||१४ महाभारते अश्वमेधिकपर्वम् ||
आश्वमेधिकपर्व
युधिष्ठिरसांत्वनम्
१
वैशम्पायन उवाच||
कृतोदकं तु राजानं धृतराष्ट्रं युधिष्ठिरः |
पुरस्कृत्य महाबाहुरुत्तताराकुलेन्द्रियः ||१||
उत्तीर्य च महीपालो बाष्पव्याकुललोचनः |
पपात तीरे गङ्गाया व्याधविद्ध इव द्विपः ||२||
तं सीदमानं जग्राह भीमः कृष्णेन चोदितः |
मैवमित्यब्रवीच्चैनं कृष्णः परबलार्दनः ||३||
तमार्तं पतितं भूमौ निश्वसन्तं पुनः पुनः |
ददृशुः पाण्डवा राजन्धर्मात्मानं युधिष्ठिरम् ||४||
तं दृष्ट्वा दीनमनसं गतसत्त्वं जनेश्वरम् |
भूयः शोकसमाविष्टाः पाण्डवाः समुपाविशन् ||५||
राजा च धृतराष्ट्रस्तमुपासीनो महाभुजः |
वाक्यमाह महाप्राज्ञो महाशोकप्रपीडितम् ||६||
उत्तिष्ठ कुरुशार्दूल कुरु कार्यमनन्तरम् |
क्षत्रधर्मेण कौरव्य जितेयमवनिस्त्वया ||७||
तां भुङ्क्ष्व भ्रातृभिः सार्धं सुहृद्भिश्च जनेश्वर |
न शोचितव्यं पश्यामि त्वया धर्मभृतां वर ||८||
शोचितव्यं मया चैव गान्धार्या च विशां पते |
पुत्रैर्विहीनो राज्येन स्वप्नलब्धधनो यथा ||९||
अश्रुत्वा हितकामस्य विदुरस्य महात्मनः |
वाक्यानि सुमहार्थानि परितप्यामि दुर्मतिः ||१०||
उक्तवानेष मां पूर्वं धर्मात्मा दिव्यदर्शनः |
दुर्योधनापराधेन कुलं ते विनशिष्यति ||११||
स्वस्ति चेदिच्छसे राजन्कुलस्यात्मन एव च |
वध्यतामेष दुष्टात्मा मन्दो राजा सुयोधनः ||१२||
कर्णश्च शकुनिश्चैव मैनं पश्यतु कर्हिचित् |
द्यूतसम्पातमप्येषामप्रमत्तो निवारय ||१३||
अभिषेचय राजानं धर्मात्मानं युधिष्ठिरम् |
स पालयिष्यति वशी धर्मेण पृथिवीमिमाम् ||१४||
अथ नेच्छसि राजानं कुन्तीपुत्रं युधिष्ठिरम् |
मेढीभूतः स्वयं राज्यं प्रतिगृह्णीष्व पार्थिव ||१५||
समं सर्वेषु भूतेषु वर्तमानं नराधिप |
अनुजीवन्तु सर्वे त्वां ज्ञातयो ज्ञातिवर्धन ||१६||
एवं ब्रुवति कौन्तेय विदुरे दीर्घदर्शिनि |
दुर्योधनमहं पापमन्ववर्तं वृथामतिः ||१७||
अश्रुत्वा ह्यस्य वीरस्य वाक्यानि मधुराण्यहम् |
फलं प्राप्य महद्दुःखं निमग्नः शोकसागरे ||१८||
वृद्धौ हि ते स्वः पितरौ पश्यावां दुःखितौ नृप |
न शोचितव्यं भवता पश्यामीह जनाधिप ||१९||
व्यासवाक्यम्
२
वैशम्पायन उवाच||
एवमुक्तस्तु राज्ञा स धृतराष्ट्रेण धीमता |
तूष्णीं बभूव मेधावी तमुवाचाथ केशवः ||१||
अतीव मनसा शोकः क्रियमाणो जनाधिप |
सन्तापयति वैतस्य पूर्वप्रेतान्पितामहान् ||२||
यजस्व विविधैर्यज्ञैर्बहुभिः स्वाप्तदक्षिणैः |
देवांस्तर्पय सोमेन स्वधया च पितॄनपि ||३||
त्वद्विधस्य महाबुद्धे नैतदद्योपपद्यते |
विदितं वेदितव्यं ते कर्तव्यमपि ते कृतम् ||४||
श्रुताश्च राजधर्मास्ते भीष्माद्भागीरथीसुतात् |
कृष्णद्वैपायनाच्चैव नारदाद्विदुरात्तथा ||५||
नेमामर्हसि मूढानां वृत्तिं त्वमनुवर्तितुम् |
पितृपैतामहीं वृत्तिमास्थाय धुरमुद्वह ||६||
युक्तं हि यशसा क्षत्रं स्वर्गं प्राप्तुमसंशयम् |
न हि कश्चन शूराणां निहतोऽत्र पराङ्मुखः ||७||
त्यज शोकं महाराज भवितव्यं हि तत्तथा |
न शक्यास्ते पुनर्द्रष्टुं त्वया ह्यस्मिन्रणे हताः ||८||
एतावदुक्त्वा गोविन्दो धर्मराजं युधिष्ठिरम् |
विरराम महातेजास्तमुवाच युधिष्ठिरः ||९||
गोविन्द मयि या प्रीतिस्तव सा विदिता मम |
सौहृदेन तथा प्रेम्णा सदा मामनुकम्पसे ||१०||
प्रियं तु मे स्यात्सुमहत्कृतं चक्रगदाधर |
श्रीमन्प्रीतेन मनसा सर्वं यावदनन्दन ||११||
यदि मामनुजानीयाद्भवान्गन्तुं तपोवनम् |
न हि शान्तिं प्रपश्यामि घातयित्वा पितामहम् ||१२||
कर्णं च पुरुषव्याघ्रं सङ्ग्रामेष्वपलायिनम् ||१२||
कर्मणा येन मुच्येयमस्मात्क्रूरादरिंदम |
कर्मणस्तद्विधत्स्वेह येन शुध्यति मे मनः ||१३||
तमेवंवादिनं व्यासस्ततः प्रोवाच धर्मवित् |
सान्त्वयन्सुमहातेजाः शुभं वचनमर्थवत् ||१४||
अकृता ते मतिस्तात पुनर्बाल्येन मुह्यसे |
किमाकाशे वयं सर्वे प्रलपाम मुहुर्मुहुः ||१५||
विदिताः क्षत्रधर्मास्ते येषां युद्धेन जीविका |
यथा प्रवृत्तो नृपतिर्नाधिबन्धेन युज्यते ||१६||
मोक्षधर्माश्च निखिला याथातथ्येन ते श्रुताः |
असकृच्चैव संदेहाश्छिन्नास्ते कामजा मया ||१७||
अश्रद्दधानो दुर्मेधा लुप्तस्मृतिरसि ध्रुवम् |
मैवं भव न ते युक्तमिदमज्ञानमीदृशम् ||१८||
प्रायश्चित्तानि सर्वाणि विदितानि च तेऽनघ |
युद्धधर्माश्च ते सर्वे दानधर्माश्च ते श्रुताः ||१९||
स कथं सर्वधर्मज्ञः सर्वागमविशारदः |
परिमुह्यसि भूयस्त्वमज्ञानादिव भारत ||२०||
संवर्तमरुत्तीयम्
३
व्यास उवाच||
युधिष्ठिर तव प्रज्ञा न सम्यगिति मे मतिः |
न हि कश्चित्स्वयं मर्त्यः स्ववशः कुरुते क्रियाः ||१||
ईश्वरेण नियुक्तोऽयं साध्वसाधु च मानवः |
करोति पुरुषः कर्म तत्र का परिदेवना ||२||
आत्मानं मन्यसे चाथ पापकर्माणमन्ततः |
शृणु तत्र यथा पापमपकृष्येत भारत ||३||
तपोभिः क्रतुभिश्चैव दानेन च युधिष्ठिर |
तरन्ति नित्यं पुरुषा ये स्म पापानि कुर्वते ||४||
यज्ञेन तपसा चैव दानेन च नराधिप |
पूयन्ते राजशार्दूल नरा दुष्कृतकर्मिणः ||५||
असुराश्च सुराश्चैव पुण्यहेतोर्मखक्रियाम् |
प्रयतन्ते महात्मानस्तस्माद्यज्ञाः परायणम् ||६||
यज्ञैरेव महात्मानो बभूवुरधिकाः सुराः |
ततो देवाः क्रियावन्तो दानवानभ्यधर्षयन् ||७||
राजसूयाश्वमेधौ च सर्वमेधं च भारत |
नरमेधं च नृपते त्वमाहर युधिष्ठिर ||८||
यजस्व वाजिमेधेन विधिवद्दक्षिणावता |
बहुकामान्नवित्तेन रामो दाशरथिर्यथा ||९||
यथा च भरतो राजा दौःषन्तिः पृथिवीपतिः |
शाकुन्तलो महावीर्यस्तव पूर्वपितामहः ||१०||
युधिष्ठिर उवाच||
असंशयं वाजिमेधः पावयेत्पृथिवीमपि |
अभिप्रायस्तु मे कश्चित्तं त्वं श्रोतुमिहार्हसि ||११||
इमं ज्ञातिवधं कृत्वा सुमहान्तं द्विजोत्तम |
दानमल्पं न शक्यामि दातुं वित्तं च नास्ति मे ||१२||
न च बालानिमान्दीनानुत्सहे वसु याचितुम् |
तथैवार्द्रव्रणान्कृच्छ्रे वर्तमानान्नृपात्मजान् ||१३||
स्वयं विनाश्य पृथिवीं यज्ञार्थे द्विजसत्तम |
करमाहारयिष्यामि कथं शोकपरायणान् ||१४||
दुर्योधनापराधेन वसुधा वसुधाधिपाः |
प्रनष्टा योजयित्वास्मानकीर्त्या मुनिसत्तम ||१५||
दुर्योधनेन पृथिवी क्षयिता वित्तकारणात् |
कोशश्चापि विशीर्णोऽसौ धार्तराष्ट्रस्य दुर्मतेः ||१६||
पृथिवी दक्षिणा चात्र विधिः प्रथमकल्पिकः |
विद्वद्भिः परिदृष्टोऽयं शिष्टो विधिविपर्ययः ||१७||
न च प्रतिनिधिं कर्तुं चिकीर्षामि तपोधन |
अत्र मे भगवन्सम्यक्साचिव्यं कर्तुमर्हसि ||१८||
वैशम्पायन उवाच||
एवमुक्तस्तु पार्थेन कृष्णद्वैपायनस्तदा |
मुहूर्तमनुसञ्चिन्त्य धर्मराजानमब्रवीत् ||१९||
विद्यते द्रविणं पार्थ गिरौ हिमवति स्थितम् |
उत्सृष्टं ब्राह्मणैर्यज्ञे मरुत्तस्य महीपतेः ||२०||
तदानयस्व कौन्तेय पर्याप्तं तद्भविष्यति ||२०||
युधिष्ठिर उवाच||
कथं यज्ञे मरुत्तस्य द्रविणं तत्समाचितम् |
कस्मिंश्च काले स नृपो बभूव वदतां वर ||२१||
व्यास उवाच||
यदि शुश्रूषसे पार्थ शृणु कारन्धमं नृपम् |
यस्मिन्काले महावीर्यः स राजासीन्महाधनः ||२२||
४
युधिष्ठिर उवाच||
शुश्रूषे तस्य धर्मज्ञ राजर्षेः परिकीर्तनम् |
द्वैपायन मरुत्तस्य कथां प्रब्रूहि मेऽनघ ||१||
व्यास उवाच||
आसीत्कृतयुगे पूर्वं मनुर्दण्डधरः प्रभुः |
तस्य पुत्रो महेष्वासः प्रजातिरिति विश्रुतः ||२||
प्रजातेरभवत्पुत्रः क्षुप इत्यभिविश्रुतः |
क्षुपस्य पुत्रस्त्विक्ष्वाकुर्महीपालोऽभवत्प्रभुः ||३||
तस्य पुत्रशतं राजन्नासीत्परमधार्मिकम् |
तांस्तु सर्वान्महीपालानिक्ष्वाकुरकरोत्प्रभुः ||४||
तेषां ज्येष्ठस्तु विंशोऽभूत्प्रतिमानं धनुष्मताम् |
विंशस्य पुत्रः कल्याणो विविंशो नाम भारत ||५||
विविंशस्य सुता राजन्बभूवुर्दश पञ्च च |
सर्वे धनुषि विक्रान्ता ब्रह्मण्याः सत्यवादिनः ||६||
दानधर्मरताः सन्तः सततं प्रियवादिनः |
तेषां ज्येष्ठः खनीनेत्रः स तान्सर्वानपीडयत् ||७||
खनीनेत्रस्तु विक्रान्तो जित्वा राज्यमकण्टकम् |
नाशक्नोद्रक्षितुं राज्यं नान्वरज्यन्त तं प्रजाः ||८||
तमपास्य च तद्राष्ट्रं तस्य पुत्रं सुवर्चसम् |
अभ्यषिञ्चत राजेन्द्र मुदितं चाभवत्तदा ||९||
स पितुर्विक्रियां दृष्ट्वा राज्यान्निरसनं तथा |
नियतो वर्तयामास प्रजाहितचिकीर्षया ||१०||
ब्रह्मण्यः सत्यवादी च शुचिः शमदमान्वितः |
प्रजास्तं चान्वरज्यन्त धर्मनित्यं मनस्विनम् ||११||
तस्य धर्मप्रवृत्तस्य व्यशीर्यत्कोशवाहनम् |
तं क्षीणकोशं सामन्ताः समन्तात्पर्यपीडयन् ||१२||
स पीड्यमानो बहुभिः क्षीणकोशस्त्ववाहनः |
आर्तिमार्छत्परां राजा सह भृत्यैः पुरेण च ||१३||
न चैनं परिहर्तुं तेऽशक्नुवन्परिसङ्क्षये |
सम्यग्वृत्तो हि राजा स धर्मनित्यो युधिष्ठिर ||१४||
यदा तु परमामार्तिं गतोऽसौ सपुरो नृपः |
ततः प्रदध्मौ स करं प्रादुरासीत्ततो बलम् ||१५||
ततस्तानजयत्सर्वान्प्रातिसीमान्नराधिपान् |
एतस्मात्कारणाद्राजन्विश्रुतः स करन्धमः ||१६||
तस्य कारन्धमः पुत्रस्त्रेतायुगमुखेऽभवत् |
इन्द्रादनवरः श्रीमान्देवैरपि सुदुर्जयः ||१७||
तस्य सर्वे महीपाला वर्तन्ते स्म वशे तदा |
स हि सम्राडभूत्तेषां वृत्तेन च बलेन च ||१८||
अविक्षिन्नाम धर्मात्मा शौर्येणेन्द्रसमोऽभवत् |
यज्ञशीलः कर्मरतिर्धृतिमान्संयतेन्द्रियः ||१९||
तेजसादित्यसदृशः क्षमया पृथिवीसमः |
बृहस्पतिसमो बुद्ध्या हिमवानिव सुस्थिरः ||२०||
कर्मणा मनसा वाचा दमेन प्रशमेन च |
मनांस्याराधयामास प्रजानां स महीपतिः ||२१||
य ईजे हयमेधानां शतेन विधिवत्प्रभुः |
याजयामास यं विद्वान्स्वयमेवाङ्गिराः प्रभुः ||२२||
तस्य पुत्रोऽतिचक्राम पितरं गुणवत्तया |
मरुत्तो नाम धर्मज्ञश्चक्रवर्ती महायशाः ||२३||
नागायुतसमप्राणः साक्षाद्विष्णुरिवापरः |
स यक्ष्यमाणो धर्मात्मा शातकुम्भमयान्युत ||२४||
कारयामास शुभ्राणि भाजनानि सहस्रशः ||२४||
मेरुं पर्वतमासाद्य हिमवत्पार्श्व उत्तरे |
काञ्चनः सुमहान्पादस्तत्र कर्म चकार सः ||२५||
ततः कुण्डानि पात्रीश्च पिठराण्यासनानि च |
चक्रुः सुवर्णकर्तारो येषां सङ्ख्या न विद्यते ||२६||
तस्यैव च समीपे स यज्ञवाटो बभूव ह |
ईजे तत्र स धर्मात्मा विधिवत्पृथिवीपतिः ||२७||
मरुत्तः सहितैः सर्वैः प्रजापालैर्नराधिपः ||२७||
५
युधिष्ठिर उवाच||
कथंवीर्यः समभवत्स राजा वदतां वरः |
कथं च जातरूपेण समयुज्यत स द्विज ||१||
क्व च तत्साम्प्रतं द्रव्यं भगवन्नवतिष्ठते |
कथं च शक्यमस्माभिस्तदवाप्तुं तपोधन ||२||
व्यास उवाच||
असुराश्चैव देवाश्च दक्षस्यासन्प्रजापतेः |
अपत्यं बहुलं तात तेऽस्पर्धन्त परस्परम् ||३||
तथैवाङ्गिरसः पुत्रौ व्रततुल्यौ बभूवतुः |
बृहस्पतिर्बृहत्तेजाः संवर्तश्च तपोधनः ||४||
तावपि स्पर्धिनौ राजन्पृथगास्तां परस्परम् |
बृहस्पतिश्च संवर्तं बाधते स्म पुनः पुनः ||५||
स बाध्यमानः सततं भ्रात्रा ज्येष्ठेन भारत |
अर्थानुत्सृज्य दिग्वासा वनवासमरोचयत् ||६||
वासवोऽप्यसुरान्सर्वान्निर्जित्य च निहत्य च |
इन्द्रत्वं प्राप्य लोकेषु ततो वव्रे पुरोहितम् ||७||
पुत्रमङ्गिरसो ज्येष्ठं विप्रश्रेष्ठं बृहस्पतिम् ||७||
याज्यस्त्वङ्गिरसः पूर्वमासीद्राजा करन्धमः |
वीर्येणाप्रतिमो लोके वृत्तेन च बलेन च ||८||
शतक्रतुरिवौजस्वी धर्मात्मा संशितव्रतः ||८||
वाहनं यस्य योधाश्च द्रव्याणि विविधानि च |
ध्यानादेवाभवद्राजन्मुखवातेन सर्वशः ||९||
स गुणैः पार्थिवान्सर्वान्वशे चक्रे नराधिपः |
सञ्जीव्य कालमिष्टं च सशरीरो दिवं गतः ||१०||
बभूव तस्य पुत्रस्तु ययातिरिव धर्मवित् |
अविक्षिन्नाम शत्रुक्षित्स वशे कृतवान्महीम् ||११||
विक्रमेण गुणैश्चैव पितेवासीत्स पार्थिवः ||११||
तस्य वासवतुल्योऽभून्मरुत्तो नाम वीर्यवान् |
पुत्रस्तमनुरक्ताभूत्पृथिवी सागराम्बरा ||१२||
स्पर्धते सततं स स्म देवराजेन पार्थिवः |
वासवोऽपि मरुत्तेन स्पर्धते पाण्डुनन्दन ||१३||
शुचिः स गुणवानासीन्मरुत्तः पृथिवीपतिः |
यतमानोऽपि यं शक्रो न विशेषयति स्म ह ||१४||
सोऽशक्नुवन्विशेषाय समाहूय बृहस्पतिम् |
उवाचेदं वचो देवैः सहितो हरिवाहनः ||१५||
बृहस्पते मरुत्तस्य मा स्म कार्षीः कथञ्चन |
दैवं कर्माथ वा पित्र्यं कर्तासि मम चेत्प्रियम् ||१६||
अहं हि त्रिषु लोकेषु सुराणां च बृहस्पते |
इन्द्रत्वं प्राप्तवानेको मरुत्तस्तु महीपतिः ||१७||
कथं ह्यमर्त्यं ब्रह्मंस्त्वं याजयित्वा सुराधिपम् |
याजयेर्मृत्युसंयुक्तं मरुत्तमविशङ्कया ||१८||
मां वा वृणीष्व भद्रं ते मरुत्तं वा महीपतिम् |
परित्यज्य मरुत्तं वा यथाजोषं भजस्व माम् ||१९||
एवमुक्तः स कौरव्य देवराज्ञा बृहस्पतिः |
मुहूर्तमिव सञ्चिन्त्य देवराजानमब्रवीत् ||२०||
त्वं भूतानामधिपतिस्त्वयि लोकाः प्रतिष्ठिताः |
नमुचेर्विश्वरूपस्य निहन्ता त्वं बलस्य च ||२१||
त्वमाजहर्थ देवानामेको वीर श्रियं पराम् |
त्वं बिभर्षि भुवं द्यां च सदैव बलसूदन ||२२||
पौरोहित्यं कथं कृत्वा तव देवगणेश्वर |
याजयेयमहं मर्त्यं मरुत्तं पाकशासन ||२३||
समाश्वसिहि देवेश नाहं मर्त्याय कर्हिचित् |
ग्रहीष्यामि स्रुवं यज्ञे शृणु चेदं वचो मम ||२४||
हिरण्यरेतसोऽम्भः स्यात्परिवर्तेत मेदिनी |
भासं च न रविः कुर्यान्मत्सत्यं विचलेद्यदि ||२५||
बृहस्पतिवचः श्रुत्वा शक्रो विगतमत्सरः |
प्रशस्यैनं विवेशाथ स्वमेव भवनं तदा ||२६||
६
व्यास उवाच||
अत्राप्युदाहरन्तीममितिहासं पुरातनम् |
बृहस्पतेश्च संवादं मरुत्तस्य च भारत ||१||
देवराजस्य समयं कृतमाङ्गिरसेन ह |
श्रुत्वा मरुत्तो नृपतिर्मन्युमाहारयत्तदा ||२||
सङ्कल्प्य मनसा यज्ञं करन्धमसुतात्मजः |
बृहस्पतिमुपागम्य वाग्मी वचनमब्रवीत् ||३||
भगवन्यन्मया पूर्वमभिगम्य तपोधन |
कृतोऽभिसन्धिर्यज्ञाय भवतो वचनाद्गुरो ||४||
तमहं यष्टुमिच्छामि सम्भाराः सम्भृताश्च मे |
याज्योऽस्मि भवतः साधो तत्प्राप्नुहि विधत्स्व च ||५||
बृहस्पतिरुवाच||
न कामये याजयितुं त्वामहं पृथिवीपते |
वृतोऽस्मि देवराजेन प्रतिज्ञातं च तस्य मे ||६||
मरुत्त उवाच||
पित्र्यमस्मि तव क्षेत्रं बहु मन्ये च ते भृशम् |
न चास्म्ययाज्यतां प्राप्तो भजमानं भजस्व माम् ||७||
बृहस्पतिरुवाच||
अमर्त्यं याजयित्वाहं याजयिष्ये न मानुषम् |
मरुत्त गच्छ वा मा वा निवृत्तोऽस्म्यद्य याजनात् ||८||
न त्वां याजयितास्म्यद्य वृणु त्वं यमिहेच्छसि |
उपाध्यायं महाबाहो यस्ते यज्ञं करिष्यति ||९||
व्यास उवाच||
एवमुक्तस्तु नृपतिर्मरुत्तो व्रीडितोऽभवत् |
प्रत्यागच्छच्च संविग्नो ददर्श पथि नारदम् ||१०||
देवर्षिणा समागम्य नारदेन स पार्थिवः |
विधिवत्प्राञ्जलिस्तस्थावथैनं नारदोऽब्रवीत् ||११||
राजर्षे नातिहृष्टोऽसि कच्चित्क्षेमं तवानघ |
क्व गतोऽसि कुतो वेदमप्रीतिस्थानमागतम् ||१२||
श्रोतव्यं चेन्मया राजन्ब्रूहि मे पार्थिवर्षभ |
व्यपनेष्यामि ते मन्युं सर्वयत्नैर्नराधिप ||१३||
एवमुक्तो मरुत्तस्तु नारदेन महर्षिणा |
विप्रलम्भमुपाध्यायात्सर्वमेव न्यवेदयत् ||१४||
गतोऽस्म्यङ्गिरसः पुत्रं देवाचार्यं बृहस्पतिम् |
यज्ञार्थमृत्विजं द्रष्टुं स च मां नाभ्यनन्दत ||१५||
प्रत्याख्यातश्च तेनाहं जीवितुं नाद्य कामये |
परित्यक्तश्च गुरुणा दूषितश्चास्मि नारद ||१६||
एवमुक्तस्तु राज्ञा स नारदः प्रत्युवाच ह |
आविक्षितं महाराज वाचा सञ्जीवयन्निव ||१७||
राजन्नङ्गिरसः पुत्रः संवर्तो नाम धार्मिकः |
चङ्क्रमीति दिशः सर्वा दिग्वासा मोहयन्प्रजाः ||१८||
तं गच्छ यदि याज्यं त्वां न वाञ्छति बृहस्पतिः |
प्रसन्नस्त्वां महाराज संवर्तो याजयिष्यति ||१९||
मरुत्त उवाच||
सञ्जीवितोऽहं भवता वाक्येनानेन नारद |
पश्येयं क्व नु संवर्तं शंस मे वदतां वर ||२०||
कथं च तस्मै वर्तेयं कथं मां न परित्यजेत् |
प्रत्याख्यातश्च तेनापि नाहं जीवितुमुत्सहे ||२१||
नारद उवाच||
उन्मत्तवेषं बिभ्रत्स चङ्क्रमीति यथासुखम् |
वाराणसीं तु नगरीमभीक्ष्णमुपसेवते ||२२||
तस्या द्वारं समासाद्य न्यसेथाः कुणपं क्वचित् |
तं दृष्ट्वा यो निवर्तेत स संवर्तो महीपते ||२३||
तं पृष्ठतोऽनुगच्छेथा यत्र गच्छेत्स वीर्यवान् |
तमेकान्ते समासाद्य प्राञ्जलिः शरणं व्रजेः ||२४||
पृच्छेत्त्वां यदि केनाहं तवाख्यात इति स्म ह |
ब्रूयास्त्वं नारदेनेति सन्तप्त इव शत्रुहन् ||२५||
स चेत्त्वामनुयुञ्जीत ममाभिगमनेप्सया |
शंसेथा वह्निमारूढं मामपि त्वमशङ्कया ||२६||
व्यास उवाच||
स तथेति प्रतिश्रुत्य पूजयित्वा च नारदम् |
अभ्यनुज्ञाय राजर्षिर्ययौ वाराणसीं पुरीम् ||२७||
तत्र गत्वा यथोक्तं स पुर्या द्वारे महायशाः |
कुणपं स्थापयामास नारदस्य वचः स्मरन् ||२८||
यौगपद्येन विप्रश्च स पुरीद्वारमाविशत् |
ततः स कुणपं दृष्ट्वा सहसा स न्यवर्तत ||२९||
स तं निवृत्तमालक्ष्य प्राञ्जलिः पृष्ठतोऽन्वगात् |
आविक्षितो महीपालः संवर्तमुपशिक्षितुम् ||३०||
स एनं विजने दृष्ट्वा पांसुभिः कर्दमेन च |
श्लेष्मणा चापि राजानं ष्ठीवनैश्च समाकिरत् ||३१||
स तथा बाध्यमानोऽपि संवर्तेन महीपतिः |
अन्वगादेव तमृषिं प्राञ्जलिः सम्प्रसादयन् ||३२||
ततो निवृत्य संवर्तः परिश्रान्त उपाविशत् |
शीतलच्छायमासाद्य न्यग्रोधं बहुशाखिनम् ||३३||
७
संवर्त उवाच||
कथमस्मि त्वया ज्ञातः केन वा कथितोऽस्मि ते |
एतदाचक्ष्व मे तत्त्वमिच्छसे चेत्प्रियं मम ||१||
सत्यं ते ब्रुवतः सर्वे सम्पत्स्यन्ते मनोरथाः |
मिथ्या तु ब्रुवतो मूर्धा सप्तधा ते फलिष्यति ||२||
मरुत्त उवाच||
नारदेन भवान्मह्यमाख्यातो ह्यटता पथि |
गुरुपुत्रो ममेति त्वं ततो मे प्रीतिरुत्तमा ||३||
संवर्त उवाच||
सत्यमेतद्भवानाह स मां जानाति सत्रिणम् |
कथयस्वैतदेकं मे क्व नु सम्प्रति नारदः ||४||
मरुत्त उवाच||
भवन्तं कथयित्वा तु मम देवर्षिसत्तमः |
ततो मामभ्यनुज्ञाय प्रविष्टो हव्यवाहनम् ||५||
व्यास उवाच||
श्रुत्वा तु पार्थिवस्यैतत्संवर्तः परया मुदा |
एतावदहमप्येनं कुर्यामिति तदाब्रवीत् ||६||
ततो मरुत्तमुन्मत्तो वाचा निर्भर्त्सयन्निव |
रूक्षया ब्राह्मणो राजन्पुनः पुनरथाब्रवीत् ||७||
वातप्रधानेन मया स्वचित्तवशवर्तिना |
एवं विकृतरूपेण कथं याजितुमिच्छसि ||८||
भ्राता मम समर्थश्च वासवेन च सत्कृतः |
वर्तते याजने चैव तेन कर्माणि कारय ||९||
गृहं स्वं चैव याज्याश्च सर्वा गृह्याश्च देवताः |
पूर्वजेन ममाक्षिप्तं शरीरं वर्जितं त्विदम् ||१०||
नाहं तेनाननुज्ञातस्त्वामाविक्षित कर्हिचित् |
याजयेयं कथञ्चिद्वै स हि पूज्यतमो मम ||११||
स त्वं बृहस्पतिं गच्छ तमनुज्ञाप्य चाव्रज |
ततोऽहं याजयिष्ये त्वां यदि यष्टुमिहेच्छसि ||१२||
मरुत्त उवाच||
बृहस्पतिं गतः पूर्वमहं संवर्त तच्छृणु |
न मां कामयते याज्यमसौ वासववारितः ||१३||
अमरं याज्यमासाद्य मामृषे मा स्म मानुषम् |
याजयेथा मरुत्तं त्वं मर्त्यधर्माणमातुरम् ||१४||
स्पर्धते च मया विप्र सदा वै स हि पार्थिवः |
एवमस्त्विति चाप्युक्तो भ्रात्रा ते बलवृत्रहा ||१५||
स मामभिगतं प्रेम्णा याज्यवन्न बुभूषति |
देवराजमुपाश्रित्य तद्विद्धि मुनिपुङ्गव ||१६||
सोऽहमिच्छामि भवता सर्वस्वेनापि याजितुम् |
कामये समतिक्रान्तुं वासवं त्वत्कृतैर्गुणैः ||१७||
न हि मे वर्तते बुद्धिर्गन्तुं ब्रह्मन्बृहस्पतिम् |
प्रत्याख्यातो हि तेनास्मि तथानपकृते सति ||१८||
संवर्त उवाच||
चिकीर्षसि यथाकामं सर्वमेतत्त्वयि ध्रुवम् |
यदि सर्वानभिप्रायान्कर्तासि मम पार्थिव ||१९||
याज्यमानं मया हि त्वां बृहस्पतिपुरंदरौ |
द्विषेतां समभिक्रुद्धावेतदेकं समर्थय ||२०||
स्थैर्यमत्र कथं ते स्यात्स त्वं निःसंशयं कुरु |
कुपितस्त्वां न हीदानीं भस्म कुर्यां सबान्धवम् ||२१||
मरुत्त उवाच||
यावत्तपेत्सहस्रांशुस्तिष्ठेरंश्चापि पर्वताः |
तावल्लोकान्न लभेयं त्यजेयं सङ्गतं यदि ||२२||
मा चापि शुभबुद्धित्वं लभेयमिह कर्हिचित् |
सम्यग्ज्ञाने वैषये वा त्यजेयं सङ्गतं यदि ||२३||
संवर्त उवाच||
आविक्षित शुभा बुद्धिर्धीयतां तव कर्मसु |
याजनं हि ममाप्येवं वर्तते त्वयि पार्थिव ||२४||
संविधास्ये च ते राजन्नक्षयं द्रव्यमुत्तमम् |
येन देवान्सगन्धर्वाञ्शक्रं चाभिभविष्यसि ||२५||
न तु मे वर्तते बुद्धिर्धने याज्येषु वा पुनः |
विप्रियं तु चिकीर्षामि भ्रातुश्चेन्द्रस्य चोभयोः ||२६||
गमयिष्यामि चेन्द्रेण समतामपि ते ध्रुवम् |
प्रियं च ते करिष्यामि सत्यमेतद्ब्रवीमि ते ||२७||
८
संवर्त उवाच||
गिरेर्हिमवतः पृष्ठे मुञ्जवान्नाम पर्वतः |
तप्यते यत्र भगवांस्तपो नित्यमुमापतिः ||१||
वनस्पतीनां मूलेषु टङ्केषु शिखरेषु च |
गुहासु शैलराजस्य यथाकामं यथासुखम् ||२||
उमासहायो भगवान्यत्र नित्यं महेश्वरः |
आस्ते शूली महातेजा नानाभूतगणावृतः ||३||
तत्र रुद्राश्च साध्याश्च विश्वेऽथ वसवस्तथा |
यमश्च वरुणश्चैव कुबेरश्च सहानुगः ||४||
भूतानि च पिशाचाश्च नासत्यावश्विनावपि |
गन्धर्वाप्सरसश्चैव यक्षा देवर्षयस्तथा ||५||
आदित्या मरुतश्चैव यातुधानाश्च सर्वशः |
उपासन्ते महात्मानं बहुरूपमुमापतिम् ||६||
रमते भगवांस्तत्र कुबेरानुचरैः सह |
विकृतैर्विकृताकारैः क्रीडद्भिः पृथिवीपते ||७||
श्रिया ज्वलन्दृश्यते वै बालादित्यसमद्युतिः ||७||
न रूपं दृश्यते तस्य संस्थानं वा कथञ्चन |
निर्देष्टुं प्राणिभिः कैश्चित्प्राकृतैर्मांसलोचनैः ||८||
नोष्णं न शिशिरं तत्र न वायुर्न च भास्करः |
न जरा क्षुत्पिपासे वा न मृत्युर्न भयं नृप ||९||
तस्य शैलस्य पार्श्वेषु सर्वेषु जयतां वर |
धातवो जातरूपस्य रश्मयः सवितुर्यथा ||१०||
रक्ष्यन्ते ते कुबेरस्य सहायैरुद्यतायुधैः |
चिकीर्षद्भिः प्रियं राजन्कुबेरस्य महात्मनः ||११||
तस्मै भगवते कृत्वा नमः शर्वाय वेधसे |
रुद्राय शितिकण्ठाय सुरूपाय सुवर्चसे ||१२||
कपर्दिने करालाय हर्यक्ष्णे वरदाय च |
त्र्यक्ष्णे पूष्णो दन्तभिदे वामनाय शिवाय च ||१३||
याम्यायाव्यक्तकेशाय सद्वृत्ते शङ्कराय च |
क्षेम्याय हरिनेत्राय स्थाणवे पुरुषाय च ||१४||
हरिकेशाय मुण्डाय कृशायोत्तारणाय च |
भास्कराय सुतीर्थाय देवदेवाय रंहसे ||१५||
उष्णीषिणे सुवक्त्राय सहस्राक्षाय मीढुषे |
गिरिशाय प्रशान्ताय यतये चीरवाससे ||१६||
बिल्वदण्डाय सिद्धाय सर्वदण्डधराय च |
मृगव्याधाय महते धन्विनेऽथ भवाय च ||१७||
वराय सौम्यवक्त्राय पशुहस्ताय वर्षिणे |
हिरण्यबाहवे राजन्नुग्राय पतये दिशाम् ||१८||
पशूनां पतये चैव भूतानां पतये तथा |
वृषाय मातृभक्ताय सेनान्ये मध्यमाय च ||१९||
स्रुवहस्ताय पतये धन्विने भार्गवाय च |
अजाय कृष्णनेत्राय विरूपाक्षाय चैव ह ||२०||
तीक्ष्णदंष्ट्राय तीक्ष्णाय वैश्वानरमुखाय च |
महाद्युतयेऽनङ्गाय सर्वाङ्गाय प्रजावते ||२१||
तथा शुक्राधिपतये पृथवे कृत्तिवाससे |
कपालमालिने नित्यं सुवर्णमुकुटाय च ||२२||
महादेवाय कृष्णाय त्र्यम्बकायानघाय च |
क्रोधनाय नृशंसाय मृदवे बाहुशालिने ||२३||
दण्डिने तप्ततपसे तथैव क्रूरकर्मणे |
सहस्रशिरसे चैव सहस्रचरणाय च ||२४||
नमः स्वधास्वरूपाय बहुरूपाय दंष्ट्रिणे ||२४||
पिनाकिनं महादेवं महायोगिनमव्ययम् |
त्रिशूलपाणिं वरदं त्र्यम्बकं भुवनेश्वरम् ||२५||
त्रिपुरघ्नं त्रिनयनं त्रिलोकेशं महौजसम् |
प्रभवं सर्वभूतानां धारणं धरणीधरम् ||२६||
ईशानं शङ्करं सर्वं शिवं विश्वेश्वरं भवम् |
उमापतिं पशुपतिं विश्वरूपं महेश्वरम् ||२७||
विरूपाक्षं दशभुजं तिष्यगोवृषभध्वजम् |
उग्रं स्थाणुं शिवं घोरं शर्वं गौरीशमीश्वरम् ||२८||
शितिकण्ठमजं शुक्रं पृथुं पृथुहरं हरम् |
विश्वरूपं विरूपाक्षं बहुरूपमुमापतिम् ||२९||
प्रणम्य शिरसा देवमनङ्गाङ्गहरं हरम् |
शरण्यं शरणं याहि महादेवं चतुर्मुखम् ||३०||
एवं कृत्वा नमस्तस्मै महादेवाय रंहसे |
महात्मने क्षितिपते तत्सुवर्णमवाप्स्यसि ||३१||
सुवर्णमाहरिष्यन्तस्तत्र गच्छन्तु ते नराः ||३१||
व्यास उवाच||
इत्युक्तः स वचस्तस्य चक्रे कारन्धमात्मजः |
ततोऽतिमानुषं सर्वं चक्रे यज्ञस्य संविधिम् ||३२||
सौवर्णानि च भाण्डानि सञ्चक्रुस्तत्र शिल्पिनः ||३२||
बृहस्पतिस्तु तां श्रुत्वा मरुत्तस्य महीपतेः |
समृद्धिमति देवेभ्यः सन्तापमकरोद्भृशम् ||३३||
स तप्यमानो वैवर्ण्यं कृशत्वं चागमत्परम् |
भविष्यति हि मे शत्रुः संवर्तो वसुमानिति ||३४||
तं श्रुत्वा भृशसन्तप्तं देवराजो बृहस्पतिम् |
अभिगम्यामरवृतः प्रोवाचेदं वचस्तदा ||३५||
९
इन्द्र उवाच||
कच्चित्सुखं स्वपिषि त्वं बृहस्पते; कच्चिन्मनोज्ञाः परिचारकास्ते |
कच्चिद्देवानां सुखकामोऽसि विप्र; कच्चिद्देवास्त्वां परिपालयन्ति ||१||
बृहस्पतिरुवाच||
सुखं शयेऽहं शयने महेन्द्र; तथा मनोज्ञाः परिचारका मे |
तथा देवानां सुखकामोऽस्मि शक्र; देवाश्च मां सुभृशं पालयन्ति ||२||
इन्द्र उवाच||
कुतो दुःखं मानसं देहजं वा; पाण्डुर्विवर्णश्च कुतस्त्वमद्य |
आचक्ष्व मे तद्द्विज यावदेता; न्निहन्मि सर्वांस्तव दुःखकर्तॄन् ||३||
बृहस्पतिरुवाच||
मरुत्तमाहुर्मघवन्यक्ष्यमाणं; महायज्ञेनोत्तमदक्षिणेन |
तं संवर्तो याजयितेति मे श्रुतं; तदिच्छामि न स तं याजयेत ||४||
इन्द्र उवाच||
सर्वान्कामाननुजातोऽसि विप्र; यस्त्वं देवानां मन्त्रयसे पुरोधाः |
उभौ च ते जन्ममृत्यू व्यतीतौ; किं संवर्तस्तव कर्ताद्य विप्र ||५||
बृहस्पतिरुवाच||
देवैः सह त्वमसुरान्सम्प्रणुद्य; जिघांससेऽद्याप्युत सानुबन्धान् |
यं यं समृद्धं पश्यसि तत्र तत्र; दुःखं सपत्नेषु समृद्धभावः ||६||
अतोऽस्मि देवेन्द्र विवर्णरूपः; सपत्नो मे वर्धते तन्निशम्य |
सर्वोपायैर्मघवन्संनियच्छ; संवर्तं वा पार्थिवं वा मरुत्तम् ||७||
इन्द्र उवाच||
एहि गच्छ प्रहितो जातवेदो; बृहस्पतिं परिदातुं मरुत्ते |
अयं वै त्वा याजयिता बृहस्पति; स्तथामरं चैव करिष्यतीति ||८||
अग्निरुवाच||
अयं गच्छामि तव शक्राद्य दूतो; बृहस्पतिं परिदातुं मरुत्ते |
वाचं सत्यां पुरुहूतस्य कर्तुं; बृहस्पतेश्चापचितिं चिकीर्षुः ||९||
व्यास उवाच||
ततः प्रायाद्धूमकेतुर्महात्मा; वनस्पतीन्वीरुधश्चावमृद्नन् |
कामाद्धिमान्ते परिवर्तमानः; काष्ठातिगो मातरिश्वेव नर्दन् ||१०||
मरुत्त उवाच||
आश्चर्यमद्य पश्यामि रूपिणं वह्निमागतम् |
आसनं सलिलं पाद्यं गां चोपानय वै मुने ||११||
अग्निरुवाच||
आसनं सलिलं पाद्यं प्रतिनन्दामि तेऽनघ |
इन्द्रेण तु समादिष्टं विद्धि मां दूतमागतम् ||१२||
मरुत्त उवाच||
कच्चिच्छ्रीमान्देवराजः सुखी च; कच्चिच्चास्मान्प्रीयते धूमकेतो |
कच्चिद्देवाश्चास्य वशे यथाव; त्तद्ब्रूहि त्वं मम कार्त्स्न्येन देव ||१३||
अग्निरुवाच||
शक्रो भृशं सुसुखी पार्थिवेन्द्र; प्रीतिं चेच्छत्यजरां वै त्वया सः |
देवाश्च सर्वे वशगास्तस्य राज; न्संदेशं त्वं शृणु मे देवराज्ञः ||१४||
यदर्थं मां प्राहिणोत्त्वत्सकाशं; बृहस्पतिं परिदातुं मरुत्ते |
अयं गुरुर्याजयिता नृप त्वां; मर्त्यं सन्तममरं त्वां करोतु ||१५||
मरुत्त उवाच||
संवर्तोऽयं याजयिता द्विजो मे; बृहस्पतेरञ्जलिरेष तस्य |
नासौ देवं याजयित्वा महेन्द्रं; मर्त्यं सन्तं याजयन्नद्य शोभेत् ||१६||
अग्निरुवाच||
ये वै लोका देवलोके महान्तः; सम्प्राप्स्यसे तान्देवराजप्रसादात् |
त्वां चेदसौ याजयेद्वै बृहस्पति; र्नूनं स्वर्गं त्वं जयेः कीर्तियुक्तः ||१७||
तथा लोका मानुषा ये च दिव्याः; प्रजापतेश्चापि ये वै महान्तः |
ते ते जिता देवराज्यं च कृत्स्नं; बृहस्पतिश्चेद्याजयेत्त्वां नरेन्द्र ||१८||
संवर्त उवाच||
मास्मानेवं त्वं पुनरागाः कथं चि; द्बृहस्पतिं परिदातुं मरुत्ते |
मा त्वां धक्ष्ये चक्षुषा दारुणेन; सङ्क्रुद्धोऽहं पावक तन्निबोध ||१९||
व्यास उवाच||
ततो देवानगमद्धूमकेतु; र्दाहाद्भीतो व्यथितोऽश्वत्थपर्णवत् |
तं वै दृष्ट्वा प्राह शक्रो महात्मा; बृहस्पतेः संनिधौ हव्यवाहम् ||२०||
यत्त्वं गतः प्रहितो जातवेदो; बृहस्पतिं परिदातुं मरुत्ते |
तत्किं प्राह स नृपो यक्ष्यमाणः; कच्चिद्वचः प्रतिगृह्णाति तच्च ||२१||
अग्निरुवाच||
न ते वाचं रोचयते मरुत्तो; बृहस्पतेरञ्जलिं प्राहिणोत्सः |
संवर्तो मां याजयितेत्यभीक्ष्णं; पुनः पुनः स मया प्रोच्यमानः ||२२||
उवाचेदं मानुषा ये च दिव्याः; प्रजापतेर्ये च लोका महान्तः |
तांश्चेल्लभेयं संविदं तेन कृत्वा; तथापि नेच्छेयमिति प्रतीतः ||२३||
इन्द्र उवाच||
पुनर्भवान्पार्थिवं तं समेत्य; वाक्यं मदीयं प्रापय स्वार्थयुक्तम् |
पुनर्यद्युक्तो न करिष्यते वच; स्ततो वज्रं सम्प्रहर्तास्मि तस्मै ||२४||
अग्निरुवाच||
गन्धर्वराड्यात्वयं तत्र दूतो; बिभेम्यहं वासव तत्र गन्तुम् |
संरब्धो मामब्रवीत्तीक्ष्णरोषः; संवर्तो वाक्यं चरितब्रह्मचर्यः ||२५||
यद्यागच्छेः पुनरेवं कथं चि; द्बृहस्पतिं परिदातुं मरुत्ते |
दहेयं त्वां चक्षुषा दारुणेन; सङ्क्रुद्ध इत्येतदवैहि शक्र ||२६||
इन्द्र उवाच||
त्वमेवान्यान्दहसे जातवेदो; न हि त्वदन्यो विद्यते भस्मकर्ता |
त्वत्संस्पर्शात्सर्वलोको बिभे; त्यश्रद्धेयं वदसे हव्यवाह ||२७||
अग्निरुवाच||
दिवं देवेन्द्र पृथिवीं चैव सर्वां; संवेष्टयेस्त्वं स्वबलेनैव शक्र |
एवंविधस्येह सतस्तवासौ; कथं वृत्रस्त्रिदिवं प्राग्जहार ||२८||
इन्द्र उवाच||
न चण्डिका जङ्गमा नो करेणु; र्न वारिसोमं प्रपिबामि वह्ने |
न दुर्बले वै विसृजामि वज्रं; को मेऽसुखाय प्रहरेन्मनुष्यः ||२९||
प्रव्राजयेयं कालकेयान्पृथिव्या; मपाकर्षं दानवानन्तरिक्षात् |
दिवः प्रह्रादमवसानमानयं; को मेऽसुखाय प्रहरेत मर्त्यः ||३०||
अग्निरुवाच||
यत्र शर्यातिं च्यवनो याजयिष्य; न्सहाश्विभ्यां सोममगृह्णदेकः |
तं त्वं क्रुद्धः प्रत्यषेधीः पुरस्ता; च्छर्यातियज्ञं स्मर तं महेन्द्र ||३१||
वज्रं गृहीत्वा च पुरंदर त्वं; सम्प्राहार्षीश्च्यवनस्यातिघोरम् |
स ते विप्रः सह वज्रेण बाहु; मपागृह्णात्तपसा जातमन्युः ||३२||
ततो रोषात्सर्वतो घोररूपं; सपत्नं ते जनयामास भूयः |
