित्युत |
पुरा वसिष्ठो भगवान्पितामहमपृच्छत ||३||
ततः पद्मोद्भवो राजन्देवदेवः पितामहः |
उवाच मधुरं वाक्यमर्थवद्धेतुभूषितम् ||४||
नाबीजं जायते किञ्चिन्न बीजेन विना फलम् |
बीजाद्बीजं प्रभवति बीजादेव फलं स्मृतम् ||५||
यादृशं वपते बीजं क्षेत्रमासाद्य कर्षकः |
सुकृते दुष्कृते वापि तादृशं लभते फलम् ||६||
यथा बीजं विना क्षेत्रमुप्तं भवति निष्फलम् |
तथा पुरुषकारेण विना दैवं न सिध्यति ||७||
क्षेत्रं पुरुषकारस्तु दैवं बीजमुदाहृतम् |
क्षेत्रबीजसमायोगात्ततः सस्यं समृध्यते ||८||
कर्मणः फलनिर्वृत्तिं स्वयमश्नाति कारकः |
प्रत्यक्षं दृश्यते लोके कृतस्याप्यकृतस्य च ||९||
शुभेन कर्मणा सौख्यं दुःखं पापेन कर्मणा |
कृतं सर्वत्र लभते नाकृतं भुज्यते क्वचित् ||१०||
कृती सर्वत्र लभते प्रतिष्ठां भाग्यविक्षतः |
अकृती लभते भ्रष्टः क्षते क्षारावसेचनम् ||११||
तपसा रूपसौभाग्यं रत्नानि विविधानि च |
प्राप्यते कर्मणा सर्वं न दैवादकृतात्मना ||१२||
तथा स्वर्गश्च भोगश्च निष्ठा या च मनीषिता |
सर्वं पुरुषकारेण कृतेनेहोपपद्यते ||१३||
ज्योतींषि त्रिदशा नागा यक्षाश्चन्द्रार्कमारुताः |
सर्वे पुरुषकारेण मानुष्याद्देवतां गताः ||१४||
अर्थो वा मित्रवर्गो वा ऐश्वर्यं वा कुलान्वितम् |
श्रीश्चापि दुर्लभा भोक्तुं तथैवाकृतकर्मभिः ||१५||
शौचेन लभते विप्रः क्षत्रियो विक्रमेण च |
वैश्यः पुरुषकारेण शूद्रः शुश्रूषया श्रियम् ||१६||
नादातारं भजन्त्यर्था न क्लीबं नापि निष्क्रियम् |
नाकर्मशीलं नाशूरं तथा नैवातपस्विनम् ||१७||
येन लोकास्त्रयः सृष्टा दैत्याः सर्वाश्च देवताः |
स एष भगवान्विष्णुः समुद्रे तप्यते तपः ||१८||
स्वं चेत्कर्मफलं न स्यात्सर्वमेवाफलं भवेत् |
लोको दैवं समालम्ब्य उदासीनो भवेन्न तु ||१९||
अकृत्वा मानुषं कर्म यो दैवमनुवर्तते |
वृथा श्राम्यति सम्प्राप्य पतिं क्लीबमिवाङ्गना ||२०||
न तथा मानुषे लोके भयमस्ति शुभाशुभे |
यथा त्रिदशलोके हि भयमल्पेन जायते ||२१||
कृतः पुरुषकारस्तु दैवमेवानुवर्तते |
न दैवमकृते किञ्चित्कस्यचिद्दातुमर्हति ||२२||
यदा स्थानान्यनित्यानि दृश्यन्ते दैवतेष्वपि |
कथं कर्म विना दैवं स्थास्यते स्थापयिष्यति ||२३||
न दैवतानि लोकेऽस्मिन्व्यापारं यान्ति कस्यचित् |
व्यासङ्गं जनयन्त्युग्रमात्माभिभवशङ्कया ||२४||
ऋषीणां देवतानां च सदा भवति विग्रहः |
कस्य वाचा ह्यदैवं स्याद्यतो दैवं प्रवर्तते ||२५||
कथं चास्य समुत्पत्तिर्यथा दैवं प्रवर्तते |
एवं त्रिदशलोकेऽपि प्राप्यन्ते बहवश्छलाः ||२६||
आत्मैव ह्यात्मनो बन्धुरात्मैव रिपुरात्मनः |
आत्मैव चात्मनः साक्षी कृतस्याप्यकृतस्य च ||२७||
कृतं च विकृतं किञ्चित्कृते कर्मणि सिध्यति |
सुकृते दुष्कृतं कर्म न यथार्थं प्रपद्यते ||२८||
देवानां शरणं पुण्यं सर्वं पुण्यैरवाप्यते |
पुण्यशीलं नरं प्राप्य किं दैवं प्रकरिष्यति ||२९||
पुरा ययातिर्विभ्रष्टश्च्यावितः पतितः क्षितौ |
पुनरारोपितः स्वर्गं दौहित्रैः पुण्यकर्मभिः ||३०||
पुरूरवाश्च राजर्षिर्द्विजैरभिहितः पुरा |
ऐल इत्यभिविख्यातः स्वर्गं प्राप्तो महीपतिः ||३१||
अश्वमेधादिभिर्यज्ञैः सत्कृतः कोसलाधिपः |
महर्षिशापात्सौदासः पुरुषादत्वमागतः ||३२||
अश्वत्थामा च रामश्च मुनिपुत्रौ धनुर्धरौ |
न गच्छतः स्वर्गलोकं सुकृतेनेह कर्मणा ||३३||
वसुर्यज्ञशतैरिष्ट्वा द्वितीय इव वासवः |
मिथ्याभिधानेनैकेन रसातलतलं गतः ||३४||
बलिर्वैरोचनिर्बद्धो धर्मपाशेन दैवतैः |
विष्णोः पुरुषकारेण पातालशयनः कृतः ||३५||
शक्रस्योदस्य चरणं प्रस्थितो जनमेजयः |
द्विजस्त्रीणां वधं कृत्वा किं दैवेन न वारितः ||३६||
अज्ञानाद्ब्राह्मणं हत्वा स्पृष्टो बालवधेन च |
वैशम्पायनविप्रर्षिः किं दैवेन निवारितः ||३७||
गोप्रदानेन मिथ्या च ब्राह्मणेभ्यो महामखे |
पुरा नृगश्च राजर्षिः कृकलासत्वमागतः ||३८||
धुन्धुमारश्च राजर्षिः सत्रेष्वेव जरां गतः |
प्रीतिदायं परित्यज्य सुष्वाप स गिरिव्रजे ||३९||
पाण्डवानां हृतं राज्यं धार्तराष्ट्रैर्महाबलैः |
पुनः प्रत्याहृतं चैव न दैवाद्भुजसंश्रयात् ||४०||
तपोनियमसंयुक्ता मुनयः संशितव्रताः |
किं ते दैवबलाच्छापमुत्सृजन्ते न कर्मणा ||४१||
पापमुत्सृजते लोके सर्वं प्राप्य सुदुर्लभम् |
लोभमोहसमापन्नं न दैवं त्रायते नरम् ||४२||
यथाग्निः पवनोद्धूतः सूक्ष्मोऽपि भवते महान् |
तथा कर्मसमायुक्तं दैवं साधु विवर्धते ||४३||
यथा तैलक्षयाद्दीपः प्रम्लानिमुपगच्छति |
तथा कर्मक्षयाद्दैवं प्रम्लानिमुपगच्छति ||४४||
विपुलमपि धनौघं प्राप्य भोगान्स्त्रियो वा; पुरुष इह न शक्तः कर्महीनोऽपि भोक्तुम् |
सुनिहितमपि चार्थं दैवतै रक्ष्यमाणं; व्ययगुणमपि साधुं कर्मणा संश्रयन्ते ||४५||
भवति मनुजलोकाद्देवलोको विशिष्टो; बहुतरसुसमृद्ध्या मानुषाणां गृहाणि |
पितृवनभवनाभं दृश्यते चामराणां; न च फलति विकर्मा जीवलोकेन दैवम् ||४६||
व्यपनयति विमार्गं नास्ति दैवे प्रभुत्वं; गुरुमिव कृतमग्र्यं कर्म संयाति दैवम् |
अनुपहतमदीनं कामकारेण दैवं; नयति पुरुषकारः सञ्चितस्तत्र तत्र ||४७||
एतत्ते सर्वमाख्यातं मया वै मुनिसत्तम |
फलं पुरुषकारस्य सदा संदृश्य तत्त्वतः ||४८||
अभ्युत्थानेन दैवस्य समारब्धेन कर्मणा |
विधिना कर्मणा चैव स्वर्गमार्गमवाप्नुयात् ||४९||
कर्मफलवर्णनम्
७
युधिष्ठिर उवाच||
कर्मणां मे समस्तानां शुभानां भरतर्षभ |
फलानि महतां श्रेष्ठ प्रब्रूहि परिपृच्छतः ||१||
भीष्म उवाच||
रहस्यं यदृषीणां तु तच्छृणुष्व युधिष्ठिर |
या गतिः प्राप्यते येन प्रेत्यभावे चिरेप्सिता ||२||
येन येन शरीरेण यद्यत्कर्म करोति यः |
तेन तेन शरीरेण तत्तत्फलमुपाश्नुते ||३||
यस्यां यस्यामवस्थायां यत्करोति शुभाशुभम् |
तस्यां तस्यामवस्थायां भुङ्क्ते जन्मनि जन्मनि ||४||
न नश्यति कृतं कर्म सदा पञ्चेन्द्रियैरिह |
ते ह्यस्य साक्षिणो नित्यं षष्ठ आत्मा तथैव च ||५||
चक्षुर्दद्यान्मनो दद्याद्वाचं दद्याच्च सूनृताम् |
अनुव्रजेदुपासीत स यज्ञः पञ्चदक्षिणः ||६||
यो दद्यादपरिक्लिष्टमन्नमध्वनि वर्तते |
श्रान्तायादृष्टपूर्वाय तस्य पुण्यफलं महत् ||७||
स्थण्डिले शयमानानां गृहाणि शयनानि च |
चीरवल्कलसंवीते वासांस्याभरणानि च ||८||
वाहनासनयानानि योगात्मनि तपोधने |
अग्नीनुपशयानस्य राजपौरुषमुच्यते ||९||
रसानां प्रतिसंहारे सौभाग्यमनुगच्छति |
आमिषप्रतिसंहारे पशून्पुत्रांश्च विन्दति ||१०||
अवाक्षिरास्तु यो लम्बेदुदवासं च यो वसेत् |
सततं चैकशायी यः स लभेतेप्सितां गतिम् ||११||
पाद्यमासनमेवाथ दीपमन्नं प्रतिश्रयम् |
दद्यादतिथिपूजार्थं स यज्ञः पञ्चदक्षिणः ||१२||
वीरासनं वीरशय्यां वीरस्थानमुपासतः |
अक्षयास्तस्य वै लोकाः सर्वकामगमास्तथा ||१३||
धनं लभेत दानेन मौनेनाज्ञां विशां पते |
उपभोगांश्च तपसा ब्रह्मचर्येण जीवितम् ||१४||
रूपमैश्वर्यमारोग्यमहिंसाफलमश्नुते |
फलमूलाशिनां राज्यं स्वर्गः पर्णाशिनां तथा ||१५||
प्रायोपवेशनाद्राज्यं सर्वत्र सुखमुच्यते |
स्वर्गं सत्येन लभते दीक्षया कुलमुत्तमम् ||१६||
गवाढ्यः शाकदीक्षायां स्वर्गगामी तृणाशनः |
स्त्रियस्त्रिषवणं स्नात्वा वायुं पीत्वा क्रतुं लभेत् ||१७||
सलिलाशी भवेद्यश्च सदाग्निः संस्कृतो द्विजः |
मरुं साधयतो राज्यं नाकपृष्ठमनाशके ||१८||
उपवासं च दीक्षां च अभिषेकं च पार्थिव |
कृत्वा द्वादशवर्षाणि वीरस्थानाद्विशिष्यते ||१९||
अधीत्य सर्ववेदान्वै सद्यो दुःखात्प्रमुच्यते |
मानसं हि चरन्धर्मं स्वर्गलोकमवाप्नुयात् ||२०||
या दुस्त्यजा दुर्मतिभिर्या न जीर्यति जीर्यतः |
योऽसौ प्राणान्तिको रोगस्तां तृष्णां त्यजतः सुखम् ||२१||
यथा धेनुसहस्रेषु वत्सो विन्दति मातरम् |
एवं पूर्वकृतं कर्म कर्तारमनुगच्छति ||२२||
अचोद्यमानानि यथा पुष्पाणि च फलानि च |
स्वकालं नातिवर्तन्ते तथा कर्म पुराकृतम् ||२३||
जीर्यन्ति जीर्यतः केशा दन्ता जीर्यन्ति जीर्यतः |
चक्षुःश्रोत्रे च जीर्येते तृष्णैका तु न जीर्यते ||२४||
येन प्रीणाति पितरं तेन प्रीतः प्रजापतिः |
प्रीणाति मातरं येन पृथिवी तेन पूजिता ||२५||
येन प्रीणात्युपाध्यायं तेन स्याद्ब्रह्म पूजितम् ||२५||
सर्वे तस्यादृता धर्मा यस्यैते त्रय आदृताः |
अनादृतास्तु यस्यैते सर्वास्तस्याफलाः क्रियाः ||२६||
वैशम्पायन उवाच||
भीष्मस्य तद्वचः श्रुत्वा विस्मिताः कुरुपुङ्गवाः |
आसन्प्रहृष्टमनसः प्रीतिमन्तोऽभवंस्तदा ||२७||
यन्मन्त्रे भवति वृथा प्रयुज्यमाने; यत्सोमे भवति वृथाभिषूयमाणे |
यच्चाग्नौ भवति वृथाभिहूयमाने; तत्सर्वं भवति वृथाभिधीयमाने ||२८||
इत्येतदृषिणा प्रोक्तमुक्तवानस्मि यद्विभो |
शुभाशुभफलप्राप्तौ किमतः श्रोतुमिच्छसि ||२९||
पूज्यवर्णनम्
८
युधिष्ठिर उवाच||
के पूज्याः के नमस्कार्याः कान्नमस्यसि भारत |
एतन्मे सर्वमाचक्ष्व येषां स्पृहयसे नृप ||१||
उत्तमापद्गतस्यापि यत्र ते वर्तते मनः |
मनुष्यलोके सर्वस्मिन्यदमुत्रेह चाप्युत ||२||
भीष्म उवाच||
स्पृहयामि द्विजातीनां येषां ब्रह्म परं धनम् |
येषां स्वप्रत्ययः स्वर्गस्तपःस्वाध्यायसाधनः ||३||
येषां वृद्धाश्च बालाश्च पितृपैतामहीं धुरम् |
उद्वहन्ति न सीदन्ति तेषां वै स्पृहयाम्यहम् ||४||
विद्यास्वभिविनीतानां दान्तानां मृदुभाषिणाम् |
श्रुतवृत्तोपपन्नानां सदाक्षरविदां सताम् ||५||
संसत्सु वदतां येषां हंसानामिव सङ्घशः |
मङ्गल्यरूपा रुचिरा दिव्यजीमूतनिःस्वनाः ||६||
सम्यगुच्चारिता वाचः श्रूयन्ते हि युधिष्ठिर |
शुश्रूषमाणे नृपतौ प्रेत्य चेह सुखावहाः ||७||
ये चापि तेषां श्रोतारः सदा सदसि संमताः |
विज्ञानगुणसम्पन्नास्तेषां च स्पृहयाम्यहम् ||८||
सुसंस्कृतानि प्रयताः शुचीनि गुणवन्ति च |
ददत्यन्नानि तृप्त्यर्थं ब्राह्मणेभ्यो युधिष्ठिर ||९||
ये चापि सततं राजंस्तेषां च स्पृहयाम्यहम् ||९||
शक्यं ह्येवाहवे योद्धुं न दातुमनसूयितम् |
शूरा वीराश्च शतशः सन्ति लोके युधिष्ठिर ||१०||
तेषां सङ्ख्यायमानानां दानशूरो विशिष्यते ||१०||
धन्यः स्यां यद्यहं भूयः सौम्य ब्राह्मणकोऽपि वा |
कुले जातो धर्मगतिस्तपोविद्यापरायणः ||११||
न मे त्वत्तः प्रियतरो लोकेऽस्मिन्पाण्डुनन्दन |
त्वत्तश्च मे प्रियतरा ब्राह्मणा भरतर्षभ ||१२||
यथा मम प्रियतरास्त्वत्तो विप्राः कुरूद्वह |
तेन सत्येन गच्छेयं लोकान्यत्र स शन्तनुः ||१३||
न मे पिता प्रियतरो ब्राह्मणेभ्यस्तथाभवत् |
न मे पितुः पिता वापि ये चान्येऽपि सुहृज्जनाः ||१४||
न हि मे वृजिनं किञ्चिद्विद्यते ब्राह्मणेष्विह |
अणु वा यदि वा स्थूलं विदितं साधुकर्मभिः ||१५||
कर्मणा मनसा वापि वाचा वापि परन्तप |
यन्मे कृतं ब्राह्मणेषु तेनाद्य न तपाम्यहम् ||१६||
ब्रह्मण्य इति मामाहुस्तया वाचास्मि तोषितः |
एतदेव पवित्रेभ्यः सर्वेभ्यः परमं स्मृतम् ||१७||
पश्यामि लोकानमलाञ्छुचीन्ब्राह्मणयायिनः |
तेषु मे तात गन्तव्यमह्नाय च चिराय च ||१८||
यथा पत्याश्रयो धर्मः स्त्रीणां लोके युधिष्ठिर |
स देवः सा गतिर्नान्या क्षत्रियस्य तथा द्विजाः ||१९||
क्षत्रियः शतवर्षी च दशवर्षी च ब्राह्मणः |
पितापुत्रौ च विज्ञेयौ तयोर्हि ब्राह्मणः पिता ||२०||
नारी तु पत्यभावे वै देवरं कुरुते पतिम् |
पृथिवी ब्राह्मणालाभे क्षत्रियं कुरुते पतिम् ||२१||
पुत्रवच्च ततो रक्ष्या उपास्या गुरुवच्च ते |
अग्निवच्चोपचर्या वै ब्राह्मणाः कुरुसत्तम ||२२||
ऋजून्सतः सत्यशीलान्सर्वभूतहिते रतान् |
आशीविषानिव क्रुद्धान्द्विजानुपचरेत्सदा ||२३||
तेजसस्तपसश्चैव नित्यं बिभ्येद्युधिष्ठिर |
उभे चैते परित्याज्ये तेजश्चैव तपस्तथा ||२४||
व्यवसायस्तयोः शीघ्रमुभयोरेव विद्यते |
हन्युः क्रुद्धा महाराज ब्राह्मणा ये तपस्विनः ||२५||
भूयः स्यादुभयं दत्तं ब्राह्मणाद्यदकोपनात् |
कुर्यादुभयतःशेषं दत्तशेषं न शेषयेत् ||२६||
दण्डपाणिर्यथा गोषु पालो नित्यं स्थिरो भवेत् |
ब्राह्मणान्ब्रह्म च तथा क्षत्रियः परिपालयेत् ||२७||
पितेव पुत्रान्रक्षेथा ब्राह्मणान्ब्रह्मतेजसः |
गृहे चैषामवेक्षेथाः कच्चिदस्तीह जीवनम् ||२८||
सृगालवानरसंवादः
९
युधिष्ठिर उवाच||
ब्राह्मणानां तु ये लोके प्रतिश्रुत्य पितामह |
न प्रयच्छन्ति मोहात्ते के भवन्ति महामते ||१||
एतन्मे तत्त्वतो ब्रूहि धर्मं धर्मभृतां वर |
प्रतिश्रुत्य दुरात्मानो न प्रयच्छन्ति ये नराः ||२||
भीष्म उवाच||
यो न दद्यात्प्रतिश्रुत्य स्वल्पं वा यदि वा बहु |
आशास्तस्य हताः सर्वाः क्लीबस्येव प्रजाफलम् ||३||
यां रात्रिं जायते पापो यां च रात्रिं विनश्यति |
एतस्मिन्नन्तरे यद्यत्सुकृतं तस्य भारत ||४||
यच्च तस्य हुतं किञ्चित्सर्वं तस्योपहन्यते ||४||
अत्रैतद्वचनं प्राहुर्धर्मशास्त्रविदो जनाः |
निशम्य भरतश्रेष्ठ बुद्ध्या परमयुक्तया ||५||
अपि चोदाहरन्तीमं धर्मशास्त्रविदो जनाः |
अश्वानां श्यामकर्णानां सहस्रेण स मुच्यते ||६||
अत्रैवोदाहरन्तीममितिहासं पुरातनम् |
सृगालस्य च संवादं वानरस्य च भारत ||७||
तौ सखायौ पुरा ह्यास्तां मानुषत्वे परन्तप |
अन्यां योनिं समापन्नौ सार्गालीं वानरीं तथा ||८||
ततः परासून्खादन्तं सृगालं वानरोऽब्रवीत् |
श्मशानमध्ये सम्प्रेक्ष्य पूर्वजातिमनुस्मरन् ||९||
किं त्वया पापकं कर्म कृतं पूर्वं सुदारुणम् |
यस्त्वं श्मशाने मृतकान्पूतिकानत्सि कुत्सितान् ||१०||
एवमुक्तः प्रत्युवाच सृगालो वानरं तदा |
ब्राह्मणस्य प्रतिश्रुत्य न मया तदुपाकृतम् ||११||
तत्कृते पापिकां योनिमापन्नोऽस्मि प्लवङ्गम |
तस्मादेवंविधं भक्ष्यं भक्षयामि बुभुक्षितः ||१२||
इत्येतद्ब्रुवतो राजन्ब्राह्मणस्य मया श्रुतम् |
कथां कथयतः पुण्यां धर्मज्ञस्य पुरातनीम् ||१३||
श्रुतं चापि मया भूयः कृष्णस्यापि विशां पते |
कथां कथयतः पूर्वं ब्राह्मणं प्रति पाण्डव ||१४||
एवमेव च मां नित्यं ब्राह्मणाः संदिशन्ति वै |
प्रतिश्रुत्य भवेद्देयं नाशा कार्या हि ब्राह्मणैः ||१५||
ब्राह्मणो ह्याशया पूर्वं कृतया पृथिवीपते |
सुसमिद्धो यथा दीप्तः पावकस्तद्विधः स्मृतः ||१६||
यं निरीक्षेत सङ्क्रुद्ध आशया पूर्वजातया |
प्रदहेत हि तं राजन्कक्षमक्षय्यभुग्यथा ||१७||
स एव हि यदा तुष्टो वचसा प्रतिनन्दति |
भवत्यगदसङ्काशो विषये तस्य भारत ||१८||
पुत्रान्पौत्रान्पशूंश्चैव बान्धवान्सचिवांस्तथा |
पुरं जनपदं चैव शान्तिरिष्टेव पुष्यति ||१९||
एतद्धि परमं तेजो ब्राह्मणस्येह दृश्यते |
सहस्रकिरणस्येव सवितुर्धरणीतले ||२०||
तस्माद्दातव्यमेवेह प्रतिश्रुत्य युधिष्ठिर |
यदीच्छेच्छोभनां जातिं प्राप्तुं भरतसत्तम ||२१||
ब्राह्मणस्य हि दत्तेन ध्रुवं स्वर्गो ह्यनुत्तमः |
शक्यं प्राप्तुं विशेषेण दानं हि महती क्रिया ||२२||
इतो दत्तेन जीवन्ति देवताः पितरस्तथा |
तस्माद्दानानि देयानि ब्राह्मणेभ्यो विजानता ||२३||
महद्धि भरतश्रेष्ठ ब्राह्मणस्तीर्थमुच्यते |
वेलायां न तु कस्याञ्चिद्गच्छेद्विप्रो ह्यपूजितः ||२४||
नीचस्योपदेशनिषेधः
१०
युधिष्ठिर उवाच||
मित्रसौहृदभावेन उपदेशं करोति यः |
जात्यावरस्य राजर्षे दोषस्तस्य भवेन्न वा ||१||
एतदिच्छामि तत्त्वेन व्याख्यातुं वै पितामह |
सूक्ष्मा गतिर्हि धर्मस्य यत्र मुह्यन्ति मानवाः ||२||
भीष्म उवाच||
अत्र ते वर्तयिष्यामि शृणु राजन्यथागमम् |
ऋषीणां वदतां पूर्वं श्रुतमासीद्यथा मया ||३||
उपदेशो न कर्तव्यो जातिहीनस्य कस्यचित् |
उपदेशे महान्दोष उपाध्यायस्य भाष्यते ||४||
निदर्शनमिदं राजञ्शृणु मे भरतर्षभ |
दुरुक्तवचने राजन्यथा पूर्वं युधिष्ठिर ||५||
ब्रह्माश्रमपदे वृत्तं पार्श्वे हिमवतः शुभे ||५||
तत्राश्रमपदं पुण्यं नानावृक्षगणायुतम् |
बहुगुल्मलताकीर्णं मृगद्विजनिषेवितम् ||६||
सिद्धचारणसङ्घुष्टं रम्यं पुष्पितकाननम् |
व्रतिभिर्बहुभिः कीर्णं तापसैरुपशोभितम् ||७||
ब्राह्मणैश्च महाभागैः सूर्यज्वलनसंनिभैः |
नियमव्रतसम्पन्नैः समाकीर्णं तपस्विभिः ||८||
दीक्षितैर्भरतश्रेष्ठ यताहारैः कृतात्मभिः ||८||
वेदाध्ययनघोषैश्च नादितं भरतर्षभ |
वालखिल्यैश्च बहुभिर्यतिभिश्च निषेवितम् ||९||
तत्र कश्चित्समुत्साहं कृत्वा शूद्रो दयान्वितः |
आगतो ह्याश्रमपदं पूजितश्च तपस्विभिः ||१०||
तांस्तु दृष्ट्वा मुनिगणान्देवकल्पान्महौजसः |
वहतो विविधा दीक्षाः सम्प्रहृष्यत भारत ||११||
अथास्य बुद्धिरभवत्तपस्ये भरतर्षभ |
ततोऽब्रवीत्कुलपतिं पादौ सङ्गृह्य भारत ||१२||
भवत्प्रसादादिच्छामि धर्मं चर्तुं द्विजर्षभ |
तन्मां त्वं भगवन्वक्तुं प्रव्राजयितुमर्हसि ||१३||
वर्णावरोऽहं भगवञ्शूद्रो जात्यास्मि सत्तम |
शुश्रूषां कर्तुमिच्छामि प्रपन्नाय प्रसीद मे ||१४||
कुलपतिरुवाच||
न शक्यमिह शूद्रेण लिङ्गमाश्रित्य वर्तितुम् |
आस्यतां यदि ते बुद्धिः शुश्रूषानिरतो भव ||१५||
भीष्म उवाच||
एवमुक्तस्तु मुनिना स शूद्रोऽचिन्तयन्नृप |
कथमत्र मया कार्यं श्रद्धा धर्मे परा च मे ||१६||
विज्ञातमेवं भवतु करिष्ये प्रियमात्मनः ||१६||
गत्वाश्रमपदाद्दूरमुटजं कृतवांस्तु सः |
तत्र वेदिं च भूमिं च देवतायतनानि च ||१७||
निवेश्य भरतश्रेष्ठ नियमस्थोऽभवत्सुखम् ||१७||
अभिषेकांश्च नियमान्देवतायतनेषु च |
बलिं च कृत्वा हुत्वा च देवतां चाप्यपूजयत् ||१८||
सङ्कल्पनियमोपेतः फलाहारो जितेन्द्रियः |
नित्यं संनिहिताभिश्च ओषधीभिः फलैस्तथा ||१९||
अतिथीन्पूजयामास यथावत्समुपागतान् |
एवं हि सुमहान्कालो व्यत्यक्रामत्स तस्य वै ||२०||
अथास्य मुनिरागच्छत्सङ्गत्या वै तमाश्रमम् |
सम्पूज्य स्वागतेनर्षिं विधिवत्पर्यतोषयत् ||२१||
अनुकूलाः कथाः कृत्वा यथावत्पर्यपृच्छत |
ऋषिः परमतेजस्वी धर्मात्मा संयतेन्द्रियः ||२२||
एवं स बहुशस्तस्य शूद्रस्य भरतर्षभ |
सोऽगच्छदाश्रममृषिः शूद्रं द्रष्टुं नरर्षभ ||२३||
अथ तं तापसं शूद्रः सोऽब्रवीद्भरतर्षभ |
पितृकार्यं करिष्यामि तत्र मेऽनुग्रहं कुरु ||२४||
बाढमित्येव तं विप्र उवाच भरतर्षभ |
शुचिर्भूत्वा स शूद्रस्तु तस्यर्षेः पाद्यमानयत् ||२५||
अथ दर्भांश्च वन्याश्च ओषधीर्भरतर्षभ |
पवित्रमासनं चैव बृसीं च समुपानयत् ||२६||
अथ दक्षिणमावृत्य बृसीं परमशीर्षिकाम् |
कृतामन्यायतो दृष्ट्वा ततस्तमृषिरब्रवीत् ||२७||
कुरुष्वैतां पूर्वशीर्षां भव चोदङ्मुखः शुचिः |
स च तत्कृतवाञ्शूद्रः सर्वं यदृषिरब्रवीत् ||२८||
यथोपदिष्टं मेधावी दर्भादींस्तान्यथातथम् |
हव्यकव्यविधिं कृत्स्नमुक्तं तेन तपस्विना ||२९||
ऋषिणा पितृकार्ये च स च धर्मपथे स्थितः |
पितृकार्ये कृते चापि विसृष्टः स जगाम ह ||३०||
अथ दीर्घस्य कालस्य स तप्यञ्शूद्रतापसः |
वने पञ्चत्वमगमत्सुकृतेन च तेन वै ||३१||
अजायत महाराजराजवंशे महाद्युतिः ||३१||
तथैव स ऋषिस्तात कालधर्ममवाप्य ह |
पुरोहितकुले विप्र आजातो भरतर्षभ ||३२||
एवं तौ तत्र सम्भूतावुभौ शूद्रमुनी तदा |
क्रमेण वर्धितौ चापि विद्यासु कुशलावुभौ ||३३||
अथर्ववेदे वेदे च बभूवर्षिः सुनिश्चितः |
कल्पप्रयोगे चोत्पन्ने ज्योतिषे च परं गतः ||३४||
सख्ये चापि परा प्रीतिस्तयोश्चापि व्यवर्धत ||३४||
पितर्युपरते चापि कृतशौचः स भारत |
अभिषिक्तः प्रकृतिभी राजपुत्रः स पार्थिवः ||३५||
अभिषिक्तेन स ऋषिरभिषिक्तः पुरोहितः ||३५||
स तं पुरोधाय सुखमवसद्भरतर्षभ |
राज्यं शशास धर्मेण प्रजाश्च परिपालयन् ||३६||
पुण्याहवाचने नित्यं धर्मकार्येषु चासकृत् |
उत्स्मयन्प्राहसच्चापि दृष्ट्वा राजा पुरोहितम् ||३७||
एवं स बहुशो राजन्पुरोधसमुपाहसत् ||३७||
लक्षयित्वा पुरोधास्तु बहुशस्तं नराधिपम् |
उत्स्मयन्तं च सततं दृष्ट्वासौ मन्युमानभूत् ||३८||
अथ शून्ये पुरोधास्तु सह राज्ञा समागतः |
कथाभिरनुकूलाभी राजानमभिरामयत् ||३९||
ततोऽब्रवीन्नरेन्द्रं स पुरोधा भरतर्षभ |
वरमिच्छाम्यहं त्वेकं त्वया दत्तं महाद्युते ||४०||
राजोवाच||
वराणां ते शतं दद्यां किमुतैकं द्विजोत्तम |
स्नेहाच्च बहुमानाच्च नास्त्यदेयं हि मे तव ||४१||
पुरोहित उवाच||
एकं वै वरमिच्छामि यदि तुष्टोऽसि पार्थिव |
यद्ददासि महाराज सत्यं तद्वद मानृतम् ||४२||
भीष्म उवाच||
बाढमित्येव तं राजा प्रत्युवाच युधिष्ठिर |
यदि ज्ञास्यामि वक्ष्यामि अजानन्न तु संवदे ||४३||
पुरोहित उवाच||
पुण्याहवाचने नित्यं धर्मकृत्येषु चासकृत् |
शान्तिहोमेषु च सदा किं त्वं हससि वीक्ष्य माम् ||४४||
सव्रीडं वै भवति हि मनो मे हसता त्वया |
कामया शापितो राजन्नान्यथा वक्तुमर्हसि ||४५||
भाव्यं हि कारणेनात्र न ते हास्यमकारणम् |
कौतूहलं मे सुभृशं तत्त्वेन कथयस्व मे ||४६||
राजोवाच||
एवमुक्ते त्वया विप्र यदवाच्यं भवेदपि |
अवश्यमेव वक्तव्यं शृणुष्वैकमना द्विज ||४७||
पूर्वदेहे यथा वृत्तं तन्निबोध द्विजोत्तम |
जातिं स्मराम्यहं ब्रह्मन्नवधानेन मे शृणु ||४८||
शूद्रोऽहमभवं पूर्वं तापसो भृशसंयुतः |
ऋषिरुग्रतपास्त्वं च तदाभूर्द्विजसत्तम ||४९||
प्रीयता हि तदा ब्रह्मन्ममानुग्रहबुद्धिना |
पितृकार्ये त्वया पूर्वमुपदेशः कृतोऽनघ ||५०||
बृस्यां दर्भेषु हव्ये च कव्ये च मुनिसत्तम ||५०||
एतेन कर्मदोषेण पुरोधास्त्वमजायथाः |
अहं राजा च विप्रेन्द्र पश्य कालस्य पर्ययम् ||५१||
मत्कृते ह्युपदेशेन त्वया प्राप्तमिदं फलम् ||५१||
एतस्मात्कारणाद्ब्रह्मन्प्रहसे त्वां द्विजोत्तम |
न त्वां परिभवन्ब्रह्मन्प्रहसामि गुरुर्भवान् ||५२||
विपर्ययेण मे मन्युस्तेन सन्तप्यते मनः |
जातिं स्मराम्यहं तुभ्यमतस्त्वां प्रहसामि वै ||५३||
एवं तवोग्रं हि तप उपदेशेन नाशितम् |
पुरोहितत्वमुत्सृज्य यतस्व त्वं पुनर्भवे ||५४||
इतस्त्वमधमामन्यां मा योनिं प्राप्स्यसे द्विज |
गृह्यतां द्रविणं विप्र पूतात्मा भव सत्तम ||५५||
भीष्म उवाच||
ततो विसृष्टो राज्ञा तु विप्रो दानान्यनेकशः |
ब्राह्मणेभ्यो ददौ वित्तं भूमिं ग्रामांश्च सर्वशः ||५६||
कृच्छ्राणि चीर्त्वा च ततो यथोक्तानि द्विजोत्तमः |
तीर्थानि चाभिगत्वा वै दानानि विविधानि च ||५७||
दत्त्वा गाश्चैव विप्राणां पूतात्मा सोऽभवद्द्विजः |
तमेव चाश्रमं गत्वा चचार विपुलं तपः ||५८||
ततः सिद्धिं परां प्राप्तो ब्राह्मणो राजसत्तम |
संमतश्चाभवत्तेषामाश्रमेऽऽश्रमवासिनाम् ||५९||
एवं प्राप्तो महत्कृच्छ्रमृषिः स नृपसत्तम |
ब्राह्मणेन न वक्तव्यं तस्माद्वर्णावरे जने ||६०||
वर्जयेदुपदेशं च सदैव ब्राह्मणो नृप |
उपदेशं हि कुर्वाणो द्विजः कृच्छ्रमवाप्नुयात् ||६१||
एषितव्यं सदा वाचा नृपेण द्विजसत्तमात् |
न प्रवक्तव्यमिह हि किञ्चिद्वर्णावरे जने ||६२||
ब्राह्मणाः क्षत्रिया वैश्यास्त्रयो वर्णा द्विजातयः |
एतेषु कथयन्राजन्ब्राह्मणो न प्रदुष्यति ||६३||
तस्मात्सद्भिर्न वक्तव्यं कस्यचित्किञ्चिदग्रतः |
सूक्ष्मा गतिर्हि धर्मस्य दुर्ज्ञेया ह्यकृतात्मभिः ||६४||
तस्मान्मौनानि मुनयो दीक्षां कुर्वन्ति चादृताः |
दुरुक्तस्य भयाद्राजन्नानुभाषन्ति किञ्चन ||६५||
धार्मिका गुणसम्पन्नाः सत्यार्जवपरायणाः |
दुरुक्तवाचाभिहताः प्राप्नुवन्तीह दुष्कृतम् ||६६||
उपदेशो न कर्तव्यः कदाचिदपि कस्यचित् |
उपदेशाद्धि तत्पापं ब्राह्मणः समवाप्नुयात् ||६७||
विमृश्य तस्मात्प्राज्ञेन वक्तव्यं धर्ममिच्छता |
सत्यानृतेन हि कृत उपदेशो हिनस्ति वै ||६८||
वक्तव्यमिह पृष्टेन विनिश्चित्य विपर्ययम् |
स चोपदेशः कर्तव्यो येन धर्ममवाप्नुयात् ||६९||
एतत्ते सर्वमाख्यातमुपदेशे कृते सति |
महान्क्लेशो हि भवति तस्मान्नोपदिशेत्क्वचित् ||७०||
श्रियो निवासस्थानानि
११
युधिष्ठिर उवाच||
कीदृशे पुरुषे तात स्त्रीषु वा भरतर्षभ |
श्रीः पद्मा वसते नित्यं तन्मे ब्रूहि पितामह ||१||
भीष्म उवाच||
अत्र ते वर्तयिष्यामि यथादृष्टं यथाश्रुतम् |
रुक्मिणी देवकीपुत्रसंनिधौ पर्यपृच्छत ||२||
नारायणस्याङ्कगतां ज्वलन्तीं; दृष्ट्वा श्रियं पद्मसमानवक्त्राम् |
कौतूहलाद्विस्मितचारुनेत्रा; पप्रच्छ माता मकरध्वजस्य ||३||
कानीह भूतान्युपसेवसे त्वं; सन्तिष्ठती कानि न सेवसे त्वम् |
तानि त्रिलोकेश्वरभूतकान्ते; तत्त्वेन मे ब्रूहि महर्षिकन्ये ||४||
एवं तदा श्रीरभिभाष्यमाणा; देव्या समक्षं गरुडध्वजस्य |
उवाच वाक्यं मधुराभिधानं; मनोहरं चन्द्रमुखी प्रसन्ना ||५||
वसामि सत्ये सुभगे प्रगल्भे; दक्षे नरे कर्मणि वर्तमाने |
नाकर्मशीले पुरुषे वसामि; न नास्तिके साङ्करिके कृतघ्ने ||६||
न भिन्नवृत्ते न नृशंसवृत्ते; न चापि चौरे न गुरुष्वसूये ||६||
ये चाल्पतेजोबलसत्त्वसारा; हृष्यन्ति कुप्यन्ति च यत्र तत्र |
न देवि तिष्ठामि तथाविधेषु; नरेषु संसुप्तमनोरथेषु ||७||
यश्चात्मनि प्रार्थयते न किं चि; द्यश्च स्वभावोपहतान्तरात्मा |
तेष्वल्पसन्तोषरतेषु नित्यं; नरेषु नाहं निवसामि देवि ||८||
वसामि धर्मशीलेषु धर्मज्ञेषु महात्मसु |
वृद्धसेविषु दान्तेषु सत्त्वज्ञेषु महात्मसु ||९||
स्त्रीषु क्षान्तासु दान्तासु देवद्विजपरासु च |
वसामि सत्यशीलासु स्वभावनिरतासु च ||१०||
प्रकीर्णभाण्डामनवेक्ष्यकारिणीं; सदा च भर्तुः प्रतिकूलवादिनीम् |
परस्य वेश्माभिरतामलज्जा; मेवंविधां स्त्रीं परिवर्जयामि ||११||
लोलामचोक्षामवलेहिनीं च; व्यपेतधैर्यां कलहप्रियां च |
निद्राभिभूतां सततं शयाना; मेवंविधां स्त्रीं परिवर्जयामि ||१२||
सत्यासु नित्यं प्रियदर्शनासु; सौभाग्ययुक्तासु गुणान्वितासु |
वसामि नारीषु पतिव्रतासु; कल्याणशीलासु विभूषितासु ||१३||
यानेषु कन्यासु विभूषणेषु; यज्ञेषु मेघेषु च वृष्टिमत्सु |
वसामि फुल्लासु च पद्मिनीषु; नक्षत्रवीथीषु च शारदीषु ||१४||
शैलेषु गोष्ठेषु तथा वनेषु; सरःसु फुल्लोत्पलपङ्कजेषु |
नदीषु हंसस्वननादितासु; क्रौञ्चावघुष्टस्वरशोभितासु ||१५||
विस्तीर्णकूलह्रदशोभितासु; तपस्विसिद्धद्विजसेवितासु |
वसामि नित्यं सुबहूदकासु; सिंहैर्गजैश्चाकुलितोदकासु ||१६||
मत्ते गजे गोवृषभे नरेन्द्रे; सिंहासने सत्पुरुषे च नित्यम् ||१६||
यस्मिन्गृहे हूयते हव्यवाहो; गोब्राह्मणश्चार्च्यते देवताश्च |
काले च पुष्पैर्बलयः क्रियन्ते; तस्मिन्गृहे नित्यमुपैमि वासम् ||१७||
स्वाध्यायनित्येषु द्विजेषु नित्यं; क्षत्रे च धर्माभिरते सदैव |
वैश्ये च कृष्याभिरते वसामि; शूद्रे च शुश्रूषणनित्ययुक्ते ||१८||
नारायणे त्वेकमना वसामि; सर्वेण भावेन शरीरभूता |
तस्मिन्हि धर्मः सुमहान्निविष्टो; ब्रह्मण्यता चात्र तथा प्रियत्वम् ||१९||
नाहं शरीरेण वसामि देवि; नैवं मया शक्यमिहाभिधातुम् |
यस्मिंस्तु भावेन वसामि पुंसि; स वर्धते धर्मयशोर्थकामैः ||२०||
भङ्गाश्वनोपाख्यानम्
१२
युधिष्ठिर उवाच||
स्त्रीपुंसयोः सम्प्रयोगे स्पर्शः कस्याधिको भवेत् |
एतन्मे संशयं राजन्यथावद्वक्तुमर्हसि ||१||
भीष्म उवाच||
अत्राप्युदाहरन्तीममितिहासं पुरातनम् |
भङ्गाश्वनेन शक्रस्य यथा वैरमभूत्पुरा ||२||
पुरा भङ्गाश्वनो नाम राजर्षिरतिधार्मिकः |
अपुत्रः स नरव्याघ्र पुत्रार्थं यज्ञमाहरत् ||३||
अग्निष्टुं नाम राजर्षिरिन्द्रद्विष्टं महाबलः |
प्रायश्चित्तेषु मर्त्यानां पुत्रकामस्य चेष्यते ||४||
इन्द्रो ज्ञात्वा तु तं यज्ञं महाभागः सुरेश्वरः |
अन्तरं तस्य राजर्षेरन्विच्छन्नियतात्मनः ||५||
कस्यचित्त्वथ कालस्य मृगयामटतो नृप |
इदमन्तरमित्येव शक्रो नृपममोहयत् ||६||
एकाश्वेन च राजर्षिर्भ्रान्त इन्द्रेण मोहितः |
न दिशोऽविन्दत नृपः क्षुत्पिपासार्दितस्तदा ||७||
इतश्चेतश्च वै धावञ्श्रमतृष्णार्दितो नृपः |
सरोऽपश्यत्सुरुचिरं पूर्णं परमवारिणा ||८||
सोऽवगाह्य सरस्तात पाययामास वाजिनम् ||८||
अथ पीतोदकं सोऽश्वं वृक्षे बद्ध्वा नृपोत्तमः |
अवगाह्य ततः स्नातो राजा स्त्रीत्वमवाप ह ||९||
आत्मानं स्त्रीकृतं दृष्ट्वा व्रीडितो नृपसत्तमः |
चिन्तानुगतसर्वात्मा व्याकुलेन्द्रियचेतनः ||१०||
आरोहिष्ये कथं त्वश्वं कथं यास्यामि वै पुरम् |
अग्निष्टुं नाम इष्टं मे पुत्राणां शतमौरसम् ||११||
जातं महाबलानां वै तान्प्रवक्ष्यामि किं त्वहम् |
दारेषु चास्मदीयेषु पौरजानपदेषु च ||१२||
मृदुत्वं च तनुत्वं च विक्लवत्वं तथैव च |
स्त्रीगुणा ऋषिभिः प्रोक्ता धर्मतत्त्वार्थदर्शिभिः ||१३||
व्यायामः कर्कशत्वं च वीर्यं च पुरुषे गुणाः ||१३||
पौरुषं विप्रनष्टं मे स्त्रीत्वं केनापि मेऽभवत् |
स्त्रीभावात्कथमश्वं तु पुनरारोढुमुत्सहे ||१४||
महता त्वथ खेदेन आरुह्याश्वं नराधिपः |
पुनरायात्पुरं तात स्त्रीभूतो नृपसत्तम ||१५||
पुत्रा दाराश्च भृत्याश्च पौरजानपदाश्च ते |
किं न्विदं त्विति विज्ञाय विस्मयं परमं गताः ||१६||
अथोवाच स राजर्षिः स्त्रीभूतो वदतां वरः |
मृगयामस्मि निर्यातो बलैः परिवृतो दृढम् ||१७||
उद्भ्रान्तः प्राविशं घोरामटवीं दैवमोहितः ||१७||
अटव्यां च सुघोरायां तृष्णार्तो नष्टचेतनः |
सरः सुरुचिरप्रख्यमपश्यं पक्षिभिर्वृतम् ||१८||
तत्रावगाढः स्त्रीभूतो व्यक्तं दैवान्न संशयः |
अतृप्त इव पुत्राणां दाराणां च धनस्य च ||१९||
उवाच पुत्रांश्च ततः स्त्रीभूतः पार्थिवोत्तमः |
सम्प्रीत्या भुज्यतां राज्यं वनं यास्यामि पुत्रकाः ||२०||
अभिषिच्य स पुत्राणां शतं राजा वनं गतः ||२०||
तामाश्रमे स्त्रियं तात तापसोऽभ्यवपद्यत |
तापसेनास्य पुत्राणामाश्रमेऽप्यभवच्छतम् ||२१||
अथ सा तान्सुतान्गृह्य पूर्वपुत्रानभाषत |
पुरुषत्वे सुता यूयं स्त्रीत्वे चेमे शतं सुताः ||२२||
एकत्र भुज्यतां राज्यं भ्रातृभावेन पुत्रकाः |
सहिता भ्रातरस्तेऽथ राज्यं बुभुजिरे तदा ||२३||
तान्दृष्ट्वा भ्रातृभावेन भुञ्जानान्राज्यमुत्तमम् |
चिन्तयामास देवेन्द्रो मन्युनाभिपरिप्लुतः ||२४||
उपकारोऽस्य राजर्षेः कृतो नापकृतं मया ||२४||
ततो ब्राह्मणरूपेण देवराजः शतक्रतुः |
भेदयामास तान्गत्वा नगरं वै नृपात्मजान् ||२५||
भ्रातॄणां नास्ति सौभ्रात्रं येऽप्येकस्य पितुः सुताः |
राज्यहेतोर्विवदिताः कश्यपस्य सुरासुराः ||२६||
यूयं भङ्गाश्वनापत्यास्तापसस्येतरे सुताः |
कश्यपस्य सुराश्चैव असुराश्च सुतास्तथा ||२७||
युष्माकं पैतृकं राज्यं भुज्यते तापसात्मजैः ||२७||
इन्द्रेण भेदितास्ते तु युद्धेऽन्योन्यमपातयन् |
तच्छ्रुत्वा तापसी चापि सन्तप्ता प्ररुरोद ह ||२८||
ब्राह्मणच्छद्मनाभ्येत्य तामिन्द्रोऽथान्वपृच्छत |
केन दुःखेन सन्तप्ता रोदिषि त्वं वरानने ||२९||
ब्राह्मणं तु ततो दृष्ट्वा सा स्त्री करुणमब्रवीत् |
पुत्राणां द्वे शते ब्रह्मन्कालेन विनिपातिते ||३०||
अहं राजाभवं विप्र तत्र पुत्रशतं मया |
समुत्पन्नं सुरूपाणां विक्रान्तानां द्विजोत्तम ||३१||
कदाचिन्मृगयां यात उद्भ्रान्तो गहने वने |
अवगाढश्च सरसि स्त्रीभूतो ब्राह्मणोत्तम ||३२||
पुत्रान्राज्ये प्रतिष्ठाप्य वनमस्मि ततो गतः ||३२||
स्त्रियाश्च मे पुत्रशतं तापसेन महात्मना |
आश्रमे जनितं ब्रह्मन्नीतास्ते नगरं मया ||३३||
तेषां च वैरमुत्पन्नं कालयोगेन वै द्विज |
एतच्छोचामि विप्रेन्द्र दैवेनाभिपरिप्लुता ||३४||
इन्द्रस्तां दुःखितां दृष्ट्वा अब्रवीत्परुषं वचः |
पुरा सुदुःसहं भद्रे मम दुःखं त्वया कृतम् ||३५||
इन्द्रद्विष्टेन यजता मामनादृत्य दुर्मते |
इन्द्रोऽहमस्मि दुर्बुद्धे वैरं ते यातितं मया ||३६||
इन्द्रं तु दृष्ट्वा राजर्षिः पादयोः शिरसा गतः |
प्रसीद त्रिदशश्रेष्ठ पुत्रकामेन स क्रतुः ||३७||
इष्टस्त्रिदशशार्दूल तत्र मे क्षन्तुमर्हसि ||३७||
प्रणिपातेन तस्येन्द्रः परितुष्टो वरं ददौ |
पुत्रा वै कतमे राजञ्जीवन्तु तव शंस मे ||३८||
स्त्रीभूतस्य हि ये जाताः पुरुषस्याथ येऽभवन् ||३८||
तापसी तु ततः शक्रमुवाच प्रयताञ्जलिः |
स्त्रीभूतस्य हि ये जातास्ते मे जीवन्तु वासव ||३९||
इन्द्रस्तु विस्मितो हृष्टः स्त्रियं पप्रच्छ तां पुनः |
पुरुषोत्पादिता ये ते कथं द्वेष्याः सुतास्तव ||४०||
स्त्रीभूतस्य हि ये जाताः स्नेहस्तेभ्योऽधिकः कथम् |
कारणं श्रोतुमिच्छामि तन्मे वक्तुमिहार्हसि ||४१||
स्त्र्युवाच||
स्त्रियास्त्वभ्यधिकः स्नेहो न तथा पुरुषस्य वै |
तस्मात्ते शक्र जीवन्तु ये जाताः स्त्रीकृतस्य वै ||४२||
भीष्म उवाच||
एवमुक्ते ततस्त्विन्द्रः प्रीतो वाक्यमुवाच ह |
सर्व एवेह जीवन्तु पुत्रास्ते सत्यवादिनि ||४३||
वरं च वृणु राजेन्द्र यं त्वमिच्छसि सुव्रत |
पुरुषत्वमथ स्त्रीत्वं मत्तो यदभिकाङ्क्षसि ||४४||
स्त्र्युवाच||
स्त्रीत्वमेव वृणे शक्र प्रसन्ने त्वयि वासव |
एवमुक्तस्तु देवेन्द्रस्तां स्त्रियं प्रत्युवाच ह |
पुरुषत्वं कथं त्यक्त्वा स्त्रीत्वं रोचयसे विभो ||४६||
एवमुक्तः प्रत्युवाच स्त्रीभूतो राजसत्तमः |
स्त्रियाः पुरुषसंयोगे प्रीतिरभ्यधिका सदा ||४७||
एतस्मात्कारणाच्छक्र स्त्रीत्वमेव वृणोम्यहम् ||४७||
रमे चैवाधिकं स्त्रीत्वे सत्यं वै देवसत्तम |
स्त्रीभावेन हि तुष्टोऽस्मि गम्यतां त्रिदशाधिप ||४८||
एवमस्त्विति चोक्त्वा तामापृच्छ्य त्रिदिवं गतः |
एवं स्त्रिया महाराज अधिका प्रीतिरुच्यते ||४९||
शुभाशुभकर्मफलम्
१३
युधिष्ठिर उवाच||
किं कर्तव्यं मनुष्येण लोकयात्राहितार्थिना |
कथं वै लोकयात्रां तु किंशीलश्च समाचरेत् ||१||
भीष्म उवाच||
कायेन त्रिविधं कर्म वाचा चापि चतुर्विधम् |
मनसा त्रिविधं चैव दश कर्मपथांस्त्यजेत् ||२||
प्राणातिपातं स्तैन्यं च परदारमथापि च |
त्रीणि पापानि कायेन सर्वतः परिवर्जयेत् ||३||
असत्प्रलापं पारुष्यं पैशुन्यमनृतं तथा |
चत्वारि वाचा राजेन्द्र न जल्पेन्नानुचिन्तयेत् ||४||
अनभिध्या परस्वेषु सर्वसत्त्वेषु सौहृदम् |
कर्मणां फलमस्तीति त्रिविधं मनसा चरेत् ||५||
तस्माद्वाक्कायमनसा नाचरेदशुभं नरः |
शुभाशुभान्याचरन्हि तस्य तस्याश्नुते फलम् ||६||
उपमन्यूपाख्यानम्
शिवस्तवः
१४
युधिष्ठिर उवाच||
पितामहेशाय विभो नामान्याचक्ष्व शम्भवे |
बभ्रवे विश्वमायाय महाभाग्यं च तत्त्वतः ||१||
भीष्म उवाच||
सुरासुरगुरो देव विष्णो त्वं वक्तुमर्हसि |
शिवाय विश्वरूपाय यन्मां पृच्छद्युधिष्ठिरः ||२||
नाम्नां सहस्रं देवस्य तण्डिना ब्रह्मयोनिना |
निवेदितं ब्रह्मलोके ब्रह्मणो यत्पुराभवत् ||३||
द्वैपायनप्रभृतयस्तथैवेमे तपोधनाः |
ऋषयः सुव्रता दान्ताः शृण्वन्तु गदतस्तव ||४||
ध्रुवाय नन्दिने होत्रे गोप्त्रे विश्वसृजेऽग्नये |
महाभाग्यं विभो ब्रूहि मुण्डिनेऽथ कपर्दिने ||५||
वासुदेव उवाच||
न गतिः कर्मणां शक्या वेत्तुमीशस्य तत्त्वतः |
हिरण्यगर्भप्रमुखा देवाः सेन्द्रा महर्षयः |
न विदुर्यस्य निधनमादिं वा सूक्ष्मदर्शिनः ||७||
स कथं नरमात्रेण शक्यो ज्ञातुं सतां गतिः ||७||
तस्याहमसुरघ्नस्य कांश्चिद्भगवतो गुणान् |
भवतां कीर्तयिष्यामि व्रतेशाय यथातथम् ||८||
वैशम्पायन उवाच||
एवमुक्त्वा तु भगवान्गुणांस्तस्य महात्मनः |
उपस्पृश्य शुचिर्भूत्वा कथयामास धीमतः ||९||
वासुदेव उवाच||
शुश्रूषध्वं ब्राह्मणेन्द्रास्त्वं च तात युधिष्ठिर |
त्वं चापगेय नामानि निशामय जगत्पतेः ||१०||
यदवाप्तं च मे पूर्वं साम्बहेतोः सुदुष्करम् |
यथा च भगवान्दृष्टो मया पूर्वं समाधिना ||११||
शम्बरे निहते पूर्वं रौक्मिणेयेन धीमता |
अतीते द्वादशे वर्षे जाम्बवत्यब्रवीद्धि माम् ||१२||
प्रद्युम्नचारुदेष्णादीन्रुक्मिण्या वीक्ष्य पुत्रकान् |
पुत्रार्थिनी मामुपेत्य वाक्यमाह युधिष्ठिर ||१३||
शूरं बलवतां श्रेष्ठं कान्तरूपमकल्मषम् |
आत्मतुल्यं मम सुतं प्रयच्छाच्युत माचिरम् ||१४||
न हि तेऽप्राप्यमस्तीह त्रिषु लोकेषु किञ्चन |
लोकान्सृजेस्त्वमपरानिच्छन्यदुकुलोद्वह ||१५||
त्वया द्वादश वर्षाणि वायुभूतेन शुष्यता |
आराध्य पशुभर्तारं रुक्मिण्या जनिताः सुताः ||१६||
चारुदेष्णः सुचारुश्च चारुवेषो यशोधरः |
चारुश्रवाश्चारुयशाः प्रद्युम्नः शम्भुरेव च ||१७||
यथा ते जनिताः पुत्रा रुक्मिण्याश्चारुविक्रमाः |
तथा ममापि तनयं प्रयच्छ बलशालिनम् ||१८||
इत्येवं चोदितो देव्या तामवोचं सुमध्यमाम् |
अनुजानीहि मां राज्ञि करिष्ये वचनं तव ||१९||
सा च मामब्रवीद्गच्छ विजयाय शिवाय च ||१९||
ब्रह्मा शिवः काश्यपश्च नद्यो देवा मनोनुगाः |
क्षेत्रौषध्यो यज्ञवाहाच्छन्दांस्यृषिगणा धरा ||२०||
समुद्रा दक्षिणा स्तोभा ऋक्षाणि पितरो ग्रहाः |
देवपत्न्यो देवकन्या देवमातर एव च ||२१||
मन्वन्तराणि गावश्च चन्द्रमाः सविता हरिः |
सावित्री ब्रह्मविद्या च ऋतवो वत्सराः क्षपाः ||२२||
क्षणा लवा मुहूर्ताश्च निमेषा युगपर्ययाः |
रक्षन्तु सर्वत्र गतं त्वां यादव सुखावहम् ||२३||
अरिष्टं गच्छ पन्थानमप्रमत्तो भवानघ ||२३||
एवं कृतस्वस्त्ययनस्तयाहं; तामभ्यनुज्ञाय कपीन्द्रपुत्रीम् |
पितुः समीपे नरसत्तमस्य; मातुश्च राज्ञश्च तथाहुकस्य ||२४||
तमर्थमावेद्य यदब्रवीन्मां; विद्याधरेन्द्रस्य सुता भृशार्ता |
तानभ्यनुज्ञाय तदातिदुःखा; द्गदं तथैवातिबलं च रामम् ||२५||
प्राप्यानुज्ञां गुरुजनादहं तार्क्ष्यमचिन्तयम् |
सोऽवहद्धिमवन्तं मां प्राप्य चैनं व्यसर्जयम् ||२६||
तत्राहमद्भुतान्भावानपश्यं गिरिसत्तमे |
क्षेत्रं च तपसां श्रेष्ठं पश्याम्याश्रममुत्तमम् ||२७||
दिव्यं वैयाघ्रपद्यस्य उपमन्योर्महात्मनः |
पूजितं देवगन्धर्वैर्ब्राह्म्या लक्ष्म्या समन्वितम् ||२८||
धवककुभकदम्बनारिकेलैः; कुरबककेतकजम्बुपाटलाभिः |
वटवरुणकवत्सनाभबिल्वैः; सरलकपित्थप्रियालसालतालैः ||२९||
बदरीकुन्दपुन्नागैरशोकाम्रातिमुक्तकैः |
भल्लातकैर्मधूकैश्च चम्पकैः पनसैस्तथा ||३०||
वन्यैर्बहुविधैर्वृक्षैः फलपुष्पप्रदैर्युतम् |
पुष्पगुल्मलताकीर्णं कदलीषण्डशोभितम् ||३१||
नानाशकुनिसम्भोज्यैः फलैर्वृक्षैरलङ्कृतम् |
यथास्थानविनिक्षिप्तैर्भूषितं वनराजिभिः ||३२||
रुरुवारणशार्दूलसिंहद्वीपिसमाकुलम् |
कुरङ्गबर्हिणाकीर्णं मार्जारभुजगावृतम् ||३३||
पूगैश्च मृगजातीनां महिषर्क्षनिषेवितम् ||३३||
नानापुष्परजोमिश्रो गजदानाधिवासितः |
दिव्यस्त्रीगीतबहुलो मारुतोऽत्र सुखो ववौ ||३४||
धारानिनादैर्विहगप्रणादैः; शुभैस्तथा बृंहितैः कुञ्जराणाम् |
गीतैस्तथा किंनराणामुदारैः; शुभैः स्वनैः सामगानां च वीर ||३५||
अचिन्त्यं मनसाप्यन्यैः सरोभिः समलङ्कृतम् |
विशालैश्चाग्निशरणैर्भूषितं कुशसंवृतम् ||३६||
विभूषितं पुण्यपवित्रतोयया; सदा च जुष्टं नृप जह्नुकन्यया |
महात्मभिर्धर्मभृतां वरिष्ठै; र्महर्षिभिर्भूषितमग्निकल्पैः ||३७||
वाय्वाहारैरम्बुपैर्जप्यनित्यैः; सम्प्रक्षालैर्यतिभिर्ध्याननित्यैः |
धूमाशनैरूष्मपैः क्षीरपैश्च; विभूषितं ब्राह्मणेन्द्रैः समन्तात् ||३८||
गोचारिणोऽथाश्मकुट्टा दन्तोलूखलिनस्तथा |
मरीचिपाः फेनपाश्च तथैव मृगचारिणः ||३९||
सुदुःखान्नियमांस्तांस्तान्वहतः सुतपोन्वितान् |
पश्यन्नुत्फुल्लनयनः प्रवेष्टुमुपचक्रमे ||४०||
सुपूजितं देवगणैर्महात्मभिः; शिवादिभिर्भारत पुण्यकर्मभिः |
रराज तच्चाश्रममण्डलं सदा; दिवीव राजन्रविमण्डलं यथा ||४१||
क्रीडन्ति सर्पैर्नकुला मृगैर्व्याघ्राश्च मित्रवत् |
प्रभावाद्दीप्ततपसः संनिकर्षगुणान्विताः ||४२||
तत्राश्रमपदे श्रेष्ठे सर्वभूतमनोरमे |
सेविते द्विजशार्दूलैर्वेदवेदाङ्गपारगैः ||४३||
नानानियमविख्यातैरृषिभिश्च महात्मभिः |
प्रविशन्नेव चापश्यं जटाचीरधरं प्रभुम् ||४४||
तेजसा तपसा चैव दीप्यमानं यथानलम् |
शिष्यमध्यगतं शान्तं युवानं ब्राह्मणर्षभम् ||४५||
शिरसा वन्दमानं मामुपमन्युरभाषत ||४५||
स्वागतं पुण्डरीकाक्ष सफलानि तपांसि नः |
यत्पूज्यः पूजयसि नो द्रष्टव्यो द्रष्टुमिच्छसि ||४६||
तमहं प्राञ्जलिर्भूत्वा मृगपक्षिष्वथाग्निषु |
धर्मे च शिष्यवर्गे च समपृच्छमनामयम् ||४७||
ततो मां भगवानाह साम्ना परमवल्गुना |
लप्स्यसे तनयं कृष्ण आत्मतुल्यमसंशयम् ||४८||
तपः सुमहदास्थाय तोषयेशानमीश्वरम् |
इह देवः सपत्नीकः समाक्रीडत्यधोक्षज ||४९||
इहैव देवताश्रेष्ठं देवाः सर्षिगणाः पुरा |
तपसा ब्रह्मचर्येण सत्येन च दमेन च ||५०||
तोषयित्वा शुभान्कामान्प्राप्नुवंस्ते जनार्दन ||५०||
तेजसां तपसां चैव निधिः स भगवानिह |
शुभाशुभान्वितान्भावान्विसृजन्सङ्क्षिपन्नपि ||५१||
आस्ते देव्या सहाचिन्त्यो यं प्रार्थयसि शत्रुहन् ||५१||
हिरण्यकशिपुर्योऽभूद्दानवो मेरुकम्पनः |
तेन सर्वामरैश्वर्यं शर्वात्प्राप्तं समार्बुदम् ||५२||
तस्यैव पुत्रप्रवरो मन्दरो नाम विश्रुतः |
महादेववराच्छक्रं वर्षार्बुदमयोधयत् ||५३||
विष्णोश्चक्रं च तद्घोरं वज्रमाखण्डलस्य च |
शीर्णं पुराभवत्तात ग्रहस्याङ्गेषु केशव ||५४||
अर्द्यमानाश्च विबुधा ग्रहेण सुबलीयसा |
शिवदत्तवराञ्जघ्नुरसुरेन्द्रान्सुरा भृशम् ||५५||
तुष्टो विद्युत्प्रभस्यापि त्रिलोकेश्वरतामदात् |
शतं वर्षसहस्राणां सर्वलोकेश्वरोऽभवत् ||५६||
ममैवानुचरो नित्यं भवितासीति चाब्रवीत् ||५६||
तथा पुत्रसहस्राणामयुतं च ददौ प्रभुः |
कुशद्वीपं च स ददौ राज्येन भगवानजः ||५७||
तथा शतमुखो नाम धात्रा सृष्टो महासुरः |
येन वर्षशतं साग्रमात्ममांसैर्हुतोऽनलः ||५८||
तं प्राह भगवांस्तुष्टः किं करोमीति शङ्करः ||५८||
तं वै शतमुखः प्राह योगो भवतु मेऽद्भुतः |
बलं च दैवतश्रेष्ठ शाश्वतं सम्प्रयच्छ मे ||५९||
स्वायम्भुवः क्रतुश्चापि पुत्रार्थमभवत्पुरा |
आविश्य योगेनात्मानं त्रीणि वर्षशतान्यपि ||६०||
तस्य देवोऽददत्पुत्रान्सहस्रं क्रतुसंमितान् |
योगेश्वरं देवगीतं वेत्थ कृष्ण न संशयः ||६१||
वालखिल्या मघवता अवज्ञाताः पुरा किल |
तैः क्रुद्धैर्भगवान्रुद्रस्तपसा तोषितो ह्यभूत् ||६२||
तांश्चापि दैवतश्रेष्ठः प्राह प्रीतो जगत्पतिः |
सुपर्णं सोमहर्तारं तपसोत्पादयिष्यथ ||६३||
महादेवस्य रोषाच्च आपो नष्टाः पुराभवन् |
ताश्च सप्तकपालेन देवैरन्याः प्रवर्तिताः ||६४||
अत्रेर्भार्यापि भर्तारं सन्त्यज्य ब्रह्मवादिनी |
नाहं तस्य मुनेर्भूयो वशगा स्यां कथञ्चन ||६५||
इत्युक्त्वा सा महादेवमगच्छच्छरणं किल ||६५||
निराहारा भयादत्रेस्त्रीणि वर्षशतान्यपि |
अशेत मुसलेष्वेव प्रसादार्थं भवस्य सा ||६६||
तामब्रवीद्धसन्देवो भविता वै सुतस्तव |
वंशे तवैव नाम्ना तु ख्यातिं यास्यति चेप्सिताम् ||६७||
शाकल्यः संशितात्मा वै नव वर्षशतान्यपि |
आराधयामास भवं मनोयज्ञेन केशव ||६८||
तं चाह भगवांस्तुष्टो ग्रन्थकारो भविष्यसि |
वत्साक्षया च ते कीर्तिस्त्रैलोक्ये वै भविष्यति ||६९||
अक्षयं च कुलं तेऽस्तु महर्षिभिरलङ्कृतम् ||६९||
सावर्णिश्चापि विख्यात ऋषिरासीत्कृते युगे |
इह तेन तपस्तप्तं षष्टिं वर्षशतान्यथ ||७०||
तमाह भगवान्रुद्रः साक्षात्तुष्टोऽस्मि तेऽनघ |
ग्रन्थकृल्लोकविख्यातो भवितास्यजरामरः ||७१||
मयापि च यथा दृष्टो देवदेवः पुरा विभुः |
साक्षात्पशुपतिस्तात तच्चापि शृणु माधव ||७२||
यदर्थं च महादेवः प्रयतेन मया पुरा |
आराधितो महातेजास्तच्चापि शृणु विस्तरम् ||७३||
यदवाप्तं च मे पूर्वं देवदेवान्महेश्वरात् |
तत्सर्वमखिलेनाद्य कथयिष्यामि तेऽनघ ||७४||
पुरा कृतयुगे तात ऋषिरासीन्महायशाः |
व्याघ्रपाद इति ख्यातो वेदवेदाङ्गपारगः ||७५||
तस्याहमभवं पुत्रो धौम्यश्चापि ममानुजः ||७५||
कस्यचित्त्वथ कालस्य धौम्येन सह माधव |
आगच्छमाश्रमं क्रीडन्मुनीनां भावितात्मनाम् ||७६||
तत्रापि च मया दृष्टा दुह्यमाना पयस्विनी |
लक्षितं च मया क्षीरं स्वादुतो ह्यमृतोपमम् ||७७||
ततः पिष्टं समालोड्य तोयेन सह माधव |
आवयोः क्षीरमित्येव पानार्थमुपनीयते ||७८||
अथ गव्यं पयस्तात कदाचित्प्राशितं मया |
ततः पिष्टरसं तात न मे प्रीतिमुदावहत् ||७९||
ततोऽहमब्रुवं बाल्याज्जननीमात्मनस्तदा |
क्षीरोदनसमायुक्तं भोजनं च प्रयच्छ मे ||८०||
ततो मामब्रवीन्माता दुःखशोकसमन्विता |
पुत्रस्नेहात्परिष्वज्य मूर्ध्नि चाघ्राय माधव ||८१||
कुतः क्षीरोदनं वत्स मुनीनां भावितात्मनाम् |
वने निवसतां नित्यं कन्दमूलफलाशिनाम् ||८२||
अप्रसाद्य विरूपाक्षं वरदं स्थाणुमव्ययम् |
कुतः क्षीरोदनं वत्स सुखानि वसनानि च ||८३||
तं प्रपद्य सदा वत्स सर्वभावेन शङ्करम् |
तत्प्रसादाच्च कामेभ्यः फलं प्राप्स्यसि पुत्रक ||८४||
जनन्यास्तद्वचः श्रुत्वा तदाप्रभृति शत्रुहन् |
मम भक्तिर्महादेवे नैष्ठिकी समपद्यत ||८५||
ततोऽहं तप आस्थाय तोषयामास शङ्करम् |
दिव्यं वर्षसहस्रं तु पादाङ्गुष्ठाग्रविष्ठितः ||८६||
एकं वर्षशतं चैव फलाहारस्तदाभवम् |
द्वितीयं शीर्णपर्णाशी तृतीयं चाम्बुभोजनः ||८७||
शतानि सप्त चैवाहं वायुभक्षस्तदाभवम् ||८७||
ततः प्रीतो महादेवः सर्वलोकेश्वरः प्रभुः |
शक्ररूपं स कृत्वा तु सर्वैर्देवगणैर्वृतः ||८८||
सहस्राक्षस्तदा भूत्वा वज्रपाणिर्महायशाः ||८८||
सुधावदातं रक्ताक्षं स्तब्धकर्णं मदोत्कटम् |
आवेष्टितकरं रौद्रं चतुर्दंष्ट्रं महागजम् ||८९||
समास्थितश्च भगवान्दीप्यमानः स्वतेजसा |
आजगाम किरीटी तु हारकेयूरभूषितः ||९०||
पाण्डुरेणातपत्रेण ध्रियमाणेन मूर्धनि |
सेव्यमानोऽप्सरोभिश्च दिव्यगन्धर्वनादितः ||९१||
ततो मामाह देवेन्द्रः प्रीतस्तेऽहं द्विजोत्तम |
वरं वृणीष्व मत्तस्त्वं यत्ते मनसि वर्तते ||९२||
शक्रस्य तु वचः श्रुत्वा नाहं प्रीतमनाभवम् |
अब्रुवं च तदा कृष्ण देवराजमिदं वचः ||९३||
नाहं त्वत्तो वरं काङ्क्षे नान्यस्मादपि दैवतात् |
महादेवादृते सौम्य सत्यमेतद्ब्रवीमि ते ||९४||
पशुपतिवचनाद्भवामि सद्यः; कृमिरथ वा तरुरप्यनेकशाखः |
अपशुपतिवरप्रसादजा मे; त्रिभुवनराज्यविभूतिरप्यनिष्टा ||९५||
अपि कीटः पतङ्गो वा भवेयं शङ्कराज्ञया |
न तु शक्र त्वया दत्तं त्रैलोक्यमपि कामये ||९६||
यावच्छशाङ्कशकलामलबद्धमौलि; र्न प्रीयते पशुपतिर्भगवान्ममेशः |
तावज्जरामरणजन्मशताभिघातै; र्दुःखानि देहविहितानि समुद्वहामि ||९७||
दिवसकरशशाङ्कवह्निदीप्तं; त्रिभुवनसारमपारमाद्यमेकम् |
अजरममरमप्रसाद्य रुद्रं; जगति पुमानिह को लभेत शान्तिम् ||९८||
शक्र उवाच||
कः पुनस्तव हेतुर्वै ईशे कारणकारणे |
येन देवादृतेऽन्यस्मात्प्रसादं नाभिकाङ्क्षसि ||९९||
उपमन्युरुवाच||
हेतुभिर्वा किमन्यैस्ते ईशः कारणकारणम् |
न शुश्रुम यदन्यस्य लिङ्गमभ्यर्च्यते सुरैः ||१००||
कस्यान्यस्य सुरैः सर्वैर्लिङ्गं मुक्त्वा महेश्वरम् |
अर्च्यतेऽर्चितपूर्वं वा ब्रूहि यद्यस्ति ते श्रुतिः ||१०१||
यस्य ब्रह्मा च विष्णुश्च त्वं चापि सह दैवतैः |
अर्चयध्वं सदा लिङ्गं तस्माच्छ्रेष्ठतमो हि सः ||१०२||
तस्माद्वरमहं काङ्क्षे निधनं वापि कौशिक |
गच्छ वा तिष्ठ वा शक्र यथेष्टं बलसूदन ||१०३||
काममेष वरो मेऽस्तु शापो वापि महेश्वरात् |
न चान्यां देवतां काङ्क्षे सर्वकामफलान्यपि ||१०४||
एवमुक्त्वा तु देवेन्द्रं दुःखादाकुलितेन्द्रियः |
न प्रसीदति मे रुद्रः किमेतदिति चिन्तयन् ||१०५||
अथापश्यं क्षणेनैव तमेवैरावतं पुनः ||१०५||
हंसकुन्देन्दुसदृशं मृणालकुमुदप्रभम् |
वृषरूपधरं साक्षात्क्षीरोदमिव सागरम् ||१०६||
कृष्णपुच्छं महाकायं मधुपिङ्गललोचनम् |
जाम्बूनदेन दाम्ना च सर्वतः समलङ्कृतम् ||१०७||
रक्ताक्षं सुमहानासं सुकर्णं सुकटीतटम् |
सुपार्श्वं विपुलस्कन्धं सुरूपं चारुदर्शनम् ||१०८||
ककुदं तस्य चाभाति स्कन्धमापूर्य विष्ठितम् |
तुषारगिरिकूटाभं सिताभ्रशिखरोपमम् ||१०९||
तमास्थितश्च भगवान्देवदेवः सहोमया |
अशोभत महादेवः पौर्णमास्यामिवोडुराट् ||११०||
तस्य तेजोभवो वह्निः समेघः स्तनयित्नुमान् |
सहस्रमिव सूर्याणां सर्वमावृत्य तिष्ठति ||१११||
ईश्वरः सुमहातेजाः संवर्तक इवानलः |
युगान्ते सर्वभूतानि दिधक्षुरिव चोद्यतः ||११२||
तेजसा तु तदा व्याप्ते दुर्निरीक्ष्ये समन्ततः |
पुनरुद्विग्नहृदयः किमेतदिति चिन्तयम् ||११३||
मुहूर्तमिव तत्तेजो व्याप्य सर्वा दिशो दश |
प्रशान्तं च क्षणेनैव देवदेवस्य मायया ||११४||
अथापश्यं स्थितं स्थाणुं भगवन्तं महेश्वरम् |
सौरभेयगतं सौम्यं विधूममिव पावकम् ||११५||
सहितं चारुसर्वाङ्ग्या पार्वत्या परमेश्वरम् ||११५||
नीलकण्ठं महात्मानमसक्तं तेजसां निधिम् |
अष्टादशभुजं स्थाणुं सर्वाभरणभूषितम् ||११६||
शुक्लाम्बरधरं देवं शुक्लमाल्यानुलेपनम् |
शुक्लध्वजमनाधृष्यं शुक्लयज्ञोपवीतिनम् ||११७||
गायद्भिर्नृत्यमानैश्च उत्पतद्भिरितस्ततः |
वृतं पारिषदैर्दिव्यैरात्मतुल्यपराक्रमैः ||११८||
बालेन्दुमुकुटं पाण्डुं शरच्चन्द्रमिवोदितम् |
त्रिभिर्नेत्रैः कृतोद्द्योतं त्रिभिः सूर्यैरिवोदितैः ||११९||
अशोभत च देवस्य माला गात्रे सितप्रभे |
जातरूपमयैः पद्मैर्ग्रथिता रत्नभूषिता ||१२०||
मूर्तिमन्ति तथास्त्राणि सर्वतेजोमयानि च |
मया दृष्टानि गोविन्द भवस्यामिततेजसः ||१२१||
इन्द्रायुधसहस्राभं धनुस्तस्य महात्मनः |
पिनाकमिति विख्यातं स च वै पन्नगो महान् ||१२२||
सप्तशीर्षो महाकायस्तीक्ष्णदंष्ट्रो विषोल्बणः |
ज्यावेष्टितमहाग्रीवः स्थितः पुरुषविग्रहः ||१२३||
शरश्च सूर्यसङ्काशः कालानलसमद्युतिः |
यत्तदस्त्रं महाघोरं दिव्यं पाशुपतं महत् ||१२४||
अद्वितीयमनिर्देश्यं सर्वभूतभयावहम् |
सस्फुलिङ्गं महाकायं विसृजन्तमिवानलम् ||१२५||
एकपादं महादंष्ट्रं सहस्रशिरसोदरम् |
सहस्रभुजजिह्वाक्षमुद्गिरन्तमिवानलम् ||१२६||
ब्राह्मान्नारायणादैन्द्रादाग्नेयादपि वारुणात् |
यद्विशिष्टं महाबाहो सर्वशस्त्रविघातनम् ||१२७||
येन तत्त्रिपुरं दग्ध्वा क्षणाद्भस्मीकृतं पुरा |
शरेणैकेन गोविन्द महादेवेन लीलया ||१२८||
निर्ददाह जगत्कृत्स्नं त्रैलोक्यं सचराचरम् |
महेश्वरभुजोत्सृष्टं निमेषार्धान्न संशयः ||१२९||
नावध्यो यस्य लोकेऽस्मिन्ब्रह्मविष्णुसुरेष्वपि |
तदहं दृष्टवांस्तात आश्चर्याद्भुतमुत्तमम् ||१३०||
गुह्यमस्त्रं परं चापि तत्तुल्याधिकमेव वा |
यत्तच्छूलमिति ख्यातं सर्वलोकेषु शूलिनः ||१३१||
दारयेद्यन्महीं कृत्स्नां शोषयेद्वा महोदधिम् |
संहरेद्वा जगत्कृत्स्नं विसृष्टं शूलपाणिना ||१३२||
यौवनाश्वो हतो येन मान्धाता सबलः पुरा |
चक्रवर्ती महातेजास्त्रिलोकविजयी नृपः ||१३३||
महाबलो महावीर्यः शक्रतुल्यपराक्रमः |
करस्थेनैव गोविन्द लवणस्येह रक्षसः ||१३४||
तच्छूलमतितीक्ष्णाग्रं सुभीमं लोमहर्षणम् |
त्रिशिखां भ्रुकुटीं कृत्वा तर्जमानमिव स्थितम् ||१३५||
विधूमं सार्चिषं कृष्णं कालसूर्यमिवोदितम् |
सर्पहस्तमनिर्देश्यं पाशहस्तमिवान्तकम् ||१३६||
दृष्टवानस्मि गोविन्द तदस्त्रं रुद्रसंनिधौ ||१३६||
परशुस्तीक्ष्णधारश्च दत्तो रामस्य यः पुरा |
महादेवेन तुष्टेन क्षत्रियाणां क्षयङ्करः ||१३७||
कार्तवीर्यो हतो येन चक्रवर्ती महामृधे ||१३७||
त्रिःसप्तकृत्वः पृथिवी येन निःक्षत्रिया कृता |
जामदग्न्येन गोविन्द रामेणाक्लिष्टकर्मणा ||१३८||
दीप्तधारः सुरौद्रास्यः सर्पकण्ठाग्रवेष्टितः |
अभवच्छूलिनोऽभ्याशे दीप्तवह्निशिखोपमः ||१३९||
असङ्ख्येयानि चास्त्राणि तस्य दिव्यानि धीमतः |
प्राधान्यतो मयैतानि कीर्तितानि तवानघ ||१४०||
सव्यदेशे तु देवस्य ब्रह्मा लोकपितामहः |
दिव्यं विमानमास्थाय हंसयुक्तं मनोजवम् ||१४१||
वामपार्श्वगतश्चैव तथा नारायणः स्थितः |
वैनतेयं समास्थाय शङ्खचक्रगदाधरः ||१४२||
स्कन्दो मयूरमास्थाय स्थितो देव्याः समीपतः |
शक्तिं कण्ठे समादाय द्वितीय इव पावकः ||१४३||
पुरस्ताच्चैव देवस्य नन्दिं पश्याम्यवस्थितम् |
शूलं विष्टभ्य तिष्ठन्तं द्वितीयमिव शङ्करम् ||१४४||
स्वायम्भुवाद्या मनवो भृग्वाद्या ऋषयस्तथा |
शक्राद्या देवताश्चैव सर्व एव समभ्ययुः ||१४५||
तेऽभिवाद्य महात्मानं परिवार्य समन्ततः |
अस्तुवन्विविधैः स्तोत्रैर्महादेवं सुरास्तदा ||१४६||
ब्रह्मा भवं तदा स्तुन्वन्रथन्तरमुदीरयन् |
ज्येष्ठसाम्ना च देवेशं जगौ नारायणस्तदा ||१४७||
गृणञ्शक्रः परं ब्रह्म शतरुद्रीयमुत्तमम् ||१४७||
ब्रह्मा नारायणश्चैव देवराजश्च कौशिकः |
अशोभन्त महात्मानस्त्रयस्त्रय इवाग्नयः ||१४८||
तेषां मध्यगतो देवो रराज भगवाञ्शिवः |
शरद्घनविनिर्मुक्तः परिविष्ट इवांशुमान् ||१४९||
ततोऽहमस्तुवं देवं स्तवेनानेन सुव्रतम् ||१४९||
नमो देवाधिदेवाय महादेवाय वै नमः |
शक्राय शक्ररूपाय शक्रवेषधराय च ||१५०||
नमस्ते वज्रहस्ताय पिङ्गलायारुणाय च |
पिनाकपाणये नित्यं खड्गशूलधराय च ||१५१||
नमस्ते कृष्णवासाय कृष्णकुञ्चितमूर्धजे |
कृष्णाजिनोत्तरीयाय कृष्णाष्टमिरताय च ||१५२||
शुक्लवर्णाय शुक्लाय शुक्लाम्बरधराय च |
शुक्लभस्मावलिप्ताय शुक्लकर्मरताय च ||१५३||
त्वं ब्रह्मा सर्वदेवानां रुद्राणां नीललोहितः |
आत्मा च सर्वभूतानां साङ्ख्ये पुरुष उच्यसे ||१५४||
ऋषभस्त्वं पवित्राणां योगिनां निष्कलः शिवः |
आश्रमाणां गृहस्थस्त्वमीश्वराणां महेश्वरः ||१५५||
कुबेरः सर्वयक्षाणां क्रतूनां विष्णुरुच्यसे ||१५५||
पर्वतानां महामेरुर्नक्षत्राणां च चन्द्रमाः |
वसिष्ठस्त्वमृषीणां च ग्रहाणां सूर्य उच्यसे ||१५६||
आरण्यानां पशूनां च सिंहस्त्वं परमेश्वरः |
ग्राम्याणां गोवृषश्चासि भगवाँल्लोकपूजितः ||१५७||
आदित्यानां भवान्विष्णुर्वसूनां चैव पावकः |
पक्षिणां वैनतेयश्च अनन्तो भुजगेषु च ||१५८||
सामवेदश्च वेदानां यजुषां शतरुद्रियम् |
सनत्कुमारो योगीनां साङ्ख्यानां कपिलो ह्यसि ||१५९||
शक्रोऽसि मरुतां देव पितॄणां धर्मराडसि |
ब्रह्मलोकश्च लोकानां गतीनां मोक्ष उच्यसे ||१६०||
क्षीरोदः सागराणां च शैलानां हिमवान्गिरिः |
वर्णानां ब्राह्मणश्चासि विप्राणां दीक्षितो द्विजः ||१६१||
आदिस्त्वमसि लोकानां संहर्ता काल एव च ||१६१||
यच्चान्यदपि लोकेषु सत्त्वं तेजोधिकं स्मृतम् |
तत्सर्वं भगवानेव इति मे निश्चिता मतिः ||१६२||
नमस्ते भगवन्देव नमस्ते भक्तवत्सल |
योगेश्वर नमस्तेऽस्तु नमस्ते विश्वसम्भव ||१६३||
प्रसीद मम भक्तस्य दीनस्य कृपणस्य च |
अनैश्वर्येण युक्तस्य गतिर्भव सनातन ||१६४||
यं चापराधं कृतवानज्ञानात्परमेश्वर |
मद्भक्त इति देवेश तत्सर्वं क्षन्तुमर्हसि ||१६५||
मोहितश्चास्मि देवेश तुभ्यं रूपविपर्ययात् |
तेन नार्घ्यं मया दत्तं पाद्यं चापि सुरेश्वर ||१६६||
एवं स्तुत्वाहमीशानं पाद्यमर्घ्यं च भक्तितः |
कृताञ्जलिपुटो भूत्वा सर्वं तस्मै न्यवेदयम् ||१६७||
ततः शीताम्बुसंयुक्ता दिव्यगन्धसमन्विता |
पुष्पवृष्टिः शुभा तात पपात मम मूर्धनि ||१६८||
दुन्दुभिश्च ततो दिव्यस्ताडितो देवकिङ्करैः |
ववौ च मारुतः पुण्यः शुचिगन्धः सुखावहः ||१६९||
ततः प्रीतो महादेवः सपत्नीको वृषध्वजः |
अब्रवीत्त्रिदशांस्तत्र हर्षयन्निव मां तदा ||१७०||
पश्यध्वं त्रिदशाः सर्वे उपमन्योर्महात्मनः |
मयि भक्तिं परां दिव्यामेकभावादवस्थिताम् ||१७१||
एवमुक्तास्ततः कृष्ण सुरास्ते शूलपाणिना |
ऊचुः प्राञ्जलयः सर्वे नमस्कृत्वा वृषध्वजम् ||१७२||
भगवन्देवदेवेश लोकनाथ जगत्पते |
लभतां सर्वकामेभ्यः फलं त्वत्तो द्विजोत्तमः ||१७३||
एवमुक्तस्ततः शर्वः सुरैर्ब्रह्मादिभिस्तथा |
आह मां भगवानीशः प्रहसन्निव शङ्करः ||१७४||
वत्सोपमन्यो प्रीतोऽस्मि पश्य मां मुनिपुङ्गव |
दृढभक्तोऽसि विप्रर्षे मया जिज्ञासितो ह्यसि ||१७५||
अनया चैव भक्त्या ते अत्यर्थं प्रीतिमानहम् |
तस्मात्सर्वान्ददाम्यद्य कामांस्तव यथेप्शितान् ||१७६||
एवमुक्तस्य चैवाथ महादेवेन मे विभो |
हर्षादश्रूण्यवर्तन्त लोमहर्षश्च जायते ||१७७||
अब्रुवं च तदा देवं हर्षगद्गदया गिरा |
जानुभ्यामवनिं गत्वा प्रणम्य च पुनः पुनः ||१७८||
अद्य जातो ह्यहं देव अद्य मे सफलं तपः |
यन्मे साक्षान्महादेवः प्रसन्नस्तिष्ठतेऽग्रतः ||१७९||
यं न पश्यन्ति चाराध्य देवा ह्यमितविक्रमम् |
तमहं दृष्टवान्देवं कोऽन्यो धन्यतरो मया ||१८०||
एवं ध्यायन्ति विद्वांसः परं तत्त्वं सनातनम् |
षड्विंशकमिति ख्यातं यत्परात्परमक्षरम् ||१८१||
स एष भगवान्देवः सर्वतत्त्वादिरव्ययः |
सर्वतत्त्वविधानज्ञः प्रधानपुरुषेश्वरः ||१८२||
योऽसृजद्दक्षिणादङ्गाद्ब्रह्माणं लोकसम्भवम् |
वामपार्श्वात्तथा विष्णुं लोकरक्षार्थमीश्वरः ||१८३||
युगान्ते चैव सम्प्राप्ते रुद्रमङ्गात्सृजत्प्रभुः ||१८३||
स रुद्रः संहरन्कृत्स्नं जगत्स्थावरजङ्गमम् |
कालो भूत्वा महातेजाः संवर्तक इवानलः ||१८४||
एष देवो महादेवो जगत्सृष्ट्वा चराचरम् |
कल्पान्ते चैव सर्वेषां स्मृतिमाक्षिप्य तिष्ठति ||१८५||
सर्वगः सर्वभूतात्मा सर्वभूतभवोद्भवः |
आस्ते सर्वगतो नित्यमदृश्यः सर्वदैवतैः ||१८६||
यदि देयो वरो मह्यं यदि तुष्टश्च मे प्रभुः |
भक्तिर्भवतु मे नित्यं शाश्वती त्वयि शङ्कर ||१८७||
अतीतानागतं चैव वर्तमानं च यद्विभो |
जानीयामिति मे बुद्धिस्त्वत्प्रसादात्सुरोत्तम ||१८८||
क्षीरोदनं च भुञ्जीयामक्षयं सह बान्धवैः |
आश्रमे च सदा मह्यं सांनिध्यं परमस्तु ते ||१८९||
एवमुक्तः स मां प्राह भगवाँल्लोकपूजितः |
महेश्वरो महातेजाश्चराचरगुरुः प्रभुः ||१९०||
अजरश्चामरश्चैव भव दुःखविवर्जितः |
शीलवान्गुणसम्पन्नः सर्वज्ञः प्रियदर्शनः ||१९१||
अक्षयं यौवनं तेऽस्तु तेजश्चैवानलोपमम् |
क्षीरोदः सागरश्चैव यत्र यत्रेच्छसे मुने ||१९२||
तत्र ते भविता कामं सांनिध्यं पयसो निधेः |
क्षीरोदनं च भुङ्क्ष्व त्वममृतेन समन्वितम् ||१९३||
बन्धुभिः सहितः कल्पं ततो मामुपयास्यसि |
सांनिध्यमाश्रमे नित्यं करिष्यामि द्विजोत्तम ||१९४||
तिष्ठ वत्स यथाकामं नोत्कण्ठां कर्तुमर्हसि |
स्मृतः स्मृतश्च ते विप्र सदा दास्यामि दर्शनम् ||१९५||
एवमुक्त्वा स भगवान्सूर्यकोटिसमप्रभः |
ममेशानो वरं दत्त्वा तत्रैवान्तरधीयत ||१९६||
एवं दृष्टो मया कृष्ण देवदेवः समाधिना |
तदवाप्तं च मे सर्वं यदुक्तं तेन धीमता ||१९७||
प्रत्यक्षं चैव ते कृष्ण पश्य सिद्धान्व्यवस्थितान् |
ऋषीन्विद्याधरान्यक्षान्गन्धर्वाप्सरसस्तथा ||१९८||
पश्य वृक्षान्मनोरम्यान्सदा पुष्पफलान्वितान् |
सर्वर्तुकुसुमैर्युक्तान्स्निग्धपत्रान्सुशाखिनः ||१९९||
सर्वमेतन्महाबाहो दिव्यभावसमन्वितम् ||१९९||
१५
उपमन्युरुवाच||
एतान्सहस्रशश्चान्यान्समनुध्यातवान्हरः |
कस्मात्प्रसादं भगवान्न कुर्यात्तव माधव ||१||
त्वादृशेन हि देवानां श्लाघनीयः समागमः |
ब्रह्मण्येनानृशंसेन श्रद्दधानेन चाप्युत ||२||
जप्यं च ते प्रदास्यामि येन द्रक्ष्यसि शङ्करम् ||२||
कृष्ण उवाच||
अब्रुवं तमहं ब्रह्मंस्त्वत्प्रसादान्महामुने |
द्रक्ष्ये दितिजसङ्घानां मर्दनं त्रिदशेश्वरम् ||३||
दिनेऽष्टमे च विप्रेण दीक्षितोऽहं यथाविधि |
दण्डी मुण्डी कुशी चीरी घृताक्तो मेखली तथा ||४||
मासमेकं फलाहारो द्वितीयं सलिलाशनः |
तृतीयं च चतुर्थं च पञ्चमं चानिलाशनः ||५||
एकपादेन तिष्ठंश्च ऊर्ध्वबाहुरतन्द्रितः |
तेजः सूर्यसहस्रस्य अपश्यं दिवि भारत ||६||
तस्य मध्यगतं चापि तेजसः पाण्डुनन्दन |
इन्द्रायुधपिनद्धाङ्गं विद्युन्मालागवाक्षकम् ||७||
नीलशैलचयप्रख्यं बलाकाभूषितं घनम् ||७||
तमास्थितश्च भगवान्देव्या सह महाद्युतिः |
तपसा तेजसा कान्त्या दीप्तया सह भार्यया ||८||
रराज भगवांस्तत्र देव्या सह महेश्वरः |
सोमेन सहितः सूर्यो यथा मेघस्थितस्तथा ||९||
संहृष्टरोमा कौन्तेय विस्मयोत्फुल्ललोचनः |
अपश्यं देवसङ्घानां गतिमार्तिहरं हरम् ||१०||
किरीटिनं गदिनं शूलपाणिं; व्याघ्राजिनं जटिलं दण्डपाणिम् |
पिनाकिनं वज्रिणं तीक्ष्णदंष्ट्रं; शुभाङ्गदं व्यालयज्ञोपवीतम् ||११||
दिव्यां मालामुरसानेकवर्णां; समुद्वहन्तं गुल्फदेशावलम्बाम् |
चन्द्रं यथा परिविष्टं ससन्ध्यं; वर्षात्यये तद्वदपश्यमेनम् ||१२||
प्रमथानां गणैश्चैव समन्तात्परिवारितम् |
शरदीव सुदुष्प्रेक्ष्यं परिविष्टं दिवाकरम् ||१३||
एकादश तथा चैनं रुद्राणां वृषवाहनम् |
अस्तुवन्नियतात्मानः कर्मभिः शुभकर्मिणम् ||१४||
आदित्या वसवः साध्या विश्वेदेवास्तथाश्विनौ |
विश्वाभिः स्तुतिभिर्देवं विश्वदेवं समस्तुवन् ||१५||
शतक्रतुश्च भगवान्विष्णुश्चादितिनन्दनौ |
ब्रह्मा रथन्तरं साम ईरयन्ति भवान्तिके ||१६||
योगीश्वराः सुबहवो योगदं पितरं गुरुम् |
ब्रह्मर्षयश्च ससुतास्तथा देवर्षयश्च वै ||१७||
पृथिवी चान्तरिक्षं च नक्षत्राणि ग्रहास्तथा |
मासार्धमासा ऋतवो रात्र्यः संवत्सराः क्षणाः ||१८||
मुहूर्ताश्च निमेषाश्च तथैव युगपर्ययाः |
दिव्या राजन्नमस्यन्ति विद्याः सर्वा दिशस्तथा ||१९||
सनत्कुमारो वेदाश्च इतिहासास्तथैव च |
मरीचिरङ्गिरा अत्रिः पुलस्त्यः पुलहः क्रतुः ||२०||
मनवः सप्तसोमश्च अथर्वा सबृहस्पतिः |
भृगुर्दक्षः कश्यपश्च वसिष्ठः काश्य एव च ||२१||
छन्दांसि दीक्षा यज्ञाश्च दक्षिणाः पावको हविः |
यज्ञोपगानि द्रव्याणि मूर्तिमन्ति युधिष्ठिर ||२२||
प्रजानां पतयः सर्वे सरितः पन्नगा नगाः |
देवानां मातरः सर्वा देवपत्न्यः सकन्यकाः ||२३||
सहस्राणि मुनीनां च अयुतान्यर्बुदानि च |
नमस्यन्ति प्रभुं शान्तं पर्वताः सागरा दिशः ||२४||
गन्धर्वाप्सरसश्चैव गीतवादित्रकोविदाः |
दिव्यतानेन गायन्तः स्तुवन्ति भवमद्भुतम् ||२५||
विद्याधरा दानवाश्च गुह्यका राक्षसास्तथा ||२५||
सर्वाणि चैव भूतानि स्थावराणि चराणि च |
नमस्यन्ति महाराज वाङ्मनःकर्मभिर्विभुम् ||२६||
पुरस्ताद्विष्ठितः शर्वो ममासीत्त्रिदशेश्वरः ||२६||
पुरस्ताद्विष्ठितं दृष्ट्वा ममेशानं च भारत |
सप्रजापतिशक्रान्तं जगन्मामभ्युदैक्षत ||२७||
ईक्षितुं च महादेवं न मे शक्तिरभूत्तदा |
ततो मामब्रवीद्देवः पश्य कृष्ण वदस्व च ||२८||
शिरसा वन्दिते देवे देवी प्रीता उमाभवत् |
ततोऽहमस्तुवं स्थाणुं स्तुतं ब्रह्मादिभिः सुरैः ||२९||
नमोऽस्तु ते शाश्वत सर्वयोने; ब्रह्माधिपं त्वामृषयो वदन्ति |
तपश्च सत्त्वं च रजस्तमश्च; त्वामेव सत्यं च वदन्ति सन्तः ||३०||
त्वं वै ब्रह्मा च रुद्रश्च वरुणोऽग्निर्मनुर्भवः |
धाता त्वष्टा विधाता च त्वं प्रभुः सर्वतोमुखः ||३१||
त्वत्तो जातानि भूतानि स्थावराणि चराणि च |
त्वमादिः सर्वभूतानां संहारश्च त्वमेव हि ||३२||
ये चेन्द्रियार्थाश्च मनश्च कृत्स्नं; ये वायवः सप्त तथैव चाग्निः |
ये वा दिविस्था देवताश्चापि पुंसां; तस्मात्परं त्वामृषयो वदन्ति ||३३||
वेदा यज्ञाश्च सोमश्च दक्षिणा पावको हविः |
यज्ञोपगं च यत्किञ्चिद्भगवांस्तदसंशयम् ||३४||
इष्टं दत्तमधीतं च व्रतानि नियमाश्च ये |
ह्रीः कीर्तिः श्रीर्द्युतिस्तुष्टिः सिद्धिश्चैव त्वदर्पणा ||३५||
कामः क्रोधो भयं लोभो मदः स्तम्भोऽथ मत्सरः |
आधयो व्याधयश्चैव भगवंस्तनयास्तव ||३६||
कृतिर्विकारः प्रलयः प्रधानं प्रभवोऽव्ययः |
मनसः परमा योनिः स्वभावश्चापि शाश्वतः ||३७||
अव्यक्तः पावन विभो सहस्रांशो हिरण्मयः ||३७||
आदिर्गुणानां सर्वेषां भवान्वै जीवनाश्रयः |
महानात्मा मतिर्ब्रह्मा विश्वः शम्भुः स्वयम्भुवः ||३८||
बुद्धिः प्रज्ञोपलब्धिश्च संवित्ख्यातिर्धृतिः स्मृतिः |
पर्यायवाचकैः शब्दैर्महानात्मा विभाव्यसे ||३९||
त्वां बुद्ध्वा ब्राह्मणो विद्वान्न प्रमोहं निगच्छति |
हृदयं सर्वभूतानां क्षेत्रज्ञस्त्वमृषिष्टुतः ||४०||
सर्वतःपाणिपादस्त्वं सर्वतोक्षिशिरोमुखः |
सर्वतःश्रुतिमाँल्लोके सर्वमावृत्य तिष्ठसि ||४१||
फलं त्वमसि तिग्मांशो निमेषादिषु कर्मसु |
त्वं वै प्रभार्चिः पुरुषः सर्वस्य हृदि संस्थितः ||४२||
अणिमा लघिमा प्राप्तिरीशानो ज्योतिरव्ययः ||४२||
त्वयि बुद्धिर्मतिर्लोकाः प्रपन्नाः संश्रिताश्च ये |
ध्यानिनो नित्ययोगाश्च सत्यसन्धा जितेन्द्रियाः ||४३||
यस्त्वां ध्रुवं वेदयते गुहाशयं; प्रभुं पुराणं पुरुषं विश्वरूपम् |
हिरण्मयं बुद्धिमतां परां गतिं; स बुद्धिमान्बुद्धिमतीत्य तिष्ठति ||४४||
विदित्वा सप्त सूक्ष्माणि षडङ्गं त्वां च मूर्तितः |
प्रधानविधियोगस्थस्त्वामेव विशते बुधः ||४५||
एवमुक्ते मया पार्थ भवे चार्तिविनाशने |
चराचरं जगत्सर्वं सिंहनादमथाकरोत् ||४६||
सविप्रसङ्घाश्च सुरासुराश्च; नागाः पिशाचाः पितरो वयांसि |
रक्षोगणा भूतगणाश्च सर्वे; महर्षयश्चैव तथा प्रणेमुः ||४७||
मम मूर्ध्नि च दिव्यानां कुसुमानां सुगन्धिनाम् |
राशयो निपतन्ति स्म वायुश्च सुसुखो ववौ ||४८||
निरीक्ष्य भगवान्देवीमुमां मां च जगद्धितः |
शतक्रतुं चाभिवीक्ष्य स्वयं मामाह शङ्करः ||४९||
विद्मः कृष्ण परां भक्तिमस्मासु तव शत्रुहन् |
क्रियतामात्मनः श्रेयः प्रीतिर्हि परमा त्वयि ||५०||
वृणीष्वाष्टौ वरान्कृष्ण दातास्मि तव सत्तम |
ब्रूहि यादवशार्दूल यानिच्छसि सुदुर्लभान् ||५१||
१६
कृष्ण उवाच||
मूर्ध्ना निपत्य नियतस्तेजःसंनिचये ततः |
परमं हर्षमागम्य भगवन्तमथाब्रुवम् ||१||
धर्मे दृढत्वं युधि शत्रुघातं; यशस्तथाग्र्यं परमं बलं च |
योगप्रियत्वं तव संनिकर्षं; वृणे सुतानां च शतं शतानि ||२||
एवमस्त्विति तद्वाक्यं मयोक्तः प्राह शङ्करः |
ततो मां जगतो माता धरणी सर्वपावनी |
उवाचोमा प्रणिहिता शर्वाणी तपसां निधिः ||४||
दत्तो भगवता पुत्रः साम्बो नाम तवानघ |
मत्तोऽप्यष्टौ वरानिष्टान्गृहाण त्वं ददामि ते ||५||
प्रणम्य शिरसा सा च मयोक्ता पाण्डुनन्दन ||५||
द्विजेष्वकोपं पितृतः प्रसादं; शतं सुतानामुपभोगं परं च |
कुले प्रीतिं मातृतश्च प्रसादं; शमप्राप्तिं प्रवृणे चापि दाक्ष्यम् ||६||
देव्युवाच||
एवं भविष्यत्यमरप्रभाव; नाहं मृषा जातु वदे कदाचित् |
भार्यासहस्राणि च षोडशैव; तासु प्रियत्वं च तथाक्षयत्वम् ||७||
प्रीतिं चाग्र्यां बान्धवानां सकाशा; द्ददामि ते वपुषः काम्यतां च |
भोक्ष्यन्ते वै सप्ततिर्वै शतानि; गृहे तुभ्यमतिथीनां च नित्यम् ||८||
वासुदेव उवाच||
एवं दत्त्वा वरान्देवो मम देवी च भारत |
अन्तर्हितः क्षणे तस्मिन्सगणो भीमपूर्वज ||९||
एतदत्यद्भुतं सर्वं ब्राह्मणायातितेजसे |
उपमन्यवे मया कृत्स्नमाख्यातं कौरवोत्तम ||१०||
नमस्कृत्वा तु स प्राह देवदेवाय सुव्रत |
नास्ति शर्वसमो दाने नास्ति शर्वसमो रणे ||११||
नास्ति शर्वसमो देवो नास्ति शर्वसमा गतिः ||११||
ऋषिरासीत्कृते तात तण्डिरित्येव विश्रुतः |
दश वर्षसहस्राणि तेन देवः समाधिना ||१२||
आराधितोऽभूद्भक्तेन तस्योदर्कं निशामय ||१२||
स दृष्टवान्महादेवमस्तौषीच्च स्तवैर्विभुम् |
पवित्राणां पवित्रस्त्वं गतिर्गतिमतां वर ||१३||
अत्युग्रं तेजसां तेजस्तपसां परमं तपः ||१३||
विश्वावसुहिरण्याक्षपुरुहूतनमस्कृत |
भूरिकल्याणद विभो पुरुसत्य नमोऽस्तु ते ||१४||
जातीमरणभीरूणां यतीनां यततां विभो |
निर्वाणद सहस्रांशो नमस्तेऽस्तु सुखाश्रय ||१५||
ब्रह्मा शतक्रतुर्विष्णुर्विश्वेदेवा महर्षयः |
न विदुस्त्वां तु तत्त्वेन कुतो वेत्स्यामहे वयम् ||१६||
त्वत्तः प्रवर्तते कालस्त्वयि कालश्च लीयते |
कालाख्यः पुरुषाख्यश्च ब्रह्माख्यश्च त्वमेव हि ||१७||
तनवस्ते स्मृतास्तिस्रः पुराणज्ञैः सुरर्षिभिः |
अधिपौरुषमध्यात्ममधिभूताधिदैवतम् ||१८||
अधिलोक्याधिविज्ञानमधियज्ञस्त्वमेव हि ||१८||
त्वां विदित्वात्मदेहस्थं दुर्विदं दैवतैरपि |
विद्वांसो यान्ति निर्मुक्ताः परं भावमनामयम् ||१९||
अनिच्छतस्तव विभो जन्ममृत्युरनेकतः |
द्वारं त्वं स्वर्गमोक्षाणामाक्षेप्ता त्वं ददासि च ||२०||
त्वमेव मोक्षः स्वर्गश्च कामः क्रोधस्त्वमेव हि |
सत्त्वं रजस्तमश्चैव अधश्चोर्ध्वं त्वमेव हि ||२१||
ब्रह्मा विष्णुश्च रुद्रश्च स्कन्देन्द्रौ सविता यमः |
वरुणेन्दू मनुर्धाता विधाता त्वं धनेश्वरः ||२२||
भूर्वायुर्ज्योतिरापश्च वाग्बुद्धिस्त्वं मतिर्मनः |
कर्म सत्यानृते चोभे त्वमेवास्ति च नास्ति च ||२३||
इन्द्रियाणीन्द्रियार्थाश्च तत्परं प्रकृतेर्ध्रुवम् |
विश्वाविश्वपरो भावश्चिन्त्याचिन्त्यस्त्वमेव हि ||२४||
यच्चैतत्परमं ब्रह्म यच्च तत्परमं पदम् |
या गतिः साङ्ख्ययोगानां स भवान्नात्र संशयः ||२५||
नूनमद्य कृतार्थाः स्म नूनं प्राप्ताः सतां गतिम् |
यां गतिं प्राप्नुवन्तीह ज्ञाननिर्मलबुद्धयः ||२६||
अहो मूढाः स्म सुचिरमिमं कालमचेतसः |
यन्न विद्मः परं देवं शाश्वतं यं विदुर्बुधाः ||२७||
सोऽयमासादितः साक्षाद्बहुभिर्जन्मभिर्मया |
भक्तानुग्रहकृद्देवो यं ज्ञात्वामृतमश्नुते ||२८||
देवासुरमनुष्याणां यच्च गुह्यं सनातनम् |
गुहायां निहितं ब्रह्म दुर्विज्ञेयं सुरैरपि ||२९||
स एष भगवान्देवः सर्वकृत्सर्वतोमुखः |
सर्वात्मा सर्वदर्शी च सर्वगः सर्ववेदिता ||३०||
प्राणकृत्प्राणभृत्प्राणी प्राणदः प्राणिनां गतिः |
देहकृद्देहभृद्देही देहभुग्देहिनां गतिः ||३१||
अध्यात्मगतिनिष्ठानां ध्यानिनामात्मवेदिनाम् |
अपुनर्मारकामानां या गतिः सोऽयमीश्वरः ||३२||
अयं च सर्वभूतानां शुभाशुभगतिप्रदः |
अयं च जन्ममरणे विदध्यात्सर्वजन्तुषु ||३३||
अयं च सिद्धिकामानामृषीणां सिद्धिदः प्रभुः |
अयं च मोक्षकामानां द्विजानां मोक्षदः प्रभुः ||३४||
भूराद्यान्सर्वभुवनानुत्पाद्य सदिवौकसः |
विभर्ति देवस्तनुभिरष्टाभिश्च ददाति च ||३५||
अतः प्रवर्तते सर्वमस्मिन्सर्वं प्रतिष्ठितम् |
अस्मिंश्च प्रलयं याति अयमेकः सनातनः ||३६||
अयं स सत्यकामानां सत्यलोकः परः सताम् |
अपवर्गश्च मुक्तानां कैवल्यं चात्मवादिनाम् ||३७||
अयं ब्रह्मादिभिः सिद्धैर्गुहायां गोपितः प्रभुः |
देवासुरमनुष्याणां न प्रकाशो भवेदिति ||३८||
तं त्वां देवासुरनरास्तत्त्वेन न विदुर्भवम् |
मोहिताः खल्वनेनैव हृच्छयेन प्रवेशिताः ||३९||
ये चैनं सम्प्रपद्यन्ते भक्तियोगेन भारत |
तेषामेवात्मनात्मानं दर्शयत्येष हृच्छयः ||४०||
यं ज्ञात्वा न पुनर्जन्म मरणं चापि विद्यते |
यं विदित्वा परं वेद्यं वेदितव्यं न विद्यते ||४१||
यं लब्ध्वा परमं लाभं मन्यते नाधिकं पुनः |
प्राणसूक्ष्मां परां प्राप्तिमागच्छत्यक्षयावहाम् ||४२||
यं साङ्ख्या गुणतत्त्वज्ञाः साङ्ख्यशास्त्रविशारदाः |
सूक्ष्मज्ञानरताः पूर्वं ज्ञात्वा मुच्यन्ति बन्धनैः ||४३||
यं च वेदविदो वेद्यं वेदान्तेषु प्रतिष्ठितम् |
प्राणायामपरा नित्यं यं विशन्ति जपन्ति च ||४४||
अयं स देवयानानामादित्यो द्वारमुच्यते |
अयं च पितृयानानां चन्द्रमा द्वारमुच्यते ||४५||
एष कालगतिश्चित्रा संवत्सरयुगादिषु |
भावाभावौ तदात्वे च अयने दक्षिणोत्तरे ||४६||
एवं प्रजापतिः पूर्वमाराध्य बहुभिः स्तवैः |
वरयामास पुत्रत्वे नीललोहितसञ्ज्ञितम् ||४७||
ऋग्भिर्यमनुशंसन्ति तन्त्रे कर्मणि बह्वृचः |
यजुर्भिर्यं त्रिधा वेद्यं जुह्वत्यध्वर्यवोऽध्वरे ||४८||
सामभिर्यं च गायन्ति सामगाः शुद्धबुद्धयः |
यज्ञस्य परमा योनिः पतिश्चायं परः स्मृतः ||४९||
रात्र्यहःश्रोत्रनयनः पक्षमासशिरोभुजः |
ऋतुवीर्यस्तपोधैर्यो ह्यब्दगुह्योरुपादवान् ||५०||
मृत्युर्यमो हुताशश्च कालः संहारवेगवान् |
कालस्य परमा योनिः कालश्चायं सनातनः ||५१||
चन्द्रादित्यौ सनक्षत्रौ सग्रहौ सह वायुना |
ध्रुवः सप्तर्षयश्चैव भुवनाः सप्त एव च ||५२||
प्रधानं महदव्यक्तं विशेषान्तं सवैकृतम् |
ब्रह्मादि स्तम्बपर्यन्तं भूतादि सदसच्च यत् ||५३||
अष्टौ प्रकृतयश्चैव प्रकृतिभ्यश्च यत्परम् |
अस्य देवस्य यद्भागं कृत्स्नं सम्परिवर्तते ||५४||
एतत्परममानन्दं यत्तच्छाश्वतमेव च |
एषा गतिर्विरक्तानामेष भावः परः सताम् ||५५||
एतत्पदमनुद्विग्नमेतद्ब्रह्म सनातनम् |
शास्त्रवेदाङ्गविदुषामेतद्ध्यानं परं पदम् ||५६||
इयं सा परमा काष्ठा इयं सा परमा कला |
इयं सा परमा सिद्धिरियं सा परमा गतिः ||५७||
इयं सा परमा शान्तिरियं सा निर्वृतिः परा |
यं प्राप्य कृतकृत्याः स्म इत्यमन्यन्त वेधसः ||५८||
इयं तुष्टिरियं सिद्धिरियं श्रुतिरियं स्मृतिः |
अध्यात्मगतिनिष्ठानां विदुषां प्राप्तिरव्यया ||५९||
यजतां यज्ञकामानां यज्ञैर्विपुलदक्षिणैः |
या गतिर्दैवतैर्दिव्या सा गतिस्त्वं सनातन ||६०||
जप्यहोमव्रतैः कृच्छ्रैर्नियमैर्देहपातनैः |
तप्यतां या गतिर्देव वैराजे सा गतिर्भवान् ||६१||
कर्मन्यासकृतानां च विरक्तानां ततस्ततः |
या गतिर्ब्रह्मभवने सा गतिस्त्वं सनातन ||६२||
अपुनर्मारकामानां वैराग्ये वर्ततां परे |
विकृतीनां लयानां च सा गतिस्त्वं सनातन ||६३||
ज्ञानविज्ञाननिष्ठानां निरुपाख्या निरञ्जना |
कैवल्या या गतिर्देव परमा सा गतिर्भवान् ||६४||
वेदशास्त्रपुराणोक्ताः पञ्चैता गतयः स्मृताः |
त्वत्प्रसादाद्धि लभ्यन्ते न लभ्यन्तेऽन्यथा विभो ||६५||
इति तण्डिस्तपोयोगात्तुष्टावेशानमव्ययम् |
जगौ च परमं ब्रह्म यत्पुरा लोककृज्जगौ ||६६||
ब्रह्मा शतक्रतुर्विष्णुर्विश्वेदेवा महर्षयः |
न विदुस्त्वामिति ततस्तुष्टः प्रोवाच तं शिवः ||६७||
अक्षयश्चाव्ययश्चैव भविता दुःखवर्जितः |
यशस्वी तेजसा युक्तो दिव्यज्ञानसमन्वितः ||६८||
ऋषीणामभिगम्यश्च सूत्रकर्ता सुतस्तव |
मत्प्रसादाद्द्विजश्रेष्ठ भविष्यति न संशयः ||६९||
कं वा कामं ददाम्यद्य ब्रूहि यद्वत्स काङ्क्षसे |
प्राञ्जलिः स उवाचेदं त्वयि भक्तिर्दृढास्तु मे ||७०||
एवं दत्त्वा वरं देवो वन्द्यमानः सुरर्षिभिः |
स्तूयमानश्च विबुधैस्तत्रैवान्तरधीयत ||७१||
अन्तर्हिते भगवति सानुगे यादवेश्वर |
ऋषिराश्रममागम्य ममैतत्प्रोक्तवानिह ||७२||
यानि च प्रथितान्यादौ तण्डिराख्यातवान्मम |
नामानि मानवश्रेष्ठ तानि त्वं शृणु सिद्धये ||७३||
दश नामसहस्राणि वेदेष्वाह पितामहः |
शर्वस्य शास्त्रेषु तथा दश नामशतानि वै ||७४||
गुह्यानीमानि नामानि तण्डिर्भगवतोऽच्युत |
देवप्रसादाद्देवेश पुरा प्राह महात्मने ||७५||
शिवसहस्रनाम
१७
वासुदेव उवाच||
ततः स प्रयतो भूत्वा मम तात युधिष्ठिर |
प्राञ्जलिः प्राह विप्रर्षिर्नामसंहारमादितः ||१||
उपमन्युरुवाच||
ब्रह्मप्रोक्तैरृषिप्रोक्तैर्वेदवेदाङ्गसम्भवैः |
सर्वलोकेषु विख्यातैः स्थाणुं स्तोष्यामि नामभिः ||२||
महद्भिर्विहितैः सत्यैः सिद्धैः सर्वार्थसाधकैः |
ऋषिणा तण्डिना भक्त्या कृतैर्देवकृतात्मना ||३||
यथोक्तैर्लोकविख्यातैर्मुनिभिस्तत्त्वदर्शिभिः |
प्रवरं प्रथमं स्वर्ग्यं सर्वभूतहितं शुभम् ||४||
श्रुतैः सर्वत्र जगति ब्रह्मलोकावतारितैः ||४||
यत्तद्रहस्यं परमं ब्रह्मप्रोक्तं सनातनम् |
वक्ष्ये यदुकुलश्रेष्ठ शृणुष्वावहितो मम ||५||
परत्वेन भवं देवं भक्तस्त्वं परमेश्वरम् |
तेन ते श्रावयिष्यामि यत्तद्ब्रह्म सनातनम् ||६||
न शक्यं विस्तरात्कृत्स्नं वक्तुं शर्वस्य केनचित् |
युक्तेनापि विभूतीनामपि वर्षशतैरपि ||७||
यस्यादिर्मध्यमन्तश्च सुरैरपि न गम्यते |
कस्तस्य शक्नुयाद्वक्तुं गुणान्कार्त्स्न्येन माधव ||८||
किं तु देवस्य महतः सङ्क्षिप्तार्थपदाक्षरम् |
शक्तितश्चरितं वक्ष्ये प्रसादात्तस्य चैव हि ||९||
अप्राप्येह ततोऽनुज्ञां न शक्यः स्तोतुमीश्वरः |
यदा तेनाभ्यनुज्ञातः स्तुवत्येव सदा भवम् ||१०||
अनादिनिधनस्याहं सर्वयोनेर्महात्मनः |
नाम्नां कञ्चित्समुद्देशं वक्ष्ये ह्यव्यक्तयोनिनः ||११||
वरदस्य वरेण्यस्य विश्वरूपस्य धीमतः |
शृणु नामसमुद्देशं यदुक्तं पद्मयोनिना ||१२||
दश नामसहस्राणि यान्याह प्रपितामहः |
तानि निर्मथ्य मनसा दध्नो घृतमिवोद्धृतम् ||१३||
गिरेः सारं यथा हेम पुष्पात्सारं यथा मधु |
घृतात्सारं यथा मण्डस्तथैतत्सारमुद्धृतम् ||१४||
सर्वपाप्मापहमिदं चतुर्वेदसमन्वितम् |
प्रयत्नेनाधिगन्तव्यं धार्यं च प्रयतात्मना ||१५||
शान्तिकं पौष्टिकं चैव रक्षोघ्नं पावनं महत् ||१५||
इदं भक्ताय दातव्यं श्रद्दधानास्तिकाय च |
नाश्रद्दधानरूपाय नास्तिकायाजितात्मने ||१६||
यश्चाभ्यसूयते देवं भूतात्मानं पिनाकिनम् |
स कृष्ण नरकं याति सह पूर्वैः सहानुगैः ||१७||
इदं ध्यानमिदं योगमिदं ध्येयमनुत्तमम् |
इदं जप्यमिदं ज्ञानं रहस्यमिदमुत्तमम् ||१८||
इदं ज्ञात्वान्तकालेऽपि गच्छेद्धि परमां गतिम् ||१८||
पवित्रं मङ्गलं पुण्यं कल्याणमिदमुत्तमम् |
निगदिष्ये महाबाहो स्तवानामुत्तमं स्तवम् ||१९||
इदं ब्रह्मा पुरा कृत्वा सर्वलोकपितामहः |
सर्वस्तवानां दिव्यानां राजत्वे समकल्पयत् ||२०||
तदाप्रभृति चैवायमीश्वरस्य महात्मनः |
स्तवराजेति विख्यातो जगत्यमरपूजितः ||२१||
ब्रह्मलोकादयं चैव स्तवराजोऽवतारितः ||२१||
यस्मात्तण्डिः पुरा प्राह तेन तण्डिकृतोऽभवत् |
स्वर्गाच्चैवात्र भूलोकं तण्डिना ह्यवतारितः ||२२||
सर्वमङ्गलमङ्गल्यं सर्वपापप्रणाशनम् |
निगदिष्ये महाबाहो स्तवानामुत्तमं स्तवम् ||२३||
ब्रह्मणामपि यद्ब्रह्म पराणामपि यत्परम् |
तेजसामपि यत्तेजस्तपसामपि यत्तपः ||२४||
शान्तीनामपि या शान्तिर्द्युतीनामपि या द्युतिः |
दान्तानामपि यो दान्तो धीमतामपि या च धीः ||२५||
देवानामपि यो देवो मुनीनामपि यो मुनिः |
यज्ञानामपि यो यज्ञः शिवानामपि यः शिवः ||२६||
रुद्राणामपि यो रुद्रः प्रभुः प्रभवतामपि |
योगिनामपि यो योगी कारणानां च कारणम् ||२७||
यतो लोकाः सम्भवन्ति न भवन्ति यतः पुनः |
सर्वभूतात्मभूतस्य हरस्यामिततेजसः ||२८||
अष्टोत्तरसहस्रं तु नाम्नां शर्वस्य मे शृणु |
यच्छ्रुत्वा मनुजश्रेष्ठ सर्वान्कामानवाप्स्यसि ||२९||
स्थिरः स्थाणुः प्रभुर्भानुः प्रवरो वरदो वरः |
सर्वात्मा सर्वविख्यातः सर्वः सर्वकरो भवः ||३०||
जटी चर्मी शिखण्डी च सर्वाङ्गः सर्वभावनः |
हरिश्च हरिणाक्षश्च सर्वभूतहरः प्रभुः ||३१||
प्रवृत्तिश्च निवृत्तिश्च नियतः शाश्वतो ध्रुवः |
श्मशानचारी भगवान्खचरो गोचरोऽर्दनः ||३२||
अभिवाद्यो महाकर्मा तपस्वी भूतभावनः |
उन्मत्तवेशप्रच्छन्नः सर्वलोकप्रजापतिः ||३३||
महारूपो महाकायः सर्वरूपो महायशाः |
महात्मा सर्वभूतश्च विरूपो वामनो मनुः ||३४||
लोकपालोऽन्तर्हितात्मा प्रसादो हयगर्दभिः |
पवित्रश्च महांश्चैव नियमो नियमाश्रयः ||३५||
सर्वकर्मा स्वयम्भूश्च आदिरादिकरो निधिः |
सहस्राक्षो विरूपाक्षः सोमो नक्षत्रसाधकः ||३६||
चन्द्रसूर्यगतिः केतुर्ग्रहो ग्रहपतिर्वरः |
अद्रिरद्र्यालयः कर्ता मृगबाणार्पणोऽनघः ||३७||
महातपा घोरतपा अदीनो दीनसाधकः |
संवत्सरकरो मन्त्रः प्रमाणं परमं तपः ||३८||
योगी योज्यो महाबीजो महारेता महातपाः |
सुवर्णरेताः सर्वज्ञः सुबीजो वृषवाहनः ||३९||
दशबाहुस्त्वनिमिषो नीलकण्ठ उमापतिः |
विश्वरूपः स्वयंश्रेष्ठो बलवीरो बलो गणः ||४०||
गणकर्ता गणपतिर्दिग्वासाः काम्य एव च |
पवित्रं परमं मन्त्रः सर्वभावकरो हरः ||४१||
कमण्डलुधरो धन्वी बाणहस्तः कपालवान् |
अशनी शतघ्नी खड्गी पट्टिशी चायुधी महान् ||४२||
स्रुवहस्तः सुरूपश्च तेजस्तेजस्करो निधिः |
उष्णीषी च सुवक्त्रश्च उदग्रो विनतस्तथा ||४३||
दीर्घश्च हरिकेशश्च सुतीर्थः कृष्ण एव च |
सृगालरूपः सर्वार्थो मुण्डः कुण्डी कमण्डलुः ||४४||
अजश्च मृगरूपश्च गन्धधारी कपर्द्यपि |
ऊर्ध्वरेता ऊर्ध्वलिङ्ग ऊर्ध्वशायी नभस्तलः ||४५||
त्रिजटश्चीरवासाश्च रुद्रः सेनापतिर्विभुः |
अहश्चरोऽथ नक्तं च तिग्ममन्युः सुवर्चसः ||४६||
गजहा दैत्यहा लोको लोकधाता गुणाकरः |
सिंहशार्दूलरूपश्च आर्द्रचर्माम्बरावृतः ||४७||
कालयोगी महानादः सर्ववासश्चतुष्पथः |
निशाचरः प्रेतचारी भूतचारी महेश्वरः ||४८||
बहुभूतो बहुधनः सर्वाधारोऽमितो गतिः |
नृत्यप्रियो नित्यनर्तो नर्तकः सर्वलासकः ||४९||
घोरो महातपाः पाशो नित्यो गिरिचरो नभः |
सहस्रहस्तो विजयो व्यवसायो ह्यनिन्दितः ||५०||
अमर्षणो मर्षणात्मा यज्ञहा कामनाशनः |
दक्षयज्ञापहारी च सुसहो मध्यमस्तथा ||५१||
तेजोपहारी बलहा मुदितोऽर्थो जितो वरः |
गम्भीरघोषो गम्भीरो गम्भीरबलवाहनः ||५२||
न्यग्रोधरूपो न्यग्रोधो वृक्षकर्णस्थितिर्विभुः |
तीक्ष्णतापश्च हर्यश्वः सहायः कर्मकालवित् ||५३||
विष्णुप्रसादितो यज्ञः समुद्रो वडवामुखः |
हुताशनसहायश्च प्रशान्तात्मा हुताशनः ||५४||
उग्रतेजा महातेजा जयो विजयकालवित् |
ज्योतिषामयनं सिद्धिः सन्धिर्विग्रह एव च ||५५||
शिखी दण्डी जटी ज्वाली मूर्तिजो मूर्धगो बली |
वैणवी पणवी ताली कालः कालकटङ्कटः ||५६||
नक्षत्रविग्रहविधिर्गुणवृद्धिर्लयोऽगमः |
प्रजापतिर्दिशाबाहुर्विभागः सर्वतोमुखः ||५७||
विमोचनः सुरगणो हिरण्यकवचोद्भवः |
मेढ्रजो बलचारी च महाचारी स्तुतस्तथा ||५८||
सर्वतूर्यनिनादी च सर्ववाद्यपरिग्रहः |
व्यालरूपो बिलावासी हेममाली तरङ्गवित् ||५९||
त्रिदशस्त्रिकालधृक्कर्मसर्वबन्धविमोचनः |
बन्धनस्त्वसुरेन्द्राणां युधि शत्रुविनाशनः ||६०||
साङ्ख्यप्रसादो दुर्वासाः सर्वसाधुनिषेवितः |
प्रस्कन्दनो विभागश्च अतुल्यो यज्ञभागवित् ||६१||
सर्वावासः सर्वचारी दुर्वासा वासवोऽमरः |
हेमो हेमकरो यज्ञः सर्वधारी धरोत्तमः ||६२||
लोहिताक्षो महाक्षश्च विजयाक्षो विशारदः |
सङ्ग्रहो निग्रहः कर्ता सर्पचीरनिवासनः ||६३||
मुख्योऽमुख्यश्च देहश्च देहर्द्धिः सर्वकामदः |
सर्वकालप्रसादश्च सुबलो बलरूपधृक् ||६४||
आकाशनिधिरूपश्च निपाती उरगः खगः |
रौद्ररूपोंऽशुरादित्यो वसुरश्मिः सुवर्चसी ||६५||
वसुवेगो महावेगो मनोवेगो निशाचरः |
सर्वावासी श्रियावासी उपदेशकरो हरः ||६६||
मुनिरात्मपतिर्लोके सम्भोज्यश्च सहस्रदः |
पक्षी च पक्षिरूपी च अतिदीप्तो विशां पतिः ||६७||
उन्मादो मदनाकारो अर्थार्थकररोमशः |
वामदेवश्च वामश्च प्राग्दक्षिण्यश्च वामनः ||६८||
सिद्धयोगापहारी च सिद्धः सर्वार्थसाधकः |
भिक्षुश्च भिक्षुरूपश्च विषाणी मृदुरव्ययः ||६९||
महासेनो विशाखश्च षष्टिभागो गवां पतिः |
वज्रहस्तश्च विष्कम्भी चमूस्तम्भन एव च ||७०||
ऋतुरृतुकरः कालो मधुर्मधुकरोऽचलः |
वानस्पत्यो वाजसेनो नित्यमाश्रमपूजितः ||७१||
ब्रह्मचारी लोकचारी सर्वचारी सुचारवित् |
ईशान ईश्वरः कालो निशाचारी पिनाकधृक् ||७२||
नन्दीश्वरश्च नन्दी च नन्दनो नन्दिवर्धनः |
भगस्याक्षिनिहन्ता च कालो ब्रह्मविदां वरः ||७३||
चतुर्मुखो महालिङ्गश्चारुलिङ्गस्तथैव च |
लिङ्गाध्यक्षः सुराध्यक्षो लोकाध्यक्षो युगावहः ||७४||
बीजाध्यक्षो बीजकर्ता अध्यात्मानुगतो बलः |
इतिहासकरः कल्पो गौतमोऽथ जलेश्वरः ||७५||
दम्भो ह्यदम्भो वैदम्भो वश्यो वश्यकरः कविः |
लोककर्ता पशुपतिर्महाकर्ता महौषधिः ||७६||
अक्षरं परमं ब्रह्म बलवाञ्शक्र एव च |
नीतिर्ह्यनीतिः शुद्धात्मा शुद्धो मान्यो मनोगतिः ||७७||
बहुप्रसादः स्वपनो दर्पणोऽथ त्वमित्रजित् |
वेदकारः सूत्रकारो विद्वान्समरमर्दनः ||७८||
महामेघनिवासी च महाघोरो वशीकरः |
अग्निज्वालो महाज्वालो अतिधूम्रो हुतो हविः ||७९||
वृषणः शङ्करो नित्यो वर्चस्वी धूमकेतनः |
नीलस्तथाङ्गलुब्धश्च शोभनो निरवग्रहः ||८०||
स्वस्तिदः स्वस्तिभावश्च भागी भागकरो लघुः |
उत्सङ्गश्च महाङ्गश्च महागर्भः परो युवा ||८१||
कृष्णवर्णः सुवर्णश्च इन्द्रियः सर्वदेहिनाम् |
महापादो महाहस्तो महाकायो महायशाः ||८२||
महामूर्धा महामात्रो महानेत्रो दिगालयः |
महादन्तो महाकर्णो महामेढ्रो महाहनुः ||८३||
महानासो महाकम्बुर्महाग्रीवः श्मशानधृक् |
महावक्षा महोरस्को अन्तरात्मा मृगालयः ||८४||
लम्बनो लम्बितोष्ठश्च महामायः पयोनिधिः |
महादन्तो महादंष्ट्रो महाजिह्वो महामुखः ||८५||
महानखो महारोमा महाकेशो महाजटः |
असपत्नः प्रसादश्च प्रत्ययो गिरिसाधनः ||८६||
स्नेहनोऽस्नेहनश्चैव अजितश्च महामुनिः |
वृक्षाकारो वृक्षकेतुरनलो वायुवाहनः ||८७||
मण्डली मेरुधामा च देवदानवदर्पहा |
अथर्वशीर्षः सामास्य ऋक्सहस्रामितेक्षणः ||८८||
यजुःपादभुजो गुह्यः प्रकाशो जङ्गमस्तथा |
अमोघार्थः प्रसादश्च अभिगम्यः सुदर्शनः ||८९||
उपहारप्रियः शर्वः कनकः काञ्चनः स्थिरः |
नाभिर्नन्दिकरो भाव्यः पुष्करस्थपतिः स्थिरः ||९०||
द्वादशस्त्रासनश्चाद्यो यज्ञो यज्ञसमाहितः |
नक्तं कलिश्च कालश्च मकरः कालपूजितः ||९१||
सगणो गणकारश्च भूतभावनसारथिः |
भस्मशायी भस्मगोप्ता भस्मभूतस्तरुर्गणः ||९२||
अगणश्चैव लोपश्च महात्मा सर्वपूजितः |
शङ्कुस्त्रिशङ्कुः सम्पन्नः शुचिर्भूतनिषेवितः ||९३||
आश्रमस्थः कपोतस्थो विश्वकर्मा पतिर्वरः |
शाखो विशाखस्ताम्रोष्ठो ह्यम्बुजालः सुनिश्चयः ||९४||
कपिलोऽकपिलः शूर आयुश्चैव परोऽपरः |
गन्धर्वो ह्यदितिस्तार्क्ष्यः सुविज्ञेयः सुसारथिः ||९५||
परश्वधायुधो देव अर्थकारी सुबान्धवः |
तुम्बवीणी महाकोप ऊर्ध्वरेता जलेशयः ||९६||
उग्रो वंशकरो वंशो वंशनादो ह्यनिन्दितः |
सर्वाङ्गरूपो मायावी सुहृदो ह्यनिलोऽनलः ||९७||
बन्धनो बन्धकर्ता च सुबन्धनविमोचनः |
स यज्ञारिः स कामारिर्महादंष्ट्रो महायुधः ||९८||
बाहुस्त्वनिन्दितः शर्वः शङ्करः शङ्करोऽधनः |
अमरेशो महादेवो विश्वदेवः सुरारिहा ||९९||
अहिर्बुध्नो निरृतिश्च चेकितानो हरिस्तथा |
अजैकपाच्च कापाली त्रिशङ्कुरजितः शिवः ||१००||
धन्वन्तरिर्धूमकेतुः स्कन्दो वैश्रवणस्तथा |
धाता शक्रश्च विष्णुश्च मित्रस्त्वष्टा ध्रुवो धरः ||१०१||
प्रभावः सर्वगो वायुरर्यमा सविता रविः |
उदग्रश्च विधाता च मान्धाता भूतभावनः ||१०२||
रतितीर्थश्च वाग्मी च सर्वकामगुणावहः |
पद्मगर्भो महागर्भश्चन्द्रवक्त्रो मनोरमः ||१०३||
बलवांश्चोपशान्तश्च पुराणः पुण्यचञ्चुरी |
कुरुकर्ता कालरूपी कुरुभूतो महेश्वरः ||१०४||
सर्वाशयो दर्भशायी सर्वेषां प्राणिनां पतिः |
देवदेवमुखोऽसक्तः सदसत्सर्वरत्नवित् ||१०५||
कैलासशिखरावासी हिमवद्गिरिसंश्रयः |
कूलहारी कूलकर्ता बहुविद्यो बहुप्रदः ||१०६||
वणिजो वर्धनो वृक्षो नकुलश्चन्दनश्छदः |
सारग्रीवो महाजत्रुरलोलश्च महौषधः ||१०७||
सिद्धार्थकारी सिद्धार्थश्छन्दोव्याकरणोत्तरः |
सिंहनादः सिंहदंष्ट्रः सिंहगः सिंहवाहनः ||१०८||
प्रभावात्मा जगत्कालस्तालो लोकहितस्तरुः |
सारङ्गो नवचक्राङ्गः केतुमाली सभावनः ||१०९||
भूतालयो भूतपतिरहोरात्रमनिन्दितः |
वाहिता सर्वभूतानां निलयश्च विभुर्भवः ||११०||
अमोघः संयतो ह्यश्वो भोजनः प्राणधारणः |
धृतिमान्मतिमान्दक्षः सत्कृतश्च युगाधिपः ||१११||
गोपालिर्गोपतिर्ग्रामो गोचर्मवसनो हरः |
हिरण्यबाहुश्च तथा गुहापालः प्रवेशिनाम् ||११२||
प्रतिष्ठायी महाहर्षो जितकामो जितेन्द्रियः |
गन्धारश्च सुरालश्च तपःकर्मरतिर्धनुः ||११३||
महागीतो महानृत्तो ह्यप्सरोगणसेवितः |
महाकेतुर्धनुर्धातुर्नैकसानुचरश्चलः ||११४||
आवेदनीय आवेशः सर्वगन्धसुखावहः |
तोरणस्तारणो वायुः परिधावति चैकतः ||११५||
संयोगो वर्धनो वृद्धो महावृद्धो गणाधिपः |
नित्य आत्मसहायश्च देवासुरपतिः पतिः ||११६||
युक्तश्च युक्तबाहुश्च द्विविधश्च सुपर्वणः |
आषाढश्च सुषाढश्च ध्रुवो हरिहणो हरः ||११७||
वपुरावर्तमानेभ्यो वसुश्रेष्ठो महापथः |
शिरोहारी विमर्षश्च सर्वलक्षणभूषितः ||११८||
अक्षश्च रथयोगी च सर्वयोगी महाबलः |
समाम्नायोऽसमाम्नायस्तीर्थदेवो महारथः ||११९||
निर्जीवो जीवनो मन्त्रः शुभाक्षो बहुकर्कशः |
रत्नप्रभूतो रक्ताङ्गो महार्णवनिपानवित् ||१२०||
मूलो विशालो ह्यमृतो व्यक्ताव्यक्तस्तपोनिधिः |
आरोहणो निरोहश्च शैलहारी महातपाः ||१२१||
सेनाकल्पो महाकल्पो युगायुगकरो हरिः |
युगरूपो महारूपः पवनो गहनो नगः ||१२२||
न्यायनिर्वापणः पादः पण्डितो ह्यचलोपमः |
बहुमालो महामालः सुमालो बहुलोचनः ||१२३||
विस्तारो लवणः कूपः कुसुमः सफलोदयः |
वृषभो वृषभाङ्काङ्गो मणिबिल्वो जटाधरः ||१२४||
इन्दुर्विसर्गः सुमुखः सुरः सर्वायुधः सहः |
निवेदनः सुधाजातः सुगन्धारो महाधनुः ||१२५||
गन्धमाली च भगवानुत्थानः सर्वकर्मणाम् |
मन्थानो बहुलो बाहुः सकलः सर्वलोचनः ||१२६||
तरस्ताली करस्ताली ऊर्ध्वसंहननो वहः |
छत्रं सुच्छत्रो विख्यातः सर्वलोकाश्रयो महान् ||१२७||
मुण्डो विरूपो विकृतो दण्डिमुण्डो विकुर्वणः |
हर्यक्षः ककुभो वज्री दीप्तजिह्वः सहस्रपात् ||१२८||
सहस्रमूर्धा देवेन्द्रः सर्वदेवमयो गुरुः |
सहस्रबाहुः सर्वाङ्गः शरण्यः सर्वलोककृत् ||१२९||
पवित्रं त्रिमधुर्मन्त्रः कनिष्ठः कृष्णपिङ्गलः |
ब्रह्मदण्डविनिर्माता शतघ्नी शतपाशधृक् ||१३०||
पद्मगर्भो महागर्भो ब्रह्मगर्भो जलोद्भवः |
गभस्तिर्ब्रह्मकृद्ब्रह्मा ब्रह्मविद्ब्राह्मणो गतिः ||१३१||
अनन्तरूपो नैकात्मा तिग्मतेजाः स्वयम्भुवः |
ऊर्ध्वगात्मा पशुपतिर्वातरंहा मनोजवः ||१३२||
चन्दनी पद्ममालाग्र्यः सुरभ्युत्तरणो नरः |
कर्णिकारमहास्रग्वी नीलमौलिः पिनाकधृक् ||१३३||
उमापतिरुमाकान्तो जाह्नवीधृगुमाधवः |
वरो वराहो वरदो वरेशः सुमहास्वनः ||१३४||
महाप्रसादो दमनः शत्रुहा श्वेतपिङ्गलः |
प्रीतात्मा प्रयतात्मा च संयतात्मा प्रधानधृक् ||१३५||
सर्वपार्श्वसुतस्तार्क्ष्यो धर्मसाधारणो वरः |
चराचरात्मा सूक्ष्मात्मा सुवृषो गोवृषेश्वरः ||१३६||
साध्यर्षिर्वसुरादित्यो विवस्वान्सविता मृडः |
व्यासः सर्वस्य सङ्क्षेपो विस्तरः पर्ययो नयः ||१३७||
ऋतुः संवत्सरो मासः पक्षः सङ्ख्यासमापनः |
कला काष्ठा लवो मात्रा मुहूर्तोऽहः क्षपाः क्षणाः ||१३८||
विश्वक्षेत्रं प्रजाबीजं लिङ्गमाद्यस्त्वनिन्दितः |
सदसद्व्यक्तमव्यक्तं पिता माता पितामहः ||१३९||
स्वर्गद्वारं प्रजाद्वारं मोक्षद्वारं त्रिविष्टपम् |
निर्वाणं ह्लादनं चैव ब्रह्मलोकः परा गतिः ||१४०||
देवासुरविनिर्माता देवासुरपरायणः |
देवासुरगुरुर्देवो देवासुरनमस्कृतः ||१४१||
देवासुरमहामात्रो देवासुरगणाश्रयः |
देवासुरगणाध्यक्षो देवासुरगणाग्रणीः ||१४२||
देवातिदेवो देवर्षिर्देवासुरवरप्रदः |
देवासुरेश्वरो देवो देवासुरमहेश्वरः ||१४३||
सर्वदेवमयोऽचिन्त्यो देवतात्मात्मसम्भवः |
उद्भिदस्त्रिक्रमो वैद्यो विरजो विरजोम्बरः ||१४४||
ईड्यो हस्ती सुरव्याघ्रो देवसिंहो नरर्षभः |
विबुधाग्रवरः श्रेष्ठः सर्वदेवोत्तमोत्तमः ||१४५||
प्रयुक्तः शोभनो वज्र ईशानः प्रभुरव्ययः |
गुरुः कान्तो निजः सर्गः पवित्रः सर्ववाहनः ||१४६||
शृङ्गी शृङ्गप्रियो बभ्रू राजराजो निरामयः |
अभिरामः सुरगणो विरामः सर्वसाधनः ||१४७||
ललाटाक्षो विश्वदेहो हरिणो ब्रह्मवर्चसः |
स्थावराणां पतिश्चैव नियमेन्द्रियवर्धनः ||१४८||
सिद्धार्थः सर्वभूतार्थोऽचिन्त्यः सत्यव्रतः शुचिः |
व्रताधिपः परं ब्रह्म मुक्तानां परमा गतिः ||१४९||
विमुक्तो मुक्ततेजाश्च श्रीमाञ्श्रीवर्धनो जगत् |
यथाप्रधानं भगवानिति भक्त्या स्तुतो मया ||१५०||
यं न ब्रह्मादयो देवा विदुर्यं न महर्षयः |
तं स्तव्यमर्च्यं वन्द्यं च कः स्तोष्यति जगत्पतिम् ||१५१||
भक्तिमेव पुरस्कृत्य मया यज्ञपतिर्वसुः |
ततोऽभ्यनुज्ञां प्राप्यैव स्तुतो मतिमतां वरः ||१५२||
शिवमेभिः स्तुवन्देवं नामभिः पुष्टिवर्धनैः |
नित्ययुक्तः शुचिर्भूत्वा प्राप्नोत्यात्मानमात्मना ||१५३||
एतद्धि परमं ब्रह्म स्वयं गीतं स्वयम्भुवा |
ऋषयश्चैव देवाश्च स्तुवन्त्येतेन तत्परम् ||१५४||
स्तूयमानो महादेवः प्रीयते चात्मनामभिः |
भक्तानुकम्पी भगवानात्मसंस्थान्करोति तान् ||१५५||
तथैव च मनुष्येषु ये मनुष्याः प्रधानतः |
आस्तिकाः श्रद्दधानाश्च बहुभिर्जन्मभिः स्तवैः ||१५६||
जाग्रतश्च स्वपन्तश्च व्रजन्तः पथि संस्थिताः |
स्तुवन्ति स्तूयमानाश्च तुष्यन्ति च रमन्ति च ||१५७||
जन्मकोटिसहस्रेषु नानासंसारयोनिषु ||१५७||
जन्तोर्विशुद्धपापस्य भवे भक्तिः प्रजायते |
उत्पन्ना च भवे भक्तिरनन्या सर्वभावतः ||१५८||
कारणं भावितं तस्य सर्वमुक्तस्य सर्वतः |
एतद्देवेषु दुष्प्रापं मनुष्येषु न लभ्यते ||१५९||
निर्विघ्ना निश्चला रुद्रे भक्तिरव्यभिचारिणी |
तस्यैव च प्रसादेन भक्तिरुत्पद्यते नृणाम् ||१६०||
यया यान्ति परां सिद्धिं तद्भावगतचेतसः ||१६०||
ये सर्वभावोपगताः परत्वेनाभवन्नराः |
प्रपन्नवत्सलो देवः संसारात्तान्समुद्धरेत् ||१६१||
एवमन्ये न कुर्वन्ति देवाः संसारमोचनम् |
मनुष्याणां महादेवादन्यत्रापि तपोबलात् ||१६२||
इति तेनेन्द्रकल्पेन भगवान्सदसत्पतिः |
कृत्तिवासाः स्तुतः कृष्ण तण्डिना शुद्धबुद्धिना ||१६३||
स्तवमेतं भगवतो ब्रह्मा स्वयमधारयत् |
ब्रह्मा प्रोवाच शक्राय शक्रः प्रोवाच मृत्यवे ||१६४||
मृत्युः प्रोवाच रुद्राणां रुद्रेभ्यस्तण्डिमागमत् |
महता तपसा प्राप्तस्तण्डिना ब्रह्मसद्मनि ||१६५||
तण्डिः प्रोवाच शुक्राय गौतमायाह भार्गवः |
वैवस्वताय मनवे गौतमः प्राह माधव ||१६६||
नारायणाय साध्याय मनुरिष्टाय धीमते |
यमाय प्राह भगवान्साध्यो नारायणोऽच्युतः ||१६७||
नाचिकेताय भगवानाह वैवस्वतो यमः |
मार्कण्डेयाय वार्ष्णेय नाचिकेतोऽभ्यभाषत ||१६८||
मार्कण्डेयान्मया प्राप्तं नियमेन जनार्दन |
तवाप्यहममित्रघ्न स्तवं दद्म्यद्य विश्रुतम् ||१६९||
स्वर्ग्यमारोग्यमायुष्यं धन्यं बल्यं तथैव च ||१६९||
न तस्य विघ्नं कुर्वन्ति दानवा यक्षराक्षसाः |
पिशाचा यातुधानाश्च गुह्यका भुजगा अपि ||१७०||
यः पठेत शुचिर्भूत्वा ब्रह्मचारी जितेन्द्रियः |
अभग्नयोगो वर्षं तु सोऽश्वमेधफलं लभेत् ||१७१||
शिवस्तुतिमाहात्म्यम्
१८
वैशम्पायन उवाच||
महायोगी ततः प्राह कृष्णद्वैपायनो मुनिः |
पठस्व पुत्र भद्रं ते प्रीयतां ते महेश्वरः ||१||
पुरा पुत्र मया मेरौ तप्यता परमं तपः |
पुत्रहेतोर्महाराज स्तव एषोऽनुकीर्तितः ||२||
लब्धवानस्मि तान्कामानहं वै पाण्डुनन्दन |
तथा त्वमपि शर्वाद्धि सर्वान्कामानवाप्स्यसि ||३||
चतुःशीर्षस्ततः प्राह शक्रस्य दयितः सखा |
आलम्बायन इत्येव विश्रुतः करुणात्मकः ||४||
मया गोकर्णमासाद्य तपस्तप्त्वा शतं समाः |
अयोनिजानां दान्तानां धर्मज्ञानां सुवर्चसाम् ||५||
अजराणामदुःखानां शतवर्षसहस्रिणाम् |
लब्धं पुत्रशतं शर्वात्पुरा पाण्डुनृपात्मज ||६||
वाल्मीकिश्चापि भगवान्युधिष्ठिरमभाषत |
विवादे साम्नि मुनिभिर्ब्रह्मघ्नो वै भवानिति ||७||
उक्तः क्षणेन चाविष्टस्तेनाधर्मेण भारत ||७||
सोऽहमीशानमनघमस्तौषं शरणं गतः |
मुक्तश्चास्म्यवशः पापात्ततो दुःखविनाशनः ||८||
आह मां त्रिपुरघ्नो वै यशस्तेऽग्र्यं भविष्यति ||८||
जामदग्न्यश्च कौन्तेयमाह धर्मभृतां वरः |
ऋषिमध्ये स्थितस्तात तपन्निव विभावसुः ||९||
पितृविप्रवधेनाहमार्तो वै पाण्डवाग्रज |
शुचिर्भूत्वा महादेवं गतवाञ्शरणं नृप ||१०||
नामभिश्चास्तुवं देवं ततस्तुष्टोऽभवद्भवः |
परशुं च ददौ देवो दिव्यान्यस्त्राणि चैव मे ||११||
पापं न भविता तेऽद्य अजेयश्च भविष्यसि |
न ते प्रभविता मृत्युर्यशस्वी च भविष्यसि ||१२||
आह मां भगवानेवं शिखण्डी शिवविग्रहः |
यदवाप्तं च मे सर्वं प्रसादात्तस्य धीमतः ||१३||
असितो देवलश्चैव प्राह पाण्डुसुतं नृपम् |