मदं नामासुरं विश्वरूपं; यं त्वं दृष्ट्वा चक्षुषी संन्यमीलः ||३३||
हनुरेका जगतीस्था तथैका; दिवं गता महतो दानवस्य |
सहस्रं दन्तानां शतयोजनानां; सुतीक्ष्णानां घोररूपं बभूव ||३४||
वृत्ताः स्थूला रजतस्तम्भवर्णा; दंष्ट्राश्चतस्रो द्वे शते योजनानाम् |
स त्वां दन्तान्विदशन्नभ्यधाव; ज्जिघांसया शूलमुद्यम्य घोरम् ||३५||
अपश्यस्त्वं तं तदा घोररूपं; सर्वे त्वन्ये ददृशुर्दर्शनीयम् |
यस्माद्भीतः प्राञ्जलिस्त्वं महर्षि; मागच्छेथाः शरणं दानवघ्न ||३६||
क्षत्रादेवं ब्रह्मबलं गरीयो; न ब्रह्मतः किञ्चिदन्यद्गरीयः |
सोऽहं जानन्ब्रह्मतेजो यथाव; न्न संवर्तं गन्तुमिच्छामि शक्र ||३७||
१०
इन्द्र उवाच||
एवमेतद्ब्रह्मबलं गरीयो; न ब्रह्मतः किञ्चिदन्यद्गरीयः |
आविक्षितस्य तु बलं न मृष्ये; वज्रमस्मै प्रहरिष्यामि घोरम् ||१||
धृतराष्ट्र प्रहितो गच्छ मरुत्तं; संवर्तेन सहितं तं वदस्व |
बृहस्पतिं त्वमुपशिक्षस्व राज; न्वज्रं वा ते प्रहरिष्यामि घोरम् ||२||
व्यास उवाच||
ततो गत्वा धृतराष्ट्रो नरेन्द्रं; प्रोवाचेदं वचनं वासवस्य |
गन्धर्वं मां धृतराष्ट्रं निबोध; त्वामागतं वक्तुकामं नरेन्द्र ||३||
ऐन्द्रं वाक्यं शृणु मे राजसिंह; यत्प्राह लोकाधिपतिर्महात्मा |
बृहस्पतिं याजकं त्वं वृणीष्व; वज्रं वा ते प्रहरिष्यामि घोरम् ||४||
वचश्चेदेतन्न करिष्यसे मे; प्राहैतदेतावदचिन्त्यकर्मा ||४||
मरुत्त उवाच||
त्वं चैवैतद्वेत्थ पुरंदरश्च; विश्वेदेवा वसवश्चाश्विनौ च |
मित्रद्रोहे निष्कृतिर्वै यथैव; नास्तीति लोकेषु सदैव वादः ||५||
बृहस्पतिर्याजयिता महेन्द्रं; देवश्रेष्ठं वज्रभृतां वरिष्ठम् |
संवर्तो मां याजयिताद्य राज; न्न ते वाक्यं तस्य वा रोचयामि ||६||
गन्धर्व उवाच||
घोरो नादः श्रूयते वासवस्य; नभस्तले गर्जतो राजसिंह |
व्यक्तं वज्रं मोक्ष्यते ते महेन्द्रः; क्षेमं राजंश्चिन्त्यतामेष कालः ||७||
व्यास उवाच||
इत्येवमुक्तो धृतराष्ट्रेण राजा; श्रुत्वा नादं नदतो वासवस्य |
तपोनित्यं धर्मविदां वरिष्ठं; संवर्तं तं ज्ञापयामास कार्यम् ||८||
मरुत्त उवाच||
इममश्मानं प्लवमानमारा; दध्वा दूरं तेन न दृश्यतेऽद्य |
प्रपद्येऽहं शर्म विप्रेन्द्र त्वत्तः; प्रयच्छ तस्मादभयं विप्रमुख्य ||९||
अयमायाति वै वज्री दिशो विद्योतयन्दश |
अमानुषेण घोरेण सदस्यास्त्रासिता हि नः ||१०||
संवर्त उवाच||
भयं शक्राद्व्येतु ते राजसिंह; प्रणोत्स्येऽहं भयमेतत्सुघोरम् |
संस्तम्भिन्या विद्यया क्षिप्रमेव; मा भैस्त्वमस्माद्भव चापि प्रतीतः ||११||
अहं संस्तम्भयिष्यामि मा भैस्त्वं शक्रतो नृप |
सर्वेषामेव देवानां क्षपितान्यायुधानि मे ||१२||
दिशो वज्रं व्रजतां वायुरेतु; वर्षं भूत्वा निपततु काननेषु |
आपः प्लवन्त्वन्तरिक्षे वृथा च; सौदामिनी दृश्यतां मा बिभस्त्वम् ||१३||
अथो वह्निस्त्रातु वा सर्वतस्ते; कामं वर्षं वर्षतु वासवो वा |
वज्रं तथा स्थापयतां च वायु; र्महाघोरं प्लवमानं जलौघैः ||१४||
मरुत्त उवाच||
घोरः शब्दः श्रूयते वै महास्वनो; वज्रस्यैष सहितो मारुतेन |
आत्मा हि मे प्रव्यथते मुहुर्मुहु; र्न मे स्वास्थ्यं जायते चाद्य विप्र ||१५||
संवर्त उवाच||
वज्रादुग्राद्व्येतु भयं तवाद्य; वातो भूत्वा हन्मि नरेन्द्र वज्रम् |
भयं त्यक्त्वा वरमन्यं वृणीष्व; कं ते कामं तपसा साधयामि ||१६||
मरुत्त उवाच||
इन्द्रः साक्षात्सहसाभ्येतु विप्र; हविर्यज्ञे प्रतिगृह्णातु चैव |
स्वं स्वं धिष्ण्यं चैव जुषन्तु देवाः; सुतं सोमं प्रतिगृह्णन्तु चैव ||१७||
संवर्त उवाच||
अयमिन्द्रो हरिभिरायाति राज; न्देवैः सर्वैः सहितः सोमपीथी |
मन्त्राहूतो यज्ञमिमं मयाद्य; पश्यस्वैनं मन्त्रविस्रस्तकायम् ||१८||
व्यास उवाच||
ततो देवैः सहितो देवराजो; रथे युक्त्वा तान्हरीन्वाजिमुख्यान् |
आयाद्यज्ञमधि राज्ञः पिपासु; राविक्षितस्याप्रमेयस्य सोमम् ||१९||
तमायान्तं सहितं देवसङ्घैः; प्रत्युद्ययौ सपुरोधा मरुत्तः |
चक्रे पूजां देवराजाय चाग्र्यां; यथाशास्त्रं विधिवत्प्रीयमाणः ||२०||
संवर्त उवाच||
स्वागतं ते पुरुहूतेह विद्व; न्यज्ञोऽद्यायं संनिहिते त्वयीन्द्र |
शोशुभ्यते बलवृत्रघ्न भूयः; पिबस्व सोमं सुतमुद्यतं मया ||२१||
मरुत्त उवाच||
शिवेन मां पश्य नमश्च तेऽस्तु; प्राप्तो यज्ञः सफलं जीवितं मे |
अयं यज्ञं कुरुते मे सुरेन्द्र; बृहस्पतेरवरो जन्मना यः ||२२||
इन्द्र उवाच||
जानामि ते गुरुमेनं तपोधनं; बृहस्पतेरनुजं तिग्मतेजसम् |
यस्याह्वानादागतोऽहं नरेन्द्र; प्रीतिर्मेऽद्य त्वयि मनुः प्रनष्टः ||२३||
संवर्त उवाच||
यदि प्रीतस्त्वमसि वै देवराज; तस्मात्स्वयं शाधि यज्ञे विधानम् |
स्वयं सर्वान्कुरु मार्गान्सुरेन्द्र; जानात्वयं सर्वलोकश्च देव ||२४||
व्यास उवाच||
एवमुक्तस्त्वाङ्गिरसेन शक्रः; समादिदेश स्वयमेव देवान् |
सभाः क्रियन्तामावसथाश्च मुख्याः; सहस्रशश्चित्रभौमाः समृद्धाः ||२५||
कॢप्तस्थूणाः कुरुतारोहणानि; गन्धर्वाणामप्सरसां च शीघ्रम् |
येषु नृत्येरन्नप्सरसः सहस्रशः; स्वर्गोद्देशः क्रियतां यज्ञवाटः ||२६||
इत्युक्तास्ते चक्रुराशु प्रतीता; दिवौकसः शक्रवाक्यान्नरेन्द्र |
ततो वाक्यं प्राह राजानमिन्द्रः; प्रीतो राजन्पूजयानो मरुत्तम् ||२७||
एष त्वयाहमिह राजन्समेत्य; ये चाप्यन्ये तव पूर्वे नरेन्द्राः |
सर्वाश्चान्या देवताः प्रीयमाणा; हविस्तुभ्यं प्रतिगृह्णन्तु राजन् ||२८||
आग्नेयं वै लोहितमालभन्तां; वैश्वदेवं बहुरूपं विराजन् |
नीलं चोक्षाणं मेध्यमभ्यालभन्तां; चलच्छिश्नं मत्प्रदिष्टं द्विजेन्द्राः ||२९||
ततो यज्ञो ववृधे तस्य राज्ञो; यत्र देवाः स्वयमन्नानि जह्रुः |
यस्मिञ्शक्रो ब्राह्मणैः पूज्यमानः; सदस्योऽभूद्धरिमान्देवराजः ||३०||
ततः संवर्तश्चित्यगतो महात्मा; यथा वह्निः प्रज्वलितो द्वितीयः |
हवींष्युच्चैराह्वयन्देवसङ्घा; ञ्जुहावाग्नौ मन्त्रवत्सुप्रतीतः ||३१||
ततः पीत्वा बलभित्सोममग्र्यं; ये चाप्यन्ये सोमपा वै दिवौकसः |
सर्वेऽनुज्ञाताः प्रययुः पार्थिवेन; यथाजोषं तर्पिताः प्रीतिमन्तः ||३२||
ततो राजा जातरूपस्य राशी; न्पदे पदे कारयामास हृष्टः |
द्विजातिभ्यो विसृजन्भूरि वित्तं; रराज वित्तेश इवारिहन्ता ||३३||
ततो वित्तं विविधं संनिधाय; यथोत्साहं कारयित्वा च कोशम् |
अनुज्ञातो गुरुणा संनिवृत्य; शशास गामखिलां सागरान्ताम् ||३४||
एवङ्गुणः सम्बभूवेह राजा; यस्य क्रतौ तत्सुवर्णं प्रभूतम् |
तत्त्वं समादाय नरेन्द्र वित्तं; यजस्व देवांस्तर्पयानो विधानैः ||३५||
वैशम्पायन उवाच||
ततो राजा पाण्डवो हृष्टरूपः; श्रुत्वा वाक्यं सत्यवत्याः सुतस्य |
मनश्चक्रे तेन वित्तेन यष्टुं; ततोऽमात्यैर्मन्त्रयामास भूयः ||३६||
वासुदेववाक्यम्
११
वैशम्पायन उवाच||
इत्युक्ते नृपतौ तस्मिन्व्यासेनाद्भुतकर्मणा |
वासुदेवो महातेजास्ततो वचनमाददे ||१||
तं नृपं दीनमनसं निहतज्ञातिबान्धवम् |
उपप्लुतमिवादित्यं सधूममिव पावकम् ||२||
निर्विण्णमनसं पार्थं ज्ञात्वा वृष्णिकुलोद्वहः |
आश्वासयन्धर्मसुतं प्रवक्तुमुपचक्रमे ||३||
वासुदेव उवाच||
सर्वं जिह्मं मृत्युपदमार्जवं ब्रह्मणः पदम् |
एतावाञ्ज्ञानविषयः किं प्रलापः करिष्यति ||४||
नैव ते निष्ठितं कर्म नैव ते शत्रवो जिताः |
कथं शत्रुं शरीरस्थमात्मानं नावबुध्यसे ||५||
अत्र ते वर्तयिष्यामि यथाधर्मं यथाश्रुतम् |
इन्द्रस्य सह वृत्रेण यथा युद्धमवर्तत ||६||
वृत्रेण पृथिवी व्याप्ता पुरा किल नराधिप |
दृष्ट्वा स पृथिवीं व्याप्तां गन्धस्य विषये हृते ||७||
धराहरणदुर्गन्धो विषयः समपद्यत ||७||
शतक्रतुश्चुकोपाथ गन्धस्य विषये हृते |
वृत्रस्य स ततः क्रुद्धो वज्रं घोरमवासृजत् ||८||
स वध्यमानो वज्रेण पृथिव्यां भूरितेजसा |
विवेश सहसैवापो जग्राह विषयं ततः ||९||
व्याप्तास्वथाप्सु वृत्रेण रसे च विषये हृते |
शतक्रतुरभिक्रुद्धस्तासु वज्रमवासृजत् ||१०||
स वध्यमानो वज्रेण सलिले भूरितेजसा |
विवेश सहसा ज्योतिर्जग्राह विषयं ततः ||११||
व्याप्ते ज्योतिषि वृत्रेण रूपेऽथ विषये हृते |
शतक्रतुरभिक्रुद्धस्तत्र वज्रमवासृजत् ||१२||
स वध्यमानो वज्रेण सुभृशं भूरितेजसा |
विवेश सहसा वायुं जग्राह विषयं ततः ||१३||
व्याप्ते वायौ तु वृत्रेण स्पर्शेऽथ विषये हृते |
शतक्रतुरभिक्रुद्धस्तत्र वज्रमवासृजत् ||१४||
स वध्यमानो वज्रेण तस्मिन्नमिततेजसा |
आकाशमभिदुद्राव जग्राह विषयं ततः ||१५||
आकाशे वृत्रभूते च शब्दे च विषये हृते |
शतक्रतुरभिक्रुद्धस्तत्र वज्रमवासृजत् ||१६||
स वध्यमानो वज्रेण तस्मिन्नमिततेजसा |
विवेश सहसा शक्रं जग्राह विषयं ततः ||१७||
तस्य वृत्रगृहीतस्य मोहः समभवन्महान् |
रथन्तरेण तं तात वसिष्ठः प्रत्यबोधयत् ||१८||
ततो वृत्रं शरीरस्थं जघान भरतर्षभ |
शतक्रतुरदृश्येन वज्रेणेतीह नः श्रुतम् ||१९||
इदं धर्मरहस्यं च शक्रेणोक्तं महर्षिषु |
ऋषिभिश्च मम प्रोक्तं तन्निबोध नराधिप ||२०||
१२
वासुदेव उवाच||
द्विविधो जायते व्याधिः शारीरो मानसस्तथा |
परस्परं तयोर्जन्म निर्द्वंद्वं नोपलभ्यते ||१||
शरीरे जायते व्याधिः शारीरो नात्र संशयः |
मानसो जायते व्याधिर्मनस्येवेति निश्चयः ||२||
शीतोष्णे चैव वायुश्च गुणा राजञ्शरीरजाः |
तेषां गुणानां साम्यं चेत्तदाहुः स्वस्थलक्षणम् ||३||
उष्णेन बाध्यते शीतं शीतेनोष्णं च बाध्यते ||३||
सत्त्वं रजस्तमश्चेति त्रयस्त्वात्मगुणाः स्मृताः |
तेषां गुणानां साम्यं चेत्तदाहुः स्वस्थलक्षणम् ||४||
तेषामन्यतमोत्सेके विधानमुपदिश्यते ||४||
हर्षेण बाध्यते शोको हर्षः शोकेन बाध्यते |
कश्चिद्दुःखे वर्तमानः सुखस्य स्मर्तुमिच्छति ||५||
कश्चित्सुखे वर्तमानो दुःखस्य स्मर्तुमिच्छति ||५||
स त्वं न दुःखी दुःखस्य न सुखी सुसुखस्य वा |
स्मर्तुमिच्छसि कौन्तेय दिष्टं हि बलवत्तरम् ||६||
अथ वा ते स्वभावोऽयं येन पार्थावकृष्यसे |
दृष्ट्वा सभागतां कृष्णामेकवस्त्रां रजस्वलाम् ||७||
मिषतां पाण्डवेयानां न तत्संस्मर्तुमिच्छसि ||७||
प्रव्राजनं च नगरादजिनैश्च विवासनम् |
महारण्यनिवासश्च न तस्य स्मर्तुमिच्छसि ||८||
जटासुरात्परिक्लेशश्चित्रसेनेन चाहवः |
सैन्धवाच्च परिक्लेशो न तस्य स्मर्तुमिच्छसि ||९||
पुनरज्ञातचर्यायां कीचकेन पदा वधः |
याज्ञसेन्यास्तदा पार्थ न तस्य स्मर्तुमिच्छसि ||१०||
यच्च ते द्रोणभीष्माभ्यां युद्धमासीदरिंदम |
मनसैकेन योद्धव्यं तत्ते युद्धमुपस्थितम् ||११||
तस्मादभ्युपगन्तव्यं युद्धाय भरतर्षभ ||११||
परमव्यक्तरूपस्य परं मुक्त्वा स्वकर्मभिः |
यत्र नैव शरैः कार्यं न भृत्यैर्न च बन्धुभिः ||१२||
आत्मनैकेन योद्धव्यं तत्ते युद्धमुपस्थितम् ||१२||
तस्मिन्ननिर्जिते युद्धे कामवस्थां गमिष्यसि |
एतज्ज्ञात्वा तु कौन्तेय कृतकृत्यो भविष्यसि ||१३||
एतां बुद्धिं विनिश्चित्य भूतानामागतिं गतिम् |
पितृपैतामहे वृत्ते शाधि राज्यं यथोचितम् ||१४||
१३
वासुदेव उवाच||
न बाह्यं द्रव्यमुत्सृज्य सिद्धिर्भवति भारत |
शारीरं द्रव्यमुत्सृज्य सिद्धिर्भवति वा न वा ||१||
बाह्यद्रव्यविमुक्तस्य शारीरेषु च गृध्यतः |
यो धर्मो यत्सुखं चैव द्विषतामस्तु तत्तथा ||२||
द्व्यक्षरस्तु भवेन्मृत्युस्त्र्यक्षरं ब्रह्म शाश्वतम् |
ममेति द्व्यक्षरो मृत्युर्न ममेति च शाश्वतम् ||३||
ब्रह्म मृत्युश्च तौ राजन्नात्मन्येव व्यवस्थितौ |
अदृश्यमानौ भूतानि योधयेतामसंशयम् ||४||
अविनाशोऽस्य सत्त्वस्य नियतो यदि भारत |
भित्त्वा शरीरं भूतानामहिंसां प्रतिपद्यते ||५||
लब्ध्वापि पृथिवीं सर्वां सहस्थावरजङ्गमाम् |
ममत्वं यस्य नैव स्यात्किं तया स करिष्यति ||६||
अथ वा वसतः पार्थ वने वन्येन जीवतः |
ममता यस्य द्रव्येषु मृत्योरास्ये स वर्तते ||७||
बाह्यान्तराणां शत्रूणां स्वभावं पश्य भारत |
यन्न पश्यति तद्भूतं मुच्यते स महाभयात् ||८||
कामात्मानं न प्रशंसन्ति लोके; न चाकामात्काचिदस्ति प्रवृत्तिः |
दानं हि वेदाध्ययनं तपश्च; कामेन कर्माणि च वैदिकानि ||९||
व्रतं यज्ञान्नियमान्ध्यानयोगा; न्कामेन यो नारभते विदित्वा |
यद्यद्ध्ययं कामयते स धर्मो; न यो धर्मो नियमस्तस्य मूलम् ||१०||
अत्र गाथाः कामगीताः कीर्तयन्ति पुराविदः |
शृणु सङ्कीर्त्यमानास्ता निखिलेन युधिष्ठिर ||११||
नाहं शक्योऽनुपायेन हन्तुं भूतेन केनचित् |
यो मां प्रयतते हन्तुं ज्ञात्वा प्रहरणे बलम् ||१२||
तस्य तस्मिन्प्रहरणे पुनः प्रादुर्भवाम्यहम् ||१२||
यो मां प्रयतते हन्तुं यज्ञैर्विविधदक्षिणैः |
जङ्गमेष्विव कर्मात्मा पुनः प्रादुर्भवाम्यहम् ||१३||
यो मां प्रयतते हन्तुं वेदैर्वेदान्तसाधनैः |
स्थावरेष्विव शान्तात्मा तस्य प्रादुर्भवाम्यहम् ||१४||
यो मां प्रयतते हन्तुं धृत्या सत्यपराक्रमः |
भावो भवामि तस्याहं स च मां नावबुध्यते ||१५||
यो मां प्रयतते हन्तुं तपसा संशितव्रतः |
ततस्तपसि तस्याथ पुनः प्रादुर्भवाम्यहम् ||१६||
यो मां प्रयतते हन्तुं मोक्षमास्थाय पण्डितः |
तस्य मोक्षरतिस्थस्य नृत्यामि च हसामि च ||१७||
अवध्यः सर्वभूतानामहमेकः सनातनः ||१७||
तस्मात्त्वमपि तं कामं यज्ञैर्विविधदक्षिणैः |
धर्मं कुरु महाराज तत्र ते स भविष्यति ||१८||
यजस्व वाजिमेधेन विधिवद्दक्षिणावता |
अन्यैश्च विविधैर्यज्ञैः समृद्धैराप्तदक्षिणैः ||१९||
मा ते व्यथास्तु निहतान्बन्धून्वीक्ष्य पुनः पुनः |
न शक्यास्ते पुनर्द्रष्टुं ये हतास्मिन्रणाजिरे ||२०||
स त्वमिष्ट्वा महायज्ञैः समृद्धैराप्तदक्षिणैः |
लोके कीर्तिं परां प्राप्य गतिमग्र्यां गमिष्यसि ||२१||
हास्तिनापुरप्रवेशः
१४
वैशम्पायन उवाच||
एवं बहुविधैर्वाक्यैर्मुनिभिस्तैस्तपोधनैः |
समाश्वस्यत राजर्षिर्हतबन्धुर्युधिष्ठिरः ||१||
सोऽनुनीतो भगवता विष्टरश्रवसा स्वयम् |
द्वैपायनेन कृष्णेन देवस्थानेन चाभिभूः ||२||
नारदेनाथ भीमेन नकुलेन च पार्थिवः |
कृष्णया सहदेवेन विजयेन च धीमता ||३||
अन्यैश्च पुरुषव्याघ्रैर्ब्राह्मणैः शास्त्रदृष्टिभिः |
व्यजहाच्छोकजं दुःखं सन्तापं चैव मानसम् ||४||
अर्चयामास देवांश्च ब्राह्मणांश्च युधिष्ठिरः |
कृत्वाथ प्रेतकार्याणि बन्धूनां स पुनर्नृपः ||५||
अन्वशासत धर्मात्मा पृथिवीं सागराम्बराम् ||५||
प्रशान्तचेताः कौरव्यः स्वराज्यं प्राप्य केवलम् |
व्यासं च नारदं चैव तांश्चान्यानब्रवीन्नृपः ||६||
आश्वासितोऽहं प्राग्वृद्धैर्भवद्भिर्मुनिपुङ्गवैः |
न सूक्ष्ममपि मे किञ्चिद्व्यलीकमिह विद्यते ||७||
अर्थश्च सुमहान्प्राप्तो येन यक्ष्यामि देवताः |
पुरस्कृत्येह भवतः समानेष्यामहे मखम् ||८||
हिमवन्तं त्वया गुप्ता गमिष्यामः पितामह |
बह्वाश्चर्यो हि देशः स श्रूयते द्विजसत्तम ||९||
तथा भगवता चित्रं कल्याणं बहु भाषितम् |
देवर्षिणा नारदेन देवस्थानेन चैव ह ||१०||
नाभागधेयः पुरुषः कश्चिदेवंविधान्गुरून् |
लभते व्यसनं प्राप्य सुहृदः साधुसंमतान् ||११||
एवमुक्तास्तु ते राज्ञा सर्व एव महर्षयः |
अभ्यनुज्ञाप्य राजानं तथोभौ कृष्णफल्गुनौ ||१२||
पश्यतामेव सर्वेषां तत्रैवादर्शनं ययुः ||१२||
ततो धर्मसुतो राजा तत्रैवोपाविशत्प्रभुः |
एवं नातिमहान्कालः स तेषामभ्यवर्तत ||१३||
कुर्वतां शौचकर्माणि भीष्मस्य निधने तदा |
महादानानि विप्रेभ्यो ददतामौर्ध्वदैहिकम् ||१४||
भीष्मकर्णपुरोगाणां कुरूणां कुरुनन्दन |
सहितो धृतराष्ट्रेण प्रददावौर्ध्वदैहिकम् ||१५||
ततो दत्त्वा बहु धनं विप्रेभ्यः पाण्डवर्षभः |
धृतराष्ट्रं पुरस्कृत्य विवेश गजसाह्वयम् ||१६||
स समाश्वास्य पितरं प्रज्ञाचक्षुषमीश्वरम् |
अन्वशाद्वै स धर्मात्मा पृथिवीं भ्रातृभिः सह ||१७||
इन्द्रप्रस्थे कृष्णार्जुनयोः सभाविहारः
१५
जनमेजय उवाच||
विजिते पाण्डवेयैस्तु प्रशान्ते च द्विजोत्तम |
राष्ट्रे किं चक्रतुर्वीरौ वासुदेवधनञ्जयौ ||१||
वैशम्पायन उवाच||
विजिते पाण्डवेयैस्तु प्रशान्ते च विशां पते |
राष्ट्रे बभूवतुर्हृष्टौ वासुदेवधनञ्जयौ ||२||
विजह्राते मुदा युक्तौ दिवि देवेश्वराविव |
तौ वनेषु विचित्रेषु पर्वतानां च सानुषु ||३||
शैलेषु रमणीयेषु पल्वलेषु नदीषु च |
चङ्क्रम्यमाणौ संहृष्टावश्विनाविव नन्दने ||४||
इन्द्रप्रस्थे महात्मानौ रेमाते कृष्णपाण्डवौ |
प्रविश्य तां सभां रम्यां विजह्राते च भारत ||५||
तत्र युद्धकथाश्चित्राः परिक्लेशांश्च पार्थिव |
कथायोगे कथायोगे कथयामासतुस्तदा ||६||
ऋषीणां देवतानां च वंशांस्तावाहतुस्तदा |
प्रीयमाणौ महात्मानौ पुराणावृषिसत्तमौ ||७||
मधुरास्तु कथाश्चित्राश्चित्रार्थपदनिश्चयाः |
निश्चयज्ञः स पार्थाय कथयामास केशवः ||८||
पुत्रशोकाभिसन्तप्तं ज्ञातीनां च सहस्रशः |
कथाभिः शमयामास पार्थं शौरिर्जनार्दनः ||९||
स तमाश्वास्य विधिवद्विधानज्ञो महातपाः |
अपहृत्यात्मनो भारं विशश्रामेव सात्वतः ||१०||
ततः कथान्ते गोविन्दो गुडाकेशमुवाच ह |
सान्त्वयञ्श्लक्ष्णया वाचा हेतुयुक्तमिदं वचः ||११||
विजितेयं धरा कृत्स्ना सव्यसाचिन्परन्तप |
त्वद्बाहुबलमाश्रित्य राज्ञा धर्मसुतेन ह ||१२||
असपत्नां महीं भुङ्क्ते धर्मराजो युधिष्ठिरः |
भीमसेनप्रभावेन यमयोश्च नरोत्तम ||१३||
धर्मेण राज्ञा धर्मज्ञ प्राप्तं राज्यमकण्टकम् |
धर्मेण निहतः सङ्ख्ये स च राजा सुयोधनः ||१४||
अधर्मरुचयो लुब्धाः सदा चाप्रियवादिनः |
धार्तराष्ट्रा दुरात्मानः सानुबन्धा निपातिताः ||१५||
प्रशान्तामखिलां पार्थ पृथिवीं पृथिवीपतिः |
भुङ्क्ते धर्मसुतो राजा त्वया गुप्तः कुरूद्वह ||१६||
रमे चाहं त्वया सार्धमरण्येष्वपि पाण्डव |
किमु यत्र जनोऽयं वै पृथा चामित्रकर्शन ||१७||
यत्र धर्मसुतो राजा यत्र भीमो महाबलः |
यत्र माद्रवतीपुत्रौ रतिस्तत्र परा मम ||१८||
तथैव स्वर्गकल्पेषु सभोद्देशेषु भारत |
रमणीयेषु पुण्येषु सहितस्य त्वयानघ ||१९||
कालो महांस्त्वतीतो मे शूरपुत्रमपश्यतः |
बलदेवं च कौरव्य तथान्यान्वृष्णिपुङ्गवान् ||२०||
सोऽहं गन्तुमभीप्सामि पुरीं द्वारवतीं प्रति |
रोचतां गमनं मह्यं तवापि पुरुषर्षभ ||२१||
उक्तो बहुविधं राजा तत्र तत्र युधिष्ठिरः |
स ह भीष्मेण यद्युक्तमस्माभिः शोककारिते ||२२||
शिष्टो युधिष्ठिरोऽस्माभिः शास्ता सन्नपि पाण्डवः |
तेन तच्च वचः सम्यग्गृहीतं सुमहात्मना ||२३||
धर्मपुत्रे हि धर्मज्ञे कृतज्ञे सत्यवादिनि |
सत्यं धर्मो मतिश्चाग्र्या स्थितिश्च सततं स्थिरा ||२४||
तद्गत्वा तं महात्मानं यदि ते रोचतेऽर्जुन |
अस्मद्गमनसंयुक्तं वचो ब्रूहि जनाधिपम् ||२५||
न हि तस्याप्रियं कुर्यां प्राणत्यागेऽप्युपस्थिते |
कुतो गन्तुं महाबाहो पुरीं द्वारवतीं प्रति ||२६||
सर्वं त्विदमहं पार्थ त्वत्प्रीतिहितकाम्यया |
ब्रवीमि सत्यं कौरव्य न मिथ्यैतत्कथञ्चन ||२७||
प्रयोजनं च निर्वृत्तमिह वासे ममार्जुन |
धार्तराष्ट्रो हतो राजा सबलः सपदानुगः ||२८||
पृथिवी च वशे तात धर्मपुत्रस्य धीमतः |
स्थिता समुद्रवसना सशैलवनकानना ||२९||
चिता रत्नैर्बहुविधैः कुरुराजस्य पाण्डव ||२९||
धर्मेण राजा धर्मज्ञः पातु सर्वां वसुन्धराम् |
उपास्यमानो बहुभिः सिद्धैश्चापि महात्मभिः ||३०||
स्तूयमानश्च सततं बन्दिभिर्भरतर्षभ ||३०||
तन्मया सह गत्वाद्य राजानं कुरुवर्धनम् |
आपृच्छ कुरुशार्दूल गमनं द्वारकां प्रति ||३१||
इदं शरीरं वसु यच्च मे गृहे; निवेदितं पार्थ सदा युधिष्ठिरे |
प्रियश्च मान्यश्च हि मे युधिष्ठिरः; सदा कुरूणामधिपो महामतिः ||३२||
प्रयोजनं चापि निवासकारणे; न विद्यते मे त्वदृते महाभुज |
स्थिता हि पृथ्वी तव पार्थ शासने; गुरोः सुवृत्तस्य युधिष्ठिरस्य ह ||३३||
इतीदमुक्तं स तदा महात्मना; जनार्दनेनामितविक्रमोऽर्जुनः |
तथेति कृच्छ्रादिव वाचमीरय; ज्जनार्दनं सम्प्रतिपूज्य पार्थिव ||३४||
अनुगीता
१६
जनमेजय उवाच||
सभायां वसतोस्तस्यां निहत्यारीन्महात्मनोः |
केशवार्जुनयोः का नु कथा समभवद्द्विज ||१||
वैशम्पायन उवाच||
कृष्णेन सहितः पार्थः स्वराज्यं प्राप्य केवलम् |
तस्यां सभायां रम्यायां विजहार मुदा युतः ||२||
ततः कञ्चित्सभोद्देशं स्वर्गोद्देशसमं नृप |
यदृच्छया तौ मुदितौ जग्मतुः स्वजनावृतौ ||३||
ततः प्रतीतः कृष्णेन सहितः पाण्डवोऽर्जुनः |
निरीक्ष्य तां सभां रम्यामिदं वचनमब्रवीत् ||४||
विदितं ते महाबाहो सङ्ग्रामे समुपस्थिते |
माहात्म्यं देवकीमातस्तच्च ते रूपमैश्वरम् ||५||
यत्तु तद्भवता प्रोक्तं तदा केशव सौहृदात् |
तत्सर्वं पुरुषव्याघ्र नष्टं मे नष्टचेतसः ||६||
मम कौतूहलं त्वस्ति तेष्वर्थेषु पुनः प्रभो |
भवांश्च द्वारकां गन्ता नचिरादिव माधव ||७||
एवमुक्तस्ततः कृष्णः फल्गुनं प्रत्यभाषत |
परिष्वज्य महातेजा वचनं वदतां वरः ||८||
श्रावितस्त्वं मया गुह्यं ज्ञापितश्च सनातनम् |
धर्मं स्वरूपिणं पार्थ सर्वलोकांश्च शाश्वतान् ||९||
अबुद्ध्वा यन्न गृह्णीथास्तन्मे सुमहदप्रियम् |
नूनमश्रद्दधानोऽसि दुर्मेधाश्चासि पाण्डव ||१०||
स हि धर्मः सुपर्याप्तो ब्रह्मणः पदवेदने |
न शक्यं तन्मया भूयस्तथा वक्तुमशेषतः ||११||
परं हि ब्रह्म कथितं योगयुक्तेन तन्मया |
इतिहासं तु वक्ष्यामि तस्मिन्नर्थे पुरातनम् ||१२||
यथा तां बुद्धिमास्थाय गतिमग्र्यां गमिष्यसि |
शृणु धर्मभृतां श्रेष्ठ गदतः सर्वमेव मे ||१३||
आगच्छद्ब्राह्मणः कश्चित्स्वर्गलोकादरिंदम |
ब्रह्मलोकाच्च दुर्धर्षः सोऽस्माभिः पूजितोऽभवत् ||१४||
अस्माभिः परिपृष्टश्च यदाह भरतर्षभ |
दिव्येन विधिना पार्थ तच्छृणुष्वाविचारयन् ||१५||
ब्राह्मण उवाच||
मोक्षधर्मं समाश्रित्य कृष्ण यन्मानुपृच्छसि |
भूतानामनुकम्पार्थं यन्मोहच्छेदनं प्रभो ||१६||
तत्तेऽहं सम्प्रवक्ष्यामि यथावन्मधुसूदन |
शृणुष्वावहितो भूत्वा गदतो मम माधव ||१७||
कश्चिद्विप्रस्तपोयुक्तः काश्यपो धर्मवित्तमः |
आससाद द्विजं कञ्चिद्धर्माणामागतागमम् ||१८||
गतागते सुबहुशो ज्ञानविज्ञानपारगम् |
लोकतत्त्वार्थकुशलं ज्ञातारं सुखदुःखयोः ||१९||
जातीमरणतत्त्वज्ञं कोविदं पुण्यपापयोः |
द्रष्टारमुच्चनीचानां कर्मभिर्देहिनां गतिम् ||२०||
चरन्तं मुक्तवत्सिद्धं प्रशान्तं संयतेन्द्रियम् |
दीप्यमानं श्रिया ब्राह्म्या क्रममाणं च सर्वशः ||२१||
अन्तर्धानगतिज्ञं च श्रुत्वा तत्त्वेन काश्यपः |
तथैवान्तर्हितैः सिद्धैर्यान्तं चक्रधरैः सह ||२२||
सम्भाषमाणमेकान्ते समासीनं च तैः सह |
यदृच्छया च गच्छन्तमसक्तं पवनं यथा ||२३||
तं समासाद्य मेधावी स तदा द्विजसत्तमः |
चरणौ धर्मकामो वै तपस्वी सुसमाहितः ||२४||
प्रतिपेदे यथान्यायं भक्त्या परमया युतः ||२४||
विस्मितश्चाद्भुतं दृष्ट्वा काश्यपस्तं द्विजोत्तमम् |
परिचारेण महता गुरुं वैद्यमतोषयत् ||२५||
प्रीतात्मा चोपपन्नश्च श्रुतचारित्रसंयुतः |
भावेन तोषयच्चैनं गुरुवृत्त्या परन्तपः ||२६||
तस्मै तुष्टः स शिष्याय प्रसन्नोऽथाब्रवीद्गुरुः |
सिद्धिं परामभिप्रेक्ष्य शृणु तन्मे जनार्दन ||२७||
विविधैः कर्मभिस्तात पुण्ययोगैश्च केवलैः |
गच्छन्तीह गतिं मर्त्या देवलोकेऽपि च स्थितिम् ||२८||
न क्वचित्सुखमत्यन्तं न क्वचिच्छाश्वती स्थितिः |
स्थानाच्च महतो भ्रंशो दुःखलब्धात्पुनः पुनः ||२९||
अशुभा गतयः प्राप्ताः कष्टा मे पापसेवनात् |
काममन्युपरीतेन तृष्णया मोहितेन च ||३०||
पुनः पुनश्च मरणं जन्म चैव पुनः पुनः |
आहारा विविधा भुक्ताः पीता नानाविधाः स्तनाः ||३१||
मातरो विविधा दृष्टाः पितरश्च पृथग्विधाः |
सुखानि च विचित्राणि दुःखानि च मयानघ ||३२||
प्रियैर्विवासो बहुशः संवासश्चाप्रियैः सह |
धननाशश्च सम्प्राप्तो लब्ध्वा दुःखेन तद्धनम् ||३३||
अवमानाः सुकष्टाश्च परतः स्वजनात्तथा |
शारीरा मानसाश्चापि वेदना भृशदारुणाः ||३४||
प्राप्ता विमाननाश्चोग्रा वधबन्धाश्च दारुणाः |
पतनं निरये चैव यातनाश्च यमक्षये ||३५||
जरा रोगाश्च सततं वासनानि च भूरिशः |
लोकेऽस्मिन्ननुभूतानि द्वंद्वजानि भृशं मया ||३६||
ततः कदाचिन्निर्वेदान्निकारान्निकृतेन च |
लोकतन्त्रं परित्यक्तं दुःखार्तेन भृशं मया ||३७||
ततः सिद्धिरियं प्राप्ता प्रसादादात्मनो मया ||३७||
नाहं पुनरिहागन्ता लोकानालोकयाम्यहम् |
आ सिद्धेरा प्रजासर्गादात्मनो मे गतिः शुभा ||३८||
उपलब्धा द्विजश्रेष्ठ तथेयं सिद्धिरुत्तमा |
इतः परं गमिष्यामि ततः परतरं पुनः ||३९||
ब्रह्मणः पदमव्यग्रं मा ते भूदत्र संशयः ||३९||
नाहं पुनरिहागन्ता मर्त्यलोकं परन्तप |
प्रीतोऽस्मि ते महाप्राज्ञ ब्रूहि किं करवाणि ते ||४०||
यदीप्सुरुपपन्नस्त्वं तस्य कालोऽयमागतः |
अभिजाने च तदहं यदर्थं मा त्वमागतः ||४१||
अचिरात्तु गमिष्यामि येनाहं त्वामचूचुदम् ||४१||
भृशं प्रीतोऽस्मि भवतश्चारित्रेण विचक्षण |
परिपृच्छ यावद्भवते भाषेयं यत्तवेप्सितम् ||४२||
बहु मन्ये च ते बुद्धिं भृशं सम्पूजयामि च |
येनाहं भवता बुद्धो मेधावी ह्यसि काश्यप ||४३||
१७
वासुदेव उवाच||
ततस्तस्योपसङ्गृह्य पादौ प्रश्नान्सुदुर्वचान् |
पप्रच्छ तांश्च सर्वान्स प्राह धर्मभृतां वरः ||१||
काश्यप उवाच||
कथं शरीरं च्यवते कथं चैवोपपद्यते |
कथं कष्टाच्च संसारात्संसरन्परिमुच्यते ||२||
आत्मानं वा कथं युक्त्वा तच्छरीरं विमुञ्चति |
शरीरतश्च निर्मुक्तः कथमन्यत्प्रपद्यते ||३||
कथं शुभाशुभे चायं कर्मणी स्वकृते नरः |
उपभुङ्क्ते क्व वा कर्म विदेहस्योपतिष्ठति ||४||
ब्राह्मण उवाच||
एवं सञ्चोदितः सिद्धः प्रश्नांस्तान्प्रत्यभाषत |
आनुपूर्व्येण वार्ष्णेय यथा तन्मे वचः शृणु ||५||
सिद्ध उवाच||
आयुःकीर्तिकराणीह यानि कर्माणि सेवते |
शरीरग्रहणेऽन्यस्मिंस्तेषु क्षीणेषु सर्वशः ||६||
आयुःक्षयपरीतात्मा विपरीतानि सेवते |
बुद्धिर्व्यावर्तते चास्य विनाशे प्रत्युपस्थिते ||७||
सत्त्वं बलं च कालं चाप्यविदित्वात्मनस्तथा |
अतिवेलमुपाश्नाति तैर्विरुद्धान्यनात्मवान् ||८||
यदायमतिकष्टानि सर्वाण्युपनिषेवते |
अत्यर्थमपि वा भुङ्क्ते न वा भुङ्क्ते कदाचन ||९||
दुष्टान्नं विषमान्नं च सोऽन्योन्येन विरोधि च |
गुरु वापि समं भुङ्क्ते नातिजीर्णेऽपि वा पुनः ||१०||
व्यायाममतिमात्रं वा व्यवायं चोपसेवते |
सततं कर्मलोभाद्वा प्राप्तं वेगविधारणम् ||११||
रसातियुक्तमन्नं वा दिवास्वप्नं निषेवते |
अपक्वानागते काले स्वयं दोषान्प्रकोपयन् ||१२||
स्वदोषकोपनाद्रोगं लभते मरणान्तिकम् |
अथ चोद्बन्धनादीनि परीतानि व्यवस्यति ||१३||
तस्य तैः कारणैर्जन्तोः शरीराच्च्यवते यथा |
जीवितं प्रोच्यमानं तद्यथावदुपधारय ||१४||
ऊष्मा प्रकुपितः काये तीव्रवायुसमीरितः |
शरीरमनुपर्येति सर्वान्प्राणान्रुणद्धि वै ||१५||
अत्यर्थं बलवानूष्मा शरीरे परिकोपितः |
भिनत्ति जीवस्थानानि तानि मर्माणि विद्धि च ||१६||
ततः सवेदनः सद्यो जीवः प्रच्यवते क्षरन् |
शरीरं त्यजते जन्तुश्छिद्यमानेषु मर्मसु ||१७||
वेदनाभिः परीतात्मा तद्विद्धि द्विजसत्तम ||१७||
जातीमरणसंविग्नाः सततं सर्वजन्तवः |
दृश्यन्ते सन्त्यजन्तश्च शरीराणि द्विजर्षभ ||१८||
गर्भसङ्क्रमणे चापि मर्मणामतिसर्पणे |
तादृशीमेव लभते वेदनां मानवः पुनः ||१९||
भिन्नसन्धिरथ क्लेदमद्भिः स लभते नरः |
यथा पञ्चसु भूतेषु संश्रितत्वं निगच्छति ||२०||
शैत्यात्प्रकुपितः काये तीव्रवायुसमीरितः ||२०||
यः स पञ्चसु भूतेषु प्राणापाने व्यवस्थितः |
स गच्छत्यूर्ध्वगो वायुः कृच्छ्रान्मुक्त्वा शरीरिणम् ||२१||
शरीरं च जहात्येव निरुच्छ्वासश्च दृश्यते |
निरूष्मा स निरुच्छ्वासो निःश्रीको गतचेतनः ||२२||
ब्रह्मणा सम्परित्यक्तो मृत इत्युच्यते नरः |
स्रोतोभिर्यैर्विजानाति इन्द्रियार्थाञ्शरीरभृत् ||२३||
तैरेव न विजानाति प्राणमाहारसम्भवम् ||२३||
तत्रैव कुरुते काये यः स जीवः सनातनः |
तेषां यद्यद्भवेद्युक्तं संनिपाते क्वचित्क्वचित् ||२४||
तत्तन्मर्म विजानीहि शास्त्रदृष्टं हि तत्तथा ||२४||
तेषु मर्मसु भिन्नेषु ततः स समुदीरयन् |
आविश्य हृदयं जन्तोः सत्त्वं चाशु रुणद्धि वै ||२५||
ततः स चेतनो जन्तुर्नाभिजानाति किञ्चन ||२५||
तमसा संवृतज्ञानः संवृतेष्वथ मर्मसु |
स जीवो निरधिष्ठानश्चाव्यते मातरिश्वना ||२६||
ततः स तं महोच्छ्वासं भृशमुच्छ्वस्य दारुणम् |
निष्क्रामन्कम्पयत्याशु तच्छरीरमचेतनम् ||२७||
स जीवः प्रच्युतः कायात्कर्मभिः स्वैः समावृतः |
अङ्कितः स्वैः शुभैः पुण्यैः पापैर्वाप्युपपद्यते ||२८||
ब्राह्मणा ज्ञानसम्पन्ना यथावच्छ्रुतनिश्चयाः |
इतरं कृतपुण्यं वा तं विजानन्ति लक्षणैः ||२९||
यथान्धकारे खद्योतं लीयमानं ततस्ततः |
चक्षुष्मन्तः प्रपश्यन्ति तथा तं ज्ञानचक्षुषः ||३०||
पश्यन्त्येवंविधाः सिद्धा जीवं दिव्येन चक्षुषा |
च्यवन्तं जायमानं च योनिं चानुप्रवेशितम् ||३१||
तस्य स्थानानि दृष्टानि त्रिविधानीह शास्त्रतः |
कर्मभूमिरियं भूमिर्यत्र तिष्ठन्ति जन्तवः ||३२||
ततः शुभाशुभं कृत्वा लभन्ते सर्वदेहिनः |
इहैवोच्चावचान्भोगान्प्राप्नुवन्ति स्वकर्मभिः ||३३||
इहैवाशुभकर्मा तु कर्मभिर्निरयं गतः |
अवाक्स निरये पापो मानवः पच्यते भृशम् ||३४||
तस्मात्सुदुर्लभो मोक्ष आत्मा रक्ष्यो भृशं ततः ||३४||
ऊर्ध्वं तु जन्तवो गत्वा येषु स्थानेष्ववस्थिताः |
कीर्त्यमानानि तानीह तत्त्वतः संनिबोध मे ||३५||
तच्छ्रुत्वा नैष्ठिकीं बुद्धिं बुध्येथाः कर्मनिश्चयात् ||३५||
तारारूपाणि सर्वाणि यच्चैतच्चन्द्रमण्डलम् |
यच्च विभ्राजते लोके स्वभासा सूर्यमण्डलम् ||३६||
स्थानान्येतानि जानीहि नराणां पुण्यकर्मणाम् ||३६||
कर्मक्षयाच्च ते सर्वे च्यवन्ते वै पुनः पुनः |
तत्रापि च विशेषोऽस्ति दिवि नीचोच्चमध्यमः ||३७||
न तत्राप्यस्ति सन्तोषो दृष्ट्वा दीप्ततरां श्रियम् |
इत्येता गतयः सर्वाः पृथक्त्वे समुदीरिताः ||३८||
उपपत्तिं तु गर्भस्य वक्ष्याम्यहमतः परम् |
यथावत्तां निगदतः शृणुष्वावहितो द्विज ||३९||
१८
ब्राह्मण उवाच||
शुभानामशुभानां च नेह नाशोऽस्ति कर्मणाम् |
प्राप्य प्राप्य तु पच्यन्ते क्षेत्रं क्षेत्रं तथा तथा ||१||
यथा प्रसूयमानस्तु फली दद्यात्फलं बहु |
तथा स्याद्विपुलं पुण्यं शुद्धेन मनसा कृतम् ||२||
पापं चापि तथैव स्यात्पापेन मनसा कृतम् |
पुरोधाय मनो हीह कर्मण्यात्मा प्रवर्तते ||३||
यथा कर्मसमादिष्टं काममन्युसमावृतः |
नरो गर्भं प्रविशति तच्चापि शृणु चोत्तरम् ||४||
शुक्रं शोणितसंसृष्टं स्त्रिया गर्भाशयं गतम् |
क्षेत्रं कर्मजमाप्नोति शुभं वा यदि वाशुभम् ||५||
सौक्ष्म्यादव्यक्तभावाच्च न स क्वचन सज्जते |
सम्प्राप्य ब्रह्मणः कायं तस्मात्तद्ब्रह्म शाश्वतम् ||६||
तद्बीजं सर्वभूतानां तेन जीवन्ति जन्तवः ||६||
स जीवः सर्वगात्राणि गर्भस्याविश्य भागशः |
दधाति चेतसा सद्यः प्राणस्थानेष्ववस्थितः ||७||
ततः स्पन्दयतेऽङ्गानि स गर्भश्चेतनान्वितः ||७||
यथा हि लोहनिष्यन्दो निषिक्तो बिम्बविग्रहम् |
उपैति तद्वज्जानीहि गर्भे जीवप्रवेशनम् ||८||
लोहपिण्डं यथा वह्निः प्रविशत्यभितापयन् |
तथा त्वमपि जानीहि गर्भे जीवोपपादनम् ||९||
यथा च दीपः शरणं दीप्यमानः प्रकाशयेत् |
एवमेव शरीराणि प्रकाशयति चेतना ||१०||
यद्यच्च कुरुते कर्म शुभं वा यदि वाशुभम् |
पूर्वदेहकृतं सर्वमवश्यमुपभुज्यते ||११||
ततस्तत्क्षीयते चैव पुनश्चान्यत्प्रचीयते |
यावत्तन्मोक्षयोगस्थं धर्मं नैवावबुध्यते ||१२||
तत्र धर्मं प्रवक्ष्यामि सुखी भवति येन वै |
आवर्तमानो जातीषु तथान्योन्यासु सत्तम ||१३||
दानं व्रतं ब्रह्मचर्यं यथोक्तव्रतधारणम् |
दमः प्रशान्तता चैव भूतानां चानुकम्पनम् ||१४||
संयमश्चानृशंस्यं च परस्वादानवर्जनम् |
व्यलीकानामकरणं भूतानां यत्र सा भुवि ||१५||
मातापित्रोश्च शुश्रूषा देवतातिथिपूजनम् |
गुरुपूजा घृणा शौचं नित्यमिन्द्रियसंयमः ||१६||
प्रवर्तनं शुभानां च तत्सतां वृत्तमुच्यते |
ततो धर्मः प्रभवति यः प्रजाः पाति शाश्वतीः ||१७||
एवं सत्सु सदा पश्येत्तत्र ह्येषा ध्रुवा स्थितिः |
आचारो धर्ममाचष्टे यस्मिन्सन्तो व्यवस्थिताः ||१८||
तेषु तद्धर्मनिक्षिप्तं यः स धर्मः सनातनः |
यस्तं समभिपद्येत न स दुर्गतिमाप्नुयात् ||१९||
अतो नियम्यते लोकः प्रमुह्य धर्मवर्त्मसु |
यस्तु योगी च मुक्तश्च स एतेभ्यो विशिष्यते ||२०||
वर्तमानस्य धर्मेण पुरुषस्य यथा तथा |
संसारतारणं ह्यस्य कालेन महता भवेत् ||२१||
एवं पूर्वकृतं कर्म सर्वो जन्तुर्निषेवते |
सर्वं तत्कारणं येन निकृतोऽयमिहागतः ||२२||
शरीरग्रहणं चास्य केन पूर्वं प्रकल्पितम् |
इत्येवं संशयो लोके तच्च वक्ष्याम्यतः परम् ||२३||
शरीरमात्मनः कृत्वा सर्वभूतपितामहः |
त्रैलोक्यमसृजद्ब्रह्मा कृत्स्नं स्थावरजङ्गमम् ||२४||
ततः प्रधानमसृजच्चेतना सा शरीरिणाम् |
यया सर्वमिदं व्याप्तं यां लोके परमां विदुः ||२५||
इह तत्क्षरमित्युक्तं परं त्वमृतमक्षरम् |
त्रयाणां मिथुनं सर्वमेकैकस्य पृथक्पृथक् ||२६||
असृजत्सर्वभूतानि पूर्वसृष्टः प्रजापतिः |
स्थावराणि च भूतानि इत्येषा पौर्विकी श्रुतिः ||२७||
तस्य कालपरीमाणमकरोत्स पितामहः |
भूतेषु परिवृत्तिं च पुनरावृत्तिमेव च ||२८||
यथात्र कश्चिन्मेधावी दृष्टात्मा पूर्वजन्मनि |
यत्प्रवक्ष्यामि तत्सर्वं यथावदुपपद्यते ||२९||
सुखदुःखे सदा सम्यगनित्ये यः प्रपश्यति |
कायं चामेध्यसङ्घातं विनाशं कर्मसंहितम् ||३०||
यच्च किञ्चित्सुखं तच्च सर्वं दुःखमिति स्मरन् |
संसारसागरं घोरं तरिष्यति सुदुस्तरम् ||३१||
जातीमरणरोगैश्च समाविष्टः प्रधानवित् |
चेतनावत्सु चैतन्यं समं भूतेषु पश्यति ||३२||
निर्विद्यते ततः कृत्स्नं मार्गमाणः परं पदम् |
तस्योपदेशं वक्ष्यामि याथातथ्येन सत्तम ||३३||
शाश्वतस्याव्ययस्याथ पदस्य ज्ञानमुत्तमम् |
प्रोच्यमानं मया विप्र निबोधेदमशेषतः ||३४||
१९
ब्राह्मण उवाच||
यः स्यादेकायने लीनस्तूष्णीं किञ्चिदचिन्तयन् |
पूर्वं पूर्वं परित्यज्य स निरारम्भको भवेत् ||१||
सर्वमित्रः सर्वसहः समरक्तो जितेन्द्रियः |
व्यपेतभयमन्युश्च कामहा मुच्यते नरः ||२||
आत्मवत्सर्वभूतेषु यश्चरेन्नियतः शुचिः |
अमानी निरभीमानः सर्वतो मुक्त एव सः ||३||
जीवितं मरणं चोभे सुखदुःखे तथैव च |
लाभालाभे प्रियद्वेष्ये यः समः स च मुच्यते ||४||
न कस्यचित्स्पृहयते नावजानाति किञ्चन |
निर्द्वंद्वो वीतरागात्मा सर्वतो मुक्त एव सः ||५||
अनमित्रोऽथ निर्बन्धुरनपत्यश्च यः क्वचित् |
त्यक्तधर्मार्थकामश्च निराकाङ्क्षी स मुच्यते ||६||
नैव धर्मी न चाधर्मी पूर्वोपचितहा च यः |
धातुक्षयप्रशान्तात्मा निर्द्वंद्वः स विमुच्यते ||७||
अकर्मा चाविकाङ्क्षश्च पश्यञ्जगदशाश्वतम् |
अस्वस्थमवशं नित्यं जन्मसंसारमोहितम् ||८||
वैराग्यबुद्धिः सततं तापदोषव्यपेक्षकः |
आत्मबन्धविनिर्मोक्षं स करोत्यचिरादिव ||९||
अगन्धरसमस्पर्शमशब्दमपरिग्रहम् |
अरूपमनभिज्ञेयं दृष्ट्वात्मानं विमुच्यते ||१०||
पञ्चभूतगुणैर्हीनममूर्तिमदलेपकम् |
अगुणं गुणभोक्तारं यः पश्यति स मुच्यते ||११||
विहाय सर्वसङ्कल्पान्बुद्ध्या शारीरमानसान् |
शनैर्निर्वाणमाप्नोति निरिन्धन इवानलः ||१२||
विमुक्तः सर्वसंस्कारैस्ततो ब्रह्म सनातनम् |
परमाप्नोति संशान्तमचलं दिव्यमक्षरम् ||१३||
अतः परं प्रवक्ष्यामि योगशास्त्रमनुत्तमम् |
यज्ज्ञात्वा सिद्धमात्मानं लोके पश्यन्ति योगिनः ||१४||
तस्योपदेशं पश्यामि यथावत्तन्निबोध मे |
यैर्द्वारैश्चारयन्नित्यं पश्यत्यात्मानमात्मनि ||१५||
इन्द्रियाणि तु संहृत्य मन आत्मनि धारयेत् |
तीव्रं तप्त्वा तपः पूर्वं ततो योक्तुमुपक्रमेत् ||१६||
तपस्वी त्यक्तसङ्कल्पो दम्भाहङ्कारवर्जितः |
मनीषी मनसा विप्रः पश्यत्यात्मानमात्मनि ||१७||
स चेच्छक्नोत्ययं साधुर्योक्तुमात्मानमात्मनि |
तत एकान्तशीलः स पश्यत्यात्मानमात्मनि ||१८||
संयतः सततं युक्त आत्मवान्विजितेन्द्रियः |
तथायमात्मनात्मानं साधु युक्तः प्रपश्यति ||१९||
यथा हि पुरुषः स्वप्ने दृष्ट्वा पश्यत्यसाविति |
तथारूपमिवात्मानं साधु युक्तः प्रपश्यति ||२०||
इषीकां वा यथा मुञ्जात्कश्चिन्निर्हृत्य दर्शयेत् |
योगी निष्कृष्टमात्मानं तथा सम्पश्यते तनौ ||२१||
मुञ्जं शरीरं तस्याहुरिषीकामात्मनि श्रिताम् |
एतन्निदर्शनं प्रोक्तं योगविद्भिरनुत्तमम् ||२२||
यदा हि युक्तमात्मानं सम्यक्पश्यति देहभृत् |
तदास्य नेशते कश्चित्त्रैलोक्यस्यापि यः प्रभुः ||२३||
अन्योन्याश्चैव तनवो यथेष्टं प्रतिपद्यते |
विनिवृत्य जरामृत्यू न हृष्यति न शोचति ||२४||
देवानामपि देवत्वं युक्तः कारयते वशी |
ब्रह्म चाव्ययमाप्नोति हित्वा देहमशाश्वतम् ||२५||
विनश्यत्स्वपि लोकेषु न भयं तस्य जायते |
क्लिश्यमानेषु भूतेषु न स क्लिश्यति केनचित् ||२६||
दुःखशोकमयैर्घोरैः सङ्गस्नेहसमुद्भवैः |
न विचाल्येत युक्तात्मा निःस्पृहः शान्तमानसः ||२७||
नैनं शस्त्राणि विध्यन्ते न मृत्युश्चास्य विद्यते |
नातः सुखतरं किञ्चिल्लोके क्वचन विद्यते ||२८||
सम्यग्युक्त्वा यदात्मानमात्मन्येव प्रपश्यति |
तदैव न स्पृहयते साक्षादपि शतक्रतोः ||२९||
निर्वेदस्तु न गन्तव्यो युञ्जानेन कथञ्चन |
योगमेकान्तशीलस्तु यथा युञ्जीत तच्छृणु ||३०||
दृष्टपूर्वां दिशं चिन्त्य यस्मिन्संनिवसेत्पुरे |
पुरस्याभ्यन्तरे तस्य मनश्चार्यं न बाह्यतः ||३१||
पुरस्याभ्यन्तरे तिष्ठन्यस्मिन्नावसथे वसेत् |
तस्मिन्नावसथे धार्यं सबाह्याभ्यन्तरं मनः ||३२||
प्रचिन्त्यावसथं कृत्स्नं यस्मिन्कायेऽवतिष्ठते |
तस्मिन्काये मनश्चार्यं न कथञ्चन बाह्यतः ||३३||
संनियम्येन्द्रियग्रामं निर्घोषे निर्जने वने |
कायमभ्यन्तरं कृत्स्नमेकाग्रः परिचिन्तयेत् ||३४||
दन्तांस्तालु च जिह्वां च गलं ग्रीवां तथैव च |
हृदयं चिन्तयेच्चापि तथा हृदयबन्धनम् ||३५||
इत्युक्तः स मया शिष्यो मेधावी मधुसूदन |
पप्रच्छ पुनरेवेमं मोक्षधर्मं सुदुर्वचम् ||३६||
भुक्तं भुक्तं कथमिदमन्नं कोष्ठे विपच्यते |
कथं रसत्वं व्रजति शोणितं जायते कथम् ||३७||
तथा मांसं च मेदश्च स्नाय्वस्थीनि च पोषति ||३७||
कथमेतानि सर्वाणि शरीराणि शरीरिणाम् |
वर्धन्ते वर्धमानस्य वर्धते च कथं बलम् ||३८||
निरोजसां निष्क्रमणं मलानां च पृथक्पृथक् ||३८||
कुतो वायं प्रश्वसिति उच्छ्वसित्यपि वा पुनः |
कं च देशमधिष्ठाय तिष्ठत्यात्मायमात्मनि ||३९||
जीवः कायं वहति चेच्चेष्टयानः कलेवरम् |
किंवर्णं कीदृशं चैव निवेशयति वै मनः ||४०||
याथातथ्येन भगवन्वक्तुमर्हसि मेऽनघ ||४०||
इति सम्परिपृष्टोऽहं तेन विप्रेण माधव |
प्रत्यब्रुवं महाबाहो यथाश्रुतमरिंदम ||४१||
यथा स्वकोष्ठे प्रक्षिप्य कोष्ठं भाण्डमना भवेत् |
तथा स्वकाये प्रक्षिप्य मनो द्वारैरनिश्चलैः ||४२||
आत्मानं तत्र मार्गेत प्रमादं परिवर्जयेत् ||४२||
एवं सततमुद्युक्तः प्रीतात्मा नचिरादिव |
आसादयति तद्ब्रह्म यद्दृष्ट्वा स्यात्प्रधानवित् ||४३||
न त्वसौ चक्षुषा ग्राह्यो न च सर्वैरपीन्द्रियैः |
मनसैव प्रदीपेन महानात्मनि दृश्यते ||४४||
सर्वतःपाणिपादं तं सर्वतोक्षिशिरोमुखम् |
जीवो निष्क्रान्तमात्मानं शरीरात्सम्प्रपश्यति ||४५||
स तदुत्सृज्य देहं स्वं धारयन्ब्रह्म केवलम् |
आत्मानमालोकयति मनसा प्रहसन्निव ||४६||
इदं सर्वरहस्यं ते मयोक्तं द्विजसत्तम |
आपृच्छे साधयिष्यामि गच्छ शिष्य यथासुखम् ||४७||
इत्युक्तः स तदा कृष्ण मया शिष्यो महातपाः |
अगच्छत यथाकामं ब्राह्मणश्छिन्नसंशयः ||४८||
वासुदेव उवाच||
इत्युक्त्वा स तदा वाक्यं मां पार्थ द्विजपुङ्गवः |
मोक्षधर्माश्रितः सम्यक्तत्रैवान्तरधीयत ||४९||
कच्चिदेतत्त्वया पार्थ श्रुतमेकाग्रचेतसा |
तदापि हि रथस्थस्त्वं श्रुतवानेतदेव हि ||५०||
नैतत्पार्थ सुविज्ञेयं व्यामिश्रेणेति मे मतिः |
नरेणाकृतसञ्ज्ञेन विदग्धेनाकृतात्मना ||५१||
सुरहस्यमिदं प्रोक्तं देवानां भरतर्षभ |
कच्चिन्नेदं श्रुतं पार्थ मर्त्येनान्येन केनचित् ||५२||
न ह्येतच्छ्रोतुमर्होऽन्यो मनुष्यस्त्वामृतेऽनघ |
नैतदद्य सुविज्ञेयं व्यामिश्रेणान्तरात्मना ||५३||
क्रियावद्भिर्हि कौन्तेय देवलोकः समावृतः |
न चैतदिष्टं देवानां मर्त्यै रूपनिवर्तनम् ||५४||
परा हि सा गतिः पार्थ यत्तद्ब्रह्म सनातनम् |
यत्रामृतत्वं प्राप्नोति त्यक्त्वा दुःखं सदा सुखी ||५५||
एवं हि धर्ममास्थाय येऽपि स्युः पापयोनयः |
स्त्रियो वैश्यास्तथा शूद्रास्तेऽपि यान्ति परां गतिम् ||५६||
किं पुनर्ब्राह्मणाः पार्थ क्षत्रिया वा बहुश्रुताः |
स्वधर्मरतयो नित्यं ब्रह्मलोकपरायणाः ||५७||
हेतुमच्चैतदुद्दिष्टमुपायाश्चास्य साधने |
सिद्धेः फलं च मोक्षश्च दुःखस्य च विनिर्णयः ||५८||
अतः परं सुखं त्वन्यत्किं नु स्याद्भरतर्षभ ||५८||
श्रुतवाञ्श्रद्दधानश्च पराक्रान्तश्च पाण्डव |
यः परित्यजते मर्त्यो लोकतन्त्रमसारवत् ||५९||
एतैरुपायैः स क्षिप्रं परां गतिमवाप्नुयात् ||५९||
एतावदेव वक्तव्यं नातो भूयोऽस्ति किञ्चन |
षण्मासान्नित्ययुक्तस्य योगः पार्थ प्रवर्तते ||६०||
२०
वासुदेव उवाच||
अत्राप्युदाहरन्तीममितिहासं पुरातनम् |
दम्पत्योः पार्थ संवादमभयं नाम नामतः ||१||
ब्राह्मणी ब्राह्मणं कञ्चिज्ज्ञानविज्ञानपारगम् |
दृष्ट्वा विविक्त आसीनं भार्या भर्तारमब्रवीत् ||२||
कं नु लोकं गमिष्यामि त्वामहं पतिमाश्रिता |
न्यस्तकर्माणमासीनं कीनाशमविचक्षणम् ||३||
भार्याः पतिकृताँल्लोकानाप्नुवन्तीति नः श्रुतम् |
त्वामहं पतिमासाद्य कां गमिष्यामि वै गतिम् ||४||
एवमुक्तः स शान्तात्मा तामुवाच हसन्निव |
सुभगे नाभ्यसूयामि वाक्यस्यास्य तवानघे ||५||
ग्राह्यं दृश्यं च श्राव्यं च यदिदं कर्म विद्यते |
एतदेव व्यवस्यन्ति कर्म कर्मेति कर्मिणः ||६||
मोहमेव नियच्छन्ति कर्मणा ज्ञानवर्जिताः |
नैष्कर्म्यं न च लोकेऽस्मिन्मौर्तमित्युपलभ्यते ||७||
कर्मणा मनसा वाचा शुभं वा यदि वाशुभम् |
जन्मादिमूर्तिभेदानां कर्म भूतेषु वर्तते ||८||
रक्षोभिर्वध्यमानेषु दृश्यद्रव्येषु कर्मसु |
आत्मस्थमात्मना तेन दृष्टमायतनं मया ||९||
यत्र तद्ब्रह्म निर्द्वंद्वं यत्र सोमः सहाग्निना |
व्यवायं कुरुते नित्यं धीरो भूतानि धारयन् ||१०||
यत्र ब्रह्मादयो युक्तास्तदक्षरमुपासते |
विद्वांसः सुव्रता यत्र शान्तात्मानो जितेन्द्रियाः ||११||
घ्राणेन न तदाघ्रेयं न तदाद्यं च जिह्वया |
स्पर्शेन च न तत्स्पृश्यं मनसा त्वेव गम्यते ||१२||
चक्षुषा न विषह्यं च यत्किञ्चिच्छ्रवणात्परम् |
अगन्धमरसस्पर्शमरूपाशब्दमव्ययम् ||१३||
यतः प्रवर्तते तन्त्रं यत्र च प्रतितिष्ठति |
प्राणोऽपानः समानश्च व्यानश्चोदान एव च ||१४||
तत एव प्रवर्तन्ते तमेव प्रविशन्ति च |
समानव्यानयोर्मध्ये प्राणापानौ विचेरतुः ||१५||
तस्मिन्सुप्ते प्रलीयेते समानो व्यान एव च |
अपानप्राणयोर्मध्ये उदानो व्याप्य तिष्ठति ||१६||
तस्माच्छयानं पुरुषं प्राणापानौ न मुञ्चतः ||१६||
प्राणानायम्यते येन तमुदानं प्रचक्षते |
तस्मात्तपो व्यवस्यन्ति तद्भवं ब्रह्मवादिनः ||१७||
तेषामन्योन्यभक्षाणां सर्वेषां देहचारिणाम् |
अग्निर्वैश्वानरो मध्ये सप्तधा विहितोऽन्तरा ||१८||
घ्राणं जिह्वा च चक्षुश्च त्वक्च श्रोत्रं च पञ्चमम् |
मनो बुद्धिश्च सप्तैता जिह्वा वैश्वानरार्चिषः ||१९||
घ्रेयं पेयं च दृश्यं च स्पृश्यं श्रव्यं तथैव च |
मन्तव्यमथ बोद्धव्यं ताः सप्त समिधो मम ||२०||
घ्राता भक्षयिता द्रष्टा स्प्रष्टा श्रोता च पञ्चमः |
मन्ता बोद्धा च सप्तैते भवन्ति परमर्त्विजः ||२१||
घ्रेये पेये च दृश्ये च स्पृश्ये श्रव्ये तथैव च |
हवींष्यग्निषु होतारः सप्तधा सप्त सप्तसु ||२२||
सम्यक्प्रक्षिप्य विद्वांसो जनयन्ति स्वयोनिषु ||२२||
पृथिवी वायुराकाशमापो ज्योतिश्च पञ्चमम् |
मनो बुद्धिश्च सप्तैते योनिरित्येव शब्दिताः ||२३||
हविर्भूता गुणाः सर्वे प्रविशन्त्यग्निजं मुखम् |
अन्तर्वासमुषित्वा च जायन्ते स्वासु योनिषु ||२४||
तत्रैव च निरुध्यन्ते प्रलये भूतभावने ||२४||
ततः सञ्जायते गन्धस्ततः सञ्जायते रसः |
ततः सञ्जायते रूपं ततः स्पर्शोऽभिजायते ||२५||
ततः सञ्जायते शब्दः संशयस्तत्र जायते |
ततः सञ्जायते निष्ठा जन्मैतत्सप्तधा विदुः ||२६||
अनेनैव प्रकारेण प्रगृहीतं पुरातनैः |
पूर्णाहुतिभिरापूर्णास्तेऽभिपूर्यन्ति तेजसा ||२७||
२१
ब्राह्मण उवाच||
अत्राप्युदाहरन्तीममितिहासं पुरातनम् |
निबोध दशहोतॄणां विधानमिह यादृशम् ||१||
सर्वमेवात्र विज्ञेयं चित्तं ज्ञानमवेक्षते |
रेतः शरीरभृत्काये विज्ञाता तु शरीरभृत् ||२||
शरीरभृद्गार्हपत्यस्तस्मादन्यः प्रणीयते |
ततश्चाहवनीयस्तु तस्मिन्सङ्क्षिप्यते हविः ||३||
ततो वाचस्पतिर्जज्ञे समानः पर्यवेक्षते |
रूपं भवति वै व्यक्तं तदनुद्रवते मनः ||४||
ब्राह्मण्युवाच||
कस्माद्वागभवत्पूर्वं कस्मात्पश्चान्मनोऽभवत् |
मनसा चिन्तितं वाक्यं यदा समभिपद्यते ||५||
केन विज्ञानयोगेन मतिश्चित्तं समास्थिता |
समुन्नीता नाध्यगच्छत्को वैनां प्रतिषेधति ||६||
ब्राह्मण उवाच||
तामपानः पतिर्भूत्वा तस्मात्प्रेष्यत्यपानताम् |
तां मतिं मनसः प्राहुर्मनस्तस्मादवेक्षते ||७||
प्रश्नं तु वाङ्मनसोर्मां यस्मात्त्वमनुपृच्छसि |
तस्मात्ते वर्तयिष्यामि तयोरेव समाह्वयम् ||८||
उभे वाङ्मनसी गत्वा भूतात्मानमपृच्छताम् |
आवयोः श्रेष्ठमाचक्ष्व छिन्धि नौ संशयं विभो ||९||
मन इत्येव भगवांस्तदा प्राह सरस्वतीम् |
अहं वै कामधुक्तुभ्यमिति तं प्राह वागथ ||१०||
स्थावरं जङ्गमं चैव विद्ध्युभे मनसी मम |
स्थावरं मत्सकाशे वै जङ्गमं विषये तव ||११||
यस्तु ते विषयं गच्छेन्मन्त्रो वर्णः स्वरोऽपि वा |
तन्मनो जङ्गमं नाम तस्मादसि गरीयसी ||१२||
यस्मादसि च मा वोचः स्वयमभ्येत्य शोभने |
तस्मादुच्छ्वासमासाद्य न वक्ष्यसि सरस्वति ||१३||
प्राणापानान्तरे देवी वाग्वै नित्यं स्म तिष्ठति |
प्रेर्यमाणा महाभागे विना प्राणमपानती ||१४||
प्रजापतिमुपाधावत्प्रसीद भगवन्निति ||१४||
ततः प्राणः प्रादुरभूद्वाचमाप्याययन्पुनः |
तस्मादुच्छ्वासमासाद्य न वाग्वदति कर्हिचित् ||१५||
घोषिणी जातनिर्घोषा नित्यमेव प्रवर्तते |
तयोरपि च घोषिण्योर्निर्घोषैव गरीयसी ||१६||
गौरिव प्रस्रवत्येषा रसमुत्तमशालिनी |
सततं स्यन्दते ह्येषा शाश्वतं ब्रह्मवादिनी ||१७||
दिव्यादिव्यप्रभावेन भारती गौः शुचिस्मिते |
एतयोरन्तरं पश्य सूक्ष्मयोः स्यन्दमानयोः ||१८||
अनुत्पन्नेषु वाक्येषु चोद्यमाना सिसृक्षया |
किं नु पूर्वं ततो देवी व्याजहार सरस्वती ||१९||
प्राणेन या सम्भवते शरीरे; प्राणादपानं प्रतिपद्यते च |
उदानभूता च विसृज्य देहं; व्यानेन सर्वं दिवमावृणोति ||२०||
ततः समाने प्रतितिष्ठतीह; इत्येव पूर्वं प्रजजल्प चापि |
तस्मान्मनः स्थावरत्वाद्विशिष्टं; तथा देवी जङ्गमत्वाद्विशिष्टा ||२१||
२२
ब्राह्मण उवाच||
अत्राप्युदाहरन्तीममितिहासं पुरातनम् |
सुभगे सप्तहोतॄणां विधानमिह यादृशम् ||१||
घ्राणं चक्षुश्च जिह्वा च त्वक्ष्रोत्रं चैव पञ्चमम् |
मनो बुद्धिश्च सप्तैते होतारः पृथगाश्रिताः ||२||
सूक्ष्मेऽवकाशे सन्तस्ते न पश्यन्तीतरेतरम् |
एतान्वै सप्तहोतॄंस्त्वं स्वभावाद्विद्धि शोभने ||३||
ब्राह्मण्युवाच||
सूक्ष्मेऽवकाशे सन्तस्ते कथं नान्योन्यदर्शिनः |
कथंस्वभावा भगवन्नेतदाचक्ष्व मे विभो ||४||
ब्राह्मण उवाच||
गुणाज्ञानमविज्ञानं गुणिज्ञानमभिज्ञता |
परस्परगुणानेते न विजानन्ति कर्हिचित् ||५||
जिह्वा चक्षुस्तथा श्रोत्रं त्वङ्मनो बुद्धिरेव च |
न गन्धानधिगच्छन्ति घ्राणस्तानधिगच्छति ||६||
घ्राणं चक्षुस्तथा श्रोत्रं त्वङ्मनो बुद्धिरेव च |
न रसानधिगच्छन्ति जिह्वा तानधिगच्छति ||७||
घ्राणं जिह्वा तथा श्रोत्रं त्वङ्मनो बुद्धिरेव च |
न रूपाण्यधिगच्छन्ति चक्षुस्तान्यधिगच्छति ||८||
घ्राणं जिह्वा च चक्षुश्च श्रोत्रं बुद्धिर्मनस्तथा |
न स्पर्शानधिगच्छन्ति त्वक्च तानधिगच्छति ||९||
घ्राणं जिह्वा च चक्षुश्च त्वङ्मनो बुद्धिरेव च |
न शब्दानधिगच्छन्ति श्रोत्रं तानधिगच्छति ||१०||
घ्राणं जिह्वा च चक्षुश्च त्वक्ष्रोत्रं बुद्धिरेव च |
संशयान्नाधिगच्छन्ति मनस्तानधिगच्छति ||११||
घ्राणं जिह्वा च चक्षुश्च त्वक्ष्रोत्रं मन एव च |
न निष्ठामधिगच्छन्ति बुद्धिस्तामधिगच्छति ||१२||
अत्राप्युदाहरन्तीममितिहासं पुरातनम् |
इन्द्रियाणां च संवादं मनसश्चैव भामिनि ||१३||
मन उवाच||
न घ्राति मामृते घ्राणं रसं जिह्वा न बुध्यते |
रूपं चक्षुर्न गृह्णाति त्वक्स्पर्शं नावबुध्यते ||१४||
न श्रोत्रं बुध्यते शब्दं मया हीनं कथञ्चन |
प्रवरं सर्वभूतानामहमस्मि सनातनम् ||१५||
अगाराणीव शून्यानि शान्तार्चिष इवाग्नयः |
इन्द्रियाणि न भासन्ते मया हीनानि नित्यशः ||१६||
काष्ठानीवार्द्रशुष्काणि यतमानैरपीन्द्रियैः |
गुणार्थान्नाधिगच्छन्ति मामृते सर्वजन्तवः ||१७||
इन्द्रियाण्यूचुः||
एवमेतद्भवेत्सत्यं यथैतन्मन्यते भवान् |
ऋतेऽस्मानस्मदर्थांस्तु भोगान्भुङ्क्ते भवान्यदि ||१८||
यद्यस्मासु प्रलीनेषु तर्पणं प्राणधारणम् |
भोगान्भुङ्क्षे रसान्भुङ्क्षे यथैतन्मन्यते तथा ||१९||
अथ वास्मासु लीनेषु तिष्ठत्सु विषयेषु च |
यदि सङ्कल्पमात्रेण भुङ्क्ते भोगान्यथार्थवत् ||२०||
अथ चेन्मन्यसे सिद्धिमस्मदर्थेषु नित्यदा |
घ्राणेन रूपमादत्स्व रसमादत्स्व चक्षुषा ||२१||
श्रोत्रेण गन्धमादत्स्व निष्ठामादत्स्व जिह्वया |
त्वचा च शब्दमादत्स्व बुद्ध्या स्पर्शमथापि च ||२२||
बलवन्तो ह्यनियमा नियमा दुर्बलीयसाम् |
भोगानपूर्वानादत्स्व नोच्छिष्टं भोक्तुमर्हसि ||२३||
यथा हि शिष्यः शास्तारं श्रुत्यर्थमभिधावति |
ततः श्रुतमुपादाय श्रुतार्थमुपतिष्ठति ||२४||
विषयानेवमस्माभिर्दर्शितानभिमन्यसे |
अनागतानतीतांश्च स्वप्ने जागरणे तथा ||२५||
वैमनस्यं गतानां च जन्तूनामल्पचेतसाम् |
अस्मदर्थे कृते कार्ये दृश्यते प्राणधारणम् ||२६||
बहूनपि हि सङ्कल्पान्मत्वा स्वप्नानुपास्य च |
बुभुक्षया पीड्यमानो विषयानेव धावसि ||२७||
अगारमद्वारमिव प्रविश्य; सङ्कल्पभोगो विषयानविन्दन् |
प्राणक्षये शान्तिमुपैति नित्यं; दारुक्षयेऽग्निर्ज्वलितो यथैव ||२८||
कामं तु नः स्वेषु गुणेषु सङ्गः; कामं च नान्योन्यगुणोपलब्धिः |
अस्मानृते नास्ति तवोपलब्धि; स्त्वामप्यृतेऽस्मान्न भजेत हर्षः ||२९||
२३
ब्राह्मण उवाच||
अत्राप्युदाहरन्तीममितिहासं पुरातनम् |
सुभगे पञ्चहोतॄणां विधानमिह यादृशम् ||१||
प्राणापानावुदानश्च समानो व्यान एव च |
पञ्चहोतॄनथैतान्वै परं भावं विदुर्बुधाः ||२||
ब्राह्मण्युवाच||
स्वभावात्सप्त होतार इति ते पूर्विका मतिः |
यथा वै पञ्च होतारः परो भावस्तथोच्यताम् ||३||
ब्राह्मण उवाच||
प्राणेन सम्भृतो वायुरपानो जायते ततः |
अपाने सम्भृतो वायुस्ततो व्यानः प्रवर्तते ||४||
व्यानेन सम्भृतो वायुस्ततोदानः प्रवर्तते |
उदाने सम्भृतो वायुः समानः सम्प्रवर्तते ||५||
तेऽपृच्छन्त पुरा गत्वा पूर्वजातं प्रजापतिम् |
यो नो ज्येष्ठस्तमाचक्ष्व स नः श्रेष्ठो भविष्यति ||६||
ब्रह्मोवाच||
यस्मिन्प्रलीने प्रलयं व्रजन्ति; सर्वे प्राणाः प्राणभृतां शरीरे |
यस्मिन्प्रचीर्णे च पुनश्चरन्ति; स वै श्रेष्ठो गच्छत यत्र कामः ||७||
प्राण उवाच||
मयि प्रलीने प्रलयं व्रजन्ति; सर्वे प्राणाः प्राणभृतां शरीरे |
मयि प्रचीर्णे च पुनश्चरन्ति; श्रेष्ठो ह्यहं पश्यत मां प्रलीनम् ||८||
ब्राह्मण उवाच||
प्राणः प्रलीयत ततः पुनश्च प्रचचार ह |
समानश्चाप्युदानश्च वचोऽब्रूतां ततः शुभे ||९||
न त्वं सर्वमिदं व्याप्य तिष्ठसीह यथा वयम् |
न त्वं श्रेष्ठोऽसि नः प्राण अपानो हि वशे तव ||१०||
प्रचचार पुनः प्राणस्तमपानोऽभ्यभाषत ||१०||
मयि प्रलीने प्रलयं व्रजन्ति; सर्वे प्राणाः प्राणभृतां शरीरे |
मयि प्रचीर्णे च पुनश्चरन्ति; श्रेष्ठो ह्यहं पश्यत मां प्रलीनम् ||११||
व्यानश्च तमुदानश्च भाषमाणमथोचतुः |
अपान न त्वं श्रेष्ठोऽसि प्राणो हि वशगस्तव ||१२||
अपानः प्रचचाराथ व्यानस्तं पुनरब्रवीत् |
श्रेष्ठोऽहमस्मि सर्वेषां श्रूयतां येन हेतुना ||१३||
मयि प्रलीने प्रलयं व्रजन्ति; सर्वे प्राणाः प्राणभृतां शरीरे |
मयि प्रचीर्णे च पुनश्चरन्ति; श्रेष्ठो ह्यहं पश्यत मां प्रलीनम् ||१४||
प्रालीयत ततो व्यानः पुनश्च प्रचचार ह |
प्राणापानावुदानश्च समानश्च तमब्रुवन् ||१५||
न त्वं श्रेष्ठोऽसि नो व्यान समानो हि वशे तव ||१५||
प्रचचार पुनर्व्यानः समानः पुनरब्रवीत् |
श्रेष्ठोऽहमस्मि सर्वेषां श्रूयतां येन हेतुना ||१६||
मयि प्रलीने प्रलयं व्रजन्ति; सर्वे प्राणाः प्राणभृतां शरीरे |
मयि प्रचीर्णे च पुनश्चरन्ति; श्रेष्ठो ह्यहं पश्यत मां प्रलीनम् ||१७||
ततः समानः प्रालिल्ये पुनश्च प्रचचार ह |
प्राणापानावुदानश्च व्यानश्चैव तमब्रुवन् ||१८||
समान न त्वं श्रेष्ठोऽसि व्यान एव वशे तव ||१८||
समानः प्रचचाराथ उदानस्तमुवाच ह |
श्रेष्ठोऽहमस्मि सर्वेषां श्रूयतां येन हेतुना ||१९||
मयि प्रलीने प्रलयं व्रजन्ति; सर्वे प्राणाः प्राणभृतां शरीरे |
मयि प्रचीर्णे च पुनश्चरन्ति; श्रेष्ठो ह्यहं पश्यत मां प्रलीनम् ||२०||
ततः प्रालीयतोदानः पुनश्च प्रचचार ह |
प्राणापानौ समानश्च व्यानश्चैव तमब्रुवन् ||२१||
उदान न त्वं श्रेष्ठोऽसि व्यान एव वशे तव ||२१||
ततस्तानब्रवीद्ब्रह्मा समवेतान्प्रजापतिः |
सर्वे श्रेष्ठा न वा श्रेष्ठाः सर्वे चान्योन्यधर्मिणः ||२२||
सर्वे स्वविषये श्रेष्ठाः सर्वे चान्योन्यरक्षिणः ||२२||
एकः स्थिरश्चास्थिरश्च विशेषात्पञ्च वायवः |
एक एव ममैवात्मा बहुधाप्युपचीयते ||२३||
परस्परस्य सुहृदो भावयन्तः परस्परम् |
स्वस्ति व्रजत भद्रं वो धारयध्वं परस्परम् ||२४||
२४
ब्राह्मण उवाच||
अत्राप्युदाहरन्तीममितिहासं पुरातनम् |
नारदस्य च संवादमृषेर्देवमतस्य च ||१||
देवमत उवाच||
जन्तोः सञ्जायमानस्य किं नु पूर्वं प्रवर्तते |
प्राणोऽपानः समानो वा व्यानो वोदान एव च ||२||
नारद उवाच||
येनायं सृज्यते जन्तुस्ततोऽन्यः पूर्वमेति तम् |
प्राणद्वंद्वं च विज्ञेयं तिर्यगं चोर्ध्वगं च यत् ||३||
देवमत उवाच||
केनायं सृज्यते जन्तुः कश्चान्यः पूर्वमेति तम् |
प्राणद्वंद्वं च मे ब्रूहि तिर्यगूर्ध्वं च निश्चयात् ||४||
नारद उवाच||
सङ्कल्पाज्जायते हर्षः शब्दादपि च जायते |
रसात्सञ्जायते चापि रूपादपि च जायते ||५||
स्पर्शात्सञ्जायते चापि गन्धादपि च जायते |
एतद्रूपमुदानस्य हर्षो मिथुनसम्भवः ||६||
कामात्सञ्जायते शुक्रं कामात्सञ्जायते रसः |
समानव्यानजनिते सामान्ये शुक्रशोणिते ||७||
शुक्राच्छोणितसंसृष्टात्पूर्वं प्राणः प्रवर्तते |
प्राणेन विकृते शुक्रे ततोऽपानः प्रवर्तते ||८||
प्राणापानाविदं द्वंद्वमवाक्चोर्ध्वं च गच्छतः |
व्यानः समानश्चैवोभौ तिर्यग्द्वंद्वत्वमुच्यते ||९||
अग्निर्वै देवताः सर्वा इति वेदस्य शासनम् |
सञ्जायते ब्राह्मणेषु ज्ञानं बुद्धिसमन्वितम् ||१०||
तस्य धूमस्तमोरूपं रजो भस्म सुरेतसः |
सत्त्वं सञ्जायते तस्य यत्र प्रक्षिप्यते हविः ||११||
आघारौ समानो व्यानश्च इति यज्ञविदो विदुः |
प्राणापानावाज्यभागौ तयोर्मध्ये हुताशनः ||१२||
एतद्रूपमुदानस्य परमं ब्राह्मणा विदुः ||१२||
निर्द्वंद्वमिति यत्त्वेतत्तन्मे निगदतः शृणु |
अहोरात्रमिदं द्वंद्वं तयोर्मध्ये हुताशनः |
एतद्रूपमुदानस्य परमं ब्राह्मणा विदुः ||१४||
उभे चैवायने द्वंद्वं तयोर्मध्ये हुताशनः |
एतद्रूपमुदानस्य परमं ब्राह्मणा विदुः ||१५||
उभे सत्यानृते द्वंद्वं तयोर्मध्ये हुताशनः |
एतद्रूपमुदानस्य परमं ब्राह्मणा विदुः ||१६||
उभे शुभाशुभे द्वंद्वं तयोर्मध्ये हुताशनः |
एतद्रूपमुदानस्य परमं ब्राह्मणा विदुः ||१७||
सच्चासच्चैव तद्द्वंद्वं तयोर्मध्ये हुताशनः |
एतद्रूपमुदानस्य परमं ब्राह्मणा विदुः ||१८||
प्रथमं समानो व्यानो व्यस्यते कर्म तेन तत् |
तृतीयं तु समानेन पुनरेव व्यवस्यते ||१९||
शान्त्यर्थं वामदेवं च शान्तिर्ब्रह्म सनातनम् |
एतद्रूपमुदानस्य परमं ब्राह्मणा विदुः ||२०||
२५
ब्राह्मण उवाच||
अत्राप्युदाहरन्तीममितिहासं पुरातनम् |
चातुर्होत्रविधानस्य विधानमिह यादृशम् ||१||
तस्य सर्वस्य विधिवद्विधानमुपदेक्ष्यते |
शृणु मे गदतो भद्रे रहस्यमिदमुत्तमम् ||२||
करणं कर्म कर्ता च मोक्ष इत्येव भामिनि |
चत्वार एते होतारो यैरिदं जगदावृतम् ||३||
होतॄणां साधनं चैव शृणु सर्वमशेषतः |
घ्राणं जिह्वा च चक्षुश्च त्वक्च श्रोत्रं च पञ्चमम् ||४||
मनो बुद्धिश्च सप्तैते विज्ञेया गुणहेतवः ||४||
गन्धो रसश्च रूपं च शब्दः स्पर्शश्च पञ्चमः |
मन्तव्यमथ बोद्धव्यं सप्तैते कर्महेतवः ||५||
घ्राता भक्षयिता द्रष्टा स्प्रष्टा श्रोता च पञ्चमः |
मन्ता बोद्धा च सप्तैते विज्ञेयाः कर्तृहेतवः ||६||
स्वगुणं भक्षयन्त्येते गुणवन्तः शुभाशुभम् |
अहं च निर्गुणोऽत्रेति सप्तैते मोक्षहेतवः ||७||
विदुषां बुध्यमानानां स्वं स्वं स्थानं यथाविधि |
गुणास्ते देवताभूताः सततं भुञ्जते हविः ||८||
अदन्ह्यविद्वानन्नानि ममत्वेनोपपद्यते |
आत्मार्थं पाचयन्नित्यं ममत्वेनोपहन्यते ||९||
अभक्ष्यभक्षणं चैव मद्यपानं च हन्ति तम् |
स चान्नं हन्ति तच्चान्नं स हत्वा हन्यते बुधः ||१०||
अत्ता ह्यन्नमिदं विद्वान्पुनर्जनयतीश्वरः |
स चान्नाज्जायते तस्मिन्सूक्ष्मो नाम व्यतिक्रमः ||११||
मनसा गम्यते यच्च यच्च वाचा निरुद्यते |
श्रोत्रेण श्रूयते यच्च चक्षुषा यच्च दृश्यते ||१२||
स्पर्शेन स्पृश्यते यच्च घ्राणेन घ्रायते च यत् |
मनःषष्ठानि संयम्य हवींष्येतानि सर्वशः ||१३||
गुणवत्पावको मह्यं दीप्यते हव्यवाहनः |
योगयज्ञः प्रवृत्तो मे ज्ञानब्रह्ममनोद्भवः ||१४||
प्राणस्तोत्रोऽपानशस्त्रः सर्वत्यागसुदक्षिणः ||१४||
कर्मानुमन्ता ब्रह्मा मे कर्ताध्वर्युः कृतस्तुतिः |
कृतप्रशास्ता तच्छास्त्रमपवर्गोऽस्य दक्षिणा ||१५||
ऋचश्चाप्यत्र शंसन्ति नारायणविदो जनाः |
नारायणाय देवाय यदबध्नन्पशून्पुरा ||१६||
तत्र सामानि गायन्ति तानि चाहुर्निदर्शनम् |
देवं नारायणं भीरु सर्वात्मानं निबोध मे ||१७||
२६
ब्राह्मण उवाच||
एकः शास्ता न द्वितीयोऽस्ति शास्ता; यथा नियुक्तोऽस्मि तथा चरामि |
हृद्येष तिष्ठन्पुरुषः शास्ति शास्ता; तेनैव युक्तः प्रवणादिवोदकम् ||१||
एको गुरुर्नास्ति ततो द्वितीयो; यो हृच्छयस्तमहमनुब्रवीमि |
तेनानुशिष्टा गुरुणा सदैव; पराभूता दानवाः सर्व एव ||२||
एको बन्धुर्नास्ति ततो द्वितीयो; यो हृच्छयस्तमहमनुब्रवीमि |
तेनानुशिष्टा बान्धवा बन्धुमन्तः; सप्तर्षयः सप्त दिवि प्रभान्ति ||३||
एकः श्रोता नास्ति ततो द्वितीयो; यो हृच्छयस्तमहमनुब्रवीमि |
तस्मिन्गुरौ गुरुवासं निरुष्य; शक्रो गतः सर्वलोकामरत्वम् ||४||
एको द्वेष्टा नास्ति ततो द्वितीयो; यो हृच्छयस्तमहमनुब्रवीमि |
तेनानुशिष्टा गुरुणा सदैव; लोकद्विष्टाः पन्नगाः सर्व एव ||५||
अत्राप्युदाहरन्तीममितिहासं पुरातनम् |
प्रजापतौ पन्नगानां देवर्षीणां च संविदम् ||६||
देवर्षयश्च नागाश्च असुराश्च प्रजापतिम् |
पर्यपृच्छन्नुपासीनाः श्रेयो नः प्रोच्यतामिति ||७||
तेषां प्रोवाच भगवाञ्श्रेयः समनुपृच्छताम् |
ओमित्येकाक्षरं ब्रह्म ते श्रुत्वा प्राद्रवन्दिशः ||८||
तेषां प्राद्रवमाणानामुपदेशार्थमात्मनः |
सर्पाणां दशने भावः प्रवृत्तः पूर्वमेव तु ||९||
असुराणां प्रवृत्तस्तु दम्भभावः स्वभावजः |
दानं देवा व्यवसिता दममेव महर्षयः ||१०||
एकं शास्तारमासाद्य शब्देनैकेन संस्कृताः |
नाना व्यवसिताः सर्वे सर्पदेवर्षिदानवाः ||११||
शृणोत्ययं प्रोच्यमानं गृह्णाति च यथातथम् |
पृच्छतस्तावतो भूयो गुरुरन्योऽनुमन्यते ||१२||
तस्य चानुमते कर्म ततः पश्चात्प्रवर्तते |
गुरुर्बोद्धा च शत्रुश्च द्वेष्टा च हृदि संश्रितः ||१३||
पापेन विचरँल्लोके पापचारी भवत्ययम् |
शुभेन विचरँल्लोके शुभचारी भवत्युत ||१४||