शापाच्छक्रस्य कौन्तेय चितो धर्मोऽनशन्मम ||१४||
तन्मे धर्मं यशश्चाग्र्यमायुश्चैवाददद्भवः ||१४||
ऋषिर्गृत्समदो नाम शक्रस्य दयितः सखा |
प्राहाजमीढं भगवान्बृहस्पतिसमद्युतिः ||१५||
वसिष्ठो नाम भगवांश्चाक्षुषस्य मनोः सुतः |
शतक्रतोरचिन्त्यस्य सत्रे वर्षसहस्रिके ||१६||
वर्तमानेऽब्रवीद्वाक्यं साम्नि ह्युच्चारिते मया ||१६||
रथन्तरं द्विजश्रेष्ठ न सम्यगिति वर्तते |
समीक्षस्व पुनर्बुद्ध्या हर्षं त्यक्त्वा द्विजोत्तम ||१७||
अयज्ञवाहिनं पापमकार्षीस्त्वं सुदुर्मते ||१७||
एवमुक्त्वा महाक्रोधात्प्राह रुष्टः पुनर्वचः |
प्रज्ञया रहितो दुःखी नित्यं भीतो वनेचरः ||१८||
दश वर्षसहस्राणि दशाष्टौ च शतानि च ||१८||
नष्टपानीययवसे मृगैरन्यैश्च वर्जिते |
अयज्ञीयद्रुमे देशे रुरुसिंहनिषेविते ||१९||
भविता त्वं मृगः क्रूरो महादुःखसमन्वितः ||१९||
तस्य वाक्यस्य निधने पार्थ जातो ह्यहं मृगः |
ततो मां शरणं प्राप्तं प्राह योगी महेश्वरः ||२०||
अजरश्चामरश्चैव भविता दुःखवर्जितः |
साम्यं समस्तु ते सौख्यं युवयोर्वर्धतां क्रतुः ||२१||
अनुग्रहानेवमेष करोति भगवान्विभुः |
परं धाता विधाता च सुखदुःखे च सर्वदा ||२२||
अचिन्त्य एष भगवान्कर्मणा मनसा गिरा |
न मे तात युधिश्रेष्ठ विद्यया पण्डितः समः ||२३||
जैगीषव्य उवाच||
ममाष्टगुणमैश्वर्यं दत्तं भगवता पुरा |
यत्नेनाल्पेन बलिना वाराणस्यां युधिष्ठिर ||२४||
गार्ग्य उवाच||
चतुःषष्ट्यङ्गमददात्कालज्ञानं ममाद्भुतम् |
सरस्वत्यास्तटे तुष्टो मनोयज्ञेन पाण्डव ||२५||
तुल्यं मम सहस्रं तु सुतानां ब्रह्मवादिनाम् |
आयुश्चैव सपुत्रस्य संवत्सरशतायुतम् ||२६||
पराशर उवाच||
प्रसाद्याहं पुरा शर्वं मनसाचिन्तयं नृप |
महातपा महातेजा महायोगी महायशाः ||२७||
वेदव्यासः श्रियावासो ब्रह्मण्यः करुणात्मकः ||२७||
अपि नामेप्सितः पुत्रो मम स्याद्वै महेश्वरात् |
इति मत्वा हृदि मतं प्राह मां सुरसत्तमः ||२८||
मयि सम्भवतस्तस्य फलात्कृष्णो भविष्यति |
सावर्णस्य मनोः सर्गे सप्तर्षिश्च भविष्यति ||२९||
वेदानां च स वै व्यस्ता कुरुवंशकरस्तथा |
इतिहासस्य कर्ता च पुत्रस्ते जगतो हितः ||३०||
भविष्यति महेन्द्रस्य दयितः स महामुनिः |
अजरश्चामरश्चैव पराशर सुतस्तव ||३१||
एवमुक्त्वा स भगवांस्तत्रैवान्तरधीयत |
युधिष्ठिर महायोगी वीर्यवानक्षयोऽव्ययः ||३२||
माण्डव्य उवाच||
अचौरश्चौरशङ्कायां शूले भिन्नो ह्यहं यदा |
तत्रस्थेन स्तुतो देवः प्राह मां वै महेश्वरः ||३३||
मोक्षं प्राप्स्यसि शूलाच्च जीविष्यसि समार्बुदम् |
रुजा शूलकृता चैव न ते विप्र भविष्यति ||३४||
आधिभिर्व्याधिभिश्चैव वर्जितस्त्वं भविष्यसि ||३४||
पादाच्चतुर्थात्सम्भूत आत्मा यस्मान्मुने तव |
त्वं भविष्यस्यनुपमो जन्म वै सफलं कुरु ||३५||
तीर्थाभिषेकं सफलं त्वमविघ्नेन चाप्स्यसि |
स्वर्गं चैवाक्षयं विप्र विदधामि तवोर्जितम् ||३६||
एवमुक्त्वा तु भगवान्वरेण्यो वृषवाहनः |
महेश्वरो महाराज कृत्तिवासा महाद्युतिः ||३७||
सगणो दैवतश्रेष्ठस्तत्रैवान्तरधीयत ||३७||
गालव उवाच||
विश्वामित्राभ्यनुज्ञातो ह्यहं पितरमागतः |
अब्रवीन्मां ततो माता दुःखिता रुदती भृशम् ||३८||
कौशिकेनाभ्यनुज्ञातं पुत्रं वेदविभूषितम् |
न तात तरुणं दान्तं पिता त्वां पश्यतेऽनघ ||३९||
श्रुत्वा जनन्या वचनं निराशो गुरुदर्शने |
नियतात्मा महादेवमपश्यं सोऽब्रवीच्च माम् ||४०||
पिता माता च ते त्वं च पुत्र मृत्युविवर्जिताः |
भविष्यथ विश क्षिप्रं द्रष्टासि पितरं क्षये ||४१||
अनुज्ञातो भगवता गृहं गत्वा युधिष्ठिर |
अपश्यं पितरं तात इष्टिं कृत्वा विनिःसृतम् ||४२||
उपस्पृश्य गृहीत्वेध्मं कुशांश्च शरणाद्गुरून् |
तान्विसृज्य च मां प्राह पिता सास्राविलेक्षणः ||४३||
प्रणमन्तं परिष्वज्य मूर्ध्नि चाघ्राय पाण्डव |
दिष्ट्या दृष्टोऽसि मे पुत्र कृतविद्य इहागतः ||४४||
वैशम्पायन उवाच||
एतान्यत्यद्भुतान्येव कर्माण्यथ महात्मनः |
प्रोक्तानि मुनिभिः श्रुत्वा विस्मयामास पाण्डवः ||४५||
ततः कृष्णोऽब्रवीद्वाक्यं पुनर्मतिमतां वरः |
युधिष्ठिरं धर्मनित्यं पुरुहूतमिवेश्वरः ||४६||
आदित्यचन्द्रावनिलानलौ च; द्यौर्भूमिरापो वसवोऽथ विश्वे |
धातार्यमा शुक्रबृहस्पती च; रुद्राः ससाध्या वरुणो वित्तगोपः ||४७||
ब्रह्मा शक्रो मारुतो ब्रह्म सत्यं; वेदा यज्ञा दक्षिणा वेदवाहाः |
सोमो यष्टा यच्च हव्यं हविश्च; रक्षा दीक्षा नियमा ये च केचित् ||४८||
स्वाहा वषड्ब्राह्मणाः सौरभेया; धर्मं चक्रं कालचक्रं चरं च |
यशो दमो बुद्धिमती स्थितिश्च; शुभाशुभं मुनयश्चैव सप्त ||४९||
अग्र्या बुद्धिर्मनसा दर्शने च; स्पर्शे सिद्धिः कर्मणां या च सिद्धिः |
गणा देवानामूष्मपाः सोमपाश्च; लेखाः सुयामास्तुषिता ब्रह्मकायाः ||५०||
आभास्वरा गन्धपा दृष्टिपाश्च; वाचा विरुद्धाश्च मनोविरुद्धाः |
शुद्धाश्च निर्वाणरताश्च देवाः; स्पर्शाशना दर्शपा आज्यपाश्च ||५१||
चिन्तागता ये च देवेषु मुख्या; ये चाप्यन्ये देवताश्चाजमीढ |
सुपर्णगन्धर्वपिशाचदानवा; यक्षास्तथा पन्नगाश्चारणाश्च ||५२||
सूक्ष्मं स्थूलं मृदु यच्चाप्यसूक्ष्मं; सुखं दुःखं सुखदुःखान्तरं च |
साङ्ख्यं योगं यत्पराणां परं च; शर्वाज्जातं विद्धि यत्कीर्तितं मे ||५३||
तत्सम्भूता भूतकृतो वरेण्याः; सर्वे देवा भुवनस्यास्य गोपाः |
आविश्येमां धरणीं येऽभ्यरक्ष; न्पुरातनीं तस्य देवस्य सृष्टिम् ||५४||
विचिन्वन्तं मनसा तोष्टुवीमि; किञ्चित्तत्त्वं प्राणहेतोर्नतोऽस्मि |
ददातु देवः स वरानिहेष्टा; नभिष्टुतो नः प्रभुरव्ययः सदा ||५५||
इमं स्तवं संनियम्येन्द्रियाणि; शुचिर्भूत्वा यः पुरुषः पठेत |
अभग्नयोगो नियतोऽब्दमेकं; स प्राप्नुयादश्वमेधे फलं यत् ||५६||
वेदान्कृत्स्नान्ब्राह्मणः प्राप्नुयाच्च; जयेद्राजा पृथिवीं चापि कृत्स्नाम् |
वैश्यो लाभं प्राप्नुयान्नैपुणं च; शूद्रो गतिं प्रेत्य तथा सुखं च ||५७||
स्तवराजमिमं कृत्वा रुद्राय दधिरे मनः |
सर्वदोषापहं पुण्यं पवित्रं च यशस्विनम् ||५८||
यावन्त्यस्य शरीरेषु रोमकूपाणि भारत |
तावद्वर्षसहस्राणि स्वर्गे वसति मानवः ||५९||
अष्टावक्रदिक्संवादः
१९
युधिष्ठिर उवाच||
यदिदं सहधर्मेति प्रोच्यते भरतर्षभ |
पाणिग्रहणकाले तु स्त्रीणामेतत्कथं स्मृतम् ||१||
आर्ष एष भवेद्धर्मः प्राजापत्योऽथ वासुरः |
यदेतत्सहधर्मेति पूर्वमुक्तं महर्षिभिः ||२||
संदेहः सुमहानेष विरुद्ध इति मे मतिः |
इह यः सहधर्मो वै प्रेत्यायं विहितः क्व नु ||३||
स्वर्गे मृतानां भवति सहधर्मः पितामह |
पूर्वमेकस्तु म्रियते क्व चैकस्तिष्ठते वद ||४||
नानाकर्मफलोपेता नानाकर्मनिवासिनः |
नानानिरयनिष्ठान्ता मानुषा बहवो यदा ||५||
अनृताः स्त्रिय इत्येवं सूत्रकारो व्यवस्यति |
यदानृताः स्त्रियस्तात सहधर्मः कुतः स्मृतः ||६||
अनृताः स्त्रिय इत्येवं वेदेष्वपि हि पठ्यते |
धर्मोऽयं पौर्विकी सञ्ज्ञा उपचारः क्रियाविधिः ||७||
गह्वरं प्रतिभात्येतन्मम चिन्तयतोऽनिशम् |
निःसंदेहमिदं सर्वं पितामह यथा श्रुतिः ||८||
यदेतद्यादृशं चैतद्यथा चैतत्प्रवर्तितम् |
निखिलेन महाप्राज्ञ भवानेतद्ब्रवीतु मे ||९||
भीष्म उवाच||
अत्राप्युदाहरन्तीममितिहासं पुरातनम् |
अष्टावक्रस्य संवादं दिशया सह भारत ||१०||
निवेष्टुकामस्तु पुरा अष्टावक्रो महातपाः |
ऋषेरथ वदान्यस्य कन्यां वव्रे महात्मनः ||११||
सुप्रभां नाम वै नाम्ना रूपेणाप्रतिमां भुवि |
गुणप्रबर्हां शीलेन साध्वीं चारित्रशोभनाम् ||१२||
सा तस्य दृष्ट्वैव मनो जहार शुभलोचना |
वनराजी यथा चित्रा वसन्ते कुसुमाचिता ||१३||
ऋषिस्तमाह देया मे सुता तुभ्यं शृणुष्व मे |
गच्छ तावद्दिशं पुण्यामुत्तरां द्रक्ष्यसे ततः ||१४||
अष्टावक्र उवाच||
किं द्रष्टव्यं मया तत्र वक्तुमर्हति मे भवान् |
तथेदानीं मया कार्यं यथा वक्ष्यति मां भवान् ||१५||
वदान्य उवाच||
धनदं समतिक्रम्य हिमवन्तं तथैव च |
रुद्रस्यायतनं दृष्ट्वा सिद्धचारणसेवितम् ||१६||
प्रहृष्टैः पार्षदैर्जुष्टं नृत्यद्भिर्विविधाननैः |
दिव्याङ्गरागैः पैशाचैर्वन्यैर्नानाविधैस्तथा ||१७||
पाणितालसतालैश्च शम्यातालैः समैस्तथा |
सम्प्रहृष्टैः प्रनृत्यद्भिः शर्वस्तत्र निषेव्यते ||१८||
इष्टं किल गिरौ स्थानं तद्दिव्यमनुशुश्रुम |
नित्यं संनिहितो देवस्तथा पारिषदाः शुभाः ||१९||
तत्र देव्या तपस्तप्तं शङ्करार्थं सुदुश्चरम् |
अतस्तदिष्टं देवस्य तथोमाया इति श्रुतिः ||२०||
तत्र कूपो महान्पार्श्वे देवस्योत्तरतस्तथा |
ऋतवः कालरात्रिश्च ये दिव्या ये च मानुषाः ||२१||
सर्वे देवमुपासन्ते रूपिणः किल तत्र ह |
तदतिक्रम्य भवनं त्वया यातव्यमेव हि ||२२||
ततो नीलं वनोद्देशं द्रक्ष्यसे मेघसंनिभम् |
रमणीयं मनोग्राहि तत्र द्रक्ष्यसि वै स्त्रियम् ||२३||
तपस्विनीं महाभागां वृद्धां दीक्षामनुष्ठिताम् |
द्रष्टव्या सा त्वया तत्र सम्पूज्या चैव यत्नतः ||२४||
तां दृष्ट्वा विनिवृत्तस्त्वं ततः पाणिं ग्रहीष्यसि |
यद्येष समयः सत्यः साध्यतां तत्र गम्यताम् ||२५||
२०
अष्टावक्र उवाच||
तथास्तु साधयिष्यामि तत्र यास्याम्यसंशयम् |
यत्र त्वं वदसे साधो भवान्भवतु सत्यवाक् ||१||
भीष्म उवाच||
ततोऽगच्छत्स भगवानुत्तरामुत्तमां दिशम् |
हिमवन्तं गिरिश्रेष्ठं सिद्धचारणसेवितम् ||२||
स गत्वा द्विजशार्दूलो हिमवन्तं महागिरिम् |
अभ्यगच्छन्नदीं पुण्यां बाहुदां धर्मदायिनीम् ||३||
अशोके विमले तीर्थे स्नात्वा तर्प्य च देवताः |
तत्र वासाय शयने कौश्ये सुखमुवास ह ||४||
ततो रात्र्यां व्यतीतायां प्रातरुत्थाय स द्विजः |
स्नात्वा प्रादुश्चकाराग्निं हुत्वा चैव विधानतः ||५||
रुद्राणीकूपमासाद्य ह्रदे तत्र समाश्वसत् |
विश्रान्तश्च समुत्थाय कैलासमभितो ययौ ||६||
सोऽपश्यत्काञ्चनद्वारं दीप्यमानमिव श्रिया |
मन्दाकिनीं च नलिनीं धनदस्य महात्मनः ||७||
अथ ते राक्षसाः सर्वे येऽभिरक्षन्ति पद्मिनीम् |
प्रत्युत्थिता भगवन्तं मणिभद्रपुरोगमाः ||८||
स तान्प्रत्यर्चयामास राक्षसान्भीमविक्रमान् |
निवेदयत मां क्षिप्रं धनदायेति चाब्रवीत् ||९||
ते राक्षसास्तदा राजन्भगवन्तमथाब्रुवन् |
असौ वैश्रवणो राजा स्वयमायाति तेऽन्तिकम् ||१०||
विदितो भगवानस्य कार्यमागमने च यत् |
पश्यैनं त्वं महाभागं ज्वलन्तमिव तेजसा ||११||
ततो वैश्रवणोऽभ्येत्य अष्टावक्रमनिन्दितम् |
विधिवत्कुशलं पृष्ट्वा ततो ब्रह्मर्षिमब्रवीत् ||१२||
सुखं प्राप्तो भवान्कच्चित्किं वा मत्तश्चिकीर्षसि |
ब्रूहि सर्वं करिष्यामि यन्मां त्वं वक्ष्यसि द्विज ||१३||
भवनं प्रविश त्वं मे यथाकामं द्विजोत्तम |
सत्कृतः कृतकार्यश्च भवान्यास्यत्यविघ्नतः ||१४||
प्राविशद्भवनं स्वं वै गृहीत्वा तं द्विजोत्तमम् |
आसनं स्वं ददौ चैव पाद्यमर्घ्यं तथैव च ||१५||
अथोपविष्टयोस्तत्र मणिभद्रपुरोगमाः |
निषेदुस्तत्र कौबेरा यक्षगन्धर्वराक्षसाः ||१६||
ततस्तेषां निषण्णानां धनदो वाक्यमब्रवीत् |
भवच्छन्दं समाज्ञाय नृत्येरन्नप्सरोगणाः ||१७||
आतिथ्यं परमं कार्यं शुश्रूषा भवतस्तथा |
संवर्ततामित्युवाच मुनिर्मधुरया गिरा ||१८||
अथोर्वरा मिश्रकेशी रम्भा चैवोर्वशी तथा |
अलम्बुसा घृताची च चित्रा चित्राङ्गदा रुचिः ||१९||
मनोहरा सुकेशी च सुमुखी हासिनी प्रभा |
विद्युता प्रशमा दान्ता विद्योता रतिरेव च ||२०||
एताश्चान्याश्च वै बह्व्यः प्रनृत्ताप्सरसः शुभाः |
अवादयंश्च गन्धर्वा वाद्यानि विविधानि च ||२१||
अथ प्रवृत्ते गान्धर्वे दिव्ये ऋषिरुपावसत् |
दिव्यं संवत्सरं तत्र रमन्वै सुमहातपाः ||२२||
ततो वैश्रवणो राजा भगवन्तमुवाच ह |
साग्रः संवत्सरो यातस्तव विप्रेह पश्यतः ||२३||
हार्योऽयं विषयो ब्रह्मन्गान्धर्वो नाम नामतः |
छन्दतो वर्ततां विप्र यथा वदति वा भवान् ||२४||
अतिथिः पूजनीयस्त्वमिदं च भवतो गृहम् |
सर्वमाज्ञाप्यतामाशु परवन्तो वयं त्वयि ||२५||
अथ वैश्रवणं प्रीतो भगवान्प्रत्यभाषत |
अर्चितोऽस्मि यथान्यायं गमिष्यामि धनेश्वर ||२६||
प्रीतोऽस्मि सदृशं चैव तव सर्वं धनाधिप |
तव प्रसादाद्भगवन्महर्षेश्च महात्मनः ||२७||
नियोगादद्य यास्यामि वृद्धिमानृद्धिमान्भव ||२७||
अथ निष्क्रम्य भगवान्प्रययावुत्तरामुखः |
कैलासं मन्दरं हैमं सर्वाननुचचार ह ||२८||
तानतीत्य महाशैलान्कैरातं स्थानमुत्तमम् |
प्रदक्षिणं ततश्चक्रे प्रयतः शिरसा नमन् ||२९||
धरणीमवतीर्याथ पूतात्मासौ तदाभवत् ||२९||
स तं प्रदक्षिणं कृत्वा त्रिः शैलं चोत्तरामुखः |
समेन भूमिभागेन ययौ प्रीतिपुरस्कृतः ||३०||
ततोऽपरं वनोद्देशं रमणीयमपश्यत |
सर्वर्तुभिर्मूलफलैः पक्षिभिश्च समन्वितम् ||३१||
रमणीयैर्वनोद्देशैस्तत्र तत्र विभूषितम् ||३१||
तत्राश्रमपदं दिव्यं ददर्श भगवानथ |
शैलांश्च विविधाकारान्काञ्चनान्रत्नभूषितान् ||३२||
मणिभूमौ निविष्टाश्च पुष्करिण्यस्तथैव च ||३२||
अन्यान्यपि सुरम्याणि ददर्श सुबहून्यथ |
भृशं तस्य मनो रेमे महर्षेर्भावितात्मनः ||३३||
स तत्र काञ्चनं दिव्यं सर्वरत्नमयं गृहम् |
ददर्शाद्भुतसङ्काशं धनदस्य गृहाद्वरम् ||३४||
महान्तो यत्र विविधाः प्रासादाः पर्वतोपमाः |
विमानानि च रम्याणि रत्नानि विविधानि च ||३५||
मन्दारपुष्पैः सङ्कीर्णा तथा मन्दाकिनी नदी |
स्वयम्प्रभाश्च मणयो वज्रैर्भूमिश्च भूषिता ||३६||
नानाविधैश्च भवनैर्विचित्रमणितोरणैः |
मुक्ताजालपरिक्षिप्तैर्मणिरत्नविभूषितैः ||३७||
मनोदृष्टिहरै रम्यैः सर्वतः संवृतं शुभैः ||३७||
ऋषिः समन्ततोऽपश्यत्तत्र तत्र मनोरमम् |
ततोऽभवत्तस्य चिन्ता क्व मे वासो भवेदिति ||३८||
अथ द्वारं समभितो गत्वा स्थित्वा ततोऽब्रवीत् |
अतिथिं मामनुप्राप्तमनुजानन्तु येऽत्र वै ||३९||
अथ कन्यापरिवृता गृहात्तस्माद्विनिःसृताः |
नानारूपाः सप्त विभो कन्याः सर्वा मनोहराः ||४०||
यां यामपश्यत्कन्यां स सा सा तस्य मनोऽहरत् |
नाशक्नुवद्धारयितुं मनोऽथास्यावसीदति ||४१||
ततो धृतिः समुत्पन्ना तस्य विप्रस्य धीमतः |
अथ तं प्रमदाः प्राहुर्भगवान्प्रविशत्विति ||४२||
स च तासां सुरूपाणां तस्यैव भवनस्य च |
कौतूहलसमाविष्टः प्रविवेश गृहं द्विजः ||४३||
तत्रापश्यज्जरायुक्तामरजोम्बरधारिणीम् |
वृद्धां पर्यङ्कमासीनां सर्वाभरणभूषिताम् ||४४||
स्वस्तीति चाथ तेनोक्ता सा स्त्री प्रत्यवदत्तदा |
प्रत्युत्थाय च तं विप्रमास्यतामित्युवाच ह ||४५||
अष्टावक्र उवाच||
सर्वाः स्वानालयान्यान्तु एका मामुपतिष्ठतु |
सुप्रज्ञाता सुप्रशान्ता शेषा गच्छन्तु च्छन्दतः ||४६||
ततः प्रदक्षिणीकृत्य कन्यास्तास्तमृषिं तदा |
निराक्रामन्गृहात्तस्मात्सा वृद्धाथ व्यतिष्ठत ||४७||
अथ तां संविशन्प्राह शयने भास्वरे तदा |
त्वयापि सुप्यतां भद्रे रजनी ह्यतिवर्तते ||४८||
संलापात्तेन विप्रेण तथा सा तत्र भाषिता |
द्वितीये शयने दिव्ये संविवेश महाप्रभे ||४९||
अथ सा वेपमानाङ्गी निमित्तं शीतजं तदा |
व्यपदिश्य महर्षेर्वै शयनं चाध्यरोहत ||५०||
स्वागतं स्वागतेनास्तु भगवांस्तामभाषत |
सोपागूहद्भुजाभ्यां तु ऋषिं प्रीत्या नरर्षभ ||५१||
निर्विकारमृषिं चापि काष्ठकुड्योपमं तदा |
दुःखिता प्रेक्ष्य सञ्जल्पमकार्षीदृषिणा सह ||५२||
ब्रह्मन्न कामकारोऽस्ति स्त्रीणां पुरुषतो धृतिः |
कामेन मोहिता चाहं त्वां भजन्तीं भजस्व माम् ||५३||
प्रहृष्टो भव विप्रर्षे समागच्छ मया सह |
उपगूह च मां विप्र कामार्ताहं भृशं त्वयि ||५४||
एतद्धि तव धर्मात्मंस्तपसः पूज्यते फलम् |
प्रार्थितं दर्शनादेव भजमानां भजस्व माम् ||५५||
सद्म चेदं वनं चेदं यच्चान्यदपि पश्यसि |
प्रभुत्वं तव सर्वत्र मयि चैव न संशयः ||५६||
सर्वान्कामान्विधास्यामि रमस्व सहितो मया |
रमणीये वने विप्र सर्वकामफलप्रदे ||५७||
त्वद्वशाहं भविष्यामि रंस्यसे च मया सह |
सर्वान्कामानुपाश्नानो ये दिव्या ये च मानुषाः ||५८||
नातः परं हि नारीणां कार्यं किञ्चन विद्यते |
यथा पुरुषसंसर्गः परमेतद्धि नः फलम् ||५९||
आत्मच्छन्देन वर्तन्ते नार्यो मन्मथचोदिताः |
न च दह्यन्ति गच्छन्त्यः सुतप्तैरपि पांसुभिः ||६०||
अष्टावक्र उवाच||
परदारानहं भद्रे न गच्छेयं कथञ्चन |
दूषितं धर्मशास्त्रेषु परदाराभिमर्शनम् ||६१||
भद्रे निवेष्टुकामं मां विद्धि सत्येन वै शपे |
विषयेष्वनभिज्ञोऽहं धर्मार्थं किल सन्ततिः ||६२||
एवं लोकान्गमिष्यामि पुत्रैरिति न संशयः |
भद्रे धर्मं विजानीष्व ज्ञात्वा चोपरमस्व ह ||६३||
स्त्र्युवाच||
नानिलोऽग्निर्न वरुणो न चान्ये त्रिदशा द्विज |
प्रियाः स्त्रीणां यथा कामो रतिशीला हि योषितः ||६४||
सहस्रैका यता नारी प्राप्नोतीह कदाचन |
तथा शतसहस्रेषु यदि काचित्पतिव्रता ||६५||
नैता जानन्ति पितरं न कुलं न च मातरम् |
न भ्रातॄन्न च भर्तारं न पुत्रान्न च देवरान् ||६६||
लीलायन्त्यः कुलं घ्नन्ति कूलानीव सरिद्वराः |
दोषांश्च मन्दान्मन्दासु प्रजापतिरभाषत ||६७||
भीष्म उवाच||
ततः स ऋषिरेकाग्रस्तां स्त्रियं प्रत्यभाषत |
आस्यतां रुचिरं छन्दः किं वा कार्यं ब्रवीहि मे ||६८||
सा स्त्री प्रोवाच भगवन्द्रक्ष्यसे देशकालतः |
वस तावन्महाप्राज्ञ कृतकृत्यो गमिष्यसि ||६९||
ब्रह्मर्षिस्तामथोवाच स तथेति युधिष्ठिर |
वत्स्येऽहं यावदुत्साहो भवत्या नात्र संशयः ||७०||
अथर्षिरभिसम्प्रेक्ष्य स्त्रियं तां जरयान्विताम् |
चिन्तां परमिकां भेजे सन्तप्त इव चाभवत् ||७१||
यद्यदङ्गं हि सोऽपश्यत्तस्या विप्रर्षभस्तदा |
नारमत्तत्र तत्रास्य दृष्टी रूपपराजिता ||७२||
देवतेयं गृहस्यास्य शापान्नूनं विरूपिता |
अस्याश्च कारणं वेत्तुं न युक्तं सहसा मया ||७३||
इति चिन्ताविषक्तस्य तमर्थं ज्ञातुमिच्छतः |
व्यगमत्तदहःशेषं मनसा व्याकुलेन तु ||७४||
अथ सा स्त्री तदोवाच भगवन्पश्य वै रवेः |
रूपं सन्ध्याभ्रसंयुक्तं किमुपस्थाप्यतां तव ||७५||
स उवाच तदा तां स्त्रीं स्नानोदकमिहानय |
उपासिष्ये ततः सन्ध्यां वाग्यतो नियतेन्द्रियः ||७६||
२१
भीष्म उवाच||
अथ सा स्त्री तमुक्त्वा तु विप्रमेवं भवत्विति |
तैलं दिव्यमुपादाय स्नानशाटीमुपानयत् ||१||
अनुज्ञाता च मुनिना सा स्त्री तेन महात्मना |
अथास्य तैलेनाङ्गानि सर्वाण्येवाभ्यमृक्षयत् ||२||
शनैश्चोत्सादितस्तत्र स्नानशालामुपागमत् |
भद्रासनं ततश्चित्रं ऋषिरन्वाविशन्नवम् ||३||
अथोपविष्टश्च यदा तस्मिन्भद्रासने तदा |
स्नापयामास शनकैस्तमृषिं सुखहस्तवत् ||४||
दिव्यं च विधिवच्चक्रे सोपचारं मुनेस्तदा ||४||
स तेन सुसुखोष्णेन तस्या हस्तसुखेन च |
व्यतीतां रजनीं कृत्स्नां नाजानात्स महाव्रतः ||५||
तत उत्थाय स मुनिस्तदा परमविस्मितः |
पूर्वस्यां दिशि सूर्यं च सोऽपश्यदुदितं दिवि ||६||
तस्य बुद्धिरियं किं नु मोहस्तत्त्वमिदं भवेत् |
अथोपास्य सहस्रांशुं किं करोमीत्युवाच ताम् ||७||
सा चामृतरसप्रख्यमृषेरन्नमुपाहरत् |
तस्य स्वादुतयान्नस्य न प्रभूतं चकार सः ||८||
व्यगमच्चाप्यहःशेषं ततः सन्ध्यागमत्पुनः ||८||
अथ स्त्री भगवन्तं सा सुप्यतामित्यचोदयत् |
तत्र वै शयने दिव्ये तस्य तस्याश्च कल्पिते ||९||
अष्टावक्र उवाच||
न भद्रे परदारेषु मनो मे सम्प्रसज्जति |
उत्तिष्ठ भद्रे भद्रं ते स्वप वै विरमस्व च ||१०||
भीष्म उवाच||
सा तदा तेन विप्रेण तथा धृत्या निवर्तिता |
स्वतन्त्रास्मीत्युवाचैनं न धर्मच्छलमस्ति ते ||११||
अष्टावक्र उवाच||
नास्ति स्वतन्त्रता स्त्रीणामस्वतन्त्रा हि योषितः |
प्रजापतिमतं ह्येतन्न स्त्री स्वातन्त्र्यमर्हति ||१२||
स्त्र्युवाच||
बाधते मैथुनं विप्र मम भक्तिं च पश्य वै |
अधर्मं प्राप्स्यसे विप्र यन्मां त्वं नाभिनन्दसि ||१३||
अष्टावक्र उवाच||
हरन्ति दोषजातानि नरं जातं यथेच्छकम् |
प्रभवामि सदा धृत्या भद्रे स्वं शयनं व्रज ||१४||
स्त्र्युवाच||
शिरसा प्रणमे विप्र प्रसादं कर्तुमर्हसि |
भूमौ निपतमानायाः शरणं भव मेऽनघ ||१५||
यदि वा दोषजातं त्वं परदारेषु पश्यसि |
आत्मानं स्पर्शयाम्यद्य पाणिं गृह्णीष्व मे द्विज ||१६||
न दोषो भविता चैव सत्येनैतद्ब्रवीम्यहम् |
स्वतन्त्रां मां विजानीहि योऽधर्मः सोऽस्तु वै मयि ||१७||
अष्टावक्र उवाच||
स्वतन्त्रा त्वं कथं भद्रे ब्रूहि कारणमत्र वै |
नास्ति लोके हि काचित्स्त्री या वै स्वातन्त्र्यमर्हति ||१८||
पिता रक्षति कौमारे भर्ता रक्षति यौवने |
पुत्राश्च स्थविरीभावे न स्त्री स्वातन्त्र्यमर्हति ||१९||
स्त्र्युवाच||
कौमारं ब्रह्मचर्यं मे कन्यैवास्मि न संशयः |
कुरु मा विमतिं विप्र श्रद्धां विजहि मा मम ||२०||
अष्टावक्र उवाच||
यथा मम तथा तुभ्यं यथा तव तथा मम |
जिज्ञासेयमृषेस्तस्य विघ्नः सत्यं नु किं भवेत् ||२१||
आश्चर्यं परमं हीदं किं नु श्रेयो हि मे भवेत् |
दिव्याभरणवस्त्रा हि कन्येयं मामुपस्थिता ||२२||
किं त्वस्याः परमं रूपं जीर्णमासीत्कथं पुनः |
कन्यारूपमिहाद्यैव किमिहात्रोत्तरं भवेत् ||२३||
यथा परं शक्तिधृतेर्न व्युत्थास्ये कथञ्चन |
न रोचये हि व्युत्थानं धृत्यैवं साधयाम्यहम् ||२४||
२२
युधिष्ठिर उवाच||
न बिभेति कथं सा स्त्री शापस्य परमद्युतेः |
कथं निवृत्तो भगवांस्तद्भवान्प्रब्रवीतु मे ||१||
भीष्म उवाच||
अष्टावक्रोऽन्वपृच्छत्तां रूपं विकुरुषे कथम् |
न चानृतं ते वक्तव्यं ब्रूहि ब्राह्मणकाम्यया ||२||
स्त्र्युवाच||
द्यावापृथिवीमात्रैषा काम्या ब्राह्मणसत्तम |
शृणुष्वावहितः सर्वं यदिदं सत्यविक्रम ||३||
उत्तरां मां दिशं विद्धि दृष्टं स्त्रीचापलं च ते |
अव्युत्थानेन ते लोका जिताः सत्यपराक्रम ||४||
जिज्ञासेयं प्रयुक्ता मे स्थिरीकर्तुं तवानघ |
स्थविराणामपि स्त्रीणां बाधते मैथुनज्वरः ||५||
तुष्टः पितामहस्तेऽद्य तथा देवाः सवासवाः |
स त्वं येन च कार्येण सम्प्राप्तो भगवानिह ||६||
प्रेषितस्तेन विप्रेण कन्यापित्रा द्विजर्षभ |
तवोपदेशं कर्तुं वै तच्च सर्वं कृतं मया ||७||
क्षेमी गमिष्यसि गृहाञ्श्रमश्च न भविष्यति |
कन्यां प्राप्स्यसि तां विप्र पुत्रिणी च भविष्यति ||८||
काम्यया पृष्टवांस्त्वं मां ततो व्याहृतमुत्तरम् |
अनतिक्रमणीयैषा कृत्स्नैर्लोकैस्त्रिभिः सदा ||९||
गच्छस्व सुकृतं कृत्वा किं वान्यच्छ्रोतुमिच्छसि |
यावद्ब्रवीमि विप्रर्षे अष्टावक्र यथातथम् ||१०||
ऋषिणा प्रसादिता चास्मि तव हेतोर्द्विजर्षभ |
तस्य संमाननार्थं मे त्वयि वाक्यं प्रभाषितम् ||११||
श्रुत्वा तु वचनं तस्याः स विप्रः प्राञ्जलिः स्थितः |
अनुज्ञातस्तया चापि स्वगृहं पुनराव्रजत् ||१२||
गृहमागम्य विश्रान्तः स्वजनं प्रतिपूज्य च |
अभ्यगच्छत तं विप्रं न्यायतः कुरुनन्दन ||१३||
पृष्टश्च तेन विप्रेण दृष्टं त्वेतन्निदर्शनम् |
प्राह विप्रं तदा विप्रः सुप्रीतेनान्तरात्मना ||१४||
भवताहमनुज्ञातः प्रस्थितो गन्धमादनम् |
तस्य चोत्तरतो देशे दृष्टं तद्दैवतं महत् ||१५||
तया चाहमनुज्ञातो भवांश्चापि प्रकीर्तितः |
श्रावितश्चापि तद्वाक्यं गृहमभ्यागतः प्रभो ||१६||
तमुवाच ततो विप्रः प्रतिगृह्णीष्व मे सुताम् |
नक्षत्रतिथिसंयोगे पात्रं हि परमं भवान् ||१७||
भीष्म उवाच||
अष्टावक्रस्तथेत्युक्त्वा प्रतिगृह्य च तां प्रभो |
कन्यां परमधर्मात्मा प्रीतिमांश्चाभवत्तदा ||१८||
कन्यां तां प्रतिगृह्यैव भार्यां परमशोभनाम् |
उवास मुदितस्तत्र आश्रमे स्वे गतज्वरः ||१९||
पात्रपरीक्षा
२३
युधिष्ठिर उवाच||
किमाहुर्भरतश्रेष्ठ पात्रं विप्राः सनातनम् |
ब्राह्मणं लिङ्गिनं चैव ब्राह्मणं वाप्यलिङ्गिनम् ||१||
भीष्म उवाच||
स्ववृत्तिमभिपन्नाय लिङ्गिने वेतराय वा |
देयमाहुर्महाराज उभावेतौ तपस्विनौ ||२||
युधिष्ठिर उवाच||
श्रद्धया परया पूतो यः प्रयच्छेद्द्विजातये |
हव्यं कव्यं तथा दानं को दोषः स्यात्पितामह ||३||
भीष्म उवाच||
श्रद्धापूतो नरस्तात दुर्दान्तोऽपि न संशयः |
पूतो भवति सर्वत्र किं पुनस्त्वं महीपते ||४||
युधिष्ठिर उवाच||
न ब्राह्मणं परीक्षेत दैवेषु सततं नरः |
कव्यप्रदाने तु बुधाः परीक्ष्यं ब्राह्मणं विदुः ||५||
भीष्म उवाच||
न ब्राह्मणः साधयते हव्यं दैवात्प्रसिध्यति |
देवप्रसादादिज्यन्ते यजमाना न संशयः ||६||
ब्राह्मणा भरतश्रेष्ठ सततं ब्रह्मवादिनः |
मार्कण्डेयः पुरा प्राह इह लोकेषु बुद्धिमान् ||७||
युधिष्ठिर उवाच||
अपूर्वोऽप्यथ वा विद्वान्सम्बन्धी वाथ यो भवेत् |
तपस्वी यज्ञशीलो वा कथं पात्रं भवेत्तु सः ||८||
भीष्म उवाच||
कुलीनः कर्मकृद्वैद्यस्तथा चाप्यानृशंस्यवान् |
ह्रीमानृजुः सत्यवादी पात्रं पूर्वे च ते त्रयः ||९||
तत्रेदं शृणु मे पार्थ चतुर्णां तेजसां मतम् |
पृथिव्याः काश्यपस्याग्नेर्मार्कण्डेयस्य चैव हि ||१०||
पृथिव्युवाच||
यथा महार्णवे क्षिप्तः क्षिप्रं लोष्टो विनश्यति |
तथा दुश्चरितं सर्वं त्रय्यावृत्त्या विनश्यति ||११||
काश्यप उवाच||
सर्वे च वेदाः सह षड्भिरङ्गैः; साङ्ख्यं पुराणं च कुले च जन्म |
नैतानि सर्वाणि गतिर्भवन्ति; शीलव्यपेतस्य नरस्य राजन् ||१२||
अग्निरुवाच||
अधीयानः पण्डितं मन्यमानो; यो विद्यया हन्ति यशः परेषाम् |
ब्रह्मन्स तेनाचरते ब्रह्महत्यां; लोकास्तस्य ह्यन्तवन्तो भवन्ति ||१३||
मार्कण्डेय उवाच||
अश्वमेधसहस्रं च सत्यं च तुलया धृतम् |
नाभिजानामि यद्यस्य सत्यस्यार्धमवाप्नुयात् ||१४||
भीष्म उवाच||
इत्युक्त्वा ते जग्मुराशु चत्वारोऽमिततेजसः |
पृथिवी काश्यपोऽग्निश्च प्रकृष्टायुश्च भार्गवः ||१५||
युधिष्ठिर उवाच||
यदिदं ब्राह्मणा लोके व्रतिनो भुञ्जते हविः |
भुक्तं ब्राह्मणकामाय कथं तत्सुकृतं भवेत् ||१६||
भीष्म उवाच||
आदिष्टिनो ये राजेन्द्र ब्राह्मणा वेदपारगाः |
भुञ्जते ब्रह्मकामाय व्रतलुप्ता भवन्ति ते ||१७||
युधिष्ठिर उवाच||
अनेकान्तं बहुद्वारं धर्ममाहुर्मनीषिणः |
किं निश्चितं भवेत्तत्र तन्मे ब्रूहि पितामह ||१८||
भीष्म उवाच||
अहिंसा सत्यमक्रोध आनृशंस्यं दमस्तथा |
आर्जवं चैव राजेन्द्र निश्चितं धर्मलक्षणम् ||१९||
ये तु धर्मं प्रशंसन्तश्चरन्ति पृथिवीमिमाम् |
अनाचरन्तस्तद्धर्मं सङ्करे निरताः प्रभो ||२०||
तेभ्यो रत्नं हिरण्यं वा गामश्वान्वा ददाति यः |
दश वर्षाणि विष्ठां स भुङ्क्ते निरयमाश्रितः ||२१||
मेदानां पुल्कसानां च तथैवान्तावसायिनाम् |
कृतं कर्माकृतं चापि रागमोहेन जल्पताम् ||२२||
वैश्वदेवं च ये मूढा विप्राय ब्रह्मचारिणे |
ददतीह न राजेन्द्र ते लोकान्भुञ्जतेऽशुभान् ||२३||
युधिष्ठिर उवाच||
किं परं ब्रह्मचर्यस्य किं परं धर्मलक्षणम् |
किं च श्रेष्ठतमं शौचं तन्मे ब्रूहि पितामह ||२४||
भीष्म उवाच||
ब्रह्मचर्यं परं तात मधुमांसस्य वर्जनम् |
मर्यादायां स्थितो धर्मः शमः शौचस्य लक्षणम् ||२५||
युधिष्ठिर उवाच||
कस्मिन्काले चरेद्धर्मं कस्मिन्कालेऽर्थमाचरेत् |
कस्मिन्काले सुखी च स्यात्तन्मे ब्रूहि पितामह ||२६||
भीष्म उवाच||
काल्यमर्थं निषेवेत ततो धर्ममनन्तरम् |
पश्चात्कामं निषेवेत न च गच्छेत्प्रसङ्गिताम् ||२७||
ब्राह्मणांश्चाभिमन्येत गुरूंश्चाप्यभिपूजयेत् |
सर्वभूतानुलोमश्च मृदुशीलः प्रियंवदः ||२८||
अधिकारे यदनृतं राजगामि च पैशुनम् |
गुरोश्चालीककरणं समं तद्ब्रह्महत्यया ||२९||
प्रहरेन्न नरेन्द्रेषु न गां हन्यात्तथैव च |
भ्रूणहत्यासमं चैतदुभयं यो निषेवते ||३०||
नाग्निं परित्यजेज्जातु न च वेदान्परित्यजेत् |
न च ब्राह्मणमाक्रोशेत्समं तद्ब्रह्महत्यया ||३१||
युधिष्ठिर उवाच||
कीदृशाः साधवो विप्राः केभ्यो दत्तं महाफलम् |
कीदृशानां च भोक्तव्यं तन्मे ब्रूहि पितामह ||३२||
भीष्म उवाच||
अक्रोधना धर्मपराः सत्यनित्या दमे रताः |
तादृशाः साधवो विप्रास्तेभ्यो दत्तं महाफलम् ||३३||
अमानिनः सर्वसहा दृष्टार्था विजितेन्द्रियाः |
सर्वभूतहिता मैत्रास्तेभ्यो दत्तं महाफलम् ||३४||
अलुब्धाः शुचयो वैद्या ह्रीमन्तः सत्यवादिनः |
स्वकर्मनिरता ये च तेभ्यो दत्तं महाफलम् ||३५||
साङ्गांश्च चतुरो वेदान्योऽधीयीत द्विजर्षभः |
षड्भ्यो निवृत्तः कर्मभ्यस्तं पात्रमृषयो विदुः ||३६||
ये त्वेवङ्गुणजातीयास्तेभ्यो दत्तं महाफलम् |
सहस्रगुणमाप्नोति गुणार्हाय प्रदायकः ||३७||
प्रज्ञाश्रुताभ्यां वृत्तेन शीलेन च समन्वितः |
तारयेत कुलं कृत्स्नमेकोऽपीह द्विजर्षभः ||३८||
गामश्वं वित्तमन्नं वा तद्विधे प्रतिपादयेत् |
द्रव्याणि चान्यानि तथा प्रेत्यभावे न शोचति ||३९||
तारयेत कुलं कृत्स्नमेकोऽपीह द्विजोत्तमः |
किमङ्ग पुनरेकं वै तस्मात्पात्रं समाचरेत् ||४०||
निशम्य च गुणोपेतं ब्राह्मणं साधुसंमतम् |
दूरादानाययेत्कृत्ये सर्वतश्चाभिपूजयेत् ||४१||
दैवपित्र्यदानफलम्
२४
युधिष्ठिर उवाच||
श्राद्धकाले च दैवे च धर्मे चापि पितामह |
इच्छामीह त्वयाख्यातं विहितं यत्सुरर्षिभिः ||१||
भीष्म उवाच||
दैवं पूर्वाह्णिके कुर्यादपराह्णे तु पैतृकम् |
मङ्गलाचारसम्पन्नः कृतशौचः प्रयत्नवान् ||२||
मनुष्याणां तु मध्याह्ने प्रदद्यादुपपत्तितः |
कालहीनं तु यद्दानं तं भागं रक्षसां विदुः ||३||
लङ्घितं चावलीढं च कलिपूर्वं च यत्कृतम् |
रजस्वलाभिर्दृष्टं च तं भागं रक्षसां विदुः ||४||
अवघुष्टं च यद्भुक्तमव्रतेन च भारत |
परामृष्टं शुना चैव तं भागं रक्षसां विदुः ||५||
केशकीटावपतितं क्षुतं श्वभिरवेक्षितम् |
रुदितं चावधूतं च तं भागं रक्षसां विदुः ||६||
निरोङ्कारेण यद्भुक्तं सशस्त्रेण च भारत |
दुरात्मना च यद्भुक्तं तं भागं रक्षसां विदुः ||७||
परोच्छिष्टं च यद्भुक्तं परिभुक्तं च यद्भवेत् |
दैवे पित्र्ये च सततं तं भागं रक्षसां विदुः ||८||
गर्हितं निन्दितं चैव परिविष्टं समन्युना |
दैवं वाप्यथ वा पैत्र्यं तं भागं रक्षसां विदुः ||९||
मन्त्रहीनं क्रियाहीनं यच्छ्राद्धं परिविष्यते |
त्रिभिर्वर्णैर्नरश्रेष्ठ तं भागं रक्षसां विदुः ||१०||
आज्याहुतिं विना चैव यत्किञ्चित्परिविष्यते |
दुराचारैश्च यद्भुक्तं तं भागं रक्षसां विदुः ||११||
ये भागा रक्षसां प्रोक्तास्त उक्ता भरतर्षभ |
अत ऊर्ध्वं विसर्गस्य परीक्षां ब्राह्मणे शृणु ||१२||
यावन्तः पतिता विप्रा जडोन्मत्तास्तथैव च |
दैवे वाप्यथ वा पित्र्ये राजन्नार्हन्ति केतनम् ||१३||
श्वित्री कुष्ठी च क्लीबश्च तथा यक्ष्महतश्च यः |
अपस्मारी च यश्चान्धो राजन्नार्हन्ति सत्कृतिम् ||१४||
चिकित्सका देवलका वृथानियमधारिणः |
सोमविक्रयिणश्चैव श्राद्धे नार्हन्ति केतनम् ||१५||
गायना नर्तकाश्चैव प्लवका वादकास्तथा |
कथका योधकाश्चैव राजन्नार्हन्ति केतनम् ||१६||
होतारो वृषलानां च वृषलाध्यापकास्तथा |
तथा वृषलशिष्याश्च राजन्नार्हन्ति केतनम् ||१७||
अनुयोक्ता च यो विप्रो अनुयुक्तश्च भारत |
नार्हतस्तावपि श्राद्धं ब्रह्मविक्रयिणौ हि तौ ||१८||
अग्रणीर्यः कृतः पूर्वं वर्णावरपरिग्रहः |
ब्राह्मणः सर्वविद्योऽपि राजन्नार्हति केतनम् ||१९||
अनग्नयश्च ये विप्रा मृतनिर्यातकाश्च ये |
स्तेनाश्च पतिताश्चैव राजन्नार्हन्ति केतनम् ||२०||
अपरिज्ञातपूर्वाश्च गणपूर्वाश्च भारत |
पुत्रिकापूर्वपुत्राश्च श्राद्धे नार्हन्ति केतनम् ||२१||
ऋणकर्ता च यो राजन्यश्च वार्धुषिको द्विजः |
प्राणिविक्रयवृत्तिश्च राजन्नार्हन्ति केतनम् ||२२||
स्त्रीपूर्वाः काण्डपृष्ठाश्च यावन्तो भरतर्षभ |
अजपा ब्राह्मणाश्चैव श्राद्धे नार्हन्ति केतनम् ||२३||
श्राद्धे दैवे च निर्दिष्टा ब्राह्मणा भरतर्षभ |
दातुः प्रतिग्रहीतुश्च शृणुष्वानुग्रहं पुनः ||२४||
चीर्णव्रता गुणैर्युक्ता भवेयुर्येऽपि कर्षकाः |
सावित्रीज्ञाः क्रियावन्तस्ते राजन्केतनक्षमाः ||२५||
क्षात्रधर्मिणमप्याजौ केतयेत्कुलजं द्विजम् |
न त्वेव वणिजं तात श्राद्धेषु परिकल्पयेत् ||२६||
अग्निहोत्री च यो विप्रो ग्रामवासी च यो भवेत् |
अस्तेनश्चातिथिज्ञश्च स राजन्केतनक्षमः ||२७||
सावित्रीं जपते यस्तु त्रिकालं भरतर्षभ |
भिक्षावृत्तिः क्रियावांश्च स राजन्केतनक्षमः ||२८||
उदितास्तमितो यश्च तथैवास्तमितोदितः |
अहिंस्रश्चाल्पदोषश्च स राजन्केतनक्षमः ||२९||
अकल्कको ह्यतर्कश्च ब्राह्मणो भरतर्षभ |
ससञ्ज्ञो भैक्ष्यवृत्तिश्च स राजन्केतनक्षमः ||३०||
अव्रती कितवः स्तेनः प्राणिविक्रय्यथो वणिक् |
पश्चाच्च पीतवान्सोमं स राजन्केतनक्षमः ||३१||
अर्जयित्वा धनं पूर्वं दारुणैः कृषिकर्मभिः |
भवेत्सर्वातिथिः पश्चात्स राजन्केतनक्षमः ||३२||
ब्रह्मविक्रयनिर्दिष्टं स्त्रिया यच्चार्जितं धनम् |
अदेयं पितृदेवेभ्यो यच्च क्लैब्यादुपार्जितम् ||३३||
क्रियमाणेऽपवर्गे तु यो द्विजो भरतर्षभ |
न व्याहरति यद्युक्तं तस्याधर्मो गवानृतम् ||३४||
श्राद्धस्य ब्राह्मणः कालः प्राप्तं दधि घृतं तथा |
सोमक्षयश्च मांसं च यदारण्यं युधिष्ठिर ||३५||
श्राद्धापवर्गे विप्रस्य स्वधा वै स्वदिता भवेत् |
क्षत्रियस्याप्यथो ब्रूयात्प्रीयन्तां पितरस्त्विति ||३६||
अपवर्गे तु वैश्यस्य श्राद्धकर्मणि भारत |
अक्षय्यमभिधातव्यं स्वस्ति शूद्रस्य भारत ||३७||
पुण्याहवाचनं दैवे ब्राह्मणस्य विधीयते |
एतदेव निरोङ्कारं क्षत्रियस्य विधीयते ||३८||
वैश्यस्य चैव वक्तव्यं प्रीयन्तां देवता इति ||३८||
कर्मणामानुपूर्वीं च विधिपूर्वकृतं शृणु |
जातकर्मादिकान्सर्वांस्त्रिषु वर्णेषु भारत ||३९||
ब्रह्मक्षत्रे हि मन्त्रोक्ता वैश्यस्य च युधिष्ठिर ||३९||
विप्रस्य रशना मौञ्जी मौर्वी राजन्यगामिनी |
बाल्वजीत्येव वैश्यस्य धर्म एष युधिष्ठिर ||४०||
दातुः प्रतिग्रहीतुश्च धर्माधर्माविमौ शृणु |
ब्राह्मणस्यानृतेऽधर्मः प्रोक्तः पातकसञ्ज्ञितः ||४१||
चतुर्गुणः क्षत्रियस्य वैश्यस्याष्टगुणः स्मृतः ||४१||
नान्यत्र ब्राह्मणोऽश्नीयात्पूर्वं विप्रेण केतितः |
यवीयान्पशुहिंसायां तुल्यधर्मो भवेत्स हि ||४२||
अथ राजन्यवैश्याभ्यां यद्यश्नीयात्तु केतितः |
यवीयान्पशुहिंसायां भागार्धं समवाप्नुयात् ||४३||
दैवं वाप्यथ वा पित्र्यं योऽश्नीयाद्ब्राह्मणादिषु |
अस्नातो ब्राह्मणो राजंस्तस्याधर्मो गवानृतम् ||४४||
आशौचो ब्राह्मणो राजन्योऽश्नीयाद्ब्राह्मणादिषु |
ज्ञानपूर्वमथो लोभात्तस्याधर्मो गवानृतम् ||४५||
अन्नेनान्नं च यो लिप्सेत्कर्मार्थं चैव भारत |
आमन्त्रयति राजेन्द्र तस्याधर्मोऽनृतं स्मृतम् ||४६||
अवेदव्रतचारित्रास्त्रिभिर्वर्णैर्युधिष्ठिर |
मन्त्रवत्परिविष्यन्ते तेष्वधर्मो गवानृतम् ||४७||
युधिष्ठिर उवाच||
पित्र्यं वाप्यथ वा दैवं दीयते यत्पितामह |
एतदिच्छाम्यहं श्रोतुं दत्तं येषु महाफलम् ||४८||
भीष्म उवाच||
येषां दाराः प्रतीक्षन्ते सुवृष्टिमिव कर्षकाः |
उच्छेषपरिशेषं हि तान्भोजय युधिष्ठिर ||४९||
चारित्रनियता राजन्ये कृशाः कृशवृत्तयः |
अर्थिनश्चोपगच्छन्ति तेषु दत्तं महाफलम् ||५०||
तद्भक्तास्तद्गृहा राजंस्तद्धनास्तदपाश्रयाः |
अर्थिनश्च भवन्त्यर्थे तेषु दत्तं महाफलम् ||५१||
तस्करेभ्यः परेभ्यो वा ये भयार्ता युधिष्ठिर |
अर्थिनो भोक्तुमिच्छन्ति तेषु दत्तं महाफलम् ||५२||
अकल्ककस्य विप्रस्य भैक्षोत्करकृतात्मनः |
बटवो यस्य भिक्षन्ति तेभ्यो दत्तं महाफलम् ||५३||
हृतस्वा हृतदाराश्च ये विप्रा देशसम्प्लवे |
अर्थार्थमभिगच्छन्ति तेभ्यो दत्तं महाफलम् ||५४||
व्रतिनो नियमस्थाश्च ये विप्राः श्रुतसंमताः |
तत्समाप्त्यर्थमिच्छन्ति तेषु दत्तं महाफलम् ||५५||
अव्युत्क्रान्ताश्च धर्मेषु पाषण्डसमयेषु च |
कृशप्राणाः कृशधनास्तेषु दत्तं महाफलम् ||५६||
कृतसर्वस्वहरणा निर्दोषाः प्रभविष्णुभिः |
स्पृहयन्ति च भुक्तान्नं तेषु दत्तं महाफलम् ||५७||
तपस्विनस्तपोनिष्ठास्तेषां भैक्षचराश्च ये |
अर्थिनः किञ्चिदिच्छन्ति तेषु दत्तं महाफलम् ||५८||
महाफलविधिर्दाने श्रुतस्ते भरतर्षभ |
निरयं येन गच्छन्ति स्वर्गं चैव हि तच्छृणु ||५९||
गुर्वर्थं वाभयार्थं वा वर्जयित्वा युधिष्ठिर |
येऽनृतं कथयन्ति स्म ते वै निरयगामिनः ||६०||
परदाराभिहर्तारः परदाराभिमर्शिनः |
परदारप्रयोक्तारस्ते वै निरयगामिनः ||६१||
ये परस्वापहर्तारः परस्वानां च नाशकाः |
सूचकाश्च परेषां ये ते वै निरयगामिनः ||६२||
प्रपाणां च सभानां च सङ्क्रमाणां च भारत |
अगाराणां च भेत्तारो नरा निरयगामिनः ||६३||
अनाथां प्रमदां बालां वृद्धां भीतां तपस्विनीम् |
वञ्चयन्ति नरा ये च ते वै निरयगामिनः ||६४||
वृत्तिच्छेदं गृहच्छेदं दारच्छेदं च भारत |
मित्रच्छेदं तथाशायास्ते वै निरयगामिनः ||६५||
सूचकाः सन्धिभेत्तारः परवृत्त्युपजीवकाः |
अकृतज्ञाश्च मित्राणां ते वै निरयगामिनः ||६६||
पाषण्डा दूषकाश्चैव समयानां च दूषकाः |
ये प्रत्यवसिताश्चैव ते वै निरयगामिनः ||६७||
कृताशं कृतनिर्वेशं कृतभक्तं कृतश्रमम् |
भेदैर्ये व्यपकर्षन्ति ते वै निरयगामिनः ||६८||
पर्यश्नन्ति च ये दारानग्निभृत्यातिथींस्तथा |
उत्सन्नपितृदेवेज्यास्ते वै निरयगामिनः ||६९||
वेदविक्रयिणश्चैव वेदानां चैव दूषकाः |
वेदानां लेखकाश्चैव ते वै निरयगामिनः ||७०||
चातुराश्रम्यबाह्याश्च श्रुतिबाह्याश्च ये नराः |
विकर्मभिश्च जीवन्ति ते वै निरयगामिनः ||७१||
केशविक्रयिका राजन्विषविक्रयिकाश्च ये |
क्षीरविक्रयिकाश्चैव ते वै निरयगामिनः ||७२||
ब्राह्मणानां गवां चैव कन्यानां च युधिष्ठिर |
येऽन्तरं यान्ति कार्येषु ते वै निरयगामिनः ||७३||
शस्त्रविक्रयकाश्चैव कर्तारश्च युधिष्ठिर |
शल्यानां धनुषां चैव ते वै निरयगामिनः ||७४||
शल्यैर्वा शङ्कुभिर्वापि श्वभ्रैर्वा भरतर्षभ |
ये मार्गमनुरुन्धन्ति ते वै निरयगामिनः ||७५||
उपाध्यायांश्च भृत्यांश्च भक्तांश्च भरतर्षभ |
ये त्यजन्त्यसमर्थांस्तांस्ते वै निरयगामिनः ||७६||
अप्राप्तदमकाश्चैव नासानां वेधकास्तथा |
बन्धकाश्च पशूनां ये ते वै निरयगामिनः ||७७||
अगोप्तारश्छलद्रव्या बलिषड्भागतत्पराः |
समर्थाश्चाप्यदातारस्ते वै निरयगामिनः ||७८||
क्षान्तान्दान्तांस्तथा प्राज्ञान्दीर्घकालं सहोषितान् |
त्यजन्ति कृतकृत्या ये ते वै निरयगामिनः ||७९||
बालानामथ वृद्धानां दासानां चैव ये नराः |
अदत्त्वा भक्षयन्त्यग्रे ते वै निरयगामिनः ||८०||
एते पूर्वर्षिभिर्दृष्टाः प्रोक्ता निरयगामिनः |
भागिनः स्वर्गलोकस्य वक्ष्यामि भरतर्षभ ||८१||
सर्वेष्वेव तु कार्येषु दैवपूर्वेषु भारत |
हन्ति पुत्रान्पशून्कृत्स्नान्ब्राह्मणातिक्रमः कृतः ||८२||
दानेन तपसा चैव सत्येन च युधिष्ठिर |
ये धर्ममनुवर्तन्ते ते नराः स्वर्गगामिनः ||८३||
शुश्रूषाभिस्तपोभिश्च श्रुतमादाय भारत |
ये प्रतिग्रहनिःस्नेहास्ते नराः स्वर्गगामिनः ||८४||
भयात्पापात्तथाबाधाद्दारिद्र्याद्व्याधिधर्षणात् |
यत्कृते प्रतिमुच्यन्ते ते नराः स्वर्गगामिनः ||८५||
क्षमावन्तश्च धीराश्च धर्मकार्येषु चोत्थिताः |
मङ्गलाचारयुक्ताश्च ते नराः स्वर्गगामिनः ||८६||
निवृत्ता मधुमांसेभ्यः परदारेभ्य एव च |
निवृत्ताश्चैव मद्येभ्यस्ते नराः स्वर्गगामिनः ||८७||
आश्रमाणां च कर्तारः कुलानां चैव भारत |
देशानां नगराणां च ते नराः स्वर्गगामिनः ||८८||
वस्त्राभरणदातारो भक्षपानान्नदास्तथा |
कुटुम्बानां च दातारस्ते नराः स्वर्गगामिनः ||८९||
सर्वहिंसानिवृत्ताश्च नराः सर्वसहाश्च ये |
सर्वस्याश्रयभूताश्च ते नराः स्वर्गगामिनः ||९०||
मातरं पितरं चैव शुश्रूषन्ति जितेन्द्रियाः |
भ्रातॄणां चैव सस्नेहास्ते नराः स्वर्गगामिनः ||९१||
आढ्याश्च बलवन्तश्च यौवनस्थाश्च भारत |
ये वै जितेन्द्रिया धीरास्ते नराः स्वर्गगामिनः ||९२||
अपराद्धेषु सस्नेहा मृदवो मित्रवत्सलाः |
आराधनसुखाश्चापि ते नराः स्वर्गगामिनः ||९३||
सहस्रपरिवेष्टारस्तथैव च सहस्रदाः |
त्रातारश्च सहस्राणां पुरुषाः स्वर्गगामिनः ||९४||
सुवर्णस्य च दातारो गवां च भरतर्षभ |
यानानां वाहनानां च ते नराः स्वर्गगामिनः ||९५||
वैवाहिकानां कन्यानां प्रेष्याणां च युधिष्ठिर |
दातारो वाससां चैव ते नराः स्वर्गगामिनः ||९६||
विहारावसथोद्यानकूपारामसभाप्रदाः |
वप्राणां चैव कर्तारस्ते नराः स्वर्गगामिनः ||९७||
निवेशनानां क्षेत्राणां वसतीनां च भारत |
दातारः प्रार्थितानां च ते नराः स्वर्गगामिनः ||९८||
रसानामथ बीजानां धान्यानां च युधिष्ठिर |
स्वयमुत्पाद्य दातारः पुरुषाः स्वर्गगामिनः ||९९||
यस्मिन्कस्मिन्कुले जाता बहुपुत्राः शतायुषः |
सानुक्रोशा जितक्रोधाः पुरुषाः स्वर्गगामिनः ||१००||
एतदुक्तममुत्रार्थं दैवं पित्र्यं च भारत |
धर्माधर्मौ च दानस्य यथा पूर्वर्षिभिः कृतौ ||१०१||
ब्रह्मघातिस्वरूपम्
२५
युधिष्ठिर उवाच||
इदं मे तत्त्वतो राजन्वक्तुमर्हसि भारत |
अहिंसयित्वा केनेह ब्रह्महत्या विधीयते ||१||
भीष्म उवाच||
व्यासमामन्त्र्य राजेन्द्र पुरा यत्पृष्टवानहम् |
तत्तेऽहं सम्प्रवक्ष्यामि तदिहैकमनाः शृणु ||२||
चतुर्थस्त्वं वसिष्ठस्य तत्त्वमाख्याहि मे मुने |
अहिंसयित्वा केनेह ब्रह्महत्या विधीयते ||३||
इति पृष्टो महाराज पराशरशरीरजः |
अब्रवीन्निपुणो धर्मे निःसंशयमनुत्तमम् ||४||
ब्राह्मणं स्वयमाहूय भिक्षार्थे कृशवृत्तिनम् |
ब्रूयान्नास्तीति यः पश्चात्तं विद्याद्ब्रह्मघातिनम् ||५||
मध्यस्थस्येह विप्रस्य योऽनूचानस्य भारत |
वृत्तिं हरति दुर्बुद्धिस्तं विद्याद्ब्रह्मघातिनम् ||६||
गोकुलस्य तृषार्तस्य जलार्थे वसुधाधिप |
उत्पादयति यो विघ्नं तं विद्याद्ब्रह्मघातिनम् ||७||
यः प्रवृत्तां श्रुतिं सम्यक्षास्त्रं वा मुनिभिः कृतम् |
दूषयत्यनभिज्ञाय तं विद्याद्ब्रह्मघातिनम् ||८||
आत्मजां रूपसम्पन्नां महतीं सदृशे वरे |
न प्रयच्छति यः कन्यां तं विद्याद्ब्रह्मघातिनम् ||९||
अधर्मनिरतो मूढो मिथ्या यो वै द्विजातिषु |
दद्यान्मर्मातिगं शोकं तं विद्याद्ब्रह्मघातिनम् ||१०||
चक्षुषा विप्रहीनस्य पङ्गुलस्य जडस्य वा |
हरेत यो वै सर्वस्वं तं विद्याद्ब्रह्मघातिनम् ||११||
आश्रमे वा वने वा यो ग्रामे वा यदि वा पुरे |
अग्निं समुत्सृजेन्मोहात्तं विद्याद्ब्रह्मघातिनम् ||१२||
तीर्थप्रशंसा
२६
युधिष्ठिर उवाच||
तीर्थानां दर्शनं श्रेयः स्नानं च भरतर्षभ |
श्रवणं च महाप्राज्ञ श्रोतुमिच्छामि तत्त्वतः ||१||
पृथिव्यां यानि तीर्थानि पुण्यानि भरतर्षभ |
वक्तुमर्हसि मे तानि श्रोतास्मि नियतः प्रभो ||२||
भीष्म उवाच||
इममङ्गिरसा प्रोक्तं तीर्थवंशं महाद्युते |
श्रोतुमर्हसि भद्रं ते प्राप्स्यसे धर्ममुत्तमम् ||३||
तपोवनगतं विप्रमभिगम्य महामुनिम् |
पप्रच्छाङ्गिरसं वीर गौतमः संशितव्रतः ||४||
अस्ति मे भगवन्कश्चित्तीर्थेभ्यो धर्मसंशयः |
तत्सर्वं श्रोतुमिच्छामि तन्मे शंस महामुने ||५||
उपस्पृश्य फलं किं स्यात्तेषु तीर्थेषु वै मुने |
प्रेत्यभावे महाप्राज्ञ तद्यथास्ति तथा वद ||६||
अङ्गिरा उवाच||
सप्ताहं चन्द्रभागां वै वितस्तामूर्मिमालिनीम् |
विगाह्य वै निराहारो निर्ममो मुनिवद्भवेत् ||७||
काश्मीरमण्डले नद्यो याः पतन्ति महानदम् |
ता नदीः सिन्धुमासाद्य शीलवान्स्वर्गमाप्नुयात् ||८||
पुष्करं च प्रभासं च नैमिषं सागरोदकम् |
देविकामिन्द्रमार्गं च स्वर्णबिन्दुं विगाह्य च ||९||
विबोध्यते विमानस्थः सोऽप्सरोभिरभिष्टुतः ||९||
हिरण्यबिन्दुं विक्षोभ्य प्रयतश्चाभिवाद्य तम् |
कुशेशयं च देवत्वं पूयते तस्य किल्बिषम् ||१०||
इन्द्रतोयां समासाद्य गन्धमादनसंनिधौ |
करतोयां कुरङ्गेषु त्रिरात्रोपोषितो नरः ||११||
अश्वमेधमवाप्नोति विगाह्य नियतः शुचिः ||११||
गङ्गाद्वारे कुशावर्ते बिल्वके नेमिपर्वते |
तथा कनखले स्नात्वा धूतपाप्मा दिवं व्रजेत् ||१२||
अपां ह्रद उपस्पृश्य वाजपेयफलं लभेत् |
ब्रह्मचारी जितक्रोधः सत्यसन्धस्त्वहिंसकः ||१३||
यत्र भागीरथी गङ्गा भजते दिशमुत्तराम् |
महेश्वरस्य निष्ठाने यो नरस्त्वभिषिच्यते ||१४||
एकमासं निराहारः स्वयं पश्यति देवताः ||१४||
सप्तगङ्गे त्रिगङ्गे च इन्द्रमार्गे च तर्पयन् |
सुधां वै लभते भोक्तुं यो नरो जायते पुनः ||१५||
महाश्रम उपस्पृश्य योऽग्निहोत्रपरः शुचिः |
एकमासं निराहारः सिद्धिं मासेन स व्रजेत् ||१६||
महाह्रद उपस्पृश्य भृगुतुङ्गे त्वलोलुपः |
त्रिरात्रोपोषितो भूत्वा मुच्यते ब्रह्महत्यया ||१७||
कन्याकूप उपस्पृश्य बलाकायां कृतोदकः |
देवेषु कीर्तिं लभते यशसा च विराजते ||१८||
देशकाल उपस्पृश्य तथा सुन्दरिकाह्रदे |
अश्विभ्यां रूपवर्चस्यं प्रेत्य वै लभते नरः ||१९||
महागङ्गामुपस्पृश्य कृत्तिकाङ्गारके तथा |
पक्षमेकं निराहारः स्वर्गमाप्नोति निर्मलः ||२०||
वैमानिक उपस्पृश्य किङ्किणीकाश्रमे तथा |
निवासेऽप्सरसां दिव्ये कामचारी महीयते ||२१||
कालिकाश्रममासाद्य विपाशायां कृतोदकः |
ब्रह्मचारी जितक्रोधस्त्रिरात्रान्मुच्यते भवात् ||२२||
आश्रमे कृत्तिकानां तु स्नात्वा यस्तर्पयेत्पितॄन् |
तोषयित्वा महादेवं निर्मलः स्वर्गमाप्नुयात् ||२३||
महापुर उपस्पृश्य त्रिरात्रोपोषितो नरः |
त्रसानां स्थावराणां च द्विपदानां भयं त्यजेत् ||२४||
देवदारुवने स्नात्वा धूतपाप्मा कृतोदकः |
देवलोकमवाप्नोति सप्तरात्रोषितः शुचिः ||२५||
कौशन्ते च कुशस्तम्बे द्रोणशर्मपदे तथा |
आपःप्रपतने स्नातः सेव्यते सोऽप्सरोगणैः ||२६||
चित्रकूटे जनस्थाने तथा मन्दाकिनीजले |
विगाह्य वै निराहारो राजलक्ष्मीं निगच्छति ||२७||
श्यामायास्त्वाश्रमं गत्वा उष्य चैवाभिषिच्य च |
त्रींस्त्रिरात्रान्स सन्धाय गन्धर्वनगरे वसेत् ||२८||
रमण्यां च उपस्पृश्य तथा वै गन्धतारिके |
एकमासं निराहारस्त्वन्तर्धानफलं लभेत् ||२९||
कौशिकीद्वारमासाद्य वायुभक्षस्त्वलोलुपः |
एकविंशतिरात्रेण स्वर्गमारोहते नरः ||३०||
मतङ्गवाप्यां यः स्नायादेकरात्रेण सिध्यति |
विगाहति ह्यनालम्बमन्धकं वै सनातनम् ||३१||
नैमिषे स्वर्गतीर्थे च उपस्पृश्य जितेन्द्रियः |
फलं पुरुषमेधस्य लभेन्मासं कृतोदकः ||३२||
गङ्गाह्रद उपस्पृश्य तथा चैवोत्पलावने |
अश्वमेधमवाप्नोति तत्र मासं कृतोदकः ||३३||
गङ्गायमुनयोस्तीर्थे तथा कालञ्जरे गिरौ |
षष्टिह्रद उपस्पृश्य दानं नान्यद्विशिष्यते ||३४||
दश तीर्थसहस्राणि तिस्रः कोट्यस्तथापराः |
समागच्छन्ति माघ्यां तु प्रयागे भरतर्षभ ||३५||
माघमासं प्रयागे तु नियतः संशितव्रतः |
स्नात्वा तु भरतश्रेष्ठ निर्मलः स्वर्गमाप्नुयात् ||३६||
मरुद्गण उपस्पृश्य पितॄणामाश्रमे शुचिः |
वैवस्वतस्य तीर्थे च तीर्थभूतो भवेन्नरः ||३७||
तथा ब्रह्मशिरो गत्वा भागीरथ्यां कृतोदकः |
एकमासं निराहारः सोमलोकमवाप्नुयात् ||३८||
कपोतके नरः स्नात्वा अष्टावक्रे कृतोदकः |
द्वादशाहं निराहारो नरमेधफलं लभेत् ||३९||
मुञ्जपृष्ठं गयां चैव निरृतिं देवपर्वतम् |
तृतीयां क्रौञ्चपादीं च ब्रह्महत्या विशुध्यति ||४०||
कलश्यां वाप्युपस्पृश्य वेद्यां च बहुशोजलाम् |
अग्नेः पुरे नरः स्नात्वा विशालायां कृतोदकः ||४१||
देवह्रद उपस्पृश्य ब्रह्मभूतो विराजते ||४१||
पुरापवर्तनं नन्दां महानन्दां च सेव्य वै |
नन्दने सेव्यते दान्तस्त्वप्सरोभिरहिंसकः ||४२||
उर्वशीकृत्तिकायोगे गत्वा यः सुसमाहितः |
लौहित्ये विधिवत्स्नात्वा पुण्डरीकफलं लभेत् ||४३||
रामह्रद उपस्पृश्य विशालायां कृतोदकः |
द्वादशाहं निराहारः कल्मषाद्विप्रमुच्यते ||४४||
महाह्रद उपस्पृश्य शुद्धेन मनसा नरः |
एकमासं निराहारो जमदग्निगतिं लभेत् ||४५||
विन्ध्ये सन्ताप्य चात्मानं सत्यसन्धस्त्वहिंसकः |
षण्मासं पदमास्थाय मासेनैकेन शुध्यति ||४६||
नर्मदायामुपस्पृश्य तथा सूर्पारकोदके |
एकपक्षं निराहारो राजपुत्रो विधीयते ||४७||
जम्बूमार्गे त्रिभिर्मासैः संयतः सुसमाहितः |
अहोरात्रेण चैकेन सिद्धिं समधिगच्छति ||४८||
कोकामुखे विगाह्यापो गत्वा चण्डालिकाश्रमम् |
शाकभक्षश्चीरवासाः कुमारीर्विन्दते दश ||४९||
वैवस्वतस्य सदनं न स गच्छेत्कदाचन |
यस्य कन्याह्रदे वासो देवलोकं स गच्छति ||५०||
प्रभासे त्वेकरात्रेण अमावास्यां समाहितः |
सिध्यतेऽत्र महाबाहो यो नरो जायते पुनः ||५१||
उज्जानक उपस्पृश्य आर्ष्टिषेणस्य चाश्रमे |
पिङ्गायाश्चाश्रमे स्नात्वा सर्वपापैः प्रमुच्यते ||५२||
कुल्यायां समुपस्पृश्य जप्त्वा चैवाघमर्षणम् |
अश्वमेधमवाप्नोति त्रिरात्रोपोषितः शुचिः ||५३||
पिण्डारक उपस्पृश्य एकरात्रोषितो नरः |
अग्निष्टोममवाप्नोति प्रभातां शर्वरीं शुचिः ||५४||
तथा ब्रह्मसरो गत्वा धर्मारण्योपशोभितम् |
पुण्डरीकमवाप्नोति प्रभातां शर्वरीं शुचिः ||५५||
मैनाके पर्वते स्नात्वा तथा सन्ध्यामुपास्य च |
कामं जित्वा च वै मासं सर्वमेधफलं लभेत् ||५६||
विख्यातो हिमवान्पुण्यः शङ्करश्वशुरो गिरिः |
आकरः सर्वरत्नानां सिद्धचारणसेवितः ||५७||
शरीरमुत्सृजेत्तत्र विधिपूर्वमनाशके |
अध्रुवं जीवितं ज्ञात्वा यो वै वेदान्तगो द्विजः ||५८||
अभ्यर्च्य देवतास्तत्र नमस्कृत्य मुनींस्तथा |
ततः सिद्धो दिवं गच्छेद्ब्रह्मलोकं सनातनम् ||५९||
कामं क्रोधं च लोभं च यो जित्वा तीर्थमावसेत् |
न तेन किञ्चिन्न प्राप्तं तीर्थाभिगमनाद्भवेत् ||६०||
यान्यगम्यानि तीर्थानि दुर्गाणि विषमाणि च |
मनसा तानि गम्यानि सर्वतीर्थसमासतः ||६१||
इदं मेध्यमिदं धन्यमिदं स्वर्ग्यमिदं सुखम् |
इदं रहस्यं देवानामाप्लाव्यानां च पावनम् ||६२||
इदं दद्याद्द्विजातीनां साधूनामात्मजस्य वा |
सुहृदां च जपेत्कर्णे शिष्यस्यानुगतस्य वा ||६३||
दत्तवान्गौतमस्येदमङ्गिरा वै महातपाः |
गुरुभिः समनुज्ञातः काश्यपेन च धीमता ||६४||
महर्षीणामिदं जप्यं पावनानां तथोत्तमम् |
जपंश्चाभ्युत्थितः शश्वन्निर्मलः स्वर्गमाप्नुयात् ||६५||
इदं यश्चापि शृणुयाद्रहस्यं त्वङ्गिरोमतम् |
उत्तमे च कुले जन्म लभेज्जातिं च संस्मरेत् ||६६||
गङ्गाप्रशंसनम्
२७
वैशम्पायन उवाच||
बृहस्पतिसमं बुद्ध्या क्षमया ब्रह्मणः समम् |
पराक्रमे शक्रसममादित्यसमतेजसम् ||१||
गाङ्गेयमर्जुनेनाजौ निहतं भूरिवर्चसम् |
भ्रातृभिः सहितोऽन्यैश्च पर्युपास्ते युधिष्ठिरः ||२||
शयानं वीरशयने कालाकाङ्क्षिणमच्युतम् |
आजग्मुर्भरतश्रेष्ठं द्रष्टुकामा महर्षयः ||३||
अत्रिर्वसिष्ठोऽथ भृगुः पुलस्त्यः पुलहः क्रतुः |
अङ्गिरा गौतमोऽगस्त्यः सुमतिः स्वायुरात्मवान् ||४||
विश्वामित्रः स्थूलशिराः संवर्तः प्रमतिर्दमः |
उशना बृहस्पतिर्व्यासश्च्यवनः काश्यपो ध्रुवः ||५||
दुर्वासा जमदग्निश्च मार्कण्डेयोऽथ गालवः |
भरद्वाजश्च रैभ्यश्च यवक्रीतस्त्रितस्तथा ||६||
स्थूलाक्षः शकलाक्षश्च कण्वो मेधातिथिः कृशः |
नारदः पर्वतश्चैव सुधन्वाथैकतो द्वितः ||७||
नितम्भूर्भुवनो धौम्यः शतानन्दोऽकृतव्रणः |
जामदग्न्यस्तथा रामः काम्यश्चेत्येवमादयः ||८||
समागता महात्मानो भीष्मं द्रष्टुं महर्षयः ||८||
तेषां महात्मनां पूजामागतानां युधिष्ठिरः |
भ्रातृभिः सहितश्चक्रे यथावदनुपूर्वशः ||९||
ते पूजिताः सुखासीनाः कथाश्चक्रुर्महर्षयः |
भीष्माश्रिताः सुमधुराः सर्वेन्द्रियमनोहराः ||१०||
भीष्मस्तेषां कथाः श्रुत्वा ऋषीणां भावितात्मनाम् |
मेने दिविस्थमात्मानं तुष्ट्या परमया युतः ||११||
ततस्ते भीष्ममामन्त्र्य पाण्डवांश्च महर्षयः |
अन्तर्धानं गताः सर्वे सर्वेषामेव पश्यताम् ||१२||
तानृषीन्सुमहाभागानन्तर्धानगतानपि |
पाण्डवास्तुष्टुवुः सर्वे प्रणेमुश्च मुहुर्मुहुः ||१३||
प्रसन्नमनसः सर्वे गाङ्गेयं कुरुसत्तमाः |
उपतस्थुर्यथोद्यन्तमादित्यं मन्त्रकोविदाः ||१४||
प्रभावात्तपसस्तेषामृषीणां वीक्ष्य पाण्डवाः |
प्रकाशन्तो दिशः सर्वा विस्मयं परमं ययुः ||१५||
महाभाग्यं परं तेषामृषीणामनुचिन्त्य ते |
पाण्डवाः सह भीष्मेण कथाश्चक्रुस्तदाश्रयाः ||१६||
कथान्ते शिरसा पादौ स्पृष्ट्वा भीष्मस्य पाण्डवः |
धर्म्यं धर्मसुतः प्रश्नं पर्यपृच्छद्युधिष्ठिरः ||१७||
के देशाः के जनपदा आश्रमाः के च पर्वताः |
प्रकृष्टाः पुण्यतः काश्च ज्ञेया नद्यः पितामह ||१८||
भीष्म उवाच||
अत्राप्युदाहरन्तीममितिहासं पुरातनम् |
शिलोञ्छवृत्तेः संवादं सिद्धस्य च युधिष्ठिर ||१९||
इमां कश्चित्परिक्रम्य पृथिवीं शैलभूषिताम् |
असकृद्द्विपदां श्रेष्ठः श्रेष्ठस्य गृहमेधिनः ||२०||
शिलवृत्तेर्गृहं प्राप्तः स तेन विधिनार्चितः |
कृतकृत्य उपातिष्ठत्सिद्धं तमतिथिं तदा ||२१||
तौ समेत्य महात्मानौ सुखासीनौ कथाः शुभाः |
चक्रतुर्वेदसम्बद्धास्तच्छेषकृतलक्षणाः ||२२||
शिलवृत्तिः कथान्ते तु सिद्धमामन्त्र्य यत्नतः |
प्रश्नं पप्रच्छ मेधावी यन्मां त्वं परिपृच्छसि ||२३||
शिलवृत्तिरुवाच||
के देशाः के जनपदाः केऽऽश्रमाः के च पर्वताः |
प्रकृष्टाः पुण्यतः काश्च ज्ञेया नद्यस्तदुच्यताम् ||२४||
सिद्ध उवाच||
ते देशास्ते जनपदास्तेऽऽश्रमास्ते च पर्वताः |
येषां भागीरथी गङ्गा मध्येनैति सरिद्वरा ||२५||
तपसा ब्रह्मचर्येण यज्ञैस्त्यागेन वा पुनः |
गतिं तां न लभेज्जन्तुर्गङ्गां संसेव्य यां लभेत् ||२६||
स्पृष्टानि येषां गाङ्गेयैस्तोयैर्गात्राणि देहिनाम् |
न्यस्तानि न पुनस्तेषां त्यागः स्वर्गाद्विधीयते ||२७||
सर्वाणि येषां गाङ्गेयैस्तोयैः कृत्यानि देहिनाम् |
गां त्यक्त्वा मानवा विप्र दिवि तिष्ठन्ति तेऽचलाः ||२८||
पूर्वे वयसि कर्माणि कृत्वा पापानि ये नराः |
पश्चाद्गङ्गां निषेवन्ते तेऽपि यान्त्युत्तमां गतिम् ||२९||
स्नातानां शुचिभिस्तोयैर्गाङ्गेयैः प्रयतात्मनाम् |
व्युष्टिर्भवति या पुंसां न सा क्रतुशतैरपि ||३०||
यावदस्थि मनुष्यस्य गङ्गातोयेषु तिष्ठति |
तावद्वर्षसहस्राणि स्वर्गं प्राप्य महीयते ||३१||
अपहत्य तमस्तीव्रं यथा भात्युदये रविः |
तथापहत्य पाप्मानं भाति गङ्गाजलोक्षितः ||३२||
विसोमा इव शर्वर्यो विपुष्पास्तरवो यथा |
तद्वद्देशा दिशश्चैव हीना गङ्गाजलैः शुभैः ||३३||
वर्णाश्रमा यथा सर्वे स्वधर्मज्ञानवर्जिताः |
क्रतवश्च यथासोमास्तथा गङ्गां विना जगत् ||३४||
यथा हीनं नभोऽर्केण भूः शैलैः खं च वायुना |
तथा देशा दिशश्चैव गङ्गाहीना न संशयः ||३५||
त्रिषु लोकेषु ये केचित्प्राणिनः सर्व एव ते |
तर्प्यमाणाः परां तृप्तिं यान्ति गङ्गाजलैः शुभैः ||३६||
यस्तु सूर्येण निष्टप्तं गाङ्गेयं पिबते जलम् |
गवां निर्हारनिर्मुक्ताद्यावकात्तद्विशिष्यते ||३७||
इन्दुव्रतसहस्रं तु चरेद्यः कायशोधनम् |
पिबेद्यश्चापि गङ्गाम्भः समौ स्यातां न वा समौ ||३८||
तिष्ठेद्युगसहस्रं तु पादेनैकेन यः पुमान् |
मासमेकं तु गङ्गायां समौ स्यातां न वा समौ ||३९||
लम्बेतावाक्षिरा यस्तु युगानामयुतं पुमान् |
तिष्ठेद्यथेष्टं यश्चापि गङ्गायां स विशिष्यते ||४०||
अग्नौ प्राप्तं प्रधूयेत यथा तूलं द्विजोत्तम |
तथा गङ्गावगाढस्य सर्वं पापं प्रधूयते ||४१||
भूतानामिह सर्वेषां दुःखोपहतचेतसाम् |
गतिमन्वेषमाणानां न गङ्गासदृशी गतिः ||४२||
भवन्ति निर्विषाः सर्पा यथा तार्क्ष्यस्य दर्शनात् |
गङ्गाया दर्शनात्तद्वत्सर्वपापैः प्रमुच्यते ||४३||
अप्रतिष्ठाश्च ये केचिदधर्मशरणाश्च ये |
तेषां प्रतिष्ठा गङ्गेह शरणं शर्म वर्म च ||४४||
प्रकृष्टैरशुभैर्ग्रस्ताननेकैः पुरुषाधमान् |
पततो नरके गङ्गा संश्रितान्प्रेत्य तारयेत् ||४५||
ते संविभक्ता मुनिभिर्नूनं देवैः सवासवैः |
येऽभिगच्छन्ति सततं गङ्गामभिगतां सुरैः ||४६||
विनयाचारहीनाश्च अशिवाश्च नराधमाः |
ते भवन्ति शिवा विप्र ये वै गङ्गां समाश्रिताः ||४७||
यथा सुराणाममृतं पितॄणां च यथा स्वधा |
सुधा यथा च नागानां तथा गङ्गाजलं नृणाम् ||४८||
उपासते यथा बाला मातरं क्षुधयार्दिताः |
श्रेयस्कामास्तथा गङ्गामुपासन्तीह देहिनः ||४९||
स्वायम्भुवं यथा स्थानं सर्वेषां श्रेष्ठमुच्यते |
स्नातानां सरितां श्रेष्ठा गङ्गा तद्वदिहोच्यते ||५०||
यथोपजीविनां धेनुर्देवादीनां धरा स्मृता |
तथोपजीविनां गङ्गा सर्वप्राणभृतामिह ||५१||
देवाः सोमार्कसंस्थानि यथा सत्रादिभिर्मखैः |
अमृतान्युपजीवन्ति तथा गङ्गाजलं नराः ||५२||
जाह्नवीपुलिनोत्थाभिः सिकताभिः समुक्षितः |
मन्यते पुरुषोऽऽत्मानं दिविष्ठमिव शोभितम् ||५३||
जाह्नवीतीरसम्भूतां मृदं मूर्ध्ना बिभर्ति यः |
बिभर्ति रूपं सोऽर्कस्य तमोनाशात्सुनिर्मलम् ||५४||
गङ्गोर्मिभिरथो दिग्धः पुरुषं पवनो यदा |
स्पृशते सोऽपि पाप्मानं सद्य एवापमार्जति ||५५||
व्यसनैरभितप्तस्य नरस्य विनशिष्यतः |
गङ्गादर्शनजा प्रीतिर्व्यसनान्यपकर्षति ||५६||
हंसारावैः कोकरवै रवैरन्यैश्च पक्षिणाम् |
पस्पर्ध गङ्गा गन्धर्वान्पुलिनैश्च शिलोच्चयान् ||५७||
हंसादिभिः सुबहुभिर्विविधैः पक्षिभिर्वृताम् |
गङ्गां गोकुलसम्बाधां दृष्ट्वा स्वर्गोऽपि विस्मृतः ||५८||
न सा प्रीतिर्दिविष्ठस्य सर्वकामानुपाश्नतः |
अभवद्या परा प्रीतिर्गङ्गायाः पुलिने नृणाम् ||५९||
वाङ्मनःकर्मजैर्ग्रस्तः पापैरपि पुमानिह |
वीक्ष्य गङ्गां भवेत्पूतस्तत्र मे नास्ति संशयः ||६०||
सप्तावरान्सप्त परान्पितॄंस्तेभ्यश्च ये परे |
पुमांस्तारयते गङ्गां वीक्ष्य स्पृष्ट्वावगाह्य च ||६१||
श्रुताभिलषिता दृष्टा स्पृष्टा पीतावगाहिता |
गङ्गा तारयते नॄणामुभौ वंशौ विशेषतः ||६२||
दर्शनात्स्पर्शनात्पानात्तथा गङ्गेति कीर्तनात् |
पुनात्यपुण्यान्पुरुषाञ्शतशोऽथ सहस्रशः ||६३||
य इच्छेत्सफलं जन्म जीवितं श्रुतमेव च |
स पितॄंस्तर्पयेद्गङ्गामभिगम्य सुरांस्तथा ||६४||
न सुतैर्न च वित्तेन कर्मणा न च तत्फलम् |
प्राप्नुयात्पुरुषोऽत्यन्तं गङ्गां प्राप्य यदाप्नुयात् ||६५||
जात्यन्धैरिह तुल्यास्ते मृतैः पङ्गुभिरेव च |
समर्था ये न पश्यन्ति गङ्गां पुण्यजलां शिवाम् ||६६||
भूतभव्यभविष्यज्ञैर्महर्षिभिरुपस्थिताम् |
देवैः सेन्द्रैश्च को गङ्गां नोपसेवेत मानवः ||६७||
वानप्रस्थैर्गृहस्थैश्च यतिभिर्ब्रह्मचारिभिः |
विद्यावद्भिः श्रितां गङ्गां पुमान्को नाम नाश्रयेत् ||६८||
उत्क्रामद्भिश्च यः प्राणैः प्रयतः शिष्टसंमतः |
चिन्तयेन्मनसा गङ्गां स गतिं परमां लभेत् ||६९||
न भयेभ्यो भयं तस्य न पापेभ्यो न राजतः |
आ देहपतनाद्गङ्गामुपास्ते यः पुमानिह ||७०||
गगनाद्यां महापुण्यां पतन्तीं वै महेश्वरः |
दधार शिरसा देवीं तामेव दिवि सेवते ||७१||
अलङ्कृतास्त्रयो लोकाः पथिभिर्विमलैस्त्रिभिः |
यस्तु तस्या जलं सेवेत्कृतकृत्यः पुमान्भवेत् ||७२||
दिवि ज्योतिर्यथादित्यः पितॄणां चैव चन्द्रमाः |
देवेशश्च यथा नॄणां गङ्गेह सरितां तथा ||७३||
मात्रा पित्रा सुतैर्दारैर्वियुक्तस्य धनेन वा |
न भवेद्धि तथा दुःखं यथा गङ्गावियोगजम् ||७४||
नारण्यैर्नेष्टविषयैर्न सुतैर्न धनागमैः |
तथा प्रसादो भवति गङ्गां वीक्ष्य यथा नृणाम् ||७५||
पूर्णमिन्दुं यथा दृष्ट्वा नृणां दृष्टिः प्रसीदति |
गङ्गां त्रिपथगां दृष्ट्वा तथा दृष्टिः प्रसीदति ||७६||
तद्भावस्तद्गतमनास्तन्निष्ठस्तत्परायणः |
गङ्गां योऽनुगतो भक्त्या स तस्याः प्रियतां व्रजेत् ||७७||
भूःस्थैः खस्थैर्दिविष्ठैश्च भूतैरुच्चावचैरपि |
गङ्गा विगाह्या सततमेतत्कार्यतमं सताम् ||७८||
त्रिषु लोकेषु पुण्यत्वाद्गङ्गायाः प्रथितं यशः |
यत्पुत्रान्सगरस्यैषा भस्माख्याननयद्दिवम् ||७९||
वाय्वीरिताभिः सुमहास्वनाभि; र्द्रुताभिरत्यर्थसमुच्छ्रिताभिः |
गङ्गोर्मिभिर्भानुमतीभिरिद्धः; सहस्ररश्मिप्रतिमो विभाति ||८०||
पयस्विनीं घृतिनीमत्युदारां; समृद्धिनीं वेगिनीं दुर्विगाह्याम् |
गङ्गां गत्वा यैः शरीरं विसृष्टं; गता धीरास्ते विबुधैः समत्वम् ||८१||
अन्धाञ्जडान्द्रव्यहीनांश्च गङ्गा; यशस्विनी बृहती विश्वरूपा |
देवैः सेन्द्रैर्मुनिभिर्मानवैश्च; निषेविता सर्वकामैर्युनक्ति ||८२||
ऊर्जावतीं मधुमतीं महापुण्यां त्रिवर्त्मगाम् |
त्रिलोकगोप्त्रीं ये गङ्गां संश्रितास्ते दिवं गताः ||८३||
यो वत्स्यति द्रक्ष्यति वापि मर्त्य; स्तस्मै प्रयच्छन्ति सुखानि देवाः |
तद्भाविताः स्पर्शने दर्शने य; स्तस्मै देवा गतिमिष्टां दिशन्ति ||८४||
दक्षां पृथ्वीं बृहतीं विप्रकृष्टां; शिवामृतां सुरसां सुप्रसन्नाम् |
विभावरीं सर्वभूतप्रतिष्ठां; गङ्गां गता ये त्रिदिवं गतास्ते ||८५||
ख्यातिर्यस्याः खं दिवं गां च नित्यं; पुरा दिशो विदिशश्चावतस्थे |
तस्या जलं सेव्य सरिद्वराया; मर्त्याः सर्वे कृतकृत्या भवन्ति ||८६||
इयं गङ्गेति नियतं प्रतिष्ठा; गुहस्य रुक्मस्य च गर्भयोषा |
प्रातस्त्रिमार्गा घृतवहा विपाप्मा; गङ्गावतीर्णा वियतो विश्वतोया ||८७||
सुतावनीध्रस्य हरस्य भार्या; दिवो भुवश्चापि कक्ष्यानुरूपा |
भव्या पृथिव्या भाविनी भाति राज; न्गङ्गा लोकानां पुण्यदा वै त्रयाणाम् ||८८||
मधुप्रवाहा घृतरागोद्धृताभि; र्महोर्मिभिः शोभिता ब्राह्मणैश्च |
दिवश्च्युता शिरसात्ता भवेन; गङ्गावनीध्रास्त्रिदिवस्य माला ||८९||
योनिर्वरिष्ठा विरजा वितन्वी; शुष्मा इरा वारिवहा यशोदा |
विश्वावती चाकृतिरिष्टिरिद्धा; गङ्गोक्षितानां भुवनस्य पन्थाः ||९०||
क्षान्त्या मह्या गोपने धारणे च; दीप्त्या कृशानोस्तपनस्य चैव |
तुल्या गङ्गा संमता ब्राह्मणानां; गुहस्य ब्रह्मण्यतया च नित्यम् ||९१||
ऋषिष्टुतां विष्णुपदीं पुराणीं; सुपुण्यतोयां मनसापि लोके |
सर्वात्मना जाह्नवीं ये प्रपन्ना; स्ते ब्रह्मणः सदनं सम्प्रयाताः ||९२||
लोकानिमान्नयति या जननीव पुत्रा; न्सर्वात्मना सर्वगुणोपपन्ना |
स्वस्थानमिष्टमिह ब्राह्ममभीप्समानै; र्गङ्गा सदैवात्मवशैरुपास्या ||९३||
उस्रां जुष्टां मिषतीं विश्वतोया; मिरां वज्रीं रेवतीं भूधराणाम् |
शिष्टाश्रयाममृतां ब्रह्मकान्तां; गङ्गां श्रयेदात्मवान्सिद्धिकामः ||९४||
प्रसाद्य देवान्सविभून्समस्ता; न्भगीरथस्तपसोग्रेण गङ्गाम् |
गामानयत्तामभिगम्य शश्व; न्पुमान्भयं नेह नामुत्र विद्यात् ||९५||
उदाहृतः सर्वथा ते गुणानां; मयैकदेशः प्रसमीक्ष्य बुद्ध्या |
शक्तिर्न मे काचिदिहास्ति वक्तुं; गुणान्सर्वान्परिमातुं तथैव ||९६||
मेरोः समुद्रस्य च सर्वरत्नैः; सङ्ख्योपलानामुदकस्य वापि |
वक्तुं शक्यं नेह गङ्गाजलानां; गुणाख्यानं परिमातुं तथैव ||९७||
तस्मादिमान्परया श्रद्धयोक्ता; न्गुणान्सर्वाञ्जाह्नवीजांस्तथैव |
भजेद्वाचा मनसा कर्मणा च; भक्त्या युक्तः परया श्रद्दधानः ||९८||
लोकानिमांस्त्रीन्यशसा वितत्य; सिद्धिं प्राप्य महतीं तां दुरापाम् |
गङ्गाकृतानचिरेणैव लोका; न्यथेष्टमिष्टान्विचरिष्यसि त्वम् ||९९||
तव मम च गुणैर्महानुभावा; जुषतु मतिं सततं स्वधर्मयुक्तैः |
अभिगतजनवत्सला हि गङ्गा; भजति युनक्ति सुखैश्च भक्तिमन्तम् ||१००||
भीष्म उवाच||
इति परममतिर्गुणाननेका; ञ्शिलरतये त्रिपथानुयोगरूपान् |
बहुविधमनुशास्य तथ्यरूपा; न्गगनतलं द्युतिमान्विवेश सिद्धः ||१०१||
शिलवृत्तिस्तु सिद्धस्य वाक्यैः सम्बोधितस्तदा |
गङ्गामुपास्य विधिवत्सिद्धिं प्राप्तः सुदुर्लभाम् ||१०२||
तस्मात्त्वमपि कौन्तेय भक्त्या परमया युतः |
गङ्गामभ्येहि सततं प्राप्स्यसे सिद्धिमुत्तमाम् ||१०३||
वैशम्पायन उवाच||
श्रुत्वेतिहासं भीष्मोक्तं गङ्गायाः स्तवसंयुतम् |
युधिष्ठिरः परां प्रीतिमगच्छद्भ्रातृभिः सह ||१०४||
इतिहासमिमं पुण्यं शृणुयाद्यः पठेत वा |
गङ्गायाः स्तवसंयुक्तं स मुच्येत्सर्वकिल्बिषैः ||१०५||
मतङ्गोपाख्यानम्
२८
युधिष्ठिर उवाच||
प्रज्ञाश्रुताभ्यां वृत्तेन शीलेन च यथा भवान् |
गुणैः समुदितः सर्वैर्वयसा च समन्वितः ||१||
तस्माद्भवन्तं पृच्छामि धर्मं धर्मभृतां वर ||१||
क्षत्रियो यदि वा वैश्यः शूद्रो वा राजसत्तम |
ब्राह्मण्यं प्राप्नुयात्केन तन्मे व्याख्यातुमर्हसि ||२||
तपसा वा सुमहता कर्मणा वा श्रुतेन वा |
ब्राह्मण्यमथ चेदिच्छेत्तन्मे ब्रूहि पितामह ||३||
भीष्म उवाच||
ब्राह्मण्यं तात दुष्प्रापं वर्णैः क्षत्रादिभिस्त्रिभिः |
परं हि सर्वभूतानां स्थानमेतद्युधिष्ठिर ||४||
बह्वीस्तु संसरन्योनीर्जायमानः पुनः पुनः |
पर्याये तात कस्मिंश्चिद्ब्राह्मणो नाम जायते ||५||
अत्राप्युदाहरन्तीममितिहासं पुरातनम् |
मतङ्गस्य च संवादं गर्दभ्याश्च युधिष्ठिर ||६||
द्विजातेः कस्यचित्तात तुल्यवर्णः सुतः प्रभुः |
मतङ्गो नाम नाम्नाभूत्सर्वैः समुदितो गुणैः ||७||
स यज्ञकारः कौन्तेय पित्रा सृष्टः परन्तप |
प्रायाद्गर्दभयुक्तेन रथेनेहाशुगामिना ||८||
स बालं गर्दभं राजन्वहन्तं मातुरन्तिके |
निरविध्यत्प्रतोदेन नासिकायां पुनः पुनः ||९||
तं तु तीव्रव्रणं दृष्ट्वा गर्दभी पुत्रगृद्धिनी |
उवाच मा शुचः पुत्र चण्डालस्त्वाधितिष्ठति ||१०||
ब्राह्मणे दारुणं नास्ति मैत्रो ब्राह्मण उच्यते |
आचार्यः सर्वभूतानां शास्ता किं प्रहरिष्यति ||११||
अयं तु पापप्रकृतिर्बाले न कुरुते दयाम् |
स्वयोनिं मानयत्येष भावो भावं निगच्छति ||१२||
एतच्छ्रुत्वा मतङ्गस्तु दारुणं रासभीवचः |
अवतीर्य रथात्तूर्णं रासभीं प्रत्यभाषत ||१३||
ब्रूहि रासभि कल्याणि माता मे येन दूषिता |
कथं मां वेत्सि चण्डालं क्षिप्रं रासभि शंस मे ||१४||
केन जातोऽस्मि चण्डालो ब्राह्मण्यं येन मेऽनशत् |
तत्त्वेनैतन्महाप्राज्ञे ब्रूहि सर्वमशेषतः ||१५||
गर्दभ्युवाच||
ब्राह्मण्यां वृषलेन त्वं मत्तायां नापितेन ह |
जातस्त्वमसि चण्डालो ब्राह्मण्यं तेन तेऽनशत् ||१६||
एवमुक्तो मतङ्गस्तु प्रत्युपायाद्गृहं प्रति |
तमागतमभिप्रेक्ष्य पिता वाक्यमथाब्रवीत् ||१७||
मया त्वं यज्ञसंसिद्धौ नियुक्तो गुरुकर्मणि |
कस्मात्प्रतिनिवृत्तोऽसि कच्चिन्न कुशलं तव ||१८||
मतङ्ग उवाच||
अयोनिरग्र्ययोनिर्वा यः स्यात्स कुशली भवेत् |
कुशलं तु कुतस्तस्य यस्येयं जननी पितः ||१९||
ब्राह्मण्यां वृषलाज्जातं पितर्वेदयतीह माम् |
अमानुषी गर्दभीयं तस्मात्तप्स्ये तपो महत् ||२०||
एवमुक्त्वा स पितरं प्रतस्थे कृतनिश्चयः |
ततो गत्वा महारण्यमतप्यत महत्तपः ||२१||
ततः सन्तापयामास विबुधांस्तपसान्वितः |
मतङ्गः सुसुखं प्रेप्सुः स्थानं सुचरितादपि ||२२||
तं तथा तपसा युक्तमुवाच हरिवाहनः |
मतङ्ग तप्यसे किं त्वं भोगानुत्सृज्य मानुषान् ||२३||
वरं ददानि ते हन्त वृणीष्व त्वं यदिच्छसि |
यच्चाप्यवाप्यमन्यत्ते सर्वं प्रब्रूहि माचिरम् ||२४||
मतङ्ग उवाच||
ब्राह्मण्यं कामयानोऽहमिदमारब्धवांस्तपः |
गच्छेयं तदवाप्येह वर एष वृतो मया ||२५||
एतच्छ्रुत्वा तु वचनं तमुवाच पुरंदरः |
ब्राह्मण्यं प्रार्थयानस्त्वमप्राप्यमकृतात्मभिः ||२६||
श्रेष्ठं यत्सर्वभूतेषु तपो यन्नातिवर्तते |
तदग्र्यं प्रार्थयानस्त्वमचिराद्विनशिष्यसि ||२७||
देवतासुरमर्त्येषु यत्पवित्रं परं स्मृतम् |
चण्डालयोनौ जातेन न तत्प्राप्यं कथञ्चन ||२८||
इन्द्रमतङ्गसंवादः
२९
भीष्म उवाच||
एवमुक्तो मतङ्गस्तु संशितात्मा यतव्रतः |
अतिष्ठदेकपादेन वर्षाणां शतमच्युत ||१||
तमुवाच ततः शक्रः पुनरेव महायशाः |
मतङ्ग परमं स्थानं प्रार्थयन्नतिदुर्लभम् ||२||
मा कृथाः साहसं पुत्र नैष धर्मपथस्तव |
अप्राप्यं प्रार्थयानो हि नचिराद्विनशिष्यसि ||३||
मतङ्ग परमं स्थानं वार्यमाणो मया सकृत् |
चिकीर्षस्येव तपसा सर्वथा न भविष्यसि ||४||
तिर्यग्योनिगतः सर्वो मानुष्यं यदि गच्छति |
स जायते पुल्कसो वा चण्डालो वा कदाचन ||५||
पुंश्चलः पापयोनिर्वा यः कश्चिदिह लक्ष्यते |
स तस्यामेव सुचिरं मतङ्ग परिवर्तते ||६||
ततो दशगुणे काले लभते शूद्रतामपि |
शूद्रयोनावपि ततो बहुशः परिवर्तते ||७||
ततस्त्रिंशद्गुणे काले लभते वैश्यतामपि |
वैश्यतायां चिरं कालं तत्रैव परिवर्तते ||८||
ततः षष्टिगुणे काले राजन्यो नाम जायते |
राजन्यत्वे चिरं कालं तत्रैव परिवर्तते ||९||
ततः षष्टिगुणे काले लभते ब्रह्मबन्धुताम् |
ब्रह्मबन्धुश्चिरं कालं तत्रैव परिवर्तते ||१०||
ततस्तु द्विशते काले लभते काण्डपृष्ठताम् |
काण्डपृष्ठश्चिरं कालं तत्रैव परिवर्तते ||११||
ततस्तु त्रिशते काले लभते द्विजतामपि |
तां च प्राप्य चिरं कालं तत्रैव परिवर्तते ||१२||
ततश्चतुःशते काले श्रोत्रियो नाम जायते |
श्रोत्रियत्वे चिरं कालं तत्रैव परिवर्तते ||१३||
तदैव क्रोधहर्षौ च कामद्वेषौ च पुत्रक |
अतिमानातिवादौ तमाविशन्ति द्विजाधमम् ||१४||
तांश्चेज्जयति शत्रून्स तदा प्राप्नोति सद्गतिम् |
अथ ते वै जयन्त्येनं तालाग्रादिव पात्यते ||१५||
मतङ्ग सम्प्रधार्यैतद्यदहं त्वामचूचुदम् |
वृणीष्व काममन्यं त्वं ब्राह्मण्यं हि सुदुर्लभम् ||१६||
३०
भीष्म उवाच||
एवमुक्तो मतङ्गस्तु भृशं शोकपरायणः |
अतिष्ठत गयां गत्वा सोऽङ्गुष्ठेन शतं समाः ||१||
सुदुष्करं वहन्योगं कृशो धमनिसन्ततः |
त्वगस्थिभूतो धर्मात्मा स पपातेति नः श्रुतम् ||२||
तं पतन्तमभिद्रुत्य परिजग्राह वासवः |
वराणामीश्वरो दाता सर्वभूतहिते रतः ||३||
शक्र उवाच||
मतङ्ग ब्राह्मणत्वं ते संवृतं परिपन्थिभिः |
पूजयन्सुखमाप्नोति दुःखमाप्नोत्यपूजयन् ||४||
ब्राह्मणे सर्वभूतानां योगक्षेमः समाहितः |
ब्राह्मणेभ्योऽनुतृप्यन्ति पितरो देवतास्तथा ||५||
ब्राह्मणः सर्वभूतानां मतङ्ग पर उच्यते |
ब्राह्मणः कुरुते तद्धि यथा यद्यच्च वाञ्छति ||६||
बह्वीस्तु संसरन्योनीर्जायमानः पुनः पुनः |
पर्याये तात कस्मिंश्चिद्ब्राह्मण्यमिह विन्दति ||७||
मतङ्ग उवाच||
किं मां तुदसि दुःखार्तं मृतं मारयसे च माम् |
तं तु शोचामि यो लब्ध्वा ब्राह्मण्यं न बुभूषते ||८||
ब्राह्मण्यं यदि दुष्प्रापं त्रिभिर्वर्णैः शतक्रतो |
सुदुर्लभं तदावाप्य नानुतिष्ठन्ति मानवाः ||९||
यः पापेभ्यः पापतमस्तेषामधम एव सः |
ब्राह्मण्यं योऽवजानीते धनं लब्ध्वेव दुर्लभम् ||१०||
दुष्प्रापं खलु विप्रत्वं प्राप्तं दुरनुपालनम् |
दुरवापमवाप्यैतन्नानुतिष्ठन्ति मानवाः ||११||
एकारामो ह्यहं शक्र निर्द्वंद्वो निष्परिग्रहः |
अहिंसादमदानस्थः कथं नार्हामि विप्रताम् ||१२||
यथाकामविहारी स्यां कामरूपी विहङ्गमः |
ब्रह्मक्षत्राविरोधेन पूजां च प्राप्नुयामहम् ||१३||
यथा ममाक्षया कीर्तिर्भवेच्चापि पुरंदर ||१३||
इन्द्र उवाच||
छन्दोदेव इति ख्यातः स्त्रीणां पूज्यो भविष्यसि |
भीष्म उवाच||
एवं तस्मै वरं दत्त्वा वासवोऽन्तरधीयत |
प्राणांस्त्यक्त्वा मतङ्गोऽपि प्राप तत्स्थानमुत्तमम् ||१५||
एवमेतत्परं स्थानं ब्राह्मण्यं नाम भारत |
तच्च दुष्प्रापमिह वै महेन्द्रवचनं यथा ||१६||
वीतहव्योपाख्यानम्
३१
युधिष्ठिर उवाच||
श्रुतं मे महदाख्यानमेतत्कुरुकुलोद्वह |
सुदुष्प्रापं ब्रवीषि त्वं ब्राह्मण्यं वदतां वर ||१||
विश्वामित्रेण च पुरा ब्राह्मण्यं प्राप्तमित्युत |
श्रूयते वदसे तच्च दुष्प्रापमिति सत्तम ||२||
वीतहव्यश्च राजर्षिः श्रुतो मे विप्रतां गतः |
तदेव तावद्गाङ्गेय श्रोतुमिच्छाम्यहं विभो ||३||
स केन कर्मणा प्राप्तो ब्राह्मण्यं राजसत्तम |
वरेण तपसा वापि तन्मे व्याख्यातुमर्हति ||४||
भीष्म उवाच||
शृणु राजन्यथा राजा वीतहव्यो महायशाः |
क्षत्रियः सन्पुनः प्राप्तो ब्राह्मण्यं लोकसत्कृतम् ||५||
मनोर्महात्मनस्तात प्रजाधर्मेण शासतः |
बभूव पुत्रो धर्मात्मा शर्यातिरिति विश्रुतः ||६||
तस्यान्ववाये द्वौ राजन्राजानौ सम्बभूवतुः |
हेहयस्तालजङ्घश्च वत्सेषु जयतां वर ||७||
हेहयस्य तु पुत्राणां दशसु स्त्रीषु भारत |
शतं बभूव प्रख्यातं शूराणामनिवर्तिनाम् ||८||
तुल्यरूपप्रभावाणां विदुषां युद्धशालिनाम् |
धनुर्वेदे च वेदे च सर्वत्रैव कृतश्रमाः ||९||
काशिष्वपि नृपो राजन्दिवोदासपितामहः |
हर्यश्व इति विख्यातो बभूव जयतां वरः ||१०||
स वीतहव्यदायादैरागत्य पुरुषर्षभ |
गङ्गायमुनयोर्मध्ये सङ्ग्रामे विनिपातितः ||११||
तं तु हत्वा नरवरं हेहयास्ते महारथाः |
प्रतिजग्मुः पुरीं रम्यां वत्सानामकुतोभयाः ||१२||
हर्यश्वस्य तु दायादः काशिराजोऽभ्यषिच्यत |
सुदेवो देवसङ्काशः साक्षाद्धर्म इवापरः ||१३||
स पालयन्नेव महीं धर्मात्मा काशिनन्दनः |
तैर्वीतहव्यैरागत्य युधि सर्वैर्विनिर्जितः ||१४||
तमप्याजौ विनिर्जित्य प्रतिजग्मुर्यथागतम् |
सौदेविस्त्वथ काशीशो दिवोदासोऽभ्यषिच्यत ||१५||
दिवोदासस्तु विज्ञाय वीर्यं तेषां महात्मनाम् |
वाराणसीं महातेजा निर्ममे शक्रशासनात् ||१६||
विप्रक्षत्रियसम्बाधां वैश्यशूद्रसमाकुलाम् |
नैकद्रव्योच्चयवतीं समृद्धविपणापणाम् ||१७||
गङ्गाया उत्तरे कूले वप्रान्ते राजसत्तम |
गोमत्या दक्षिणे चैव शक्रस्येवामरावतीम् ||१८||
तत्र तं राजशार्दूलं निवसन्तं महीपतिम् |
आगत्य हेहया भूयः पर्यधावन्त भारत ||१९||
स निष्पत्य ददौ युद्धं तेभ्यो राजा महाबलः |
देवासुरसमं घोरं दिवोदासो महाद्युतिः ||२०||
स तु युद्धे महाराज दिनानां दशतीर्दश |
हतवाहनभूयिष्ठस्ततो दैन्यमुपागमत् ||२१||
हतयोधस्ततो राजन्क्षीणकोशश्च भूमिपः |
दिवोदासः पुरीं हित्वा पलायनपरोऽभवत् ||२२||
स त्वाश्रममुपागम्य भरद्वाजस्य धीमतः |
जगाम शरणं राजा कृताञ्जलिररिंदम ||२३||
राजोवाच||
भगवन्वैतहव्यैर्मे युद्धे वंशः प्रणाशितः |
अहमेकः परिद्यूनो भवन्तं शरणं गतः ||२४||
शिष्यस्नेहेन भगवन्स मां रक्षितुमर्हसि |
निःशेषो हि कृतो वंशो मम तैः पापकर्मभिः ||२५||
तमुवाच महाभागो भरद्वाजः प्रतापवान् |
न भेतव्यं न भेतव्यं सौदेव व्येतु ते भयम् ||२६||
अहमिष्टिं करोम्यद्य पुत्रार्थं ते विशां पते |
वैतहव्यसहस्राणि यथा त्वं प्रसहिष्यसि ||२७||
तत इष्टिं चकारर्षिस्तस्य वै पुत्रकामिकीम् |
अथास्य तनयो जज्ञे प्रतर्दन इति श्रुतः ||२८||
स जातमात्रो ववृधे समाः सद्यस्त्रयोदश |
वेदं चाधिजगे कृत्स्नं धनुर्वेदं च भारत ||२९||
योगेन च समाविष्टो भरद्वाजेन धीमता |
तेजो लौक्यं स सङ्गृह्य तस्मिन्देशे समाविशत् ||३०||
ततः स कवची धन्वी बाणी दीप्त इवानलः |
प्रययौ स धनुर्धुन्वन्विवर्षुरिव तोयदः ||३१||
तं दृष्ट्वा परमं हर्षं सुदेवतनयो ययौ |
मेने च मनसा दग्धान्वैतहव्यान्स पार्थिवः ||३२||
ततस्तं यौवराज्येन स्थापयित्वा प्रतर्दनम् |
कृतकृत्यं तदात्मानं स राजा अभ्यनन्दत ||३३||
ततस्तु वैतहव्यानां वधाय स महीपतिः |
पुत्रं प्रस्थापयामास प्रतर्दनमरिंदमम् ||३४||
सरथः स तु सन्तीर्य गङ्गामाशु पराक्रमी |
प्रययौ वीतहव्यानां पुरीं परपुरञ्जयः ||३५||
वैतहव्यास्तु संश्रुत्य रथघोषं समुद्धतम् |
निर्ययुर्नगराकारै रथैः पररथारुजैः ||३६||
निष्क्रम्य ते नरव्याघ्रा दंशिताश्चित्रयोधिनः |
प्रतर्दनं समाजघ्नुः शरवर्षैरुदायुधाः ||३७||
अस्त्रैश्च विविधाकारै रथौघैश्च युधिष्ठिर |
अभ्यवर्षन्त राजानं हिमवन्तमिवाम्बुदाः ||३८||
अस्त्रैरस्त्राणि संवार्य तेषां राजा प्रतर्दनः |
जघान तान्महातेजा वज्रानलसमैः शरैः ||३९||
कृत्तोत्तमाङ्गास्ते राजन्भल्लैः शतसहस्रशः |
अपतन्रुधिरार्द्राङ्गा निकृत्ता इव किंशुकाः ||४०||
हतेषु तेषु सर्वेषु वीतहव्यः सुतेष्वथ |
प्राद्रवन्नगरं हित्वा भृगोराश्रममप्युत ||४१||
ययौ भृगुं च शरणं वीतहव्यो नराधिपः |
अभयं च ददौ तस्मै राज्ञे राजन्भृगुस्तथा ||४२||
ततो ददावासनं च तस्मै शिष्यो भृगोस्तदा ||४२||
अथानुपदमेवाशु तत्रागच्छत्प्रतर्दनः |
स प्राप्य चाश्रमपदं दिवोदासात्मजोऽब्रवीत् ||४३||
भो भोः केऽत्राश्रमे सन्ति भृगोः शिष्या महात्मनः |
द्रष्टुमिच्छे मुनिमहं तस्याचक्षत मामिति ||४४||
स तं विदित्वा तु भृगुर्निश्चक्रामाश्रमात्तदा |
पूजयामास च ततो विधिना परमेण ह ||४५||
उवाच चैनं राजेन्द्र किं कार्यमिति पार्थिवम् |
स चोवाच नृपस्तस्मै यदागमनकारणम् ||४६||
अयं ब्रह्मन्नितो राजा वीतहव्यो विसर्ज्यताम् |
अस्य पुत्रैर्हि मे ब्रह्मन्कृत्स्नो वंशः प्रणाशितः ||४७||
उत्सादितश्च विषयः काशीनां रत्नसञ्चयः ||४७||
एतस्य वीर्यदृप्तस्य हतं पुत्रशतं मया |
अस्येदानीं वधाद्ब्रह्मन्भविष्याम्यनृणः पितुः ||४८||
तमुवाच कृपाविष्टो भृगुर्धर्मभृतां वरः |
नेहास्ति क्षत्रियः कश्चित्सर्वे हीमे द्विजातयः ||४९||
एवं तु वचनं श्रुत्वा भृगोस्तथ्यं प्रतर्दनः |
पादावुपस्पृश्य शनैः प्रहसन्वाक्यमब्रवीत् ||५०||
एवमप्यस्मि भगवन्कृतकृत्यो न संशयः |
यदेष राजा वीर्येण स्वजातिं त्याजितो मया ||५१||
अनुजानीहि मां ब्रह्मन्ध्यायस्व च शिवेन माम् |
त्याजितो हि मया जातिमेष राजा भृगूद्वह ||५२||
ततस्तेनाभ्यनुज्ञातो ययौ राजा प्रतर्दनः |
यथागतं महाराज मुक्त्वा विषमिवोरगः ||५३||
भृगोर्वचनमात्रेण स च ब्रह्मर्षितां गतः |
वीतहव्यो महाराज ब्रह्मवादित्वमेव च ||५४||
तस्य गृत्समदः पुत्रो रूपेणेन्द्र इवापरः |
शक्रस्त्वमिति यो दैत्यैर्निगृहीतः किलाभवत् ||५५||
ऋग्वेदे वर्तते चाग्र्या श्रुतिरत्र विशां पते |
यत्र गृत्समदो ब्रह्मन्ब्राह्मणैः स महीयते ||५६||
स ब्रह्मचारी विप्रर्षिः श्रीमान्गृत्समदोऽभवत् |
पुत्रो गृत्समदस्यापि सुचेता अभवद्द्विजः ||५७||
वर्चाः सुतेजसः पुत्रो विहव्यस्तस्य चात्मजः |
विहव्यस्य तु पुत्रस्तु वितत्यस्तस्य चात्मजः ||५८||
वितत्यस्य सुतः सत्यः सन्तः सत्यस्य चात्मजः |
श्रवास्तस्य सुतश्चर्षिः श्रवसश्चाभवत्तमः ||५९||
तमसश्च प्रकाशोऽभूत्तनयो द्विजसत्तमः |
प्रकाशस्य च वागिन्द्रो बभूव जयतां वरः ||६०||
तस्यात्मजश्च प्रमतिर्वेदवेदाङ्गपारगः |
घृताच्यां तस्य पुत्रस्तु रुरुर्नामोदपद्यत ||६१||
प्रमद्वरायां तु रुरोः पुत्रः समुदपद्यत |
शुनको नाम विप्रर्षिर्यस्य पुत्रोऽथ शौनकः ||६२||
एवं विप्रत्वमगमद्वीतहव्यो नराधिपः |
भृगोः प्रसादाद्राजेन्द्र क्षत्रियः क्षत्रियर्षभ ||६३||
तथैव कथितो वंशो मया गार्त्समदस्तव |
विस्तरेण महाराज किमन्यदनुपृच्छसि ||६४||
पूज्यपुरुषवर्णनम्
३२
युधिष्ठिर उवाच||
के पूज्याः के नमस्कार्या मानवैर्भरतर्षभ |
विस्तरेण तदाचक्ष्व न हि तृप्यामि कथ्यताम् ||१||
भीष्म उवाच||
अत्राप्युदाहरन्तीममितिहासं पुरातनम् |
नारदस्य च संवादं वासुदेवस्य चोभयोः ||२||
नारदं प्राञ्जलिं दृष्ट्वा पूजयानं द्विजर्षभान् |
केशवः परिपप्रच्छ भगवन्कान्नमस्यसि ||३||
बहुमानः परः केषु भवतो यान्नमस्यसि |
शक्यं चेच्छ्रोतुमिच्छामि ब्रूह्येतद्धर्मवित्तम ||४||
नारद उवाच||
शृणु गोविन्द यानेतान्पूजयाम्यरिमर्दन |
त्वत्तोऽन्यः कः पुमाँल्लोके श्रोतुमेतदिहार्हति ||५||
वरुणं वायुमादित्यं पर्जन्यं जातवेदसम् |
स्थाणुं स्कन्दं तथा लक्ष्मीं विष्णुं ब्रह्माणमेव च ||६||
वाचस्पतिं चन्द्रमसमपः पृथ्वीं सरस्वतीम् |
सततं ये नमस्यन्ति तान्नमस्याम्यहं विभो ||७||
तपोधनान्वेदविदो नित्यं वेदपरायणान् |
महार्हान्वृष्णिशार्दूल सदा सम्पूजयाम्यहम् ||८||
अभुक्त्वा देवकार्याणि कुर्वते येऽविकत्थनाः |
सन्तुष्टाश्च क्षमायुक्तास्तान्नमस्याम्यहं विभो ||९||
सम्यग्ददति ये चेष्टान्क्षान्ता दान्ता जितेन्द्रियाः |
सस्यं धनं क्षितिं गाश्च तान्नमस्यामि यादव ||१०||
ये ते तपसि वर्तन्ते वने मूलफलाशनाः |
असञ्चयाः क्रियावन्तस्तान्नमस्यामि यादव ||११||
ये भृत्यभरणे सक्ताः सततं चातिथिप्रियाः |
भुञ्जन्ते देवशेषाणि तान्नमस्यामि यादव ||१२||
ये वेदं प्राप्य दुर्धर्षा वाग्मिनो ब्रह्मवादिनः |
याजनाध्यापने युक्ता नित्यं तान्पूजयाम्यहम् ||१३||
प्रसन्नहृदयाश्चैव सर्वसत्त्वेषु नित्यशः |
आ पृष्ठतापात्स्वाध्याये युक्तास्तान्पूजयाम्यहम् ||१४||
गुरुप्रसादे स्वाध्याये यतन्ते ये स्थिरव्रताः |
शुश्रूषवोऽनसूयन्तस्तान्नमस्यामि यादव ||१५||
सुव्रता मुनयो ये च ब्रह्मण्याः सत्यसङ्गराः |
वोढारो हव्यकव्यानां तान्नमस्यामि यादव ||१६||
भैक्ष्यचर्यासु निरताः कृशा गुरुकुलाश्रयाः |
निःसुखा निर्धना ये च तान्नमस्यामि यादव ||१७||
निर्ममा निष्प्रतिद्वंद्वा निर्ह्रीका निष्प्रयोजनाः |
अहिंसानिरता ये च ये च सत्यव्रता नराः ||१८||
दान्ताः शमपराश्चैव तान्नमस्यामि केशव ||१८||
देवतातिथिपूजायां प्रसक्ता गृहमेधिनः |
कपोतवृत्तयो नित्यं तान्नमस्यामि यादव ||१९||
येषां त्रिवर्गः कृत्येषु वर्तते नोपहीयते |
शिष्टाचारप्रवृत्ताश्च तान्नमस्याम्यहं सदा ||२०||
ब्राह्मणास्त्रिषु लोकेषु ये त्रिवर्गमनुष्ठिताः |
अलोलुपाः पुण्यशीलास्तान्नमस्यामि केशव ||२१||
अब्भक्षा वायुभक्षाश्च सुधाभक्षाश्च ये सदा |
व्रतैश्च विविधैर्युक्तास्तान्नमस्यामि माधव ||२२||
अयोनीनग्नियोनींश्च ब्रह्मयोनींस्तथैव च |
सर्वभूतात्मयोनींश्च तान्नमस्याम्यहं द्विजान् ||२३||
नित्यमेतान्नमस्यामि कृष्ण लोककरानृषीन् |
लोकज्येष्ठाञ्ज्ञाननिष्ठांस्तमोघ्नाँल्लोकभास्करान् ||२४||
तस्मात्त्वमपि वार्ष्णेय द्विजान्पूजय नित्यदा |
पूजिताः पूजनार्हा हि सुखं दास्यन्ति तेऽनघ ||२५||
अस्मिँल्लोके सदा ह्येते परत्र च सुखप्रदाः |
त एते मान्यमाना वै प्रदास्यन्ति सुखं तव ||२६||
ये सर्वातिथयो नित्यं गोषु च ब्राह्मणेषु च |
नित्यं सत्ये च निरता दुर्गाण्यतितरन्ति ते ||२७||
नित्यं शमपरा ये च तथा ये चानसूयकाः |
नित्यं स्वाध्यायिनो ये च दुर्गाण्यतितरन्ति ते ||२८||
सर्वान्देवान्नमस्यन्ति ये चैकं देवमाश्रिताः |
श्रद्दधानाश्च दान्ताश्च दुर्गाण्यतितरन्ति ते ||२९||
तथैव विप्रप्रवरान्नमस्कृत्य यतव्रतान् |
भवन्ति ये दानरता दुर्गाण्यतितरन्ति ते ||३०||
अग्नीनाधाय विधिवत्प्रयता धारयन्ति ये |
प्राप्ताः सोमाहुतिं चैव दुर्गाण्यतितरन्ति ते ||३१||
मातापित्रोर्गुरुषु च सम्यग्वर्तन्ति ये सदा |
यथा त्वं वृष्णिशार्दूलेत्युक्त्वैवं विरराम सः ||३२||
तस्मात्त्वमपि कौन्तेय पितृदेवद्विजातिथीन् |
सम्यक्पूजय येन त्वं गतिमिष्टामवाप्स्यसि ||३३||
ब्राह्मणप्रशंसा
३३
युधिष्ठिर उवाच||
किं राज्ञः सर्वकृत्यानां गरीयः स्यात्पितामह |
किं कुर्वन्कर्म नृपतिरुभौ लोकौ समश्नुते ||१||
भीष्म उवाच||
एतद्राज्ञः कृत्यतममभिषिक्तस्य भारत |
ब्राह्मणानामनुष्ठानमत्यन्तं सुखमिच्छता ||२||
श्रोत्रियान्ब्राह्मणान्वृद्धान्नित्यमेवाभिपूजयेत् ||२||
पौरजानपदांश्चापि ब्राह्मणांश्च बहुश्रुतान् |
सान्त्वेन भोगदानेन नमस्कारैस्तथार्चयेत् ||३||
एतत्कृत्यतमं राज्ञो नित्यमेवेति लक्षयेत् |
यथात्मानं यथा पुत्रांस्तथैतान्परिपालयेत् ||४||
ये चाप्येषां पूज्यतमास्तान्दृढं प्रतिपूजयेत् |
तेषु शान्तेषु तद्राष्ट्रं सर्वमेव विराजते ||५||
ते पूज्यास्ते नमस्कार्यास्ते रक्ष्याः पितरो यथा |
तेष्वेव यात्रा लोकस्य भूतानामिव वासवे ||६||
अभिचारैरुपायैश्च दहेयुरपि तेजसा |
निःशेषं कुपिताः कुर्युरुग्राः सत्यपराक्रमाः ||७||
नान्तमेषां प्रपश्यामि न दिशश्चाप्यपावृताः |
कुपिताः समुदीक्षन्ते दावेष्वग्निशिखा इव ||८||
विद्यन्तेषां साहसिका गुणास्तेषामतीव हि |
कूपा इव तृणच्छन्ना विशुद्धा द्यौरिवापरे ||९||
प्रसह्यकारिणः केचित्कार्पासमृदवोऽपरे |
सन्ति चैषामतिशठास्तथान्येऽतितपस्विनः ||१०||
कृषिगोरक्ष्यमप्यन्ये भैक्षमन्येऽप्यनुष्ठिताः |
चोराश्चान्येऽनृताश्चान्ये तथान्ये नटनर्तकाः ||११||
सर्वकर्मसु दृश्यन्ते प्रशान्तेष्वितरेषु च |
विविधाचारयुक्ताश्च ब्राह्मणा भरतर्षभ ||१२||
नानाकर्मसु युक्तानां बहुकर्मोपजीविनाम् |
धर्मज्ञानां सतां तेषां नित्यमेवानुकीर्तयेत् ||१३||
पितॄणां देवतानां च मनुष्योरगरक्षसाम् |
पुरोहिता महाभागा ब्राह्मणा वै नराधिप ||१४||
नैते देवैर्न पितृभिर्न गन्धर्वैर्न राक्षसैः |
नासुरैर्न पिशाचैश्च शक्या जेतुं द्विजातयः ||१५||
अदैवं दैवतं कुर्युर्दैवतं चाप्यदैवतम् |
यमिच्छेयुः स राजा स्याद्यं द्विष्युः स पराभवेत् ||१६||
परिवादं च ये कुर्युर्ब्राह्मणानामचेतसः |
निन्दाप्रशंसाकुशलाः कीर्त्यकीर्तिपरावराः ||१७||
परिकुप्यन्ति ते राजन्सततं द्विषतां द्विजाः ||१७||
ब्राह्मणा यं प्रशंसन्ति पुरुषः स प्रवर्धते |
ब्राह्मणैर्यः पराक्रुष्टः पराभूयात्क्षणाद्धि सः ||१८||
शका यवनकाम्बोजास्तास्ताः क्षत्रियजातयः |
वृषलत्वं परिगता ब्राह्मणानामदर्शनात् ||१९||
द्रमिळाश्च कलिङ्गाश्च पुलिन्दाश्चाप्युशीनराः |
कौलाः सर्पा माहिषकास्तास्ताः क्षत्रियजातयः ||२०||
वृषलत्वं परिगता ब्राह्मणानामदर्शनात् |
श्रेयान्पराजयस्तेभ्यो न जयो जयतां वर ||२१||
यस्तु सर्वमिदं हन्याद्ब्राह्मणं च न तत्समम् |
ब्रह्मवध्या महान्दोष इत्याहुः परमर्षयः ||२२||
परिवादो द्विजातीनां न श्रोतव्यः कथञ्चन |
आसीताधोमुखस्तूष्णीं समुत्थाय व्रजेत वा ||२३||
न स जातो जनिष्यो वा पृथिव्यामिह कश्चन |
यो ब्राह्मणविरोधेन सुखं जीवितुमुत्सहेत् ||२४||
दुर्ग्रहो मुष्टिना वायुर्दुःस्पर्शः पाणिना शशी |
दुर्धरा पृथिवी मूर्ध्ना दुर्जया ब्राह्मणा भुवि ||२५||
पृथिवीवासुदेवसंवादः
३४
भीष्म उवाच||
ब्राह्मणानेव सततं भृशं सम्प्रतिपूजयेत् |
एते हि सोमराजान ईश्वराः सुखदुःखयोः ||१||
एते भोगैरलङ्कारैरन्यैश्चैव किमिच्छकैः |
सदा पूज्या नमस्कार्या रक्ष्याश्च पितृवन्नृपैः ||२||
अतो राष्ट्रस्य शान्तिर्हि भूतानामिव वासवात् ||२||
जायतां ब्रह्मवर्चस्वी राष्ट्रे वै ब्राह्मणः शुचिः |
महारथश्च राजन्य एष्टव्यः शत्रुतापनः ||३||
ब्राह्मणं जातिसम्पन्नं धर्मज्ञं संशितव्रतम् |
वासयेत गृहे राजन्न तस्मात्परमस्ति वै ||४||
ब्राह्मणेभ्यो हविर्दत्तं प्रतिगृह्णन्ति देवताः |
पितरः सर्वभूतानां नैतेभ्यो विद्यते परम् ||५||
आदित्यश्चन्द्रमा वायुर्भूमिरापोऽम्बरं दिशः |
सर्वे ब्राह्मणमाविश्य सदान्नमुपभुञ्जते ||६||
न तस्याश्नन्ति पितरो यस्य विप्रा न भुञ्जते |
देवाश्चाप्यस्य नाश्नन्ति पापस्य ब्राह्मणद्विषः ||७||
ब्राह्मणेषु तु तुष्टेषु प्रीयन्ते पितरः सदा |
तथैव देवता राजन्नात्र कार्या विचारणा ||८||
तथैव तेऽपि प्रीयन्ते येषां भवति तद्धविः |
न च प्रेत्य विनश्यन्ति गच्छन्ति परमां गतिम् ||९||
येन येनैव हविषा ब्राह्मणांस्तर्पयेन्नरः |
तेन तेनैव प्रीयन्ते पितरो देवतास्तथा ||१०||
ब्राह्मणादेव तद्भूतं प्रभवन्ति यतः प्रजाः |
यतश्चायं प्रभवति प्रेत्य यत्र च गच्छति ||११||
वेदैष मार्गं स्वर्गस्य तथैव नरकस्य च |
आगतानागते चोभे ब्राह्मणो द्विपदां वरः ||१२||
ब्राह्मणो भरतश्रेष्ठ स्वधर्मं वेद मेधया ||१२||
ये चैनमनुवर्तन्ते ते न यान्ति पराभवम् |
न ते प्रेत्य विनश्यन्ति गच्छन्ति न पराभवम् ||१३||
ये ब्राह्मणमुखात्प्राप्तं प्रतिगृह्णन्ति वै वचः |
कृतात्मानो महात्मानस्ते न यान्ति पराभवम् ||१४||
क्षत्रियाणां प्रतपतां तेजसा च बलेन च |
ब्राह्मणेष्वेव शाम्यन्ति तेजांसि च बलानि च ||१५||
भृगवोऽजयंस्तालजङ्घान्नीपानङ्गिरसोऽजयन् |
भरद्वाजो वैतहव्यानैलांश्च भरतर्षभ ||१६||
चित्रायुधांश्चाप्यजयन्नेते कृष्णाजिनध्वजाः |
प्रक्षिप्याथ च कुम्भान्वै पारगामिनमारभेत् ||१७||
यत्किञ्चित्कथ्यते लोके श्रूयते पश्यतेऽपि वा |
सर्वं तद्ब्राह्मणेष्वेव गूढोऽग्निरिव दारुषु ||१८||
अत्राप्युदाहरन्तीममितिहासं पुरातनम् |
संवादं वासुदेवस्य पृथ्व्याश्च भरतर्षभ ||१९||
वासुदेव उवाच||
मातरं सर्वभूतानां पृच्छे त्वा संशयं शुभे |
केन स्वित्कर्मणा पापं व्यपोहति नरो गृही ||२०||
पृथिव्युवाच||
ब्राह्मणानेव सेवेत पवित्रं ह्येतदुत्तमम् |
ब्राह्मणान्सेवमानस्य रजः सर्वं प्रणश्यति ||२१||
अतो भूतिरतः कीर्तिरतो बुद्धिः प्रजायते |
अपरेषां परेषां च परेभ्यश्चैव ये परे ||२२||
ब्राह्मणा यं प्रशंसन्ति पुरुषः स प्रवर्धते |
अथ यो ब्राह्मणाक्रुष्टः पराभवति सोऽचिरात् ||२३||
यथा महार्णवे क्षिप्त आमलोष्टो विनश्यति |
तथा दुश्चरितं कर्म पराभावाय कल्पते ||२४||
पश्य चन्द्रे कृतं लक्ष्म समुद्रे लवणोदकम् |
तथा भगसहस्रेण महेन्द्रं परिचिह्नितम् ||२५||
तेषामेव प्रभावेन सहस्रनयनो ह्यसौ |
शतक्रतुः समभवत्पश्य माधव यादृशम् ||२६||
इच्छन्भूतिं च कीर्तिं च लोकांश्च मधुसूदन |
ब्राह्मणानुमते तिष्ठेत्पुरुषः शुचिरात्मवान् ||२७||
इत्येतद्वचनं श्रुत्वा मेदिन्या मधुसूदनः |
साधु साध्वित्यथेत्युक्त्वा मेदिनीं प्रत्यपूजयत् ||२८||
एतां श्रुत्वोपमां पार्थ प्रयतो ब्राह्मणर्षभान् |
सततं पूजयेथास्त्वं ततः श्रेयोऽभिपत्स्यसे ||२९||
३५
भीष्म उवाच||
जन्मनैव महाभागो ब्राह्मणो नाम जायते |
नमस्यः सर्वभूतानामतिथिः प्रसृताग्रभुक् ||१||
सर्वान्नः सुहृदस्तात ब्राह्मणाः सुमनोमुखाः |
गीर्भिर्मङ्गलयुक्ताभिरनुध्यायन्ति पूजिताः ||२||
सर्वान्नो द्विषतस्तात ब्राह्मणा जातमन्यवः |
गीर्भिर्दारुणयुक्ताभिरभिहन्युरपूजिताः ||३||
अत्र गाथा ब्रह्मगीताः कीर्तयन्ति पुराविदः |
सृष्ट्वा द्विजातीन्धाता हि यथापूर्वं समादधत् ||४||
न वोऽन्यदिह कर्तव्यं किञ्चिदूर्ध्वं यथाविधि |
गुप्ता गोपायत ब्रह्म श्रेयो वस्तेन शोभनम् ||५||
स्वमेव कुर्वतां कर्म श्रीर्वो ब्राह्मी भविष्यति |
प्रमाणं सर्वभूतानां प्रग्रहं च गमिष्यथ ||६||
न शौद्रं कर्म कर्तव्यं ब्राह्मणेन विपश्चिता |
शौद्रं हि कुर्वतः कर्म धर्मः समुपरुध्यते ||७||
श्रीश्च बुद्धिश्च तेजश्च विभूतिश्च प्रतापिनी |
स्वाध्यायेनैव माहात्म्यं विमलं प्रतिपत्स्यथ ||८||
हुत्वा चाहवनीयस्थं महाभाग्ये प्रतिष्ठिताः |
अग्रभोज्याः प्रसूतीनां श्रिया ब्राह्म्यानुकल्पिताः ||९||
श्रद्धया परया युक्ता ह्यनभिद्रोहलब्धया |
दमस्वाध्यायनिरताः सर्वान्कामानवाप्स्यथ ||१०||
यच्चैव मानुषे लोके यच्च देवेषु किञ्चन |
सर्वं तत्तपसा साध्यं ज्ञानेन विनयेन च ||११||
इत्येता ब्रह्मगीतास्ते समाख्याता मयानघ |
विप्रानुकम्पार्थमिदं तेन प्रोक्तं हि धीमता ||१२||
भूयस्तेषां बलं मन्ये यथा राज्ञस्तपस्विनः |
दुरासदाश्च चण्डाश्च रभसाः क्षिप्रकारिणः ||१३||
सन्त्येषां सिंहसत्त्वाश्च व्याघ्रसत्त्वास्तथापरे |
वराहमृगसत्त्वाश्च गजसत्त्वास्तथापरे ||१४||
कर्पासमृदवः केचित्तथान्ये मकरस्पृशः |
विभाष्यघातिनः केचित्तथा चक्षुर्हणोऽपरे ||१५||
सन्ति चाशीविषनिभाः सन्ति मन्दास्तथापरे |
विविधानीह वृत्तानि ब्राह्मणानां युधिष्ठिर ||१६||
मेकला द्रमिडाः काशाः पौण्ड्राः कोल्लगिरास्तथा |
शौण्डिका दरदा दर्वाश्चौराः शबरबर्बराः ||१७||
किराता यवनाश्चैव तास्ताः क्षत्रियजातयः |
वृषलत्वमनुप्राप्ता ब्राह्मणानामदर्शनात् ||१८||
ब्राह्मणानां परिभवादसुराः सलिलेशयाः |
ब्राह्मणानां प्रसादाच्च देवाः स्वर्गनिवासिनः ||१९||
अशक्यं स्प्रष्टुमाकाशमचाल्यो हिमवान्गिरिः |
अवार्या सेतुना गङ्गा दुर्जया ब्राह्मणा भुवि ||२०||
न ब्राह्मणविरोधेन शक्या शास्तुं वसुन्धरा |
ब्राह्मणा हि महात्मानो देवानामपि देवताः ||२१||
तान्पूजयस्व सततं दानेन परिचर्यया |
यदीच्छसि महीं भोक्तुमिमां सागरमेखलाम् ||२२||
प्रतिग्रहेण तेजो हि विप्राणां शाम्यतेऽनघ |
प्रतिग्रहं ये नेच्छेयुस्तेऽपि रक्ष्यास्त्वयानघ ||२३||
३६
भीष्म उवाच||
अत्राप्युदाहरन्तीममितिहासं पुरातनम् |
शक्रशम्बरसंवादं तन्निबोध युधिष्ठिर ||१||
शक्रो ह्यज्ञातरूपेण जटी भूत्वा रजोरुणः |
विरूपं रूपमास्थाय प्रश्नं पप्रच्छ शम्बरम् ||२||
केन शम्बर वृत्तेन स्वजात्यानधितिष्ठसि |
श्रेष्ठं त्वां केन मन्यन्ते तन्मे प्रब्रूहि पृच्छतः ||३||
शम्बर उवाच||
नासूयामि सदा विप्रान्ब्रह्माणं च पितामहम् |
शास्त्राणि वदतो विप्रान्संमन्यामि यथासुखम् ||४||
श्रुत्वा च नावजानामि नापराध्यामि कर्हिचित् |
अभ्यर्च्याननुपृच्छामि पादौ गृह्णामि धीमताम् ||५||
ते विश्रब्धाः प्रभाषन्ते संयच्छन्ति च मां सदा |
प्रमत्तेष्वप्रमत्तोऽस्मि सदा सुप्तेषु जागृमि ||६||
ते मा शास्त्रपथे युक्तं ब्रह्मण्यमनसूयकम् |
समासिञ्चन्ति शास्तारः क्षौद्रं मध्विव मक्षिकाः ||७||
यच्च भाषन्ति ते तुष्टास्तत्तद्गृह्णामि मेधया |
समाधिमात्मनो नित्यमनुलोममचिन्तयन् ||८||
सोऽहं वागग्रसृष्टानां रसानामवलेहकः |
स्वजात्यानधितिष्ठामि नक्षत्राणीव चन्द्रमाः ||९||
एतत्पृथिव्याममृतमेतच्चक्षुरनुत्तमम् |
यद्ब्राह्मणमुखाच्छास्त्रमिह श्रुत्वा प्रवर्तते ||१०||
एतत्कारणमाज्ञाय दृष्ट्वा देवासुरं पुरा |
युद्धं पिता मे हृष्टात्मा विस्मितः प्रत्यपद्यत ||११||
दृष्ट्वा च ब्राह्मणानां तु महिमानं महात्मनाम् |
पर्यपृच्छत्कथमिमे सिद्धा इति निशाकरम् ||१२||
सोम उवाच||
ब्राह्मणास्तपसा सर्वे सिध्यन्ते वाग्बलाः सदा |
भुजवीर्या हि राजानो वागस्त्राश्च द्विजातयः ||१३||
प्रवसन्वाप्यधीयीत बह्वीर्दुर्वसतीर्वसन् |
निर्मन्युरपि निर्मानो यतिः स्यात्समदर्शनः ||१४||
अपि चेज्जातिसम्पन्नः सर्वान्वेदान्पितुर्गृहे |
श्लाघमान इवाधीयेद्ग्राम्य इत्येव तं विदुः ||१५||
भूमिरेतौ निगिरति सर्पो बिलशयानिव |
राजानं चाप्ययोद्धारं ब्राह्मणं चाप्रवासिनम् ||१६||
अतिमानः श्रियं हन्ति पुरुषस्याल्पमेधसः |
गर्भेण दुष्यते कन्या गृहवासेन च द्विजः ||१७||
इत्येतन्मे पिता श्रुत्वा सोमादद्भुतदर्शनात् |
ब्राह्मणान्पूजयामास तथैवाहं महाव्रतान् ||१८||
भीष्म उवाच||
श्रुत्वैतद्वचनं शक्रो दानवेन्द्रमुखाच्च्युतम् |
द्विजान्सम्पूजयामास महेन्द्रत्वमवाप च ||१९||
पात्रपरीक्षा
३७
युधिष्ठिर उवाच||
अपूर्वं वा भवेत्पात्रमथ वापि चिरोषितम् |
दूरादभ्यागतं वापि किं पात्रं स्यात्पितामह ||१||
भीष्म उवाच||
क्रिया भवति केषाञ्चिदुपांशुव्रतमुत्तमम् |
यो यो याचेत यत्किञ्चित्सर्वं दद्याम इत्युत ||२||
अपीडयन्भृत्यवर्गमित्येवमनुशुश्रुम |
पीडयन्भृत्यवर्गं हि आत्मानमपकर्षति ||३||
अपूर्वं वापि यत्पात्रं यच्चापि स्याच्चिरोषितम् |
दूरादभ्यागतं चापि तत्पात्रं च विदुर्बुधाः ||४||
युधिष्ठिर उवाच||
अपीडया च भृत्यानां धर्मस्याहिंसया तथा |
पात्रं विद्याम तत्त्वेन यस्मै दत्तं न सन्तपेत् ||५||
भीष्म उवाच||
ऋत्विक्पुरोहिताचार्याः शिष्याः सम्बन्धिबान्धवाः |
सर्वे पूज्याश्च मान्याश्च श्रुतवृत्तोपसंहिताः ||६||
अतोऽन्यथा वर्तमानाः सर्वे नार्हन्ति सत्क्रियाम् |
तस्मान्नित्यं परीक्षेत पुरुषान्प्रणिधाय वै ||७||
अक्रोधः सत्यवचनमहिंसा दम आर्जवम् |
अद्रोहो नातिमानश्च ह्रीस्तितिक्षा तपः शमः ||८||
यस्मिन्नेतानि दृश्यन्ते न चाकार्याणि भारत |
भावतो विनिविष्टानि तत्पात्रं मानमर्हति ||९||
तथा चिरोषितं चापि सम्प्रत्यागतमेव च |
अपूर्वं चैव पूर्वं च तत्पात्रं मानमर्हति ||१०||
अप्रामाण्यं च वेदानां शास्त्राणां चातिलङ्घनम् |
सर्वत्र चानवस्थानमेतन्नाशनमात्मनः ||११||