कामचारी तु कामेन य इन्द्रियसुखे रतः |
व्रतवारी सदैवैष य इन्द्रियजये रतः ||१५||
अपेतव्रतकर्मा तु केवलं ब्रह्मणि श्रितः |
ब्रह्मभूतश्चरँल्लोके ब्रह्मचारी भवत्ययम् ||१६||
ब्रह्मैव समिधस्तस्य ब्रह्माग्निर्ब्रह्मसंस्तरः |
आपो ब्रह्म गुरुर्ब्रह्म स ब्रह्मणि समाहितः ||१७||
एतदेतादृशं सूक्ष्मं ब्रह्मचर्यं विदुर्बुधाः |
विदित्वा चान्वपद्यन्त क्षेत्रज्ञेनानुदर्शिनः ||१८||
२७
ब्राह्मण उवाच||
सङ्कल्पदंशमशकं शोकहर्षहिमातपम् |
मोहान्धकारतिमिरं लोभव्यालसरीसृपम् ||१||
विषयैकात्ययाध्वानं कामक्रोधविरोधकम् |
तदतीत्य महादुर्गं प्रविष्टोऽस्मि महद्वनम् ||२||
ब्राह्मण्युवाच||
क्व तद्वनं महाप्राज्ञ के वृक्षाः सरितश्च काः |
गिरयः पर्वताश्चैव कियत्यध्वनि तद्वनम् ||३||
ब्राह्मण उवाच||
न तदस्ति पृथग्भावे किञ्चिदन्यत्ततः समम् |
न तदस्त्यपृथग्भावे किञ्चिद्दूरतरं ततः ||४||
तस्माद्ध्रस्वतरं नास्ति न ततोऽस्ति बृहत्तरम् |
नास्ति तस्माद्दुःखतरं नास्त्यन्यत्तत्समं सुखम् ||५||
न तत्प्रविश्य शोचन्ति न प्रहृष्यन्ति च द्विजाः |
न च बिभ्यति केषाञ्चित्तेभ्यो बिभ्यति के च न ||६||
तस्मिन्वने सप्त महाद्रुमाश्च; फलानि सप्तातिथयश्च सप्त |
सप्ताश्रमाः सप्त समाधयश्च; दीक्षाश्च सप्तैतदरण्यरूपम् ||७||
पञ्चवर्णानि दिव्यानि पुष्पाणि च फलानि च |
सृजन्तः पादपास्तत्र व्याप्य तिष्ठन्ति तद्वनम् ||८||
सुवर्णानि द्विवर्णानि पुष्पाणि च फलानि च |
सृजन्तः पादपास्तत्र व्याप्य तिष्ठन्ति तद्वनम् ||९||
चतुर्वर्णानि दिव्यानि पुष्पाणि च फलानि च |
सृजन्तः पादपास्तत्र व्याप्य तिष्ठन्ति तद्वनम् ||१०||
शङ्कराणि त्रिवर्णानि पुष्पाणि च फलानि च |
सृजन्तः पादपास्तत्र व्याप्य तिष्ठन्ति तद्वनम् ||११||
सुरभीण्येकवर्णानि पुष्पाणि च फलानि च |
सृजन्तः पादपास्तत्र व्याप्य तिष्ठन्ति तद्वनम् ||१२||
बहून्यव्यक्तवर्णानि पुष्पाणि च फलानि च |
विसृजन्तौ महावृक्षौ तद्वनं व्याप्य तिष्ठतः ||१३||
एको ह्यग्निः सुमना ब्राह्मणोऽत्र; पञ्चेन्द्रियाणि समिधश्चात्र सन्ति |
तेभ्यो मोक्षाः सप्त भवन्ति दीक्षा; गुणाः फलान्यतिथयः फलाशाः ||१४||
आतिथ्यं प्रतिगृह्णन्ति तत्र सप्त महर्षयः |
अर्चितेषु प्रलीनेषु तेष्वन्यद्रोचते वनम् ||१५||
प्रतिज्ञावृक्षमफलं शान्तिच्छायासमन्वितम् |
ज्ञानाश्रयं तृप्तितोयमन्तःक्षेत्रज्ञभास्करम् ||१६||
येऽधिगच्छन्ति तत्सन्तस्तेषां नास्ति भयं पुनः |
ऊर्ध्वं चावाक्च तिर्यक्च तस्य नान्तोऽधिगम्यते ||१७||
सप्त स्त्रियस्तत्र वसन्ति सद्यो; अवाङ्मुखा भानुमत्यो जनित्र्यः |
ऊर्ध्वं रसानां ददते प्रजाभ्यः; सर्वान्यथा सर्वमनित्यतां च ||१८||
तत्रैव प्रतितिष्ठन्ति पुनस्तत्रोदयन्ति च |
सप्त सप्तर्षयः सिद्धा वसिष्ठप्रमुखाः सह ||१९||
यशो वर्चो भगश्चैव विजयः सिद्धितेजसी |
एवमेवानुवर्तन्ते सप्त ज्योतींषि भास्करम् ||२०||
गिरयः पर्वताश्चैव सन्ति तत्र समासतः |
नद्यश्च सरितो वारि वहन्त्यो ब्रह्मसम्भवम् ||२१||
नदीनां सङ्गमस्तत्र वैतानः समुपह्वरे |
स्वात्मतृप्ता यतो यान्ति साक्षाद्दान्ताः पितामहम् ||२२||
कृशाशाः सुव्रताशाश्च तपसा दग्धकिल्बिषाः |
आत्मन्यात्मानमावेश्य ब्रह्माणं समुपासते ||२३||
ऋचमप्यत्र शंसन्ति विद्यारण्यविदो जनाः |
तदरण्यमभिप्रेत्य यथाधीरमजायत ||२४||
एतदेतादृशं दिव्यमरण्यं ब्राह्मणा विदुः |
विदित्वा चान्वतिष्ठन्त क्षेत्रज्ञेनानुदर्शितम् ||२५||
२८
ब्राह्मण उवाच||
गन्धान्न जिघ्रामि रसान्न वेद्मि; रूपं न पश्यामि न च स्पृशामि |
न चापि शब्दान्विविधाञ्शृणोमि; न चापि सङ्कल्पमुपैमि किञ्चित् ||१||
अर्थानिष्टान्कामयते स्वभावः; सर्वान्द्वेष्यान्प्रद्विषते स्वभावः |
कामद्वेषावुद्भवतः स्वभावा; त्प्राणापानौ जन्तुदेहान्निवेश्य ||२||
तेभ्यश्चान्यांस्तेष्वनित्यांश्च भावा; न्भूतात्मानं लक्षयेयं शरीरे |
तस्मिंस्तिष्ठन्नास्मि शक्यः कथं चि; त्कामक्रोधाभ्यां जरया मृत्युना च ||३||
अकामयानस्य च सर्वकामा; नविद्विषाणस्य च सर्वदोषान् |
न मे स्वभावेषु भवन्ति लेपा; स्तोयस्य बिन्दोरिव पुष्करेषु ||४||
नित्यस्य चैतस्य भवन्ति नित्या; निरीक्षमाणस्य बहून्स्वभावान् |
न सज्जते कर्मसु भोगजालं; दिवीव सूर्यस्य मयूखजालम् ||५||
अत्राप्युदाहरन्तीममितिहासं पुरातनम् |
अध्वर्युयतिसंवादं तं निबोध यशस्विनि ||६||
प्रोक्ष्यमाणं पशुं दृष्ट्वा यज्ञकर्मण्यथाब्रवीत् |
यतिरध्वर्युमासीनो हिंसेयमिति कुत्सयन् ||७||
तमध्वर्युः प्रत्युवाच नायं छागो विनश्यति |
श्रेयसा योक्ष्यते जन्तुर्यदि श्रुतिरियं तथा ||८||
यो ह्यस्य पार्थिवो भागः पृथिवीं स गमिष्यति |
यदस्य वारिजं किञ्चिदपस्तत्प्रतिपद्यते ||९||
सूर्यं चक्षुर्दिशः श्रोत्रे प्राणोऽस्य दिवमेव च |
आगमे वर्तमानस्य न मे दोषोऽस्ति कश्चन ||१०||
यतिरुवाच||
प्राणैर्वियोगे छागस्य यदि श्रेयः प्रपश्यसि |
छागार्थे वर्तते यज्ञो भवतः किं प्रयोजनम् ||११||
अनु त्वा मन्यतां माता पिता भ्राता सखापि च |
मन्त्रयस्वैनमुन्नीय परवन्तं विशेषतः ||१२||
य एवमनुमन्येरंस्तान्भवान्प्रष्टुमर्हति |
तेषामनुमतं श्रुत्वा शक्या कर्तुं विचारणा ||१३||
प्राणा अप्यस्य छागस्य प्रापितास्ते स्वयोनिषु |
शरीरं केवलं शिष्टं निश्चेष्टमिति मे मतिः ||१४||
इन्धनस्य तु तुल्येन शरीरेण विचेतसा |
हिंसा निर्वेष्टुकामानामिन्धनं पशुसञ्ज्ञितम् ||१५||
अहिंसा सर्वधर्माणामिति वृद्धानुशासनम् |
यदहिंस्रं भवेत्कर्म तत्कार्यमिति विद्महे ||१६||
अहिंसेति प्रतिज्ञेयं यदि वक्ष्याम्यतः परम् |
शक्यं बहुविधं वक्तुं भवतः कार्यदूषणम् ||१७||
अहिंसा सर्वभूतानां नित्यमस्मासु रोचते |
प्रत्यक्षतः साधयामो न परोक्षमुपास्महे ||१८||
अध्वर्युरुवाच||
भूमेर्गन्धगुणान्भुङ्क्षे पिबस्यापोमयान्रसान् |
ज्योतिषां पश्यसे रूपं स्पृशस्यनिलजान्गुणान् ||१९||
शृणोष्याकाशजं शब्दं मनसा मन्यसे मतिम् |
सर्वाण्येतानि भूतानि प्राणा इति च मन्यसे ||२०||
प्राणादाने च नित्योऽसि हिंसायां वर्तते भवान् |
नास्ति चेष्टा विना हिंसां किं वा त्वं मन्यसे द्विज ||२१||
यतिरुवाच||
अक्षरं च क्षरं चैव द्वैधीभावोऽयमात्मनः |
अक्षरं तत्र सद्भावः स्वभावः क्षर उच्यते ||२२||
प्राणो जिह्वा मनः सत्त्वं स्वभावो रजसा सह |
भावैरेतैर्विमुक्तस्य निर्द्वंद्वस्य निराशिषः ||२३||
समस्य सर्वभूतेषु निर्ममस्य जितात्मनः |
समन्तात्परिमुक्तस्य न भयं विद्यते क्वचित् ||२४||
अध्वर्युरुवाच||
सद्भिरेवेह संवासः कार्यो मतिमतां वर |
भवतो हि मतं श्रुत्वा प्रतिभाति मतिर्मम ||२५||
भगवन्भगवद्बुद्ध्या प्रतिबुद्धो ब्रवीम्यहम् |
मतं मन्तुं क्रतुं कर्तुं नापराधोऽस्ति मे द्विज ||२६||
ब्राह्मण उवाच||
उपपत्त्या यतिस्तूष्णीं वर्तमानस्ततः परम् |
अध्वर्युरपि निर्मोहः प्रचचार महामखे ||२७||
एवमेतादृशं मोक्षं सुसूक्ष्मं ब्राह्मणा विदुः |
विदित्वा चानुतिष्ठन्ति क्षेत्रज्ञेनानुदर्शिना ||२८||
२९
ब्राह्मण उवाच||
अत्राप्युदाहरन्तीममितिहासं पुरातनम् |
कार्तवीर्यस्य संवादं समुद्रस्य च भामिनि ||१||
कार्तवीर्यार्जुनो नाम राजा बाहुसहस्रवान् |
येन सागरपर्यन्ता धनुषा निर्जिता मही ||२||
स कदाचित्समुद्रान्ते विचरन्बलदर्पितः |
अवाकिरच्छरशतैः समुद्रमिति नः श्रुतम् ||३||
तं समुद्रो नमस्कृत्य कृताञ्जलिरुवाच ह |
मा मुञ्च वीर नाराचान्ब्रूहि किं करवाणि ते ||४||
मदाश्रयाणि भूतानि त्वद्विसृष्टैर्महेषुभिः |
वध्यन्ते राजशार्दूल तेभ्यो देह्यभयं विभो ||५||
अर्जुन उवाच||
मत्समो यदि सङ्ग्रामे शरासनधरः क्वचित् |
विद्यते तं ममाचक्ष्व यः समासीत मां मृधे ||६||
समुद्र उवाच||
महर्षिर्जमदग्निस्ते यदि राजन्परिश्रुतः |
तस्य पुत्रस्तवातिथ्यं यथावत्कर्तुमर्हति ||७||
ततः स राजा प्रययौ क्रोधेन महता वृतः |
स तमाश्रममागम्य राममेवान्वपद्यत ||८||
स रामप्रतिकूलानि चकार सह बन्धुभिः |
आयासं जनयामास रामस्य च महात्मनः ||९||
ततस्तेजः प्रजज्वाल रामस्यामिततेजसः |
प्रदहद्रिपुसैन्यानि तदा कमललोचने ||१०||
ततः परशुमादाय स तं बाहुसहस्रिणम् |
चिच्छेद सहसा रामो बाहुशाखमिव द्रुमम् ||११||
तं हतं पतितं दृष्ट्वा समेताः सर्वबान्धवाः |
असीनादाय शक्तीश्च भार्गवं पर्यवारयन् ||१२||
रामोऽपि धनुरादाय रथमारुह्य सत्वरः |
विसृजञ्शरवर्षाणि व्यधमत्पार्थिवं बलम् ||१३||
ततस्तु क्षत्रियाः केचिज्जमदग्निं निहत्य च |
विविशुर्गिरिदुर्गाणि मृगाः सिंहार्दिता इव ||१४||
तेषां स्वविहितं कर्म तद्भयान्नानुतिष्ठताम् |
प्रजा वृषलतां प्राप्ता ब्राह्मणानामदर्शनात् ||१५||
त एते द्रमिडाः काशाः पुण्ड्राश्च शबरैः सह |
वृषलत्वं परिगता व्युत्थानात्क्षत्रधर्मतः ||१६||
ततस्तु हतवीरासु क्षत्रियासु पुनः पुनः |
द्विजैरुत्पादितं क्षत्रं जामदग्न्यो न्यकृन्तत ||१७||
एकविंशतिमेधान्ते रामं वागशरीरिणी |
दिव्या प्रोवाच मधुरा सर्वलोकपरिश्रुता ||१८||
राम राम निवर्तस्व कं गुणं तात पश्यसि |
क्षत्रबन्धूनिमान्प्राणैर्विप्रयोज्य पुनः पुनः ||१९||
तथैव तं महात्मानमृचीकप्रमुखास्तदा |
पितामहा महाभाग निवर्तस्वेत्यथाब्रुवन् ||२०||
पितुर्वधममृष्यंस्तु रामः प्रोवाच तानृषीन् |
नार्हन्तीह भवन्तो मां निवारयितुमित्युत ||२१||
पितर ऊचुः||
नार्हसे क्षत्रबन्धूंस्त्वं निहन्तुं जयतां वर |
न हि युक्तं त्वया हन्तुं ब्राह्मणेन सता नृपान् ||२२||
३०
पितर ऊचुः||
अत्राप्युदाहरन्तीममितिहासं पुरातनम् |
श्रुत्वा च तत्तथा कार्यं भवता द्विजसत्तम ||१||
अलर्को नाम राजर्षिरभवत्सुमहातपाः |
धर्मज्ञः सत्यसन्धश्च महात्मा सुमहाव्रतः ||२||
स सागरान्तां धनुषा विनिर्जित्य महीमिमाम् |
कृत्वा सुदुष्करं कर्म मनः सूक्ष्मे समादधे ||३||
स्थितस्य वृक्षमूलेऽथ तस्य चिन्ता बभूव ह |
उत्सृज्य सुमहद्राज्यं सूक्ष्मं प्रति महामते ||४||
अलर्क उवाच||
मनसो मे बलं जातं मनो जित्वा ध्रुवो जयः |
अन्यत्र बाणानस्यामि शत्रुभिः परिवारितः ||५||
यदिदं चापलान्मूर्तेः सर्वमेतच्चिकीर्षति |
मनः प्रति सुतीक्ष्णाग्रानहं मोक्ष्यामि सायकान् ||६||
मन उवाच||
नेमे बाणास्तरिष्यन्ति मामलर्क कथञ्चन |
तवैव मर्म भेत्स्यन्ति भिन्नमर्मा मरिष्यसि ||७||
अन्यान्बाणान्समीक्षस्व यैस्त्वं मां सूदयिष्यसि |
तच्छ्रुत्वा स विचिन्त्याथ ततो वचनमब्रवीत् ||८||
अलर्क उवाच||
आघ्राय सुबहून्गन्धांस्तानेव प्रतिगृध्यति |
तस्माद्घ्राणं प्रति शरान्प्रतिमोक्ष्याम्यहं शितान् ||९||
घ्राण उवाच||
नेमे बाणास्तरिष्यन्ति मामलर्क कथञ्चन |
तवैव मर्म भेत्स्यन्ति भिन्नमर्मा मरिष्यसि ||१०||
अन्यान्बाणान्समीक्षस्व यैस्त्वं मां सूदयिष्यसि |
तच्छ्रुत्वा स विचिन्त्याथ ततो वचनमब्रवीत् ||११||
अलर्क उवाच||
इयं स्वादून्रसान्भुक्त्वा तानेव प्रतिगृध्यति |
तस्माज्जिह्वां प्रति शरान्प्रतिमोक्ष्याम्यहं शितान् ||१२||
जिह्वोवाच||
नेमे बाणास्तरिष्यन्ति मामलर्क कथञ्चन |
तवैव मर्म भेत्स्यन्ति भिन्नमर्मा मरिष्यसि ||१३||
अन्यान्बाणान्समीक्षस्व यैस्त्वं मां सूदयिष्यसि |
तच्छ्रुत्वा स विचिन्त्याथ ततो वचनमब्रवीत् ||१४||
अलर्क उवाच||
स्पृष्ट्वा त्वग्विविधान्स्पर्शांस्तानेव प्रतिगृध्यति |
तस्मात्त्वचं पाटयिष्ये विविधैः कङ्कपत्रिभिः ||१५||
त्वगुवाच||
नेमे बाणास्तरिष्यन्ति मामलर्क कथञ्चन |
तवैव मर्म भेत्स्यन्ति भिन्नमर्मा मरिष्यसि ||१६||
अन्यान्बाणान्समीक्षस्व यैस्त्वं मां सूदयिष्यसि |
तच्छ्रुत्वा स विचिन्त्याथ ततो वचनमब्रवीत् ||१७||
अलर्क उवाच||
श्रुत्वा वै विविधाञ्शब्दांस्तानेव प्रतिगृध्यति |
तस्माच्छ्रोत्रं प्रति शरान्प्रतिमोक्ष्याम्यहं शितान् ||१८||
श्रोत्र उवाच||
नेमे बाणास्तरिष्यन्ति मामलर्क कथञ्चन |
तवैव मर्म भेत्स्यन्ति ततो हास्यसि जीवितम् ||१९||
अन्यान्बाणान्समीक्षस्व यैस्त्वं मां सूदयिष्यसि |
तच्छ्रुत्वा स विचिन्त्याथ ततो वचनमब्रवीत् ||२०||
अलर्क उवाच||
दृष्ट्वा वै विविधान्भावांस्तानेव प्रतिगृध्यति |
तस्माच्चक्षुः प्रति शरान्प्रतिमोक्ष्याम्यहं शितान् ||२१||
चक्षुरुवाच||
नेमे बाणास्तरिष्यन्ति मामलर्क कथञ्चन |
तवैव मर्म भेत्स्यन्ति भिन्नमर्मा मरिष्यसि ||२२||
अन्यान्बाणान्समीक्षस्व यैस्त्वं मां सूदयिष्यसि |
तच्छ्रुत्वा स विचिन्त्याथ ततो वचनमब्रवीत् ||२३||
अलर्क उवाच||
इयं निष्ठा बहुविधा प्रज्ञया त्वध्यवस्यति |
तस्माद्बुद्धिं प्रति शरान्प्रतिमोक्ष्याम्यहं शितान् ||२४||
बुद्धिरुवाच||
नेमे बाणास्तरिष्यन्ति मामलर्क कथञ्चन |
तवैव मर्म भेत्स्यन्ति भिन्नमर्मा मरिष्यसि ||२५||
पितर ऊचुः||
ततोऽलर्कस्तपो घोरमास्थायाथ सुदुष्करम् |
नाध्यगच्छत्परं शक्त्या बाणमेतेषु सप्तसु ||२६||
सुसमाहितचेतास्तु ततोऽचिन्तयत प्रभुः ||२६||
स विचिन्त्य चिरं कालमलर्को द्विजसत्तम |
नाध्यगच्छत्परं श्रेयो योगान्मतिमतां वरः ||२७||
स एकाग्रं मनः कृत्वा निश्चलो योगमास्थितः |
इन्द्रियाणि जघानाशु बाणेनैकेन वीर्यवान् ||२८||
योगेनात्मानमाविश्य संसिद्धिं परमां ययौ ||२८||
विस्मितश्चापि राजर्षिरिमां गाथां जगाद ह |
अहो कष्टं यदस्माभिः पूर्वं राज्यमनुष्ठितम् ||२९||
इति पश्चान्मया ज्ञातं योगान्नास्ति परं सुखम् ||२९||
इति त्वमपि जानीहि राम मा क्षत्रियाञ्जहि |
तपो घोरमुपातिष्ठ ततः श्रेयोऽभिपत्स्यसे ||३०||
ब्राह्मण उवाच||
इत्युक्तः स तपो घोरं जामदग्न्यः पितामहैः |
आस्थितः सुमहाभागो ययौ सिद्धिं च दुर्गमाम् ||३१||
३१
ब्राह्मण उवाच||
त्रयो वै रिपवो लोके नव वै गुणतः स्मृताः |
हर्षः स्तम्भोऽभिमानश्च त्रयस्ते सात्त्विका गुणाः ||१||
शोकः क्रोधोऽतिसंरम्भो राजसास्ते गुणाः स्मृताः |
स्वप्नस्तन्द्री च मोहश्च त्रयस्ते तामसा गुणाः ||२||
एतान्निकृत्य धृतिमान्बाणसङ्घैरतन्द्रितः |
जेतुं परानुत्सहते प्रशान्तात्मा जितेन्द्रियः ||३||
अत्र गाथाः कीर्तयन्ति पुराकल्पविदो जनाः |
अम्बरीषेण या गीता राज्ञा राज्यं प्रशासता ||४||
समुदीर्णेषु दोषेषु वध्यमानेषु साधुषु |
जग्राह तरसा राज्यमम्बरीष इति श्रुतिः ||५||
स निगृह्य महादोषान्साधून्समभिपूज्य च |
जगाम महतीं सिद्धिं गाथां चेमां जगाद ह ||६||
भूयिष्ठं मे जिता दोषा निहताः सर्वशत्रवः |
एको दोषोऽवशिष्टस्तु वध्यः स न हतो मया ||७||
येन युक्तो जन्तुरयं वैतृष्ण्यं नाधिगच्छति |
तृष्णार्त इव निम्नानि धावमानो न बुध्यते ||८||
अकार्यमपि येनेह प्रयुक्तः सेवते नरः |
तं लोभमसिभिस्तीक्ष्णैर्निकृन्तन्तं निकृन्तत ||९||
लोभाद्धि जायते तृष्णा ततश्चिन्ता प्रसज्यते |
स लिप्समानो लभते भूयिष्ठं राजसान्गुणान् ||१०||
स तैर्गुणैः संहतदेहबन्धनः; पुनः पुनर्जायति कर्म चेहते |
जन्मक्षये भिन्नविकीर्णदेहः; पुनर्मृत्युं गच्छति जन्मनि स्वे ||११||
तस्मादेनं सम्यगवेक्ष्य लोभं; निगृह्य धृत्यात्मनि राज्यमिच्छेत् |
एतद्राज्यं नान्यदस्तीति विद्या; द्यस्त्वत्र राजा विजितो ममैकः ||१२||
इति राज्ञाम्बरीषेण गाथा गीता यशस्विना |
आधिराज्यं पुरस्कृत्य लोभमेकं निकृन्तता ||१३||
३२
ब्राह्मण उवाच||
अत्राप्युदाहरन्तीममितिहासं पुरातनम् |
ब्राह्मणस्य च संवादं जनकस्य च भामिनि ||१||
ब्राह्मणं जनको राजा सन्नं कस्मिंश्चिदागमे |
विषये मे न वस्तव्यमिति शिष्ट्यर्थमब्रवीत् ||२||
इत्युक्तः प्रत्युवाचाथ ब्राह्मणो राजसत्तमम् |
आचक्ष्व विषयं राजन्यावांस्तव वशे स्थितः ||३||
सोऽन्यस्य विषये राज्ञो वस्तुमिच्छाम्यहं विभो |
वचस्ते कर्तुमिच्छामि यथाशास्त्रं महीपते ||४||
इत्युक्तः स तदा राजा ब्राह्मणेन यशस्विना |
मुहुरुष्णं च निःश्वस्य न स तं प्रत्यभाषत ||५||
तमासीनं ध्यायमानं राजानममितौजसम् |
कश्मलं सहसागच्छद्भानुमन्तमिव ग्रहः ||६||
समाश्वास्य ततो राजा व्यपेते कश्मले तदा |
ततो मुहूर्तादिव तं ब्राह्मणं वाक्यमब्रवीत् ||७||
पितृपैतामहे राज्ये वश्ये जनपदे सति |
विषयं नाधिगच्छामि विचिन्वन्पृथिवीमिमाम् ||८||
नाध्यगच्छं यदा पृथ्व्यां मिथिला मार्गिता मया |
नाध्यगच्छं यदा तस्यां स्वप्रजा मार्गिता मया ||९||
नाध्यगच्छं यदा तासु तदा मे कश्मलोऽभवत् |
ततो मे कश्मलस्यान्ते मतिः पुनरुपस्थिता ||१०||
तया न विषयं मन्ये सर्वो वा विषयो मम |
आत्मापि चायं न मम सर्वा वा पृथिवी मम ||११||
उष्यतां यावदुत्साहो भुज्यतां यावदिष्यते ||११||
पितृपैतामहे राज्ये वश्ये जनपदे सति |
ब्रूहि कां बुद्धिमास्थाय ममत्वं वर्जितं त्वया ||१२||
कां वा बुद्धिं विनिश्चित्य सर्वो वै विषयस्तव |
नावैषि विषयं येन सर्वो वा विषयस्तव ||१३||
जनक उवाच||
अन्तवन्त इहारम्भा विदिताः सर्वकर्मसु |
नाध्यगच्छमहं यस्मान्ममेदमिति यद्भवेत् ||१४||
कस्येदमिति कस्य स्वमिति वेदवचस्तथा |
नाध्यगच्छमहं बुद्ध्या ममेदमिति यद्भवेत् ||१५||
एतां बुद्धिं विनिश्चित्य ममत्वं वर्जितं मया |
शृणु बुद्धिं तु यां ज्ञात्वा सर्वत्र विषयो मम ||१६||
नाहमात्मार्थमिच्छामि गन्धान्घ्राणगतानपि |
तस्मान्मे निर्जिता भूमिर्वशे तिष्ठति नित्यदा ||१७||
नाहमात्मार्थमिच्छामि रसानास्येऽपि वर्ततः |
आपो मे निर्जितास्तस्माद्वशे तिष्ठन्ति नित्यदा ||१८||
नाहमात्मार्थमिच्छामि रूपं ज्योतिश्च चक्षुषा |
तस्मान्मे निर्जितं ज्योतिर्वशे तिष्ठति नित्यदा ||१९||
नाहमात्मार्थमिच्छामि स्पर्शांस्त्वचि गताश्च ये |
तस्मान्मे निर्जितो वायुर्वशे तिष्ठति नित्यदा ||२०||
नाहमात्मार्थमिच्छामि शब्दाञ्श्रोत्रगतानपि |
तस्मान्मे निर्जिताः शब्दा वशे तिष्ठन्ति नित्यदा ||२१||
नाहमात्मार्थमिच्छामि मनो नित्यं मनोन्तरे |
मनो मे निर्जितं तस्माद्वशे तिष्ठति नित्यदा ||२२||
देवेभ्यश्च पितृभ्यश्च भूतेभ्योऽतिथिभिः सह |
इत्यर्थं सर्व एवेमे समारम्भा भवन्ति वै ||२३||
ततः प्रहस्य जनकं ब्राह्मणः पुनरब्रवीत् |
त्वज्जिज्ञासार्थमद्येह विद्धि मां धर्ममागतम् ||२४||
त्वमस्य ब्रह्मनाभस्य बुद्ध्यारस्यानिवर्तिनः |
सत्त्वनेमिनिरुद्धस्य चक्रस्यैकः प्रवर्तकः ||२५||
३३
ब्राह्मण उवाच||
नाहं तथा भीरु चरामि लोके; तथा त्वं मां तर्कयसे स्वबुद्ध्या |
विप्रोऽस्मि मुक्तोऽस्मि वनेचरोऽस्मि; गृहस्थधर्मा ब्रह्मचारी तथास्मि ||१||
नाहमस्मि यथा मां त्वं पश्यसे चक्षुषा शुभे |
मया व्याप्तमिदं सर्वं यत्किञ्चिज्जगतीगतम् ||२||
ये केचिज्जन्तवो लोके जङ्गमाः स्थावराश्च ह |
तेषां मामन्तकं विद्धि दारूणामिव पावकम् ||३||
राज्यं पृथिव्यां सर्वस्यामथ वापि त्रिविष्टपे |
तथा बुद्धिरियं वेत्ति बुद्धिरेव धनं मम ||४||
एकः पन्था ब्राह्मणानां येन गच्छन्ति तद्विदः |
गृहेषु वनवासेषु गुरुवासेषु भिक्षुषु ||५||
लिङ्गैर्बहुभिरव्यग्रैरेका बुद्धिरुपास्यते ||५||
नानालिङ्गाश्रमस्थानां येषां बुद्धिः शमात्मिका |
ते भावमेकमायान्ति सरितः सागरं यथा ||६||
बुद्ध्यायं गम्यते मार्गः शरीरेण न गम्यते |
आद्यन्तवन्ति कर्माणि शरीरं कर्मबन्धनम् ||७||
तस्मात्ते सुभगे नास्ति परलोककृतं भयम् |
मद्भावभावनिरता ममैवात्मानमेष्यसि ||८||
३४
ब्राह्मण्युवाच||
नेदमल्पात्मना शक्यं वेदितुं नाकृतात्मना |
बहु चाल्पं च सङ्क्षिप्तं विप्लुतं च मतं मम ||१||
उपायं तु मम ब्रूहि येनैषा लभ्यते मतिः |
तन्मन्ये कारणतमं यत एषा प्रवर्तते ||२||
ब्राह्मण उवाच||
अरणीं ब्राह्मणीं विद्धि गुरुरस्योत्तरारणिः |
तपःश्रुतेऽभिमथ्नीतो ज्ञानाग्निर्जायते ततः ||३||
ब्राह्मण्युवाच||
यदिदं ब्रह्मणो लिङ्गं क्षेत्रज्ञमिति सञ्ज्ञितम् |
ग्रहीतुं येन तच्छक्यं लक्षणं तस्य तत्क्व नु ||४||
ब्राह्मण उवाच||
अलिङ्गो निर्गुणश्चैव कारणं नास्य विद्यते |
उपायमेव वक्ष्यामि येन गृह्येत वा न वा ||५||
सम्यगप्युपदिष्टश्च भ्रमरैरिव लक्ष्यते |
कर्मबुद्धिरबुद्धित्वाज्ज्ञानलिङ्गैरिवाश्रितम् ||६||
इदं कार्यमिदं नेति न मोक्षेषूपदिश्यते |
पश्यतः शृण्वतो बुद्धिरात्मनो येषु जायते ||७||
यावन्त इह शक्येरंस्तावतोंऽशान्प्रकल्पयेत् |
व्यक्तानव्यक्तरूपांश्च शतशोऽथ सहस्रशः ||८||
सर्वान्नानात्वयुक्तांश्च सर्वान्प्रत्यक्षहेतुकान् |
यतः परं न विद्येत ततोऽभ्यासे भविष्यति ||९||
वासुदेव उवाच||
ततस्तु तस्या ब्राह्मण्या मतिः क्षेत्रज्ञसङ्क्षये |
क्षेत्रज्ञादेव परतः क्षेत्रज्ञोऽन्यः प्रवर्तते ||१०||
अर्जुन उवाच||
क्व नु सा ब्राह्मणी कृष्ण क्व चासौ ब्राह्मणर्षभः |
याभ्यां सिद्धिरियं प्राप्ता तावुभौ वद मेऽच्युत ||११||
वासुदेव उवाच||
मनो मे ब्राह्मणं विद्धि बुद्धिं मे विद्धि ब्राह्मणीम् |
क्षेत्रज्ञ इति यश्चोक्तः सोऽहमेव धनञ्जय ||१२||
३५
अर्जुन उवाच||
ब्रह्म यत्परमं वेद्यं तन्मे व्याख्यातुमर्हसि |
भवतो हि प्रसादेन सूक्ष्मे मे रमते मतिः ||१||
वासुदेव उवाच||
अत्राप्युदाहरन्तीममितिहासं पुरातनम् |
संवादं मोक्षसंयुक्तं शिष्यस्य गुरुणा सह ||२||
कश्चिद्ब्राह्मणमासीनमाचार्यं संशितव्रतम् |
शिष्यः पप्रच्छ मेधावी किं स्विच्छ्रेयः परन्तप ||३||
भगवन्तं प्रपन्नोऽहं निःश्रेयसपरायणः |
याचे त्वां शिरसा विप्र यद्ब्रूयां तद्विचक्ष्व मे ||४||
तमेवंवादिनं पार्थ शिष्यं गुरुरुवाच ह |
कथयस्व प्रवक्ष्यामि यत्र ते संशयो द्विज ||५||
इत्युक्तः स कुरुश्रेष्ठ गुरुणा गुरुवत्सलः |
प्राञ्जलिः परिपप्रच्छ यत्तच्छृणु महामते ||६||
शिष्य उवाच||
कुतश्चाहं कुतश्च त्वं तत्सत्यं ब्रूहि यत्परम् |
कुतो जातानि भूतानि स्थावराणि चराणि च ||७||
केन जीवन्ति भूतानि तेषामायुः किमात्मकम् |
किं सत्यं किं तपो विप्र के गुणाः सद्भिरीरिताः ||८||
के पन्थानः शिवाः सन्ति किं सुखं किं च दुष्कृतम् ||८||
एतान्मे भगवन्प्रश्नान्याथातथ्येन सत्तम |
वक्तुमर्हसि विप्रर्षे यथावदिह तत्त्वतः ||९||
वासुदेव उवाच||
तस्मै सम्प्रतिपन्नाय यथावत्परिपृच्छते |
शिष्याय गुणयुक्ताय शान्ताय गुरुवर्तिने ||१०||
छायाभूताय दान्ताय यतये ब्रह्मचारिणे ||१०||
तान्प्रश्नानब्रवीत्पार्थ मेधावी स धृतव्रतः |
गुरुः कुरुकुलश्रेष्ठ सम्यक्सर्वानरिंदम ||११||
ब्रह्मप्रोक्तमिदं धर्ममृषिप्रवरसेवितम् |
वेदविद्यासमावाप्यं तत्त्वभूतार्थभावनम् ||१२||
भूतभव्यभविष्यादिधर्मकामार्थनिश्चयम् |
सिद्धसङ्घपरिज्ञातं पुराकल्पं सनातनम् ||१३||
प्रवक्ष्येऽहं महाप्राज्ञ पदमुत्तममद्य ते |
बुद्ध्वा यदिह संसिद्धा भवन्तीह मनीषिणः ||१४||
उपगम्यर्षयः पूर्वं जिज्ञासन्तः परस्परम् |
बृहस्पतिभरद्वाजौ गौतमो भार्गवस्तथा ||१५||
वसिष्ठः काश्यपश्चैव विश्वामित्रोऽत्रिरेव च |
मार्गान्सर्वान्परिक्रम्य परिश्रान्ताः स्वकर्मभिः ||१६||
ऋषिमाङ्गिरसं वृद्धं पुरस्कृत्य तु ते द्विजाः |
ददृशुर्ब्रह्मभवने ब्रह्माणं वीतकल्मषम् ||१७||
तं प्रणम्य महात्मानं सुखासीनं महर्षयः |
पप्रच्छुर्विनयोपेता निःश्रेयसमिदं परम् ||१८||
कथं कर्म क्रियात्साधु कथं मुच्येत किल्बिषात् |
के नो मार्गाः शिवाश्च स्युः किं सत्यं किं च दुष्कृतम् ||१९||
केनोभौ कर्मपन्थानौ महत्त्वं केन विन्दति |
प्रलयं चापवर्गं च भूतानां प्रभवाप्ययौ ||२०||
इत्युक्तः स मुनिश्रेष्ठैर्यदाह प्रपितामहः |
तत्तेऽहं सम्प्रवक्ष्यामि शृणु शिष्य यथागमम् ||२१||
ब्रह्मोवाच||
सत्याद्भूतानि जातानि स्थावराणि चराणि च |
तपसा तानि जीवन्ति इति तद्वित्त सुव्रताः ||२२||
स्वां योनिं पुनरागम्य वर्तन्ते स्वेन कर्मणा |
सत्यं हि गुणसंयुक्तं नियतं पञ्चलक्षणम् ||२३||
ब्रह्म सत्यं तपः सत्यं सत्यं चैव प्रजापतिः |
सत्याद्भूतानि जातानि भूतं सत्यमयं महत् ||२४||
तस्मात्सत्याश्रया विप्रा नित्यं योगपरायणाः |
अतीतक्रोधसन्तापा नियता धर्मसेतवः ||२५||
अन्योन्यनियतान्वैद्यान्धर्मसेतुप्रवर्तकान् |
तानहं सम्प्रवक्ष्यामि शाश्वतान्लोकभावनान् ||२६||
चातुर्विद्यं तथा वर्णांश्चतुरश्चाश्रमान्पृथक् |
धर्ममेकं चतुष्पादं नित्यमाहुर्मनीषिणः ||२७||
पन्थानं वः प्रवक्ष्यामि शिवं क्षेमकरं द्विजाः |
नियतं ब्रह्मभावाय यातं पूर्वं मनीषिभिः ||२८||
गदतस्तं ममाद्येह पन्थानं दुर्विदं परम् |
निबोधत महाभागा निखिलेन परं पदम् ||२९||
ब्रह्मचारिकमेवाहुराश्रमं प्रथमं पदम् |
गार्हस्थ्यं तु द्वितीयं स्याद्वानप्रस्थमतः परम् ||३०||
ततः परं तु विज्ञेयमध्यात्मं परमं पदम् ||३०||
ज्योतिराकाशमादित्यो वायुरिन्द्रः प्रजापतिः |
नोपैति यावदध्यात्मं तावदेतान्न पश्यति ||३१||
तस्योपायं प्रवक्ष्यामि पुरस्तात्तं निबोधत ||३१||
फलमूलानिलभुजां मुनीनां वसतां वने |
वानप्रस्थं द्विजातीनां त्रयाणामुपदिश्यते ||३२||
सर्वेषामेव वर्णानां गार्हस्थ्यं तद्विधीयते |
श्रद्धालक्षणमित्येवं धर्मं धीराः प्रचक्षते ||३३||
इत्येते देवयाना वः पन्थानः परिकीर्तिताः |
सद्भिरध्यासिता धीरैः कर्मभिर्धर्मसेतवः ||३४||
एतेषां पृथगध्यास्ते यो धर्मं संशितव्रतः |
कालात्पश्यति भूतानां सदैव प्रभवाप्ययौ ||३५||
अतस्तत्त्वानि वक्ष्यामि याथातथ्येन हेतुना |
विषयस्थानि सर्वाणि वर्तमानानि भागशः ||३६||
महानात्मा तथाव्यक्तमहङ्कारस्तथैव च |
इन्द्रियाणि दशैकं च महाभूतानि पञ्च च ||३७||
विशेषाः पञ्चभूतानामित्येषा वैदिकी श्रुतिः |
चतुर्विंशतिरेषा वस्तत्त्वानां सम्प्रकीर्तिता ||३८||
तत्त्वानामथ यो वेद सर्वेषां प्रभवाप्ययौ |
स धीरः सर्वभूतेषु न मोहमधिगच्छति ||३९||
तत्त्वानि यो वेदयते यथातथं; गुणांश्च सर्वानखिलाश्च देवताः |
विधूतपाप्मा प्रविमुच्य बन्धनं; स सर्वलोकानमलान्समश्नुते ||४०||
३६
ब्रह्मोवाच||
तदव्यक्तमनुद्रिक्तं सर्वव्यापि ध्रुवं स्थिरम् |
नवद्वारं पुरं विद्यात्त्रिगुणं पञ्चधातुकम् ||१||
एकादशपरिक्षेपं मनो व्याकरणात्मकम् |
बुद्धिस्वामिकमित्येतत्परमेकादशं भवेत् ||२||
त्रीणि स्रोतांसि यान्यस्मिन्नाप्यायन्ते पुनः पुनः |
प्रणाड्यस्तिस्र एवैताः प्रवर्तन्ते गुणात्मिकाः ||३||
तमो रजस्तथा सत्त्वं गुणानेतान्प्रचक्षते |
अन्योन्यमिथुनाः सर्वे तथान्योन्यानुजीविनः ||४||
अन्योन्यापाश्रयाश्चैव तथान्योन्यानुवर्तिनः |
अन्योन्यव्यतिषक्ताश्च त्रिगुणाः पञ्च धातवः ||५||
तमसो मिथुनं सत्त्वं सत्त्वस्य मिथुनं रजः |
रजसश्चापि सत्त्वं स्यात्सत्त्वस्य मिथुनं तमः ||६||
नियम्यते तमो यत्र रजस्तत्र प्रवर्तते |
नियम्यते रजो यत्र सत्त्वं तत्र प्रवर्तते ||७||
नैशात्मकं तमो विद्यात्त्रिगुणं मोहसञ्ज्ञितम् |
अधर्मलक्षणं चैव नियतं पापकर्मसु ||८||
प्रवृत्त्यात्मकमेवाहू रजः पर्यायकारकम् |
प्रवृत्तं सर्वभूतेषु दृश्यतोत्पत्तिलक्षणम् ||९||
प्रकाशं सर्वभूतेषु लाघवं श्रद्दधानता |
सात्त्विकं रूपमेवं तु लाघवं साधुसंमितम् ||१०||
एतेषां गुणतत्त्वं हि वक्ष्यते हेत्वहेतुभिः |
समासव्यासयुक्तानि तत्त्वतस्तानि वित्त मे ||११||
संमोहोऽज्ञानमत्यागः कर्मणामविनिर्णयः |
स्वप्नः स्तम्भो भयं लोभः शोकः सुकृतदूषणम् ||१२||
अस्मृतिश्चाविपाकश्च नास्तिक्यं भिन्नवृत्तिता |
निर्विशेषत्वमन्धत्वं जघन्यगुणवृत्तिता ||१३||
अकृते कृतमानित्वमज्ञाने ज्ञानमानिता |
अमैत्री विकृतो भावो अश्रद्धा मूढभावना ||१४||
अनार्जवमसञ्ज्ञत्वं कर्म पापमचेतना |
गुरुत्वं सन्नभावत्वमसितत्वमवाग्गतिः ||१५||
सर्व एते गुणा विप्रास्तामसाः सम्प्रकीर्तिताः |
ये चान्ये नियता भावा लोकेऽस्मिन्मोहसञ्ज्ञिताः ||१६||
तत्र तत्र नियम्यन्ते सर्वे ते तामसा गुणाः |
परिवादकथा नित्यं देवब्राह्मणवैदिकाः ||१७||
अत्यागश्चाभिमानश्च मोहो मन्युस्तथाक्षमा |
मत्सरश्चैव भूतेषु तामसं वृत्तमिष्यते ||१८||
वृथारम्भाश्च ये केचिद्वृथादानानि यानि च |
वृथाभक्षणमित्येतत्तामसं वृत्तमिष्यते ||१९||
अतिवादोऽतितिक्षा च मात्सर्यमतिमानिता |
अश्रद्दधानता चैव तामसं वृत्तमिष्यते ||२०||
एवंविधास्तु ये केचिल्लोकेऽस्मिन्पापकर्मिणः |
मनुष्या भिन्नमर्यादाः सर्वे ते तामसा जनाः ||२१||
तेषां योनिं प्रवक्ष्यामि नियतां पापकर्मणाम् |
अवाङ्निरयभावाय तिर्यङ्निरयगामिनः ||२२||
स्थावराणि च भूतानि पशवो वाहनानि च |
क्रव्यादा दन्दशूकाश्च कृमिकीटविहङ्गमाः ||२३||
अण्डजा जन्तवो ये च सर्वे चापि चतुष्पदाः |
उन्मत्ता बधिरा मूका ये चान्ये पापरोगिणः ||२४||
मग्नास्तमसि दुर्वृत्ताः स्वकर्मकृतलक्षणाः |
अवाक्स्रोतस इत्येते मग्नास्तमसि तामसाः ||२५||
तेषामुत्कर्षमुद्रेकं वक्ष्याम्यहमतः परम् |
यथा ते सुकृताँल्लोकाँल्लभन्ते पुण्यकर्मिणः ||२६||
अन्यथा प्रतिपन्नास्तु विवृद्धा ये च कर्मसु |
स्वकर्मनिरतानां च ब्राह्मणानां शुभैषिणाम् ||२७||
संस्कारेणोर्ध्वमायान्ति यतमानाः सलोकताम् |
स्वर्गं गच्छन्ति देवानामित्येषा वैदिकी श्रुतिः ||२८||
अन्यथा प्रतिपन्नास्तु विवृद्धाः स्वेषु कर्मसु |
पुनरावृत्तिधर्माणस्ते भवन्तीह मानुषाः ||२९||
पापयोनिं समापन्नाश्चण्डाला मूकचूचुकाः |
वर्णान्पर्यायशश्चापि प्राप्नुवन्त्युत्तरोत्तरम् ||३०||
शूद्रयोनिमतिक्रम्य ये चान्ये तामसा गुणाः |
स्रोतोमध्ये समागम्य वर्तन्ते तामसे गुणे ||३१||
अभिषङ्गस्तु कामेषु महामोह इति स्मृतः |
ऋषयो मुनयो देवा मुह्यन्त्यत्र सुखेप्सवः ||३२||
तमो मोहो महामोहस्तामिस्रः क्रोधसञ्ज्ञितः |
मरणं त्वन्धतामिस्रं तामिस्रं क्रोध उच्यते ||३३||
भावतो गुणतश्चैव योनितश्चैव तत्त्वतः |
सर्वमेतत्तमो विप्राः कीर्तितं वो यथाविधि ||३४||
को न्वेतद्बुध्यते साधु को न्वेतत्साधु पश्यति |
अतत्त्वे तत्त्वदर्शी यस्तमसस्तत्त्वलक्षणम् ||३५||
तमोगुणा वो बहुधा प्रकीर्तिता; यथावदुक्तं च तमः परावरम् |
नरो हि यो वेद गुणानिमान्सदा; स तामसैः सर्वगुणैः प्रमुच्यते ||३६||
३७
ब्रह्मोवाच||
रजोऽहं वः प्रवक्ष्यामि याथातथ्येन सत्तमाः |
निबोधत महाभागा गुणवृत्तं च सर्वशः ||१||
सङ्घातो रूपमायासः सुखदुःखे हिमातपौ |
ऐश्वर्यं विग्रहः सन्धिर्हेतुवादोऽरतिः क्षमा ||२||
बलं शौर्यं मदो रोषो व्यायामकलहावपि |
ईर्ष्येप्सा पैशुनं युद्धं ममत्वं परिपालनम् ||३||
वधबन्धपरिक्लेशाः क्रयो विक्रय एव च |
निकृन्त छिन्धि भिन्धीति परमर्मावकर्तनम् ||४||
उग्रं दारुणमाक्रोशः परवित्तानुशासनम् |
लोकचिन्ता विचिन्ता च मत्सरः परिभाषणम् ||५||
मृषावादो मृषादानं विकल्पः परिभाषणम् |
निन्दा स्तुतिः प्रशंसा च प्रतापः परितर्पणम् ||६||
परिचर्या च शुश्रूषा सेवा तृष्णा व्यपाश्रयः |
व्यूहोऽनयः प्रमादश्च परितापः परिग्रहः ||७||
संस्कारा ये च लोकेऽस्मिन्प्रवर्तन्ते पृथक्पृथक् |
नृषु नारीषु भूतेषु द्रव्येषु शरणेषु च ||८||
सन्तापोऽप्रत्ययश्चैव व्रतानि नियमाश्च ये |
प्रदानमाशीर्युक्तं च सततं मे भवत्विति ||९||
स्वधाकारो नमस्कारः स्वाहाकारो वषट्क्रिया |
याजनाध्यापने चोभे तथैवाहुः परिग्रहम् ||१०||
इदं मे स्यादिदं मे स्यात्स्नेहो गुणसमुद्भवः |
अभिद्रोहस्तथा माया निकृतिर्मान एव च ||११||
स्तैन्यं हिंसा परीवादः परितापः प्रजागरः |
स्तम्भो दम्भोऽथ रागश्च भक्तिः प्रीतिः प्रमोदनम् ||१२||
द्यूतं च जनवादश्च सम्बन्धाः स्त्रीकृताश्च ये |
नृत्तवादित्रगीतानि प्रसङ्गा ये च केचन ||१३||
सर्व एते गुणा विप्रा राजसाः सम्प्रकीर्तिताः ||१३||
भूतभव्यभविष्याणां भावानां भुवि भावनाः |
त्रिवर्गनिरता नित्यं धर्मोऽर्थः काम इत्यपि ||१४||
कामवृत्ताः प्रमोदन्ते सर्वकामसमृद्धिभिः |
अर्वाक्स्रोतस इत्येते तैजसा रजसावृताः ||१५||
अस्मिँल्लोके प्रमोदन्ते जायमानाः पुनः पुनः |
प्रेत्यभाविकमीहन्त इह लौकिकमेव च ||१६||
ददति प्रतिगृह्णन्ति जपन्त्यथ च जुह्वति ||१६||
रजोगुणा वो बहुधानुकीर्तिता; यथावदुक्तं गुणवृत्तमेव च |
नरो हि यो वेद गुणानिमान्सदा; स राजसैः सर्वगुणैर्विमुच्यते ||१७||
३८
ब्रह्मोवाच||
अतः परं प्रवक्ष्यामि तृतीयं गुणमुत्तमम् |
सर्वभूतहितं लोके सतां धर्ममनिन्दितम् ||१||
आनन्दः प्रीतिरुद्रेकः प्राकाश्यं सुखमेव च |
अकार्पण्यमसंरम्भः सन्तोषः श्रद्दधानता ||२||
क्षमा धृतिरहिंसा च समता सत्यमार्जवम् |
अक्रोधश्चानसूया च शौचं दाक्ष्यं पराक्रमः ||३||
मुधा ज्ञानं मुधा वृत्तं मुधा सेवा मुधा श्रमः |
एवं यो युक्तधर्मः स्यात्सोऽमुत्रानन्त्यमश्नुते ||४||
निर्ममो निरहङ्कारो निराशीः सर्वतः समः |
अकामहत इत्येष सतां धर्मः सनातनः ||५||
विश्रम्भो ह्रीस्तितिक्षा च त्यागः शौचमतन्द्रिता |
आनृशंस्यमसंमोहो दया भूतेष्वपैशुनम् ||६||
हर्षस्तुष्टिर्विस्मयश्च विनयः साधुवृत्तता |
शान्तिकर्म विशुद्धिश्च शुभा बुद्धिर्विमोचनम् ||७||
उपेक्षा ब्रह्मचर्यं च परित्यागश्च सर्वशः |
निर्ममत्वमनाशीस्त्वमपरिक्रीतधर्मता ||८||
मुधा दानं मुधा यज्ञो मुधाधीतं मुधा व्रतम् |
मुधा प्रतिग्रहश्चैव मुधा धर्मो मुधा तपः ||९||
एवंवृत्तास्तु ये केचिल्लोकेऽस्मिन्सत्त्वसंश्रयाः |
ब्राह्मणा ब्रह्मयोनिस्थास्ते धीराः साधुदर्शिनः ||१०||
हित्वा सर्वाणि पापानि निःशोका ह्यजरामराः |
दिवं प्राप्य तु ते धीराः कुर्वते वै ततस्ततः ||११||
ईशित्वं च वशित्वं च लघुत्वं मनसश्च ते |
विकुर्वते महात्मानो देवास्त्रिदिवगा इव ||१२||
ऊर्ध्वस्रोतस इत्येते देवा वैकारिकाः स्मृताः |
विकुर्वते प्रकृत्या वै दिवं प्राप्तास्ततस्ततः ||१३||
यद्यदिच्छन्ति तत्सर्वं भजन्ते विभजन्ति च ||१३||
इत्येतत्सात्त्विकं वृत्तं कथितं वो द्विजर्षभाः |
एतद्विज्ञाय विधिवल्लभते यद्यदिच्छति ||१४||
प्रकीर्तिताः सत्त्वगुणा विशेषतो; यथावदुक्तं गुणवृत्तमेव च |
नरस्तु यो वेद गुणानिमान्सदा; गुणान्स भुङ्क्ते न गुणैः स भुज्यते ||१५||
३९
ब्रह्मोवाच||
नैव शक्या गुणा वक्तुं पृथक्त्वेनेह सर्वशः |
अविच्छिन्नानि दृश्यन्ते रजः सत्त्वं तमस्तथा ||१||
अन्योन्यमनुषज्जन्ते अन्योन्यं चानुजीविनः |
अन्योन्यापाश्रयाः सर्वे तथान्योन्यानुवर्तिनः ||२||
यावत्सत्त्वं तमस्तावद्वर्तते नात्र संशयः |
यावत्तमश्च सत्त्वं च रजस्तावदिहोच्यते ||३||
संहत्य कुर्वते यात्रां सहिताः सङ्घचारिणः |
सङ्घातवृत्तयो ह्येते वर्तन्ते हेत्वहेतुभिः ||४||
उद्रेकव्यतिरेकाणां तेषामन्योन्यवर्तिनाम् |
वर्तते तद्यथान्यूनं व्यतिरिक्तं च सर्वशः ||५||
व्यतिरिक्तं तमो यत्र तिर्यग्भावगतं भवेत् |
अल्पं तत्र रजो ज्ञेयं सत्त्वं चाल्पतरं ततः ||६||
उद्रिक्तं च रजो यत्र मध्यस्रोतोगतं भवेत् |
अल्पं तत्र तमो ज्ञेयं सत्त्वं चाल्पतरं ततः ||७||
उद्रिक्तं च यदा सत्त्वमूर्ध्वस्रोतोगतं भवेत् |
अल्पं तत्र रजो ज्ञेयं तमश्चाल्पतरं ततः ||८||
सत्त्वं वैकारिकं योनिरिन्द्रियाणां प्रकाशिका |
न हि सत्त्वात्परो भावः कश्चिदन्यो विधीयते ||९||
ऊर्ध्वं गच्छन्ति सत्त्वस्था मध्ये तिष्ठन्ति राजसाः |
जघन्यगुणसंयुक्ता यान्त्यधस्तामसा जनाः ||१०||
तमः शूद्रे रजः क्षत्रे ब्राह्मणे सत्त्वमुत्तमम् |
इत्येवं त्रिषु वर्णेषु विवर्तन्ते गुणास्त्रयः ||११||
दूरादपि हि दृश्यन्ते सहिताः सङ्घचारिणः |
तमः सत्त्वं रजश्चैव पृथक्त्वं नानुशुश्रुम ||१२||
दृष्ट्वा चादित्यमुद्यन्तं कुचोराणां भयं भवेत् |
अध्वगाः परितप्येरंस्तृष्णार्ता दुःखभागिनः ||१३||
आदित्यः सत्त्वमुद्दिष्टं कुचोरास्तु यथा तमः |
परितापोऽध्वगानां च राजसो गुण उच्यते ||१४||
प्राकाश्यं सत्त्वमादित्ये सन्तापो राजसो गुणः |
उपप्लवस्तु विज्ञेयस्तामसस्तस्य पर्वसु ||१५||
एवं ज्योतिःषु सर्वेषु विवर्तन्ते गुणास्त्रयः |
पर्यायेण च वर्तन्ते तत्र तत्र तथा तथा ||१६||
स्थावरेषु च भूतेषु तिर्यग्भावगतं तमः |
राजसास्तु विवर्तन्ते स्नेहभावस्तु सात्त्विकः ||१७||
अहस्त्रिधा तु विज्ञेयं त्रिधा रात्रिर्विधीयते |
मासार्धमासवर्षाणि ऋतवः सन्धयस्तथा ||१८||
त्रिधा दानानि दीयन्ते त्रिधा यज्ञः प्रवर्तते |
त्रिधा लोकास्त्रिधा वेदास्त्रिधा विद्यास्त्रिधा गतिः ||१९||
भूतं भव्यं भविष्यच्च धर्मोऽर्थः काम इत्यपि |
प्राणापानावुदानश्चाप्येत एव त्रयो गुणाः ||२०||
यत्किञ्चिदिह वै लोके सर्वमेष्वेव तत्त्रिषु |
त्रयो गुणाः प्रवर्तन्ते अव्यक्ता नित्यमेव तु ||२१||
सत्त्वं रजस्तमश्चैव गुणसर्गः सनातनः ||२१||
तमोऽव्यक्तं शिवं नित्यमजं योनिः सनातनः |
प्रकृतिर्विकारः प्रलयः प्रधानं प्रभवाप्ययौ ||२२||
अनुद्रिक्तमनूनं च ह्यकम्पमचलं ध्रुवम् |
सदसच्चैव तत्सर्वमव्यक्तं त्रिगुणं स्मृतम् ||२३||
ज्ञेयानि नामधेयानि नरैरध्यात्मचिन्तकैः ||२३||
अव्यक्तनामानि गुणांश्च तत्त्वतो; यो वेद सर्वाणि गतीश्च केवलाः |
विमुक्तदेहः प्रविभागतत्त्ववि; त्स मुच्यते सर्वगुणैर्निरामयः ||२४||
४०
ब्रह्मोवाच||
अव्यक्तात्पूर्वमुत्पन्नो महानात्मा महामतिः |
आदिर्गुणानां सर्वेषां प्रथमः सर्ग उच्यते ||१||
महानात्मा मतिर्विष्णुर्विश्वः शम्भुश्च वीर्यवान् |
बुद्धिः प्रज्ञोपलब्धिश्च तथा ख्यातिर्धृतिः स्मृतिः ||२||
पर्यायवाचकैः शब्दैर्महानात्मा विभाव्यते |
तं जानन्ब्राह्मणो विद्वान्न प्रमोहं निगच्छति ||३||
सर्वतःपाणिपादश्च सर्वतोक्षिशिरोमुखः |
सर्वतःश्रुतिमाँल्लोके सर्वं व्याप्य स तिष्ठति ||४||
महाप्रभार्चिः पुरुषः सर्वस्य हृदि निश्रितः |
अणिमा लघिमा प्राप्तिरीशानो ज्योतिरव्ययः ||५||
तत्र बुद्धिमतां लोकाः संन्यासनिरताश्च ये |
ध्यानिनो नित्ययोगाश्च सत्यसन्धा जितेन्द्रियाः ||६||
ज्ञानवन्तश्च ये केचिदलुब्धा जितमन्यवः |
प्रसन्नमनसो धीरा निर्ममा निरहङ्कृताः ||७||
विमुक्ताः सर्व एवैते महत्त्वमुपयान्ति वै ||७||
आत्मनो महतो वेद यः पुण्यां गतिमुत्तमाम् |
स धीरः सर्वलोकेषु न मोहमधिगच्छति ||८||
विष्णुरेवादिसर्गेषु स्वयम्भूर्भवति प्रभुः ||८||
एवं हि यो वेद गुहाशयं प्रभुं; नरः पुराणं पुरुषं विश्वरूपम् |
हिरण्मयं बुद्धिमतां परां गतिं; स बुद्धिमान्बुद्धिमतीत्य तिष्ठति ||९||
४१
ब्रह्मोवाच||
य उत्पन्नो महान्पूर्वमहङ्कारः स उच्यते |
अहमित्येव सम्भूतो द्वितीयः सर्ग उच्यते ||१||
अहङ्कारश्च भूतादिर्वैकारिक इति स्मृतः |
तेजसश्चेतना धातुः प्रजासर्गः प्रजापतिः ||२||
देवानां प्रभवो देवो मनसश्च त्रिलोककृत् |
अहमित्येव तत्सर्वमभिमन्ता स उच्यते ||३||
अध्यात्मज्ञाननित्यानां मुनीनां भावितात्मनाम् |
स्वाध्यायक्रतुसिद्धानामेष लोकः सनातनः ||४||
अहङ्कारेणाहरतो गुणानिमा; न्भूतादिरेवं सृजते स भूतकृत् |
वैकारिकः सर्वमिदं विचेष्टते; स्वतेजसा रञ्जयते जगत्तथा ||५||
४२
ब्रह्मोवाच||
अहङ्कारात्प्रसूतानि महाभूतानि पञ्च वै |
पृथिवी वायुराकाशमापो ज्योतिश्च पञ्चमम् ||१||
तेषु भूतानि मुह्यन्ते महाभूतेषु पञ्चसु |
शब्दस्पर्शनरूपेषु रसगन्धक्रियासु च ||२||
महाभूतविनाशान्ते प्रलये प्रत्युपस्थिते |
सर्वप्राणभृतां धीरा महदुत्पद्यते भयम् ||३||
यद्यस्माज्जायते भूतं तत्र तत्प्रविलीयते |
लीयन्ते प्रतिलोमानि जायन्ते चोत्तरोत्तरम् ||४||
ततः प्रलीने सर्वस्मिन्भूते स्थावरजङ्गमे |
स्मृतिमन्तस्तदा धीरा न लीयन्ते कदाचन ||५||
शब्दः स्पर्शस्तथा रूपं रसो गन्धश्च पञ्चमः |
क्रियाकारणयुक्ताः स्युरनित्या मोहसञ्ज्ञिताः ||६||
लोभप्रजनसंयुक्ता निर्विशेषा ह्यकिञ्चनाः |
मांसशोणितसङ्घाता अन्योन्यस्योपजीविनः ||७||
बहिरात्मान इत्येते दीनाः कृपणवृत्तयः |
प्राणापानावुदानश्च समानो व्यान एव च ||८||
अन्तरात्मेति चाप्येते नियताः पञ्च वायवः |
वाङ्मनोबुद्धिरित्येभिः सार्धमष्टात्मकं जगत् ||९||
त्वग्घ्राणश्रोत्रचक्षूंषि रसनं वाक्च संयता |
विशुद्धं च मनो यस्य बुद्धिश्चाव्यभिचारिणी ||१०||
अष्टौ यस्याग्नयो ह्येते न दहन्ते मनः सदा |
स तद्ब्रह्म शुभं याति यस्माद्भूयो न विद्यते ||११||
एकादश च यान्याहुरिन्द्रियाणि विशेषतः |
अहङ्कारप्रसूतानि तानि वक्ष्याम्यहं द्विजाः ||१२||
श्रोत्रं त्वक्चक्षुषी जिह्वा नासिका चैव पञ्चमी |
पादौ पायुरुपस्थं च हस्तौ वाग्दशमी भवेत् ||१३||
इन्द्रियग्राम इत्येष मन एकादशं भवेत् |
एतं ग्रामं जयेत्पूर्वं ततो ब्रह्म प्रकाशते ||१४||
बुद्धीन्द्रियाणि पञ्चाहुः पञ्च कर्मेन्द्रियाणि च |
श्रोत्रादीन्यपि पञ्चाहुर्बुद्धियुक्तानि तत्त्वतः ||१५||
अविशेषाणि चान्यानि कर्मयुक्तानि तानि तु |
उभयत्र मनो ज्ञेयं बुद्धिर्द्वादशमी भवेत् ||१६||
इत्युक्तानीन्द्रियाणीमान्येकादश मया क्रमात् |
मन्यन्ते कृतमित्येव विदित्वैतानि पण्डिताः ||१७||
त्रीणि स्थानानि भूतानां चतुर्थं नोपपद्यते |
स्थलमापस्तथाकाशं जन्म चापि चतुर्विधम् ||१८||
अण्डजोद्भिज्जसंस्वेदजरायुजमथापि च |
चतुर्धा जन्म इत्येतद्भूतग्रामस्य लक्ष्यते ||१९||
अचराण्यपि भूतानि खेचराणि तथैव च |
अण्डजानि विजानीयात्सर्वांश्चैव सरीसृपान् ||२०||
संस्वेदाः कृमयः प्रोक्ता जन्तवश्च तथाविधाः |
जन्म द्वितीयमित्येतज्जघन्यतरमुच्यते ||२१||
भित्त्वा तु पृथिवीं यानि जायन्ते कालपर्ययात् |
उद्भिज्जानीति तान्याहुर्भूतानि द्विजसत्तमाः ||२२||
द्विपादबहुपादानि तिर्यग्गतिमतीनि च |
जरायुजानि भूतानि वित्त तान्यपि सत्तमाः ||२३||
द्विविधापीह विज्ञेया ब्रह्मयोनिः सनातना |
तपः कर्म च यत्पुण्यमित्येष विदुषां नयः ||२४||
द्विविधं कर्म विज्ञेयमिज्या दानं च यन्मखे |
जातस्याध्ययनं पुण्यमिति वृद्धानुशासनम् ||२५||
एतद्यो वेद विधिवत्स मुक्तः स्याद्द्विजर्षभाः |
विमुक्तः सर्वपापेभ्य इति चैव निबोधत ||२६||
आकाशं प्रथमं भूतं श्रोत्रमध्यात्ममुच्यते |
अधिभूतं तथा शब्दो दिशस्तत्राधिदैवतम् ||२७||
द्वितीयं मारुतो भूतं त्वगध्यात्मं च विश्रुतम् |
स्प्रष्टव्यमधिभूतं च विद्युत्तत्राधिदैवतम् ||२८||
तृतीयं ज्योतिरित्याहुश्चक्षुरध्यात्ममुच्यते |
अधिभूतं ततो रूपं सूर्यस्तत्राधिदैवतम् ||२९||
चतुर्थमापो विज्ञेयं जिह्वा चाध्यात्ममिष्यते |
अधिभूतं रसश्चात्र सोमस्तत्राधिदैवतम् ||३०||
पृथिवी पञ्चमं भूतं घ्राणश्चाध्यात्ममिष्यते |
अधिभूतं तथा गन्धो वायुस्तत्राधिदैवतम् ||३१||
एष पञ्चसु भूतेषु चतुष्टयविधिः स्मृतः |
अतः परं प्रवक्ष्यामि सर्वं त्रिविधमिन्द्रियम् ||३२||
पादावध्यात्ममित्याहुर्ब्राह्मणास्तत्त्वदर्शिनः |
अधिभूतं तु गन्तव्यं विष्णुस्तत्राधिदैवतम् ||३३||
अवाग्गतिरपानश्च पायुरध्यात्ममिष्यते |
अधिभूतं विसर्गश्च मित्रस्तत्राधिदैवतम् ||३४||
प्रजनः सर्वभूतानामुपस्थोऽध्यात्ममुच्यते |
अधिभूतं तथा शुक्रं दैवतं च प्रजापतिः ||३५||
हस्तावध्यात्ममित्याहुरध्यात्मविदुषो जनाः |
अधिभूतं तु कर्माणि शक्रस्तत्राधिदैवतम् ||३६||
वैश्वदेवी मनःपूर्वा वागध्यात्ममिहोच्यते |
वक्तव्यमधिभूतं च वह्निस्तत्राधिदैवतम् ||३७||
अध्यात्मं मन इत्याहुः पञ्चभूतानुचारकम् |
अधिभूतं च मन्तव्यं चन्द्रमाश्चाधिदैवतम् ||३८||
अध्यात्मं बुद्धिरित्याहुः षडिन्द्रियविचारिणी |
अधिभूतं तु विज्ञेयं ब्रह्मा तत्राधिदैवतम् ||३९||
यथावदध्यात्मविधिरेष वः कीर्तितो मया |
ज्ञानमस्य हि धर्मज्ञाः प्राप्तं बुद्धिमतामिह ||४०||
इन्द्रियाणीन्द्रियार्थाश्च महाभूतानि पञ्च च |
सर्वाण्येतानि सन्धाय मनसा सम्प्रधारयेत् ||४१||
क्षीणे मनसि सर्वस्मिन्न जन्मसुखमिष्यते |
ज्ञानसम्पन्नसत्त्वानां तत्सुखं विदुषां मतम् ||४२||
अतः परं प्रवक्ष्यामि सूक्ष्मभावकरीं शिवाम् |
निवृत्तिं सर्वभूतेषु मृदुना दारुणेन वा ||४३||
गुणागुणमनासङ्गमेकचर्यमनन्तरम् |
एतद्ब्राह्मणतो वृत्तमाहुरेकपदं सुखम् ||४४||
विद्वान्कूर्म इवाङ्गानि कामान्संहृत्य सर्वशः |
विरजाः सर्वतो मुक्तो यो नरः स सुखी सदा ||४५||
कामानात्मनि संयम्य क्षीणतृष्णः समाहितः |
सर्वभूतसुहृन्मैत्रो ब्रह्मभूयं स गच्छति ||४६||
इन्द्रियाणां निरोधेन सर्वेषां विषयैषिणाम् |
मुनेर्जनपदत्यागादध्यात्माग्निः समिध्यते ||४७||
यथाग्निरिन्धनैरिद्धो महाज्योतिः प्रकाशते |
तथेन्द्रियनिरोधेन महानात्मा प्रकाशते ||४८||
यदा पश्यति भूतानि प्रसन्नात्मात्मनो हृदि |
स्वयंयोनिस्तदा सूक्ष्मात्सूक्ष्ममाप्नोत्यनुत्तमम् ||४९||
अग्नी रूपं पयः स्रोतो वायुः स्पर्शनमेव च |
मही पङ्कधरं घोरमाकाशं श्रवणं तथा ||५०||
रागशोकसमाविष्टं पञ्चस्रोतःसमावृतम् |
पञ्चभूतसमायुक्तं नवद्वारं द्विदैवतम् ||५१||
रजस्वलमथादृश्यं त्रिगुणं च त्रिधातुकम् |
संसर्गाभिरतं मूढं शरीरमिति धारणा ||५२||
दुश्चरं जीवलोकेऽस्मिन्सत्त्वं प्रति समाश्रितम् |
एतदेव हि लोकेऽस्मिन्कालचक्रं प्रवर्तते ||५३||
एतन्महार्णवं घोरमगाधं मोहसञ्ज्ञितम् |
विसृजेत्सङ्क्षिपेच्चैव बोधयेत्सामरं जगत् ||५४||
कामक्रोधौ भयं मोहमभिद्रोहमथानृतम् |
इन्द्रियाणां निरोधेन स तांस्त्यजति दुस्त्यजान् ||५५||
यस्यैते निर्जिता लोके त्रिगुणाः पञ्च धातवः |
व्योम्नि तस्य परं स्थानमनन्तमथ लक्ष्यते ||५६||
कामकूलामपारान्तां मनःस्रोतोभयावहाम् |
नदीं दुर्गह्रदां तीर्णः कामक्रोधावुभौ जयेत् ||५७||
स सर्वदोषनिर्मुक्तस्ततः पश्यति यत्परम् |
मनो मनसि सन्धाय पश्यत्यात्मानमात्मनि ||५८||
सर्ववित्सर्वभूतेषु वीक्षत्यात्मानमात्मनि |
एकधा बहुधा चैव विकुर्वाणस्ततस्ततः ||५९||
ध्रुवं पश्यति रूपाणि दीपाद्दीपशतं यथा |
स वै विष्णुश्च मित्रश्च वरुणोऽग्निः प्रजापतिः ||६०||
स हि धाता विधाता च स प्रभुः सर्वतोमुखः |
हृदयं सर्वभूतानां महानात्मा प्रकाशते ||६१||
तं विप्रसङ्घाश्च सुरासुराश्च; यक्षाः पिशाचाः पितरो वयांसि |
रक्षोगणा भूतगणाश्च सर्वे; महर्षयश्चैव सदा स्तुवन्ति ||६२||
४३
ब्रह्मोवाच||
मनुष्याणां तु राजन्यः क्षत्रियो मध्यमो गुणः |
कुञ्जरो वाहनानां च सिंहश्चारण्यवासिनाम् ||१||
अविः पशूनां सर्वेषामाखुश्च बिलवासिनाम् |
गवां गोवृषभश्चैव स्त्रीणां पुरुष एव च ||२||
न्यग्रोधो जम्बुवृक्षश्च पिप्पलः शाल्मलिस्तथा |
शिंशपा मेषशृङ्गश्च तथा कीचकवेणवः ||३||
एते द्रुमाणां राजानो लोकेऽस्मिन्नात्र संशयः ||३||
हिमवान्पारियात्रश्च सह्यो विन्ध्यस्त्रिकूटवान् |
श्वेतो नीलश्च भासश्च काष्ठवांश्चैव पर्वतः ||४||
शुभस्कन्धो महेन्द्रश्च माल्यवान्पर्वतस्तथा |
एते पर्वतराजानो गणानां मरुतस्तथा ||५||
सूर्यो ग्रहाणामधिपो नक्षत्राणां च चन्द्रमाः |
यमः पितॄणामधिपः सरितामथ सागरः ||६||
अम्भसां वरुणो राजा सत्त्वानां मित्र उच्यते |
अर्कोऽधिपतिरुष्णानां ज्योतिषामिन्दुरुच्यते ||७||
अग्निर्भूतपतिर्नित्यं ब्राह्मणानां बृहस्पतिः |
ओषधीनां पतिः सोमो विष्णुर्बलवतां वरः ||८||
त्वष्टाधिराजो रूपाणां पशूनामीश्वरः शिवः |
दक्षिणानां तथा यज्ञो वेदानामृषयस्तथा ||९||
दिशामुदीची विप्राणां सोमो राजा प्रतापवान् |
कुबेरः सर्वयक्षाणां देवतानां पुरंदरः ||१०||
एष भूतादिकः सर्गः प्रजानां च प्रजापतिः ||१०||
सर्वेषामेव भूतानामहं ब्रह्ममयो महान् |
भूतं परतरं मत्तो विष्णोर्वापि न विद्यते ||११||
राजाधिराजः सर्वासां विष्णुर्ब्रह्ममयो महान् |
ईश्वरं तं विजानीमः स विभुः स प्रजापतिः ||१२||
नरकिंनरयक्षाणां गन्धर्वोरगरक्षसाम् |
देवदानवनागानां सर्वेषामीश्वरो हि सः ||१३||
भगदेवानुयातानां सर्वासां वामलोचना |
माहेश्वरी महादेवी प्रोच्यते पार्वतीति या ||१४||
उमां देवीं विजानीत नारीणामुत्तमां शुभाम् |
रतीनां वसुमत्यस्तु स्त्रीणामप्सरसस्तथा ||१५||
धर्मकामाश्च राजानो ब्राह्मणा धर्मलक्षणाः |
तस्माद्राजा द्विजातीनां प्रयतेतेह रक्षणे ||१६||
राज्ञां हि विषये येषामवसीदन्ति साधवः |
हीनास्ते स्वगुणैः सर्वैः प्रेत्यावाङ्मार्गगामिनः ||१७||
राज्ञां तु विषये येषां साधवः परिरक्षिताः |
तेऽस्मिँल्लोके प्रमोदन्ते प्रेत्य चानन्त्यमेव च ||१८||
प्राप्नुवन्ति महात्मान इति वित्त द्विजर्षभाः ||१८||
अत ऊर्ध्वं प्रवक्ष्यामि नियतं धर्मलक्षणम् |
अहिंसालक्षणो धर्मो हिंसा चाधर्मलक्षणा ||१९||
प्रकाशलक्षणा देवा मनुष्याः कर्मलक्षणाः |
शब्दलक्षणमाकाशं वायुस्तु स्पर्शलक्षणः ||२०||
ज्योतिषां लक्षणं रूपमापश्च रसलक्षणाः |
धरणी सर्वभूतानां पृथिवी गन्धलक्षणा ||२१||
स्वरव्यञ्जनसंस्कारा भारती सत्यलक्षणा |
मनसो लक्षणं चिन्ता तथोक्ता बुद्धिरन्वयात् ||२२||
मनसा चिन्तयानोऽर्थान्बुद्ध्या चैव व्यवस्यति |
बुद्धिर्हि व्यवसायेन लक्ष्यते नात्र संशयः ||२३||
लक्षणं महतो ध्यानमव्यक्तं साधुलक्षणम् |
प्रवृत्तिलक्षणो योगो ज्ञानं संन्यासलक्षणम् ||२४||
तस्माज्ज्ञानं पुरस्कृत्य संन्यसेदिह बुद्धिमान् |
संन्यासी ज्ञानसंयुक्तः प्राप्नोति परमां गतिम् ||२५||
अतीतोऽद्वंद्वमभ्येति तमोमृत्युजरातिगम् ||२५||
धर्मलक्षणसंयुक्तमुक्तं वो विधिवन्मया |
गुणानां ग्रहणं सम्यग्वक्ष्याम्यहमतः परम् ||२६||
पार्थिवो यस्तु गन्धो वै घ्राणेनेह स गृह्यते |
घ्राणस्थश्च तथा वायुर्गन्धज्ञाने विधीयते ||२७||
अपां धातुरसो नित्यं जिह्वया स तु गृह्यते |
जिह्वास्थश्च तथा सोमो रसज्ञाने विधीयते ||२८||
ज्योतिषश्च गुणो रूपं चक्षुषा तच्च गृह्यते |
चक्षुःस्थश्च तथादित्यो रूपज्ञाने विधीयते ||२९||
वायव्यस्तु तथा स्पर्शस्त्वचा प्रज्ञायते च सः |
त्वक्स्थश्चैव तथा वायुः स्पर्शज्ञाने विधीयते ||३०||
आकाशस्य गुणो घोषः श्रोत्रेण स तु गृह्यते |
श्रोत्रस्थाश्च दिशः सर्वाः शब्दज्ञाने प्रकीर्तिताः ||३१||
मनसस्तु गुणश्चिन्ता प्रज्ञया स तु गृह्यते |
हृदिस्थचेतनाधातुर्मनोज्ञाने विधीयते ||३२||
बुद्धिरध्यवसायेन ध्यानेन च महांस्तथा |
निश्चित्य ग्रहणं नित्यमव्यक्तं नात्र संशयः ||३३||
अलिङ्गग्रहणो नित्यः क्षेत्रज्ञो निर्गुणात्मकः |
तस्मादलिङ्गः क्षेत्रज्ञः केवलं ज्ञानलक्षणः ||३४||
अव्यक्तं क्षेत्रमुद्दिष्टं गुणानां प्रभवाप्ययम् |
सदा पश्याम्यहं लीनं विजानामि शृणोमि च ||३५||
पुरुषस्तद्विजानीते तस्मात्क्षेत्रज्ञ उच्यते |
गुणवृत्तं तथा कृत्स्नं क्षेत्रज्ञः परिपश्यति ||३६||
आदिमध्यावसानान्तं सृज्यमानमचेतनम् |
न गुणा विदुरात्मानं सृज्यमानं पुनः पुनः ||३७||
न सत्यं वेद वै कश्चित्क्षेत्रज्ञस्त्वेव विन्दति |
गुणानां गुणभूतानां यत्परं परतो महत् ||३८||
तस्माद्गुणांश्च तत्त्वं च परित्यज्येह तत्त्ववित् |
क्षीणदोषो गुणान्हित्वा क्षेत्रज्ञं प्रविशत्यथ ||३९||
निर्द्वंद्वो निर्नमस्कारो निःस्वधाकार एव च |
अचलश्चानिकेतश्च क्षेत्रज्ञः स परो विभुः ||४०||
४४
ब्रह्मोवाच||
यदादिमध्यपर्यन्तं ग्रहणोपायमेव च |
नामलक्षणसंयुक्तं सर्वं वक्ष्यामि तत्त्वतः ||१||
अहः पूर्वं ततो रात्रिर्मासाः शुक्लादयः स्मृताः |
श्रविष्ठादीनि ऋक्षाणि ऋतवः शिशिरादयः ||२||
भूमिरादिस्तु गन्धानां रसानामाप एव च |
रूपाणां ज्योतिरादिस्तु स्पर्शादिर्वायुरुच्यते ||३||
शब्दस्यादिस्तथाकाशमेष भूतकृतो गुणः ||३||
अतः परं प्रवक्ष्यामि भूतानामादिमुत्तमम् |
आदित्यो ज्योतिषामादिरग्निर्भूतादिरिष्यते ||४||
सावित्री सर्वविद्यानां देवतानां प्रजापतिः |
ओङ्कारः सर्ववेदानां वचसां प्राण एव च ||५||
यद्यस्मिन्नियतं लोके सर्वं सावित्रमुच्यते ||५||
गायत्री छन्दसामादिः पशूनामज उच्यते |
गावश्चतुष्पदामादिर्मनुष्याणां द्विजातयः ||६||
श्येनः पतत्रिणामादिर्यज्ञानां हुतमुत्तमम् |
परिसर्पिणां तु सर्वेषां ज्येष्ठः सर्पो द्विजोत्तमाः ||७||
कृतमादिर्युगानां च सर्वेषां नात्र संशयः |
हिरण्यं सर्वरत्नानामोषधीनां यवास्तथा ||८||
सर्वेषां भक्ष्यभोज्यानामन्नं परममुच्यते |
द्रवाणां चैव सर्वेषां पेयानामाप उत्तमाः ||९||
स्थावराणां च भूतानां सर्वेषामविशेषतः |
ब्रह्मक्षेत्रं सदा पुण्यं प्लक्षः प्रथमजः स्मृतः ||१०||
अहं प्रजापतीनां च सर्वेषां नात्र संशयः |
मम विष्णुरचिन्त्यात्मा स्वयम्भूरिति स स्मृतः ||११||
पर्वतानां महामेरुः सर्वेषामग्रजः स्मृतः |
दिशां च प्रदिशां चोर्ध्वा दिग्जाता प्रथमं तथा ||१२||
तथा त्रिपथगा गङ्गा नदीनामग्रजा स्मृता |
तथा सरोदपानानां सर्वेषां सागरोऽग्रजः ||१३||
देवदानवभूतानां पिशाचोरगरक्षसाम् |
नरकिंनरयक्षाणां सर्वेषामीश्वरः प्रभुः ||१४||
आदिर्विश्वस्य जगतो विष्णुर्ब्रह्ममयो महान् |
भूतं परतरं तस्मात्त्रैलोक्ये नेह विद्यते ||१५||
आश्रमाणां च गार्हस्थ्यं सर्वेषां नात्र संशयः |
लोकानामादिरव्यक्तं सर्वस्यान्तस्तदेव च ||१६||
अहान्यस्तमयान्तानि उदयान्ता च शर्वरी |
सुखस्यान्तः सदा दुःखं दुःखस्यान्तः सदा सुखम् ||१७||
सर्वे क्षयान्ता निचयाः पतनान्ताः समुच्छ्रयाः |
संयोगा विप्रयोगान्ता मरणान्तं हि जीवितम् ||१८||
सर्वं कृतं विनाशान्तं जातस्य मरणं ध्रुवम् |
अशाश्वतं हि लोकेऽस्मिन्सर्वं स्थावरजङ्गमम् ||१९||
इष्टं दत्तं तपोऽधीतं व्रतानि नियमाश्च ये |
सर्वमेतद्विनाशान्तं ज्ञानस्यान्तो न विद्यते ||२०||
तस्माज्ज्ञानेन शुद्धेन प्रसन्नात्मा समाहितः |
निर्ममो निरहङ्कारो मुच्यते सर्वपाप्मभिः ||२१||
४५
ब्रह्मोवाच||
बुद्धिसारं मनस्तम्भमिन्द्रियग्रामबन्धनम् |
महाभूतारविष्कम्भं निमेषपरिवेष्टनम् ||१||
जराशोकसमाविष्टं व्याधिव्यसनसञ्चरम् |
देशकालविचारीदं श्रमव्यायामनिस्वनम् ||२||
अहोरात्रपरिक्षेपं शीतोष्णपरिमण्डलम् |
सुखदुःखान्तसङ्क्लेशं क्षुत्पिपासावकीलनम् ||३||
छायातपविलेखं च निमेषोन्मेषविह्वलम् |
घोरमोहजनाकीर्णं वर्तमानमचेतनम् ||४||
मासार्धमासगणितं विषमं लोकसञ्चरम् |
तमोनिचयपङ्कं च रजोवेगप्रवर्तकम् ||५||
सत्त्वालङ्कारदीप्तं च गुणसङ्घातमण्डलम् |
स्वरविग्रहनाभीकं शोकसङ्घातवर्तनम् ||६||
क्रियाकारणसंयुक्तं रागविस्तारमायतम् |
लोभेप्सापरिसङ्ख्यातं विविक्तज्ञानसम्भवम् ||७||
भयमोहपरीवारं भूतसंमोहकारकम् |
आनन्दप्रीतिधारं च कामक्रोधपरिग्रहम् ||८||
महदादिविशेषान्तमसक्तप्रभवाव्ययम् |
मनोजवनमश्रान्तं कालचक्रं प्रवर्तते ||९||
एतद्द्वंद्वसमायुक्तं कालचक्रमचेतनम् |
विसृजेत्सङ्क्षिपेच्चापि बोधयेत्सामरं जगत् ||१०||
कालचक्रप्रवृत्तिं च निवृत्तिं चैव तत्त्वतः |
यस्तु वेद नरो नित्यं न स भूतेषु मुह्यति ||११||
विमुक्तः सर्वसङ्क्लेशैः सर्वद्वंद्वातिगो मुनिः |
विमुक्तः सर्वपापेभ्यः प्राप्नोति परमां गतिम् ||१२||
गृहस्थो ब्रह्मचारी च वानप्रस्थोऽथ भिक्षुकः |
चत्वार आश्रमाः प्रोक्ताः सर्वे गार्हस्थ्यमूलकाः ||१३||
यः कश्चिदिह लोके च ह्यागमः सम्प्रकीर्तितः |
तस्यान्तगमनं श्रेयः कीर्तिरेषा सनातनी ||१४||
संस्कारैः संस्कृतः पूर्वं यथावच्चरितव्रतः |
जातौ गुणविशिष्टायां समावर्तेत वेदवित् ||१५||
स्वदारनिरतो दान्तः शिष्टाचारो जितेन्द्रियः |
पञ्चभिश्च महायज्ञैः श्रद्दधानो यजेत ह ||१६||
देवतातिथिशिष्टाशी निरतो वेदकर्मसु |
इज्याप्रदानयुक्तश्च यथाशक्ति यथाविधि ||१७||
न पाणिपादचपलो न नेत्रचपलो मुनिः |
न च वागङ्गचपल इति शिष्टस्य गोचरः ||१८||
नित्ययज्ञोपवीती स्याच्छुक्लवासाः शुचिव्रतः |
नियतो दमदानाभ्यां सदा शिष्टैश्च संविशेत् ||१९||
जितशिश्नोदरो मैत्रः शिष्टाचारसमाहितः |
वैणवीं धारयेद्यष्टिं सोदकं च कमण्डलुम् ||२०||
अधीत्याध्यापनं कुर्यात्तथा यजनयाजने |
दानं प्रतिग्रहं चैव षड्गुणां वृत्तिमाचरेत् ||२१||
त्रीणि कर्माणि यानीह ब्राह्मणानां तु जीविका |
याजनाध्यापने चोभे शुद्धाच्चापि प्रतिग्रहः ||२२||
अवशेषाणि चान्यानि त्रीणि कर्माणि यानि तु |
दानमध्ययनं यज्ञो धर्मयुक्तानि तानि तु ||२३||
तेष्वप्रमादं कुर्वीत त्रिषु कर्मसु धर्मवित् |
दान्तो मैत्रः क्षमायुक्तः सर्वभूतसमो मुनिः ||२४||
सर्वमेतद्यथाशक्ति विप्रो निर्वर्तयञ्शुचिः |
एवं युक्तो जयेत्स्वर्गं गृहस्थः संशितव्रतः ||२५||
४६
ब्रह्मोवाच||
एवमेतेन मार्गेण पूर्वोक्तेन यथाविधि |
अधीतवान्यथाशक्ति तथैव ब्रह्मचर्यवान् ||१||
स्वधर्मनिरतो विद्वान्सर्वेन्द्रिययतो मुनिः |
गुरोः प्रियहिते युक्तः सत्यधर्मपरः शुचिः ||२||
गुरुणा समनुज्ञातो भुञ्जीतान्नमकुत्सयन् |
हविष्यभैक्ष्यभुक्चापि स्थानासनविहारवान् ||३||
द्विकालमग्निं जुह्वानः शुचिर्भूत्वा समाहितः |
धारयीत सदा दण्डं बैल्वं पालाशमेव वा ||४||
क्षौमं कार्पासिकं वापि मृगाजिनमथापि वा |
सर्वं काषायरक्तं स्याद्वासो वापि द्विजस्य ह ||५||
मेखला च भवेन्मौञ्जी जटी नित्योदकस्तथा |
यज्ञोपवीती स्वाध्यायी अलुप्तनियतव्रतः ||६||
पूताभिश्च तथैवाद्भिः सदा दैवततर्पणम् |
भावेन नियतः कुर्वन्ब्रह्मचारी प्रशस्यते ||७||
एवं युक्तो जयेत्स्वर्गमूर्ध्वरेताः समाहितः |
न संसरति जातीषु परमं स्थानमाश्रितः ||८||
संस्कृतः सर्वसंस्कारैस्तथैव ब्रह्मचर्यवान् |
ग्रामान्निष्क्रम्य चारण्यं मुनिः प्रव्रजितो वसेत् ||९||
चर्मवल्कलसंवीतः स्वयं प्रातरुपस्पृशेत् |
अरण्यगोचरो नित्यं न ग्रामं प्रविशेत्पुनः ||१०||
अर्चयन्नतिथीन्काले दद्याच्चापि प्रतिश्रयम् |
फलपत्रावरैर्मूलैः श्यामाकेन च वर्तयन् ||११||
प्रवृत्तमुदकं वायुं सर्वं वानेयमा तृणात् |
प्राश्नीयादानुपूर्व्येण यथादीक्षमतन्द्रितः ||१२||
आमूलफलभिक्षाभिरर्चेदतिथिमागतम् |
यद्भक्षः स्यात्ततो दद्याद्भिक्षां नित्यमतन्द्रितः ||१३||
देवतातिथिपूर्वं च सदा भुञ्जीत वाग्यतः |
अस्कन्दितमनाश्चैव लघ्वाशी देवताश्रयः ||१४||
दान्तो मैत्रः क्षमायुक्तः केशश्मश्रु च धारयन् |
जुह्वन्स्वाध्यायशीलश्च सत्यधर्मपरायणः ||१५||
त्यक्तदेहः सदा दक्षो वननित्यः समाहितः |
एवं युक्तो जयेत्स्वर्गं वानप्रस्थो जितेन्द्रियः ||१६||
गृहस्थो ब्रह्मचारी च वानप्रस्थोऽथ वा पुनः |
य इच्छेन्मोक्षमास्थातुमुत्तमां वृत्तिमाश्रयेत् ||१७||
अभयं सर्वभूतेभ्यो दत्त्वा नैष्कर्म्यमाचरेत् |
सर्वभूतहितो मैत्रः सर्वेन्द्रिययतो मुनिः ||१८||
अयाचितमसङ्कॢप्तमुपपन्नं यदृच्छया |
जोषयेत सदा भोज्यं ग्रासमागतमस्पृहः ||१९||
यात्रामात्रं च भुञ्जीत केवलं प्राणयात्रिकम् |
धर्मलब्धं तथाश्नीयान्न काममनुवर्तयेत् ||२०||
ग्रासादाच्छादनाच्चान्यन्न गृह्णीयात्कथञ्चन |
यावदाहारयेत्तावत्प्रतिगृह्णीत नान्यथा ||२१||
परेभ्यो न प्रतिग्राह्यं न च देयं कदाचन |
दैन्यभावाच्च भूतानां संविभज्य सदा बुधः ||२२||
नाददीत परस्वानि न गृह्णीयादयाचितम् |
न किञ्चिद्विषयं भुक्त्वा स्पृहयेत्तस्य वै पुनः ||२३||
मृदमापस्तथाश्मानं पत्रपुष्पफलानि च |
असंवृतानि गृह्णीयात्प्रवृत्तानीह कार्यवान् ||२४||
न शिल्पजीविकां जीवेद्द्विरन्नं नोत कामयेत् |
न द्वेष्टा नोपदेष्टा च भवेत निरुपस्कृतः ||२५||
श्रद्धापूतानि भुञ्जीत निमित्तानि विवर्जयेत् ||२५||
मुधावृत्तिरसक्तश्च सर्वभूतैरसंविदम् |
कृत्वा वह्निं चरेद्भैक्ष्यं विधूमे भुक्तवज्जने ||२६||
वृत्ते शरावसम्पाते भैक्ष्यं लिप्सेत मोक्षवित् |
लाभे न च प्रहृष्येत नालाभे विमना भवेत् ||२७||
मात्राशी कालमाकाङ्क्षंश्चरेद्भैक्ष्यं समाहितः |
लाभं साधारणं नेच्छेन्न भुञ्जीताभिपूजितः ||२८||
अभिपूजितलाभाद्धि विजुगुप्सेत भिक्षुकः ||२८||
शुक्तान्यम्लानि तिक्तानि कषायकटुकानि च |
नास्वादयीत भुञ्जानो रसांश्च मधुरांस्तथा ||२९||
यात्रामात्रं च भुञ्जीत केवलं प्राणयात्रिकम् ||२९||
असंरोधेन भूतानां वृत्तिं लिप्सेत मोक्षवित् |
न चान्यमनुभिक्षेत भिक्षमाणः कथञ्चन ||३०||
न संनिकाशयेद्धर्मं विविक्ते विरजाश्चरेत् |
शून्यागारमरण्यं वा वृक्षमूलं नदीं तथा ||३१||
प्रतिश्रयार्थं सेवेत पार्वतीं वा पुनर्गुहाम् ||३१||
ग्रामैकरात्रिको ग्रीष्मे वर्षास्वेकत्र वा वसेत् |
अध्वा सूर्येण निर्दिष्टः कीटवच्च चरेन्महीम् ||३२||
दयार्थं चैव भूतानां समीक्ष्य पृथिवीं चरेत् |
सञ्चयांश्च न कुर्वीत स्नेहवासं च वर्जयेत् ||३३||
पूतेन चाम्भसा नित्यं कार्यं कुर्वीत मोक्षवित् |
उपस्पृशेदुद्धृताभिरद्भिश्च पुरुषः सदा ||३४||
अहिंसा ब्रह्मचर्यं च सत्यमार्जवमेव च |
अक्रोधश्चानसूया च दमो नित्यमपैशुनम् ||३५||
अष्टास्वेतेषु युक्तः स्याद्व्रतेषु नियतेन्द्रियः |
अपापमशठं वृत्तमजिह्मं नित्यमाचरेत् ||३६||