भवेत्पण्डितमानी यो ब्राह्मणो वेदनिन्दकः |
आन्वीक्षिकीं तर्कविद्यामनुरक्तो निरर्थिकाम् ||१२||
हेतुवादान्ब्रुवन्सत्सु विजेताहेतुवादिकः |
आक्रोष्टा चातिवक्ता च ब्राह्मणानां सदैव हि ||१३||
सर्वाभिशङ्की मूढश्च बालः कटुकवागपि |
बोद्धव्यस्तादृशस्तात नरश्वानं हि तं विदुः ||१४||
यथा श्वा भषितुं चैव हन्तुं चैवावसृज्यते |
एवं सम्भाषणार्थाय सर्वशास्त्रवधाय च ||१५||
अल्पश्रुताः कुतर्काश्च दृष्टाः स्पृष्टाः कुपण्डिताः ||१५||
श्रुतिस्मृतीतिहासादिपुराणारण्यवेदिनः |
अनुरुन्ध्याद्बहुज्ञांश्च सारज्ञांश्चैव पण्डितान् ||१६||
लोकयात्रा च द्रष्टव्या धर्मश्चात्महितानि च |
एवं नरो वर्तमानः शाश्वतीरेधते समाः ||१७||
ऋणमुन्मुच्य देवानामृषीणां च तथैव च |
पितॄणामथ विप्राणामतिथीनां च पञ्चमम् ||१८||
पर्यायेण विशुद्धेन सुनिर्णिक्तेन कर्मणा |
एवं गृहस्थः कर्माणि कुर्वन्धर्मान्न हीयते ||१९||
स्त्रीस्वभावकथनम्
३८
युधिष्ठिर उवाच||
स्त्रीणां स्वभावमिच्छामि श्रोतुं भरतसत्तम |
स्त्रियो हि मूलं दोषाणां लघुचित्ताः पितामह ||१||
भीष्म उवाच||
अत्राप्युदाहरन्तीममितिहासं पुरातनम् |
नारदस्य च संवादं पुंश्चल्या पञ्चचूडया ||२||
लोकाननुचरन्धीमान्देवर्षिर्नारदः पुरा |
ददर्शाप्सरसं ब्राह्मीं पञ्चचूडामनिन्दिताम् ||३||
तां दृष्ट्वा चारुसर्वाङ्गीं पप्रच्छाप्सरसं मुनिः |
संशयो हृदि मे कश्चित्तन्मे ब्रूहि सुमध्यमे ||४||
एवमुक्ता तु सा विप्रं प्रत्युवाचाथ नारदम् |
विषये सति वक्ष्यामि समर्थां मन्यसे च माम् ||५||
नारद उवाच||
न त्वामविषये भद्रे नियोक्ष्यामि कथञ्चन |
स्त्रीणां स्वभावमिच्छामि त्वत्तः श्रोतुं वरानने ||६||
भीष्म उवाच||
एतच्छ्रुत्वा वचस्तस्य देवर्षेरप्सरोत्तमा |
प्रत्युवाच न शक्ष्यामि स्त्री सती निन्दितुं स्त्रियः ||७||
विदितास्ते स्त्रियो याश्च यादृशाश्च स्वभावतः |
न मामर्हसि देवर्षे नियोक्तुं प्रश्न ईदृशे ||८||
तामुवाच स देवर्षिः सत्यं वद सुमध्यमे |
मृषावादे भवेद्दोषः सत्ये दोषो न विद्यते ||९||
इत्युक्ता सा कृतमतिरभवच्चारुहासिनी |
स्त्रीदोषाञ्शाश्वतान्सत्यान्भाषितुं सम्प्रचक्रमे ||१०||
पञ्चचूडोवाच||
कुलीना रूपवत्यश्च नाथवत्यश्च योषितः |
मर्यादासु न तिष्ठन्ति स दोषः स्त्रीषु नारद ||११||
न स्त्रीभ्यः किञ्चिदन्यद्वै पापीयस्तरमस्ति वै |
स्त्रियो हि मूलं दोषाणां तथा त्वमपि वेत्थ ह ||१२||
समाज्ञातानृद्धिमतः प्रतिरूपान्वशे स्थितान् |
पतीनन्तरमासाद्य नालं नार्यः प्रतीक्षितुम् ||१३||
असद्धर्मस्त्वयं स्त्रीणामस्माकं भवति प्रभो |
पापीयसो नरान्यद्वै लज्जां त्यक्त्वा भजामहे ||१४||
स्त्रियं हि यः प्रार्थयते संनिकर्षं च गच्छति |
ईषच्च कुरुते सेवां तमेवेच्छन्ति योषितः ||१५||
अनर्थित्वान्मनुष्याणां भयात्परिजनस्य च |
मर्यादायाममर्यादाः स्त्रियस्तिष्ठन्ति भर्तृषु ||१६||
नासां कश्चिदगम्योऽस्ति नासां वयसि संस्थितिः |
विरूपं रूपवन्तं वा पुमानित्येव भुञ्जते ||१७||
न भयान्नाप्यनुक्रोशान्नार्थहेतोः कथञ्चन |
न ज्ञातिकुलसम्बन्धात्स्त्रियस्तिष्ठन्ति भर्तृषु ||१८||
यौवने वर्तमानानां मृष्टाभरणवाससाम् |
नारीणां स्वैरवृत्तानां स्पृहयन्ति कुलस्त्रियः ||१९||
याश्च शश्वद्बहुमता रक्ष्यन्ते दयिताः स्त्रियः |
अपि ताः सम्प्रसज्जन्ते कुब्जान्धजडवामनैः ||२०||
पङ्गुष्वपि च देवर्षे ये चान्ये कुत्सिता नराः |
स्त्रीणामगम्यो लोकेऽस्मिन्नास्ति कश्चिन्महामुने ||२१||
यदि पुंसां गतिर्ब्रह्म कथञ्चिन्नोपपद्यते |
अप्यन्योन्यं प्रवर्तन्ते न हि तिष्ठन्ति भर्तृषु ||२२||
अलाभात्पुरुषाणां हि भयात्परिजनस्य च |
वधबन्धभयाच्चापि स्वयं गुप्ता भवन्ति ताः ||२३||
चलस्वभावा दुःसेव्या दुर्ग्राह्या भावतस्तथा |
प्राज्ञस्य पुरुषस्येह यथा वाचस्तथा स्त्रियः ||२४||
नाग्निस्तृप्यति काष्ठानां नापगानां महोदधिः |
नान्तकः सर्वभूतानां न पुंसां वामलोचनाः ||२५||
इदमन्यच्च देवर्षे रहस्यं सर्वयोषिताम् |
दृष्ट्वैव पुरुषं हृद्यं योनिः प्रक्लिद्यते स्त्रियः ||२६||
कामानामपि दातारं कर्तारं मानसान्त्वयोः |
रक्षितारं न मृष्यन्ति भर्तारं परमं स्त्रियः ||२७||
न कामभोगान्बहुलान्नालङ्कारार्थसञ्चयान् |
तथैव बहु मन्यन्ते यथा रत्यामनुग्रहम् ||२८||
अन्तकः शमनो मृत्युः पातालं वडवामुखम् |
क्षुरधारा विषं सर्पो वह्निरित्येकतः स्त्रियः ||२९||
यतश्च भूतानि महान्ति पञ्च; यतश्च लोका विहिता विधात्रा |
यतः पुमांसः प्रमदाश्च निर्मिता; स्तदैव दोषाः प्रमदासु नारद ||३०||
३९
युधिष्ठिर उवाच||
इमे वै मानवा लोके स्त्रीषु सज्जन्त्यभीक्ष्णशः |
मोहेन परमाविष्टा दैवादिष्टेन पार्थिव ||१||
स्त्रियश्च पुरुषेष्वेव प्रत्यक्षं लोकसाक्षिकम् ||१||
अत्र मे संशयस्तीव्रो हृदि सम्परिवर्तते |
कथमासां नराः सङ्गं कुर्वते कुरुनन्दन ||२||
स्त्रियो वा तेषु रज्यन्ते विरज्यन्तेऽथ वा पुनः ||२||
इति ताः पुरुषव्याघ्र कथं शक्याः स्म रक्षितुम् |
प्रमदाः पुरुषेणेह तन्मे व्याख्यातुमर्हसि ||३||
एता हि मयमायाभिर्वञ्चयन्तीह मानवान् |
न चासां मुच्यते कश्चित्पुरुषो हस्तमागतः ||४||
गावो नवतृणानीव गृह्णन्त्येव नवान्नवान् ||४||
शम्बरस्य च या माया या माया नमुचेरपि |
बलेः कुम्भीनसेश्चैव सर्वास्ता योषितो विदुः ||५||
हसन्तं प्रहसन्त्येता रुदन्तं प्ररुदन्ति च |
अप्रियं प्रियवाक्यैश्च गृह्णते कालयोगतः ||६||
उशना वेद यच्छास्त्रं यच्च वेद बृहस्पतिः |
स्त्रीबुद्ध्या न विशिष्येते ताः स्म रक्ष्याः कथं नरैः ||७||
अनृतं सत्यमित्याहुः सत्यं चापि तथानृतम् |
इति यास्ताः कथं वीर संरक्ष्याः पुरुषैरिह ||८||
स्त्रीणां बुद्ध्युपनिष्कर्षादर्थशास्त्राणि शत्रुहन् |
बृहस्पतिप्रभृतिभिर्मन्ये सद्भिः कृतानि वै ||९||
सम्पूज्यमानाः पुरुषैर्विकुर्वन्ति मनो नृषु |
अपास्ताश्च तथा राजन्विकुर्वन्ति मनः स्त्रियः ||१०||
कस्ताः शक्तो रक्षितुं स्यादिति मे संशयो महान् |
तन्मे ब्रूहि महाबाहो कुरूणां वंशवर्धन ||११||
यदि शक्या कुरुश्रेष्ठ रक्षा तासां कथञ्चन |
कर्तुं वा कृतपूर्वा वा तन्मे व्याख्यातुमर्हसि ||१२||
विपुलोपाख्यानम्
४०
भीष्म उवाच||
एवमेतन्महाबाहो नात्र मिथ्यास्ति किञ्चन |
यथा ब्रवीषि कौरव्य नारीं प्रति जनाधिप ||१||
अत्र ते वर्तयिष्यामि इतिहासं पुरातनम् |
यथा रक्षा कृता पूर्वं विपुलेन महात्मना ||२||
प्रमदाश्च यथा सृष्टा ब्रह्मणा भरतर्षभ |
यदर्थं तच्च ते तात प्रवक्ष्ये वसुधाधिप ||३||
न हि स्त्रीभ्य परं पुत्र पापीयः किञ्चिदस्ति वै |
अग्निर्हि प्रमदा दीप्तो मायाश्च मयजा विभो ||४||
क्षुरधारा विषं सर्पो मृत्युरित्येकतः स्त्रियः ||४||
इमाः प्रजा महाबाहो धार्मिका इति नः श्रुतम् |
स्वयं गच्छन्ति देवत्वं ततो देवानियाद्भयम् ||५||
अथाभ्यगच्छन्देवास्ते पितामहमरिंदम |
निवेद्य मानसं चापि तूष्णीमासन्नवाङ्मुखाः ||६||
तेषामन्तर्गतं ज्ञात्वा देवानां स पितामहः |
मानवानां प्रमोहार्थं कृत्या नार्योऽसृजत्प्रभुः ||७||
पूर्वसर्गे तु कौन्तेय साध्व्यो नार्य इहाभवन् |
असाध्व्यस्तु समुत्पन्ना कृत्या सर्गात्प्रजापतेः ||८||
ताभ्यः कामान्यथाकामं प्रादाद्धि स पितामहः |
ताः कामलुब्धाः प्रमदाः प्रामथ्नन्त नरांस्तदा ||९||
क्रोधं कामस्य देवेशः सहायं चासृजत्प्रभुः |
असज्जन्त प्रजाः सर्वाः कामक्रोधवशं गताः ||१०||
न च स्त्रीणां क्रिया काचिदिति धर्मो व्यवस्थितः |
निरिन्द्रिया अमन्त्राश्च स्त्रियोऽनृतमिति श्रुतिः ||११||
शय्यासनमलङ्कारमन्नपानमनार्यताम् |
दुर्वाग्भावं रतिं चैव ददौ स्त्रीभ्यः प्रजापतिः ||१२||
न तासां रक्षणं कर्तुं शक्यं पुंसा कथञ्चन |
अपि विश्वकृता तात कुतस्तु पुरुषैरिह ||१३||
वाचा वा वधबन्धैर्वा क्लेशैर्वा विविधैस्तथा |
न शक्या रक्षितुं नार्यस्ता हि नित्यमसंयताः ||१४||
इदं तु पुरुषव्याघ्र पुरस्ताच्छ्रुतवानहम् |
यथा रक्षा कृता पूर्वं विपुलेन गुरुस्त्रियः ||१५||
ऋषिरासीन्महाभागो देवशर्मेति विश्रुतः |
तस्य भार्या रुचिर्नाम रूपेणासदृशी भुवि ||१६||
तस्य रूपेण संमत्ता देवगन्धर्वदानवाः |
विशेषतस्तु राजेन्द्र वृत्रहा पाकशासनः ||१७||
नारीणां चरितज्ञश्च देवशर्मा महामुनिः |
यथाशक्ति यथोत्साहं भार्यां तामभ्यरक्षत ||१८||
पुरंदरं च जानीते परस्त्रीकामचारिणम् |
तस्माद्यत्नेन भार्याया रक्षणं स चकार ह ||१९||
स कदाचिदृषिस्तात यज्ञं कर्तुमनास्तदा |
भार्यासंरक्षणं कार्यं कथं स्यादित्यचिन्तयत् ||२०||
रक्षाविधानं मनसा स विचिन्त्य महातपाः |
आहूय दयितं शिष्यं विपुलं प्राह भार्गवम् ||२१||
यज्ञकारो गमिष्यामि रुचिं चेमां सुरेश्वरः |
पुत्र प्रार्थयते नित्यं तां रक्षस्व यथाबलम् ||२२||
अप्रमत्तेन ते भाव्यं सदा प्रति पुरंदरम् |
स हि रूपाणि कुरुते विविधानि भृगूद्वह ||२३||
इत्युक्तो विपुलस्तेन तपस्वी नियतेन्द्रियः |
सदैवोग्रतपा राजन्नग्न्यर्कसदृशद्युतिः ||२४||
धर्मज्ञः सत्यवादी च तथेति प्रत्यभाषत |
पुनश्चेदं महाराज पप्रच्छ प्रथितं गुरुम् ||२५||
कानि रूपाणि शक्रस्य भवन्त्यागच्छतो मुने |
वपुस्तेजश्च कीदृग्वै तन्मे व्याख्यातुमर्हसि ||२६||
ततः स भगवांस्तस्मै विपुलाय महात्मने |
आचचक्षे यथातत्त्वं मायां शक्रस्य भारत ||२७||
बहुमायः स विप्रर्षे बलहा पाकशासनः |
तांस्तान्विकुरुते भावान्बहूनथ मुहुर्मुहुः ||२८||
किरीटी वज्रभृद्धन्वी मुकुटी बद्धकुण्डलः |
भवत्यथ मुहूर्तेन चण्डालसमदर्शनः ||२९||
शिखी जटी चीरवासाः पुनर्भवति पुत्रक |
बृहच्छरीरश्च पुनः पीवरोऽथ पुनः कृशः ||३०||
गौरं श्यामं च कृष्णं च वर्णं विकुरुते पुनः |
विरूपो रूपवांश्चैव युवा वृद्धस्तथैव च ||३१||
प्राज्ञो जडश्च मूकश्च ह्रस्वो दीर्घस्तथैव च |
ब्राह्मणः क्षत्रियश्चैव वैश्यः शूद्रस्तथैव च ||३२||
प्रतिलोमानुलोमश्च भवत्यथ शतक्रतुः ||३२||
शुकवायसरूपी च हंसकोकिलरूपवान् |
सिंहव्याघ्रगजानां च रूपं धारयते पुनः ||३३||
दैवं दैत्यमथो राज्ञां वपुर्धारयतेऽपि च |
सुकृशो वायुभग्नाङ्गः शकुनिर्विकृतस्तथा ||३४||
चतुष्पाद्बहुरूपश्च पुनर्भवति बालिशः |
मक्षिकामशकादीनां वपुर्धारयतेऽपि च ||३५||
न शक्यमस्य ग्रहणं कर्तुं विपुल केनचित् |
अपि विश्वकृता तात येन सृष्टमिदं जगत् ||३६||
पुनरन्तर्हितः शक्रो दृश्यते ज्ञानचक्षुषा |
वायुभूतश्च स पुनर्देवराजो भवत्युत ||३७||
एवं रूपाणि सततं कुरुते पाकशासनः |
तस्माद्विपुल यत्नेन रक्षेमां तनुमध्यमाम् ||३८||
यथा रुचिं नावलिहेद्देवेन्द्रो भृगुसत्तम |
क्रतावुपहितं न्यस्तं हविः श्वेव दुरात्मवान् ||३९||
एवमाख्याय स मुनिर्यज्ञकारोऽगमत्तदा |
देवशर्मा महाभागस्ततो भरतसत्तम ||४०||
विपुलस्तु वचः श्रुत्वा गुरोश्चिन्तापरोऽभवत् |
रक्षां च परमां चक्रे देवराजान्महाबलात् ||४१||
किं नु शक्यं मया कर्तुं गुरुदाराभिरक्षणे |
मायावी हि सुरेन्द्रोऽसौ दुर्धर्षश्चापि वीर्यवान् ||४२||
नापिधायाश्रमं शक्यो रक्षितुं पाकशासनः |
उटजं वा तथा ह्यस्य नानाविधसरूपता ||४३||
वायुरूपेण वा शक्रो गुरुपत्नीं प्रधर्षयेत् |
तस्मादिमां सम्प्रविश्य रुचिं स्थास्येऽहमद्य वै ||४४||
अथ वा पौरुषेणेयमशक्या रक्षितुं मया |
बहुरूपो हि भगवाञ्छ्रूयते हरिवाहनः ||४५||
सोऽहं योगबलादेनां रक्षिष्ये पाकशासनात् |
गात्राणि गात्रैरस्याहं सम्प्रवेक्ष्येऽभिरक्षितुम् ||४६||
यद्युच्छिष्टामिमां पत्नीं रुचिं पश्येत मे गुरुः |
शप्स्यत्यसंशयं कोपाद्दिव्यज्ञानो महातपाः ||४७||
न चेयं रक्षितुं शक्या यथान्या प्रमदा नृभिः |
मायावी हि सुरेन्द्रोऽसावहो प्राप्तोऽस्मि संशयम् ||४८||
अवश्यकरणीयं हि गुरोरिह हि शासनम् |
यदि त्वेतदहं कुर्यामाश्चर्यं स्यात्कृतं मया ||४९||
योगेनानुप्रविश्येह गुरुपत्न्याः कलेवरम् |
निर्मुक्तस्य रजोरूपान्नापराधो भवेन्मम ||५०||
यथा हि शून्यां पथिकः सभामध्यावसेत्पथि |
तथाद्यावासयिष्यामि गुरुपत्न्याः कलेवरम् ||५१||
असक्तः पद्मपत्रस्थो जलबिन्दुर्यथा चलः |
एवमेव शरीरेऽस्या निवत्स्यामि समाहितः ||५२||
इत्येवं धर्ममालोक्य वेदवेदांश्च सर्वशः |
तपश्च विपुलं दृष्ट्वा गुरोरात्मन एव च ||५३||
इति निश्चित्य मनसा रक्षां प्रति स भार्गवः |
आतिष्ठत्परमं यत्नं यथा तच्छृणु पार्थिव ||५४||
गुरुपत्नीमुपासीनो विपुलः स महातपाः |
उपासीनामनिन्द्याङ्गीं कथाभिः समलोभयत् ||५५||
नेत्राभ्यां नेत्रयोरस्या रश्मीन्संयोज्य रश्मिभिः |
विवेश विपुलः कायमाकाशं पवनो यथा ||५६||
लक्षणं लक्षणेनैव वदनं वदनेन च |
अविचेष्टन्नतिष्ठद्वै छायेवान्तर्गतो मुनिः ||५७||
ततो विष्टभ्य विपुलो गुरुपत्न्याः कलेवरम् |
उवास रक्षणे युक्तो न च सा तमबुध्यत ||५८||
यं कालं नागतो राजन्गुरुस्तस्य महात्मनः |
क्रतुं समाप्य स्वगृहं तं कालं सोऽभ्यरक्षत ||५९||
४१
भीष्म उवाच||
ततः कदाचिद्देवेन्द्रो दिव्यरूपवपुर्धरः |
इदमन्तरमित्येवं ततोऽभ्यागादथाश्रमम् ||१||
रूपमप्रतिमं कृत्वा लोभनीयं जनाधिप |
दर्शनीयतमो भूत्वा प्रविवेश तमाश्रमम् ||२||
स ददर्श तमासीनं विपुलस्य कलेवरम् |
निश्चेष्टं स्तब्धनयनं यथालेख्यगतं तथा ||३||
रुचिं च रुचिरापाङ्गीं पीनश्रोणिपयोधराम् |
पद्मपत्रविशालाक्षीं सम्पूर्णेन्दुनिभाननाम् ||४||
सा तमालोक्य सहसा प्रत्युत्थातुमियेष ह |
रूपेण विस्मिता कोऽसीत्यथ वक्तुमिहेच्छती ||५||
उत्थातुकामापि सती व्यतिष्ठद्विपुलेन सा |
निगृहीता मनुष्येन्द्र न शशाक विचेष्टितुम् ||६||
तामाबभाषे देवेन्द्रः साम्ना परमवल्गुना |
त्वदर्थमागतं विद्धि देवेन्द्रं मां शुचिस्मिते ||७||
क्लिश्यमानमनङ्गेन त्वत्सङ्कल्पोद्भवेन वै |
तत्पर्याप्नुहि मां सुभ्रु पुरा कालोऽतिवर्तते ||८||
तमेवंवादिनं शक्रं शुश्राव विपुलो मुनिः |
गुरुपत्न्याः शरीरस्थो ददर्श च सुराधिपम् ||९||
न शशाक च सा राजन्प्रत्युत्थातुमनिन्दिता |
वक्तुं च नाशकद्राजन्विष्टब्धा विपुलेन सा ||१०||
आकारं गुरुपत्न्यास्तु विज्ञाय स भृगूद्वहः |
निजग्राह महातेजा योगेन बलवत्प्रभो ||११||
बबन्ध योगबन्धैश्च तस्याः सर्वेन्द्रियाणि सः ||११||
तां निर्विकारां दृष्ट्वा तु पुनरेव शचीपतिः |
उवाच व्रीडितो राजंस्तां योगबलमोहिताम् ||१२||
एह्येहीति ततः सा तं प्रतिवक्तुमियेष च |
स तां वाचं गुरोः पत्न्या विपुलः पर्यवर्तयत् ||१३||
भोः किमागमने कृत्यमिति तस्याश्च निःसृता |
वक्त्राच्छशाङ्कप्रतिमाद्वाणी संस्कारभूषिता ||१४||
व्रीडिता सा तु तद्वाक्यमुक्त्वा परवशा तदा |
पुरंदरश्च सन्त्रस्तो बभूव विमनास्तदा ||१५||
स तद्वैकृतमालक्ष्य देवराजो विशां पते |
अवैक्षत सहस्राक्षस्तदा दिव्येन चक्षुषा ||१६||
ददर्श च मुनिं तस्याः शरीरान्तरगोचरम् |
प्रतिबिम्बमिवादर्शे गुरुपत्न्याः शरीरगम् ||१७||
स तं घोरेण तपसा युक्तं दृष्ट्वा पुरंदरः |
प्रावेपत सुसन्त्रस्तः शापभीतस्तदा विभो ||१८||
विमुच्य गुरुपत्नीं तु विपुलः सुमहातपाः |
स्वं कलेवरमाविश्य शक्रं भीतमथाब्रवीत् ||१९||
अजितेन्द्रिय पापात्मन्कामात्मक पुरंदर |
न चिरं पूजयिष्यन्ति देवास्त्वां मानुषास्तथा ||२०||
किं नु तद्विस्मृतं शक्र न तन्मनसि ते स्थितम् |
गौतमेनासि यन्मुक्तो भगाङ्कपरिचिह्नितः ||२१||
जाने त्वां बालिशमतिमकृतात्मानमस्थिरम् |
मयेयं रक्ष्यते मूढ गच्छ पाप यथागतम् ||२२||
नाहं त्वामद्य मूढात्मन्दहेयं हि स्वतेजसा |
कृपायमाणस्तु न ते दग्धुमिच्छामि वासव ||२३||
स च घोरतपा धीमान्गुरुर्मे पापचेतसम् |
दृष्ट्वा त्वां निर्दहेदद्य क्रोधदीप्तेन चक्षुषा ||२४||
नैवं तु शक्र कर्तव्यं पुनर्मान्याश्च ते द्विजाः |
मा गमः ससुतामात्योऽत्ययं ब्रह्मबलार्दितः ||२५||
अमरोऽस्मीति यद्बुद्धिमेतामास्थाय वर्तसे |
मावमंस्था न तपसामसाध्यं नाम किञ्चन ||२६||
तच्छ्रुत्वा वचनं शक्रो विपुलस्य महात्मनः |
अकिञ्चिदुक्त्वा व्रीडितस्तत्रैवान्तरधीयत ||२७||
मुहूर्तयाते शक्रे तु देवशर्मा महातपाः |
कृत्वा यज्ञं यथाकाममाजगाम स्वमाश्रमम् ||२८||
आगतेऽथ गुरौ राजन्विपुलः प्रियकर्मकृत् |
रक्षितां गुरवे भार्यां न्यवेदयदनिन्दिताम् ||२९||
अभिवाद्य च शान्तात्मा स गुरुं गुरुवत्सलः |
विपुलः पर्युपातिष्ठद्यथापूर्वमशङ्कितः ||३०||
विश्रान्ताय ततस्तस्मै सहासीनाय भार्यया |
निवेदयामास तदा विपुलः शक्रकर्म तत् ||३१||
तच्छ्रुत्वा स मुनिस्तुष्टो विपुलस्य प्रतापवान् |
बभूव शीलवृत्ताभ्यां तपसा नियमेन च ||३२||
विपुलस्य गुरौ वृत्तिं भक्तिमात्मनि च प्रभुः |
धर्मे च स्थिरतां दृष्ट्वा साधु साध्वित्युवाच ह ||३३||
प्रतिनन्द्य च धर्मात्मा शिष्यं धर्मपरायणम् |
वरेण च्छन्दयामास स तस्माद्गुरुवत्सलः ||३४||
अनुज्ञातश्च गुरुणा चचारानुत्तमं तपः ||३४||
तथैव देवशर्मापि सभार्यः स महातपाः |
निर्भयो बलवृत्रघ्नाच्चचार विजने वने ||३५||
४२
भीष्म उवाच||
विपुलस्त्वकरोत्तीव्रं तपः कृत्वा गुरोर्वचः |
तपोयुक्तमथात्मानममन्यत च वीर्यवान् ||१||
स तेन कर्मणा स्पर्धन्पृथिवीं पृथिवीपते |
चचार गतभीः प्रीतो लब्धकीर्तिर्वरो नृषु ||२||
उभौ लोकौ जितौ चापि तथैवामन्यत प्रभुः |
कर्मणा तेन कौरव्य तपसा विपुलेन च ||३||
अथ काले व्यतिक्रान्ते कस्मिंश्चित्कुरुनन्दन |
रुच्या भगिन्या दानं वै बभूव धनधान्यवत् ||४||
एतस्मिन्नेव काले तु दिव्या काचिद्वराङ्गना |
बिभ्रती परमं रूपं जगामाथ विहायसा ||५||
तस्याः शरीरात्पुष्पाणि पतितानि महीतले |
तस्याश्रमस्याविदूरे दिव्यगन्धानि भारत ||६||
तान्यगृह्णात्ततो राजन्रुचिर्नलिनलोचना |
तदा निमन्त्रकस्तस्या अङ्गेभ्यः क्षिप्रमागमत् ||७||
तस्या हि भगिनी तात ज्येष्ठा नाम्ना प्रभावती |
भार्या चित्ररथस्याथ बभूवाङ्गेश्वरस्य वै ||८||
पिनह्य तानि पुष्पाणि केशेषु वरवर्णिनी |
आमन्त्रिता ततोऽगच्छद्रुचिरङ्गपतेर्गृहान् ||९||
पुष्पाणि तानि दृष्ट्वाथ तदाङ्गेन्द्रवराङ्गना |
भगिनीं चोदयामास पुष्पार्थे चारुलोचना ||१०||
सा भर्त्रे सर्वमाचष्ट रुचिः सुरुचिरानना |
भगिन्या भाषितं सर्वमृषिस्तच्चाभ्यनन्दत ||११||
ततो विपुलमानाय्य देवशर्मा महातपाः |
पुष्पार्थे चोदयामास गच्छ गच्छेति भारत ||१२||
विपुलस्तु गुरोर्वाक्यमविचार्य महातपाः |
स तथेत्यब्रवीद्राजंस्तं च देशं जगाम ह ||१३||
यस्मिन्देशे तु तान्यासन्पतितानि नभस्तलात् |
अम्लानान्यपि तत्रासन्कुसुमान्यपराण्यपि ||१४||
ततः स तानि जग्राह दिव्यानि रुचिराणि च |
प्राप्तानि स्वेन तपसा दिव्यगन्धानि भारत ||१५||
सम्प्राप्य तानि प्रीतात्मा गुरोर्वचनकारकः |
ततो जगाम तूर्णं च चम्पां चम्पकमालिनीम् ||१६||
स वने विजने तात ददर्श मिथुनं नृणाम् |
चक्रवत्परिवर्तन्तं गृहीत्वा पाणिना करम् ||१७||
तत्रैकस्तूर्णमगमत्तत्पदे परिवर्तयन् |
एकस्तु न तथा राजंश्चक्रतुः कलहं ततः ||१८||
त्वं शीघ्रं गच्छसीत्येकोऽब्रवीन्नेति तथापरः |
नेति नेति च तौ तात परस्परमथोचतुः ||१९||
तयोर्विस्पर्धतोरेवं शपथोऽयमभूत्तदा |
मनसोद्दिश्य विपुलं ततो वाक्यमथोचतुः ||२०||
आवयोरनृतं प्राह यस्तस्याथ द्विजस्य वै |
विपुलस्य परे लोके या गतिः सा भवेदिति ||२१||
एतच्छ्रुत्वा तु विपुलो विषण्णवदनोऽभवत् |
एवं तीव्रतपाश्चाहं कष्टश्चायं परिग्रहः ||२२||
मिथुनस्यास्य किं मे स्यात्कृतं पापं यतो गतिः |
अनिष्टा सर्वभूतानां कीर्तितानेन मेऽद्य वै ||२३||
एवं सञ्चिन्तयन्नेव विपुलो राजसत्तम |
अवाङ्मुखो न्यस्तशिरा दध्यौ दुष्कृतमात्मनः ||२४||
ततः षडन्यान्पुरुषानक्षैः काञ्चनराजतैः |
अपश्यद्दीव्यमानान्वै लोभहर्षान्वितांस्तथा ||२५||
कुर्वतः शपथं तं वै यः कृतो मिथुनेन वै |
विपुलं वै समुद्दिश्य तेऽपि वाक्यमथाब्रुवन् ||२६||
यो लोभमास्थायास्माकं विषमं कर्तुमुत्सहेत् |
विपुलस्य परे लोके या गतिस्तामवाप्नुयात् ||२७||
एतच्छ्रुत्वा तु विपुलो नापश्यद्धर्मसङ्करम् |
जन्मप्रभृति कौरव्य कृतपूर्वमथात्मनः ||२८||
स प्रदध्यौ तदा राजन्नग्नावग्निरिवाहितः |
दह्यमानेन मनसा शापं श्रुत्वा तथाविधम् ||२९||
तस्य चिन्तयतस्तात बह्व्यो दिननिशा ययुः |
इदमासीन्मनसि च रुच्या रक्षणकारितम् ||३०||
लक्षणं लक्षणेनैव वदनं वदनेन च |
विधाय न मया चोक्तं सत्यमेतद्गुरोस्तदा ||३१||
एतदात्मनि कौरव्य दुष्कृतं विपुलस्तदा |
अमन्यत महाभाग तथा तच्च न संशयः ||३२||
स चम्पां नगरीमेत्य पुष्पाणि गुरवे ददौ |
पूजयामास च गुरुं विधिवत्स गुरुप्रियः ||३३||
४३
भीष्म उवाच||
तमागतमभिप्रेक्ष्य शिष्यं वाक्यमथाब्रवीत् |
देवशर्मा महातेजा यत्तच्छृणु नराधिप ||१||
देवशर्मोवाच||
किं ते विपुल दृष्टं वै तस्मिन्नद्य महावने |
ते त्वा जानन्ति निपुण आत्मा च रुचिरेव च ||२||
विपुल उवाच||
ब्रह्मर्षे मिथुनं किं तत्के च ते पुरुषा विभो |
ये मां जानन्ति तत्त्वेन तांश्च मे वक्तुमर्हसि ||३||
देवशर्मोवाच||
यद्वै तन्मिथुनं ब्रह्मन्नहोरात्रं हि विद्धि तत् |
चक्रवत्परिवर्तेत तत्ते जानाति दुष्कृतम् ||४||
ये च ते पुरुषा विप्र अक्षैर्दीव्यन्ति हृष्टवत् |
ऋतूंस्तानभिजानीहि ते ते जानन्ति दुष्कृतम् ||५||
न मां कश्चिद्विजानीत इति कृत्वा न विश्वसेत् |
नरो रहसि पापात्मा पापकं कर्म वै द्विज ||६||
कुर्वाणं हि नरं कर्म पापं रहसि सर्वदा |
पश्यन्ति ऋतवश्चापि तथा दिननिशेऽप्युत ||७||
ते त्वां हर्षस्मितं दृष्ट्वा गुरोः कर्मानिवेदकम् |
स्मारयन्तस्तथा प्राहुस्ते यथा श्रुतवान्भवान् ||८||
अहोरात्रं विजानाति ऋतवश्चापि नित्यशः |
पुरुषे पापकं कर्म शुभं वा शुभकर्मणः ||९||
तत्त्वया मम यत्कर्म व्यभिचाराद्भयात्मकम् |
नाख्यातमिति जानन्तस्ते त्वामाहुस्तथा द्विज ||१०||
ते चैव हि भवेयुस्ते लोकाः पापकृतो यथा |
कृत्वा नाचक्षतः कर्म मम यच्च त्वया कृतम् ||११||
तथा शक्या च दुर्वृत्ता रक्षितुं प्रमदा द्विज |
न च त्वं कृतवान्किञ्चिदागः प्रीतोऽस्मि तेन ते ||१२||
यदि त्वहं त्वा दुर्वृत्तमद्राक्षं द्विजसत्तम |
शपेयं त्वामहं क्रोधान्न मेऽत्रास्ति विचारणा ||१३||
सज्जन्ति पुरुषे नार्यः पुंसां सोऽर्थश्च पुष्कलः |
अन्यथा रक्षतः शापोऽभविष्यत्ते गतिश्च सा ||१४||
रक्षिता सा त्वया पुत्र मम चापि निवेदिता |
अहं ते प्रीतिमांस्तात स्वस्ति स्वर्गं गमिष्यसि ||१५||
भीष्म उवाच||
इत्युक्त्वा विपुलं प्रीतो देवशर्मा महानृषिः |
मुमोद स्वर्गमास्थाय सहभार्यः सशिष्यकः ||१६||
इदमाख्यातवांश्चापि ममाख्यानं महामुनिः |
मार्कण्डेयः पुरा राजन्गङ्गाकूले कथान्तरे ||१७||
तस्माद्ब्रवीमि पार्थ त्वा स्त्रियः सर्वाः सदैव च |
उभयं दृश्यते तासु सततं साध्वसाधु च ||१८||
स्त्रियः साध्व्यो महाभागाः संमता लोकमातरः |
धारयन्ति महीं राजन्निमां सवनकाननाम् ||१९||
असाध्व्यश्चापि दुर्वृत्ताः कुलघ्न्यः पापनिश्चयाः |
विज्ञेया लक्षणैर्दुष्टैः स्वगात्रसहजैर्नृप ||२०||
एवमेतासु रक्षा वै शक्या कर्तुं महात्मभिः |
अन्यथा राजशार्दूल न शक्या रक्षितुं स्त्रियः ||२१||
एता हि मनुजव्याघ्र तीक्ष्णास्तीक्ष्णपराक्रमाः |
नासामस्ति प्रियो नाम मैथुने सङ्गमे नृभिः ||२२||
एताः कृत्याश्च कार्याश्च कृताश्च भरतर्षभ |
न चैकस्मिन्रमन्त्येताः पुरुषे पाण्डुनन्दन ||२३||
नासु स्नेहो नृभिः कार्यस्तथैवेर्ष्या जनेश्वर |
खेदमास्थाय भुञ्जीत धर्ममास्थाय चैव हि ||२४||
विहन्येतान्यथा कुर्वन्नरः कौरवनन्दन |
सर्वथा राजशार्दूल युक्तिः सर्वत्र पूज्यते ||२५||
तेनैकेन तु रक्षा वै विपुलेन कृता स्त्रियाः |
नान्यः शक्तो नृलोकेऽस्मिन्रक्षितुं नृप योषितः ||२६||
विवाहधर्माः
४४
युधिष्ठिर उवाच||
यन्मूलं सर्वधर्माणां प्रजनस्य गृहस्य च |
पितृदेवातिथीनां च तन्मे ब्रूहि पितामह ||१||
भीष्म उवाच||
अयं हि सर्वधर्माणां धर्मश्चिन्त्यतमो मतः |
कीदृशाय प्रदेया स्यात्कन्येति वसुधाधिप ||२||
शीलवृत्ते समाज्ञाय विद्यां योनिं च कर्म च |
अद्भिरेव प्रदातव्या कन्या गुणवते वरे ||३||
ब्राह्मणानां सतामेष धर्मो नित्यं युधिष्ठिर ||३||
आवाह्यमावहेदेवं यो दद्यादनुकूलतः |
शिष्टानां क्षत्रियाणां च धर्म एष सनातनः ||४||
आत्माभिप्रेतमुत्सृज्य कन्याभिप्रेत एव यः |
अभिप्रेता च या यस्य तस्मै देया युधिष्ठिर ||५||
गान्धर्वमिति तं धर्मं प्राहुर्धर्मविदो जनाः ||५||
धनेन बहुना क्रीत्वा सम्प्रलोभ्य च बान्धवान् |
असुराणां नृपैतं वै धर्ममाहुर्मनीषिणः ||६||
हत्वा छित्त्वा च शीर्षाणि रुदतां रुदतीं गृहात् |
प्रसह्य हरणं तात राक्षसं धर्मलक्षणम् ||७||
पञ्चानां तु त्रयो धर्म्या द्वावधर्म्यौ युधिष्ठिर |
पैशाच आसुरश्चैव न कर्तव्यौ कथञ्चन ||८||
ब्राह्मः क्षात्रोऽथ गान्धर्व एते धर्म्या नरर्षभ |
पृथग्वा यदि वा मिश्राः कर्तव्या नात्र संशयः ||९||
तिस्रो भार्या ब्राह्मणस्य द्वे भार्ये क्षत्रियस्य तु |
वैश्यः स्वजातिं विन्देत तास्वपत्यं समं भवेत् ||१०||
ब्राह्मणी तु भवेज्ज्येष्ठा क्षत्रिया क्षत्रियस्य तु |
रत्यर्थमपि शूद्रा स्यान्नेत्याहुरपरे जनाः ||११||
अपत्यजन्म शूद्रायां न प्रशंसन्ति साधवः |
शूद्रायां जनयन्विप्रः प्रायश्चित्ती विधीयते ||१२||
त्रिंशद्वर्षो दशवर्षां भार्यां विन्देत नग्निकाम् |
एकविंशतिवर्षो वा सप्तवर्षामवाप्नुयात् ||१३||
यस्यास्तु न भवेद्भ्राता पिता वा भरतर्षभ |
नोपयच्छेत तां जातु पुत्रिकाधर्मिणी हि सा ||१४||
त्रीणि वर्षाण्युदीक्षेत कन्या ऋतुमती सती |
चतुर्थे त्वथ सम्प्राप्ते स्वयं भर्तारमर्जयेत् ||१५||
प्रजनो हीयते तस्या रतिश्च भरतर्षभ |
अतोऽन्यथा वर्तमाना भवेद्वाच्या प्रजापतेः ||१६||
असपिण्डा च या मातुरसगोत्रा च या पितुः |
इत्येतामनुगच्छेत तं धर्मं मनुरब्रवीत् ||१७||
युधिष्ठिर उवाच||
शुल्कमन्येन दत्तं स्याद्ददानीत्याह चापरः |
बलादन्यः प्रभाषेत धनमन्यः प्रदर्शयेत् ||१८||
पाणिग्रहीता त्वन्यः स्यात्कस्य कन्या पितामह |
तत्त्वं जिज्ञासमानानां चक्षुर्भवतु नो भवान् ||१९||
भीष्म उवाच||
यत्किञ्चित्कर्म मानुष्यं संस्थानाय प्रकृष्यते |
मन्त्रवन्मन्त्रितं तस्य मृषावादस्तु पातकः ||२०||
भार्यापत्यृत्विगाचार्याः शिष्योपाध्याय एव च |
मृषोक्ते दण्डमर्हन्ति नेत्याहुरपरे जनाः ||२१||
न ह्यकामेन संवादं मनुरेवं प्रशंसति |
अयशस्यमधर्म्यं च यन्मृषा धर्मकोपनम् ||२२||
नैकान्तदोष एकस्मिंस्तद्दानं नोपलभ्यते |
धर्मतो यां प्रयच्छन्ति यां च क्रीणन्ति भारत ||२३||
बन्धुभिः समनुज्ञातो मन्त्रहोमौ प्रयोजयेत् |
तथा सिध्यन्ति ते मन्त्रा नादत्तायाः कथञ्चन ||२४||
यस्त्वत्र मन्त्रसमयो भार्यापत्योर्मिथः कृतः |
तमेवाहुर्गरीयांसं यश्चासौ ज्ञातिभिः कृतः ||२५||
देवदत्तां पतिर्भार्यां वेत्ति धर्मस्य शासनात् |
सा दैवीं मानुषीं वाचमनृतां पर्युदस्यति ||२६||
युधिष्ठिर उवाच||
कन्यायां प्राप्तशुल्कायां ज्यायांश्चेदाव्रजेद्वरः |
धर्मकामार्थसम्पन्नो वाच्यमत्रानृतं न वा ||२७||
तस्मिन्नुभयतो दोषे कुर्वञ्छ्रेयः समाचरेत् |
अयं नः सर्वधर्माणां धर्मश्चिन्त्यतमो मतः ||२८||
तत्त्वं जिज्ञासमानानां चक्षुर्भवतु नो भवान् |
तदेतत्सर्वमाचक्ष्व न हि तृप्यामि कथ्यताम् ||२९||
भीष्म उवाच||
न वै निष्ठाकरं शुल्कं ज्ञात्वासीत्तेन नाहृतम् |
न हि शुल्कपराः सन्तः कन्यां ददति कर्हिचित् ||३०||
अन्यैर्गुणैरुपेतं तु शुल्कं याचन्ति बान्धवाः |
अलङ्कृत्वा वहस्वेति यो दद्यादनुकूलतः ||३१||
तच्च तां च ददात्येव न शुल्कं विक्रयो न सः |
प्रतिगृह्य भवेद्देयमेष धर्मः सनातनः ||३२||
दास्यामि भवते कन्यामिति पूर्वं नभाषितम् |
ये चैवाहुर्ये च नाहुर्ये चावश्यं वदन्त्युत ||३३||
तस्मादा ग्रहणात्पाणेर्याचयन्ति परस्परम् |
कन्यावरः पुरा दत्तो मरुद्भिरिति नः श्रुतम् ||३४||
नानिष्टाय प्रदातव्या कन्या इत्यृषिचोदितम् |
तन्मूलं काममूलस्य प्रजनस्येति मे मतिः ||३५||
समीक्ष्य च बहून्दोषान्संवासाद्विद्विषाणयोः |
यथा निष्ठाकरं शुल्कं न जात्वासीत्तथा शृणु ||३६||
अहं विचित्रवीर्याय द्वे कन्ये समुदावहम् |
जित्वा च मागधान्सर्वान्काशीनथ च कोसलान् ||३७||
गृहीतपाणिरेकासीत्प्राप्तशुल्कापराभवत् ||३७||
पाणौ गृहीता तत्रैव विसृज्या इति मे पिता |
अब्रवीदितरां कन्यामावहत्स तु कौरवः ||३८||
अप्यन्यामनुपप्रच्छ शङ्कमानः पितुर्वचः |
अतीव ह्यस्य धर्मेप्सा पितुर्मेऽभ्यधिकाभवत् ||३९||
ततोऽहमब्रुवं राजन्नाचारेप्सुरिदं वचः |
आचारं तत्त्वतो वेत्तुमिच्छामीति पुनः पुनः ||४०||
ततो मयैवमुक्ते तु वाक्ये धर्मभृतां वरः |
पिता मम महाराज बाह्लीको वाक्यमब्रवीत् ||४१||
यदि वः शुल्कतो निष्ठा न पाणिग्रहणं तथा |
लाजान्तरमुपासीत प्राप्तशुल्का पतिं वृतम् ||४२||
न हि धर्मविदः प्राहुः प्रमाणं वाक्यतः स्मृतम् |
येषां वै शुल्कतो निष्ठा न पाणिग्रहणात्तथा ||४३||
प्रसिद्धं भाषितं दाने तेषां प्रत्यसनं पुनः |
ये मन्यन्ते क्रयं शुल्कं न ते धर्मविदो जनाः ||४४||
न चैतेभ्यः प्रदातव्या न वोढव्या तथाविधा |
न ह्येव भार्या क्रेतव्या न विक्रेया कथञ्चन ||४५||
ये च क्रीणन्ति दासीवद्ये च विक्रीणते जनाः |
भवेत्तेषां तथा निष्ठा लुब्धानां पापचेतसाम् ||४६||
अस्मिन्धर्मे सत्यवन्तं पर्यपृच्छन्त वै जनाः |
कन्यायाः प्राप्तशुल्कायाः शुल्कदः प्रशमं गतः ||४७||
पाणिग्रहीता चान्यः स्यादत्र नो धर्मसंशयः |
तन्नश्छिन्धि महाप्राज्ञ त्वं हि वै प्राज्ञसंमतः ||४८||
तत्त्वं जिज्ञासमानानां चक्षुर्भवतु नो भवान् ||४८||
तानेवं ब्रुवतः सर्वान्सत्यवान्वाक्यमब्रवीत् |
यत्रेष्टं तत्र देया स्यान्नात्र कार्या विचारणा ||४९||
कुर्वते जीवतोऽप्येवं मृते नैवास्ति संशयः ||४९||
देवरं प्रविशेत्कन्या तप्येद्वापि महत्तपः |
तमेवानुव्रता भूत्वा पाणिग्राहस्य नाम सा ||५०||
लिखन्त्येव तु केषाञ्चिदपरेषां शनैरपि |
इति ये संवदन्त्यत्र त एतं निश्चयं विदुः ||५१||
तत्पाणिग्रहणात्पूर्वमुत्तरं यत्र वर्तते |
सर्वमङ्गलमन्त्रं वै मृषावादस्तु पातकः ||५२||
पाणिग्रहणमन्त्राणां निष्ठा स्यात्सप्तमे पदे |
पाणिग्राहस्य भार्या स्याद्यस्य चाद्भिः प्रदीयते ||५३||
अनुकूलामनुवंशां भ्रात्रा दत्तामुपाग्निकाम् |
परिक्रम्य यथान्यायं भार्यां विन्देद्द्विजोत्तमः ||५४||
४५
युधिष्ठिर उवाच||
कन्यायाः प्राप्तशुल्कायाः पतिश्चेन्नास्ति कश्चन |
तत्र का प्रतिपत्तिः स्यात्तन्मे ब्रूहि पितामह ||१||
भीष्म उवाच||
यापुत्रकस्याप्यरिक्थस्य प्रतिपत्सा तदा भवेत् |
अथ चेत्साहरेच्छुल्कं क्रीता शुल्कप्रदस्य सा |
तस्यार्थेऽपत्यमीहेत येन न्यायेन शक्नुयात् ||३||
न तस्या मन्त्रवत्कार्यं कश्चित्कुर्वीत किञ्चन |
स्वयं वृतेति सावित्री पित्रा वै प्रत्यपद्यत |
तत्तस्यान्ये प्रशंसन्ति धर्मज्ञा नेतरे जनाः ||५||
एतत्तु नापरे चक्रुर्न परे जातु साधवः |
साधूनां पुनराचारो गरीयो धर्मलक्षणम् ||६||
अस्मिन्नेव प्रकरणे सुक्रतुर्वाक्यमब्रवीत् |
नप्ता विदेहराजस्य जनकस्य महात्मनः ||७||
असदाचरिते मार्गे कथं स्यादनुकीर्तनम् |
अनुप्रश्नः संशयो वा सतामेतदुपालभेत् ||८||
असदेव हि धर्मस्य प्रमादो धर्म आसुरः |
नानुशुश्रुम जात्वेतामिमां पूर्वेषु जन्मसु ||९||
भार्यापत्योर्हि सम्बन्धः स्त्रीपुंसोस्तुल्य एव सः |
रतिः साधारणो धर्म इति चाह स पार्थिवः ||१०||
युधिष्ठिर उवाच||
अथ केन प्रमाणेन पुंसामादीयते धनम् |
पुत्रवद्धि पितुस्तस्य कन्या भवितुमर्हति ||११||
भीष्म उवाच||
यथैवात्मा तथा पुत्रः पुत्रेण दुहिता समा |
तस्यामात्मनि तिष्ठन्त्यां कथमन्यो धनं हरेत् ||१२||
मातुश्च यौतकं यत्स्यात्कुमारीभाग एव सः |
दौहित्र एव वा रिक्थमपुत्रस्य पितुर्हरेत् ||१३||
ददाति हि स पिण्डं वै पितुर्मातामहस्य च |
पुत्रदौहित्रयोर्नेह विशेषो धर्मतः स्मृतः ||१४||
अन्यत्र जातया सा हि प्रजया पुत्र ईहते |
दुहितान्यत्र जातेन पुत्रेणापि विशिष्यते ||१५||
दौहित्रकेण धर्मेण नात्र पश्यामि कारणम् |
विक्रीतासु च ये पुत्रा भवन्ति पितुरेव ते ||१६||
असूयवस्त्वधर्मिष्ठाः परस्वादायिनः शठाः |
आसुरादधिसम्भूता धर्माद्विषमवृत्तयः ||१७||
अत्र गाथा यमोद्गीताः कीर्तयन्ति पुराविदः |
धर्मज्ञा धर्मशास्त्रेषु निबद्धा धर्मसेतुषु ||१८||
यो मनुष्यः स्वकं पुत्रं विक्रीय धनमिच्छति |
कन्यां वा जीवितार्थाय यः शुल्केन प्रयच्छति ||१९||
सप्तावरे महाघोरे निरये कालसाह्वये |
स्वेदं मूत्रं पुरीषं च तस्मिन्प्रेत उपाश्नुते ||२०||
आर्षे गोमिथुनं शुल्कं केचिदाहुर्मृषैव तत् |
अल्पं वा बहु वा राजन्विक्रयस्तावदेव सः ||२१||
यद्यप्याचरितः कैश्चिन्नैष धर्मः कथञ्चन |
अन्येषामपि दृश्यन्ते लोभतः सम्प्रवृत्तयः ||२२||
वश्यां कुमारीं विहितां ये च तामुपभुञ्जते |
एते पापस्य कर्तारस्तमस्यन्धेऽथ शेरते ||२३||
अन्योऽप्यथ न विक्रेयो मनुष्यः किं पुनः प्रजाः |
अधर्ममूलैर्हि धनैर्न तैरर्थोऽस्ति कश्चन ||२४||
४६
भीष्म उवाच||
प्राचेतसस्य वचनं कीर्तयन्ति पुराविदः |
यस्याः किञ्चिन्नाददते ज्ञातयो न स विक्रयः ||१||
अर्हणं तत्कुमारीणामानृशंस्यतमं च तत् |
सर्वं च प्रतिदेयं स्यात्कन्यायै तदशेषतः ||२||
पितृभिर्भ्रातृभिश्चैव श्वशुरैरथ देवरैः |
पूज्या लालयितव्याश्च बहुकल्याणमीप्सुभिः ||३||
यदि वै स्त्री न रोचेत पुमांसं न प्रमोदयेत् |
अमोदनात्पुनः पुंसः प्रजनं न प्रवर्धते ||४||
पूज्या लालयितव्याश्च स्त्रियो नित्यं जनाधिप |
अपूजिताश्च यत्रैताः सर्वास्तत्राफलाः क्रियाः ||५||
तदैव तत्कुलं नास्ति यदा शोचन्ति जामयः ||५||
जामीशप्तानि गेहानि निकृत्तानीव कृत्यया |
नैव भान्ति न वर्धन्ते श्रिया हीनानि पार्थिव ||६||
स्त्रियः पुंसां परिददे मनुर्जिगमिषुर्दिवम् |
अबलाः स्वल्पकौपीनाः सुहृदः सत्यजिष्णवः ||७||
ईर्ष्यवो मानकामाश्च चण्डा असुहृदोऽबुधाः |
स्त्रियो माननमर्हन्ति ता मानयत मानवाः ||८||
स्त्रीप्रत्ययो हि वो धर्मो रतिभोगाश्च केवलाः |
परिचर्यान्नसंस्कारास्तदायत्ता भवन्तु वः ||९||
उत्पादनमपत्यस्य जातस्य परिपालनम् |
प्रीत्यर्थं लोकयात्रा च पश्यत स्त्रीनिबन्धनम् ||१०||
संमान्यमानाश्चैताभिः सर्वकार्याण्यवाप्स्यथ |
विदेहराजदुहिता चात्र श्लोकमगायत ||११||
नास्ति यज्ञः स्त्रियः कश्चिन्न श्राद्धं नोपवासकम् |
धर्मस्तु भर्तृशुश्रूषा तया स्वर्गं जयत्युत ||१२||
पिता रक्षति कौमारे भर्ता रक्षति यौवने |
पुत्रास्तु स्थविरीभावे न स्त्री स्वातन्त्र्यमर्हति ||१३||
श्रिय एताः स्त्रियो नाम सत्कार्या भूतिमिच्छता |
लालिता निगृहीता च स्त्री श्रीर्भवति भारत ||१४||
रिक्थविभागः
४७
युधिष्ठिर उवाच||
सर्वशास्त्रविधानज्ञ राजधर्मार्थवित्तम |
अतीव संशयच्छेत्ता भवान्वै प्रथितः क्षितौ ||१||
कश्चित्तु संशयो मेऽस्ति तन्मे ब्रूहि पितामह |
अस्यामापदि कष्टायामन्यं पृच्छाम कं वयम् ||२||
यथा नरेण कर्तव्यं यश्च धर्मः सनातनः |
एतत्सर्वं महाबाहो भवान्व्याख्यातुमर्हति ||३||
चतस्रो विहिता भार्या ब्राह्मणस्य पितामह |
ब्राह्मणी क्षत्रिया वैश्या शूद्रा च रतिमिच्छतः ||४||
तत्र जातेषु पुत्रेषु सर्वासां कुरुसत्तम |
आनुपूर्व्येण कस्तेषां पित्र्यं दायाद्यमर्हति ||५||
केन वा किं ततो हार्यं पितृवित्तात्पितामह |
एतदिच्छामि कथितं विभागस्तेषु यः स्मृतः ||६||
भीष्म उवाच||
ब्राह्मणः क्षत्रियो वैश्यस्त्रयो वर्णा द्विजातयः |
एतेषु विहितो धर्मो ब्राह्मणस्य युधिष्ठिर ||७||
वैषम्यादथ वा लोभात्कामाद्वापि परन्तप |
ब्राह्मणस्य भवेच्छूद्रा न तु दृष्टान्ततः स्मृता ||८||
शूद्रां शयनमारोप्य ब्राह्मणः पीडितो भवेत् |
प्रायश्चित्तीयते चापि विधिदृष्टेन हेतुना ||९||
तत्र जातेष्वपत्येषु द्विगुणं स्याद्युधिष्ठिर |
अतस्ते नियमं वित्ते सम्प्रवक्ष्यामि भारत ||१०||
लक्षण्यो गोवृषो यानं यत्प्रधानतमं भवेत् |
ब्राह्मण्यास्तद्धरेत्पुत्र एकांशं वै पितुर्धनात् ||११||
शेषं तु दशधा कार्यं ब्राह्मणस्वं युधिष्ठिर |
तत्र तेनैव हर्तव्याश्चत्वारोंऽशाः पितुर्धनात् ||१२||
क्षत्रियायास्तु यः पुत्रो ब्राह्मणः सोऽप्यसंशयः |
स तु मातृविशेषेण त्रीनंशान्हर्तुमर्हति ||१३||
वर्णे तृतीये जातस्तु वैश्यायां ब्राह्मणादपि |
द्विरंशस्तेन हर्तव्यो ब्राह्मणस्वाद्युधिष्ठिर ||१४||
शूद्रायां ब्राह्मणाज्जातो नित्यादेयधनः स्मृतः |
अल्पं वापि प्रदातव्यं शूद्रापुत्राय भारत ||१५||
दशधा प्रविभक्तस्य धनस्यैष भवेत्क्रमः |
सवर्णासु तु जातानां समान्भागान्प्रकल्पयेत् ||१६||
अब्राह्मणं तु मन्यन्ते शूद्रापुत्रमनैपुणात् |
त्रिषु वर्णेषु जातो हि ब्राह्मणाद्ब्राह्मणो भवेत् ||१७||
स्मृता वर्णाश्च चत्वारः पञ्चमो नाधिगम्यते |
हरेत्तु दशमं भागं शूद्रापुत्रः पितुर्धनात् ||१८||
तत्तु दत्तं हरेत्पित्रा नादत्तं हर्तुमर्हति |
अवश्यं हि धनं देयं शूद्रापुत्राय भारत ||१९||
आनृशंस्यं परो धर्म इति तस्मै प्रदीयते |
यत्र तत्र समुत्पन्नो गुणायैवोपकल्पते ||२०||
यदि वाप्येकपुत्रः स्यादपुत्रो यदि वा भवेत् |
नाधिकं दशमाद्दद्याच्छूद्रापुत्राय भारत ||२१||
त्रैवार्षिकाद्यदा भक्तादधिकं स्याद्द्विजस्य तु |
यजेत तेन द्रव्येण न वृथा साधयेद्धनम् ||२२||
त्रिसाहस्रपरो दायः स्त्रियो देयो धनस्य वै |
तच्च भर्त्रा धनं दत्तं नादत्तं भोक्तुमर्हति ||२३||
स्त्रीणां तु पतिदायाद्यमुपभोगफलं स्मृतम् |
नापहारं स्त्रियः कुर्युः पतिवित्तात्कथञ्चन ||२४||
स्त्रियास्तु यद्भवेद्वित्तं पित्रा दत्तं युधिष्ठिर |
ब्राह्मण्यास्तद्धरेत्कन्या यथा पुत्रस्तथा हि सा ||२५||
सा हि पुत्रसमा राजन्विहिता कुरुनन्दन ||२५||
एवमेतत्समुद्दिष्टं धर्मेषु भरतर्षभ |
एतद्धर्ममनुस्मृत्य न वृथा साधयेद्धनम् ||२६||
युधिष्ठिर उवाच||
शूद्रायां ब्राह्मणाज्जातो यद्यदेयधनः स्मृतः |
केन प्रतिविशेषेण दशमोऽप्यस्य दीयते ||२७||
ब्राह्मण्यां ब्राह्मणाज्जातो ब्राह्मणः स्यान्न संशयः |
क्षत्रियायां तथैव स्याद्वैश्यायामपि चैव हि ||२८||
कस्मात्ते विषमं भागं भजेरन्नृपसत्तम |
यदा सर्वे त्रयो वर्णास्त्वयोक्ता ब्राह्मणा इति ||२९||
भीष्म उवाच||
दारा इत्युच्यते लोके नाम्नैकेन परन्तप |
प्रोक्तेन चैकनाम्नायं विशेषः सुमहान्भवेत् ||३०||
तिस्रः कृत्वा पुरो भार्याः पश्चाद्विन्देत ब्राह्मणीम् |
सा ज्येष्ठा सा च पूज्या स्यात्सा च ताभ्यो गरीयसी ||३१||
स्नानं प्रसाधनं भर्तुर्दन्तधावनमञ्जनम् |
हव्यं कव्यं च यच्चान्यद्धर्मयुक्तं भवेद्गृहे ||३२||
न तस्यां जातु तिष्ठन्त्यामन्या तत्कर्तुमर्हति |
ब्राह्मणी त्वेव तत्कुर्याद्ब्राह्मणस्य युधिष्ठिर ||३३||
अन्नं पानं च माल्यं च वासांस्याभरणानि च |
ब्राह्मण्यै तानि देयानि भर्तुः सा हि गरीयसी ||३४||
मनुनाभिहितं शास्त्रं यच्चापि कुरुनन्दन |
तत्राप्येष महाराज दृष्टो धर्मः सनातनः ||३५||
अथ चेदन्यथा कुर्याद्यदि कामाद्युधिष्ठिर |
यथा ब्राह्मणचण्डालः पूर्वदृष्टस्तथैव सः ||३६||
ब्राह्मण्याः सदृशः पुत्रः क्षत्रियायाश्च यो भवेत् |
राजन्विशेषो नास्त्यत्र वर्णयोरुभयोरपि ||३७||
न तु जात्या समा लोके ब्राह्मण्याः क्षत्रिया भवेत् |
ब्राह्मण्याः प्रथमः पुत्रो भूयान्स्याद्राजसत्तम ||३८||
भूयोऽपि भूयसा हार्यं पितृवित्ताद्युधिष्ठिर ||३८||
यथा न सदृशी जातु ब्राह्मण्याः क्षत्रिया भवेत् |
क्षत्रियायास्तथा वैश्या न जातु सदृशी भवेत् ||३९||
श्रीश्च राज्यं च कोशश्च क्षत्रियाणां युधिष्ठिर |
विहितं दृश्यते राजन्सागरान्ता च मेदिनी ||४०||
क्षत्रियो हि स्वधर्मेण श्रियं प्राप्नोति भूयसीम् |
राजा दण्डधरो राजन्रक्षा नान्यत्र क्षत्रियात् ||४१||
ब्राह्मणा हि महाभागा देवानामपि देवताः |
तेषु राजा प्रवर्तेत पूजया विधिपूर्वकम् ||४२||
प्रणीतमृषिभिर्ज्ञात्वा धर्मं शाश्वतमव्ययम् |
लुप्यमानाः स्वधर्मेण क्षत्रियो रक्षति प्रजाः ||४३||
दस्युभिर्ह्रियमाणं च धनं दाराश्च सर्वशः |
सर्वेषामेव वर्णानां त्राता भवति पार्थिवः ||४४||
भूयान्स्यात्क्षत्रियापुत्रो वैश्यापुत्रान्न संशयः |
भूयस्तेनापि हर्तव्यं पितृवित्ताद्युधिष्ठिर ||४५||
युधिष्ठिर उवाच||
उक्तं ते विधिवद्राजन्ब्राह्मणस्वे पितामह |
इतरेषां तु वर्णानां कथं विनियमो भवेत् ||४६||
भीष्म उवाच||
क्षत्रियस्यापि भार्ये द्वे विहिते कुरुनन्दन |
तृतीया च भवेच्छूद्रा न तु दृष्टान्ततः स्मृता ||४७||
एष एव क्रमो हि स्यात्क्षत्रियाणां युधिष्ठिर |
अष्टधा तु भवेत्कार्यं क्षत्रियस्वं युधिष्ठिर ||४८||
क्षत्रियाया हरेत्पुत्रश्चतुरोंऽशान्पितुर्धनात् |
युद्धावहारिकं यच्च पितुः स्यात्स हरेच्च तत् ||४९||
वैश्यापुत्रस्तु भागांस्त्रीन्शूद्रापुत्रस्तथाष्टमम् |
सोऽपि दत्तं हरेत्पित्रा नादत्तं हर्तुमर्हति ||५०||
एकैव हि भवेद्भार्या वैश्यस्य कुरुनन्दन |
द्वितीया वा भवेच्छूद्रा न तु दृष्टान्ततः स्मृता ||५१||
वैश्यस्य वर्तमानस्य वैश्यायां भरतर्षभ |
शूद्रायां चैव कौन्तेय तयोर्विनियमः स्मृतः ||५२||
पञ्चधा तु भवेत्कार्यं वैश्यस्वं भरतर्षभ |
तयोरपत्ये वक्ष्यामि विभागं च जनाधिप ||५३||
वैश्यापुत्रेण हर्तव्याश्चत्वारोंऽशाः पितुर्धनात् |
पञ्चमस्तु भवेद्भागः शूद्रापुत्राय भारत ||५४||
सोऽपि दत्तं हरेत्पित्रा नादत्तं हर्तुमर्हति |
त्रिभिर्वर्णैस्तथा जातः शूद्रो देयधनो भवेत् ||५५||
शूद्रस्य स्यात्सवर्णैव भार्या नान्या कथञ्चन |
शूद्रस्य समभागः स्याद्यदि पुत्रशतं भवेत् ||५६||
जातानां समवर्णासु पुत्राणामविशेषतः |
सर्वेषामेव वर्णानां समभागो धने स्मृतः ||५७||
ज्येष्ठस्य भागो ज्येष्ठः स्यादेकांशो यः प्रधानतः |
एष दायविधिः पार्थ पूर्वमुक्तः स्वयम्भुवा ||५८||
समवर्णासु जातानां विशेषोऽस्त्यपरो नृप |
विवाहवैशेष्यकृतः पूर्वः पूर्वो विशिष्यते ||५९||
हरेज्ज्येष्ठः प्रधानांशमेकं तुल्यासुतेष्वपि |
मध्यमो मध्यमं चैव कनीयांस्तु कनीयसम् ||६०||
एवं जातिषु सर्वासु सवर्णाः श्रेष्ठतां गताः |
महर्षिरपि चैतद्वै मारीचः काश्यपोऽब्रवीत् ||६१||
वर्णसंकरः
४८
युधिष्ठिर उवाच||
अर्थाश्रयाद्वा कामाद्वा वर्णानां वाप्यनिश्चयात् |
अज्ञानाद्वापि वर्णानां जायते वर्णसङ्करः ||१||
तेषामेतेन विधिना जातानां वर्णसङ्करे |
को धर्मः कानि कर्माणि तन्मे ब्रूहि पितामह ||२||
भीष्म उवाच||
चातुर्वर्ण्यस्य कर्माणि चातुर्वर्ण्यं च केवलम् |
असृजत्स ह यज्ञार्थे पूर्वमेव प्रजापतिः ||३||
भार्याश्चतस्रो विप्रस्य द्वयोरात्मास्य जायते |
आनुपूर्व्याद्द्वयोर्हीनौ मातृजात्यौ प्रसूयतः ||४||
परं शवाद्ब्राह्मणस्यैष पुत्रः; शूद्रापुत्रं पारशवं तमाहुः |
शुश्रूषकः स्वस्य कुलस्य स स्या; त्स्वं चारित्रं नित्यमथो न जह्यात् ||५||
सर्वानुपायानपि सम्प्रधार्य; समुद्धरेत्स्वस्य कुलस्य तन्तुम् |
ज्येष्ठो यवीयानपि यो द्विजस्य; शुश्रूषवान्दानपरायणः स्यात् ||६||
तिस्रः क्षत्रियसम्बन्धाद्द्वयोरात्मास्य जायते |
हीनवर्णस्तृतीयायां शूद्र उग्र इति स्मृतः ||७||
द्वे चापि भार्ये वैश्यस्य द्वयोरात्मास्य जायते |
शूद्रा शूद्रस्य चाप्येका शूद्रमेव प्रजायते ||८||
अतो विशिष्टस्त्वधमो गुरुदारप्रधर्षकः |
बाह्यं वर्णं जनयति चातुर्वर्ण्यविगर्हितम् ||९||
अयाज्यं क्षत्रियो व्रात्यं सूतं स्तोमक्रियापरम् |
वैश्यो वैदेहकं चापि मौद्गल्यमपवर्जितम् ||१०||
शूद्रश्चण्डालमत्युग्रं वध्यघ्नं बाह्यवासिनम् |
ब्राह्मण्यां सम्प्रजायन्त इत्येते कुलपांसनाः ||११||
एते मतिमतां श्रेष्ठ वर्णसङ्करजाः प्रभो ||११||
बन्दी तु जायते वैश्यान्मागधो वाक्यजीवनः |
शूद्रान्निषादो मत्स्यघ्नः क्षत्रियायां व्यतिक्रमात् ||१२||
शूद्रादायोगवश्चापि वैश्यायां ग्रामधर्मिणः |
ब्राह्मणैरप्रतिग्राह्यस्तक्षा स वनजीवनः ||१३||
एतेऽपि सदृशं वर्णं जनयन्ति स्वयोनिषु |
मातृजात्यां प्रसूयन्ते प्रवरा हीनयोनिषु ||१४||
यथा चतुर्षु वर्णेषु द्वयोरात्मास्य जायते |
आनन्तर्यात्तु जायन्ते तथा बाह्याः प्रधानतः ||१५||
ते चापि सदृशं वर्णं जनयन्ति स्वयोनिषु |
परस्परस्य वर्तन्तो जनयन्ति विगर्हितान् ||१६||
यथा च शूद्रो ब्राह्मण्यां जन्तुं बाह्यं प्रसूयते |
एवं बाह्यतराद्बाह्यश्चातुर्वर्ण्यात्प्रसूयते ||१७||
प्रतिलोमं तु वर्तन्तो बाह्याद्बाह्यतरं पुनः |
हीना हीनात्प्रसूयन्ते वर्णाः पञ्चदशैव ते ||१८||
अगम्यागमनाच्चैव वर्तते वर्णसङ्करः |
व्रात्यानामत्र जायन्ते सैरन्ध्रा मागधेषु च ||१९||
प्रसाधनोपचारज्ञमदासं दासजीवनम् ||१९||
अतश्चायोगवं सूते वागुरावनजीवनम् |
मैरेयकं च वैदेहः सम्प्रसूतेऽथ माधुकम् ||२०||
निषादो मुद्गरं सूते दाशं नावोपजीविनम् |
मृतपं चापि चण्डालः श्वपाकमतिकुत्सितम् ||२१||
चतुरो मागधी सूते क्रूरान्मायोपजीविनः |
मांसस्वादुकरं सूदं सौगन्धमिति सञ्ज्ञितम् ||२२||
वैदेहकाच्च पापिष्ठं क्रूरं भार्योपजीविनम् |
निषादान्मद्रनाभं च खरयानप्रयायिनम् ||२३||
चण्डालात्पुल्कसं चापि खराश्वगजभोजिनम् |
मृतचेलप्रतिच्छन्नं भिन्नभाजनभोजिनम् ||२४||
आयोगवीषु जायन्ते हीनवर्णासु ते त्रयः |
क्षुद्रो वैदेहकादन्ध्रो बहिर्ग्रामप्रतिश्रयः ||२५||
कारावरो निषाद्यां तु चर्मकारात्प्रजायते |
चण्डालात्पाण्डुसौपाकस्त्वक्सारव्यवहारवान् ||२६||
आहिण्डिको निषादेन वैदेह्यां सम्प्रजायते |
चण्डालेन तु सौपाको मौद्गल्यसमवृत्तिमान् ||२७||
निषादी चापि चण्डालात्पुत्रमन्तावसायिनम् |
श्मशानगोचरं सूते बाह्यैरपि बहिष्कृतम् ||२८||
इत्येताः सङ्करे जात्यः पितृमातृव्यतिक्रमात् |
प्रच्छन्ना वा प्रकाशा वा वेदितव्याः स्वकर्मभिः ||२९||
चतुर्णामेव वर्णानां धर्मो नान्यस्य विद्यते |
वर्णानां धर्महीनेषु सञ्ज्ञा नास्तीह कस्यचित् ||३०||
यदृच्छयोपसम्पन्नैर्यज्ञसाधुबहिष्कृतैः |
बाह्या बाह्यैस्तु जायन्ते यथावृत्ति यथाश्रयम् ||३१||
चतुष्पथश्मशानानि शैलांश्चान्यान्वनस्पतीन् |
युञ्जन्ते चाप्यलङ्कारांस्तथोपकरणानि च ||३२||
गोब्राह्मणार्थे साहाय्यं कुर्वाणा वै न संशयः |
आनृशंस्यमनुक्रोशः सत्यवाक्यमथ क्षमा ||३३||
स्वशरीरैः परित्राणं बाह्यानां सिद्धिकारकम् |
मनुजव्याघ्र भवति तत्र मे नास्ति संशयः ||३४||
यथोपदेशं परिकीर्तितासु; नरः प्रजायेत विचार्य बुद्धिमान् |
विहीनयोनिर्हि सुतोऽवसादये; त्तितीर्षमाणं सलिले यथोपलम् ||३५||
अविद्वांसमलं लोके विद्वांसमपि वा पुनः |
नयन्ते ह्युत्पथं नार्यः कामक्रोधवशानुगम् ||३६||
स्वभावश्चैव नारीणां नराणामिह दूषणम् |
इत्यर्थं न प्रसज्जन्ते प्रमदासु विपश्चितः ||३७||
युधिष्ठिर उवाच||
वर्णापेतमविज्ञातं नरं कलुषयोनिजम् |
आर्यरूपमिवानार्यं कथं विद्यामहे नृप ||३८||
भीष्म उवाच||
योनिसङ्कलुषे जातं नानाचारसमाहितम् |
कर्मभिः सज्जनाचीर्णैर्विज्ञेया योनिशुद्धता ||३९||
अनार्यत्वमनाचारः क्रूरत्वं निष्क्रियात्मता |
पुरुषं व्यञ्जयन्तीह लोके कलुषयोनिजम् ||४०||
पित्र्यं वा भजते शीलं मातृजं वा तथोभयम् |
न कथञ्चन सङ्कीर्णः प्रकृतिं स्वां नियच्छति ||४१||
यथैव सदृशो रूपे मातापित्रोर्हि जायते |
व्याघ्रश्चित्रैस्तथा योनिं पुरुषः स्वां नियच्छति ||४२||
कुलस्रोतसि सञ्छन्ने यस्य स्याद्योनिसङ्करः |
संश्रयत्येव तच्छीलं नरोऽल्पमपि वा बहु ||४३||
आर्यरूपसमाचारं चरन्तं कृतके पथि |
स्ववर्णमन्यवर्णं वा स्वशीलं शास्ति निश्चये ||४४||
नानावृत्तेषु भूतेषु नानाकर्मरतेषु च |
जन्मवृत्तसमं लोके सुश्लिष्टं न विरज्यते ||४५||
शरीरमिह सत्त्वेन नरस्य परिकृष्यते |
ज्येष्ठमध्यावरं सत्त्वं तुल्यसत्त्वं प्रमोदते ||४६||
ज्यायांसमपि शीलेन विहीनं नैव पूजयेत् |
अपि शूद्रं तु सद्वृत्तं धर्मज्ञमभिपूजयेत् ||४७||
आत्मानमाख्याति हि कर्मभिर्नरः; स्वशीलचारित्रकृतैः शुभाशुभैः |
प्रनष्टमप्यात्मकुलं तथा नरः; पुनः प्रकाशं कुरुते स्वकर्मभिः ||४८||
योनिष्वेतासु सर्वासु सङ्कीर्णास्वितरासु च |
यत्रात्मानं न जनयेद्बुधस्ताः परिवर्जयेत् ||४९||
पुत्रप्रणिधिः
४९
युधिष्ठिर उवाच||
ब्रूहि पुत्रान्कुरुश्रेष्ठ वर्णानां त्वं पृथक्पृथक् |
कीदृश्यां कीदृशाश्चापि पुत्राः कस्य च के च ते ||१||
विप्रवादाः सुबहुशः श्रूयन्ते पुत्रकारिताः |
अत्र नो मुह्यतां राजन्संशयं छेत्तुमर्हसि ||२||
भीष्म उवाच||
आत्मा पुत्रस्तु विज्ञेयस्तस्यानन्तरजश्च यः |
नियुक्तजश्च विज्ञेयः सुतः प्रसृतजस्तथा ||३||
पतितस्य च भार्यायां भर्त्रा सुसमवेतया |
तथा दत्तकृतौ पुत्रावध्यूढश्च तथापरः ||४||
षडपध्वंसजाश्चापि कानीनापसदास्तथा |
इत्येते ते समाख्यातास्तान्विजानीहि भारत ||५||
युधिष्ठिर उवाच||
षडपध्वंसजाः के स्युः के वाप्यपसदास्तथा |
एतत्सर्वं यथातत्त्वं व्याख्यातुं मे त्वमर्हसि ||६||
भीष्म उवाच||
त्रिषु वर्णेषु ये पुत्रा ब्राह्मणस्य युधिष्ठिर |
वर्णयोश्च द्वयोः स्यातां यौ राजन्यस्य भारत ||७||
एको द्विवर्ण एवाथ तथात्रैवोपलक्षितः |
षडपध्वंसजास्ते हि तथैवापसदाञ्शृणु ||८||
चण्डालो व्रात्यवेनौ च ब्राह्मण्यां क्षत्रियासु च |
वैश्यायां चैव शूद्रस्य लक्ष्यन्तेऽपसदास्त्रयः ||९||
मागधो वामकश्चैव द्वौ वैश्यस्योपलक्षितौ |
ब्राह्मण्यां क्षत्रियायां च क्षत्रियस्यैक एव तु ||१०||
ब्राह्मण्यां लक्ष्यते सूत इत्येतेऽपसदाः स्मृताः |
पुत्ररेतो न शक्यं हि मिथ्या कर्तुं नराधिप ||११||
युधिष्ठिर उवाच||
क्षेत्रजं केचिदेवाहुः सुतं केचित्तु शुक्रजम् |
तुल्यावेतौ सुतौ कस्य तन्मे ब्रूहि पितामह ||१२||
भीष्म उवाच||
रेतजो वा भवेत्पुत्रस्त्यक्तो वा क्षेत्रजो भवेत् |
अध्यूढः समयं भित्त्वेत्येतदेव निबोध मे ||१३||
युधिष्ठिर उवाच||
रेतोजं विद्म वै पुत्रं क्षेत्रजस्यागमः कथम् |
अध्यूढं विद्म वै पुत्रं हित्वा च समयं कथम् ||१४||
भीष्म उवाच||
आत्मजं पुत्रमुत्पाद्य यस्त्यजेत्कारणान्तरे |
न तत्र कारणं रेतः स क्षेत्रस्वामिनो भवेत् ||१५||
पुत्रकामो हि पुत्रार्थे यां वृणीते विशां पते |
तत्र क्षेत्रं प्रमाणं स्यान्न वै तत्रात्मजः सुतः ||१६||
अन्यत्र क्षेत्रजः पुत्रो लक्ष्यते भरतर्षभ |
न ह्यात्मा शक्यते हन्तुं दृष्टान्तोपगतो ह्यसौ ||१७||
कश्चिच्च कृतकः पुत्रः सङ्ग्रहादेव लक्ष्यते |
न तत्र रेतः क्षेत्रं वा प्रमाणं स्याद्युधिष्ठिर ||१८||
युधिष्ठिर उवाच||
कीदृशः कृतकः पुत्रः सङ्ग्रहादेव लक्ष्यते |
शुक्रं क्षेत्रं प्रमाणं वा यत्र लक्ष्येत भारत ||१९||
भीष्म उवाच||
मातापितृभ्यां सन्त्यक्तं पथि यं तु प्रलक्षयेत् |
न चास्य मातापितरौ ज्ञायेते स हि कृत्रिमः ||२०||
अस्वामिकस्य स्वामित्वं यस्मिन्सम्प्रतिलक्षयेत् |
सवर्णस्तं च पोषेत सवर्णस्तस्य जायते ||२१||
युधिष्ठिर उवाच||
कथमस्य प्रयोक्तव्यः संस्कारः कस्य वा कथम् |
देया कन्या कथं चेति तन्मे ब्रूहि पितामह ||२२||
भीष्म उवाच||
आत्मवत्तस्य कुर्वीत संस्कारं स्वामिवत्तथा |
त्यक्तो मातापितृभ्यां यः सवर्णं प्रतिपद्यते |
तद्गोत्रवर्णतस्तस्य कुर्यात्संस्कारमच्युत ||२४||
अथ देया तु कन्या स्यात्तद्वर्णेन युधिष्ठिर |
संस्कर्तुं मातृगोत्रं च मातृवर्णविनिश्चये ||२५||
कानीनाध्यूढजौ चापि विज्ञेयौ पुत्रकिल्बिषौ |
तावपि स्वाविव सुतौ संस्कार्याविति निश्चयः ||२६||
क्षेत्रजो वाप्यपसदो येऽध्यूढास्तेषु चाप्यथ |
आत्मवद्वै प्रयुञ्जीरन्संस्कारं ब्राह्मणादयः ||२७||
धर्मशास्त्रेषु वर्णानां निश्चयोऽयं प्रदृश्यते |
एतत्ते सर्वमाख्यातं किं भूयः श्रोतुमिच्छसि ||२८||
च्यवनोपाख्यानम्
५०
युधिष्ठिर उवाच||
दर्शने कीदृशः स्नेहः संवासे च पितामह |
महाभाग्यं गवां चैव तन्मे ब्रूहि पितामह ||१||
भीष्म उवाच||
हन्त ते कथयिष्यामि पुरावृत्तं महाद्युते |
नहुषस्य च संवादं महर्षेश्च्यवनस्य च ||२||
पुरा महर्षिश्च्यवनो भार्गवो भरतर्षभ |
उदवासकृतारम्भो बभूव सुमहाव्रतः ||३||
निहत्य मानं क्रोधं च प्रहर्षं शोकमेव च |
वर्षाणि द्वादश मुनिर्जलवासे धृतव्रतः ||४||
आदधत्सर्वभूतेषु विस्रम्भं परमं शुभम् |
जलेचरेषु सत्त्वेषु शीतरश्मिरिव प्रभुः ||५||
स्थाणुभूतः शुचिर्भूत्वा दैवतेभ्यः प्रणम्य च |
गङ्गायमुनयोर्मध्ये जलं सम्प्रविवेश ह ||६||
गङ्गायमुनयोर्वेगं सुभीमं भीमनिःस्वनम् |
प्रतिजग्राह शिरसा वातवेगसमं जवे ||७||
गङ्गा च यमुना चैव सरितश्चानुगास्तयोः |
प्रदक्षिणमृषिं चक्रुर्न चैनं पर्यपीडयन् ||८||
अन्तर्जले स सुष्वाप काष्ठभूतो महामुनिः |
ततश्चोर्ध्वस्थितो धीमानभवद्भरतर्षभ ||९||
जलौकसां स सत्त्वानां बभूव प्रियदर्शनः |
उपाजिघ्रन्त च तदा मत्स्यास्तं हृष्टमानसाः ||१०||
तत्र तस्यासतः कालः समतीतोऽभवन्महान् ||१०||
ततः कदाचित्समये कस्मिंश्चिन्मत्स्यजीविनः |
तं देशं समुपाजग्मुर्जालहस्ता महाद्युते ||११||
निषादा बहवस्तत्र मत्स्योद्धरणनिश्चिताः |
व्यायता बलिनः शूराः सलिलेष्वनिवर्तिनः ||१२||
अभ्याययुश्च तं देशं निश्चिता जालकर्मणि ||१२||
जालं च योजयामासुर्विशेषेण जनाधिप |
मत्स्योदकं समासाद्य तदा भरतसत्तम ||१३||
ततस्ते बहुभिर्योगैः कैवर्ता मत्स्यकाङ्क्षिणः |
गङ्गायमुनयोर्वारि जालैरभ्यकिरंस्ततः ||१४||
जालं सुविततं तेषां नवसूत्रकृतं तथा |
विस्तारायामसम्पन्नं यत्तत्र सलिले क्षमम् ||१५||
ततस्ते सुमहच्चैव बलवच्च सुवर्तितम् |
प्रकीर्य सर्वतः सर्वे जालं चकृषिरे तदा ||१६||
अभीतरूपाः संहृष्टास्तेऽन्योन्यवशवर्तिनः |
बबन्धुस्तत्र मत्स्यांश्च तथान्याञ्जलचारिणः ||१७||
तथा मत्स्यैः परिवृतं च्यवनं भृगुनन्दनम् |
आकर्षन्त महाराज जालेनाथ यदृच्छया ||१८||
नदीशैवलदिग्धाङ्गं हरिश्मश्रुजटाधरम् |
लग्नैः शङ्खगणैर्गात्रैः कोष्ठैश्चित्रैरिवावृतम् ||१९||
तं जालेनोद्धृतं दृष्ट्वा ते तदा वेदपारगम् |
सर्वे प्राञ्जलयो दाशाः शिरोभिः प्रापतन्भुवि ||२०||
परिखेदपरित्रासाज्जालस्याकर्षणेन च |
मत्स्या बभूवुर्व्यापन्नाः स्थलसङ्कर्षणेन च ||२१||
स मुनिस्तत्तदा दृष्ट्वा मत्स्यानां कदनं कृतम् |
बभूव कृपयाविष्टो निःश्वसंश्च पुनः पुनः ||२२||
निषादा ऊचुः||
अज्ञानाद्यत्कृतं पापं प्रसादं तत्र नः कुरु |
करवाम प्रियं किं ते तन्नो ब्रूहि महामुने ||२३||
भीष्म उवाच||
इत्युक्तो मत्स्यमध्यस्थश्च्यवनो वाक्यमब्रवीत् |
यो मेऽद्य परमः कामस्तं शृणुध्वं समाहिताः ||२४||
प्राणोत्सर्गं विक्रयं वा मत्स्यैर्यास्याम्यहं सह |
संवासान्नोत्सहे त्यक्तुं सलिलाध्युषितानिमान् ||२५||
इत्युक्तास्ते निषादास्तु सुभृशं भयकम्पिताः |
सर्वे विषण्णवदना नहुषाय न्यवेदयन् ||२६||
च्यवननहुषसंवादः
५१
भीष्म उवाच||
नहुषस्तु ततः श्रुत्वा च्यवनं तं तथागतम् |
त्वरितः प्रययौ तत्र सहामात्यपुरोहितः ||१||
शौचं कृत्वा यथान्यायं प्राञ्जलिः प्रयतो नृपः |
आत्मानमाचचक्षे च च्यवनाय महात्मने ||२||
अर्चयामास तं चापि तस्य राज्ञः पुरोहितः |
सत्यव्रतं महाभागं देवकल्पं विशां पते ||३||
नहुष उवाच||
करवाणि प्रियं किं ते तन्मे व्याख्यातुमर्हसि |
सर्वं कर्तास्मि भगवन्यद्यपि स्यात्सुदुष्करम् ||४||
च्यवन उवाच||
श्रमेण महता युक्ताः कैवर्ता मत्स्यजीविनः |
मम मूल्यं प्रयच्छैभ्यो मत्स्यानां विक्रयैः सह ||५||
नहुष उवाच||
सहस्रं दीयतां मूल्यं निषादेभ्यः पुरोहित |
निष्क्रयार्थं भगवतो यथाह भृगुनन्दनः ||६||
च्यवन उवाच||
सहस्रं नाहमर्हामि किं वा त्वं मन्यसे नृप |
सदृशं दीयतां मूल्यं स्वबुद्ध्या निश्चयं कुरु ||७||
नहुष उवाच||
सहस्राणां शतं क्षिप्रं निषादेभ्यः प्रदीयताम् |
स्यादेतत्तु भवेन्मूल्यं किं वान्यन्मन्यते भवान् ||८||
च्यवन उवाच||
नाहं शतसहस्रेण निमेयः पार्थिवर्षभ |
दीयतां सदृशं मूल्यममात्यैः सह चिन्तय ||९||
नहुष उवाच||
कोटिः प्रदीयतां मूल्यं निषादेभ्यः पुरोहित |
यदेतदपि नौपम्यमतो भूयः प्रदीयताम् ||१०||
च्यवन उवाच||
राजन्नार्हाम्यहं कोटिं भूयो वापि महाद्युते |
सदृशं दीयतां मूल्यं ब्राह्मणैः सह चिन्तय ||११||
नहुष उवाच||
अर्धराज्यं समग्रं वा निषादेभ्यः प्रदीयताम् |
एतन्मूल्यमहं मन्ये किं वान्यन्मन्यसे द्विज ||१२||
च्यवन उवाच||
अर्धराज्यं समग्रं वा नाहमर्हामि पार्थिव |
सदृशं दीयतां मूल्यमृषिभिः सह चिन्त्यताम् ||१३||
भीष्म उवाच||
महर्षेर्वचनं श्रुत्वा नहुषो दुःखकर्शितः |
स चिन्तयामास तदा सहामात्यपुरोहितः ||१४||
तत्र त्वन्यो वनचरः कश्चिन्मूलफलाशनः |
नहुषस्य समीपस्थो गविजातोऽभवन्मुनिः ||१५||
स समाभाष्य राजानमब्रवीद्द्विजसत्तमः |
तोषयिष्याम्यहं विप्रं यथा तुष्टो भविष्यति ||१६||
नाहं मिथ्यावचो ब्रूयां स्वैरेष्वपि कुतोऽन्यथा |
भवतो यदहं ब्रूयां तत्कार्यमविशङ्कया ||१७||
नहुष उवाच||
ब्रवीतु भगवान्मूल्यं महर्षेः सदृशं भृगोः |
परित्रायस्व मामस्माद्विषयं च कुलं च मे ||१८||
हन्याद्धि भगवान्क्रुद्धस्त्रैलोक्यमपि केवलम् |
किं पुनर्मां तपोहीनं बाहुवीर्यपरायणम् ||१९||
अगाधेऽम्भसि मग्नस्य सामात्यस्य सहर्त्विजः |
प्लवो भव महर्षे त्वं कुरु मूल्यविनिश्चयम् ||२०||
भीष्म उवाच||
नहुषस्य वचः श्रुत्वा गविजातः प्रतापवान् |
उवाच हर्षयन्सर्वानमात्यान्पार्थिवं च तम् ||२१||
अनर्घेया महाराज द्विजा वर्णमहत्तमाः |
गावश्च पृथिवीपाल गौर्मूल्यं परिकल्प्यताम् ||२२||
नहुषस्तु ततः श्रुत्वा महर्षेर्वचनं नृप |
हर्षेण महता युक्तः सहामात्यपुरोहितः ||२३||
अभिगम्य भृगोः पुत्रं च्यवनं संशितव्रतम् |
इदं प्रोवाच नृपते वाचा सन्तर्पयन्निव ||२४||
उत्तिष्ठोत्तिष्ठ विप्रर्षे गवा क्रीतोऽसि भार्गव |
एतन्मूल्यमहं मन्ये तव धर्मभृतां वर ||२५||
च्यवन उवाच||
उत्तिष्ठाम्येष राजेन्द्र सम्यक्क्रीतोऽस्मि तेऽनघ |
गोभिस्तुल्यं न पश्यामि धनं किञ्चिदिहाच्युत ||२६||
कीर्तनं श्रवणं दानं दर्शनं चापि पार्थिव |
गवां प्रशस्यते वीर सर्वपापहरं शिवम् ||२७||
गावो लक्ष्म्याः सदा मूलं गोषु पाप्मा न विद्यते |
अन्नमेव सदा गावो देवानां परमं हविः ||२८||
स्वाहाकारवषट्कारौ गोषु नित्यं प्रतिष्ठितौ |
गावो यज्ञप्रणेत्र्यो वै तथा यज्ञस्य ता मुखम् ||२९||
अमृतं ह्यक्षयं दिव्यं क्षरन्ति च वहन्ति च |
अमृतायतनं चैताः सर्वलोकनमस्कृताः ||३०||
तेजसा वपुषा चैव गावो वह्निसमा भुवि |
गावो हि सुमहत्तेजः प्राणिनां च सुखप्रदाः ||३१||
निविष्टं गोकुलं यत्र श्वासं मुञ्चति निर्भयम् |
विराजयति तं देशं पाप्मानं चापकर्षति ||३२||
गावः स्वर्गस्य सोपानं गावः स्वर्गेऽपि पूजिताः |
गावः कामदुघा देव्यो नान्यत्किञ्चित्परं स्मृतम् ||३३||
इत्येतद्गोषु मे प्रोक्तं माहात्म्यं पार्थिवर्षभ |
गुणैकदेशवचनं शक्यं पारायणं न तु ||३४||
निषादा ऊचुः||
दर्शनं कथनं चैव सहास्माभिः कृतं मुने |
सतां सप्तपदं मित्रं प्रसादं नः कुरु प्रभो ||३५||
हवींषि सर्वाणि यथा ह्युपभुङ्क्ते हुताशनः |
एवं त्वमपि धर्मात्मन्पुरुषाग्निः प्रतापवान् ||३६||
प्रसादयामहे विद्वन्भवन्तं प्रणता वयम् |
अनुग्रहार्थमस्माकमियं गौः प्रतिगृह्यताम् ||३७||
च्यवन उवाच||
कृपणस्य च यच्चक्षुर्मुनेराशीविषस्य च |
नरं समूलं दहति कक्षमग्निरिव ज्वलन् ||३८||
प्रतिगृह्णामि वो धेनुं कैवर्ता मुक्तकिल्बिषाः |
दिवं गच्छत वै क्षिप्रं मत्स्यैर्जालोद्धृतैः सह ||३९||
भीष्म उवाच||
ततस्तस्य प्रसादात्ते महर्षेर्भावितात्मनः |
निषादास्तेन वाक्येन सह मत्स्यैर्दिवं ययुः ||४०||
ततः स राजा नहुषो विस्मितः प्रेक्ष्य धीवरान् |
आरोहमाणांस्त्रिदिवं मत्स्यांश्च भरतर्षभ ||४१||
ततस्तौ गविजश्चैव च्यवनश्च भृगूद्वहः |
वराभ्यामनुरूपाभ्यां छन्दयामासतुर्नृपम् ||४२||
ततो राजा महावीर्यो नहुषः पृथिवीपतिः |
परमित्यब्रवीत्प्रीतस्तदा भरतसत्तम ||४३||
ततो जग्राह धर्मे स स्थितिमिन्द्रनिभो नृपः |
तथेति चोदितः प्रीतस्तावृषी प्रत्यपूजयत् ||४४||
समाप्तदीक्षश्च्यवनस्ततोऽगच्छत्स्वमाश्रमम् |
गविजश्च महातेजाः स्वमाश्रमपदं ययौ ||४५||
निषादाश्च दिवं जग्मुस्ते च मत्स्या जनाधिप |
नहुषोऽपि वरं लब्ध्वा प्रविवेश पुरं स्वकम् ||४६||
एतत्ते कथितं तात यन्मां त्वं परिपृच्छसि |
दर्शने यादृशः स्नेहः संवासे च युधिष्ठिर ||४७||
महाभाग्यं गवां चैव तथा धर्मविनिश्चयम् |
किं भूयः कथ्यतां वीर किं ते हृदि विवक्षितम् ||४८||
च्यवनकुशिकसंवादः
५२
युधिष्ठिर उवाच||
संशयो मे महाप्राज्ञ सुमहान्सागरोपमः |
तन्मे शृणु महाबाहो श्रुत्वा चाख्यातुमर्हसि ||१||
कौतूहलं मे सुमहज्जामदग्न्यं प्रति प्रभो |
रामं धर्मभृतां श्रेष्ठं तन्मे व्याख्यातुमर्हसि ||२||
कथमेष समुत्पन्नो रामः सत्यपराक्रमः |
कथं ब्रह्मर्षिवंशे च क्षत्रधर्मा व्यजायत ||३||
तदस्य सम्भवं राजन्निखिलेनानुकीर्तय |
कौशिकाच्च कथं वंशात्क्षत्राद्वै ब्राह्मणोऽभवत् ||४||
अहो प्रभावः सुमहानासीद्वै सुमहात्मनोः |
रामस्य च नरव्याघ्र विश्वामित्रस्य चैव ह ||५||
कथं पुत्रानतिक्रम्य तेषां नप्तृष्वथाभवत् |
एष दोषः सुतान्हित्वा तन्मे व्याख्यातुमर्हसि ||६||
भीष्म उवाच||
अत्राप्युदाहरन्तीममितिहासं पुरातनम् |
च्यवनस्य च संवादं कुशिकस्य च भारत ||७||
एतं दोषं पुरा दृष्ट्वा भार्गवश्च्यवनस्तदा |
आगामिनं महाबुद्धिः स्ववंशे मुनिपुङ्गवः ||८||
सञ्चिन्त्य मनसा सर्वं गुणदोषबलाबलम् |
दग्धुकामः कुलं सर्वं कुशिकानां तपोधनः ||९||
च्यवनस्तमनुप्राप्य कुशिकं वाक्यमब्रवीत् |
वस्तुमिच्छा समुत्पन्ना त्वया सह ममानघ ||१०||
कुशिक उवाच||
भगवन्सहधर्मोऽयं पण्डितैरिह धार्यते |
प्रदानकाले कन्यानामुच्यते च सदा बुधैः ||११||
यत्तु तावदतिक्रान्तं धर्मद्वारं तपोधन |
तत्कार्यं प्रकरिष्यामि तदनुज्ञातुमर्हसि ||१२||
भीष्म उवाच||
अथासनमुपादाय च्यवनस्य महामुनेः |
कुशिको भार्यया सार्धमाजगाम यतो मुनिः ||१३||
प्रगृह्य राजा भृङ्गारं पाद्यमस्मै न्यवेदयत् |
कारयामास सर्वाश्च क्रियास्तस्य महात्मनः ||१४||
ततः स राजा च्यवनं मधुपर्कं यथाविधि |
प्रत्यग्राहयदव्यग्रो महात्मा नियतव्रतः ||१५||
सत्कृत्य स तथा विप्रमिदं वचनमब्रवीत् |
भगवन्परवन्तौ स्वो ब्रूहि किं करवावहे ||१६||
यदि राज्यं यदि धनं यदि गाः संशितव्रत |
यज्ञदानानि च तथा ब्रूहि सर्वं ददामि ते ||१७||
इदं गृहमिदं राज्यमिदं धर्मासनं च ते |
राजा त्वमसि शाध्युर्वीं भृत्योऽहं परवांस्त्वयि ||१८||
एवमुक्ते ततो वाक्ये च्यवनो भार्गवस्तदा |
कुशिकं प्रत्युवाचेदं मुदा परमया युतः ||१९||
न राज्यं कामये राजन्न धनं न च योषितः |
न च गा न च ते देशान्न यज्ञाञ्श्रूयतामिदम् ||२०||
नियमं कञ्चिदारप्स्ये युवयोर्यदि रोचते |
परिचर्योऽस्मि यत्ताभ्यां युवाभ्यामविशङ्कया ||२१||
एवमुक्ते तदा तेन दम्पती तौ जहर्षतुः |
प्रत्यब्रूतां च तमृषिमेवमस्त्विति भारत ||२२||
अथ तं कुशिको हृष्टः प्रावेशयदनुत्तमम् |
गृहोद्देशं ततस्तत्र दर्शनीयमदर्शयत् ||२३||
इयं शय्या भगवतो यथाकाममिहोष्यताम् |
प्रयतिष्यावहे प्रीतिमाहर्तुं ते तपोधन ||२४||
अथ सूर्योऽतिचक्राम तेषां संवदतां तथा |
अथर्षिश्चोदयामास पानमन्नं तथैव च ||२५||
तमपृच्छत्ततो राजा कुशिकः प्रणतस्तदा |
किमन्नजातमिष्टं ते किमुपस्थापयाम्यहम् ||२६||
ततः स परया प्रीत्या प्रत्युवाच जनाधिपम् |
औपपत्तिकमाहारं प्रयच्छस्वेति भारत ||२७||
तद्वचः पूजयित्वा तु तथेत्याह स पार्थिवः |
यथोपपन्नं चाहारं तस्मै प्रादाज्जनाधिपः ||२८||
ततः स भगवान्भुक्त्वा दम्पती प्राह धर्मवित् |
स्वप्तुमिच्छाम्यहं निद्रा बाधते मामिति प्रभो ||२९||
ततः शय्यागृहं प्राप्य भगवानृषिसत्तमः |
संविवेश नरेन्द्रस्तु सपत्नीकः स्थितोऽभवत् ||३०||
न प्रबोध्योऽस्मि संसुप्त इत्युवाचाथ भार्गवः |
संवाहितव्यौ पादौ मे जागर्तव्यं च वां निशि ||३१||
अविशङ्कश्च कुशिकस्तथेत्याह स धर्मवित् |
न प्रबोधयतां तं च तौ तदा रजनीक्षये ||३२||
यथादेशं महर्षेस्तु शुश्रूषापरमौ तदा |
बभूवतुर्महाराज प्रयतावथ दम्पती ||३३||
ततः स भगवान्विप्रः समादिश्य नराधिपम् |
सुष्वापैकेन पार्श्वेन दिवसानेकविंशतिम् ||३४||
स तु राजा निराहारः सभार्यः कुरुनन्दन |
पर्युपासत तं हृष्टश्च्यवनाराधने रतः ||३५||
भार्गवस्तु समुत्तस्थौ स्वयमेव तपोधनः |
अकिञ्चिदुक्त्वा तु गृहान्निश्चक्राम महातपाः ||३६||
तमन्वगच्छतां तौ तु क्षुधितौ श्रमकर्शितौ |
भार्यापती मुनिश्रेष्ठो न च ताववलोकयत् ||३७||
तयोस्तु प्रेक्षतोरेव भार्गवाणां कुलोद्वहः |
अन्तर्हितोऽभूद्राजेन्द्र ततो राजापतत्क्षितौ ||३८||
स मुहूर्तं समाश्वस्य सह देव्या महाद्युतिः |
पुनरन्वेषणे यत्नमकरोत्परमं तदा ||३९||
५३
युधिष्ठिर उवाच||
तस्मिन्नन्तर्हिते विप्रे राजा किमकरोत्तदा |
भार्या चास्य महाभागा तन्मे ब्रूहि पितामह ||१||
भीष्म उवाच||
अदृष्ट्वा स महीपालस्तमृषिं सह भार्यया |
परिश्रान्तो निववृते व्रीडितो नष्टचेतनः ||२||
स प्रविश्य पुरीं दीनो नाभ्यभाषत किञ्चन |
तदेव चिन्तयामास च्यवनस्य विचेष्टितम् ||३||
अथ शून्येन मनसा प्रविवेश गृहं नृपः |
ददर्श शयने तस्मिञ्शयानं भृगुनन्दनम् ||४||
विस्मितौ तौ तु दृष्ट्वा तं तदाश्चर्यं विचिन्त्य च |
दर्शनात्तस्य च मुनेर्विश्रान्तौ सम्बभूवतुः ||५||
यथास्थानं तु तौ स्थित्वा भूयस्तं संववाहतुः |
अथापरेण पार्श्वेन सुष्वाप स महामुनिः ||६||
तेनैव च स कालेन प्रत्यबुध्यत वीर्यवान् |
न च तौ चक्रतुः किञ्चिद्विकारं भयशङ्कितौ ||७||
प्रतिबुद्धस्तु स मुनिस्तौ प्रोवाच विशां पते |
तैलाभ्यङ्गो दीयतां मे स्नास्येऽहमिति भारत ||८||
तथेति तौ प्रतिश्रुत्य क्षुधितौ श्रमकर्शितौ |
शतपाकेन तैलेन महार्हेणोपतस्थतुः ||९||
ततः सुखासीनमृषिं वाग्यतौ संववाहतुः |
न च पर्याप्तमित्याह भार्गवः सुमहातपाः ||१०||
यदा तौ निर्विकारौ तु लक्षयामास भार्गवः |
तत उत्थाय सहसा स्नानशालां विवेश ह ||११||
कॢप्तमेव तु तत्रासीत्स्नानीयं पार्थिवोचितम् ||११||
असत्कृत्य तु तत्सर्वं तत्रैवान्तरधीयत |
स मुनिः पुनरेवाथ नृपतेः पश्यतस्तदा ||१२||
नासूयां चक्रतुस्तौ च दम्पती भरतर्षभ ||१२||
अथ स्नातः स भगवान्सिंहासनगतः प्रभुः |
दर्शयामास कुशिकं सभार्यं भृगुनन्दनः ||१३||
संहृष्टवदनो राजा सभार्यः कुशिको मुनिम् |
सिद्धमन्नमिति प्रह्वो निर्विकारो न्यवेदयत् ||१४||
आनीयतामिति मुनिस्तं चोवाच नराधिपम् |
राजा च समुपाजह्रे तदन्नं सह भार्यया ||१५||
मांसप्रकारान्विविधाञ्शाकानि विविधानि च |
वेसवारविकारांश्च पानकानि लघूनि च ||१६||
रसालापूपकांश्चित्रान्मोदकानथ षाडवान् |
रसान्नानाप्रकारांश्च वन्यं च मुनिभोजनम् ||१७||
फलानि च विचित्राणि तथा भोज्यानि भूरिशः |
बदरेङ्गुदकाश्मर्यभल्लातकवटानि च ||१८||
गृहस्थानां च यद्भोज्यं यच्चापि वनवासिनाम् |
सर्वमाहारयामास राजा शापभयान्मुनेः ||१९||
अथ सर्वमुपन्यस्तमग्रतश्च्यवनस्य तत् |
ततः सर्वं समानीय तच्च शय्यासनं मुनिः ||२०||
वस्त्रैः शुभैरवच्छाद्य भोजनोपस्करैः सह |
सर्वमादीपयामास च्यवनो भृगुनन्दनः ||२१||
न च तौ चक्रतुः कोपं दम्पती सुमहाव्रतौ |
तयोः सम्प्रेक्षतोरेव पुनरन्तर्हितोऽभवत् ||२२||
तत्रैव च स राजर्षिस्तस्थौ तां रजनीं तदा |
सभार्यो वाग्यतः श्रीमान्न च तं कोप आविशत् ||२३||
नित्यं संस्कृतमन्नं तु विविधं राजवेश्मनि |
शयनानि च मुख्यानि परिषेकाश्च पुष्कलाः ||२४||
वस्त्रं च विविधाकारमभवत्समुपार्जितम् |
न शशाक ततो द्रष्टुमन्तरं च्यवनस्तदा ||२५||
पुनरेव च विप्रर्षिः प्रोवाच कुशिकं नृपम् |
सभार्यो मां रथेनाशु वह यत्र ब्रवीम्यहम् ||२६||
तथेति च प्राह नृपो निर्विशङ्कस्तपोधनम् |
क्रीडारथोऽस्तु भगवन्नुत साङ्ग्रामिको रथः ||२७||
इत्युक्तः स मुनिस्तेन राज्ञा हृष्टेन तद्वचः |
च्यवनः प्रत्युवाचेदं हृष्टः परपुरञ्जयम् ||२८||
सज्जीकुरु रथं क्षिप्रं यस्ते साङ्ग्रामिको मतः |
सायुधः सपताकश्च सशक्तिः कणयष्टिमान् ||२९||
किङ्किणीशतनिर्घोषो युक्तस्तोमरकल्पनैः |
गदाखड्गनिबद्धश्च परमेषुशतान्वितः ||३०||
ततः स तं तथेत्युक्त्वा कल्पयित्वा महारथम् |
भार्यां वामे धुरि तदा चात्मानं दक्षिणे तथा ||३१||
त्रिदंष्ट्रं वज्रसूच्यग्रं प्रतोदं तत्र चादधत् |
सर्वमेतत्ततो दत्त्वा नृपो वाक्यमथाब्रवीत् ||३२||
भगवन्क्व रथो यातु ब्रवीतु भृगुनन्दनः |
यत्र वक्ष्यसि विप्रर्षे तत्र यास्यति ते रथः ||३३||
एवमुक्तस्तु भगवान्प्रत्युवाचाथ तं नृपम् |
इतःप्रभृति यातव्यं पदकं पदकं शनैः ||३४||
श्रमो मम यथा न स्यात्तथा मे छन्दचारिणौ |
सुखं चैवास्मि वोढव्यो जनः सर्वश्च पश्यतु ||३५||
नोत्सार्यः पथिकः कश्चित्तेभ्यो दास्याम्यहं वसु |
ब्राह्मणेभ्यश्च ये कामानर्थयिष्यन्ति मां पथि ||३६||
सर्वं दास्याम्यशेषेण धनं रत्नानि चैव हि |
क्रियतां निखिलेनैतन्मा विचारय पार्थिव ||३७||
तस्य तद्वचनं श्रुत्वा राजा भृत्यानथाब्रवीत् |
यद्यद्ब्रूयान्मुनिस्तत्तत्सर्वं देयमशङ्कितैः ||३८||
ततो रत्नान्यनेकानि स्त्रियो युग्यमजाविकम् |
कृताकृतं च कनकं गजेन्द्राश्चाचलोपमाः ||३९||
अन्वगच्छन्त तमृषिं राजामात्याश्च सर्वशः |
हाहाभूतं च तत्सर्वमासीन्नगरमार्तिमत् ||४०||
तौ तीक्ष्णाग्रेण सहसा प्रतोदेन प्रचोदितौ |
पृष्ठे विद्धौ कटे चैव निर्विकारौ तमूहतुः ||४१||
वेपमानौ विराहारौ पञ्चाशद्रात्रकर्शितौ |
कथञ्चिदूहतुर्वीरौ दम्पती तं रथोत्तमम् ||४२||
बहुशो भृशविद्धौ तौ क्षरमाणौ क्षतोद्भवम् |
ददृशाते महाराज पुष्पिताविव किंशुकौ ||४३||
तौ दृष्ट्वा पौरवर्गस्तु भृशं शोकपरायणः |
अभिशापभयात्त्रस्तो न च किञ्चिदुवाच ह ||४४||
द्वन्द्वशश्चाब्रुवन्सर्वे पश्यध्वं तपसो बलम् |
क्रुद्धा अपि मुनिश्रेष्ठं वीक्षितुं नैव शक्नुमः ||४५||
अहो भगवतो वीर्यं महर्षेर्भावितात्मनः |
राज्ञश्चापि सभार्यस्य धैर्यं पश्यत यादृशम् ||४६||
श्रान्तावपि हि कृच्छ्रेण रथमेतं समूहतुः |
न चैतयोर्विकारं वै ददर्श भृगुनन्दनः ||४७||
भीष्म उवाच||
ततः स निर्विकारौ तौ दृष्ट्वा भृगुकुलोद्वहः |
वसु विश्राणयामास यथा वैश्रवणस्तथा ||४८||
तत्रापि राजा प्रीतात्मा यथाज्ञप्तमथाकरोत् |
ततोऽस्य भगवान्प्रीतो बभूव मुनिसत्तमः ||४९||
अवतीर्य रथश्रेष्ठाद्दम्पती तौ मुमोच ह |
विमोच्य चैतौ विधिवत्ततो वाक्यमुवाच ह ||५०||
स्निग्धगम्भीरया वाचा भार्गवः सुप्रसन्नया |
ददानि वां वरं श्रेष्ठं तद्ब्रूतामिति भारत ||५१||
सुकुमारौ च तौ विद्वान्कराभ्यां मुनिसत्तमः |
पस्पर्शामृतकल्पाभ्यां स्नेहाद्भरतसत्तम ||५२||
अथाब्रवीन्नृपो वाक्यं श्रमो नास्त्यावयोरिह |
विश्रान्तौ स्वः प्रभावात्ते ध्यानेनैवेति भार्गव ||५३||
अथ तौ भगवान्प्राह प्रहृष्टश्च्यवनस्तदा |
न वृथा व्याहृतं पूर्वं यन्मया तद्भविष्यति ||५४||
रमणीयः समुद्देशो गङ्गातीरमिदं शुभम् |
कञ्चित्कालं व्रतपरो निवत्स्यामीह पार्थिव ||५५||
गम्यतां स्वपुरं पुत्र विश्रान्तः पुनरेष्यसि |
इहस्थं मां सभार्यस्त्वं द्रष्टासि श्वो नराधिप ||५६||
न च मन्युस्त्वया कार्यः श्रेयस्ते समुपस्थितम् |
यत्काङ्क्षितं हृदिस्थं ते तत्सर्वं सम्भविष्यति ||५७||
इत्येवमुक्तः कुशिकः प्रहृष्टेनान्तरात्मना |
प्रोवाच मुनिशार्दूलमिदं वचनमर्थवत् ||५८||
न मे मन्युर्महाभाग पूतोऽस्मि भगवंस्त्वया |
संवृत्तौ यौवनस्थौ स्वो वपुष्मन्तौ बलान्वितौ ||५९||
प्रतोदेन व्रणा ये मे सभार्यस्य कृतास्त्वया |
तान्न पश्यामि गात्रेषु स्वस्थोऽस्मि सह भार्यया ||६०||
इमां च देवीं पश्यामि मुने दिव्याप्सरोपमाम् |
श्रिया परमया युक्तां यथादृष्टां मया पुरा ||६१||
तव प्रसादात्संवृत्तमिदं सर्वं महामुने |
नैतच्चित्रं तु भगवंस्त्वयि सत्यपराक्रम ||६२||
इत्युक्तः प्रत्युवाचेदं च्यवनः कुशिकं तदा |
आगच्छेथाः सभार्यश्च त्वमिहेति नराधिप ||६३||
इत्युक्तः समनुज्ञातो राजर्षिरभिवाद्य तम् |
प्रययौ वपुषा युक्तो नगरं देवराजवत् ||६४||
तत एनमुपाजग्मुरमात्याः सपुरोहिताः |
बलस्था गणिकायुक्ताः सर्वाः प्रकृतयस्तथा ||६५||
तैर्वृतः कुशिको राजा श्रिया परमया ज्वलन् |
प्रविवेश पुरं हृष्टः पूज्यमानोऽथ बन्दिभिः ||६६||
ततः प्रविश्य नगरं कृत्वा सर्वाह्णिकक्रियाः |
भुक्त्वा सभार्यो रजनीमुवास स महीपतिः ||६७||
ततस्तु तौ नवमभिवीक्ष्य यौवनं; परस्परं विगतजराविवामरौ |
ननन्दतुः शयनगतौ वपुर्धरौ; श्रिया युतौ द्विजवरदत्तया तया ||६८||
स चाप्यृषिर्भृगुकुलकीर्तिवर्धन; स्तपोधनो वनमभिराममृद्धिमत् |
मनीषया बहुविधरत्नभूषितं; ससर्ज यन्नास्ति शतक्रतोरपि ||६९||
५४
भीष्म उवाच||
ततः स राजा रात्र्यन्ते प्रतिबुद्धो महामनाः |
कृतपूर्वाह्णिकः प्रायात्सभार्यस्तद्वनं प्रति ||१||
ततो ददर्श नृपतिः प्रासादं सर्वकाञ्चनम् |
मणिस्तम्भसहस्राढ्यं गन्धर्वनगरोपमम् ||२||
तत्र दिव्यानभिप्रायान्ददर्श कुशिकस्तदा ||२||
पर्वतान्रम्यसानूंश्च नलिनीश्च सपङ्कजाः |
चित्रशालाश्च विविधास्तोरणानि च भारत ||३||
शाद्वलोपचितां भूमिं तथा काञ्चनकुट्टिमाम् ||३||
सहकारान्प्रफुल्लांश्च केतकोद्दालकान्धवान् |
अशोकान्मुचुकुन्दांश्च फुल्लांश्चैवातिमुक्तकान् ||४||
चम्पकांस्तिलकान्भव्यान्पनसान्वञ्जुलानपि |
पुष्पितान्कर्णिकारांश्च तत्र तत्र ददर्श ह ||५||
श्यामां वारणपुष्पीं च तथाष्टापदिकां लताम् |
तत्र तत्र परिकॢप्ता ददर्श स महीपतिः ||६||
वृक्षान्पद्मोत्पलधरान्सर्वर्तुकुसुमांस्तथा |
विमानच्छन्दकांश्चापि प्रासादान्पद्मसंनिभान् ||७||
शीतलानि च तोयानि क्वचिदुष्णानि भारत |
आसनानि विचित्राणि शयनप्रवराणि च ||८||
पर्यङ्कान्सर्वसौवर्णान्परार्ध्यास्तरणास्तृतान् |
भक्ष्यभोज्यमनन्तं च तत्र तत्रोपकल्पितम् ||९||
वाणीवादाञ्छुकांश्चापि शारिकाभृङ्गराजकान् |
कोकिलाञ्छतपत्रांश्च कोयष्टिमककुक्कुटान् ||१०||
मयूरान्कुक्कुटांश्चापि पुत्रकाञ्जीवजीवकान् |
चकोरान्वानरान्हंसान्सारसांश्चक्रसाह्वयान् ||११||
समन्ततः प्रणदितान्ददर्श सुमनोहरान् |
क्वचिदप्सरसां सङ्घान्गन्धर्वाणां च पार्थिव ||१२||
कान्ताभिरपरांस्तत्र परिष्वक्तान्ददर्श ह |
न ददर्श च तान्भूयो ददर्श च पुनर्नृपः ||१३||
गीतध्वनिं सुमधुरं तथैवाध्ययनध्वनिम् |
हंसान्सुमधुरांश्चापि तत्र शुश्राव पार्थिवः ||१४||
तं दृष्ट्वात्यद्भुतं राजा मनसाचिन्तयत्तदा |
स्वप्नोऽयं चित्तविभ्रंश उताहो सत्यमेव तु ||१५||
अहो सह शरीरेण प्राप्तोऽस्मि परमां गतिम् |
उत्तरान्वा कुरून्पुण्यानथ वाप्यमरावतीम् ||१६||
किं त्विदं महदाश्चर्यं सम्पश्यामीत्यचिन्तयत् |
एवं सञ्चिन्तयन्नेव ददर्श मुनिपुङ्गवम् ||१७||
तस्मिन्विमाने सौवर्णे मणिस्तम्भसमाकुले |
महार्हे शयने दिव्ये शयानं भृगुनन्दनम् ||१८||
तमभ्ययात्प्रहर्षेण नरेन्द्रः सह भार्यया |
अन्तर्हितस्ततो भूयश्च्यवनः शयनं च तत् ||१९||
ततोऽन्यस्मिन्वनोद्देशे पुनरेव ददर्श तम् |
कौश्यां बृस्यां समासीनं जपमानं महाव्रतम् ||२०||
एवं योगबलाद्विप्रो मोहयामास पार्थिवम् ||२०||
क्षणेन तद्वनं चैव ते चैवाप्सरसां गणाः |
गन्धर्वाः पादपाश्चैव सर्वमन्तरधीयत ||२१||
निःशब्दमभवच्चापि गङ्गाकूलं पुनर्नृप |
कुशवल्मीकभूयिष्ठं बभूव च यथा पुरा ||२२||
ततः स राजा कुशिकः सभार्यस्तेन कर्मणा |
विस्मयं परमं प्राप्तस्तद्दृष्ट्वा महदद्भुतम् ||२३||
ततः प्रोवाच कुशिको भार्यां हर्षसमन्वितः |
पश्य भद्रे यथा भावाश्चित्रा दृष्टाः सुदुर्लभाः ||२४||
प्रसादाद्भृगुमुख्यस्य किमन्यत्र तपोबलात् |
तपसा तदवाप्यं हि यन्न शक्यं मनोरथैः ||२५||
त्रैलोक्यराज्यादपि हि तप एव विशिष्यते |
तपसा हि सुतप्तेन क्रीडत्येष तपोधनः ||२६||
अहो प्रभावो ब्रह्मर्षेश्च्यवनस्य महात्मनः |
इच्छन्नेष तपोवीर्यादन्याँल्लोकान्सृजेदपि ||२७||
ब्राह्मणा एव जायेरन्पुण्यवाग्बुद्धिकर्मणः |
उत्सहेदिह कर्तुं हि कोऽन्यो वै च्यवनादृते ||२८||
ब्राह्मण्यं दुर्लभं लोके राज्यं हि सुलभं नरैः |
ब्राह्मण्यस्य प्रभावाद्धि रथे युक्तौ स्वधुर्यवत् ||२९||
इत्येवं चिन्तयानः स विदितश्च्यवनस्य वै |
सम्प्रेक्ष्योवाच स नृपं क्षिप्रमागम्यतामिति ||३०||
इत्युक्तः सहभार्यस्तमभ्यगच्छन्महामुनिम् |
शिरसा वन्दनीयं तमवन्दत स पार्थिवः ||३१||
तस्याशिषः प्रयुज्याथ स मुनिस्तं नराधिपम् |
निषीदेत्यब्रवीद्धीमान्सान्त्वयन्पुरुषर्षभ ||३२||
ततः प्रकृतिमापन्नो भार्गवो नृपते नृपम् |
उवाच श्लक्ष्णया वाचा तर्पयन्निव भारत ||३३||
राजन्सम्यग्जितानीह पञ्च पञ्चसु यत्त्वया |
मनःषष्ठानीन्द्रियाणि कृच्छ्रान्मुक्तोऽसि तेन वै ||३४||
सम्यगाराधितः पुत्र त्वयाहं वदतां वर |
न हि ते वृजिनं किञ्चित्सुसूक्ष्ममपि विद्यते ||३५||
अनुजानीहि मां राजन्गमिष्यामि यथागतम् |
प्रीतोऽस्मि तव राजेन्द्र वरश्च प्रतिगृह्यताम् ||३६||
कुशिक उवाच||
अग्निमध्यगतेनेदं भगवन्संनिधौ मया |
वर्तितं भृगुशार्दूल यन्न दग्धोऽस्मि तद्बहु ||३७||
एष एव वरो मुख्यः प्राप्तो मे भृगुनन्दन |
यत्प्रीतोऽसि समाचारात्कुलं पूतं ममानघ ||३८||
एष मेऽनुग्रहो विप्र जीविते च प्रयोजनम् |
एतद्राज्यफलं चैव तपश्चैतत्परं मम ||३९||
यदि तु प्रीतिमान्विप्र मयि त्वं भृगुनन्दन |
अस्ति मे संशयः कश्चित्तन्मे व्याख्यातुमर्हसि ||४०||
५५
च्यवन उवाच||
वरश्च गृह्यतां मत्तो यश्च ते संशयो हृदि |
तं च ब्रूहि नरश्रेष्ठ सर्वं सम्पादयामि ते ||१||
कुशिक उवाच||
यदि प्रीतोऽसि भगवंस्ततो मे वद भार्गव |
कारणं श्रोतुमिच्छामि मद्गृहे वासकारितम् ||२||
शयनं चैकपार्श्वेन दिवसानेकविंशतिम् |
अकिञ्चिदुक्त्वा गमनं बहिश्च मुनिपुङ्गव ||३||
अन्तर्धानमकस्माच्च पुनरेव च दर्शनम् |
पुनश्च शयनं विप्र दिवसानेकविंशतिम् ||४||
तैलाभ्यक्तस्य गमनं भोजनं च गृहे मम |
समुपानीय विविधं यद्दग्धं जातवेदसा ||५||
निर्याणं च रथेनाशु सहसा यत्कृतं त्वया ||५||
धनानां च विसर्गस्य वनस्यापि च दर्शनम् |
प्रासादानां बहूनां च काञ्चनानां महामुने ||६||
मणिविद्रुमपादानां पर्यङ्कानां च दर्शनम् |
पुनश्चादर्शनं तस्य श्रोतुमिच्छामि कारणम् ||७||
अतीव ह्यत्र मुह्यामि चिन्तयानो दिवानिशम् |
न चैवात्राधिगच्छामि सर्वस्यास्य विनिश्चयम् ||८||
एतदिच्छामि कार्त्स्न्येन सत्यं श्रोतुं तपोधन ||८||
च्यवन उवाच||
शृणु सर्वमशेषेण यदिदं येन हेतुना |
न हि शक्यमनाख्यातुमेवं पृष्टेन पार्थिव ||९||
पितामहस्य वदतः पुरा देवसमागमे |
श्रुतवानस्मि यद्राजंस्तन्मे निगदतः शृणु ||१०||
ब्रह्मक्षत्रविरोधेन भविता कुलसङ्करः |
पौत्रस्ते भविता राजंस्तेजोवीर्यसमन्वितः ||११||
ततः स्वकुलरक्षार्थमहं त्वा समुपागमम् |
चिकीर्षन्कुशिकोच्छेदं संदिधक्षुः कुलं तव ||१२||
ततोऽहमागम्य पुरा त्वामवोचं महीपते |
नियमं कञ्चिदारप्स्ये शुश्रूषा क्रियतामिति ||१३||
न च ते दुष्कृतं किञ्चिदहमासादयं गृहे |
तेन जीवसि राजर्षे न भवेथास्ततोऽन्यथा ||१४||
एतां बुद्धिं समास्थाय दिवसानेकविंशतिम् |
सुप्तोऽस्मि यदि मां कश्चिद्बोधयेदिति पार्थिव ||१५||
यदा त्वया सभार्येण संसुप्तो न प्रबोधितः |
अहं तदैव ते प्रीतो मनसा राजसत्तम ||१६||
उत्थाय चास्मि निष्क्रान्तो यदि मां त्वं महीपते |
पृच्छेः क्व यास्यसीत्येवं शपेयं त्वामिति प्रभो ||१७||
अन्तर्हितश्चास्मि पुनः पुनरेव च ते गृहे |
योगमास्थाय संविष्टो दिवसानेकविंशतिम् ||१८||
क्षुधितो मामसूयेथाः श्रमाद्वेति नराधिप |
एतां बुद्धिं समास्थाय कर्शितौ वां मया क्षुधा ||१९||
न च तेऽभूत्सुसूक्ष्मोऽपि मन्युर्मनसि पार्थिव |
सभार्यस्य नरश्रेष्ठ तेन ते प्रीतिमानहम् ||२०||
भोजनं च समानाय्य यत्तदादीपितं मया |
क्रुध्येथा यदि मात्सर्यादिति तन्मर्षितं च ते ||२१||
ततोऽहं रथमारुह्य त्वामवोचं नराधिप |
सभार्यो मां वहस्वेति तच्च त्वं कृतवांस्तथा ||२२||
अविशङ्को नरपते प्रीतोऽहं चापि तेन ते |
धनोत्सर्गेऽपि च कृते न त्वां क्रोधः प्रधर्षयत् ||२३||
ततः प्रीतेन ते राजन्पुनरेतत्कृतं तव |
सभार्यस्य वनं भूयस्तद्विद्धि मनुजाधिप ||२४||
प्रीत्यर्थं तव चैतन्मे स्वर्गसंदर्शनं कृतम् |
यत्ते वनेऽस्मिन्नृपते दृष्टं दिव्यं निदर्शनम् ||२५||
स्वर्गोद्देशस्त्वया राजन्सशरीरेण पार्थिव |
मुहूर्तमनुभूतोऽसौ सभार्येण नृपोत्तम ||२६||
निदर्शनार्थं तपसो धर्मस्य च नराधिप |
तत्र यासीत्स्पृहा राजंस्तच्चापि विदितं मम ||२७||
ब्राह्मण्यं काङ्क्षसे हि त्वं तपश्च पृथिवीपते |
अवमन्य नरेन्द्रत्वं देवेन्द्रत्वं च पार्थिव ||२८||
एवमेतद्यथात्थ त्वं ब्राह्मण्यं तात दुर्लभम् |
ब्राह्मण्ये सति चर्षित्वमृषित्वे च तपस्विता ||२९||
भविष्यत्येष ते कामः कुशिकात्कौशिको द्विजः |
तृतीयं पुरुषं प्राप्य ब्राह्मणत्वं गमिष्यति ||३०||
वंशस्ते पार्थिवश्रेष्ठ भृगूणामेव तेजसा |
पौत्रस्ते भविता विप्र तपस्वी पावकद्युतिः ||३१||
यः स देवमनुष्याणां भयमुत्पादयिष्यति |
त्रयाणां चैव लोकानां सत्यमेतद्ब्रवीमि ते ||३२||
वरं गृहाण राजर्षे यस्ते मनसि वर्तते |
तीर्थयात्रां गमिष्यामि पुरा कालोऽतिवर्तते ||३३||
कुशिक उवाच||
एष एव वरो मेऽद्य यत्त्वं प्रीतो महामुने |
भवत्वेतद्यथात्थ त्वं तपः पौत्रे ममानघ ||३४||
ब्राह्मण्यं मे कुलस्यास्तु भगवन्नेष मे वरः ||३४||
पुनश्चाख्यातुमिच्छामि भगवन्विस्तरेण वै |
कथमेष्यति विप्रत्वं कुलं मे भृगुनन्दन ||३५||
कश्चासौ भविता बन्धुर्मम कश्चापि संमतः ||३५||
५६
च्यवन उवाच||
अवश्यं कथनीयं मे तवैतन्नरपुङ्गव |
यदर्थं त्वाहमुच्छेत्तुं सम्प्राप्तो मनुजाधिप ||१||
भृगूणां क्षत्रिया याज्या नित्यमेव जनाधिप |
ते च भेदं गमिष्यन्ति दैवयुक्तेन हेतुना ||२||
क्षत्रियाश्च भृगून्सर्वान्वधिष्यन्ति नराधिप |
आ गर्भादनुकृन्तन्तो दैवदण्डनिपीडिताः ||३||
तत उत्पत्स्यतेऽस्माकं कुले गोत्रविवर्धनः |
और्वो नाम महातेजा ज्वलनार्कसमद्युतिः ||४||
स त्रैलोक्यविनाशाय कोपाग्निं जनयिष्यति |
महीं सपर्वतवनां यः करिष्यति भस्मसात् ||५||
कञ्चित्कालं तु तं वह्निं स एव शमयिष्यति |
समुद्रे वडवावक्त्रे प्रक्षिप्य मुनिसत्तमः ||६||
पुत्रं तस्य महाभागमृचीकं भृगुनन्दनम् |
साक्षात्कृत्स्नो धनुर्वेदः समुपस्थास्यतेऽनघ ||७||
क्षत्रियाणामभावाय दैवयुक्तेन हेतुना |
स तु तं प्रतिगृह्यैव पुत्रे सङ्क्रामयिष्यति ||८||
जमदग्नौ महाभागे तपसा भावितात्मनि |
स चापि भृगुशार्दूलस्तं वेदं धारयिष्यति ||९||
कुलात्तु तव धर्मात्मन्कन्यां सोऽधिगमिष्यति |
उद्भावनार्थं भवतो वंशस्य नृपसत्तम ||१०||
गाधेर्दुहितरं प्राप्य पौत्रीं तव महातपाः |
ब्राह्मणं क्षत्रधर्माणं राममुत्पादयिष्यति ||११||
क्षत्रियं विप्रकर्माणं बृहस्पतिमिवौजसा |
विश्वामित्रं तव कुले गाधेः पुत्रं सुधार्मिकम् ||१२||
तपसा महता युक्तं प्रदास्यति महाद्युते ||१२||
स्त्रियौ तु कारणं तत्र परिवर्ते भविष्यतः |
पितामहनियोगाद्वै नान्यथैतद्भविष्यति ||१३||
तृतीये पुरुषे तुभ्यं ब्राह्मणत्वमुपैष्यति |
भविता त्वं च सम्बन्धी भृगूणां भावितात्मनाम् ||१४||
भीष्म उवाच||
कुशिकस्तु मुनेर्वाक्यं च्यवनस्य महात्मनः |
श्रुत्वा हृष्टोऽभवद्राजा वाक्यं चेदमुवाच ह ||१५||
एवमस्त्विति धर्मात्मा तदा भरतसत्तम ||१५||
च्यवनस्तु महातेजाः पुनरेव नराधिपम् |
वरार्थं चोदयामास तमुवाच स पार्थिवः ||१६||
बाढमेवं ग्रहीष्यामि कामं त्वत्तो महामुने |
ब्रह्मभूतं कुलं मेऽस्तु धर्मे चास्य मनो भवेत् ||१७||
एवमुक्तस्तथेत्येवं प्रत्युक्त्वा च्यवनो मुनिः |
अभ्यनुज्ञाय नृपतिं तीर्थयात्रां ययौ तदा ||१८||
एतत्ते कथितं सर्वमशेषेण मया नृप |
भृगूणां कुशिकानां च प्रति सम्बन्धकारणम् ||१९||
यथोक्तं मुनिना चापि तथा तदभवन्नृप |
जन्म रामस्य च मुनेर्विश्वामित्रस्य चैव ह ||२०||
यमनियमफलानि
५७
युधिष्ठिर उवाच||
मुह्यामीव निशम्याद्य चिन्तयानः पुनः पुनः |
हीनां पार्थिवसङ्घातैः श्रीमद्भिः पृथिवीमिमाम् ||१||
प्राप्य राज्यानि शतशो महीं जित्वापि भारत |
कोटिशः पुरुषान्हत्वा परितप्ये पितामह ||२||
का नु तासां वरस्त्रीणामवस्थाद्य भविष्यति |
या हीनाः पतिभिः पुत्रैर्मातुलैर्भ्रातृभिस्तथा ||३||
वयं हि तान्गुरून्हत्वा ज्ञातींश्च सुहृदोऽपि च |
अवाक्षीर्षाः पतिष्यामो नरके नात्र संशयः ||४||
शरीरं योक्तुमिच्छामि तपसोग्रेण भारत |
उपदिष्टमिहेच्छामि तत्त्वतोऽहं विशां पते ||५||
वैशम्पायन उवाच||
युधिष्ठिरस्य तद्वाक्यं श्रुत्वा भीष्मो महामनाः |
परीक्ष्य निपुणं बुद्ध्या युधिष्ठिरमभाषत ||६||
रहस्यमद्भुतं चैव शृणु वक्ष्यामि यत्त्वयि |
या गतिः प्राप्यते येन प्रेत्यभावेषु भारत ||७||
तपसा प्राप्यते स्वर्गस्तपसा प्राप्यते यशः |
आयुःप्रकर्षो भोगाश्च लभ्यन्ते तपसा विभो ||८||
ज्ञानं विज्ञानमारोग्यं रूपं सम्पत्तथैव च |
सौभाग्यं चैव तपसा प्राप्यते भरतर्षभ ||९||
धनं प्राप्नोति तपसा मौनं ज्ञानं प्रयच्छति |
उपभोगांस्तु दानेन ब्रह्मचर्येण जीवितम् ||१०||
अहिंसायाः फलं रूपं दीक्षाया जन्म वै कुले |
फलमूलाशिनां राज्यं स्वर्गः पर्णाशिनां भवेत् ||११||
पयोभक्षो दिवं याति स्नानेन द्रविणाधिकः |
गुरुशुश्रूषया विद्या नित्यश्राद्धेन सन्ततिः ||१२||
गवाढ्यः शाकदीक्षाभिः स्वर्गमाहुस्तृणाशनात् |
स्त्रियस्त्रिषवणस्नानाद्वायुं पीत्वा क्रतुं लभेत् ||१३||
नित्यस्नायी भवेद्दक्षः सन्ध्ये तु द्वे जपन्द्विजः |
मरुं साधयतो राज्यं नाकपृष्ठमनाशके ||१४||
स्थण्डिले शयमानानां गृहाणि शयनानि च |
चीरवल्कलवासोभिर्वासांस्याभरणानि च ||१५||
शय्यासनानि यानानि योगयुक्ते तपोधने |
अग्निप्रवेशे नियतं ब्रह्मलोको विधीयते ||१६||
रसानां प्रतिसंहारात्सौभाग्यमिह विन्दति |
आमिषप्रतिसंहारात्प्रजास्यायुष्मती भवेत् ||१७||
उदवासं वसेद्यस्तु स नराधिपतिर्भवेत् |
सत्यवादी नरश्रेष्ठ दैवतैः सह मोदते ||१८||
कीर्तिर्भवति दानेन तथारोग्यमहिंसया |
द्विजशुश्रूषया राज्यं द्विजत्वं वापि पुष्कलम् ||१९||
पानीयस्य प्रदानेन कीर्तिर्भवति शाश्वती |
अन्नपानप्रदानेन तृप्यते कामभोगतः ||२०||
सान्त्वदः सर्वभूतानां सर्वशोकैर्विमुच्यते |
देवशुश्रूषया राज्यं दिव्यं रूपं नियच्छति ||२१||
दीपालोकप्रदानेन चक्षुष्मान्भवते नरः |
प्रेक्षणीयप्रदानेन स्मृतिं मेधां च विन्दति ||२२||
गन्धमाल्यनिवृत्त्या तु कीर्तिर्भवति पुष्कला |
केशश्मश्रून्धारयतामग्र्या भवति सन्ततिः ||२३||
उपवासं च दीक्षां च अभिषेकं च पार्थिव |
कृत्वा द्वादश वर्षाणि वीरस्थानाद्विशिष्यते ||२४||
दासीदासमलङ्कारान्क्षेत्राणि च गृहाणि च |
ब्रह्मदेयां सुतां दत्त्वा प्राप्नोति मनुजर्षभ ||२५||
क्रतुभिश्चोपवासैश्च त्रिदिवं याति भारत |
लभते च चिरं स्थानं बलिपुष्पप्रदो नरः ||२६||
सुवर्णशृङ्गैस्तु विभूषितानां; गवां सहस्रस्य नरः प्रदाता |
प्राप्नोति पुण्यं दिवि देवलोक; मित्येवमाहुर्मुनिदेवसङ्घाः ||२७||
प्रयच्छते यः कपिलां सचैलां; कांस्योपदोहां कनकाग्रशृङ्गीम् |
तैस्तैर्गुणैः कामदुघास्य भूत्वा; नरं प्रदातारमुपैति सा गौः ||२८||
यावन्ति लोमानि भवन्ति धेन्वा; स्तावत्फलं प्राप्नुते गोप्रदाता |
पुत्रांश्च पौत्रांश्च कुलं च सर्व; मासप्तमं तारयते परत्र ||२९||
सदक्षिणां काञ्चनचारुशृङ्गीं; कांस्योपदोहां द्रविणोत्तरीयाम् |
धेनुं तिलानां ददतो द्विजाय; लोका वसूनां सुलभा भवन्ति ||३०||
स्वकर्मभिर्मानवं संनिबद्धं; तीव्रान्धकारे नरके पतन्तम् |
महार्णवे नौरिव वायुयुक्ता; दानं गवां तारयते परत्र ||३१||
यो ब्रह्मदेयां तु ददाति कन्यां; भूमिप्रदानं च करोति विप्रे |
ददाति चान्नं विधिवच्च यश्च; स लोकमाप्नोति पुरंदरस्य ||३२||
नैवेशिकं सर्वगुणोपपन्नं; ददाति वै यस्तु नरो द्विजाय |
स्वाध्यायचारित्रगुणान्विताय; तस्यापि लोकाः कुरुषूत्तरेषु ||३३||
धुर्यप्रदानेन गवां तथाश्वै; र्लोकानवाप्नोति नरो वसूनाम् |
स्वर्गाय चाहुर्हि हिरण्यदानं; ततो विशिष्टं कनकप्रदानम् ||३४||
छत्रप्रदानेन गृहं वरिष्ठं; यानं तथोपानहसम्प्रदाने |
वस्त्रप्रदानेन फलं सुरूपं; गन्धप्रदाने सुरभिर्नरः स्यात् ||३५||
पुष्पोपगं वाथ फलोपगं वा; यः पादपं स्पर्शयते द्विजाय |
स स्त्रीसमृद्धं बहुरत्नपूर्णं; लभत्ययत्नोपगतं गृहं वै ||३६||
भक्षान्नपानीयरसप्रदाता; सर्वानवाप्नोति रसान्प्रकामम् |
प्रतिश्रयाच्छादनसम्प्रदाता; प्राप्नोति तानेव न संशयोऽत्र ||३७||
स्रग्धूपगन्धान्यनुलेपनानि; स्नानानि माल्यानि च मानवो यः |
दद्याद्द्विजेभ्यः स भवेदरोग; स्तथाभिरूपश्च नरेन्द्रलोके ||३८||
बीजैरशून्यं शयनैरुपेतं; दद्याद्गृहं यः पुरुषो द्विजाय |
पुण्याभिरामं बहुरत्नपूर्णं; लभत्यधिष्ठानवरं स राजन् ||३९||
सुगन्धचित्रास्तरणोपपन्नं; दद्यान्नरो यः शयनं द्विजाय |
रूपान्वितां पक्षवतीं मनोज्ञां; भार्यामयत्नोपगतां लभेत्सः ||४०||
पितामहस्यानुचरो वीरशायी भवेन्नरः |
नाधिकं विद्यते तस्मादित्याहुः परमर्षयः ||४१||
वैशम्पायन उवाच||
तस्य तद्वचनं श्रुत्वा प्रीतात्मा कुरुनन्दनः |
नाश्रमेऽरोचयद्वासं वीरमार्गाभिकाङ्क्षया ||४२||
ततो युधिष्ठिरः प्राह पाण्डवान्भरतर्षभ |
पितामहस्य यद्वाक्यं तद्वो रोचत्विति प्रभुः ||४३||
ततस्तु पाण्डवाः सर्वे द्रौपदी च यशस्विनी |
युधिष्ठिरस्य तद्वाक्यं बाढमित्यभ्यपूजयन् ||४४||
ब्राह्मणप्रशंसा
५८
युधिष्ठिर उवाच||
यानीमानि बहिर्वेद्यां दानानि परिचक्षते |
तेभ्यो विशिष्टं किं दानं मतं ते कुरुपुङ्गव ||१||
कौतूहलं हि परमं तत्र मे वर्तते प्रभो |
दातारं दत्तमन्वेति यद्दानं तत्प्रचक्ष्व मे ||२||
भीष्म उवाच||
अभयं सर्वभूतेभ्यो व्यसने चाप्यनुग्रहम् |
यच्चाभिलषितं दद्यात्तृषितायाभियाचते ||३||
दत्तं मन्येत यद्दत्त्वा तद्दानं श्रेष्ठमुच्यते |
दत्तं दातारमन्वेति यद्दानं भरतर्षभ ||४||
हिरण्यदानं गोदानं पृथिवीदानमेव च |
एतानि वै पवित्राणि तारयन्त्यपि दुष्कृतम् ||५||
एतानि पुरुषव्याघ्र साधुभ्यो देहि नित्यदा |
दानानि हि नरं पापान्मोक्षयन्ति न संशयः ||६||
यद्यदिष्टतमं लोके यच्चास्य दयितं गृहे |
तत्तद्गुणवते देयं तदेवाक्षयमिच्छता ||७||
प्रियाणि लभते लोके प्रियदः प्रियकृत्तथा |
प्रियो भवति भूतानामिह चैव परत्र च ||८||
याचमानमभीमानादाशावन्तमकिञ्चनम् |
यो नार्चति यथाशक्ति स नृशंसो युधिष्ठिर ||९||
अमित्रमपि चेद्दीनं शरणैषिणमागतम् |
व्यसने योऽनुगृह्णाति स वै पुरुषसत्तमः ||१०||
कृशाय ह्रीमते तात वृत्तिक्षीणाय सीदते |
अपहन्यात्क्षुधं यस्तु न तेन पुरुषः समः ||११||
ह्रिया तु नियतान्साधून्पुत्रदारैश्च कर्शितान् |
अयाचमानान्कौन्तेय सर्वोपायैर्निमन्त्रय ||१२||
आशिषं ये न देवेषु न मर्त्येषु च कुर्वते |
अर्हन्तो नित्यसत्त्वस्था यथालब्धोपजीविनः ||१३||
आशीविषसमेभ्यश्च तेभ्यो रक्षस्व भारत |
तान्युक्तैरुपजिज्ञास्य तथा द्विजवरोत्तमान् ||१४||
कृतैरावसथैर्नित्यं सप्रेष्यैः सपरिच्छदैः |
निमन्त्रयेथाः कौरव्य सर्वकामसुखावहैः ||१५||
यदि ते प्रतिगृह्णीयुः श्रद्धापूतं युधिष्ठिर |
कार्यमित्येव मन्वाना धार्मिकाः पुण्यकर्मिणः ||१६||
विद्यास्नाता व्रतस्नाता ये व्यपाश्रित्यजीविनः |
गूढस्वाध्यायतपसो ब्राह्मणाः संशितव्रताः ||१७||
तेषु शुद्धेषु दान्तेषु स्वदारनिरतेषु च |
यत्करिष्यसि कल्याणं तत्त्वा लोकेषु धास्यति ||१८||
यथाग्निहोत्रं सुहुतं सायं प्रातर्द्विजातिना |
तथा भवति दत्तं वै द्विजेभ्योऽथ कृतात्मना ||१९||
एष ते विततो यज्ञः श्रद्धापूतः सदक्षिणः |
विशिष्टः सर्वयज्ञेभ्यो ददतस्तात वर्तताम् ||२०||
निवापो दानसदृशस्तादृशेषु युधिष्ठिर |
निवपन्पूजयंश्चैव तेष्वानृण्यं निगच्छति ||२१||
य एव नो न कुप्यन्ति न लुभ्यन्ति तृणेष्वपि |
त एव नः पूज्यतमा ये चान्ये प्रियवादिनः ||२२||
ये नो न बहु मन्यन्ते न प्रवर्तन्ति चापरे |
पुत्रवत्परिपाल्यास्ते नमस्तेभ्यस्तथाभयम् ||२३||
ऋत्विक्पुरोहिताचार्या मृदुब्रह्मधरा हि ते |
क्षत्रेणापि हि संसृष्टं तेजः शाम्यति वै द्विजे ||२४||
अस्ति मे बलवानस्मि राजास्मीति युधिष्ठिर |
ब्राह्मणान्मा स्म पर्यश्नीर्वासोभिरशनेन च ||२५||
यच्छोभार्थं बलार्थं वा वित्तमस्ति तवानघ |
तेन ते ब्राह्मणाः पूज्याः स्वधर्ममनुतिष्ठता ||२६||
नमस्कार्यास्त्वया विप्रा वर्तमाना यथातथम् |
यथासुखं यथोत्साहं ललन्तु त्वयि पुत्रवत् ||२७||
को ह्यन्यः सुप्रसादानां सुहृदामल्पतोषिणाम् |
वृत्तिमर्हत्युपक्षेप्तुं त्वदन्यः कुरुसत्तम ||२८||
यथा पत्याश्रयो धर्मः स्त्रीणां लोके सनातनः |
स देवः सा गतिर्नान्या तथास्माकं द्विजातयः ||२९||
यदि नो ब्राह्मणास्तात सन्त्यजेयुरपूजिताः |
पश्यन्तो दारुणं कर्म सततं क्षत्रिये स्थितम् ||३०||
अवेदानामकीर्तीनामलोकानामयज्वनाम् |
कोऽस्माकं जीवितेनार्थस्तद्धि नो ब्राह्मणाश्रयम् ||३१||
अत्र ते वर्तयिष्यामि यथा धर्मः सनातनः |
राजन्यो ब्राह्मणं राजन्पुरा परिचचार ह ||३२||
वैश्यो राजन्यमित्येव शूद्रो वैश्यमिति श्रुतिः ||३२||
दूराच्छूद्रेणोपचर्यो ब्राह्मणोऽग्निरिव ज्वलन् |
संस्पर्शपरिचर्यस्तु वैश्येन क्षत्रियेण च ||३३||
मृदुभावान्सत्यशीलान्सत्यधर्मानुपालकान् |
आशीविषानिव क्रुद्धांस्तानुपाचरत द्विजान् ||३४||
अपरेषां परेषां च परेभ्यश्चैव ये परे |
क्षत्रियाणां प्रतपतां तेजसा च बलेन च ||३५||
ब्राह्मणेष्वेव शाम्यन्ति तेजांसि च तपांसि च ||३५||
न मे पिता प्रियतरो न त्वं तात तथा प्रियः |
न मे पितुः पिता राजन्न चात्मा न च जीवितम् ||३६||
त्वत्तश्च मे प्रियतरः पृथिव्यां नास्ति कश्चन |
त्वत्तोऽपि मे प्रियतरा ब्राह्मणा भरतर्षभ ||३७||
ब्रवीमि सत्यमेतच्च यथाहं पाण्डुनन्दन |
तेन सत्येन गच्छेयं लोकान्यत्र स शन्तनुः ||३८||
पश्येयं च सतां लोकाञ्छुचीन्ब्रह्मपुरस्कृतान् |