आशीर्युक्तानि कर्माणि हिंसायुक्तानि यानि च |
लोकसङ्ग्रहधर्मं च नैव कुर्यान्न कारयेत् ||३७||
सर्वभावानतिक्रम्य लघुमात्रः परिव्रजेत् |
समः सर्वेषु भूतेषु स्थावरेषु चरेषु च ||३८||
परं नोद्वेजयेत्कञ्चिन्न च कस्यचिदुद्विजेत् |
विश्वास्यः सर्वभूतानामग्र्यो मोक्षविदुच्यते ||३९||
अनागतं च न ध्यायेन्नातीतमनुचिन्तयेत् |
वर्तमानमुपेक्षेत कालाकाङ्क्षी समाहितः ||४०||
न चक्षुषा न मनसा न वाचा दूषयेत्क्वचित् |
न प्रत्यक्षं परोक्षं वा किञ्चिद्दुष्टं समाचरेत् ||४१||
इन्द्रियाण्युपसंहृत्य कूर्मोऽङ्गानीव सर्वशः |
क्षीणेन्द्रियमनोबुद्धिर्निरीक्षेत निरिन्द्रियः ||४२||
निर्द्वंद्वो निर्नमस्कारो निःस्वाहाकार एव च |
निर्ममो निरहङ्कारो निर्योगक्षेम एव च ||४३||
निराशीः सर्वभूतेषु निरासङ्गो निराश्रयः |
सर्वज्ञः सर्वतो मुक्तो मुच्यते नात्र संशयः ||४४||
अपाणिपादपृष्ठं तमशिरस्कमनूदरम् |
प्रहीणगुणकर्माणं केवलं विमलं स्थिरम् ||४५||
अगन्धरसमस्पर्शमरूपाशब्दमेव च |
अत्वगस्थ्यथ वामज्जममांसमपि चैव ह ||४६||
निश्चिन्तमव्ययं नित्यं हृदिस्थमपि नित्यदा |
सर्वभूतस्थमात्मानं ये पश्यन्ति न ते मृताः ||४७||
न तत्र क्रमते बुद्धिर्नेन्द्रियाणि न देवताः |
वेदा यज्ञाश्च लोकाश्च न तपो न पराक्रमः ||४८||
यत्र ज्ञानवतां प्राप्तिरलिङ्गग्रहणा स्मृता ||४८||
तस्मादलिङ्गो धर्मज्ञो धर्मव्रतमनुव्रतः |
गूढधर्माश्रितो विद्वानज्ञातचरितं चरेत् ||४९||
अमूढो मूढरूपेण चरेद्धर्ममदूषयन् |
यथैनमवमन्येरन्परे सततमेव हि ||५०||
तथावृत्तश्चरेद्धर्मं सतां वर्त्माविदूषयन् |
यो ह्येवं वृत्तसम्पन्नः स मुनिः श्रेष्ठ उच्यते ||५१||
इन्द्रियाणीन्द्रियार्थांश्च महाभूतानि पञ्च च |
मनोबुद्धिरथात्मानमव्यक्तं पुरुषं तथा ||५२||
सर्वमेतत्प्रसङ्ख्याय सम्यक्सन्त्यज्य निर्मलः |
ततः स्वर्गमवाप्नोति विमुक्तः सर्वबन्धनैः ||५३||
एतदेवान्तवेलायां परिसङ्ख्याय तत्त्ववित् |
ध्यायेदेकान्तमास्थाय मुच्यतेऽथ निराश्रयः ||५४||
निर्मुक्तः सर्वसङ्गेभ्यो वायुराकाशगो यथा |
क्षीणकोशो निरातङ्कः प्राप्नोति परमं पदम् ||५५||
४७
ब्रह्मोवाच||
संन्यासं तप इत्याहुर्वृद्धा निश्चितदर्शिनः |
ब्राह्मणा ब्रह्मयोनिस्था ज्ञानं ब्रह्म परं विदुः ||१||
अविदूरात्परं ब्रह्म वेदविद्याव्यपाश्रयम् |
निर्द्वंद्वं निर्गुणं नित्यमचिन्त्यं गुह्यमुत्तमम् ||२||
ज्ञानेन तपसा चैव धीराः पश्यन्ति तत्पदम् |
निर्णिक्ततमसः पूता व्युत्क्रान्तरजसोऽमलाः ||३||
तपसा क्षेममध्वानं गच्छन्ति परमैषिणः |
संन्यासनिरता नित्यं ये ब्रह्मविदुषो जनाः ||४||
तपः प्रदीप इत्याहुराचारो धर्मसाधकः |
ज्ञानं त्वेव परं विद्म संन्यासस्तप उत्तमम् ||५||
यस्तु वेद निराबाधं ज्ञानं तत्त्वविनिश्चयात् |
सर्वभूतस्थमात्मानं स सर्वगतिरिष्यते ||६||
यो विद्वान्सहवासं च विवासं चैव पश्यति |
तथैवैकत्वनानात्वे स दुःखात्परिमुच्यते ||७||
यो न कामयते किञ्चिन्न किञ्चिदवमन्यते |
इहलोकस्थ एवैष ब्रह्मभूयाय कल्पते ||८||
प्रधानगुणतत्त्वज्ञः सर्वभूतविधानवित् |
निर्ममो निरहङ्कारो मुच्यते नात्र संशयः ||९||
निर्द्वंद्वो निर्नमस्कारो निःस्वधाकार एव च |
निर्गुणं नित्यमद्वंद्वं प्रशमेनैव गच्छति ||१०||
हित्वा गुणमयं सर्वं कर्म जन्तुः शुभाशुभम् |
उभे सत्यानृते हित्वा मुच्यते नात्र संशयः ||११||
अव्यक्तबीजप्रभवो बुद्धिस्कन्धमयो महान् |
महाहङ्कारविटप इन्द्रियान्तरकोटरः ||१२||
महाभूतविशाखश्च विशेषप्रतिशाखवान् |
सदापर्णः सदापुष्पः शुभाशुभफलोदयः ||१३||
आजीवः सर्वभूतानां ब्रह्मवृक्षः सनातनः ||१३||
एतच्छित्त्वा च भित्त्वा च ज्ञानेन परमासिना |
हित्वा चामरतां प्राप्य जह्याद्वै मृत्युजन्मनी ||१४||
निर्ममो निरहङ्कारो मुच्यते नात्र संशयः ||१४||
द्वावेतौ पक्षिणौ नित्यौ सखायौ चाप्यचेतनौ |
एताभ्यां तु परो यस्य चेतनावानिति स्मृतः ||१५||
अचेतनः सत्त्वसङ्घातयुक्तः; सत्त्वात्परं चेतयतेऽन्तरात्मा |
स क्षेत्रज्ञः सत्त्वसङ्घातबुद्धि; र्गुणातिगो मुच्यते मृत्युपाशात् ||१६||
४८
ब्रह्मोवाच||
केचिद्ब्रह्ममयं वृक्षं केचिद्ब्रह्ममयं महत् |
केचित्पुरुषमव्यक्तं केचित्परमनामयम् ||१||
मन्यन्ते सर्वमप्येतदव्यक्तप्रभवाव्ययम् ||१||
उच्छ्वासमात्रमपि चेद्योऽन्तकाले समो भवेत् |
आत्मानमुपसङ्गम्य सोऽमृतत्वाय कल्पते ||२||
निमेषमात्रमपि चेत्संयम्यात्मानमात्मनि |
गच्छत्यात्मप्रसादेन विदुषां प्राप्तिमव्ययाम् ||३||
प्राणायामैरथ प्राणान्संयम्य स पुनः पुनः |
दशद्वादशभिर्वापि चतुर्विंशात्परं ततः ||४||
एवं पूर्वं प्रसन्नात्मा लभते यद्यदिच्छति |
अव्यक्तात्सत्त्वमुद्रिक्तममृतत्वाय कल्पते ||५||
सत्त्वात्परतरं नान्यत्प्रशंसन्तीह तद्विदः |
अनुमानाद्विजानीमः पुरुषं सत्त्वसंश्रयम् ||६||
न शक्यमन्यथा गन्तुं पुरुषं तमथो द्विजाः ||६||
क्षमा धृतिरहिंसा च समता सत्यमार्जवम् |
ज्ञानं त्यागोऽथ संन्यासः सात्त्विकं वृत्तमिष्यते ||७||
एतेनैवानुमानेन मन्यन्तेऽथ मनीषिणः |
सत्त्वं च पुरुषश्चैकस्तत्र नास्ति विचारणा ||८||
आहुरेके च विद्वांसो ये ज्ञाने सुप्रतिष्ठिताः |
क्षेत्रज्ञसत्त्वयोरैक्यमित्येतन्नोपपद्यते ||९||
पृथग्भूतस्ततो नित्यमित्येतदविचारितम् |
पृथग्भावश्च विज्ञेयः सहजश्चापि तत्त्वतः ||१०||
तथैवैकत्वनानात्वमिष्यते विदुषां नयः |
मशकोदुम्बरे त्वैक्यं पृथक्त्वमपि दृश्यते ||११||
मत्स्यो यथान्यः स्यादप्सु सम्प्रयोगस्तथानयोः |
सम्बन्धस्तोयबिन्दूनां पर्णे कोकनदस्य च ||१२||
गुरुरुवाच||
इत्युक्तवन्तं ते विप्रास्तदा लोकपितामहम् |
पुनः संशयमापन्नाः पप्रच्छुर्द्विजसत्तमाः ||१३||
ऋषय ऊचुः||
किं स्विदेवेह धर्माणामनुष्ठेयतमं स्मृतम् |
व्याहतामिव पश्यामो धर्मस्य विविधां गतिम् ||१४||
ऊर्ध्वं देहाद्वदन्त्येके नैतदस्तीति चापरे |
केचित्संशयितं सर्वं निःसंशयमथापरे ||१५||
अनित्यं नित्यमित्येके नास्त्यस्तीत्यपि चापरे |
एकरूपं द्विधेत्येके व्यामिश्रमिति चापरे ||१६||
एकमेके पृथक्चान्ये बहुत्वमिति चापरे ||१६||
मन्यन्ते ब्राह्मणा एवं प्राज्ञास्तत्त्वार्थदर्शिनः |
जटाजिनधराश्चान्ये मुण्डाः केचिदसंवृताः ||१७||
अस्नानं केचिदिच्छन्ति स्नानमित्यपि चापरे |
आहारं केचिदिच्छन्ति केचिच्चानशने रताः ||१८||
कर्म केचित्प्रशंसन्ति प्रशान्तिमपि चापरे |
देशकालावुभौ केचिन्नैतदस्तीति चापरे ||१९||
केचिन्मोक्षं प्रशंसन्ति केचिद्भोगान्पृथग्विधान् ||१९||
धनानि केचिदिच्छन्ति निर्धनत्वं तथापरे |
उपास्यसाधनं त्वेके नैतदस्तीति चापरे ||२०||
अहिंसानिरताश्चान्ये केचिद्धिंसापरायणाः |
पुण्येन यशसेत्येके नैतदस्तीति चापरे ||२१||
सद्भावनिरताश्चान्ये केचित्संशयिते स्थिताः |
दुःखादन्ये सुखादन्ये ध्यानमित्यपरे स्थिताः ||२२||
यज्ञमित्यपरे धीराः प्रदानमिति चापरे |
सर्वमेके प्रशंसन्ति न सर्वमिति चापरे ||२३||
तपस्त्वन्ये प्रशंसन्ति स्वाध्यायमपरे जनाः |
ज्ञानं संन्यासमित्येके स्वभावं भूतचिन्तकाः ||२४||
एवं व्युत्थापिते धर्मे बहुधा विप्रधावति |
निश्चयं नाधिगच्छामः संमूढाः सुरसत्तम ||२५||
इदं श्रेय इदं श्रेय इत्येवं प्रस्थितो जनः |
यो हि यस्मिन्रतो धर्मे स तं पूजयते सदा ||२६||
तत्र नो विहता प्रज्ञा मनश्च बहुलीकृतम् |
एतदाख्यातुमिच्छामः श्रेयः किमिति सत्तम ||२७||
अतः परं च यद्गुह्यं तद्भवान्वक्तुमर्हति |
सत्त्वक्षेत्रज्ञयोश्चैव सम्बन्धः केन हेतुना ||२८||
एवमुक्तः स तैर्विप्रैर्भगवाँल्लोकभावनः |
तेभ्यः शशंस धर्मात्मा याथातथ्येन बुद्धिमान् ||२९||
४९
ब्रह्मोवाच||
हन्त वः सम्प्रवक्ष्यामि यन्मां पृच्छथ सत्तमाः |
समस्तमिह तच्छ्रुत्वा सम्यगेवावधार्यताम् ||१||
अहिंसा सर्वभूतानामेतत्कृत्यतमं मतम् |
एतत्पदमनुद्विग्नं वरिष्ठं धर्मलक्षणम् ||२||
ज्ञानं निःश्रेय इत्याहुर्वृद्धा निश्चयदर्शिनः |
तस्माज्ज्ञानेन शुद्धेन मुच्यते सर्वपातकैः ||३||
हिंसापराश्च ये लोके ये च नास्तिकवृत्तयः |
लोभमोहसमायुक्तास्ते वै निरयगामिनः ||४||
आशीर्युक्तानि कर्माणि कुर्वते ये त्वतन्द्रिताः |
तेऽस्मिँल्लोके प्रमोदन्ते जायमानाः पुनः पुनः ||५||
कुर्वते ये तु कर्माणि श्रद्दधाना विपश्चितः |
अनाशीर्योगसंयुक्तास्ते धीराः साधुदर्शिनः ||६||
अतः परं प्रवक्ष्यामि सत्त्वक्षेत्रज्ञयोर्यथा |
संयोगो विप्रयोगश्च तन्निबोधत सत्तमाः ||७||
विषयो विषयित्वं च सम्बन्धोऽयमिहोच्यते |
विषयी पुरुषो नित्यं सत्त्वं च विषयः स्मृतः ||८||
व्याख्यातं पूर्वकल्पेन मशकोदुम्बरं यथा |
भुज्यमानं न जानीते नित्यं सत्त्वमचेतनम् ||९||
यस्त्वेव तु विजानीते यो भुङ्क्ते यश्च भुज्यते ||९||
अनित्यं द्वंद्वसंयुक्तं सत्त्वमाहुर्गुणात्मकम् |
निर्द्वंद्वो निष्कलो नित्यः क्षेत्रज्ञो निर्गुणात्मकः ||१०||
समः सञ्ज्ञागतस्त्वेवं यदा सर्वत्र दृश्यते |
उपभुङ्क्ते सदा सत्त्वमापः पुष्करपर्णवत् ||११||
सर्वैरपि गुणैर्विद्वान्व्यतिषक्तो न लिप्यते |
जलबिन्दुर्यथा लोलः पद्मिनीपत्रसंस्थितः ||१२||
एवमेवाप्यसंसक्तः पुरुषः स्यान्न संशयः ||१२||
द्रव्यमात्रमभूत्सत्त्वं पुरुषस्येति निश्चयः |
यथा द्रव्यं च कर्ता च संयोगोऽप्यनयोस्तथा ||१३||
यथा प्रदीपमादाय कश्चित्तमसि गच्छति |
तथा सत्त्वप्रदीपेन गच्छन्ति परमैषिणः ||१४||
यावद्द्रव्यगुणस्तावत्प्रदीपः सम्प्रकाशते |
क्षीणद्रव्यगुणं ज्योतिरन्तर्धानाय गच्छति ||१५||
व्यक्तः सत्त्वगुणस्त्वेवं पुरुषोऽव्यक्त इष्यते |
एतद्विप्रा विजानीत हन्त भूयो ब्रवीमि वः ||१६||
सहस्रेणापि दुर्मेधा न वृद्धिमधिगच्छति |
चतुर्थेनाप्यथांशेन बुद्धिमान्सुखमेधते ||१७||
एवं धर्मस्य विज्ञेयं संसाधनमुपायतः |
उपायज्ञो हि मेधावी सुखमत्यन्तमश्नुते ||१८||
यथाध्वानमपाथेयः प्रपन्नो मानवः क्वचित् |
क्लेशेन याति महता विनश्यत्यन्तरापि वा ||१९||
तथा कर्मसु विज्ञेयं फलं भवति वा न वा |
पुरुषस्यात्मनिःश्रेयः शुभाशुभनिदर्शनम् ||२०||
यथा च दीर्घमध्वानं पद्भ्यामेव प्रपद्यते |
अदृष्टपूर्वं सहसा तत्त्वदर्शनवर्जितः ||२१||
तमेव च यथाध्वानं रथेनेहाशुगामिना |
यायादश्वप्रयुक्तेन तथा बुद्धिमतां गतिः ||२२||
उच्चं पर्वतमारुह्य नान्ववेक्षेत भूगतम् |
रथेन रथिनं पश्येत्क्लिश्यमानमचेतनम् ||२३||
यावद्रथपथस्तावद्रथेन स तु गच्छति |
क्षीणे रथपथे प्राज्ञो रथमुत्सृज्य गच्छति ||२४||
एवं गच्छति मेधावी तत्त्वयोगविधानवित् |
समाज्ञाय महाबुद्धिरुत्तरादुत्तरोत्तरम् ||२५||
यथा महार्णवं घोरमप्लवः सम्प्रगाहते |
बाहुभ्यामेव संमोहाद्वधं चर्च्छत्यसंशयम् ||२६||
नावा चापि यथा प्राज्ञो विभागज्ञस्तरित्रया |
अक्लान्तः सलिलं गाहेत्क्षिप्रं सन्तरति ध्रुवम् ||२७||
तीर्णो गच्छेत्परं पारं नावमुत्सृज्य निर्ममः |
व्याख्यातं पूर्वकल्पेन यथा रथिपदातिनौ ||२८||
स्नेहात्संमोहमापन्नो नावि दाशो यथा तथा |
ममत्वेनाभिभूतः स तत्रैव परिवर्तते ||२९||
नावं न शक्यमारुह्य स्थले विपरिवर्तितुम् |
तथैव रथमारुह्य नाप्सु चर्या विधीयते ||३०||
एवं कर्म कृतं चित्रं विषयस्थं पृथक्पृथक् |
यथा कर्म कृतं लोके तथा तदुपपद्यते ||३१||
यन्नैव गन्धिनो रस्यं न रूपस्पर्शशब्दवत् |
मन्यन्ते मुनयो बुद्ध्या तत्प्रधानं प्रचक्षते ||३२||
तत्र प्रधानमव्यक्तमव्यक्तस्य गुणो महान् |
महतः प्रधानभूतस्य गुणोऽहङ्कार एव च ||३३||
अहङ्कारप्रधानस्य महाभूतकृतो गुणः |
पृथक्त्वेन हि भूतानां विषया वै गुणाः स्मृताः ||३४||
बीजधर्मं यथाव्यक्तं तथैव प्रसवात्मकम् |
बीजधर्मा महानात्मा प्रसवश्चेति नः श्रुतम् ||३५||
बीजधर्मा त्वहङ्कारः प्रसवश्च पुनः पुनः |
बीजप्रसवधर्माणि महाभूतानि पञ्च वै ||३६||
बीजधर्मिण इत्याहुः प्रसवं च न कुर्वते |
विशेषाः पञ्चभूतानां तेषां वित्तं विशेषणम् ||३७||
तत्रैकगुणमाकाशं द्विगुणो वायुरुच्यते |
त्रिगुणं ज्योतिरित्याहुरापश्चापि चतुर्गुणाः ||३८||
पृथ्वी पञ्चगुणा ज्ञेया त्रसस्थावरसङ्कुला |
सर्वभूतकरी देवी शुभाशुभनिदर्शना ||३९||
शब्दः स्पर्शस्तथा रूपं रसो गन्धश्च पञ्चमः |
एते पञ्च गुणा भूमेर्विज्ञेया द्विजसत्तमाः ||४०||
पार्थिवश्च सदा गन्धो गन्धश्च बहुधा स्मृतः |
तस्य गन्धस्य वक्ष्यामि विस्तरेण बहून्गुणान् ||४१||
इष्टश्चानिष्टगन्धश्च मधुरोऽम्लः कटुस्तथा |
निर्हारी संहतः स्निग्धो रूक्षो विशद एव च ||४२||
एवं दशविधो ज्ञेयः पार्थिवो गन्ध इत्युत ||४२||
शब्दः स्पर्शस्तथा रूपं रसश्चापां गुणाः स्मृताः |
रसज्ञानं तु वक्ष्यामि रसस्तु बहुधा स्मृतः ||४३||
मधुरोऽम्लः कटुस्तिक्तः कषायो लवणस्तथा |
एवं षड्विधविस्तारो रसो वारिमयः स्मृतः ||४४||
शब्दः स्पर्शस्तथा रूपं त्रिगुणं ज्योतिरुच्यते |
ज्योतिषश्च गुणो रूपं रूपं च बहुधा स्मृतम् ||४५||
शुक्लं कृष्णं तथा रक्तं नीलं पीतारुणं तथा |
ह्रस्वं दीर्घं तथा स्थूलं चतुरस्राणु वृत्तकम् ||४६||
एवं द्वादशविस्तारं तेजसो रूपमुच्यते |
विज्ञेयं ब्राह्मणैर्नित्यं धर्मज्ञैः सत्यवादिभिः ||४७||
शब्दस्पर्शौ च विज्ञेयौ द्विगुणो वायुरुच्यते |
वायोश्चापि गुणः स्पर्शः स्पर्शश्च बहुधा स्मृतः ||४८||
उष्णः शीतः सुखो दुःखः स्निग्धो विशद एव च |
कठिनश्चिक्कणः श्लक्ष्णः पिच्छिलो दारुणो मृदुः ||४९||
एवं द्वादशविस्तारो वायव्यो गुण उच्यते |
विधिवद्ब्रह्मणैः सिद्धैर्धर्मज्ञैस्तत्त्वदर्शिभिः ||५०||
तत्रैकगुणमाकाशं शब्द इत्येव च स्मृतः |
तस्य शब्दस्य वक्ष्यामि विस्तरेण बहून्गुणान् ||५१||
षड्जर्षभौ च गान्धारो मध्यमः पञ्चमस्तथा |
अतः परं तु विज्ञेयो निषादो धैवतस्तथा ||५२||
इष्टोऽनिष्टश्च शब्दस्तु संहतः प्रविभागवान् |
एवं बहुविधो ज्ञेयः शब्द आकाशसम्भवः ||५३||
आकाशमुत्तमं भूतमहङ्कारस्ततः परम् |
अहङ्कारात्परा बुद्धिर्बुद्धेरात्मा ततः परः ||५४||
तस्मात्तु परमव्यक्तमव्यक्तात्पुरुषः परः |
परावरज्ञो भूतानां यं प्राप्यानन्त्यमश्नुते ||५५||
५०
ब्रह्मोवाच||
भूतानामथ पञ्चानां यथैषामीश्वरं मनः |
नियमे च विसर्गे च भूतात्मा मन एव च ||१||
अधिष्ठाता मनो नित्यं भूतानां महतां तथा |
बुद्धिरैश्वर्यमाचष्टे क्षेत्रज्ञः सर्व उच्यते ||२||
इन्द्रियाणि मनो युङ्क्ते सदश्वानिव सारथिः |
इन्द्रियाणि मनो बुद्धिं क्षेत्रज्ञो युञ्जते सदा ||३||
महाभूतसमायुक्तं बुद्धिसंयमनं रथम् |
तमारुह्य स भूतात्मा समन्तात्परिधावति ||४||
इन्द्रियग्रामसंयुक्तो मनःसारथिरेव च |
बुद्धिसंयमनो नित्यं महान्ब्रह्ममयो रथः ||५||
एवं यो वेत्ति विद्वान्वै सदा ब्रह्ममयं रथम् |
स धीरः सर्वलोकेषु न मोहमधिगच्छति ||६||
अव्यक्तादि विशेषान्तं त्रसस्थावरसङ्कुलम् |
चन्द्रसूर्यप्रभालोकं ग्रहनक्षत्रमण्डितम् ||७||
नदीपर्वतजालैश्च सर्वतः परिभूषितम् |
विविधाभिस्तथाद्भिश्च सततं समलङ्कृतम् ||८||
आजीवः सर्वभूतानां सर्वप्राणभृतां गतिः |
एतद्ब्रह्मवनं नित्यं यस्मिंश्चरति क्षेत्रवित् ||९||
लोकेऽस्मिन्यानि भूतानि स्थावराणि चराणि च |
तान्येवाग्रे प्रलीयन्ते पश्चाद्भूतकृता गुणाः ||१०||
गुणेभ्यः पञ्चभूतानि एष भूतसमुच्छ्रयः ||१०||
देवा मनुष्या गन्धर्वाः पिशाचासुरराक्षसाः |
सर्वे स्वभावतः सृष्टा न क्रियाभ्यो न कारणात् ||११||
एते विश्वकृतो विप्रा जायन्ते ह पुनः पुनः |
तेभ्यः प्रसूतास्तेष्वेव महाभूतेषु पञ्चसु ||१२||
प्रलीयन्ते यथाकालमूर्मयः सागरे यथा ||१२||
विश्वसृग्भ्यस्तु भूतेभ्यो महाभूतानि गच्छति |
भूतेभ्यश्चापि पञ्चभ्यो मुक्तो गच्छेत्प्रजापतिम् ||१३||
प्रजापतिरिदं सर्वं तपसैवासृजत्प्रभुः |
तथैव वेदानृषयस्तपसा प्रतिपेदिरे ||१४||
तपसश्चानुपूर्व्येण फलमूलाशिनस्तथा |
त्रैलोक्यं तपसा सिद्धाः पश्यन्तीह समाहिताः ||१५||
ओषधान्यगदादीनी नानाविद्याश्च सर्वशः |
तपसैव प्रसिध्यन्ति तपोमूलं हि साधनम् ||१६||
यद्दुरापं दुराम्नायं दुराधर्षं दुरन्वयम् |
तत्सर्वं तपसा साध्यं तपो हि दुरतिक्रमम् ||१७||
सुरापो ब्रह्महा स्तेयी भ्रूणहा गुरुतल्पगः |
तपसैव सुतप्तेन मुच्यन्ते किल्बिषात्ततः ||१८||
मनुष्याः पितरो देवाः पशवो मृगपक्षिणः |
यानि चान्यानि भूतानि त्रसानि स्थावराणि च ||१९||
तपःपरायणा नित्यं सिध्यन्ते तपसा सदा |
तथैव तपसा देवा महाभागा दिवं गताः ||२०||
आशीर्युक्तानि कर्माणि कुर्वते ये त्वतन्द्रिताः |
अहङ्कारसमायुक्तास्ते सकाशे प्रजापतेः ||२१||
ध्यानयोगेन शुद्धेन निर्ममा निरहङ्कृताः |
प्राप्नुवन्ति महात्मानो महान्तं लोकमुत्तमम् ||२२||
ध्यानयोगादुपागम्य प्रसन्नमतयः सदा |
सुखोपचयमव्यक्तं प्रविशन्त्यात्मवत्तया ||२३||
ध्यानयोगादुपागम्य निर्ममा निरहङ्कृताः |
अव्यक्तं प्रविशन्तीह महान्तं लोकमुत्तमम् ||२४||
अव्यक्तादेव सम्भूतः समयज्ञो गतः पुनः |
तमोरजोभ्यां निर्मुक्तः सत्त्वमास्थाय केवलम् ||२५||
विमुक्तः सर्वपापेभ्यः सर्वं त्यजति निष्कलः |
क्षेत्रज्ञ इति तं विद्याद्यस्तं वेद स वेदवित् ||२६||
चित्तं चित्तादुपागम्य मुनिरासीत संयतः |
यच्चित्तस्तन्मना भूत्वा गुह्यमेतत्सनातनम् ||२७||
अव्यक्तादि विशेषान्तमविद्यालक्षणं स्मृतम् |
निबोधत यथा हीदं गुणैर्लक्षणमित्युत ||२८||
द्व्यक्षरस्तु भवेन्मृत्युस्त्र्यक्षरं ब्रह्म शाश्वतम् |
ममेति च भवेन्मृत्युर्न ममेति च शाश्वतम् ||२९||
कर्म केचित्प्रशंसन्ति मन्दबुद्धितरा नराः |
ये तु बुद्धा महात्मानो न प्रशंसन्ति कर्म ते ||३०||
कर्मणा जायते जन्तुर्मूर्तिमान्षोडशात्मकः |
पुरुषं सृजतेऽविद्या अग्राह्यममृताशिनम् ||३१||
तस्मात्कर्मसु निःस्नेहा ये केचित्पारदर्शिनः |
विद्यामयोऽयं पुरुषो न तु कर्ममयः स्मृतः ||३२||
अपूर्वममृतं नित्यं य एनमविचारिणम् |
य एनं विन्दतेऽऽत्मानमग्राह्यममृताशिनम् ||३३||
अग्राह्योऽमृतो भवति य एभिः कारणैर्ध्रुवः ||३३||
अपोह्य सर्वसङ्कल्पान्संयम्यात्मानमात्मनि |
स तद्ब्रह्म शुभं वेत्ति यस्माद्भूयो न विद्यते ||३४||
प्रसादेनैव सत्त्वस्य प्रसादं समवाप्नुयात् |
लक्षणं हि प्रसादस्य यथा स्यात्स्वप्नदर्शनम् ||३५||
गतिरेषा तु मुक्तानां ये ज्ञानपरिनिष्ठिताः |
प्रवृत्तयश्च याः सर्वाः पश्यन्ति परिणामजाः ||३६||
एषा गतिरसक्तानामेष धर्मः सनातनः |
एषा ज्ञानवतां प्राप्तिरेतद्वृत्तमनिन्दितम् ||३७||
समेन सर्वभूतेषु निःस्पृहेण निराशिषा |
शक्या गतिरियं गन्तुं सर्वत्र समदर्शिना ||३८||
एतद्वः सर्वमाख्यातं मया विप्रर्षिसत्तमाः |
एवमाचरत क्षिप्रं ततः सिद्धिमवाप्स्यथ ||३९||
गुरुरुवाच||
इत्युक्तास्ते तु मुनयो ब्रह्मणा गुरुणा तथा |
कृतवन्तो महात्मानस्ततो लोकानवाप्नुवन् ||४०||
त्वमप्येतन्महाभाग यथोक्तं ब्रह्मणो वचः |
सम्यगाचर शुद्धात्मंस्ततः सिद्धिमवाप्स्यसि ||४१||
वासुदेव उवाच||
इत्युक्तः स तदा शिष्यो गुरुणा धर्ममुत्तमम् |
चकार सर्वं कौन्तेय ततो मोक्षमवाप्तवान् ||४२||
कृतकृत्यश्च स तदा शिष्यः कुरुकुलोद्वह |
तत्पदं समनुप्राप्तो यत्र गत्वा न शोचति ||४३||
अर्जुन उवाच||
को न्वसौ ब्राह्मणः कृष्ण कश्च शिष्यो जनार्दन |
श्रोतव्यं चेन्मयैतद्वै तत्त्वमाचक्ष्व मे विभो ||४४||
वासुदेव उवाच||
अहं गुरुर्महाबाहो मनः शिष्यं च विद्धि मे |
त्वत्प्रीत्या गुह्यमेतच्च कथितं मे धनञ्जय ||४५||
मयि चेदस्ति ते प्रीतिर्नित्यं कुरुकुलोद्वह |
अध्यात्ममेतच्छ्रुत्वा त्वं सम्यगाचर सुव्रत ||४६||
ततस्त्वं सम्यगाचीर्णे धर्मेऽस्मिन्कुरुनन्दन |
सर्वपापविशुद्धात्मा मोक्षं प्राप्स्यसि केवलम् ||४७||
पूर्वमप्येतदेवोक्तं युद्धकाल उपस्थिते |
मया तव महाबाहो तस्मादत्र मनः कुरु ||४८||
मया तु भरतश्रेष्ठ चिरदृष्टः पिता विभो |
तमहं द्रष्टुमिच्छामि संमते तव फल्गुन ||४९||
वैशम्पायन उवाच||
इत्युक्तवचनं कृष्णं प्रत्युवाच धनञ्जयः |
गच्छावो नगरं कृष्ण गजसाह्वयमद्य वै ||५०||
समेत्य तत्र राजानं धर्मात्मानं युधिष्ठिरम् |
समनुज्ञाप्य दुर्धर्षं स्वां पुरीं यातुमर्हसि ||५१||
कृष्णद्वारकाप्रस्थानाम्
५१
वैशम्पायन उवाच||
ततोऽभ्यचोदयत्कृष्णो युज्यतामिति दारुकम् |
मुहूर्तादिव चाचष्ट युक्तमित्येव दारुकः ||१||
तथैव चानुयात्राणि चोदयामास पाण्डवः |
सज्जयध्वं प्रयास्यामो नगरं गजसाह्वयम् ||२||
इत्युक्ताः सैनिकास्ते तु सज्जीभूता विशां पते |
आचख्युः सज्जमित्येव पार्थायामिततेजसे ||३||
ततस्तौ रथमास्थाय प्रयातौ कृष्णपाण्डवौ |
विकुर्वाणौ कथाश्चित्राः प्रीयमाणौ विशां पते ||४||
रथस्थं तु महातेजा वासुदेवं धनञ्जयः |
पुनरेवाब्रवीद्वाक्यमिदं भरतसत्तम ||५||
त्वत्प्रसादाज्जयः प्राप्तो राज्ञा वृष्णिकुलोद्वह |
निहताः शत्रवश्चापि प्राप्तं राज्यमकण्टकम् ||६||
नाथवन्तश्च भवता पाण्डवा मधुसूदन |
भवन्तं प्लवमासाद्य तीर्णाः स्म कुरुसागरम् ||७||
विश्वकर्मन्नमस्तेऽस्तु विश्वात्मन्विश्वसम्भव |
यथाहं त्वा विजानामि यथा चाहं भवन्मनाः ||८||
त्वत्तेजःसम्भवो नित्यं हुताशो मधुसूदन |
रतिः क्रीडामयी तुभ्यं माया ते रोदसी विभो ||९||
त्वयि सर्वमिदं विश्वं यदिदं स्थाणुजङ्गमम् |
त्वं हि सर्वं विकुरुषे भूतग्रामं सनातनम् ||१०||
पृथिवीं चान्तरिक्षं च तथा स्थावरजङ्गमम् |
हसितं तेऽमला ज्योत्स्ना ऋतवश्चेन्द्रियान्वयाः ||११||
प्राणो वायुः सततगः क्रोधो मृत्युः सनातनः |
प्रसादे चापि पद्मा श्रीर्नित्यं त्वयि महामते ||१२||
रतिस्तुष्टिर्धृतिः क्षान्तिस्त्वयि चेदं चराचरम् |
त्वमेवेह युगान्तेषु निधनं प्रोच्यसेऽनघ ||१३||
सुदीर्घेणापि कालेन न ते शक्या गुणा मया |
आत्मा च परमो वक्तुं नमस्ते नलिनेक्षण ||१४||
विदितो मेऽसि दुर्धर्ष नारदाद्देवलात्तथा |
कृष्णद्वैपायनाच्चैव तथा कुरुपितामहात् ||१५||
त्वयि सर्वं समासक्तं त्वमेवैको जनेश्वरः |
यच्चानुग्रहसंयुक्तमेतदुक्तं त्वयानघ ||१६||
एतत्सर्वमहं सम्यगाचरिष्ये जनार्दन |
इदं चाद्भुतमत्यर्थं कृतमस्मत्प्रियेप्सया ||१७||
यत्पापो निहतः सङ्ख्ये कौरव्यो धृतराष्ट्रजः |
त्वया दग्धं हि तत्सैन्यं मया विजितमाहवे ||१८||
भवता तत्कृतं कर्म येनावाप्तो जयो मया |
दुर्योधनस्य सङ्ग्रामे तव बुद्धिपराक्रमैः ||१९||
कर्णस्य च वधोपायो यथावत्सम्प्रदर्शितः |
सैन्धवस्य च पापस्य भूरिश्रवस एव च ||२०||
अहं च प्रीयमाणेन त्वया देवकिनन्दन |
यदुक्तस्तत्करिष्यामि न हि मेऽत्र विचारणा ||२१||
राजानं च समासाद्य धर्मात्मानं युधिष्ठिरम् |
चोदयिष्यामि धर्मज्ञ गमनार्थं तवानघ ||२२||
रुचितं हि ममैतत्ते द्वारकागमनं प्रभो |
अचिराच्चैव दृष्टा त्वं मातुलं मधुसूदन ||२३||
बलदेवं च दुर्धर्षं तथान्यान्वृष्णिपुङ्गवान् ||२३||
एवं सम्भाषमाणौ तौ प्राप्तौ वारणसाह्वयम् |
तथा विविशतुश्चोभौ सम्प्रहृष्टनराकुलम् ||२४||
तौ गत्वा धृतराष्ट्रस्य गृहं शक्रगृहोपमम् |
ददृशाते महाराज धृतराष्ट्रं जनेश्वरम् ||२५||
विदुरं च महाबुद्धिं राजानं च युधिष्ठिरम् |
भीमसेनं च दुर्धर्षं माद्रीपुत्रौ च पाण्डवौ ||२६||
धृतराष्ट्रमुपासीनं युयुत्सुं चापराजितम् ||२६||
गान्धारीं च महाप्राज्ञां पृथां कृष्णां च भामिनीम् |
सुभद्राद्याश्च ताः सर्वा भरतानां स्त्रियस्तथा ||२७||
ददृशाते स्थिताः सर्वा गान्धारीं परिवार्य वै ||२७||
ततः समेत्य राजानं धृतराष्ट्रमरिंदमौ |
निवेद्य नामधेये स्वे तस्य पादावगृह्णताम् ||२८||
गान्धार्याश्च पृथायाश्च धर्मराज्ञस्तथैव च |
भीमस्य च महात्मानौ तथा पादावगृह्णताम् ||२९||
क्षत्तारं चापि सम्पूज्य पृष्ट्वा कुशलमव्ययम् |
तैः सार्धं नृपतिं वृद्धं ततस्तं पर्युपासताम् ||३०||
ततो निशि महाराज धृतराष्ट्रः कुरूद्वहान् |
जनार्दनं च मेधावी व्यसर्जयत वै गृहान् ||३१||
तेऽनुज्ञाता नृपतिना ययुः स्वं स्वं निवेशनम् |
धनञ्जयगृहानेव ययौ कृष्णस्तु वीर्यवान् ||३२||
तत्रार्चितो यथान्यायं सर्वकामैरुपस्थितः |
कृष्णः सुष्वाप मेधावी धनञ्जयसहायवान् ||३३||
प्रभातायां तु शर्वर्यां कृतपूर्वाह्णिकक्रियौ |
धर्मराजस्य भवनं जग्मतुः परमार्चितौ ||३४||
यत्रास्ते स सहामात्यो धर्मराजो महामनाः ||३४||
ततस्तौ तत्प्रविश्याथ ददृशाते महाबलौ |
धर्मराजानमासीनं देवराजमिवाश्विनौ ||३५||
तौ समासाद्य राजानं वार्ष्णेयकुरुपुङ्गवौ |
निषीदतुरनुज्ञातौ प्रीयमाणेन तेन वै ||३६||
ततः स राजा मेधावी विवक्षू प्रेक्ष्य तावुभौ |
प्रोवाच वदतां श्रेष्ठो वचनं राजसत्तमः ||३७||
विवक्षू हि युवां मन्ये वीरौ यदुकुरूद्वहौ |
ब्रूत कर्तास्मि सर्वं वां न चिरान्मा विचार्यताम् ||३८||
इत्युक्ते फल्गुनस्तत्र धर्मराजानमब्रवीत् |
विनीतवदुपागम्य वाक्यं वाक्यविशारदः ||३९||
अयं चिरोषितो राजन्वासुदेवः प्रतापवान् |
भवन्तं समनुज्ञाप्य पितरं द्रष्टुमिच्छति ||४०||
स गच्छेदभ्यनुज्ञातो भवता यदि मन्यसे |
आनर्तनगरीं वीरस्तदनुज्ञातुमर्हसि ||४१||
युधिष्ठिर उवाच||
पुण्डरीकाक्ष भद्रं ते गच्छ त्वं मधुसूदन |
पुरीं द्वारवतीमद्य द्रष्टुं शूरसुतं प्रभुम् ||४२||
रोचते मे महाबाहो गमनं तव केशव |
मातुलश्चिरदृष्टो मे त्वया देवी च देवकी ||४३||
मातुलं वसुदेवं त्वं बलदेवं च माधव |
पूजयेथा महाप्राज्ञ मद्वाक्येन यथार्हतः ||४४||
स्मरेथाश्चापि मां नित्यं भीमं च बलिनां वरम् |
फल्गुनं नकुलं चैव सहदेवं च माधव ||४५||
आनर्तानवलोक्य त्वं पितरं च महाभुज |
वृष्णींश्च पुनरागच्छेर्हयमेधे ममानघ ||४६||
स गच्छ रत्नान्यादाय विविधानि वसूनि च |
यच्चाप्यन्यन्मनोज्ञं ते तदप्यादत्स्व सात्वत ||४७||
इयं हि वसुधा सर्वा प्रसादात्तव माधव |
अस्मानुपगता वीर निहताश्चापि शत्रवः ||४८||
एवं ब्रुवति कौरव्ये धर्मराजे युधिष्ठिरे |
वासुदेवो वरः पुंसामिदं वचनमब्रवीत् ||४९||
तवैव रत्नानि धनं च केवल; म्धरा च कृत्स्ना तु महाभुजाद्य वै |
यदस्ति चान्यद्द्रविणं गृहेषु मे; त्वमेव तस्येश्वर नित्यमीश्वरः ||५०||
तथेत्यथोक्तः प्रतिपूजितस्तदा; गदाग्रजो धर्मसुतेन वीर्यवान् |
पितृष्वसामभ्यवदद्यथाविधि; सम्पूजितश्चाप्यगमत्प्रदक्षिणम् ||५१||
तया स सम्यक्प्रतिनन्दितस्तदा; तथैव सर्वैर्विदुरादिभिस्ततः |
विनिर्ययौ नागपुराद्गदाग्रजो; रथेन दिव्येन चतुर्युजा हरिः ||५२||
रथं सुभद्रामधिरोप्य भामिनीं; युधिष्ठिरस्यानुमते जनार्दनः |
पितृष्वसायाश्च तथा महाभुजो; विनिर्ययौ पौरजनाभिसंवृतः ||५३||
तमन्वगाद्वानरवर्यकेतनः; ससात्यकिर्माद्रवतीसुतावपि |
अगाधबुद्धिर्विदुरश्च माधवं; स्वयं च भीमो गजराजविक्रमः ||५४||
निवर्तयित्वा कुरुराष्ट्रवर्धनां; स्ततः स सर्वान्विदुरं च वीर्यवान् |
जनार्दनो दारुकमाह सत्वरः; प्रचोदयाश्वानिति सात्यकिस्तदा ||५५||
ततो ययौ शत्रुगणप्रमर्दनः; शिनिप्रवीरानुगतो जनार्दनः |
यथा निहत्यारिगणाञ्शतक्रतु; र्दिवं तथानर्तपुरीं प्रतापवान् ||५६||
उत्तङ्कोपाख्यानम्
५२
वैशम्पायन उवाच||
तथा प्रयान्तं वार्ष्णेयं द्वारकां भरतर्षभाः |
परिष्वज्य न्यवर्तन्त सानुयात्राः परन्तपाः ||१||
पुनः पुनश्च वार्ष्णेयं पर्यष्वजत फल्गुनः |
आ चक्षुर्विषयाच्चैनं ददर्श च पुनः पुनः ||२||
कृच्छ्रेणैव च तां पार्थो गोविन्दे विनिवेशिताम् |
सञ्जहार तदा दृष्टिं कृष्णश्चाप्यपराजितः ||३||
तस्य प्रयाणे यान्यासन्निमित्तानि महात्मनः |
बहून्यद्भुतरूपाणि तानि मे गदतः शृणु ||४||
वायुर्वेगेन महता रथस्य पुरतो ववौ |
कुर्वन्निःशर्करं मार्गं विरजस्कमकण्टकम् ||५||
ववर्ष वासवश्चापि तोयं शुचि सुगन्धि च |
दिव्यानि चैव पुष्पाणि पुरतः शार्ङ्गधन्वनः ||६||
स प्रयातो महाबाहुः समेषु मरुधन्वसु |
ददर्शाथ मुनिश्रेष्ठमुत्तङ्कममितौजसम् ||७||
स तं सम्पूज्य तेजस्वी मुनिं पृथुललोचनः |
पूजितस्तेन च तदा पर्यपृच्छदनामयम् ||८||
स पृष्टः कुशलं तेन सम्पूज्य मधुसूदनम् |
उत्तङ्को ब्राह्मणश्रेष्ठस्ततः पप्रच्छ माधवम् ||९||
कच्चिच्छौरे त्वया गत्वा कुरुपाण्डवसद्म तत् |
कृतं सौभ्रात्रमचलं तन्मे व्याख्यातुमर्हसि ||१०||
अभिसन्धाय तान्वीरानुपावृत्तोऽसि केशव |
सम्बन्धिनः सुदयितान्सततं वृष्णिपुङ्गव ||११||
कच्चित्पाण्डुसुताः पञ्च धृतराष्ट्रस्य चात्मजाः |
लोकेषु विहरिष्यन्ति त्वया सह परन्तप ||१२||
स्वराष्ट्रेषु च राजानः कच्चित्प्राप्स्यन्ति वै सुखम् |
कौरवेषु प्रशान्तेषु त्वया नाथेन माधव ||१३||
या मे सम्भावना तात त्वयि नित्यमवर्तत |
अपि सा सफला कृष्ण कृता ते भरतान्प्रति ||१४||
वासुदेव उवाच||
कृतो यत्नो मया ब्रह्मन्सौभ्रात्रे कौरवान्प्रति |
न चाशक्यन्त सन्धातुं तेऽधर्मरुचयो मया ||१५||
ततस्ते निधनं प्राप्ताः सर्वे ससुतबान्धवाः |
न दिष्टमभ्यतिक्रान्तुं शक्यं बुद्ध्या बलेन वा ||१६||
महर्षे विदितं नूनं सर्वमेतत्तवानघ ||१६||
तेऽत्यक्रामन्मतिं मह्यं भीष्मस्य विदुरस्य च |
ततो यमक्षयं जग्मुः समासाद्येतरेतरम् ||१७||
पञ्च वै पाण्डवाः शिष्टा हतमित्रा हतात्मजाः |
धार्तराष्ट्राश्च निहताः सर्वे ससुतबान्धवाः ||१८||
इत्युक्तवचने कृष्णे भृशं क्रोधसमन्वितः |
उत्तङ्कः प्रत्युवाचैनं रोषादुत्फाल्य लोचने ||१९||
यस्माच्छक्तेन ते कृष्ण न त्राताः कुरुपाण्डवाः |
सम्बन्धिनः प्रियास्तस्माच्छप्स्येऽहं त्वामसंशयम् ||२०||
न च ते प्रसभं यस्मात्ते निगृह्य निवर्तिताः |
तस्मान्मन्युपरीतस्त्वां शप्स्यामि मधुसूदन ||२१||
त्वया हि शक्तेन सता मिथ्याचारेण माधव |
उपचीर्णाः कुरुश्रेष्ठा यस्त्वेतान्समुपेक्षथाः ||२२||
वासुदेव उवाच||
शृणु मे विस्तरेणेदं यद्वक्ष्ये भृगुनन्दन |
गृहाणानुनयं चापि तपस्वी ह्यसि भार्गव ||२३||
श्रुत्वा त्वमेतदध्यात्मं मुञ्चेथाः शापमद्य वै |
न च मां तपसाल्पेन शक्तोऽभिभवितुं पुमान् ||२४||
न च ते तपसो नाशमिच्छामि जपतां वर |
तपस्ते सुमहद्दीप्तं गुरवश्चापि तोषिताः ||२५||
कौमारं ब्रह्मचर्यं ते जानामि द्विजसत्तम |
दुःखार्जितस्य तपसस्तस्मान्नेच्छामि ते व्ययम् ||२६||
५३
उत्तङ्क उवाच||
ब्रूहि केशव तत्त्वेन त्वमध्यात्ममनिन्दितम् |
श्रुत्वा श्रेयोऽभिधास्यामि शापं वा ते जनार्दन ||१||
वासुदेव उवाच||
तमो रजश्च सत्त्वं च विद्धि भावान्मदाश्रयान् |
तथा रुद्रान्वसूंश्चापि विद्धि मत्प्रभवान्द्विज ||२||
मयि सर्वाणि भूतानि सर्वभूतेषु चाप्यहम् |
स्थित इत्यभिजानीहि मा तेऽभूदत्र संशयः ||३||
तथा दैत्यगणान्सर्वान्यक्षराक्षसपन्नगान् |
गन्धर्वाप्सरसश्चैव विद्धि मत्प्रभवान्द्विज ||४||
सदसच्चैव यत्प्राहुरव्यक्तं व्यक्तमेव च |
अक्षरं च क्षरं चैव सर्वमेतन्मदात्मकम् ||५||
ये चाश्रमेषु वै धर्माश्चतुर्षु विहिता मुने |
दैवानि चैव कर्माणि विद्धि सर्वं मदात्मकम् ||६||
असच्च सदसच्चैव यद्विश्वं सदसतः परम् |
ततः परं नास्ति चैव देवदेवात्सनातनात् ||७||
ओङ्कारप्रभवान्वेदान्विद्धि मां त्वं भृगूद्वह |
यूपं सोमं तथैवेह त्रिदशाप्यायनं मखे ||८||
होतारमपि हव्यं च विद्धि मां भृगुनन्दन |
अध्वर्युः कल्पकश्चापि हविः परमसंस्कृतम् ||९||
उद्गाता चापि मां स्तौति गीतघोषैर्महाध्वरे |
प्रायश्चित्तेषु मां ब्रह्मञ्शान्तिमङ्गलवाचकाः ||१०||
स्तुवन्ति विश्वकर्माणं सततं द्विजसत्तमाः ||१०||
विद्धि मह्यं सुतं धर्ममग्रजं द्विजसत्तम |
मानसं दयितं विप्र सर्वभूतदयात्मकम् ||११||
तत्राहं वर्तमानैश्च निवृत्तैश्चैव मानवैः |
बह्वीः संसरमाणो वै योनीर्हि द्विजसत्तम ||१२||
धर्मसंरक्षणार्थाय धर्मसंस्थापनाय च |
तैस्तैर्वेषैश्च रूपैश्च त्रिषु लोकेषु भार्गव ||१३||
अहं विष्णुरहं ब्रह्मा शक्रोऽथ प्रभवाप्ययः |
भूतग्रामस्य सर्वस्य स्रष्टा संहार एव च ||१४||
अधर्मे वर्तमानानां सर्वेषामहमप्युत |
धर्मस्य सेतुं बध्नामि चलिते चलिते युगे ||१५||
तास्ता योनीः प्रविश्याहं प्रजानां हितकाम्यया ||१५||
यदा त्वहं देवयोनौ वर्तामि भृगुनन्दन |
तदाहं देववत्सर्वमाचरामि न संशयः ||१६||
यदा गन्धर्वयोनौ तु वर्तामि भृगुनन्दन |
तदा गन्धर्ववच्चेष्टाः सर्वाश्चेष्टामि भार्गव ||१७||
नागयोनौ यदा चैव तदा वर्तामि नागवत् |
यक्षराक्षसयोनीश्च यथावद्विचराम्यहम् ||१८||
मानुष्ये वर्तमाने तु कृपणं याचिता मया |
न च ते जातसंमोहा वचो गृह्णन्ति मे हितम् ||१९||
भयं च महदुद्दिश्य त्रासिताः कुरवो मया |
क्रुद्धेव भूत्वा च पुनर्यथावदनुदर्शिताः ||२०||
तेऽधर्मेणेह संयुक्ताः परीताः कालधर्मणा |
धर्मेण निहता युद्धे गताः स्वर्गं न संशयः ||२१||
लोकेषु पाण्डवाश्चैव गताः ख्यातिं द्विजोत्तम |
एतत्ते सर्वमाख्यातं यन्मां त्वं परिपृच्छसि ||२२||
५४
उत्तङ्क उवाच||
अभिजानामि जगतः कर्तारं त्वां जनार्दन |
नूनं भवत्प्रसादोऽयमिति मे नास्ति संशयः ||१||
चित्तं च सुप्रसन्नं मे त्वद्भावगतमच्युत |
विनिवृत्तश्च मे कोप इति विद्धि परन्तप ||२||
यदि त्वनुग्रहं कञ्चित्त्वत्तोऽर्होऽहं जनार्दन |
द्रष्टुमिच्छामि ते रूपमैश्वरं तन्निदर्शय ||३||
वैशम्पायन उवाच||
ततः स तस्मै प्रीतात्मा दर्शयामास तद्वपुः |
शाश्वतं वैष्णवं धीमान्ददृशे यद्धनञ्जयः ||४||
स ददर्श महात्मानं विश्वरूपं महाभुजम् |
विस्मयं च ययौ विप्रस्तद्दृष्ट्वा रूपमैश्वरम् ||५||
उत्तङ्क उवाच||
विश्वकर्मन्नमस्तेऽस्तु यस्य ते रूपमीदृशम् |
पद्भ्यां ते पृथिवी व्याप्ता शिरसा चावृतं नभः ||६||
द्यावापृथिव्योर्यन्मध्यं जठरेण तदावृतम् |
भुजाभ्यामावृताश्चाशास्त्वमिदं सर्वमच्युत ||७||
संहरस्व पुनर्देव रूपमक्षय्यमुत्तमम् |
पुनस्त्वां स्वेन रूपेण द्रष्टुमिच्छामि शाश्वतम् ||८||
वैशम्पायन उवाच||
तमुवाच प्रसन्नात्मा गोविन्दो जनमेजय |
वरं वृणीष्वेति तदा तमुत्तङ्कोऽब्रवीदिदम् ||९||
पर्याप्त एष एवाद्य वरस्त्वत्तो महाद्युते |
यत्ते रूपमिदं कृष्ण पश्यामि प्रभवाप्ययम् ||१०||
तमब्रवीत्पुनः कृष्णो मा त्वमत्र विचारय |
अवश्यमेतत्कर्तव्यममोघं दर्शनं मम ||११||
उत्तङ्क उवाच||
अवश्यकरणीयं वै यद्येतन्मन्यसे विभो |
तोयमिच्छामि यत्रेष्टं मरुष्वेतद्धि दुर्लभम् ||१२||
वैशम्पायन उवाच||
ततः संहृत्य तत्तेजः प्रोवाचोत्तङ्कमीश्वरः |
एष्टव्ये सति चिन्त्योऽहमित्युक्त्वा द्वारकां ययौ ||१३||
ततः कदाचिद्भगवानुत्तङ्कस्तोयकाङ्क्षया |
तृषितः परिचक्राम मरौ सस्मार चाच्युतम् ||१४||
ततो दिग्वाससं धीमान्मातङ्गं मलपङ्किनम् |
अपश्यत मरौ तस्मिञ्श्वयूथपरिवारितम् ||१५||
भीषणं बद्धनिस्त्रिंशं बाणकार्मुकधारिणम् |
तस्याधः स्रोतसोऽपश्यद्वारि भूरि द्विजोत्तमः ||१६||
स्मरन्नेव च तं प्राह मातङ्गः प्रहसन्निव |
एह्युत्तङ्क प्रतीच्छस्व मत्तो वारि भृगूद्वह ||१७||
कृपा हि मे सुमहती त्वां दृष्ट्वा तृट्समाहतम् ||१७||
इत्युक्तस्तेन स मुनिस्तत्तोयं नाभ्यनन्दत |
चिक्षेप च स तं धीमान्वाग्भिरुग्राभिरच्युतम् ||१८||
पुनः पुनश्च मातङ्गः पिबस्वेति तमब्रवीत् |
न चापिबत्स सक्रोधः क्षुभितेनान्तरात्मना ||१९||
स तथा निश्चयात्तेन प्रत्याख्यातो महात्मना |
श्वभिः सह महाराज तत्रैवान्तरधीयत ||२०||
उत्तङ्कस्तं तथा दृष्ट्वा ततो व्रीडितमानसः |
मेने प्रलब्धमात्मानं कृष्णेनामित्रघातिना ||२१||
अथ तेनैव मार्गेण शङ्खचक्रगदाधरः |
आजगाम महाबाहुरुत्तङ्कश्चैनमब्रवीत् ||२२||
न युक्तं तादृशं दातुं त्वया पुरुषसत्तम |
सलिलं विप्रमुख्येभ्यो मातङ्गस्रोतसा विभो ||२३||
इत्युक्तवचनं धीमान्महाबुद्धिर्जनार्दनः |
उत्तङ्कं श्लक्ष्णया वाचा सान्त्वयन्निदमब्रवीत् ||२४||
यादृशेनेह रूपेण योग्यं दातुं वृतेन वै |
तादृशं खलु मे दत्तं त्वं तु तन्नावबुध्यसे ||२५||
मया त्वदर्थमुक्तो हि वज्रपाणिः पुरंदरः |
उत्तङ्कायामृतं देहि तोयरूपमिति प्रभुः ||२६||
स मामुवाच देवेन्द्रो न मर्त्योऽमर्त्यतां व्रजेत् |
अन्यमस्मै वरं देहीत्यसकृद्भृगुनन्दन ||२७||
अमृतं देयमित्येव मयोक्तः स शचीपतिः |
स मां प्रसाद्य देवेन्द्रः पुनरेवेदमब्रवीत् ||२८||
यदि देयमवश्यं वै मातङ्गोऽहं महाद्युते |
भूत्वामृतं प्रदास्यामि भार्गवाय महात्मने ||२९||
यद्येवं प्रतिगृह्णाति भार्गवोऽमृतमद्य वै |
प्रदातुमेष गच्छामि भार्गवायामृतं प्रभो ||३०||
प्रत्याख्यातस्त्वहं तेन न दद्यामिति भार्गव ||३०||
स तथा समयं कृत्वा तेन रूपेण वासवः |
उपस्थितस्त्वया चापि प्रत्याख्यातोऽमृतं ददत् ||३१||
चण्डालरूपी भगवान्सुमहांस्ते व्यतिक्रमः ||३१||
यत्तु शक्यं मया कर्तुं भूय एव तवेप्सितम् |
तोयेप्सां तव दुर्धर्ष करिष्ये सफलामहम् ||३२||
येष्वहःसु तव ब्रह्मन्सलिलेच्छा भविष्यति |
तदा मरौ भविष्यन्ति जलपूर्णाः पयोधराः ||३३||
रसवच्च प्रदास्यन्ति ते तोयं भृगुनन्दन |
उत्तङ्कमेघा इत्युक्ताः ख्यातिं यास्यन्ति चापि ते ||३४||
इत्युक्तः प्रीतिमान्विप्रः कृष्णेन स बभूव ह |
अद्याप्युत्तङ्कमेघाश्च मरौ वर्षन्ति भारत ||३५||
५५
जनमेजय उवाच||
उत्तङ्कः केन तपसा संयुक्तः सुमहातपाः |
यः शापं दातुकामोऽभूद्विष्णवे प्रभविष्णवे ||१||
वैशम्पायन उवाच||
उत्तङ्को महता युक्तस्तपसा जनमेजय |
गुरुभक्तः स तेजस्वी नान्यं कञ्चिदपूजयत् ||२||
सर्वेषामृषिपुत्राणामेष चासीन्मनोरथः |
औत्तङ्कीं गुरुवृत्तिं वै प्राप्नुयामिति भारत ||३||
गौतमस्य तु शिष्याणां बहूनां जनमेजय |
उत्तङ्केऽभ्यधिका प्रीतिः स्नेहश्चैवाभवत्तदा ||४||
स तस्य दमशौचाभ्यां विक्रान्तेन च कर्मणा |
सम्यक्चैवोपचारेण गौतमः प्रीतिमानभूत् ||५||
अथ शिष्यसहस्राणि समनुज्ञाय गौतमः |
उत्तङ्कं परया प्रीत्या नाभ्यनुज्ञातुमैच्छत ||६||
तं क्रमेण जरा तात प्रतिपेदे महामुनिम् |
न चान्वबुध्यत तदा स मुनिर्गुरुवत्सलः ||७||
ततः कदाचिद्राजेन्द्र काष्ठान्यानयितुं ययौ |
उत्तङ्कः काष्ठभारं च महान्तं समुपानयत् ||८||
स तु भाराभिभूतात्मा काष्ठभारमरिंदम |
निष्पिपेष क्षितौ राजन्परिश्रान्तो बुभुक्षितः ||९||
तस्य काष्ठे विलग्नाभूज्जटा रूप्यसमप्रभा |
ततः काष्ठैः सह तदा पपात धरणीतले ||१०||
ततः स भारनिष्पिष्टः क्षुधाविष्टश्च भार्गवः |
दृष्ट्वा तां वयसोऽवस्थां रुरोदार्तस्वरं तदा ||११||
ततो गुरुसुता तस्य पद्मपत्रनिभेक्षणा |
जग्राहाश्रूणि सुश्रोणी करेण पृथुलोचना ||१२||
पितुर्नियोगाद्धर्मज्ञा शिरसावनता तदा ||१२||
तस्या निपेततुर्दग्धौ करौ तैरश्रुबिन्दुभिः |
न हि तानश्रुपातान्वै शक्ता धारयितुं मही ||१३||
गौतमस्त्वब्रवीद्विप्रमुत्तङ्कं प्रीतमानसः |
कस्मात्तात तवाद्येह शोकोत्तरमिदं मनः ||१४||
स स्वैरं ब्रूहि विप्रर्षे श्रोतुमिच्छामि ते वचः ||१४||
उत्तङ्क उवाच||
भवद्गतेन मनसा भवत्प्रियचिकीर्षया |
भवद्भक्तिगतेनेह भवद्भावानुगेन च ||१५||
जरेयं नावबुद्धा मे नाभिज्ञातं सुखं च मे |
शतवर्षोषितं हि त्वं न मामभ्यनुजानथाः ||१६||
भवता ह्यभ्यनुज्ञाताः शिष्याः प्रत्यवरा मया |
उपपन्ना द्विजश्रेष्ठ शतशोऽथ सहस्रशः ||१७||
गौतम उवाच||
त्वत्प्रीतियुक्तेन मया गुरुशुश्रूषया तव |
व्यतिक्रामन्महान्कालो नावबुद्धो द्विजर्षभ ||१८||
किं त्वद्य यदि ते श्रद्धा गमनं प्रति भार्गव |
अनुज्ञां गृह्य मत्तस्त्वं गृहान्गच्छस्व मा चिरम् ||१९||
उत्तङ्क उवाच||
गुर्वर्थं कं प्रयच्छामि ब्रूहि त्वं द्विजसत्तम |
तमुपाकृत्य गच्छेयमनुज्ञातस्त्वया विभो ||२०||
गौतम उवाच||
दक्षिणा परितोषो वै गुरूणां सद्भिरुच्यते |
तव ह्याचरतो ब्रह्मंस्तुष्टोऽहं वै न संशयः ||२१||
इत्थं च परितुष्टं मां विजानीहि भृगूद्वह |
युवा षोडशवर्षो हि यदद्य भविता भवान् ||२२||
ददामि पत्नीं कन्यां च स्वां ते दुहितरं द्विज |
एतामृते हि नान्या वै त्वत्तेजोऽर्हति सेवितुम् ||२३||
ततस्तां प्रतिजग्राह युवा भूत्वा यशस्विनीम् |
गुरुणा चाभ्यनुज्ञातो गुरुपत्नीमथाब्रवीत् ||२४||
किं भवत्यै प्रयच्छामि गुर्वर्थं विनियुङ्क्ष्व माम् |
प्रियं हि तव काङ्क्षामि प्राणैरपि धनैरपि ||२५||
यद्दुर्लभं हि लोकेऽस्मिन्रत्नमत्यद्भुतं भवेत् |
तदानयेयं तपसा न हि मेऽत्रास्ति संशयः ||२६||
अहल्योवाच||
परितुष्टास्मि ते पुत्र नित्यं भगवता सह |
पर्याप्तये तद्भद्रं ते गच्छ तात यथेच्छकम् ||२७||
वैशम्पायन उवाच||
उत्तङ्कस्तु महाराज पुनरेवाब्रवीद्वचः |
आज्ञापयस्व मां मातः कर्तव्यं हि प्रियं तव ||२८||
अहल्योवाच||
सौदासपत्न्या विदिते दिव्ये वै मणिकुण्डले |
ते समानय भद्रं ते गुर्वर्थः सुकृतो भवेत् ||२९||
स तथेति प्रतिश्रुत्य जगाम जनमेजय |
गुरुपत्नीप्रियार्थं वै ते समानयितुं तदा ||३०||
स जगाम ततः शीघ्रमुत्तङ्को ब्राह्मणर्षभः |
सौदासं पुरुषादं वै भिक्षितुं मणिकुण्डले ||३१||
गौतमस्त्वब्रवीत्पत्नीमुत्तङ्को नाद्य दृश्यते |
इति पृष्टा तमाचष्ट कुण्डलार्थं गतं तु वै ||३२||
ततः प्रोवाच पत्नीं स न ते सम्यगिदं कृतम् |
शप्तः स पार्थिवो नूनं ब्राह्मणं तं वधिष्यति ||३३||
अहल्योवाच||
अजानन्त्या नियुक्तः स भगवन्ब्राह्मणोऽद्य मे |
भवत्प्रसादान्न भयं किञ्चित्तस्य भविष्यति ||३४||
इत्युक्तः प्राह तां पत्नीमेवमस्त्विति गौतमः |
उत्तङ्कोऽपि वने शून्ये राजानं तं ददर्श ह ||३५||
५६
वैशम्पायन उवाच||
स तं दृष्ट्वा तथाभूतं राजानं घोरदर्शनम् |
दीर्घश्मश्रुधरं नॄणां शोणितेन समुक्षितम् ||१||
चकार न व्यथां विप्रो राजा त्वेनमथाब्रवीत् |
प्रत्युत्थाय महातेजा भयकर्ता यमोपमः ||२||
दिष्ट्या त्वमसि कल्याण षष्ठे काले ममान्तिकम् |
भक्षं मृगयमाणस्य सम्प्राप्तो द्विजसत्तम ||३||
उत्तङ्क उवाच||
राजन्गुर्वर्थिनं विद्धि चरन्तं मामिहागतम् |
न च गुर्वर्थमुद्युक्तं हिंस्यमाहुर्मनीषिणः ||४||
राजोवाच||
षष्ठे काले ममाहारो विहितो द्विजसत्तम |
न च शक्यः समुत्स्रष्टुं क्षुधितेन मयाद्य वै ||५||
उत्तङ्क उवाच||
एवमस्तु महाराज समयः क्रियतां तु मे |
गुर्वर्थमभिनिर्वर्त्य पुनरेष्यामि ते वशम् ||६||
संश्रुतश्च मया योऽर्थो गुरवे राजसत्तम |
त्वदधीनः स राजेन्द्र तं त्वा भिक्षे नरेश्वर ||७||
ददासि विप्रमुख्येभ्यस्त्वं हि रत्नानि सर्वशः |
दाता त्वं च नरव्याघ्र पात्रभूतः क्षिताविह ||८||
पात्रं प्रतिग्रहे चापि विद्धि मां नृपसत्तम ||८||
उपाकृत्य गुरोरर्थं त्वदायत्तमरिंदम |
समयेनेह राजेन्द्र पुनरेष्यामि ते वशम् ||९||
सत्यं ते प्रतिजानामि नात्र मिथ्यास्ति किञ्चन |
अनृतं नोक्तपूर्वं मे स्वैरेष्वपि कुतोऽन्यथा ||१०||
सौदास उवाच||
यदि मत्तस्त्वदायत्तो गुर्वर्थः कृत एव सः |
यदि चास्मि प्रतिग्राह्यः साम्प्रतं तद्ब्रवीहि मे ||११||
उत्तङ्क उवाच||
प्रतिग्राह्यो मतो मे त्वं सदैव पुरुषर्षभ |
सोऽहं त्वामनुसम्प्राप्तो भिक्षितुं मणिकुण्डले ||१२||
सौदास उवाच||
पत्न्यास्ते मम विप्रर्षे रुचिरे मणिकुण्डले |
वरयार्थं त्वमन्यं वै तं ते दास्यामि सुव्रत ||१३||
उत्तङ्क उवाच||
अलं ते व्यपदेशेन प्रमाणं यदि ते वयम् |
प्रयच्छ कुण्डले मे त्वं सत्यवाग्भव पार्थिव ||१४||
वैशम्पायन उवाच||
इत्युक्तस्त्वब्रवीद्राजा तमुत्तङ्कं पुनर्वचः |
गच्छ मद्वचनाद्देवीं ब्रूहि देहीति सत्तम ||१५||
सैवमुक्ता त्वया नूनं मद्वाक्येन शुचिस्मिता |
प्रदास्यति द्विजश्रेष्ठ कुण्डले ते न संशयः ||१६||
उत्तङ्क उवाच||
क्व पत्नी भवतः शक्या मया द्रष्टुं नरेश्वर |
स्वयं वापि भवान्पत्नीं किमर्थं नोपसर्पति ||१७||
सौदास उवाच||
द्रक्ष्यते तां भवानद्य कस्मिंश्चिद्वननिर्झरे |
षष्ठे काले न हि मया सा शक्या द्रष्टुमद्य वै ||१८||
उत्तङ्कस्तु तथोक्तः स जगाम भरतर्षभ |
मदयन्तीं च दृष्ट्वा सोऽज्ञापयत्स्वं प्रयोजनम् ||१९||
सौदासवचनं श्रुत्वा ततः सा पृथुलोचना |
प्रत्युवाच महाबुद्धिमुत्तङ्कं जनमेजय ||२०||
एवमेतन्महाब्रह्मन्नानृतं वदसेऽनघ |
अभिज्ञानं तु किञ्चित्त्वं समानेतुमिहार्हसि ||२१||
इमे हि दिव्ये मणिकुण्डले मे; देवाश्च यक्षाश्च महोरगाश्च |
तैस्तैरुपायैः परिहर्तुकामा; श्छिद्रेषु नित्यं परितर्कयन्ति ||२२||
निक्षिप्तमेतद्भुवि पन्नगास्तु; रत्नं समासाद्य परामृषेयुः |
यक्षास्तथोच्छिष्टधृतं सुराश्च; निद्रावशं त्वा परिधर्षयेयुः ||२३||
छिद्रेष्वेतेषु हि सदा ह्यधृष्येषु द्विजर्षभ |
देवराक्षसनागानामप्रमत्तेन धार्यते ||२४||
स्यन्देते हि दिवा रुक्मं रात्रौ च द्विजसत्तम |
नक्तं नक्षत्रताराणां प्रभामाक्षिप्य वर्तते ||२५||
एते ह्यामुच्य भगवन्क्षुत्पिपासाभयं कुतः |
विषाग्निश्वापदेभ्यश्च भयं जातु न विद्यते ||२६||
ह्रस्वेन चैते आमुक्ते भवतो ह्रस्वके तदा |
अनुरूपेण चामुक्ते तत्प्रमाणे हि जायतः ||२७||
एवंविधे ममैते वै कुण्डले परमार्चिते |
त्रिषु लोकेषु विख्याते तदभिज्ञानमानय ||२८||
५७
वैशम्पायन उवाच||
स मित्रसहमासाद्य त्वभिज्ञानमयाचत |
तस्मै ददावभिज्ञानं स चेक्ष्वाकुवरस्तदा ||१||
सौदास उवाच||
न चैवैषा गतिः क्षेम्या न चान्या विद्यते गतिः |
एतन्मे मतमाज्ञाय प्रयच्छ मणिकुण्डले ||२||
वैशम्पायन उवाच||
इत्युक्तस्तामुत्तङ्कस्तु भर्तुर्वाक्यमथाब्रवीत् |
श्रुत्वा च सा ततः प्रादात्तस्मै ते मणिकुण्डले ||३||
अवाप्य कुण्डले ते तु राजानं पुनरब्रवीत् |
किमेतद्गुह्यवचनं श्रोतुमिच्छामि पार्थिव ||४||
सौदास उवाच||
प्रजा निसर्गाद्विप्रान्वै क्षत्रियाः पूजयन्ति ह |
विप्रेभ्यश्चापि बहवो दोषाः प्रादुर्भवन्ति नः ||५||
सोऽहं द्विजेभ्यः प्रणतो विप्राद्दोषमवाप्तवान् |
गतिमन्यां न पश्यामि मदयन्तीसहायवान् ||६||
स्वर्गद्वारस्य गमने स्थाने चेह द्विजोत्तम ||६||
न हि राज्ञा विशेषेण विरुद्धेन द्विजातिभिः |
शक्यं नृलोके संस्थातुं प्रेत्य वा सुखमेधितुम् ||७||
तदिष्टे ते मयैवैते दत्ते स्वे मणिकुण्डले |
यः कृतस्तेऽद्य समयः सफलं तं कुरुष्व मे ||८||
उत्तङ्क उवाच||
राजंस्तथेह कर्तास्मि पुनरेष्यामि ते वशम् |
प्रश्नं तु कञ्चित्प्रष्टुं त्वां व्यवसिष्ये परन्तप ||९||
सौदास उवाच||
ब्रूहि विप्र यथाकामं प्रतिवक्तास्मि ते वचः |
छेत्तास्मि संशयं तेऽद्य न मेऽत्रास्ति विचारणा ||१०||
उत्तङ्क उवाच||
प्राहुर्वाक्सङ्गतं मित्रं धर्मनैपुण्यदर्शिनः |
मित्रेषु यश्च विषमः स्तेन इत्येव तं विदुः ||११||
स भवान्मित्रतामद्य सम्प्राप्तो मम पार्थिव |
स मे बुद्धिं प्रयच्छस्व समां बुद्धिमतां वर ||१२||
अवाप्तार्थोऽहमद्येह भवांश्च पुरुषादकः |
भवत्सकाशमागन्तुं क्षमं मम न वेति वा ||१३||
सौदास उवाच||
क्षमं चेदिह वक्तव्यं मया द्विजवरोत्तम |
मत्समीपं द्विजश्रेष्ठ नागन्तव्यं कथञ्चन ||१४||
एवं तव प्रपश्यामि श्रेयो भृगुकुलोद्वह |
आगच्छतो हि ते विप्र भवेन्मृत्युरसंशयम् ||१५||
वैशम्पायन उवाच||
इत्युक्तः स तदा राज्ञा क्षमं बुद्धिमता हितम् |
समनुज्ञाप्य राजानमहल्यां प्रति जग्मिवान् ||१६||
गृहीत्वा कुण्डले दिव्ये गुरुपत्न्याः प्रियङ्करः |
जवेन महता प्रायाद्गौतमस्याश्रमं प्रति ||१७||
यथा तयो रक्षणं च मदयन्त्याभिभाषितम् |
तथा ते कुण्डले बद्ध्वा तथा कृष्णाजिनेऽनयत् ||१८||
स कस्मिंश्चित्क्षुधाविष्टः फलभारसमन्वितम् |
बिल्वं ददर्श कस्मिंश्चिदारुरोह क्षुधान्वितः ||१९||
शाखास्वासज्य तस्यैव कृष्णाजिनमरिंदम |
यस्मिंस्ते कुण्डले बद्धे तदा द्विजवरेण वै ||२०||
विशीर्णबन्धने तस्मिन्गते कृष्णाजिने महीम् |
अपश्यद्भुजगः कश्चित्ते तत्र मणिकुण्डले ||२१||
ऐरावतकुलोत्पन्नः शीघ्रो भूत्वा तदा स वै |
विदश्यास्येन वल्मीकं विवेशाथ स कुण्डले ||२२||
ह्रियमाणे तु दृष्ट्वा स कुण्डले भुजगेन ह |
पपात वृक्षात्सोद्वेगो दुःखात्परमकोपनः ||२३||
स दण्डकाष्ठमादाय वल्मीकमखनत्तदा |
क्रोधामर्षाभितप्ताङ्गस्ततो वै द्विजपुङ्गवः ||२४||
तस्य वेगमसह्यं तमसहन्ती वसुन्धरा |
दण्डकाष्ठाभिनुन्नाङ्गी चचाल भृशमातुरा ||२५||
ततः खनत एवाथ विप्रर्षेर्धरणीतलम् |
नागलोकस्य पन्थानं कर्तुकामस्य निश्चयात् ||२६||
रथेन हरियुक्तेन तं देशमुपजग्मिवान् |
वज्रपाणिर्महातेजा ददर्श च द्विजोत्तमम् ||२७||
स तु तं ब्राह्मणो भूत्वा तस्य दुःखेन दुःखितः |
उत्तङ्कमब्रवीत्तात नैतच्छक्यं त्वयेति वै ||२८||
इतो हि नागलोको वै योजनानि सहस्रशः |
न दण्डकाष्ठसाध्यं च मन्ये कार्यमिदं तव ||२९||
उत्तङ्क उवाच||
नागलोके यदि ब्रह्मन्न शक्ये कुण्डले मया |
प्राप्तुं प्राणान्विमोक्ष्यामि पश्यतस्ते द्विजोत्तम ||३०||
यदा स नाशकत्तस्य निश्चयं कर्तुमन्यथा |
वज्रपाणिस्तदा दण्डं वज्रास्त्रेण युयोज ह ||३१||
ततो वज्रप्रहारैस्तैर्दार्यमाणा वसुन्धरा |
नागलोकस्य पन्थानमकरोज्जनमेजय ||३२||
स तेन मार्गेण तदा नागलोकं विवेश ह |
ददर्श नागलोकं च योजनानि सहस्रशः ||३३||
प्राकारनिचयैर्दिव्यैर्मणिमुक्ताभ्यलङ्कृतैः |
उपपन्नं महाभाग शातकुम्भमयैस्तथा ||३४||
वापीः स्फटिकसोपाना नदीश्च विमलोदकाः |
ददर्श वृक्षांश्च बहून्नानाद्विजगणायुतान् ||३५||
तस्य लोकस्य च द्वारं ददर्श स भृगूद्वहः |
पञ्चयोजनविस्तारमायतं शतयोजनम् ||३६||
नागलोकमुत्तङ्कस्तु प्रेक्ष्य दीनोऽभवत्तदा |
निराशश्चाभवत्तात कुण्डलाहरणे पुनः ||३७||
तत्र प्रोवाच तुरगस्तं कृष्णश्वेतवालधिः |
ताम्रास्यनेत्रः कौरव्य प्रज्वलन्निव तेजसा ||३८||
धमस्वापानमेतन्मे ततस्त्वं विप्र लल्प्स्यसे |
ऐरावतसुतेनेह तवानीते हि कुण्डले ||३९||
मा जुगुप्सां कृथाः पुत्र त्वमत्रार्थे कथञ्चन |
त्वयैतद्धि समाचीर्णं गौतमस्याश्रमे तदा ||४०||
उत्तङ्क उवाच||
कथं भवन्तं जानीयामुपाध्यायाश्रमं प्रति |
यन्मया चीर्णपूर्वं च श्रोतुमिच्छामि तद्ध्यहम् ||४१||
अश्व उवाच||
गुरोर्गुरुं मां जानीहि ज्वलितं जातवेदसम् |
त्वया ह्यहं सदा वत्स गुरोरर्थेऽभिपूजितः ||४२||
सततं पूजितो विप्र शुचिना भृगुनन्दन |
तस्माच्छ्रेयो विधास्यामि तवैवं कुरु मा चिरम् ||४३||
इत्युक्तः स तथाकार्षीदुत्तङ्कश्चित्रभानुना |
घृतार्चिः प्रीतिमांश्चापि प्रजज्वाल दिधक्षया ||४४||
ततोऽस्य रोमकूपेभ्यो ध्मायमानस्य भारत |
घनः प्रादुरभूद्धूमो नागलोकभयावहः ||४५||
तेन धूमेन सहसा वर्धमानेन भारत |
नागलोके महाराज न प्रज्ञायत किञ्चन ||४६||
हाहाकृतमभूत्सर्वमैरावतनिवेशनम् |
वासुकिप्रमुखानां च नागानां जनमेजय ||४७||
न प्रकाशन्त वेश्मानि धूमरुद्धानि भारत |
नीहारसंवृतानीव वनानि गिरयस्तथा ||४८||
ते धूमरक्तनयना वह्नितेजोभितापिताः |
आजग्मुर्निश्चयं ज्ञातुं भार्गवस्यातितेजसः ||४९||
श्रुत्वा च निश्चयं तस्य महर्षेस्तिग्मतेजसः |
सम्भ्रान्तमनसः सर्वे पूजां चक्रुर्यथाविधि ||५०||
सर्वे प्राञ्जलयो नागा वृद्धबालपुरोगमाः |
शिरोभिः प्रणिपत्योचुः प्रसीद भगवन्निति ||५१||
प्रसाद्य ब्राह्मणं ते तु पाद्यमर्घ्यं निवेद्य च |
प्रायच्छन्कुण्डले दिव्ये पन्नगाः परमार्चिते ||५२||
ततः सम्पूजितो नागैस्तत्रोत्तङ्कः प्रतापवान् |
अग्निं प्रदक्षिणं कृत्वा जगाम गुरुसद्म तत् ||५३||
स गत्वा त्वरितो राजन्गौतमस्य निवेशनम् |
प्रायच्छत्कुण्डले दिव्ये गुरुपत्न्यै तदानघ ||५४||
एवं महात्मना तेन त्रीँल्लोकाञ्जनमेजय |
परिक्रम्याहृते दिव्ये ततस्ते मणिकुण्डले ||५५||
एवम्प्रभावः स मुनिरुत्तङ्को भरतर्षभ |
परेण तपसा युक्तो यन्मां त्वं परिपृच्छसि ||५६||
वासुदेवेन वसुदेवं प्रति युद्धाख्यानम्
५८
जनमेजय उवाच||
उत्तङ्काय वरं दत्त्वा गोविन्दो द्विजसत्तम |
अत ऊर्ध्वं महाबाहुः किं चकार महायशाः ||१||
वैशम्पायन उवाच||
दत्त्वा वरमुत्तङ्काय प्रायात्सात्यकिना सह |
द्वारकामेव गोविन्दः शीघ्रवेगैर्महाहयैः ||२||
सरांसि च नदीश्चैव वनानि विविधानि च |
अतिक्रम्य ससादाथ रम्यां द्वारवतीं पुरीम् ||३||
वर्तमाने महाराज महे रैवतकस्य च |
उपायात्पुण्डरीकाक्षो युयुधानानुगस्तदा ||४||
अलङ्कृतस्तु स गिरिर्नानारूपविचित्रितैः |
बभौ रुक्ममयैः काशैः सर्वतः पुरुषर्षभ ||५||
काञ्चनस्रग्भिरग्र्याभिः सुमनोभिस्तथैव च |
वासोभिश्च महाशैलः कल्पवृक्षैश्च सर्वशः ||६||
दीपवृक्षैश्च सौवर्णैरभीक्ष्णमुपशोभितः |
गुहानिर्झरदेशेषु दिवाभूतो बभूव ह ||७||
पताकाभिर्विचित्राभिः सघण्टाभिः समन्ततः |
पुम्भिः स्त्रीभिश्च सङ्घुष्टः प्रगीत इव चाभवत् ||८||
अतीव प्रेक्षणीयोऽभून्मेरुर्मुनिगणैरिव ||८||
मत्तानां हृष्टरूपाणां स्त्रीणां पुंसां च भारत |
गायतां पर्वतेन्द्रस्य दिवस्पृगिव निस्वनः ||९||
प्रमत्तमत्तसंमत्तक्ष्वेडितोत्कृष्टसङ्कुला |
तथा किलकिलाशब्दैर्भूरभूत्सुमनोहरा ||१०||
विपणापणवान्रम्यो भक्ष्यभोज्यविहारवान् |
वस्त्रमाल्योत्करयुतो वीणावेणुमृदङ्गवान् ||११||
सुरामैरेयमिश्रेण भक्ष्यभोज्येन चैव ह |
दीनान्धकृपणादिभ्यो दीयमानेन चानिशम् ||१२||
बभौ परमकल्याणो महस्तस्य महागिरेः ||१२||
पुण्यावसथवान्वीर पुण्यकृद्भिर्निषेवितः |
विहारो वृष्णिवीराणां महे रैवतकस्य ह ||१३||
स नगो वेश्मसङ्कीर्णो देवलोक इवाबभौ ||१३||
तदा च कृष्णसांनिध्यमासाद्य भरतर्षभ |
शक्रसद्मप्रतीकाशो बभूव स हि शैलराट् ||१४||
ततः सम्पूज्यमानः स विवेश भवनं शुभम् |
गोविन्दः सात्यकिश्चैव जगाम भवनं स्वकम् ||१५||
विवेश च स हृष्टात्मा चिरकालप्रवासकः |
कृत्वा नसुकरं कर्म दानवेष्विव वासवः ||१६||
उपयातं तु वार्ष्णेयं भोजवृष्ण्यन्धकास्तदा |
अभ्यगच्छन्महात्मानं देवा इव शतक्रतुम् ||१७||
स तानभ्यर्च्य मेधावी पृष्ट्वा च कुशलं तदा |
अभ्यवादयत प्रीतः पितरं मातरं तथा ||१८||
ताभ्यां च सम्परिष्वक्तः सान्त्वितश्च महाभुजः |
उपोपविष्टस्तैः सर्वैर्वृष्णिभिः परिवारितः ||१९||
स विश्रान्तो महातेजाः कृतपादावसेचनः |
कथयामास तं कृष्णः पृष्टः पित्रा महाहवम् ||२०||
५९
वसुदेव उवाच||
श्रुतवानस्मि वार्ष्णेय सङ्ग्रामं परमाद्भुतम् |
नराणां वदतां पुत्र कथोद्घातेषु नित्यशः ||१||
त्वं तु प्रत्यक्षदर्शी च कार्यज्ञश्च महाभुज |
तस्मात्प्रब्रूहि सङ्ग्रामं याथातथ्येन मेऽनघ ||२||
यथा तदभवद्युद्धं पाण्डवानां महात्मनाम् |
भीष्मकर्णकृपद्रोणशल्यादिभिरनुत्तमम् ||३||
अन्येषां क्षत्रियाणां च कृतास्त्राणामनेकशः |
नानावेषाकृतिमतां नानादेशनिवासिनाम् ||४||
इत्युक्तः पुण्डरीकाक्षः पित्रा मातुस्तदन्तिके |
शशंस कुरुवीराणां सङ्ग्रामे निधनं यथा ||५||
वासुदेव उवाच||
अत्यद्भुतानि कर्माणि क्षत्रियाणां महात्मनाम् |
बहुलत्वान्न सङ्ख्यातुं शक्यान्यब्दशतैरपि ||६||
प्राधान्यतस्तु गदतः समासेनैव मे शृणु |
कर्माणि पृथिवीशानां यथावदमरद्युते ||७||
भीष्मः सेनापतिरभूदेकादशचमूपतिः |
कौरव्यः कौरवेयाणां देवानामिव वासवः ||८||
शिखण्डी पाण्डुपुत्राणां नेता सप्तचमूपतिः |
बभूव रक्षितो धीमान्धीमता सव्यसाचिना ||९||
तेषां तदभवद्युद्धं दशाहानि महात्मनाम् |
कुरूणां पाण्डवानां च सुमहद्रोमहर्षणम् ||१०||
ततः शिखण्डी गाङ्गेयमयुध्यन्तं महाहवे |
जघान बहुभिर्बाणैः सह गाण्डीवधन्वना ||११||
अकरोत्स ततः कालं शरतल्पगतो मुनिः |
अयनं दक्षिणं हित्वा सम्प्राप्ते चोत्तरायणे ||१२||
ततः सेनापतिरभूद्द्रोणोऽस्त्रविदुषां वरः |
प्रवीरः कौरवेन्द्रस्य काव्यो दैत्यपतेरिव ||१३||
अक्षौहिणीभिः शिष्टाभिर्नवभिर्द्विजसत्तमः |
संवृतः समरश्लाघी गुप्तः कृपवृषादिभिः ||१४||
धृष्टद्युम्नस्त्वभून्नेता पाण्डवानां महास्त्रवित् |
गुप्तो भीमेन तेजस्वी मित्रेण वरुणो यथा ||१५||
पञ्चसेनापरिवृतो द्रोणप्रेप्सुर्महामनाः |
पितुर्निकारान्संस्मृत्य रणे कर्माकरोन्महत् ||१६||
तस्मिंस्ते पृथिवीपाला द्रोणपार्षतसङ्गरे |
नानादिगागता वीराः प्रायशो निधनं गताः ||१७||
दिनानि पञ्च तद्युद्धमभूत्परमदारुणम् |
ततो द्रोणः परिश्रान्तो धृष्टद्युम्नवशं गतः ||१८||
ततः सेनापतिरभूत्कर्णो दौर्योधने बले |
अक्षौहिणीभिः शिष्टाभिर्वृतः पञ्चभिराहवे ||१९||
तिस्रस्तु पाण्डुपुत्राणां चम्वो बीभत्सुपालिताः |
हतप्रवीरभूयिष्ठा बभूवुः समवस्थिताः ||२०||
ततः पार्थं समासाद्य पतङ्ग इव पावकम् |
पञ्चत्वमगमत्सौतिर्द्वितीयेऽहनि दारुणे ||२१||
हते कर्णे तु कौरव्या निरुत्साहा हतौजसः |
अक्षौहिणीभिस्तिसृभिर्मद्रेशं पर्यवारयन् ||२२||
हतवाहनभूयिष्ठाः पाण्डवास्तु युधिष्ठिरम् |
अक्षौहिण्या निरुत्साहाः शिष्टया पर्यवारयन् ||२३||
अवधीन्मद्रराजानं कुरुराजो युधिष्ठिरः |
तस्मिंस्तथार्धदिवसे कर्म कृत्वा सुदुष्करम् ||२४||
हते शल्ये तु शकुनिं सहदेवो महामनाः |
आहर्तारं कलेस्तस्य जघानामितविक्रमः ||२५||
निहते शकुनौ राजा धार्तराष्ट्रः सुदुर्मनाः |
अपाक्रामद्गदापाणिर्हतभूयिष्ठसैनिकः ||२६||
तमन्वधावत्सङ्क्रुद्धो भीमसेनः प्रतापवान् |
ह्रदे द्वैपायने चापि सलिलस्थं ददर्श तम् ||२७||
ततः शिष्टेन सैन्येन समन्तात्परिवार्य तम् |
उपोपविविशुर्हृष्टा ह्रदस्थं पञ्च पाण्डवाः ||२८||
विगाह्य सलिलं त्वाशु वाग्बाणैर्भृशविक्षतः |
उत्थाय स गदापाणिर्युद्धाय समुपस्थितः ||२९||
ततः स निहतो राजा धार्तराष्ट्रो महामृधे |
भीमसेनेन विक्रम्य पश्यतां पृथिवीक्षिताम् ||३०||
ततस्तत्पाण्डवं सैन्यं संसुप्तं शिबिरे निशि |
निहतं द्रोणपुत्रेण पितुर्वधममृष्यता ||३१||
हतपुत्रा हतबला हतमित्रा मया सह |
युयुधानद्वितीयेन पञ्च शिष्टाः स्म पाण्डवाः ||३२||
सहैव कृपभोजाभ्यां द्रौणिर्युद्धादमुच्यत |
युयुत्सुश्चापि कौरव्यो मुक्तः पाण्डवसंश्रयात् ||३३||
निहते कौरवेन्द्रे च सानुबन्धे सुयोधने |
विदुरः सञ्जयश्चैव धर्मराजमुपस्थितौ ||३४||
एवं तदभवद्युद्धमहान्यष्टादश प्रभो |
यत्र ते पृथिवीपाला निहताः स्वर्गमावसन् ||३५||
वैशम्पायन उवाच||
शृण्वतां तु महाराज कथां तां रोमहर्षणीम् |
दुःखहर्षपरिक्लेशा वृष्णीनामभवंस्तदा ||३६||
६०
वैशम्पायन उवाच||
कथयन्नेव तु तदा वासुदेवः प्रतापवान् |
महाभारतयुद्धं तत्कथान्ते पितुरग्रतः ||१||
अभिमन्योर्वधं वीरः सोऽत्यक्रामत भारत |
अप्रियं वसुदेवस्य मा भूदिति महामनाः ||२||
मा दौहित्रवधं श्रुत्वा वसुदेवो महात्ययम् |
दुःखशोकाभिसन्तप्तो भवेदिति महामतिः ||३||
सुभद्रा तु तमुत्क्रान्तमात्मजस्य वधं रणे |
आचक्ष्व कृष्ण सौभद्रवधमित्यपतद्भुवि ||४||
तामपश्यन्निपतितां वसुदेवः क्षितौ तदा |
दृष्ट्वैव च पपातोर्व्यां सोऽपि दुःखेन मूर्छितः ||५||
ततः स दौहित्रवधाद्दुःखशोकसमन्वितः |
वसुदेवो महाराज कृष्णं वाक्यमथाब्रवीत् ||६||
ननु त्वं पुण्डरीकाक्ष सत्यवाग्भुवि विश्रुतः |
यद्दौहित्रवधं मेऽद्य न ख्यापयसि शत्रुहन् ||७||
तद्भागिनेयनिधनं तत्त्वेनाचक्ष्व मे विभो |
सदृशाक्षस्तव कथं शत्रुभिर्निहतो रणे ||८||
दुर्मरं बत वार्ष्णेय कालेऽप्राप्ते नृभिः सदा |
यत्र मे हृदयं दुःखाच्छतधा न विदीर्यते ||९||
किमब्रवीत्त्वा सङ्ग्रामे सुभद्रां मातरं प्रति |
मां चापि पुण्डरीकाक्ष चपलाक्षः प्रियो मम ||१०||
आहवं पृष्ठतः कृत्वा कच्चिन्न निहतः परैः |
कच्चिन्मुखं न गोविन्द तेनाजौ विकृतं कृतम् ||११||
स हि कृष्ण महातेजाः श्लाघन्निव ममाग्रतः |
बालभावेन विजयमात्मनोऽकथयत्प्रभुः ||१२||
कच्चिन्न विकृतो बालो द्रोणकर्णकृपादिभिः |
धरण्यां निहतः शेते तन्ममाचक्ष्व केशव ||१३||
स हि द्रोणं च भीष्मं च कर्णं च रथिनां वरम् |
स्पर्धते स्म रणे नित्यं दुहितुः पुत्रको मम ||१४||
एवंविधं बहु तदा विलपन्तं सुदुःखितम् |
पितरं दुःखिततरो गोविन्दो वाक्यमब्रवीत् ||१५||
न तेन विकृतं वक्त्रं कृतं सङ्ग्राममूर्धनि |
न पृष्ठतः कृतश्चापि सङ्ग्रामस्तेन दुस्तरः ||१६||
निहत्य पृथिवीपालान्सहस्रशतसङ्घशः |
खेदितो द्रोणकर्णाभ्यां दौःशासनिवशं गतः ||१७||
एको ह्येकेन सततं युध्यमानो यदि प्रभो |
न स शक्येत सङ्ग्रामे निहन्तुमपि वज्रिणा ||१८||
समाहूते तु सङ्ग्रामे पार्थे संशप्तकैस्तदा |
पर्यवार्यत सङ्क्रुद्धैः स द्रोणादिभिराहवे ||१९||
ततः शत्रुक्षयं कृत्वा सुमहान्तं रणे पितुः |
दौहित्रस्तव वार्ष्णेय दौःशासनिवशं गतः ||२०||
नूनं च स गतः स्वर्गं जहि शोकं महामते |
न हि व्यसनमासाद्य सीदन्ते सन्नराः क्वचित् ||२१||