तत्र मे तात गन्तव्यमह्नाय च चिराय च ||३९||
सोऽहमेतादृशाँल्लोकान्दृष्ट्वा भरतसत्तम |
यन्मे कृतं ब्राह्मणेषु न तप्ये तेन पार्थिव ||४०||
अतिथियज्ञः
५९
युधिष्ठिर उवाच||
यौ तु स्यातां चरणेनोपपन्नौ; यौ विद्यया सदृशौ जन्मना च |
ताभ्यां दानं कतरस्मै विशिष्ट; मयाचमानाय च याचते च ||१||
भीष्म उवाच||
श्रेयो वै याचतः पार्थ दत्तमाहुरयाचते |
अर्हत्तमो वै धृतिमान्कृपणादधृतात्मनः ||२||
क्षत्रियो रक्षणधृतिर्ब्राह्मणोऽनर्थनाधृतिः |
ब्राह्मणो धृतिमान्विद्वान्देवान्प्रीणाति तुष्टिमान् ||३||
याच्ञामाहुरनीशस्य अभिहारं च भारत |
उद्वेजयति याचन्हि सदा भूतानि दस्युवत् ||४||
म्रियते याचमानो वै तमनु म्रियते ददत् |
ददत्सञ्जीवयत्येनमात्मानं च युधिष्ठिर ||५||
आनृशंस्यं परो धर्मो याचते यत्प्रदीयते |
अयाचतः सीदमानान्सर्वोपायैर्निमन्त्रय ||६||
यदि वै तादृशा राष्ट्रे वसेयुस्ते द्विजोत्तमाः |
भस्मच्छन्नानिवाग्नींस्तान्बुध्येथास्त्वं प्रयत्नतः ||७||
तपसा दीप्यमानास्ते दहेयुः पृथिवीमपि |
पूज्या हि ज्ञानविज्ञानतपोयोगसमन्विताः ||८||
तेभ्यः पूजां प्रयुञ्जीथा ब्राह्मणेभ्यः परन्तप |
ददद्बहुविधान्दायानुपच्छन्दानयाचताम् ||९||
यदग्निहोत्रे सुहुते सायम्प्रातर्भवेत्फलम् |
विद्यावेदव्रतवति तद्दानफलमुच्यते ||१०||
विद्यावेदव्रतस्नातानव्यपाश्रयजीविनः |
गूढस्वाध्यायतपसो ब्राह्मणान्संशितव्रतान् ||११||
कृतैरावसथैर्हृद्यैः सप्रेष्यैः सपरिच्छदैः |
निमन्त्रयेथाः कौन्तेय कामैश्चान्यैर्द्विजोत्तमान् ||१२||
अपि ते प्रतिगृह्णीयुः श्रद्धापूतं युधिष्ठिर |
कार्यमित्येव मन्वाना धर्मज्ञाः सूक्ष्मदर्शिनः ||१३||
अपि ते ब्राह्मणा भुक्त्वा गताः सोद्धरणान्गृहान् |
येषां दाराः प्रतीक्षन्ते पर्जन्यमिव कर्षकाः ||१४||
अन्नानि प्रातःसवने नियता ब्रह्मचारिणः |
ब्राह्मणास्तात भुञ्जानास्त्रेताग्नीन्प्रीणयन्तु ते ||१५||
माध्यंदिनं ते सवनं ददतस्तात वर्तताम् |
गा हिरण्यानि वासांसि तेनेन्द्रः प्रीयतां तव ||१६||
तृतीयं सवनं तत्ते वैश्वदेवं युधिष्ठिर |
यद्देवेभ्यः पितृभ्यश्च विप्रेभ्यश्च प्रयच्छसि ||१७||
अहिंसा सर्वभूतेभ्यः संविभागश्च सर्वशः |
दमस्त्यागो धृतिः सत्यं भवत्ववभृथाय ते ||१८||
एष ते विततो यज्ञः श्रद्धापूतः सदक्षिणः |
विशिष्टः सर्वयज्ञेभ्यो नित्यं तात प्रवर्तताम् ||१९||
क्षत्रियधर्माः
६०
युधिष्ठिर उवाच||
दानं यज्ञक्रिया चेह किं स्वित्प्रेत्य महाफलम् |
कस्य ज्यायः फलं प्रोक्तं कीदृशेभ्यः कथं कदा ||१||
एतदिच्छामि विज्ञातुं याथातथ्येन भारत |
विद्वञ्जिज्ञासमानाय दानधर्मान्प्रचक्ष्व मे ||२||
अन्तर्वेद्यां च यद्दत्तं श्रद्धया चानृशंस्यतः |
किं स्विन्निःश्रेयसं तात तन्मे ब्रूहि पितामह ||३||
भीष्म उवाच||
रौद्रं कर्म क्षत्रियस्य सततं तात वर्तते |
तस्य वैतानिकं कर्म दानं चैवेह पावनम् ||४||
न तु पापकृतां राज्ञां प्रतिगृह्णन्ति साधवः |
एतस्मात्कारणाद्यज्ञैर्यजेद्राजाप्तदक्षिणैः ||५||
अथ चेत्प्रतिगृह्णीयुर्दद्यादहरहर्नृपः |
श्रद्धामास्थाय परमां पावनं ह्येतदुत्तमम् ||६||
ब्राह्मणांस्तर्पयेद्द्रव्यैस्ततो यज्ञे यतव्रतः |
मैत्रान्साधून्वेदविदः शीलवृत्ततपोन्वितान् ||७||
यत्ते तेन करिष्यन्ति कृतं तेन भविष्यति |
यज्ञान्साधय साधुभ्यः स्वाद्वन्नान्दक्षिणावतः ||८||
इष्टं दत्तं च मन्येथा आत्मानं दानकर्मणा |
पूजयेथा यायजूकांस्तवाप्यंशो भवेद्यथा ||९||
प्रजावतो भरेथाश्च ब्राह्मणान्बहुभारिणः |
प्रजावांस्तेन भवति यथा जनयिता तथा ||१०||
यावतो वै साधुधर्मान्सन्तः संवर्तयन्त्युत |
सर्वे ते चापि भर्तव्या नरा ये बहुभारिणः ||११||
समृद्धः सम्प्रयच्छस्व ब्राह्मणेभ्यो युधिष्ठिर |
धेनूरनडुहोऽन्नानि च्छत्रं वासांस्युपानहौ ||१२||
आज्यानि यजमानेभ्यस्तथान्नाद्यानि भारत |
अश्ववन्ति च यानानि वेश्मानि शयनानि च ||१३||
एते देया व्युष्टिमन्तो लघूपायाश्च भारत |
अजुगुप्सांश्च विज्ञाय ब्राह्मणान्वृत्तिकर्शितान् ||१४||
उपच्छन्नं प्रकाशं वा वृत्त्या तान्प्रतिपादय |
राजसूयाश्वमेधाभ्यां श्रेयस्तत्क्षत्रियान्प्रति ||१५||
एवं पापैर्विमुक्तस्त्वं पूतः स्वर्गमवाप्स्यसि |
स्रंसयित्वा पुनः कोशं यद्राष्ट्रं पालयिष्यसि ||१६||
ततश्च ब्रह्मभूयस्त्वमवाप्स्यसि धनानि च |
आत्मनश्च परेषां च वृत्तिं संरक्ष भारत ||१७||
पुत्रवच्चापि भृत्यान्स्वान्प्रजाश्च परिपालय |
योगक्षेमश्च ते नित्यं ब्राह्मणेष्वस्तु भारत ||१८||
अरक्षितारं हर्तारं विलोप्तारमदायकम् |
तं स्म राजकलिं हन्युः प्रजाः सम्भूय निर्घृणम् ||१९||
अहं वो रक्षितेत्युक्त्वा यो न रक्षति भूमिपः |
स संहत्य निहन्तव्यः श्वेव सोन्माद आतुरः ||२०||
पापं कुर्वन्ति यत्किञ्चित्प्रजा राज्ञा ह्यरक्षिताः |
चतुर्थं तस्य पापस्य राजा भारत विन्दति ||२१||
अप्याहुः सर्वमेवेति भूयोऽर्धमिति निश्चयः |
चतुर्थं मतमस्माकं मनोः श्रुत्वानुशासनम् ||२२||
शुभं वा यत्प्रकुर्वन्ति प्रजा राज्ञा सुरक्षिताः |
चतुर्थं तस्य पुण्यस्य राजा चाप्नोति भारत ||२३||
जीवन्तं त्वानुजीवन्तु प्रजाः सर्वा युधिष्ठिर |
पर्जन्यमिव भूतानि महाद्रुममिव द्विजाः ||२४||
कुबेरमिव रक्षांसि शतक्रतुमिवामराः |
ज्ञातयस्त्वानुजीवन्तु सुहृदश्च परन्तप ||२५||
भूमिदानप्रशंसा
६१
युधिष्ठिर उवाच||
इदं देयमिदं देयमितीयं श्रुतिचोदना |
बहुदेयाश्च राजानः किं स्विद्देयमनुत्तमम् ||१||
भीष्म उवाच||
अति दानानि सर्वाणि पृथिवीदानमुच्यते |
अचला ह्यक्षया भूमिर्दोग्ध्री कामाननुत्तमान् ||२||
दोग्ध्री वासांसि रत्नानि पशून्व्रीहियवांस्तथा |
भूमिदः सर्वभूतेषु शाश्वतीरेधते समाः ||३||
यावद्भूमेरायुरिह तावद्भूमिद एधते |
न भूमिदानादस्तीह परं किञ्चिद्युधिष्ठिर ||४||
अप्यल्पं प्रददुः पूर्वे पृथिव्या इति नः श्रुतम् |
भूमिमेते ददुः सर्वे ये भूमिं भुञ्जते जनाः ||५||
स्वकर्मैवोपजीवन्ति नरा इह परत्र च |
भूमिर्भूतिर्महादेवी दातारं कुरुते प्रियम् ||६||
य एतां दक्षिणां दद्यादक्षयां पृथिवीपतिः |
पुनर्नरत्वं सम्प्राप्य भवेत्स पृथिवीपतिः ||७||
यथा दानं तथा भोग इति धर्मेषु निश्चयः |
सङ्ग्रामे वा तनुं जह्याद्दद्याद्वा पृथिवीमिमाम् ||८||
इत्येतां क्षत्रबन्धूनां वदन्ति परमाशिषम् |
पुनाति दत्ता पृथिवी दातारमिति शुश्रुम ||९||
अपि पापसमाचारं ब्रह्मघ्नमपि वानृतम् |
सैव पापं पावयति सैव पापात्प्रमोचयेत् ||१०||
अपि पापकृतां राज्ञां प्रतिगृह्णन्ति साधवः |
पृथिवीं नान्यदिच्छन्ति पावनं जननी यथा ||११||
नामास्याः प्रियदत्तेति गुह्यं देव्याः सनातनम् |
दानं वाप्यथ वा ज्ञानं नाम्नोऽस्याः परमं प्रियम् ||१२||
तस्मात्प्राप्यैव पृथिवीं दद्याद्विप्राय पार्थिवः ||१२||
नाभूमिपतिना भूमिरधिष्ठेया कथञ्चन |
न वा पात्रेण वा गूहेदन्तर्धानेन वा चरेत् ||१३||
ये चान्ये भूमिमिच्छेयुः कुर्युरेवमसंशयम् ||१३||
यः साधोर्भूमिमादत्ते न भूमिं विन्दते तु सः |
भूमिं तु दत्त्वा साधुभ्यो विन्दते भूमिमेव हि ||१४||
प्रेत्येह च स धर्मात्मा सम्प्राप्नोति महद्यशः ||१४||
यस्य विप्रानुशासन्ति साधोर्भूमिं सदैव हि |
न तस्य शत्रवो राजन्प्रशासन्ति वसुन्धराम् ||१५||
यत्किञ्चित्पुरुषः पापं कुरुते वृत्तिकर्शितः |
अपि गोचर्ममात्रेण भूमिदानेन पूयते ||१६||
येऽपि सङ्कीर्णकर्माणो राजानो रौद्रकर्मिणः |
तेभ्यः पवित्रमाख्येयं भूमिदानमनुत्तमम् ||१७||
अल्पान्तरमिदं शश्वत्पुराणा मेनिरे जनाः |
यो यजेदश्वमेधेन दद्याद्वा साधवे महीम् ||१८||
अपि चेत्सुकृतं कृत्वा शङ्केरन्नपि पण्डिताः |
अशक्यमेकमेवैतद्भूमिदानमनुत्तमम् ||१९||
सुवर्णं रजतं वस्त्रं मणिमुक्तावसूनि च |
सर्वमेतन्महाप्राज्ञ ददाति वसुधां ददत् ||२०||
तपो यज्ञः श्रुतं शीलमलोभः सत्यसन्धता |
गुरुदैवतपूजा च नातिवर्तन्ति भूमिदम् ||२१||
भर्तुर्निःश्रेयसे युक्तास्त्यक्तात्मानो रणे हताः |
ब्रह्मलोकगताः सिद्धा नातिक्रामन्ति भूमिदम् ||२२||
यथा जनित्री क्षीरेण स्वपुत्रं भरते सदा |
अनुगृह्णाति दातारं तथा सर्वरसैर्मही ||२३||
मृत्योर्वै किङ्करो दण्डस्तापो वह्नेः सुदारुणः |
घोराश्च वारुणाः पाशा नोपसर्पन्ति भूमिदम् ||२४||
पितॄंश्च पितृलोकस्थान्देवलोके च देवताः |
सन्तर्पयति शान्तात्मा यो ददाति वसुन्धराम् ||२५||
कृशाय म्रियमाणाय वृत्तिम्लानाय सीदते |
भूमिं वृत्तिकरीं दत्त्वा सत्री भवति मानवः ||२६||
यथा धावति गौर्वत्सं क्षीरमभ्युत्सृजन्त्युत |
एवमेव महाभाग भूमिर्भवति भूमिदम् ||२७||
हलकृष्टां महीं दत्त्वा सबीजां सफलामपि |
उदीर्णं वापि शरणं तथा भवति कामदः ||२८||
ब्राह्मणं वृत्तसम्पन्नमाहिताग्निं शुचिव्रतम् |
नरः प्रतिग्राह्य महीं न याति यमसादनम् ||२९||
यथा चन्द्रमसो वृद्धिरहन्यहनि जायते |
तथा भूमिकृतं दानं सस्ये सस्ये विवर्धते ||३०||
अत्र गाथा भूमिगीताः कीर्तयन्ति पुराविदः |
याः श्रुत्वा जामदग्न्येन दत्ता भूः काश्यपाय वै ||३१||
मामेवादत्त मां दत्त मां दत्त्वा मामवाप्स्यथ |
अस्मिँल्लोके परे चैव ततश्चाजनने पुनः ||३२||
य इमां व्याहृतिं वेद ब्राह्मणो ब्रह्मसंश्रितः |
श्राद्धस्य हूयमानस्य ब्रह्मभूयं स गच्छति ||३३||
कृत्यानामभिशस्तानां दुरिष्टशमनं महत् |
प्रायश्चित्तमहं कृत्वा पुनात्युभयतो दश ||३४||
पुनाति य इदं वेद वेद चाहं तथैव च |
प्रकृतिः सर्वभूतानां भूमिर्वै शाश्वती मता ||३५||
अभिषिच्यैव नृपतिं श्रावयेदिममागमम् |
यथा श्रुत्वा महीं दद्यान्नादद्यात्साधुतश्च ताम् ||३६||
सोऽयं कृत्स्नो ब्राह्मणार्थो राजार्थश्चाप्यसंशयम् |
राजा हि धर्मकुशलः प्रथमं भूतिलक्षणम् ||३७||
अथ येषामधर्मज्ञो राजा भवति नास्तिकः |
न ते सुखं प्रबुध्यन्ते न सुखं प्रस्वपन्ति च ||३८||
सदा भवन्ति चोद्विग्नास्तस्य दुश्चरितैर्नराः |
योगक्षेमा हि बहवो राष्ट्रं नास्याविशन्ति तत् ||३९||
अथ येषां पुनः प्राज्ञो राजा भवति धार्मिकः |
सुखं ते प्रतिबुध्यन्ते सुसुखं प्रस्वपन्ति च ||४०||
तस्य राज्ञः शुभैरार्यैः कर्मभिर्निर्वृताः प्रजाः |
योगक्षेमेण वृष्ट्या च विवर्धन्ते स्वकर्मभिः ||४१||
स कुलीनः स पुरुषः स बन्धुः स च पुण्यकृत् |
स दाता स च विक्रान्तो यो ददाति वसुन्धराम् ||४२||
आदित्या इव दीप्यन्ते तेजसा भुवि मानवाः |
ददन्ति वसुधां स्फीतां ये वेदविदुषि द्विजे ||४३||
यथा बीजानि रोहन्ति प्रकीर्णानि महीतले |
तथा कामाः प्ररोहन्ति भूमिदानसमार्जिताः ||४४||
आदित्यो वरुणो विष्णुर्ब्रह्मा सोमो हुताशनः |
शूलपाणिश्च भगवान्प्रतिनन्दन्ति भूमिदम् ||४५||
भूमौ जायन्ति पुरुषा भूमौ निष्ठां व्रजन्ति च |
चतुर्विधो हि लोकोऽयं योऽयं भूमिगुणात्मकः ||४६||
एषा माता पिता चैव जगतः पृथिवीपते |
नानया सदृशं भूतं किञ्चिदस्ति जनाधिप ||४७||
अत्राप्युदाहरन्तीममितिहासं पुरातनम् |
बृहस्पतेश्च संवादमिन्द्रस्य च युधिष्ठिर ||४८||
इष्ट्वा क्रतुशतेनाथ महता दक्षिणावता |
मघवा वाग्विदां श्रेष्ठं पप्रच्छेदं बृहस्पतिम् ||४९||
भगवन्केन दानेन स्वर्गतः सुखमेधते |
यदक्षयं महार्घं च तद्ब्रूहि वदतां वर ||५०||
इत्युक्तः स सुरेन्द्रेण ततो देवपुरोहितः |
बृहस्पतिर्महातेजाः प्रत्युवाच शतक्रतुम् ||५१||
सुवर्णदानं गोदानं भूमिदानं च वृत्रहन् |
दददेतान्महाप्राज्ञः सर्वपापैः प्रमुच्यते ||५२||
न भूमिदानाद्देवेन्द्र परं किञ्चिदिति प्रभो |
विशिष्टमिति मन्यामि यथा प्राहुर्मनीषिणः ||५३||
ये शूरा निहता युद्धे स्वर्याता दानगृद्धिनः |
सर्वे ते विबुधश्रेष्ठ नातिक्रामन्ति भूमिदम् ||५४||
भर्तुर्निःश्रेयसे युक्तास्त्यक्तात्मानो रणे हताः |
ब्रह्मलोकगताः शूरा नातिक्रामन्ति भूमिदम् ||५५||
पञ्च पूर्वादिपुरुषाः षट्च ये वसुधां गताः |
एकादश ददद्भूमिं परित्रातीह मानवः ||५६||
रत्नोपकीर्णां वसुधां यो ददाति पुरंदर |
स मुक्तः सर्वकलुषैः स्वर्गलोके महीयते ||५७||
महीं स्फीतां ददद्राजा सर्वकामगुणान्विताम् |
राजाधिराजो भवति तद्धि दानमनुत्तमम् ||५८||
सर्वकामसमायुक्तां काश्यपीं यः प्रयच्छति |
सर्वभूतानि मन्यन्ते मां ददातीति वासव ||५९||
सर्वकामदुघां धेनुं सर्वकामपुरोगमाम् |
ददाति यः सहस्राक्ष स स्वर्गं याति मानवः ||६०||
मधुसर्पिःप्रवाहिन्यः पयोदधिवहास्तथा |
सरितस्तर्पयन्तीह सुरेन्द्र वसुधाप्रदम् ||६१||
भूमिप्रदानान्नृपतिर्मुच्यते राजकिल्बिषात् |
न हि भूमिप्रदानेन दानमन्यद्विशिष्यते ||६२||
ददाति यः समुद्रान्तां पृथिवीं शस्त्रनिर्जिताम् |
तं जनाः कथयन्तीह यावद्धरति गौरियम् ||६३||
पुण्यामृद्धरसां भूमिं यो ददाति पुरंदर |
न तस्य लोकाः क्षीयन्ते भूमिदानगुणार्जिताः ||६४||
सर्वथा पार्थिवेनेह सततं भूतिमिच्छता |
भूर्देया विधिवच्छक्र पात्रे सुखमभीप्सता ||६५||
अपि कृत्वा नरः पापं भूमिं दत्त्वा द्विजातये |
समुत्सृजति तत्पापं जीर्णां त्वचमिवोरगः ||६६||
सागरान्सरितः शैलान्काननानि च सर्वशः |
सर्वमेतन्नरः शक्र ददाति वसुधां ददत् ||६७||
तडागान्युदपानानि स्रोतांसि च सरांसि च |
स्नेहान्सर्वरसांश्चैव ददाति वसुधां ददत् ||६८||
ओषधीः क्षीरसम्पन्ना नगान्पुष्पफलान्वितान् |
काननोपलशैलांश्च ददाति वसुधां ददत् ||६९||
अग्निष्टोमप्रभृतिभिरिष्ट्वा च स्वाप्तदक्षिणैः |
न तत्फलमवाप्नोति भूमिदानाद्यदश्नुते ||७०||
दाता दशानुगृह्णाति दश हन्ति तथा क्षिपन् |
पूर्वदत्तां हरन्भूमिं नरकायोपगच्छति ||७१||
न ददाति प्रतिश्रुत्य दत्त्वा वा हरते तु यः |
स बद्धो वारुणैः पाशैस्तप्यते मृत्युशासनात् ||७२||
आहिताग्निं सदायज्ञं कृशभृत्यं प्रियातिथिम् |
ये भरन्ति द्विजश्रेष्ठं नोपसर्पन्ति ते यमम् ||७३||
ब्राह्मणेष्वृणभूतं स्यात्पार्थिवस्य पुरंदर |
इतरेषां तु वर्णानां तारयेत्कृशदुर्बलान् ||७४||
नाच्छिन्द्यात्स्पर्शितां भूमिं परेण त्रिदशाधिप |
ब्राह्मणाय सुरश्रेष्ठ कृशभृत्याय कश्चन ||७५||
अथाश्रु पतितं तेषां दीनानामवसीदताम् |
ब्राह्मणानां हृते क्षेत्रे हन्यात्त्रिपुरुषं कुलम् ||७६||
भूमिपालं च्युतं राष्ट्राद्यस्तु संस्थापयेत्पुनः |
तस्य वासः सहस्राक्ष नाकपृष्ठे महीयते ||७७||
इक्षुभिः सन्ततां भूमिं यवगोधूमसङ्कुलाम् |
गोश्ववाहनसम्पूर्णां बाहुवीर्यसमार्जिताम् ||७८||
निधिगर्भां ददद्भूमिं सर्वरत्नपरिच्छदाम् |
अक्षयाँल्लभते लोकान्भूमिसत्रं हि तस्य तत् ||७९||
विधूय कलुषं सर्वं विरजाः संमतः सताम् |
लोके महीयते सद्भिर्यो ददाति वसुन्धराम् ||८०||
यथाप्सु पतितः शक्र तैलबिन्दुर्विसर्पति |
तथा भूमिकृतं दानं सस्ये सस्ये विसर्पति ||८१||
ये रणाग्रे महीपालाः शूराः समितिशोभनाः |
वध्यन्तेऽभिमुखाः शक्र ब्रह्मलोकं व्रजन्ति ते ||८२||
नृत्यगीतपरा नार्यो दिव्यमाल्यविभूषिताः |
उपतिष्ठन्ति देवेन्द्र सदा भूमिप्रदं दिवि ||८३||
मोदते च सुखं स्वर्गे देवगन्धर्वपूजितः |
यो ददाति महीं सम्यग्विधिनेह द्विजातये ||८४||
शतमप्सरसश्चैव दिव्यमाल्यविभूषिताः |
उपतिष्ठन्ति देवेन्द्र सदा भूमिप्रदं नरम् ||८५||
शङ्खं भद्रासनं छत्रं वराश्वा वरवारणाः |
भूमिप्रदानात्पुष्पाणि हिरण्यनिचयास्तथा ||८६||
आज्ञा सदाप्रतिहता जयशब्दो भवत्यथ |
भूमिदानस्य पुष्पाणि फलं स्वर्गः पुरंदर ||८७||
हिरण्यपुष्पाश्चौषध्यः कुशकाञ्चनशाड्वलाः |
अमृतप्रसवां भूमिं प्राप्नोति पुरुषो ददत् ||८८||
नास्ति भूमिसमं दानं नास्ति मातृसमो गुरुः |
नास्ति सत्यसमो धर्मो नास्ति दानसमो निधिः ||८९||
एतदाङ्गिरसाच्छ्रुत्वा वासवो वसुधामिमाम् |
वसुरत्नसमाकीर्णां ददावाङ्गिरसे तदा ||९०||
य इमं श्रावयेच्छ्राद्धे भूमिदानस्य संस्तवम् |
न तस्य रक्षसां भागो नासुराणां भवत्युत ||९१||
अक्षयं च भवेद्दत्तं पितृभ्यस्तन्न संशयः |
तस्माच्छ्राद्धेष्विदं विप्रो भुञ्जतः श्रावयेद्द्विजान् ||९२||
इत्येतत्सर्वदानानां श्रेष्ठमुक्तं तवानघ |
मया भरतशार्दूल किं भूयः श्रोतुमिच्छसि ||९३||
अन्नदानप्रशंसा
६२
युधिष्ठिर उवाच||
कानि दानानि लोकेऽस्मिन्दातुकामो महीपतिः |
गुणाधिकेभ्यो विप्रेभ्यो दद्याद्भरतसत्तम ||१||
केन तुष्यन्ति ते सद्यस्तुष्टाः किं प्रदिशन्त्युत |
शंस मे तन्महाबाहो फलं पुण्यकृतं महत् ||२||
दत्तं किं फलवद्राजन्निह लोके परत्र च |
भवतः श्रोतुमिच्छामि तन्मे विस्तरतो वद ||३||
भीष्म उवाच||
इममर्थं पुरा पृष्टो नारदो देवदर्शनः |
यदुक्तवानसौ तन्मे गदतः शृणु भारत ||४||
नारद उवाच||
अन्नमेव प्रशंसन्ति देवाः सर्षिगणाः पुरा |
लोकतन्त्रं हि यज्ञाश्च सर्वमन्ने प्रतिष्ठितम् ||५||
अन्नेन सदृशं दानं न भूतं न भविष्यति |
तस्मादन्नं विशेषेण दातुमिच्छन्ति मानवाः ||६||
अन्नमूर्जस्करं लोके प्राणाश्चान्ने प्रतिष्ठिताः |
अन्नेन धार्यते सर्वं विश्वं जगदिदं प्रभो ||७||
अन्नाद्गृहस्था लोकेऽस्मिन्भिक्षवस्तत एव च |
अन्नात्प्रभवति प्राणः प्रत्यक्षं नात्र संशयः ||८||
कुटुम्बं पीडयित्वापि ब्राह्मणाय महात्मने |
दातव्यं भिक्षवे चान्नमात्मनो भूतिमिच्छता ||९||
ब्राह्मणायाभिरूपाय यो दद्यादन्नमर्थिने |
निदधाति निधिं श्रेष्ठं पारलौकिकमात्मनः ||१०||
श्रान्तमध्वनि वर्तन्तं वृद्धमर्हमुपस्थितम् |
अर्चयेद्भूतिमन्विच्छन्गृहस्थो गृहमागतम् ||११||
क्रोधमुत्पतितं हित्वा सुशीलो वीतमत्सरः |
अन्नदः प्राप्नुते राजन्दिवि चेह च यत्सुखम् ||१२||
नावमन्येदभिगतं न प्रणुद्यात्कथञ्चन |
अपि श्वपाके शुनि वा न दानं विप्रणश्यति ||१३||
यो दद्यादपरिक्लिष्टमन्नमध्वनि वर्तते |
श्रान्तायादृष्टपूर्वाय स महद्धर्ममाप्नुयात् ||१४||
पितॄन्देवानृषीन्विप्रानतिथींश्च जनाधिप |
यो नरः प्रीणयत्यन्नैस्तस्य पुण्यफलं महत् ||१५||
कृत्वापि पापकं कर्म यो दद्यादन्नमर्थिने |
ब्राह्मणाय विशेषेण न स पापेन युज्यते ||१६||
ब्राह्मणेष्वक्षयं दानमन्नं शूद्रे महाफलम् |
अन्नदानं च शूद्रे च ब्राह्मणे च विशिष्यते ||१७||
न पृच्छेद्गोत्रचरणं स्वाध्यायं देशमेव वा |
भिक्षितो ब्राह्मणेनेह जन्म वान्नं प्रयाचितः ||१८||
अन्नदस्यान्नवृक्षाश्च सर्वकामफलान्विताः |
भवन्तीहाथ वामुत्र नृपते नात्र संशयः ||१९||
आशंसन्ते हि पितरः सुवृष्टिमिव कर्षकाः |
अस्माकमपि पुत्रो वा पौत्रो वान्नं प्रदास्यति ||२०||
ब्राह्मणो हि महद्भूतं स्वयं देहीति याचते |
अकामो वा सकामो वा दत्त्वा पुण्यमवाप्नुयात् ||२१||
ब्राह्मणः सर्वभूतानामतिथिः प्रसृताग्रभुक् |
विप्रा यमभिगच्छन्ति भिक्षमाणा गृहं सदा ||२२||
सत्कृताश्च निवर्तन्ते तदतीव प्रवर्धते |
महाभोगे कुले जन्म प्रेत्य प्राप्नोति भारत ||२३||
दत्त्वा त्वन्नं नरो लोके तथा स्थानमनुत्तमम् |
मृष्टमृष्टान्नदायी तु स्वर्गे वसति सत्कृतः ||२४||
अन्नं प्राणा नराणां हि सर्वमन्ने प्रतिष्ठितम् |
अन्नदः पशुमान्पुत्री धनवान्भोगवानपि ||२५||
प्राणवांश्चापि भवति रूपवांश्च तथा नृप |
अन्नदः प्राणदो लोके सर्वदः प्रोच्यते तु सः ||२६||
अन्नं हि दत्त्वातिथये ब्राह्मणाय यथाविधि |
प्रदाता सुखमाप्नोति देवैश्चाप्यभिपूज्यते ||२७||
ब्राह्मणो हि महद्भूतं क्षेत्रं चरति पादवत् |
उप्यते तत्र यद्बीजं तद्धि पुण्यफलं महत् ||२८||
प्रत्यक्षं प्रीतिजननं भोक्तृदात्रोर्भवत्युत |
सर्वाण्यन्यानि दानानि परोक्षफलवन्त्युत ||२९||
अन्नाद्धि प्रसवं विद्धि रतिमन्नाद्धि भारत |
धर्मार्थावन्नतो विद्धि रोगनाशं तथान्नतः ||३०||
अन्नं ह्यमृतमित्याह पुराकल्पे प्रजापतिः |
अन्नं भुवं दिवं खं च सर्वमन्ने प्रतिष्ठितम् ||३१||
अन्नप्रणाशे भिद्यन्ते शरीरे पञ्च धातवः |
बलं बलवतोऽपीह प्रणश्यत्यन्नहानितः ||३२||
आवाहाश्च विवाहाश्च यज्ञाश्चान्नमृते तथा |
न वर्तन्ते नरश्रेष्ठ ब्रह्म चात्र प्रलीयते ||३३||
अन्नतः सर्वमेतद्धि यत्किञ्चित्स्थाणु जङ्गमम् |
त्रिषु लोकेषु धर्मार्थमन्नं देयमतो बुधैः ||३४||
अन्नदस्य मनुष्यस्य बलमोजो यशः सुखम् |
कीर्तिश्च वर्धते शश्वत्त्रिषु लोकेषु पार्थिव ||३५||
मेघेष्वम्भः संनिधत्ते प्राणानां पवनः शिवः |
तच्च मेघगतं वारि शक्रो वर्षति भारत ||३६||
आदत्ते च रसं भौममादित्यः स्वगभस्तिभिः |
वायुरादित्यतस्तांश्च रसान्देवः प्रजापतिः ||३७||
तद्यदा मेघतो वारि पतितं भवति क्षितौ |
तदा वसुमती देवी स्निग्धा भवति भारत ||३८||
ततः सस्यानि रोहन्ति येन वर्तयते जगत् |
मांसमेदोस्थिशुक्राणां प्रादुर्भावस्ततः पुनः ||३९||
सम्भवन्ति ततः शुक्रात्प्राणिनः पृथिवीपते |
अग्नीषोमौ हि तच्छुक्रं प्रजनः पुष्यतश्च ह ||४०||
एवमन्नं च सूर्यश्च पवनः शुक्रमेव च |
एक एव स्मृतो राशिर्यतो भूतानि जज्ञिरे ||४१||
प्राणान्ददाति भूतानां तेजश्च भरतर्षभ |
गृहमभ्यागतायाशु यो दद्यादन्नमर्थिने ||४२||
भीष्म उवाच||
नारदेनैवमुक्तोऽहमदामन्नं सदा नृप |
अनसूयुस्त्वमप्यन्नं तस्माद्देहि गतज्वरः ||४३||
दत्त्वान्नं विधिवद्राजन्विप्रेभ्यस्त्वमपि प्रभो |
यथावदनुरूपेभ्यस्ततः स्वर्गमवाप्स्यसि ||४४||
अन्नदानां हि ये लोकास्तांस्त्वं शृणु नराधिप |
भवनानि प्रकाशन्ते दिवि तेषां महात्मनाम् ||४५||
नानासंस्थानरूपाणि नानास्तम्भान्वितानि च ||४५||
चन्द्रमण्डलशुभ्राणि किङ्किणीजालवन्ति च |
तरुणादित्यवर्णानि स्थावराणि चराणि च ||४६||
अनेकशतभौमानि सान्तर्जलवनानि च |
वैडूर्यार्कप्रकाशानि रौप्यरुक्ममयानि च ||४७||
सर्वकामफलाश्चापि वृक्षा भवनसंस्थिताः |
वाप्यो वीथ्यः सभाः कूपा दीर्घिकाश्चैव सर्वशः ||४८||
घोषवन्ति च यानानि युक्तान्यथ सहस्रशः |
भक्ष्यभोज्यमयाः शैला वासांस्याभरणानि च ||४९||
क्षीरं स्रवन्त्यः सरितस्तथा चैवान्नपर्वताः |
प्रासादाः पाण्डुराभ्राभाः शय्याश्च कनकोज्ज्वलाः ||५०||
तानन्नदाः प्रपद्यन्ते तस्मादन्नप्रदो भव ||५०||
एते लोकाः पुण्यकृतामन्नदानां महात्मनाम् |
तस्मादन्नं विशेषेण दातव्यं मानवैर्भुवि ||५१||
नक्षत्रयोगदानम्
६३
युधिष्ठिर उवाच||
श्रुतं मे भवतो वाक्यमन्नदानस्य यो विधिः |
नक्षत्रयोगस्येदानीं दानकल्पं ब्रवीहि मे ||१||
भीष्म उवाच||
अत्राप्युदाहरन्तीममितिहासं पुरातनम् |
देवक्याश्चैव संवादं देवर्षेर्नारदस्य च ||२||
द्वारकामनुसम्प्राप्तं नारदं देवदर्शनम् |
पप्रच्छैनं ततः प्रश्नं देवकी धर्मदर्शिनी ||३||
तस्याः सम्पृच्छमानाया देवर्षिर्नारदस्तदा |
आचष्ट विधिवत्सर्वं यत्तच्छृणु विशां पते ||४||
नारद उवाच||
कृत्तिकासु महाभागे पायसेन ससर्पिषा |
सन्तर्प्य ब्राह्मणान्साधूँल्लोकानाप्नोत्यनुत्तमान् ||५||
रोहिण्यां प्रथितैर्मांसैर्माषैरन्नेन सर्पिषा |
पयोऽनुपानं दातव्यमानृण्यार्थं द्विजातये ||६||
दोग्ध्रीं दत्त्वा सवत्सां तु नक्षत्रे सोमदैवते |
गच्छन्ति मानुषाल्लोकात्स्वर्गलोकमनुत्तमम् ||७||
आर्द्रायां कृसरं दत्त्वा तैलमिश्रमुपोषितः |
नरस्तरति दुर्गाणि क्षुरधारांश्च पर्वतान् ||८||
अपूपान्पुनर्वसौ दत्त्वा तथैवान्नानि शोभने |
यशस्वी रूपसम्पन्नो बह्वन्ने जायते कुले ||९||
पुष्ये तु कनकं दत्त्वा कृतं चाकृतमेव च |
अनालोकेषु लोकेषु सोमवत्स विराजते ||१०||
आश्लेषायां तु यो रूप्यमृषभं वा प्रयच्छति |
स सर्वभयनिर्मुक्तः शात्रवानधितिष्ठति ||११||
मघासु तिलपूर्णानि वर्धमानानि मानवः |
प्रदाय पुत्रपशुमानिह प्रेत्य च मोदते ||१२||
फल्गुनीपूर्वसमये ब्राह्मणानामुपोषितः |
भक्षान्फाणितसंयुक्तान्दत्त्वा सौभाग्यमृच्छति ||१३||
घृतक्षीरसमायुक्तं विधिवत्षष्टिकौदनम् |
उत्तराविषये दत्त्वा स्वर्गलोके महीयते ||१४||
यद्यत्प्रदीयते दानमुत्तराविषये नरैः |
महाफलमनन्तं च भवतीति विनिश्चयः ||१५||
हस्ते हस्तिरथं दत्त्वा चतुर्युक्तमुपोषितः |
प्राप्नोति परमाँल्लोकान्पुण्यकामसमन्वितान् ||१६||
चित्रायामृषभं दत्त्वा पुण्यान्गन्धांश्च भारत |
चरत्यप्सरसां लोके रमते नन्दने तथा ||१७||
स्वातावथ धनं दत्त्वा यदिष्टतममात्मनः |
प्राप्नोति लोकान्स शुभानिह चैव महद्यशः ||१८||
विशाखायामनड्वाहं धेनुं दत्त्वा च दुग्धदाम् |
सप्रासङ्गं च शकटं सधान्यं वस्त्रसंयुतम् ||१९||
पितॄन्देवांश्च प्रीणाति प्रेत्य चानन्त्यमश्नुते |
न च दुर्गाण्यवाप्नोति स्वर्गलोकं च गच्छति ||२०||
दत्त्वा यथोक्तं विप्रेभ्यो वृत्तिमिष्टां स विन्दति |
नरकादींश्च सङ्क्लेशान्नाप्नोतीति विनिश्चयः ||२१||
अनुराधासु प्रावारं वस्त्रान्तरमुपोषितः |
दत्त्वा युगशतं चापि नरः स्वर्गे महीयते ||२२||
कालशाकं तु विप्रेभ्यो दत्त्वा मर्त्यः समूलकम् |
ज्येष्ठायामृद्धिमिष्टां वै गतिमिष्टां च विन्दति ||२३||
मूले मूलफलं दत्त्वा ब्राह्मणेभ्यः समाहितः |
पितॄन्प्रीणयते चापि गतिमिष्टां च गच्छति ||२४||
अथ पूर्वास्वषाढासु दधिपात्राण्युपोषितः |
कुलवृत्तोपसम्पन्ने ब्राह्मणे वेदपारगे ||२५||
प्रदाय जायते प्रेत्य कुले सुबहुगोकुले ||२५||
उदमन्थं ससर्पिष्कं प्रभूतमधुफाणितम् |
दत्त्वोत्तरास्वषाढासु सर्वकामानवाप्नुयात् ||२६||
दुग्धं त्वभिजिते योगे दत्त्वा मधुघृताप्लुतम् |
धर्मनित्यो मनीषिभ्यः स्वर्गलोके महीयते ||२७||
श्रवणे कम्बलं दत्त्वा वस्त्रान्तरितमेव च |
श्वेतेन याति यानेन सर्वलोकानसंवृतान् ||२८||
गोप्रयुक्तं धनिष्ठासु यानं दत्त्वा समाहितः |
वस्त्ररश्मिधरं सद्यः प्रेत्य राज्यं प्रपद्यते ||२९||
गन्धाञ्शतभिषग्योगे दत्त्वा सागुरुचन्दनान् |
प्राप्नोत्यप्सरसां लोकान्प्रेत्य गन्धांश्च शाश्वतान् ||३०||
पूर्वभाद्रपदायोगे राजमाषान्प्रदाय तु |
सर्वभक्षफलोपेतः स वै प्रेत्य सुखी भवेत् ||३१||
औरभ्रमुत्तरायोगे यस्तु मांसं प्रयच्छति |
स पितॄन्प्रीणयति वै प्रेत्य चानन्त्यमश्नुते ||३२||
कांस्योपदोहनां धेनुं रेवत्यां यः प्रयच्छति |
सा प्रेत्य कामानादाय दातारमुपतिष्ठति ||३३||
रथमश्वसमायुक्तं दत्त्वाश्विन्यां नरोत्तमः |
हस्त्यश्वरथसम्पन्ने वर्चस्वी जायते कुले ||३४||
भरणीषु द्विजातिभ्यस्तिलधेनुं प्रदाय वै |
गाः सुप्रभूताः प्राप्नोति नरः प्रेत्य यशस्तथा ||३५||
भीष्म उवाच||
इत्येष लक्षणोद्देशः प्रोक्तो नक्षत्रयोगतः |
देवक्या नारदेनेह सा स्नुषाभ्योऽब्रवीदिदम् ||३६||
काञ्चनादिदानम्
६४
भीष्म उवाच||
सर्वान्कामान्प्रयच्छन्ति ये प्रयच्छन्ति काञ्चनम् |
इत्येवं भगवानत्रिः पितामहसुतोऽब्रवीत् ||१||
पवित्रं शुच्यथायुष्यं पितॄणामक्षयं च तत् |
सुवर्णं मनुजेन्द्रेण हरिश्चन्द्रेण कीर्तितम् ||२||
पानीयदानं परमं दानानां मनुरब्रवीत् |
तस्माद्वापीश्च कूपांश्च तडागानि च खानयेत् ||३||
अर्धं पापस्य हरति पुरुषस्येह कर्मणः |
कूपः प्रवृत्तपानीयः सुप्रवृत्तश्च नित्यशः ||४||
सर्वं तारयते वंशं यस्य खाते जलाशये |
गावः पिबन्ति विप्राश्च साधवश्च नराः सदा ||५||
निदाघकाले पानीयं यस्य तिष्ठत्यवारितम् |
स दुर्गं विषमं कृच्छ्रं न कदाचिदवाप्नुते ||६||
बृहस्पतेर्भगवतः पूष्णश्चैव भगस्य च |
अश्विनोश्चैव वह्नेश्च प्रीतिर्भवति सर्पिषा ||७||
परमं भेषजं ह्येतद्यज्ञानामेतदुत्तमम् |
रसानामुत्तमं चैतत्फलानां चैतदुत्तमम् ||८||
फलकामो यशस्कामः पुष्टिकामश्च नित्यदा |
घृतं दद्याद्द्विजातिभ्यः पुरुषः शुचिरात्मवान् ||९||
घृतं मासे आश्वयुजि विप्रेभ्यो यः प्रयच्छति |
तस्मै प्रयच्छतो रूपं प्रीतौ देवाविहाश्विनौ ||१०||
पायसं सर्पिषा मिश्रं द्विजेभ्यो यः प्रयच्छति |
गृहं तस्य न रक्षांसि धर्षयन्ति कदाचन ||११||
पिपासया न म्रियते सोपच्छन्दश्च दृश्यते |
न प्राप्नुयाच्च व्यसनं करकान्यः प्रयच्छति ||१२||
प्रयतो ब्राह्मणाग्रेभ्यः श्रद्धया परया युतः |
उपस्पर्शनषड्भागं लभते पुरुषः सदा ||१३||
यः साधनार्थं काष्ठानि ब्राह्मणेभ्यः प्रयच्छति |
प्रतापार्थं च राजेन्द्र वृत्तवद्भ्यः सदा नरः ||१४||
सिध्यन्त्यर्थाः सदा तस्य कार्याणि विविधानि च |
उपर्युपरि शत्रूणां वपुषा दीप्यते च सः ||१५||
भगवांश्चास्य सुप्रीतो वह्निर्भवति नित्यशः |
न तं त्यजन्ते पशवः सङ्ग्रामे च जयत्यपि ||१६||
पुत्राञ्छ्रियं च लभते यश्छत्रं सम्प्रयच्छति |
चक्षुर्व्याधिं न लभते यज्ञभागमथाश्नुते ||१७||
निदाघकाले वर्षे वा यश्छत्रं सम्प्रयच्छति |
नास्य कश्चिन्मनोदाहः कदाचिदपि जायते ||१८||
कृच्छ्रात्स विषमाच्चैव विप्र मोक्षमवाप्नुते ||१८||
प्रदानं सर्वदानानां शकटस्य विशिष्यते |
एवमाह महाभागः शाण्डिल्यो भगवानृषिः ||१९||
तिलादिदानफलम्
६५
युधिष्ठिर उवाच||
दह्यमानाय विप्राय यः प्रयच्छत्युपानहौ |
यत्फलं तस्य भवति तन्मे ब्रूहि पितामह ||१||
भीष्म उवाच||
उपानहौ प्रयच्छेद्यो ब्राह्मणेभ्यः समाहितः |
मर्दते कण्टकान्सर्वान्विषमान्निस्तरत्यपि ||२||
स शत्रूणामुपरि च सन्तिष्ठति युधिष्ठिर ||२||
यानं चाश्वतरीयुक्तं तस्य शुभ्रं विशां पते |
उपतिष्ठति कौन्तेय रूप्यकाञ्चनभूषणम् ||३||
शकटं दम्यसंयुक्तं दत्तं भवति चैव हि ||३||
युधिष्ठिर उवाच||
यत्फलं तिलदाने च भूमिदाने च कीर्तितम् |
गोप्रदानेऽन्नदाने च भूयस्तद्ब्रूहि कौरव ||४||
भीष्म उवाच||
शृणुष्व मम कौन्तेय तिलदानस्य यत्फलम् |
निशम्य च यथान्यायं प्रयच्छ कुरुसत्तम ||५||
पितॄणां प्रथमं भोज्यं तिलाः सृष्टाः स्वयम्भुवा |
तिलदानेन वै तस्मात्पितृपक्षः प्रमोदते ||६||
माघमासे तिलान्यस्तु ब्राह्मणेभ्यः प्रयच्छति |
सर्वसत्त्वसमाकीर्णं नरकं स न पश्यति ||७||
सर्वकामैः स यजते यस्तिलैर्यजते पितॄन् |
न चाकामेन दातव्यं तिलश्राद्धं कथञ्चन ||८||
महर्षेः कश्यपस्यैते गात्रेभ्यः प्रसृतास्तिलाः |
ततो दिव्यं गता भावं प्रदानेषु तिलाः प्रभो ||९||
पौष्टिका रूपदाश्चैव तथा पापविनाशनाः |
तस्मात्सर्वप्रदानेभ्यस्तिलदानं विशिष्यते ||१०||
आपस्तम्बश्च मेधावी शङ्खश्च लिखितस्तथा |
महर्षिर्गौतमश्चापि तिलदानैर्दिवं गताः ||११||
तिलहोमपरा विप्राः सर्वे संयतमैथुनाः |
समा गव्येन हविषा प्रवृत्तिषु च संस्थिताः ||१२||
सर्वेषामेव दानानां तिलदानं परं स्मृतम् |
अक्षयं सर्वदानानां तिलदानमिहोच्यते ||१३||
उत्पन्ने च पुरा हव्ये कुशिकर्षिः परन्तप |
तिलैरग्नित्रयं हुत्वा प्राप्तवान्गतिमुत्तमाम् ||१४||
इति प्रोक्तं कुरुश्रेष्ठ तिलदानमनुत्तमम् |
विधानं येन विधिना तिलानामिह शस्यते ||१५||
अत ऊर्ध्वं निबोधेदं देवानां यष्टुमिच्छताम् |
समागमं महाराज ब्रह्मणा वै स्वयम्भुवा ||१६||
देवाः समेत्य ब्रह्माणं भूमिभागं यियक्षवः |
शुभं देशमयाचन्त यजेम इति पार्थिव ||१७||
देवा ऊचुः||
भगवंस्त्वं प्रभुर्भूमेः सर्वस्य त्रिदिवस्य च |
यजेमहि महाभाग यज्ञं भवदनुज्ञया ||१८||
नाननुज्ञातभूमिर्हि यज्ञस्य फलमश्नुते ||१८||
त्वं हि सर्वस्य जगतः स्थावरस्य चरस्य च |
प्रभुर्भवसि तस्मात्त्वं समनुज्ञातुमर्हसि ||१९||
ब्रह्मोवाच||
ददामि मेदिनीभागं भवद्भ्योऽहं सुरर्षभाः |
यस्मिन्देशे करिष्यध्वं यज्ञं काश्यपनन्दनाः ||२०||
देवा ऊचुः||
भगवन्कृतकामाः स्मो यक्ष्यामस्त्वाप्तदक्षिणैः |
इमं तु देशं मुनयः पर्युपासन्त नित्यदा ||२१||
भीष्म उवाच||
ततोऽगस्त्यश्च कण्वश्च भृगुरत्रिर्वृषाकपिः |
असितो देवलश्चैव देवयज्ञमुपागमन् ||२२||
ततो देवा महात्मान ईजिरे यज्ञमच्युत |
तथा समापयामासुर्यथाकालं सुरर्षभाः ||२३||
त इष्टयज्ञास्त्रिदशा हिमवत्यचलोत्तमे |
षष्ठमंशं क्रतोस्तस्य भूमिदानं प्रचक्रिरे ||२४||
प्रादेशमात्रं भूमेस्तु यो दद्यादनुपस्कृतम् |
न सीदति स कृच्छ्रेषु न च दुर्गाण्यवाप्नुते ||२५||
शीतवातातपसहां गृहभूमिं सुसंस्कृताम् |
प्रदाय सुरलोकस्थः पुण्यान्तेऽपि न चाल्यते ||२६||
मुदितो वसते प्राज्ञः शक्रेण सह पार्थिव |
प्रतिश्रयप्रदाता च सोऽपि स्वर्गे महीयते ||२७||
अध्यापककुले जातः श्रोत्रियो नियतेन्द्रियः |
गृहे यस्य वसेत्तुष्टः प्रधानं लोकमश्नुते ||२८||
तथा गवार्थे शरणं शीतवर्षसहं महत् |
आसप्तमं तारयति कुलं भरतसत्तम ||२९||
क्षेत्रभूमिं ददल्लोके पुत्र श्रियमवाप्नुयात् |
रत्नभूमिं प्रदत्त्वा तु कुलवंशं विवर्धयेत् ||३०||
न चोषरां न निर्दग्धां महीं दद्यात्कथञ्चन |
न श्मशानपरीतां च न च पापनिषेविताम् ||३१||
पारक्ये भूमिदेशे तु पितॄणां निर्वपेत्तु यः |
तद्भूमिस्वामिपितृभिः श्राद्धकर्म विहन्यते ||३२||
तस्मात्क्रीत्वा महीं दद्यात्स्वल्पामपि विचक्षणः |
पिण्डः पितृभ्यो दत्तो वै तस्यां भवति शाश्वतः ||३३||
अटवीपर्वताश्चैव नदीतीर्थानि यानि च |
सर्वाण्यस्वामिकान्याहुर्न हि तत्र परिग्रहः ||३४||
इत्येतद्भूमिदानस्य फलमुक्तं विशां पते |
अतः परं तु गोदानं कीर्तयिष्यामि तेऽनघ ||३५||
गावोऽधिकास्तपस्विभ्यो यस्मात्सर्वेभ्य एव च |
तस्मान्महेश्वरो देवस्तपस्ताभिः समास्थितः ||३६||
ब्रह्मलोके वसन्त्येताः सोमेन सह भारत |
आसां ब्रह्मर्षयः सिद्धाः प्रार्थयन्ति परां गतिम् ||३७||
पयसा हविषा दध्ना शकृताप्यथ चर्मणा |
अस्थिभिश्चोपकुर्वन्ति शृङ्गैर्वालैश्च भारत ||३८||
नासां शीतातपौ स्यातां सदैताः कर्म कुर्वते |
न वर्षं विषमं वापि दुःखमासां भवत्युत ||३९||
ब्राह्मणैः सहिता यान्ति तस्मात्परतरं पदम् |
एकं गोब्राह्मणं तस्मात्प्रवदन्ति मनीषिणः ||४०||
रन्तिदेवस्य यज्ञे ताः पशुत्वेनोपकल्पिताः |
ततश्चर्मण्वती राजन्गोचर्मभ्यः प्रवर्तिता ||४१||
पशुत्वाच्च विनिर्मुक्ताः प्रदानायोपकल्पिताः |
ता इमा विप्रमुख्येभ्यो यो ददाति महीपते ||४२||
निस्तरेदापदं कृच्छ्रां विषमस्थोऽपि पार्थिव ||४२||
गवां सहस्रदः प्रेत्य नरकं न प्रपश्यति |
सर्वत्र विजयं चापि लभते मनुजाधिप ||४३||
अमृतं वै गवां क्षीरमित्याह त्रिदशाधिपः |
तस्माद्ददाति यो धेनुममृतं स प्रयच्छति ||४४||
अग्नीनामव्ययं ह्येतद्धौम्यं वेदविदो विदुः |
तस्माद्ददाति यो धेनुं स हौम्यं सम्प्रयच्छति ||४५||
स्वर्गो वै मूर्तिमानेष वृषभं यो गवां पतिम् |
विप्रे गुणयुते दद्यात्स वै स्वर्गे महीयते ||४६||
प्राणा वै प्राणिनामेते प्रोच्यन्ते भरतर्षभ |
तस्माद्ददाति यो धेनुं प्राणान्वै स प्रयच्छति ||४७||
गावः शरण्या भूतानामिति वेदविदो विदुः |
तस्माद्ददाति यो धेनुं शरणं सम्प्रयच्छति ||४८||
न वधार्थं प्रदातव्या न कीनाशे न नास्तिके |
गोजीविने न दातव्या तथा गौः पुरुषर्षभ ||४९||
ददाति तादृशानां वै नरो गाः पापकर्मणाम् |
अक्षयं नरकं यातीत्येवमाहुर्मनीषिणः ||५०||
न कृशां पापवत्सां वा वन्ध्यां रोगान्वितां तथा |
न व्यङ्गां न परिश्रान्तां दद्याद्गां ब्राह्मणाय वै ||५१||
दशगोसहस्रदः सम्यक्षक्रेण सह मोदते |
अक्षयाँल्लभते लोकान्नरः शतसहस्रदः ||५२||
इत्येतद्गोप्रदानं च तिलदानं च कीर्तितम् |
तथा भूमिप्रदानं च शृणुष्वान्ने च भारत ||५३||
अन्नदानं प्रधानं हि कौन्तेय परिचक्षते |
अन्नस्य हि प्रदानेन रन्तिदेवो दिवं गतः ||५४||
श्रान्ताय क्षुधितायान्नं यः प्रयच्छति भूमिप |
स्वायम्भुवं महाभागं स पश्यति नराधिप ||५५||
न हिरण्यैर्न वासोभिर्नाश्वदानेन भारत |
प्राप्नुवन्ति नराः श्रेयो यथेहान्नप्रदाः प्रभो ||५६||
अन्नं वै परमं द्रव्यमन्नं श्रीश्च परा मता |
अन्नात्प्राणः प्रभवति तेजो वीर्यं बलं तथा ||५७||
सद्भ्यो ददाति यश्चान्नं सदैकाग्रमना नरः |
न स दुर्गाण्यवाप्नोतीत्येवमाह पराशरः ||५८||
अर्चयित्वा यथान्यायं देवेभ्योऽन्नं निवेदयेत् |
यदन्नो हि नरो राजंस्तदन्नास्तस्य देवताः ||५९||
कौमुद्यां शुक्लपक्षे तु योऽन्नदानं करोत्युत |
स सन्तरति दुर्गाणि प्रेत्य चानन्त्यमश्नुते ||६०||
अभुक्त्वातिथये चान्नं प्रयच्छेद्यः समाहितः |
स वै ब्रह्मविदां लोकान्प्राप्नुयाद्भरतर्षभ ||६१||
सुकृच्छ्रामापदं प्राप्तश्चान्नदः पुरुषस्तरेत् |
पापं तरति चैवेह दुष्कृतं चापकर्षति ||६२||
इत्येतदन्नदानस्य तिलदानस्य चैव ह |
भूमिदानस्य च फलं गोदानस्य च कीर्तितम् ||६३||
पानीयदानफलम्
६६
युधिष्ठिर उवाच||
श्रुतं दानफलं तात यत्त्वया परिकीर्तितम् |
अन्नं तु ते विशेषेण प्रशस्तमिह भारत ||१||
पानीयदानं परमं कथं चेह महाफलम् |
इत्येतच्छ्रोतुमिच्छामि विस्तरेण पितामह ||२||
भीष्म उवाच||
हन्त ते वर्तयिष्यामि यथावद्भरतर्षभ |
गदतस्तन्ममाद्येह शृणु सत्यपराक्रम ||३||
पानीयदानात्प्रभृति सर्वं वक्ष्यामि तेऽनघ ||३||
यदन्नं यच्च पानीयं सम्प्रदायाश्नुते नरः |
न तस्मात्परमं दानं किञ्चिदस्तीति मे मतिः ||४||
अन्नात्प्राणभृतस्तात प्रवर्तन्ते हि सर्वशः |
तस्मादन्नं परं लोके सर्वदानेषु कथ्यते ||५||
अन्नाद्बलं च तेजश्च प्राणिनां वर्धते सदा |
अन्नदानमतस्तस्माच्छ्रेष्ठमाह प्रजापतिः ||६||
सावित्र्या ह्यपि कौन्तेय श्रुतं ते वचनं शुभम् |
यतश्चैतद्यथा चैतद्देवसत्रे महामते ||७||
अन्ने दत्ते नरेणेह प्राणा दत्ता भवन्त्युत |
प्राणदानाद्धि परमं न दानमिह विद्यते ||८||
श्रुतं हि ते महाबाहो लोमशस्यापि तद्वचः |
प्राणान्दत्त्वा कपोताय यत्प्राप्तं शिबिना पुरा ||९||
तां गतिं लभते दत्त्वा द्विजस्यान्नं विशां पते |
गतिं विशिष्टां गच्छन्ति प्राणदा इति नः श्रुतम् ||१०||
अन्नं चापि प्रभवति पानीयात्कुरुसत्तम |
नीरजातेन हि विना न किञ्चित्सम्प्रवर्तते ||११||
नीरजातश्च भगवान्सोमो ग्रहगणेश्वरः |
अमृतं च सुधा चैव स्वाहा चैव वषट्तथा ||१२||
अन्नौषध्यो महाराज वीरुधश्च जलोद्भवाः |
यतः प्राणभृतां प्राणाः सम्भवन्ति विशां पते ||१३||
देवानाममृतं चान्नं नागानां च सुधा तथा |
पितॄणां च स्वधा प्रोक्ता पशूनां चापि वीरुधः ||१४||
अन्नमेव मनुष्याणां प्राणानाहुर्मनीषिणः |
तच्च सर्वं नरव्याघ्र पानीयात्सम्प्रवर्तते ||१५||
तस्मात्पानीयदानाद्वै न परं विद्यते क्वचित् |
तच्च दद्यान्नरो नित्यं य इच्छेद्भूतिमात्मनः ||१६||
धन्यं यशस्यमायुष्यं जलदानं विशां पते |
शत्रूंश्चाप्यधि कौन्तेय सदा तिष्ठति तोयदः ||१७||
सर्वकामानवाप्नोति कीर्तिं चैवेह शाश्वतीम् |
प्रेत्य चानन्त्यमाप्नोति पापेभ्यश्च प्रमुच्यते ||१८||
तोयदो मनुजव्याघ्र स्वर्गं गत्वा महाद्युते |
अक्षयान्समवाप्नोति लोकानित्यब्रवीन्मनुः ||१९||
तिलादिदानप्रशंसा
६७
युधिष्ठिर उवाच||
तिलानां कीदृशं दानमथ दीपस्य चैव ह |
अन्नानां वाससां चैव भूय एव ब्रवीहि मे ||१||
भीष्म उवाच||
अत्राप्युदाहरन्तीममितिहासं पुरातनम् |
ब्राह्मणस्य च संवादं यमस्य च युधिष्ठिर ||२||
मध्यदेशे महान्ग्रामो ब्राह्मणानां बभूव ह |
गङ्गायमुनयोर्मध्ये यामुनस्य गिरेरधः ||३||
पर्णशालेति विख्यातो रमणीयो नराधिप |
विद्वांसस्तत्र भूयिष्ठा ब्राह्मणाश्चावसंस्तदा ||४||
अथ प्राह यमः कञ्चित्पुरुषं कृष्णवाससम् |
रक्ताक्षमूर्ध्वरोमाणं काकजङ्घाक्षिनासिकम् ||५||
गच्छ त्वं ब्राह्मणग्रामं ततो गत्वा तमानय |
अगस्त्यं गोत्रतश्चापि नामतश्चापि शर्मिणम् ||६||
शमे निविष्टं विद्वांसमध्यापकमनादृतम् |
मा चान्यमानयेथास्त्वं सगोत्रं तस्य पार्श्वतः ||७||
स हि तादृग्गुणस्तेन तुल्योऽध्ययनजन्मना |
अपत्येषु तथा वृत्ते समस्तेनैव धीमता ||८||
तमानय यथोद्दिष्टं पूजा कार्या हि तस्य मे ||८||
स गत्वा प्रतिकूलं तच्चकार यमशासनम् |
तमाक्रम्यानयामास प्रतिषिद्धो यमेन यः ||९||
तस्मै यमः समुत्थाय पूजां कृत्वा च वीर्यवान् |
प्रोवाच नीयतामेष सोऽन्य आनीयतामिति ||१०||
एवमुक्ते तु वचने धर्मराजेन स द्विजः |
उवाच धर्मराजानं निर्विण्णोऽध्ययनेन वै ||११||
यो मे कालो भवेच्छेषस्तं वसेयमिहाच्युत ||११||
यम उवाच||
नाहं कालस्य विहितं प्राप्नोमीह कथञ्चन |
यो हि धर्मं चरति वै तं तु जानामि केवलम् ||१२||
गच्छ विप्र त्वमद्यैव आलयं स्वं महाद्युते |
ब्रूहि वा त्वं यथा स्वैरं करवाणि किमित्युत ||१३||
ब्राह्मण उवाच||
यत्तत्र कृत्वा सुमहत्पुण्यं स्यात्तद्ब्रवीहि मे |
सर्वस्य हि प्रमाणं त्वं त्रैलोक्यस्यापि सत्तम ||१४||
यम उवाच||
शृणु तत्त्वेन विप्रर्षे प्रदानविधिमुत्तमम् |
तिलाः परमकं दानं पुण्यं चैवेह शाश्वतम् ||१५||
तिलाश्च सम्प्रदातव्या यथाशक्ति द्विजर्षभ |
नित्यदानात्सर्वकामांस्तिला निर्वर्तयन्त्युत ||१६||
तिलाञ्श्राद्धे प्रशंसन्ति दानमेतद्ध्यनुत्तमम् |
तान्प्रयच्छस्व विप्रेभ्यो विधिदृष्टेन कर्मणा ||१७||
तिला भक्षयितव्याश्च सदा त्वालभनं च तैः |
कार्यं सततमिच्छद्भिः श्रेयः सर्वात्मना गृहे ||१८||
तथापः सर्वदा देयाः पेयाश्चैव न संशयः |
पुष्करिण्यस्तडागानि कूपांश्चैवात्र खानयेत् ||१९||
एतत्सुदुर्लभतरमिह लोके द्विजोत्तम |
आपो नित्यं प्रदेयास्ते पुण्यं ह्येतदनुत्तमम् ||२०||
प्रपाश्च कार्याः पानार्थं नित्यं ते द्विजसत्तम |
भुक्तेऽप्यथ प्रदेयं ते पानीयं वै विशेषतः ||२१||
इत्युक्ते स तदा तेन यमदूतेन वै गृहान् |
नीतश्चकार च तथा सर्वं तद्यमशासनम् ||२२||
नीत्वा तं यमदूतोऽपि गृहीत्वा शर्मिणं तदा |
ययौ स धर्मराजाय न्यवेदयत चापि तम् ||२३||
तं धर्मराजो धर्मज्ञं पूजयित्वा प्रतापवान् |
कृत्वा च संविदं तेन विससर्ज यथागतम् ||२४||
तस्यापि च यमः सर्वमुपदेशं चकार ह |
प्रत्येत्य च स तत्सर्वं चकारोक्तं यमेन तत् ||२५||
तथा प्रशंसते दीपान्यमः पितृहितेप्सया |
तस्माद्दीपप्रदो नित्यं सन्तारयति वै पितॄन् ||२६||
दातव्याः सततं दीपास्तस्माद्भरतसत्तम |
देवानां च पितॄणां च चक्षुष्यास्ते मताः प्रभो ||२७||
रत्नदानं च सुमहत्पुण्यमुक्तं जनाधिप |
तानि विक्रीय यजते ब्राह्मणो ह्यभयङ्करः ||२८||
यद्वै ददाति विप्रेभ्यो ब्राह्मणः प्रतिगृह्य वै |
उभयोः स्यात्तदक्षय्यं दातुरादातुरेव च ||२९||
यो ददाति स्थितः स्थित्यां तादृशाय प्रतिग्रहम् |
उभयोरक्षयं धर्मं तं मनुः प्राह धर्मवित् ||३०||
वाससां तु प्रदानेन स्वदारनिरतो नरः |
सुवस्त्रश्च सुवेषश्च भवतीत्यनुशुश्रुम ||३१||
गावः सुवर्णं च तथा तिलाश्चैवानुवर्णिताः |
बहुशः पुरुषव्याघ्र वेदप्रामाण्यदर्शनात् ||३२||
विवाहांश्चैव कुर्वीत पुत्रानुत्पादयेत च |
पुत्रलाभो हि कौरव्य सर्वलाभाद्विशिष्यते ||३३||
गोदानफलम्
६८
युधिष्ठिर उवाच||
भूय एव कुरुश्रेष्ठ दानानां विधिमुत्तमम् |
कथयस्व महाप्राज्ञ भूमिदानं विशेषतः ||१||
पृथिवीं क्षत्रियो दद्याद्ब्राह्मणस्तां स्वकर्मणा |
विधिवत्प्रतिगृह्णीयान्न त्वन्यो दातुमर्हति ||२||
सर्ववर्णैस्तु यच्छक्यं प्रदातुं फलकाङ्क्षिभिः |
वेदे वा यत्समाम्नातं तन्मे व्याख्यातुमर्हसि ||३||
भीष्म उवाच||
तुल्यनामानि देयानि त्रीणि तुल्यफलानि च |
सर्वकामफलानीह गावः पृथ्वी सरस्वती ||४||
यो ब्रूयाच्चापि शिष्याय धर्म्यां ब्राह्मीं सरस्वतीम् |
पृथिवीगोप्रदानाभ्यां स तुल्यं फलमश्नुते ||५||
तथैव गाः प्रशंसन्ति न च देयं ततः परम् |
संनिकृष्टफलास्ता हि लघ्वर्थाश्च युधिष्ठिर ||६||
मातरः सर्वभूतानां गावः सर्वसुखप्रदाः ||६||
वृद्धिमाकाङ्क्षता नित्यं गावः कार्याः प्रदक्षिणाः |
मङ्गलायतनं देव्यस्तस्मात्पूज्याः सदैव हि ||७||
प्रचोदनं देवकृतं गवां कर्मसु वर्तताम् |
पूर्वमेवाक्षरं नान्यदभिधेयं कथञ्चन ||८||
प्रचारे वा निपाने वा बुधो नोद्वेजयेत गाः |
तृषिता ह्यभिवीक्षन्त्यो नरं हन्युः सबान्धवम् ||९||
पितृसद्मानि सततं देवतायतनानि च |
पूयन्ते शकृता यासां पूतं किमधिकं ततः ||१०||
ग्रासमुष्टिं परगवे दद्यात्संवत्सरं तु यः |
अकृत्वा स्वयमाहारं व्रतं तत्सार्वकामिकम् ||११||
स हि पुत्रान्यशोर्थं च श्रियं चाप्यधिगच्छति |
नाशयत्यशुभं चैव दुःस्वप्नं च व्यपोहति ||१२||
युधिष्ठिर उवाच||
देयाः किंलक्षणा गावः काश्चापि परिवर्जयेत् |
कीदृशाय प्रदातव्या न देयाः कीदृशाय च ||१३||
भीष्म उवाच||
असद्वृत्ताय पापाय लुब्धायानृतवादिने |
हव्यकव्यव्यपेताय न देया गौः कथञ्चन ||१४||
भिक्षवे बहुपुत्राय श्रोत्रियायाहिताग्नये |
दत्त्वा दशगवां दाता लोकानाप्नोत्यनुत्तमान् ||१५||
यं चैव धर्मं कुरुते तस्य पुण्यफलं च यत् |
सर्वस्यैवांशभाग्दाता तन्निमित्तं प्रवृत्तयः ||१६||
यश्चैनमुत्पादयति यश्चैनं त्रायते भयात् |
यश्चास्य कुरुते वृत्तिं सर्वे ते पितरस्त्रयः ||१७||
कल्मषं गुरुशुश्रूषा हन्ति मानो महद्यशः |
अपुत्रतां त्रयः पुत्रा अवृत्तिं दश धेनवः ||१८||
वेदान्तनिष्ठस्य बहुश्रुतस्य; प्रज्ञानतृप्तस्य जितेन्द्रियस्य |
शिष्टस्य दान्तस्य यतस्य चैव; भूतेषु नित्यं प्रियवादिनश्च ||१९||
यः क्षुद्भयाद्वै न विकर्म कुर्या; न्मृदुर्दान्तश्चातिथेयश्च नित्यम् |
वृत्तिं विप्रायातिसृजेत तस्मै; यस्तुल्यशीलश्च सपुत्रदारः ||२०||
शुभे पात्रे ये गुणा गोप्रदाने; तावान्दोषो ब्राह्मणस्वापहारे |
सर्वावस्थं ब्राह्मणस्वापहारो; दाराश्चैषां दूरतो वर्जनीयाः ||२१||
नृगोपाख्यानम्
६९
भीष्म उवाच||
अत्रैव कीर्त्यते सद्भिर्ब्राह्मणस्वाभिमर्शने |
नृगेण सुमहत्कृच्छ्रं यदवाप्तं कुरूद्वह ||१||
निविशन्त्यां पुरा पार्थ द्वारवत्यामिति श्रुतिः |
अदृश्यत महाकूपस्तृणवीरुत्समावृतः ||२||
प्रयत्नं तत्र कुर्वाणास्तस्मात्कूपाज्जलार्थिनः |
श्रमेण महता युक्तास्तस्मिंस्तोये सुसंवृते ||३||
ददृशुस्ते महाकायं कृकलासमवस्थितम् |
तस्य चोद्धरणे यत्नमकुर्वंस्ते सहस्रशः ||४||
प्रग्रहैश्चर्मपट्टैश्च तं बद्ध्वा पर्वतोपमम् |
नाशक्नुवन्समुद्धर्तुं ततो जग्मुर्जनार्दनम् ||५||
खमावृत्योदपानस्य कृकलासः स्थितो महान् |
तस्य नास्ति समुद्धर्तेत्यथ कृष्णे न्यवेदयन् ||६||
स वासुदेवेन समुद्धृतश्च; पृष्टश्च कामान्निजगाद राजा |
नृगस्तदात्मानमथो न्यवेदय; त्पुरातनं यज्ञसहस्रयाजिनम् ||७||
तथा ब्रुवाणं तु तमाह माधवः; शुभं त्वया कर्म कृतं न पापकम् |
कथं भवान्दुर्गतिमीदृशीं गतो; नरेन्द्र तद्ब्रूहि किमेतदीदृशम् ||८||
शतं सहस्राणि शतं गवां पुनः; पुनः शतान्यष्ट शतायुतानि |
त्वया पुरा दत्तमितीह शुश्रुम; नृप द्विजेभ्यः क्व नु तद्गतं तव ||९||
नृगस्ततोऽब्रवीत्कृष्णं ब्राह्मणस्याग्निहोत्रिणः |
प्रोषितस्य परिभ्रष्टा गौरेका मम गोधने ||१०||
गवां सहस्रे सङ्ख्याता तदा सा पशुपैर्मम |
सा ब्राह्मणाय मे दत्ता प्रेत्यार्थमभिकाङ्क्षता ||११||
अपश्यत्परिमार्गंश्च तां यां परगृहे द्विजः |
ममेयमिति चोवाच ब्राह्मणो यस्य साभवत् ||१२||
तावुभौ समनुप्राप्तौ विवदन्तौ भृशज्वरौ |
भवान्दाता भवान्हर्तेत्यथ तौ मां तदोचतुः ||१३||
शतेन शतसङ्ख्येन गवां विनिमयेन वै |
याचे प्रतिग्रहीतारं स तु मामब्रवीदिदम् ||१४||
देशकालोपसम्पन्ना दोग्ध्री क्षान्तातिवत्सला |
स्वादुक्षीरप्रदा धन्या मम नित्यं निवेशने ||१५||
कृशं च भरते या गौर्मम पुत्रमपस्तनम् |
न सा शक्या मया हातुमित्युक्त्वा स जगाम ह ||१६||
ततस्तमपरं विप्रं याचे विनिमयेन वै |
गवां शतसहस्रं वै तत्कृते गृह्यतामिति ||१७||
ब्राह्मण उवाच||
न राज्ञां प्रतिगृह्णामि शक्तोऽहं स्वस्य मार्गणे |
सैव गौर्दीयतां शीघ्रं ममेति मधुसूदन ||१८||
रुक्ममश्वांश्च ददतो रजतं स्यन्दनांस्तथा |
न जग्राह ययौ चापि तदा स ब्राह्मणर्षभः ||१९||
एतस्मिन्नेव काले तु चोदितः कालधर्मणा |
पितृलोकमहं प्राप्य धर्मराजमुपागमम् ||२०||
यमस्तु पूजयित्वा मां ततो वचनमब्रवीत् |
नान्तः सङ्ख्यायते राजंस्तव पुण्यस्य कर्मणः ||२१||
अस्ति चैव कृतं पापमज्ञानात्तदपि त्वया |
चरस्व पापं पश्चाद्वा पूर्वं वा त्वं यथेच्छसि ||२२||
रक्षितास्मीति चोक्तं ते प्रतिज्ञा चानृता तव |
ब्राह्मणस्वस्य चादानं त्रिविधस्ते व्यतिक्रमः ||२३||
पूर्वं कृच्छ्रं चरिष्येऽहं पश्चाच्छुभमिति प्रभो |
धर्मराजं ब्रुवन्नेवं पतितोऽस्मि महीतले ||२४||
अश्रौषं प्रच्युतश्चाहं यमस्योच्चैः प्रभाषतः |
वासुदेवः समुद्धर्ता भविता ते जनार्दनः ||२५||
पूर्णे वर्षसहस्रान्ते क्षीणे कर्मणि दुष्कृते |
प्राप्स्यसे शाश्वताँल्लोकाञ्जितान्स्वेनैव कर्मणा ||२६||
कूपेऽऽत्मानमधःशीर्षमपश्यं पतितं च ह |
तिर्यग्योनिमनुप्राप्तं न तु मामजहात्स्मृतिः ||२७||
त्वया तु तारितोऽस्म्यद्य किमन्यत्र तपोबलात् |
अनुजानीहि मां कृष्ण गच्छेयं दिवमद्य वै ||२८||
अनुज्ञातः स कृष्णेन नमस्कृत्य जनार्दनम् |
विमानं दिव्यमास्थाय ययौ दिवमरिंदम ||२९||
ततस्तस्मिन्दिवं प्राप्ते नृगे भरतसत्तम |
वासुदेव इमं श्लोकं जगाद कुरुनन्दन ||३०||
ब्राह्मणस्वं न हर्तव्यं पुरुषेण विजानता |
ब्राह्मणस्वं हृतं हन्ति नृगं ब्राह्मणगौरिव ||३१||
सतां समागमः सद्भिर्नाफलः पार्थ विद्यते |
विमुक्तं नरकात्पश्य नृगं साधुसमागमात् ||३२||
प्रदानं फलवत्तत्र द्रोहस्तत्र तथाफलः |
अपचारं गवां तस्माद्वर्जयेत युधिष्ठिर ||३३||
नाचिकेतोपाख्यानम्
७०
युधिष्ठिर उवाच||
दत्तानां फलसम्प्राप्तिं गवां प्रब्रूहि मेऽनघ |
विस्तरेण महाबाहो न हि तृप्यामि कथ्यताम् ||१||
भीष्म उवाच||
अत्राप्युदाहरन्तीममितिहासं पुरातनम् |
ऋषेरुद्दालकेर्वाक्यं नाचिकेतस्य चोभयोः ||२||
ऋषिरुद्दालकिर्दीक्षामुपगम्य ततः सुतम् |
त्वं मामुपचरस्वेति नाचिकेतमभाषत ||३||
समाप्ते नियमे तस्मिन्महर्षिः पुत्रमब्रवीत् ||३||
उपस्पर्शनसक्तस्य स्वाध्यायनिरतस्य च |
इध्मा दर्भाः सुमनसः कलशश्चाभितो जलम् ||४||
विस्मृतं मे तदादाय नदीतीरादिहाव्रज ||४||
गत्वानवाप्य तत्सर्वं नदीवेगसमाप्लुतम् |
न पश्यामि तदित्येवं पितरं सोऽब्रवीन्मुनिः ||५||
क्षुत्पिपासाश्रमाविष्टो मुनिरुद्दालकिस्तदा |
यमं पश्येति तं पुत्रमशपत्स महातपाः ||६||
तथा स पित्राभिहतो वाग्वज्रेण कृताञ्जलिः |
प्रसीदेति ब्रुवन्नेव गतसत्त्वोऽपतद्भुवि ||७||
नाचिकेतं पिता दृष्ट्वा पतितं दुःखमूर्छितः |
किं मया कृतमित्युक्त्वा निपपात महीतले ||८||
तस्य दुःखपरीतस्य स्वं पुत्रमुपगूहतः |
व्यतीतं तदहःशेषं सा चोग्रा तत्र शर्वरी ||९||
पित्र्येणाश्रुप्रपातेन नाचिकेतः कुरूद्वह |
प्रास्पन्दच्छयने कौश्ये वृष्ट्या सस्यमिवाप्लुतम् ||१०||
स पर्यपृच्छत्तं पुत्रं श्लाघ्यं प्रत्यागतं पुनः |
दिव्यैर्गन्धैः समादिग्धं क्षीणस्वप्नमिवोत्थितम् ||११||
अपि पुत्र जिता लोकाः शुभास्ते स्वेन कर्मणा |
दिष्ट्या चासि पुनः प्राप्तो न हि ते मानुषं वपुः ||१२||
प्रत्यक्षदर्शी सर्वस्य पित्रा पृष्टो महात्मना |
अन्वर्थं तं पितुर्मध्ये महर्षीणां न्यवेदयत् ||१३||
कुर्वन्भवच्छासनमाशु यातो; ह्यहं विशालां रुचिरप्रभावाम् |
वैवस्वतीं प्राप्य सभामपश्यं; सहस्रशो योजनहैमभौमाम् ||१४||
दृष्ट्वैव मामभिमुखमापतन्तं; गृहं निवेद्यासनमादिदेश |
वैवस्वतोऽर्घ्यादिभिरर्हणैश्च; भवत्कृते पूजयामास मां सः ||१५||
ततस्त्वहं तं शनकैरवोचं; वृतं सदस्यैरभिपूज्यमानम् |
प्राप्तोऽस्मि ते विषयं धर्मराज; लोकानर्हे यान्स्म तान्मे विधत्स्व ||१६||
यमोऽब्रवीन्मां न मृतोऽसि सौम्य; यमं पश्येत्याह तु त्वां तपस्वी |
पिता प्रदीप्ताग्निसमानतेजा; न तच्छक्यमनृतं विप्र कर्तुम् ||१७||
दृष्टस्तेऽहं प्रतिगच्छस्व तात; शोचत्यसौ तव देहस्य कर्ता |
ददामि किं चापि मनःप्रणीतं; प्रियातिथे तव कामान्वृणीष्व ||१८||
तेनैवमुक्तस्तमहं प्रत्यवोचं; प्राप्तोऽस्मि ते विषयं दुर्निवर्त्यम् |
इच्छाम्यहं पुण्यकृतां समृद्धाँ; ल्लोकान्द्रष्टुं यदि तेऽहं वरार्हः ||१९||
यानं समारोप्य तु मां स देवो; वाहैर्युक्तं सुप्रभं भानुमन्तम् |
संदर्शयामास तदा स्म लोका; न्सर्वांस्तदा पुण्यकृतां द्विजेन्द्र ||२०||
अपश्यं तत्र वेश्मानि तैजसानि कृतात्मनाम् |
नानासंस्थानरूपाणि सर्वरत्नमयानि च ||२१||
चन्द्रमण्डलशुभ्राणि किङ्किणीजालवन्ति च |
अनेकशतभौमानि सान्तर्जलवनानि च ||२२||
वैडूर्यार्कप्रकाशानि रूप्यरुक्ममयानि च |
तरुणादित्यवर्णानि स्थावराणि चराणि च ||२३||
भक्ष्यभोज्यमयाञ्शैलान्वासांसि शयनानि च |
सर्वकामफलांश्चैव वृक्षान्भवनसंस्थितान् ||२४||
नद्यो वीथ्यः सभा वापी दीर्घिकाश्चैव सर्वशः |
घोषवन्ति च यानानि युक्तान्येव सहस्रशः ||२५||
क्षीरस्रवा वै सरितो गिरींश्च; सर्पिस्तथा विमलं चापि तोयम् |
वैवस्वतस्यानुमतांश्च देशा; नदृष्टपूर्वान्सुबहूनपश्यम् ||२६||
सर्वं दृष्ट्वा तदहं धर्मराज; मवोचं वै प्रभविष्णुं पुराणम् |
क्षीरस्यैताः सर्पिषश्चैव नद्यः; शश्वत्स्रोताः कस्य भोज्याः प्रदिष्टाः ||२७||
यमोऽब्रवीद्विद्धि भोज्यास्त्वमेता; ये दातारः साधवो गोरसानाम् |
अन्ये लोकाः शाश्वता वीतशोकाः; समाकीर्णा गोप्रदाने रतानाम् ||२८||
न त्वेवासां दानमात्रं प्रशस्तं; पात्रं कालो गोविशेषो विधिश्च |
ज्ञात्वा देया विप्र गवान्तरं हि; दुःखं ज्ञातुं पावकादित्यभूतम् ||२९||
स्वाध्यायाढ्यो योऽतिमात्रं तपस्वी; वैतानस्थो ब्राह्मणः पात्रमासाम् |
कृच्छ्रोत्सृष्टाः पोषणाभ्यागताश्च; द्वारैरेतैर्गोविशेषाः प्रशस्ताः ||३०||
तिस्रो रात्रीरद्भिरुपोष्य भूमौ; तृप्ता गावस्तर्पितेभ्यः प्रदेयाः |
वत्सैः प्रीताः सुप्रजाः सोपचारा; स्त्र्यहं दत्त्वा गोरसैर्वर्तितव्यम् ||३१||
दत्त्वा धेनुं सुव्रतां कांस्यदोहां; कल्याणवत्सामपलायिनीं च |
यावन्ति लोमानि भवन्ति तस्या; स्तावद्वर्षाण्यश्नुते स्वर्गलोकम् ||३२||
तथानड्वाहं ब्राह्मणाय प्रदाय; दान्तं धुर्यं बलवन्तं युवानम् |
कुलानुजीवं वीर्यवन्तं बृहन्तं; भुङ्क्ते लोकान्संमितान्धेनुदस्य ||३३||
गोषु क्षान्तं गोशरण्यं कृतज्ञं; वृत्तिग्लानं तादृशं पात्रमाहुः |
वृत्तिग्लाने सम्भ्रमे वा महार्थे; कृष्यर्थे वा होमहेतोः प्रसूत्याम् ||३४||
गुर्वर्थे वा बालपुष्ट्याभिषङ्गा; द्गावो दातुं देशकालोऽविशिष्टः |
अन्तर्जाताः सुक्रयज्ञानलब्धाः; प्राणक्रीता निर्जिताश्चौदकाश्च ||३५||
नाचिकेत उवाच||
श्रुत्वा वैवस्वतवचस्तमहं पुनरब्रुवम् |
अगोमी गोप्रदातॄणां कथं लोकान्निगच्छति ||३६||
ततो यमोऽब्रवीद्धीमान्गोप्रदाने परां गतिम् |
गोप्रदानानुकल्पं तु गामृते सन्ति गोप्रदाः ||३७||
अलाभे यो गवां दद्याद्घृतधेनुं यतव्रतः |
तस्यैता घृतवाहिन्यः क्षरन्ते वत्सला इव ||३८||
घृतालाभे च यो दद्यात्तिलधेनुं यतव्रतः |
स दुर्गात्तारितो धेन्वा क्षीरनद्यां प्रमोदते ||३९||
तिलालाभे च यो दद्याज्जलधेनुं यतव्रतः |
स कामप्रवहां शीतां नदीमेतामुपाश्नुते ||४०||
एवमादीनि मे तत्र धर्मराजो न्यदर्शयत् |
दृष्ट्वा च परमं हर्षमवापमहमच्युत ||४१||
निवेदये चापि प्रियं भवत्सु; क्रतुर्महानल्पधनप्रचारः |
प्राप्तो मया तात स मत्प्रसूतः; प्रपत्स्यते वेदविधिप्रवृत्तः ||४२||
शापो ह्ययं भवतोऽनुग्रहाय; प्राप्तो मया यत्र दृष्टो यमो मे |
दानव्युष्टिं तत्र दृष्ट्वा महार्थां; निःसंदिग्धं दानधर्मांश्चरिष्ये ||४३||
इदं च मामब्रवीद्धर्मराजः; पुनः पुनः सम्प्रहृष्टो द्विजर्षे |
दानेन तात प्रयतोऽभूः सदैव; विशेषतो गोप्रदानं च कुर्याः ||४४||
शुद्धो ह्यर्थो नावमन्यः स्वधर्मा; त्पात्रे देयं देशकालोपपन्ने |
तस्माद्गावस्ते नित्यमेव प्रदेया; मा भूच्च ते संशयः कश्चिदत्र ||४५||
एताः पुरा अददन्नित्यमेव; शान्तात्मानो दानपथे निविष्टाः |
तपांस्युग्राण्यप्रतिशङ्कमाना; स्ते वै दानं प्रददुश्चापि शक्त्या ||४६||
काले शक्त्या मत्सरं वर्जयित्वा; शुद्धात्मानः श्रद्धिनः पुण्यशीलाः |
दत्त्वा तप्त्वा लोकममुं प्रपन्ना; देदीप्यन्ते पुण्यशीलाश्च नाके ||४७||
एतद्दानं न्यायलब्धं द्विजेभ्यः; पात्रे दत्तं प्रापणीयं परीक्ष्य |
काम्याष्टम्यां वर्तितव्यं दशाहं; रसैर्गवां शकृता प्रस्नवैर्वा ||४८||
वेदव्रती स्याद्वृषभप्रदाता; वेदावाप्तिर्गोयुगस्य प्रदाने |
तीर्थावाप्तिर्गोप्रयुक्तप्रदाने; पापोत्सर्गः कपिलायाः प्रदाने ||४९||
गामप्येकां कपिलां सम्प्रदाय; न्यायोपेतां कल्मषाद्विप्रमुच्येत् |
गवां रसात्परमं नास्ति किं चि; द्गवां दानं सुमहत्तद्वदन्ति ||५०||
गावो लोकान्धारयन्ति क्षरन्त्यो; गावश्चान्नं सञ्जनयन्ति लोके |
यस्तज्जानन्न गवां हार्दमेति; स वै गन्ता निरयं पापचेताः ||५१||
यत्ते दातुं गोसहस्रं शतं वा; शतार्धं वा दश वा साधुवत्साः |
अप्येकां वा साधवे ब्राह्मणाय; सास्यामुष्मिन्पुण्यतीर्था नदी वै ||५२||
प्राप्त्या पुष्ट्या लोकसंरक्षणेन; गावस्तुल्याः सूर्यपादैः पृथिव्याम् |
शब्दश्चैकः सन्ततिश्चोपभोग; स्तस्माद्गोदः सूर्य इवाभिभाति ||५३||
गुरुं शिष्यो वरयेद्गोप्रदाने; स वै वक्ता नियतं स्वर्गदाता |
विधिज्ञानां सुमहानेष धर्मो; विधिं ह्याद्यं विधयः संश्रयन्ति ||५४||
एतद्दानं न्यायलब्धं द्विजेभ्यः; पात्रे दत्त्वा प्रापयेथाः परीक्ष्य |
त्वय्याशंसन्त्यमरा मानवाश्च; वयं चापि प्रसृते पुण्यशीलाः ||५५||
इत्युक्तोऽहं धर्मराज्ञा महर्षे; धर्मात्मानं शिरसाभिप्रणम्य |
अनुज्ञातस्तेन वैवस्वतेन; प्रत्यागमं भगवत्पादमूलम् ||५६||
गोप्रदानिकम्
७१
युधिष्ठिर उवाच||
उक्तं वै गोप्रदानं ते नाचिकेतमृषिं प्रति |
माहात्म्यमपि चैवोक्तमुद्देशेन गवां प्रभो ||१||
नृगेण च यथा दुःखमनुभूतं महात्मना |
एकापराधादज्ञानात्पितामह महामते ||२||
द्वारवत्यां यथा चासौ निविशन्त्यां समुद्धृतः |
मोक्षहेतुरभूत्कृष्णस्तदप्यवधृतं मया ||३||
किं त्वस्ति मम संदेहो गवां लोकं प्रति प्रभो |
तत्त्वतः श्रोतुमिच्छामि गोदा यत्र विशन्त्युत ||४||
भीष्म उवाच||
अत्राप्युदाहरन्तीममितिहासं पुरातनम् |
यथापृच्छत्पद्मयोनिमेतदेव शतक्रतुः ||५||
शक्र उवाच||
स्वर्लोकवासिनां लक्ष्मीमभिभूय स्वया त्विषा |
गोलोकवासिनः पश्ये व्रजतः संशयोऽत्र मे ||६||
कीदृशा भगवँल्लोका गवां तद्ब्रूहि मेऽनघ |
यानावसन्ति दातार एतदिच्छामि वेदितुम् ||७||
कीदृशाः किम्फलाः कः स्वित्परमस्तत्र वै गुणः |
कथं च पुरुषास्तत्र गच्छन्ति विगतज्वराः ||८||
कियत्कालं प्रदानस्य दाता च फलमश्नुते |
कथं बहुविधं दानं स्यादल्पमपि वा कथम् ||९||
बह्वीनां कीदृशं दानमल्पानां वापि कीदृशम् |
अदत्त्वा गोप्रदाः सन्ति केन वा तच्च शंस मे ||१०||
कथं च बहुदाता स्यादल्पदात्रा समः प्रभो |
अल्पप्रदाता बहुदः कथं च स्यादिहेश्वर ||११||
कीदृशी दक्षिणा चैव गोप्रदाने विशिष्यते |
एतत्तथ्येन भगवन्मम शंसितुमर्हसि ||१२||
७२
ब्रह्मोवाच||
योऽयं प्रश्नस्त्वया पृष्टो गोप्रदानाधिकारवान् |
नास्य प्रष्टास्ति लोकेऽस्मिंस्त्वत्तोऽन्यो हि शतक्रतो ||१||
सन्ति नानाविधा लोका यांस्त्वं शक्र न पश्यसि |
पश्यामि यानहं लोकानेकपत्न्यश्च याः स्त्रियः ||२||
कर्मभिश्चापि सुशुभैः सुव्रता ऋषयस्तथा |
सशरीरा हि तान्यान्ति ब्राह्मणाः शुभवृत्तयः ||३||
शरीरन्यासमोक्षेण मनसा निर्मलेन च |
स्वप्नभूतांश्च ताँल्लोकान्पश्यन्तीहापि सुव्रताः ||४||
ते तु लोकाः सहस्राक्ष शृणु यादृग्गुणान्विताः |
न तत्र क्रमते कालो न जरा न च पापकम् ||५||
तथान्यन्नाशुभं किञ्चिन्न व्याधिस्तत्र न क्लमः ||५||
यद्यच्च गावो मनसा तस्मिन्वाञ्छन्ति वासव |
तत्सर्वं प्रापयन्ति स्म मम प्रत्यक्षदर्शनात् ||६||
कामगाः कामचारिण्यः कामात्कामांश्च भुञ्जते ||६||
वाप्यः सरांसि सरितो विविधानि वनानि च |
गृहाणि पर्वताश्चैव यावद्द्रव्यं च किञ्चन ||७||
मनोज्ञं सर्वभूतेभ्यः सर्वं तत्र प्रदृश्यते |
ईदृशान्विद्धि ताँल्लोकान्नास्ति लोकस्ततोऽधिकः ||८||
तत्र सर्वसहाः क्षान्ता वत्सला गुरुवर्तिनः |
अहङ्कारैर्विरहिता यान्ति शक्र नरोत्तमाः ||९||
यः सर्वमांसानि न भक्षयीत; पुमान्सदा यावदन्ताय युक्तः |
मातापित्रोरर्चिता सत्ययुक्तः; शुश्रूषिता ब्राह्मणानामनिन्द्यः ||१०||
अक्रोधनो गोषु तथा द्विजेषु; धर्मे रतो गुरुशुश्रूषकश्च |
यावज्जीवं सत्यवृत्ते रतश्च; दाने रतो यः क्षमी चापराधे ||११||
मृदुर्दान्तो देवपरायणश्च; सर्वातिथिश्चापि तथा दयावान् |
ईदृग्गुणो मानवः सम्प्रयाति; लोकं गवां शाश्वतं चाव्ययं च ||१२||
न पारदारी पश्यति लोकमेनं; न वै गुरुघ्नो न मृषाप्रलापी |
सदापवादी ब्राह्मणः शान्तवेदो; दोषैरन्यैर्यश्च युक्तो दुरात्मा ||१३||
न मित्रध्रुङ्नैकृतिकः कृतघ्नः; शठोऽनृजुर्धर्मविद्वेषकश्च |
न ब्रह्महा मनसापि प्रपश्ये; द्गवां लोकं पुण्यकृतां निवासम् ||१४||
एतत्ते सर्वमाख्यातं नैपुणेन सुरेश्वर |
गोप्रदानरतानां तु फलं शृणु शतक्रतो ||१५||
दायाद्यलब्धैरर्थैर्यो गाः क्रीत्वा सम्प्रयच्छति |
धर्मार्जितधनक्रीतान्स लोकानश्नुतेऽक्षयान् ||१६||
यो वै द्यूते धनं जित्वा गाः क्रीत्वा सम्प्रयच्छति |
स दिव्यमयुतं शक्र वर्षाणां फलमश्नुते ||१७||
दायाद्या यस्य वै गावो न्यायपूर्वैरुपार्जिताः |
प्रदत्तास्ताः प्रदातॄणां सम्भवन्त्यक्षया ध्रुवाः ||१८||
प्रतिगृह्य च यो दद्याद्गाः सुशुद्धेन चेतसा |
तस्यापीहाक्षयाँल्लोकान्ध्रुवान्विद्धि शचीपते ||१९||
जन्मप्रभृति सत्यं च यो ब्रूयान्नियतेन्द्रियः |
गुरुद्विजसहः क्षान्तस्तस्य गोभिः समा गतिः ||२०||
न जातु ब्राह्मणो वाच्यो यदवाच्यं शचीपते |
मनसा गोषु न द्रुह्येद्गोवृत्तिर्गोनुकम्पकः ||२१||
सत्ये धर्मे च निरतस्तस्य शक्र फलं शृणु |
गोसहस्रेण समिता तस्य धेनुर्भवत्युत ||२२||
क्षत्रियस्य गुणैरेभिरन्वितस्य फलं शृणु |
तस्यापि शततुल्या गौर्भवतीति विनिश्चयः ||२३||
वैश्यस्यैते यदि गुणास्तस्य पञ्चाशतं भवेत् |
शूद्रस्यापि विनीतस्य चतुर्भागफलं स्मृतम् ||२४||
एतच्चैवं योऽनुतिष्ठेत युक्तः; सत्येन युक्तो गुरुशुश्रूषया च |
दान्तः क्षान्तो देवतार्ची प्रशान्तः; शुचिर्बुद्धो धर्मशीलोऽनहंवाक् ||२५||
महत्फलं प्राप्नुते स द्विजाय; दत्त्वा दोग्ध्रीं विधिनानेन धेनुम् |
नित्यं दद्यादेकभक्तः सदा च; सत्ये स्थितो गुरुशुश्रूषिता च ||२६||
वेदाध्यायी गोषु यो भक्तिमांश्च; नित्यं दृष्ट्वा योऽभिनन्देत गाश्च |
आ जातितो यश्च गवां नमेत; इदं फलं शक्र निबोध तस्य ||२७||
यत्स्यादिष्ट्वा राजसूये फलं तु; यत्स्यादिष्ट्वा बहुना काञ्चनेन |
एतत्तुल्यं फलमस्याहुरग्र्यं; सर्वे सन्तस्त्वृषयो ये च सिद्धाः ||२८||
योऽग्रं भक्तान्किञ्चिदप्राश्य दद्या; द्गोभ्यो नित्यं गोव्रती सत्यवादी |
शान्तो बुद्धो गोसहस्रस्य पुण्यं; संवत्सरेणाप्नुयात्पुण्यशीलः ||२९||
य एकं भक्तमश्नीयाद्दद्यादेकं गवां च यत् |
दश वर्षाण्यनन्तानि गोव्रती गोनुकम्पकः ||३०||
एकेनैव च भक्तेन यः क्रीत्वा गां प्रयच्छति |
यावन्ति तस्य प्रोक्तानि दिवसानि शतक्रतो ||३१||
तावच्छतानां स गवां फलमाप्नोति शाश्वतम् ||३१||
ब्राह्मणस्य फलं हीदं क्षत्रियेऽभिहितं शृणु |
पञ्चवार्षिकमेतत्तु क्षत्रियस्य फलं स्मृतम् ||३२||
ततोऽर्धेन तु वैश्यस्य शूद्रो वैश्यार्धतः स्मृतः ||३२||
यश्चात्मविक्रयं कृत्वा गाः क्रीत्वा सम्प्रयच्छति |
यावतीः स्पर्शयेद्गा वै तावत्तु फलमश्नुते ||३३||
लोम्नि लोम्नि महाभाग लोकाश्चास्याक्षयाः स्मृताः ||३३||
सङ्ग्रामेष्वर्जयित्वा तु यो वै गाः सम्प्रयच्छति |
आत्मविक्रयतुल्यास्ताः शाश्वता विद्धि कौशिक ||३४||
अलाभे यो गवां दद्यात्तिलधेनुं यतव्रतः |
दुर्गात्स तारितो धेन्वा क्षीरनद्यां प्रमोदते ||३५||
न त्वेवासां दानमात्रं प्रशस्तं; पात्रं कालो गोविशेषो विधिश्च |
कालज्ञानं विप्र गवान्तरं हि; दुःखं ज्ञातुं पावकादित्यभूतम् ||३६||
स्वाध्यायाढ्यं शुद्धयोनिं प्रशान्तं; वैतानस्थं पापभीरुं कृतज्ञम् |
गोषु क्षान्तं नातितीक्ष्णं शरण्यं; वृत्तिग्लानं तादृशं पात्रमाहुः ||३७||
वृत्तिग्लाने सीदति चातिमात्रं; कृष्यर्थं वा होमहेतोः प्रसूत्याम् |
गुर्वर्थं वा बालसंवृद्धये वा; धेनुं दद्याद्देशकाले विशिष्टे ||३८||
अन्तर्जाताः सुक्रयज्ञानलब्धाः; प्राणक्रीता निर्जिताश्चौकजाश्च |
कृच्छ्रोत्सृष्टाः पोषणाभ्यागताश्च; द्वारैरेतैर्गोविशेषाः प्रशस्ताः ||३९||
बलान्विताः शीलवयोपपन्नाः; सर्वाः प्रशंसन्ति सुगन्धवत्यः |
यथा हि गङ्गा सरितां वरिष्ठा; तथार्जुनीनां कपिला वरिष्ठा ||४०||
तिस्रो रात्रीस्त्वद्भिरुपोष्य भूमौ; तृप्ता गावस्तर्पितेभ्यः प्रदेयाः |
वत्सैः पुष्टैः क्षीरपैः सुप्रचारा; स्त्र्यहं दत्त्वा गोरसैर्वर्तितव्यम् ||४१||
दत्त्वा धेनुं सुव्रतां साधुवत्सां; कल्याणवृत्तामपलायिनीं च |
यावन्ति लोमानि भवन्ति तस्या; स्तावन्ति वर्षाणि वसत्यमुत्र ||४२||
तथानड्वाहं ब्राह्मणायाथ धुर्यं; दत्त्वा युवानं बलिनं विनीतम् |
हलस्य वोढारमनन्तवीर्यं; प्राप्नोति लोकान्दशधेनुदस्य ||४३||
कान्तारे ब्राह्मणान्गाश्च यः परित्राति कौशिक |
क्षेमेण च विमुच्येत तस्य पुण्यफलं शृणु ||४४||
अश्वमेधक्रतोस्तुल्यं फलं भवति शाश्वतम् ||४४||
मृत्युकाले सहस्राक्ष यां वृत्तिमनुकाङ्क्षते |
लोकान्बहुविधान्दिव्यान्यद्वास्य हृदि वर्तते ||४५||
तत्सर्वं समवाप्नोति कर्मणा तेन मानवः |
गोभिश्च समनुज्ञातः सर्वत्र स महीयते ||४६||
यस्त्वेतेनैव विधिना गां वनेष्वनुगच्छति |
तृणगोमयपर्णाशी निःस्पृहो नियतः शुचिः ||४७||
अकामं तेन वस्तव्यं मुदितेन शतक्रतो |
मम लोके सुरैः सार्धं लोके यत्रापि चेच्छति ||४८||
७३
इन्द्र उवाच||
जानन्यो गामपहरेद्विक्रीयाद्वार्थकारणात् |
एतद्विज्ञातुमिच्छामि का नु तस्य गतिर्भवेत् ||१||
ब्रह्मोवाच||
भक्षार्थं विक्रयार्थं वा येऽपहारं हि कुर्वते |
दानार्थं वा ब्राह्मणाय तत्रेदं श्रूयतां फलम् ||२||
विक्रयार्थं हि यो हिंस्याद्भक्षयेद्वा निरङ्कुशः |
घातयानं हि पुरुषं येऽनुमन्येयुरर्थिनः ||३||
घातकः खादको वापि तथा यश्चानुमन्यते |
यावन्ति तस्या लोमानि तावद्वर्षाणि मज्जति ||४||
ये दोषा यादृशाश्चैव द्विजयज्ञोपघातके |
विक्रये चापहारे च ते दोषा वै स्मृताः प्रभो ||५||
अपहृत्य तु यो गां वै ब्राह्मणाय प्रयच्छति |
यावद्दाने फलं तस्यास्तावन्निरयमृच्छति ||६||
सुवर्णं दक्षिणामाहुर्गोप्रदाने महाद्युते |
सुवर्णं परमं ह्युक्तं दक्षिणार्थमसंशयम् ||७||
गोप्रदानं तारयते सप्त पूर्वांस्तथा परान् |
सुवर्णं दक्षिणां दत्त्वा तावद्द्विगुणमुच्यते ||८||
सुवर्णं परमं दानं सुवर्णं दक्षिणा परा |
सुवर्णं पावनं शक्र पावनानां परं स्मृतम् ||९||
कुलानां पावनं प्राहुर्जातरूपं शतक्रतो |
एषा मे दक्षिणा प्रोक्ता समासेन महाद्युते ||१०||
भीष्म उवाच||
एतत्पितामहेनोक्तमिन्द्राय भरतर्षभ |
इन्द्रो दशरथायाह रामायाह पिता तथा ||११||
राघवोऽपि प्रियभ्रात्रे लक्ष्मणाय यशस्विने |
ऋषिभ्यो लक्ष्मणेनोक्तमरण्ये वसता विभो ||१२||
पारम्पर्यागतं चेदमृषयः संशितव्रताः |
दुर्धरं धारयामासू राजानश्चैव धार्मिकाः ||१३||
उपाध्यायेन गदितं मम चेदं युधिष्ठिर ||१३||
य इदं ब्राह्मणो नित्यं वदेद्ब्राह्मणसंसदि |
यज्ञेषु गोप्रदानेषु द्वयोरपि समागमे ||१४||
तस्य लोकाः किलाक्षय्या दैवतैः सह नित्यदा |
इति ब्रह्मा स भगवानुवाच परमेश्वरः ||१५||
व्रतनियमफलम्
७४
युधिष्ठिर उवाच||
विस्रम्भितोऽहं भवता धर्मान्प्रवदता विभो |
प्रवक्ष्यामि तु संदेहं तन्मे ब्रूहि पितामह ||१||
व्रतानां किं फलं प्रोक्तं कीदृशं वा महाद्युते |
नियमानां फलं किं च स्वधीतस्य च किं फलम् ||२||
दमस्येह फलं किं च वेदानां धारणे च किम् |
अध्यापने फलं किं च सर्वमिच्छामि वेदितुम् ||३||
अप्रतिग्राहके किं च फलं लोके पितामह |
तस्य किं च फलं दृष्टं श्रुतं यः सम्प्रयच्छति ||४||
स्वकर्मनिरतानां च शूराणां चापि किं फलम् |
सत्ये च किं फलं प्रोक्तं ब्रह्मचर्ये च किं फलम् ||५||
पितृशुश्रूषणे किं च मातृशुश्रूषणे तथा |
आचार्यगुरुशुश्रूषास्वनुक्रोशानुकम्पने ||६||
एतत्सर्वमशेषेण पितामह यथातथम् |
वेत्तुमिच्छामि धर्मज्ञ परं कौतूहलं हि मे ||७||
भीष्म उवाच||
यो व्रतं वै यथोद्दिष्टं तथा सम्प्रतिपद्यते |
अखण्डं सम्यगारब्धं तस्य लोकाः सनातनाः ||८||
नियमानां फलं राजन्प्रत्यक्षमिह दृश्यते |
नियमानां क्रतूनां च त्वयावाप्तमिदं फलम् ||९||
स्वधीतस्यापि च फलं दृश्यतेऽमुत्र चेह च |
इहलोकेऽर्थवान्नित्यं ब्रह्मलोके च मोदते ||१०||
दमस्य तु फलं राजञ्शृणु त्वं विस्तरेण मे |
दान्ताः सर्वत्र सुखिनो दान्ताः सर्वत्र निर्वृताः ||११||
यत्रेच्छागामिनो दान्ताः सर्वशत्रुनिषूदनाः |
प्रार्थयन्ति च यद्दान्ता लभन्ते तन्न संशयः ||१२||
युज्यन्ते सर्वकामैर्हि दान्ताः सर्वत्र पाण्डव |
स्वर्गे तथा प्रमोदन्ते तपसा विक्रमेण च ||१३||
दानैर्यज्ञैश्च विविधैर्यथा दान्ताः क्षमान्विताः |
दाता कुप्यति नो दान्तस्तस्माद्दानात्परो दमः ||१४||
यस्तु दद्यादकुप्यन्हि तस्य लोकाः सनातनाः |
क्रोधो हन्ति हि यद्दानं तस्माद्दानात्परो दमः ||१५||
अदृश्यानि महाराज स्थानान्ययुतशो दिवि |
ऋषीणां सर्वलोकेषु यानीतो यान्ति देवताः ||१६||
दमेन यानि नृपते गच्छन्ति परमर्षयः |
कामयाना महत्स्थानं तस्माद्दानात्परो दमः ||१७||
अध्यापकः परिक्लेशादक्षयं फलमश्नुते |
विधिवत्पावकं हुत्वा ब्रह्मलोके नराधिप ||१८||
अधीत्यापि हि यो वेदान्न्यायविद्भ्यः प्रयच्छति |
गुरुकर्मप्रशंसी च सोऽपि स्वर्गे महीयते ||१९||
क्षत्रियोऽध्ययने युक्तो यजने दानकर्मणि |
युद्धे यश्च परित्राता सोऽपि स्वर्गे महीयते ||२०||
वैश्यः स्वकर्मनिरतः प्रदानाल्लभते महत् |
शूद्रः स्वकर्मनिरतः स्वर्गं शुश्रूषयार्च्छति ||२१||
शूरा बहुविधाः प्रोक्तास्तेषामर्थांश्च मे शृणु |
शूरान्वयानां निर्दिष्टं फलं शूरस्य चैव ह ||२२||
यज्ञशूरा दमे शूराः सत्यशूरास्तथापरे |
युद्धशूरास्तथैवोक्ता दानशूराश्च मानवाः ||२३||
बुद्धिशूरास्तथैवान्ये क्षमाशूरास्तथापरे |
आर्जवे च तथा शूराः शमे वर्तन्ति मानवाः ||२४||
तैस्तैस्तु नियमैः शूरा बहवः सन्ति चापरे |
वेदाध्ययनशूराश्च शूराश्चाध्यापने रताः ||२५||
गुरुशुश्रूषया शूराः पितृशुश्रूषयापरे |
मातृशुश्रूषया शूरा भैक्ष्यशूरास्तथापरे ||२६||
साङ्ख्यशूराश्च बहवो योगशूरास्तथापरे |
अरण्ये गृहवासे च शूराश्चातिथिपूजने ||२७||
सर्वे यान्ति पराँल्लोकान्स्वकर्मफलनिर्जितान् ||२७||
धारणं सर्ववेदानां सर्वतीर्थावगाहनम् |
सत्यं च ब्रुवतो नित्यं समं वा स्यान्न वा समम् ||२८||
अश्वमेधसहस्रं च सत्यं च तुलया धृतम् |
अश्वमेधसहस्राद्धि सत्यमेव विशिष्यते ||२९||
सत्येन सूर्यस्तपति सत्येनाग्निः प्रदीप्यते |
सत्येन मारुतो वाति सर्वं सत्ये प्रतिष्ठितम् ||३०||
सत्येन देवान्प्रीणाति पितॄन्वै ब्राह्मणांस्तथा |
सत्यमाहुः परं धर्मं तस्मात्सत्यं न लङ्घयेत् ||३१||
मुनयः सत्यनिरता मुनयः सत्यविक्रमाः |
मुनयः सत्यशपथास्तस्मात्सत्यं विशिष्यते ||३२||
सत्यवन्तः स्वर्गलोके मोदन्ते भरतर्षभ ||३२||
दमः सत्यफलावाप्तिरुक्ता सर्वात्मना मया |
असंशयं विनीतात्मा सर्वः स्वर्गे महीयते ||३३||
ब्रह्मचर्यस्य तु गुणाञ्शृणु मे वसुधाधिप |
आ जन्ममरणाद्यस्तु ब्रह्मचारी भवेदिह ||३४||
न तस्य किञ्चिदप्राप्यमिति विद्धि जनाधिप ||३४||
बह्व्यः कोट्यस्त्वृषीणां तु ब्रह्मलोके वसन्त्युत |
सत्ये रतानां सततं दान्तानामूर्ध्वरेतसाम् ||३५||
ब्रह्मचर्यं दहेद्राजन्सर्वपापान्युपासितम् |
ब्राह्मणेन विशेषेण ब्राह्मणो ह्यग्निरुच्यते ||३६||
प्रत्यक्षं च तवाप्येतद्ब्राह्मणेषु तपस्विषु |
बिभेति हि यथा शक्रो ब्रह्मचारिप्रधर्षितः ||३७||
तद्ब्रह्मचर्यस्य फलमृषीणामिह दृश्यते ||३७||
मातापित्रोः पूजने यो धर्मस्तमपि मे शृणु |
शुश्रूषते यः पितरं न चासूयेत्कथञ्चन ||३८||
मातरं वानहंवादी गुरुमाचार्यमेव च ||३८||
तस्य राजन्फलं विद्धि स्वर्लोके स्थानमुत्तमम् |
न च पश्येत नरकं गुरुशुश्रूषुरात्मवान् ||३९||
गोप्रदानिकम्
७५
युधिष्ठिर उवाच||
विधिं गवां परमहं श्रोतुमिच्छामि तत्त्वतः |
येन ताञ्शाश्वताँल्लोकानखिलानश्नुवीमहि ||१||
भीष्म उवाच||
न गोदानात्परं किञ्चिद्विद्यते वसुधाधिप |
गौर्हि न्यायागता दत्ता सद्यस्तारयते कुलम् ||२||
सतामर्थे सम्यगुत्पादितो यः; स वै कॢप्तः सम्यगिष्टः प्रजाभ्यः |
तस्मात्पूर्वं ह्यादिकाले प्रवृत्तं; गवां दाने शृणु राजन्विधिं मे ||३||
पुरा गोषूपनीतासु गोषु संदिग्धदर्शिना |
मान्धात्रा प्रकृतं प्रश्नं बृहस्पतिरभाषत ||४||
द्विजातिमभिसत्कृत्य श्वः कालमभिवेद्य च |
प्रदानार्थे नियुञ्जीत रोहिणीं नियतव्रतः ||५||
आह्वानं च प्रयुञ्जीत समङ्गे बहुलेति च |
प्रविश्य च गवां मध्यमिमां श्रुतिमुदाहरेत् ||६||
गौर्मे माता गोवृषभः पिता मे; दिवं शर्म जगती मे प्रतिष्ठा |
प्रपद्यैवं शर्वरीमुष्य गोषु; मुनिर्वाणीमुत्सृजेद्गोप्रदाने ||७||
स तामेकां निशां गोभिः समसख्यः समव्रतः |
ऐकात्म्यगमनात्सद्यः कल्मषाद्विप्रमुच्यते ||८||
उत्सृष्टवृषवत्सा हि प्रदेया सूर्यदर्शने |
त्रिविधं प्रतिपत्तव्यमर्थवादाशिषः स्तवाः ||९||
ऊर्जस्विन्य ऊर्जमेधाश्च यज्ञो; गर्भोऽमृतस्य जगतश्च प्रतिष्ठा |
क्षितौ राधःप्रभवः शश्वदेव; प्राजापत्याः सर्वमित्यर्थवादः ||१०||
गावो ममैनः प्रणुदन्तु सौर्या; स्तथा सौम्याः स्वर्गयानाय सन्तु |
आम्नाता मे ददतीराश्रयं तु; तथानुक्ताः सन्तु सर्वाशिषो मे ||११||
शेषोत्सर्गे कर्मभिर्देहमोक्षे; सरस्वत्यः श्रेयसि सम्प्रवृत्ताः |
यूयं नित्यं पुण्यकर्मोपवाह्या; दिशध्वं मे गतिमिष्टां प्रपन्नाः ||१२||
या वै यूयं सोऽहमद्यैकभावो; युष्मान्दत्त्वा चाहमात्मप्रदाता |
मनश्च्युता मनएवोपपन्नाः; सन्धुक्षध्वं सौम्यरूपोग्ररूपाः ||१३||
एवं तस्याग्रे पूर्वमर्धं वदेत; गवां दाता विधिवत्पूर्वदृष्टम् |
प्रतिब्रूयाच्छेषमर्धं द्विजातिः; प्रतिगृह्णन्वै गोप्रदाने विधिज्ञः ||१४||
गां ददानीति वक्तव्यमर्घ्यवस्त्रवसुप्रदः |
ऊधस्या भरितव्या च वैष्णवीति च चोदयेत् ||१५||
नाम सङ्कीर्तयेत्तस्या यथासङ्ख्योत्तरं स वै |
फलं षड्विंशदष्टौ च सहस्राणि च विंशतिः ||१६||
एवमेतान्गुणान्वृद्धान्गवादीनां यथाक्रमम् |
गोप्रदाता समाप्नोति समस्तानष्टमे क्रमे ||१७||
गोदः शीली निर्भयश्चार्घदाता; न स्याद्दुःखी वसुदाता च कामी |
ऊधस्योढा भारत यश्च विद्वा; न्व्याख्यातास्ते वैष्णवाश्चन्द्रलोकाः ||१८||
गा वै दत्त्वा गोव्रती स्यात्त्रिरात्रं; निशां चैकां संवसेतेह ताभिः |
काम्याष्टम्यां वर्तितव्यं त्रिरात्रं; रसैर्वा गोः शकृता प्रस्नवैर्वा ||१९||
वेदव्रती स्याद्वृषभप्रदाता; वेदावाप्तिर्गोयुगस्य प्रदाने |
तथा गवां विधिमासाद्य यज्वा; लोकानग्र्यान्विन्दते नाविधिज्ञः ||२०||
कामान्सर्वान्पार्थिवानेकसंस्था; न्यो वै दद्यात्कामदुघां च धेनुम् |
सम्यक्ताः स्युर्हव्यकव्यौघवत्य; स्तासामुक्ष्णां ज्यायसां सम्प्रदानम् ||२१||
न चाशिष्यायाव्रतायोपकुर्या; न्नाश्रद्दधानाय न वक्रबुद्धये |
गुह्यो ह्ययं सर्वलोकस्य धर्मो; नेमं धर्मं यत्र तत्र प्रजल्पेत् ||२२||
सन्ति लोके श्रद्दधाना मनुष्याः; सन्ति क्षुद्रा राक्षसा मानुषेषु |
येषां दानं दीयमानं ह्यनिष्टं; नास्तिक्यं चाप्याश्रयन्ते ह्यपुण्याः ||२३||
बार्हस्पत्यं वाक्यमेतन्निशम्य; ये राजानो गोप्रदानानि कृत्वा |
लोकान्प्राप्ताः पुण्यशीलाः सुवृत्ता; स्तान्मे राजन्कीर्त्यमानान्निबोध ||२४||
उशीनरो विष्वगश्वो नृगश्च; भगीरथो विश्रुतो यौवनाश्वः |
मान्धाता वै मुचुकुन्दश्च राजा; भूरिद्युम्नो नैषधः सोमकश्च ||२५||
पुरूरवा भरतश्चक्रवर्ती; यस्यान्वये भारताः सर्व एव |
तथा वीरो दाशरथिश्च रामो; ये चाप्यन्ये विश्रुताः कीर्तिमन्तः ||२६||
तथा राजा पृथुकर्मा दिलीपो; दिवं प्राप्तो गोप्रदाने विधिज्ञः |
यज्ञैर्दानैस्तपसा राजधर्मै; र्मान्धाताभूद्गोप्रदानैश्च युक्तः ||२७||
तस्मात्पार्थ त्वमपीमां मयोक्तां; बार्हस्पतीं भारतीं धारयस्व |
द्विजाग्र्येभ्यः सम्प्रयच्छ प्रतीतो; गाः पुण्या वै प्राप्य राज्यं कुरूणाम् ||२८||
वैशम्पायन उवाच||
तथा सर्वं कृतवान्धर्मराजो; भीष्मेणोक्तो विधिवद्गोप्रदाने |
स मान्धातुर्देवदेवोपदिष्टं; सम्यग्धर्मं धारयामास राजा ||२९||
इति नृप सततं गवां प्रदाने; यवशकलान्सह गोमयैः पिबानः |
क्षितितलशयनः शिखी यतात्मा; वृष इव राजवृषस्तदा बभूव ||३०||
स नृपतिरभवत्सदैव ताभ्यः; प्रयतमना ह्यभिसंस्तुवंश्च गा वै |
नृपधुरि च न गामयुङ्क्त भूय; स्तुरगवरैरगमच्च यत्र तत्र ||३१||
७६
वैशम्पायन उवाच||
ततो युधिष्ठिरो राजा भूयः शान्तनवं नृप |
गोदाने विस्तरं धीमान्पप्रच्छ विनयान्वितः ||१||
युधिष्ठिर उवाच||
गोप्रदाने गुणान्सम्यक्पुनः प्रब्रूहि भारत |
न हि तृप्याम्यहं वीर शृण्वानोऽमृतमीदृशम् ||२||
इत्युक्तो धर्मराजेन तदा शान्तनवो नृप |
सम्यगाह गुणांस्तस्मै गोप्रदानस्य केवलान् ||३||
भीष्म उवाच||
वत्सलां गुणसम्पन्नां तरुणीं वस्त्रसंवृताम् |
दत्त्वेदृशीं गां विप्राय सर्वपापैः प्रमुच्यते ||४||
असुर्या नाम ते लोका गां दत्त्वा तत्र गच्छति |
पीतोदकां जग्धतृणां नष्टदुग्धां निरिन्द्रियाम् ||५||
जरोग्रामुपयुक्तार्थां जीर्णां कूपमिवाजलम् |
दत्त्वा तमः प्रविशति द्विजं क्लेशेन योजयेत् ||६||
दुष्टा रुष्टा व्याधिता दुर्बला वा; न दातव्या याश्च मूल्यैरदत्तैः |
क्लेशैर्विप्रं योऽफलैः संयुनक्ति; तस्यावीर्याश्चाफलाश्चैव लोकाः ||७||
बलान्विताः शीलवयोपपन्नाः; सर्वाः प्रशंसन्ति सुगन्धवत्यः |
यथा हि गङ्गा सरितां वरिष्ठा; तथार्जुनीनां कपिला वरिष्ठा ||८||
युधिष्ठिर उवाच||
कस्मात्समाने बहुलाप्रदाने; सद्भिः प्रशस्तं कपिलाप्रदानम् |
विशेषमिच्छामि महानुभाव; श्रोतुं समर्थो हि भवान्प्रवक्तुम् ||९||
भीष्म उवाच||
वृद्धानां ब्रुवतां तात श्रुतं मे यत्प्रभाषसे |
वक्ष्यामि तदशेषेण रोहिण्यो निर्मिता यथा ||१०||
प्रजाः सृजेति व्यादिष्टः पूर्वं दक्षः स्वयम्भुवा |
असृजद्वृत्तिमेवाग्रे प्रजानां हितकाम्यया ||११||
यथा ह्यमृतमाश्रित्य वर्तयन्ति दिवौकसः |
तथा वृत्तिं समाश्रित्य वर्तयन्ति प्रजा विभो ||१२||
अचरेभ्यश्च भूतेभ्यश्चराः श्रेष्ठास्ततो नराः |
ब्राह्मणाश्च ततः श्रेष्ठास्तेषु यज्ञाः प्रतिष्ठिताः ||१३||
यज्ञैराप्यायते सोमः स च गोषु प्रतिष्ठितः |
सर्वे देवाः प्रमोदन्ते पूर्ववृत्तास्ततः प्रजाः ||१४||
एतान्येव तु भूतानि प्राक्रोशन्वृत्तिकाङ्क्षया |
वृत्तिदं चान्वपद्यन्त तृषिताः पितृमातृवत् ||१५||
इतीदं मनसा गत्वा प्रजासर्गार्थमात्मनः |
प्रजापतिर्बलाधानममृतं प्रापिबत्तदा ||१६||
स गतस्तस्य तृप्तिं तु गन्धं सुरभिमुद्गिरन् |
ददर्शोद्गारसंवृत्तां सुरभिं मुखजां सुताम् ||१७||
सासृजत्सौरभेयीस्तु सुरभिर्लोकमातरः |
सुवर्णवर्णाः कपिलाः प्रजानां वृत्तिधेनवः ||१८||
तासाममृतवर्णानां क्षरन्तीनां समन्ततः |
बभूवामृतजः फेनः स्रवन्तीनामिवोर्मिजः ||१९||
स वत्समुखविभ्रष्टो भवस्य भुवि तिष्ठतः |
शिरस्यवाप तत्क्रुद्धः स तदोदैक्षत प्रभुः ||२०||
ललाटप्रभवेनाक्ष्णा रोहिणीः प्रदहन्निव ||२०||
तत्तेजस्तु ततो रौद्रं कपिला गा विशां पते |
नानावर्णत्वमनयन्मेघानिव दिवाकरः ||२१||
यास्तु तस्मादपक्रम्य सोममेवाभिसंश्रिताः |
यथोत्पन्नाः स्ववर्णस्थास्ता नीता नान्यवर्णताम् ||२२||
अथ क्रुद्धं महादेवं प्रजापतिरभाषत |
अमृतेनावसिक्तस्त्वं नोच्छिष्टं विद्यते गवाम् ||२३||
यथा ह्यमृतमादाय सोमो विष्यन्दते पुनः |
तथा क्षीरं क्षरन्त्येता रोहिण्योऽमृतसम्भवाः ||२४||
न दुष्यत्यनिलो नाग्निर्न सुवर्णं न चोदधिः |
नामृतेनामृतं पीतं वत्सपीता न वत्सला ||२५||
इमाँल्लोकान्भरिष्यन्ति हविषा प्रस्नवेन च |
आसामैश्वर्यमश्नीहि सर्वामृतमयं शुभम् ||२६||
वृषभं च ददौ तस्मै सह ताभिः प्रजापतिः |
प्रसादयामास मनस्तेन रुद्रस्य भारत ||२७||
प्रीतश्चापि महादेवश्चकार वृषभं तदा |
ध्वजं च वाहनं चैव तस्मात्स वृषभध्वजः ||२८||
ततो देवैर्महादेवस्तदा पशुपतिः कृतः |
ईश्वरः स गवां मध्ये वृषाङ्क इति चोच्यते ||२९||
एवमव्यग्रवर्णानां कपिलानां महौजसाम् |
प्रदाने प्रथमः कल्पः सर्वासामेव कीर्तितः ||३०||
लोकज्येष्ठा लोकवृत्तिप्रवृत्ता; रुद्रोपेताः सोमविष्यन्दभूताः |
सौम्याः पुण्याः कामदाः प्राणदाश्च; गा वै दत्त्वा सर्वकामप्रदः स्यात् ||३१||
इमं गवां प्रभवविधानमुत्तमं; पठन्सदा शुचिरतिमङ्गलप्रियः |
विमुच्यते कलिकलुषेण मानवः; प्रियं सुतान्पशुधनमाप्नुयात्तथा ||३२||
हव्यं कव्यं तर्पणं शान्तिकर्म; यानं वासो वृद्धबालस्य पुष्टिम् |
एतान्सर्वान्गोप्रदाने गुणान्वै; दाता राजन्नाप्नुयाद्वै सदैव ||३३||
वैशम्पायन उवाच||
पितामहस्याथ निशम्य वाक्यं; राजा सह भ्रातृभिराजमीढः |
सौवर्णकांस्योपदुहास्ततो गाः; पार्थो ददौ ब्राह्मणसत्तमेभ्यः ||३४||
तथैव तेभ्योऽभिददौ द्विजेभ्यो; गवां सहस्राणि शतानि चैव |
यज्ञान्समुद्दिश्य च दक्षिणार्थे; लोकान्विजेतुं परमां च कीर्तिम् ||३५||
७७
भीष्म उवाच||
एतस्मिन्नेव काले तु वसिष्ठमृषिसत्तमम् |
इक्ष्वाकुवंशजो राजा सौदासो ददतां वरः ||१||
सर्वलोकचरं सिद्धं ब्रह्मकोशं सनातनम् |
पुरोहितमिदं प्रष्टुमभिवाद्योपचक्रमे ||२||
सौदास उवाच||
त्रैलोक्ये भगवन्किं स्वित्पवित्रं कथ्यतेऽनघ |
यत्कीर्तयन्सदा मर्त्यः प्राप्नुयात्पुण्यमुत्तमम् ||३||
भीष्म उवाच||
तस्मै प्रोवाच वचनं प्रणताय हितं तदा |
गवामुपनिषद्विद्वान्नमस्कृत्य गवां शुचिः ||४||
गावः सुरभिगन्धिन्यस्तथा गुग्गुलुगन्धिकाः |
गावः प्रतिष्ठा भूतानां गावः स्वस्त्ययनं महत् ||५||
गावो भूतं भविष्यच्च गावः पुष्टिः सनातनी |
गावो लक्ष्म्यास्तथा मूलं गोषु दत्तं न नश्यति ||६||
अन्नं हि सततं गावो देवानां परमं हविः ||६||
स्वाहाकारवषट्कारौ गोषु नित्यं प्रतिष्ठितौ |
गावो यज्ञस्य हि फलं गोषु यज्ञाः प्रतिष्ठिताः ||७||
सायं प्रातश्च सततं होमकाले महामते |
गावो ददति वै होम्यमृषिभ्यः पुरुषर्षभ ||८||
कानिचिद्यानि दुर्गाणि दुष्कृतानि कृतानि च |
तरन्ति चैव पाप्मानं धेनुं ये ददति प्रभो ||९||
एकां च दशगुर्दद्याद्दश दद्याच्च गोशती |
शतं सहस्रगुर्दद्यात्सर्वे तुल्यफला हि ते ||१०||
अनाहिताग्निः शतगुरयज्वा च सहस्रगुः |
समृद्धो यश्च कीनाशो नार्घ्यमर्हन्ति ते त्रयः ||११||
कपिलां ये प्रयच्छन्ति सवत्सां कांस्यदोहनाम् |
सुव्रतां वस्त्रसंवीतामुभौ लोकौ जयन्ति ते ||१२||
युवानमिन्द्रियोपेतं शतेन सह यूथपम् |
गवेन्द्रं ब्राह्मणेन्द्राय भूरिशृङ्गमलङ्कृतम् ||१३||
वृषभं ये प्रयच्छन्ति श्रोत्रियाय परन्तप |
ऐश्वर्यं तेऽभिजायन्ते जायमानाः पुनः पुनः ||१४||
नाकीर्तयित्वा गाः सुप्यान्नास्मृत्य पुनरुत्पतेत् |
सायं प्रातर्नमस्येच्च गास्ततः पुष्टिमाप्नुयात् ||१५||
गवां मूत्रपुरीषस्य नोद्विजेत कदाचन |
न चासां मांसमश्नीयाद्गवां व्युष्टिं तथाश्नुते ||१६||
गाश्च सङ्कीर्तयेन्नित्यं नावमन्येत गास्तथा |
अनिष्टं स्वप्नमालक्ष्य गां नरः सम्प्रकीर्तयेत् ||१७||
गोमयेन सदा स्नायाद्गोकरीषे च संविशेत् |
श्लेष्ममूत्रपुरीषाणि प्रतिघातं च वर्जयेत् ||१८||
सार्द्रचर्मणि भुञ्जीत निरीक्षन्वारुणीं दिशम् |
वाग्यतः सर्पिषा भूमौ गवां व्युष्टिं तथाश्नुते ||१९||
घृतेन जुहुयादग्निं घृतेन स्वस्ति वाचयेत् |
घृतं दद्याद्घृतं प्राशेद्गवां व्युष्टिं तथाश्नुते ||२०||
गोमत्या विद्यया धेनुं तिलानामभिमन्त्र्य यः |
रसरत्नमयीं दद्यान्न स शोचेत्कृताकृते ||२१||
गावो मामुपतिष्ठन्तु हेमशृङ्गाः पयोमुचः |
सुरभ्यः सौरभेयाश्च सरितः सागरं यथा ||२२||
गावः पश्यन्तु मां नित्यं गावः पश्याम्यहं तदा |
गावोऽस्माकं वयं तासां यतो गावस्ततो वयम् ||२३||
एवं रात्रौ दिवा चैव समेषु विषमेषु च |
महाभयेषु च नरः कीर्तयन्मुच्यते भयात् ||२४||
७८
वसिष्ठ उवाच||
शतं वर्षसहस्राणां तपस्तप्तं सुदुश्चरम् |
गोभिः पूर्वविसृष्टाभिर्गच्छेम श्रेष्ठतामिति ||१||
लोकेऽस्मिन्दक्षिणानां च सर्वासां वयमुत्तमाः |
भवेम न च लिप्येम दोषेणेति परन्तप ||२||
स एव चेतसा तेन हतो लिप्येत सर्वदा |
शकृता च पवित्रार्थं कुर्वीरन्देवमानुषाः ||३||
तथा सर्वाणि भूतानि स्थावराणि चराणि च |
प्रदातारश्च गोलोकान्गच्छेयुरिति मानद ||४||
ताभ्यो वरं ददौ ब्रह्मा तपसोऽन्ते स्वयं प्रभुः |
एवं भवत्विति विभुर्लोकांस्तारयतेति च ||५||
उत्तस्थुः सिद्धिकामास्ता भूतभव्यस्य मातरः |
तपसोऽन्ते महाराज गावो लोकपरायणाः ||६||
तस्माद्गावो महाभागाः पवित्रं परमुच्यते |
तथैव सर्वभूतानां गावस्तिष्ठन्ति मूर्धनि ||७||
समानवत्सां कपिलां धेनुं दत्त्वा पयस्विनीम् |
सुव्रतां वस्त्रसंवीतां ब्रह्मलोके महीयते ||८||
रोहिणीं तुल्यवत्सां तु धेनुं दत्त्वा पयस्विनीम् |
सुव्रतां वस्त्रसंवीतां सूर्यलोके महीयते ||९||
समानवत्सां शबलां धेनुं दत्त्वा पयस्विनीम् |
सुव्रतां वस्त्रसंवीतां सोमलोके महीयते ||१०||
समानवत्सां श्वेतां तु धेनुं दत्त्वा पयस्विनीम् |
सुव्रतां वस्त्रसंवीतामिन्द्रलोके महीयते ||११||
समानवत्सां कृष्णां तु धेनुं दत्त्वा पयस्विनीम् |
सुव्रतां वस्त्रसंवीतामग्निलोके महीयते ||१२||
समानवत्सां धूम्रां तु धेनुं दत्त्वा पयस्विनीम् |
सुव्रतां वस्त्रसंवीतां याम्यलोके महीयते ||१३||
अपां फेनसवर्णां तु सवत्सां कांस्यदोहनाम् |
प्रदाय वस्त्रसंवीतां वारुणं लोकमश्नुते ||१४||
वातरेणुसवर्णां तु सवत्सां कांस्यदोहनाम् |
प्रदाय वस्त्रसंवीतां वायुलोके महीयते ||१५||
हिरण्यवर्णां पिङ्गाक्षीं सवत्सां कांस्यदोहनाम् |
प्रदाय वस्त्रसंवीतां कौबेरं लोकमश्नुते ||१६||
पलालधूम्रवर्णां तु सवत्सां कांस्यदोहनाम् |
प्रदाय वस्त्रसंवीतां पितृलोके महीयते ||१७||
सवत्सां पीवरीं दत्त्वा शितिकण्ठामलङ्कृताम् |
वैश्वदेवमसम्बाधं स्थानं श्रेष्ठं प्रपद्यते ||१८||
समानवत्सां गौरीं तु धेनुं दत्त्वा पयस्विनीम् |
सुव्रतां वस्त्रसंवीतां वसूनां लोकमश्नुते ||१९||
पाण्डुकम्बलवर्णां तु सवत्सां कांस्यदोहनाम् |
प्रदाय वस्त्रसंवीतां साध्यानां लोकमश्नुते ||२०||
वैराटपृष्ठमुक्षाणं सर्वरत्नैरलङ्कृतम् |
प्रदाय मरुतां लोकानजरान्प्रतिपद्यते ||२१||
वत्सोपपन्नां नीलाङ्गां सर्वरत्नसमन्विताम् |
गन्धर्वाप्सरसां लोकान्दत्त्वा प्राप्नोति मानवः ||२२||
शितिकण्ठमनड्वाहं सर्वरत्नैरलङ्कृतम् |
दत्त्वा प्रजापतेर्लोकान्विशोकः प्रतिपद्यते ||२३||
गोप्रदानरतो याति भित्त्वा जलदसञ्चयान् |
विमानेनार्कवर्णेन दिवि राजन्विराजता ||२४||
तं चारुवेषाः सुश्रोण्यः सहस्रं वरयोषितः |
रमयन्ति नरश्रेष्ठ गोप्रदानरतं नरम् ||२५||
वीणानां वल्लकीनां च नूपुराणां च शिञ्जितैः |
हासैश्च हरिणाक्षीणां प्रसुप्तः प्रतिबोध्यते ||२६||
यावन्ति लोमानि भवन्ति धेन्वा; स्तावन्ति वर्षाणि महीयते सः |
स्वर्गाच्च्युतश्चापि ततो नृलोके; कुले समुत्पत्स्यति गोमिनां सः ||२७||
७९
वसिष्ठ उवाच||
घृतक्षीरप्रदा गावो घृतयोन्यो घृतोद्भवाः |
घृतनद्यो घृतावर्तास्ता मे सन्तु सदा गृहे ||१||
घृतं मे हृदये नित्यं घृतं नाभ्यां प्रतिष्ठितम् |
घृतं सर्वेषु गात्रेषु घृतं मे मनसि स्थितम् ||२||
गावो ममाग्रतो नित्यं गावः पृष्ठत एव च |
गावो मे सर्वतश्चैव गवां मध्ये वसाम्यहम् ||३||
इत्याचम्य जपेत्सायं प्रातश्च पुरुषः सदा |
यदह्ना कुरुते पापं तस्मात्स परिमुच्यते ||४||
प्रासादा यत्र सौवर्णा वसोर्धारा च यत्र सा |
गन्धर्वाप्सरसो यत्र तत्र यान्ति सहस्रदाः ||५||
नवनीतपङ्काः क्षीरोदा दधिशैवलसङ्कुलाः |
वहन्ति यत्र नद्यो वै तत्र यान्ति सहस्रदाः ||६||
गवां शतसहस्रं तु यः प्रयच्छेद्यथाविधि |
परामृद्धिमवाप्याथ स गोलोके महीयते ||७||
दश चोभयतः प्रेत्य मातापित्रोः पितामहान् |
दधाति सुकृताँल्लोकान्पुनाति च कुलं नरः ||८||
धेन्वाः प्रमाणेन समप्रमाणां; धेनुं तिलानामपि च प्रदाय |
पानीयदाता च यमस्य लोके; न यातनां काञ्चिदुपैति तत्र ||९||
पवित्रमग्र्यं जगतः प्रतिष्ठा; दिवौकसां मातरोऽथाप्रमेयाः |
अन्वालभेद्दक्षिणतो व्रजेच्च; दद्याच्च पात्रे प्रसमीक्ष्य कालम् ||१०||
धेनुं सवत्सां कपिलां भूरिशृङ्गां; कांस्योपदोहां वसनोत्तरीयाम् |
प्रदाय तां गाहति दुर्विगाह्यां; याम्यां सभां वीतभयो मनुष्यः ||११||
सुरूपा बहुरूपाश्च विश्वरूपाश्च मातरः |
गावो मामुपतिष्ठन्तामिति नित्यं प्रकीर्तयेत् ||१२||
नातः पुण्यतरं दानं नातः पुण्यतरं फलम् |
नातो विशिष्टं लोकेषु भूतं भवितुमर्हति ||१३||
त्वचा लोम्नाथ शृङ्गैश्च वालैः क्षीरेण मेदसा |
यज्ञं वहन्ति सम्भूय किमस्त्यभ्यधिकं ततः ||१४||
यया सर्वमिदं व्याप्तं जगत्स्थावरजङ्गमम् |
तां धेनुं शिरसा वन्दे भूतभव्यस्य मातरम् ||१५||
गुणवचनसमुच्चयैकदेशो; नृवर मयैष गवां प्रकीर्तितस्ते |
न हि परमिह दानमस्ति गोभ्यो; भवन्ति न चापि परायणं तथान्यत् ||१६||
भीष्म उवाच||
परमिदमिति भूमिपो विचिन्त्य; प्रवरमृषेर्वचनं ततो महात्मा |
व्यसृजत नियतात्मवान्द्विजेभ्यः; सुबहु च गोधनमाप्तवांश्च लोकान् ||१७||
८०
युधिष्ठिर उवाच||
पवित्राणां पवित्रं यच्छ्रेष्ठं लोके च यद्भवेत् |
पावनं परमं चैव तन्मे ब्रूहि पितामह ||१||
भीष्म उवाच||
गावो महार्थाः पुण्याश्च तारयन्ति च मानवान् |
धारयन्ति प्रजाश्चेमाः पयसा हविषा तथा ||२||
न हि पुण्यतमं किञ्चिद्गोभ्यो भरतसत्तम |
एताः पवित्राः पुण्याश्च त्रिषु लोकेष्वनुत्तमाः ||३||
देवानामुपरिष्टाच्च गावः प्रतिवसन्ति वै |
दत्त्वा चैता नरपते यान्ति स्वर्गं मनीषिणः ||४||
मान्धाता यौवनाश्वश्च ययातिर्नहुषस्तथा |
गावो ददन्तः सततं सहस्रशतसंमिताः ||५||
गताः परमकं स्थानं देवैरपि सुदुर्लभम् ||५||
अपि चात्र पुरावृत्तं कथयिष्यामि तेऽनघ |
ऋषीणामुत्तमं धीमान्कृष्णद्वैपायनं शुकः |
अभिवाद्याह्निकं कृत्वा शुचिः प्रयतमानसः ||७||
पितरं परिपप्रच्छ दृष्टलोकपरावरम् ||७||
को यज्ञः सर्वयज्ञानां वरिष्ठ उपलक्ष्यते |
किं च कृत्वा परं स्वर्गं प्राप्नुवन्ति मनीषिणः ||८||
केन देवाः पवित्रेण स्वर्गमश्नन्ति वा विभो |
किं च यज्ञस्य यज्ञत्वं क्व च यज्ञः प्रतिष्ठितः ||९||
दानानामुत्तमं किं च किं च सत्रमतः परम् |
पवित्राणां पवित्रं च यत्तद्ब्रूहि ममानघ ||१०||
एतच्छ्रुत्वा तु वचनं व्यासः परमधर्मवित् |
पुत्रायाकथयत्सर्वं तत्त्वेन भरतर्षभ ||११||
व्यास उवाच||
गावः प्रतिष्ठा भूतानां तथा गावः परायणम् |
गावः पुण्याः पवित्राश्च पावनं धर्म एव च ||१२||
पूर्वमासन्नशृङ्गा वै गाव इत्यनुशुश्रुमः |
शृङ्गार्थे समुपासन्त ताः किल प्रभुमव्ययम् ||१३||
ततो ब्रह्मा तु गाः प्रायमुपविष्टाः समीक्ष्य ह |
ईप्सितं प्रददौ ताभ्यो गोभ्यः प्रत्येकशः प्रभुः ||१४||
तासां शृङ्गाण्यजायन्त यस्या यादृङ्मनोगतम् |
नानावर्णाः शृङ्गवन्त्यस्ता व्यरोचन्त पुत्रक ||१५||
ब्रह्मणा वरदत्तास्ता हव्यकव्यप्रदाः शुभाः |
पुण्याः पवित्राः सुभगा दिव्यसंस्थानलक्षणाः ||१६||
गावस्तेजो महद्दिव्यं गवां दानं प्रशस्यते ||१६||
ये चैताः सम्प्रयच्छन्ति साधवो वीतमत्सराः |
ते वै सुकृतिनः प्रोक्ताः सर्वदानप्रदाश्च ते ||१७||
गवां लोकं तथा पुण्यमाप्नुवन्ति च तेऽनघ ||१७||
यत्र वृक्षा मधुफला दिव्यपुष्पफलोपगाः |
पुष्पाणि च सुगन्धीनि दिव्यानि द्विजसत्तम ||१८||
सर्वा मणिमयी भूमिः सूक्ष्मकाञ्चनवालुका |
सर्वत्र सुखसंस्पर्शा निष्पङ्का नीरजा शुभा ||१९||
रक्तोत्पलवनैश्चैव मणिदण्डैर्हिरण्मयैः |
तरुणादित्यसङ्काशैर्भान्ति तत्र जलाशयाः ||२०||
महार्हमणिपत्रैश्च काञ्चनप्रभकेसरैः |
नीलोत्पलविमिश्रैश्च सरोभिर्बहुपङ्कजैः ||२१||
करवीरवनैः फुल्लैः सहस्रावर्तसंवृतैः |
सन्तानकवनैः फुल्लैर्वृक्षैश्च समलङ्कृताः ||२२||
निर्मलाभिश्च मुक्ताभिर्मणिभिश्च महाधनैः |
उद्धूतपुलिनास्तत्र जातरूपैश्च निम्नगाः ||२३||
सर्वरत्नमयैश्चित्रैरवगाढा नगोत्तमैः |
जातरूपमयैश्चान्यैर्हुताशनसमप्रभैः ||२४||
सौवर्णगिरयस्तत्र मणिरत्नशिलोच्चयाः |
सर्वरत्नमयैर्भान्ति शृङ्गैश्चारुभिरुच्छ्रितैः ||२५||
नित्यपुष्पफलास्तत्र नगाः पत्ररथाकुलाः |
दिव्यगन्धरसैः पुष्पैः फलैश्च भरतर्षभ ||२६||
रमन्ते पुण्यकर्माणस्तत्र नित्यं युधिष्ठिर |
सर्वकामसमृद्धार्था निःशोका गतमन्यवः ||२७||
विमानेषु विचित्रेषु रमणीयेषु भारत |
मोदन्ते पुण्यकर्माणो विहरन्तो यशस्विनः ||२८||
उपक्रीडन्ति तान्राजञ्शुभाश्चाप्सरसां गणाः |
एताँल्लोकानवाप्नोति गां दत्त्वा वै युधिष्ठिर ||२९||
यासामधिपतिः पूषा मारुतो बलवान्बली |
ऐश्वर्ये वरुणो राजा ता मां पान्तु युगन्धराः ||३०||
सुरूपा बहुरूपाश्च विश्वरूपाश्च मातरः |
प्राजापत्या इति ब्रह्मञ्जपेन्नित्यं यतव्रतः ||३१||
गास्तु शुश्रूषते यश्च समन्वेति च सर्वशः |
तस्मै तुष्टाः प्रयच्छन्ति वरानपि सुदुर्लभान् ||३२||
न द्रुह्येन्मनसा चापि गोषु ता हि सुखप्रदाः |
अर्चयेत सदा चैव नमस्कारैश्च पूजयेत् ||३३||
दान्तः प्रीतमना नित्यं गवां व्युष्टिं तथाश्नुते ||३३||
येन देवाः पवित्रेण भुञ्जते लोकमुत्तमम् |
यत्पवित्रं पवित्राणां तद्घृतं शिरसा वहेत् ||३४||
घृतेन जुहुयादग्निं घृतेन स्वस्ति वाचयेत् |
घृतं प्राशेद्घृतं दद्याद्गवां व्युष्टिं तथाश्नुते ||३५||
त्र्यहमुष्णं पिबेन्मूत्रं त्र्यहमुष्णं पिबेत्पयः |
गवामुष्णं पयः पीत्वा त्र्यहमुष्णं घृतं पिबेत् ||३६||
त्र्यहमुष्णं घृतं पीत्वा वायुभक्षो भवेत्त्र्यहम् ||३६||
निर्हृतैश्च यवैर्गोभिर्मासं प्रसृतयावकः |
ब्रह्महत्यासमं पापं सर्वमेतेन शुध्यति ||३७||
पराभवार्थं दैत्यानां देवैः शौचमिदं कृतम् |
देवत्वमपि च प्राप्ताः संसिद्धाश्च महाबलाः ||३८||
गावः पवित्राः पुण्याश्च पावनं परमं महत् |
ताश्च दत्त्वा द्विजातिभ्यो नरः स्वर्गमुपाश्नुते ||३९||
गवां मध्ये शुचिर्भूत्वा गोमतीं मनसा जपेत् |
पूताभिरद्भिराचम्य शुचिर्भवति निर्मलः ||४०||
अग्निमध्ये गवां मध्ये ब्राह्मणानां च संसदि |
विद्यावेदव्रतस्नाता ब्राह्मणाः पुण्यकर्मिणः ||४१||
अध्यापयेरञ्शिष्यान्वै गोमतीं यज्ञसंमिताम् |
त्रिरात्रोपोषितः श्रुत्वा गोमतीं लभते वरम् ||४२||
पुत्रकामश्च लभते पुत्रं धनमथापि च |
पतिकामा च भर्तारं सर्वकामांश्च मानवः ||४३||
गावस्तुष्टाः प्रयच्छन्ति सेविता वै न संशयः ||४३||
एवमेता महाभागा यज्ञियाः सर्वकामदाः |
रोहिण्य इति जानीहि नैताभ्यो विद्यते परम् ||४४||
इत्युक्तः स महातेजाः शुकः पित्रा महात्मना |
पूजयामास गा नित्यं तस्मात्त्वमपि पूजय ||४५||
श्रीगोसंवादः
८१
युधिष्ठिर उवाच||
मया गवां पुरीषं वै श्रिया जुष्टमिति श्रुतम् |
एतदिच्छाम्यहं श्रोतुं संशयोऽत्र हि मे महान् ||१||
भीष्म उवाच||
अत्राप्युदाहरन्तीममितिहासं पुरातनम् |
गोभिर्नृपेह संवादं श्रिया भरतसत्तम ||२||
श्रीः कृत्वेह वपुः कान्तं गोमध्यं प्रविवेश ह |
गावोऽथ विस्मितास्तस्या दृष्ट्वा रूपस्य सम्पदम् ||३||
गाव ऊचुः||
कासि देवि कुतो वा त्वं रूपेणाप्रतिमा भुवि |
विस्मिताः स्म महाभागे तव रूपस्य सम्पदा ||४||
इच्छामस्त्वां वयं ज्ञातुं का त्वं क्व च गमिष्यसि |
तत्त्वेन च सुवर्णाभे सर्वमेतद्ब्रवीहि नः ||५||
श्रीरुवाच||
लोककान्तास्मि भद्रं वः श्रीर्नाम्नेह परिश्रुता |
मया दैत्याः परित्यक्ता विनष्टाः शाश्वतीः समाः ||६||
इन्द्रो विवस्वान्सोमश्च विष्णुरापोऽग्निरेव च |
मयाभिपन्ना ऋध्यन्ते ऋषयो देवतास्तथा ||७||
यांश्च द्विषाम्यहं गावस्ते विनश्यन्ति सर्वशः |
धर्मार्थकामहीनाश्च ते भवन्त्यसुखान्विताः ||८||
एवम्प्रभावां मां गावो विजानीत सुखप्रदाम् |
इच्छामि चापि युष्मासु वस्तुं सर्वासु नित्यदा ||९||
आगता प्रार्थयानाहं श्रीजुष्टा भवतानघाः ||९||
गाव ऊचुः||
अध्रुवां चञ्चलां च त्वां सामान्यां बहुभिः सह |
न त्वामिच्छामि भद्रं ते गम्यतां यत्र रोचते ||१०||
वपुष्मन्त्यो वयं सर्वाः किमस्माकं त्वयाद्य वै |
यत्रेष्टं गम्यतां तत्र कृतकार्या वयं त्वया ||११||
श्रीरुवाच||
किमेतद्वः क्षमं गावो यन्मां नेहाभ्यनन्दथ |
न मां सम्प्रति गृह्णीथ कस्माद्वै दुर्लभां सतीम् ||१२||
सत्यश्च लोकवादोऽयं लोके चरति सुव्रताः |
स्वयं प्राप्ते परिभवो भवतीति विनिश्चयः ||१३||
महदुग्रं तपः कृत्वा मां निषेवन्ति मानवाः |
देवदानवगन्धर्वाः पिशाचोरगराक्षसाः ||१४||
क्षममेतद्धि वो गावः प्रतिगृह्णीत मामिह |
नावमन्या ह्यहं सौम्यास्त्रैलोक्ये सचराचरे ||१५||
गाव ऊचुः||
नावमन्यामहे देवि न त्वां परिभवामहे |
अध्रुवा चलचित्तासि ततस्त्वां वर्जयामहे ||१६||
बहुनात्र किमुक्तेन गम्यतां यत्र वाञ्छसि |
वपुष्मत्यो वयं सर्वाः किमस्माकं त्वयानघे ||१७||
श्रीरुवाच||
अवज्ञाता भविष्यामि सर्वलोकेषु मानदाः |
प्रत्याख्यानेन युष्माभिः प्रसादः क्रियतामिति ||१८||
महाभागा भवत्यो वै शरण्याः शरणागताम् |
परित्रायन्तु मां नित्यं भजमानामनिन्दिताम् ||१९||
माननां त्वहमिच्छामि भवत्यः सततं शुभाः ||१९||
अप्येकाङ्गे तु वो वस्तुमिच्छामि च सुकुत्सिते |
न वोऽस्ति कुत्सितं किञ्चिदङ्गेष्वालक्ष्यतेऽनघाः ||२०||
पुण्याः पवित्राः सुभगा ममादेशं प्रयच्छत |
वसेयं यत्र चाङ्गेऽहं तन्मे व्याख्यातुमर्हथ ||२१||
भीष्म उवाच||
एवमुक्तास्तु ता गावः शुभाः करुणवत्सलाः |
संमन्त्र्य सहिताः सर्वाः श्रियमूचुर्नराधिप ||२२||
अवश्यं मानना कार्या तवास्माभिर्यशस्विनि |
शकृन्मूत्रे निवस नः पुण्यमेतद्धि नः शुभे ||२३||
श्रीरुवाच||
दिष्ट्या प्रसादो युष्माभिः कृतो मेऽनुग्रहात्मकः |
एवं भवतु भद्रं वः पूजितास्मि सुखप्रदाः ||२४||
भीष्म उवाच||
एवं कृत्वा तु समयं श्रीर्गोभिः सह भारत |
पश्यन्तीनां ततस्तासां तत्रैवान्तरधीयत ||२५||
एतद्गोशकृतः पुत्र माहात्म्यं तेऽनुवर्णितम् |
माहात्म्यं च गवां भूयः श्रूयतां गदतो मम ||२६||
गोलोकप्रश्नः
८२
भीष्म उवाच||
ये च गाः सम्प्रयच्छन्ति हुतशिष्टाशिनश्च ये |
तेषां सत्राणि यज्ञाश्च नित्यमेव युधिष्ठिर ||१||
ऋते दधिघृतेनेह न यज्ञः सम्प्रवर्तते |
तेन यज्ञस्य यज्ञत्वमतोमूलं च लक्ष्यते ||२||
दानानामपि सर्वेषां गवां दानं प्रशस्यते |
गावः श्रेष्ठाः पवित्राश्च पावनं ह्येतदुत्तमम् ||३||
पुष्ट्यर्थमेताः सेवेत शान्त्यर्थमपि चैव ह |
पयो दधि घृतं यासां सर्वपापप्रमोचनम् ||४||
गावस्तेजः परं प्रोक्तमिह लोके परत्र च |
न गोभ्यः परमं किञ्चित्पवित्रं पुरुषर्षभ ||५||
अत्राप्युदाहरन्तीममितिहासं पुरातनम् |
पितामहस्य संवादमिन्द्रस्य च युधिष्ठिर ||६||
पराभूतेषु दैत्येषु शक्रे त्रिभुवनेश्वरे |
प्रजाः समुदिताः सर्वाः सत्यधर्मपरायणाः ||७||
अथर्षयः सगन्धर्वाः किंनरोरगराक्षसाः |
देवासुरसुपर्णाश्च प्रजानां पतयस्तथा ||८||
पर्युपासन्त कौरव्य कदाचिद्वै पितामहम् ||८||
नारदः पर्वतश्चैव विश्वावसुहहाहुहू |
दिव्यतानेषु गायन्तः पर्युपासन्त तं प्रभुम् ||९||
तत्र दिव्यानि पुष्पाणि प्रावहत्पवनस्तथा |
आजह्रुरृतवश्चापि सुगन्धीनि पृथक्पृथक् ||१०||
तस्मिन्देवसमावाये सर्वभूतसमागमे |
दिव्यवादित्रसङ्घुष्टे दिव्यस्त्रीचारणावृते ||११||
इन्द्रः पप्रच्छ देवेशमभिवाद्य प्रणम्य च ||११||
देवानां भगवन्कस्माल्लोकेशानां पितामह |
उपरिष्टाद्गवां लोक एतदिच्छामि वेदितुम् ||१२||
किं तपो ब्रह्मचर्यं वा गोभिः कृतमिहेश्वर |
देवानामुपरिष्टाद्यद्वसन्त्यरजसः सुखम् ||१३||
ततः प्रोवाच तं ब्रह्मा शक्रं बलनिसूदनम् |
अवज्ञातास्त्वया नित्यं गावो बलनिसूदन ||१४||
तेन त्वमासां माहात्म्यं न वेत्थ शृणु तत्प्रभो |
गवां प्रभावं परमं माहात्म्यं च सुरर्षभ ||१५||
यज्ञाङ्गं कथिता गावो यज्ञ एव च वासव |
एताभिश्चाप्यृते यज्ञो न प्रवर्तेत्कथञ्चन ||१६||
धारयन्ति प्रजाश्चैव पयसा हविषा तथा |
एतासां तनयाश्चापि कृषियोगमुपासते ||१७||
जनयन्ति च धान्यानि बीजानि विविधानि च |
ततो यज्ञाः प्रवर्तन्ते हव्यं कव्यं च सर्वशः ||१८||
पयो दधि घृतं चैव पुण्याश्चैताः सुराधिप |
वहन्ति विविधान्भारान्क्षुत्तृष्णापरिपीडिताः ||१९||
मुनींश्च धारयन्तीह प्रजाश्चैवापि कर्मणा |
वासवाकूटवाहिन्यः कर्मणा सुकृतेन च ||२०||
उपरिष्टात्ततोऽस्माकं वसन्त्येताः सदैव हि ||२०||
एतत्ते कारणं शक्र निवासकृतमद्य वै |
गवां देवोपरिष्टाद्धि समाख्यातं शतक्रतो ||२१||
एता हि वरदत्ताश्च वरदाश्चैव वासव |
सौरभ्यः पुण्यकर्मिण्यः पावनाः शुभलक्षणाः ||२२||
यदर्थं गा गताश्चैव सौरभ्यः सुरसत्तम |
तच्च मे शृणु कार्त्स्न्येन वदतो बलसूदन ||२३||
पुरा देवयुगे तात दैत्येन्द्रेषु महात्मसु |
त्रीँल्लोकाननुशासत्सु विष्णौ गर्भत्वमागते ||२४||
अदित्यास्तप्यमानायास्तपो घोरं सुदुश्चरम् |
पुत्रार्थममरश्रेष्ठ पादेनैकेन नित्यदा ||२५||
तां तु दृष्ट्वा महादेवीं तप्यमानां महत्तपः |
दक्षस्य दुहिता देवी सुरभिर्नाम नामतः ||२६||
अतप्यत तपो घोरं हृष्टा धर्मपरायणा |
कैलासशिखरे रम्ये देवगन्धर्वसेविते ||२७||
व्यतिष्ठदेकपादेन परमं योगमास्थिता |
दश वर्षसहस्राणि दश वर्षशतानि च ||२८||
सन्तप्तास्तपसा तस्या देवाः सर्षिमहोरगाः |
तत्र गत्वा मया सार्धं पर्युपासन्त तां शुभाम् ||२९||
अथाहमब्रुवं तत्र देवीं तां तपसान्विताम् |
किमर्थं तप्यते देवि तपो घोरमनिन्दिते ||३०||
प्रीतस्तेऽहं महाभागे तपसानेन शोभने |
वरयस्व वरं देवि दातास्मीति पुरंदर ||३१||
सुरभ्युवाच||
वरेण भगवन्मह्यं कृतं लोकपितामह |
एष एव वरो मेऽद्य यत्प्रीतोऽसि ममानघ ||३२||
ब्रह्मोवाच||
तामेवं ब्रुवतीं देवीं सुरभीं त्रिदशेश्वर |
प्रत्यब्रुवं यद्देवेन्द्र तन्निबोध शचीपते ||३३||
अलोभकाम्यया देवि तपसा च शुभेन ते |
प्रसन्नोऽहं वरं तस्मादमरत्वं ददानि ते ||३४||
त्रयाणामपि लोकानामुपरिष्टान्निवत्स्यसि |
मत्प्रसादाच्च विख्यातो गोलोकः स भविष्यति ||३५||
मानुषेषु च कुर्वाणाः प्रजाः कर्म सुतास्तव |
निवत्स्यन्ति महाभागे सर्वा दुहितरश्च ते ||३६||
मनसा चिन्तिता भोगास्त्वया वै दिव्यमानुषाः |
यच्च स्वर्गसुखं देवि तत्ते सम्पत्स्यते शुभे ||३७||
तस्या लोकाः सहस्राक्ष सर्वकामसमन्विताः |
न तत्र क्रमते मृत्युर्न जरा न च पावकः ||३८||
न दैन्यं नाशुभं किञ्चिद्विद्यते तत्र वासव ||३८||
तत्र दिव्यान्यरण्यानि दिव्यानि भवनानि च |
विमानानि च युक्तानि कामगानि च वासव ||३९||
व्रतैश्च विविधैः पुण्यैस्तथा तीर्थानुसेवनात् |
तपसा महता चैव सुकृतेन च कर्मणा ||४०||
शक्यः समासादयितुं गोलोकः पुष्करेक्षण ||४०||
एतत्ते सर्वमाख्यातं मया शक्रानुपृच्छते |
न ते परिभवः कार्यो गवामरिनिसूदन ||४१||
भीष्म उवाच||
एतच्छ्रुत्वा सहस्राक्षः पूजयामास नित्यदा |
गाश्चक्रे बहुमानं च तासु नित्यं युधिष्ठिर ||४२||
एतत्ते सर्वमाख्यातं पावनं च महाद्युते |
पवित्रं परमं चापि गवां माहात्म्यमुत्तमम् ||४३||
कीर्तितं पुरुषव्याघ्र सर्वपापविनाशनम् ||४३||
य इदं कथयेन्नित्यं ब्राह्मणेभ्यः समाहितः |
हव्यकव्येषु यज्ञेषु पितृकार्येषु चैव ह ||४४||
सार्वकामिकमक्षय्यं पितॄंस्तस्योपतिष्ठति ||४४||
गोषु भक्तश्च लभते यद्यदिच्छति मानवः |
स्त्रियोऽपि भक्ता या गोषु ताश्च कामानवाप्नुयुः ||४५||
पुत्रार्थी लभते पुत्रं कन्या पतिमवाप्नुयात् |
धनार्थी लभते वित्तं धर्मार्थी धर्ममाप्नुयात् ||४६||
विद्यार्थी प्राप्नुयाद्विद्यां सुखार्थी प्राप्नुयात्सुखम् |
न किञ्चिद्दुर्लभं चैव गवां भक्तस्य भारत ||४७||
सुवर्णोत्पत्तिः
८३
युधिष्ठिर उवाच||
उक्तं पितामहेनेदं गवां दानमनुत्तमम् |
विशेषेण नरेन्द्राणामिति धर्ममवेक्षताम् ||१||
राज्यं हि सततं दुःखमाश्रमाश्च सुदुर्विदाः |
परिवारेण वै दुःखं दुर्धरं चाकृतात्मभिः ||२||
भूयिष्ठं च नरेन्द्राणां विद्यते न शुभा गतिः ||२||
पूयन्ते तेऽत्र नियतं प्रयच्छन्तो वसुन्धराम् |
पूर्वं च कथिता धर्मास्त्वया मे कुरुनन्दन ||३||
एवमेव गवामुक्तं प्रदानं ते नृगेण ह |
ऋषिणा नाचिकेतेन पूर्वमेव निदर्शितम् ||४||
वेदोपनिषदे चैव सर्वकर्मसु दक्षिणा |
सर्वक्रतुषु चोद्दिष्टं भूमिर्गावोऽथ काञ्चनम् ||५||
तत्र श्रुतिस्तु परमा सुवर्णं दक्षिणेति वै |
एतदिच्छाम्यहं श्रोतुं पितामह यथातथम् ||६||
किं सुवर्णं कथं जातं कस्मिन्काले किमात्मकम् |
किं दानं किं फलं चैव कस्माच्च परमुच्यते ||७||
कस्माद्दानं सुवर्णस्य पूजयन्ति मनीषिणः |
कस्माच्च दक्षिणार्थं तद्यज्ञकर्मसु शस्यते ||८||
कस्माच्च पावनं श्रेष्ठं भूमेर्गोभ्यश्च काञ्चनम् |
परमं दक्षिणार्थे च तद्ब्रवीहि पितामह ||९||
भीष्म उवाच||
शृणु राजन्नवहितो बहुकारणविस्तरम् |
जातरूपसमुत्पत्तिमनुभूतं च यन्मया ||१०||
पिता मम महातेजाः शन्तनुर्निधनं गतः |
तस्य दित्सुरहं श्राद्धं गङ्गाद्वारमुपागमम् ||११||
तत्रागम्य पितुः पुत्र श्राद्धकर्म समारभम् |
माता मे जाह्नवी चैव साहाय्यमकरोत्तदा ||१२||
ततोऽग्रतस्तपःसिद्धानुपवेश्य बहूनृषीन् |
तोयप्रदानात्प्रभृति कार्याण्यहमथारभम् ||१३||
तत्समाप्य यथोद्दिष्टं पूर्वकर्म समाहितः |
दातुं निर्वपणं सम्यग्यथावदहमारभम् ||१४||
ततस्तं दर्भविन्यासं भित्त्वा सुरुचिराङ्गदः |
प्रलम्बाभरणो बाहुरुदतिष्ठद्विशां पते ||१५||
तमुत्थितमहं दृष्ट्वा परं विस्मयमागमम् |
प्रतिग्रहीता साक्षान्मे पितेति भरतर्षभ ||१६||
ततो मे पुनरेवासीत्सञ्ज्ञा सञ्चिन्त्य शास्त्रतः |
नायं वेदेषु विहितो विधिर्हस्त इति प्रभो ||१७||
पिण्डो देयो नरेणेह ततो मतिरभून्मम ||१७||
साक्षान्नेह मनुष्यस्य पितरोऽन्तर्हिताः क्वचित् |
गृह्णन्ति विहितं त्वेवं पिण्डो देयः कुशेष्विति ||१८||
ततोऽहं तदनादृत्य पितुर्हस्तनिदर्शनम् |
शास्त्रप्रमाणात्सूक्ष्मं तु विधिं पार्थिव संस्मरन् ||१९||
ततो दर्भेषु तत्सर्वमददं भरतर्षभ |
शास्त्रमार्गानुसारेण तद्विद्धि मनुजर्षभ ||२०||
ततः सोऽन्तर्हितो बाहुः पितुर्मम नराधिप |
ततो मां दर्शयामासुः स्वप्नान्ते पितरस्तदा ||२१||
प्रीयमाणास्तु मामूचुः प्रीताः स्म भरतर्षभ |
विज्ञानेन तवानेन यन्न मुह्यसि धर्मतः ||२२||
त्वया हि कुर्वता शास्त्रं प्रमाणमिह पार्थिव |
आत्मा धर्मः श्रुतं वेदाः पितरश्च महर्षिभिः ||२३||
साक्षात्पितामहो ब्रह्मा गुरवोऽथ प्रजापतिः |
प्रमाणमुपनीता वै स्थितिश्च न विचालिता ||२४||
तदिदं सम्यगारब्धं त्वयाद्य भरतर्षभ |
किं तु भूमेर्गवां चार्थे सुवर्णं दीयतामिति ||२५||
एवं वयं च धर्मश्च सर्वे चास्मत्पितामहाः |
पाविता वै भविष्यन्ति पावनं परमं हि तत् ||२६||
दश पूर्वान्दश परांस्तथा सन्तारयन्ति ते |
सुवर्णं ये प्रयच्छन्ति एवं मे पितरोऽब्रुवन् ||२७||
ततोऽहं विस्मितो राजन्प्रतिबुद्धो विशां पते |
सुवर्णदानेऽकरवं मतिं भरतसत्तम ||२८||
इतिहासमिमं चापि शृणु राजन्पुरातनम् |
जामदग्न्यं प्रति विभो धन्यमायुष्यमेव च ||२९||
जामदग्न्येन रामेण तीव्ररोषान्वितेन वै |
त्रिःसप्तकृत्वः पृथिवी कृता निःक्षत्रिया पुरा ||३०||
ततो जित्वा महीं कृत्स्नां रामो राजीवलोचनः |
आजहार क्रतुं वीरो ब्रह्मक्षत्रेण पूजितम् ||३१||
वाजिमेधं महाराज सर्वकामसमन्वितम् |
पावनं सर्वभूतानां तेजोद्युतिविवर्धनम् ||३२||
विपाप्मापि स तेजस्वी तेन क्रतुफलेन वै |
नैवात्मनोऽथ लघुतां जामदग्न्योऽभ्यगच्छत ||३३||
स तु क्रतुवरेणेष्ट्वा महात्मा दक्षिणावता |
पप्रच्छागमसम्पन्नानृषीन्देवांश्च भार्गवः ||३४||
पावनं यत्परं नॄणामुग्रे कर्मणि वर्तताम् |
तदुच्यतां महाभागा इति जातघृणोऽब्रवीत् ||३५||
वसिष्ठ उवाच||
देवतास्ते प्रयच्छन्ति सुवर्णं ये ददत्युत |
अग्निर्हि देवताः सर्वाः सुवर्णं च तदात्मकम् ||३६||
तस्मात्सुवर्णं ददता दत्ताः सर्वाश्च देवताः |
भवन्ति पुरुषव्याघ्र न ह्यतः परमं विदुः ||३७||
भूय एव च माहात्म्यं सुवर्णस्य निबोध मे |
गदतो मम विप्रर्षे सर्वशस्त्रभृतां वर ||३८||
मया श्रुतमिदं पूर्वं पुराणे भृगुनन्दन |
प्रजापतेः कथयतो मनोः स्वायम्भुवस्य वै ||३९||
शूलपाणेर्भगवतो रुद्रस्य च महात्मनः |
गिरौ हिमवति श्रेष्ठे तदा भृगुकुलोद्वह ||४०||
देव्या विवाहे निर्वृत्ते रुद्राण्या भृगुनन्दन |
समागमे भगवतो देव्या सह महात्मनः ||४१||
ततः सर्वे समुद्विग्ना भगवन्तमुपागमन् ||४१||
ते महादेवमासीनं देवीं च वरदामुमाम् |
प्रसाद्य शिरसा सर्वे रुद्रमूचुर्भृगूद्वह ||४२||
अयं समागमो देव देव्या सह तवानघ |
तपस्विनस्तपस्विन्या तेजस्विन्यातितेजसः ||४३||
अमोघतेजास्त्वं देव देवी चेयमुमा तथा ||४३||
अपत्यं युवयोर्देव बलवद्भविता प्रभो |
तन्नूनं त्रिषु लोकेषु न किञ्चिच्छेषयिष्यति ||४४||
तदेभ्यः प्रणतेभ्यस्त्वं देवेभ्यः पृथुलोचन |
वरं प्रयच्छ लोकेश त्रैलोक्यहितकाम्यया ||४५||
अपत्यार्थं निगृह्णीष्व तेजो ज्वलितमुत्तमम् ||४५||
इति तेषां कथयतां भगवान्गोवृषध्वजः |
एवमस्त्विति देवांस्तान्विप्रर्षे प्रत्यभाषत ||४६||
इत्युक्त्वा चोर्ध्वमनयत्तद्रेतो वृषवाहनः |
ऊर्ध्वरेताः समभवत्ततःप्रभृति चापि सः ||४७||
रुद्राणी तु ततः क्रुद्धा प्रजोच्छेदे तथा कृते |
देवानथाब्रवीत्तत्र स्त्रीभावात्परुषं वचः ||४८||
यस्मादपत्यकामो वै भर्ता मे विनिवर्तितः |
तस्मात्सर्वे सुरा यूयमनपत्या भविष्यथ ||४९||
प्रजोच्छेदो मम कृतो यस्माद्युष्माभिरद्य वै |
तस्मात्प्रजा वः खगमाः सर्वेषां न भविष्यति ||५०||
पावकस्तु न तत्रासीच्छापकाले भृगूद्वह |
देवा देव्यास्तथा शापादनपत्यास्तदाभवन् ||५१||
रुद्रस्तु तेजोऽप्रतिमं धारयामास तत्तदा |
प्रस्कन्नं तु ततस्तस्मात्किञ्चित्तत्रापतद्भुवि ||५२||
तत्पपात तदा चाग्नौ ववृधे चाद्भुतोपमम् |
तेजस्तेजसि सम्पृक्तमेकयोनित्वमागतम् ||५३||
एतस्मिन्नेव काले तु देवाः शक्रपुरोगमाः |
असुरस्तारको नाम तेन सन्तापिता भृशम् ||५४||
आदित्या वसवो रुद्रा मरुतोऽथाश्विनावपि |
साध्याश्च सर्वे सन्त्रस्ता दैतेयस्य पराक्रमात् ||५५||
स्थानानि देवतानां हि विमानानि पुराणि च |
ऋषीणामाश्रमाश्चैव बभूवुरसुरैर्हृताः ||५६||
ते दीनमनसः सर्वे देवाश्च ऋषयश्च ह |
प्रजग्मुः शरणं देवं ब्रह्माणमजरं प्रभुम् ||५७||
कार्त्तिकेयोत्पत्तिः
८४
देवा ऊचुः||
असुरस्तारको नाम त्वया दत्तवरः प्रभो |
सुरानृषींश्च क्लिश्नाति वधस्तस्य विधीयताम् ||१||
तस्माद्भयं समुत्पन्नमस्माकं वै पितामह |
परित्रायस्व नो देव न ह्यन्या गतिरस्ति नः ||२||
ब्रह्मोवाच||
समोऽहं सर्वभूतानामधर्मं नेह रोचये |
हन्यतां तारकः क्षिप्रं सुरर्षिगणबाधकः ||३||
वेदा धर्माश्च नोत्सादं गच्छेयुः सुरसत्तमाः |
विहितं पूर्वमेवात्र मया वै व्येतु वो ज्वरः ||४||
देवा ऊचुः||
वरदानाद्भगवतो दैतेयो बलगर्वितः |
देवैर्न शक्यते हन्तुं स कथं प्रशमं व्रजेत् ||५||
स हि नैव स्म देवानां नासुराणां न रक्षसाम् |
वध्यः स्यामिति जग्राह वरं त्वत्तः पितामह ||६||
देवाश्च शप्ता रुद्राण्या प्रजोच्छेदे पुरा कृते |
न भविष्यति वोऽपत्यमिति सर्वजगत्पते ||७||
ब्रह्मोवाच||
हुताशनो न तत्रासीच्छापकाले सुरोत्तमाः |
स उत्पादयितापत्यं वधार्थं त्रिदशद्विषाम् ||८||
तद्वै सर्वानतिक्रम्य देवदानवराक्षसान् |
मानुषानथ गन्धर्वान्नागानथ च पक्षिणः ||९||
अस्त्रेणामोघपातेन शक्त्या तं घातयिष्यति |
यतो वो भयमुत्पन्नं ये चान्ये सुरशत्रवः ||१०||
सनातनो हि सङ्कल्पः काम इत्यभिधीयते |
रुद्रस्य तेजः प्रस्कन्नमग्नौ निपतितं च तत् ||११||
तत्तेजोऽग्निर्महद्भूतं द्वितीयमिव पावकम् |
वधार्थं देवशत्रूणां गङ्गायां जनयिष्यति ||१२||
स तु नावाप तं शापं नष्टः स हुतभुक्तदा |
तस्माद्वो भयहृद्देवाः समुत्पत्स्यति पावकिः ||१३||
अन्विष्यतां वै ज्वलनस्तथा चाद्य नियुज्यताम् |
तारकस्य वधोपायः कथितो वै मयानघाः ||१४||
न हि तेजस्विनां शापास्तेजःसु प्रभवन्ति वै |
बलान्यतिबलं प्राप्य नबलानि भवन्ति वै ||१५||
हन्यादवध्यान्वरदानपि चैव तपस्विनः |
सङ्कल्पाभिरुचिः कामः सनातनतमोऽनलः ||१६||
जगत्पतिरनिर्देश्यः सर्वगः सर्वभावनः |
हृच्छयः सर्वभूतानां ज्येष्ठो रुद्रादपि प्रभुः ||१७||
अन्विष्यतां स तु क्षिप्रं तेजोराशिर्हुताशनः |
स वो मनोगतं कामं देवः सम्पादयिष्यति ||१८||
एतद्वाक्यमुपश्रुत्य ततो देवा महात्मनः |
जग्मुः संसिद्धसङ्कल्पाः पर्येषन्तो विभावसुम् ||१९||
ततस्त्रैलोक्यमृषयो व्यचिन्वन्त सुरैः सह |
काङ्क्षन्तो दर्शनं वह्नेः सर्वे तद्गतमानसाः ||२०||
परेण तपसा युक्ताः श्रीमन्तो लोकविश्रुताः |
लोकानन्वचरन्सिद्धाः सर्व एव भृगूद्वह ||२१||
नष्टमात्मनि संलीनं नाधिजग्मुर्हुताशनम् ||२१||
ततः सञ्जातसन्त्रासानग्नेर्दर्शनलालसान् |
जलेचरः क्लान्तमनास्तेजसाग्नेः प्रदीपितः ||२२||
उवाच देवान्मण्डूको रसातलतलोत्थितः ||२२||
रसातलतले देवा वसत्यग्निरिति प्रभो |
सन्तापादिह सम्प्राप्तः पावकप्रभवादहम् ||२३||
स संसुप्तो जले देवा भगवान्हव्यवाहनः |
अपः संसृज्य तेजोभिस्तेन सन्तापिता वयम् ||२४||
तस्य दर्शनमिष्टं वो यदि देवा विभावसोः |
तत्रैनमभिगच्छध्वं कार्यं वो यदि वह्निना ||२५||
गम्यतां साधयिष्यामो वयं ह्यग्निभयात्सुराः |
एतावदुक्त्वा मण्डूकस्त्वरितो जलमाविशत् ||२६||
हुताशनस्तु बुबुधे मण्डूकस्याथ पैशुनम् |
शशाप स तमासाद्य न रसान्वेत्स्यसीति वै ||२७||
तं स संयुज्य शापेन मण्डूकं पावको ययौ |
अन्यत्र वासाय विभुर्न च देवानदर्शयत् ||२८||
देवास्त्वनुग्रहं चक्रुर्मण्डूकानां भृगूद्वह |
यत्तच्छृणु महाबाहो गदतो मम सर्वशः ||२९||
देवा ऊचुः||
अग्निशापादजिह्वापि रसज्ञानबहिष्कृताः |
सरस्वतीं बहुविधां यूयमुच्चारयिष्यथ ||३०||
बिलवासगतांश्चैव निरादानानचेतसः |
गतासूनपि वः शुष्कान्भूमिः सन्धारयिष्यति ||३१||
तमोगतायामपि च निशायां विचरिष्यथ ||३१||
इत्युक्त्वा तांस्ततो देवाः पुनरेव महीमिमाम् |
परीयुर्ज्वलनस्यार्थे न चाविन्दन्हुताशनम् ||३२||
अथ तान्द्विरदः कश्चित्सुरेन्द्रद्विरदोपमः |
अश्वत्थस्थोऽग्निरित्येवं प्राह देवान्भृगूद्वह ||३३||
शशाप ज्वलनः सर्वान्द्विरदान्क्रोधमूर्छितः |
प्रतीपा भवतां जिह्वा भवित्रीति भृगूद्वह ||३४||
इत्युक्त्वा निःसृतोऽश्वत्थादग्निर्वारणसूचितः |
प्रविवेश शमीगर्भमथ वह्निः सुषुप्सया ||३५||
अनुग्रहं तु नागानां यं चक्रुः शृणु तं प्रभो |
देवा भृगुकुलश्रेष्ठ प्रीताः सत्यपराक्रमाः ||३६||
देवा ऊचुः||
प्रतीपया जिह्वयापि सर्वाहारान्करिष्यथ |
वाचं चोच्चारयिष्यध्वमुच्चैरव्यञ्जिताक्षरम् ||३७||
इत्युक्त्वा पुनरेवाग्निमनुसस्रुर्दिवौकसः ||३७||
अश्वत्थान्निःसृतश्चाग्निः शमीगर्भगतस्तदा |
शुकेन ख्यापितो विप्र तं देवाः समुपाद्रवन् ||३८||
शशाप शुकमग्निस्तु वाग्विहीनो भविष्यसि |
जिह्वां चावर्तयामास तस्यापि हुतभुक्तदा ||३९||
दृष्ट्वा तु ज्वलनं देवाः शुकमूचुर्दयान्विताः |
भविता न त्वमत्यन्तं शकुने नष्टवागिति ||४०||
आवृत्तजिह्वस्य सतो वाक्यं कान्तं भविष्यति |
बालस्येव प्रवृद्धस्य कलमव्यक्तमद्भुतम् ||४१||
इत्युक्त्वा तं शमीगर्भे वह्निमालक्ष्य देवताः |
तदेवायतनं चक्रुः पुण्यं सर्वक्रियास्वपि ||४२||
ततःप्रभृति चाप्यग्निः शमीगर्भेषु दृश्यते |
उत्पादने तथोपायमनुजग्मुश्च मानवाः ||४३||
आपो रसातले यास्तु संसृष्टाश्चित्रभानुना |
ताः पर्वतप्रस्रवणैरूष्मां मुञ्चन्ति भार्गव ||४४||
पावकेनाधिशयता सन्तप्तास्तस्य तेजसा ||४४||
ततोऽग्निर्देवता दृष्ट्वा बभूव व्यथितस्तदा |
किमागमनमित्येवं तानपृच्छत पावकः ||४५||
तमूचुर्विबुधाः सर्वे ते चैव परमर्षयः |
त्वां नियोक्ष्यामहे कार्ये तद्भवान्कर्तुमर्हति ||४६||
कृते च तस्मिन्भविता तवापि सुमहान्गुणः ||४६||
अग्निरुवाच||
ब्रूत यद्भवतां कार्यं सर्वं कर्तास्मि तत्सुराः |
भवतां हि नियोज्योऽहं मा वोऽत्रास्तु विचारणा ||४७||
देवा ऊचुः||
असुरस्तारको नाम ब्रह्मणो वरदर्पितः |
अस्मान्प्रबाधते वीर्याद्वधस्तस्य विधीयताम् ||४८||
इमान्देवगणांस्तात प्रजापतिगणांस्तथा |
ऋषींश्चापि महाभागान्परित्रायस्व पावक ||४९||
अपत्यं तेजसा युक्तं प्रवीरं जनय प्रभो |
यद्भयं नोऽसुरात्तस्मान्नाशयेद्धव्यवाहन ||५०||
शप्तानां नो महादेव्या नान्यदस्ति परायणम् |
अन्यत्र भवतो वीर्यं तस्मात्त्रायस्व नस्ततः ||५१||
इत्युक्तः स तथेत्युक्त्वा भगवान्हव्यकव्यभुक् |
जगामाथ दुराधर्षो गङ्गां भागीरथीं प्रति ||५२||
तया चाप्यभवन्मिश्रो गर्भश्चास्याभवत्तदा |
ववृधे स तदा गर्भः कक्षे कृष्णगतिर्यथा ||५३||
तेजसा तस्य गर्भस्य गङ्गा विह्वलचेतना |
सन्तापमगमत्तीव्रं सा सोढुं न शशाक ह ||५४||
आहिते ज्वलनेनाथ गर्भे तेजःसमन्विते |
गङ्गायामसुरः कश्चिद्भैरवं नादमुत्सृजत् ||५५||
अबुद्धापतितेनाथ नादेन विपुलेन सा |
वित्रस्तोद्भ्रान्तनयना गङ्गा विप्लुतलोचना ||५६||
विसञ्ज्ञा नाशकद्गर्भं सन्धारयितुमात्मना ||५६||
सा तु तेजःपरीताङ्गी कम्पमाना च जाह्नवी |
उवाच वचनं विप्र तदा गर्भबलोद्धता ||५७||
न ते शक्तास्मि भगवंस्तेजसोऽस्य विधारणे ||५७||
विमूढास्मि कृतानेन तथास्वास्थ्यं कृतं परम् |
विह्वला चास्मि भगवंस्तेजो नष्टं च मेऽनघ ||५८||
धारणे नास्य शक्ताहं गर्भस्य तपतां वर |
उत्स्रक्ष्येऽहमिमं दुःखान्न तु कामात्कथञ्चन ||५९||
न चेतसोऽस्ति संस्पर्शो मम देव विभावसो |
आपदर्थे हि सम्बन्धः सुसूक्ष्मोऽपि महाद्युते ||६०||
यदत्र गुणसम्पन्नमितरं वा हुताशन |
त्वय्येव तदहं मन्ये धर्माधर्मौ च केवलौ ||६१||
तामुवाच ततो वह्निर्धार्यतां धार्यतामयम् |
गर्भो मत्तेजसा युक्तो महागुणफलोदयः ||६२||
शक्ता ह्यसि महीं कृत्स्नां वोढुं धारयितुं तथा |
न हि ते किञ्चिदप्राप्यं मद्रेतोधारणादृते ||६३||
सा वह्निना वार्यमाणा देवैश्चापि सरिद्वरा |
समुत्ससर्ज तं गर्भं मेरौ गिरिवरे तदा ||६४||
समर्था धारणे चापि रुद्रतेजःप्रधर्षिता |
नाशकत्तं तदा गर्भं सन्धारयितुमोजसा ||६५||
सा समुत्सृज्य तं दुःखाद्दीप्तवैश्वानरप्रभम् |
दर्शयामास चाग्निस्तां तदा गङ्गां भृगूद्वह ||६६||
पप्रच्छ सरितां श्रेष्ठां कच्चिद्गर्भः सुखोदयः ||६६||
कीदृग्वर्णोऽपि वा देवि कीदृग्रूपश्च दृश्यते |
तेजसा केन वा युक्तः सर्वमेतद्ब्रवीहि मे ||६७||
गङ्गोवाच||
जातरूपः स गर्भो वै तेजसा त्वमिवानल |
सुवर्णो विमलो दीप्तः पर्वतं चावभासयत् ||६८||
पद्मोत्पलविमिश्राणां ह्रदानामिव शीतलः |
गन्धोऽस्य स कदम्बानां तुल्यो वै तपतां वर ||६९||
तेजसा तस्य गर्भस्य भास्करस्येव रश्मिभिः |
यद्द्रव्यं परिसंसृष्टं पृथिव्यां पर्वतेषु वा ||७०||
तत्सर्वं काञ्चनीभूतं समन्तात्प्रत्यदृश्यत ||७०||
पर्यधावत शैलांश्च नदीः प्रस्रवणानि च |
व्यदीपयत्तेजसा च त्रैलोक्यं सचराचरम् ||७१||
एवंरूपः स भगवान्पुत्रस्ते हव्यवाहन |
सूर्यवैश्वानरसमः कान्त्या सोम इवापरः ||७२||
एवमुक्त्वा तु सा देवी तत्रैवान्तरधीयत ||७२||
पावकश्चापि तेजस्वी कृत्वा कार्यं दिवौकसाम् |
जगामेष्टं ततो देशं तदा भार्गवनन्दन ||७३||
एतैः कर्मगुणैर्लोके नामाग्नेः परिगीयते |
हिरण्यरेता इति वै ऋषिभिर्विबुधैस्तथा ||७४||
पृथिवी च तदा देवी ख्याता वसुमतीति वै ||७४||
स तु गर्भो महातेजा गाङ्गेयः पावकोद्भवः |
दिव्यं शरवणं प्राप्य ववृधेऽद्भुतदर्शनः ||७५||
ददृशुः कृत्तिकास्तं तु बालार्कसदृशद्युतिम् |
जातस्नेहाश्च तं बालं पुपुषुः स्तन्यविस्रवैः ||७६||
ततः स कार्त्तिकेयत्वमवाप परमद्युतिः |
स्कन्नत्वात्स्कन्दतां चापि गुहावासाद्गुहोऽभवत् ||७७||
एवं सुवर्णमुत्पन्नमपत्यं जातवेदसः |
तत्र जाम्बूनदं श्रेष्ठं देवानामपि भूषणम् ||७८||
ततःप्रभृति चाप्येतज्जातरूपमुदाहृतम् |
यत्सुवर्णं स भगवानग्निरीशः प्रजापतिः ||७९||
पवित्राणां पवित्रं हि कनकं द्विजसत्तम |
अग्नीषोमात्मकं चैव जातरूपमुदाहृतम् ||८०||
रत्नानामुत्तमं रत्नं भूषणानां तथोत्तमम् |
पवित्रं च पवित्राणां मङ्गलानां च मङ्गलम् ||८१||
८५
वसिष्ठ उवाच||
अपि चेदं पुरा राम श्रुतं मे ब्रह्मदर्शनम् |
पितामहस्य यद्वृत्तं ब्रह्मणः परमात्मनः ||१||
देवस्य महतस्तात वारुणीं बिभ्रतस्तनुम् |
ऐश्वर्ये वारुणे राम रुद्रस्येशस्य वै प्रभो ||२||
आजग्मुर्मुनयः सर्वे देवाश्चाग्निपुरोगमाः |
यज्ञाङ्गानि च सर्वाणि वषट्कारश्च मूर्तिमान् ||३||
मूर्तिमन्ति च सामानि यजूंषि च सहस्रशः |
ऋग्वेदश्चागमत्तत्र पदक्रमविभूषितः ||४||
लक्षणानि स्वराः स्तोभा निरुक्तं स्वरभक्तयः |
ओङ्कारश्चावसन्नेत्रे निग्रहप्रग्रहौ तथा ||५||
वेदाश्च सोपनिषदो विद्या सावित्र्यथापि च |
भूतं भव्यं भविष्यच्च दधार भगवाञ्शिवः ||६||
जुह्वच्चात्मन्यथात्मानं स्वयमेव तदा प्रभो ||६||
देवपत्न्यश्च कन्याश्च देवानां चैव मातरः |
आजग्मुः सहितास्तत्र तदा भृगुकुलोद्वह ||७||
यज्ञं पशुपतेः प्रीता वरुणस्य महात्मनः |
स्वयम्भुवस्तु ता दृष्ट्वा रेतः समपतद्भुवि ||८||
तस्य शुक्रस्य निष्पन्दात्पांसून्सङ्गृह्य भूमितः |
प्रास्यत्पूषा कराभ्यां वै तस्मिन्नेव हुताशने ||९||
ततस्तस्मिन्सम्प्रवृत्ते सत्रे ज्वलितपावके |
ब्रह्मणो जुह्वतस्तत्र प्रादुर्भावो बभूव ह ||१०||
स्कन्नमात्रं च तच्छुक्रं स्रुवेण प्रतिगृह्य सः |
आज्यवन्मन्त्रवच्चापि सोऽजुहोद्भृगुनन्दन ||११||
ततः सञ्जनयामास भूतग्रामं स वीर्यवान् |
ततस्तु तेजसस्तस्माज्जज्ञे लोकेषु तैजसम् ||१२||
तमसस्तामसा भावा व्यापि सत्त्वं तथोभयम् |
सगुणस्तेजसो नित्यं तमस्याकाशमेव च ||१३||
सर्वभूतेष्वथ तथा सत्त्वं तेजस्तथा तमः |
शुक्रे हुतेऽग्नौ तस्मिंस्तु प्रादुरासंस्त्रयः प्रभो ||१४||
पुरुषा वपुषा युक्ता युक्ताः प्रसवजैर्गुणैः |
भृगित्येव भृगुः पूर्वमङ्गारेभ्योऽङ्गिराभवत् ||१५||
अङ्गारसंश्रयाच्चैव कविरित्यपरोऽभवत् |
सह ज्वालाभिरुत्पन्नो भृगुस्तस्माद्भृगुः स्मृतः ||१६||
मरीचिभ्यो मरीचिस्तु मारीचः कश्यपो ह्यभूत् |
अङ्गारेभ्योऽङ्गिरास्तात वालखिल्याः शिलोच्चयात् ||१७||
अत्रैवात्रेति च विभो जातमत्रिं वदन्त्यपि ||१७||
तथा भस्मव्यपोहेभ्यो ब्रह्मर्षिगणसंमिताः |
वैखानसाः समुत्पन्नास्तपःश्रुतगुणेप्सवः ||१८||
अश्रुतोऽस्य समुत्पन्नावश्विनौ रूपसंमतौ ||१८||
शेषाः प्रजानां पतयः स्रोतोभ्यस्तस्य जज्ञिरे |
ऋषयो लोमकूपेभ्यः स्वेदाच्छन्दो मलात्मकम् ||१९||
एतस्मात्कारणादाहुरग्निं सर्वास्तु देवताः |
ऋषयः श्रुतसम्पन्ना वेदप्रामाण्यदर्शनात् ||२०||
यानि दारूणि ते मासा निर्यासाः पक्षसञ्ज्ञिताः |
अहोरात्रा मुहूर्तास्तु पित्तं ज्योतिश्च वारुणम् ||२१||
रौद्रं लोहितमित्याहुर्लोहितात्कनकं स्मृतम् |
तन्मैत्रमिति विज्ञेयं धूमाच्च वसवः स्मृताः ||२२||
अर्चिषो याश्च ते रुद्रास्तथादित्या महाप्रभाः |
उद्दिष्टास्ते तथाङ्गारा ये धिष्ण्येषु दिवि स्थिताः ||२३||
आदिनाथश्च लोकस्य तत्परं ब्रह्म तद्ध्रुवम् |
सर्वकामदमित्याहुस्तत्र हव्यमुदावहत् ||२४||
ततोऽब्रवीन्महादेवो वरुणः परमात्मकः |
मम सत्रमिदं दिव्यमहं गृहपतिस्त्विह ||२५||
त्रीणि पूर्वाण्यपत्यानि मम तानि न संशयः |
इति जानीत खगमा मम यज्ञफलं हि तत् ||२६||
अग्निरुवाच||
मदङ्गेभ्यः प्रसूतानि मदाश्रयकृतानि च |
ममैव तान्यपत्यानि वरुणो ह्यवशात्मकः ||२७||
अथाब्रवील्लोकगुरुर्ब्रह्मा लोकपितामहः |
ममैव तान्यपत्यानि मम शुक्रं हुतं हि तत् ||२८||
अहं वक्ता च मन्त्रस्य होता शुक्रस्य चैव ह |
यस्य बीजं फलं तस्य शुक्रं चेत्कारणं मतम् ||२९||
ततोऽब्रुवन्देवगणाः पितामहमुपेत्य वै |
कृताञ्जलिपुटाः सर्वे शिरोभिरभिवन्द्य च ||३०||
वयं च भगवन्सर्वे जगच्च सचराचरम् |
तवैव प्रसवाः सर्वे तस्मादग्निर्विभावसुः ||३१||
वरुणश्चेश्वरो देवो लभतां काममीप्सितम् ||३१||
निसर्गाद्वरुणश्चापि ब्रह्मणो यादसां पतिः |
जग्राह वै भृगुं पूर्वमपत्यं सूर्यवर्चसम् ||३२||
ईश्वरोऽङ्गिरसं चाग्नेरपत्यार्थेऽभ्यकल्पयत् |
पितामहस्त्वपत्यं वै कविं जग्राह तत्त्ववित् ||३३||
तदा स वारुणः ख्यातो भृगुः प्रसवकर्मकृत् |
आग्नेयस्त्वङ्गिराः श्रीमान्कविर्ब्राह्मो महायशाः ||३४||
भार्गवाङ्गिरसौ लोके लोकसन्तानलक्षणौ ||३४||
एते विप्रवराः सर्वे प्रजानां पतयस्त्रयः |
सर्वं सन्तानमेतेषामिदमित्युपधारय ||३५||
भृगोस्तु पुत्रास्तत्रासन्सप्त तुल्या भृगोर्गुणैः |
च्यवनो वज्रशीर्षश्च शुचिरौर्वस्तथैव च ||३६||
शुक्रो वरेण्यश्च विभुः सवनश्चेति सप्त ते |
भार्गवा वारुणाः सर्वे येषां वंशे भवानपि ||३७||
अष्टौ चाङ्गिरसः पुत्रा वारुणास्तेऽप्युदाहृताः |
बृहस्पतिरुतथ्यश्च वयस्यः शान्तिरेव च ||३८||
घोरो विरूपः संवर्तः सुधन्वा चाष्टमः स्मृतः |
एतेऽष्टावग्निजाः सर्वे ज्ञाननिष्ठा निरामयाः ||३९||
ब्राह्मणस्य कवेः पुत्रा वारुणास्तेऽप्युदाहृताः |
अष्टौ प्रसवजैर्युक्ता गुणैर्ब्रह्मविदः शुभाः ||४०||
कविः काव्यश्च विष्णुश्च बुद्धिमानुशनास्तथा |
भृगुश्च विरजाश्चैव काशी चोग्रश्च धर्मवित् ||४१||
अष्टौ कविसुता ह्येते सर्वमेभिर्जगत्ततम् |
प्रजापतय एते हि प्रजानां यैरिमाः प्रजाः ||४२||
एवमङ्गिरसश्चैव कवेश्च प्रसवान्वयैः |
भृगोश्च भृगुशार्दूल वंशजैः सततं जगत् ||४३||
वरुणश्चादितो विप्र जग्राह प्रभुरीश्वरः |
कविं तात भृगुं चैव तस्मात्तौ वारुणौ स्मृतौ ||४४||
जग्राहाङ्गिरसं देवः शिखी तस्माद्धुताशनः |
तस्मादङ्गिरसो ज्ञेयाः सर्व एव तदन्वयाः ||४५||
ब्रह्मा पितामहः पूर्वं देवताभिः प्रसादितः |
इमे नः सन्तरिष्यन्ति प्रजाभिर्जगदीश्वराः ||४६||
सर्वे प्रजानां पतयः सर्वे चातितपस्विनः |
त्वत्प्रसादादिमं लोकं तारयिष्यन्ति शाश्वतम् ||४७||
तथैव वंशकर्तारस्तव तेजोविवर्धनाः |
भवेयुर्वेदविदुषः सर्वे वाक्पतयस्तथा ||४८||
देवपक्षधराः सौम्याः प्राजापत्या महर्षयः |
आप्नुवन्ति तपश्चैव ब्रह्मचर्यं परं तथा ||४९||
सर्वे हि वयमेते च तवैव प्रसवः प्रभो |
देवानां ब्राह्मणानां च त्वं हि कर्ता पितामह ||५०||
मरीचिमादितः कृत्वा सर्वे चैवाथ भार्गवाः |
अपत्यानीति सम्प्रेक्ष्य क्षमयाम पितामह ||५१||
ते त्वनेनैव रूपेण प्रजनिष्यन्ति वै प्रजाः |
स्थापयिष्यन्ति चात्मानं युगादिनिधने तथा ||५२||
एवमेतत्पुरा वृत्तं तस्य यज्ञे महात्मनः |
देवश्रेष्ठस्य लोकादौ वारुणीं बिभ्रतस्तनुम् ||५३||
अग्निर्ब्रह्मा पशुपतिः शर्वो रुद्रः प्रजापतिः |
अग्नेरपत्यमेतद्वै सुवर्णमिति धारणा ||५४||
अग्न्यभावे च कुर्वन्ति वह्निस्थानेषु काञ्चनम् |
जामदग्न्य प्रमाणज्ञा वेदश्रुतिनिदर्शनात् ||५५||
कुशस्तम्बे जुहोत्यग्निं सुवर्णं तत्र संस्थितम् |
हुते प्रीतिकरीमृद्धिं भगवांस्तत्र मन्यते ||५६||
तस्मादग्निपराः सर्वा देवता इति शुश्रुम |
ब्रह्मणो हि प्रसूतोऽग्निरग्नेरपि च काञ्चनम् ||५७||
तस्माद्ये वै प्रयच्छन्ति सुवर्णं धर्मदर्शिनः |
देवतास्ते प्रयच्छन्ति समस्ता इति नः श्रुतम् ||५८||
तस्य चातमसो लोका गच्छतः परमां गतिम् |
स्वर्लोके राजराज्येन सोऽभिषिच्येत भार्गव ||५९||
आदित्योदयने प्राप्ते विधिमन्त्रपुरस्कृतम् |
ददाति काञ्चनं यो वै दुःस्वप्नं प्रतिहन्ति सः ||६०||
ददात्युदितमात्रे यस्तस्य पाप्मा विधूयते |
मध्याह्ने ददतो रुक्मं हन्ति पापमनागतम् ||६१||
ददाति पश्चिमां सन्ध्यां यः सुवर्णं धृतव्रतः |
ब्रह्मवाय्वग्निसोमानां सालोक्यमुपयाति सः ||६२||
सेन्द्रेषु चैव लोकेषु प्रतिष्ठां प्राप्नुते शुभाम् |
इह लोके यशः प्राप्य शान्तपाप्मा प्रमोदते ||६३||
ततः सम्पद्यतेऽन्येषु लोकेष्वप्रतिमः सदा |
अनावृतगतिश्चैव कामचारी भवत्युत ||६४||
न च क्षरति तेभ्यः स शश्वच्चैवाप्नुते महत् |
सुवर्णमक्षयं दत्त्वा लोकानाप्नोति पुष्कलान् ||६५||
यस्तु सञ्जनयित्वाग्निमादित्योदयनं प्रति |
दद्याद्वै व्रतमुद्दिश्य सर्वान्कामान्समश्नुते ||६६||
अग्निरित्येव तत्प्राहुः प्रदानं वै सुखावहम् |
यथेष्टगुणसम्पन्नं प्रवर्तकमिति स्मृतम् ||६७||
भीष्म उवाच||
इत्युक्तः स वसिष्ठेन जामदग्न्यः प्रतापवान् |
ददौ सुवर्णं विप्रेभ्यो व्यमुच्यत च किल्बिषात् ||६८||
एतत्ते सर्वमाख्यातं सुवर्णस्य महीपते |
प्रदानस्य फलं चैव जन्म चाग्न्यमनुत्तमम् ||६९||
तस्मात्त्वमपि विप्रेभ्यः प्रयच्छ कनकं बहु |
ददत्सुवर्णं नृपते किल्बिषाद्विप्रमोक्ष्यसि ||७०||
तारकवधः
८६
युधिष्ठिर उवाच||
उक्ताः पितामहेनेह सुवर्णस्य विधानतः |
विस्तरेण प्रदानस्य ये गुणाः श्रुतिलक्षणाः ||१||
यत्तु कारणमुत्पत्तेः सुवर्णस्येह कीर्तितम् |
स कथं तारकः प्राप्तो निधनं तद्ब्रवीहि मे ||२||
उक्तः स देवतानां हि अवध्य इति पार्थिव |
न च तस्येह ते मृत्युर्विस्तरेण प्रकीर्तितः ||३||
एतदिच्छाम्यहं श्रोतुं त्वत्तः कुरुकुलोद्वह |
कार्त्स्न्येन तारकवधं परं कौतूहलं हि मे ||४||
भीष्म उवाच||
विपन्नकृत्या राजेन्द्र देवता ऋषयस्तथा |
कृत्तिकाश्चोदयामासुरपत्यभरणाय वै ||५||
न देवतानां काचिद्धि समर्था जातवेदसः |
एकापि शक्ता तं गर्भं सन्धारयितुमोजसा ||६||
षण्णां तासां ततः प्रीतः पावको गर्भधारणात् |
स्वेन तेजोविसर्गेण वीर्येण परमेण च ||७||
तास्तु षट्कृत्तिका गर्भं पुपुषुर्जातवेदसः |
षट्सु वर्त्मसु तेजोऽग्नेः सकलं निहितं प्रभो ||८||
ततस्ता वर्धमानस्य कुमारस्य महात्मनः |
तेजसाभिपरीताङ्ग्यो न क्वचिच्छर्म लेभिरे ||९||
ततस्तेजःपरीताङ्ग्यः सर्वाः काल उपस्थिते |
समं गर्भं सुषुविरे कृत्तिकास्ता नरर्षभ ||१०||
ततस्तं षडधिष्ठानं गर्भमेकत्वमागतम् |
पृथिवी प्रतिजग्राह कान्तीपुरसमीपतः ||११||
स गर्भो दिव्यसंस्थानो दीप्तिमान्पावकप्रभः |
दिव्यं शरवणं प्राप्य ववृधे प्रियदर्शनः ||१२||
ददृशुः कृत्तिकास्तं तु बालं वह्निसमद्युतिम् |
जातस्नेहाश्च सौहार्दात्पुपुषुः स्तन्यविस्रवैः ||१३||
अभवत्कार्त्तिकेयः स त्रैलोक्ये सचराचरे |
स्कन्नत्वात्स्कन्दतां चाप गुहावासाद्गुहोऽभवत् ||१४||
ततो देवास्त्रयस्त्रिंशद्दिशश्च सदिगीश्वराः |
रुद्रो धाता च विष्णुश्च यज्ञः पूषार्यमा भगः ||१५||
अंशो मित्रश्च साध्याश्च वसवो वासवोऽश्विनौ |
आपो वायुर्नभश्चन्द्रो नक्षत्राणि ग्रहा रविः ||१६||
पृथग्भूतानि चान्यानि यानि देवार्पणानि वै |
आजग्मुस्तत्र तं द्रष्टुं कुमारं ज्वलनात्मजम् ||१७||
ऋषयस्तुष्टुवुश्चैव गन्धर्वाश्च जगुस्तथा ||१७||
षडाननं कुमारं तं द्विषडक्षं द्विजप्रियम् |
पीनांसं द्वादशभुजं पावकादित्यवर्चसम् ||१८||
शयानं शरगुल्मस्थं दृष्ट्वा देवाः सहर्षिभिः |
लेभिरे परमं हर्षं मेनिरे चासुरं हतम् ||१९||
ततो देवाः प्रियाण्यस्य सर्व एव समाचरन् |
क्रीडतः क्रीडनीयानि ददुः पक्षिगणांश्च ह ||२०||
सुपर्णोऽस्य ददौ पत्रं मयूरं चित्रबर्हिणम् |
राक्षसाश्च ददुस्तस्मै वराहमहिषावुभौ ||२१||
कुक्कुटं चाग्निसङ्काशं प्रददौ वरुणः स्वयम् |
चन्द्रमाः प्रददौ मेषमादित्यो रुचिरां प्रभाम् ||२२||
गवां माता च गा देवी ददौ शतसहस्रशः |
छागमग्निर्गुणोपेतमिला पुष्पफलं बहु ||२३||
सुधन्वा शकटं चैव रथं चामितकूबरम् |
वरुणो वारुणान्दिव्यान्भुजङ्गान्प्रददौ शुभान् ||२४||
सिंहान्सुरेन्द्रो व्याघ्रांश्च द्वीपिनोऽन्यांश्च दंष्ट्रिणः ||२४||
श्वापदांश्च बहून्घोरांश्छत्राणि विविधानि च |
राक्षसासुरसङ्घाश्च येऽनुजग्मुस्तमीश्वरम् ||२५||
वर्धमानं तु तं दृष्ट्वा प्रार्थयामास तारकः |
उपायैर्बहुभिर्हन्तुं नाशकच्चापि तं विभुम् ||२६||
सेनापत्येन तं देवाः पूजयित्वा गुहालयम् |
शशंसुर्विप्रकारं तं तस्मै तारककारितम् ||२७||
स विवृद्धो महावीर्यो देवसेनापतिः प्रभुः |
जघानामोघया शक्त्या दानवं तारकं गुहः ||२८||
तेन तस्मिन्कुमारेण क्रीडता निहतेऽसुरे |
सुरेन्द्रः स्थापितो राज्ये देवानां पुनरीश्वरः ||२९||
स सेनापतिरेवाथ बभौ स्कन्दः प्रतापवान् |
ईशो गोप्ता च देवानां प्रियकृच्छङ्करस्य च ||३०||
हिरण्यमूर्तिर्भगवानेष एव च पावकिः |
सदा कुमारो देवानां सेनापत्यमवाप्तवान् ||३१||
तस्मात्सुवर्णं मङ्गल्यं रत्नमक्षय्यमुत्तमम् |
सहजं कार्त्तिकेयस्य वह्नेस्तेजः परं मतम् ||३२||
एवं रामाय कौरव्य वसिष्ठोऽकथयत्पुरा |
तस्मात्सुवर्णदानाय प्रयतस्व नराधिप ||३३||
रामः सुवर्णं दत्त्वा हि विमुक्तः सर्वकिल्बिषैः |
त्रिविष्टपे महत्स्थानमवापासुलभं नरैः ||३४||
श्राद्धकल्पः
८७
युधिष्ठिर उवाच||
चातुर्वर्ण्यस्य धर्मात्मन्धर्मः प्रोक्तस्त्वयानघ |
तथैव मे श्राद्धविधिं कृत्स्नं प्रब्रूहि पार्थिव ||१||
वैशम्पायन उवाच||
युधिष्ठिरेणैवमुक्तो भीष्मः शान्तनवस्तदा |
इमं श्राद्धविधिं कृत्स्नं प्रवक्तुमुपचक्रमे ||२||
भीष्म उवाच||
शृणुष्वावहितो राजञ्श्राद्धकल्पमिमं शुभम् |
धन्यं यशस्यं पुत्रीयं पितृयज्ञं परन्तप ||३||
देवासुरमनुष्याणां गन्धर्वोरगरक्षसाम् |
पिशाचकिंनराणां च पूज्या वै पितरः सदा ||४||
पितॄन्पूज्यादितः पश्चाद्देवान्सन्तर्पयन्ति वै |
तस्मात्सर्वप्रयत्नेन पुरुषः पूजयेत्सदा ||५||
अन्वाहार्यं महाराज पितॄणां श्राद्धमुच्यते |
तच्चामिषेण विधिना विधिः प्रथमकल्पितः ||६||
सर्वेष्वहःसु प्रीयन्ते कृतैः श्राद्धैः पितामहाः |
प्रवक्ष्यामि तु ते सर्वांस्तिथ्यां तिथ्यां गुणागुणान् ||७||
येष्वहःसु कृतैः श्राद्धैर्यत्फलं प्राप्यतेऽनघ |
तत्सर्वं कीर्तयिष्यामि यथावत्तन्निबोध मे ||८||
पितॄनर्च्य प्रतिपदि प्राप्नुयात्स्वगृहे स्त्रियः |
अभिरूपप्रजायिन्यो दर्शनीया बहुप्रजाः ||९||
स्त्रियो द्वितीयां जायन्ते तृतीयायां तु वन्दिनः |
चतुर्थ्यां क्षुद्रपशवो भवन्ति बहवो गृहे ||१०||
पञ्चम्यां बहवः पुत्रा जायन्ते कुर्वतां नृप |
कुर्वाणास्तु नराः षष्ठ्यां भवन्ति द्युतिभागिनः ||११||
कृषिभागी भवेच्छ्राद्धं कुर्वाणः सप्तमीं नृप |
अष्टम्यां तु प्रकुर्वाणो वाणिज्ये लाभमाप्नुयात् ||१२||
नवम्यां कुर्वतः श्राद्धं भवत्येकशफं बहु |
विवर्धन्ते तु दशमीं गावः श्राद्धानि कुर्वतः ||१३||
कुप्यभागी भवेन्मर्त्यः कुर्वन्नेकादशीं नृप |
ब्रह्मवर्चस्विनः पुत्रा जायन्ते तस्य वेश्मनि ||१४||
द्वादश्यामीहमानस्य नित्यमेव प्रदृश्यते |
रजतं बहु चित्रं च सुवर्णं च मनोरमम् ||१५||
ज्ञातीनां तु भवेच्छ्रेष्ठः कुर्वञ्श्राद्धं त्रयोदशीम् |
अवश्यं तु युवानोऽस्य प्रमीयन्ते नरा गृहे ||१६||
युद्धभागी भवेन्मर्त्यः श्राद्धं कुर्वंश्चतुर्दशीम् |
अमावास्यां तु निवपन्सर्वान्कामानवाप्नुयात् ||१७||
कृष्णपक्षे दशम्यादौ वर्जयित्वा चतुर्दशीम् |
श्राद्धकर्मणि तिथ्यः स्युः प्रशस्ता न तथेतराः ||१८||
यथा चैवापरः पक्षः पूर्वपक्षाद्विशिष्यते |
तथा श्राद्धस्य पूर्वाह्णादपराह्णो विशिष्यते ||१९||
८८
युधिष्ठिर उवाच||
किं स्विद्दत्तं पितृभ्यो वै भवत्यक्षयमीश्वर |
किं हविश्चिररात्राय किमानन्त्याय कल्पते ||१||
भीष्म उवाच||
हवींषि श्राद्धकल्पे तु यानि श्राद्धविदो विदुः |
तानि मे शृणु काम्यानि फलं चैषां युधिष्ठिर ||२||
तिलैर्व्रीहियवैर्माषैरद्भिर्मूलफलैस्तथा |
दत्तेन मासं प्रीयन्ते श्राद्धेन पितरो नृप ||३||
वर्धमानतिलं श्राद्धमक्षयं मनुरब्रवीत् |
सर्वेष्वेव तु भोज्येषु तिलाः प्राधान्यतः स्मृताः ||४||
द्वौ मासौ तु भवेत्तृप्तिर्मत्स्यैः पितृगणस्य ह |
त्रीन्मासानाविकेनाहुश्चातुर्मास्यं शशेन तु ||५||
आजेन मासान्प्रीयन्ते पञ्चैव पितरो नृप |
वाराहेण तु षण्मासान्सप्त वै शाकुनेन तु ||६||
मासानष्टौ पार्षतेन रौरवेण नवैव तु |
गवयस्य तु मांसेन तृप्तिः स्याद्दशमासिकी ||७||
मासानेकादश प्रीतिः पितॄणां माहिषेण तु |
गव्येन दत्ते श्राद्धे तु संवत्सरमिहोच्यते ||८||
यथा गव्यं तथा युक्तं पायसं सर्पिषा सह |
वाध्रीणसस्य मांसेन तृप्तिर्द्वादशवार्षिकी ||९||
आनन्त्याय भवेद्दत्तं खड्गमांसं पितृक्षये |
कालशाकं च लौहं चाप्यानन्त्यं छाग उच्यते ||१०||
गाथाश्चाप्यत्र गायन्ति पितृगीता युधिष्ठिर |
सनत्कुमारो भगवान्पुरा मय्यभ्यभाषत ||११||
अपि नः स कुले जायाद्यो नो दद्यात्त्रयोदशीम् |
मघासु सर्पिषा युक्तं पायसं दक्षिणायने ||१२||
आजेन वापि लौहेन मघास्वेव यतव्रतः |
हस्तिच्छायासु विधिवत्कर्णव्यजनवीजितम् ||१३||
एष्टव्या बहवः पुत्रा यद्येकोऽपि गयां व्रजेत् |
यत्रासौ प्रथितो लोकेष्वक्षय्यकरणो वटः ||१४||
आपो मूलं फलं मांसमन्नं वापि पितृक्षये |
यत्किञ्चिन्मधुसंमिश्रं तदानन्त्याय कल्पते ||१५||
८९
भीष्म उवाच||
यमस्तु यानि श्राद्धानि प्रोवाच शशबिन्दवे |
तानि मे शृणु काम्यानि नक्षत्रेषु पृथक्पृथक् ||१||
श्राद्धं यः कृत्तिकायोगे कुर्वीत सततं नरः |
अग्नीनाधाय सापत्यो यजेत विगतज्वरः ||२||
अपत्यकामो रोहिण्यामोजस्कामो मृगोत्तमे |
क्रूरकर्मा ददच्छ्राद्धमार्द्रायां मानवो भवेत् ||३||
कृषिभागी भवेन्मर्त्यः कुर्वञ्श्राद्धं पुनर्वसौ |
पुष्टिकामोऽथ पुष्येण श्राद्धमीहेत मानवः ||४||
आश्लेषायां ददच्छ्राद्धं वीरान्पुत्रान्प्रजायते |
ज्ञातीनां तु भवेच्छ्रेष्ठो मघासु श्राद्धमावपन् ||५||
फल्गुनीषु ददच्छ्राद्धं सुभगः श्राद्धदो भवेत् |
अपत्यभागुत्तरासु हस्तेन फलभाग्भवेत् ||६||
चित्रायां तु ददच्छ्राद्धं लभेद्रूपवतः सुतान् |
स्वातियोगे पितॄनर्च्य वाणिज्यमुपजीवति ||७||
बहुपुत्रो विशाखासु पित्र्यमीहन्भवेन्नरः |
अनुराधासु कुर्वाणो राजचक्रं प्रवर्तयेत् ||८||
आदिपत्यं व्रजेन्मर्त्यो ज्येष्ठायामपवर्जयन् |
नरः कुरुकुलश्रेष्ठ श्रद्धादमपुरःसरः ||९||
मूले त्वारोग्यमर्च्छेत यशोऽषाढास्वनुत्तमम् |
उत्तरासु त्वषाढासु वीतशोकश्चरेन्महीम् ||१०||
श्राद्धं त्वभिजिता कुर्वन्विद्यां श्रेष्ठामवाप्नुयात् |
श्रवणे तु ददच्छ्राद्धं प्रेत्य गच्छेत्परां गतिम् ||११||
राज्यभागी धनिष्ठायां प्राप्नुयान्नापदं नरः |
नक्षत्रे वारुणे कुर्वन्भिषक्सिद्धिमवाप्नुयात् ||१२||
पूर्वप्रोष्ठपदाः कुर्वन्बहु विन्देदजाविकम् |
उत्तरास्वथ कुर्वाणो विन्दते गाः सहस्रशः ||१३||
बहुरूप्यकृतं वित्तं विन्दते रेवतीं श्रितः |
अश्वांश्चाश्वयुजे वेत्ति भरणीष्वायुरुत्तमम् ||१४||
इमं श्राद्धविधिं श्रुत्वा शशबिन्दुस्तथाकरोत् |
अक्लेशेनाजयच्चापि महीं सोऽनुशशास ह ||१५||
९०
युधिष्ठिर उवाच||
कीदृशेभ्यः प्रदातव्यं भवेच्छ्राद्धं पितामह |
द्विजेभ्यः कुरुशार्दूल तन्मे व्याख्यातुमर्हसि ||१||
भीष्म उवाच||
ब्राह्मणान्न परीक्षेत क्षत्रियो दानधर्मवित् |
दैवे कर्मणि पित्र्ये तु न्याय्यमाहुः परीक्षणम् ||२||
देवताः पूजयन्तीह दैवेनैवेह तेजसा |
उपेत्य तस्माद्देवेभ्यः सर्वेभ्यो दापयेन्नरः ||३||
श्राद्धे त्वथ महाराज परीक्षेद्ब्राह्मणान्बुधः |
कुलशीलवयोरूपैर्विद्ययाभिजनेन च ||४||
एषामन्ये पङ्क्तिदूषास्तथान्ये पङ्क्तिपावनाः |
अपाङ्क्तेयास्तु ये राजन्कीर्तयिष्यामि ताञ्शृणु ||५||
कितवो भ्रूणहा यक्ष्मी पशुपालो निराकृतिः |
ग्रामप्रेष्यो वार्धुषिको गायनः सर्वविक्रयी ||६||
अगारदाही गरदः कुण्डाशी सोमविक्रयी |
सामुद्रिको राजभृत्यस्तैलिकः कूटकारकः ||७||
पित्रा विवदमानश्च यस्य चोपपतिर्गृहे |
अभिशस्तस्तथा स्तेनः शिल्पं यश्चोपजीवति ||८||
पर्वकारश्च सूची च मित्रध्रुक्पारदारिकः |
अव्रतानामुपाध्यायः काण्डपृष्ठस्तथैव च ||९||
श्वभिर्यश्च परिक्रामेद्यः शुना दष्ट एव च |
परिवित्तिश्च यश्च स्याद्दुश्चर्मा गुरुतल्पगः ||१०||
कुशीलवो देवलको नक्षत्रैर्यश्च जीवति ||१०||
एतानिह विजानीयादपाङ्क्तेयान्द्विजाधमान् |
शूद्राणामुपदेशं च ये कुर्वन्त्यल्पचेतसः ||११||
षष्टिं काणः शतं षण्ढः श्वित्री यावत्प्रपश्यति |
पङ्क्त्यां समुपविष्टायां तावद्दूषयते नृप ||१२||
यद्वेष्टितशिरा भुङ्क्ते यद्भुङ्क्ते दक्षिणामुखः |
सोपानत्कश्च यद्भुङ्क्ते सर्वं विद्यात्तदासुरम् ||१३||
असूयता च यद्दत्तं यच्च श्रद्धाविवर्जितम् |
सर्वं तदसुरेन्द्राय ब्रह्मा भागमकल्पयत् ||१४||
श्वानश्च पङ्क्तिदूषाश्च नावेक्षेरन्कथञ्चन |
तस्मात्परिवृते दद्यात्तिलांश्चान्ववकीरयेत् ||१५||
तिलादाने च क्रव्यादा ये च क्रोधवशा गणाः |
यातुधानाः पिशाचाश्च विप्रलुम्पन्ति तद्धविः ||१६||
यावद्ध्यपङ्क्त्यः पङ्क्त्यां वै भुञ्जानाननुपश्यति |
तावत्फलाद्भ्रंशयति दातारं तस्य बालिशम् ||१७||
इमे तु भरतश्रेष्ठ विज्ञेयाः पङ्क्तिपावनाः |
ये त्वतस्तान्प्रवक्ष्यामि परीक्षस्वेह तान्द्विजान् ||१८||
वेदविद्याव्रतस्नाता ब्राह्मणाः सर्व एव हि |
पाङ्क्तेयान्यांस्तु वक्ष्यामि ज्ञेयास्ते पङ्क्तिपावनाः ||१९||
त्रिणाचिकेतः पञ्चाग्निस्त्रिसुपर्णः षडङ्गवित् |
ब्रह्मदेयानुसन्तानश्छन्दोगो ज्येष्ठसामगः ||२०||
मातापित्रोर्यश्च वश्यः श्रोत्रियो दशपूरुषः |
ऋतुकालाभिगामी च धर्मपत्नीषु यः सदा ||२१||
वेदविद्याव्रतस्नातो विप्रः पङ्क्तिं पुनात्युत ||२१||
अथर्वशिरसोऽध्येता ब्रह्मचारी यतव्रतः |
सत्यवादी धर्मशीलः स्वकर्मनिरतश्च यः ||२२||
ये च पुण्येषु तीर्थेषु अभिषेककृतश्रमाः |
मखेषु च समन्त्रेषु भवन्त्यवभृथाप्लुताः ||२३||
अक्रोधना अचपलाः क्षान्ता दान्ता जितेन्द्रियाः |
सर्वभूतहिता ये च श्राद्धेष्वेतान्निमन्त्रयेत् ||२४||
एतेषु दत्तमक्षय्यमेते वै पङ्क्तिपावनाः ||२४||
इमे परे महाराज विज्ञेयाः पङ्क्तिपावनाः |
यतयो मोक्षधर्मज्ञा योगाः सुचरितव्रताः ||२५||
ये चेतिहासं प्रयताः श्रावयन्ति द्विजोत्तमान् |
ये च भाष्यविदः केचिद्ये च व्याकरणे रताः ||२६||
अधीयते पुराणं ये धर्मशास्त्राण्यथापि च |
अधीत्य च यथान्यायं विधिवत्तस्य कारिणः ||२७||
उपपन्नो गुरुकुले सत्यवादी सहस्रदः |
अग्र्यः सर्वेषु वेदेषु सर्वप्रवचनेषु च ||२८||
यावदेते प्रपश्यन्ति पङ्क्त्यास्तावत्पुनन्त्युत |
ततो हि पावनात्पङ्क्त्याः पङ्क्तिपावन उच्यते ||२९||
क्रोशादर्धतृतीयात्तु पावयेदेक एव हि |
ब्रह्मदेयानुसन्तान इति ब्रह्मविदो विदुः ||३०||
अनृत्विगनुपाध्यायः स चेदग्रासनं व्रजेत् |
ऋत्विग्भिरननुज्ञातः पङ्क्त्या हरति दुष्कृतम् ||३१||
अथ चेद्वेदवित्सर्वैः पङ्क्तिदोषैर्विवर्जितः |
न च स्यात्पतितो राजन्पङ्क्तिपावन एव सः ||३२||
तस्मात्सर्वप्रयत्नेन परीक्ष्यामन्त्रयेद्द्विजान् |
स्वकर्मनिरतान्दान्तान्कुले जातान्बहुश्रुतान् ||३३||
यस्य मित्रप्रधानानि श्राद्धानि च हवींषि च |
न प्रीणाति पितॄन्देवान्स्वर्गं च न स गच्छति ||३४||
यश्च श्राद्धे कुरुते सङ्गतानि; न देवयानेन पथा स याति |
स वै मुक्तः पिप्पलं बन्धनाद्वा; स्वर्गाल्लोकाच्च्यवते श्राद्धमित्रः ||३५||
तस्मान्मित्रं श्राद्धकृन्नाद्रियेत; दद्यान्मित्रेभ्यः सङ्ग्रहार्थं धनानि |
यं मन्यते नैव शत्रुं न मित्रं; तं मध्यस्थं भोजयेद्धव्यकव्ये ||३६||
यथोषरे बीजमुप्तं न रोहे; न्न चास्योप्ता प्राप्नुयाद्बीजभागम् |
एवं श्राद्धं भुक्तमनर्हमाणै; र्न चेह नामुत्र फलं ददाति ||३७||
ब्राह्मणो ह्यनधीयानस्तृणाग्निरिव शाम्यति |
तस्मै श्राद्धं न दातव्यं न हि भस्मनि हूयते ||३८||
सम्भोजनी नाम पिशाचदक्षिणा; सा नैव देवान्न पितॄनुपैति |
इहैव सा भ्राम्यति क्षीणपुण्या; शालान्तरे गौरिव नष्टवत्सा ||३९||
यथाग्नौ शान्ते घृतमाजुहोति; तन्नैव देवान्न पितॄनुपैति |
तथा दत्तं नर्तने गायने च; यां चानृचे दक्षिणामावृणोति ||४०||
उभौ हिनस्ति न भुनक्ति चैषा; या चानृचे दक्षिणा दीयते वै |
आघातनी गर्हितैषा पतन्ती; तेषां प्रेतान्पातयेद्देवयानात् ||४१||
ऋषीणां समयं नित्यं ये चरन्ति युधिष्ठिर |
निश्चिताः सर्वधर्मज्ञास्तान्देवा ब्राह्मणान्विदुः ||४२||
स्वाध्यायनिष्ठा ऋषयो ज्ञाननिष्ठास्तथैव च |
तपोनिष्ठाश्च बोद्धव्याः कर्मनिष्ठाश्च भारत ||४३||
कव्यानि ज्ञाननिष्ठेभ्यः प्रतिष्ठाप्यानि भारत |
तत्र ये ब्राह्मणाः केचिन्न निन्दति हि ते वराः ||४४||
ये तु निन्दन्ति जल्पेषु न ताञ्श्राद्धेषु भोजयेत् |
ब्राह्मणा निन्दिता राजन्हन्युस्त्रिपुरुषं कुलम् ||४५||
वैखानसानां वचनमृषीणां श्रूयते नृप |
दूरादेव परीक्षेत ब्राह्मणान्वेदपारगान् ||४६||
प्रियान्वा यदि वा द्वेष्यांस्तेषु तच्छ्राद्धमावपेत् ||४६||
यः सहस्रं सहस्राणां भोजयेदनृचां नरः |
एकस्तान्मन्त्रवित्प्रीतः सर्वानर्हति भारत ||४७||
९१
युधिष्ठिर उवाच||
केन सङ्कल्पितं श्राद्धं कस्मिन्काले किमात्मकम् |
भृग्वङ्गिरसके काले मुनिना कतरेण वा ||१||
कानि श्राद्धेषु वर्ज्यानि तथा मूलफलानि च |
धान्यजातिश्च का वर्ज्या तन्मे ब्रूहि पितामह ||२||
भीष्म उवाच||
यथा श्राद्धं सम्प्रवृत्तं यस्मिन्काले यदात्मकम् |
येन सङ्कल्पितं चैव तन्मे शृणु जनाधिप ||३||
स्वायम्भुवोऽत्रिः कौरव्य परमर्षिः प्रतापवान् |
तस्य वंशे महाराज दत्तात्रेय इति स्मृतः ||४||
दत्तात्रेयस्य पुत्रोऽभून्निमिर्नाम तपोधनः |
निमेश्चाप्यभवत्पुत्रः श्रीमान्नाम श्रिया वृतः ||५||
पूर्णे वर्षसहस्रान्ते स कृत्वा दुष्करं तपः |
कालधर्मपरीतात्मा निधनं समुपागतः ||६||
निमिस्तु कृत्वा शौचानि विधिदृष्टेन कर्मणा |
सन्तापमगमत्तीव्रं पुत्रशोकपरायणः ||७||
अथ कृत्वोपहार्याणि चतुर्दश्यां महामतिः |
तमेव गणयञ्शोकं विरात्रे प्रत्यबुध्यत ||८||
तस्यासीत्प्रतिबुद्धस्य शोकेन पिहितात्मनः |
मनः संहृत्य विषये बुद्धिर्विस्तरगामिनी ||९||
ततः सञ्चिन्तयामास श्राद्धकल्पं समाहितः |
यानि तस्यैव भोज्यानि मूलानि च फलानि च ||१०||
उक्तानि यानि चान्यानि यानि चेष्टानि तस्य ह |
तानि सर्वाणि मनसा विनिश्चित्य तपोधनः ||११||
अमावास्यां महाप्राज्ञ विप्रानानाय्य पूजितान् |
दक्षिणावर्तिकाः सर्वा बृसीः स्वयमथाकरोत् ||१२||
सप्त विप्रांस्ततो भोज्ये युगपत्समुपानयत् |
ऋते च लवणं भोज्यं श्यामाकान्नं ददौ प्रभुः ||१३||
दक्षिणाग्रास्ततो दर्भा विष्टरेषु निवेशिताः |
पादयोश्चैव विप्राणां ये त्वन्नमुपभुञ्जते ||१४||
कृत्वा च दक्षिणाग्रान्वै दर्भान्सुप्रयतः शुचिः |
प्रददौ श्रीमते पिण्डं नामगोत्रमुदाहरन् ||१५||
तत्कृत्वा स मुनिश्रेष्ठो धर्मसङ्करमात्मनः |
पश्चात्तापेन महता तप्यमानोऽभ्यचिन्तयत् ||१६||
अकृतं मुनिभिः पूर्वं किं मयैतदनुष्ठितम् |
कथं नु शापेन न मां दहेयुर्ब्राह्मणा इति ||१७||
ततः सञ्चिन्तयामास वंशकर्तारमात्मनः |
ध्यातमात्रस्तथा चात्रिराजगाम तपोधनः ||१८||
अथात्रिस्तं तथा दृष्ट्वा पुत्रशोकेन कर्शितम् |
भृशमाश्वासयामास वाग्भिरिष्टाभिरव्ययः ||१९||
निमे सङ्कल्पितस्तेऽयं पितृयज्ञस्तपोधनः |
मा ते भूद्भीः पूर्वदृष्टो धर्मोऽयं ब्रह्मणा स्वयम् ||२०||
सोऽयं स्वयम्भुविहितो धर्मः सङ्कल्पितस्त्वया |
ऋते स्वयम्भुवः कोऽन्यः श्राद्धेयं विधिमाहरेत् ||२१||
आख्यास्यामि च ते भूयः श्राद्धेयं विधिमुत्तमम् |
स्वयम्भुविहितं पुत्र तत्कुरुष्व निबोध मे ||२२||
कृत्वाग्निकरणं पूर्वं मन्त्रपूर्वं तपोधन |
ततोऽर्यम्णे च सोमाय वरुणाय च नित्यशः ||२३||
विश्वेदेवाश्च ये नित्यं पितृभिः सह गोचराः |
तेभ्यः सङ्कल्पिता भागाः स्वयमेव स्वयम्भुवा ||२४||
स्तोतव्या चेह पृथिवी निवापस्येह धारिणी |
वैष्णवी काश्यपी चेति तथैवेहाक्षयेति च ||२५||
उदकानयने चैव स्तोतव्यो वरुणो विभुः |
ततोऽग्निश्चैव सोमश्च आप्याय्याविह तेऽनघ ||२६||
देवास्तु पितरो नाम निर्मिता वै स्वयम्भुवा |
ऊष्मपाः सुमहाभागास्तेषां भागाः प्रकल्पिताः ||२७||
ते श्राद्धेनार्च्यमाना वै विमुच्यन्ते ह किल्बिषात् |
सप्तकः पितृवंशस्तु पूर्वदृष्टः स्वयम्भुवा ||२८||
विश्वे चाग्निमुखा देवाः सङ्ख्याताः पूर्वमेव ते |
तेषां नामानि वक्ष्यामि भागार्हाणां महात्मनाम् ||२९||
सहः कृतिर्विपाप्मा च पुण्यकृत्पावनस्तथा |
ग्राम्निः क्षेमः समूहश्च दिव्यसानुस्तथैव च ||३०||
विवस्वान्वीर्यवान्ह्रीमान्कीर्तिमान्कृत एव च |
विपूर्वः सोमपूर्वश्च सूर्यश्रीश्चेति नामतः ||३१||
सोमपः सूर्यसावित्रो दत्तात्मा पुष्करीयकः |
उष्णीनाभो नभोदश्च विश्वायुर्दीप्तिरेव च ||३२||
चमूहरः सुवेषश्च व्योमारिः शङ्करो भवः |
ईशः कर्ता कृतिर्दक्षो भुवनो दिव्यकर्मकृत् ||३३||
गणितः पञ्चवीर्यश्च आदित्यो रश्मिमांस्तथा |
सप्तकृत्सोमवर्चाश्च विश्वकृत्कविरेव च ||३४||
अनुगोप्ता सुगोप्ता च नप्ता चेश्वर एव च |
जितात्मा मुनिवीर्यश्च दीप्तलोमा भयङ्करः ||३५||
अतिकर्मा प्रतीतश्च प्रदाता चांशुमांस्तथा |
शैलाभः परमक्रोधी धीरोष्णी भूपतिस्तथा ||३६||
स्रजी वज्री वरी चैव विश्वेदेवाः सनातनाः |
कीर्तितास्ते महाभागाः कालस्य गतिगोचराः ||३७||
अश्राद्धेयानि धान्यानि कोद्रवाः पुलकास्तथा |
हिङ्गु द्रव्येषु शाकेषु पलाण्डुं लशुनं तथा ||३८||
पलाण्डुः सौभञ्जनकस्तथा गृञ्जनकादयः |
कूष्माण्डजात्यलाबुं च कृष्णं लवणमेव च ||३९||
ग्राम्यं वाराहमांसं च यच्चैवाप्रोक्षितं भवेत् |
कृष्णाजाजी विडश्चैव शीतपाकी तथैव च ||४०||
अङ्कुराद्यास्तथा वर्ज्या इह शृङ्गाटकानि च ||४०||
वर्जयेल्लवणं सर्वं तथा जम्बूफलानि च |
अवक्षुतावरुदितं तथा श्राद्धेषु वर्जयेत् ||४१||
निवापे हव्यकव्ये वा गर्हितं च श्वदर्शनम् |
पितरश्चैव देवाश्च नाभिनन्दन्ति तद्धविः ||४२||
चण्डालश्वपचौ वर्ज्यौ निवापे समुपस्थिते |
काषायवासी कुष्ठी वा पतितो ब्रह्महापि वा ||४३||
सङ्कीर्णयोनिर्विप्रश्च सम्बन्धी पतितश्च यः |
वर्जनीया बुधैरेते निवापे समुपस्थिते ||४४||
इत्येवमुक्त्वा भगवान्स्ववंशजमृषिं पुरा |
पितामहसभां दिव्यां जगामात्रिस्तपोधनः ||४५||
९२
भीष्म उवाच||
तथा विधौ प्रवृत्ते तु सर्व एव महर्षयः |
पितृयज्ञानकुर्वन्त विधिदृष्टेन कर्मणा ||१||
ऋषयो धर्मनित्यास्तु कृत्वा निवपनान्युत |
तर्पणं चाप्यकुर्वन्त तीर्थाम्भोभिर्यतव्रताः ||२||
निवापैर्दीयमानैश्च चातुर्वर्ण्येन भारत |
तर्पिताः पितरो देवास्ते नान्नं जरयन्ति वै ||३||
अजीर्णेनाभिहन्यन्ते ते देवाः पितृभिः सह |
सोममेवाभ्यपद्यन्त निवापान्नाभिपीडिताः ||४||
तेऽब्रुवन्सोममासाद्य पितरोऽजीर्णपीडिताः |
निवापान्नेन पीड्यामः श्रेयो नोऽत्र विधीयताम् ||५||
तान्सोमः प्रत्युवाचाथ श्रेयश्चेदीप्सितं सुराः |
स्वयम्भूसदनं यात स वः श्रेयो विधास्यति ||६||
ते सोमवचनाद्देवाः पितृभिः सह भारत |
मेरुशृङ्गे समासीनं पितामहमुपागमन् ||७||
पितर ऊचुः||
निवापान्नेन भगवन्भृशं पीड्यामहे वयम् |
प्रसादं कुरु नो देव श्रेयो नः संविधीयताम् ||८||
इति तेषां वचः श्रुत्वा स्वयम्भूरिदमब्रवीत् |
एष मे पार्श्वतो वह्निर्युष्मच्छ्रेयो विधास्यति ||९||
अग्निरुवाच||
सहितास्तात भोक्ष्यामो निवापे समुपस्थिते |
जरयिष्यथ चाप्यन्नं मया सार्धं न संशयः ||१०||
एतच्छ्रुत्वा तु पितरस्ततस्ते विज्वराभवन् |
एतस्मात्कारणाच्चाग्नेः प्राक्तनं दीयते नृप ||११||
निवप्ते चाग्निपूर्वे वै निवापे पुरुषर्षभ |
न ब्रह्मराक्षसास्तं वै निवापं धर्षयन्त्युत ||१२||
रक्षांसि चापवर्तन्ते स्थिते देवे विभावसौ ||१२||
पूर्वं पिण्डं पितुर्दद्यात्ततो दद्यात्पितामहे |
प्रपितामहाय च तत एष श्राद्धविधिः स्मृतः ||१३||
ब्रूयाच्छ्राद्धे च सावित्रीं पिण्डे पिण्डे समाहितः |
सोमायेति च वक्तव्यं तथा पितृमतेति च ||१४||
रजस्वला च या नारी व्यङ्गिता कर्णयोश्च या |
निवापे नोपतिष्ठेत सङ्ग्राह्या नान्यवंशजाः ||१५||
जलं प्रतरमाणश्च कीर्तयेत पितामहान् |
नदीमासाद्य कुर्वीत पितॄणां पिण्डतर्पणम् ||१६||
पूर्वं स्ववंशजानां तु कृत्वाद्भिस्तर्पणं पुनः |
सुहृत्सम्बन्धिवर्गाणां ततो दद्याज्जलाञ्जलिम् ||१७||
कल्माषगोयुगेनाथ युक्तेन तरतो जलम् |
पितरोऽभिलषन्ते वै नावं चाप्यधिरोहतः ||१८||
सदा नावि जलं तज्ज्ञाः प्रयच्छन्ति समाहिताः ||१८||
मासार्धे कृष्णपक्षस्य कुर्यान्निवपनानि वै |
पुष्टिरायुस्तथा वीर्यं श्रीश्चैव पितृवर्तिनः ||१९||
पितामहः पुलस्त्यश्च वसिष्ठः पुलहस्तथा |
अङ्गिराश्च क्रतुश्चैव कश्यपश्च महानृषिः ||२०||
एते कुरुकुलश्रेष्ठ महायोगेश्वराः स्मृताः ||२०||
एते च पितरो राजन्नेष श्राद्धविधिः परः |
प्रेतास्तु पिण्डसम्बन्धान्मुच्यन्ते तेन कर्मणा ||२१||
इत्येषा पुरुषश्रेष्ठ श्राद्धोत्पत्तिर्यथागमम् |
ख्यापिता पूर्वनिर्दिष्टा दानं वक्ष्याम्यतः परम् ||२२||
व्रतविशेषाः
९३
युधिष्ठिर उवाच||
द्विजातयो व्रतोपेता हविस्ते यदि भुञ्जते |
अन्नं ब्राह्मणकामाय कथमेतत्पितामह ||१||
भीष्म उवाच||
अवेदोक्तव्रताश्चैव भुञ्जानाः कार्यकारिणः |
वेदोक्तेषु तु भुञ्जाना व्रतलुप्ता युधिष्ठिर ||२||
युधिष्ठिर उवाच||
यदिदं तप इत्याहुरुपवासं पृथग्जनाः |
तपः स्यादेतदिह वै तपोऽन्यद्वापि किं भवेत् ||३||
भीष्म उवाच||
मासार्धमासौ नोपवसेद्यत्तपो मन्यते जनः |
आत्मतन्त्रोपघाती यो न तपस्वी न धर्मवित् ||४||
त्यागस्यापि च सम्पत्तिः शिष्यते तप उत्तमम् |
सदोपवासी च भवेद्ब्रह्मचारी तथैव च ||५||
मुनिश्च स्यात्सदा विप्रो देवांश्चैव सदा यजेत् |
कुटुम्बिको धर्मकामः सदास्वप्नश्च भारत ||६||
अमृताशी सदा च स्यात्पवित्री च सदा भवेत् |
ऋतवादी सदा च स्यान्नियतश्च सदा भवेत् ||७||
विघसाशी सदा च स्यात्सदा चैवातिथिप्रियः |
अमांसाशी सदा च स्यात्पवित्री च सदा भवेत् ||८||
युधिष्ठिर उवाच||
कथं सदोपवासी स्याद्ब्रह्मचारी च पार्थिव |
विघसाशी कथं च स्यात्कथं चैवातिथिप्रियः ||९||
भीष्म उवाच||
अन्तरा सायमाशं च प्रातराशं तथैव च |
सदोपवासी भवति यो न भुङ्क्तेऽन्तरा पुनः ||१०||
भार्यां गच्छन्ब्रह्मचारी सदा भवति चैव ह |
ऋतवादी सदा च स्याद्दानशीलश्च मानवः ||११||
अभक्षयन्वृथा मांसममांसाशी भवत्युत |
दानं ददत्पवित्री स्यादस्वप्नश्च दिवास्वपन् ||१२||
भृत्यातिथिषु यो भुङ्क्ते भुक्तवत्सु नरः सदा |
अमृतं केवलं भुङ्क्ते इति विद्धि युधिष्ठिर ||१३||
अभुक्तवत्सु नाश्नाति ब्राह्मणेषु तु यो नरः |
अभोजनेन तेनास्य जितः स्वर्गो भवत्युत ||१४||
देवेभ्यश्च पितृभ्यश्च भृत्येभ्योऽतिथिभिः सह |
अवशिष्टानि यो भुङ्क्ते तमाहुर्विघसाशिनम् ||१५||
तेषां लोका ह्यपर्यन्ताः सदने ब्रह्मणः स्मृताः |
उपस्थिता ह्यप्सरोभिर्गन्धर्वैश्च जनाधिप ||१६||
देवतातिथिभिः सार्धं पितृभिश्चोपभुञ्जते |
रमन्ते पुत्रपौत्रैश्च तेषां गतिरनुत्तमा ||१७||
प्रतिग्रहदोषाः
९४
युधिष्ठिर उवाच||
ब्राह्मणेभ्यः प्रयच्छन्ति दानानि विविधानि च |
दातृप्रतिग्रहीत्रोर्वा को विशेषः पितामह ||१||
भीष्म उवाच||
साधोर्यः प्रतिगृह्णीयात्तथैवासाधुतो द्विजः |
गुणवत्यल्पदोषः स्यान्निर्गुणे तु निमज्जति ||२||
अत्राप्युदाहरन्तीममितिहासं पुरातनम् |
वृषादर्भेश्च संवादं सप्तर्षीणां च भारत ||३||
कश्यपोऽत्रिर्वसिष्ठश्च भरद्वाजोऽथ गौतमः |
विश्वामित्रो जमदग्निः साध्वी चैवाप्यरुन्धती ||४||
सर्वेषामथ तेषां तु गण्डाभूत्कर्मकारिका |
शूद्रः पशुसखश्चैव भर्ता चास्या बभूव ह ||५||
ते वै सर्वे तपस्यन्तः पुरा चेरुर्महीमिमाम् |
समाधिनोपशिक्षन्तो ब्रह्मलोकं सनातनम् ||६||
अथाभवदनावृष्टिर्महती कुरुनन्दन |
कृच्छ्रप्राणोऽभवद्यत्र लोकोऽयं वै क्षुधान्वितः ||७||
कस्मिंश्चिच्च पुरा यज्ञे याज्येन शिबिसूनुना |
दक्षिणार्थेऽथ ऋत्विग्भ्यो दत्तः पुत्रो निजः किल ||८||
तस्मिन्कालेऽथ सोऽल्पायुर्दिष्टान्तमगमत्प्रभो |
ते तं क्षुधाभिसन्तप्ताः परिवार्योपतस्थिरे ||९||
याज्यात्मजमथो दृष्ट्वा गतासुमृषिसत्तमाः |
अपचन्त तदा स्थाल्यां क्षुधार्ताः किल भारत ||१०||
निराद्ये मर्त्यलोकेऽस्मिन्नात्मानं ते परीप्सवः |
कृच्छ्रामापेदिरे वृत्तिमन्नहेतोस्तपस्विनः ||११||
अटमानोऽथ तान्मार्गे पचमानान्महीपतिः |
राजा शैब्यो वृषादर्भिः क्लिश्यमानान्ददर्श ह ||१२||
वृषादर्भिरुवाच||
प्रतिग्रहस्तारयति पुष्टिर्वै प्रतिगृह्णताम् |
मयि यद्विद्यते वित्तं तच्छृणुध्वं तपोधनाः ||१३||
प्रियो हि मे ब्राह्मणो याचमानो; दद्यामहं वोऽश्वतरीसहस्रम् |
एकैकशः सवृषाः सम्प्रसूताः; सर्वेषां वै शीघ्रगाः श्वेतलोमाः ||१४||
कुलम्भराननडुहः शतंशता; न्धुर्याञ्शुभान्सर्वशोऽहं ददानि |
पृथ्वीवाहान्पीवरांश्चैव ताव; दग्र्या गृष्ट्यो धेनवः सुव्रताश्च ||१५||
वरान्ग्रामान्व्रीहियवं रसांश्च; रत्नं चान्यद्दुर्लभं किं ददानि |
मा स्माभक्ष्ये भावमेवं कुरुध्वं; पुष्ट्यर्थं वै किं प्रयच्छाम्यहं वः ||१६||
ऋषय ऊचुः||
राजन्प्रतिग्रहो राज्ञो मध्वास्वादो विषोपमः |
तज्जानमानः कस्मात्त्वं कुरुषे नः प्रलोभनम् ||१७||
क्षत्रं हि दैवतमिव ब्राह्मणं समुपाश्रितम् |
अमलो ह्येष तपसा प्रीतः प्रीणाति देवताः ||१८||
अह्नापीह तपो जातु ब्राह्मणस्योपजायते |
तद्दाव इव निर्दह्यात्प्राप्तो राजप्रतिग्रहः ||१९||
कुशलं सह दानेन राजन्नस्तु सदा तव |
अर्थिभ्यो दीयतां सर्वमित्युक्त्वा ते ततो ययुः ||२०||
अपक्वमेव तन्मांसमभूत्तेषां च धीमताम् |
अथ हित्वा ययुः सर्वे वनमाहारकाङ्क्षिणः ||२१||
ततः प्रचोदिता राज्ञा वनं गत्वास्य मन्त्रिणः |
प्रचीयोदुम्बराणि स्म दानं दातुं प्रचक्रमुः ||२२||
उदुम्बराण्यथान्यानि हेमगर्भाण्युपाहरन् |
भृत्यास्तेषां ततस्तानि प्रग्राहितुमुपाद्रवन् ||२३||
गुरूणीति विदित्वाथ न ग्राह्याण्यत्रिरब्रवीत् |
न स्म हे मूढविज्ञाना न स्म हे मन्दबुद्धयः ||२४||
हैमानीमानि जानीमः प्रतिबुद्धाः स्म जागृमः ||२४||
इह ह्येतदुपादत्तं प्रेत्य स्यात्कटुकोदयम् |
अप्रतिग्राह्यमेवैतत्प्रेत्य चेह सुखेप्सुना ||२५||
वसिष्ठ उवाच||
शतेन निष्कं गणितं सहस्रेण च संमितम् |
यथा बहु प्रतीच्छन्हि पापिष्ठां लभते गतिम् ||२६||
कश्यप उवाच||
यत्पृथिव्यां व्रीहियवं हिरण्यं पशवः स्त्रियः |
सर्वं तन्नालमेकस्य तस्माद्विद्वाञ्शमं व्रजेत् ||२७||
भरद्वाज उवाच||
उत्पन्नस्य रुरोः शृङ्गं वर्धमानस्य वर्धते |
प्रार्थना पुरुषस्येव तस्य मात्रा न विद्यते ||२८||
गौतम उवाच||
न तल्लोके द्रव्यमस्ति यल्लोकं प्रतिपूरयेत् |
समुद्रकल्पः पुरुषो न कदाचन पूर्यते ||२९||
विश्वामित्र उवाच||
कामं कामयमानस्य यदा कामः समृध्यते |
अथैनमपरः कामस्तृष्णा विध्यति बाणवत् ||३०||
जमदग्निरुवाच||
प्रतिग्रहे संयमो वै तपो धारयते ध्रुवम् |
तद्धनं ब्राह्मणस्येह लुभ्यमानस्य विस्रवेत् ||३१||
अरुन्धत्युवाच||
धर्मार्थं सञ्चयो यो वै द्रव्याणां पक्षसंमतः |
तपःसञ्चय एवेह विशिष्टो द्रव्यसञ्चयात् ||३२||
गण्डोवाच||
उग्रादितो भयाद्यस्माद्बिभ्यतीमे ममेश्वराः |
बलीयांसो दुर्बलवद्बिभेम्यहमतः परम् ||३३||
पशुसख उवाच||
यद्वै धर्मे परं नास्ति ब्राह्मणास्तद्धनं विदुः |
विनयार्थं सुविद्वांसमुपासेयं यथातथम् ||३४||
ऋषय ऊचुः||
कुशलं सह दानाय तस्मै यस्य प्रजा इमाः |
फलान्युपधियुक्तानि य एवं नः प्रयच्छसि ||३५||
भीष्म उवाच||
इत्युक्त्वा हेमगर्भाणि हित्वा तानि फलानि ते |
ऋषयो जग्मुरन्यत्र सर्व एव धृतव्रताः ||३६||
मन्त्रिणः ऊचुः||
उपधिं शङ्कमानास्ते हित्वेमानि फलानि वै |
ततोऽन्येनैव गच्छन्ति विदितं तेऽस्तु पार्थिव ||३७||
इत्युक्तः स तु भृत्यैस्तैर्वृषादर्भिश्चुकोप ह |
तेषां सम्प्रतिकर्तुं च सर्वेषामगमद्गृहम् ||३८||
स गत्वाहवनीयेऽग्नौ तीव्रं नियममास्थितः |
जुहाव संस्कृतां मन्त्रैरेकैकामाहुतिं नृपः ||३९||
तस्मादग्नेः समुत्तस्थौ कृत्या लोकभयङ्करी |
तस्या नाम वृषादर्भिर्यातुधानीत्यथाकरोत् ||४०||
सा कृत्या कालरात्रीव कृताञ्जलिरुपस्थिता |
वृषादर्भिं नरपतिं किं करोमीति चाब्रवीत् ||४१||
वृषादर्भिरुवाच||
ऋषीणां गच्छ सप्तानामरुन्धत्यास्तथैव च |
दासीभर्तुश्च दास्याश्च मनसा नाम धारय ||४२||
ज्ञात्वा नामानि चैतेषां सर्वानेतान्विनाशय |
विनष्टेषु यथा स्वैरं गच्छ यत्रेप्सितं तव ||४३||
सा तथेति प्रतिश्रुत्य यातुधानी स्वरूपिणी |
जगाम तद्वनं यत्र विचेरुस्ते महर्षयः ||४४||
शपथाध्यायः
९५
भीष्म उवाच||
अथात्रिप्रमुखा राजन्वने तस्मिन्महर्षयः |
व्यचरन्भक्षयन्तो वै मूलानि च फलानि च ||१||
अथापश्यन्सुपीनांसपाणिपादमुखोदरम् |
परिव्रजन्तं स्थूलाङ्गं परिव्राजं शुनःसखम् ||२||
अरुन्धती तु तं दृष्ट्वा सर्वाङ्गोपचितं शुभा |
भवितारो भवन्तो वै नैवमित्यब्रवीदृषीन् ||३||
वसिष्ठ उवाच||
नैतस्येह यथास्माकमग्निहोत्रमनिर्हुतम् |
सायं प्रातश्च होतव्यं तेन पीवाञ्शुनःसखः ||४||
अत्रिरुवाच||
नैतस्येह यथास्माकं क्षुधा वीर्यं समाहतम् |
कृच्छ्राधीतं प्रनष्टं च तेन पीवाञ्शुनःसखः ||५||
विश्वामित्र उवाच||
नैतस्येह यथास्माकं शश्वच्छास्त्रं जरद्गवः |
अलसः क्षुत्परो मूर्खस्तेन पीवाञ्शुनःसखः ||६||
जमदग्निरुवाच||
नैतस्येह यथास्माकं भक्तमिन्धनमेव च |
सञ्चिन्त्य वार्षिकं किञ्चित्तेन पीवाञ्शुनःसखः ||७||
कश्यप उवाच||
नैतस्येह यथास्माकं चत्वारश्च सहोदराः |
देहि देहीति भिक्षन्ति तेन पीवाञ्शुनःसखः ||८||
भरद्वाज उवाच||
नैतस्येह यथास्माकं ब्रह्मबन्धोरचेतसः |
शोको भार्यापवादेन तेन पीवाञ्शुनःसखः ||९||
गौतम उवाच||
नैतस्येह यथास्माकं त्रिकौशेयं हि राङ्कवम् |
एकैकं वै त्रिवार्षीयं तेन पीवाञ्शुनःसखः ||१०||
भीष्म उवाच||
अथ दृष्ट्वा परिव्राट्स तान्महर्षीञ्शुनःसखः |
अभिगम्य यथान्यायं पाणिस्पर्शमथाचरत् ||११||
परिचर्यां वने तां तु क्षुत्प्रतीघातकारिकाम् |
अन्योन्येन निवेद्याथ प्रातिष्ठन्त सहैव ते ||१२||
एकनिश्चयकार्याश्च व्यचरन्त वनानि ते |
आददानाः समुद्धृत्य मूलानि च फलानि च ||१३||
कदाचिद्विचरन्तस्ते वृक्षैरविरलैर्वृताम् |
शुचिवारिप्रसन्नोदां ददृशुः पद्मिनीं शुभाम् ||१४||
बालादित्यवपुःप्रख्यैः पुष्करैरुपशोभिताम् |
वैदूर्यवर्णसदृशैः पद्मपत्रैरथावृताम् ||१५||
नानाविधैश्च विहगैर्जलप्रकरसेविभिः |
एकद्वारामनादेयां सूपतीर्थामकर्दमाम् ||१६||
वृषादर्भिप्रयुक्ता तु कृत्या विकृतदर्शना |
यातुधानीति विख्याता पद्मिनीं तामरक्षत ||१७||
शुनःसखसहायास्तु बिसार्थं ते महर्षयः |
पद्मिनीमभिजग्मुस्ते सर्वे कृत्याभिरक्षिताम् ||१८||
ततस्ते यातुधानीं तां दृष्ट्वा विकृतदर्शनाम् |
स्थितां कमलिनीतीरे कृत्यामूचुर्महर्षयः ||१९||
एका तिष्ठसि का नु त्वं कस्यार्थे किं प्रयोजनम् |
पद्मिनीतीरमाश्रित्य ब्रूहि त्वं किं चिकीर्षसि ||२०||
यातुधान्युवाच||
यास्मि सास्म्यनुयोगो मे न कर्तव्यः कथञ्चन |
आरक्षिणीं मां पद्मिन्या वित्त सर्वे तपोधनाः ||२१||
ऋषय ऊचुः||
सर्व एव क्षुधार्ताः स्म न चान्यत्किञ्चिदस्ति नः |
भवत्याः संमते सर्वे गृह्णीमहि बिसान्युत ||२२||
यातुधान्युवाच||
समयेन बिसानीतो गृह्णीध्वं कामकारतः |
एकैको नाम मे प्रोक्त्वा ततो गृह्णीत माचिरम् ||२३||
भीष्म उवाच||
विज्ञाय यातुधानीं तां कृत्यामृषिवधैषिणीम् |
अत्रिः क्षुधापरीतात्मा ततो वचनमब्रवीत् ||२४||
अरात्रिरत्रेः सा रात्रिर्यां नाधीते त्रिरद्य वै |
अरात्रिरत्रिरित्येव नाम मे विद्धि शोभने ||२५||
यातुधान्युवाच||
यथोदाहृतमेतत्ते मयि नाम महामुने |
दुर्धार्यमेतन्मनसा गच्छावतर पद्मिनीम् ||२६||
वसिष्ठ उवाच||
वसिष्ठोऽस्मि वरिष्ठोऽस्मि वसे वासं गृहेष्वपि |
वरिष्ठत्वाच्च वासाच्च वसिष्ठ इति विद्धि माम् ||२७||
यातुधान्युवाच||
नामनैरुक्तमेतत्ते दुःखव्याभाषिताक्षरम् |
नैतद्धारयितुं शक्यं गच्छावतर पद्मिनीम् ||२८||
कश्यप उवाच||
कुलं कुलं च कुपपः कुपयः कश्यपो द्विजः |
काश्यः काशनिकाशत्वादेतन्मे नाम धारय ||२९||
यातुधान्युवाच||
यथोदाहृतमेतत्ते मयि नाम महामुने |
दुर्धार्यमेतन्मनसा गच्छावतर पद्मिनीम् ||३०||
भरद्वाज उवाच||
भरे सुतान्भरे शिष्यान्भरे देवान्भरे द्विजान् |
भरे भार्यामनव्याजो भरद्वाजोऽस्मि शोभने ||३१||
यातुधान्युवाच||
नामनैरुक्तमेतत्ते दुःखव्याभाषिताक्षरम् |
नैतद्धारयितुं शक्यं गच्छावतर पद्मिनीम् ||३२||
गौतम उवाच||
गोदमो दमगोऽधूमो दमो दुर्दर्शनश्च ते |
विद्धि मां गौतमं कृत्ये यातुधानि निबोध मे ||३३||
यातुधान्युवाच||
यथोदाहृतमेतत्ते मयि नाम महामुने |
नैतद्धारयितुं शक्यं गच्छावतर पद्मिनीम् ||३४||
विश्वामित्र उवाच||
विश्वेदेवाश्च मे मित्रं मित्रमस्मि गवां तथा |
विश्वामित्रमिति ख्यातं यातुधानि निबोध मे ||३५||
यातुधान्युवाच||
नामनैरुक्तमेतत्ते दुःखव्याभाषिताक्षरम् |
नैतद्धारयितुं शक्यं गच्छावतर पद्मिनीम् ||३६||
जमदग्निरुवाच||
जाजमद्यजजा नाम मृजा माह जिजायिषे |
जमदग्निरिति ख्यातमतो मां विद्धि शोभने ||३७||
यातुधान्युवाच||
यथोदाहृतमेतत्ते मयि नाम महामुने |
नैतद्धारयितुं शक्यं गच्छावतर पद्मिनीम् ||३८||
अरुन्धत्युवाच||
धरां धरित्रीं वसुधां भर्तुस्तिष्ठाम्यनन्तरम् |
मनोऽनुरुन्धती भर्तुरिति मां विद्ध्यरुन्धतीम् ||३९||
यातुधान्युवाच||
नामनैरुक्तमेतत्ते दुःखव्याभाषिताक्षरम् |
नैतद्धारयितुं शक्यं गच्छावतर पद्मिनीम् ||४०||
गण्डोवाच||
गण्डं गण्डं गतवती गण्डगण्डेति सञ्ज्ञिता |
गण्डगण्डेव गण्डेति विद्धि मानलसम्भवे ||४१||
यातुधान्युवाच||
नामनैरुक्तमेतत्ते दुःखव्याभाषिताक्षरम् |
नैतद्धारयितुं शक्यं गच्छावतर पद्मिनीम् ||४२||
पशुसख उवाच||
सखा सखे यः सख्येयः पशूनां च सखा सदा |
गौणं पशुसखेत्येवं विद्धि मामग्निसम्भवे ||४३||
यातुधान्युवाच||
नामनैरुक्तमेतत्ते दुःखव्याभाषिताक्षरम् |
नैतद्धारयितुं शक्यं गच्छावतर पद्मिनीम् ||४४||
शुनःसख उवाच||
एभिरुक्तं यथा नाम नाहं वक्तुमिहोत्सहे |
शुनःसखसखायं मां यातुधान्युपधारय ||४५||
यातुधान्युवाच||
नाम तेऽव्यक्तमुक्तं वै वाक्यं संदिग्धया गिरा |
तस्मात्सकृदिदानीं त्वं ब्रूहि यन्नाम ते द्विज ||४६||
शुनःसख उवाच||
सकृदुक्तं मया नाम न गृहीतं यदा त्वया |
तस्मात्त्रिदण्डाभिहता गच्छ भस्मेति माचिरम् ||४७||
भीष्म उवाच||
सा ब्रह्मदण्डकल्पेन तेन मूर्ध्नि हता तदा |
कृत्या पपात मेदिन्यां भस्मसाच्च जगाम ह ||४८||
शुनःसखश्च हत्वा तां यातुधानीं महाबलाम् |
भुवि त्रिदण्डं विष्टभ्य शाद्वले समुपाविशत् ||४९||
ततस्ते मुनयः सर्वे पुष्कराणि बिसानि च |
यथाकाममुपादाय समुत्तस्थुर्मुदान्विताः ||५०||
श्रमेण महता युक्तास्ते बिसानि कलापशः |
तीरे निक्षिप्य पद्मिन्यास्तर्पणं चक्रुरम्भसा ||५१||
अथोत्थाय जलात्तस्मात्सर्वे ते वै समागमन् |
नापश्यंश्चापि ते तानि बिसानि पुरुषर्षभ ||५२||
ऋषय ऊचुः||
केन क्षुधाभिभूतानामस्माकं पापकर्मणा |
नृशंसेनापनीतानि बिसान्याहारकाङ्क्षिणाम् ||५३||
ते शङ्कमानास्त्वन्योन्यं पप्रच्छुर्द्विजसत्तमाः |
त ऊचुः शपथं सर्वे कुर्म इत्यरिकर्शन ||५४||
त उक्त्वा बाढमित्येव सर्व एव शुनःसखम् |
क्षुधार्ताः सुपरिश्रान्ताः शपथायोपचक्रमुः ||५५||
अत्रिरुवाच||
स गां स्पृशतु पादेन सूर्यं च प्रतिमेहतु |
अनध्यायेष्वधीयीत बिसस्तैन्यं करोति यः ||५६||
वसिष्ठ उवाच||
अनध्यायपरो लोके शुनः स परिकर्षतु |
परिव्राट्कामवृत्तोऽस्तु बिसस्तैन्यं करोति यः ||५७||
शरणागतं हन्तु मित्रं स्वसुतां चोपजीवतु |
अर्थान्काङ्क्षतु कीनाशाद्बिसस्तैन्यं करोति यः ||५८||
कश्यप उवाच||
सर्वत्र सर्वं पणतु न्यासलोपं करोतु च |
कूटसाक्षित्वमभ्येतु बिसस्तैन्यं करोति यः ||५९||
वृथामांसं समश्नातु वृथादानं करोतु च |
यातु स्त्रियं दिवा चैव बिसस्तैन्यं करोति यः ||६०||
भरद्वाज उवाच||
नृशंसस्त्यक्तधर्मास्तु स्त्रीषु ज्ञातिषु गोषु च |
ब्राह्मणं चापि जयतां बिसस्तैन्यं करोति यः ||६१||
उपाध्यायमधः कृत्वा ऋचोऽध्येतु यजूंषि च |
जुहोतु च स कक्षाग्नौ बिसस्तैन्यं करोति यः ||६२||
जमदग्निरुवाच||
पुरीषमुत्सृजत्वप्सु हन्तु गां चापि दोहिनीम् |
अनृतौ मैथुनं यातु बिसस्तैन्यं करोति यः ||६३||
द्वेष्यो भार्योपजीवी स्याद्दूरबन्धुश्च वैरवान् |
अन्योन्यस्यातिथिश्चास्तु बिसस्तैन्यं करोति यः ||६४||
गौतम उवाच||
अधीत्य वेदांस्त्यजतु त्रीनग्नीनपविध्यतु |
विक्रीणातु तथा सोमं बिसस्तैन्यं करोति यः ||६५||
उदपानप्लवे ग्रामे ब्राह्मणो वृषलीपतिः |
तस्य सालोक्यतां यातु बिसस्तैन्यं करोति यः ||६६||
विश्वामित्र उवाच||
जीवतो वै गुरून्भृत्यान्भरन्त्वस्य परे जनाः |
अगतिर्बहुपुत्रः स्याद्बिसस्तैन्यं करोति यः ||६७||
अशुचिर्ब्रह्मकूटोऽस्तु ऋद्ध्या चैवाप्यहङ्कृतः |
कर्षको मत्सरी चास्तु बिसस्तैन्यं करोति यः ||६८||
वर्षान्करोतु भृतको राज्ञश्चास्तु पुरोहितः |
अयाज्यस्य भवेदृत्विग्बिसस्तैन्यं करोति यः ||६९||
अरुन्धत्युवाच||
नित्यं परिवदेच्छ्वश्रूं भर्तुर्भवतु दुर्मनाः |
एका स्वादु समश्नातु बिसस्तैन्यं करोति या ||७०||
ज्ञातीनां गृहमध्यस्था सक्तूनत्तु दिनक्षये |
अभाग्यावीरसूरस्तु बिसस्तैन्यं करोति या ||७१||
गण्डोवाच||
अनृतं भाषतु सदा साधुभिश्च विरुध्यतु |
ददातु कन्यां शुल्केन बिसस्तैन्यं करोति या ||७२||
साधयित्वा स्वयं प्राशेद्दास्ये जीवतु चैव ह |
विकर्मणा प्रमीयेत बिसस्तैन्यं करोति या ||७३||
पशुसख उवाच||
दास्य एव प्रजायेत सोऽप्रसूतिरकिञ्चनः |
दैवतेष्वनमस्कारो बिसस्तैन्यं करोति यः ||७४||
शुनःसख उवाच||
अध्वर्यवे दुहितरं ददातु; च्छन्दोगे वा चरितब्रह्मचर्ये |
आथर्वणं वेदमधीत्य विप्रः; स्नायीत यो वै हरते बिसानि ||७५||
ऋषय ऊचुः||
इष्टमेतद्द्विजातीनां योऽयं ते शपथः कृतः |
त्वया कृतं बिसस्तैन्यं सर्वेषां नः शुनःसख ||७६||
शुनःसख उवाच||
न्यस्तमाद्यमपश्यद्भिर्यदुक्तं कृतकर्मभिः |
सत्यमेतन्न मिथ्यैतद्बिसस्तैन्यं कृतं मया ||७७||
मया ह्यन्तर्हितानीह बिसानीमानि पश्यत |
परीक्षार्थं भगवतां कृतमेतन्मयानघाः ||७८||
रक्षणार्थं च सर्वेषां भवतामहमागतः ||७८||
यातुधानी ह्यतिक्रुद्धा कृत्यैषा वो वधैषिणी |
वृषादर्भिप्रयुक्तैषा निहता मे तपोधनाः ||७९||
दुष्टा हिंस्यादियं पापा युष्मान्प्रत्यग्निसम्भवा |
तस्मादस्म्यागतो विप्रा वासवं मां निबोधत ||८०||
अलोभादक्षया लोकाः प्राप्ता वः सार्वकामिकाः |
उत्तिष्ठध्वमितः क्षिप्रं तानवाप्नुत वै द्विजाः ||८१||
भीष्म उवाच||
ततो महर्षयः प्रीतास्तथेत्युक्त्वा पुरंदरम् |
सहैव त्रिदशेन्द्रेण सर्वे जग्मुस्त्रिविष्टपम् ||८२||
एवमेते महात्मानो भोगैर्बहुविधैरपि |
क्षुधा परमया युक्ताश्छन्द्यमाना महात्मभिः ||८३||
नैव लोभं तदा चक्रुस्ततः स्वर्गमवाप्नुवन् ||८३||
तस्मात्सर्वास्ववस्थासु नरो लोभं विवर्जयेत् |
एष धर्मः परो राजन्नलोभ इति विश्रुतः ||८४||
इदं नरः सच्चरितं समवायेषु कीर्तयेत् |
सुखभागी च भवति न च दुर्गाण्यवाप्नुते ||८५||
प्रीयन्ते पितरश्चास्य ऋषयो देवतास्तथा |
यशोधर्मार्थभागी च भवति प्रेत्य मानवः ||८६||
९६
भीष्म उवाच||
अत्रैवोदाहरन्तीममितिहासं पुरातनम् |
यद्वृत्तं तीर्थयात्रायां शपथं प्रति तच्छृणु ||१||
पुष्करार्थं कृतं स्तैन्यं पुरा भरतसत्तम |
राजर्षिभिर्महाराज तथैव च द्विजर्षिभिः ||२||
ऋषयः समेताः पश्चिमे वै प्रभासे; समागता मन्त्रममन्त्रयन्त |
चराम सर्वे पृथिवीं पुण्यतीर्थां; तन्नः कार्यं हन्त गच्छाम सर्वे ||३||
शुक्रोऽङ्गिराश्चैव कविश्च विद्वां; स्तथागस्त्यो नारदपर्वतौ च |
भृगुर्वसिष्ठः कश्यपो गौतमश्च; विश्वामित्रो जमदग्निश्च राजन् ||४||
ऋषिस्तथा गालवोऽथाष्टकश्च; भरद्वाजोऽरुन्धती वालखिल्याः |
शिबिर्दिलीपो नहुषोऽम्बरीषो; राजा ययातिर्धुन्धुमारोऽथ पूरुः ||५||
जग्मुः पुरस्कृत्य महानुभावं; शतक्रतुं वृत्रहणं नरेन्द्र |
तीर्थानि सर्वाणि परिक्रमन्तो; माघ्यां ययुः कौशिकीं पुण्यतीर्थाम् ||६||
सर्वेषु तीर्थेष्वथ धूतपापा; जग्मुस्ततो ब्रह्मसरः सुपुण्यम् |
देवस्य तीर्थे जलमग्निकल्पा; विगाह्य ते भुक्तबिसप्रसूनाः ||७||
केचिद्बिसान्यखनंस्तत्र राज; न्नन्ये मृणालान्यखनंस्तत्र विप्राः |
अथापश्यन्पुष्करं ते ह्रियन्तं; ह्रदादगस्त्येन समुद्धृतं वै ||८||
तानाह सर्वानृषिमुख्यानगस्त्यः; केनादत्तं पुष्करं मे सुजातम् |
युष्माञ्शङ्के दीयतां पुष्करं मे; न वै भवन्तो हर्तुमर्हन्ति पद्मम् ||९||
शृणोमि कालो हिंसते धर्मवीर्यं; सेयं प्राप्ता वर्धते धर्मपीडा |
पुराधर्मो वर्धते नेह याव; त्तावद्गच्छामि परलोकं चिराय ||१०||
पुरा वेदान्ब्राह्मणा ग्राममध्ये; घुष्टस्वरा वृषलाञ्श्रावयन्ति |
पुरा राजा व्यवहारानधर्म्या; न्पश्यत्यहं परलोकं व्रजामि ||११||
पुरावरान्प्रत्यवरान्गरीयसो; यावन्नरा नावमंस्यन्ति सर्वे |
तमोत्तरं यावदिदं न वर्तते; तावद्व्रजामि परलोकं चिराय ||१२||
पुरा प्रपश्यामि परेण मर्त्या; न्बलीयसा दुर्बलान्भुज्यमानान् |
तस्माद्यास्यामि परलोकं चिराय; न ह्युत्सहे द्रष्टुमीदृङ्नृलोके ||१३||
तमाहुरार्ता ऋषयो महर्षिं; न ते वयं पुष्करं चोरयामः |
मिथ्याभिषङ्गो भवता न कार्यः; शपाम तीक्ष्णाञ्शपथान्महर्षे ||१४||
ते निश्चितास्तत्र महर्षयस्तु; संमन्यन्तो धर्ममेवं नरेन्द्र |
ततोऽशपञ्शपथान्पर्ययेण; सहैव ते पार्थिव पुत्रपौत्रैः ||१५||
भृगुरुवाच||
प्रत्याक्रोशेदिहाक्रुष्टस्ताडितः प्रतिताडयेत् |
खादेच्च पृष्ठमांसानि यस्ते हरति पुष्करम् ||१६||
वसिष्ठ उवाच||
अस्वाध्यायपरो लोके श्वानं च परिकर्षतु |
पुरे च भिक्षुर्भवतु यस्ते हरति पुष्करम् ||१७||
कश्यप उवाच||
सर्वत्र सर्वं पणतु न्यासे लोभं करोतु च |
कूटसाक्षित्वमभ्येतु यस्ते हरति पुष्करम् ||१८||
गौतम उवाच||
जीवत्वहङ्कृतो बुद्ध्या विपणत्वधमेन सः |
कर्षको मत्सरी चास्तु यस्ते हरति पुष्करम् ||१९||
अङ्गिरा उवाच||
अशुचिर्ब्रह्मकूटोऽस्तु श्वानं च परिकर्षतु |
ब्रह्महानिकृतिश्चास्तु यस्ते हरति पुष्करम् ||२०||
धुन्धुमार उवाच||
अकृतज्ञोऽस्तु मित्राणां शूद्रायां तु प्रजायतु |
एकः सम्पन्नमश्नातु यस्ते हरति पुष्करम् ||२१||
पूरुरुवाच||
चिकित्सायां प्रचरतु भार्यया चैव पुष्यतु |
श्वशुरात्तस्य वृत्तिः स्याद्यस्ते हरति पुष्करम् ||२२||
दिलीप उवाच||
उदपानप्लवे ग्रामे ब्राह्मणो वृषलीपतिः |
तस्य लोकान्स व्रजतु यस्ते हरति पुष्करम् ||२३||
शुक्र उवाच||
पृष्ठमांसं समश्नातु दिवा गच्छतु मैथुनम् |
प्रेष्यो भवतु राज्ञश्च यस्ते हरति पुष्करम् ||२४||
जमदग्निरुवाच||
अनध्यायेष्वधीयीत मित्रं श्राद्धे च भोजयेत् |
श्राद्धे शूद्रस्य चाश्नीयाद्यस्ते हरति पुष्करम् ||२५||
शिबिरुवाच||
अनाहिताग्निर्म्रियतां यज्ञे विघ्नं करोतु च |
तपस्विभिर्विरुध्येत यस्ते हरति पुष्करम् ||२६||
ययातिरुवाच||
अनृतौ जटी व्रतिन्यां वै भार्यायां सम्प्रजायतु |
निराकरोतु वेदांश्च यस्ते हरति पुष्करम् ||२७||
नहुष उवाच||
अतिथिं गृहस्थो नुदतु कामवृत्तोऽस्तु दीक्षितः |
विद्यां प्रयच्छतु भृतो यस्ते हरति पुष्करम् ||२८||
अम्बरीष उवाच||
नृशंसस्त्यक्तधर्मोऽस्तु स्त्रीषु ज्ञातिषु गोषु च |
ब्राह्मणं चापि जहतु यस्ते हरति पुष्करम् ||२९||
नारद उवाच||
गूढोऽज्ञानी बहिः शास्त्रं पठतां विस्वरं पदम् |
गरीयसोऽवजानातु यस्ते हरति पुष्करम् ||३०||
नाभाग उवाच||
अनृतं भाषतु सदा सद्भिश्चैव विरुध्यतु |
शुल्केन कन्यां ददतु यस्ते हरति पुष्करम् ||३१||
कविरुवाच||
पदा स गां ताडयतु सूर्यं च प्रति मेहतु |
शरणागतं च त्यजतु यस्ते हरति पुष्करम् ||३२||
विश्वामित्र उवाच||
करोतु भृतकोऽवर्षां राज्ञश्चास्तु पुरोहितः |
ऋत्विगस्तु ह्ययाज्यस्य यस्ते हरति पुष्करम् ||३३||
पर्वत उवाच||
ग्रामे चाधिकृतः सोऽस्तु खरयानेन गच्छतु |
शुनः कर्षतु वृत्त्यर्थे यस्ते हरति पुष्करम् ||३४||
भरद्वाज उवाच||
सर्वपापसमादानं नृशंसे चानृते च यत् |
तत्तस्यास्तु सदा पापं यस्ते हरति पुष्करम् ||३५||
अष्टक उवाच||
स राजास्त्वकृतप्रज्ञः कामवृत्तिश्च पापकृत् |
अधर्मेणानुशास्तूर्वीं यस्ते हरति पुष्करम् ||३६||
गालव उवाच||
पापिष्ठेभ्यस्त्वनर्घार्हः स नरोऽस्तु स्वपापकृत् |
दत्त्वा दानं कीर्तयतु यस्ते हरति पुष्करम् ||३७||
अरुन्धत्युवाच||
श्वश्र्वापवादं वदतु भर्तुर्भवतु दुर्मनाः |
एका स्वादु समश्नातु या ते हरति पुष्करम् ||३८||
वालखिल्या ऊचुः||
एकपादेन वृत्त्यर्थं ग्रामद्वारे स तिष्ठतु |
धर्मज्ञस्त्यक्तधर्मोऽस्तु यस्ते हरति पुष्करम् ||३९||
पशुसख उवाच||
अग्निहोत्रमनादृत्य सुखं स्वपतु स द्विजः |
परिव्राट्कामवृत्तोऽस्तु यस्ते हरति पुष्करम् ||४०||
सुरभ्युवाच||
बाल्वजेन निदानेन कांस्यं भवतु दोहनम् |
दुह्येत परवत्सेन या ते हरति पुष्करम् ||४१||
भीष्म उवाच||
ततस्तु तैः शपथैः शप्यमानै; र्नानाविधैर्बहुभिः कौरवेन्द्र |
सहस्राक्षो देवराट्सम्प्रहृष्टः; समीक्ष्य तं कोपनं विप्रमुख्यम् ||४२||
अथाब्रवीन्मघवा प्रत्ययं स्वं; समाभाष्य तमृषिं जातरोषम् |
ब्रह्मर्षिदेवर्षिनृपर्षिमध्ये; यत्तन्निबोधेह ममाद्य राजन् ||४३||
शक्र उवाच||
अध्वर्यवे दुहितरं ददातु; च्छन्दोगे वा चरितब्रह्मचर्ये |
आथर्वणं वेदमधीत्य विप्रः; स्नायीत यः पुष्करमाददाति ||४४||
सर्वान्वेदानधीयीत पुण्यशीलोऽस्तु धार्मिकः |
ब्रह्मणः सदनं यातु यस्ते हरति पुष्करम् ||४५||
अगस्त्य उवाच||
आशीर्वादस्त्वया प्रोक्तः शपथो बलसूदन |
दीयतां पुष्करं मह्यमेष धर्मः सनातनः ||४६||
इन्द्र उवाच||
न मया भगवँल्लोभाद्धृतं पुष्करमद्य वै |
धर्मं तु श्रोतुकामेन हृतं न क्रोद्धुमर्हसि ||४७||
धर्मः श्रुतिसमुत्कर्षो धर्मसेतुरनामयः |
आर्षो वै शाश्वतो नित्यमव्ययोऽयं मया श्रुतः ||४८||
तदिदं गृह्यतां विद्वन्पुष्करं मुनिसत्तम |
अतिक्रमं मे भगवन्क्षन्तुमर्हस्यनिन्दित ||४९||
इत्युक्तः स महेन्द्रेण तपस्वी कोपनो भृशम् |
जग्राह पुष्करं धीमान्प्रसन्नश्चाभवन्मुनिः ||५०||
प्रययुस्ते ततो भूयस्तीर्थानि वनगोचराः |
पुण्यतीर्थेषु च तथा गात्राण्याप्लावयन्ति ते ||५१||
आख्यानं य इदं युक्तः पठेत्पर्वणि पर्वणि |
न मूर्खं जनयेत्पुत्रं न भवेच्च निराकृतिः ||५२||
न तमापत्स्पृशेत्काचिन्न ज्वरो न रुजश्च ह |
विरजाः श्रेयसा युक्तः प्रेत्य स्वर्गमवाप्नुयात् ||५३||
यश्च शास्त्रमनुध्यायेदृषिभिः परिपालितम् |
स गच्छेद्ब्रह्मणो लोकमव्ययं च नरोत्तम ||५४||
छत्रोपानहोत्पत्तिः
९७
युधिष्ठिर उवाच||
यदिदं श्राद्धधर्मेषु दीयते भरतर्षभ |
छत्रं चोपानहौ चैव केनैतत्सम्प्रवर्तितम् ||१||
कथं चैतत्समुत्पन्नं किमर्थं च प्रदीयते ||१||
न केवलं श्राद्धधर्मे पुण्यकेष्वपि दीयते |
एतद्विस्तरतो राजञ्श्रोतुमिच्छामि तत्त्वतः ||२||
भीष्म उवाच||
शृणु राजन्नवहितश्छत्रोपानहविस्तरम् |
यथैतत्प्रथितं लोके येन चैतत्प्रवर्तितम् ||३||
यथा चाक्षय्यतां प्राप्तं पुण्यतां च यथा गतम् |
सर्वमेतदशेषेण प्रवक्ष्यामि जनाधिप ||४||
इतिहासं पुरावृत्तमिमं शृणु नराधिप |
जमदग्नेश्च संवादं सूर्यस्य च महात्मनः ||५||
पुरा स भगवान्साक्षाद्धनुषाक्रीडत प्रभो |
सन्धाय सन्धाय शरांश्चिक्षेप किल भार्गवः ||६||
तान्क्षिप्तान्रेणुका सर्वांस्तस्येषून्दीप्ततेजसः |
आनाय्य सा तदा तस्मै प्रादादसकृदच्युत ||७||
अथ तेन स शब्देन ज्यातलस्य शरस्य च |
प्रहृष्टः सम्प्रचिक्षेप सा च प्रत्याजहार तान् ||८||
ततो मध्याह्नमारूढे ज्येष्ठामूले दिवाकरे |
स सायकान्द्विजो विद्ध्वा रेणुकामिदमब्रवीत् ||९||
गच्छानय विशालाक्षि शरानेतान्धनुश्च्युतान् |
यावदेतान्पुनः सुभ्रु क्षिपामीति जनाधिप ||१०||
सा गच्छत्यन्तरा छायां वृक्षमाश्रित्य भामिनी |
तस्थौ तस्या हि सन्तप्तं शिरः पादौ तथैव च ||११||
स्थिता सा तु मुहूर्तं वै भर्तुः शापभयाच्छुभा |
ययावानयितुं भूयः सायकानसितेक्षणा ||१२||
प्रत्याजगाम च शरांस्तानादाय यशस्विनी ||१२||
सा प्रस्विन्ना सुचार्वङ्गी पद्भ्यां दुःखं नियच्छती |
उपाजगाम भर्तारं भयाद्भर्तुः प्रवेपती ||१३||
स तामृषिस्ततः क्रुद्धो वाक्यमाह शुभाननाम् |
रेणुके किं चिरेण त्वमागतेति पुनः पुनः ||१४||
रेणुकोवाच||
शिरस्तावत्प्रदीप्तं मे पादौ चैव तपोधन |
सूर्यतेजोनिरुद्धाहं वृक्षच्छायामुपाश्रिता ||१५||
एतस्मात्कारणाद्ब्रह्मंश्चिरमेतत्कृतं मया |
एतज्ज्ञात्वा मम विभो मा क्रुधस्त्वं तपोधन ||१६||
जमदग्निरुवाच||
अद्यैनं दीप्तकिरणं रेणुके तव दुःखदम् |
शरैर्निपातयिष्यामि सूर्यमस्त्राग्नितेजसा ||१७||
भीष्म उवाच||
स विस्फार्य धनुर्दिव्यं गृहीत्वा च बहूञ्शरान् |
अतिष्ठत्सूर्यमभितो यतो याति ततोमुखः ||१८||
अथ तं प्रहरिष्यन्तं सूर्योऽभ्येत्य वचोऽब्रवीत् |
द्विजरूपेण कौन्तेय किं ते सूर्योऽपराध्यते ||१९||
आदत्ते रश्मिभिः सूर्यो दिवि विद्वंस्ततस्ततः |
रसं स तं वै वर्षासु प्रवर्षति दिवाकरः ||२०||
ततोऽन्नं जायते विप्र मनुष्याणां सुखावहम् |
अन्नं प्राणा इति यथा वेदेषु परिपठ्यते ||२१||
अथाभ्रेषु निगूढश्च रश्मिभिः परिवारितः |
सप्त द्वीपानिमान्ब्रह्मन्वर्षेणाभिप्रवर्षति ||२२||
ततस्तदौषधीनां च वीरुधां पत्रपुष्पजम् |
सर्वं वर्षाभिनिर्वृत्तमन्नं सम्भवति प्रभो ||२३||
जातकर्माणि सर्वाणि व्रतोपनयनानि च |
गोदानानि विवाहाश्च तथा यज्ञसमृद्धयः ||२४||
सत्राणि दानानि तथा संयोगा वित्तसञ्चयाः |
अन्नतः सम्प्रवर्तन्ते यथा त्वं वेत्थ भार्गव ||२५||
रमणीयानि यावन्ति यावदारम्भकाणि च |
सर्वमन्नात्प्रभवति विदितं कीर्तयामि ते ||२६||
सर्वं हि वेत्थ विप्र त्वं यदेतत्कीर्तितं मया |
प्रसादये त्वा विप्रर्षे किं ते सूर्यो निपात्यते ||२७||
छत्रोपानहदानम्
९८
युधिष्ठिर उवाच||
एवं तदा प्रयाचन्तं भास्करं मुनिसत्तमः |
जमदग्निर्महातेजाः किं कार्यं प्रत्यपद्यत ||१||
भीष्म उवाच||
तथा प्रयाचमानस्य मुनिरग्निसमप्रभः |
जमदग्निः शमं नैव जगाम कुरुनन्दन ||२||
ततः सूर्यो मधुरया वाचा तमिदमब्रवीत् |
कृताञ्जलिर्विप्ररूपी प्रणम्येदं विशां पते ||३||
चलं निमित्तं विप्रर्षे सदा सूर्यस्य गच्छतः |
कथं चलं वेत्स्यसि त्वं सदा यान्तं दिवाकरम् ||४||
जमदग्निरुवाच||
स्थिरं वापि चलं वापि जाने त्वां ज्ञानचक्षुषा |
अवश्यं विनयाधानं कार्यमद्य मया तव ||५||
अपराह्णे निमेषार्धं तिष्ठसि त्वं दिवाकर |
तत्र वेत्स्यामि सूर्य त्वां न मेऽत्रास्ति विचारणा ||६||
सूर्य उवाच||
असंशयं मां विप्रर्षे वेत्स्यसे धन्विनां वर |
अपकारिणं तु मां विद्धि भगवञ्शरणागतम् ||७||
भीष्म उवाच||
ततः प्रहस्य भगवाञ्जमदग्निरुवाच तम् |
न भीः सूर्य त्वया कार्या प्रणिपातगतो ह्यसि ||८||
ब्राह्मणेष्वार्जवं यच्च स्थैर्यं च धरणीतले |
सौम्यतां चैव सोमस्य गाम्भीर्यं वरुणस्य च ||९||
दीप्तिमग्नेः प्रभां मेरोः प्रतापं तपनस्य च |
एतान्यतिक्रमेद्यो वै स हन्याच्छरणागतम् ||१०||
भवेत्स गुरुतल्पी च ब्रह्महा च तथा भवेत् |
सुरापानं च कुर्यात्स यो हन्याच्छरणागतम् ||११||
एतस्य त्वपनीतस्य समाधिं तात चिन्तय |
यथा सुखगमः पन्था भवेत्त्वद्रश्मितापितः ||१२||
भीष्म उवाच||
एतावदुक्त्वा स तदा तूष्णीमासीद्भृगूद्वहः |
अथ सूर्यो ददौ तस्मै छत्रोपानहमाशु वै ||१३||
सूर्य उवाच||
महर्षे शिरसस्त्राणं छत्रं मद्रश्मिवारणम् |
प्रतिगृह्णीष्व पद्भ्यां च त्राणार्थं चर्मपादुके ||१४||
अद्यप्रभृति चैवैतल्लोके सम्प्रचरिष्यति |
पुण्यदानेषु सर्वेषु परमक्षय्यमेव च ||१५||
भीष्म उवाच||
उपानच्छत्रमेतद्वै सूर्येणेह प्रवर्तितम् |
पुण्यमेतदभिख्यातं त्रिषु लोकेषु भारत ||१६||
तस्मात्प्रयच्छ विप्रेभ्यश्छत्रोपानहमुत्तमम् |
धर्मस्ते सुमहान्भावी न मेऽत्रास्ति विचारणा ||१७||
छत्रं हि भरतश्रेष्ठ यः प्रदद्याद्द्विजातये |
शुभ्रं शतशलाकं वै स प्रेत्य सुखमेधते ||१८||
स शक्रलोके वसति पूज्यमानो द्विजातिभिः |
अप्सरोभिश्च सततं देवैश्च भरतर्षभ ||१९||
दह्यमानाय विप्राय यः प्रयच्छत्युपानहौ |
स्नातकाय महाबाहो संशिताय द्विजातये ||२०||
सोऽपि लोकानवाप्नोति दैवतैरभिपूजितान् |
गोलोके स मुदा युक्तो वसति प्रेत्य भारत ||२१||
एतत्ते भरतश्रेष्ठ मया कार्त्स्न्येन कीर्तितम् |
छत्रोपानहदानस्य फलं भरतसत्तम ||२२||
आरामादिनिर्माणम्
९९
युधिष्ठिर उवाच||
आरामाणां तडागानां यत्फलं कुरुनन्दन |
तदहं श्रोतुमिच्छामि त्वत्तोऽद्य भरतर्षभ ||१||
भीष्म उवाच||
सुप्रदर्शा वनवती चित्रधातुविभूषिता |
उपेता सर्वबीजैश्च श्रेष्ठा भूमिरिहोच्यते ||२||
तस्याः क्षेत्रविशेषं च तडागानां निवेशनम् |
औदकानि च सर्वाणि प्रवक्ष्याम्यनुपूर्वशः ||३||
तडागानां च वक्ष्यामि कृतानां चापि ये गुणाः |
त्रिषु लोकेषु सर्वत्र पूजितो यस्तडागवान् ||४||
अथ वा मित्रसदनं मैत्रं मित्रविवर्धनम् |
कीर्तिसञ्जननं श्रेष्ठं तडागानां निवेशनम् ||५||
धर्मस्यार्थस्य कामस्य फलमाहुर्मनीषिणः |
तडागं सुकृतं देशे क्षेत्रमेव महाश्रयम् ||६||
चतुर्विधानां भूतानां तडागमुपलक्षयेत् |
तडागानि च सर्वाणि दिशन्ति श्रियमुत्तमाम् ||७||
देवा मनुष्या गन्धर्वाः पितरोरगराक्षसाः |
स्थावराणि च भूतानि संश्रयन्ति जलाशयम् ||८||
तस्मात्तांस्ते प्रवक्ष्यामि तडागे ये गुणाः स्मृताः |
या च तत्र फलावाप्तिरृषिभिः समुदाहृता ||९||
वर्षमात्रे तडागे तु सलिलं यस्य तिष्ठति |
अग्निहोत्रफलं तस्य फलमाहुर्मनीषिणः ||१०||
शरत्काले तु सलिलं तडागे यस्य तिष्ठति |
गोसहस्रस्य स प्रेत्य लभते फलमुत्तमम् ||११||
हेमन्तकाले सलिलं तडागे यस्य तिष्ठति |
स वै बहुसुवर्णस्य यज्ञस्य लभते फलम् ||१२||
यस्य वै शैशिरे काले तडागे सलिलं भवेत् |
अग्निष्टोमस्य यज्ञस्य फलमाहुर्मनीषिणः ||१३||
तडागं सुकृतं यस्य वसन्ते तु महाश्रयम् |
अतिरात्रस्य यज्ञस्य फलं स समुपाश्नुते ||१४||
निदाघकाले पानीयं तडागे यस्य तिष्ठति |
वाजपेयसमं तस्य फलं वै मुनयो विदुः ||१५||
स कुलं तारयेत्सर्वं यस्य खाते जलाशये |
गावः पिबन्ति पानीयं साधवश्च नराः सदा ||१६||
तडागे यस्य गावस्तु पिबन्ति तृषिता जलम् |
मृगपक्षिमनुष्याश्च सोऽश्वमेधफलं लभेत् ||१७||
यत्पिबन्ति जलं तत्र स्नायन्ते विश्रमन्ति च |
तडागदस्य तत्सर्वं प्रेत्यानन्त्याय कल्पते ||१८||
दुर्लभं सलिलं तात विशेषेण परत्र वै |
पानीयस्य प्रदानेन प्रीतिर्भवति शाश्वती ||१९||
तिलान्ददत पानीयं दीपान्ददत जाग्रत |
ज्ञातिभिः सह मोदध्वमेतत्प्रेतेषु दुर्लभम् ||२०||
सर्वदानैर्गुरुतरं सर्वदानैर्विशिष्यते |
पानीयं नरशार्दूल तस्माद्दातव्यमेव हि ||२१||
एवमेतत्तडागेषु कीर्तितं फलमुत्तमम् |
अत ऊर्ध्वं प्रवक्ष्यामि वृक्षाणामपि रोपणे ||२२||
स्थावराणां च भूतानां जातयः षट्प्रकीर्तिताः |
वृक्षगुल्मलतावल्ल्यस्त्वक्सारास्तृणजातयः ||२३||
एता जात्यस्तु वृक्षाणां तेषां रोपे गुणास्त्विमे |
कीर्तिश्च मानुषे लोके प्रेत्य चैव फलं शुभम् ||२४||
लभते नाम लोके च पितृभिश्च महीयते |
देवलोकगतस्यापि नाम तस्य न नश्यति ||२५||
अतीतानागते चोभे पितृवंशं च भारत |
तारयेद्वृक्षरोपी च तस्माद्वृक्षान्प्ररोपयेत् ||२६||
तस्य पुत्रा भवन्त्येते पादपा नात्र संशयः |
परलोकगतः स्वर्गं लोकांश्चाप्नोति सोऽव्ययान् ||२७||
पुष्पैः सुरगणान्वृक्षाः फलैश्चापि तथा पितॄन् |
छायया चातिथींस्तात पूजयन्ति महीरुहाः ||२८||
किंनरोरगरक्षांसि देवगन्धर्वमानवाः |
तथा ऋषिगणाश्चैव संश्रयन्ति महीरुहान् ||२९||
पुष्पिताः फलवन्तश्च तर्पयन्तीह मानवान् |
वृक्षदं पुत्रवद्वृक्षास्तारयन्ति परत्र च ||३०||
तस्मात्तडागे वृक्षा वै रोप्याः श्रेयोर्थिना सदा |
पुत्रवत्परिपाल्याश्च पुत्रास्ते धर्मतः स्मृताः ||३१||
तडागकृद्वृक्षरोपी इष्टयज्ञश्च यो द्विजः |
एते स्वर्गे महीयन्ते ये चान्ये सत्यवादिनः ||३२||
तस्मात्तडागं कुर्वीत आरामांश्चैव रोपयेत् |
यजेच्च विविधैर्यज्ञैः सत्यं च सततं वदेत् ||३३||
बलिप्रदानम्
१००
युधिष्ठिर उवाच||
गार्हस्थ्यं धर्ममखिलं प्रब्रूहि भरतर्षभ |
ऋद्धिमाप्नोति किं कृत्वा मनुष्य इह पार्थिव ||१||
भीष्म उवाच||
अत्र ते वर्तयिष्यामि पुरावृत्तं जनाधिप |
वासुदेवस्य संवादं पृथिव्याश्चैव भारत ||२||
संस्तूय पृथिवीं देवीं वासुदेवः प्रतापवान् |
पप्रच्छ भरतश्रेष्ठ यदेतत्पृच्छसेऽद्य माम् ||३||
वासुदेव उवाच||
गार्हस्थ्यं धर्ममाश्रित्य मया वा मद्विधेन वा |
किमवश्यं धरे कार्यं किं वा कृत्वा सुखी भवेत् ||४||
पृथिव्युवाच||
ऋषयः पितरो देवा मनुष्याश्चैव माधव |
इज्याश्चैवार्चनीयाश्च यथा चैवं निबोध मे ||५||
सदा यज्ञेन देवांश्च आतिथ्येन च मानवान् |
छन्दतश्च यथानित्यमर्हान्युञ्जीत नित्यशः ||६||
तेन ह्यृषिगणाः प्रीता भवन्ति मधुसूदन ||६||
नित्यमग्निं परिचरेदभुक्त्वा बलिकर्म च |
कुर्यात्तथैव देवा वै प्रीयन्ते मधुसूदन ||७||
कुर्यादहरहः श्राद्धमन्नाद्येनोदकेन वा |
पयोमूलफलैर्वापि पितॄणां प्रीतिमाहरन् ||८||
सिद्धान्नाद्वैश्वदेवं वै कुर्यादग्नौ यथाविधि |
अग्नीषोमं वैश्वदेवं धान्वन्तर्यमनन्तरम् ||९||
प्रजानां पतये चैव पृथग्घोमो विधीयते |
तथैव चानुपूर्व्येण बलिकर्म प्रयोजयेत् ||१०||
दक्षिणायां यमायेह प्रतीच्यां वरुणाय च |
सोमाय चाप्युदीच्यां वै वास्तुमध्ये द्विजातये ||११||
धन्वन्तरेः प्रागुदीच्यां प्राच्यां शक्राय माधव |
मनोर्वै इति च प्राहुर्बलिं द्वारे गृहस्य वै ||१२||
मरुद्भ्यो देवताभ्यश्च बलिमन्तर्गृहे हरेत् ||१२||
तथैव विश्वेदेवेभ्यो बलिमाकाशतो हरेत् |
निशाचरेभ्यो भूतेभ्यो बलिं नक्तं तथा हरेत् ||१३||
एवं कृत्वा बलिं सम्यग्दद्याद्भिक्षां द्विजातये |
अलाभे ब्राह्मणस्याग्नावग्रमुत्क्षिप्य निक्षिपेत् ||१४||
यदा श्राद्धं पितृभ्यश्च दातुमिच्छेत मानवः |
तदा पश्चात्प्रकुर्वीत निवृत्ते श्राद्धकर्मणि ||१५||
पितॄन्सन्तर्पयित्वा तु बलिं कुर्याद्विधानतः |
वैश्वदेवं ततः कुर्यात्पश्चाद्ब्राह्मणवाचनम् ||१६||
ततोऽन्नेनावशेषेण भोजयेदतिथीनपि |
अर्चापूर्वं महाराज ततः प्रीणाति मानुषान् ||१७||
अनित्यं हि स्थितो यस्मात्तस्मादतिथिरुच्यते |
आचार्यस्य पितुश्चैव सख्युराप्तस्य चातिथेः |
इदमस्ति गृहे मह्यमिति नित्यं निवेदयेत् ||१९||
ते यद्वदेयुस्तत्कुर्यादिति धर्मो विधीयते |
गृहस्थः पुरुषः कृष्ण शिष्टाशी च सदा भवेत् ||२०||
राजर्त्विजं स्नातकं च गुरुं श्वशुरमेव च |
अर्चयेन्मधुपर्केण परिसंवत्सरोषितान् ||२१||
श्वभ्यश्च श्वपचेभ्यश्च वयोभ्यश्चावपेद्भुवि |
वैश्वदेवं हि नामैतत्सायम्प्रातर्विधीयते ||२२||
एतांस्तु धर्मान्गार्हस्थान्यः कुर्यादनसूयकः |
स इहर्द्धिं परां प्राप्य प्रेत्य नाके महीयते ||२३||
भीष्म उवाच||
इति भूमेर्वचः श्रुत्वा वासुदेवः प्रतापवान् |
तथा चकार सततं त्वमप्येवं समाचर ||२४||
एवं गृहस्थधर्मं त्वं चेतयानो नराधिप |
इहलोके यशः प्राप्य प्रेत्य स्वर्गमवाप्स्यसि ||२५||
दीपादिदानम्
१०१
युधिष्ठिर उवाच||
आलोकदानं नामैतत्कीदृशं भरतर्षभ |
कथमेतत्समुत्पन्नं फलं चात्र ब्रवीहि मे ||१||
भीष्म उवाच||
अत्राप्युदाहरन्तीममितिहासं पुरातनम् |
मनोः प्रजापतेर्वादं सुवर्णस्य च भारत ||२||
तपस्वी कश्चिदभवत्सुवर्णो नाम नामतः |
वर्णतो हेमवर्णः स सुवर्ण इति पप्रथे ||३||
कुलशीलगुणोपेतः स्वाध्याये च परं गतः |
बहून्स्ववंशप्रभवान्समतीतः स्वकैर्गुणैः ||४||
स कदाचिन्मनुं विप्रो ददर्शोपससर्प च |
कुशलप्रश्नमन्योन्यं तौ च तत्र प्रचक्रतुः ||५||
ततस्तौ सिद्धसङ्कल्पौ मेरौ काञ्चनपर्वते |
रमणीये शिलापृष्ठे सहितौ संन्यषीदताम् ||६||
तत्र तौ कथयामास्तां कथा नानाविधाश्रयाः |
ब्रह्मर्षिदेवदैत्यानां पुराणानां महात्मनाम् ||७||
सुवर्णस्त्वब्रवीद्वाक्यं मनुं स्वायम्भुवं प्रभुम् |
हितार्थं सर्वभूतानां प्रश्नं मे वक्तुमर्हसि ||८||
सुमनोभिर्यदिज्यन्ते दैवतानि प्रजेश्वर |
किमेतत्कथमुत्पन्नं फलयोगं च शंस मे ||९||
मनुरुवाच||
अत्राप्युदाहरन्तीममितिहासं पुरातनम् |
शुक्रस्य च बलेश्चैव संवादं वै समागमे ||१०||
बलेर्वैरोचनस्येह त्रैलोक्यमनुशासतः |
समीपमाजगामाशु शुक्रो भृगुकुलोद्वहः ||११||
तमर्घ्यादिभिरभ्यर्च्य भार्गवं सोऽसुराधिपः |
निषसादासने पश्चाद्विधिवद्भूरिदक्षिणः ||१२||
कथेयमभवत्तत्र या त्वया परिकीर्तिता |
सुमनोधूपदीपानां सम्प्रदाने फलं प्रति ||१३||
ततः पप्रच्छ दैत्येन्द्रः कवीन्द्रं प्रश्नमुत्तमम् |
सुमनोधूपदीपानां किं फलं ब्रह्मवित्तम ||१४||
प्रदानस्य द्विजश्रेष्ठ तद्भवान्वक्तुमर्हति ||१४||
शुक्र उवाच||
तपः पूर्वं समुत्पन्नं धर्मस्तस्मादनन्तरम् |
एतस्मिन्नन्तरे चैव वीरुदोषध्य एव च ||१५||
सोमस्यात्मा च बहुधा सम्भूतः पृथिवीतले |
अमृतं च विषं चैव याश्चान्यास्तुल्यजातयः ||१६||
अमृतं मनसः प्रीतिं सद्यः पुष्टिं ददाति च |
मनो ग्लपयते तीव्रं विषं गन्धेन सर्वशः ||१७||
अमृतं मङ्गलं विद्धि महद्विषममङ्गलम् |
ओषध्यो ह्यमृतं सर्वं विषं तेजोऽग्निसम्भवम् ||१८||
मनो ह्लादयते यस्माच्छ्रियं चापि दधाति ह |
तस्मात्सुमनसः प्रोक्ता नरैः सुकृतकर्मभिः ||१९||
देवताभ्यः सुमनसो यो ददाति नरः शुचिः |
तस्मात्सुमनसः प्रोक्ता यस्मात्तुष्यन्ति देवताः ||२०||
यं यमुद्दिश्य दीयेरन्देवं सुमनसः प्रभो |
मङ्गलार्थं स तेनास्य प्रीतो भवति दैत्यप ||२१||
ज्ञेयास्तूग्राश्च सौम्याश्च तेजस्विन्यश्च ताः पृथक् |
ओषध्यो बहुवीर्याश्च बहुरूपास्तथैव च ||२२||
यज्ञियानां च वृक्षाणामयज्ञियान्निबोध मे |
आसुराणि च माल्यानि दैवतेभ्यो हितानि च ||२३||
राक्षसानां सुराणां च यक्षाणां च तथा प्रियाः |
पितॄणां मानुषाणां च कान्ता यास्त्वनुपूर्वशः ||२४||
वन्या ग्राम्याश्चेह तथा कृष्टोप्ताः पर्वताश्रयाः |
अकण्टकाः कण्टकिन्यो गन्धरूपरसान्विताः ||२५||
द्विविधो हि स्मृतो गन्ध इष्टोऽनिष्टश्च पुष्पजः |
इष्टगन्धानि देवानां पुष्पाणीति विभावयेत् ||२६||
अकण्टकानां वृक्षाणां श्वेतप्रायाश्च वर्णतः |
तेषां पुष्पाणि देवानामिष्टानि सततं प्रभो ||२७||
जलजानि च माल्यानि पद्मादीनि च यानि च |
गन्धर्वनागयक्षेभ्यस्तानि दद्याद्विचक्षणः ||२८||
ओषध्यो रक्तपुष्पाश्च कटुकाः कण्टकान्विताः |
शत्रूणामभिचारार्थमथर्वसु निदर्शिताः ||२९||
तीक्ष्णवीर्यास्तु भूतानां दुरालम्भाः सकण्टकाः |
रक्तभूयिष्ठवर्णाश्च कृष्णाश्चैवोपहारयेत् ||३०||
मनोहृदयनन्दिन्यो विमर्दे मधुराश्च याः |
चारुरूपाः सुमनसो मानुषाणां स्मृता विभो ||३१||
न तु श्मशानसम्भूता न देवायतनोद्भवाः |
संनयेत्पुष्टियुक्तेषु विवाहेषु रहःसु च ||३२||
गिरिसानुरुहाः सौम्या देवानामुपपादयेत् |
प्रोक्षिताभ्युक्षिताः सौम्या यथायोगं यथास्मृति ||३३||
गन्धेन देवास्तुष्यन्ति दर्शनाद्यक्षराक्षसाः |
नागाः समुपभोगेन त्रिभिरेतैस्तु मानुषाः ||३४||
सद्यः प्रीणाति देवान्वै ते प्रीता भावयन्त्युत |
सङ्कल्पसिद्धा मर्त्यानामीप्सितैश्च मनोरथैः ||३५||
देवाः प्रीणन्ति सततं मानिता मानयन्ति च |
अवज्ञातावधूताश्च निर्दहन्त्यधमान्नरान् ||३६||
अतऊर्ध्वं प्रवक्ष्यामि धूपदानविधौ फलम् |
धूपांश्च विविधान्साधूनसाधूंश्च निबोध मे ||३७||
निर्यासः सरलश्चैव कृत्रिमश्चैव ते त्रयः |
इष्टानिष्टो भवेद्गन्धस्तन्मे विस्तरतः शृणु ||३८||
निर्यासाः सल्लकीवर्ज्या देवानां दयितास्तु ते |
गुग्गुलुः प्रवरस्तेषां सर्वेषामिति निश्चयः ||३९||
अगुरुः सारिणां श्रेष्ठो यक्षराक्षसभोगिनाम् |
दैत्यानां सल्लकीजश्च काङ्क्षितो यश्च तद्विधः ||४०||
अथ सर्जरसादीनां गन्धैः पार्थिवदारवैः |
फाणितासवसंयुक्तैर्मनुष्याणां विधीयते ||४१||
देवदानवभूतानां सद्यस्तुष्टिकरः स्मृतः |
येऽन्ये वैहारिकास्ते तु मानुषाणामिति स्मृताः ||४२||
य एवोक्ताः सुमनसां प्रदाने गुणहेतवः |
धूपेष्वपि परिज्ञेयास्त एव प्रीतिवर्धनाः ||४३||
दीपदाने प्रवक्ष्यामि फलयोगमनुत्तमम् |
यथा येन यदा चैव प्रदेया यादृशाश्च ते ||४४||
ज्योतिस्तेजः प्रकाशश्चाप्यूर्ध्वगं चापि वर्ण्यते |
प्रदानं तेजसां तस्मात्तेजो वर्धयते नृणाम् ||४५||
अन्धं तमस्तमिस्रं च दक्षिणायनमेव च |
उत्तरायणमेतस्माज्ज्योतिर्दानं प्रशस्यते ||४६||
यस्मादूर्ध्वगमेतत्तु तमसश्चैव भेषजम् |
तस्मादूर्ध्वगतेर्दाता भवेदिति विनिश्चयः ||४७||
देवास्तेजस्विनो यस्मात्प्रभावन्तः प्रकाशकाः |
तामसा राक्षसाश्चेति तस्माद्दीपः प्रदीयते ||४८||
आलोकदानाच्चक्षुष्मान्प्रभायुक्तो भवेन्नरः |
तान्दत्त्वा नोपहिंसेत न हरेन्नोपनाशयेत् ||४९||
दीपहर्ता भवेदन्धस्तमोगतिरसुप्रभः |
दीपप्रदः स्वर्गलोके दीपमाली विराजते ||५०||
हविषा प्रथमः कल्पो द्वितीयस्त्वौषधीरसैः |
वसामेदोस्थिनिर्यासैर्न कार्यः पुष्टिमिच्छता ||५१||
गिरिप्रपाते गहने चैत्यस्थाने चतुष्पथे |
दीपदाता भवेन्नित्यं य इच्छेद्भूतिमात्मनः ||५२||
कुलोद्द्योतो विशुद्धात्मा प्रकाशत्वं च गच्छति |
ज्योतिषां चैव सालोक्यं दीपदाता नरः सदा ||५३||
बलिकर्मसु वक्ष्यामि गुणान्कर्मफलोदयान् |
देवयक्षोरगनृणां भूतानामथ रक्षसाम् ||५४||
येषां नाग्रभुजो विप्रा देवतातिथिबालकाः |
राक्षसानेव तान्विद्धि निर्वषट्कारमङ्गलान् ||५५||
तस्मादग्रं प्रयच्छेत देवेभ्यः प्रतिपूजितम् |
शिरसा प्रणतश्चापि हरेद्बलिमतन्द्रितः ||५६||
गृह्या हि देवता नित्यमाशंसन्ति गृहात्सदा |
बाह्याश्चागन्तवो येऽन्ये यक्षराक्षसपन्नगाः ||५७||
इतो दत्तेन जीवन्ति देवताः पितरस्तथा |
ते प्रीताः प्रीणयन्त्येतानायुषा यशसा धनैः ||५८||
बलयः सह पुष्पैस्तु देवानामुपहारयेत् |
दधिद्रप्सयुताः पुण्याः सुगन्धाः प्रियदर्शनाः ||५९||
कार्या रुधिरमांसाढ्या बलयो यक्षरक्षसाम् |
सुरासवपुरस्कारा लाजोल्लेपनभूषिताः ||६०||
नागानां दयिता नित्यं पद्मोत्पलविमिश्रिताः |
तिलान्गुडसुसम्पन्नान्भूतानामुपहारयेत् ||६१||
अग्रदाताग्रभोगी स्याद्बलवर्णसमन्वितः |
तस्मादग्रं प्रयच्छेत देवेभ्यः प्रतिपूजितम् ||६२||
ज्वलत्यहरहो वेश्म याश्चास्य गृहदेवताः |
ताः पूज्या भूतिकामेन प्रसृताग्रप्रदायिना ||६३||
इत्येतदसुरेन्द्राय काव्यः प्रोवाच भार्गवः |
सुवर्णाय मनुः प्राह सुवर्णो नारदाय च ||६४||
नारदोऽपि मयि प्राह गुणानेतान्महाद्युते |
त्वमप्येतद्विदित्वेह सर्वमाचर पुत्रक ||६५||
पुष्पादिदानफलम्
१०२
युधिष्ठिर उवाच||
श्रुतं मे भरतश्रेष्ठ पुष्पधूपप्रदायिनाम् |
फलं बलिविधाने च तद्भूयो वक्तुमर्हसि ||१||
धूपप्रदानस्य फलं प्रदीपस्य तथैव च |
बलयश्च किमर्थं वै क्षिप्यन्ते गृहमेधिभिः ||२||
भीष्म उवाच||
अत्राप्युदाहरन्तीममितिहासं पुरातनम् |
नहुषं प्रति संवादमगस्त्यस्य भृगोस्तथा ||३||
नहुषो हि महाराज राजर्षिः सुमहातपाः |
देवराज्यमनुप्राप्तः सुकृतेनेह कर्मणा ||४||
तत्रापि प्रयतो राजन्नहुषस्त्रिदिवे वसन् |
मानुषीश्चैव दिव्याश्च कुर्वाणो विविधाः क्रियाः ||५||
मानुष्यस्तत्र सर्वाः स्म क्रियास्तस्य महात्मनः |
प्रवृत्तास्त्रिदिवे राजन्दिव्याश्चैव सनातनाः ||६||
अग्निकार्याणि समिधः कुशाः सुमनसस्तथा |
बलयश्चान्नलाजाभिर्धूपनं दीपकर्म च ||७||
सर्वं तस्य गृहे राज्ञः प्रावर्तत महात्मनः |
जपयज्ञान्मनोयज्ञांस्त्रिदिवेऽपि चकार सः ||८||
दैवतान्यर्चयंश्चापि विधिवत्स सुरेश्वरः |
सर्वाण्येव यथान्यायं यथापूर्वमरिंदम ||९||
अथेन्द्रस्य भविष्यत्वादहङ्कारस्तमाविशत् |
सर्वाश्चैव क्रियास्तस्य पर्यहीयन्त भूपते ||१०||
स ऋषीन्वाहयामास वरदानमदान्वितः |
परिहीनक्रियश्चापि दुर्बलत्वमुपेयिवान् ||११||
तस्य वाहयतः कालो मुनिमुख्यांस्तपोधनान् |
अहङ्काराभिभूतस्य सुमहानत्यवर्तत ||१२||
अथ पर्यायश ऋषीन्वाहनायोपचक्रमे |
पर्यायश्चाप्यगस्त्यस्य समपद्यत भारत ||१३||
अथागम्य महातेजा भृगुर्ब्रह्मविदां वरः |
अगस्त्यमाश्रमस्थं वै समुपेत्येदमब्रवीत् ||१४||
एवं वयमसत्कारं देवेन्द्रस्यास्य दुर्मतेः |
नहुषस्य किमर्थं वै मर्षयाम महामुने ||१५||
अगस्त्य उवाच||
कथमेष मया शक्यः शप्तुं यस्य महामुने |
वरदेन वरो दत्तो भवतो विदितश्च सः ||१६||
यो मे दृष्टिपथं गच्छेत्स मे वश्यो भवेदिति |
इत्यनेन वरो देवाद्याचितो गच्छता दिवम् ||१७||
एवं न दग्धः स मया भवता च न संशयः |
अन्येनाप्यृषिमुख्येन न शप्तो न च पातितः ||१८||
अमृतं चैव पानाय दत्तमस्मै पुरा विभो |
महात्मने तदर्थं च नास्माभिर्विनिपात्यते ||१९||
प्रायच्छत वरं देवः प्रजानां दुःखकारकम् |
द्विजेष्वधर्मयुक्तानि स करोति नराधमः ||२०||
अत्र यत्प्राप्तकालं नस्तद्ब्रूहि वदतां वर |
भवांश्चापि यथा ब्रूयात्कुर्वीमहि तथा वयम् ||२१||
भृगुरुवाच||
पितामहनियोगेन भवन्तमहमागतः |
प्रतिकर्तुं बलवति नहुषे दर्पमास्थिते ||२२||
अद्य हि त्वा सुदुर्बुद्धी रथे योक्ष्यति देवराट् |
अद्यैनमहमुद्वृत्तं करिष्येऽनिन्द्रमोजसा ||२३||
अद्येन्द्रं स्थापयिष्यामि पश्यतस्ते शतक्रतुम् |
सञ्चाल्य पापकर्माणमिन्द्रस्थानात्सुदुर्मतिम् ||२४||
अद्य चासौ कुदेवेन्द्रस्त्वां पदा धर्षयिष्यति |
दैवोपहतचित्तत्वादात्मनाशाय मन्दधीः ||२५||
व्युत्क्रान्तधर्मं तमहं धर्षणामर्षितो भृशम् |
अहिर्भवस्वेति रुषा शप्स्ये पापं द्विजद्रुहम् ||२६||
तत एनं सुदुर्बुद्धिं धिक्षब्दाभिहतत्विषम् |
धरण्यां पातयिष्यामि प्रेक्षतस्ते महामुने ||२७||
नहुषं पापकर्माणमैश्वर्यबलमोहितम् |
यथा च रोचते तुभ्यं तथा कर्तास्म्यहं मुने ||२८||
एवमुक्तस्तु भृगुणा मैत्रावरुणिरव्ययः |
अगस्त्यः परमप्रीतो बभूव विगतज्वरः ||२९||
दीपादिदानफलम्
१०३
युधिष्ठिर उवाच||
कथं स वै विपन्नश्च कथं वै पातितो भुवि |
कथं चानिन्द्रतां प्राप्तस्तद्भवान्वक्तुमर्हति ||१||
भीष्म उवाच||
एवं तयोः संवदतोः क्रियास्तस्य महात्मनः |
सर्वा एवाभ्यवर्तन्त या दिव्या याश्च मानुषाः ||२||
तथैव दीपदानानि सर्वोपकरणानि च |
बलिकर्म च यच्चान्यदुत्सेकाश्च पृथग्विधाः ||३||
सर्वास्तस्य समुत्पन्ना देवराज्ञो महात्मनः ||३||
देवलोके नृलोके च सदाचारा बुधैः स्मृताः |
ते चेद्भवन्ति राजेन्द्र ऋध्यन्ते गृहमेधिनः ||४||
धूपप्रदानैर्दीपैश्च नमस्कारैस्तथैव च ||४||
यथा सिद्धस्य चान्नस्य द्विजायाग्रं प्रदीयते |
बलयश्च गृहोद्देशे अतः प्रीयन्ति देवताः ||५||
यथा च गृहिणस्तोषो भवेद्वै बलिकर्मणा |
तथा शतगुणा प्रीतिर्देवतानां स्म जायते ||६||
एवं धूपप्रदानं च दीपदानं च साधवः |
प्रशंसन्ति नमस्कारैर्युक्तमात्मगुणावहम् ||७||
स्नानेनाद्भिश्च यत्कर्म क्रियते वै विपश्चिता |
नमस्कारप्रयुक्तेन तेन प्रीयन्ति देवताः ||८||
गृह्याश्च देवताः सर्वाः प्रीयन्ते विधिनार्चिताः ||८||
इत्येतां बुद्धिमास्थाय नहुषः स नरेश्वरः |
सुरेन्द्रत्वं महत्प्राप्य कृतवानेतदद्भुतम् ||९||
कस्यचित्त्वथ कालस्य भाग्यक्षय उपस्थिते |
सर्वमेतदवज्ञाय न चकारैतदीदृशम् ||१०||
ततः स परिहीणोऽभूत्सुरेन्द्रो बलिकर्मतः |
धूपदीपोदकविधिं न यथावच्चकार ह ||११||
ततोऽस्य यज्ञविषयो रक्षोभिः पर्यबाध्यत ||११||
अथागस्त्यमृषिश्रेष्ठं वाहनायाजुहाव ह |
द्रुतं सरस्वतीकूलात्स्मयन्निव महाबलः ||१२||
ततो भृगुर्महातेजा मैत्रावरुणिमब्रवीत् |
निमीलयस्व नयने जटा यावद्विशामि ते ||१३||
स्थाणुभूतस्य तस्याथ जटाः प्राविशदच्युतः |
भृगुः स सुमहातेजाः पातनाय नृपस्य ह ||१४||
ततः स देवराट्प्राप्तस्तमृषिं वाहनाय वै |
ततोऽगस्त्यः सुरपतिं वाक्यमाह विशां पते ||१५||
योजयस्वेन्द्र मां क्षिप्रं कं च देशं वहामि ते |
यत्र वक्ष्यसि तत्र त्वां नयिष्यामि सुराधिप ||१६||
इत्युक्तो नहुषस्तेन योजयामास तं मुनिम् |
भृगुस्तस्य जटासंस्थो बभूव हृषितो भृशम् ||१७||
न चापि दर्शनं तस्य चकार स भृगुस्तदा |
वरदानप्रभावज्ञो नहुषस्य महात्मनः ||१८||
न चुकोप स चागस्त्यो युक्तोऽपि नहुषेण वै |
तं तु राजा प्रतोदेन चोदयामास भारत ||१९||
न चुकोप स धर्मात्मा ततः पादेन देवराट् |
अगस्त्यस्य तदा क्रुद्धो वामेनाभ्यहनच्छिरः ||२०||
तस्मिञ्शिरस्यभिहते स जटान्तर्गतो भृगुः |
शशाप बलवत्क्रुद्धो नहुषं पापचेतसम् ||२१||
भृगुरुवाच||
यस्मात्पदाहनः क्रोधाच्छिरसीमं महामुनिम् |
तस्मादाशु महीं गच्छ सर्पो भूत्वा सुदुर्मते ||२२||
इत्युक्तः स तदा तेन सर्पो भूत्वा पपात ह |
अदृष्टेनाथ भृगुणा भूतले भरतर्षभ ||२३||
भृगुं हि यदि सोऽद्राक्षीन्नहुषः पृथिवीपते |
न स शक्तोऽभविष्यद्वै पातने तस्य तेजसा ||२४||
स तु तैस्तैः प्रदानैश्च तपोभिर्नियमैस्तथा |
पतितोऽपि महाराज भूतले स्मृतिमानभूत् ||२५||
प्रसादयामास भृगुं शापान्तो मे भवेदिति ||२५||
ततोऽगस्त्यः कृपाविष्टः प्रासादयत तं भृगुम् |
शापान्तार्थं महाराज स च प्रादात्कृपान्वितः ||२६||
भृगुरुवाच||
राजा युधिष्ठिरो नाम भविष्यति कुरूद्वहः |
स त्वां मोक्षयिता शापादित्युक्त्वान्तरधीयत ||२७||
अगस्त्योऽपि महातेजाः कृत्वा कार्यं शतक्रतोः |
स्वमाश्रमपदं प्रायात्पूज्यमानो द्विजातिभिः ||२८||
नहुषोऽपि त्वया राजंस्तस्माच्छापात्समुद्धृतः |
जगाम ब्रह्मसदनं पश्यतस्ते जनाधिप ||२९||
तदा तु पातयित्वा तं नहुषं भूतले भृगुः |
जगाम ब्रह्मसदनं ब्रह्मणे च न्यवेदयत् ||३०||
ततः शक्रं समानाय्य देवानाह पितामहः |
वरदानान्मम सुरा नहुषो राज्यमाप्तवान् ||३१||
स चागस्त्येन क्रुद्धेन भ्रंशितो भूतलं गतः ||३१||
न च शक्यं विना राज्ञा सुरा वर्तयितुं क्वचित् |
तस्मादयं पुनः शक्रो देवराज्येऽभिषिच्यताम् ||३२||
एवं सम्भाषमाणं तु देवाः पार्थ पितामहम् |
एवमस्त्विति संहृष्टाः प्रत्यूचुस्ते पितामहम् ||३३||
सोऽभिषिक्तो भगवता देवराज्येन वासवः |
ब्रह्मणा राजशार्दूल यथापूर्वं व्यरोचत ||३४||
एवमेतत्पुरावृत्तं नहुषस्य व्यतिक्रमात् |
स च तैरेव संसिद्धो नहुषः कर्मभिः पुनः ||३५||
तस्माद्दीपाः प्रदातव्याः सायं वै गृहमेधिभिः |
दिव्यं चक्षुरवाप्नोति प्रेत्य दीपप्रदायकः ||३६||
पूर्णचन्द्रप्रतीकाशा दीपदाश्च भवन्त्युत ||३६||
यावदक्षिनिमेषाणि ज्वलते तावतीः समाः |
रूपवान्धनवांश्चापि नरो भवति दीपदः ||३७||
ब्रह्मस्वहरणम्
१०४
युधिष्ठिर उवाच||
ब्राह्मणस्वानि ये मन्दा हरन्ति भरतर्षभ |
नृशंसकारिणो मूढाः क्व ते गच्छन्ति मानवाः ||१||
भीष्म उवाच||
अत्राप्युदाहरन्तीममितिहासं पुरातनम् |
चण्डालस्य च संवादं क्षत्रबन्धोश्च भारत ||२||
राजन्य उवाच||
वृद्धरूपोऽसि चण्डाल बालवच्च विचेष्टसे |
श्वखराणां रजःसेवी कस्मादुद्विजसे गवाम् ||३||
साधुभिर्गर्हितं कर्म चण्डालस्य विधीयते |
कस्माद्गोरजसा ध्वस्तमपां कुण्डे निषिञ्चसि ||४||
चण्डाल उवाच||
ब्राह्मणस्य गवां राजन्ह्रियतीनां रजः पुरा |
सोममुद्ध्वंसयामास तं सोमं येऽपिबन्द्विजाः ||५||
दीक्षितश्च स राजापि क्षिप्रं नरकमाविशत् |
सह तैर्याजकैः सर्वैर्ब्रह्मस्वमुपजीव्य तत् ||६||
येऽपि तत्रापिबन्क्षीरं घृतं दधि च मानवाः |
ब्राह्मणाः सहराजन्याः सर्वे नरकमाविशन् ||७||
जघ्नुस्ताः पयसा पुत्रांस्तथा पौत्रान्विधुन्वतीः |
पशूनवेक्षमाणाश्च साधुवृत्तेन दम्पती ||८||
अहं तत्रावसं राजन्ब्रह्मचारी जितेन्द्रियः |
तासां मे रजसा ध्वस्तं भैक्षमासीन्नराधिप ||९||
चण्डालोऽहं ततो राजन्भुक्त्वा तदभवं मृतः |
ब्रह्मस्वहारी च नृपः सोऽप्रतिष्ठां गतिं ययौ ||१०||
तस्माद्धरेन्न विप्रस्वं कदाचिदपि किञ्चन |
ब्रह्मस्वरजसा ध्वस्तं भुक्त्वा मां पश्य यादृशम् ||११||
तस्मात्सोमोऽप्यविक्रेयः पुरुषेण विपश्चिता |
विक्रयं हीह सोमस्य गर्हयन्ति मनीषिणः ||१२||
ये चैनं क्रीणते राजन्ये च विक्रीणते जनाः |
ते तु वैवस्वतं प्राप्य रौरवं यान्ति सर्वशः ||१३||
सोमं तु रजसा ध्वस्तं विक्रीयाद्बुद्धिपूर्वकम् |
श्रोत्रियो वार्धुषी भूत्वा चिररात्राय नश्यति ||१४||
नरकं त्रिंशतं प्राप्य श्वविष्ठामुपजीवति ||१४||
श्वचर्यामतिमानं च सखिदारेषु विप्लवम् |
तुलयाधारयद्धर्मो ह्यतिमानोऽतिरिच्यते ||१५||
श्वानं वै पापिनं पश्य विवर्णं हरिणं कृशम् |
अतिमानेन भूतानामिमां गतिमुपागतम् ||१६||
अहं वै विपुले जातः कुले धनसमन्विते |
अन्यस्मिञ्जन्मनि विभो ज्ञानविज्ञानपारगः ||१७||
अभवं तत्र जानानो ह्येतान्दोषान्मदात्तदा |
संरब्ध एव भूतानां पृष्ठमांसान्यभक्षयम् ||१८||
सोऽहं तेन च वृत्तेन भोजनेन च तेन वै |
इमामवस्थां सम्प्राप्तः पश्य कालस्य पर्ययम् ||१९||
आदीप्तमिव चैलान्तं भ्रमरैरिव चार्दितम् |
धावमानं सुसंरब्धं पश्य मां रजसान्वितम् ||२०||
स्वाध्यायैस्तु महत्पापं तरन्ति गृहमेधिनः |
दानैः पृथग्विधैश्चापि यथा प्राहुर्मनीषिणः ||२१||
तथा पापकृतं विप्रमाश्रमस्थं महीपते |
सर्वसङ्गविनिर्मुक्तं छन्दांस्युत्तारयन्त्युत ||२२||
अहं तु पापयोन्यां वै प्रसूतः क्षत्रियर्षभ |
निश्चयं नाधिगच्छामि कथं मुच्येयमित्युत ||२३||
जातिस्मरत्वं तु मम केनचित्पूर्वकर्मणा |
शुभेन येन मोक्षं वै प्राप्तुमिच्छाम्यहं नृप ||२४||
त्वमिमं मे प्रपन्नाय संशयं ब्रूहि पृच्छते |
चण्डालत्वात्कथमहं मुच्येयमिति सत्तम ||२५||
राजन्य उवाच||
चण्डाल प्रतिजानीहि येन मोक्षमवाप्स्यसि |
ब्राह्मणार्थे त्यजन्प्राणान्गतिमिष्टामवाप्स्यसि ||२६||
दत्त्वा शरीरं क्रव्याद्भ्यो रणाग्नौ द्विजहेतुकम् |
हुत्वा प्राणान्प्रमोक्षस्ते नान्यथा मोक्षमर्हसि ||२७||
भीष्म उवाच||
इत्युक्तः स तदा राजन्ब्रह्मस्वार्थे परन्तप |
हुत्वा रणमुखे प्राणान्गतिमिष्टामवाप ह ||२८||
तस्माद्रक्ष्यं त्वया पुत्र ब्रह्मस्वं भरतर्षभ |
यदीच्छसि महाबाहो शाश्वतीं गतिमुत्तमाम् ||२९||
हस्तिकूटम्
१०५
युधिष्ठिर उवाच||
एको लोकः सुकृतिनां सर्वे त्वाहो पितामह |
उत तत्रापि नानात्वं तन्मे ब्रूहि पितामह ||१||
भीष्म उवाच||
कर्मभिः पार्थ नानात्वं लोकानां यान्ति मानवाः |
पुण्यान्पुण्यकृतो यान्ति पापान्पापकृतो जनाः ||२||
अत्राप्युदाहरन्तीममितिहासं पुरातनम् |
गौतमस्य मुनेस्तात संवादं वासवस्य च ||३||
ब्राह्मणो गौतमः कश्चिन्मृदुर्दान्तो जितेन्द्रियः |
महावने हस्तिशिशुं परिद्यूनममातृकम् ||४||
तं दृष्ट्वा जीवयामास सानुक्रोशो धृतव्रतः |
स तु दीर्घेण कालेन बभूवातिबलो महान् ||५||
तं प्रभिन्नं महानागं प्रस्रुतं सर्वतो मदम् |
धृतराष्ट्रस्य रूपेण शक्रो जग्राह हस्तिनम् ||६||
ह्रियमाणं तु तं दृष्ट्वा गौतमः संशितव्रतः |
अभ्यभाषत राजानं धृतराष्ट्रं महातपाः ||७||
मा मे हार्षीर्हस्तिनं पुत्रमेनं; दुःखात्पुष्टं धृतराष्ट्राकृतज्ञ |
मित्रं सतां सप्तपदं वदन्ति; मित्रद्रोहो नैव राजन्स्पृशेत्त्वाम् ||८||
इध्मोदकप्रदातारं शून्यपालकमाश्रमे |
विनीतमाचार्यकुले सुयुक्तं गुरुकर्मणि ||९||
शिष्टं दान्तं कृतज्ञं च प्रियं च सततं मम |
न मे विक्रोशतो राजन्हर्तुमर्हसि कुञ्जरम् ||१०||
धृतराष्ट्र उवाच||
गवां सहस्रं भवते ददामि; दासीशतं निष्कशतानि पञ्च |
अन्यच्च वित्तं विविधं महर्षे; किं ब्राह्मणस्येह गजेन कृत्यम् ||११||
गौतम उवाच||
त्वामेव गावोऽभि भवन्तु राज; न्दास्यः सनिष्का विविधं च रत्नम् |
अन्यच्च वित्तं विविधं नरेन्द्र; किं ब्राह्मणस्येह धनेन कृत्यम् ||१२||
धृतराष्ट्र उवाच||
ब्राह्मणानां हस्तिभिर्नास्ति कृत्यं; राजन्यानां नागकुलानि विप्र |
स्वं वाहनं नयतो नास्त्यधर्मो; नागश्रेष्ठाद्गौतमास्मान्निवर्त ||१३||
गौतम उवाच||
यत्र प्रेतो नन्दति पुण्यकर्मा; यत्र प्रेतः शोचति पापकर्मा |
वैवस्वतस्य सदने महात्मन; स्तत्र त्वाहं हस्तिनं यातयिष्ये ||१४||
धृतराष्ट्र उवाच||
ये निष्क्रिया नास्तिकाः श्रद्दधानाः; पापात्मान इन्द्रियार्थे निविष्टाः |
यमस्य ते यातनां प्राप्नुवन्ति; परं गन्ता धृतराष्ट्रो न तत्र ||१५||
गौतम उवाच||
वैवस्वती संयमनी जनानां; यत्रानृतं नोच्यते यत्र सत्यम् |
यत्राबला बलिनं यातयन्ति; तत्र त्वाहं हस्तिनं यातयिष्ये ||१६||
धृतराष्ट्र उवाच||
ज्येष्ठां स्वसारं पितरं मातरं च; गुरुं यथा मानयन्तश्चरन्ति |
तथाविधानामेष लोको महर्षे; परं गन्ता धृतराष्ट्रो न तत्र ||१७||
गौतम उवाच||
मन्दाकिनी वैश्रवणस्य राज्ञो; महाभोगा भोगिजनप्रवेश्या |
गन्धर्वयक्षैरप्सरोभिश्च जुष्टा; तत्र त्वाहं हस्तिनं यातयिष्ये ||१८||
धृतराष्ट्र उवाच||
अतिथिव्रताः सुव्रता ये जना वै; प्रतिश्रयं ददति ब्राह्मणेभ्यः |
शिष्टाशिनः संविभज्याश्रितांश्च; मन्दाकिनीं तेऽपि विभूषयन्ति ||१९||
गौतम उवाच||
मेरोरग्रे यद्वनं भाति रम्यं; सुपुष्पितं किंनरगीतजुष्टम् |
सुदर्शना यत्र जम्बूर्विशाला; तत्र त्वाहं हस्तिनं यातयिष्ये ||२०||
धृतराष्ट्र उवाच||
ये ब्राह्मणा मृदवः सत्यशीला; बहुश्रुताः सर्वभूताभिरामाः |
येऽधीयन्ते सेतिहासं पुराणं; मध्वाहुत्या जुह्वति च द्विजेभ्यः ||२१||
तथाविधानामेष लोको महर्षे; परं गन्ता धृतराष्ट्रो न तत्र |
यद्विद्यते विदितं स्थानमस्ति; तद्ब्रूहि त्वं त्वरितो ह्येष यामि ||२२||
गौतम उवाच||
सुपुष्पितं किंनरराजजुष्टं; प्रियं वनं नन्दनं नारदस्य |
गन्धर्वाणामप्सरसां च सद्म; तत्र त्वाहं हस्तिनं यातयिष्ये ||२३||
धृतराष्ट्र उवाच||
ये नृत्तगीतकुशला जनाः सदा; ह्ययाचमानाः सहिताश्चरन्ति |
तथाविधानामेष लोको महर्षे; परं गन्ता धृतराष्ट्रो न तत्र ||२४||
गौतम उवाच||
यत्रोत्तराः कुरवो भान्ति रम्या; देवैः सार्धं मोदमाना नरेन्द्र |
यत्राग्नियौनाश्च वसन्ति विप्रा; ह्ययोनयः पर्वतयोनयश्च ||२५||
यत्र शक्रो वर्षति सर्वकामा; न्यत्र स्त्रियः कामचाराश्चरन्ति |
यत्र चेर्ष्या नास्ति नारीनराणां; तत्र त्वाहं हस्तिनं यातयिष्ये ||२६||
धृतराष्ट्र उवाच||
ये सर्वभूतेषु निवृत्तकामा; अमांसादा न्यस्तदण्डाश्चरन्ति |
न हिंसन्ति स्थावरं जङ्गमं च; भूतानां ये सर्वभूतात्मभूताः ||२७||
निराशिषो निर्ममा वीतरागा; लाभालाभे तुल्यनिन्दाप्रशंसाः |
तथाविधानामेष लोको महर्षे; परं गन्ता धृतराष्ट्रो न तत्र ||२८||
गौतम उवाच||
ततः परं भान्ति लोकाः सनातनाः; सुपुण्यगन्धा निर्मला वीतशोकाः |
सोमस्य राज्ञः सदने महात्मन; स्तत्र त्वाहं हस्तिनं यातयिष्ये ||२९||
धृतराष्ट्र उवाच||
ये दानशीला न प्रतिगृह्णते सदा; न चाप्यर्थानाददते परेभ्यः |
येषामदेयमर्हते नास्ति किं चि; त्सर्वातिथ्याः सुप्रसादा जनाश्च ||३०||
ये क्षन्तारो नाभिजल्पन्ति चान्या; ञ्शक्ता भूत्वा सततं पुण्यशीलाः |
तथाविधानामेष लोको महर्षे; परं गन्ता धृतराष्ट्रो न तत्र ||३१||
गौतम उवाच||
ततः परं भान्ति लोकाः सनातना; विरजसो वितमस्का विशोकाः |
आदित्यस्य सुमहान्तः सुवृत्ता; स्तत्र त्वाहं हस्तिनं यातयिष्ये ||३२||
धृतराष्ट्र उवाच||
स्वाध्यायशीला गुरुशुश्रूषणे रता; स्तपस्विनः सुव्रताः सत्यसन्धाः |
आचार्याणामप्रतिकूलभाषिणो; नित्योत्थिता गुरुकर्मस्वचोद्याः ||३३||
तथाविधानामेष लोको महर्षे; विशुद्धानां भावितवाङ्मतीनाम् |
सत्ये स्थितानां वेदविदां महात्मनां; परं गन्ता धृतराष्ट्रो न तत्र ||३४||
गौतम उवाच||
ततः परे भान्ति लोकाः सनातनाः; सुपुण्यगन्धा विरजा विशोकाः |
वरुणस्य राज्ञः सदने महात्मन; स्तत्र त्वाहं हस्तिनं यातयिष्ये ||३५||
धृतराष्ट्र उवाच||
चातुर्मास्यैर्ये यजन्ते जनाः सदा; तथेष्टीनां दशशतं प्राप्नुवन्ति |
ये चाग्निहोत्रं जुह्वति श्रद्दधाना; यथान्यायं त्रीणि वर्षाणि विप्राः ||३६||
स्वदारिणां धर्मधुरे महात्मनां; यथोचिते वर्त्मनि सुस्थितानाम् |
धर्मात्मनामुद्वहतां गतिं तां; परं गन्ता धृतराष्ट्रो न तत्र ||३७||
गौतम उवाच||
इन्द्रस्य लोका विरजा विशोका; दुरन्वयाः काङ्क्षिता मानवानाम् |
तस्याहं ते भवने भूरितेजसो; राजन्निमं हस्तिनं यातयिष्ये ||३८||
धृतराष्ट्र उवाच||
शतवर्षजीवी यश्च शूरो मनुष्यो; वेदाध्यायी यश्च यज्वाप्रमत्तः |
एते सर्वे शक्रलोकं व्रजन्ति; परं गन्ता धृतराष्ट्रो न तत्र ||३९||
गौतम उवाच||
प्राजापत्याः सन्ति लोका महान्तो; नाकस्य पृष्ठे पुष्कला वीतशोकाः |
मनीषिताः सर्वलोकोद्भवानां; तत्र त्वाहं हस्तिनं यातयिष्ये ||४०||
धृतराष्ट्र उवाच||
ये राजानो राजसूयाभिषिक्ता; धर्मात्मानो रक्षितारः प्रजानाम् |
ये चाश्वमेधावभृथाप्लुताङ्गा; स्तेषां लोका धृतराष्ट्रो न तत्र ||४१||
गौतम उवाच||
ततः परं भान्ति लोकाः सनातनाः; सुपुण्यगन्धा विरजा वीतशोकाः |
तस्मिन्नहं दुर्लभे त्वाप्रधृष्ये; गवां लोके हस्तिनं यातयिष्ये ||४२||
धृतराष्ट्र उवाच||
यो गोसहस्री शतदः समां समां; यो गोशती दश दद्याच्च शक्त्या |
तथा दशभ्यो यश्च दद्यादिहैकां; पञ्चभ्यो वा दानशीलस्तथैकाम् ||४३||
ये जीर्यन्ते ब्रह्मचर्येण विप्रा; ब्राह्मीं वाचं परिरक्षन्ति चैव |
मनस्विनस्तीर्थयात्रापरायणा; स्ते तत्र मोदन्ति गवां विमाने ||४४||
प्रभासं मानसं पुण्यं पुष्कराणि महत्सरः |
पुण्यं च नैमिषं तीर्थं बाहुदां करतोयिनीम् ||४५||
गयां गयशिरश्चैव विपाशां स्थूलवालुकाम् |
तूष्णीङ्गङ्गां दशगङ्गां महाह्रदमथापि च ||४६||
गौतमीं कौशिकीं पाकां महात्मानो धृतव्रताः |
सरस्वतीदृषद्वत्यौ यमुनां ये प्रयान्ति च ||४७||
तत्र ते दिव्यसंस्थाना दिव्यमाल्यधराः शिवाः |
प्रयान्ति पुण्यगन्धाढ्या धृतराष्ट्रो न तत्र वै ||४८||
गौतम उवाच||
यत्र शीतभयं नास्ति न चोष्णभयमण्वपि |
न क्षुत्पिपासे न ग्लानिर्न दुःखं न सुखं तथा ||४९||
न द्वेष्यो न प्रियः कश्चिन्न बन्धुर्न रिपुस्तथा |
न जरामरणे वापि न पुण्यं न च पातकम् ||५०||
तस्मिन्विरजसि स्फीते प्रज्ञासत्त्वव्यवस्थिते |
स्वयम्भुभवने पुण्ये हस्तिनं मे यतिष्यति ||५१||
धृतराष्ट्र उवाच||
निर्मुक्ताः सर्वसङ्गेभ्यो कृतात्मानो यतव्रताः |
अध्यात्मयोगसंस्थाने युक्ताः स्वर्गगतिं गताः ||५२||
ते ब्रह्मभवनं पुण्यं प्राप्नुवन्तीह सात्त्विकाः |
न तत्र धृतराष्ट्रस्ते शक्यो द्रष्टुं महामुने ||५३||
गौतम उवाच||
रथन्तरं यत्र बृहच्च गीयते; यत्र वेदी पुण्डरीकैः स्तृणोति |
यत्रोपयाति हरिभिः सोमपीथी; तत्र त्वाहं हस्तिनं यातयिष्ये ||५४||
बुध्यामि त्वां वृत्रहणं शतक्रतुं; व्यतिक्रमन्तं भुवनानि विश्वा |
कच्चिन्न वाचा वृजिनं कदा चि; दकार्षं ते मनसोऽभिषङ्गात् ||५५||
शक्र उवाच||
यस्मादिमं लोकपथं प्रजाना; मन्वागमं पदवादे गजस्य |
तस्माद्भवान्प्रणतं मानुशास्तु; ब्रवीषि यत्तत्करवाणि सर्वम् ||५६||
गौतम उवाच||
श्वेतं करेणुं मम पुत्रनागं; यं मेऽहार्षीर्दशवर्षाणि बालम् |
यो मे वने वसतोऽभूद्द्वितीय; स्तमेव मे देहि सुरेन्द्र नागम् ||५७||
शक्र उवाच||
अयं सुतस्ते द्विजमुख्य नाग; श्चाघ्रायते त्वामभिवीक्षमाणः |
पादौ च ते नासिकयोपजिघ्रते; श्रेयो मम ध्याहि नमश्च तेऽस्तु ||५८||
गौतम उवाच||
शिवं सदैवेह सुरेन्द्र तुभ्यं; ध्यायामि पूजां च सदा प्रयुञ्जे |
ममापि त्वं शक्र शिवं ददस्व; त्वया दत्तं प्रतिगृह्णामि नागम् ||५९||
शक्र उवाच||
येषां वेदा निहिता वै गुहायां; मनीषिणां सत्त्ववतां महात्मनाम् |
तेषां त्वयैकेन महात्मनास्मि; बुद्धस्तस्मात्प्रीतिमांस्तेऽहमद्य ||६०||
हन्तैहि ब्राह्मण क्षिप्रं सह पुत्रेण हस्तिना |
प्राप्नुहि त्वं शुभाँल्लोकानह्नाय च चिराय च ||६१||
भीष्म उवाच||
स गौतमं पुरस्कृत्य सह पुत्रेण हस्तिना |
दिवमाचक्रमे वज्री सद्भिः सह दुरासदम् ||६२||
अनशनमाहात्म्यम्
१०६
युधिष्ठिर उवाच||
दानं बहुविधाकारं शान्तिः सत्यमहिंसता |
स्वदारतुष्टिश्चोक्ता ते फलं दानस्य चैव यत् ||१||
पितामहस्य विदितं किमन्यत्र तपोबलात् |
तपसो यत्परं तेऽद्य तन्मे व्याख्यातुमर्हसि ||२||
भीष्म उवाच||
तपः प्रचक्षते यावत्तावल्लोका युधिष्ठिर |
मतं मम तु कौन्तेय तपो नानशनात्परम् ||३||
अत्राप्युदाहरन्तीममितिहासं पुरातनम् |
भगीरथस्य संवादं ब्रह्मणश्च महात्मनः ||४||
अतीत्य सुरलोकं च गवां लोकं च भारत |
ऋषिलोकं च सोऽगच्छद्भगीरथ इति श्रुतिः ||५||
तं दृष्ट्वा स वचः प्राह ब्रह्मा राजन्भगीरथम् |
कथं भगीरथागास्त्वमिमं देशं दुरासदम् ||६||
न हि देवा न गन्धर्वा न मनुष्या भगीरथ |
आयान्त्यतप्ततपसः कथं वै त्वमिहागतः ||७||
भगीरथ उवाच||
निःशङ्कमन्नमददं ब्राह्मणेभ्यः; शतं सहस्राणि सदैव दानम् |
ब्राह्मं व्रतं नित्यमास्थाय विद्धि; न त्वेवाहं तस्य फलादिहागाम् ||८||
दशैकरात्रान्दश पञ्चरात्रा; नेकादशैकादशकान्क्रतूंश्च |
ज्योतिष्टोमानां च शतं यदिष्टं; फलेन तेनापि च नागतोऽहम् ||९||
यच्चावसं जाह्नवीतीरनित्यः; शतं समास्तप्यमानस्तपोऽहम् |
अदां च तत्राश्वतरीसहस्रं; नारीपुरं न च तेनाहमागाम् ||१०||
दशायुतानि चाश्वानामयुतानि च विंशतिम् |
पुष्करेषु द्विजातिभ्यः प्रादां गाश्च सहस्रशः ||११||
सुवर्णचन्द्रोडुपधारिणीनां; कन्योत्तमानामददं स्रग्विणीनाम् |
षष्टिं सहस्राणि विभूषितानां; जाम्बूनदैराभरणैर्न तेन ||१२||
दशार्बुदान्यददं गोसवेज्या; स्वेकैकशो दश गा लोकनाथ |
समानवत्साः पयसा समन्विताः; सुवर्णकांस्योपदुहा न तेन ||१३||
अप्तोर्यामेषु नियतमेकैकस्मिन्दशाददम् |
गृष्टीनां क्षीरदात्रीणां रोहिणीनां न तेन च ||१४||
दोग्ध्रीणां वै गवां चैव प्रयुतानि दशैव ह |
प्रादां दशगुणं ब्रह्मन्न च तेनाहमागतः ||१५||
वाजिनां बाह्लिजातानामयुतान्यददं दश |
कर्काणां हेममालानां न च तेनाहमागतः ||१६||
कोटीश्च काञ्चनस्याष्टौ प्रादां ब्रह्मन्दश त्वहम् |
एकैकस्मिन्क्रतौ तेन फलेनाहं न चागतः ||१७||
वाजिनां श्यामकर्णानां हरितानां पितामह |
प्रादां हेमस्रजां ब्रह्मन्कोटीर्दश च सप्त च ||१८||
ईषादन्तान्महाकायान्काञ्चनस्रग्विभूषितान् |
पत्नीमतः सहस्राणि प्रायच्छं दश सप्त च ||१९||
अलङ्कृतानां देवेश दिव्यैः कनकभूषणैः |
रथानां काञ्चनाङ्गानां सहस्राण्यददं दश ||२०||
सप्त चान्यानि युक्तानि वाजिभिः समलङ्कृतैः ||२०||
दक्षिणावयवाः केचिद्वेदैर्ये सम्प्रकीर्तिताः |
वाजपेयेषु दशसु प्रादां तेनापि नाप्यहम् ||२१||
शक्रतुल्यप्रभावानामिज्यया विक्रमेण च |
सहस्रं निष्ककण्ठानामददं दक्षिणामहम् ||२२||
विजित्य नृपतीन्सर्वान्मखैरिष्ट्वा पितामह |
अष्टभ्यो राजसूयेभ्यो न च तेनाहमागतः ||२३||
स्रोतश्च यावद्गङ्गायाश्छन्नमासीज्जगत्पते |
दक्षिणाभिः प्रवृत्ताभिर्मम नागां च तत्कृते ||२४||
वाजिनां च सहस्रे द्वे सुवर्णशतभूषिते |
वरं ग्रामशतं चाहमेकैकस्य त्रिधाददम् ||२५||
तपस्वी नियताहारः शममास्थाय वाग्यतः ||२५||
दीर्घकालं हिमवति गङ्गायाश्च दुरुत्सहाम् |
मूर्ध्ना धारां महादेवः शिरसा यामधारयत् ||२६||
न तेनाप्यहमागच्छं फलेनेह पितामह ||२६||
शम्याक्षेपैरयजं यच्च देवा; न्सद्यस्कानामयुतैश्चापि यत्तत् |
त्रयोदशद्वादशाहांश्च देव; सपौण्डरीकान्न च तेषां फलेन ||२७||
अष्टौ सहस्राणि ककुद्मिनामहं; शुक्लर्षभाणामददं ब्राह्मणेभ्यः |
एकैकं वै काञ्चनं शृङ्गमेभ्यः; पत्नीश्चैषामददं निष्ककण्ठीः ||२८||
हिरण्यरत्ननिचितानददं रत्नपर्वतान् |
धनधान्यसमृद्धांश्च ग्रामाञ्शतसहस्रशः ||२९||
शतं शतानां गृष्टीनामददं चाप्यतन्द्रितः |
इष्ट्वानेकैर्महायज्ञैर्ब्राह्मणेभ्यो न तेन च ||३०||
एकादशाहैरयजं सदक्षिणै; र्द्विर्द्वादशाहैरश्वमेधैश्च देव |
आर्कायणैः षोडशभिश्च ब्रह्मं; स्तेषां फलेनेह न चागतोऽस्मि ||३१||
निष्कैककण्ठमददं योजनायतं; तद्विस्तीर्णं काञ्चनपादपानाम् |
वनं चूतानां रत्नविभूषितानां; न चैव तेषामागतोऽहं फलेन ||३२||
तुरायणं हि व्रतमप्रधृष्य; मक्रोधनोऽकरवं त्रिंशतोऽब्दान् |
शतं गवामष्ट शतानि चैव; दिने दिने ह्यददं ब्राह्मणेभ्यः ||३३||
पयस्विनीनामथ रोहिणीनां; तथैव चाप्यनडुहां लोकनाथ |
प्रादां नित्यं ब्राह्मणेभ्यः सुरेश; नेहागतस्तेन फलेन चाहम् ||३४||
त्रिंशदग्निमहं ब्रह्मन्नयजं यच्च नित्यदा |
अष्टाभिः सर्वमेधैश्च नरमेधैश्च सप्तभिः ||३५||
दशभिर्विश्वजिद्भिश्च शतैरष्टादशोत्तरैः |
न चैव तेषां देवेश फलेनाहमिहागतः ||३६||
सरय्वां बाहुदायां च गङ्गायामथ नैमिषे |
गवां शतानामयुतमददं न च तेन वै ||३७||
इन्द्रेण गुह्यं निहितं वै गुहायां; यद्भार्गवस्तपसेहाभ्यविन्दत् |
जाज्वल्यमानमुशनस्तेजसेह; तत्साधयामास महं वरेण्यम् ||३८||
ततो मे ब्राह्मणास्तुष्टास्तस्मिन्कर्मणि साधिते |
सहस्रमृषयश्चासन्ये वै तत्र समागताः ||३९||
उक्तस्तैरस्मि गच्छ त्वं ब्रह्मलोकमिति प्रभो ||३९||
प्रीतेनोक्तः सहस्रेण ब्राह्मणानामहं प्रभो |
इमं लोकमनुप्राप्तो मा भूत्तेऽत्र विचारणा ||४०||
कामं यथावद्विहितं विधात्रा; पृष्टेन वाच्यं तु मया यथावत् |
तपो हि नान्यच्चानशनान्मतं मे; नमोऽस्तु ते देववर प्रसीद ||४१||
भीष्म उवाच||
इत्युक्तवन्तं तं ब्रह्मा राजानं स्म भगीरथम् |
पूजयामास पूजार्हं विधिदृष्टेन कर्मणा ||४२||
आयुष्याख्यानम्
१०७
युधिष्ठिर उवाच||
शतायुरुक्तः पुरुषः शतवीर्यश्च वैदिके |
कस्मान्म्रियन्ते पुरुषा बाला अपि पितामह ||१||
आयुष्मान्केन भवति स्वल्पायुर्वापि मानवः |
केन वा लभते कीर्तिं केन वा लभते श्रियम् ||२||
तपसा ब्रह्मचर्येण जपैर्होमैस्तथौषधैः |
जन्मना यदि वाचारात्तन्मे ब्रूहि पितामह ||३||
भीष्म उवाच||
अत्र ते वर्तयिष्यामि यन्मां त्वमनुपृच्छसि |
अल्पायुर्येन भवति दीर्घायुर्वापि मानवः ||४||
येन वा लभते कीर्तिं येन वा लभते श्रियम् |
यथा च वर्तन्पुरुषः श्रेयसा सम्प्रयुज्यते ||५||
आचाराल्लभते ह्यायुराचाराल्लभते श्रियम् |
आचारात्कीर्तिमाप्नोति पुरुषः प्रेत्य चेह च ||६||
दुराचारो हि पुरुषो नेहायुर्विन्दते महत् |
त्रसन्ति यस्माद्भूतानि तथा परिभवन्ति च ||७||
तस्मात्कुर्यादिहाचारं य इच्छेद्भूतिमात्मनः |
अपि पापशरीरस्य आचारो हन्त्यलक्षणम् ||८||
आचारलक्षणो धर्मः सन्तश्चाचारलक्षणाः |
साधूनां च यथा वृत्तमेतदाचारलक्षणम् ||९||
अप्यदृष्टं श्रुतं वापि पुरुषं धर्मचारिणम् |
भूतिकर्माणि कुर्वाणं तं जनाः कुर्वते प्रियम् ||१०||
ये नास्तिका निष्क्रियाश्च गुरुशास्त्रातिलङ्घिनः |
अधर्मज्ञा दुराचारास्ते भवन्ति गतायुषः ||११||
विशीला भिन्नमर्यादा नित्यं सङ्कीर्णमैथुनाः |
अल्पायुषो भवन्तीह नरा निरयगामिनः ||१२||
सर्वलक्षणहीनोऽपि समुदाचारवान्नरः |
श्रद्दधानोऽनसूयश्च शतं वर्षाणि जीवति ||१३||
अक्रोधनः सत्यवादी भूतानामविहिंसकः |
अनसूयुरजिह्मश्च शतं वर्षाणि जीवति ||१४||
लोष्टमर्दी तृणच्छेदी नखखादी च यो नरः |
नित्योच्छिष्टः सङ्कुसुको नेहायुर्विन्दते महत् ||१५||
ब्राह्मे मुहूर्ते बुध्येत धर्मार्थौ चानुचिन्तयेत् |
उत्थायाचम्य तिष्ठेत पूर्वां सन्ध्यां कृताञ्जलिः ||१६||
एवमेवापरां सन्ध्यां समुपासीत वाग्यतः |
नेक्षेतादित्यमुद्यन्तं नास्तं यान्तं कदाचन ||१७||
ऋषयो दीर्घसन्ध्यत्वाद्दीर्घमायुरवाप्नुवन् |
तस्मात्तिष्ठेत्सदा पूर्वां पश्चिमां चैव वाग्यतः ||१८||
ये च पूर्वामुपासन्ते द्विजाः सन्ध्यां न पश्चिमाम् |
सर्वांस्तान्धार्मिको राजा शूद्रकर्माणि कारयेत् ||१९||
परदारा न गन्तव्याः सर्ववर्णेषु कर्हिचित् |
न हीदृशमनायुष्यं लोके किञ्चन विद्यते ||२०||
यादृशं पुरुषस्येह परदारोपसेवनम् ||२०||
प्रसाधनं च केशानामञ्जनं दन्तधावनम् |
पूर्वाह्ण एव कुर्वीत देवतानां च पूजनम् ||२१||
पुरीषमूत्रे नोदीक्षेन्नाधितिष्ठेत्कदाचन |
उदक्यया च सम्भाषां न कुर्वीत कदाचन ||२२||
नोत्सृजेत पुरीषं च क्षेत्रे ग्रामस्य चान्तिके |
उभे मूत्रपुरीषे तु नाप्सु कुर्यात्कदाचन ||२३||
प्राङ्मुखो नित्यमश्नीयाद्वाग्यतोऽन्नमकुत्सयन् |
प्रस्कन्दयेच्च मनसा भुक्त्वा चाग्निमुपस्पृशेत् ||२४||
आयुष्यं प्राङ्मुखो भुङ्क्ते यशस्यं दक्षिणामुखः |
धन्यं पश्चान्मुखो भुङ्क्ते ऋतं भुङ्क्ते उदङ्मुखः ||२५||
नाधितिष्ठेत्तुषाञ्जातु केशभस्मकपालिकाः |
अन्यस्य चाप्युपस्थानं दूरतः परिवर्जयेत् ||२६||
शान्तिहोमांश्च कुर्वीत सावित्राणि च कारयेत् |
निषण्णश्चापि खादेत न तु गच्छन्कथञ्चन ||२७||
मूत्रं न तिष्ठता कार्यं न भस्मनि न गोव्रजे |
आर्द्रपादस्तु भुञ्जीत नार्द्रपादस्तु संविशेत् |
आर्द्रपादस्तु भुञ्जानो वर्षाणां जीवते शतम् ||२९||
त्रीणि तेजांसि नोच्छिष्ट आलभेत कदाचन |
अग्निं गां ब्राह्मणं चैव तथास्यायुर्न रिष्यते ||३०||
त्रीणि तेजांसि नोच्छिष्ट उदीक्षेत कदाचन |
सूर्याचन्द्रमसौ चैव नक्षत्राणि च सर्वशः ||३१||
ऊर्ध्वं प्राणा ह्युत्क्रामन्ति यूनः स्थविर आयति |
प्रत्युत्थानाभिवादाभ्यां पुनस्तान्प्रतिपद्यते ||३२||
अभिवादयेत वृद्धांश्च आसनं चैव दापयेत् |
कृताञ्जलिरुपासीत गच्छन्तं पृष्ठतोऽन्वियात् ||३३||
न चासीतासने भिन्ने भिन्नं कांस्यं च वर्जयेत् |
नैकवस्त्रेण भोक्तव्यं न नग्नः स्नातुमर्हति ||३४||
स्वप्तव्यं नैव नग्नेन न चोच्छिष्टोऽपि संविशेत् ||३४||
उच्छिष्टो न स्पृशेच्छीर्षं सर्वे प्राणास्तदाश्रयाः |
केशग्रहान्प्रहारांश्च शिरस्येतान्विवर्जयेत् ||३५||
न पाणिभ्यामुभाभ्यां च कण्डूयेज्जातु वै शिरः |
न चाभीक्ष्णं शिरः स्नायात्तथास्यायुर्न रिष्यते ||३६||
शिरःस्नातश्च तैलेन नाङ्गं किञ्चिदुपस्पृशेत् |
तिलपिष्टं न चाश्नीयात्तथायुर्विन्दते महत् ||३७||
नाध्यापयेत्तथोच्छिष्टो नाधीयीत कदाचन |
वाते च पूतिगन्धे च मनसापि न चिन्तयेत् ||३८||
अत्र गाथा यमोद्गीताः कीर्तयन्ति पुराविदः |
आयुरस्य निकृन्तामि प्रजामस्याददे तथा ||३९||
य उच्छिष्टः प्रवदति स्वाध्यायं चाधिगच्छति |
यश्चानध्यायकालेऽपि मोहादभ्यस्यति द्विजः ||४०||
तस्माद्युक्तोऽप्यनध्याये नाधीयीत कदाचन ||४०||
प्रत्यादित्यं प्रत्यनिलं प्रति गां च प्रति द्विजान् |
ये मेहन्ति च पन्थानं ते भवन्ति गतायुषः ||४१||
उभे मूत्रपुरीषे तु दिवा कुर्यादुदङ्मुखः |
दक्षिणाभिमुखो रात्रौ तथास्यायुर्न रिष्यते ||४२||
त्रीन्कृशान्नावजानीयाद्दीर्घमायुर्जिजीविषुः |
ब्राह्मणं क्षत्रियं सर्पं सर्वे ह्याशीविषास्त्रयः ||४३||
दहत्याशीविषः क्रुद्धो यावत्पश्यति चक्षुषा |
क्षत्रियोऽपि दहेत्क्रुद्धो यावत्स्पृशति तेजसा ||४४||
ब्राह्मणस्तु कुलं हन्याद्ध्यानेनावेक्षितेन च |
तस्मादेतत्त्रयं यत्नादुपसेवेत पण्डितः ||४५||
गुरुणा वैरनिर्बन्धो न कर्तव्यः कदाचन |
अनुमान्यः प्रसाद्यश्च गुरुः क्रुद्धो युधिष्ठिर ||४६||
सम्यङ्मिथ्याप्रवृत्तेऽपि वर्तितव्यं गुराविह |
गुरुनिन्दा दहत्यायुर्मनुष्याणां न संशयः ||४७||
दूरादावसथान्मूत्रं दूरात्पादावसेचनम् |
उच्छिष्टोत्सर्जनं चैव दूरे कार्यं हितैषिणा ||४८||
नातिकल्पं नातिसायं न च मध्यंदिने स्थिते |
नाज्ञातैः सह गच्छेत नैको न वृषलैः सह ||४९||
पन्था देयो ब्राह्मणाय गोभ्यो राजभ्य एव च |
वृद्धाय भारतप्ताय गर्भिण्यै दुर्बलाय च ||५०||
प्रदक्षिणं च कुर्वीत परिज्ञातान्वनस्पतीन् |
चतुष्पथान्प्रकुर्वीत सर्वानेव प्रदक्षिणान् ||५१||
मध्यंदिने निशाकाले मध्यरात्रे च सर्वदा |
चतुष्पथान्न सेवेत उभे सन्ध्ये तथैव च ||५२||
उपानहौ च वस्त्रं च धृतमन्यैर्न धारयेत् |
ब्रह्मचारी च नित्यं स्यात्पादं पादेन नाक्रमेत् ||५३||
अमावास्यां पौर्णमास्यां चतुर्दश्यां च सर्वशः |
अष्टम्यां सर्वपक्षाणां ब्रह्मचारी सदा भवेत् ||५४||
वृथा मांसं न खादेत पृष्ठमांसं तथैव च |
आक्रोशं परिवादं च पैशुन्यं च विवर्जयेत् ||५५||
नारुन्तुदः स्यान्न नृशंसवादी; न हीनतः परमभ्याददीत |
ययास्य वाचा पर उद्विजेत; न तां वदेद्रुशतीं पापलोक्याम् ||५६||
वाक्सायका वदनान्निष्पतन्ति; यैराहतः शोचति रात्र्यहानि |
परस्य नामर्मसु ते पतन्ति; तान्पण्डितो नावसृजेत्परेषु ||५७||
रोहते सायकैर्विद्धं वनं परशुना हतम् |
वाचा दुरुक्तं बीभत्सं न संरोहति वाक्क्षतम् ||५८||
हीनाङ्गानतिरिक्ताङ्गान्विद्याहीनान्वयोधिकान् |
रूपद्रविणहीनांश्च सत्त्वहीनांश्च नाक्षिपेत् ||५९||
नास्तिक्यं वेदनिन्दां च देवतानां च कुत्सनम् |
द्वेषस्तम्भाभिमानांश्च तैक्ष्ण्यं च परिवर्जयेत् ||६०||
परस्य दण्डं नोद्यच्छेत्क्रोद्धो नैनं निपातयेत् |
अन्यत्र पुत्राच्छिष्याद्वा शिक्षार्थं ताडनं स्मृतम् ||६१||
न ब्राह्मणान्परिवदेन्नक्षत्राणि न निर्दिशेत् |
तिथिं पक्षस्य न ब्रूयात्तथास्यायुर्न रिष्यते ||६२||
कृत्वा मूत्रपुरीषे तु रथ्यामाक्रम्य वा पुनः |
पादप्रक्षालनं कुर्यात्स्वाध्याये भोजने तथा ||६३||
त्रीणि देवाः पवित्राणि ब्राह्मणानामकल्पयन् |
अदृष्टमद्भिर्निर्णिक्तं यच्च वाचा प्रशस्यते ||६४||
संयावं कृसरं मांसं शष्कुली पायसं तथा |
आत्मार्थं न प्रकर्तव्यं देवार्थं तु प्रकल्पयेत् ||६५||
नित्यमग्निं परिचरेद्भिक्षां दद्याच्च नित्यदा |
वाग्यतो दन्तकाष्ठं च नित्यमेव समाचरेत् ||६६||
न चाभ्युदितशायी स्यात्प्रायश्चित्ती तथा भवेत् ||६६||
मातापितरमुत्थाय पूर्वमेवाभिवादयेत् |
आचार्यमथ वाप्येनं तथायुर्विन्दते महत् ||६७||
वर्जयेद्दन्तकाष्ठानि वर्जनीयानि नित्यशः |
भक्षयेच्छास्त्रदृष्टानि पर्वस्वपि च वर्जयेत् ||६८||
उदङ्मुखश्च सततं शौचं कुर्यात्समाहितः |
अकृत्वा देवतापूजां नान्यं गच्छेत्कदाचन |
अन्यत्र तु गुरुं वृद्धं धार्मिकं वा विचक्षणम् ||७०||
अवलोक्यो न चादर्शो मलिनो बुद्धिमत्तरैः |
न चाज्ञातां स्त्रियं गच्छेद्गर्भिणीं वा कदाचन ||७१||
उदक्षिरा न स्वपेत तथा प्रत्यक्षिरा न च |
प्राक्षिरास्तु स्वपेद्विद्वानथ वा दक्षिणाशिराः ||७२||
न भग्ने नावदीर्णे वा शयने प्रस्वपेत च |
नान्तर्धाने न संयुक्ते न च तिर्यक्कदाचन ||७३||
न नग्नः कर्हिचित्स्नायान्न निशायां कदाचन |
स्नात्वा च नावमृज्येत गात्राणि सुविचक्षणः ||७४||
न चानुलिम्पेदस्नात्वा स्नात्वा वासो न निर्धुनेत् |
आर्द्र एव तु वासांसि नित्यं सेवेत मानवः ||७५||
स्रजश्च नावकर्षेत न बहिर्धारयेत च ||७५||
रक्तमाल्यं न धार्यं स्याच्छुक्लं धार्यं तु पण्डितैः |
वर्जयित्वा तु कमलं तथा कुवलयं विभो ||७६||
रक्तं शिरसि धार्यं तु तथा वानेयमित्यपि |
काञ्चनी चैव या माला न सा दुष्यति कर्हिचित् ||७७||
स्नातस्य वर्णकं नित्यमार्द्रं दद्याद्विशां पते ||७७||
विपर्ययं न कुर्वीत वाससो बुद्धिमान्नरः |
तथा नान्यधृतं धार्यं न चापदशमेव च ||७८||
अन्यदेव भवेद्वासः शयनीये नरोत्तम |
अन्यद्रथ्यासु देवानामर्चायामन्यदेव हि ||७९||
प्रियङ्गुचन्दनाभ्यां च बिल्वेन तगरेण च |
पृथगेवानुलिम्पेत केसरेण च बुद्धिमान् ||८०||
उपवासं च कुर्वीत स्नातः शुचिरलङ्कृतः |
पर्वकालेषु सर्वेषु ब्रह्मचारी सदा भवेत् ||८१||
नालीढया परिहतं भक्षयीत कदाचन |
तथा नोद्धृतसाराणि प्रेक्षतां नाप्रदाय च ||८२||
न संनिकृष्टो मेधावी नाशुचिर्न च सत्सु च |
प्रतिषिद्धान्न धर्मेषु भक्षान्भुञ्जीत पृष्ठतः ||८३||
पिप्पलं च वटं चैव शणशाकं तथैव च |
उदुम्बरं न खादेच्च भवार्थी पुरुषोत्तमः ||८४||
आजं गव्यं च यन्मांसं मायूरं चैव वर्जयेत् |
वर्जयेच्छुष्कमांसं च तथा पर्युषितं च यत् ||८५||
न पाणौ लवणं विद्वान्प्राश्नीयान्न च रात्रिषु |
दधिसक्तून्न भुञ्जीत वृथामांसं च वर्जयेत् ||८६||
वालेन तु न भुञ्जीत परश्राद्धं तथैव च |
सायं प्रातश्च भुञ्जीत नान्तराले समाहितः ||८७||
वाग्यतो नैकवस्त्रश्च नासंविष्टः कदाचन |
भूमौ सदैव नाश्नीयान्नानासीनो न शब्दवत् ||८८||
तोयपूर्वं प्रदायान्नमतिथिभ्यो विशां पते |
पश्चाद्भुञ्जीत मेधावी न चाप्यन्यमना नरः ||८९||
समानमेकपङ्क्त्यां तु भोज्यमन्नं नरेश्वर |
विषं हालाहलं भुङ्क्ते योऽप्रदाय सुहृज्जने ||९०||
पानीयं पायसं सर्पिर्दधिसक्तुमधून्यपि |
निरस्य शेषमेतेषां न प्रदेयं तु कस्यचित् ||९१||
भुञ्जानो मनुजव्याघ्र नैव शङ्कां समाचरेत् |
दधि चाप्यनुपानं वै न कर्तव्यं भवार्थिना ||९२||
आचम्य चैव हस्तेन परिस्राव्य तथोदकम् |
अङ्गुष्ठं चरणस्याथ दक्षिणस्यावसेचयेत् ||९३||
पाणिं मूर्ध्नि समाधाय स्पृष्ट्वा चाग्निं समाहितः |
ज्ञातिश्रैष्ठ्यमवाप्नोति प्रयोगकुशलो नरः ||९४||
अद्भिः प्राणान्समालभ्य नाभिं पाणितलेन च |
स्पृशंश्चैव प्रतिष्ठेत न चाप्यार्द्रेण पाणिना ||९५||
अङ्गुष्ठस्यान्तराले च ब्राह्मं तीर्थमुदाहृतम् |
कनिष्ठिकायाः पश्चात्तु देवतीर्थमिहोच्यते ||९६||
अङ्गुष्ठस्य च यन्मध्यं प्रदेशिन्याश्च भारत |
तेन पित्र्याणि कुर्वीत स्पृष्ट्वापो न्यायतस्तथा ||९७||
परापवादं न ब्रूयान्नाप्रियं च कदाचन |
न मन्युः कश्चिदुत्पाद्यः पुरुषेण भवार्थिना ||९८||
पतितैस्तु कथां नेच्छेद्दर्शनं चापि वर्जयेत् |
संसर्गं च न गच्छेत तथायुर्विन्दते महत् ||९९||
न दिवा मैथुनं गच्छेन्न कन्यां न च बन्धकीम् |
न चास्नातां स्त्रियं गच्छेत्तथायुर्विन्दते महत् ||१००||
स्वे स्वे तीर्थे समाचम्य कार्ये समुपकल्पिते |
त्रिः पीत्वापो द्विः प्रमृज्य कृतशौचो भवेन्नरः ||१०१||
इन्द्रियाणि सकृत्स्पृश्य त्रिरभ्युक्ष्य च मानवः |
कुर्वीत पित्र्यं दैवं च वेददृष्टेन कर्मणा ||१०२||
ब्राह्मणार्थे च यच्छौचं तच्च मे शृणु कौरव |
प्रवृत्तं च हितं चोक्त्वा भोजनाद्यन्तयोस्तथा ||१०३||
सर्वशौचेषु ब्राह्मेण तीर्थेन समुपस्पृशेत् |
निष्ठीव्य तु तथा क्षुत्वा स्पृश्यापो हि शुचिर्भवेत् ||१०४||
वृद्धो ज्ञातिस्तथा मित्रं दरिद्रो यो भवेदपि |
गृहे वासयितव्यास्ते धन्यमायुष्यमेव च ||१०५||
गृहे पारावता धन्याः शुकाश्च सहसारिकाः |
गृहेष्वेते न पापाय तथा वै तैलपायिकाः ||१०६||
उद्दीपकाश्च गृध्राश्च कपोता भ्रमरास्तथा |
निविशेयुर्यदा तत्र शान्तिमेव तदाचरेत् ||१०७||
अमङ्गल्यानि चैतानि तथाक्रोशो महात्मनाम् |
महात्मनां च गुह्यानि न वक्तव्यानि कर्हिचित् ||१०८||
अगम्याश्च न गच्छेत राजपत्नीः सखीस्तथा |
वैद्यानां बालवृद्धानां भृत्यानां च युधिष्ठिर ||१०९||
बन्धूनां ब्राह्मणानां च तथा शारणिकस्य च |
सम्बन्धिनां च राजेन्द्र तथायुर्विन्दते महत् ||११०||
ब्राह्मणस्थपतिभ्यां च निर्मितं यन्निवेशनम् |
तदावसेत्सदा प्राज्ञो भवार्थी मनुजेश्वर ||१११||
सन्ध्यायां न स्वपेद्राजन्विद्यां न च समाचरेत् |
न भुञ्जीत च मेधावी तथायुर्विन्दते महत् ||११२||
नक्तं न कुर्यात्पित्र्याणि भुक्त्वा चैव प्रसाधनम् |
पानीयस्य क्रिया नक्तं न कार्या भूतिमिच्छता ||११३||
वर्जनीयाश्च वै नित्यं सक्तवो निशि भारत |
शेषाणि चावदातानि पानीयं चैव भोजने ||११४||
सौहित्यं च न कर्तव्यं रात्रौ नैव समाचरेत् |
द्विजच्छेदं न कुर्वीत भुक्त्वा न च समाचरेत् ||११५||
महाकुलप्रसूतां च प्रशस्तां लक्षणैस्तथा |
वयःस्थां च महाप्राज्ञ कन्यामावोढुमर्हति ||११६||
अपत्यमुत्पाद्य ततः प्रतिष्ठाप्य कुलं तथा |
पुत्राः प्रदेया ज्ञानेषु कुलधर्मेषु भारत ||११७||
कन्या चोत्पाद्य दातव्या कुलपुत्राय धीमते |
पुत्रा निवेश्याश्च कुलाद्भृत्या लभ्याश्च भारत ||११८||
शिरःस्नातोऽथ कुर्वीत दैवं पित्र्यमथापि च |
नक्षत्रे न च कुर्वीत यस्मिञ्जातो भवेन्नरः ||११९||
न प्रोष्ठपदयोः कार्यं तथाग्नेये च भारत ||११९||
दारुणेषु च सर्वेषु प्रत्यहं च विवर्जयेत् |
ज्योतिषे यानि चोक्तानि तानि सर्वाणि वर्जयेत् ||१२०||
प्राङ्मुखः श्मश्रुकर्माणि कारयेत समाहितः |
उदङ्मुखो वा राजेन्द्र तथायुर्विन्दते महत् ||१२१||
परिवादं न च ब्रूयात्परेषामात्मनस्तथा |
परिवादो न धर्माय प्रोच्यते भरतर्षभ ||१२२||
वर्जयेद्व्यङ्गिनीं नारीं तथा कन्यां नरोत्तम |
समार्षां व्यङ्गितां चैव मातुः स्वकुलजां तथा ||१२३||
वृद्धां प्रव्रजितां चैव तथैव च पतिव्रताम् |
तथातिकृष्णवर्णां च वर्णोत्कृष्टां च वर्जयेत् ||१२४||
अयोनिं च वियोनिं च न गच्छेत विचक्षणः |
पिङ्गलां कुष्ठिनीं नारीं न त्वमावोढुमर्हसि ||१२५||
अपस्मारिकुले जातां निहीनां चैव वर्जयेत् |
श्वित्रिणां च कुले जातां त्रयाणां मनुजेश्वर ||१२६||
लक्षणैरन्विता या च प्रशस्ता या च लक्षणैः |
मनोज्ञा दर्शनीया च तां भवान्वोढुमर्हति ||१२७||
महाकुले निवेष्टव्यं सदृशे वा युधिष्ठिर |
अवरा पतिता चैव न ग्राह्या भूतिमिच्छता ||१२८||
अग्नीनुत्पाद्य यत्नेन क्रियाः सुविहिताश्च याः |
वेदेषु ब्राह्मणैः प्रोक्तास्ताश्च सर्वाः समाचरेत् ||१२९||
न चेर्ष्या स्त्रीषु कर्तव्या दारा रक्ष्याश्च सर्वशः |
अनायुष्या भवेदीर्ष्या तस्मादीर्ष्यां विवर्जयेत् ||१३०||
अनायुष्यो दिवास्वप्नस्तथाभ्युदितशायिता |
प्रातर्निशायां च तथा ये चोच्छिष्टाः स्वपन्ति वै ||१३१||
पारदार्यमनायुष्यं नापितोच्छिष्टता तथा |
यत्नतो वै न कर्तव्यमभ्यासश्चैव भारत ||१३२||
सन्ध्यां न भुञ्जेन्न स्नायान्न पुरीषं समुत्सृजेत् |
प्रयतश्च भवेत्तस्यां न च किञ्चित्समाचरेत् ||१३३||
ब्राह्मणान्पूजयेच्चापि तथा स्नात्वा नराधिप |
देवांश्च प्रणमेत्स्नातो गुरूंश्चाप्यभिवादयेत् ||१३४||
अनिमन्त्रितो न गच्छेत यज्ञं गच्छेत्तु दर्शकः |
अनिमन्त्रिते ह्यनायुष्यं गमनं तत्र भारत ||१३५||
न चैकेन परिव्राज्यं न गन्तव्यं तथा निशि |
अनागतायां सन्ध्यायां पश्चिमायां गृहे वसेत् ||१३६||
मातुः पितुर्गुरूणां च कार्यमेवानुशासनम् |
हितं वाप्यहितं वापि न विचार्यं नरर्षभ ||१३७||
धनुर्वेदे च वेदे च यत्नः कार्यो नराधिप |
हस्तिपृष्ठेऽश्वपृष्ठे च रथचर्यासु चैव ह ||१३८||
यत्नवान्भव राजेन्द्र यत्नवान्सुखमेधते ||१३८||
अप्रधृष्यश्च शत्रूणां भृत्यानां स्वजनस्य च |
प्रजापालनयुक्तश्च न क्षतिं लभते क्वचित् ||१३९||
युक्तिशास्त्रं च ते ज्ञेयं शब्दशास्त्रं च भारत |
गन्धर्वशास्त्रं च कलाः परिज्ञेया नराधिप ||१४०||
पुराणमितिहासाश्च तथाख्यानानि यानि च |
महात्मनां च चरितं श्रोतव्यं नित्यमेव ते ||१४१||
पत्नीं रजस्वलां चैव नाभिगच्छेन्न चाह्वयेत् |
स्नातां चतुर्थे दिवसे रात्रौ गच्छेद्विचक्षणः ||१४२||
पञ्चमे दिवसे नारी षष्ठेऽहनि पुमान्भवेत् |
एतेन विधिना पत्नीमुपगच्छेत पण्डितः ||१४३||
ज्ञातिसम्बन्धिमित्राणि पूजनीयानि नित्यशः |
यष्टव्यं च यथाशक्ति यज्ञैर्विविधदक्षिणैः ||१४४||
अतऊर्ध्वमरण्यं च सेवितव्यं नराधिप ||१४४||
एष ते लक्षणोद्देश आयुष्याणां प्रकीर्तितः |
शेषस्त्रैविद्यवृद्धेभ्यः प्रत्याहार्यो युधिष्ठिर ||१४५||
आचारो भूतिजनन आचारः कीर्तिवर्धनः |
आचाराद्वर्धते ह्यायुराचारो हन्त्यलक्षणम् ||१४६||
आगमानां हि सर्वेषामाचारः श्रेष्ठ उच्यते |
आचारप्रभवो धर्मो धर्मादायुर्विवर्धते ||१४७||
एतद्यशस्यमायुष्यं स्वर्ग्यं स्वस्त्ययनं महत् |
अनुकम्पता सर्ववर्णान्ब्रह्मणा समुदाहृतम् ||१४८||
ज्येष्ठकनिष्ठवृत्तिः
१०८
युधिष्ठिर उवाच||
यथा ज्येष्ठः कनिष्ठेषु वर्तते भरतर्षभ |
कनिष्ठाश्च यथा ज्येष्ठे वर्तेरंस्तद्ब्रवीहि मे ||१||
भीष्म उवाच||
ज्येष्ठवत्तात वर्तस्व ज्येष्ठो हि सततं भवान् |
गुरोर्गरीयसी वृत्तिर्या चेच्छिष्यस्य भारत ||२||
न गुरावकृतप्रज्ञे शक्यं शिष्येण वर्तितुम् |
गुरोर्हि दीर्घदर्शित्वं यत्तच्छिष्यस्य भारत ||३||
अन्धः स्यादन्धवेलायां जडः स्यादपि वा बुधः |
परिहारेण तद्ब्रूयाद्यस्तेषां स्याद्व्यतिक्रमः ||४||
प्रत्यक्षं भिन्नहृदया भेदयेयुः कृतं नराः |
श्रियाभितप्ताः कौन्तेय भेदकामास्तथारयः ||५||
ज्येष्ठः कुलं वर्धयति विनाशयति वा पुनः |
हन्ति सर्वमपि ज्येष्ठः कुलं यत्रावजायते ||६||
अथ यो विनिकुर्वीत ज्येष्ठो भ्राता यवीयसः |
अज्येष्ठः स्यादभागश्च नियम्यो राजभिश्च सः ||७||
निकृती हि नरो लोकान्पापान्गच्छत्यसंशयम् |
विदुलस्येव तत्पुष्पं मोघं जनयितुः स्मृतम् ||८||
सर्वानर्थः कुले यत्र जायते पापपूरुषः |
अकीर्तिं जनयत्येव कीर्तिमन्तर्दधाति च ||९||
सर्वे चापि विकर्मस्था भागं नार्हन्ति सोदराः |
नाप्रदाय कनिष्ठेभ्यो ज्येष्ठः कुर्वीत यौतकम् ||१०||
अनुजं हि पितुर्दायो जङ्घाश्रमफलोऽध्वगः |
स्वयमीहितलब्धं तु नाकामो दातुमर्हति ||११||
भ्रातॄणामविभक्तानामुत्थानमपि चेत्सह |
न पुत्रभागं विषमं पिता दद्यात्कथञ्चन ||१२||
न ज्येष्ठानवमन्येत दुष्कृतः सुकृतोऽपि वा |
यदि स्त्री यद्यवरजः श्रेयः पश्येत्तथाचरेत् ||१३||
धर्मं हि श्रेय इत्याहुरिति धर्मविदो विदुः ||१३||
दशाचार्यानुपाध्याय उपाध्यायान्पिता दश |
दश चैव पितॄन्माता सर्वां वा पृथिवीमपि ||१४||
गौरवेणाभिभवति नास्ति मातृसमो गुरुः |
माता गरीयसी यच्च तेनैतां मन्यते जनः ||१५||
ज्येष्ठो भ्राता पितृसमो मृते पितरि भारत |
स ह्येषां वृत्तिदाता स्यात्स चैतान्परिपालयेत् ||१६||
कनिष्ठास्तं नमस्येरन्सर्वे छन्दानुवर्तिनः |
तमेव चोपजीवेरन्यथैव पितरं तथा ||१७||
शरीरमेतौ सृजतः पिता माता च भारत |
आचार्यशास्ता या जातिः सा सत्या साजरामरा ||१८||
ज्येष्ठा मातृसमा चापि भगिनी भरतर्षभ |
भ्रातुर्भार्या च तद्वत्स्याद्यस्या बाल्ये स्तनं पिबेत् ||१९||
उपवासविधिः
१०९
युधिष्ठिर उवाच||
सर्वेषामेव वर्णानां म्लेच्छानां च पितामह |
उपवासे मतिरियं कारणं च न विद्महे ||१||
ब्रह्मक्षत्रेण नियमाश्चर्तव्या इति नः श्रुतम् |
उपवासे कथं तेषां कृत्यमस्ति पितामह ||२||
नियमं चोपवासानां सर्वेषां ब्रूहि पार्थिव |
अवाप्नोति गतिं कां च उपवासपरायणः ||३||
उपवासः परं पुण्यमुपवासः परायणम् |
उपोष्येह नरश्रेष्ठ किं फलं प्रतिपद्यते ||४||
अधर्मान्मुच्यते केन धर्ममाप्नोति वै कथम् |
स्वर्गं पुण्यं च लभते कथं भरतसत्तम ||५||
उपोष्य चापि किं तेन प्रदेयं स्यान्नराधिप |
धर्मेण च सुखानर्थाँल्लभेद्येन ब्रवीहि तम् ||६||
वैशम्पायन उवाच||
एवं ब्रुवाणं कौन्तेयं धर्मज्ञं धर्मतत्त्ववित् |
धर्मपुत्रमिदं वाक्यं भीष्मः शान्तनवोऽब्रवीत् ||७||
इदं खलु महाराज श्रुतमासीत्पुरातनम् |
उपवासविधौ श्रेष्ठा ये गुणा भरतर्षभ ||८||
प्राजापत्यं ह्यङ्गिरसं पृष्टवानस्मि भारत |
यथा मां त्वं तथैवाहं पृष्टवांस्तं तपोधनम् ||९||
प्रश्नमेतं मया पृष्टो भगवानग्निसम्भवः |
उपवासविधिं पुण्यमाचष्ट भरतर्षभ ||१०||
अङ्गिरा उवाच||
ब्रह्मक्षत्रे त्रिरात्रं तु विहितं कुरुनन्दन |
द्विस्त्रिरात्रमथैवात्र निर्दिष्टं पुरुषर्षभ ||११||
वैश्यशूद्रौ तु यौ मोहादुपवासं प्रकुर्वते |
त्रिरात्रं द्विस्त्रिरात्रं वा तयोः पुष्टिर्न विद्यते ||१२||
चतुर्थभक्तक्षपणं वैश्यशूद्रे विधीयते |
त्रिरात्रं न तु धर्मज्ञैर्विहितं ब्रह्मवादिभिः ||१३||
पञ्चम्यां चैव षष्ठ्यां च पौर्णमास्यां च भारत |
क्षमावान्रूपसम्पन्नः श्रुतवांश्चैव जायते ||१४||
नानपत्यो भवेत्प्राज्ञो दरिद्रो वा कदाचन |
यजिष्णुः पञ्चमीं षष्ठीं क्षपेद्यो भोजयेद्द्विजान् ||१५||
अष्टमीमथ कौन्तेय शुक्लपक्षे चतुर्दशीम् |
उपोष्य व्याधिरहितो वीर्यवानभिजायते ||१६||
मार्गशीर्षं तु यो मासमेकभक्तेन सङ्क्षिपेत् |
भोजयेच्च द्विजान्भक्त्या स मुच्येद्व्याधिकिल्बिषैः ||१७||
सर्वकल्याणसम्पूर्णः सर्वौषधिसमन्वितः |
कृषिभागी बहुधनो बहुपुत्रश्च जायते ||१८||
पौषमासं तु कौन्तेय भक्तेनैकेन यः क्षपेत् |
सुभगो दर्शनीयश्च यशोभागी च जायते ||१९||
पितृभक्तो माघमासमेकभक्तेन यः क्षपेत् |
श्रीमत्कुले ज्ञातिमध्ये स महत्त्वं प्रपद्यते ||२०||
भगदैवं तु यो मासमेकभक्तेन यः क्षपेत् |
स्त्रीषु वल्लभतां याति वश्याश्चास्य भवन्ति ताः ||२१||
चैत्रं तु नियतो मासमेकभक्तेन यः क्षपेत् |
सुवर्णमणिमुक्ताढ्ये कुले महति जायते ||२२||
निस्तरेदेकभक्तेन वैशाखं यो जितेन्द्रियः |
नरो वा यदि वा नारी ज्ञातीनां श्रेष्ठतां व्रजेत् ||२३||
ज्येष्ठामूलं तु यो मासमेकभक्तेन सङ्क्षपेत् |
ऐश्वर्यमतुलं श्रेष्ठं पुमान्स्त्री वाभिजायते ||२४||
आषाढमेकभक्तेन स्थित्वा मासमतन्द्रितः |
बहुधान्यो बहुधनो बहुपुत्रश्च जायते ||२५||
श्रावणं नियतो मासमेकभक्तेन यः क्षपेत् |
यत्र तत्राभिषेकेण युज्यते ज्ञातिवर्धनः ||२६||
प्रौष्ठपदं तु यो मासमेकाहारो भवेन्नरः |
धनाढ्यं स्फीतमचलमैश्वर्यं प्रतिपद्यते ||२७||
तथैवाश्वयुजं मासमेकभक्तेन यः क्षपेत् |
प्रजावान्वाहनाढ्यश्च बहुपुत्रश्च जायते ||२८||
कार्त्तिकं तु नरो मासं यः कुर्यादेकभोजनम् |
शूरश्च बहुभार्यश्च कीर्तिमांश्चैव जायते ||२९||
इति मासा नरव्याघ्र क्षपतां परिकीर्तिताः |
तिथीनां नियमा ये तु शृणु तानपि पार्थिव ||३०||
पक्षे पक्षे गते यस्तु भक्तमश्नाति भारत |
गवाढ्यो बहुपुत्रश्च दीर्घायुश्च स जायते ||३१||
मासि मासि त्रिरात्राणि कृत्वा वर्षाणि द्वादश |
गणाधिपत्यं प्राप्नोति निःसपत्नमनाविलम् ||३२||
एते तु नियमाः सर्वे कर्तव्याः शरदो दश |
द्वे चान्ये भरतश्रेष्ठ प्रवृत्तिमनुवर्तता ||३३||
यस्तु प्रातस्तथा सायं भुञ्जानो नान्तरा पिबेत् |
अहिंसानिरतो नित्यं जुह्वानो जातवेदसम् ||३४||
षड्भिः स वर्षैर्नृपते सिध्यते नात्र संशयः |
अग्निष्टोमस्य यज्ञस्य फलं प्राप्नोति मानवः ||३५||
अधिवासे सोऽप्सरसां नृत्यगीतविनादिते |
तप्तकाञ्चनवर्णाभं विमानमधिरोहति ||३६||
पूर्णं वर्षसहस्रं तु ब्रह्मलोके महीयते |
तत्क्षयादिह चागम्य माहात्म्यं प्रतिपद्यते ||३७||
यस्तु संवत्सरं पूर्णमेकाहारो भवेन्नरः |
अतिरात्रस्य यज्ञस्य स फलं समुपाश्नुते ||३८||
दशवर्षसहस्राणि स्वर्गे च स महीयते |
तत्क्षयादिह चागम्य माहात्म्यं प्रतिपद्यते ||३९||
यस्तु संवत्सरं पूर्णं चतुर्थं भक्तमश्नुते |
अहिंसानिरतो नित्यं सत्यवाङ्नियतेन्द्रियः ||४०||
वाजपेयस्य यज्ञस्य फलं वै समुपाश्नुते |
त्रिंशद्वर्षसहस्राणि स्वर्गे च स महीयते ||४१||
षष्ठे काले तु कौन्तेय नरः संवत्सरं क्षपेत् |
अश्वमेधस्य यज्ञस्य फलं प्राप्नोति मानवः ||४२||
चक्रवाकप्रयुक्तेन विमानेन स गच्छति |
चत्वारिंशत्सहस्राणि वर्षाणां दिवि मोदते ||४३||
अष्टमेन तु भक्तेन जीवन्संवत्सरं नृप |
गवामयस्य यज्ञस्य फलं प्राप्नोति मानवः ||४४||
हंससारसयुक्तेन विमानेन स गच्छति |
पञ्चाशतं सहस्राणि वर्षाणां दिवि मोदते ||४५||
पक्षे पक्षे गते राजन्योऽश्नीयाद्वर्षमेव तु |
षण्मासानशनं तस्य भगवानङ्गिराब्रवीत् ||४६||
षष्टिं वर्षसहस्राणि दिवमावसते च सः ||४६||
वीणानां वल्लकीनां च वेणूनां च विशां पते |
सुघोषैर्मधुरैः शब्दैः सुप्तः स प्रतिबोध्यते ||४७||
संवत्सरमिहैकं तु मासि मासि पिबेत्पयः |
फलं विश्वजितस्तात प्राप्नोति स नरो नृप ||४८||
सिंहव्याघ्रप्रयुक्तेन विमानेन स गच्छति |
सप्ततिं च सहस्राणि वर्षाणां दिवि मोदते ||४९||
मासादूर्ध्वं नरव्याघ्र नोपवासो विधीयते |
विधिं त्वनशनस्याहुः पार्थ धर्मविदो जनाः ||५०||
अनार्तो व्याधिरहितो गच्छेदनशनं तु यः |
पदे पदे यज्ञफलं स प्राप्नोति न संशयः ||५१||
दिवं हंसप्रयुक्तेन विमानेन स गच्छति |
शतं चाप्सरसः कन्या रमयन्त्यपि तं नरम् ||५२||
आर्तो वा व्याधितो वापि गच्छेदनशनं तु यः |
शतं वर्षसहस्राणां मोदते दिवि स प्रभो ||५३||
काञ्चीनूपुरशब्देन सुप्तश्चैव प्रबोध्यते ||५३||
सहस्रहंससंयुक्ते विमाने सोमवर्चसि |
स गत्वा स्त्रीशताकीर्णे रमते भरतर्षभ ||५४||
क्षीणस्याप्यायनं दृष्टं क्षतस्य क्षतरोहणम् |
व्याधितस्यौषधग्रामः क्रुद्धस्य च प्रसादनम् ||५५||
दुःखितस्यार्थमानाभ्यां द्रव्याणां प्रतिपादनम् |
न चैते स्वर्गकामस्य रोचन्ते सुखमेधसः ||५६||
अतः स कामसंयुक्तो विमाने हेमसंनिभे |
रमते स्त्रीशताकीर्णे पुरुषोऽलङ्कृतः शुभे ||५७||
स्वस्थः सफलसङ्कल्पः सुखी विगतकल्मषः |
अनश्नन्देहमुत्सृज्य फलं प्राप्नोति मानवः ||५८||
बालसूर्यप्रतीकाशे विमाने हेमवर्चसि |
वैडूर्यमुक्ताखचिते वीणामुरजनादिते ||५९||
पताकादीपिकाकीर्णे दिव्यघण्टानिनादिते |
स्त्रीसहस्रानुचरिते स नरः सुखमेधते ||६०||
यावन्ति रोमकूपाणि तस्य गात्रेषु पाण्डव |
तावन्त्येव सहस्राणि वर्षाणां दिवि मोदते ||६१||
नास्ति वेदात्परं शास्त्रं नास्ति मातृसमो गुरुः |
न धर्मात्परमो लाभस्तपो नानशनात्परम् ||६२||
ब्राह्मणेभ्यः परं नास्ति पावनं दिवि चेह च |
उपवासैस्तथा तुल्यं तपःकर्म न विद्यते ||६३||
उपोष्य विधिवद्देवास्त्रिदिवं प्रतिपेदिरे |
ऋषयश्च परां सिद्धिमुपवासैरवाप्नुवन् ||६४||
दिव्यं वर्षसहस्रं हि विश्वामित्रेण धीमता |
क्षान्तमेकेन भक्तेन तेन विप्रत्वमागतः ||६५||
च्यवनो जमदग्निश्च वसिष्ठो गौतमो भृगुः |
सर्व एव दिवं प्राप्ताः क्षमावन्तो महर्षयः ||६६||
इदमङ्गिरसा पूर्वं महर्षिभ्यः प्रदर्शितम् |
यः प्रदर्शयते नित्यं न स दुःखमवाप्नुते ||६७||
इमं तु कौन्तेय यथाक्रमं विधिं; प्रवर्तितं ह्यङ्गिरसा महर्षिणा |
पठेत यो वै शृणुयाच्च नित्यदा; न विद्यते तस्य नरस्य किल्बिषम् ||६८||
विमुच्यते चापि स सर्वसङ्करै; र्न चास्य दोषैरभिभूयते मनः |
वियोनिजानां च विजानते रुतं; ध्रुवां च कीर्तिं लभते नरोत्तमः ||६९||
उपवासफलम्
११०
युधिष्ठिर उवाच||
पितामहेन विधिवद्यज्ञाः प्रोक्ता महात्मना |
गुणाश्चैषां यथातत्त्वं प्रेत्य चेह च सर्वशः ||१||
न ते शक्या दरिद्रेण यज्ञाः प्राप्तुं पितामह |
बहूपकरणा यज्ञा नानासम्भारविस्तराः ||२||
पार्थिवै राजपुत्रैर्वा शक्याः प्राप्तुं पितामह |
नार्थन्यूनैरवगुणैरेकात्मभिरसंहतैः ||३||
यो दरिद्रैरपि विधिः शक्यः प्राप्तुं सदा भवेत् |
तुल्यो यज्ञफलैरेतैस्तन्मे ब्रूहि पितामह ||४||
भीष्म उवाच||
इदमङ्गिरसा प्रोक्तमुपवासफलात्मकम् |
विधिं यज्ञफलैस्तुल्यं तन्निबोध युधिष्ठिर ||५||
यस्तु कल्यं तथा सायं भुञ्जानो नान्तरा पिबेत् |
अहिंसानिरतो नित्यं जुह्वानो जातवेदसम् ||६||
षड्भिरेव तु वर्षैः स सिध्यते नात्र संशयः |
तप्तकाञ्चनवर्णं च विमानं लभते नरः ||७||
देवस्त्रीणामधीवासे नृत्यगीतनिनादिते |
प्राजापत्ये वसेत्पद्मं वर्षाणामग्निसंनिभे ||८||
त्रीणि वर्षाणि यः प्राशेत्सततं त्वेकभोजनम् |
धर्मपत्नीरतो नित्यमग्निष्टोमफलं लभेत् ||९||
द्वितीये दिवसे यस्तु प्राश्नीयादेकभोजनम् |
सदा द्वादशमासांस्तु जुह्वानो जातवेदसम् ||१०||
यज्ञं बहुसुवर्णं वा वासवप्रियमाहरेत् ||१०||
सत्यवाग्दानशीलश्च ब्रह्मण्यश्चानसूयकः |
क्षान्तो दान्तो जितक्रोधः स गच्छति परां गतिम् ||११||
पाण्डुराभ्रप्रतीकाशे विमाने हंसलक्षणे |
द्वे समाप्ते ततः पद्मे सोऽप्सरोभिर्वसेत्सह ||१२||
तृतीये दिवसे यस्तु प्राश्नीयादेकभोजनम् |
सदा द्वादशमासांस्तु जुह्वानो जातवेदसम् ||१३||
अतिरात्रस्य यज्ञस्य फलं प्राप्नोत्यनुत्तमम् |
मयूरहंससंयुक्तं विमानं लभते नरः ||१४||
सप्तर्षीणां सदा लोके सोऽप्सरोभिर्वसेत्सह |
निवर्तनं च तत्रास्य त्रीणि पद्मानि वै विदुः ||१५||
दिवसे यश्चतुर्थे तु प्राश्नीयादेकभोजनम् |
सदा द्वादशमासान्वै जुह्वानो जातवेदसम् ||१६||
वाजपेयस्य यज्ञस्य फलं प्राप्नोत्यनुत्तमम् |
इन्द्रकन्याभिरूढं च विमानं लभते नरः ||१७||
सागरस्य च पर्यन्ते वासवं लोकमावसेत् |
देवराजस्य च क्रीडां नित्यकालमवेक्षते ||१८||
दिवसे पञ्चमे यस्तु प्राश्नीयादेकभोजनम् |
सदा द्वादशमासांस्तु जुह्वानो जातवेदसम् ||१९||
अलुब्धः सत्यवादी च ब्रह्मण्यश्चाविहिंसकः |
अनसूयुरपापस्थो द्वादशाहफलं लभेत् ||२०||
जाम्बूनदमयं दिव्यं विमानं हंसलक्षणम् |
सूर्यमालासमाभासमारोहेत्पाण्डुरं गृहम् ||२१||
आवर्तनानि चत्वारि तथा पद्मानि द्वादश |
शराग्निपरिमाणं च तत्रासौ वसते सुखम् ||२२||
दिवसे यस्तु षष्ठे वै मुनिः प्राशेत भोजनम् |
सदा द्वादशमासान्वै जुह्वानो जातवेदसम् ||२३||
सदा त्रिषवणस्नायी ब्रह्मचार्यनसूयकः |
गवामयस्य यज्ञस्य फलं प्राप्नोत्यनुत्तमम् ||२४||
अग्निज्वालासमाभासं हंसबर्हिणसेवितम् |
शातकुम्भमयं युक्तं साधयेद्यानमुत्तमम् ||२५||
तथैवाप्सरसामङ्के प्रसुप्तः प्रतिबुध्यते |
नूपुराणां निनादेन मेखलानां च निस्वनैः ||२६||
कोटीसहस्रं वर्षाणां त्रीणि कोटिशतानि च |
पद्मान्यष्टादश तथा पताके द्वे तथैव च ||२७||
अयुतानि च पञ्चाशदृक्षचर्मशतस्य च |
लोम्नां प्रमाणेन समं ब्रह्मलोके महीयते ||२८||
दिवसे सप्तमे यस्तु प्राश्नीयादेकभोजनम् |
सदा द्वादशमासान्वै जुह्वानो जातवेदसम् ||२९||
सरस्वतीं गोपयानो ब्रह्मचर्यं समाचरन् |
सुमनोवर्णकं चैव मधुमांसं च वर्जयेत् ||३०||
पुरुषो मरुतां लोकमिन्द्रलोकं च गच्छति |
तत्र तत्र च सिद्धार्थो देवकन्याभिरुह्यते ||३१||
फलं बहुसुवर्णस्य यज्ञस्य लभते नरः |
सङ्ख्यामतिगुणां चापि तेषु लोकेषु मोदते ||३२||
यस्तु संवत्सरं क्षान्तो भुङ्क्तेऽहन्यष्टमे नरः |
देवकार्यपरो नित्यं जुह्वानो जातवेदसम् ||३३||
पौण्डरीकस्य यज्ञस्य फलं प्राप्नोत्यनुत्तमम् |
पद्मवर्णनिभं चैव विमानमधिरोहति ||३४||
कृष्णाः कनकगौर्यश्च नार्यः श्यामास्तथापराः |
वयोरूपविलासिन्यो लभते नात्र संशयः ||३५||
यस्तु संवत्सरं भुङ्क्ते नवमे नवमेऽहनि |
सदा द्वादशमासान्वै जुह्वानो जातवेदसम् ||३६||
अश्वमेधस्य यज्ञस्य फलं प्राप्नोति मानवः |
पुण्डरीकप्रकाशं च विमानं लभते नरः ||३७||
दीप्तसूर्याग्नितेजोभिर्दिव्यमालाभिरेव च |
नीयते रुद्रकन्याभिः सोऽन्तरिक्षं सनातनम् ||३८||
अष्टादशसहस्राणि वर्षाणां कल्पमेव च |
कोटीशतसहस्रं च तेषु लोकेषु मोदते ||३९||
यस्तु संवत्सरं भुङ्क्ते दशाहे वै गते गते |
सदा द्वादशमासान्वै जुह्वानो जातवेदसम् ||४०||
ब्रह्मकन्यानिवेशे च सर्वभूतमनोहरे |
अश्वमेधसहस्रस्य फलं प्राप्नोत्यनुत्तमम् ||४१||
रूपवत्यश्च तं कन्या रमयन्ति सदा नरम् |
नीलोत्पलनिभैर्वर्णै रक्तोत्पलनिभैस्तथा ||४२||
विमानं मण्डलावर्तमावर्तगहनावृतम् |
सागरोर्मिप्रतीकाशं साधयेद्यानमुत्तमम् ||४३||
विचित्रमणिमालाभिर्नादितं शङ्खपुष्करैः |
स्फाटिकैर्वज्रसारैश्च स्तम्भैः सुकृतवेदिकम् ||४४||
आरोहति महद्यानं हंससारसवाहनम् ||४४||
एकादशे तु दिवसे यः प्राप्ते प्राशते हविः |
सदा द्वादशमासान्वै जुह्वानो जातवेदसम् ||४५||
परस्त्रियो नाभिलषेद्वाचाथ मनसापि वा |
अनृतं च न भाषेत मातापित्रोः कृतेऽपि वा ||४६||
अभिगच्छेन्महादेवं विमानस्थं महाबलम् |
स्वयम्भुवं च पश्येत विमानं समुपस्थितम् ||४७||
कुमार्यः काञ्चनाभासा रूपवत्यो नयन्ति तम् |
रुद्राणां तमधीवासं दिवि दिव्यं मनोहरम् ||४८||
वर्षाण्यपरिमेयानि युगान्तमपि चावसेत् |
कोटीशतसहस्रं च दश कोटिशतानि च ||४९||
रुद्रं नित्यं प्रणमते देवदानवसंमतम् |
स तस्मै दर्शनं प्राप्तो दिवसे दिवसे भवेत् ||५०||
दिवसे द्वादशे यस्तु प्राप्ते वै प्राशते हविः |
सदा द्वादशमासान्वै सर्वमेधफलं लभेत् ||५१||
आदित्यैर्द्वादशैस्तस्य विमानं संविधीयते |
मणिमुक्ताप्रवालैश्च महार्हैरुपशोभितम् ||५२||
हंसमालापरिक्षिप्तं नागवीथीसमाकुलम् |
मयूरैश्चक्रवाकैश्च कूजद्भिरुपशोभितम् ||५३||
अट्टैर्महद्भिः संयुक्तं ब्रह्मलोके प्रतिष्ठितम् |
नित्यमावसते राजन्नरनारीसमावृतम् ||५४||
ऋषिरेवं महाभागस्त्वङ्गिराः प्राह धर्मवित् ||५४||
त्रयोदशे तु दिवसे यः प्राप्ते प्राशते हविः |
सदा द्वादश मासान्वै देवसत्रफलं लभेत् ||५५||
रक्तपद्मोदयं नाम विमानं साधयेन्नरः |
जातरूपप्रयुक्तं च रत्नसञ्चयभूषितम् ||५६||
देवकन्याभिराकीर्णं दिव्याभरणभूषितम् |
पुण्यगन्धोदयं दिव्यं वायव्यैरुपशोभितम् ||५७||
तत्र शङ्कुपताकं च युगान्तं कल्पमेव च |
अयुतायुतं तथा पद्मं समुद्रं च तथा वसेत् ||५८||
गीतगन्धर्वघोषैश्च भेरीपणवनिस्वनैः |
सदा प्रमुदितस्ताभिर्देवकन्याभिरीड्यते ||५९||
चतुर्दशे तु दिवसे यः पूर्णे प्राशते हविः |
सदा द्वादश मासान्वै महामेधफलं लभेत् ||६०||
अनिर्देश्यवयोरूपा देवकन्याः स्वलङ्कृताः |
मृष्टतप्ताङ्गदधरा विमानैरनुयान्ति तम् ||६१||
कलहंसविनिर्घोषैर्नूपुराणां च निस्वनैः |
काञ्चीनां च समुत्कर्षैस्तत्र तत्र विबोध्यते ||६२||
देवकन्यानिवासे च तस्मिन्वसति मानवः |
जाह्नवीवालुकाकीर्णे पूर्णं संवत्सरं नरः ||६३||
यस्तु पक्षे गते भुङ्क्ते एकभक्तं जितेन्द्रियः |
सदा दादश मासांस्तु जुह्वानो जातवेदसम् ||६४||
राजसूयसहस्रस्य फलं प्राप्नोत्यनुत्तमम् ||६४||
यानमारोहते नित्यं हंसबर्हिणसेवितम् |
मणिमण्डलकैश्चित्रं जातरूपसमावृतम् ||६५||
दिव्याभरणशोभाभिर्वरस्त्रीभिरलङ्कृतम् |
एकस्तम्भं चतुर्द्वारं सप्तभौमं सुमङ्गलम् ||६६||
वैजयन्तीसहस्रैश्च शोभितं गीतनिस्वनैः ||६६||
दिव्यं दिव्यगुणोपेतं विमानमधिरोहति |
मणिमुक्ताप्रवालैश्च भूषितं वैद्युतप्रभम् ||६७||
वसेद्युगसहस्रं च खड्गकुञ्जरवाहनः ||६७||
षोडशे दिवसे यस्तु सम्प्राप्ते प्राशते हविः |
सदा द्वादश मासान्वै सोमयज्ञफलं लभेत् ||६८||
सोमकन्यानिवासेषु सोऽध्यावसति नित्यदा |
सौम्यगन्धानुलिप्तश्च कामचारगतिर्भवेत् ||६९||
सुदर्शनाभिर्नारीभिर्मधुराभिस्तथैव च |
अर्च्यते वै विमानस्थः कामभोगैश्च सेव्यते ||७०||
फलं पद्मशतप्रख्यं महाकल्पं दशाधिकम् |
आवर्तनानि चत्वारि सागरे यात्यसौ नरः ||७१||
दिवसे सप्तदशमे यः प्राप्ते प्राशते हविः |
सदा द्वादश मासान्वै जुह्वानो जातवेदसम् ||७२||
स्थानं वारुणमैन्द्रं च रौद्रं चैवाधिगच्छति |
मारुतौशनसे चैव ब्रह्मलोकं च गच्छति ||७३||
तत्र दैवतकन्याभिरासनेनोपचर्यते |
भूर्भुवं चापि देवर्षिं विश्वरूपमवेक्षते ||७४||
तत्र देवाधिदेवस्य कुमार्यो रमयन्ति तम् |
द्वात्रिंशद्रूपधारिण्यो मधुराः समलङ्कृताः ||७५||
चन्द्रादित्यावुभौ यावद्गगने चरतः प्रभो |
तावच्चरत्यसौ वीरः सुधामृतरसाशनः ||७६||
अष्टादशे तु दिवसे प्राश्नीयादेकभोजनम् |
सदा द्वादश मासान्वै सप्त लोकान्स पश्यति ||७७||
रथैः सनन्दिघोषैश्च पृष्ठतः सोऽनुगम्यते |
देवकन्याधिरूढैस्तु भ्राजमानैः स्वलङ्कृतैः ||७८||
व्याघ्रसिंहप्रयुक्तं च मेघस्वननिनादितम् |
विमानमुत्तमं दिव्यं सुसुखी ह्यधिरोहति ||७९||
तत्र कल्पसहस्रं स कान्ताभिः सह मोदते |
सुधारसं च भुञ्जीत अमृतोपममुत्तमम् ||८०||
एकोनविंशे दिवसे यो भुङ्क्ते एकभोजनम् |
सदा द्वादश मासान्वै सप्त लोकान्स पश्यति ||८१||
उत्तमं लभते स्थानमप्सरोगणसेवितम् |
गन्धर्वैरुपगीतं च विमानं सूर्यवर्चसम् ||८२||
तत्रामरवरस्त्रीभिर्मोदते विगतज्वरः |
दिव्याम्बरधरः श्रीमानयुतानां शतं समाः ||८३||
पूर्णेऽथ दिवसे विंशे यो भुङ्क्ते ह्येकभोजनम् |
सदा द्वादश मासांस्तु सत्यवादी धृतव्रतः ||८४||
अमांसाशी ब्रह्मचारी सर्वभूतहिते रतः |
स लोकान्विपुलान्दिव्यानादित्यानामुपाश्नुते ||८५||
गन्धर्वैरप्सरोभिश्च दिव्यमाल्यानुलेपनैः |
विमानैः काञ्चनैर्दिव्यैः पृष्ठतश्चानुगम्यते ||८६||
एकविंशे तु दिवसे यो भुङ्क्ते ह्येकभोजनम् |
सदा द्वादश मासान्वै जुह्वानो जातवेदसम् ||८७||
लोकमौशनसं दिव्यं शक्रलोकं च गच्छति |
अश्विनोर्मरुतां चैव सुखेष्वभिरतः सदा ||८८||
अनभिज्ञश्च दुःखानां विमानवरमास्थितः |
सेव्यमानो वरस्त्रीभिः क्रीडत्यमरवत्प्रभुः ||८९||
द्वाविंशे दिवसे प्राप्ते यो भुङ्क्ते ह्येकभोजनम् |
सदा द्वादश मासान्वै जुह्वानो जातवेदसम् ||९०||
धृतिमानहिंसानिरतः सत्यवागनसूयकः |
लोकान्वसूनामाप्नोति दिवाकरसमप्रभः ||९१||
कामचारी सुधाहारो विमानवरमास्थितः |
रमते देवकन्याभिर्दिव्याभरणभूषितः ||९२||
त्रयोविंशे तु दिवसे प्राशेद्यस्त्वेकभोजनम् |
सदा द्वादश मासांस्तु मिताहारो जितेन्द्रियः ||९३||
वायोरुशनसश्चैव रुद्रलोकं च गच्छति |
कामचारी कामगमः पूज्यमानोऽप्सरोगणैः ||९४||
अनेकगुणपर्यन्तं विमानवरमास्थितः |
रमते देवकन्याभिर्दिव्याभरणभूषितः ||९५||
चतुर्विंशे तु दिवसे यः प्राशेदेकभोजनम् |
सदा द्वादश मासान्वै जुह्वानो जातवेदसम् ||९६||
आदित्यानामधीवासे मोदमानो वसेच्चिरम् |
दिव्यमाल्याम्बरधरो दिव्यगन्धानुलेपनः ||९७||
विमाने काञ्चने दिव्ये हंसयुक्ते मनोरमे |
रमते देवकन्यानां सहस्रैरयुतैस्तथा ||९८||
पञ्चविंशे तु दिवसे यः प्राशेदेकभोजनम् |
सदा द्वादश मासांस्तु पुष्कलं यानमारुहेत् ||९९||
सिंहव्याघ्रप्रयुक्तैश्च मेघस्वननिनादितैः |
रथैः सनन्दिघोषैश्च पृष्ठतः सोऽनुगम्यते ||१००||
देवकन्यासमारूढै राजतैर्विमलैः शुभैः |
विमानमुत्तमं दिव्यमास्थाय सुमनोहरम् ||१०१||
तत्र कल्पसहस्रं वै वसते स्त्रीशतावृते |
सुधारसं चोपजीवन्नमृतोपममुत्तमम् ||१०२||
षड्विंशे दिवसे यस्तु प्राश्नीयादेकभोजनम् |
सदा द्वादश मासांस्तु नियतो नियताशनः ||१०३||
जितेन्द्रियो वीतरागो जुह्वानो जातवेदसम् |
स प्राप्नोति महाभागः पूज्यमानोऽप्सरोगणैः ||१०४||
सप्तानां मरुतां लोकान्वसूनां चापि सोऽश्नुते |
विमाने स्फाटिके दिव्ये सर्वरत्नैरलङ्कृते ||१०५||
गन्धर्वैरप्सरोभिश्च पूज्यमानः प्रमोदते |
द्वे युगानां सहस्रे तु दिव्ये दिव्येन तेजसा ||१०६||
सप्तविंशे तु दिवसे यः प्राशेदेकभोजनम् |
सदा द्वादश मासांस्तु जुह्वानो जातवेदसम् ||१०७||
फलं प्राप्नोति विपुलं देवलोके च पूज्यते |
अमृताशी वसंस्तत्र स वितृप्तः प्रमोदते ||१०८||
देवर्षिचरितं राजन्राजर्षिभिरधिष्ठितम् |
अध्यावसति दिव्यात्मा विमानवरमास्थितः ||१०९||
स्त्रीभिर्मनोभिरामाभी रममाणो मदोत्कटः |
युगकल्पसहस्राणि त्रीण्यावसति वै सुखम् ||११०||
योऽष्टाविंशे तु दिवसे प्राश्नीयादेकभोजनम् |
सदा द्वादश मासांस्तु जितात्मा विजितेन्द्रियः ||१११||
फलं देवर्षिचरितं विपुलं समुपाश्नुते |
भोगवांस्तेजसा भाति सहस्रांशुरिवामलः ||११२||
सुकुमार्यश्च नार्यस्तं रममाणाः सुवर्चसः |
पीनस्तनोरुजघना दिव्याभरणभूषिताः ||११३||
रमयन्ति मनः कान्ता विमाने सूर्यसंनिभे |
सर्वकामगमे दिव्ये कल्पायुतशतं समाः ||११४||
एकोनत्रिंशे दिवसे यः प्राशेदेकभोजनम् |
सदा द्वादश मासान्वै सत्यव्रतपरायणः ||११५||
तस्य लोकाः शुभा दिव्या देवराजर्षिपूजिताः |
विमानं चन्द्रशुभ्राभं दिव्यं समधिगच्छति ||११६||
जातरूपमयं युक्तं सर्वरत्नविभूषितम् |
अप्सरोगणसम्पूर्णं गन्धर्वैरभिनादितम् ||११७||
तत्र चैनं शुभा नार्यो दिव्याभरणभूषिताः |
मनोभिरामा मधुरा रमयन्ति मदोत्कटाः ||११८||
भोगवांस्तेजसा युक्तो वैश्वानरसमप्रभः |
दिव्यो दिव्येन वपुषा भ्राजमान इवामरः ||११९||
वसूनां मरुतां चैव साध्यानामश्विनोस्तथा |
रुद्राणां च तथा लोकान्ब्रह्मलोकं च गच्छति ||१२०||
यस्तु मासे गते भुङ्क्ते एकभक्तं शमात्मकः |
सदा द्वादश मासान्वै ब्रह्मलोकमवाप्नुयात् ||१२१||
सुधारसकृताहारः श्रीमान्सर्वमनोहरः |
तेजसा वपुषा लक्ष्म्या भ्राजते रश्मिवानिव ||१२२||
दिव्यमाल्याम्बरधरो दिव्यगन्धानुलेपनः |
सुखेष्वभिरतो योगी दुःखानामविजानकः ||१२३||
स्वयम्प्रभाभिर्नारीभिर्विमानस्थो महीयते |
रुद्रदेवर्षिकन्याभिः सततं चाभिपूज्यते ||१२४||
नानाविधसुरूपाभिर्नानारागाभिरेव च |
नानामधुरभाषाभिर्नानारतिभिरेव च ||१२५||
विमाने नगराकारे सूर्यवत्सूर्यसंनिभे |
पृष्ठतः सोमसङ्काशे उदक्चैवाभ्रसंनिभे ||१२६||
दक्षिणायां तु रक्ताभे अधस्तान्नीलमण्डले |
ऊर्ध्वं चित्राभिसङ्काशे नैको वसति पूजितः ||१२७||
यावद्वर्षसहस्रं तु जम्बूद्वीपे प्रवर्षति |
तावत्संवत्सराः प्रोक्ता ब्रह्मलोकस्य धीमतः ||१२८||
विप्रुषश्चैव यावन्त्यो निपतन्ति नभस्तलात् |
वर्षासु वर्षतस्तावन्निवसत्यमरप्रभः ||१२९||
मासोपवासी वर्षैस्तु दशभिः स्वर्गमुत्तमम् |
महर्षित्वमथासाद्य सशरीरगतिर्भवेत् ||१३०||
मुनिर्दान्तो जितक्रोधो जितशिश्नोदरः सदा |
जुह्वन्नग्नींश्च नियतः सन्ध्योपासनसेविता ||१३१||
बहुभिर्नियमैरेवं मासानश्नाति यो नरः |
अभ्रावकाशशीलश्च तस्य वासो निरुच्यते ||१३२||
दिवं गत्वा शरीरेण स्वेन राजन्यथामरः |
स्वर्गं पुण्यं यथाकाममुपभुङ्क्ते यथाविधि ||१३३||
एष ते भरतश्रेष्ठ यज्ञानां विधिरुत्तमः |
व्याख्यातो ह्यानुपूर्व्येण उपवासफलात्मकः ||१३४||
दरिद्रैर्मनुजैः पार्थ प्राप्यं यज्ञफलं यथा |
उपवासमिमं कृत्वा गच्छेच्च परमां गतिम् ||१३५||
देवद्विजातिपूजायां रतो भरतसत्तम ||१३५||
उपवासविधिस्त्वेष विस्तरेण प्रकीर्तितः |
नियतेष्वप्रमत्तेषु शौचवत्सु महात्मसु ||१३६||
दम्भद्रोहनिवृत्तेषु कृतबुद्धिषु भारत |
अचलेष्वप्रकम्पेषु मा ते भूदत्र संशयः ||१३७||
शौचानुपृच्छा
१११
युधिष्ठिर उवाच||
यद्वरं सर्वतीर्थानां तद्ब्रवीहि पितामह |
यत्र वै परमं शौचं तन्मे व्याख्यातुमर्हसि ||१||
भीष्म उवाच||
सर्वाणि खलु तीर्थानि गुणवन्ति मनीषिणाम् |
यत्तु तीर्थं च शौचं च तन्मे शृणु समाहितः ||२||
अगाधे विमले शुद्धे सत्यतोये धृतिह्रदे |
स्नातव्यं मानसे तीर्थे सत्त्वमालम्ब्य शाश्वतम् ||३||
तीर्थशौचमनर्थित्वमार्दवं सत्यमार्जवम् |
अहिंसा सर्वभूतानामानृशंस्यं दमः शमः ||४||
निर्ममा निरहङ्कारा निर्द्वंद्वा निष्परिग्रहाः |
शुचयस्तीर्थभूतास्ते ये भैक्षमुपभुञ्जते ||५||
तत्त्ववित्त्वनहम्बुद्धिस्तीर्थं परममुच्यते |
शौचलक्षणमेतत्ते सर्वत्रैवान्ववेक्षणम् ||६||
रजस्तमः सत्त्वमथो येषां निर्धौतमात्मनः |
शौचाशौचे न ते सक्ताः स्वकार्यपरिमार्गिणः ||७||
सर्वत्यागेष्वभिरताः सर्वज्ञाः सर्वदर्शिनः |
शौचेन वृत्तशौचार्थास्ते तीर्थाः शुचयश्च ते ||८||
नोदकक्लिन्नगात्रस्तु स्नात इत्यभिधीयते |
स स्नातो यो दमस्नातः सबाह्याभ्यन्तरः शुचिः ||९||
अतीतेष्वनपेक्षा ये प्राप्तेष्वर्थेषु निर्ममाः |
शौचमेव परं तेषां येषां नोत्पद्यते स्पृहा ||१०||
प्रज्ञानं शौचमेवेह शरीरस्य विशेषतः |
तथा निष्किञ्चनत्वं च मनसश्च प्रसन्नता ||११||
वृत्तशौचं मनःशौचं तीर्थशौचं परं हितम् |
ज्ञानोत्पन्नं च यच्छौचं तच्छौचं परमं मतम् ||१२||
मनसाथ प्रदीपेन ब्रह्मज्ञानबलेन च |
स्नाता ये मानसे तीर्थे तज्ज्ञाः क्षेत्रज्ञदर्शिनः ||१३||
समारोपितशौचस्तु नित्यं भावसमन्वितः |
केवलं गुणसम्पन्नः शुचिरेव नरः सदा ||१४||
शरीरस्थानि तीर्थानि प्रोक्तान्येतानि भारत |
पृथिव्यां यानि तीर्थानि पुण्यानि शृणु तान्यपि ||१५||
यथा शरीरस्योद्देशाः शुचयः परिनिर्मिताः |
तथा पृथिव्या भागाश्च पुण्यानि सलिलानि च ||१६||
प्रार्थनाच्चैव तीर्थस्य स्नानाच्च पितृतर्पणात् |
धुनन्ति पापं तीर्थेषु पूता यान्ति दिवं सुखम् ||१७||
परिग्रहाच्च साधूनां पृथिव्याश्चैव तेजसा |
अतीव पुण्यास्ते भागाः सलिलस्य च तेजसा ||१८||
मनसश्च पृथिव्याश्च पुण्यतीर्थास्तथापरे |
उभयोरेव यः स्नातः स सिद्धिं शीघ्रमाप्नुयात् ||१९||
यथा बलं क्रियाहीनं क्रिया वा बलवर्जिता |
नेह साधयते कार्यं समायुक्तस्तु सिध्यति ||२०||
एवं शरीरशौचेन तीर्थशौचेन चान्वितः |
ततः सिद्धिमवाप्नोति द्विविधं शौचमुत्तमम् ||२१||
संसारचक्रम्
११२
युधिष्ठिर उवाच||
पितामह महाबाहो सर्वशास्त्रविशारद |
श्रोतुमिच्छामि मर्त्यानां संसारविधिमुत्तमम् ||१||
केन वृत्तेन राजेन्द्र वर्तमाना नरा युधि |
प्राप्नुवन्त्युत्तमं स्वर्गं कथं च नरकं नृप ||२||
मृतं शरीरमुत्सृज्य काष्ठलोष्टसमं जनाः |
प्रयान्त्यमुं लोकमितः को वै ताननुगच्छति ||३||
भीष्म उवाच||
असावायाति भगवान्बृहस्पतिरुदारधीः |
पृच्छैनं सुमहाभागमेतद्गुह्यं सनातनम् ||४||
नैतदन्येन शक्यं हि वक्तुं केनचिदद्य वै |
वक्ता बृहस्पतिसमो न ह्यन्यो विद्यते क्वचित् ||५||
वैशम्पायन उवाच||
तयोः संवदतोरेवं पार्थगाङ्गेययोस्तदा |
आजगाम विशुद्धात्मा भगवान्स बृहस्पतिः ||६||
ततो राजा समुत्थाय धृतराष्ट्रपुरोगमः |
पूजामनुपमां चक्रे सर्वे ते च सभासदः ||७||
ततो धर्मसुतो राजा भगवन्तं बृहस्पतिम् |
उपगम्य यथान्यायं प्रश्नं पप्रच्छ सुव्रतः ||८||
युधिष्ठिर उवाच||
भगवन्सर्वधर्मज्ञ सर्वशास्त्रविशारद |
मर्त्यस्य कः सहायो वै पिता माता सुतो गुरुः ||९||
मृतं शरीरमुत्सृज्य काष्ठलोष्टसमं जनाः |
गच्छन्त्यमुत्रलोकं वै क एनमनुगच्छति ||१०||
बृहस्पतिरुवाच||
एकः प्रसूतो राजेन्द्र जन्तुरेको विनश्यति |
एकस्तरति दुर्गाणि गच्छत्येकश्च दुर्गतिम् ||११||
असहायः पिता माता तथा भ्राता सुतो गुरुः |
ज्ञातिसम्बन्धिवर्गश्च मित्रवर्गस्तथैव च ||१२||
मृतं शरीरमुत्सृज्य काष्ठलोष्टसमं जनाः |
मुहूर्तमुपतिष्ठन्ति ततो यान्ति पराङ्मुखाः ||१३||
तैस्तच्छरीरमुत्सृष्टं धर्म एकोऽनुगच्छति ||१३||
तस्माद्धर्मः सहायार्थे सेवितव्यः सदा नृभिः |
प्राणी धर्मसमायुक्तो गच्छते स्वर्गतिं पराम् ||१४||
तथैवाधर्मसंयुक्तो नरकायोपपद्यते ||१४||
तस्मान्न्यायागतैरर्थैर्धर्मं सेवेत पण्डितः |
धर्म एको मनुष्याणां सहायः पारलौकिकः ||१५||
लोभान्मोहादनुक्रोशाद्भयाद्वाप्यबहुश्रुतः |
नरः करोत्यकार्याणि परार्थे लोभमोहितः ||१६||
धर्मश्चार्थश्च कामश्च त्रितयं जीविते फलम् |
एतत्त्रयमवाप्तव्यमधर्मपरिवर्जितम् ||१७||
युधिष्ठिर उवाच||
श्रुतं भगवतो वाक्यं धर्मयुक्तं परं हितम् |
शरीरविचयं ज्ञातुं बुद्धिस्तु मम जायते ||१८||
मृतं शरीररहितं सूक्ष्ममव्यक्ततां गतम् |
अचक्षुर्विषयं प्राप्तं कथं धर्मोऽनुगच्छति ||१९||
बृहस्पतिरुवाच||
पृथिवी वायुराकाशमापो ज्योतिश्च पञ्चमम् |
बुद्धिरात्मा च सहिता धर्मं पश्यन्ति नित्यदा ||२०||
प्राणिनामिह सर्वेषां साक्षिभूतानि चानिशम् |
एतैश्च स ह धर्मोऽपि तं जीवमनुगच्छति ||२१||
त्वगस्थिमांसं शुक्रं च शोणितं च महामते |
शरीरं वर्जयन्त्येते जीवितेन विवर्जितम् ||२२||
ततो धर्मसमायुक्तः स जीवः सुखमेधते |
इह लोके परे चैव किं भूयः कथयामि ते ||२३||
युधिष्ठिर उवाच||
अनुदर्शितं भगवता यथा धर्मोऽनुगच्छति |
एतत्तु ज्ञातुमिच्छामि कथं रेतः प्रवर्तते ||२४||
बृहस्पतिरुवाच||
अन्नमश्नन्ति ये देवाः शरीरस्था नरेश्वर |
पृथिवी वायुराकाशमापो ज्योतिर्मनस्तथा ||२५||
ततस्तृप्तेषु राजेन्द्र तेषु भूतेषु पञ्चसु |
मनःषष्ठेषु शुद्धात्मन्रेतः सम्पद्यते महत् ||२६||
ततो गर्भः सम्भवति स्त्रीपुंसोः पार्थ सङ्गमे |
एतत्ते सर्वमाख्यातं किं भूयः श्रोतुमिच्छसि ||२७||
युधिष्ठिर उवाच||
आख्यातमेतद्भवता गर्भः सञ्जायते यथा |
यथा जातस्तु पुरुषः प्रपद्यति तदुच्यताम् ||२८||
बृहस्पतिरुवाच||
आसन्नमात्रः सततं तैर्भूतैरभिभूयते |
विप्रमुक्तश्च तैर्भूतैः पुनर्यात्यपरां गतिम् ||२९||
स तु भूतसमायुक्तः प्राप्नुते जीव एव ह ||२९||
ततोऽस्य कर्म पश्यन्ति शुभं वा यदि वाशुभम् |
देवताः पञ्चभूतस्थाः किं भूयः श्रोतुमिच्छसि ||३०||
युधिष्ठिर उवाच||
त्वगस्थिमांसमुत्सृज्य तैश्च भूतैर्विवर्जितः |
जीवः स भगवन्क्वस्थः सुखदुःखे समश्नुते ||३१||
बृहस्पतिरुवाच||
जीवो धर्मसमायुक्तः शीघ्रं रेतस्त्वमागतः |
स्त्रीणां पुष्पं समासाद्य सूते कालेन भारत ||३२||
यमस्य पुरुषैः क्लेशं यमस्य पुरुषैर्वधम् |
दुःखं संसारचक्रं च नरः क्लेशं च विन्दति ||३३||
इहलोके च स प्राणी जन्मप्रभृति पार्थिव |
स्वकृतं कर्म वै भुङ्क्ते धर्मस्य फलमाश्रितः ||३४||
यदि धर्मं यथाशक्ति जन्मप्रभृति सेवते |
ततः स पुरुषो भूत्वा सेवते नित्यदा सुखम् ||३५||
अथान्तरा तु धर्मस्य अधर्ममुपसेवते |
सुखस्यानन्तरं दुःखं स जीवोऽप्यधिगच्छति ||३६||
अधर्मेण समायुक्तो यमस्य विषयं गतः |
महद्दुःखं समासाद्य तिर्यग्योनौ प्रजायते ||३७||
कर्मणा येन येनेह यस्यां योनौ प्रजायते |
जीवो मोहसमायुक्तस्तन्मे निगदतः शृणु ||३८||
यदेतदुच्यते शास्त्रे सेतिहासे सच्छन्दसि |
यमस्य विषयं घोरं मर्त्यो लोकः प्रपद्यते ||३९||
अधीत्य चतुरो वेदान्द्विजो मोहसमन्वितः |
पतितात्प्रतिगृह्याथ खरयोनौ प्रजायते ||४०||
खरो जीवति वर्षाणि दश पञ्च च भारत |
खरो मृतो बलीवर्दः सप्त वर्षाणि जीवति ||४१||
बलीवर्दो मृतश्चापि जायते ब्रह्मराक्षसः |
ब्रह्मरक्षस्तु त्रीन्मासांस्ततो जायति ब्राह्मणः ||४२||
पतितं याजयित्वा तु कृमियोनौ प्रजायते |
तत्र जीवति वर्षाणि दश पञ्च च भारत ||४३||
कृमिभावात्प्रमुक्तस्तु ततो जायति गर्दभः |
गर्दभः पञ्च वर्षाणि पञ्च वर्षाणि सूकरः ||४४||
श्वा वर्षमेकं भवति ततो जायति मानवः ||४४||
उपाध्यायस्य यः पापं शिष्यः कुर्यादबुद्धिमान् |
स जीव इह संसारांस्त्रीनाप्नोति न संशयः ||४५||
प्राक्ष्वा भवति राजेन्द्र ततः क्रव्यात्ततः खरः |
ततः प्रेतः परिक्लिष्टः पश्चाज्जायति ब्राह्मणः ||४६||
मनसापि गुरोर्भार्यां यः शिष्यो याति पापकृत् |
सोऽधमान्याति संसारानधर्मेणेह चेतसा ||४७||
श्वयोनौ तु स सम्भूतस्त्रीणि वर्षाणि जीवति |
तत्रापि निधनं प्राप्तः कृमियोनौ प्रजायते ||४८||
कृमिभावमनुप्राप्तो वर्षमेकं स जीवति |
ततस्तु निधनं प्राप्य ब्रह्मयोनौ प्रजायते ||४९||
यदि पुत्रसमं शिष्यं गुरुर्हन्यादकारणे |
आत्मनः कामकारेण सोऽपि हंसः प्रजायते ||५०||
पितरं मातरं वापि यस्तु पुत्रोऽवमन्यते |
सोऽपि राजन्मृतो जन्तुः पूर्वं जायति गर्दभः ||५१||
खरो जीवति मासांस्तु दश श्वा च चतुर्दश |
बिडालः सप्त मासांस्तु ततो जायति मानवः ||५२||
मातापितरमाक्रुश्य सारिकः सम्प्रजायते |
ताडयित्वा तु तावेव जायते कच्छपो नृप ||५३||
कच्छपो दश वर्षाणि त्रीणि वर्षाणि शल्यकः |
व्यालो भूत्वा तु षण्मासांस्ततो जायति मानुषः ||५४||
भर्तृपिण्डमुपाश्नन्यो राजद्विष्टानि सेवते |
सोऽपि मोहसमापन्नो मृतो जायति वानरः ||५५||
वानरो दश वर्षाणि त्रीणि वर्षाणि मूषकः |
श्वा भूत्वा चाथ षण्मासांस्ततो जायति मानुषः ||५६||
न्यासापहर्ता तु नरो यमस्य विषयं गतः |
संसाराणां शतं गत्वा कृमियोनौ प्रजायते ||५७||
तत्र जीवति वर्षाणि दश पञ्च च भारत |
दुष्कृतस्य क्षयं गत्वा ततो जायति मानुषः ||५८||
असूयको नरश्चापि मृतो जायति शार्ङ्गकः |
विश्वासहर्ता तु नरो मीनो जायति दुर्मतिः ||५९||
भूत्वा मीनोऽष्ट वर्षाणि मृगो जायति भारत |
मृगस्तु चतुरो मासांस्ततश्छागः प्रजायते ||६०||
छागस्तु निधनं प्राप्य पूर्णे संवत्सरे ततः |
कीटः सञ्जायते जन्तुस्ततो जायति मानुषः ||६१||
धान्यान्यवांस्तिलान्माषान्कुलत्थान्सर्षपांश्चणान् |
कलायानथ मुद्गांश्च गोधूमानतसीस्तथा ||६२||
सस्यस्यान्यस्य हर्ता च मोहाज्जन्तुरचेतनः |
स जायते महाराज मूषको निरपत्रपः ||६३||
ततः प्रेत्य महाराज पुनर्जायति सूकरः |
सूकरो जातमात्रस्तु रोगेण म्रियते नृप ||६४||
श्वा ततो जायते मूढः कर्मणा तेन पार्थिव |
श्वा भूत्वा पञ्च वर्षाणि ततो जायति मानुषः ||६५||
परदाराभिमर्शं तु कृत्वा जायति वै वृकः |
श्वा सृगालस्ततो गृध्रो व्यालः कङ्को बकस्तथा ||६६||
भ्रातुर्भार्यां तु दुर्बुद्धिर्यो धर्षयति मोहितः |
पुंस्कोकिलत्वमाप्नोति सोऽपि संवत्सरं नृप ||६७||
सखिभार्यां गुरोर्भार्यां राजभार्यां तथैव च |
प्रधर्षयित्वा कामाद्यो मृतो जायति सूकरः ||६८||
सूकरः पञ्च वर्षाणि पञ्च वर्षाणि श्वाविधः |
पिपीलकस्तु षण्मासान्कीटः स्यान्मासमेव च ||६९||
एतानासाद्य संसारान्कृमियोनौ प्रजायते ||६९||
तत्र जीवति मासांस्तु कृमियोनौ त्रयोदश |
ततोऽधर्मक्षयं कृत्वा पुनर्जायति मानुषः ||७०||
उपस्थिते विवाहे तु दाने यज्ञेऽपि वाभिभो |
मोहात्करोति यो विघ्नं स मृतो जायते कृमिः ||७१||
कृमिर्जीवति वर्षाणि दश पञ्च च भारत |
अधर्मस्य क्षयं कृत्वा ततो जायति मानुषः ||७२||
पूर्वं दत्त्वा तु यः कन्यां द्वितीये सम्प्रयच्छति |
सोऽपि राजन्मृतो जन्तुः कृमियोनौ प्रजायते ||७३||
तत्र जीवति वर्षाणि त्रयोदश युधिष्ठिर |
अधर्मसङ्क्षये युक्तस्ततो जायति मानुषः ||७४||
देवकार्यमुपाकृत्य पितृकार्यमथापि च |
अनिर्वाप्य समश्नन्वै ततो जायति वायसः ||७५||
वायसो दश वर्षाणि ततो जायति कुक्कुटः |
जायते लवकश्चापि मासं तस्मात्तु मानुषः ||७६||
ज्येष्ठं पितृसमं चापि भ्रातरं योऽवमन्यते |
सोऽपि मृत्युमुपागम्य क्रौञ्चयोनौ प्रजायते ||७७||
क्रौञ्चो जीवति मासांस्तु दश द्वौ सप्त पञ्च च |
ततो निधनमापन्नो मानुषत्वमुपाश्नुते ||७८||
वृषलो ब्राह्मणीं गत्वा कृमियोनौ प्रजायते |
तत्रापत्यं समुत्पाद्य ततो जायति मूषकः ||७९||
कृतघ्नस्तु मृतो राजन्यमस्य विषयं गतः |
यमस्य विषये क्रुद्धैर्वधं प्राप्नोति दारुणम् ||८०||
पट्टिसं मुद्गरं शूलमग्निकुम्भं च दारुणम् |
असिपत्रवनं घोरं वालुकां कूटशाल्मलीम् ||८१||
एताश्चान्याश्च बह्वीः स यमस्य विषयं गतः |
यातनाः प्राप्य तत्रोग्रास्ततो वध्यति भारत ||८२||
संसारचक्रमासाद्य कृमियोनौ प्रजायते |
कृमिर्भवति वर्षाणि दश पञ्च च भारत ||८३||
ततो गर्भं समासाद्य तत्रैव म्रियते शिशुः ||८३||
ततो गर्भशतैर्जन्तुर्बहुभिः सम्प्रजायते |
संसारांश्च बहून्गत्वा ततस्तिर्यक्प्रजायते ||८४||
मृतो दुःखमनुप्राप्य बहुवर्षगणानिह |
अपुनर्भावसंयुक्तस्ततः कूर्मः प्रजायते ||८५||
अशस्त्रं पुरुषं हत्वा सशस्त्रः पुरुषाधमः |
अर्थार्थी यदि वा वैरी स मृतो जायते खरः ||८६||
खरो जीवति वर्षे द्वे ततः शस्त्रेण वध्यते |
स मृतो मृगयोनौ तु नित्योद्विग्नोऽभिजायते ||८७||
मृगो वध्यति शस्त्रेण गते संवत्सरे तु सः |
हतो मृगस्ततो मीनः सोऽपि जालेन बध्यते ||८८||
मासे चतुर्थे सम्प्राप्ते श्वापदः सम्प्रजायते |
श्वापदो दश वर्षाणि द्वीपी वर्षाणि पञ्च च ||८९||
ततस्तु निधनं प्राप्तः कालपर्यायचोदितः |
अधर्मस्य क्षयं कृत्वा ततो जायति मानुषः ||९०||
स्त्रियं हत्वा तु दुर्बुद्धिर्यमस्य विषयं गतः |
बहून्क्लेशान्समासाद्य संसारांश्चैव विंशतिम् ||९१||
ततः पश्चान्महाराज कृमियोनौ प्रजायते |
कृमिर्विंशतिवर्षाणि भूत्वा जायति मानुषः ||९२||
भोजनं चोरयित्वा तु मक्षिका जायते नरः |
मक्षिकासङ्घवशगो बहून्मासान्भवत्युत ||९३||
ततः पापक्षयं कृत्वा मानुषत्वमवाप्नुते ||९३||
वाद्यं हृत्वा तु पुरुषो मशकः सम्प्रजायते |
तथा पिण्याकसंमिश्रमशनं चोरयेन्नरः ||९४||
स जायते बभ्रुसमो दारुणो मूषको नरः ||९४||
लवणं चोरयित्वा तु चीरीवाकः प्रजायते |
दधि हृत्वा बकश्चापि प्लवो मत्स्यानसंस्कृतान् ||९५||
चोरयित्वा पयश्चापि बलाका सम्प्रजायते |
यस्तु चोरयते तैलं तैलपायी प्रजायते ||९६||
चोरयित्वा तु दुर्बुद्धिर्मधु दंशः प्रजायते ||९६||
अयो हृत्वा तु दुर्बुद्धिर्वायसो जायते नरः |
पायसं चोरयित्वा तु तित्तिरित्वमवाप्नुते ||९७||
हृत्वा पैष्टमपूपं च कुम्भोलूकः प्रजायते |
फलं वा मूलकं हृत्वा अपूपं वा पिपीलिकः ||९८||
कांस्यं हृत्वा तु दुर्बुद्धिर्हारीतो जायते नरः |
राजतं भाजनं हृत्वा कपोतः सम्प्रजायते ||९९||
हृत्वा तु काञ्चनं भाण्डं कृमियोनौ प्रजायते |
क्रौञ्चः कार्पासिकं हृत्वा मृतो जायति मानवः ||१००||
चोरयित्वा नरः पट्टं त्वाविकं वापि भारत |
क्षौमं च वस्त्रमादाय शशो जन्तुः प्रजायते ||१०१||
वर्णान्हृत्वा तु पुरुषो मृतो जायति बर्हिणः |
हृत्वा रक्तानि वस्त्राणि जायते जीवजीवकः ||१०२||
वर्णकादींस्तथा गन्धांश्चोरयित्वा तु मानवः |
छुच्छुन्दरित्वमाप्नोति राजँल्लोभपरायणः ||१०३||
विश्वासेन तु निक्षिप्तं यो निह्नवति मानवः |
स गतासुर्नरस्तादृङ्मत्स्ययोनौ प्रजायते ||१०४||
मत्स्ययोनिमनुप्राप्य मृतो जायति मानुषः |
मानुषत्वमनुप्राप्य क्षीणायुरुपपद्यते ||१०५||
पापानि तु नरः कृत्वा तिर्यग्जायति भारत |
न चात्मनः प्रमाणं ते धर्मं जानन्ति किञ्चन ||१०६||
ये पापानि नराः कृत्वा निरस्यन्ति व्रतैः सदा |
सुखदुःखसमायुक्ता व्याधितास्ते भवन्त्युत ||१०७||
असंवासाः प्रजायन्ते म्लेच्छाश्चापि न संशयः |
नराः पापसमाचारा लोभमोहसमन्विताः ||१०८||
वर्जयन्ति च पापानि जन्मप्रभृति ये नराः |
अरोगा रूपवन्तस्ते धनिनश्च भवन्त्युत ||१०९||
स्त्रियोऽप्येतेन कल्पेन कृत्वा पापमवाप्नुयुः |
एतेषामेव जन्तूनां पत्नीत्वमुपयान्ति ताः ||११०||
परस्वहरणे दोषाः सर्व एव प्रकीर्तिताः |
एतद्वै लेशमात्रेण कथितं ते मयानघ ||१११||
अपरस्मिन्कथायोगे भूयः श्रोष्यसि भारत ||१११||
एतन्मया महाराज ब्रह्मणो वदतः पुरा |
सुरर्षीणां श्रुतं मध्ये पृष्टश्चापि यथातथम् ||११२||
मयापि तव कार्त्स्न्येन यथावदनुवर्णितम् |
एतच्छ्रुत्वा महाराज धर्मे कुरु मनः सदा ||११३||
११३
युधिष्ठिर उवाच||
अधर्मस्य गतिर्ब्रह्मन्कथिता मे त्वयानघ |
धर्मस्य तु गतिं श्रोतुमिच्छामि वदतां वर ||१||
कृत्वा कर्माणि पापानि कथं यान्ति शुभां गतिम् ||१||
बृहस्पतिरुवाच||
कृत्वा पापानि कर्माणि अधर्मवशमागतः |
मनसा विपरीतेन निरयं प्रतिपद्यते ||२||
मोहादधर्मं यः कृत्वा पुनः समनुतप्यते |
मनःसमाधिसंयुक्तो न स सेवेत दुष्कृतम् ||३||
यथा यथा नरः सम्यगधर्ममनुभाषते |
समाहितेन मनसा विमुच्यति तथा तथा ||४||
भुजङ्ग इव निर्मोकात्पूर्वभुक्ताज्जरान्वितात् ||४||
अदत्त्वापि प्रदानानि विविधानि समाहितः |
मनःसमाधिसंयुक्तः सुगतिं प्रतिपद्यते ||५||
प्रदानानि तु वक्ष्यामि यानि दत्त्वा युधिष्ठिर |
नरः कृत्वाप्यकार्याणि तदा धर्मेण युज्यते ||६||
सर्वेषामेव दानानामन्नं श्रेष्ठमुदाहृतम् |
पूर्वमन्नं प्रदातव्यमृजुना धर्ममिच्छता ||७||
प्राणा ह्यन्नं मनुष्याणां तस्माज्जन्तुश्च जायते |
अन्ने प्रतिष्ठिता लोकास्तस्मादन्नं प्रकाशते ||८||
अन्नमेव प्रशंसन्ति देवर्षिपितृमानवाः |
अन्नस्य हि प्रदानेन स्वर्गमाप्नोति कौशिकः ||९||
न्यायलब्धं प्रदातव्यं द्विजेभ्यो ह्यन्नमुत्तमम् |
स्वाध्यायसमुपेतेभ्यः प्रहृष्टेनान्तरात्मना ||१०||
यस्य ह्यन्नमुपाश्नन्ति ब्राह्मणानां शता दश |
हृष्टेन मनसा दत्तं न स तिर्यग्गतिर्भवेत् ||११||
ब्राह्मणानां सहस्राणि दश भोज्य नरर्षभ |
नरोऽधर्मात्प्रमुच्येत पापेष्वभिरतः सदा ||१२||
भैक्षेणान्नं समाहृत्य विप्रो वेदपुरस्कृतः |
स्वाध्यायनिरते विप्रे दत्त्वेह सुखमेधते ||१३||
अहिंसन्ब्राह्मणं नित्यं न्यायेन परिपाल्य च |
क्षत्रियस्तरसा प्राप्तमन्नं यो वै प्रयच्छति ||१४||
द्विजेभ्यो वेदवृद्धेभ्यः प्रयतः सुसमाहितः |
तेनापोहति धर्मात्मा दुष्कृतं कर्म पाण्डव ||१५||
षड्भागपरिशुद्धं च कृषेर्भागमुपार्जितम् |
वैश्यो ददद्द्विजातिभ्यः पापेभ्यः परिमुच्यते ||१६||
अवाप्य प्राणसंदेहं कार्कश्येन समार्जितम् |
अन्नं दत्त्वा द्विजातिभ्यः शूद्रः पापात्प्रमुच्यते ||१७||
औरसेन बलेनान्नमर्जयित्वाविहिंसकः |
यः प्रयच्छति विप्रेभ्यो न स दुर्गाणि सेवते ||१८||
न्यायेनावाप्तमन्नं तु नरो लोभविवर्जितः |
द्विजेभ्यो वेदवृद्धेभ्यो दत्त्वा पापात्प्रमुच्यते ||१९||
अन्नमूर्जस्करं लोके दत्त्वोर्जस्वी भवेन्नरः |
सतां पन्थानमाश्रित्य सर्वपापात्प्रमुच्यते ||२०||
दानकृद्भिः कृतः पन्था येन यान्ति मनीषिणः |
ते स्म प्राणस्य दातारस्तेभ्यो धर्मः सनातनः ||२१||
सर्वावस्थं मनुष्येण न्यायेनान्नमुपार्जितम् |
कार्यं पात्रगतं नित्यमन्नं हि परमा गतिः ||२२||
अन्नस्य हि प्रदानेन नरो दुर्गं न सेवते |
तस्मादन्नं प्रदातव्यमन्यायपरिवर्जितम् ||२३||
यतेद्ब्राह्मणपूर्वं हि भोक्तुमन्नं गृही सदा |
अवन्ध्यं दिवसं कुर्यादन्नदानेन मानवः ||२४||
भोजयित्वा दशशतं नरो वेदविदां नृप |
न्यायविद्धर्मविदुषामितिहासविदां तथा ||२५||
न याति नरकं घोरं संसारांश्च न सेवते |
सर्वकामसमायुक्तः प्रेत्य चाप्यश्नुते फलम् ||२६||
एवं सुखसमायुक्तो रमते विगतज्वरः |
रूपवान्कीर्तिमांश्चैव धनवांश्चोपपद्यते ||२७||
एतत्ते सर्वमाख्यातमन्नदानफलं महत् |
मूलमेतद्धि धर्माणां प्रदानस्य च भारत ||२८||
११४
युधिष्ठिर उवाच||
अहिंसा वैदिकं कर्म ध्यानमिन्द्रियसंयमः |
तपोऽथ गुरुशुश्रूषा किं श्रेयः पुरुषं प्रति ||१||
बृहस्पतिरुवाच||
सर्वाण्येतानि धर्मस्य पृथग्द्वाराणि सर्वशः |
शृणु सङ्कीर्त्यमानानि षडेव भरतर्षभ ||२||
हन्त निःश्रेयसं जन्तोरहं वक्ष्याम्यनुत्तमम् |
अहिंसापाश्रयं धर्मं यः साधयति वै नरः ||३||
त्रीन्दोषान्सर्वभूतेषु निधाय पुरुषः सदा |
कामक्रोधौ च संयम्य ततः सिद्धिमवाप्नुते ||४||
अहिंसकानि भूतानि दण्डेन विनिहन्ति यः |
आत्मनः सुखमन्विच्छन्न स प्रेत्य सुखी भवेत् ||५||
आत्मोपमश्च भूतेषु यो वै भवति पूरुषः |
न्यस्तदण्डो जितक्रोधः स प्रेत्य सुखमेधते ||६||
सर्वभूतात्मभूतस्य सर्वभूतानि पश्यतः |
देवापि मार्गे मुह्यन्ति अपदस्य पदैषिणः ||७||
न तत्परस्य संदद्यात्प्रतिकूलं यदात्मनः |
एष सङ्क्षेपतो धर्मः कामादन्यः प्रवर्तते ||८||
प्रत्याख्याने च दाने च सुखदुःखे प्रियाप्रिये |
आत्मौपम्येन पुरुषः समाधिमधिगच्छति ||९||
यथा परः प्रक्रमतेऽपरेषु; तथापरः प्रक्रमते परस्मिन् |
एषैव तेऽस्तूपमा जीवलोके; यथा धर्मो नैपुणेनोपदिष्टः ||१०||
वैशम्पायन उवाच||
इत्युक्त्वा तं सुरगुरुर्धर्मराजं युधिष्ठिरम् |
दिवमाचक्रमे धीमान्पश्यतामेव नस्तदा ||११||
अहिंसाफलम्
११५
वैशम्पायन उवाच||
ततो युधिष्ठिरो राजा शरतल्पे पितामहम् |
पुनरेव महातेजाः पप्रच्छ वदतां वरम् ||१||
ऋषयो ब्राह्मणा देवाः प्रशंसन्ति महामते |
अहिंसालक्षणं धर्मं वेदप्रामाण्यदर्शनात् ||२||
कर्मणा मनुजः कुर्वन्हिंसां पार्थिवसत्तम |
वाचा च मनसा चैव कथं दुःखात्प्रमुच्यते ||३||
भीष्म उवाच||
चतुर्विधेयं निर्दिष्टा अहिंसा ब्रह्मवादिभिः |
एषैकतोऽपि विभ्रष्टा न भवत्यरिसूदन ||४||
यथा सर्वश्चतुष्पादस्त्रिभिः पादैर्न तिष्ठति |
तथैवेयं महीपाल प्रोच्यते कारणैस्त्रिभिः ||५||
यथा नागपदेऽन्यानि पदानि पदगामिनाम् |
सर्वाण्येवापिधीयन्ते पदजातानि कौञ्जरे ||६||
एवं लोकेष्वहिंसा तु निर्दिष्टा धर्मतः परा ||६||
कर्मणा लिप्यते जन्तुर्वाचा च मनसैव च |
पूर्वं तु मनसा त्यक्त्वा तथा वाचाथ कर्मणा |
त्रिकारणं तु निर्दिष्टं श्रूयते ब्रह्मवादिभिः ||८||
मनोवाचि तथास्वादे दोषा ह्येषु प्रतिष्ठिताः |
न भक्षयन्त्यतो मांसं तपोयुक्ता मनीषिणः ||९||
दोषांस्तु भक्षणे राजन्मांसस्येह निबोध मे |
पुत्रमांसोपमं जानन्खादते यो विचेतनः ||१०||
मातापितृसमायोगे पुत्रत्वं जायते यथा |
रसं च प्रति जिह्वायाः प्रज्ञानं जायते तथा ||११||
तथा शास्त्रेषु नियतं रागो ह्यास्वादिताद्भवेत् ||११||
असंस्कृताः संस्कृताश्च लवणालवणास्तथा |
प्रज्ञायन्ते यथा भावास्तथा चित्तं निरुध्यते ||१२||
भेरीशङ्खमृदङ्गाद्यांस्तन्त्रीशब्दांश्च पुष्कलान् |
निषेविष्यन्ति वै मन्दा मांसभक्षाः कथं नराः ||१३||
अचिन्तितमनुद्दिष्टमसङ्कल्पितमेव च |
रसं गृद्ध्याभिभूता वै प्रशंसन्ति फलार्थिनः ||१४||
प्रशंसा ह्येव मांसस्य दोषकर्मफलान्विता ||१४||
जीवितं हि परित्यज्य बहवः साधवो जनाः |
स्वमांसैः परमांसानि परिपाल्य दिवं गताः ||१५||
एवमेषा महाराज चतुर्भिः कारणैर्वृता |
अहिंसा तव निर्दिष्टा सर्वधर्मार्थसंहिता ||१६||
११६
युधिष्ठिर उवाच||
अहिंसा परमो धर्म इत्युक्तं बहुशस्त्वया |
श्राद्धेषु च भवानाह पितॄनामिषकाङ्क्षिणः ||१||
मांसैर्बहुविधैः प्रोक्तस्त्वया श्राद्धविधिः पुरा |
अहत्वा च कुतो मांसमेवमेतद्विरुध्यते ||२||
जातो नः संशयो धर्मे मांसस्य परिवर्जने |
दोषो भक्षयतः कः स्यात्कश्चाभक्षयतो गुणः ||३||
हत्वा भक्षयतो वापि परेणोपहृतस्य वा |
हन्याद्वा यः परस्यार्थे क्रीत्वा वा भक्षयेन्नरः ||४||
एतदिच्छामि तत्त्वेन कथ्यमानं त्वयानघ |
निश्चयेन चिकीर्षामि धर्ममेतं सनातनम् ||५||
कथमायुरवाप्नोति कथं भवति सत्त्ववान् |
कथमव्यङ्गतामेति लक्षण्यो जायते कथम् ||६||
भीष्म उवाच||
मांसस्य भक्षणे राजन्योऽधर्मः कुरुपुङ्गव |
तं मे शृणु यथातत्त्वं यश्चास्य विधिरुत्तमः ||७||
रूपमव्यङ्गतामायुर्बुद्धिं सत्त्वं बलं स्मृतिम् |
प्राप्तुकामैर्नरैर्हिंसा वर्जिता वै कृतात्मभिः ||८||
ऋषीणामत्र संवादो बहुशः कुरुपुङ्गव |
बभूव तेषां तु मतं यत्तच्छृणु युधिष्ठिर ||९||
यो यजेताश्वमेधेन मासि मासि यतव्रतः |
वर्जयेन्मधु मांसं च सममेतद्युधिष्ठिर ||१०||
सप्तर्षयो वालखिल्यास्तथैव च मरीचिपाः |
अमांसभक्षणं राजन्प्रशंसन्ति मनीषिणः ||११||
न भक्षयति यो मांसं न हन्यान्न च घातयेत् |
तं मित्रं सर्वभूतानां मनुः स्वायम्भुवोऽब्रवीत् ||१२||
अधृष्यः सर्वभूतानां विश्वास्यः सर्वजन्तुषु |
साधूनां संमतो नित्यं भवेन्मांसस्य वर्जनात् ||१३||
स्वमांसं परमांसेन यो वर्धयितुमिच्छति |
नारदः प्राह धर्मात्मा नियतं सोऽवसीदति ||१४||
ददाति यजते चापि तपस्वी च भवत्यपि |
मधुमांसनिवृत्त्येति प्राहैवं स बृहस्पतिः ||१५||
मासि मास्यश्वमेधेन यो यजेत शतं समाः |
न खादति च यो मांसं सममेतन्मतं मम ||१६||
सदा यजति सत्रेण सदा दानं प्रयच्छति |
सदा तपस्वी भवति मधुमांसस्य वर्जनात् ||१७||
सर्वे वेदा न तत्कुर्युः सर्वयज्ञाश्च भारत |
यो भक्षयित्वा मांसानि पश्चादपि निवर्तते ||१८||
दुष्करं हि रसज्ञेन मांसस्य परिवर्जनम् |
चर्तुं व्रतमिदं श्रेष्ठं सर्वप्राण्यभयप्रदम् ||१९||
सर्वभूतेषु यो विद्वान्ददात्यभयदक्षिणाम् |
दाता भवति लोके स प्राणानां नात्र संशयः ||२०||
एवं वै परमं धर्मं प्रशंसन्ति मनीषिणः |
प्राणा यथात्मनोऽभीष्टा भूतानामपि ते तथा ||२१||
आत्मौपम्येन गन्तव्यं बुद्धिमद्भिर्महात्मभिः |
मृत्युतो भयमस्तीति विदुषां भूतिमिच्छताम् ||२२||
किं पुनर्हन्यमानानां तरसा जीवितार्थिनाम् |
अरोगाणामपापानां पापैर्मांसोपजीविभिः ||२३||
तस्माद्विद्धि महाराज मांसस्य परिवर्जनम् |
धर्मस्यायतनं श्रेष्ठं स्वर्गस्य च सुखस्य च ||२४||
अहिंसा परमो धर्मस्तथाहिंसा परं तपः |
अहिंसा परमं सत्यं ततो धर्मः प्रवर्तते ||२५||
न हि मांसं तृणात्काष्ठादुपलाद्वापि जायते |
हत्वा जन्तुं ततो मांसं तस्माद्दोषोऽस्य भक्षणे ||२६||
स्वाहास्वधामृतभुजो देवाः सत्यार्जवप्रियाः |
क्रव्यादान्राक्षसान्विद्धि जिह्मानृतपरायणान् ||२७||
कान्तारेष्वथ घोरेषु दुर्गेषु गहनेषु च |
रात्रावहनि सन्ध्यासु चत्वरेषु सभासु च ||२८||
अमांसभक्षणे राजन्भयमन्ते न गच्छति ||२८||
यदि चेत्खादको न स्यान्न तदा घातको भवेत् |
घातकः खादकार्थाय तं घातयति वै नरः ||२९||
अभक्ष्यमेतदिति वा इति हिंसा निवर्तते |
खादकार्थमतो हिंसा मृगादीनां प्रवर्तते ||३०||
यस्माद्ग्रसति चैवायुर्हिंसकानां महाद्युते |
तस्माद्विवर्जयेन्मांसं य इच्छेद्भूतिमात्मनः ||३१||
त्रातारं नाधिगच्छन्ति रौद्राः प्राणिविहिंसकाः |
उद्वेजनीया भूतानां यथा व्यालमृगास्तथा ||३२||
लोभाद्वा बुद्धिमोहाद्वा बलवीर्यार्थमेव च |
संसर्गाद्वाथ पापानामधर्मरुचिता नृणाम् ||३३||
स्वमांसं परमांसेन यो वर्धयितुमिच्छति |
उद्विग्नवासे वसति यत्रतत्राभिजायते ||३४||
धन्यं यशस्यमायुष्यं स्वर्ग्यं स्वस्त्ययनं महत् |
मांसस्याभक्षणं प्राहुर्नियताः परमर्षयः ||३५||
इदं तु खलु कौन्तेय श्रुतमासीत्पुरा मया |
मार्कण्डेयस्य वदतो ये दोषा मांसभक्षणे ||३६||
यो हि खादति मांसानि प्राणिनां जीवितार्थिनाम् |
हतानां वा मृतानां वा यथा हन्ता तथैव सः ||३७||
धनेन क्रायको हन्ति खादकश्चोपभोगतः |
घातको वधबन्धाभ्यामित्येष त्रिविधो वधः ||३८||
अखादन्ननुमोदंश्च भावदोषेण मानवः |
योऽनुमन्येत हन्तव्यं सोऽपि दोषेण लिप्यते ||३९||
अधृष्यः सर्वभूतानामायुष्मान्नीरुजः सुखी |
भवत्यभक्षयन्मांसं दयावान्प्राणिनामिह ||४०||
हिरण्यदानैर्गोदानैर्भूमिदानैश्च सर्वशः |
मांसस्याभक्षणे धर्मो विशिष्टः स्यादिति श्रुतिः ||४१||
अप्रोक्षितं वृथामांसं विधिहीनं न भक्षयेत् |
भक्षयन्निरयं याति नरो नास्त्यत्र संशयः ||४२||
प्रोक्षिताभ्युक्षितं मांसं तथा ब्राह्मणकाम्यया |
अल्पदोषमिह ज्ञेयं विपरीते तु लिप्यते ||४३||
खादकस्य कृते जन्तुं यो हन्यात्पुरुषाधमः |
महादोषकरस्तत्र खादको न तु घातकः ||४४||
इज्यायज्ञश्रुतिकृतैर्यो मार्गैरबुधो जनः |
हन्याज्जन्तुं मांसगृद्ध्री स वै नरकभाङ्नरः ||४५||
भक्षयित्वा तु यो मांसं पश्चादपि निवर्तते |
तस्यापि सुमहान्धर्मो यः पापाद्विनिवर्तते ||४६||
आहर्ता चानुमन्ता च विशस्ता क्रयविक्रयी |
संस्कर्ता चोपभोक्ता च घातकाः सर्व एव ते ||४७||
इदमन्यत्तु वक्ष्यामि प्रमाणं विधिनिर्मितम् |
पुराणमृषिभिर्जुष्टं वेदेषु परिनिश्चितम् ||४८||
प्रवृत्तिलक्षणे धर्मे फलार्थिभिरभिद्रुते |
यथोक्तं राजशार्दूल न तु तन्मोक्षकाङ्क्षिणाम् ||४९||
हविर्यत्संस्कृतं मन्त्रैः प्रोक्षिताभ्युक्षितं शुचि |
वेदोक्तेन प्रमाणेन पितॄणां प्रक्रियासु च ||५०||
अतोऽन्यथा वृथामांसमभक्ष्यं मनुरब्रवीत् ||५०||
अस्वर्ग्यमयशस्यं च रक्षोवद्भरतर्षभ |
विधिना हि नराः पूर्वं मांसं राजन्नभक्षयन् ||५१||
य इच्छेत्पुरुषोऽत्यन्तमात्मानं निरुपद्रवम् |
स वर्जयेत मांसानि प्राणिनामिह सर्वशः ||५२||
श्रूयते हि पुराकल्पे नृणां व्रीहिमयः पशुः |
येनायजन्त यज्वानः पुण्यलोकपरायणाः ||५३||
ऋषिभिः संशयं पृष्टो वसुश्चेदिपतिः पुरा |
अभक्ष्यमिति मांसं स प्राह भक्ष्यमिति प्रभो ||५४||
आकाशान्मेदिनीं प्राप्तस्ततः स पृथिवीपतिः |
एतदेव पुनश्चोक्त्वा विवेश धरणीतलम् ||५५||
प्रजानां हितकामेन त्वगस्त्येन महात्मना |
आरण्याः सर्वदैवत्याः प्रोक्षितास्तपसा मृगाः ||५६||
क्रिया ह्येवं न हीयन्ते पितृदैवतसंश्रिताः |
प्रीयन्ते पितरश्चैव न्यायतो मांसतर्पिताः ||५७||
इदं तु शृणु राजेन्द्र कीर्त्यमानं मयानघ |
अभक्षणे सर्वसुखं मांसस्य मनुजाधिप ||५८||
यस्तु वर्षशतं पूर्णं तपस्तप्येत्सुदारुणम् |
यश्चैकं वर्जयेन्मांसं सममेतन्मतं मम ||५९||
कौमुदे तु विशेषेण शुक्लपक्षे नराधिप |
वर्जयेत्सर्वमांसानि धर्मो ह्यत्र विधीयते ||६०||
चतुरो वार्षिकान्मासान्यो मांसं परिवर्जयेत् |
चत्वारि भद्राण्याप्नोति कीर्तिमायुर्यशो बलम् ||६१||
अथ वा मासमप्येकं सर्वमांसान्यभक्षयन् |
अतीत्य सर्वदुःखानि सुखी जीवेन्निरामयः ||६२||
ये वर्जयन्ति मांसानि मासशः पक्षशोऽपि वा |
तेषां हिंसानिवृत्तानां ब्रह्मलोको विधीयते ||६३||
मांसं तु कौमुदं पक्षं वर्जितं पार्थ राजभिः |
सर्वभूतात्मभूतैस्तैर्विज्ञातार्थपरावरैः ||६४||
नाभागेनाम्बरीषेण गयेन च महात्मना |
आयुषा चानरण्येन दिलीपरघुपूरुभिः ||६५||
कार्तवीर्यानिरुद्धाभ्यां नहुषेण ययातिना |
नृगेण विष्वगश्वेन तथैव शशबिन्दुना ||६६||
युवनाश्वेन च तथा शिबिनौशीनरेण च ||६६||
श्येनचित्रेण राजेन्द्र सोमकेन वृकेण च |
रैवतेन रन्तिदेवेन वसुना सृञ्जयेन च ||६७||
दुःषन्तेन करूषेण रामालर्कनलैस्तथा |
विरूपाश्वेन निमिना जनकेन च धीमता ||६८||
सिलेन पृथुना चैव वीरसेनेन चैव ह |
इक्ष्वाकुणा शम्भुना च श्वेतेन सगरेण च ||६९||
एतैश्चान्यैश्च राजेन्द्र पुरा मांसं न भक्षितम् |
शारदं कौमुदं मासं ततस्ते स्वर्गमाप्नुवन् ||७०||
ब्रह्मलोके च तिष्ठन्ति ज्वलमानाः श्रियान्विताः |
उपास्यमाना गन्धर्वैः स्त्रीसहस्रसमन्विताः ||७१||
तदेतदुत्तमं धर्ममहिंसालक्षणं शुभम् |
ये चरन्ति महात्मानो नाकपृष्ठे वसन्ति ते ||७२||
मधु मांसं च ये नित्यं वर्जयन्तीह धार्मिकाः |
जन्मप्रभृति मद्यं च सर्वे ते मुनयः स्मृताः ||७३||
विशिष्टतां ज्ञातिषु च लभन्ते नात्र संशयः ||७३||
आपन्नश्चापदो मुच्येद्बद्धो मुच्येत बन्धनात् |
मुच्येत्तथातुरो रोगाद्दुःखान्मुच्येत दुःखितः ||७४||
तिर्यग्योनिं न गच्छेत रूपवांश्च भवेन्नरः |
बुद्धिमान्वै कुरुश्रेष्ठ प्राप्नुयाच्च महद्यशः ||७५||
एतत्ते कथितं राजन्मांसस्य परिवर्जने |
प्रवृत्तौ च निवृत्तौ च विधानमृषिनिर्मितम् ||७६||
११७
युधिष्ठिर उवाच||
इमे वै मानवा लोके भृशं मांसस्य गृद्धिनः |
विसृज्य भक्षान्विविधान्यथा रक्षोगणास्तथा ||१||
नापूपान्विविधाकाराञ्शाकानि विविधानि च |
षाडवान्रसयोगांश्च तथेच्छन्ति यथामिषम् ||२||
तत्र मे बुद्धिरत्रैव विसर्गे परिमुह्यते |
न मन्ये रसतः किञ्चिन्मांसतोऽस्तीह किञ्चन ||३||
तदिच्छामि गुणाञ्श्रोतुं मांसस्याभक्षणेऽपि वा |
भक्षणे चैव ये दोषास्तांश्चैव पुरुषर्षभ ||४||
सर्वं तत्त्वेन धर्मज्ञ यथावदिह धर्मतः |
किं वा भक्ष्यमभक्ष्यं वा सर्वमेतद्वदस्व मे ||५||
भीष्म उवाच||
एवमेतन्महाबाहो यथा वदसि भारत |
न मांसात्परमत्रान्यद्रसतो विद्यते भुवि ||६||
क्षतक्षीणाभितप्तानां ग्राम्यधर्मरताश्च ये |
अध्वना कर्शितानां च न मांसाद्विद्यते परम् ||७||
सद्यो वर्धयति प्राणान्पुष्टिमग्र्यां ददाति च |
न भक्षोऽभ्यधिकः कश्चिन्मांसादस्ति परन्तप ||८||
विवर्जने तु बहवो गुणाः कौरवनन्दन |
ये भवन्ति मनुष्याणां तान्मे निगदतः शृणु ||९||
स्वमांसं परमांसैर्यो विवर्धयितुमिच्छति |
नास्ति क्षुद्रतरस्तस्मान्न नृशंसतरो नरः ||१०||
न हि प्राणात्प्रियतरं लोके किञ्चन विद्यते |
तस्माद्दयां नरः कुर्याद्यथात्मनि तथा परे ||११||
शुक्राच्च तात सम्भूतिर्मांसस्येह न संशयः |
भक्षणे तु महान्दोषो वधेन सह कल्पते ||१२||
अहिंसालक्षणो धर्म इति वेदविदो विदुः |
यदहिंस्रं भवेत्कर्म तत्कुर्यादात्मवान्नरः ||१३||
पितृदैवतयज्ञेषु प्रोक्षितं हविरुच्यते |
विधिना वेददृष्टेन तद्भुक्त्वेह न दुष्यति ||१४||
यज्ञार्थे पशवः सृष्टा इत्यपि श्रूयते श्रुतिः |
अतोऽन्यथा प्रवृत्तानां राक्षसो विधिरुच्यते ||१५||
क्षत्रियाणां तु यो दृष्टो विधिस्तमपि मे शृणु |
वीर्येणोपार्जितं मांसं यथा खादन्न दुष्यति ||१६||
आरण्याः सर्वदैवत्याः प्रोक्षिताः सर्वशो मृगाः |
अगस्त्येन पुरा राजन्मृगया येन पूज्यते ||१७||
नात्मानमपरित्यज्य मृगया नाम विद्यते |
समतामुपसङ्गम्य रूपं हन्यान्न वा नृप ||१८||
अतो राजर्षयः सर्वे मृगयां यान्ति भारत |
लिप्यन्ते न हि दोषेण न चैतत्पातकं विदुः ||१९||
न हि तत्परमं किञ्चिदिह लोके परत्र च |
यत्सर्वेष्विह लोकेषु दया कौरवनन्दन ||२०||
न भयं विद्यते जातु नरस्येह दयावतः |
दयावतामिमे लोकाः परे चापि तपस्विनाम् ||२१||
अभयं सर्वभूतेभ्यो यो ददाति दयापरः |
अभयं तस्य भूतानि ददतीत्यनुशुश्रुमः ||२२||
क्षतं च स्खलितं चैव पतितं क्लिष्टमाहतम् |
सर्वभूतानि रक्षन्ति समेषु विषमेषु च ||२३||
नैनं व्यालमृगा घ्नन्ति न पिशाचा न राक्षसाः |
मुच्यन्ते भयकालेषु मोक्षयन्ति च ये परान् ||२४||
प्राणदानात्परं दानं न भूतं न भविष्यति |
न ह्यात्मनः प्रियतरः कश्चिदस्तीति निश्चितम् ||२५||
अनिष्टं सर्वभूतानां मरणं नाम भारत |
मृत्युकाले हि भूतानां सद्यो जायति वेपथुः ||२६||
जातिजन्मजरादुःखे नित्यं संसारसागरे |
जन्तवः परिवर्तन्ते मरणादुद्विजन्ति च ||२७||
गर्भवासेषु पच्यन्ते क्षाराम्लकटुकै रसैः |
मूत्रश्लेष्मपुरीषाणां स्पर्शैश्च भृशदारुणैः ||२८||
जाताश्चाप्यवशास्तत्र भिद्यमानाः पुनः पुनः |
पाट्यमानाश्च दृश्यन्ते विवशा मांसगृद्धिनः ||२९||
कुम्भीपाके च पच्यन्ते तां तां योनिमुपागताः |
आक्रम्य मार्यमाणाश्च भ्राम्यन्ते वै पुनः पुनः ||३०||
नात्मनोऽस्ति प्रियतरः पृथिव्यामनुसृत्य ह |
तस्मात्प्राणिषु सर्वेषु दयावानात्मवान्भवेत् ||३१||
सर्वमांसानि यो राजन्यावज्जीवं न भक्षयेत् |
स्वर्गे स विपुलं स्थानं प्राप्नुयान्नात्र संशयः ||३२||
ये भक्षयन्ति मांसानि भूतानां जीवितैषिणाम् |
भक्ष्यन्ते तेऽपि तैर्भूतैरिति मे नास्ति संशयः ||३३||
मां स भक्षयते यस्माद्भक्षयिष्ये तमप्यहम् |
एतन्मांसस्य मांसत्वमतो बुध्यस्व भारत ||३४||
घातको वध्यते नित्यं तथा वध्येत बन्धकः |
आक्रोष्टाक्रुश्यते राजन्द्वेष्टा द्वेष्यत्वमाप्नुते ||३५||
येन येन शरीरेण यद्यत्कर्म करोति यः |
तेन तेन शरीरेण तत्तत्फलमुपाश्नुते ||३६||
अहिंसा परमो धर्मस्तथाहिंसा परो दमः |
अहिंसा परमं दानमहिंसा परमं तपः ||३७||
अहिंसा परमो यज्ञस्तथाहिंसा परं बलम् |
अहिंसा परमं मित्रमहिंसा परमं सुखम् ||३८||
अहिंसा परमं सत्यमहिंसा परमं श्रुतम् ||३८||
सर्वयज्ञेषु वा दानं सर्वतीर्थेषु चाप्लुतम् |
सर्वदानफलं वापि नैतत्तुल्यमहिंसया ||३९||
अहिंस्रस्य तपोऽक्षय्यमहिंस्रो यजते सदा |
अहिंस्रः सर्वभूतानां यथा माता यथा पिता ||४०||
एतत्फलमहिंसाया भूयश्च कुरुपुङ्गव |
न हि शक्या गुणा वक्तुमिह वर्षशतैरपि ||४१||
कीटोपाख्यानम्
११८
युधिष्ठिर उवाच||
अकामाश्च सकामाश्च हता येऽस्मिन्महाहवे |
कां योनिं प्रतिपन्नास्ते तन्मे ब्रूहि पितामह ||१||
दुःखं प्राणपरित्यागः पुरुषाणां महामृधे |
जानामि तत्त्वं धर्मज्ञ प्राणत्यागं सुदुष्करम् ||२||
समृद्धे वासमृद्धे वा शुभे वा यदि वाशुभे |
कारणं तत्र मे ब्रूहि सर्वज्ञो ह्यसि मे मतः ||३||
भीष्म उवाच||
समृद्धे वासमृद्धे वा शुभे वा यदि वाशुभे |
संसारेऽस्मिन्समाजाताः प्राणिनः पृथिवीपते ||४||
निरता येन भावेन तत्र मे शृणु कारणम् |
सम्यक्चायमनुप्रश्नस्त्वयोक्तश्च युधिष्ठिर ||५||
अत्र ते वर्तयिष्यामि पुरावृत्तमिदं नृप |
द्वैपायनस्य संवादं कीटस्य च युधिष्ठिर ||६||
ब्रह्मभूतश्चरन्विप्रः कृष्णद्वैपायनः पुरा |
ददर्श कीटं धावन्तं शीघ्रं शकटवर्त्मनि ||७||
गतिज्ञः सर्वभूतानां रुतज्ञश्च शरीरिणाम् |
सर्वज्ञः सर्वतो दृष्ट्वा कीटं वचनमब्रवीत् ||८||
कीट सन्त्रस्तरूपोऽसि त्वरितश्चैव लक्ष्यसे |
क्व धावसि तदाचक्ष्व कुतस्ते भयमागतम् ||९||
कीट उवाच||
शकटस्यास्य महतो घोषं श्रुत्वा भयं मम |
आगतं वै महाबुद्धे स्वन एष हि दारुणः ||१०||
श्रूयते न स मां हन्यादिति तस्मादपाक्रमे ||१०||
श्वसतां च शृणोम्येवं गोपुत्राणां प्रचोद्यताम् |
वहतां सुमहाभारं संनिकर्षे स्वनं प्रभो ||११||
नृणां च संवाहयतां श्रूयते विविधः स्वनः ||११||
सोढुमस्मद्विधेनैष न शक्यः कीटयोनिना |
तस्मादपक्रमाम्येष भयादस्मात्सुदारुणात् ||१२||
दुःखं हि मृत्युर्भूतानां जीवितं च सुदुर्लभम् |
अतो भीतः पलायामि गच्छेयं नासुखं सुखात् ||१३||
भीष्म उवाच||
इत्युक्तः स तु तं प्राह कुतः कीट सुखं तव |
मरणं ते सुखं मन्ये तिर्यग्योनौ हि वर्तसे ||१४||
शब्दं स्पर्शं रसं गन्धं भोगांश्चोच्चावचान्बहून् |
नाभिजानासि कीट त्वं श्रेयो मरणमेव ते ||१५||
कीट उवाच||
सर्वत्र निरतो जीव इतीहापि सुखं मम |
चेतयामि महाप्राज्ञ तस्मादिच्छामि जीवितुम् ||१६||
इहापि विषयः सर्वो यथादेहं प्रवर्तितः |
मानुषास्तिर्यगाश्चैव पृथग्भोगा विशेषतः ||१७||
अहमासं मनुष्यो वै शूद्रो बहुधनः पुरा |
अब्रह्मण्यो नृशंसश्च कदर्यो वृद्धिजीवनः ||१८||
वाक्तीक्ष्णो निकृतिप्रज्ञो मोष्टा विश्वस्य सर्वशः |
मिथःकृतोऽपनिधनः परस्वहरणे रतः ||१९||
भृत्यातिथिजनश्चापि गृहे पर्युषितो मया |
मात्सर्यात्स्वादुकामेन नृशंसेन बुभूषता ||२०||
देवार्थं पितृयज्ञार्थमन्नं श्रद्धाकृतं मया |
न दत्तमर्थकामेन देयमन्नं पुनाति ह ||२१||
गुप्तं शरणमाश्रित्य भयेषु शरणागताः |
अकस्मान्नो भयात्त्यक्ता न च त्राताभयैषिणः ||२२||
धनं धान्यं प्रियान्दारान्यानं वासस्तथाद्भुतम् |
श्रियं दृष्ट्वा मनुष्याणामसूयामि निरर्थकम् ||२३||
ईर्ष्युः परसुखं दृष्ट्वा आतताय्यबुभूषकः |
त्रिवर्गहन्ता चान्येषामात्मकामानुवर्तकः ||२४||
नृशंसगुणभूयिष्ठं पुरा कर्म कृतं मया |
स्मृत्वा तदनुतप्येऽहं त्यक्त्वा प्रियमिवात्मजम् ||२५||
शुभानामपि जानामि कृतानां कर्मणां फलम् |
माता च पूजिता वृद्धा ब्राह्मणश्चार्चितो मया ||२६||
सकृज्जातिगुणोपेतः सङ्गत्या गृहमागतः |
अतिथिः पूजितो ब्रह्मंस्तेन मां नाजहात्स्मृतिः ||२७||
कर्मणा तेन चैवाहं सुखाशामिह लक्षये |
तच्छ्रोतुमहमिच्छामि त्वत्तः श्रेयस्तपोधन ||२८||
११९
व्यास उवाच||
शुभेन कर्मणा यद्वै तिर्यग्योनौ न मुह्यसे |
ममैव कीट तत्कर्म येन त्वं न प्रमुह्यसे ||१||
अहं हि दर्शनादेव तारयामि तपोबलात् |
तपोबलाद्धि बलवद्बलमन्यन्न विद्यते ||२||
जानामि पापैः स्वकृतैर्गतं त्वां कीट कीटताम् |
अवाप्स्यसि परं धर्मं धर्मस्थो यदि मन्यसे ||३||
कर्म भूमिकृतं देवा भुञ्जते तिर्यगाश्च ये |
धर्मादपि मनुष्येषु कामोऽर्थश्च यथा गुणैः ||४||
वाग्बुद्धिपाणिपादैश्चाप्युपेतस्य विपश्चितः |
किं हीयते मनुष्यस्य मन्दस्यापि हि जीवतः ||५||
जीवन्हि कुरुते पूजां विप्राग्र्यः शशिसूर्ययोः |
ब्रुवन्नपि कथां पुण्यां तत्र कीट त्वमेष्यसि ||६||
गुणभूतानि भूतानि तत्र त्वमुपभोक्ष्यसे |
तत्र तेऽहं विनेष्यामि ब्रह्मत्वं यत्र चेच्छसि ||७||
स तथेति प्रतिश्रुत्य कीटो वर्त्मन्यतिष्ठत |
तमृषिं द्रष्टुमगमत्सर्वास्वन्यासु योनिषु ||८||
श्वाविद्गोधावराहाणां तथैव मृगपक्षिणाम् |
श्वपाकवैश्यशूद्राणां क्षत्रियाणां च योनिषु ||९||
स कीटेत्येवमाभाष्य ऋषिणा सत्यवादिना |
प्रतिस्मृत्याथ जग्राह पादौ मूर्ध्ना कृताञ्जलिः ||१०||
कीट उवाच||
इदं तदतुलं स्थानमीप्सितं दशभिर्गुणैः |
यदहं प्राप्य कीटत्वमागतो राजपुत्रताम् ||११||
वहन्ति मामतिबलाः कुञ्जरा हेममालिनः |
स्यन्दनेषु च काम्बोजा युक्ताः परमवाजिनः ||१२||
उष्ट्राश्वतरयुक्तानि यानानि च वहन्ति माम् |
सबान्धवः सहामात्यश्चाश्नामि पिशितौदनम् ||१३||
गृहेषु सुनिवासेषु सुखेषु शयनेषु च |
परार्ध्येषु महाभाग स्वपामीह सुपूजितः ||१४||
सर्वेष्वपररात्रेषु सूतमागधबन्दिनः |
स्तुवन्ति मां यथा देवं महेन्द्रं प्रियवादिनः ||१५||
प्रसादात्सत्यसन्धस्य भवतोऽमिततेजसः |
यदहं कीटतां प्राप्य सम्प्राप्तो राजपुत्रताम् ||१६||
नमस्तेऽस्तु महाप्राज्ञ किं करोमि प्रशाधि माम् |
त्वत्तपोबलनिर्दिष्टमिदं ह्यधिगतं मया ||१७||
व्यास उवाच||
अर्चितोऽहं त्वया राजन्वाग्भिरद्य यदृच्छया |
अद्य ते कीटतां प्राप्य स्मृतिर्जाताजुगुप्सिता ||१८||
न तु नाशोऽस्ति पापस्य यत्त्वयोपचितं पुरा |
शूद्रेणार्थप्रधानेन नृशंसेनाततायिना ||१९||
मम ते दर्शनं प्राप्तं तच्चैव सुकृतं पुरा |
तिर्यग्योनौ स्म जातेन मम चाप्यर्चनात्तथा ||२०||
इतस्त्वं राजपुत्रत्वाद्ब्राह्मण्यं समवाप्स्यसि |
गोब्राह्मणकृते प्राणान्हुत्वात्मीयान्रणाजिरे ||२१||
राजपुत्रसुखं प्राप्य ऋतूंश्चैवाप्तदक्षिणान् |
अथ मोदिष्यसे स्वर्गे ब्रह्मभूतोऽव्ययः सुखी ||२२||
तिर्यग्योन्याः शूद्रतामभ्युपैति; शूद्रो वैश्यत्वं क्षत्रियत्वं च वैश्यः |
वृत्तश्लाघी क्षत्रियो ब्राह्मणत्वं; स्वर्गं पुण्यं ब्राह्मणः साधुवृत्तः ||२३||
१२०
भीष्म उवाच||
क्षत्रधर्ममनुप्राप्तः स्मरन्नेव स वीर्यवान् |
त्यक्त्वा स कीटतां राजंश्चचार विपुलं तपः ||१||
तस्य धर्मार्थविदुषो दृष्ट्वा तद्विपुलं तपः |
आजगाम द्विजश्रेष्ठः कृष्णद्वैपायनस्तदा ||२||
व्यास उवाच||
क्षात्रं चैव व्रतं कीट भूतानां परिपालनम् |
क्षात्रं चैव व्रतं ध्यायंस्ततो विप्रत्वमेष्यसि ||३||
पाहि सर्वाः प्रजाः सम्यक्षुभाशुभविदात्मवान् |
शुभैः संविभजन्कामैरशुभानां च पावनैः ||४||
आत्मवान्भव सुप्रीतः स्वधर्मचरणे रतः |
क्षात्रीं तनुं समुत्सृज्य ततो विप्रत्वमेष्यसि ||५||
भीष्म उवाच||
सोऽथारण्यमभिप्रेत्य पुनरेव युधिष्ठिर |
महर्षेर्वचनं श्रुत्वा प्रजा धर्मेण पाल्य च ||६||
अचिरेणैव कालेन कीटः पार्थिवसत्तम |
प्रजापालनधर्मेण प्रेत्य विप्रत्वमागतः ||७||
ततस्तं ब्राह्मणं दृष्ट्वा पुनरेव महायशाः |
आजगाम महाप्राज्ञः कृष्णद्वैपायनस्तदा ||८||
व्यास उवाच||
भो भो विप्रर्षभ श्रीमन्मा व्यथिष्ठाः कथञ्चन |
शुभकृच्छुभयोनीषु पापकृत्पापयोनिषु ||९||
उपपद्यति धर्मज्ञ यथाधर्मं यथागमम् ||९||
तस्मान्मृत्युभयात्कीट मा व्यथिष्ठाः कथञ्चन |
धर्मलोपाद्भयं ते स्यात्तस्माद्धर्मं चरोत्तमम् ||१०||
कीट उवाच||
सुखात्सुखतरं प्राप्तो भगवंस्त्वत्कृते ह्यहम् |
धर्ममूलां श्रियं प्राप्य पाप्मा नष्ट इहाद्य मे ||११||
भीष्म उवाच||
भगवद्वचनात्कीटो ब्राह्मण्यं प्राप्य दुर्लभम् |
अकरोत्पृथिवीं राजन्यज्ञयूपशताङ्किताम् ||१२||
ततः सालोक्यमगमद्ब्रह्मणो ब्रह्मवित्तमः ||१२||
अवाप च परं कीटः पार्थ ब्रह्म सनातनम् |
स्वकर्मफलनिर्वृत्तं व्यासस्य वचनात्तदा ||१३||
तेऽपि यस्मात्स्वभावेन हताः क्षत्रियपुङ्गवाः |
सम्प्राप्तास्ते गतिं पुण्यां तस्मान्मा शोच पुत्रक ||१४||
मैत्रेयभिक्षा
१२१
युधिष्ठिर उवाच||
विद्या तपश्च दानं च किमेतेषां विशिष्यते |
पृच्छामि त्वा सतां श्रेष्ठ तन्मे ब्रूहि पितामह ||१||
भीष्म उवाच||
अत्राप्युदाहरन्तीममितिहासं पुरातनम् |
मैत्रेयस्य च संवादं कृष्णद्वैपायनस्य च ||२||
कृष्णद्वैपायनो राजन्नज्ञातचरितं चरन् |
वाराणस्यामुपातिष्ठन्मैत्रेयं स्वैरिणीकुले ||३||
तमुपस्थितमासीनं ज्ञात्वा स मुनिसत्तमम् |
अर्चित्वा भोजयामास मैत्रेयोऽशनमुत्तमम् ||४||
तदन्नमुत्तमं भुक्त्वा गुणवत्सार्वकामिकम् |
प्रतिष्ठमानोऽस्मयत प्रीतः कृष्णो महामनाः ||५||
तमुत्स्मयन्तं सम्प्रेक्ष्य मैत्रेयः कृष्णमब्रवीत् |
कारणं ब्रूहि धर्मात्मन्योऽस्मयिष्ठाः कुतश्च ते ||६||
तपस्विनो धृतिमतः प्रमोदः समुपागतः ||६||
एतत्पृच्छामि ते विद्वन्नभिवाद्य प्रणम्य च |
आत्मनश्च तपोभाग्यं महाभाग्यं तथैव च ||७||
पृथगाचरतस्तात पृथगात्मनि चात्मनोः |
अल्पान्तरमहं मन्ये विशिष्टमपि वा त्वया ||८||
व्यास उवाच||
अतिच्छेदातिवादाभ्यां स्मयोऽयं समुपागतः |
असत्यं वेदवचनं कस्माद्वेदोऽनृतं वदेत् ||९||
त्रीण्येव तु पदान्याहुः पुरुषस्योत्तमं व्रतम् |
न द्रुह्येच्चैव दद्याच्च सत्यं चैव परं वदेत् ||१०||
इदानीं चैव नः कृत्यं पुरस्ताच्च परं स्मृतम् ||१०||
अल्पोऽपि तादृशो दायो भवत्युत महाफलः |
तृषिताय च यद्दत्तं हृदयेनानसूयता ||११||
तृषितस्तृषिताय त्वं दत्त्वैतदशनं मम |
अजैषीर्महतो लोकान्महायज्ञैरिवाभिभो ||१२||
अतो दानपवित्रेण प्रीतोऽस्मि तपसैव च ||१२||
पुण्यस्यैव हि ते गन्धः पुण्यस्यैव च दर्शनम् |
पुण्यश्च वाति गन्धस्ते मन्ये कर्मविधानतः ||१३||
अधिकं मार्जनात्तात तथैवाप्यनुलेपनात् |
शुभं सर्वपवित्रेभ्यो दानमेव परं भवेत् ||१४||
यानीमान्युत्तमानीह वेदोक्तानि प्रशंससि |
तेषां श्रेष्ठतमं दानमिति मे नास्ति संशयः ||१५||
दानकृद्भिः कृतः पन्था येन यान्ति मनीषिणः |
ते हि प्राणस्य दातारस्तेषु धर्मः प्रतिष्ठितः ||१६||
यथा वेदाः स्वधीताश्च यथा चेन्द्रियसंयमः |
सर्वत्यागो यथा चेह तथा दानमनुत्तमम् ||१७||
त्वं हि तात सुखादेव सुखमेष्यसि शोभनम् |
सुखात्सुखतरप्राप्तिमाप्नुते मतिमान्नरः ||१८||
तन्नः प्रत्यक्षमेवेदमुपलब्धमसंशयम् |
श्रीमन्तमाप्नुवन्त्यर्था दानं यज्ञस्तथा सुखम् ||१९||
सुखादेव परं दुःखं दुःखादन्यत्परं सुखम् |
दृश्यते हि महाप्राज्ञ नियतं वै स्वभावतः ||२०||
त्रिविधानीह वृत्तानि नरस्याहुर्मनीषिणः |
पुण्यमन्यत्पापमन्यन्न पुण्यं न च पापकम् ||२१||
न वृत्तं मन्यतेऽन्यस्य मन्यतेऽन्यस्य पापकम् |
तथा स्वकर्मनिर्वृत्तं न पुण्यं न च पापकम् ||२२||
रमस्वैधस्व मोदस्व देहि चैव यजस्व च |
न त्वामभिभविष्यन्ति वैद्या न च तपस्विनः ||२३||
१२२
भीष्म उवाच||
एवमुक्तः प्रत्युवाच मैत्रेयः कर्मपूजकः |
अत्यन्तं श्रीमति कुले जातः प्राज्ञो बहुश्रुतः ||१||
असंशयं महाप्राज्ञ यथैवात्थ तथैव तत् |
अनुज्ञातस्तु भवता किञ्चिद्ब्रूयामहं विभो ||२||
व्यास उवाच||
यद्यदिच्छसि मैत्रेय यावद्यावद्यथा तथा |
ब्रूहि तावन्महाप्राज्ञ शुश्रूषे वचनं तव ||३||
मैत्रेय उवाच||
निर्दोषं निर्मलं चैव वचनं दानसंहितम् |
विद्यातपोभ्यां हि भवान्भावितात्मा न संशयः ||४||
भवतो भावितात्मत्वाद्दायोऽयं सुमहान्मम |
भूयो बुद्ध्यानुपश्यामि सुसमृद्धतपा इव ||५||
अपि मे दर्शनादेव भवतोऽभ्युदयो महान् |
मन्ये भवत्प्रसादोऽयं तद्धि कर्म स्वभावतः ||६||
तपः श्रुतं च योनिश्चाप्येतद्ब्राह्मण्यकारणम् |
त्रिभिर्गुणैः समुदितस्ततो भवति वै द्विजः ||७||
तस्मिंस्तृप्ते च तृप्यन्ते पितरो दैवतानि च |
न हि श्रुतवतां किञ्चिदधिकं ब्राह्मणादृते ||८||
यथा हि सुकृते क्षेत्रे फलं विन्दति मानवः |
एवं दत्त्वा श्रुतवति फलं दाता समश्नुते ||९||
ब्राह्मणश्चेन्न विद्येत श्रुतवृत्तोपसंहितः |
प्रतिग्रहीता दानस्य मोघं स्याद्धनिनां धनम् ||१०||
अदन्ह्यविद्वान्हन्त्यन्नमद्यमानं च हन्ति तम् |
तं च हन्यति यस्यान्नं स हत्वा हन्यतेऽबुधः ||११||
प्रभुर्ह्यन्नमदन्विद्वान्पुनर्जनयतीश्वरः |
स चान्नाज्जायते तस्मात्सूक्ष्म एव व्यतिक्रमः ||१२||
यदेव ददतः पुण्यं तदेव प्रतिगृह्णतः |
न ह्येकचक्रं वर्तेत इत्येवमृषयो विदुः ||१३||
यत्र वै ब्राह्मणाः सन्ति श्रुतवृत्तोपसंहिताः |
तत्र दानफलं पुण्यमिह चामुत्र चाश्नुते ||१४||
ये योनिशुद्धाः सततं तपस्यभिरता भृशम् |
दानाध्ययनसम्पन्नास्ते वै पूज्यतमाः सदा ||१५||
तैर्हि सद्भिः कृतः पन्थाश्चेतयानो न मुह्यते |
ते हि स्वर्गस्य नेतारो यज्ञवाहाः सनातनाः ||१६||
१२३
भीष्म उवाच||
एवमुक्तः स भगवान्मैत्रेयं प्रत्यभाषत |
दिष्ट्यैवं त्वं विजानासि दिष्ट्या ते बुद्धिरीदृशी ||१||
लोको ह्ययं गुणानेव भूयिष्ठं स्म प्रशंसति ||१||
रूपमानवयोमानश्रीमानाश्चाप्यसंशयम् |
दिष्ट्या नाभिभवन्ति त्वां दैवस्तेऽयमनुग्रहः ||२||
यत्ते भृशतरं दानाद्वर्तयिष्यामि तच्छृणु ||२||
यानीहागमशास्त्राणि याश्च काश्चित्प्रवृत्तयः |
तानि वेदं पुरस्कृत्य प्रवृत्तानि यथाक्रमम् ||३||
अहं दानं प्रशंसामि भवानपि तपःश्रुते |
तपः पवित्रं वेदस्य तपः स्वर्गस्य साधनम् ||४||
तपसा महदाप्नोति विद्यया चेति नः श्रुतम् |
तपसैव चापनुदेद्यच्चान्यदपि दुष्कृतम् ||५||
यद्यद्धि किञ्चित्सन्धाय पुरुषस्तप्यते तपः |
सर्वमेतदवाप्नोति ब्राह्मणो वेदपारगः ||६||
दुरन्वयं दुष्प्रधृष्यं दुरापं दुरतिक्रमम् |
सर्वं वै तपसाभ्येति तपो हि बलवत्तरम् ||७||
सुरापोऽसंमतादायी भ्रूणहा गुरुतल्पगः |
तपसा तरते सर्वमेनसश्च प्रमुच्यते ||८||
सर्वविद्यस्तु चक्षुष्मानपि यादृशतादृशः |
तपस्विनौ च तावाहुस्ताभ्यां कार्यं सदा नमः ||९||
सर्वे पूज्याः श्रुतधनास्तथैव च तपस्विनः |
दानप्रदाः सुखं प्रेत्य प्राप्नुवन्तीह च श्रियम् ||१०||
इमं च ब्रह्मलोकं च लोकं च बलवत्तरम् |
अन्नदानैः सुकृतिनः प्रतिपद्यन्ति लौकिकाः ||११||
पूजिताः पूजयन्त्येतान्मानिता मानयन्ति च |
अदाता यत्र यत्रैति सर्वतः सम्प्रणुद्यते ||१२||
अकर्ता चैव कर्ता च लभते यस्य यादृशम् |
यद्येवोर्ध्वं यद्यवाक्च त्वं लोकमभियास्यसि ||१३||
प्राप्स्यसे त्वन्नपानानि यानि दास्यसि कानिचित् |
मेधाव्यसि कुले जातः श्रुतवाननृशंसवान् ||१४||
कौमारदारव्रतवान्मैत्रेय निरतो भव |
एतद्गृहाण प्रथमं प्रशस्तं गृहमेधिनाम् ||१५||
यो भर्ता वासितातुष्टो भर्तुस्तुष्टा च वासिता |
यस्मिन्नेवं कुले सर्वं कल्याणं तत्र वर्तते ||१६||
अद्भिर्गात्रान्मलमिव तमोऽग्निप्रभया यथा |
दानेन तपसा चैव सर्वपापमपोह्यते ||१७||
स्वस्ति प्राप्नुहि मैत्रेय गृहान्साधु व्रजाम्यहम् |
एतन्मनसि कर्तव्यं श्रेय एवं भविष्यति ||१८||
तं प्रणम्याथ मैत्रेयः कृत्वा चाभिप्रदक्षिणम् |
स्वस्ति प्राप्नोतु भगवानित्युवाच कृताञ्जलिः ||१९||
शाण्डिलीसुमनासंवादः
१२४
युधिष्ठिर उवाच||
सत्स्त्रीणां समुदाचारं सर्वधर्मभृतां वर |
श्रोतुमिच्छाम्यहं त्वत्तस्तं मे ब्रूहि पितामह ||१||
भीष्म उवाच||
सर्वज्ञां सर्वधर्मज्ञां देवलोके मनस्विनीम् |
कैकेयी सुमना नाम शाण्डिलीं पर्यपृच्छत ||२||
केन वृत्तेन कल्याणि समाचारेण केन वा |
विधूय सर्वपापानि देवलोकं त्वमागता ||३||
हुताशनशिखेव त्वं ज्वलमाना स्वतेजसा |
सुता ताराधिपस्येव प्रभया दिवमागता ||४||
अरजांसि च वस्त्राणि धारयन्ती गतक्लमा |
विमानस्था शुभे भासि सहस्रगुणमोजसा ||५||
न त्वमल्पेन तपसा दानेन नियमेन वा |
इमं लोकमनुप्राप्ता तस्मात्तत्त्वं वदस्व मे ||६||
इति पृष्टा सुमनया मधुरं चारुहासिनी |
शाण्डिली निभृतं वाक्यं सुमनामिदमब्रवीत् ||७||
नाहं काषायवसना नापि वल्कलधारिणी |
न च मुण्डा न जटिला भूत्वा देवत्वमागता ||८||
अहितानि च वाक्यानि सर्वाणि परुषाणि च |
अप्रमत्ता च भर्तारं कदाचिन्नाहमब्रुवम् ||९||
देवतानां पितॄणां च ब्राह्मणानां च पूजने |
अप्रमत्ता सदायुक्ता श्वश्रूश्वशुरवर्तिनी ||१०||
पैशुन्ये न प्रवर्तामि न ममैतन्मनोगतम् |
अद्वारे न च तिष्ठामि चिरं न कथयामि च ||११||
असद्वा हसितं किञ्चिदहितं वापि कर्मणा |
रहस्यमरहस्यं वा न प्रवर्तामि सर्वथा ||१२||
कार्यार्थे निर्गतं चापि भर्तारं गृहमागतम् |
आसनेनोपसंयोज्य पूजयामि समाहिता ||१३||
यद्यच्च नाभिजानाति यद्भोज्यं नाभिनन्दति |
भक्ष्यं वाप्यथ वा लेह्यं तत्सर्वं वर्जयाम्यहम् ||१४||
कुटुम्बार्थे समानीतं यत्किञ्चित्कार्यमेव तु |
प्रातरुत्थाय तत्सर्वं कारयामि करोमि च ||१५||
प्रवासं यदि मे भर्ता याति कार्येण केनचित् |
मङ्गलैर्बहुभिर्युक्ता भवामि नियता सदा ||१६||
अञ्जनं रोचनां चैव स्नानं माल्यानुलेपनम् |
प्रसाधनं च निष्क्रान्ते नाभिनन्दामि भर्तरि ||१७||
नोत्थापयामि भर्तारं सुखसुप्तमहं सदा |
आतुरेष्वपि कार्येषु तेन तुष्यति मे मनः ||१८||
नायासयामि भर्तारं कुटुम्बार्थे च सर्वदा |
गुप्तगुह्या सदा चास्मि सुसंमृष्टनिवेशना ||१९||
इमं धर्मपथं नारी पालयन्ती समाहिता |
अरुन्धतीव नारीणां स्वर्गलोके महीयते ||२०||
भीष्म उवाच||
एतदाख्याय सा देवी सुमनायै तपस्विनी |
पतिधर्मं महाभागा जगामादर्शनं तदा ||२१||
यश्चेदं पाण्डवाख्यानं पठेत्पर्वणि पर्वणि |
स देवलोकं सम्प्राप्य नन्दने सुसुखं वसेत् ||२२||
सान्त्वप्रशंसा
१२५
युधिष्ठिर उवाच||
साम्ना वापि प्रदाने वा ज्यायः किं भवतो मतम् |
प्रब्रूहि भरतश्रेष्ठ यदत्र व्यतिरिच्यते ||१||
भीष्म उवाच||
साम्ना प्रसाद्यते कश्चिद्दानेन च तथापरः |
पुरुषः प्रकृतिं ज्ञात्वा तयोरेकतरं भजेत् ||२||
गुणांस्तु शृणु मे राजन्सान्त्वस्य भरतर्षभ |
दारुणान्यपि भूतानि सान्त्वेनाराधयेद्यथा ||३||
अत्राप्युदाहरन्तीममितिहासं पुरातनम् |
गृहीत्वा रक्षसा मुक्तो द्विजातिः कानने यथा ||४||
कश्चित्तु बुद्धिसम्पन्नो ब्राह्मणो विजने वने |
गृहीतः कृच्छ्रमापन्नो रक्षसा भक्षयिष्यता ||५||
स बुद्धिश्रुतसम्पन्नस्तं दृष्ट्वातीव भीषणम् |
सामैवास्मिन्प्रयुयुजे न मुमोह न विव्यथे ||६||
रक्षस्तु वाचा सम्पूज्य प्रश्नं पप्रच्छ तं द्विजम् |
मोक्ष्यसे ब्रूहि मे प्रश्नं केनास्मि हरिणः कृशः ||७||
मुहूर्तमथ सञ्चिन्त्य ब्राह्मणस्तस्य रक्षसः |
आभिर्गाथाभिरव्यग्रः प्रश्नं प्रतिजगाद ह ||८||
विदेशस्थो विलोकस्थो विना नूनं सुहृज्जनैः |
विषयानतुलान्भुङ्क्षे तेनासि हरिणः कृशः ||९||
नूनं मित्राणि ते रक्षः साधूपचरितान्यपि |
स्वदोषादपरज्यन्ते तेनासि हरिणः कृशः ||१०||
धनैश्वर्याधिकाः स्तब्धास्त्वद्गुणैः परमावराः |
अवजानन्ति नूनं त्वां तेनासि हरिणः कृशः ||११||
गुणवान्विगुणानन्यान्नूनं पश्यसि सत्कृतान् |
प्राज्ञोऽप्राज्ञान्विनीतात्मा तेनासि हरिणः कृशः ||१२||
अवृत्त्या क्लिश्यमानोऽपि वृत्त्युपायान्विगर्हयन् |
माहात्म्याद्व्यथसे नूनं तेनासि हरिणः कृशः ||१३||
सम्पीड्यात्मानमार्यत्वात्त्वया कश्चिदुपस्कृतः |
जितं त्वां मन्यते साधो तेनासि हरिणः कृशः ||१४||
क्लिश्यमानान्विमार्गेषु कामक्रोधावृतात्मनः |
मन्ये नु ध्यायसि जनांस्तेनासि हरिणः कृशः ||१५||
प्राज्ञैः सम्भावितो नूनं नप्राज्ञैरुपसंहितः |
ह्रीमानमर्षी दुर्वृत्तैस्तेनासि हरिणः कृशः ||१६||
नूनं मित्रमुखः शत्रुः कश्चिदार्यवदाचरन् |
वञ्चयित्वा गतस्त्वां वै तेनासि हरिणः कृशः ||१७||
प्रकाशार्थगतिर्नूनं रहस्यकुशलः कृती |
तज्ज्ञैर्न पूज्यसे नूनं तेनासि हरिणः कृशः ||१८||
असत्स्वभिनिविष्टेषु ब्रुवतो मुक्तसंशयम् |
गुणास्ते न विराजन्ते तेनासि हरिणः कृशः ||१९||
धनबुद्धिश्रुतैर्हीनः केवलं तेजसान्वितः |
महत्प्रार्थयसे नूनं तेनासि हरिणः कृशः ||२०||
तपःप्रणिहितात्मानं मन्ये त्वारण्यकाङ्क्षिणम् |
बन्धुवर्गो न गृह्णाति तेनासि हरिणः कृशः ||२१||
नूनमर्थवतां मध्ये तव वाक्यमनुत्तमम् |
न भाति कालेऽभिहितं तेनासि हरिणः कृशः ||२२||
दृढपूर्वश्रुतं मूर्खं कुपितं हृदयप्रियम् |
अनुनेतुं न शक्नोषि तेनासि हरिणः कृशः ||२३||
नूनमासञ्जयित्वा ते कृत्ये कस्मिंश्चिदीप्सिते |
कश्चिदर्थयतेऽत्यर्थं तेनासि हरिणः कृशः ||२४||
नूनं त्वा स्वगुणापेक्षं पूजयानं सुहृद्ध्रुवम् |
मयार्थ इति जानाति तेनासि हरिणः कृशः ||२५||
अन्तर्गतमभिप्रायं न नूनं लज्जयेच्छसि |
विवक्तुं प्राप्तिशैथिल्यात्तेनासि हरिणः कृशः ||२६||
नानाबुद्धिरुचीँल्लोके मनुष्यान्नूनमिच्छसि |
ग्रहीतुं स्वगुणैः सर्वांस्तेनासि हरिणः कृशः ||२७||
अविद्वान्भीरुरल्पार्थो विद्याविक्रमदानजम् |
यशः प्रार्थयसे नूनं तेनासि हरिणः कृशः ||२८||
चिराभिलषितं किञ्चित्फलमप्राप्तमेव ते |
कृतमन्यैरपहृतं तेनासि हरिणः कृशः ||२९||
नूनमात्मकृतं दोषमपश्यन्किञ्चिदात्मनि |
अकारणेऽभिशस्तोऽसि तेनासि हरिणः कृशः ||३०||
सुहृदामप्रमत्तानामप्रमोक्ष्यार्थहानिजम् |
दुःखमर्थगुणैर्हीनं तेनासि हरिणः कृशः ||३१||
साधून्गृहस्थान्दृष्ट्वा च तथासाधून्वनेचरान् |
मुक्तांश्चावसथे सक्तांस्तेनासि हरिणः कृशः ||३२||
धर्म्यमर्थं च काले च देशे चाभिहितं वचः |
न प्रतिष्ठति ते नूनं तेनासि हरिणः कृशः ||३३||
दत्तानकुशलैरर्थान्मनीषी सञ्जिजीविषुः |
प्राप्य वर्तयसे नूनं तेनासि हरिणः कृशः ||३४||
पापान्विवर्धतो दृष्ट्वा कल्याणांश्चावसीदतः |
ध्रुवं मृगयसे योग्यं तेनासि हरिणः कृशः ||३५||
परस्परविरुद्धानां प्रियं नूनं चिकीर्षसि |
सुहृदामविरोधेन तेनासि हरिणः कृशः ||३६||
श्रोत्रियांश्च विकर्मस्थान्प्राज्ञांश्चाप्यजितेन्द्रियान् |
मन्येऽनुध्यायसि जनांस्तेनासि हरिणः कृशः ||३७||
एवं सम्पूजितं रक्षो विप्रं तं प्रत्यपूजयत् |
सखायमकरोच्चैनं संयोज्यार्थैर्मुमोच ह ||३८||
उमामहेश्वरसंवादः
१२६
युधिष्ठिर उवाच||
पितामह महाप्राज्ञ सर्वशास्त्रविशारद |
आगमैर्बहुभिः स्फीतो भवान्नः प्रथितः कुले ||१||
त्वत्तो धर्मार्थसंयुक्तमायत्यां च सुखोदयम् |
आश्चर्यभूतं लोकस्य श्रोतुमिच्छाम्यरिंदम ||२||
अयं च कालः सम्प्राप्तो दुर्लभज्ञातिबान्धवः |
शास्ता च न हि नः कश्चित्त्वामृते भरतर्षभ ||३||
यदि तेऽहमनुग्राह्यो भ्रातृभिः सहितोऽनघ |
वक्तुमर्हसि नः प्रश्नं यत्त्वां पृच्छामि पार्थिव ||४||
अयं नारायणः श्रीमान्सर्वपार्थिवसंमतः |
भवन्तं बहुमानेन प्रश्रयेण च सेवते ||५||
अस्य चैव समक्षं त्वं पार्थिवानां च सर्वशः |
भ्रातॄणां च प्रियार्थं मे स्नेहाद्भाषितुमर्हसि ||६||
वैशम्पायन उवाच||
तस्य तद्वचनं श्रुत्वा स्नेहादागतसम्भ्रमः |
भीष्मो भागीरथीपुत्र इदं वचनमब्रवीत् ||७||
हन्त ते कथयिष्यामि कथामतिमनोरमाम् |
अस्य विष्णोः पुरा राजन्प्रभावोऽयं मया श्रुतः ||८||
यश्च गोवृषभाङ्कस्य प्रभावस्तं च मे शृणु |
रुद्राण्याः संशयो यश्च दम्पत्योस्तं च मे शृणु ||९||
व्रतं चचार धर्मात्मा कृष्णो द्वादशवार्षिकम् |
दीक्षितं चागतौ द्रष्टुमुभौ नारदपर्वतौ ||१०||
कृष्णद्वैपायनश्चैव धौम्यश्च जपतां वरः |
देवलः काश्यपश्चैव हस्तिकाश्यप एव च ||११||
अपरे ऋषयः सन्तो दीक्षादमसमन्विताः |
शिष्यैरनुगताः सर्वे देवकल्पैस्तपोधनैः ||१२||
तेषामतिथिसत्कारमर्चनीयं कुलोचितम् |
देवकीतनयः प्रीतो देवकल्पमकल्पयत् ||१३||
हरितेषु सुवर्णेषु बर्हिष्केषु नवेषु च |
उपोपविविशुः प्रीता विष्टरेषु महर्षयः ||१४||
कथाश्चक्रुस्ततस्ते तु मधुरा धर्मसंहिताः |
राजर्षीणां सुराणां च ये वसन्ति तपोधनाः ||१५||
ततो नारायणं तेजो व्रतचर्येन्धनोत्थितम् |
वक्त्रान्निःसृत्य कृष्णस्य वह्निरद्भुतकर्मणः ||१६||
सोऽग्निर्ददाह तं शैलं सद्रुमं सलताक्षुपम् |
सपक्षिमृगसङ्घातं सश्वापदसरीसृपम् ||१७||
मृगैश्च विविधाकारैर्हाहाभूतमचेतनम् |
शिखरं तस्य शैलस्य मथितं दीप्तदर्शनम् ||१८||
स तु वह्निर्महाज्वालो दग्ध्वा सर्वमशेषतः |
विष्णोः समीपमागम्य पादौ शिष्यवदस्पृशत् ||१९||
ततो विष्णुर्वनं दृष्ट्वा निर्दग्धमरिकर्शनः |
सौम्यैर्दृष्टिनिपातैस्तत्पुनः प्रकृतिमानयत् ||२०||
तथैव स गिरिर्भूयः प्रपुष्पितलताद्रुमः |
सपक्षिगणसङ्घुष्टः सश्वापदसरीसृपः ||२१||
तदद्भुतमचिन्त्यं च दृष्ट्वा मुनिगणस्तदा |
विस्मितो हृष्टलोमा च बभूवास्राविलेक्षणः ||२२||
ततो नारायणो दृष्ट्वा तानृषीन्विस्मयान्वितान् |
प्रश्रितं मधुरं स्निग्धं पप्रच्छ वदतां वरः ||२३||
किमस्य ऋषिपूगस्य त्यक्तसङ्गस्य नित्यशः |
निर्ममस्यागमवतो विस्मयः समुपागतः ||२४||
एतं मे संशयं सर्वं याथातथ्यमनिन्दिताः |
ऋषयो वक्तुमर्हन्ति निश्चितार्थं तपोधनाः ||२५||
ऋषय ऊचुः||
भवान्विसृजते लोकान्भवान्संहरते पुनः |
भवाञ्शीतं भवानुष्णं भवानेव प्रवर्षति ||२६||
पृथिव्यां यानि भूतानि स्थावराणि चराणि च |
तेषां पिता त्वं माता च प्रभुः प्रभव एव च ||२७||
एतन्नो विस्मयकरं प्रशंस मधुसूदन |
त्वमेवार्हसि कल्याण वक्तुं वह्नेर्विनिर्गमम् ||२८||
ततो विगतसन्त्रासा वयमप्यरिकर्शन |
यच्छ्रुतं यच्च दृष्टं नस्तत्प्रवक्ष्यामहे हरे ||२९||
वासुदेव उवाच||
एतत्तद्वैष्णवं तेजो मम वक्त्राद्विनिःसृतम् |
कृष्णवर्त्मा युगान्ताभो येनायं मथितो गिरिः ||३०||
ऋषयश्चार्तिमापन्ना जितक्रोधा जितेन्द्रियाः |
भवन्तो व्यथिताश्चासन्देवकल्पास्तपोधनाः ||३१||
व्रतचर्यापरीतस्य तपस्विव्रतसेवया |
मम वह्निः समुद्भूतो न वै व्यथितुमर्हथ ||३२||
व्रतं चर्तुमिहायातस्त्वहं गिरिमिमं शुभम् |
पुत्रं चात्मसमं वीर्ये तपसा स्रष्टुमागतः ||३३||
ततो ममात्मा यो देहे सोऽग्निर्भूत्वा विनिःसृतः |
गतश्च वरदं द्रष्टुं सर्वलोकपितामहम् ||३४||
तेन चात्मानुशिष्टो मे पुत्रत्वे मुनिसत्तमाः |
तेजसोऽर्धेन पुत्रस्ते भवितेति वृषध्वजः ||३५||
सोऽयं वह्निरुपागम्य पादमूले ममान्तिकम् |
शिष्यवत्परिचर्याथ शान्तः प्रकृतिमागतः ||३६||
एतदस्य रहस्यं वः पद्मनाभस्य धीमतः |
मया प्रेम्णा समाख्यातं न भीः कार्या तपोधनाः ||३७||
सर्वत्र गतिरव्यग्रा भवतां दीर्घदर्शनाः |
तपस्विव्रतसंदीप्ता ज्ञानविज्ञानशोभिताः ||३८||
यच्छ्रुतं यच्च वो दृष्टं दिवि वा यदि वा भुवि |
आश्चर्यं परमं किञ्चित्तद्भवन्तो ब्रुवन्तु मे ||३९||
तस्यामृतनिकाशस्य वाङ्मधोरस्ति मे स्पृहा |
भवद्भिः कथितस्येह तपोवननिवासिभिः ||४०||
यद्यप्यहमदृष्टं वा दिव्यमद्भुतदर्शनम् |
दिवि वा भुवि वा किञ्चित्पश्याम्यमलदर्शनाः ||४१||
प्रकृतिः सा मम परा न क्वचित्प्रतिहन्यते |
न चात्मगतमैश्वर्यमाश्चर्यं प्रतिभाति मे ||४२||
श्रद्धेयः कथितो ह्यर्थः सज्जनश्रवणं गतः |
चिरं तिष्ठति मेदिन्यां शैले लेख्यमिवार्पितम् ||४३||
तदहं सज्जनमुखान्निःसृतं तत्समागमे |
कथयिष्याम्यहरहर्बुद्धिदीपकरं नृणाम् ||४४||
ततो मुनिगणाः सर्वे प्रश्रिताः कृष्णसंनिधौ |
नेत्रैः पद्मदलप्रख्यैरपश्यन्त जनार्दनम् ||४५||
वर्धयन्तस्तथैवान्ये पूजयन्तस्तथापरे |
वाग्भिरृग्भूषितार्थाभिः स्तुवन्तो मधुसूदनम् ||४६||
ततो मुनिगणाः सर्वे नारदं देवदर्शनम् |
तदा नियोजयामासुर्वचने वाक्यकोविदम् ||४७||
यदाश्चर्यमचिन्त्यं च गिरौ हिमवति प्रभो |
अनुभूतं मुनिगणैस्तीर्थयात्रापरायणैः ||४८||
तद्भवानृषिसङ्घस्य हितार्थं सर्वचोदितः |
यथादृष्टं हृषीकेशे सर्वमाख्यातुमर्हति ||४९||
एवमुक्तः स मुनिभिर्नारदो भगवानृषिः |
कथयामास देवर्षिः पूर्ववृत्तां कथां शुभाम् ||५०||
१२७
भीष्म उवाच||
ततो नारायणसुहृन्नारदो भगवानृषिः |
शङ्करस्योमया सार्धं संवादं प्रत्यभाषत ||१||
तपश्चचार धर्मात्मा वृषभाङ्कः सुरेश्वरः |
पुण्ये गिरौ हिमवति सिद्धचारणसेविते ||२||
नानौषधियुते रम्ये नानापुष्पसमाकुले |
अप्सरोगणसङ्कीर्णे भूतसङ्घनिषेविते ||३||
तत्र देवो मुदा युक्तो भूतसङ्घशतैर्वृतः |
नानारूपैर्विरूपैश्च दिव्यैरद्भुतदर्शनैः ||४||
सिंहव्याघ्रगजप्रख्यैः सर्वजातिसमन्वितैः |
क्रोष्टुकद्वीपिवदनैरृक्षर्षभमुखैस्तथा ||५||
उलूकवदनैर्भीमैः श्येनभासमुखैस्तथा |
नानावर्णमृगप्रख्यैः सर्वजातिसमन्वयैः ||६||
किंनरैर्देवगन्धर्वैर्यक्षभूतगणैस्तथा ||६||
दिव्यपुष्पसमाकीर्णं दिव्यमालाविभूषितम् |
दिव्यचन्दनसंयुक्तं दिव्यधूपेन धूपितम् ||७||
तत्सदो वृषभाङ्कस्य दिव्यवादित्रनादितम् ||७||
मृदङ्गपणवोद्घुष्टं शङ्खभेरीनिनादितम् |
नृत्यद्भिर्भूतसङ्घैश्च बर्हिणैश्च समन्ततः ||८||
प्रनृत्ताप्सरसं दिव्यं दिव्यस्त्रीगणसेवितम् |
दृष्टिकान्तमनिर्देश्यं दिव्यमद्भुतदर्शनम् ||९||
स गिरिस्तपसा तस्य भूतेशस्य व्यरोचत |
स्वाध्यायपरमैर्विप्रैर्ब्रह्मघोषैर्विनादितः |
षट्पदैरुपगीतैश्च माधवाप्रतिमो गिरिः ||११||
तं महोत्सवसङ्काशं भीमरूपधरं पुनः |
दृष्ट्वा मुनिगणस्यासीत्परा प्रीतिर्जनार्दन ||१२||
मुनयश्च महाभागाः सिद्धाश्चैवोर्ध्वरेतसः |
मरुतो वसवः साध्या विश्वेदेवाः सनातनाः ||१३||
यक्षा नागाः पिशाचाश्च लोकपाला हुताशनाः |
भावाश्च सर्वे न्यग्भूतास्तत्रैवासन्समागताः ||१४||
ऋतवः सर्वपुष्पैश्च व्यकिरन्त महाद्भुतैः |
ओषध्यो ज्वलमानाश्च द्योतयन्ति स्म तद्वनम् ||१५||
विहगाश्च मुदा युक्ताः प्रानृत्यन्व्यनदंश्च ह |
गिरिपृष्ठेषु रम्येषु व्याहरन्तो जनप्रियाः ||१६||
तत्र देवो गिरितटे दिव्यधातुविभूषिते |
पर्यङ्क इव विभ्राजन्नुपविष्टो महामनाः ||१७||
व्याघ्रचर्माम्बरधरः सिंहचर्मोत्तरच्छदः |
व्यालयज्ञोपवीती च लोहिताङ्गदभूषणः ||१८||
हरिश्मश्रुर्जटी भीमो भयकर्ता सुरद्विषाम् |
अभयः सर्वभूतानां भक्तानां वृषभध्वजः ||१९||
दृष्ट्वा तमृषयः सर्वे शिरोभिरवनीं गताः |
विमुक्ताः सर्वपापेभ्यः क्षान्ता विगतकल्मषाः ||२०||
तस्य भूतपतेः स्थानं भीमरूपधरं बभौ |
अप्रधृष्यतरं चैव महोरगसमाकुलम् ||२१||
क्षणेनैवाभवत्सर्वमद्भुतं मधुसूदन |
तत्सदो वृषभाङ्कस्य भीमरूपधरं बभौ ||२२||
तमभ्ययाच्छैलसुता भूतस्त्रीगणसंवृता |
हरतुल्याम्बरधरा समानव्रतचारिणी ||२३||
बिभ्रती कलशं रौक्मं सर्वतीर्थजलोद्भवम् |
गिरिस्रवाभिः पुण्याभिः सर्वतोऽनुगता शुभा ||२४||
पुष्पवृष्ट्याभिवर्षन्ती गन्धैर्बहुविधैस्तथा |
सेवन्ती हिमवत्पार्श्वं हरपार्श्वमुपागमत् ||२५||
ततः स्मयन्ती पाणिभ्यां नर्मार्थं चारुदर्शना |
हरनेत्रे शुभे देवी सहसा सा समावृणोत् ||२६||
संवृताभ्यां तु नेत्राभ्यां तमोभूतमचेतनम् |
निर्होमं निर्वषट्कारं तत्सदः सहसाभवत् ||२७||
जनश्च विमनाः सर्वो भयत्राससमन्वितः |
निमीलिते भूतपतौ नष्टसूर्य इवाभवत् ||२८||
ततो वितिमिरो लोकः क्षणेन समपद्यत |
ज्वाला च महती दीप्ता ललाटात्तस्य निःसृता ||२९||
तृतीयं चास्य सम्भूतं नेत्रमादित्यसंनिभम् |
युगान्तसदृशं दीप्तं येनासौ मथितो गिरिः ||३०||
ततो गिरिसुता दृष्ट्वा दीप्ताग्निसदृशेक्षणम् |
हरं प्रणम्य शिरसा ददर्शायतलोचना ||३१||
दह्यमाने वने तस्मिन्सशालसरलद्रुमे |
सचन्दनवने रम्ये दिव्यौषधिविदीपिते ||३२||
मृगयूथैर्द्रुतैर्भीतैर्हरपार्श्वमुपागतैः |
शरणं चाप्यविन्दद्भिस्तत्सदः सङ्कुलं बभौ ||३३||
ततो नभःस्पृशज्वालो विद्युल्लोलार्चिरुज्ज्वलः |
द्वादशादित्यसदृशो युगान्ताग्निरिवापरः ||३४||
क्षणेन तेन दग्धः स हिमवानभवन्नगः |
सधातुशिखराभोगो दीनदग्धवनौषधिः ||३५||
तं दृष्ट्वा मथितं शैलं शैलराजसुता ततः |
भगवन्तं प्रपन्ना सा साञ्जलिप्रग्रहा स्थिता ||३६||
उमां शर्वस्तदा दृष्ट्वा स्त्रीभावागतमार्दवाम् |
पितुर्दैन्यमनिच्छन्तीं प्रीत्यापश्यत्ततो गिरिम् ||३७||
ततोऽभवत्पुनः सर्वः प्रकृतिस्थः सुदर्शनः |
प्रहृष्टविहगश्चैव प्रपुष्पितवनद्रुमः ||३८||
प्रकृतिस्थं गिरिं दृष्ट्वा प्रीता देवी महेश्वरम् |
उवाच सर्वभूतानां पतिं पतिमनिन्दिता ||३९||
भगवन्सर्वभूतेश शूलपाणे महाव्रत |
संशयो मे महाञ्जातस्तं मे व्याख्यातुमर्हसि ||४०||
किमर्थं ते ललाटे वै तृतीयं नेत्रमुत्थितम् |
किमर्थं च गिरिर्दग्धः सपक्षिगणकाननः ||४१||
किमर्थं च पुनर्देव प्रकृतिस्थः क्षणात्कृतः |
तथैव द्रुमसञ्छन्नः कृतोऽयं ते महेश्वर ||४२||
महेश्वर उवाच||
नेत्रे मे संवृते देवि त्वया बाल्यादनिन्दिते |
नष्टालोकस्ततो लोकः क्षणेन समपद्यत ||४३||
नष्टादित्ये तथा लोके तमोभूते नगात्मजे |
तृतीयं लोचनं दीप्तं सृष्टं ते रक्षता प्रजाः ||४४||
तस्य चाक्ष्णो महत्तेजो येनायं मथितो गिरिः |
त्वत्प्रियार्थं च मे देवि प्रकृतिस्थः क्षणात्कृतः ||४५||
उमोवाच||
भगवन्केन ते वक्त्रं चन्द्रवत्प्रियदर्शनम् |
पूर्वं तथैव श्रीकान्तमुत्तरं पश्चिमं तथा ||४६||
दक्षिणं च मुखं रौद्रं केनोर्ध्वं कपिला जटाः |
केन कण्ठश्च ते नीलो बर्हिबर्हनिभः कृतः ||४७||
हस्ते चैतत्पिनाकं ते सततं केन तिष्ठति |
जटिलो ब्रह्मचारी च किमर्थमसि नित्यदा ||४८||
एतं मे संशयं सर्वं वद भूतपतेऽनघ |
सधर्मचारिणी चाहं भक्ता चेति वृषध्वज ||४९||
एवमुक्तः स भगवाञ्शैलपुत्र्या पिनाकधृक् |
तस्या वृत्त्या च बुद्ध्या च प्रीतिमानभवत्प्रभुः ||५०||
ततस्तामब्रवीद्देवः सुभगे श्रूयतामिति |
हेतुभिर्यैर्ममैतानि रूपाणि रुचिरानने ||५१||
१२८
महेश्वर उवाच||
तिलोत्तमा नाम पुरा ब्रह्मणा योषिदुत्तमा |
तिलं तिलं समुद्धृत्य रत्नानां निर्मिता शुभा ||१||
साभ्यगच्छत मां देवि रूपेणाप्रतिमा भुवि |
प्रदक्षिणं लोभयन्ती मां शुभे रुचिरानना ||२||
यतो यतः सा सुदती मामुपाधावदन्तिके |
ततस्ततो मुखं चारु मम देवि विनिर्गतम् ||३||
तां दिदृक्षुरहं योगाच्चतुर्मूर्तित्वमागतः |
चतुर्मुखश्च संवृत्तो दर्शयन्योगमात्मनः ||४||
पूर्वेण वदनेनाहमिन्द्रत्वमनुशास्मि ह |
उत्तरेण त्वया सार्धं रमाम्यहमनिन्दिते ||५||
पश्चिमं मे मुखं सौम्यं सर्वप्राणिसुखावहम् |
दक्षिणं भीमसङ्काशं रौद्रं संहरति प्रजाः ||६||
जटिलो ब्रह्मचारी च लोकानां हितकाम्यया |
देवकार्यार्थसिद्ध्यर्थं पिनाकं मे करे स्थितम् ||७||
इन्द्रेण च पुरा वज्रं क्षिप्तं श्रीकाङ्क्षिणा मम |
दग्ध्वा कण्ठं तु तद्यातं तेन श्रीकण्ठता मम ||८||
उमोवाच||
वाहनेषु प्रभूतेषु श्रीमत्स्वन्येषु सत्सु ते |
कथं गोवृषभो देव वाहनत्वमुपागतः ||९||
महेश्वर उवाच||
सुरभीं ससृजे ब्रह्मामृतधेनुं पयोमुचम् |
सा सृष्टा बहुधा जाता क्षरमाणा पयोऽमृतम् ||१०||
तस्या वत्समुखोत्सृष्टः फेनो मद्गात्रमागतः |
ततो दग्धा मया गावो नानावर्णत्वमागताः ||११||
ततोऽहं लोकगुरुणा शमं नीतोऽर्थवेदिना |
वृषं चेमं ध्वजार्थं मे ददौ वाहनमेव च ||१२||
उमोवाच||
निवासा बहुरूपास्ते विश्वरूपगुणान्विताः |
तांश्च सन्त्यज्य भगवञ्श्मशाने रमसे कथम् ||१३||
केशास्थिकलिले भीमे कपालघटसङ्कुले |
गृध्रगोमायुकलिले चिताग्निशतसङ्कुले ||१४||
अशुचौ मांसकलिले वसाशोणितकर्दमे |
विनिकीर्णामिषचये शिवानादविनादिते ||१५||
महेश्वर उवाच||
मेध्यान्वेषी महीं कृत्स्नां विचरामि निशास्वहम् |
न च मेध्यतरं किञ्चिच्छ्मशानादिह विद्यते ||१६||
तेन मे सर्ववासानां श्मशाने रमते मनः |
न्यग्रोधशाखासञ्छन्ने निर्भुक्तस्रग्विभूषिते ||१७||
तत्र चैव रमन्ते मे भूतसङ्घाः शुभानने |
न च भूतगणैर्देवि विनाहं वस्तुमुत्सहे ||१८||
एष वासो हि मे मेध्यः स्वर्गीयश्च मतो हि मे |
पुण्यः परमकश्चैव मेध्यकामैरुपास्यते ||१९||
उमोवाच||
भगवन्सर्वभूतेश सर्वधर्मभृतां वर |
पिनाकपाणे वरद संशयो मे महानयम् ||२०||
अयं मुनिगणः सर्वस्तपस्तप इति प्रभो |
तपोन्वेषकरो लोके भ्रमते विविधाकृतिः ||२१||
अस्य चैवर्षिसङ्घस्य मम च प्रियकाम्यया |
एतं ममेह संदेहं वक्तुमर्हस्यरिंदम ||२२||
धर्मः किंलक्षणः प्रोक्तः कथं वाचरितुं नरैः |
शक्यो धर्ममविन्दद्भिर्धर्मज्ञ वद मे प्रभो ||२३||
नारद उवाच||
ततो मुनिगणः सर्वस्तां देवीं प्रत्यपूजयत् |
वाग्भिरृग्भूषितार्थाभिः स्तवैश्चार्थविदां वर ||२४||
महेश्वर उवाच||
अहिंसा सत्यवचनं सर्वभूतानुकम्पनम् |
शमो दानं यथाशक्ति गार्हस्थ्यो धर्म उत्तमः ||२५||
परदारेष्वसङ्कल्पो न्यासस्त्रीपरिरक्षणम् |
अदत्तादानविरमो मधुमांसस्य वर्जनम् ||२६||
एष पञ्चविधो धर्मो बहुशाखः सुखोदयः |
देहिभिर्धर्मपरमैः कर्तव्यो धर्मसञ्चयः ||२७||
उमोवाच||
भगवन्संशयं पृष्टस्तं मे व्याख्यातुमर्हसि |
चातुर्वर्ण्यस्य यो धर्मः स्वे स्वे वर्णे गुणावहः ||२८||
ब्राह्मणे कीदृशो धर्मः क्षत्रिये कीदृशो भवेत् |
वैश्ये किंलक्षणो धर्मः शूद्रे किंलक्षणो भवेत् ||२९||
महेश्वर उवाच||
न्यायतस्ते महाभागे संशयः समुदीरितः |
भूमिदेवा महाभागाः सदा लोके द्विजातयः ||३०||
उपवासः सदा धर्मो ब्राह्मणस्य न संशयः |
स हि धर्मार्थमुत्पन्नो ब्रह्मभूयाय कल्पते ||३१||
तस्य धर्मक्रिया देवि व्रतचर्या च न्यायतः |
तथोपनयनं चैव द्विजायैवोपपद्यते ||३२||
गुरुदैवतपूजार्थं स्वाध्यायाभ्यसनात्मकः |
देहिभिर्धर्मपरमैश्चर्तव्यो धर्मसम्भवः ||३३||
उमोवाच||
भगवन्संशयो मेऽत्र तं मे व्याख्यातुमर्हसि |
चातुर्वर्ण्यस्य धर्मं हि नैपुण्येन प्रकीर्तय ||३४||
महेश्वर उवाच||
रहस्यश्रवणं धर्मो वेदव्रतनिषेवणम् |
व्रतचर्यापरो धर्मो गुरुपादप्रसादनम् ||३५||
भैक्षचर्यापरो धर्मो धर्मो नित्योपवासिता |
नित्यस्वाध्यायिता धर्मो ब्रह्मचर्याश्रमस्तथा ||३६||
गुरुणा त्वभ्यनुज्ञातः समावर्तेत वै द्विजः |
विन्देतानन्तरं भार्यामनुरूपां यथाविधि ||३७||
शूद्रान्नवर्जनं धर्मस्तथा सत्पथसेवनम् |
धर्मो नित्योपवासित्वं ब्रह्मचर्यं तथैव च ||३८||
आहिताग्निरधीयानो जुह्वानः संयतेन्द्रियः |
विघसाशी यताहारो गृहस्थः सत्यवाक्षुचिः ||३९||
अतिथिव्रतता धर्मो धर्मस्त्रेताग्निधारणम् |
इष्टीश्च पशुबन्धांश्च विधिपूर्वं समाचरेत् ||४०||
यज्ञश्च परमो धर्मस्तथाहिंसा च देहिषु |
अपूर्वभोजनं धर्मो विघसाशित्वमेव च ||४१||
भुक्ते परिजने पश्चाद्भोजनं धर्म उच्यते |
ब्राह्मणस्य गृहस्थस्य श्रोत्रियस्य विशेषतः ||४२||
दम्पत्योः समशीलत्वं धर्मश्च गृहमेधिनाम् |
गृह्याणां चैव देवानां नित्यं पुष्पबलिक्रिया ||४३||
नित्योपलेपनं धर्मस्तथा नित्योपवासिता |
सुसंमृष्टोपलिप्ते च साज्यधूमोद्गमे गृहे ||४४||
एष द्विजजने धर्मो गार्हस्थ्यो लोकधारणः |
द्विजातीनां सतां नित्यं सदैवैष प्रवर्तते ||४५||
यस्तु क्षत्रगतो देवि त्वया धर्म उदीरितः |
तमहं ते प्रवक्ष्यामि तं मे शृणु समाहिता ||४६||
क्षत्रियस्य स्मृतो धर्मः प्रजापालनमादितः |
निर्दिष्टफलभोक्ता हि राजा धर्मेण युज्यते ||४७||
प्रजाः पालयते यो हि धर्मेण मनुजाधिपः |
तस्य धर्मार्जिता लोकाः प्रजापालनसञ्चिताः ||४८||
तत्र राज्ञः परो धर्मो दमः स्वाध्याय एव च |
अग्निहोत्रपरिस्पन्दो दानाध्ययनमेव च ||४९||
यज्ञोपवीतधारणं यज्ञो धर्मक्रियास्तथा |
भृत्यानां भरणं धर्मः कृते कर्मण्यमोघता ||५०||
सम्यग्दण्डे स्थितिर्धर्मो धर्मो वेदक्रतुक्रियाः |
व्यवहारस्थितिर्धर्मः सत्यवाक्यरतिस्तथा ||५१||
आर्तहस्तप्रदो राजा प्रेत्य चेह महीयते |
गोब्राह्मणार्थे विक्रान्तः सङ्ग्रामे निधनं गतः ||५२||
अश्वमेधजिताँल्लोकान्प्राप्नोति त्रिदिवालये ||५२||
वैश्यस्य सततं धर्मः पाशुपाल्यं कृषिस्तथा |
अग्निहोत्रपरिस्पन्दो दानाध्ययनमेव च ||५३||
वाणिज्यं सत्पथस्थानमातिथ्यं प्रशमो दमः |
विप्राणां स्वागतं त्यागो वैश्यधर्मः सनातनः ||५४||
तिलान्गन्धान्रसांश्चैव न विक्रीणीत वै क्वचित् |
वणिक्पथमुपासीनो वैश्यः सत्पथमाश्रितः ||५५||
सर्वातिथ्यं त्रिवर्गस्य यथाशक्ति यथार्हतः |
शूद्रधर्मः परो नित्यं शुश्रूषा च द्विजातिषु ||५६||
स शूद्रः संशिततपाः सत्यसन्धो जितेन्द्रियः |
शुश्रूषन्नतिथिं प्राप्तं तपः सञ्चिनुते महत् ||५७||
त्यक्तहिंसः शुभाचारो देवताद्विजपूजकः |
शूद्रो धर्मफलैरिष्टैः सम्प्रयुज्येत बुद्धिमान् ||५८||
एतत्ते सर्वमाख्यातं चातुर्वर्ण्यस्य शोभने |
एकैकस्येह सुभगे किमन्यच्छ्रोतुमिच्छसि ||५९||
१२९
उमोवाच||
उक्तास्त्वया पृथग्धर्माश्चातुर्वर्ण्यहिताः शुभाः |
सर्वव्यापी तु यो धर्मो भगवंस्तं ब्रवीहि मे ||१||
महेश्वर उवाच||
ब्राह्मणा लोकसारेण सृष्टा धात्रा गुणार्थिना |
लोकांस्तारयितुं कृत्स्नान्मर्त्येषु क्षितिदेवताः ||२||
तेषामिमं प्रवक्ष्यामि धर्मकर्मफलोदयम् |
ब्राह्मणेषु हि यो धर्मः स धर्मः परमो मतः ||३||
इमे तु लोकधर्मार्थं त्रयः सृष्टाः स्वयम्भुवा |
पृथिव्याः सर्जने नित्यं सृष्टास्तानपि मे शृणु ||४||
वेदोक्तः परमो धर्मः स्मृतिशास्त्रगतोऽपरः |
शिष्टाचीर्णः परः प्रोक्तस्त्रयो धर्माः सनातनाः ||५||
त्रैविद्यो ब्राह्मणो विद्वान्न चाध्ययनजीवनः |
त्रिकर्मा त्रिपरिक्रान्तो मैत्र एष स्मृतो द्विजः ||६||
षडिमानि तु कर्माणि प्रोवाच भुवनेश्वरः |
वृत्त्यर्थं ब्राह्मणानां वै शृणु तानि समाहिता ||७||
यजनं याजनं चैव तथा दानप्रतिग्रहौ |
अध्यापनमधीतं च षट्कर्मा धर्मभाग्द्विजः ||८||
नित्यस्वाध्यायता धर्मो धर्मो यज्ञः सनातनः |
दानं प्रशस्यते चास्य यथाशक्ति यथाविधि ||९||
अयं तु परमो धर्मः प्रवृत्तः सत्सु नित्यशः |
गृहस्थता विशुद्धानां धर्मस्य निचयो महान् ||१०||
पञ्चयज्ञविशुद्धात्मा सत्यवागनसूयकः |
दाता ब्राह्मणसत्कर्ता सुसंमृष्टनिवेशनः ||११||
अमानी च सदाजिह्मः स्निग्धवाणीप्रदस्तथा |
अतिथ्यभ्यागतरतिः शेषान्नकृतभोजनः ||१२||
पाद्यमर्घ्यं यथान्यायमासनं शयनं तथा |
दीपं प्रतिश्रयं चापि यो ददाति स धार्मिकः ||१३||
प्रातरुत्थाय चाचम्य भोजनेनोपमन्त्र्य च |
सत्कृत्यानुव्रजेद्यश्च तस्य धर्मः सनातनः ||१४||
सर्वातिथ्यं त्रिवर्गस्य यथाशक्ति दिवानिशम् |
शूद्रधर्मः समाख्यातस्त्रिवर्णपरिचारणम् ||१५||
प्रवृत्तिलक्षणो धर्मो गृहस्थेषु विधीयते |
तमहं कीर्तयिष्यामि सर्वभूतहितं शुभम् ||१६||
दातव्यमसकृच्छक्त्या यष्टव्यमसकृत्तथा |
पुष्टिकर्मविधानं च कर्तव्यं भूतिमिच्छता ||१७||
धर्मेणार्थः समाहार्यो धर्मलब्धं त्रिधा धनम् |
कर्तव्यं धर्मपरमं मानवेन प्रयत्नतः ||१८||
एकेनांशेन धर्मार्थश्चर्तव्यो भूतिमिच्छता |
एकेनांशेन कामार्थ एकमंशं विवर्धयेत् ||१९||
निवृत्तिलक्षणस्त्वन्यो धर्मो मोक्ष इति स्मृतः |
तस्य वृत्तिं प्रवक्ष्यामि शृणु मे देवि तत्त्वतः ||२०||
सर्वभूतदया धर्मो न चैकग्रामवासिता |
आशापाशविमोक्षश्च शस्यते मोक्षकाङ्क्षिणाम् ||२१||
न कुण्ड्यां नोदके सङ्गो न वाससि न चासने |
न त्रिदण्डे न शयने नाग्नौ न शरणालये ||२२||
अध्यात्मगतचित्तो यस्तन्मनास्तत्परायणः |
युक्तो योगं प्रति सदा प्रतिसङ्ख्यानमेव च ||२३||
वृक्षमूलशयो नित्यं शून्यागारनिवेशनः |
नदीपुलिनशायी च नदीतीररतिश्च यः ||२४||
विमुक्तः सर्वसङ्गेषु स्नेहबन्धेषु च द्विजः |
आत्मन्येवात्मनो भावं समासज्याटति द्विजः ||२५||
स्थाणुभूतो निराहारो मोक्षदृष्टेन कर्मणा |
परिव्रजति यो युक्तस्तस्य धर्मः सनातनः ||२६||
न चैकत्र चिरासक्तो न चैकग्रामगोचरः |
युक्तो ह्यटति निर्मुक्तो न चैकपुलिनेशयः ||२७||
एष मोक्षविदां धर्मो वेदोक्तः सत्पथः सताम् |
यो मार्गमनुयातीमं पदं तस्य न विद्यते ||२८||
चतुर्विधा भिक्षवस्ते कुटीचरकृतोदकः |
हंसः परमहंसश्च यो यः पश्चात्स उत्तमः ||२९||
अतः परतरं नास्ति नाधरं न तिरोऽग्रतः |
अदुःखमसुखं सौम्यमजरामरमव्ययम् ||३०||
उमोवाच||
गार्हस्थ्यो मोक्षधर्मश्च सज्जनाचरितस्त्वया |
भाषितो मर्त्यलोकस्य मार्गः श्रेयस्करो महान् ||३१||
ऋषिधर्मं तु धर्मज्ञ श्रोतुमिच्छाम्यनुत्तमम् |
स्पृहा भवति मे नित्यं तपोवननिवासिषु ||३२||
आज्यधूमोद्भवो गन्धो रुणद्धीव तपोवनम् |
तं दृष्ट्वा मे मनः प्रीतं महेश्वर सदा भवेत् ||३३||
एतं मे संशयं देव मुनिधर्मकृतं विभो |
सर्वधर्मार्थतत्त्वज्ञ देवदेव वदस्व मे ||३४||
निखिलेन मया पृष्टं महादेव यथातथम् ||३४||
महेश्वर उवाच||
हन्त तेऽहं प्रवक्ष्यामि मुनिधर्ममनुत्तमम् |
यं कृत्वा मुनयो यान्ति सिद्धिं स्वतपसा शुभे ||३५||
फेनपानामृषीणां यो धर्मो धर्मविदां सदा |
तं मे शृणु महाभागे धर्मज्ञे धर्ममादितः ||३६||
उञ्छन्ति सततं तस्मिन्ब्राह्मं फेनोत्करं शुभम् |
अमृतं ब्रह्मणा पीतं मधुरं प्रसृतं दिवि ||३७||
एष तेषां विशुद्धानां फेनपानां तपोधने |
धर्मचर्याकृतो मार्गो वालखिल्यगणे शृणु ||३८||
वालखिल्यास्तपःसिद्धा मुनयः सूर्यमण्डले |
उञ्छमुञ्छन्ति धर्मज्ञाः शाकुनीं वृत्तिमास्थिताः ||३९||
मृगनिर्मोकवसनाश्चीरवल्कलवाससः |
निर्द्वंद्वाः सत्पथं प्राप्ता वालखिल्यास्तपोधनाः ||४०||
अङ्गुष्ठपर्वमात्रास्ते स्वेष्वङ्गेषु व्यवस्थिताः |
तपश्चरणमीहन्ते तेषां धर्मफलं महत् ||४१||
ते सुरैः समतां यान्ति सुरकार्यार्थसिद्धये |
द्योतयन्तो दिशः सर्वास्तपसा दग्धकिल्बिषाः ||४२||
ये त्वन्ये शुद्धमनसो दयाधर्मपरायणाः |
सन्तश्चक्रचराः पुण्याः सोमलोकचराश्च ये ||४३||
पितृलोकसमीपस्थास्त उञ्छन्ति यथाविधि |
सम्प्रक्षालाश्मकुट्टाश्च दन्तोलूखलिनस्तथा ||४४||
सोमपानां च देवानामूष्मपाणां तथैव च |
उञ्छन्ति ये समीपस्थाः स्वभावनियतेन्द्रियाः ||४५||
तेषामग्निपरिष्यन्दः पितृदेवार्चनं तथा |
यज्ञानां चापि पञ्चानां यजनं धर्म उच्यते ||४६||
एष चक्रचरैर्देवि देवलोकचरैर्द्विजैः |
ऋषिधर्मः सदा चीर्णो योऽन्यस्तमपि मे शृणु ||४७||
सर्वेष्वेवर्षिधर्मेषु जेय आत्मा जितेन्द्रियः |
कामक्रोधौ ततः पश्चाज्जेतव्याविति मे मतिः ||४८||
अग्निहोत्रपरिस्पन्दो धर्मरात्रिसमासनम् |
सोमयज्ञाभ्यनुज्ञानं पञ्चमी यज्ञदक्षिणा ||४९||
नित्यं यज्ञक्रिया धर्मः पितृदेवार्चने रतिः |
सर्वातिथ्यं च कर्तव्यमन्नेनोञ्छार्जितेन वै ||५०||
निवृत्तिरुपभोगस्य गोरसानां च वै रतिः |
स्थण्डिले शयनं योगः शाकपर्णनिषेवणम् ||५१||
फलमूलाशनं वायुरापः शैवलभक्षणम् |
ऋषीणां नियमा ह्येते यैर्जयन्त्यजितां गतिम् ||५२||
विधूमे न्यस्तमुसले व्यङ्गारे भुक्तवज्जने |
अतीतपात्रसञ्चारे काले विगतभैक्षके ||५३||
अतिथिं काङ्क्षमाणो वै शेषान्नकृतभोजनः |
सत्यधर्मरतिः क्षान्तो मुनिधर्मेण युज्यते ||५४||
न स्तम्भी न च मानी यो न प्रमत्तो न विस्मितः |
मित्रामित्रसमो मैत्रो यः स धर्मविदुत्तमः ||५५||
१३०
उमोवाच||
देशेषु रमणीयेषु गिरीणां निर्झरेषु च |
स्रवन्तीनां च कुञ्जेषु पर्वतोपवनेषु च ||१||
देशेषु च विचित्रेषु फलवत्सु समाहिताः |
मूलवत्सु च देशेषु वसन्ति नियतव्रताः ||२||
तेषामपि विधिं पुण्यं श्रोतुमिच्छामि शङ्कर |
वानप्रस्थेषु देवेश स्वशरीरोपजीविषु ||३||
महेश्वर उवाच||
वानप्रस्थेषु यो धर्मस्तं मे शृणु समाहिता |
श्रुत्वा चैकमना देवि धर्मबुद्धिपरा भव ||४||
संसिद्धैर्नियतैः सद्भिर्वनवासमुपागतैः |
वानप्रस्थैरिदं कर्म कर्तव्यं शृणु यादृशम् ||५||
त्रिकालमभिषेकार्थः पितृदेवार्चनं क्रिया |
अग्निहोत्रपरिस्पन्द इष्टिहोमविधिस्तथा ||६||
नीवारग्रहणं चैव फलमूलनिषेवणम् |
इङ्गुदैरण्डतैलानां स्नेहार्थं च निषेवणम् ||७||
योगचर्याकृतैः सिद्धैः कामक्रोधविवर्जनम् |
वीरशय्यामुपासद्भिर्वीरस्थानोपसेविभिः ||८||
युक्तैर्योगवहैः सद्भिर्ग्रीष्मे पञ्चतपैस्तथा |
मण्डूकयोगनियतैर्यथान्यायनिषेविभिः ||९||
वीरासनगतैर्नित्यं स्थण्डिले शयनैस्तथा |
शीतयोगोऽग्नियोगश्च चर्तव्यो धर्मबुद्धिभिः ||१०||
अब्भक्षैर्वायुभक्षैश्च शैवालोत्तरभोजनैः |
अश्मकुट्टैस्तथा दान्तैः सम्प्रक्षालैस्तथापरैः ||११||
चीरवल्कलसंवीतैर्मृगचर्मनिवासिभिः |
कार्या यात्रा यथाकालं यथाधर्मं यथाविधि ||१२||
वननित्यैर्वनचरैर्वनपैर्वनगोचरैः |
वनं गुरुमिवासाद्य वस्तव्यं वनजीविभिः ||१३||
तेषां होमक्रिया धर्मः पञ्चयज्ञनिषेवणम् |
नागपञ्चमयज्ञस्य वेदोक्तस्यानुपालनम् ||१४||
अष्टमीयज्ञपरता चातुर्मास्यनिषेवणम् |
पौर्णमास्यां तु यो यज्ञो नित्ययज्ञस्तथैव च ||१५||
विमुक्ता दारसंयोगैर्विमुक्ताः सर्वसङ्करैः |
विमुक्ताः सर्वपापैश्च चरन्ति मुनयो वने ||१६||
स्रुग्भाण्डपरमा नित्यं त्रेताग्निशरणाः सदा |
सन्तः सत्पथनित्या ये ते यान्ति परमां गतिम् ||१७||
ब्रह्मलोकं महापुण्यं सोमलोकं च शाश्वतम् |
गच्छन्ति मुनयः सिद्धा ऋषिधर्मव्यपाश्रयात् ||१८||
एष धर्मो मया देवि वानप्रस्थाश्रितः शुभः |
विस्तरेणार्थसम्पन्नो यथास्थूलमुदाहृतः ||१९||
उमोवाच||
भगवन्देवदेवेश सर्वभूतनमस्कृत |
यो धर्मो मुनिसङ्घस्य सिद्धिवादेषु तं वद ||२०||
सिद्धिवादेषु संसिद्धास्तथा वननिवासिनः |
स्वैरिणो दारसंयुक्तास्तेषां धर्मः कथं स्मृतः ||२१||
महेश्वर उवाच||
स्वैरिणस्तापसा देवि सर्वे दारविहारिणः |
तेषां मौण्ड्यं कषायश्च वासरात्रिश्च कारणम् ||२२||
त्रिकालमभिषेकश्च होत्रं त्वृषिकृतं महत् |
समाधिः सत्पथस्थानं यथोदितनिषेवणम् ||२३||
ये च ते पूर्वकथिता धर्मा वननिवासिनाम् |
यदि सेवन्ति धर्मांस्तानाप्नुवन्ति तपःफलम् ||२४||
ये च दम्पतिधर्माणः स्वदारनियतेन्द्रियाः |
चरन्ति विधिदृष्टं तदृतुकालाभिगामिनः ||२५||
तेषामृषिकृतो धर्मो धर्मिणामुपपद्यते |
न कामकारात्कामोऽन्यः संसेव्यो धर्मदर्शिभिः ||२६||
सर्वभूतेषु यः सम्यग्ददात्यभयदक्षिणाम् |
हिंसारोषविमुक्तात्मा स वै धर्मेण युज्यते ||२७||
सर्वभूतानुकम्पी यः सर्वभूतार्जवव्रतः |
सर्वभूतात्मभूतश्च स वै धर्मेण युज्यते ||२८||
सर्ववेदेषु वा स्नानं सर्वभूतेषु चार्जवम् |
उभे एते समे स्यातामार्जवं वा विशिष्यते ||२९||
आर्जवं धर्म इत्याहुरधर्मो जिह्म उच्यते |
आर्जवेनेह संयुक्तो नरो धर्मेण युज्यते ||३०||
आर्जवो भुवने नित्यं वसत्यमरसंनिधौ |
तस्मादार्जवनित्यः स्याद्य इच्छेद्धर्ममात्मनः ||३१||
क्षान्तो दान्तो जितक्रोधो धर्मभूतोऽविहिंसकः |
धर्मे रतमना नित्यं नरो धर्मेण युज्यते ||३२||
व्यपेततन्द्रो धर्मात्मा शक्या सत्पथमाश्रितः |
चारित्रपरमो बुद्धो ब्रह्मभूयाय कल्पते ||३३||
उमोवाच||
आश्रमाभिरता देव तापसा ये तपोधनाः |
दीप्तिमन्तः कया चैव चर्ययाथ भवन्ति ते ||३४||
राजानो राजपुत्राश्च निर्धना वा महाधनाः |
कर्मणा केन भगवन्प्राप्नुवन्ति महाफलम् ||३५||
नित्यं स्थानमुपागम्य दिव्यचन्दनरूषिताः |
केन वा कर्मणा देव भवन्ति वनगोचराः ||३६||
एतं मे संशयं देव तपश्चर्यागतं शुभम् |
शंस सर्वमशेषेण त्र्यक्ष त्रिपुरनाशन ||३७||
महेश्वर उवाच||
उपवासव्रतैर्दान्ता अहिंस्राः सत्यवादिनः |
संसिद्धाः प्रेत्य गन्धर्वैः सह मोदन्त्यनामयाः ||३८||
मण्डूकयोगशयनो यथास्थानं यथाविधि |
दीक्षां चरति धर्मात्मा स नागैः सह मोदते ||३९||
शष्पं मृगमुखोत्सृष्टं यो मृगैः सह सेवते |
दीक्षितो वै मुदा युक्तः स गच्छत्यमरावतीम् ||४०||
शैवालं शीर्णपर्णं वा तद्व्रतो यो निषेवते |
शीतयोगवहो नित्यं स गच्छेत्परमां गतिम् ||४१||
वायुभक्षोऽम्बुभक्षो वा फलमूलाशनोऽपि वा |
यक्षेष्वैश्वर्यमाधाय मोदतेऽप्सरसां गणैः ||४२||
अग्नियोगवहो ग्रीष्मे विधिदृष्टेन कर्मणा |
चीर्त्वा द्वादश वर्षाणि राजा भवति पार्थिवः ||४३||
आहारनियमं कृत्वा मुनिर्द्वादशवार्षिकम् |
मरुं संसाध्य यत्नेन राजा भवति पार्थिवः ||४४||
स्थण्डिले शुद्धमाकाशं परिगृह्य समन्ततः |
प्रविश्य च मुदा युक्तो दीक्षां द्वादशवार्षिकीम् ||४५||
स्थण्डिलस्य फलान्याहुर्यानानि शयनानि च |
गृहाणि च महार्हाणि चन्द्रशुभ्राणि भामिनि ||४६||
आत्मानमुपजीवन्यो नियतो नियताशनः |
देहं वानशने त्यक्त्वा स स्वर्गं समुपाश्नुते ||४७||
आत्मानमुपजीवन्यो दीक्षां द्वादशवार्षिकीम् |
त्यक्त्वा महार्णवे देहं वारुणं लोकमश्नुते ||४८||
आत्मानमुपजीवन्यो दीक्षां द्वादशवार्षिकीम् |
अश्मना चरणौ भित्त्वा गुह्यकेषु स मोदते ||४९||
साधयित्वात्मनात्मानं निर्द्वंद्वो निष्परिग्रहः |
चीर्त्वा द्वादश वर्षाणि दीक्षामेकां मनोगताम् ||५०||
स्वर्गलोकमवाप्नोति देवैश्च सह मोदते ||५०||
आत्मानमुपजीवन्यो दीक्षां द्वादशवार्षिकीम् |
हुत्वाग्नौ देहमुत्सृज्य वह्निलोके महीयते ||५१||
यस्तु देवि यथान्यायं दीक्षितो नियतो द्विजः |
आत्मन्यात्मानमाधाय निर्द्वंद्वो निष्परिग्रहः ||५२||
चीर्त्वा द्वादश वर्षाणि दीक्षामेकां मनोगताम् |
अरणीसहितं स्कन्धे बद्ध्वा गच्छत्यनावृतः ||५३||
वीराध्वानमना नित्यं वीरासनरतस्तथा |
वीरस्थायी च सततं स वीरगतिमाप्नुयात् ||५४||
स शक्रलोकगो नित्यं सर्वकामपुरस्कृतः |
दिव्यपुष्पसमाकीर्णो दिव्यचन्दनभूषितः ||५५||
सुखं वसति धर्मात्मा दिवि देवगणैः सह ||५५||
वीरलोकगतो वीरो वीरयोगवहः सदा |
सत्त्वस्थः सर्वमुत्सृज्य दीक्षितो नियतः शुचिः ||५६||
वीराध्वानं प्रपद्येद्यस्तस्य लोकाः सनातनाः ||५६||
कामगेन विमानेन स वै चरति च्छन्दतः |
शक्रलोकगतः श्रीमान्मोदते च निरामयः ||५७||
१३१
उमोवाच||
भगवन्भगनेत्रघ्न पूष्णो दशनपातन |
दक्षक्रतुहर त्र्यक्ष संशयो मे महानयम् ||१||
चातुर्वर्ण्यं भगवता पूर्वं सृष्टं स्वयम्भुवा |
केन कर्मविपाकेन वैश्यो गच्छति शूद्रताम् ||२||
वैश्यो वा क्षत्रियः केन द्विजो वा क्षत्रियो भवेत् |
प्रतिलोमः कथं देव शक्यो धर्मो निषेवितुम् ||३||
केन वा कर्मणा विप्रः शूद्रयोनौ प्रजायते |
क्षत्रियः शूद्रतामेति केन वा कर्मणा विभो ||४||
एतं मे संशयं देव वद भूतपतेऽनघ |
त्रयो वर्णाः प्रकृत्येह कथं ब्राह्मण्यमाप्नुयुः ||५||
महेश्वर उवाच||
ब्राह्मण्यं देवि दुष्प्रापं निसर्गाद्ब्राह्मणः शुभे |
क्षत्रियो वैश्यशूद्रौ वा निसर्गादिति मे मतिः ||६||
कर्मणा दुष्कृतेनेह स्थानाद्भ्रश्यति वै द्विजः |
ज्येष्ठं वर्णमनुप्राप्य तस्माद्रक्षेत वै द्विजः ||७||
स्थितो ब्राह्मणधर्मेण ब्राह्मण्यमुपजीवति |
क्षत्रियो वाथ वैश्यो वा ब्रह्मभूयाय गच्छति ||८||
यस्तु विप्रत्वमुत्सृज्य क्षात्रं धर्मं निषेवते |
ब्राह्मण्यात्स परिभ्रष्टः क्षत्रयोनौ प्रजायते ||९||
वैश्यकर्म च यो विप्रो लोभमोहव्यपाश्रयः |
ब्राह्मण्यं दुर्लभं प्राप्य करोत्यल्पमतिः सदा ||१०||
स द्विजो वैश्यतामेति वैश्यो वा शूद्रतामियात् |
स्वधर्मात्प्रच्युतो विप्रस्ततः शूद्रत्वमाप्नुते ||११||
तत्रासौ निरयं प्राप्तो वर्णभ्रष्टो बहिष्कृतः |
ब्रह्मलोकपरिभ्रष्टः शूद्रः समुपजायते ||१२||
क्षत्रियो वा महाभागे वैश्यो वा धर्मचारिणि |
स्वानि कर्माण्यपाहाय शूद्रकर्माणि सेवते ||१३||
स्वस्थानात्स परिभ्रष्टो वर्णसङ्करतां गतः |
ब्राह्मणः क्षत्रियो वैश्यः शूद्रत्वं याति तादृशः ||१४||
यस्तु शुद्धः स्वधर्मेण ज्ञानविज्ञानवाञ्शुचिः |
धर्मज्ञो धर्मनिरतः स धर्मफलमश्नुते ||१५||
इदं चैवापरं देवि ब्रह्मणा समुदीरितम् |
अध्यात्मं नैष्ठिकं सद्भिर्धर्मकामैर्निषेव्यते ||१६||
उग्रान्नं गर्हितं देवि गणान्नं श्राद्धसूतकम् |
घुष्टान्नं नैव भोक्तव्यं शूद्रान्नं नैव कर्हिचित् ||१७||
शूद्रान्नं गर्हितं देवि देवदेवैर्महात्मभिः |
पितामहमुखोत्सृष्टं प्रमाणमिति मे मतिः ||१८||
शूद्रान्नेनावशेषेण जठरे यो म्रियेत वै |
आहिताग्निस्तथा यज्वा स शूद्रगतिभाग्भवेत् ||१९||
तेन शूद्रान्नशेषेण ब्रह्मस्थानादपाकृतः |
ब्राह्मणः शूद्रतामेति नास्ति तत्र विचारणा ||२०||
यस्यान्नेनावशेषेण जठरे यो म्रियेत वै |
तां तां योनिं व्रजेद्विप्रो यस्यान्नमुपजीवति ||२१||
ब्राह्मणत्वं शुभं प्राप्य दुर्लभं योऽवमन्यते |
अभोज्यान्नानि चाश्नाति स द्विजत्वात्पतेत वै ||२२||
सुरापो ब्रह्महा क्षुद्रश्चौरो भग्नव्रतोऽशुचिः |
स्वाध्यायवर्जितः पापो लुब्धो नैकृतिकः शठः ||२३||
अव्रती वृषलीभर्ता कुण्डाशी सोमविक्रयी |
निहीनसेवी विप्रो हि पतति ब्रह्मयोनितः ||२४||
गुरुतल्पी गुरुद्वेषी गुरुकुत्सारतिश्च यः |
ब्रह्मद्विट्चापि पतति ब्राह्मणो ब्रह्मयोनितः ||२५||
एभिस्तु कर्मभिर्देवि शुभैराचरितैस्तथा |
शूद्रो ब्राह्मणतां गच्छेद्वैश्यः क्षत्रियतां व्रजेत् ||२६||
शूद्रकर्माणि सर्वाणि यथान्यायं यथाविधि |
शुश्रूषां परिचर्यां च ज्येष्ठे वर्णे प्रयत्नतः ||२७||
कुर्यादविमनाः शूद्रः सततं सत्पथे स्थितः ||२७||
दैवतद्विजसत्कर्ता सर्वातिथ्यकृतव्रतः |
ऋतुकालाभिगामी च नियतो नियताशनः ||२८||
चौक्षश्चौक्षजनान्वेषी शेषान्नकृतभोजनः |
वृथामांसान्यभुञ्जानः शूद्रो वैश्यत्वमृच्छति ||२९||
ऋतवागनहंवादी निर्द्वंद्वः शमकोविदः |
यजते नित्ययज्ञैश्च स्वाध्यायपरमः शुचिः ||३०||
दान्तो ब्राह्मणसत्कर्ता सर्ववर्णबुभूषकः |
गृहस्थव्रतमातिष्ठन्द्विकालकृतभोजनः ||३१||
शेषाशी विजिताहारो निष्कामो निरहंवदः |
अग्निहोत्रमुपासंश्च जुह्वानश्च यथाविधि ||३२||
सर्वातिथ्यमुपातिष्ठञ्शेषान्नकृतभोजनः |
त्रेताग्निमन्त्रविहितो वैश्यो भवति वै यदि ||३३||
स वैश्यः क्षत्रियकुले शुचौ महति जायते ||३३||
स वैश्यः क्षत्रियो जातो जन्मप्रभृति संस्कृतः |
उपनीतो व्रतपरो द्विजो भवति सत्कृतः ||३४||
ददाति यजते यज्ञैः संस्कृतैराप्तदक्षिणैः |
अधीते स्वर्गमन्विच्छंस्त्रेताग्निशरणः सदा ||३५||
आर्तहस्तप्रदो नित्यं प्रजा धर्मेण पालयन् |
सत्यः सत्यानि कुरुते नित्यं यः सुखदर्शनः ||३६||
धर्मदण्डो न निर्दण्डो धर्मकार्यानुशासकः |
यन्त्रितः कार्यकरणे षड्भागकृतलक्षणः ||३७||
ग्राम्यधर्मान्न सेवेत स्वच्छन्देनार्थकोविदः |
ऋतुकाले तु धर्मात्मा पत्नीं सेवेत नित्यदा ||३८||
सर्वोपवासी नियतः स्वाध्यायपरमः शुचिः |
बर्हिष्कान्तरिते नित्यं शयानोऽग्निगृहे सदा ||३९||
सर्वातिथ्यं त्रिवर्गस्य कुर्वाणः सुमनाः सदा |
शूद्राणां चान्नकामानां नित्यं सिद्धमिति ब्रुवन् ||४०||
स्वार्थाद्वा यदि वा कामान्न किञ्चिदुपलक्षयेत् |
पितृदेवातिथिकृते साधनं कुरुते च यः ||४१||
स्ववेश्मनि यथान्यायमुपास्ते भैक्षमेव च |
त्रिकालमग्निहोत्रं च जुह्वानो वै यथाविधि ||४२||
गोब्राह्मणहितार्थाय रणे चाभिमुखो हतः |
त्रेताग्निमन्त्रपूतं वा समाविश्य द्विजो भवेत् ||४३||
ज्ञानविज्ञानसम्पन्नः संस्कृतो वेदपारगः |
विप्रो भवति धर्मात्मा क्षत्रियः स्वेन कर्मणा ||४४||
एतैः कर्मफलैर्देवि न्यूनजातिकुलोद्भवः |
शूद्रोऽप्यागमसम्पन्नो द्विजो भवति संस्कृतः ||४५||
ब्राह्मणो वाप्यसद्वृत्तः सर्वसङ्करभोजनः |
ब्राह्मण्यं पुण्यमुत्सृज्य शूद्रो भवति तादृशः ||४६||
कर्मभिः शुचिभिर्देवि शुद्धात्मा विजितेन्द्रियः |
शूद्रोऽपि द्विजवत्सेव्य इति ब्रह्माब्रवीत्स्वयम् ||४७||
स्वभावकर्म च शुभं यत्र शूद्रेऽपि तिष्ठति |
विशुद्धः स द्विजातिर्वै विज्ञेय इति मे मतिः ||४८||
न योनिर्नापि संस्कारो न श्रुतं न च संनतिः |
कारणानि द्विजत्वस्य वृत्तमेव तु कारणम् ||४९||
सर्वोऽयं ब्राह्मणो लोके वृत्तेन तु विधीयते |
वृत्ते स्थितश्च सुश्रोणि ब्राह्मणत्वं निगच्छति ||५०||
ब्राह्मः स्वभावः कल्याणि समः सर्वत्र मे मतिः |
निर्गुणं निर्मलं ब्रह्म यत्र तिष्ठति स द्विजः ||५१||
एते योनिफला देवि स्थानभागनिदर्शकाः |
स्वयं च वरदेनोक्ता ब्रह्मणा सृजता प्रजाः ||५२||
ब्राह्मणो हि महत्क्षेत्रं लोके चरति पादवत् |
यत्तत्र बीजं वपति सा कृषिः पारलौकिकी ||५३||
मिताशिना सदा भाव्यं सत्पथालम्बिना सदा |
ब्राह्ममार्गमतिक्रम्य वर्तितव्यं बुभूषता ||५४||
संहिताध्यायिना भाव्यं गृहे वै गृहमेधिना |
नित्यं स्वाध्याययुक्तेन दानाध्ययनजीविना ||५५||
एवम्भूतो हि यो विप्रः सततं सत्पथे स्थितः |
आहिताग्निरधीयानो ब्रह्मभूयाय कल्पते ||५६||
ब्राह्मण्यमेव सम्प्राप्य रक्षितव्यं यतात्मभिः |
योनिप्रतिग्रहादानैः कर्मभिश्च शुचिस्मिते ||५७||
एतत्ते सर्वमाख्यातं यथा शूद्रो भवेद्द्विजः |
ब्राह्मणो वा च्युतो धर्माद्यथा शूद्रत्वमाप्नुते ||५८||
१३२
उमोवाच||
भगवन्सर्वभूतेश सुरासुरनमस्कृत |
धर्माधर्मे नृणां देव ब्रूहि मे संशयं विभो ||१||
कर्मणा मनसा वाचा त्रिविधं हि नरः सदा |
बध्यते बन्धनैः पाशैर्मुच्यतेऽप्यथ वा पुनः ||२||
केन शीलेन वा देव कर्मणा कीदृशेन वा |
समाचारैर्गुणैर्वाक्यैः स्वर्गं यान्तीह मानवाः ||३||
महेश्वर उवाच||
देवि धर्मार्थतत्त्वज्ञे सत्यनित्ये दमे रते |
सर्वप्राणिहितः प्रश्नः श्रूयतां बुद्धिवर्धनः ||४||
सत्यधर्मरताः सन्तः सर्वलिप्साविवर्जिताः |
नाधर्मेण न धर्मेण बध्यन्ते छिन्नसंशयाः ||५||
प्रलयोत्पत्तितत्त्वज्ञाः सर्वज्ञाः समदर्शिनः |
वीतरागा विमुच्यन्ते पुरुषाः सर्वबन्धनैः ||६||
कर्मणा मनसा वाचा ये न हिंसन्ति किञ्चन |
ये न सज्जन्ति कस्मिंश्चिद्बध्यन्ते ते न कर्मभिः ||७||
प्राणातिपाताद्विरताः शीलवन्तो दयान्विताः |
तुल्यद्वेष्यप्रिया दान्ता मुच्यन्ते कर्मबन्धनैः ||८||
सर्वभूतदयावन्तो विश्वास्याः सर्वजन्तुषु |
त्यक्तहिंसासमाचारास्ते नराः स्वर्गगामिनः ||९||
परस्वे निर्ममा नित्यं परदारविवर्जकाः |
धर्मलब्धार्थभोक्तारस्ते नराः स्वर्गगामिनः ||१०||
मातृवत्स्वसृवच्चैव नित्यं दुहितृवच्च ये |
परदारेषु वर्तन्ते ते नराः स्वर्गगामिनः ||११||
स्तैन्यान्निवृत्ताः सततं सन्तुष्टाः स्वधनेन च |
स्वभाग्यान्युपजीवन्ति ते नराः स्वर्गगामिनः ||१२||
स्वदारनिरता ये च ऋतुकालाभिगामिनः |
अग्राम्यसुखभोगाश्च ते नराः स्वर्गगामिनः ||१३||
परदारेषु ये नित्यं चारित्रावृतलोचनाः |
यतेन्द्रियाः शीलपरास्ते नराः स्वर्गगामिनः ||१४||
एष देवकृतो मार्गः सेवितव्यः सदा नरैः |
अकषायकृतश्चैव मार्गः सेव्यः सदा बुधैः ||१५||
दानधर्मतपोयुक्तः शीलशौचदयात्मकः |
वृत्त्यर्थं धर्महेतोर्वा सेवितव्यः सदा नरैः ||१६||
स्वर्गवासमभीप्सद्भिर्न सेव्यस्त्वत उत्तरः ||१६||
उमोवाच||
वाचाथ बध्यते येन मुच्यतेऽप्यथ वा पुनः |
तानि कर्माणि मे देव वद भूतपतेऽनघ ||१७||
महेश्वर उवाच||
आत्महेतोः परार्थे वा नर्महास्याश्रयात्तथा |
ये मृषा न वदन्तीह ते नराः स्वर्गगामिनः ||१८||
वृत्त्यर्थं धर्महेतोर्वा कामकारात्तथैव च |
अनृतं ये न भाषन्ते ते नराः स्वर्गगामिनः ||१९||
श्लक्ष्णां वाणीं निराबाधां मधुरां पापवर्जिताम् |
स्वागतेनाभिभाषन्ते ते नराः स्वर्गगामिनः ||२०||
कटुकां ये न भाषन्ते परुषां निष्ठुरां गिरम् |
अपैशुन्यरताः सन्तस्ते नराः स्वर्गगामिनः ||२१||
पिशुनां ये न भाषन्ते मित्रभेदकरीं गिरम् |
ऋतां मैत्रीं प्रभाषन्ते ते नराः स्वर्गगामिनः ||२२||
वर्जयन्ति सदा सूच्यं परद्रोहं च मानवाः |
सर्वभूतसमा दान्तास्ते नराः स्वर्गगामिनः ||२३||
शठप्रलापाद्विरता विरुद्धपरिवर्जकाः |
सौम्यप्रलापिनो नित्यं ते नराः स्वर्गगामिनः ||२४||
न कोपाद्व्याहरन्ते ये वाचं हृदयदारणीम् |
सान्त्वं वदन्ति क्रुद्धापि ते नराः स्वर्गगामिनः ||२५||
एष वाणीकृतो देवि धर्मः सेव्यः सदा नरैः |
शुभः सत्यगुणो नित्यं वर्जनीया मृषा बुधैः ||२६||
उमोवाच||
मनसा बध्यते येन कर्मणा पुरुषः सदा |
तन्मे ब्रूहि महाभाग देवदेव पिनाकधृक् ||२७||
महेश्वर उवाच||
मानसेनेह धर्मेण संयुक्ताः पुरुषाः सदा |
स्वर्गं गच्छन्ति कल्याणि तन्मे कीर्तयतः शृणु ||२८||
दुष्प्रणीतेन मनसा दुष्प्रणीततराकृतिः |
बध्यते मानवो येन शृणु चान्यच्छुभानने ||२९||
अरण्ये विजने न्यस्तं परस्वं वीक्ष्य ये नराः |
मनसापि न हिंसन्ति ते नराः स्वर्गगामिनः ||३०||
ग्रामे गृहे वा यद्द्रव्यं पारक्यं विजने स्थितम् |
नाभिनन्दन्ति वै नित्यं ते नराः स्वर्गगामिनः ||३१||
तथैव परदारान्ये कामवृत्तान्रहोगतान् |
मनसापि न हिंसन्ति ते नराः स्वर्गगामिनः ||३२||
शत्रुं मित्रं च ये नित्यं तुल्येन मनसा नराः |
भजन्ति मैत्राः सङ्गम्य ते नराः स्वर्गगामिनः ||३३||
श्रुतवन्तो दयावन्तः शुचयः सत्यसङ्गराः |
स्वैरर्थैः परिसन्तुष्टास्ते नराः स्वर्गगामिनः ||३४||
अवैरा ये त्वनायासा मैत्रचित्तपराः सदा |
सर्वभूतदयावन्तस्ते नराः स्वर्गगामिनः ||३५||
श्रद्धावन्तो दयावन्तश्चोक्षाश्चोक्षजनप्रियाः |
धर्माधर्मविदो नित्यं ते नराः स्वर्गगामिनः ||३६||
शुभानामशुभानां च कर्मणां फलसञ्चये |
विपाकज्ञाश्च ये देवि ते नराः स्वर्गगामिनः ||३७||
न्यायोपेता गुणोपेता देवद्विजपराः सदा |
समतां समनुप्राप्तास्ते नराः स्वर्गगामिनः ||३८||
शुभैः कर्मफलैर्देवि मयैते परिकीर्तिताः |
स्वर्गमार्गोपगा भूयः किमन्यच्छ्रोतुमिच्छसि ||३९||
उमोवाच||
महान्मे संशयः कश्चिन्मर्त्यान्प्रति महेश्वर |
तस्मात्तं नैपुणेनाद्य ममाख्यातुं त्वमर्हसि ||४०||
केनायुर्लभते दीर्घं कर्मणा पुरुषः प्रभो |
तपसा वापि देवेश केनायुर्लभते महत् ||४१||
क्षीणायुः केन भवति कर्मणा भुवि मानवः |
विपाकं कर्मणां देव वक्तुमर्हस्यनिन्दित ||४२||
अपरे च महाभोगा मन्दभोगास्तथापरे |
अकुलीनास्तथा चान्ये कुलीनाश्च तथापरे ||४३||
दुर्दर्शाः केचिदाभान्ति नराः काष्ठमया इव |
प्रियदर्शास्तथा चान्ये दर्शनादेव मानवाः ||४४||
दुष्प्रज्ञाः केचिदाभान्ति केचिदाभान्ति पण्डिताः |
महाप्रज्ञास्तथैवान्ये ज्ञानविज्ञानदर्शिनः ||४५||
अल्पाबाधास्तथा केचिन्महाबाधास्तथापरे |
दृश्यन्ते पुरुषा देव तन्मे शंसितुमर्हसि ||४६||
महेश्वर उवाच||
हन्त तेऽहं प्रवक्ष्यामि देवि कर्मफलोदयम् |
मर्त्यलोके नराः सर्वे येन स्वं भुञ्जते फलम् ||४७||
प्राणातिपाती यो रौद्रो दण्डहस्तोद्यतस्तथा |
नित्यमुद्यतदण्डश्च हन्ति भूतगणान्नरः ||४८||
निर्दयः सर्वभूतानां नित्यमुद्वेगकारकः |
अपि कीटपिपीलानामशरण्यः सुनिर्घृणः ||४९||
एवम्भूतो नरो देवि निरयं प्रतिपद्यते |
विपरीतस्तु धर्मात्मा रूपवानभिजायते ||५०||
निरयं याति हिंसात्मा याति स्वर्गमहिंसकः |
यातनां निरये रौद्रां स कृच्छ्रां लभते नरः ||५१||
अथ चेन्निरयात्तस्मात्समुत्तरति कर्हिचित् |
मानुष्यं लभते चापि हीनायुस्तत्र जायते ||५२||
पापेन कर्मणा देवि बद्धो हिंसारतिर्नरः |
अप्रियः सर्वभूतानां हीनायुरुपजायते ||५३||
यस्तु शुक्लाभिजातीयः प्राणिघातविवर्जकः |
निक्षिप्तदण्डो निर्दण्डो न हिनस्ति कदाचन ||५४||
न घातयति नो हन्ति घ्नन्तं नैवानुमोदते |
सर्वभूतेषु सस्नेहो यथात्मनि तथापरे ||५५||
ईदृशः पुरुषोत्कर्षो देवि देवत्वमश्नुते |
उपपन्नान्सुखान्भोगानुपाश्नाति मुदा युतः ||५६||
अथ चेन्मानुषे लोके कदाचिदुपपद्यते |
तत्र दीर्घायुरुत्पन्नः स नरः सुखमेधते ||५७||
एवं दीर्घायुषां मार्गः सुवृत्तानां सुकर्मणाम् |
प्राणिहिंसाविमोक्षेण ब्रह्मणा समुदीरितः ||५८||
१३३
उमोवाच||
किंशीलाः किंसमाचाराः पुरुषाः कैश्च कर्मभिः |
स्वर्गं समभिपद्यन्ते सम्प्रदानेन केन वा ||१||
महेश्वर उवाच||
दाता ब्राह्मणसत्कर्ता दीनान्धकृपणादिषु |
भक्ष्यभोज्यान्नपानानां वाससां च प्रदायकः ||२||
प्रतिश्रयान्सभाः कूपान्प्रपाः पुष्करिणीस्तथा |
नैत्यकानि च सर्वाणि किमिच्छकमतीव च ||३||
आसनं शयनं यानं धनं रत्नं गृहांस्तथा |
सस्यजातानि सर्वाणि गाः क्षेत्राण्यथ योषितः ||४||
सुप्रतीतमना नित्यं यः प्रयच्छति मानवः |
एवम्भूतो मृतो देवि देवलोकेऽभिजायते ||५||
तत्रोष्य सुचिरं कालं भुक्त्वा भोगाननुत्तमान् |
सहाप्सरोभिर्मुदितो रमित्वा नन्दनादिषु ||६||
तस्मात्स्वर्गाच्च्युतो लोकान्मानुषेषूपजायते |
महाभोगे कुले देवि धनधान्यसमाचिते ||७||
तत्र कामगुणैः सर्वैः समुपेतो मुदा युतः |
महाभोगो महाकोशो धनी भवति मानवः ||८||
एते देवि महाभोगाः प्राणिनो दानशीलिनः |
ब्रह्मणा वै पुरा प्रोक्ताः सर्वस्य प्रियदर्शनाः ||९||
अपरे मानवा देवि प्रदानकृपणा द्विजैः |
याचिता न प्रयच्छन्ति विद्यमानेऽप्यबुद्धयः ||१०||
दीनान्धकृपणान्दृष्ट्वा भिक्षुकानतिथीनपि |
याच्यमाना निवर्तन्ते जिह्वालोभसमन्विताः ||११||
न धनानि न वासांसि न भोगान्न च काञ्चनम् |
न गावो नान्नविकृतिं प्रयच्छन्ति कदाचन ||१२||
अप्रवृत्तास्तु ये लुब्धा नास्तिका दानवर्जिताः |
एवम्भूता नरा देवि निरयं यान्त्यबुद्धयः ||१३||
ते चेन्मनुष्यतां यान्ति यदा कालस्य पर्ययात् |
धनरिक्ते कुले जन्म लभन्ते स्वल्पबुद्धयः ||१४||
क्षुत्पिपासापरीताश्च सर्वभोगबहिष्कृताः |
निराशाः सर्वभोगेभ्यो जीवन्त्यधमजीविकाम् ||१५||
अल्पभोगकुले जाता अल्पभोगरता नराः |
अनेन कर्मणा देवि भवन्त्यधनिनो नराः ||१६||
अपरे स्तम्भिनो नित्यं मानिनः पापतो रताः |
आसनार्हस्य ये पीठं न प्रयच्छन्त्यचेतसः ||१७||
मार्गार्हस्य च ये मार्गं न यच्छन्त्यल्पबुद्धयः |
पाद्यार्हस्य च ये पाद्यं न ददत्यल्पबुद्धयः ||१८||
अर्घार्हान्न च सत्कारैरर्चयन्ति यथाविधि |
अर्घ्यमाचमनीयं वा न यच्छन्त्यल्पबुद्धयः ||१९||
गुरुं चाभिगतं प्रेम्णा गुरुवन्न बुभूषते |
अभिमानप्रवृत्तेन लोभेन समवस्थिताः ||२०||
संमान्यांश्चावमन्यन्ते वृद्धान्परिभवन्ति च |
एवंविधा नरा देवि सर्वे निरयगामिनः ||२१||
ते वै यदि नरास्तस्मान्निरयादुत्तरन्ति वै |
वर्षपूगैस्ततो जन्म लभन्ते कुत्सिते कुले ||२२||
श्वपाकपुल्कसादीनां कुत्सितानामचेतसाम् |
कुलेषु तेषु जायन्ते गुरुवृद्धापचायिनः ||२३||
न स्तम्भी न च मानी यो देवताद्विजपूजकः |
लोकपूज्यो नमस्कर्ता प्रश्रितो मधुरं वदन् ||२४||
सर्ववर्णप्रियकरः सर्वभूतहितः सदा |
अद्वेषी सुमुखः श्लक्ष्णः स्निग्धवाणीप्रदः सदा ||२५||
स्वागतेनैव सर्वेषां भूतानामविहिंसकः |
यथार्हसत्क्रियापूर्वमर्चयन्नुपतिष्ठति ||२६||
मार्गार्हाय ददन्मार्गं गुरुं गुरुवदर्चयन् |
अतिथिप्रग्रहरतस्तथाभ्यागतपूजकः ||२७||
एवम्भूतो नरो देवि स्वर्गतिं प्रतिपद्यते |
ततो मानुषतां प्राप्य विशिष्टकुलजो भवेत् ||२८||
तत्रासौ विपुलैर्भोगैः सर्वरत्नसमायुतः |
यथार्हदाता चार्हेषु धर्मचर्यापरो भवेत् ||२९||
संमतः सर्वभूतानां सर्वलोकनमस्कृतः |
स्वकर्मफलमाप्नोति स्वयमेव नरः सदा ||३०||
उदात्तकुलजातीय उदात्ताभिजनः सदा |
एष धर्मो मया प्रोक्तो विधात्रा स्वयमीरितः ||३१||
यस्तु रौद्रसमाचारः सर्वसत्त्वभयङ्करः |
हस्ताभ्यां यदि वा पद्भ्यां रज्ज्वा दण्डेन वा पुनः ||३२||
लोष्टैः स्तम्भैरुपायैर्वा जन्तून्बाधति शोभने |
हिंसार्थं निकृतिप्रज्ञः प्रोद्वेजयति चैव ह ||३३||
उपक्रामति जन्तूंश्च उद्वेगजननः सदा |
एवंशीलसमाचारो निरयं प्रतिपद्यते ||३४||
स चेन्मानुषतां गच्छेद्यदि कालस्य पर्ययात् |
बह्वाबाधपरिक्लिष्टे सोऽधमे जायते कुले ||३५||
लोकद्वेष्योऽधमः पुंसां स्वयं कर्मकृतैः फलैः |
एष देवि मनुष्येषु बोद्धव्यो ज्ञातिबन्धुषु ||३६||
अपरः सर्वभूतानि दयावाननुपश्यति |
मैत्रदृष्टिः पितृसमो निर्वैरो नियतेन्द्रियः ||३७||
नोद्वेजयति भूतानि न विहिंसयते तथा |
हस्तपादैः सुनियतैर्विश्वास्यः सर्वजन्तुषु ||३८||
न रज्ज्वा न च दण्डेन न लोष्टैर्नायुधेन च |
उद्वेजयति भूतानि श्लक्ष्णकर्मा दयापरः ||३९||
एवंशीलसमाचारः स्वर्गे समुपजायते |
तत्रासौ भवने दिव्ये मुदा वसति देववत् ||४०||
स चेत्कर्मक्षयान्मर्त्यो मनुष्येषूपजायते |
अल्पाबाधो निरीतीकः स जातः सुखमेधते ||४१||
सुखभागी निरायासो निरुद्वेगः सदा नरः |
एष देवि सतां मार्गो बाधा यत्र न विद्यते ||४२||
उमोवाच||
इमे मनुष्या दृश्यन्ते ऊहापोहविशारदाः |
ज्ञानविज्ञानसम्पन्नाः प्रज्ञावन्तोऽर्थकोविदाः ||४३||
दुष्प्रज्ञाश्चापरे देव ज्ञानविज्ञानवर्जिताः ||४३||
केन कर्मविपाकेन प्रज्ञावान्पुरुषो भवेत् |
अल्पप्रज्ञो विरूपाक्ष कथं भवति मानवः ||४४||
एतं मे संशयं छिन्द्धि सर्वधर्मविदां वर ||४४||
जात्यन्धाश्चापरे देव रोगार्ताश्चापरे तथा |
नराः क्लीबाश्च दृश्यन्ते कारणं ब्रूहि तत्र वै ||४५||
महेश्वर उवाच||
ब्राह्मणान्वेदविदुषः सिद्धान्धर्मविदस्तथा |
परिपृच्छन्त्यहरहः कुशलाकुशलं तथा ||४६||
वर्जयन्त्यशुभं कर्म सेवमानाः शुभं तथा |
लभन्ते स्वर्गतिं नित्यमिह लोके सुखं तथा ||४७||
स चेन्मानुषतां याति मेधावी तत्र जायते |
श्रुतं प्रज्ञानुगं चास्य कल्याणमुपजायते ||४८||
परदारेषु ये मूढाश्चक्षुर्दुष्टं प्रयुञ्जते |
तेन दुष्टस्वभावेन जात्यन्धास्ते भवन्ति ह ||४९||
मनसा तु प्रदुष्टेन नग्नां पश्यन्ति ये स्त्रियम् |
रोगार्तास्ते भवन्तीह नरा दुष्कृतकर्मिणः ||५०||
ये तु मूढा दुराचारा वियोनौ मैथुने रताः |
पुरुषेषु सुदुष्प्रज्ञाः क्लीबत्वमुपयान्ति ते ||५१||
पशूंश्च ये बन्धयन्ति ये चैव गुरुतल्पगाः |
प्रकीर्णमैथुना ये च क्लीबा जायन्ति ते नराः ||५२||
उमोवाच||
सावद्यं किं नु वै कर्म निरवद्यं तथैव च |
श्रेयः कुर्वन्नवाप्नोति मानवो देवसत्तम ||५३||
महेश्वर उवाच||
श्रेयांसं मार्गमातिष्ठन्सदा यः पृच्छते द्विजान् |
धर्मान्वेषी गुणाकाङ्क्षी स स्वर्गं समुपाश्नुते ||५४||
यदि मानुषतां देवि कदाचित्स निगच्छति |
मेधावी धारणायुक्तः प्राज्ञस्तत्राभिजायते ||५५||
एष देवि सतां धर्मो मन्तव्यो भूतिकारकः |
नृणां हितार्थाय तव मया वै समुदाहृतः ||५६||
उमोवाच||
अपरे स्वल्पविज्ञाना धर्मविद्वेषिणो नराः |
ब्राह्मणान्वेदविदुषो नेच्छन्ति परिसर्पितुम् ||५७||
व्रतवन्तो नराः केचिच्छ्रद्धादमपरायणाः |
अव्रता भ्रष्टनियमास्तथान्ये राक्षसोपमाः ||५८||
यज्वानश्च तथैवान्ये निर्होमाश्च तथापरे |
केन कर्मविपाकेन भवन्तीह वदस्व मे ||५९||
महेश्वर उवाच||
आगमाल्लोकधर्माणां मर्यादाः पूर्वनिर्मिताः |
प्रामाण्येनानुवर्तन्ते दृश्यन्ते हि दृढव्रताः ||६०||
अधर्मं धर्ममित्याहुर्ये च मोहवशं गताः |
अव्रता नष्टमर्यादास्ते प्रोक्ता ब्रह्मराक्षसाः ||६१||
ते चेत्कालकृतोद्योगात्सम्भवन्तीह मानुषाः |
निर्होमा निर्वषट्कारास्ते भवन्ति नराधमाः ||६२||
एष देवि मया सर्वः संशयच्छेदनाय ते |
कुशलाकुशलो नॄणां व्याख्यातो धर्मसागरः ||६३||
१३४
महेश्वर उवाच||
परावरज्ञे धर्मज्ञे तपोवननिवासिनि |
साध्वि सुभ्रु सुकेशान्ते हिमवत्पर्वतात्मजे ||१||
दक्षे शमदमोपेते निर्ममे धर्मचारिणि |
पृच्छामि त्वां वरारोहे पृष्टा वद ममेप्सितम् ||२||
सावित्री ब्रह्मणः साध्वी कौशिकस्य शची सती |
मार्तण्डजस्य धूमोर्णा ऋद्धिर्वैश्रवणस्य च ||३||
वरुणस्य ततो गौरी सूर्यस्य च सुवर्चला |
रोहिणी शशिनः साध्वी स्वाहा चैव विभावसोः ||४||
अदितिः कश्यपस्याथ सर्वास्ताः पतिदेवताः |
पृष्टाश्चोपासिताश्चैव तास्त्वया देवि नित्यशः ||५||
तेन त्वां परिपृच्छामि धर्मज्ञे धर्मवादिनि |
स्त्रीधर्मं श्रोतुमिच्छामि त्वयोदाहृतमादितः ||६||
सहधर्मचरी मे त्वं समशीला समव्रता |
समानसारवीर्या च तपस्तीव्रं कृतं च ते ||७||
त्वया ह्युक्तो विशेषेण प्रमाणत्वमुपैष्यति ||७||
स्त्रियश्चैव विशेषेण स्त्रीजनस्य गतिः सदा |
गौर्गां गच्छति सुश्रोणि लोकेष्वेषा स्थितिः सदा ||८||
मम चार्धं शरीरस्य मम चार्धाद्विनिःसृता |
सुरकार्यकरी च त्वं लोकसन्तानकारिणी ||९||
तव सर्वः सुविदितः स्त्रीधर्मः शाश्वतः शुभे |
तस्मादशेषतो ब्रूहि स्त्रीधर्मं विस्तरेण मे ||१०||
उमोवाच||
भगवन्सर्वभूतेश भूतभव्यभवोद्भव |
त्वत्प्रभावादियं देव वाक्चैव प्रतिभाति मे ||११||
इमास्तु नद्यो देवेश सर्वतीर्थोदकैर्युताः |
उपस्पर्शनहेतोस्त्वा समीपस्था उपासते ||१२||
एताभिः सह संमन्त्र्य प्रवक्ष्याम्यनुपूर्वशः |
प्रभवन्योऽनहंवादी स वै पुरुष उच्यते ||१३||
स्त्री च भूतेश सततं स्त्रियमेवानुधावति |
मया संमानिताश्चैव भविष्यन्ति सरिद्वराः ||१४||
एषा सरस्वती पुण्या नदीनामुत्तमा नदी |
प्रथमा सर्वसरितां नदी सागरगामिनी ||१५||
विपाशा च वितस्ता च चन्द्रभागा इरावती |
शतद्रुर्देविका सिन्धुः कौशिकी गोमती तथा ||१६||
तथा देवनदी चेयं सर्वतीर्थाभिसंवृता |
गगनाद्गां गता देवी गङ्गा सर्वसरिद्वरा ||१७||
इत्युक्त्वा देवदेवस्य पत्नी धर्मभृतां वरा |
स्मितपूर्वमिवाभाष्य सर्वास्ताः सरितस्तदा ||१८||
अपृच्छद्देवमहिषी स्त्रीधर्मं धर्मवत्सला |
स्त्रीधर्मकुशलास्ता वै गङ्गाद्याः सरितां वराः ||१९||
अयं भगवता दत्तः प्रश्नः स्त्रीधर्मसंश्रितः |
तं तु संमन्त्र्य युष्माभिर्वक्तुमिच्छामि शङ्करे ||२०||
न चैकसाध्यं पश्यामि विज्ञानं भुवि कस्यचित् |
दिवि वा सागरगमास्तेन वो मानयाम्यहम् ||२१||
भीष्म उवाच||
एवं सर्वाः सरिच्छ्रेष्ठाः पृष्टाः पुण्यतमाः शिवाः |
ततो देवनदी गङ्गा नियुक्ता प्रतिपूज्य ताम् ||२२||
बह्वीभिर्बुद्धिभिः स्फीता स्त्रीधर्मज्ञा शुचिस्मिता |
शैलराजसुतां देवीं पुण्या पापापहां शिवाम् ||२३||
बुद्ध्या विनयसम्पन्ना सर्वज्ञानविशारदा |
सस्मितं बहुबुद्ध्याढ्या गङ्गा वचनमब्रवीत् ||२४||
धन्याः स्मोऽनुगृहीताः स्मो देवि धर्मपरायणा |
या त्वं सर्वजगन्मान्या नदीर्मानयसेऽनघे ||२५||
प्रभवन्पृच्छते यो हि संमानयति वा पुनः |
नूनं जनमदुष्टात्मा पण्डिताख्यां स गच्छति ||२६||
ज्ञानविज्ञानसम्पन्नानूहापोहविशारदान् |
प्रवक्तॄन्पृच्छते योऽन्यान्स वै ना पदमर्च्छति ||२७||
अन्यथा बहुबुद्ध्याढ्यो वाक्यं वदति संसदि |
अन्यथैव ह्यहंमानी दुर्बलं वदते वचः ||२८||
दिव्यज्ञाने दिवि श्रेष्ठे दिव्यपुण्ये सदोत्थिते |
त्वमेवार्हसि नो देवि स्त्रीधर्ममनुशासितुम् ||२९||
भीष्म उवाच||
ततः साराधिता देवी गङ्गया बहुभिर्गुणैः |
प्राह सर्वमशेषेण स्त्रीधर्मं सुरसुन्दरी ||३०||
स्त्रीधर्मो मां प्रति यथा प्रतिभाति यथाविधि |
तमहं कीर्तयिष्यामि तथैव प्रथितो भवेत् ||३१||
स्त्रीधर्मः पूर्व एवायं विवाहे बन्धुभिः कृतः |
सहधर्मचरी भर्तुर्भवत्यग्निसमीपतः ||३२||
सुस्वभावा सुवचना सुवृत्ता सुखदर्शना |
अनन्यचित्ता सुमुखी भर्तुः सा धर्मचारिणी ||३३||
सा भवेद्धर्मपरमा सा भवेद्धर्मभागिनी |
देववत्सततं साध्वी या भर्तारं प्रपश्यति ||३४||
शुश्रूषां परिचारं च देववद्या करोति च |
नान्यभावा ह्यविमनाः सुव्रता सुखदर्शना ||३५||
पुत्रवक्त्रमिवाभीक्ष्णं भर्तुर्वदनमीक्षते |
या साध्वी नियताचारा सा भवेद्धर्मचारिणी ||३६||
श्रुत्वा दम्पतिधर्मं वै सहधर्मकृतं शुभम् |
अनन्यचित्ता सुमुखी भर्तुः सा धर्मचारिणी ||३७||
परुषाण्यपि चोक्ता या दृष्टा वा क्रूरचक्षुषा |
सुप्रसन्नमुखी भर्तुर्या नारी सा पतिव्रता ||३८||
न चन्द्रसूर्यौ न तरुं पुंनाम्नो या निरीक्षते |
भर्तृवर्जं वरारोहा सा भवेद्धर्मचारिणी ||३९||
दरिद्रं व्याधितं दीनमध्वना परिकर्शितम् |
पतिं पुत्रमिवोपास्ते सा नारी धर्मभागिनी ||४०||
या नारी प्रयता दक्षा या नारी पुत्रिणी भवेत् |
पतिप्रिया पतिप्राणा सा नारी धर्मभागिनी ||४१||
शुश्रूषां परिचर्यां च करोत्यविमनाः सदा |
सुप्रतीता विनीता च सा नारी धर्मभागिनी ||४२||
न कामेषु न भोगेषु नैश्वर्ये न सुखे तथा |
स्पृहा यस्या यथा पत्यौ सा नारी धर्मभागिनी ||४३||
कल्योत्थानरता नित्यं गुरुशुश्रूषणे रता |
सुसंमृष्टक्षया चैव गोशकृत्कृतलेपना ||४४||
अग्निकार्यपरा नित्यं सदा पुष्पबलिप्रदा |
देवतातिथिभृत्यानां निरुप्य पतिना सह ||४५||
शेषान्नमुपभुञ्जाना यथान्यायं यथाविधि |
तुष्टपुष्टजना नित्यं नारी धर्मेण युज्यते ||४६||
श्वश्रूश्वशुरयोः पादौ तोषयन्ती गुणान्विता |
मातापितृपरा नित्यं या नारी सा तपोधना ||४७||
ब्राह्मणान्दुर्बलानाथान्दीनान्धकृपणांस्तथा |
बिभर्त्यन्नेन या नारी सा पतिव्रतभागिनी ||४८||
व्रतं चरति या नित्यं दुश्चरं लघुसत्त्वया |
पतिचित्ता पतिहिता सा पतिव्रतभागिनी ||४९||
पुण्यमेतत्तपश्चैव स्वर्गश्चैष सनातनः |
या नारी भर्तृपरमा भवेद्भर्तृव्रता शिवा ||५०||
पतिर्हि देवो नारीणां पतिर्बन्धुः पतिर्गतिः |
पत्या समा गतिर्नास्ति दैवतं वा यथा पतिः ||५१||
पतिप्रसादः स्वर्गो वा तुल्यो नार्या न वा भवेत् |
अहं स्वर्गं न हीच्छेयं त्वय्यप्रीते महेश्वर ||५२||
यद्यकार्यमधर्मं वा यदि वा प्राणनाशनम् |
पतिर्ब्रूयाद्दरिद्रो वा व्याधितो वा कथञ्चन ||५३||
आपन्नो रिपुसंस्थो वा ब्रह्मशापार्दितोऽपि वा |
आपद्धर्माननुप्रेक्ष्य तत्कार्यमविशङ्कया ||५४||
एष देव मया प्रोक्तः स्त्रीधर्मो वचनात्तव |
या त्वेवम्भाविनी नारी सा भवेद्धर्मभागिनी ||५५||
भीष्म उवाच||
इत्युक्तः स तु देवेशः प्रतिपूज्य गिरेः सुताम् |
लोकान्विसर्जयामास सर्वैरनुचरैः सह ||५६||
ततो ययुर्भूतगणाः सरितश्च यथागतम् |
गन्धर्वाप्सरसश्चैव प्रणम्य शिरसा भवम् ||५७||
विष्णुसहस्रनाम
१३५
वैशम्पायन उवाच||
श्रुत्वा धर्मानशेषेण पावनानि च सर्वशः |
युधिष्ठिरः शान्तनवं पुनरेवाभ्यभाषत ||१||
किमेकं दैवतं लोके किं वाप्येकं परायणम् |
स्तुवन्तः कं कमर्चन्तः प्राप्नुयुर्मानवाः शुभम् ||२||
को धर्मः सर्वधर्माणां भवतः परमो मतः |
किं जपन्मुच्यते जन्तुर्जन्मसंसारबन्धनात् ||३||
भीष्म उवाच||
जगत्प्रभुं देवदेवमनन्तं पुरुषोत्तमम् |
स्तुवन्नामसहस्रेण पुरुषः सततोत्थितः ||४||
तमेव चार्चयन्नित्यं भक्त्या पुरुषमव्ययम् |
ध्यायन्स्तुवन्नमस्यंश्च यजमानस्तमेव च ||५||
अनादिनिधनं विष्णुं सर्वलोकमहेश्वरम् |
लोकाध्यक्षं स्तुवन्नित्यं सर्वदुःखातिगो भवेत् ||६||
ब्रह्मण्यं सर्वधर्मज्ञं लोकानां कीर्तिवर्धनम् |
लोकनाथं महद्भूतं सर्वभूतभवोद्भवम् ||७||
एष मे सर्वधर्माणां धर्मोऽधिकतमो मतः |
यद्भक्त्या पुण्डरीकाक्षं स्तवैरर्चेन्नरः सदा ||८||
परमं यो महत्तेजः परमं यो महत्तपः |
परमं यो महद्ब्रह्म परमं यः परायणम् ||९||
पवित्राणां पवित्रं यो मङ्गलानां च मङ्गलम् |
दैवतं देवतानां च भूतानां योऽव्ययः पिता ||१०||
यतः सर्वाणि भूतानि भवन्त्यादियुगागमे |
यस्मिंश्च प्रलयं यान्ति पुनरेव युगक्षये ||११||
तस्य लोकप्रधानस्य जगन्नाथस्य भूपते |
विष्णोर्नामसहस्रं मे शृणु पापभयापहम् ||१२||
यानि नामानि गौणानि विख्यातानि महात्मनः |
ऋषिभिः परिगीतानि तानि वक्ष्यामि भूतये ||१३||
विश्वं विष्णुर्वषट्कारो भूतभव्यभवत्प्रभुः |
भूतकृद्भूतभृद्भावो भूतात्मा भूतभावनः ||१४||
पूतात्मा परमात्मा च मुक्तानां परमा गतिः |
अव्ययः पुरुषः साक्षी क्षेत्रज्ञोऽक्षर एव च ||१५||
योगो योगविदां नेता प्रधानपुरुषेश्वरः |
नारसिंहवपुः श्रीमान्केशवः पुरुषोत्तमः ||१६||
सर्वः शर्वः शिवः स्थाणुर्भूतादिर्निधिरव्ययः |
सम्भवो भावनो भर्ता प्रभवः प्रभुरीश्वरः ||१७||
स्वयम्भूः शम्भुरादित्यः पुष्कराक्षो महास्वनः |
अनादिनिधनो धाता विधाता धातुरुत्तमः ||१८||
अप्रमेयो हृषीकेशः पद्मनाभोऽमरप्रभुः |
विश्वकर्मा मनुस्त्वष्टा स्थविष्ठः स्थविरो ध्रुवः ||१९||
अग्राह्यः शाश्वतः कृष्णो लोहिताक्षः प्रतर्दनः |
प्रभूतस्त्रिककुब्धाम पवित्रं मङ्गलं परम् ||२०||
ईशानः प्राणदः प्राणो ज्येष्ठः श्रेष्ठः प्रजापतिः |
हिरण्यगर्भो भूगर्भो माधवो मधुसूदनः ||२१||
ईश्वरो विक्रमी धन्वी मेधावी विक्रमः क्रमः |
अनुत्तमो दुराधर्षः कृतज्ञः कृतिरात्मवान् ||२२||
सुरेशः शरणं शर्म विश्वरेताः प्रजाभवः |
अहः संवत्सरो व्यालः प्रत्ययः सर्वदर्शनः ||२३||
अजः सर्वेश्वरः सिद्धः सिद्धिः सर्वादिरच्युतः |
वृषाकपिरमेयात्मा सर्वयोगविनिःसृतः ||२४||
वसुर्वसुमनाः सत्यः समात्मा संमितः समः |
अमोघः पुण्डरीकाक्षो वृषकर्मा वृषाकृतिः ||२५||
रुद्रो बहुशिरा बभ्रुर्विश्वयोनिः शुचिश्रवाः |
अमृतः शाश्वतः स्थाणुर्वरारोहो महातपाः ||२६||
सर्वगः सर्वविद्भानुर्विष्वक्सेनो जनार्दनः |
वेदो वेदविदव्यङ्गो वेदाङ्गो वेदवित्कविः ||२७||
लोकाध्यक्षः सुराध्यक्षो धर्माध्यक्षः कृताकृतः |
चतुरात्मा चतुर्व्यूहश्चतुर्दंष्ट्रश्चतुर्भुजः ||२८||
भ्राजिष्णुर्भोजनं भोक्ता सहिष्णुर्जगदादिजः |
अनघो विजयो जेता विश्वयोनिः पुनर्वसुः ||२९||
उपेन्द्रो वामनः प्रांशुरमोघः शुचिरूर्जितः |
अतीन्द्रः सङ्ग्रहः सर्गो धृतात्मा नियमो यमः ||३०||
वेद्यो वैद्यः सदायोगी वीरहा माधवो मधुः |
अतीन्द्रियो महामायो महोत्साहो महाबलः ||३१||
महाबुद्धिर्महावीर्यो महाशक्तिर्महाद्युतिः |
अनिर्देश्यवपुः श्रीमानमेयात्मा महाद्रिधृक् ||३२||
महेष्वासो महीभर्ता श्रीनिवासः सतां गतिः |
अनिरुद्धः सुरानन्दो गोविन्दो गोविदां पतिः ||३३||
मरीचिर्दमनो हंसः सुपर्णो भुजगोत्तमः |
हिरण्यनाभः सुतपाः पद्मनाभः प्रजापतिः ||३४||
अमृत्युः सर्वदृक्सिंहः सन्धाता सन्धिमान्स्थिरः |
अजो दुर्मर्षणः शास्ता विश्रुतात्मा सुरारिहा ||३५||
गुरुर्गुरुतमो धाम सत्यः सत्यपराक्रमः |
निमिषोऽनिमिषः स्रग्वी वाचस्पतिरुदारधीः ||३६||
अग्रणीर्ग्रामणीः श्रीमान्न्यायो नेता समीरणः |
सहस्रमूर्धा विश्वात्मा सहस्राक्षः सहस्रपात् ||३७||
आवर्तनो निवृत्तात्मा संवृतः सम्प्रमर्दनः |
अहः संवर्तको वह्निरनिलो धरणीधरः ||३८||
सुप्रसादः प्रसन्नात्मा विश्वधृग्विश्वभुग्विभुः |
सत्कर्ता सत्कृतः साधुर्जह्नुर्नारायणो नरः ||३९||
असङ्ख्येयोऽप्रमेयात्मा विशिष्टः शिष्टकृच्छुचिः |
सिद्धार्थः सिद्धसङ्कल्पः सिद्धिदः सिद्धिसाधनः ||४०||
वृषाही वृषभो विष्णुर्वृषपर्वा वृषोदरः |
वर्धनो वर्धमानश्च विविक्तः श्रुतिसागरः ||४१||
सुभुजो दुर्धरो वाग्मी महेन्द्रो वसुदो वसुः |
नैकरूपो बृहद्रूपः शिपिविष्टः प्रकाशनः ||४२||
ओजस्तेजो द्युतिधरः प्रकाशात्मा प्रतापनः |
ऋद्धः स्पष्टाक्षरो मन्त्रश्चन्द्रांशुर्भास्करद्युतिः ||४३||
अमृतांशूद्भवो भानुः शशबिन्दुः सुरेश्वरः |
औषधं जगतः सेतुः सत्यधर्मपराक्रमः ||४४||
भूतभव्यभवन्नाथः पवनः पावनोऽनिलः |
कामहा कामकृत्कान्तः कामः कामप्रदः प्रभुः ||४५||
युगादिकृद्युगावर्तो नैकमायो महाशनः |
अदृश्यो व्यक्तरूपश्च सहस्रजिदनन्तजित् ||४६||
इष्टो विशिष्टः शिष्टेष्टः शिखण्डी नहुषो वृषः |
क्रोधहा क्रोधकृत्कर्ता विश्वबाहुर्महीधरः ||४७||
अच्युतः प्रथितः प्राणः प्राणदो वासवानुजः |
अपां निधिरधिष्ठानमप्रमत्तः प्रतिष्ठितः ||४८||
स्कन्दः स्कन्दधरो धुर्यो वरदो वायुवाहनः |
वासुदेवो बृहद्भानुरादिदेवः पुरंदरः ||४९||
अशोकस्तारणस्तारः शूरः शौरिर्जनेश्वरः |
अनुकूलः शतावर्तः पद्मी पद्मनिभेक्षणः ||५०||
पद्मनाभोऽरविन्दाक्षः पद्मगर्भः शरीरभृत् |
महर्द्धिरृद्धो वृद्धात्मा महाक्षो गरुडध्वजः ||५१||
अतुलः शरभो भीमः समयज्ञो हविर्हरिः |
सर्वलक्षणलक्षण्यो लक्ष्मीवान्समितिञ्जयः ||५२||
विक्षरो रोहितो मार्गो हेतुर्दामोदरः सहः |
महीधरो महाभागो वेगवानमिताशनः ||५३||
उद्भवः क्षोभणो देवः श्रीगर्भः परमेश्वरः |
करणं कारणं कर्ता विकर्ता गहनो गुहः ||५४||
व्यवसायो व्यवस्थानः संस्थानः स्थानदो ध्रुवः |
परर्द्धिः परमः स्पष्टस्तुष्टः पुष्टः शुभेक्षणः ||५५||
रामो विरामो विरतो मार्गो नेयो नयोऽनयः |
वीरः शक्तिमतां श्रेष्ठो धर्मो धर्मविदुत्तमः ||५६||
वैकुण्ठः पुरुषः प्राणः प्राणदः प्रणवः पृथुः |
हिरण्यगर्भः शत्रुघ्नो व्याप्तो वायुरधोक्षजः ||५७||
ऋतुः सुदर्शनः कालः परमेष्ठी परिग्रहः |
उग्रः संवत्सरो दक्षो विश्रामो विश्वदक्षिणः ||५८||
विस्तारः स्थावरः स्थाणुः प्रमाणं बीजमव्ययम् |
अर्थोऽनर्थो महाकोशो महाभोगो महाधनः ||५९||
अनिर्विण्णः स्थविष्ठो भूर्धर्मयूपो महामखः |
नक्षत्रनेमिर्नक्षत्री क्षमः क्षामः समीहनः ||६०||
यज्ञ इज्यो महेज्यश्च क्रतुः सत्रं सतां गतिः |
सर्वदर्शी विमुक्तात्मा सर्वज्ञो ज्ञानमुत्तमम् ||६१||
सुव्रतः सुमुखः सूक्ष्मः सुघोषः सुखदः सुहृत् |
मनोहरो जितक्रोधो वीरबाहुर्विदारणः ||६२||
स्वापनः स्ववशो व्यापी नैकात्मा नैककर्मकृत् |
वत्सरो वत्सलो वत्सी रत्नगर्भो धनेश्वरः ||६३||
धर्मगुब्धर्मकृद्धर्मी सदसत्क्षरमक्षरम् |
अविज्ञाता सहस्रांशुर्विधाता कृतलक्षणः ||६४||
गभस्तिनेमिः सत्त्वस्थः सिंहो भूतमहेश्वरः |
आदिदेवो महादेवो देवेशो देवभृद्गुरुः ||६५||
उत्तरो गोपतिर्गोप्ता ज्ञानगम्यः पुरातनः |
शरीरभूतभृद्भोक्ता कपीन्द्रो भूरिदक्षिणः ||६६||
सोमपोऽमृतपः सोमः पुरुजित्पुरुसत्तमः |
विनयो जयः सत्यसन्धो दाशार्हः सात्वतां पतिः ||६७||
जीवो विनयिता साक्षी मुकुन्दोऽमितविक्रमः |
अम्भोनिधिरनन्तात्मा महोदधिशयोऽन्तकः ||६८||
अजो महार्हः स्वाभाव्यो जितामित्रः प्रमोदनः |
आनन्दो नन्दनो नन्दः सत्यधर्मा त्रिविक्रमः ||६९||
महर्षिः कपिलाचार्यः कृतज्ञो मेदिनीपतिः |
त्रिपदस्त्रिदशाध्यक्षो महाशृङ्गः कृतान्तकृत् ||७०||
महावराहो गोविन्दः सुषेणः कनकाङ्गदी |
गुह्यो गभीरो गहनो गुप्तश्चक्रगदाधरः ||७१||
वेधाः स्वाङ्गोऽजितः कृष्णो दृढः सङ्कर्षणोऽच्युतः |
वरुणो वारुणो वृक्षः पुष्कराक्षो महामनाः ||७२||
भगवान्भगहा नन्दी वनमाली हलायुधः |
आदित्यो ज्योतिरादित्यः सहिष्णुर्गतिसत्तमः ||७३||
सुधन्वा खण्डपरशुर्दारुणो द्रविणप्रदः |
दिवःस्पृक्सर्वदृग्व्यासो वाचस्पतिरयोनिजः ||७४||
त्रिसामा सामगः साम निर्वाणं भेषजं भिषक् |
संन्यासकृच्छमः शान्तो निष्ठा शान्तिः परायणम् ||७५||
शुभाङ्गः शान्तिदः स्रष्टा कुमुदः कुवलेशयः |
गोहितो गोपतिर्गोप्ता वृषभाक्षो वृषप्रियः ||७६||
अनिवर्ती निवृत्तात्मा सङ्क्षेप्ता क्षेमकृच्छिवः |
श्रीवत्सवक्षाः श्रीवासः श्रीपतिः श्रीमतां वरः ||७७||
श्रीदः श्रीशः श्रीनिवासः श्रीनिधिः श्रीविभावनः |
श्रीधरः श्रीकरः श्रेयः श्रीमाँल्लोकत्रयाश्रयः ||७८||
स्वक्षः स्वङ्गः शतानन्दो नन्दिर्ज्योतिर्गणेश्वरः |
विजितात्मा विधेयात्मा सत्कीर्तिश्छिन्नसंशयः ||७९||
उदीर्णः सर्वतश्चक्षुरनीशः शाश्वतः स्थिरः |
भूशयो भूषणो भूतिर्विशोकः शोकनाशनः ||८०||
अर्चिष्मानर्चितः कुम्भो विशुद्धात्मा विशोधनः |
अनिरुद्धोऽप्रतिरथः प्रद्युम्नोऽमितविक्रमः ||८१||
कालनेमिनिहा वीरः शूरः शौरिर्जनेश्वरः |
त्रिलोकात्मा त्रिलोकेशः केशवः केशिहा हरिः ||८२||
कामदेवः कामपालः कामी कान्तः कृतागमः |
अनिर्देश्यवपुर्विष्णुर्वीरोऽनन्तो धनञ्जयः ||८३||
ब्रह्मण्यो ब्रह्मकृद्ब्रह्मा ब्रह्म ब्रह्मविवर्धनः |
ब्रह्मविद्ब्राह्मणो ब्रह्मी ब्रह्मज्ञो ब्राह्मणप्रियः ||८४||
महाक्रमो महाकर्मा महातेजा महोरगः |
महाक्रतुर्महायज्वा महायज्ञो महाहविः ||८५||
स्तव्यः स्तवप्रियः स्तोत्रं स्तुतिः स्तोता रणप्रियः |
पूर्णः पूरयिता पुण्यः पुण्यकीर्तिरनामयः ||८६||
मनोजवस्तीर्थकरो वसुरेता वसुप्रदः |
वसुप्रदो वासुदेवो वसुर्वसुमना हविः ||८७||
सद्गतिः सत्कृतिः सत्ता सद्भूतिः सत्परायणः |
शूरसेनो यदुश्रेष्ठः सन्निवासः सुयामुनः ||८८||
भूतावासो वासुदेवो सर्वासुनिलयोऽनलः |
दर्पहा दर्पदो दृप्तो दुर्धरोऽथापराजितः ||८९||
विश्वमूर्तिर्महामूर्तिर्दीप्तमूर्तिरमूर्तिमान् |
अनेकमूर्तिरव्यक्तः शतमूर्तिः शताननः ||९०||
एको नैकः सवः कः किं यत्तत्पदमनुत्तमम् |
लोकबन्धुर्लोकनाथो माधवो भक्तवत्सलः ||९१||
सुवर्णवर्णो हेमाङ्गो वराङ्गश्चन्दनाङ्गदी |
वीरहा विषमः शून्यो घृताशीरचलश्चलः ||९२||
अमानी मानदो मान्यो लोकस्वामी त्रिलोकधृक् |
सुमेधा मेधजो धन्यः सत्यमेधा धराधरः ||९३||
तेजो वृषो द्युतिधरः सर्वशस्त्रभृतां वरः |
प्रग्रहो निग्रहोऽव्यग्रो नैकशृङ्गो गदाग्रजः ||९४||
चतुर्मूर्तिश्चतुर्बाहुश्चतुर्व्यूहश्चतुर्गतिः |
चतुरात्मा चतुर्भावश्चतुर्वेदविदेकपात् ||९५||
समावर्तो निवृत्तात्मा दुर्जयो दुरतिक्रमः |
दुर्लभो दुर्गमो दुर्गो दुरावासो दुरारिहा ||९६||
शुभाङ्गो लोकसारङ्गः सुतन्तुस्तन्तुवर्धनः |
इन्द्रकर्मा महाकर्मा कृतकर्मा कृतागमः ||९७||
उद्भवः सुन्दरः सुन्दो रत्ननाभः सुलोचनः |
अर्को वाजसनः शृङ्गी जयन्तः सर्वविज्जयी ||९८||
सुवर्णबिन्दुरक्षोभ्यः सर्ववागीश्वरेश्वरः |
महाह्रदो महागर्तो महाभूतो महानिधिः ||९९||
कुमुदः कुंदरः कुन्दः पर्जन्यः पवनोऽनिलः |
अमृतांशोऽमृतवपुः सर्वज्ञः सर्वतोमुखः ||१००||
सुलभः सुव्रतः सिद्धः शत्रुजिच्छत्रुतापनः |
न्यग्रोधोदुम्बरोऽश्वत्थश्चाणूरान्ध्रनिषूदनः ||१०१||
सहस्रार्चिः सप्तजिह्वः सप्तैधाः सप्तवाहनः |
अमूर्तिरनघोऽचिन्त्यो भयकृद्भयनाशनः ||१०२||
अणुर्बृहत्कृशः स्थूलो गुणभृन्निर्गुणो महान् |
अधृतः स्वधृतः स्वास्यः प्राग्वंशो वंशवर्धनः ||१०३||
भारभृत्कथितो योगी योगीशः सर्वकामदः |
आश्रमः श्रमणः क्षामः सुपर्णो वायुवाहनः ||१०४||
धनुर्धरो धनुर्वेदो दण्डो दमयिता दमः |
अपराजितः सर्वसहो नियन्ता नियमो यमः ||१०५||
सत्त्ववान्सात्त्विकः सत्यः सत्यधर्मपरायणः |
अभिप्रायः प्रियार्होऽर्हः प्रियकृत्प्रीतिवर्धनः ||१०६||
विहायसगतिर्ज्योतिः सुरुचिर्हुतभुग्विभुः |
रविर्विरोचनः सूर्यः सविता रविलोचनः ||१०७||
अनन्तो हुतभुग्भोक्ता सुखदो नैकदोऽग्रजः |
अनिर्विण्णः सदामर्षी लोकाधिष्ठानमद्भुतम् ||१०८||
सनात्सनातनतमः कपिलः कपिरव्ययः |
स्वस्तिदः स्वस्तिकृत्स्वस्ति स्वस्तिभुक्स्वस्तिदक्षिणः ||१०९||
अरौद्रः कुण्डली चक्री विक्रम्यूर्जितशासनः |
शब्दातिगः शब्दसहः शिशिरः शर्वरीकरः ||११०||
अक्रूरः पेशलो दक्षो दक्षिणः क्षमिणां वरः |
विद्वत्तमो वीतभयः पुण्यश्रवणकीर्तनः ||१११||
उत्तारणो दुष्कृतिहा पुण्यो दुःस्वप्ननाशनः |
वीरहा रक्षणः सन्तो जीवनः पर्यवस्थितः ||११२||
अनन्तरूपोऽनन्तश्रीर्जितमन्युर्भयापहः |
चतुरस्रो गभीरात्मा विदिशो व्यादिशो दिशः ||११३||
अनादिर्भूर्भुवो लक्ष्मीः सुवीरो रुचिराङ्गदः |
जननो जनजन्मादिर्भीमो भीमपराक्रमः ||११४||
आधारनिलयो धाता पुष्पहासः प्रजागरः |
ऊर्ध्वगः सत्पथाचारः प्राणदः प्रणवः पणः ||११५||
प्रमाणं प्राणनिलयः प्राणकृत्प्राणजीवनः |
तत्त्वं तत्त्वविदेकात्मा जन्ममृत्युजरातिगः ||११६||
भूर्भुवः स्वस्तरुस्तारः सविता प्रपितामहः |
यज्ञो यज्ञपतिर्यज्वा यज्ञाङ्गो यज्ञवाहनः ||११७||
यज्ञभृद्यज्ञकृद्यज्ञी यज्ञभुग्यज्ञसाधनः |
यज्ञान्तकृद्यज्ञगुह्यमन्नमन्नाद एव च ||११८||
आत्मयोनिः स्वयञ्जातो वैखानः सामगायनः |
देवकीनन्दनः स्रष्टा क्षितीशः पापनाशनः ||११९||
शङ्खभृन्नन्दकी चक्री शार्ङ्गधन्वा गदाधरः |
रथाङ्गपाणिरक्षोभ्यः सर्वप्रहरणायुधः ||१२०||
इतीदं कीर्तनीयस्य केशवस्य महात्मनः |
नाम्नां सहस्रं दिव्यानामशेषेण प्रकीर्तितम् ||१२१||
य इदं शृणुयान्नित्यं यश्चापि परिकीर्तयेत् |
नाशुभं प्राप्नुयात्किञ्चित्सोऽमुत्रेह च मानवः ||१२२||
वेदान्तगो ब्राह्मणः स्यात्क्षत्रियो विजयी भवेत् |
वैश्यो धनसमृद्धः स्याच्छूद्रः सुखमवाप्नुयात् ||१२३||
धर्मार्थी प्राप्नुयाद्धर्ममर्थार्थी चार्थमाप्नुयात् |
कामानवाप्नुयात्कामी प्रजार्थी चाप्नुयात्प्रजाः ||१२४||
भक्तिमान्यः सदोत्थाय शुचिस्तद्गतमानसः |
सहस्रं वासुदेवस्य नाम्नामेतत्प्रकीर्तयेत् ||१२५||
यशः प्राप्नोति विपुलं ज्ञातिप्राधान्यमेव च |
अचलां श्रियमाप्नोति श्रेयश्चाप्नोत्यनुत्तमम् ||१२६||
न भयं क्वचिदाप्नोति वीर्यं तेजश्च विन्दति |
भवत्यरोगो द्युतिमान्बलरूपगुणान्वितः ||१२७||
रोगार्तो मुच्यते रोगाद्बद्धो मुच्येत बन्धनात् |
भयान्मुच्येत भीतश्च मुच्येतापन्न आपदः ||१२८||
दुर्गाण्यतितरत्याशु पुरुषः पुरुषोत्तमम् |
स्तुवन्नामसहस्रेण नित्यं भक्तिसमन्वितः ||१२९||
वासुदेवाश्रयो मर्त्यो वासुदेवपरायणः |
सर्वपापविशुद्धात्मा याति ब्रह्म सनातनम् ||१३०||
न वासुदेवभक्तानामशुभं विद्यते क्वचित् |
जन्ममृत्युजराव्याधिभयं वाप्युपजायते ||१३१||
इमं स्तवमधीयानः श्रद्धाभक्तिसमन्वितः |
युज्येतात्मसुखक्षान्तिश्रीधृतिस्मृतिकीर्तिभिः ||१३२||
न क्रोधो न च मात्सर्यं न लोभो नाशुभा मतिः |
भवन्ति कृतपुण्यानां भक्तानां पुरुषोत्तमे ||१३३||
द्यौः सचन्द्रार्कनक्षत्रा खं दिशो भूर्महोदधिः |
वासुदेवस्य वीर्येण विधृतानि महात्मनः ||१३४||
ससुरासुरगन्धर्वं सयक्षोरगराक्षसम् |
जगद्वशे वर्ततेदं कृष्णस्य सचराचरम् ||१३५||
इन्द्रियाणि मनो बुद्धिः सत्त्वं तेजो बलं धृतिः |
वासुदेवात्मकान्याहुः क्षेत्रं क्षेत्रज्ञ एव च ||१३६||
सर्वागमानामाचारः प्रथमं परिकल्प्यते |
आचारप्रभवो धर्मो धर्मस्य प्रभुरच्युतः ||१३७||
ऋषयः पितरो देवा महाभूतानि धातवः |
जङ्गमाजङ्गमं चेदं जगन्नारायणोद्भवम् ||१३८||
योगो ज्ञानं तथा साङ्ख्यं विद्याः शिल्पानि कर्म च |
वेदाः शास्त्राणि विज्ञानमेतत्सर्वं जनार्दनात् ||१३९||
एको विष्णुर्महद्भूतं पृथग्भूतान्यनेकशः |
त्रीँल्लोकान्व्याप्य भूतात्मा भुङ्क्ते विश्वभुगव्ययः ||१४०||
इमं स्तवं भगवतो विष्णोर्व्यासेन कीर्तितम् |
पठेद्य इच्छेत्पुरुषः श्रेयः प्राप्तुं सुखानि च ||१४१||
विश्वेश्वरमजं देवं जगतः प्रभवाप्ययम् |
भजन्ति ये पुष्कराक्षं न ते यान्ति पराभवम् ||१४२||
ब्राह्मणप्रशंसा
१३६
युधिष्ठिर उवाच||
के पूज्याः के नमस्कार्याः कथं वर्तेत केषु च |
किमाचारः कीदृशेषु पितामह न रिष्यते ||१||
भीष्म उवाच||
ब्राह्मणानां परिभवः सादयेदपि देवताः |
ब्राह्मणानां नमस्कर्ता युधिष्ठिर न रिष्यते ||२||
ते पूज्यास्ते नमस्कार्या वर्तेथास्तेषु पुत्रवत् |
ते हि लोकानिमान्सर्वान्धारयन्ति मनीषिणः ||३||
ब्राह्मणाः सर्वलोकानां महान्तो धर्मसेतवः |
धनत्यागाभिरामाश्च वाक्संयमरताश्च ये ||४||
रमणीयाश्च भूतानां निधानं च धृतव्रताः |
प्रणेतारश्च लोकानां शास्त्राणां च यशस्विनः ||५||
तपो येषां धनं नित्यं वाक्चैव विपुलं बलम् |
प्रभवश्चापि धर्माणां धर्मज्ञाः सूक्ष्मदर्शिनः ||६||
धर्मकामाः स्थिता धर्मे सुकृतैर्धर्मसेतवः |
यानुपाश्रित्य जीवन्ति प्रजाः सर्वाश्चतुर्विधाः ||७||
पन्थानः सर्वनेतारो यज्ञवाहाः सनातनाः |
पितृपैतामहीं गुर्वीमुद्वहन्ति धुरं सदा ||८||
धुरि ये नावसीदन्ति विषमे सद्गवा इव |
पितृदेवातिथिमुखा हव्यकव्याग्रभोजिनः ||९||
भोजनादेव ये लोकांस्त्रायन्ते महतो भयात् |
दीपाः सर्वस्य लोकस्य चक्षुश्चक्षुष्मतामपि ||१०||
सर्वशिल्पादिनिधयो निपुणाः सूक्ष्मदर्शिनः |
गतिज्ञाः सर्वभूतानामध्यात्मगतिचिन्तकाः ||११||
आदिमध्यावसानानां ज्ञातारश्छिन्नसंशयाः |
परावरविशेषज्ञा गन्तारः परमां गतिम् ||१२||
विमुक्ता धुतपाप्मानो निर्द्वंद्वा निष्परिग्रहाः |
मानार्हा मानिता नित्यं ज्ञानविद्भिर्महात्मभिः ||१३||
चन्दने मलपङ्के च भोजनेऽभोजने समाः |
समं येषां दुकूलं च शाणक्षौमाजिनानि च ||१४||
तिष्ठेयुरप्यभुञ्जाना बहूनि दिवसान्यपि |
शोषयेयुश्च गात्राणि स्वाध्यायैः संयतेन्द्रियाः ||१५||
अदैवं दैवतं कुर्युर्दैवतं चाप्यदैवतम् |
लोकानन्यान्सृजेयुश्च लोकपालांश्च कोपिताः ||१६||
अपेयः सागरो येषामभिशापान्महात्मनाम् |
येषां कोपाग्निरद्यापि दण्डके नोपशाम्यति ||१७||
देवानामपि ये देवाः कारणं कारणस्य च |
प्रमाणस्य प्रमाणं च कस्तानभिभवेद्बुधः ||१८||
येषां वृद्धश्च बालश्च सर्वः संमानमर्हति |
तपोविद्याविशेषात्तु मानयन्ति परस्परम् ||१९||
अविद्वान्ब्राह्मणो देवः पात्रं वै पावनं महत् |
विद्वान्भूयस्तरो देवः पूर्णसागरसंनिभः ||२०||
अविद्वांश्चैव विद्वांश्च ब्राह्मणो दैवतं महत् |
प्रणीतश्चाप्रणीतश्च यथाग्निर्दैवतं महत् ||२१||
श्मशाने ह्यपि तेजस्वी पावको नैव दुष्यति |
हविर्यज्ञेषु च वहन्भूय एवाभिशोभते ||२२||
एवं यद्यप्यनिष्टेषु वर्तते सर्वकर्मसु |
सर्वथा ब्राह्मणो मान्यो दैवतं विद्धि तत्परम् ||२३||
पवनार्जुनसंवादः
१३७
युधिष्ठिर उवाच||
कां तु ब्राह्मणपूजायां व्युष्टिं दृष्ट्वा जनाधिप |
कं वा कर्मोदयं मत्वा तानर्चसि महामते ||१||
भीष्म उवाच||
अत्राप्युदाहरन्तीममितिहासं पुरातनम् |
पवनस्य च संवादमर्जुनस्य च भारत ||२||
सहस्रभुजभृच्छ्रीमान्कार्तवीर्योऽभवत्प्रभुः |
अस्य लोकस्य सर्वस्य माहिष्मत्यां महाबलः ||३||
स तु रत्नाकरवतीं सद्वीपां सागराम्बराम् |
शशास सर्वां पृथिवीं हैहयः सत्यविक्रमः ||४||
स्ववित्तं तेन दत्तं तु दत्तात्रेयाय कारणे |
क्षत्रधर्मं पुरस्कृत्य विनयं श्रुतमेव च ||५||
आराधयामास च तं कृतवीर्यात्मजो मुनिम् |
न्यमन्त्रयत संहृष्टः स द्विजश्च वरैस्त्रिभिः ||६||
स वरैश्छन्दितस्तेन नृपो वचनमब्रवीत् |
सहस्रबाहुर्भूयां वै चमूमध्ये गृहेऽन्यथा ||७||
मम बाहुसहस्रं तु पश्यन्तां सैनिका रणे |
विक्रमेण महीं कृत्स्नां जयेयं विपुलव्रत ||८||
तां च धर्मेण सम्प्राप्य पालयेयमतन्द्रितः ||८||
चतुर्थं तु वरं याचे त्वामहं द्विजसत्तम |
तं ममानुग्रहकृते दातुमर्हस्यनिन्दित ||९||
अनुशासन्तु मां सन्तो मिथ्यावृत्तं तदाश्रयम् ||९||
इत्युक्तः स द्विजः प्राह तथास्त्विति नराधिपम् |
एवं समभवंस्तस्य वरास्ते दीप्ततेजसः ||१०||
ततः स रथमास्थाय ज्वलनार्कसमद्युतिः |
अब्रवीद्वीर्यसंमोहात्को न्वस्ति सदृशो मया ||११||
वीर्यधैर्ययशःशौचैर्विक्रमेणौजसापि वा ||११||
तद्वाक्यान्ते चान्तरिक्षे वागुवाचाशरीरिणी |
न त्वं मूढ विजानीषे ब्राह्मणं क्षत्रियाद्वरम् ||१२||
सहितो ब्राह्मणेनेह क्षत्रियो रक्षति प्रजाः ||१२||
अर्जुन उवाच||
कुर्यां भूतानि तुष्टोऽहं क्रुद्धो नाशं तथा नये |
कर्मणा मनसा वाचा न मत्तोऽस्ति वरो द्विजः ||१३||
पूर्वो ब्रह्मोत्तरो वादो द्वितीयः क्षत्रियोत्तरः |
त्वयोक्तौ यौ तु तौ हेतू विशेषस्त्वत्र दृश्यते ||१४||
ब्राह्मणाः संश्रिताः क्षत्रं न क्षत्रं ब्राह्मणाश्रितम् |
श्रितान्ब्रह्मोपधा विप्राः खादन्ति क्षत्रियान्भुवि ||१५||
क्षत्रियेष्वाश्रितो धर्मः प्रजानां परिपालनम् |
क्षत्राद्वृत्तिर्ब्राह्मणानां तैः कथं ब्राह्मणो वरः ||१६||
सर्वभूतप्रधानांस्तान्भैक्षवृत्तीनहं सदा |
आत्मसम्भावितान्विप्रान्स्थापयाम्यात्मनो वशे ||१७||
कथितं ह्यनया सत्यं गायत्र्या कन्यया दिवि |
विजेष्याम्यवशान्सर्वान्ब्राह्मणांश्चर्मवाससः ||१८||
न च मां च्यावयेद्राष्ट्रात्त्रिषु लोकेषु कश्चन |
देवो वा मानुषो वापि तस्माज्ज्येष्ठो द्विजादहम् ||१९||
अद्य ब्रह्मोत्तरं लोकं करिष्ये क्षत्रियोत्तरम् |
न हि मे संयुगे कश्चित्सोढुमुत्सहते बलम् ||२०||
अर्जुनस्य वचः श्रुत्वा वित्रस्ताभून्निशाचरी |
अथैनमन्तरिक्षस्थस्ततो वायुरभाषत ||२१||
त्यजैनं कलुषं भावं ब्राह्मणेभ्यो नमस्कुरु |
एतेषां कुर्वतः पापं राष्ट्रक्षोभो हि ते भवेत् ||२२||
अथ वा त्वां महीपाल शमयिष्यन्ति वै द्विजाः |
निरसिष्यन्ति वा राष्ट्राद्धतोत्साहं महाबलाः ||२३||
तं राजा कस्त्वमित्याह ततस्तं प्राह मारुतः |
वायुर्वै देवदूतोऽस्मि हितं त्वां प्रब्रवीम्यहम् ||२४||
अर्जुन उवाच||
अहो त्वयाद्य विप्रेषु भक्तिरागः प्रदर्शितः |
यादृशं पृथिवी भूतं तादृशं ब्रूहि वै द्विजम् ||२५||
वायोर्वा सदृशं किञ्चिद्ब्रूहि त्वं ब्राह्मणोत्तमम् |
अपां वै सदृशं ब्रूहि सूर्यस्य नभसोऽपि वा ||२६||
१३८
वायुरुवाच||
शृणु मूढ गुणान्कांश्चिद्ब्राह्मणानां महात्मनाम् |
ये त्वया कीर्तिता राजंस्तेभ्योऽथ ब्राह्मणो वरः ||१||
त्यक्त्वा महीत्वं भूमिस्तु स्पर्धयाङ्गनृपस्य ह |
नाशं जगाम तां विप्रो व्यष्टम्भयत कश्यपः ||२||
अक्षया ब्राह्मणा राजन्दिवि चेह च नित्यदा |
अपिबत्तेजसा ह्यापः स्वयमेवाङ्गिराः पुरा ||३||
स ताः पिबन्क्षीरमिव नातृप्यत महातपाः |
अपूरयन्महौघेन महीं सर्वां च पार्थिव ||४||
तस्मिन्नहं च क्रुद्धे वै जगत्त्यक्त्वा ततो गतः |
व्यतिष्ठमग्निहोत्रे च चिरमङ्गिरसो भयात् ||५||
अभिशप्तश्च भगवान्गौतमेन पुरंदरः |
अहल्यां कामयानो वै धर्मार्थं च न हिंसितः ||६||
तथा समुद्रो नृपते पूर्णो मृष्टेन वारिणा |
ब्राह्मणैरभिशप्तः सँल्लवणोदः कृतो विभो ||७||
सुवर्णवर्णो निर्धूमः संहतोर्ध्वशिखः कविः |
क्रुद्धेनाङ्गिरसा शप्तो गुणैरेतैर्विवर्जितः ||८||
मरुतश्चूर्णितान्पश्य येऽहसन्त महोदधिम् |
सुवर्णधारिणा नित्यमवशप्ता द्विजातिना ||९||
समो न त्वं द्विजातिभ्यः श्रेष्ठं विद्धि नराधिप |
गर्भस्थान्ब्राह्मणान्सम्यङ्नमस्यति किल प्रभुः ||१०||
दण्डकानां महद्राज्यं ब्राह्मणेन विनाशितम् |
तालजङ्घं महत्क्षत्रमौर्वेणैकेन नाशितम् ||११||
त्वया च विपुलं राज्यं बलं धर्मः श्रुतं तथा |
दत्तात्रेयप्रसादेन प्राप्तं परमदुर्लभम् ||१२||
अग्निं त्वं यजसे नित्यं कस्मादर्जुन ब्राह्मणम् |
स हि सर्वस्य लोकस्य हव्यवाट्किं न वेत्सि तम् ||१३||
अथ वा ब्राह्मणश्रेष्ठमनु भूतानुपालकम् |
कर्तारं जीवलोकस्य कस्माज्जानन्विमुह्यसे ||१४||
तथा प्रजापतिर्ब्रह्मा अव्यक्तः प्रभवाप्ययः |
येनेदं निखिलं विश्वं जनितं स्थावरं चरम् ||१५||
अण्डजातं तु ब्रह्माणं केचिदिच्छन्त्यपण्डिताः |
अण्डाद्भिन्नाद्बभुः शैला दिशोऽम्भः पृथिवी दिवम् ||१६||
द्रष्टव्यं नैतदेवं हि कथं ज्यायस्तमो हि सः |
स्मृतमाकाशमण्डं तु तस्माज्जातः पितामहः ||१७||
तिष्ठेत्कथमिति ब्रूहि न किञ्चिद्धि तदा भवेत् |
अहङ्कार इति प्रोक्तः सर्वतेजोगतः प्रभुः ||१८||
नास्त्यण्डमस्ति तु ब्रह्मा स राजँल्लोकभावनः |
इत्युक्तः स तदा तूष्णीमभूद्वायुस्तमब्रवीत् ||१९||
१३९
वायुरुवाच||
इमां भूमिं ब्राह्मणेभ्यो दित्सुर्वै दक्षिणां पुरा |
अङ्गो नाम नृपो राजंस्ततश्चिन्तां मही ययौ ||१||
धारणीं सर्वभूतानामयं प्राप्य वरो नृपः |
कथमिच्छति मां दातुं द्विजेभ्यो ब्रह्मणः सुताम् ||२||
साहं त्यक्त्वा गमिष्यामि भूमित्वं ब्रह्मणः पदम् |
अयं सराष्ट्रो नृपतिर्मा भूदिति ततोऽगमत् ||३||
ततस्तां कश्यपो दृष्ट्वा व्रजन्तीं पृथिवीं तदा |
प्रविवेश महीं सद्यो मुक्त्वात्मानं समाहितः ||४||
रुद्धा सा सर्वतो जज्ञे तृणौषधिसमन्विता |
धर्मोत्तरा नष्टभया भूमिरासीत्ततो नृप ||५||
एवं वर्षसहस्राणि दिव्यानि विपुलव्रतः |
त्रिंशतं कश्यपो राजन्भूमिरासीदतन्द्रितः ||६||
अथागम्य महाराज नमस्कृत्य च कश्यपम् |
पृथिवी काश्यपी जज्ञे सुता तस्य महात्मनः ||७||
एष राजन्नीदृशो वै ब्राह्मणः कश्यपोऽभवत् |
अन्यं प्रब्रूहि वापि त्वं कश्यपात्क्षत्रियं वरम् ||८||
तूष्णीं बभूव नृपतिः पवनस्त्वब्रवीत्पुनः |
शृणु राजन्नुतथ्यस्य जातस्याङ्गिरसे कुले ||९||
भद्रा सोमस्य दुहिता रूपेण परमा मता |
तस्यास्तुल्यं पतिं सोम उतथ्यं समपश्यत ||१०||
सा च तीव्रं तपस्तेपे महाभागा यशस्विनी |
उतथ्यं तु महाभागं तत्कृतेऽवरयत्तदा ||११||
तत आहूय सोतथ्यं ददावत्र यशस्विनीम् |
भार्यार्थे स च जग्राह विधिवद्भूरिदक्षिण ||१२||
तां त्वकामयत श्रीमान्वरुणः पूर्वमेव ह |
स चागम्य वनप्रस्थं यमुनायां जहार ताम् ||१३||
जलेश्वरस्तु हृत्वा तामनयत्स्वपुरं प्रति |
परमाद्भुतसङ्काशं षट्सहस्रशतह्रदम् ||१४||
न हि रम्यतरं किञ्चित्तस्मादन्यत्पुरोत्तमम् |
प्रासादैरप्सरोभिश्च दिव्यैः कामैश्च शोभितम् ||१५||
तत्र देवस्तया सार्धं रेमे राजञ्जलेश्वरः ||१५||
अथाख्यातमुतथ्याय ततः पत्न्यवमर्दनम् |
तच्छ्रुत्वा नारदात्सर्वमुतथ्यो नारदं तदा |
प्रोवाच गच्छ ब्रूहि त्वं वरुणं परुषं वचः ||१७||
मद्वाक्यान्मुञ्च मे भार्यां कस्माद्वा हृतवानसि ||१७||
लोकपालोऽसि लोकानां न लोकस्य विलोपकः |
सोमेन दत्ता भार्या मे त्वया चापहृताद्य वै ||१८||
इत्युक्तो वचनात्तस्य नारदेन जलेश्वरः |
मुञ्च भार्यामुतथ्यस्येत्यथ तं वरुणोऽब्रवीत् ||१९||
ममैषा सुप्रिया भार्या नैनामुत्स्रष्टुमुत्सहे ||१९||
इत्युक्तो वरुणेनाथ नारदः प्राप्य तं मुनिम् |
उतथ्यमब्रवीद्वाक्यं नातिहृष्टमना इव ||२०||
गले गृहीत्वा क्षिप्तोऽस्मि वरुणेन महामुने |
न प्रयच्छति ते भार्यां यत्ते कार्यं कुरुष्व तत् ||२१||
नारदस्य वचः श्रुत्वा क्रुद्धः प्राज्वलदङ्गिराः |
अपिबत्तेजसा वारि विष्टभ्य सुमहातपाः ||२२||
पीयमाने च सर्वस्मिंस्तोये वै सलिलेश्वरः |
सुहृद्भिः क्षिप्यमाणोऽपि नैवामुञ्चत तां तदा ||२३||
ततः क्रुद्धोऽब्रवीद्भूमिमुतथ्यो ब्राह्मणोत्तमः |
दर्शयस्व स्थलं भद्रे षट्सहस्रशतह्रदम् ||२४||
ततस्तदिरिणं जातं समुद्रश्चापसर्पितः |
तस्माद्देशान्नदीं चैव प्रोवाचासौ द्विजोत्तमः ||२५||
अदृश्या गच्छ भीरु त्वं सरस्वति मरुं प्रति |
अपुण्य एष भवतु देशस्त्यक्तस्त्वया शुभे ||२६||
तस्मिन्सञ्चूर्णिते देशे भद्रामादाय वारिपः |
अददाच्छरणं गत्वा भार्यामाङ्गिरसाय वै ||२७||
प्रतिगृह्य तु तां भार्यामुतथ्यः सुमनाभवत् |
मुमोच च जगद्दुःखाद्वरुणं चैव हैहय ||२८||
ततः स लब्ध्वा तां भार्यां वरुणं प्राह धर्मवित् |
उतथ्यः सुमहातेजा यत्तच्छृणु नराधिप ||२९||
मयैषा तपसा प्राप्ता क्रोशतस्ते जलाधिप |
इत्युक्त्वा तामुपादाय स्वमेव भवनं ययौ ||३०||
एष राजन्नीदृशो वै उतथ्यो ब्राह्मणर्षभः |
ब्रवीम्यहं ब्रूहि वा त्वमुतथ्यात्क्षत्रियं वरम् ||३१||
१४०
भीष्म उवाच||
इत्युक्तः स तदा तूष्णीमभूद्वायुस्ततोऽब्रवीत् |
शृणु राजन्नगस्त्यस्य माहात्म्यं ब्राह्मणस्य ह ||१||
असुरैर्निर्जिता देवा निरुत्साहाश्च ते कृताः |
यज्ञाश्चैषां हृताः सर्वे पितृभ्यश्च स्वधा तथा ||२||
कर्मेज्या मानवानां च दानवैर्हैहयर्षभ |
भ्रष्टैश्वर्यास्ततो देवाश्चेरुः पृथ्वीमिति श्रुतिः ||३||
ततः कदाचित्ते राजन्दीप्तमादित्यवर्चसम् |
ददृशुस्तेजसा युक्तमगस्त्यं विपुलव्रतम् ||४||
अभिवाद्य च तं देवा दृष्ट्वा च यशसा वृतम् |
इदमूचुर्महात्मानं वाक्यं काले जनाधिप ||५||
दानवैर्युधि भग्नाः स्म तथैश्वर्याच्च भ्रंशिताः |
तदस्मान्नो भयात्तीव्रात्त्राहि त्वं मुनिपुङ्गव ||६||
इत्युक्तः स तदा देवैरगस्त्यः कुपितोऽभवत् |
प्रजज्वाल च तेजस्वी कालाग्निरिव सङ्क्षये ||७||
तेन दीप्तांशुजालेन निर्दग्धा दानवास्तदा |
अन्तरिक्षान्महाराज न्यपतन्त सहस्रशः ||८||
दह्यमानास्तु ते दैत्यास्तस्यागस्त्यस्य तेजसा |
उभौ लोकौ परित्यज्य ययुः काष्ठां स्म दक्षिणाम् ||९||
बलिस्तु यजते यज्ञमश्वमेधं महीं गतः |
येऽन्ये स्वस्था महीस्थाश्च ते न दग्धा महासुराः ||१०||
ततो लोकाः पुनः प्राप्ताः सुरैः शान्तं च तद्रजः |
अथैनमब्रुवन्देवा भूमिष्ठानसुराञ्जहि ||११||
इत्युक्त आह देवान्स न शक्नोमि महीगतान् |
दग्धुं तपो हि क्षीयेन्मे धक्ष्यामीति च पार्थिव ||१२||
एवं दग्धा भगवता दानवाः स्वेन तेजसा |
अगस्त्येन तदा राजंस्तपसा भावितात्मना ||१३||
ईदृशश्चाप्यगस्त्यो हि कथितस्ते मयानघ |
ब्रवीम्यहं ब्रूहि वा त्वमगस्त्यात्क्षत्रियं वरम् ||१४||
इत्युक्तः स तदा तूष्णीमभूद्वायुस्ततोऽब्रवीत् |
शृणु राजन्वसिष्ठस्य मुख्यं कर्म यशस्विनः ||१५||
आदित्याः सत्रमासन्त सरो वै मानसं प्रति |
वसिष्ठं मनसा गत्वा श्रुत्वा तत्रास्य गोचरम् ||१६||
यजमानांस्तु तान्दृष्ट्वा व्यग्रान्दीक्षानुकर्शितान् |
हन्तुमिच्छन्ति शैलाभाः खलिनो नाम दानवाः ||१७||
अदूरात्तु ततस्तेषां ब्रह्मदत्तवरं सरः |
हता हता वै ते तत्र जीवन्त्याप्लुत्य दानवाः ||१८||
ते प्रगृह्य महाघोरान्पर्वतान्परिघान्द्रुमान् |
विक्षोभयन्तः सलिलमुत्थिताः शतयोजनम् ||१९||
अभ्यद्रवन्त देवांस्ते सहस्राणि दशैव ह |
ततस्तैरर्दिता देवाः शरणं वासवं ययुः ||२०||
स च तैर्व्यथितः शक्रो वसिष्ठं शरणं ययौ |
ततोऽभयं ददौ तेभ्यो वसिष्ठो भगवानृषिः ||२१||
तथा तान्दुःखिताञ्जानन्नानृशंस्यपरो मुनिः |
अयत्नेनादहत्सर्वान्खलिनः स्वेन तेजसा ||२२||
कैलासं प्रस्थितां चापि नदीं गङ्गां महातपाः |
आनयत्तत्सरो दिव्यं तया भिन्नं च तत्सरः ||२३||
सरो भिन्नं तया नद्या सरयूः सा ततोऽभवत् |
हताश्च खलिनो यत्र स देशः खलिनोऽभवत् ||२४||
एवं सेन्द्रा वसिष्ठेन रक्षितास्त्रिदिवौकसः |
ब्रह्मदत्तवराश्चैव हता दैत्या महात्मना ||२५||
एतत्कर्म वसिष्ठस्य कथितं ते मयानघ |
ब्रवीम्यहं ब्रूहि वा त्वं वसिष्ठात्क्षत्रियं वरम् ||२६||
१४१
भीष्म उवाच||
इत्युक्तस्त्वर्जुनस्तूष्णीमभूद्वायुस्तमब्रवीत् |
शृणु मे हैहयश्रेष्ठ कर्मात्रेः सुमहात्मनः ||१||
घोरे तमस्ययुध्यन्त सहिता देवदानवाः |
अविध्यत शरैस्तत्र स्वर्भानुः सोमभास्करौ ||२||
अथ ते तमसा ग्रस्ता निहन्यन्ते स्म दानवैः |
देवा नृपतिशार्दूल सहैव बलिभिस्तदा ||३||
असुरैर्वध्यमानास्ते क्षीणप्राणा दिवौकसः |
अपश्यन्त तपस्यन्तमत्रिं विप्रं महावने ||४||
अथैनमब्रुवन्देवाः शान्तक्रोधं जितेन्द्रियम् |
असुरैरिषुभिर्विद्धौ चन्द्रादित्याविमावुभौ ||५||
वयं वध्यामहे चापि शत्रुभिस्तमसावृते |
नाधिगच्छाम शान्तिं च भयात्त्रायस्व नः प्रभो ||६||
कथं रक्षामि भवतस्तेऽब्रुवंश्चन्द्रमा भव |
तिमिरघ्नश्च सविता दस्युहा चैव नो भव ||७||
एवमुक्तस्तदात्रिस्तु तमोनुदभवच्छशी |
अपश्यत्सौम्यभावं च सूर्यस्य प्रतिदर्शनम् ||८||
दृष्ट्वा नातिप्रभं सोमं तथा सूर्यं च पार्थिव |
प्रकाशमकरोदत्रिस्तपसा स्वेन संयुगे ||९||
जगद्वितिमिरं चापि प्रदीप्तमकरोत्तदा |
व्यजयच्छत्रुसङ्घांश्च देवानां स्वेन तेजसा ||१०||
अत्रिणा दह्यमानांस्तान्दृष्ट्वा देवा महासुरान् |
पराक्रमैस्तेऽपि तदा व्यत्यघ्नन्नत्रिरक्षिताः ||११||
उद्भासितश्च सविता देवास्त्राता हतासुराः |
अत्रिणा त्वथ सोमत्वं कृतमुत्तमतेजसा ||१२||
अद्वितीयेन मुनिना जपता चर्मवाससा |
फलभक्षेण राजर्षे पश्य कर्मात्रिणा कृतम् ||१३||
तस्यापि विस्तरेणोक्तं कर्मात्रेः सुमहात्मनः |
ब्रवीम्यहं ब्रूहि वा त्वमत्रितः क्षत्रियं वरम् ||१४||
इत्युक्तस्त्वर्जुनस्तूष्णीमभूद्वायुस्तमब्रवीत् |
शृणु राजन्महत्कर्म च्यवनस्य महात्मनः ||१५||
अश्विनोः प्रतिसंश्रुत्य च्यवनः पाकशासनम् |
प्रोवाच सहितं देवैः सोमपावश्विनौ कुरु ||१६||
इन्द्र उवाच||
अस्माभिर्वर्जितावेतौ भवेतां सोमपौ कथम् |
देवैर्न संमितावेतौ तस्मान्मैवं वदस्व नः ||१७||
अश्विभ्यां सह नेच्छामः पातुं सोमं महाव्रत |
पिबन्त्वन्ये यथाकामं नाहं पातुमिहोत्सहे ||१८||
च्यवन उवाच||
न चेत्करिष्यसि वचो मयोक्तं बलसूदन |
मया प्रमथितः सद्यः सोमं पास्यसि वै मखे ||१९||
ततः कर्म समारब्धं हिताय सहसाश्विनोः |
च्यवनेन ततो मन्त्रैरभिभूताः सुराभवन् ||२०||
तत्तु कर्म समारब्धं दृष्ट्वेन्द्रः क्रोधमूर्छितः |
उद्यम्य विपुलं शैलं च्यवनं समुपाद्रवत् ||२१||
तथा वज्रेण भगवानमर्षाकुललोचनः ||२१||
तमापतन्तं दृष्ट्वैव च्यवनस्तपसान्वितः |
अद्भिः सिक्त्वास्तम्भयत्तं सवज्रं सहपर्वतम् ||२२||
अथेन्द्रस्य महाघोरं सोऽसृजच्छत्रुमेव ह |
मदं मन्त्राहुतिमयं व्यादितास्यं महामुनिः ||२३||
तस्य दन्तसहस्रं तु बभूव शतयोजनम् |
द्वियोजनशतास्तस्य दंष्ट्राः परमदारुणाः ||२४||
हनुस्तस्याभवद्भूमावेकश्चास्यास्पृशद्दिवम् ||२४||
जिह्वामूले स्थितास्तस्य सर्वे देवाः सवासवाः |
तिमेरास्यमनुप्राप्ता यथा मत्स्या महार्णवे ||२५||
ते संमन्त्र्य ततो देवा मदस्यास्यगतास्तदा |
अब्रुवन्सहिताः शक्रं प्रणमास्मै द्विजातये ||२६||
अश्विभ्यां सह सोमं च पिबामो विगतज्वराः ||२६||
ततः स प्रणतः शक्रश्चकार च्यवनस्य तत् |
च्यवनः कृतवांस्तौ चाप्यश्विनौ सोमपीथिनौ ||२७||
ततः प्रत्याहरत्कर्म मदं च व्यभजन्मुनिः |
अक्षेषु मृगयायां च पाने स्त्रीषु च वीर्यवान् ||२८||
एतैर्दोषैर्नरो राजन्क्षयं याति न संशयः |
तस्मादेतान्नरो नित्यं दूरतः परिवर्जयेत् ||२९||
एतत्ते च्यवनस्यापि कर्म राजन्प्रकीर्तितम् |
ब्रवीम्यहं ब्रूहि वा त्वं च्यवनात्क्षत्रियं वरम् ||३०||
१४२
भीष्म उवाच||
तूष्णीमासीदर्जुनस्तु पवनस्त्वब्रवीत्पुनः |
शृणु मे ब्राह्मणेष्वेव मुख्यं कर्म जनाधिप ||१||
मदस्यास्यमनुप्राप्ता यदा सेन्द्रा दिवौकसः |
तदेयं च्यवनेनेह हृता तेषां वसुन्धरा ||२||
उभौ लोकौ हृतौ मत्वा ते देवा दुःखिताभवन् |
शोकार्ताश्च महात्मानं ब्रह्माणं शरणं ययुः ||३||
देवा ऊचुः||
मदास्यव्यतिषिक्तानामस्माकं लोकपूजित |
च्यवनेन हृता भूमिः कपैश्चापि दिवं प्रभो ||४||
ब्रह्मोवाच||
गच्छध्वं शरणं विप्रानाशु सेन्द्रा दिवौकसः |
प्रसाद्य तानुभौ लोकाववाप्स्यथ यथा पुरा ||५||
ते ययुः शरणं विप्रांस्त ऊचुः काञ्जयामहे |
इत्युक्तास्ते द्विजान्प्राहुर्जयतेह कपानिति ||६||
भूगतान्हि विजेतारो वयमित्येव पार्थिव ||६||
ततः कर्म समारब्धं ब्राह्मणैः कपनाशनम् |
तच्छ्रुत्वा प्रेषितो दूतो ब्राह्मणेभ्यो धनी कपैः ||७||
स च तान्ब्राह्मणानाह धनी कपवचो यथा |
भवद्भिः सदृशाः सर्वे कपाः किमिह वर्तते ||८||
सर्वे वेदविदः प्राज्ञाः सर्वे च क्रतुयाजिनः |
सर्वे सत्यव्रताश्चैव सर्वे तुल्या महर्षिभिः ||९||
श्रीश्चैव रमते तेषु धारयन्ति श्रियं च ते |
वृथा दारान्न गच्छन्ति वृथामांसं न भुञ्जते ||१०||
दीप्तमग्निं जुह्वति च गुरूणां वचने स्थिताः |
सर्वे च नियतात्मानो बालानां संविभागिनः ||११||
उपेत्य शकटैर्यान्ति न सेवन्ति रजस्वलाम् |
अभुक्तवत्सु नाश्नन्ति दिवा चैव न शेरते ||१२||
एतैश्चान्यैश्च बहुभिर्गुणैर्युक्तान्कथं कपान् |
विजेष्यथ निवर्तध्वं निवृत्तानां शुभं हि वः ||१३||
ब्राह्मणा ऊचुः||
कपान्वयं विजेष्यामो ये देवास्ते वयं स्मृताः |
तस्माद्वध्याः कपास्माकं धनिन्याहि यथागतम् ||१४||
धनी गत्वा कपानाह न वो विप्राः प्रियङ्कराः |
गृहीत्वास्त्राण्यथो विप्रान्कपाः सर्वे समाद्रवन् ||१५||
समुदग्रध्वजान्दृष्ट्वा कपान्सर्वे द्विजातयः |
व्यसृजञ्ज्वलितानग्नीन्कपानां प्राणनाशनान् ||१६||
ब्रह्मसृष्टा हव्यभुजः कपान्भुक्त्वा सनातनाः |
नभसीव यथाभ्राणि व्यराजन्त नराधिप ||१७||
प्रशशंसुर्द्विजांश्चैव ब्रह्माणं च यशस्विनम् ||१७||
तेषां तेजस्तथा वीर्यं देवानां ववृधे ततः |
अवाप्नुवंश्चामरत्वं त्रिषु लोकेषु पूजितम् ||१८||
इत्युक्तवचनं वायुमर्जुनः प्रत्यभाषत |
प्रतिपूज्य महाबाहो यत्तच्छृणु नराधिप ||१९||
जीवाम्यहं ब्राह्मणार्थे सर्वथा सततं प्रभो |
ब्रह्मणे ब्राह्मणेभ्यश्च प्रणमामि च नित्यशः ||२०||
दत्तात्रेयप्रसादाच्च मया प्राप्तमिदं यशः |
लोके च परमा कीर्तिर्धर्मश्च चरितो महान् ||२१||
अहो ब्राह्मणकर्माणि यथा मारुत तत्त्वतः |
त्वया प्रोक्तानि कार्त्स्न्येन श्रुतानि प्रयतेन ह ||२२||
वायुरुवाच||
ब्राह्मणान्क्षत्रधर्मेण पालयस्वेन्द्रियाणि च |
भृगुभ्यस्ते भयं घोरं तत्तु कालाद्भविष्यति ||२३||
कृष्णमाहात्म्यम्
१४३
युधिष्ठिर उवाच||
ब्राह्मणानर्चसे राजन्सततं संशितव्रतान् |
कं तु कर्मोदयं दृष्ट्वा तानर्चसि नराधिप ||१||
कां वा ब्राह्मणपूजायां व्युष्टिं दृष्ट्वा महाव्रत |
तानर्चसि महाबाहो सर्वमेतद्वदस्व मे ||२||
भीष्म उवाच||
एष ते केशवः सर्वमाख्यास्यति महामतिः |
व्युष्टिं ब्राह्मणपूजायां दृष्टव्युष्टिर्महाव्रतः ||३||
बलं श्रोत्रे वाङ्मनश्चक्षुषी च; ज्ञानं तथा न विशुद्धं ममाद्य |
देहन्यासो नातिचिरान्मतो मे; न चातितूर्णं सविताद्य याति ||४||
उक्ता धर्मा ये पुराणे महान्तो; ब्राह्मणानां क्षत्रियाणां विशां च |
पौराणं ये दण्डमुपासते च; शेषं कृष्णादुपशिक्षस्व पार्थ ||५||
अहं ह्येनं वेद्मि तत्त्वेन कृष्णं; योऽयं हि यच्चास्य बलं पुराणम् |
अमेयात्मा केशवः कौरवेन्द्र; सोऽयं धर्मं वक्ष्यति संशयेषु ||६||
कृष्णः पृथ्वीमसृजत्खं दिवं च; वराहोऽयं भीमबलः पुराणः |
अस्य चाधोऽथान्तरिक्षं दिवं च; दिशश्चतस्रः प्रदिशश्चतस्रः ||७||
सृष्टिस्तथैवेयमनुप्रसूता; स निर्ममे विश्वमिदं पुराणम् ||७||
अस्य नाभ्यां पुष्करं सम्प्रसूतं; यत्रोत्पन्नः स्वयमेवामितौजाः |
येनाच्छिन्नं तत्तमः पार्थ घोरं; यत्तत्तिष्ठत्यर्णवं तर्जयानम् ||८||
कृते युगे धर्म आसीत्समग्र; स्त्रेताकाले ज्ञानमनुप्रपन्नः |
बलं त्वासीद्द्वापरे पार्थ कृष्णः; कलावधर्मः क्षितिमाजगाम ||९||
स पूर्वदेवो निजघान दैत्या; न्स पूर्वदेवश्च बभूव सम्राट् |
स भूतानां भावनो भूतभव्यः; स विश्वस्यास्य जगतश्चापि गोप्ता ||१०||
यदा धर्मो ग्लायति वै सुराणां; तदा कृष्णो जायते मानुषेषु |
धर्मे स्थित्वा स तु वै भावितात्मा; परांश्च लोकानपरांश्च याति ||११||
त्याज्यांस्त्यक्त्वाथासुराणां वधाय; कार्याकार्ये कारणं चैव पार्थ |
कृतं करिष्यत्क्रियते च देवो; मुहुः सोमं विद्धि च शक्रमेतम् ||१२||
स विश्वकर्मा स च विश्वरूपः; स विश्वभृद्विश्वसृग्विश्वजिच्च |
स शूलभृच्छोणितभृत्कराल; स्तं कर्मभिर्विदितं वै स्तुवन्ति ||१३||
तं गन्धर्वा अप्सरसश्च नित्य; मुपतिष्ठन्ते विबुधानां शतानि |
तं राक्षसाश्च परिसंवहन्ते; रायस्पोषः स विजिगीषुरेकः ||१४||
तमध्वरे शंसितारः स्तुवन्ति; रथन्तरे सामगाश्च स्तुवन्ति |
तं ब्राह्मणा ब्रह्ममन्त्रैः स्तुवन्ति; तस्मै हविरध्वर्यवः कल्पयन्ति ||१५||
स पौराणीं ब्रह्मगुहां प्रविष्टो; महीसत्रं भारताग्रे ददर्श |
स चैव गामुद्दधाराग्र्यकर्मा; विक्षोभ्य दैत्यानुरगान्दानवांश्च ||१६||
तस्य भक्षान्विविधान्वेदयन्ति; तमेवाजौ वाहनं वेदयन्ति |
तस्यान्तरिक्षं पृथिवी दिवं च; सर्वं वशे तिष्ठति शाश्वतस्य ||१७||
स कुम्भरेताः ससृजे पुराणं; यत्रोत्पन्नमृषिमाहुर्वसिष्ठम् |
स मातरिश्वा विभुरश्ववाजी; स रश्मिमान्सविता चादिदेवः ||१८||
तेनासुरा विजिताः सर्व एव; तस्य विक्रान्तैर्विजितानीह त्रीणि |
स देवानां मानुषाणां पितॄणां; तमेवाहुर्यज्ञविदां वितानम् ||१९||
स एव कालं विभजन्नुदेति; तस्योत्तरं दक्षिणं चायने द्वे |
तस्यैवोर्ध्वं तिर्यगधश्चरन्ति; गभस्तयो मेदिनीं तापयन्तः ||२०||
तं ब्राह्मणा वेदविदो जुषन्ति; तस्यादित्यो भामुपयुज्य भाति |
स मासि मास्यध्वरकृद्विधत्ते; तमध्वरे वेदविदः पठन्ति ||२१||
स एकयुक्चक्रमिदं त्रिनाभि; सप्ताश्वयुक्तं वहते वै त्रिधामा |
महातेजाः सर्वगः सर्वसिंहः; कृष्णो लोकान्धारयते तथैकः ||२२||
अश्नन्ननश्नंश्च तथैव धीरः; कृष्णं सदा पार्थ कर्तारमेहि ||२२||
स एकदा कक्षगतो महात्मा; तृप्तो विभुः खाण्डवे धूमकेतुः |
स राक्षसानुरगांश्चावजित्य; सर्वत्रगः सर्वमग्नौ जुहोति ||२३||
स एवाश्वः श्वेतमश्वं प्रयच्छ; त्स एवाश्वानथ सर्वांश्चकार |
त्रिवन्धुरस्तस्य रथस्त्रिचक्र; स्त्रिवृच्छिराश्चतुरस्रश्च तस्य ||२४||
स विहायो व्यदधात्पञ्चनाभिः; स निर्ममे गां दिवमन्तरिक्षम् |
एवं रम्यानसृजत्पर्वतांश्च; हृषीकेशोऽमितदीप्ताग्नितेजाः ||२५||
स लङ्घयन्वै सरितो जिघांस; न्स तं वज्रं प्रहरन्तं निरास |
स महेन्द्रः स्तूयते वै महाध्वरे; विप्रैरेको ऋक्सहस्रैः पुराणैः ||२६||
दुर्वासा वै तेन नान्येन शक्यो; गृहे राजन्वासयितुं महौजाः |
तमेवाहुरृषिमेकं पुराणं; स विश्वकृद्विदधात्यात्मभावान् ||२७||
वेदांश्च यो वेदयतेऽधिदेवो; विधींश्च यश्चाश्रयते पुराणान् |
कामे वेदे लौकिके यत्फलं च; विष्वक्सेने सर्वमेतत्प्रतीहि ||२८||
ज्योतींषि शुक्लानि च सर्वलोके; त्रयो लोका लोकपालास्त्रयश्च |
त्रयोऽग्नयो व्याहृतयश्च तिस्रः; सर्वे देवा देवकीपुत्र एव ||२९||
संवत्सरः स ऋतुः सोऽर्धमासः; सोऽहोरात्रः स कला वै स काष्ठाः |
मात्रा मुहूर्ताश्च लवाः क्षणाश्च; विष्वक्सेने सर्वमेतत्प्रतीहि ||३०||
चन्द्रादित्यौ ग्रहनक्षत्रताराः; सर्वाणि दर्शान्यथ पौर्णमास्यः |
नक्षत्रयोगा ऋतवश्च पार्थ; विष्वक्सेनात्सर्वमेतत्प्रसूतम् ||३१||
रुद्रादित्या वसवोऽथाश्विनौ च; साध्या विश्वे मरुतां षड्गणाश्च |
प्रजापतिर्देवमातादितिश्च; सर्वे कृष्णादृषयश्चैव सप्त ||३२||
वायुर्भूत्वा विक्षिपते च विश्व; मग्निर्भूत्वा दहते विश्वरूपः |
आपो भूत्वा मज्जयते च सर्वं; ब्रह्मा भूत्वा सृजते विश्वसङ्घान् ||३३||
वेद्यं च यद्वेदयते च वेदा; न्विधिश्च यश्चाश्रयते विधेयान् |
धर्मे च वेदे च बले च सर्वं; चराचरं केशवं त्वं प्रतीहि ||३४||
ज्योतिर्भूतः परमोऽसौ पुरस्ता; त्प्रकाशयन्प्रभया विश्वरूपः |
अपः सृष्ट्वा ह्यात्मभूरात्मयोनिः; पुराकरोत्सर्वमेवाथ विश्वम् ||३५||
ऋतूनुत्पातान्विविधान्यद्भुतानि; मेघान्विद्युत्सर्वमैरावतं च |
सर्वं कृष्णात्स्थावरं जङ्गमं च; विश्वाख्याताद्विष्णुमेनं प्रतीहि ||३६||
विश्वावासं निर्गुणं वासुदेवं; सङ्कर्षणं जीवभूतं वदन्ति |
ततः प्रद्युम्नमनिरुद्धं चतुर्थ; माज्ञापयत्यात्मयोनिर्महात्मा ||३७||
स पञ्चधा पञ्चजनोपपन्नं; सञ्चोदयन्विश्वमिदं सिसृक्षुः |
ततश्चकारावनिमारुतौ च; खं ज्योतिरापश्च तथैव पार्थ ||३८||
स स्थावरं जङ्गमं चैवमेत; च्चतुर्विधं लोकमिमं च कृत्वा |
ततो भूमिं व्यदधात्पञ्चबीजां; द्यौः पृथिव्यां धास्यति भूरि वारि ||३९||
तेन विश्वं कृतमेतद्धि राज; न्स जीवयत्यात्मनैवात्मयोनिः ||३९||
ततो देवानसुरान्मानुषांश्च; लोकानृषींश्चाथ पितॄन्प्रजाश्च |
समासेन विविधान्प्राणिलोका; न्सर्वान्सदा भूतपतिः सिसृक्षुः ||४०||
शुभाशुभं स्थावरं जङ्गमं च; विष्वक्सेनात्सर्वमेतत्प्रतीहि |
यद्वर्तते यच्च भविष्यतीह; सर्वमेतत्केशवं त्वं प्रतीहि ||४१||
मृत्युश्चैव प्राणिनामन्तकाले; साक्षात्कृष्णः शाश्वतो धर्मवाहः |
भूतं च यच्चेह न विद्म किं चि; द्विष्वक्सेनात्सर्वमेतत्प्रतीहि ||४२||
यत्प्रशस्तं च लोकेषु पुण्यं यच्च शुभाशुभम् |
तत्सर्वं केशवोऽचिन्त्यो विपरीतमतो भवेत् ||४३||
एतादृशः केशवोऽयं स्वयम्भू; र्नारायणः परमश्चाव्ययश्च |
मध्यं चास्य जगतस्तस्थुषश्च; सर्वेषां भूतानां प्रभवश्चाप्ययश्च ||४४||
दुर्वासोमाहात्म्यम्
१४४
युधिष्ठिर उवाच||
ब्रूहि ब्राह्मणपूजायां व्युष्टिं त्वं मधुसूदन |
वेत्ता त्वमस्य चार्थस्य वेद त्वां हि पितामहः ||१||
वासुदेव उवाच||
शृणुष्वावहितो राजन्द्विजानां भरतर्षभ |
यथातत्त्वेन वदतो गुणान्मे कुरुसत्तम ||२||
प्रद्युम्नः परिपप्रच्छ ब्राह्मणैः परिकोपितः |
किं फलं ब्राह्मणेष्वस्ति पूजायां मधुसूदन ||३||
ईश्वरस्य सतस्तस्य इह चैव परत्र च ||३||
सदा द्विजातीन्सम्पूज्य किं फलं तत्र मानद |
एतद्ब्रूहि पितः सर्वं सुमहान्संशयोऽत्र मे ||४||
इत्युक्तवचनस्तेन प्रद्युम्नेन तदा त्वहम् |
प्रत्यब्रुवं महाराज यत्तच्छृणु समाहितः ||५||
व्युष्टिं ब्राह्मणपूजायां रौक्मिणेय निबोध मे |
एते हि सोमराजान ईश्वराः सुखदुःखयोः ||६||
अस्मिँल्लोके रौक्मिणेय तथामुष्मिंश्च पुत्रक |
ब्राह्मणप्रमुखं सौख्यं न मेऽत्रास्ति विचारणा ||७||
ब्राह्मणप्रमुखं वीर्यमायुः कीर्तिर्यशो बलम् |
लोका लोकेश्वराश्चैव सर्वे ब्राह्मणपूर्वकाः ||८||
तत्कथं नाद्रियेयं वै ईश्वरोऽस्मीति पुत्रक |
मा ते मन्युर्महाबाहो भवत्वत्र द्विजान्प्रति ||९||
ब्राह्मणो हि महद्भूतमस्मिँल्लोके परत्र च |
भस्म कुर्युर्जगदिदं क्रुद्धाः प्रत्यक्षदर्शिनः ||१०||
अन्यानपि सृजेयुश्च लोकाँल्लोकेश्वरांस्तथा |
कथं तेषु न वर्तेय सम्यग्ज्ञानात्सुतेजसः ||११||
अवसन्मद्गृहे तात ब्राह्मणो हरिपिङ्गलः |
चीरवासा बिल्वदण्डी दीर्घश्मश्रुनखादिमान् ||१२||
दीर्घेभ्यश्च मनुष्येभ्यः प्रमाणादधिको भुवि ||१२||
स स्म सञ्चरते लोकान्ये दिव्या ये च मानुषाः |
इमा गाथा गायमानश्चत्वरेषु सभासु च ||१३||
दुर्वाससं वासयेत्को ब्राह्मणं सत्कृतं गृहे |
परिभाषां च मे श्रुत्वा को नु दद्यात्प्रतिश्रयम् ||१४||
यो मां कश्चिद्वासयेत न स मां कोपयेदिह ||१४||
तं स्म नाद्रियते कश्चित्ततोऽहं तमवासयम् |
स स्म भुङ्क्ते सहस्राणां बहूनामन्नमेकदा |
एकदा स्माल्पकं भुङ्क्ते न वैति च पुनर्गृहान् ||१६||
अकस्माच्च प्रहसति तथाकस्मात्प्ररोदिति |
न चास्य वयसा तुल्यः पृथिव्यामभवत्तदा ||१७||
सोऽस्मदावसथं गत्वा शय्याश्चास्तरणानि च |
कन्याश्चालङ्कृता दग्ध्वा ततो व्यपगतः स्वयम् ||१८||
अथ मामब्रवीद्भूयः स मुनिः संशितव्रतः |
कृष्ण पायसमिच्छामि भोक्तुमित्येव सत्वरः ||१९||
सदैव तु मया तस्य चित्तज्ञेन गृहे जनः |
सर्वाण्येवान्नपानानि भक्ष्याश्चोच्चावचास्तथा ||२०||
भवन्तु सत्कृतानीति पूर्वमेव प्रचोदितः ||२०||
ततोऽहं ज्वलमानं वै पायसं प्रत्यवेदयम् |
तद्भुक्त्वैव तु स क्षिप्रं ततो वचनमब्रवीत् ||२१||
क्षिप्रमङ्गानि लिम्पस्व पायसेनेति स स्म ह ||२१||
अविमृश्यैव च ततः कृतवानस्मि तत्तथा |
तेनोच्छिष्टेन गात्राणि शिरश्चैवाभ्यमृक्षयम् ||२२||
स ददर्श तदाभ्याशे मातरं ते शुभाननाम् |
तामपि स्मयमानः स पायसेनाभ्यलेपयत् ||२३||
मुनिः पायसदिग्धाङ्गीं रथे तूर्णमयोजयत् |
तमारुह्य रथं चैव निर्ययौ स गृहान्मम ||२४||
अग्निवर्णो ज्वलन्धीमान्स द्विजो रथधुर्यवत् |
प्रतोदेनातुदद्बालां रुक्मिणीं मम पश्यतः ||२५||
न च मे स्तोकमप्यासीद्दुःखमीर्ष्याकृतं तदा |
ततः स राजमार्गेण महता निर्ययौ बहिः ||२६||
तद्दृष्ट्वा महदाश्चर्यं दाशार्हा जातमन्यवः |
तत्राजल्पन्मिथः केचित्समाभाष्य परस्परम् ||२७||
ब्राह्मणा एव जायेरन्नान्यो वर्णः कथञ्चन |
को ह्येनं रथमास्थाय जीवेदन्यः पुमानिह ||२८||
आशीविषविषं तीक्ष्णं ततस्तीक्ष्णतरं विषम् |
ब्रह्माशीविषदग्धस्य नास्ति कश्चिच्चिकित्सकः ||२९||
तस्मिन्व्रजति दुर्धर्षे प्रास्खलद्रुक्मिणी पथि |
तां नामर्षयत श्रीमांस्ततस्तूर्णमचोदयत् ||३०||
ततः परमसङ्क्रुद्धो रथात्प्रस्कन्द्य स द्विजः |
पदातिरुत्पथेनैव प्राधावद्दक्षिणामुखः ||३१||
तमुत्पथेन धावन्तमन्वधावं द्विजोत्तमम् |
तथैव पायसादिग्धः प्रसीद भगवन्निति ||३२||
ततो विलोक्य तेजस्वी ब्राह्मणो मामुवाच ह |
जितः क्रोधस्त्वया कृष्ण प्रकृत्यैव महाभुज ||३३||
न तेऽपराधमिह वै दृष्टवानस्मि सुव्रत |
प्रीतोऽस्मि तव गोविन्द वृणु कामान्यथेप्सितान् ||३४||
प्रसन्नस्य च मे तात पश्य व्युष्टिर्यथाविधा ||३४||
यावदेव मनुष्याणामन्ने भावो भविष्यति |
यथैवान्ने तथा तेषां त्वयि भावो भविष्यति ||३५||
यावच्च पुण्या लोकेषु त्वयि कीर्तिर्भविष्यति |
त्रिषु लोकेषु तावच्च वैशिष्ट्यं प्रतिपत्स्यसे ||३६||
सुप्रियः सर्वलोकस्य भविष्यसि जनार्दन ||३६||
यत्ते भिन्नं च दग्धं च यच्च किञ्चिद्विनाशितम् |
सर्वं तथैव द्रष्टासि विशिष्टं वा जनार्दन ||३७||
यावदेतत्प्रलिप्तं ते गात्रेषु मधुसूदन |
अतो मृत्युभयं नास्ति यावदिच्छा तवाच्युत ||३८||
न तु पादतले लिप्ते कस्मात्ते पुत्रकाद्य वै |
नैतन्मे प्रियमित्येव स मां प्रीतोऽब्रवीत्तदा ||३९||
इत्युक्तोऽहं शरीरं स्वमपश्यं श्रीसमायुतम् ||३९||
रुक्मिणीं चाब्रवीत्प्रीतः सर्वस्त्रीणां वरं यशः |
कीर्तिं चानुत्तमां लोके समवाप्स्यसि शोभने ||४०||
न त्वां जरा वा रोगो वा वैवर्ण्यं चापि भामिनि |
स्प्रक्ष्यन्ति पुण्यगन्धा च कृष्णमाराधयिष्यसि ||४१||
षोडशानां सहस्राणां वधूनां केशवस्य ह |
वरिष्ठा सहलोक्या च केशवस्य भविष्यसि ||४२||
तव मातरमित्युक्त्वा ततो मां पुनरब्रवीत् |
प्रस्थितः सुमहातेजा दुर्वासा वह्निवज्ज्वलन् ||४३||
एषैव ते बुद्धिरस्तु ब्राह्मणान्प्रति केशव |
इत्युक्त्वा स तदा पुत्र तत्रैवान्तरधीयत ||४४||
तस्मिन्नन्तर्हिते चाहमुपांशुव्रतमादिशम् |
यत्किञ्चिद्ब्राह्मणो ब्रूयात्सर्वं कुर्यामिति प्रभो ||४५||
एतद्व्रतमहं कृत्वा मात्रा ते सह पुत्रक |
ततः परमहृष्टात्मा प्राविशं गृहमेव च ||४६||
प्रविष्टमात्रश्च गृहे सर्वं पश्यामि तन्नवम् |
यद्भिन्नं यच्च वै दग्धं तेन विप्रेण पुत्रक ||४७||
ततोऽहं विस्मयं प्राप्तः सर्वं दृष्ट्वा नवं दृढम् |
अपूजयं च मनसा रौक्मिणेय द्विजं तदा ||४८||
इत्यहं रौक्मिणेयस्य पृच्छतो भरतर्षभ |
माहात्म्यं द्विजमुख्यस्य सर्वमाख्यातवांस्तदा ||४९||
तथा त्वमपि कौन्तेय ब्राह्मणान्सततं प्रभो |
पूजयस्व महाभागान्वाग्भिर्दानैश्च नित्यदा ||५०||
एवं व्युष्टिमहं प्राप्तो ब्राह्मणानां प्रसादजाम् |
यच्च मामाह भीष्मोऽयं तत्सत्यं भरतर्षभ ||५१||
ईश्वरप्रशंसा
१४५
युधिष्ठिर उवाच||
दुर्वाससः प्रसादात्ते यत्तदा मधुसूदन |
अवाप्तमिह विज्ञानं तन्मे व्याख्यातुमर्हसि ||१||
महाभाग्यं च यत्तस्य नामानि च महात्मनः |
तत्त्वतो ज्ञातुमिच्छामि सर्वं मतिमतां वर ||२||
वासुदेव उवाच||
हन्त ते कथयिष्यामि नमस्कृत्वा कपर्दिने |
यदवाप्तं महाराज श्रेयो यच्चार्जितं यशः ||३||
प्रयतः प्रातरुत्थाय यदधीये विशां पते |
प्राञ्जलिः शतरुद्रीयं तन्मे निगदतः शृणु ||४||
प्रजापतिस्तत्ससृजे तपसोऽन्ते महातपाः |
शङ्करस्त्वसृजत्तात प्रजाः स्थावरजङ्गमाः ||५||
नास्ति किञ्चित्परं भूतं महादेवाद्विशां पते |
इह त्रिष्वपि लोकेषु भूतानां प्रभवो हि सः ||६||
न चैवोत्सहते स्थातुं कश्चिदग्रे महात्मनः |
न हि भूतं समं तेन त्रिषु लोकेषु विद्यते ||७||
गन्धेनापि हि सङ्ग्रामे तस्य क्रुद्धस्य शत्रवः |
विसञ्ज्ञा हतभूयिष्ठा वेपन्ति च पतन्ति च ||८||
घोरं च निनदं तस्य पर्जन्यनिनदोपमम् |
श्रुत्वा विदीर्येद्धृदयं देवानामपि संयुगे ||९||
यांश्च घोरेण रूपेण पश्येत्क्रुद्धः पिनाकधृक् |
न सुरा नासुरा लोके न गन्धर्वा न पन्नगाः ||१०||
कुपिते सुखमेधन्ते तस्मिन्नपि गुहागताः ||१०||
प्रजापतेश्च दक्षस्य यजतो वितते क्रतौ |
विव्याध कुपितो यज्ञं निर्भयस्तु भवस्तदा ||११||
धनुषा बाणमुत्सृज्य सघोषं विननाद च ||११||
ते न शर्म कुतः शान्तिं विषादं लेभिरे सुराः |
विद्रुते सहसा यज्ञे कुपिते च महेश्वरे ||१२||
तेन ज्यातलघोषेण सर्वे लोकाः समाकुलाः |
बभूवुरवशाः पार्थ विषेदुश्च सुरासुराः ||१३||
आपश्चुक्षुभिरे चैव चकम्पे च वसुन्धरा |
व्यद्रवन्गिरयश्चापि द्यौः पफाल च सर्वशः ||१४||
अन्धेन तमसा लोकाः प्रावृता न चकाशिरे |
प्रनष्टा ज्योतिषां भाश्च सह सूर्येण भारत ||१५||
भृशं भीतास्ततः शान्तिं चक्रुः स्वस्त्ययनानि च |
ऋषयः सर्वभूतानामात्मनश्च हितैषिणः ||१६||
ततः सोऽभ्यद्रवद्देवान्क्रुद्धो रौद्रपराक्रमः |
भगस्य नयने क्रुद्धः प्रहारेण व्यशातयत् ||१७||
पूषाणं चाभिदुद्राव परेण वपुषान्वितः |
पुरोडाशं भक्षयतो दशनान्वै व्यशातयत् ||१८||
ततः प्रणेमुर्देवास्ते वेपमानाः स्म शङ्करम् |
पुनश्च संदधे रुद्रो दीप्तं सुनिशितं शरम् ||१९||
रुद्रस्य विक्रमं दृष्ट्वा भीता देवाः सहर्षिभिः |
ततः प्रसादयामासुः शर्वं ते विबुधोत्तमाः ||२०||
जेपुश्च शतरुद्रीयं देवाः कृत्वाञ्जलिं ततः |
संस्तूयमानस्त्रिदशैः प्रससाद महेश्वरः ||२१||
रुद्रस्य भागं यज्ञे च विशिष्टं ते त्वकल्पयन् |
भयेन त्रिदशा राजञ्शरणं च प्रपेदिरे ||२२||
तेन चैवातिकोपेन स यज्ञः सन्धितोऽभवत् |
यद्यच्चापि हतं तत्र तत्तथैव प्रदीयते ||२३||
असुराणां पुराण्यासंस्त्रीणि वीर्यवतां दिवि |
आयसं राजतं चैव सौवर्णमपरं तथा ||२४||
नाशकत्तानि मघवा भेत्तुं सर्वायुधैरपि |
अथ सर्वेऽमरा रुद्रं जग्मुः शरणमर्दिताः ||२५||
तत ऊचुर्महात्मानो देवाः सर्वे समागताः |
रुद्र रौद्रा भविष्यन्ति पशवः सर्वकर्मसु ||२६||
जहि दैत्यान्सह पुरैर्लोकांस्त्रायस्व मानद ||२६||
स तथोक्तस्तथेत्युक्त्वा विष्णुं कृत्वा शरोत्तमम् |
शल्यमग्निं तथा कृत्वा पुङ्खं वैवस्वतं यमम् ||२७||
वेदान्कृत्वा धनुः सर्वाञ्ज्यां च सावित्रिमुत्तमाम् ||२७||
देवान्रथवरं कृत्वा विनियुज्य च सर्वशः |
त्रिपर्वणा त्रिशल्येन तेन तानि बिभेद सः ||२८||
शरेणादित्यवर्णेन कालाग्निसमतेजसा |
तेऽसुराः सपुरास्तत्र दग्धा रुद्रेण भारत ||२९||
तं चैवाङ्कगतं दृष्ट्वा बालं पञ्चशिखं पुनः |
उमा जिज्ञासमाना वै कोऽयमित्यब्रवीत्तदा ||३०||
असूयतश्च शक्रस्य वज्रेण प्रहरिष्यतः |
सवज्रं स्तम्भयामास तं बाहुं परिघोपमम् ||३१||
न सम्बुबुधिरे चैनं देवास्तं भुवनेश्वरम् |
सप्रजापतयः सर्वे तस्मिन्मुमुहुरीश्वरे ||३२||
ततो ध्यात्वाथ भगवान्ब्रह्मा तममितौजसम् |
अयं श्रेष्ठ इति ज्ञात्वा ववन्दे तमुमापतिम् ||३३||
ततः प्रसादयामासुरुमां रुद्रं च ते सुराः |
बभूव स तदा बाहुर्बलहन्तुर्यथा पुरा ||३४||
स चापि ब्राह्मणो भूत्वा दुर्वासा नाम वीर्यवान् |
द्वारवत्यां मम गृहे चिरं कालमुपावसत् ||३५||
विप्रकारान्प्रयुङ्क्ते स्म सुबहून्मम वेश्मनि |
तानुदारतया चाहमक्षमं तस्य दुःसहम् ||३६||
स देवेन्द्रश्च वायुश्च सोऽश्विनौ स च विद्युतः |
स चन्द्रमाः स चेशानः स सूर्यो वरुणश्च सः ||३७||
स कालः सोऽन्तको मृत्युः स तमो रात्र्यहानि च |
मासार्धमासा ऋतवः सन्ध्ये संवत्सरश्च सः ||३८||
स धाता स विधाता च विश्वकर्मा स सर्ववित् |
नक्षत्राणि दिशश्चैव प्रदिशोऽथ ग्रहास्तथा ||३९||
विश्वमूर्तिरमेयात्मा भगवानमितद्युतिः ||३९||
एकधा च द्विधा चैव बहुधा च स एव च |
शतधा सहस्रधा चैव तथा शतसहस्रधा ||४०||
ईदृशः स महादेवो भूयश्च भगवानतः |
न हि शक्या गुणा वक्तुमपि वर्षशतैरपि ||४१||
१४६
वासुदेव उवाच||
युधिष्ठिर महाबाहो महाभाग्यं महात्मनः |
रुद्राय बहुरूपाय बहुनाम्ने निबोध मे ||१||
वदन्त्यग्निं महादेवं तथा स्थाणुं महेश्वरम् |
एकाक्षं त्र्यम्बकं चैव विश्वरूपं शिवं तथा ||२||
द्वे तनू तस्य देवस्य वेदज्ञा ब्राह्मणा विदुः |
घोरामन्यां शिवामन्यां ते तनू बहुधा पुनः ||३||
उग्रा घोरा तनूर्यास्य सोऽग्निर्विद्युत्स भास्करः |
शिवा सौम्या च या तस्य धर्मस्त्वापोऽथ चन्द्रमाः ||४||
आत्मनोऽर्धं तु तस्याग्निरुच्यते भरतर्षभ |
ब्रह्मचर्यं चरत्येष शिवा यास्य तनुस्तथा ||५||
यास्य घोरतमा मूर्तिर्जगत्संहरते तया |
ईश्वरत्वान्महत्त्वाच्च महेश्वर इति स्मृतः ||६||
यन्निर्दहति यत्तीक्ष्णो यदुग्रो यत्प्रतापवान् |
मांसशोणितमज्जादो यत्ततो रुद्र उच्यते ||७||
देवानां सुमहान्यच्च यच्चास्य विषयो महान् |
यच्च विश्वं महत्पाति महादेवस्ततः स्मृतः ||८||
समेधयति यन्नित्यं सर्वार्थान्सर्वकर्मभिः |
शिवमिच्छन्मनुष्याणां तस्मादेष शिवः स्मृतः ||९||
दहत्यूर्ध्वं स्थितो यच्च प्राणोत्पत्तिः स्थितिश्च यत् |
स्थिरलिङ्गश्च यन्नित्यं तस्मात्स्थाणुरिति स्मृतः ||१०||
यदस्य बहुधा रूपं भूतं भव्यं भवत्तथा |
स्थावरं जङ्गमं चैव बहुरूपस्ततः स्मृतः ||११||
धूम्रं रूपं च यत्तस्य धूर्जटीत्यत उच्यते |
विश्वे देवाश्च यत्तस्मिन्विश्वरूपस्ततः स्मृतः ||१२||
सहस्राक्षोऽयुताक्षो वा सर्वतोक्षिमयोऽपि वा |
चक्षुषः प्रभवस्तेजो नास्त्यन्तोऽथास्य चक्षुषाम् ||१३||
सर्वथा यत्पशून्पाति तैश्च यद्रमते पुनः |
तेषामधिपतिर्यच्च तस्मात्पशुपतिः स्मृतः ||१४||
नित्येन ब्रह्मचर्येण लिङ्गमस्य यदा स्थितम् |
महयन्त्यस्य लोकाश्च महेश्वर इति स्मृतः ||१५||
विग्रहं पूजयेद्यो वै लिङ्गं वापि महात्मनः |
लिङ्गं पूजयिता नित्यं महतीं श्रियमश्नुते ||१६||
ऋषयश्चापि देवाश्च गन्धर्वाप्सरसस्तथा |
लिङ्गमेवार्चयन्ति स्म यत्तदूर्ध्वं समास्थितम् ||१७||
पूज्यमाने ततस्तस्मिन्मोदते स महेश्वरः |
सुखं ददाति प्रीतात्मा भक्तानां भक्तवत्सलः ||१८||
एष एव श्मशानेषु देवो वसति नित्यशः |
यजन्ते तं जनास्तत्र वीरस्थाननिषेविणम् ||१९||
विषमस्थः शरीरेषु स मृत्युः प्राणिनामिह |
स च वायुः शरीरेषु प्राणोऽपानः शरीरिणाम् ||२०||
तस्य घोराणि रूपाणि दीप्तानि च बहूनि च |
लोके यान्यस्य पूज्यन्ते विप्रास्तानि विदुर्बुधाः ||२१||
नामधेयानि वेदेषु बहून्यस्य यथार्थतः |
निरुच्यन्ते महत्त्वाच्च विभुत्वात्कर्मभिस्तथा ||२२||
वेदे चास्य विदुर्विप्राः शतरुद्रीयमुत्तमम् |
व्यासादनन्तरं यच्चाप्युपस्थानं महात्मनः ||२३||
प्रदाता सर्वलोकानां विश्वं चाप्युच्यते महत् |
ज्येष्ठभूतं वदन्त्येनं ब्राह्मणा ऋषयोऽपरे ||२४||
प्रथमो ह्येष देवानां मुखादग्निरजायत |
ग्रहैर्बहुविधैः प्राणान्संरुद्धानुत्सृजत्यपि ||२५||
स मोचयति पुण्यात्मा शरण्यः शरणागतान् |
आयुरारोग्यमैश्वर्यं वित्तं कामांश्च पुष्कलान् ||२६||
स ददाति मनुष्येभ्यः स एवाक्षिपते पुनः |
शक्रादिषु च देवेषु तस्य चैश्वर्यमुच्यते ||२७||
स एवाभ्यधिको नित्यं त्रैलोक्यस्य शुभाशुभे |
ऐश्वर्याच्चैव कामानामीश्वरः पुनरुच्यते ||२८||
महेश्वरश्च लोकानां महतामीश्वरश्च सः |
बहुभिर्विविधै रूपैर्विश्वं व्याप्तमिदं जगत् ||२९||
तस्य देवस्य यद्वक्त्रं समुद्रे वडवामुखम् ||२९||
धर्मनिर्णयः
१४७
वैशम्पायन उवाच||
इत्युक्तवति वाक्यं तु कृष्णे देवकिनन्दने |
भीष्मं शान्तनवं भूयः पर्यपृच्छद्युधिष्ठिरः ||१||
निर्णये वा महाबुद्धे सर्वधर्मभृतां वर |
प्रत्यक्षमागमो वेति किं तयोः कारणं भवेत् ||२||
भीष्म उवाच||
नास्त्यत्र संशयः कश्चिदिति मे वर्तते मतिः |
शृणु वक्ष्यामि ते प्राज्ञ सम्यक्त्वमनुपृच्छसि ||३||
संशयः सुगमो राजन्निर्णयस्त्वत्र दुर्गमः |
दृष्टं श्रुतमनन्तं हि यत्र संशयदर्शनम् ||४||
प्रत्यक्षं कारणं दृष्टं हेतुकाः प्राज्ञमानिनः |
नास्तीत्येवं व्यवस्यन्ति सत्यं संशयमेव च ||५||
तदयुक्तं व्यवस्यन्ति बालाः पण्डितमानिनः ||५||
अथ चेन्मन्यसे चैकं कारणं किं भवेदिति |
शक्यं दीर्घेण कालेन युक्तेनातन्द्रितेन च ||६||
प्राणयात्रामनेकां च कल्पयानेन भारत ||६||
तत्परेणैव नान्येन शक्यं ह्येतत्तु कारणम् |
हेतूनामन्तमासाद्य विपुलं ज्ञानमुत्तमम् ||७||
ज्योतिः सर्वस्य लोकस्य विपुलं प्रतिपद्यते ||७||
तत्त्वेनागमनं राजन्हेत्वन्तगमनं तथा |
अग्राह्यमनिबद्धं च वाचः सम्परिवर्जनम् ||८||
युधिष्ठिर उवाच||
प्रत्यक्षं लोकतः सिद्धं लोकाश्चागमपूर्वकाः |
शिष्टाचारो बहुविधो ब्रूहि तन्मे पितामह ||९||
भीष्म उवाच||
धर्मस्य ह्रियमाणस्य बलवद्भिर्दुरात्मभिः |
संस्था यत्नैरपि कृता कालेन परिभिद्यते ||१०||
अधर्मा धर्मरूपेण तृणैः कूपा इवावृताः |
ततस्तैर्भिद्यते वृत्तं शृणु चैव युधिष्ठिर ||११||
अवृत्त्या ये च भिन्दन्ति श्रुतत्यागपरायणाः |
धर्मविद्वेषिणो मन्दा इत्युक्तस्तेषु संशयः ||१२||
अतृप्यन्तस्तु साधूनां य एवागमबुद्धयः |
परमित्येव सन्तुष्टास्तानुपास्स्व च पृच्छ च ||१३||
कामार्थौ पृष्ठतः कृत्वा लोभमोहानुसारिणौ |
धर्म इत्येव सम्बुद्धास्तानुपास्स्व च पृच्छ च ||१४||
न तेषां भिद्यते वृत्तं यज्ञस्वाध्यायकर्मभिः |
आचारः कारणं चैव धर्मश्चैव त्रयं पुनः ||१५||
युधिष्ठिर उवाच||
पुनरेवेह मे बुद्धिः संशये परिमुह्यते |
अपारे मार्गमाणस्य परं तीरमपश्यतः ||१६||
वेदाः प्रत्यक्षमाचारः प्रमाणं तत्त्रयं यदि |
पृथक्त्वं लभ्यते चैषां धर्मश्चैकस्त्रयं कथम् ||१७||
भीष्म उवाच||
धर्मस्य ह्रियमाणस्य बलवद्भिर्दुरात्मभिः |
यद्येवं मन्यसे राजंस्त्रिधा धर्मविचारणा ||१८||
एक एवेति जानीहि त्रिधा तस्य प्रदर्शनम् |
पृथक्त्वे चैव मे बुद्धिस्त्रयाणामपि वै तथा ||१९||
उक्तो मार्गस्त्रयाणां च तत्तथैव समाचर |
जिज्ञासा तु न कर्तव्या धर्मस्य परितर्कणात् ||२०||
सदैव भरतश्रेष्ठ मा ते भूदत्र संशयः |
अन्धो जड इवाशङ्को यद्ब्रवीमि तदाचर ||२१||
अहिंसा सत्यमक्रोधो दानमेतच्चतुष्टयम् |
अजातशत्रो सेवस्व धर्म एष सनातनः ||२२||
ब्राह्मणेषु च वृत्तिर्या पितृपैतामहोचिता |
तामन्वेहि महाबाहो स्वर्गस्यैते हि देशिकाः ||२३||
प्रमाणमप्रमाणं वै यः कुर्यादबुधो नरः |
न स प्रमाणतामर्हो विवादजननो हि सः ||२४||
ब्राह्मणानेव सेवस्व सत्कृत्य बहुमन्य च |
एतेष्वेव त्विमे लोकाः कृत्स्ना इति निबोध तान् ||२५||
१४८
युधिष्ठिर उवाच||
ये च धर्ममसूयन्ति ये चैनं पर्युपासते |
ब्रवीतु भगवानेतत्क्व ते गच्छन्ति तादृशाः ||१||
भीष्म उवाच||
रजसा तमसा चैव समवस्तीर्णचेतसः |
नरकं प्रतिपद्यन्ते धर्मविद्वेषिणो नराः ||२||
ये तु धर्मं महाराज सततं पर्युपासते |
सत्यार्जवपराः सन्तस्ते वै स्वर्गभुजो नराः ||३||
धर्म एव रतिस्तेषामाचार्योपासनाद्भवेत् |
देवलोकं प्रपद्यन्ते ये धर्मं पर्युपासते ||४||
मनुष्या यदि वा देवाः शरीरमुपताप्य वै |
धर्मिणः सुखमेधन्ते लोभद्वेषविवर्जिताः ||५||
प्रथमं ब्रह्मणः पुत्रं धर्ममाहुर्मनीषिणः |
धर्मिणः पर्युपासन्ते फलं पक्वमिवाशयः ||६||
युधिष्ठिर उवाच||
असतां कीदृशं रूपं साधवः किं च कुर्वते |
ब्रवीतु मे भवानेतत्सन्तोऽसन्तश्च कीदृशाः ||७||
भीष्म उवाच||
दुराचाराश्च दुर्धर्षा दुर्मुखाश्चाप्यसाधवः |
साधवः शीलसम्पन्नाः शिष्टाचारस्य लक्षणम् ||८||
राजमार्गे गवां मध्ये गोष्ठमध्ये च धर्मिणः |
नोपसेवन्ति राजेन्द्र सर्गं मूत्रपुरीषयोः ||९||
पञ्चानामशनं दत्त्वा शेषमश्नन्ति साधवः |
न जल्पन्ति च भुञ्जाना न निद्रान्त्यार्द्रपाणयः ||१०||
चित्रभानुमनड्वाहं देवं गोष्ठं चतुष्पथम् |
ब्राह्मणं धार्मिकं चैत्यं ते कुर्वन्ति प्रदक्षिणम् ||११||
वृद्धानां भारतप्तानां स्त्रीणां बालातुरस्य च |
ब्राह्मणानां गवां राज्ञां पन्थानं ददते च ते ||१२||
अतिथीनां च सर्वेषां प्रेष्याणां स्वजनस्य च |
तथा शरणकामानां गोप्ता स्यात्स्वागतप्रदः ||१३||
सायं प्रातर्मनुष्याणामशनं देवनिर्मितम् |
नान्तरा भोजनं दृष्टमुपवासविधिर्हि सः ||१४||
होमकाले यथा वह्निः कालमेव प्रतीक्षते |
ऋतुकाले तथा नारी ऋतुमेव प्रतीक्षते ||१५||
न चान्यां गच्छते यस्तु ब्रह्मचर्यं हि तत्स्मृतम् ||१५||
अमृतं ब्राह्मणा गाव इत्येतत्त्रयमेकतः |
तस्माद्गोब्राह्मणं नित्यमर्चयेत यथाविधि ||१६||
यजुषा संस्कृतं मांसमुपभुञ्जन्न दुष्यति |
पृष्ठमांसं वृथामांसं पुत्रमांसं च तत्समम् ||१७||
स्वदेशे परदेशे वाप्यतिथिं नोपवासयेत् |
कर्म वै सफलं कृत्वा गुरूणां प्रतिपादयेत् ||१८||
गुरुभ्य आसनं देयमभिवाद्याभिपूज्य च |
गुरूनभ्यर्च्य वर्धन्ते आयुषा यशसा श्रिया ||१९||
वृद्धान्नातिवदेज्जातु न च सम्प्रेषयेदपि |
नासीनः स्यात्स्थितेष्वेवमायुरस्य न रिष्यते ||२०||
न नग्नामीक्षते नारीं न विद्वान्पुरुषानपि |
मैथुनं सततं गुप्तमाहारं च समाचरेत् ||२१||
तीर्थानां गुरवस्तीर्थं शुचीनां हृदयं शुचि |
दर्शनानां परं ज्ञानं सन्तोषः परमं सुखम् ||२२||
सायं प्रातश्च वृद्धानां शृणुयात्पुष्कला गिरः |
श्रुतमाप्नोति हि नरः सततं वृद्धसेवया ||२३||
स्वाध्याये भोजने चैव दक्षिणं पाणिमुद्धरेत् |
यच्छेद्वाङ्मनसी नित्यमिन्द्रियाणां च विभ्रमम् ||२४||
संस्कृतं पायसं नित्यं यवागूं कृसरं हविः |
अष्टकाः पितृदैवत्या वृद्धानामभिपूजनम् ||२५||
श्मश्रुकर्मणि मङ्गल्यं क्षुतानामभिनन्दनम् |
व्याधितानां च सर्वेषामायुषः प्रतिनन्दनम् ||२६||
न जातु त्वमिति ब्रूयादापन्नोऽपि महत्तरम् |
त्वङ्कारो वा वधो वेति विद्वत्सु न विशिष्यते ||२७||
अवराणां समानानां शिष्याणां च समाचरेत् ||२७||
पापमाचक्षते नित्यं हृदयं पापकर्मिणाम् |
ज्ञानपूर्वं विनश्यन्ति गूहमाना महाजने ||२८||
ज्ञानपूर्वं कृतं कर्म च्छादयन्ते ह्यसाधवः |
न मां मनुष्याः पश्यन्ति न मां पश्यन्ति देवताः ||२९||
पापेनाभिहतः पापः पापमेवाभिजायते ||२९||
यथा वार्धुषिको वृद्धिं देहभेदे प्रतीक्षते |
धर्मेणापिहितं पापं धर्ममेवाभिवर्धयेत् ||३०||
यथा लवणमम्भोभिराप्लुतं प्रविलीयते |
प्रायश्चित्तहतं पापं तथा सद्यः प्रणश्यति ||३१||
तस्मात्पापं न गूहेत गूहमानं विवर्धते |
कृत्वा तु साधुष्वाख्येयं ते तत्प्रशमयन्त्युत ||३२||
आशया सञ्चितं द्रव्यं यत्काले नोपभुज्यते |
अन्ये चैतत्प्रपद्यन्ते वियोगे तस्य देहिनः ||३३||
मानसं सर्वभूतानां धर्ममाहुर्मनीषिणः |
तस्मात्सर्वाणि भूतानि धर्ममेव समासते ||३४||
एक एव चरेद्धर्मं न धर्मध्वजिको भवेत् |
धर्मवाणिजका ह्येते ये धर्ममुपभुञ्जते ||३५||
अर्चेद्देवानदम्भेन सेवेतामायया गुरून् |
निधिं निदध्यात्पारत्र्यं यात्रार्थं दानशब्दितम् ||३६||
युधिष्ठिरप्रश्नः
१४९
युधिष्ठिर उवाच||
नाभागधेयः प्राप्नोति धनं सुबलवानपि |
भागधेयान्वितस्त्वर्थान्कृशो बालश्च विन्दति ||१||
नालाभकाले लभते प्रयत्नेऽपि कृते सति |
लाभकालेऽप्रयत्नेन लभते विपुलं धनम् ||२||
कृतयत्नाफलाश्चैव दृश्यन्ते शतशो नराः ||२||
यदि यत्नो भवेन्मर्त्यः स सर्वं फलमाप्नुयात् |
नालभ्यं चोपलभ्येत नृणां भरतसत्तम ||३||
यदा प्रयत्नं कृतवान्दृश्यते ह्यफलो नरः |
मार्गन्नयशतैरर्थानमार्गंश्चापरः सुखी ||४||
अकार्यमसकृत्कृत्वा दृश्यन्ते ह्यधना नराः |
धनयुक्तास्त्वधर्मस्था दृश्यन्ते चापरे जनाः ||५||
अधीत्य नीतिं यस्माच्च नीतियुक्तो न दृश्यते |
अनभिज्ञश्च साचिव्यं गमितः केन हेतुना ||६||
विद्यायुक्तो ह्यविद्यश्च धनवान्दुर्गतस्तथा ||६||
यदि विद्यामुपाश्रित्य नरः सुखमवाप्नुयात् |
न विद्वान्विद्यया हीनं वृत्त्यर्थमुपसंश्रयेत् ||७||
यथा पिपासां जयति पुरुषः प्राप्य वै जलम् |
दृष्टार्थो विद्ययाप्येवमविद्यां प्रजहेन्नरः ||८||
नाप्राप्तकालो म्रियते विद्धः शरशतैरपि |
तृणाग्रेणापि संस्पृष्टः प्राप्तकालो न जीवति ||९||
भीष्म उवाच||
ईहमानः समारम्भान्यदि नासादयेद्धनम् |
उग्रं तपः समारोहेन्न ह्यनुप्तं प्ररोहति ||१०||
दानेन भोगी भवति मेधावी वृद्धसेवया |
अहिंसया च दीर्घायुरिति प्राहुर्मनीषिणः ||११||
तस्माद्दद्यान्न याचेत पूजयेद्धार्मिकानपि |
स्वाभाषी प्रियकृच्छुद्धः सर्वसत्त्वाविहिंसकः ||१२||
यदा प्रमाणप्रभवः स्वभावश्च सुखासुखे |
मशकीटपिपीलानां स्थिरो भव युधिष्ठिर ||१३||
धर्मसंशयः
१५०
भीष्म उवाच||
कार्यते यच्च क्रियते सच्चासच्च कृतं ततः |
तत्राश्वसीत सत्कृत्वा असत्कृत्वा न विश्वसेत् ||१||
काल एवात्र कालेन निग्रहानुग्रहौ ददत् |
बुद्धिमाविश्य भूतानां धर्मार्थेषु प्रवर्तते ||२||
यदा त्वस्य भवेद्बुद्धिर्धर्म्या चार्थप्रदर्शिनी |
तदाश्वसीत धर्मात्मादृढबुद्धिर्न विश्वसेत् ||३||
एतावन्मात्रमेतद्धि भूतानां प्राज्ञलक्षणम् |
कालयुक्तोऽप्युभयविच्छेषमर्थं समाचरेत् ||४||
यथा ह्युपस्थितैश्वर्याः पूजयन्ते नरा नरान् |
एवमेवात्मनात्मानं पूजयन्तीह धार्मिकाः ||५||
न ह्यधर्मतया धर्मं दद्यात्कालः कथञ्चन |
तस्माद्विशुद्धमात्मानं जानीयाद्धर्मचारिणम् ||६||
स्प्रष्टुमप्यसमर्थो हि ज्वलन्तमिव पावकम् |
अधर्मः सततो धर्मं कालेन परिरक्षितम् ||७||
कार्यावेतौ हि कालेन धर्मो हि विजयावहः |
त्रयाणामपि लोकानामालोककरणो भवेत् ||८||
तत्र कश्चिन्नयेत्प्राज्ञो गृहीत्वैव करे नरम् |
उह्यमानः स धर्मेण धर्मे बहुभयच्छले ||९||
वंशानुकीर्तनम्
१५१
युधिष्ठिर उवाच||
किं श्रेयः पुरुषस्येह किं कुर्वन्सुखमेधते |
विपाप्मा च भवेत्केन किं वा कल्मषनाशनम् ||१||
भीष्म उवाच||
अयं दैवतवंशो वै ऋषिवंशसमन्वितः |
द्विसन्ध्यं पठितः पुत्र कल्मषापहरः परः ||२||
देवासुरगुरुर्देवः सर्वभूतनमस्कृतः |
अचिन्त्योऽथाप्यनिर्देश्यः सर्वप्राणो ह्ययोनिजः ||३||
पितामहो जगन्नाथः सावित्री ब्रह्मणः सती |
वेदभूरथ कर्ता च विष्णुर्नारायणः प्रभुः ||४||
उमापतिर्विरूपाक्षः स्कन्दः सेनापतिस्तथा |
विशाखो हुतभुग्वायुश्चन्द्रादित्यौ प्रभाकरौ ||५||
शक्रः शचीपतिर्देवो यमो धूमोर्णया सह |
वरुणः सह गौर्या च सह ऋद्ध्या धनेश्वरः ||६||
सौम्या गौः सुरभिर्देवी विश्रवाश्च महानृषिः |
षट्कालः सागरो गङ्गा स्रवन्त्योऽथ मरुद्गणाः ||७||
वालखिल्यास्तपःसिद्धाः कृष्णद्वैपायनस्तथा |
नारदः पर्वतश्चैव विश्वावसुर्हहाहुहूः ||८||
तुम्बरुश्चित्रसेनश्च देवदूतश्च विश्रुतः |
देवकन्या महाभागा दिव्याश्चाप्सरसां गणाः ||९||
उर्वशी मेनका रम्भा मिश्रकेशी अलम्बुषा |
विश्वाची च घृताची च पञ्चचूडा तिलोत्तमा ||१०||
आदित्या वसवो रुद्राः साश्विनः पितरोऽपि च |
धर्मः सत्यं तपो दीक्षा व्यवसायः पितामहः ||११||
शर्वर्यो दिवसाश्चैव मारीचः कश्यपस्तथा |
शुक्रो बृहस्पतिर्भौमो बुधो राहुः शनैश्चरः ||१२||
नक्षत्राण्यृतवश्चैव मासाः सन्ध्याः सवत्सराः |
वैनतेयाः समुद्राश्च कद्रुजाः पन्नगास्तथा ||१३||
शतद्रूश्च विपाशा च चन्द्रभागा सरस्वती |
सिन्धुश्च देविका चैव पुष्करं तीर्थमेव च ||१४||
गङ्गा महानदी चैव कपिला नर्मदा तथा |
कम्पुना च विशल्या च करतोयाम्बुवाहिनी ||१५||
सरयूर्गण्डकी चैव लोहित्यश्च महानदः |
ताम्रारुणा वेत्रवती पर्णाशा गौतमी तथा ||१६||
गोदावरी च वेण्णा च कृष्णवेणा तथाद्रिजा |
दृषद्वती च कावेरी वङ्क्षुर्मन्दाकिनी तथा ||१७||
प्रयागं च प्रभासं च पुण्यं नैमिषमेव च |
तच्च विश्वेश्वरस्थानं यत्र तद्विमलं सरः ||१८||
पुण्यतीर्थैश्च कलिलं कुरुक्षेत्रं प्रकीर्तितम् |
सिन्धूत्तमं तपोदानं जम्बूमार्गमथापि च ||१९||
हिरण्वती वितस्ता च तथैवेक्षुमती नदी |
वेदस्मृतिर्वैदसिनी मलवासाश्च नद्यपि ||२०||
भूमिभागास्तथा पुण्या गङ्गाद्वारमथापि च |
ऋषिकुल्यास्तथा मेध्या नदी चित्रपथा तथा ||२१||
कौशिकी यमुना सीता तथा चर्मण्वती नदी |
नदी भीमरथी चैव बाहुदा च महानदी ||२२||
महेन्द्रवाणी त्रिदिवा नीलिका च सरस्वती ||२२||
नन्दा चापरनन्दा च तथा तीर्थं महाह्रदम् |
गयाथ फल्गुतीर्थं च धर्मारण्यं सुरैर्वृतम् ||२३||
तथा देवनदी पुण्या सरश्च ब्रह्मनिर्मितम् |
पुण्यं त्रिलोकविख्यातं सर्वपापहरं शिवम् ||२४||
हिमवान्पर्वतश्चैव दिव्यौषधिसमन्वितः |
विन्ध्यो धातुविचित्राङ्गस्तीर्थवानौषधान्वितः ||२५||
मेरुर्महेन्द्रो मलयः श्वेतश्च रजताचितः |
शृङ्गवान्मन्दरो नीलो निषधो दर्दुरस्तथा ||२६||
चित्रकूटोऽञ्जनाभश्च पर्वतो गन्धमादनः |
पुण्यः सोमगिरिश्चैव तथैवान्ये महीधराः ||२७||
दिशश्च विदिशश्चैव क्षितिः सर्वे महीरुहाः ||२७||
विश्वेदेवा नभश्चैव नक्षत्राणि ग्रहास्तथा |
पान्तु वः सततं देवाः कीर्तिताकीर्तिता मया ||२८||
कीर्तयानो नरो ह्येतान्मुच्यते सर्वकिल्बिषैः |
स्तुवंश्च प्रतिनन्दंश्च मुच्यते सर्वतो भयात् ||२९||
सर्वसङ्करपापेभ्यो देवतास्तवनन्दकः ||२९||
देवतानन्तरं विप्रांस्तपःसिद्धांस्तपोधिकान् |
कीर्तितान्कीर्तयिष्यामि सर्वपापप्रमोचनान् ||३०||
यवक्रीतोऽथ रैभ्यश्च कक्षीवानौशिजस्तथा |
भृग्वङ्गिरास्तथा कण्वो मेधातिथिरथ प्रभुः ||३१||
बर्ही च गुणसम्पन्नः प्राचीं दिशमुपाश्रिताः ||३१||
भद्रां दिशं महाभागा उल्मुचुः प्रमुचुस्तथा |
मुमुचुश्च महाभागः स्वस्त्यात्रेयश्च वीर्यवान् ||३२||
मित्रावरुणयोः पुत्रस्तथागस्त्यः प्रतापवान् |
दृढायुश्चोर्ध्वबाहुश्च विश्रुतावृषिसत्तमौ ||३३||
पश्चिमां दिशमाश्रित्य य एधन्ते निबोध तान् |
उषद्गुः सह सोदर्यैः परिव्याधश्च वीर्यवान् ||३४||
ऋषिर्दीर्घतमाश्चैव गौतमः कश्यपस्तथा |
एकतश्च द्वितश्चैव त्रितश्चैव महर्षयः ||३५||
अत्रेः पुत्रश्च धर्मात्मा तथा सारस्वतः प्रभुः ||३५||
उत्तरां दिशमाश्रित्य य एधन्ते निबोध तान् |
अत्रिर्वसिष्ठः शक्तिश्च पाराशर्यश्च वीर्यवान् ||३६||
विश्वामित्रो भरद्वाजो जमदग्निस्तथैव च |
ऋचीकपौत्रो रामश्च ऋषिरौद्दालकिस्तथा ||३७||
श्वेतकेतुः कोहलश्च विपुलो देवलस्तथा |
देवशर्मा च धौम्यश्च हस्तिकाश्यप एव च ||३८||
लोमशो नाचिकेतश्च लोमहर्षण एव च |
ऋषिरुग्रश्रवाश्चैव भार्गवश्च्यवनस्तथा ||३९||
एष वै समवायस्ते ऋषिदेवसमन्वितः |
आद्यः प्रकीर्तितो राजन्सर्वपापप्रमोचनः ||४०||
नृगो ययातिर्नहुषो यदुः पूरुश्च वीर्यवान् |
धुन्धुमारो दिलीपश्च सगरश्च प्रतापवान् ||४१||
कृशाश्वो यौवनाश्वश्च चित्राश्वः सत्यवांस्तथा |
दुःषन्तो भरतश्चैव चक्रवर्ती महायशाः ||४२||
यवनो जनकश्चैव तथा दृढरथो नृपः |
रघुर्नरवरश्चैव तथा दशरथो नृपः ||४३||
रामो राक्षसहा वीरः शशबिन्दुर्भगीरथः |
हरिश्चन्द्रो मरुत्तश्च जह्नुर्जाह्नविसेविता ||४४||
महोदयो ह्यलर्कश्च ऐलश्चैव नराधिपः |
करन्धमो नरश्रेष्ठः कध्मोरश्च नराधिपः ||४५||
दक्षोऽम्बरीषः कुकुरो रवतश्च महायशाः |
मुचुकुन्दश्च राजर्षिर्मित्रभानुः प्रियङ्करः ||४६||
त्रसदस्युस्तथा राजा श्वेतो राजर्षिसत्तमः |
महाभिषश्च विख्यातो निमिराजस्तथाष्टकः ||४७||
आयुः क्षुपश्च राजर्षिः कक्षेयुश्च नराधिपः |
शिबिरौशीनरश्चैव गयश्चैव नराधिपः ||४८||
प्रतर्दनो दिवोदासः सौदासः कोसलेश्वरः |
ऐलो नलश्च राजर्षिर्मनुश्चैव प्रजापतिः ||४९||
हविध्रश्च पृषध्रश्च प्रतीपः शन्तनुस्तथा |
कक्षसेनश्च राजर्षिर्ये चान्ये नानुकीर्तिताः ||५०||
मा विघ्नं मा च मे पापं मा च मे परिपन्थिनः |
ध्रुवो जयो मे नित्यं स्यात्परत्र च परा गतिः ||५१||
युधिष्ठिरप्रतिप्रयाणम्
१५२
वैशम्पायन उवाच||
तूष्णीम्भूते तदा भीष्मे पटे चित्रमिवार्पितम् |
मुहूर्तमिव च ध्यात्वा व्यासः सत्यवतीसुतः ||१||
नृपं शयानं गाङ्गेयमिदमाह वचस्तदा ||१||
राजन्प्रकृतिमापन्नः कुरुराजो युधिष्ठिरः |
सहितो भ्रातृभिः सर्वैः पार्थिवैश्चानुयायिभिः ||२||
उपास्ते त्वां नरव्याघ्र सह कृष्णेन धीमता |
तमिमं पुरयानाय त्वमनुज्ञातुमर्हसि ||३||
एवमुक्तो भगवता व्यासेन पृथिवीपतिः |
युधिष्ठिरं सहामात्यमनुजज्ञे नदीसुतः ||४||
उवाच चैनं मधुरं ततः शान्तनवो नृपः |
प्रविशस्व पुरं राजन्व्येतु ते मानसो ज्वरः ||५||
यजस्व विविधैर्यज्ञैर्बह्वन्नैः स्वाप्तदक्षिणैः |
ययातिरिव राजेन्द्र श्रद्धादमपुरःसरः ||६||
क्षत्रधर्मरतः पार्थ पितॄन्देवांश्च तर्पय |
श्रेयसा योक्ष्यसे चैव व्येतु ते मानसो ज्वरः ||७||
रञ्जयस्व प्रजाः सर्वाः प्रकृतीः परिसान्त्वय |
सुहृदः फलसत्कारैरभ्यर्चय यथार्हतः ||८||
अनु त्वां तात जीवन्तु मित्राणि सुहृदस्तथा |
चैत्यस्थाने स्थितं वृक्षं फलवन्तमिव द्विजाः ||९||
आगन्तव्यं च भवता समये मम पार्थिव |
विनिवृत्ते दिनकरे प्रवृत्ते चोत्तरायणे ||१०||
तथेत्युक्त्वा तु कौन्तेयः सोऽभिवाद्य पितामहम् |
प्रययौ सपरीवारो नगरं नागसाह्वयम् ||११||
धृतराष्ट्रं पुरस्कृत्य गान्धारीं च पतिव्रताम् |
सह तैरृषिभिः सर्वैर्भ्रातृभिः केशवेन च ||१२||
पौरजानपदैश्चैव मन्त्रिवृद्धैश्च पार्थिवः |
प्रविवेश कुरुश्रेष्ठ पुरं वारणसाह्वयम् ||१३||
भीष्मस्वर्गारोहणपर्व
भीष्मस्वर्गानुज्ञा
१५३
वैशम्पायन उवाच||
ततः कुन्तीसुतो राजा पौरजानपदं जनम् |
पूजयित्वा यथान्यायमनुजज्ञे गृहान्प्रति ||१||
सान्त्वयामास नारीश्च हतवीरा हतेश्वराः |
विपुलैरर्थदानैश्च तदा पाण्डुसुतो नृपः ||२||
सोऽभिषिक्तो महाप्राज्ञः प्राप्य राज्यं युधिष्ठिरः |
अवस्थाप्य नरश्रेष्ठः सर्वाः स्वप्रकृतीस्तदा ||३||
द्विजेभ्यो बलमुख्येभ्यो नैगमेभ्यश्च सर्वशः |
प्रतिगृह्याशिषो मुख्यास्तदा धर्मभृतां वरः ||४||
उषित्वा शर्वरीः श्रीमान्पञ्चाशन्नगरोत्तमे |
समयं कौरवाग्र्यस्य सस्मार पुरुषर्षभः ||५||
स निर्ययौ गजपुराद्याजकैः परिवारितः |
दृष्ट्वा निवृत्तमादित्यं प्रवृत्तं चोत्तरायणम् ||६||
घृतं माल्यं च गन्धांश्च क्षौमाणि च युधिष्ठिरः |
चन्दनागरुमुख्यानि तथा कालागरूणि च ||७||
प्रस्थाप्य पूर्वं कौन्तेयो भीष्मसंसाधनाय वै |
माल्यानि च महार्हाणि रत्नानि विविधानि च ||८||
धृतराष्ट्रं पुरस्कृत्य गान्धारीं च यशस्विनीम् |
मातरं च पृथां धीमान्भ्रातॄंश्च पुरुषर्षभः ||९||
जनार्दनेनानुगतो विदुरेण च धीमता |
युयुत्सुना च कौरव्यो युयुधानेन चाभिभो ||१०||
महता राजभोग्येन परिबर्हेण संवृतः |
स्तूयमानो महाराज भीष्मस्याग्नीननुव्रजन् ||११||
निश्चक्राम पुरात्तस्माद्यथा देवपतिस्तथा |
आससाद कुरुक्षेत्रे ततः शान्तनवं नृपम् ||१२||
उपास्यमानं व्यासेन पाराशर्येण धीमता |
नारदेन च राजर्षे देवलेनासितेन च ||१३||
हतशिष्टैर्नृपैश्चान्यैर्नानादेशसमागतैः |
रक्षिभिश्च महात्मानं रक्ष्यमाणं समन्ततः ||१४||
शयानं वीरशयने ददर्श नृपतिस्ततः |
ततो रथादवारोहद्भ्रातृभिः सह धर्मराट् ||१५||
अभिवाद्याथ कौन्तेयः पितामहमरिंदमम् |
द्वैपायनादीन्विप्रांश्च तैश्च प्रत्यभिनन्दितः ||१६||
ऋत्विग्भिर्ब्रह्मकल्पैश्च भ्रातृभिश्च सहाच्युतः |
आसाद्य शरतल्पस्थमृषिभिः परिवारितम् ||१७||
अब्रवीद्भरतश्रेष्ठं धर्मराजो युधिष्ठिरः |
भ्रातृभिः सह कौरव्य शयानं निम्नगासुतम् ||१८||
युधिष्ठिरोऽहं नृपते नमस्ते जाह्नवीसुत |
शृणोषि चेन्महाबाहो ब्रूहि किं करवाणि ते ||१९||
प्राप्तोऽस्मि समये राजन्नग्नीनादाय ते विभो |
आचार्या ब्राह्मणाश्चैव ऋत्विजो भ्रातरश्च मे ||२०||
पुत्रश्च ते महातेजा धृतराष्ट्रो जनेश्वरः |
उपस्थितः सहामात्यो वासुदेवश्च वीर्यवान् ||२१||
हतशिष्टाश्च राजानः सर्वे च कुरुजाङ्गलाः |
तान्पश्य कुरुशार्दूल समुन्मीलय लोचने ||२२||
यच्चेह किञ्चित्कर्तव्यं तत्सर्वं प्रापितं मया |
यथोक्तं भवता काले सर्वमेव च तत्कृतम् ||२३||
एवमुक्तस्तु गाङ्गेयः कुन्तीपुत्रेण धीमता |
ददर्श भारतान्सर्वान्स्थितान्सम्परिवार्य तम् ||२४||
ततश्चलवलिर्भीष्मः प्रगृह्य विपुलं भुजम् |
ओघमेघस्वनो वाग्मी काले वचनमब्रवीत् ||२५||
दिष्ट्या प्राप्तोऽसि कौन्तेय सहामात्यो युधिष्ठिर |
परिवृत्तो हि भगवान्सहस्रांशुर्दिवाकरः ||२६||
अष्टपञ्चाशतं रात्र्यः शयानस्याद्य मे गताः |
शरेषु निशिताग्रेषु यथा वर्षशतं तथा ||२७||
माघोऽयं समनुप्राप्तो मासः पुण्यो युधिष्ठिर |
त्रिभागशेषः पक्षोऽयं शुक्लो भवितुमर्हति ||२८||
एवमुक्त्वा तु गाङ्गेयो धर्मपुत्रं युधिष्ठिरम् |
धृतराष्ट्रमथामन्त्र्य काले वचनमब्रवीत् ||२९||
राजन्विदितधर्मोऽसि सुनिर्णीतार्थसंशयः |
बहुश्रुता हि ते विप्रा बहवः पर्युपासिताः ||३०||
वेदशास्त्राणि सर्वाणि धर्मांश्च मनुजेश्वर |
वेदांश्च चतुरः साङ्गान्निखिलेनावबुध्यसे ||३१||
न शोचितव्यं कौरव्य भवितव्यं हि तत्तथा |
श्रुतं देवरहस्यं ते कृष्णद्वैपायनादपि ||३२||
यथा पाण्डोः सुता राजंस्तथैव तव धर्मतः |
तान्पालय स्थितो धर्मे गुरुशुश्रूषणे रतान् ||३३||
धर्मराजो हि शुद्धात्मा निदेशे स्थास्यते तव |
आनृशंस्यपरं ह्येनं जानामि गुरुवत्सलम् ||३४||
तव पुत्रा दुरात्मानः क्रोधलोभपरायणाः |
ईर्ष्याभिभूता दुर्वृत्तास्तान्न शोचितुमर्हसि ||३५||
वैशम्पायन उवाच||
एतावदुक्त्वा वचनं धृतराष्ट्रं मनीषिणम् |
वासुदेवं महाबाहुमभ्यभाषत कौरवः ||३६||
भगवन्देवदेवेश सुरासुरनमस्कृत |
त्रिविक्रम नमस्तेऽस्तु शङ्खचक्रगदाधर ||३७||
अनुजानीहि मां कृष्ण वैकुण्ठ पुरुषोत्तम |
रक्ष्याश्च ते पाण्डवेया भवान्ह्येषां परायणम् ||३८||
उक्तवानस्मि दुर्बुद्धिं मन्दं दुर्योधनं पुरा |
यतः कृष्णस्ततो धर्मो यतो धर्मस्ततो जयः ||३९||
वासुदेवेन तीर्थेन पुत्र संशाम्य पाण्डवैः |
सन्धानस्य परः कालस्तवेति च पुनः पुनः ||४०||
न च मे तद्वचो मूढः कृतवान्स सुमन्दधीः |
घातयित्वेह पृथिवीं ततः स निधनं गतः ||४१||
त्वां च जानाम्यहं वीर पुराणमृषिसत्तमम् |
नरेण सहितं देवं बदर्यां सुचिरोषितम् ||४२||
तथा मे नारदः प्राह व्यासश्च सुमहातपाः |
नरनारायणावेतौ सम्भूतौ मनुजेष्विति ||४३||
वासुदेव उवाच||
अनुजानामि भीष्म त्वां वसूनाप्नुहि पार्थिव |
न तेऽस्ति वृजिनं किञ्चिन्मया दृष्टं महाद्युते ||४४||
पितृभक्तोऽसि राजर्षे मार्कण्डेय इवापरः |
तेन मृत्युस्तव वशे स्थितो भृत्य इवानतः ||४५||
वैशम्पायन उवाच||
एवमुक्तस्तु गाङ्गेयः पाण्डवानिदमब्रवीत् |
धृतराष्ट्रमुखांश्चापि सर्वान्ससुहृदस्तथा ||४६||
प्राणानुत्स्रष्टुमिच्छामि तन्मानुज्ञातुमर्हथ |
सत्ये प्रयतितव्यं वः सत्यं हि परमं बलम् ||४७||
आनृशंस्यपरैर्भाव्यं सदैव नियतात्मभिः |
ब्रह्मण्यैर्धर्मशीलैश्च तपोनीत्यैश्च भारत ||४८||
इत्युक्त्वा सुहृदः सर्वान्सम्परिष्वज्य चैव ह |
पुनरेवाब्रवीद्धीमान्युधिष्ठिरमिदं वचः ||४९||
ब्राह्मणाश्चैव ते नित्यं प्राज्ञाश्चैव विशेषतः |
आचार्या ऋत्विजश्चैव पूजनीया नराधिप ||५०||
भीष्मस्वर्गगमनम्
१५४
वैशम्पायन उवाच||
एवमुक्त्वा कुरून्सर्वान्भीष्मः शान्तनवस्तदा |
तूष्णीं बभूव कौरव्यः स मुहूर्तमरिंदम ||१||
धारयामास चात्मानं धारणासु यथाक्रमम् |
तस्योर्ध्वमगमन्प्राणाः संनिरुद्धा महात्मनः ||२||
इदमाश्चर्यमासीच्च मध्ये तेषां महात्मनाम् |
यद्यन्मुञ्चति गात्राणां स शन्तनुसुतस्तदा ||३||
तत्तद्विशल्यं भवति योगयुक्तस्य तस्य वै ||३||
क्षणेन प्रेक्षतां तेषां विशल्यः सोऽभवत्तदा |
तं दृष्ट्वा विस्मिताः सर्वे वासुदेवपुरोगमाः ||४||
सह तैर्मुनिभिः सर्वैस्तदा व्यासादिभिर्नृप ||४||
संनिरुद्धस्तु तेनात्मा सर्वेष्वायतनेषु वै |
जगाम भित्त्वा मूर्धानं दिवमभ्युत्पपात च ||५||
महोल्केव च भीष्मस्य मूर्धदेशाज्जनाधिप |
निःसृत्याकाशमाविश्य क्षणेनान्तरधीयत ||६||
एवं स नृपशार्दूल नृपः शान्तनवस्तदा |
समयुज्यत लोकैः स्वैर्भरतानां कुलोद्वहः ||७||
ततस्त्वादाय दारूणि गन्धांश्च विविधान्बहून् |
चितां चक्रुर्महात्मानः पाण्डवा विदुरस्तथा ||८||
युयुत्सुश्चापि कौरव्यः प्रेक्षकास्त्वितरेऽभवन् ||८||
युधिष्ठिरस्तु गाङ्गेयं विदुरश्च महामतिः |
छादयामासतुरुभौ क्षौमैर्माल्यैश्च कौरवम् ||९||
धारयामास तस्याथ युयुत्सुश्छत्रमुत्तमम् |
चामरव्यजने शुभ्रे भीमसेनार्जुनावुभौ ||१०||
उष्णीषे पर्यगृह्णीतां माद्रीपुत्रावुभौ तदा ||१०||
स्त्रियः कौरवनाथस्य भीष्मं कुरुकुलोद्भवम् |
तालवृन्तान्युपादाय पर्यवीजन्समन्ततः ||११||
ततोऽस्य विधिवच्चक्रुः पितृमेधं महात्मनः |
याजका जुहुवुश्चाग्निं जगुः सामानि सामगाः ||१२||
ततश्चन्दनकाष्ठैश्च तथा कालेयकैरपि |
कालागरुप्रभृतिभिर्गन्धैश्चोच्चावचैस्तथा ||१३||
समवच्छाद्य गाङ्गेयं प्रज्वाल्य च हुताशनम् |
अपसव्यमकुर्वन्त धृतराष्ट्रमुखा नृपाः ||१४||
संस्कृत्य च कुरुश्रेष्ठं गाङ्गेयं कुरुसत्तमाः |
जग्मुर्भागीरथीतीरमृषिजुष्टं कुरूद्वहाः ||१५||
अनुगम्यमाना व्यासेन नारदेनासितेन च |
कृष्णेन भरतस्त्रीभिर्ये च पौराः समागताः ||१६||
उदकं चक्रिरे चैव गाङ्गेयस्य महात्मनः |
विधिवत्क्षत्रियश्रेष्ठाः स च सर्वो जनस्तदा ||१७||
ततो भागीरथी देवी तनयस्योदके कृते |
उत्थाय सलिलात्तस्माद्रुदती शोकलालसा ||१८||
परिदेवयती तत्र कौरवानभ्यभाषत |
निबोधत यथावृत्तमुच्यमानं मयानघाः ||१९||
राजवृत्तेन सम्पन्नः प्रज्ञयाभिजनेन च |
सत्कर्ता कुरुवृद्धानां पितृभक्तो दृढव्रतः ||२०||
जामदग्न्येन रामेण पुरा यो न पराजितः |
दिव्यैरस्त्रैर्महावीर्यः स हतोऽद्य शिखण्डिना ||२१||
अश्मसारमयं नूनं हृदयं मम पार्थिवाः |
अपश्यन्त्याः प्रियं पुत्रं यत्र दीर्यति मेऽद्य वै ||२२||
समेतं पार्थिवं क्षत्रं काशिपुर्यां स्वयंवरे |
विजित्यैकरथेनाजौ कन्यास्ता यो जहार ह ||२३||
यस्य नास्ति बले तुल्यः पृथिव्यामपि कश्चन |
हतं शिखण्डिना श्रुत्वा यन्न दीर्यति मे मनः ||२४||
जामदग्न्यः कुरुक्षेत्रे युधि येन महात्मना |
पीडितो नातियत्नेन निहतः स शिखण्डिना ||२५||
एवंविधं बहु तदा विलपन्तीं महानदीम् |
आश्वासयामास तदा साम्ना दामोदरो विभुः ||२६||
समाश्वसिहि भद्रे त्वं मा शुचः शुभदर्शने |
गतः स परमां सिद्धिं तव पुत्रो न संशयः ||२७||
वसुरेष महातेजाः शापदोषेण शोभने |
मनुष्यतामनुप्राप्तो नैनं शोचितुमर्हसि ||२८||
स एष क्षत्रधर्मेण युध्यमानो रणाजिरे |
धनञ्जयेन निहतो नैष नुन्नः शिखण्डिना ||२९||
भीष्मं हि कुरुशार्दूलमुद्यतेषुं महारणे |
न शक्तः संयुगे हन्तुं साक्षादपि शतक्रतुः ||३०||
स्वच्छन्देन सुतस्तुभ्यं गतः स्वर्गं शुभानने |
न शक्ताः स्युर्निहन्तुं हि रणे तं सर्वदेवताः ||३१||
तस्मान्मा त्वं सरिच्छ्रेष्ठे शोचस्व कुरुनन्दनम् |
वसूनेष गतो देवि पुत्रस्ते विज्वरा भव ||३२||
इत्युक्ता सा तु कृष्णेन व्यासेन च सरिद्वरा |
त्यक्त्वा शोकं महाराज स्वं वार्यवततार ह ||३३||
सत्कृत्य ते तां सरितं ततः कृष्णमुखा नृपाः |
अनुज्ञातास्तया सर्वे न्यवर्तन्त जनाधिपाः ||३४||
Mahabharata Critical Edition Only for Personal Studies
Encoding: ISCII
Electronic text (C) Bhandarkar Oriental Research Institute,
Pune, India, 1999
http://bombay.indology.info/mahabharata/statement.html
for further details
% File name : mbh13.itx
%--------------------------------------------
% Text title : 13 mahAbhArate anushAsanaparva.n
% Author : Veda Vyasa
% Language : sanskrit
% Subject : religion
% Description/comments : Access available at Prof John Smith's site
% http://bombay.indology.info/mahabharata/statement.html
% Transliterated by : Prof. Tokunaga
% Proofread by : Team at Bhandarkar Oriental Research Institute (BORI), Tokunaga
% Latest update : September 16, 2013
% Send corrections to : (sanskrit at cheerful dot c om)
%
% Site access : https://sanskritdocuments.org/
%-----------------------------------------------------
% The text is to be used for personal studies and research only.
% Any use for commercial purpose is prohibited as a 'gentleman's' agreement.
%--------------------------------------------------------
From https://sanskritdocuments.org
Questions, comments? Write to (sanskrit at cheerful dot c om) .