द्रोणकर्णप्रभृतयो येन प्रतिसमासिताः |
रणे महेन्द्रप्रतिमाः स कथं नाप्नुयाद्दिवम् ||२२||
स शोकं जहि दुर्धर्ष मा च मन्युवशं गमः |
शस्त्रपूतां हि स गतिं गतः परपुरञ्जयः ||२३||
तस्मिंस्तु निहते वीरे सुभद्रेयं स्वसा मम |
दुःखार्ताथो पृथां प्राप्य कुररीव ननाद ह ||२४||
द्रौपदीं च समासाद्य पर्यपृच्छत दुःखिता |
आर्ये क्व दारकाः सर्वे द्रष्टुमिच्छामि तानहम् ||२५||
अस्यास्तु वचनं श्रुत्वा सर्वास्ताः कुरुयोषितः |
भुजाभ्यां परिगृह्यैनां चुक्रुशुः परमार्तवत् ||२६||
उत्तरां चाब्रवीद्भद्रा भद्रे भर्ता क्व ते गतः |
क्षिप्रमागमनं मह्यं तस्मै त्वं वेदयस्व ह ||२७||
ननु नाम स वैराटि श्रुत्वा मम गिरं पुरा |
भवनान्निष्पतत्याशु कस्मान्नाभ्येति ते पतिः ||२८||
अभिमन्यो कुशलिनो मातुलास्ते महारथाः |
कुशलं चाब्रुवन्सर्वे त्वां युयुत्सुमिहागतम् ||२९||
आचक्ष्व मेऽद्य सङ्ग्रामं यथापूर्वमरिंदम |
कस्मादेव विलपतीं नाद्येह प्रतिभाषसे ||३०||
एवमादि तु वार्ष्णेय्यास्तदस्याः परिदेवितम् |
श्रुत्वा पृथा सुदुःखार्ता शनैर्वाक्यमथाब्रवीत् ||३१||
सुभद्रे वासुदेवेन तथा सात्यकिना रणे |
पित्रा च पालितो बालः स हतः कालधर्मणा ||३२||
ईदृशो मर्त्यधर्मोऽयं मा शुचो यदुनन्दिनि |
पुत्रो हि तव दुर्धर्षः सम्प्राप्तः परमां गतिम् ||३३||
कुले महति जातासि क्षत्रियाणां महात्मनाम् |
मा शुचश्चपलाक्षं त्वं पुण्डरीकनिभेक्षणे ||३४||
उत्तरां त्वमवेक्षस्व गर्भिणीं मा शुचः शुभे |
पुत्रमेषा हि तस्याशु जनयिष्यति भामिनी ||३५||
एवमाश्वासयित्वैनां कुन्ती यदुकुलोद्वह |
विहाय शोकं दुर्धर्षं श्राद्धमस्य ह्यकल्पयत् ||३६||
समनुज्ञाप्य धर्मज्ञा राजानं भीममेव च |
यमौ यमोपमौ चैव ददौ दानान्यनेकशः ||३७||
ततः प्रदाय बह्वीर्गा ब्राह्मणेभ्यो यदूद्वह |
समहृष्यत वार्ष्णेयी वैराटीं चाब्रवीदिदम् ||३८||
वैराटि नेह सन्तापस्त्वया कार्यो यशस्विनि |
भर्तारं प्रति सुश्रोणि गर्भस्थं रक्ष मे शिशुम् ||३९||
एवमुक्त्वा ततः कुन्ती विरराम महाद्युते |
तामनुज्ञाप्य चैवेमां सुभद्रां समुपानयम् ||४०||
एवं स निधनं प्राप्तो दौहित्रस्तव माधव |
सन्तापं जहि दुर्धर्ष मा च शोके मनः कृथाः ||४१||
वसुदेवेन अभिमन्योः श्राद्धदानम्
६१
वैशम्पायन उवाच||
एतच्छ्रुत्वा तु पुत्रस्य वचः शूरात्मजस्तदा |
विहाय शोकं धर्मात्मा ददौ श्राद्धमनुत्तमम् ||१||
तथैव वासुदेवोऽपि स्वस्रीयस्य महात्मनः |
दयितस्य पितुर्नित्यमकरोदौर्ध्वदेहिकम् ||२||
षष्टिं शतसहस्राणि ब्राह्मणानां महाभुजः |
विधिवद्भोजयामास भोज्यं सर्वगुणान्वितम् ||३||
आच्छाद्य च महाबाहुर्धनतृष्णामपानुदत् |
ब्राह्मणानां तदा कृष्णस्तदभूद्रोमहर्षणम् ||४||
सुवर्णं चैव गाश्चैव शयनाच्छादनं तथा |
दीयमानं तदा विप्राः प्रभूतमिति चाब्रुवन् ||५||
वासुदेवोऽथ दाशार्हो बलदेवः ससात्यकिः |
अभिमन्योस्तदा श्राद्धमकुर्वन्सत्यकस्तदा ||६||
अतीव दुःखसन्तप्ता न शमं चोपलेभिरे ||६||
तथैव पाण्डवा वीरा नगरे नागसाह्वये |
नोपगच्छन्ति वै शान्तिमभिमन्युविनाकृताः ||७||
सुबहूनि च राजेन्द्र दिवसानि विराटजा |
नाभुङ्क्त पतिशोकार्ता तदभूत्करुणं महत् ||८||
कुक्षिस्थ एव तस्यास्तु स गर्भः सम्प्रलीयत ||८||
आजगाम ततो व्यासो ज्ञात्वा दिव्येन चक्षुषा |
आगम्य चाब्रवीद्धीमान्पृथां पृथुललोचनाम् ||९||
उत्तरां च महातेजाः शोकः सन्त्यज्यतामयम् ||९||
जनिष्यति महातेजाः पुत्रस्तव यशस्विनि |
प्रभावाद्वासुदेवस्य मम व्याहरणादपि ||१०||
पाण्डवानामयं चान्ते पालयिष्यति मेदिनीम् ||१०||
धनञ्जयं च सम्प्रेक्ष्य धर्मराजस्य पश्यतः |
व्यासो वाक्यमुवाचेदं हर्षयन्निव भारत ||११||
पौत्रस्तव महाबाहो जनिष्यति महामनाः |
पृथ्वीं सागरपर्यन्तां पालयिष्यति चैव ह ||१२||
तस्माच्छोकं कुरुश्रेष्ठ जहि त्वमरिकर्शन |
विचार्यमत्र न हि ते सत्यमेतद्भविष्यति ||१३||
यच्चापि वृष्णिवीरेण कृष्णेन कुरुनन्दन |
पुरोक्तं तत्तथा भावि मा तेऽत्रास्तु विचारणा ||१४||
विबुधानां गतो लोकानक्षयानात्मनिर्जितान् |
न स शोच्यस्त्वया तात न चान्यैः कुरुभिस्तथा ||१५||
एवं पितामहेनोक्तो धर्मात्मा स धनञ्जयः |
त्यक्त्वा शोकं महाराज हृष्टरूपोऽभवत्तदा ||१६||
पितापि तव धर्मज्ञ गर्भे तस्मिन्महामते |
अवर्धत यथाकालं शुक्लपक्षे यथा शशी ||१७||
ततः सञ्चोदयामास व्यासो धर्मात्मजं नृपम् |
अश्वमेधं प्रति तदा ततः सोऽन्तर्हितोऽभवत् ||१८||
धर्मराजोऽपि मेधावी श्रुत्वा व्यासस्य तद्वचः |
वित्तोपनयने तात चकार गमने मतिम् ||१९||
पाण्डवानाम् मरुत्तनिधिलाभः
६२
जनमेजय उवाच||
श्रुत्वैतद्वचनं ब्रह्मन्व्यासेनोक्तं महात्मना |
अश्वमेधं प्रति तदा किं नृपः प्रचकार ह ||१||
रत्नं च यन्मरुत्तेन निहितं पृथिवीतले |
तदवाप कथं चेति तन्मे ब्रूहि द्विजोत्तम ||२||
वैशम्पायन उवाच||
श्रुत्वा द्वैपायनवचो धर्मराजो युधिष्ठिरः |
भ्रातॄन्सर्वान्समानाय्य काले वचनमब्रवीत् ||३||
अर्जुनं भीमसेनं च माद्रीपुत्रौ यमावपि ||३||
श्रुतं वो वचनं वीराः सौहृदाद्यन्महात्मना |
कुरूणां हितकामेन प्रोक्तं कृष्णेन धीमता ||४||
तपोवृद्धेन महता सुहृदां भूतिमिच्छता |
गुरुणा धर्मशीलेन व्यासेनाद्भुतकर्मणा ||५||
भीष्मेण च महाप्राज्ञ गोविन्देन च धीमता |
संस्मृत्य तदहं सम्यक्कर्तुमिच्छामि पाण्डवाः ||६||
आयत्यां च तदात्वे च सर्वेषां तद्धि नो हितम् |
अनुबन्धे च कल्याणं यद्वचो ब्रह्मवादिनः ||७||
इयं हि वसुधा सर्वा क्षीणरत्ना कुरूद्वहाः |
तच्चाचष्ट बहु व्यासो मरुत्तस्य धनं नृपाः ||८||
यद्येतद्वो बहुमतं मन्यध्वं वा क्षमं यदि |
तदानयामहे सर्वे कथं वा भीम मन्यसे ||९||
इत्युक्तवाक्ये नृपतौ तदा कुरुकुलोद्वह |
भीमसेनो नृपश्रेष्ठं प्राञ्जलिर्वाक्यमब्रवीत् ||१०||
रोचते मे महाबाहो यदिदं भाषितं त्वया |
व्यासाख्यातस्य वित्तस्य समुपानयनं प्रति ||११||
यदि तत्प्राप्नुयामेह धनमाविक्षितं प्रभो |
कृतमेव महाराज भवेदिति मतिर्मम ||१२||
ते वयं प्रणिपातेन गिरीशस्य महात्मनः |
तदानयाम भद्रं ते समभ्यर्च्य कपर्दिनम् ||१३||
तं विभुं देवदेवेशं तस्यैवानुचरांश्च तान् |
प्रसाद्यार्थमवाप्स्यामो नूनं वाग्बुद्धिकर्मभिः ||१४||
रक्षन्ते ये च तद्द्रव्यं किङ्करा रौद्रदर्शनाः |
ते च वश्या भविष्यन्ति प्रसन्ने वृषभध्वजे ||१५||
श्रुत्वैवं वदतस्तस्य वाक्यं भीमस्य भारत |
प्रीतो धर्मात्मजो राजा बभूवातीव भारत ||१६||
अर्जुनप्रमुखाश्चापि तथेत्येवाब्रुवन्मुदा ||१६||
कृत्वा तु पाण्डवाः सर्वे रत्नाहरणनिश्चयम् |
सेनामाज्ञापयामासुर्नक्षत्रेऽहनि च ध्रुवे ||१७||
ततो ययुः पाण्डुसुता ब्राह्मणान्स्वस्ति वाच्य च |
अर्चयित्वा सुरश्रेष्ठं पूर्वमेव महेश्वरम् ||१८||
मोदकैः पायसेनाथ मांसापूपैस्तथैव च |
आशास्य च महात्मानं प्रययुर्मुदिता भृशम् ||१९||
तेषां प्रयास्यतां तत्र मङ्गलानि शुभान्यथ |
प्राहुः प्रहृष्टमनसो द्विजाग्र्या नागराश्च ते ||२०||
ततः प्रदक्षिणीकृत्य शिरोभिः प्रणिपत्य च |
ब्राह्मणानग्निसहितान्प्रययुः पाण्डुनन्दनाः ||२१||
समनुज्ञाप्य राजानं पुत्रशोकसमाहतम् |
धृतराष्ट्रं सभार्यं वै पृथां पृथुललोचनाम् ||२२||
मूले निक्षिप्य कौरव्यं युयुत्सुं धृतराष्ट्रजम् |
सम्पूज्यमानाः पौरैश्च ब्राह्मणैश्च मनीषिभिः ||२३||
६३
वैशम्पायन उवाच||
ततस्ते प्रययुर्हृष्टाः प्रहृष्टनरवाहनाः |
रथघोषेण महता पूरयन्तो वसुन्धराम् ||१||
संस्तूयमानाः स्तुतिभिः सूतमागधबन्दिभिः |
स्वेन सैन्येन संवीता यथादित्याः स्वरश्मिभिः ||२||
पाण्डुरेणातपत्रेण ध्रियमाणेन मूर्धनि |
बभौ युधिष्ठिरस्तत्र पौर्णमास्यामिवोडुराट् ||३||
जयाशिषः प्रहृष्टानां नराणां पथि पाण्डवः |
प्रत्यगृह्णाद्यथान्यायं यथावत्पुरुषर्षभः ||४||
तथैव सैनिका राजन्राजानमनुयान्ति ये |
तेषां हलहलाशब्दो दिवं स्तब्ध्वा व्यतिष्ठत ||५||
स सरांसि नदीश्चैव वनान्युपवनानि च |
अत्यक्रामन्महाराजो गिरिं चैवान्वपद्यत ||६||
तस्मिन्देशे च राजेन्द्र यत्र तद्द्रव्यमुत्तमम् |
चक्रे निवेशनं राजा पाण्डवः सह सैनिकैः ||७||
शिवे देशे समे चैव तदा भरतसत्तम ||७||
अग्रतो ब्राह्मणान्कृत्वा तपोविद्यादमान्वितान् |
पुरोहितं च कौरव्य वेदवेदाङ्गपारगम् ||८||
प्राङ्निवेशात्तु राजानं ब्राह्मणाः सपुरोधसः |
कृत्वा शान्तिं यथान्यायं सर्वतः पर्यवारयन् ||९||
कृत्वा च मध्ये राजानममात्यांश्च यथाविधि |
षट्पथं नवसंस्थानं निवेशं चक्रिरे द्विजाः ||१०||
मत्तानां वारणेन्द्राणां निवेशं च यथाविधि |
कारयित्वा स राजेन्द्रो ब्राह्मणानिदमब्रवीत् ||११||
अस्मिन्कार्ये द्विजश्रेष्ठा नक्षत्रे दिवसे शुभे |
यथा भवन्तो मन्यन्ते कर्तुमर्हथ तत्तथा ||१२||
न नः कालात्ययो वै स्यादिहैव परिलम्बताम् |
इति निश्चित्य विप्रेन्द्राः क्रियतां यदनन्तरम् ||१३||
श्रुत्वैतद्वचनं राज्ञो ब्राह्मणाः सपुरोधसः |
इदमूचुर्वचो हृष्टा धर्मराजप्रियेप्सवः ||१४||
अद्यैव नक्षत्रमहश्च पुण्यं; यतामहे श्रेष्ठतमं क्रियासु |
अम्भोभिरद्येह वसाम राज; न्नुपोष्यतां चापि भवद्भिरद्य ||१५||
श्रुत्वा तु तेषां द्विजसत्तमानां; कृतोपवासा रजनीं नरेन्द्राः |
ऊषुः प्रतीताः कुशसंस्तरेषु; यथाध्वरेषु ज्वलिता हव्यवाहाः ||१६||
ततो निशा सा व्यगमन्महात्मनां; संशृण्वतां विप्रसमीरिता गिरः |
ततः प्रभाते विमले द्विजर्षभा; वचोऽब्रुवन्धर्मसुतं नराधिपम् ||१७||
६४
ब्राह्मणा ऊचुः||
क्रियतामुपहारोऽद्य त्र्यम्बकस्य महात्मनः |
कृत्वोपहारं नृपते ततः स्वार्थे यतामहे ||१||
वैशम्पायन उवाच||
श्रुत्वा तु वचनं तेषां ब्राह्मणानां युधिष्ठिरः |
गिरीशस्य यथान्यायमुपहारमुपाहरत् ||२||
आज्येन तर्पयित्वाग्निं विधिवत्संस्कृतेन ह |
मन्त्रसिद्धं चरुं कृत्वा पुरोधाः प्रययौ तदा ||३||
स गृहीत्वा सुमनसो मन्त्रपूता जनाधिप |
मोदकैः पायसेनाथ मांसैश्चोपाहरद्बलिम् ||४||
सुमनोभिश्च चित्राभिर्लाजैरुच्चावचैरपि |
सर्वं स्विष्टकृतं कृत्वा विधिवद्वेदपारगः ||५||
किङ्कराणां ततः पश्चाच्चकार बलिमुत्तमम् ||५||
यक्षेन्द्राय कुबेराय मणिभद्राय चैव ह |
तथान्येषां च यक्षाणां भूताधिपतयश्च ये ||६||
कृसरेण समांसेन निवापैस्तिलसंयुतैः |
शुशुभे स्थानमत्यर्थं देवदेवस्य पार्थिव ||७||
कृत्वा तु पूजां रुद्रस्य गणानां चैव सर्वशः |
ययौ व्यासं पुरस्कृत्य नृपो रत्ननिधिं प्रति ||८||
पूजयित्वा धनाध्यक्षं प्रणिपत्याभिवाद्य च |
सुमनोभिर्विचित्राभिरपूपैः कृसरेण च ||९||
शङ्खादींश्च निधीन्सर्वान्निधिपालांश्च सर्वशः |
अर्चयित्वा द्विजाग्र्यान्स स्वस्ति वाच्य च वीर्यवान् ||१०||
तेषां पुण्याहघोषेण तेजसा समवस्थितः |
प्रीतिमान्स कुरुश्रेष्ठः खानयामास तं निधिम् ||११||
ततः पात्र्यः सकरकाः साश्मन्तकमनोरमाः |
भृङ्गाराणि कटाहानि कलशान्वर्धमानकान् ||१२||
बहूनि च विचित्राणि भाजनानि सहस्रशः |
उद्धारयामास तदा धर्मराजो युधिष्ठिरः ||१३||
तेषां लक्षणमप्यासीन्महान्करपुटस्तथा |
त्रिलक्षं भाजनं राजंस्तुलार्धमभवन्नृप ||१४||
वाहनं पाण्डुपुत्रस्य तत्रासीत्तु विशां पते |
षष्टिरुष्ट्रसहस्राणि शतानि द्विगुणा हयाः ||१५||
वारणाश्च महाराज सहस्रशतसंमिताः |
शकटानि रथाश्चैव तावदेव करेणवः ||१६||
खराणां पुरुषाणां च परिसङ्ख्या न विद्यते ||१६||
एतद्वित्तं तदभवद्यदुद्दध्रे युधिष्ठिरः |
षोडशाष्टौ चतुर्विंशत्सहस्रं भारलक्षणम् ||१७||
एतेष्वाधाय तद्द्रव्यं पुनरभ्यर्च्य पाण्डवः |
महादेवं प्रति ययौ पुरं नागाह्वयं प्रति ||१८||
द्वैपायनाभ्यनुज्ञातः पुरस्कृत्य पुरोहितम् |
गोयुते गोयुते चैव न्यवसत्पुरुषर्षभः ||१९||
सा पुराभिमुखी राजञ्जगाम महती चमूः |
कृच्छ्राद्द्रविणभारार्ता हर्षयन्ती कुरूद्वहान् ||२०||
परिक्षित्संजीवनम्
६५
वैशम्पायन उवाच||
एतस्मिन्नेव काले तु वासुदेवोऽपि वीर्यवान् |
उपायाद्वृष्णिभिः सार्धं पुरं वारणसाह्वयम् ||१||
समयं वाजिमेधस्य विदित्वा पुरुषर्षभः |
यथोक्तो धर्मपुत्रेण व्रजन्स स्वपुरीं प्रति ||२||
रौक्मिणेयेन सहितो युयुधानेन चैव ह |
चारुदेष्णेन साम्बेन गदेन कृतवर्मणा ||३||
सारणेन च वीरेण निशठेनोल्मुकेन च |
बलदेवं पुरस्कृत्य सुभद्रासहितस्तदा ||४||
द्रौपदीमुत्तरां चैव पृथां चाप्यवलोककः |
समाश्वासयितुं चापि क्षत्रिया निहतेश्वराः ||५||
तानागतान्समीक्ष्यैव धृतराष्ट्रो महीपतिः |
प्रत्यगृह्णाद्यथान्यायं विदुरश्च महामनाः ||६||
तत्रैव न्यवसत्कृष्णः स्वर्चितः पुरुषर्षभः |
विदुरेण महातेजास्तथैव च युयुत्सुना ||७||
वसत्सु वृष्णिवीरेषु तत्राथ जनमेजय |
जज्ञे तव पिता राजन्परिक्षित्परवीरहा ||८||
स तु राजा महाराज ब्रह्मास्त्रेणाभिपीडितः |
शवो बभूव निश्चेष्टो हर्षशोकविवर्धनः ||९||
हृष्टानां सिंहनादेन जनानां तत्र निस्वनः |
आविश्य प्रदिशः सर्वाः पुनरेव व्युपारमत् ||१०||
ततः सोऽतित्वरः कृष्णो विवेशान्तःपुरं तदा |
युयुधानद्वितीयो वै व्यथितेन्द्रियमानसः ||११||
ततस्त्वरितमायान्तीं ददर्श स्वां पितृष्वसाम् |
क्रोशन्तीमभिधावेति वासुदेवं पुनः पुनः ||१२||
पृष्ठतो द्रौपदीं चैव सुभद्रां च यशस्विनीम् |
सविक्रोशं सकरुणं बान्धवानां स्त्रियो नृप ||१३||
ततः कृष्णं समासाद्य कुन्ती राजसुता तदा |
प्रोवाच राजशार्दूल बाष्पगद्गदया गिरा ||१४||
वासुदेव महाबाहो सुप्रजा देवकी त्वया |
त्वं नो गतिः प्रतिष्ठा च त्वदायत्तमिदं कुलम् ||१५||
यदुप्रवीर योऽयं ते स्वस्रीयस्यात्मजः प्रभो |
अश्वत्थाम्ना हतो जातस्तमुज्जीवय केशव ||१६||
त्वया ह्येतत्प्रतिज्ञातमैषीके यदुनन्दन |
अहं सञ्जीवयिष्यामि मृतं जातमिति प्रभो ||१७||
सोऽयं जातो मृतस्तात पश्यैनं पुरुषर्षभ |
उत्तरां च सुभद्रां च द्रौपदीं मां च माधव ||१८||
धर्मपुत्रं च भीमं च फल्गुनं नकुलं तथा |
सहदेवं च दुर्धर्ष सर्वान्नस्त्रातुमर्हसि ||१९||
अस्मिन्प्राणाः समायत्ताः पाण्डवानां ममैव च |
पाण्डोश्च पिण्डो दाशार्ह तथैव श्वशुरस्य मे ||२०||
अभिमन्योश्च भद्रं ते प्रियस्य सदृशस्य च |
प्रियमुत्पादयाद्य त्वं प्रेतस्यापि जनार्दन ||२१||
उत्तरा हि प्रियोक्तं वै कथयत्यरिसूदन |
अभिमन्योर्वचः कृष्ण प्रियत्वात्ते न संशयः ||२२||
अब्रवीत्किल दाशार्ह वैराटीमार्जुनिः पुरा |
मातुलस्य कुलं भद्रे तव पुत्रो गमिष्यति ||२३||
गत्वा वृष्ण्यन्धककुलं धनुर्वेदं ग्रहीष्यति |
अस्त्राणि च विचित्राणि नीतिशास्त्रं च केवलम् ||२४||
इत्येतत्प्रणयात्तात सौभद्रः परवीरहा |
कथयामास दुर्धर्षस्तथा चैतन्न संशयः ||२५||
तास्त्वां वयं प्रणम्येह याचामो मधुसूदन |
कुलस्यास्य हितार्थं त्वं कुरु कल्याणमुत्तमम् ||२६||
एवमुक्त्वा तु वार्ष्णेयं पृथा पृथुललोचना |
उच्छ्रित्य बाहू दुःखार्ता ताश्चान्याः प्रापतन्भुवि ||२७||
अब्रुवंश्च महाराज सर्वाः सास्राविलेक्षणाः |
स्वस्रीयो वासुदेवस्य मृतो जात इति प्रभो ||२८||
एवमुक्ते ततः कुन्तीं प्रत्यगृह्णाज्जनार्दनः |
भूमौ निपतितां चैनां सान्त्वयामास भारत ||२९||
६६
वैशम्पायन उवाच||
उत्थितायां पृथायां तु सुभद्रा भ्रातरं तदा |
दृष्ट्वा चुक्रोश दुःखार्ता वचनं चेदमब्रवीत् ||१||
पुण्डरीकाक्ष पश्यस्व पौत्रं पार्थस्य धीमतः |
परिक्षीणेषु कुरुषु परिक्षीणं गतायुषम् ||२||
इषीका द्रोणपुत्रेण भीमसेनार्थमुद्यता |
सोत्तरायां निपतिता विजये मयि चैव ह ||३||
सेयं ज्वलन्ती हृदये मयि तिष्ठति केशव |
यन्न पश्यामि दुर्धर्ष मम पुत्रसुतं विभो ||४||
किं नु वक्ष्यति धर्मात्मा धर्मराजो युधिष्ठिरः |
भीमसेनार्जुनौ चापि माद्रवत्याः सुतौ च तौ ||५||
श्रुत्वाभिमन्योस्तनयं जातं च मृतमेव च |
मुषिता इव वार्ष्णेय द्रोणपुत्रेण पाण्डवाः ||६||
अभिमन्युः प्रियः कृष्ण पितॄणां नात्र संशयः |
ते श्रुत्वा किं नु वक्ष्यन्ति द्रोणपुत्रास्त्रनिर्जिताः ||७||
भवितातः परं दुःखं किं नु मन्ये जनार्दन |
अभिमन्योः सुतात्कृष्ण मृताज्जातादरिंदम ||८||
साहं प्रसादये कृष्ण त्वामद्य शिरसा नता |
पृथेयं द्रौपदी चैव ताः पश्य पुरुषोत्तम ||९||
यदा द्रोणसुतो गर्भान्पाण्डूनां हन्ति माधव |
तदा किल त्वया द्रौणिः क्रुद्धेनोक्तोऽरिमर्दन ||१०||
अकामं त्वा करिष्यामि ब्रह्मबन्धो नराधम |
अहं सञ्जीवयिष्यामि किरीटितनयात्मजम् ||११||
इत्येतद्वचनं श्रुत्वा जानमाना बलं तव |
प्रसादये त्वा दुर्धर्ष जीवतामभिमन्युजः ||१२||
यद्येवं त्वं प्रतिश्रुत्य न करोषि वचः शुभम् |
सफलं वृष्णिशार्दूल मृतां मामुपधारय ||१३||
अभिमन्योः सुतो वीर न सञ्जीवति यद्ययम् |
जीवति त्वयि दुर्धर्ष किं करिष्याम्यहं त्वया ||१४||
सञ्जीवयैनं दुर्धर्ष मृतं त्वमभिमन्युजम् |
सदृशाक्षसुतं वीर सस्यं वर्षन्निवाम्बुदः ||१५||
त्वं हि केशव धर्मात्मा सत्यवान्सत्यविक्रमः |
स तां वाचमृतां कर्तुमर्हसि त्वमरिंदम ||१६||
इच्छन्नपि हि लोकांस्त्रीञ्जीवयेथा मृतानिमान् |
किं पुनर्दयितं जातं स्वस्रीयस्यात्मजं मृतम् ||१७||
प्रभावज्ञास्मि ते कृष्ण तस्मादेतद्ब्रवीमि ते |
कुरुष्व पाण्डुपुत्राणामिमं परमनुग्रहम् ||१८||
स्वसेति वा महाबाहो हतपुत्रेति वा पुनः |
प्रपन्ना मामियं वेति दयां कर्तुमिहार्हसि ||१९||
६७
वैशम्पायन उवाच||
एवमुक्तस्तु राजेन्द्र केशिहा दुःखमूर्छितः |
तथेति व्याजहारोच्चैर्ह्लादयन्निव तं जनम् ||१||
वाक्येन तेन हि तदा तं जनं पुरुषर्षभः |
ह्लादयामास स विभुर्घर्मार्तं सलिलैरिव ||२||
ततः स प्राविशत्तूर्णं जन्मवेश्म पितुस्तव |
अर्चितं पुरुषव्याघ्र सितैर्माल्यैर्यथाविधि ||३||
अपां कुम्भैः सुपूर्णैश्च विन्यस्तैः सर्वतोदिशम् |
घृतेन तिन्दुकालातैः सर्षपैश्च महाभुज ||४||
शस्त्रैश्च विमलैर्न्यस्तैः पावकैश्च समन्ततः |
वृद्धाभिश्चाभिरामाभिः परिचारार्थमच्युतः ||५||
दक्षैश्च परितो वीर भिषग्भिः कुशलैस्तथा |
ददर्श च स तेजस्वी रक्षोघ्नान्यपि सर्वशः ||६||
द्रव्याणि स्थापितानि स्म विधिवत्कुशलैर्जनैः ||६||
तथायुक्तं च तद्दृष्ट्वा जन्मवेश्म पितुस्तव |
हृष्टोऽभवद्धृषीकेशः साधु साध्विति चाब्रवीत् ||७||
तथा ब्रुवति वार्ष्णेये प्रहृष्टवदने तदा |
द्रौपदी त्वरिता गत्वा वैराटीं वाक्यमब्रवीत् ||८||
अयमायाति ते भद्रे श्वशुरो मधुसूदनः |
पुराणर्षिरचिन्त्यात्मा समीपमपराजितः ||९||
सापि बाष्पकलां वाचं निगृह्याश्रूणि चैव ह |
सुसंवीताभवद्देवी देववत्कृष्णमीक्षती ||१०||
सा तथा दूयमानेन हृदयेन तपस्विनी |
दृष्ट्वा गोविन्दमायान्तं कृपणं पर्यदेवयत् ||११||
पुण्डरीकाक्ष पश्यस्व बालाविह विनाकृतौ |
अभिमन्युं च मां चैव हतौ तुल्यं जनार्दन ||१२||
वार्ष्णेय मधुहन्वीर शिरसा त्वां प्रसादये |
द्रोणपुत्रास्त्रनिर्दग्धं जीवयैनं ममात्मजम् ||१३||
यदि स्म धर्मराज्ञा वा भीमसेनेन वा पुनः |
त्वया वा पुण्डरीकाक्ष वाक्यमुक्तमिदं भवेत् ||१४||
अजानतीमिषीकेयं जनित्रीं हन्त्विति प्रभो |
अहमेव विनष्टा स्यां नेदमेवङ्गतं भवेत् ||१५||
गर्भस्थस्यास्य बालस्य ब्रह्मास्त्रेण निपातनम् |
कृत्वा नृशंसं दुर्बुद्धिर्द्रौणिः किं फलमश्नुते ||१६||
सा त्वा प्रसाद्य शिरसा याचे शत्रुनिबर्हण |
प्राणांस्त्यक्ष्यामि गोविन्द नायं सञ्जीवते यदि ||१७||
अस्मिन्हि बहवः साधो ये ममासन्मनोरथाः |
ते द्रोणपुत्रेण हताः किं नु जीवामि केशव ||१८||
आसीन्मम मतिः कृष्ण पूर्णोत्सङ्गा जनार्दन |
अभिवादयिष्ये दिष्ट्येति तदिदं वितथीकृतम् ||१९||
चपलाक्षस्य दायादे मृतेऽस्मिन्पुरुषर्षभ |
विफला मे कृताः कृष्ण हृदि सर्वे मनोरथाः ||२०||
चपलाक्षः किलातीव प्रियस्ते मधुसूदन |
सुतं पश्यस्व तस्येमं ब्रह्मास्त्रेण निपातितम् ||२१||
कृतघ्नोऽयं नृशंसोऽयं यथास्य जनकस्तथा |
यः पाण्डवीं श्रियं त्यक्त्वा गतोऽद्य यमसादनम् ||२२||
मया चैतत्प्रतिज्ञातं रणमूर्धनि केशव |
अभिमन्यौ हते वीर त्वामेष्याम्यचिरादिति ||२३||
तच्च नाकरवं कृष्ण नृशंसा जीवितप्रिया |
इदानीमागतां तत्र किं नु वक्ष्यति फाल्गुनिः ||२४||
६८
वैशम्पायन उवाच||
सैवं विलप्य करुणं सोन्मादेव तपस्विनी |
उत्तरा न्यपतद्भूमौ कृपणा पुत्रगृद्धिनी ||१||
तां तु दृष्ट्वा निपतितां हतबन्धुपरिच्छदाम् |
चुक्रोश कुन्ती दुःखार्ता सर्वाश्च भरतस्त्रियः ||२||
मुहूर्तमिव तद्राजन्पाण्डवानां निवेशनम् |
अप्रेक्षणीयमभवदार्तस्वरनिनादितम् ||३||
सा मुहूर्तं च राजेन्द्र पुत्रशोकाभिपीडिता |
कश्मलाभिहता वीर वैराटी त्वभवत्तदा ||४||
प्रतिलभ्य तु सा सञ्ज्ञामुत्तरा भरतर्षभ |
अङ्कमारोप्य तं पुत्रमिदं वचनमब्रवीत् ||५||
धर्मज्ञस्य सुतः संस्त्वमधर्ममवबुध्यसे |
यस्त्वं वृष्णिप्रवीरस्य कुरुषे नाभिवादनम् ||६||
पुत्र गत्वा मम वचो ब्रूयास्त्वं पितरं तव |
दुर्मरं प्राणिनां वीर काले प्राप्ते कथञ्चन ||७||
याहं त्वया विहीनाद्य पत्या पुत्रेण चैव ह |
मर्तव्ये सति जीवामि हतस्वस्तिरकिञ्चना ||८||
अथ वा धर्मराज्ञाहमनुज्ञाता महाभुज |
भक्षयिष्ये विषं तीक्ष्णं प्रवेक्ष्ये वा हुताशनम् ||९||
अथ वा दुर्मरं तात यदिदं मे सहस्रधा |
पतिपुत्रविहीनाया हृदयं न विदीर्यते ||१०||
उत्तिष्ठ पुत्र पश्येमां दुःखितां प्रपितामहीम् |
आर्तामुपप्लुतां दीनां निमग्नां शोकसागरे ||११||
आर्यां च पश्य पाञ्चालीं सात्वतीं च तपस्विनीम् |
मां च पश्य सुदुःखार्तां व्याधविद्धां मृगीमिव ||१२||
उत्तिष्ठ पश्य वदनं लोकनाथस्य धीमतः |
पुण्डरीकपलाशाक्षं पुरेव चपलेक्षणम् ||१३||
एवं विप्रलपन्तीं तु दृष्ट्वा निपतितां पुनः |
उत्तरां ताः स्त्रियः सर्वाः पुनरुत्थापयन्त्युत ||१४||
उत्थाय तु पुनर्धैर्यात्तदा मत्स्यपतेः सुता |
प्राञ्जलिः पुण्डरीकाक्षं भूमावेवाभ्यवादयत् ||१५||
श्रुत्वा स तस्या विपुलं विलापं पुरुषर्षभः |
उपस्पृश्य ततः कृष्णो ब्रह्मास्त्रं सञ्जहार तत् ||१६||
प्रतिजज्ञे च दाशार्हस्तस्य जीवितमच्युतः |
अब्रवीच्च विशुद्धात्मा सर्वं विश्रावयञ्जगत् ||१७||
न ब्रवीम्युत्तरे मिथ्या सत्यमेतद्भविष्यति |
एष सञ्जीवयाम्येनं पश्यतां सर्वदेहिनाम् ||१८||
नोक्तपूर्वं मया मिथ्या स्वैरेष्वपि कदाचन |
न च युद्धे परावृत्तस्तथा सञ्जीवतामयम् ||१९||
यथा मे दयितो धर्मो ब्राह्मणाश्च विशेषतः |
अभिमन्योः सुतो जातो मृतो जीवत्वयं तथा ||२०||
यथाहं नाभिजानामि विजयेन कदाचन |
विरोधं तेन सत्येन मृतो जीवत्वयं शिशुः ||२१||
यथा सत्यं च धर्मश्च मयि नित्यं प्रतिष्ठितौ |
तथा मृतः शिशुरयं जीवतामभिमन्युजः ||२२||
यथा कंसश्च केशी च धर्मेण निहतौ मया |
तेन सत्येन बालोऽयं पुनरुज्जीवतामिह ||२३||
इत्युक्तो वासुदेवेन स बालो भरतर्षभ |
शनैः शनैर्महाराज प्रास्पन्दत सचेतनः ||२४||
६९
वैशम्पायन उवाच||
ब्रह्मास्त्रं तु यदा राजन्कृष्णेन प्रतिसंहृतम् |
तदा तद्वेश्म ते पित्रा तेजसाभिविदीपितम् ||१||
ततो रक्षांसि सर्वाणि नेशुस्त्यक्त्वा गृहं तु तत् |
अन्तरिक्षे च वागासीत्साधु केशव साध्विति ||२||
तदस्त्रं ज्वलितं चापि पितामहमगात्तदा |
ततः प्राणान्पुनर्लेभे पिता तव जनेश्वर ||३||
व्यचेष्टत च बालोऽसौ यथोत्साहं यथाबलम् ||३||
बभूवुर्मुदिता राजंस्ततस्ता भरतस्त्रियः |
ब्राह्मणान्वाचयामासुर्गोविन्दस्य च शासनात् ||४||
ततस्ता मुदिताः सर्वाः प्रशशंसुर्जनार्दनम् |
स्त्रियो भरतसिंहानां नावं लब्ध्वेव पारगाः ||५||
कुन्ती द्रुपदपुत्री च सुभद्रा चोत्तरा तथा |
स्त्रियश्चान्या नृसिंहानां बभूवुर्हृष्टमानसाः ||६||
तत्र मल्ला नटा झल्ला ग्रन्थिकाः सौखशायिकाः |
सूतमागधसङ्घाश्चाप्यस्तुवन्वै जनार्दनम् ||७||
कुरुवंशस्तवाख्याभिराशीर्भिर्भरतर्षभ ||७||
उत्थाय तु यथाकालमुत्तरा यदुनन्दनम् |
अभ्यवादयत प्रीता सह पुत्रेण भारत ||८||
ततस्तस्यै ददौ प्रीतो बहुरत्नं विशेषतः ||८||
तथान्ये वृष्णिशार्दूला नाम चास्याकरोत्प्रभुः |
पितुस्तव महाराज सत्यसन्धो जनार्दनः ||९||
परिक्षीणे कुले यस्माज्जातोऽयमभिमन्युजः |
परिक्षिदिति नामास्य भवत्वित्यब्रवीत्तदा ||१०||
सोऽवर्धत यथाकालं पिता तव नराधिप |
मनःप्रह्लादनश्चासीत्सर्वलोकस्य भारत ||११||
मासजातस्तु ते वीर पिता भवति भारत |
अथाजग्मुः सुबहुलं रत्नमादाय पाण्डवाः ||१२||
तान्समीपगताञ्श्रुत्वा निर्ययुर्वृष्णिपुङ्गवाः |
अलञ्चक्रुश्च माल्यौघैः पुरुषा नागसाह्वयम् ||१३||
पताकाभिर्विचित्राभिर्ध्वजैश्च विविधैरपि |
वेश्मानि समलञ्चक्रुः पौराश्चापि जनाधिप ||१४||
देवतायतनानां च पूजा बहुविधास्तथा |
संदिदेशाथ विदुरः पाण्डुपुत्रप्रियेप्सया ||१५||
राजमार्गाश्च तत्रासन्सुमनोभिरलङ्कृताः |
शुशुभे तत्पुरं चापि समुद्रौघनिभस्वनम् ||१६||
नर्तकैश्चापि नृत्यद्भिर्गायनानां च निस्वनैः |
आसीद्वैश्रवणस्येव निवासस्तत्पुरं तदा ||१७||
बन्दिभिश्च नरै राजन्स्त्रीसहायैः सहस्रशः |
तत्र तत्र विविक्तेषु समन्तादुपशोभितम् ||१८||
पताका धूयमानाश्च श्वसता मातरिश्वना |
अदर्शयन्निव तदा कुरून्वै दक्षिणोत्तरान् ||१९||
अघोषयत्तदा चापि पुरुषो राजधूर्गतः |
सर्वरात्रिविहारोऽद्य रत्नाभरणलक्षणः ||२०||
युधिष्ठिरस्य यज्ञदीक्षा
७०
वैशम्पायन उवाच||
तान्समीपगताञ्श्रुत्वा पाण्डवाञ्शत्रुकर्शनः |
वासुदेवः सहामात्यः प्रत्युद्यातो दिदृक्षया ||१||
ते समेत्य यथान्यायं पाण्डवा वृष्णिभिः सह |
विविशुः सहिता राजन्पुरं वारणसाह्वयम् ||२||
महतस्तस्य सैन्यस्य खुरनेमिस्वनेन च |
द्यावापृथिव्यौ खं चैव शब्देनासीत्समावृतम् ||३||
ते कोशमग्रतः कृत्वा विविशुः स्वपुरं तदा |
पाण्डवाः प्रीतमनसः सामात्याः ससुहृद्गणाः ||४||
ते समेत्य यथान्यायं धृतराष्ट्रं जनाधिपम् |
कीर्तयन्तः स्वनामानि तस्य पादौ ववन्दिरे ||५||
धृतराष्ट्रादनु च ते गान्धारीं सुबलात्मजाम् |
कुन्तीं च राजशार्दूल तदा भरतसत्तमाः ||६||
विदुरं पूजयित्वा च वैश्यापुत्रं समेत्य च |
पूज्यमानाः स्म ते वीरा व्यराजन्त विशां पते ||७||
ततस्तत्परमाश्चर्यं विचित्रं महदद्भुतम् |
शुश्रुवुस्ते तदा वीराः पितुस्ते जन्म भारत ||८||
तदुपश्रुत्य ते कर्म वासुदेवस्य धीमतः |
पूजार्हं पूजयामासुः कृष्णं देवकिनन्दनम् ||९||
ततः कतिपयाहस्य व्यासः सत्यवतीसुतः |
आजगाम महातेजा नगरं नागसाह्वयम् ||१०||
तस्य सर्वे यथान्यायं पूजां चक्रुः कुरूद्वहाः |
सह वृष्ण्यन्धकव्याघ्रैरुपासां चक्रिरे तदा ||११||
तत्र नानाविधाकाराः कथाः समनुकीर्त्य वै |
युधिष्ठिरो धर्मसुतो व्यासं वचनमब्रवीत् ||१२||
भवत्प्रसादाद्भगवन्यदिदं रत्नमाहृतम् |
उपयोक्तुं तदिच्छामि वाजिमेधे महाक्रतौ ||१३||
तदनुज्ञातुमिच्छामि भवता मुनिसत्तम |
त्वदधीना वयं सर्वे कृष्णस्य च महात्मनः ||१४||
व्यास उवाच||
अनुजानामि राजंस्त्वां क्रियतां यदनन्तरम् |
यजस्व वाजिमेधेन विधिवद्दक्षिणावता ||१५||
अश्वमेधो हि राजेन्द्र पावनः सर्वपाप्मनाम् |
तेनेष्ट्वा त्वं विपाप्मा वै भविता नात्र संशयः ||१६||
वैशम्पायन उवाच||
इत्युक्तः स तु धर्मात्मा कुरुराजो युधिष्ठिरः |
अश्वमेधस्य कौरव्य चकाराहरणे मतिम् ||१७||
समनुज्ञाप्य तु स तं कृष्णद्वैपायनं नृपः |
वासुदेवमथामन्त्र्य वाग्मी वचनमब्रवीत् ||१८||
देवकी सुप्रजा देवी त्वया पुरुषसत्तम |
यद्ब्रूयां त्वां महाबाहो तत्कृथास्त्वमिहाच्युत ||१९||
त्वत्प्रभावार्जितान्भोगानश्नीम यदुनन्दन |
पराक्रमेण बुद्ध्या च त्वयेयं निर्जिता मही ||२०||
दीक्षयस्व त्वमात्मानं त्वं नः परमको गुरुः |
त्वयीष्टवति धर्मज्ञ विपाप्मा स्यामहं विभो ||२१||
त्वं हि यज्ञोऽक्षरः सर्वस्त्वं धर्मस्त्वं प्रजापतिः ||२१||
वासुदेव उवाच||
त्वमेवैतन्महाबाहो वक्तुमर्हस्यरिंदम |
त्वं गतिः सर्वभूतानामिति मे निश्चिता मतिः ||२२||
त्वं चाद्य कुरुवीराणां धर्मेणाभिविराजसे |
गुणभूताः स्म ते राजंस्त्वं नो राजन्मतो गुरुः ||२३||
यजस्व मदनुज्ञातः प्राप्त एव क्रतुर्मया |
युनक्तु नो भवान्कार्ये यत्र वाञ्छसि भारत ||२४||
सत्यं ते प्रतिजानामि सर्वं कर्तास्मि तेऽनघ ||२४||
भीमसेनार्जुनौ चैव तथा माद्रवतीसुतौ |
इष्टवन्तो भविष्यन्ति त्वयीष्टवति भारत ||२५||
७१
वैशम्पायन उवाच||
एवमुक्तस्तु कृष्णेन धर्मपुत्रो युधिष्ठिरः |
व्यासमामन्त्र्य मेधावी ततो वचनमब्रवीत् ||१||
यथा कालं भवान्वेत्ति हयमेधस्य तत्त्वतः |
दीक्षयस्व तदा मा त्वं त्वय्यायत्तो हि मे क्रतुः ||२||
व्यास उवाच||
अहं पैलोऽथ कौन्तेय याज्ञवल्क्यस्तथैव च |
विधानं यद्यथाकालं तत्कर्तारो न संशयः ||३||
चैत्र्यां हि पौर्णमास्यां च तव दीक्षा भविष्यति |
सम्भाराः सम्भ्रियन्तां ते यज्ञार्थं पुरुषर्षभ ||४||
अश्वविद्याविदश्चैव सूता विप्राश्च तद्विदः |
मेध्यमश्वं परीक्षन्तां तव यज्ञार्थसिद्धये ||५||
तमुत्सृज्य यथाशास्त्रं पृथिवीं सागराम्बराम् |
स पर्येतु यशो नाम्ना तव पार्थिव वर्धयन् ||६||
वैशम्पायन उवाच||
इत्युक्तः स तथेत्युक्त्वा पाण्डवः पृथिवीपतिः |
चकार सर्वं राजेन्द्र यथोक्तं ब्रह्मवादिना ||७||
सम्भाराश्चैव राजेन्द्र सर्वे सङ्कल्पिताभवन् ||७||
स सम्भारान्समाहृत्य नृपो धर्मात्मजस्तदा |
न्यवेदयदमेयात्मा कृष्णद्वैपायनाय वै ||८||
ततोऽब्रवीन्महातेजा व्यासो धर्मात्मजं नृपम् |
यथाकालं यथायोगं सज्जाः स्म तव दीक्षणे ||९||
स्फ्यश्च कूर्चश्च सौवर्णो यच्चान्यदपि कौरव |
तत्र योग्यं भवेत्किञ्चित्तद्रौक्मं क्रियतामिति ||१०||
अश्वश्चोत्सृज्यतामद्य पृथ्व्यामथ यथाक्रमम् |
सुगुप्तश्च चरत्वेष यथाशास्त्रं युधिष्ठिर ||११||
युधिष्ठिर उवाच||
अयमश्वो मया ब्रह्मन्नुत्सृष्टः पृथिवीमिमाम् |
चरिष्यति यथाकामं तत्र वै संविधीयताम् ||१२||
पृथिवीं पर्यटन्तं हि तुरगं कामचारिणम् |
कः पालयेदिति मुने तद्भवान्वक्तुमर्हति ||१३||
वैशम्पायन उवाच||
इत्युक्तः स तु राजेन्द्र कृष्णद्वैपायनोऽब्रवीत् |
भीमसेनादवरजः श्रेष्ठः सर्वधनुष्मताम् ||१४||
जिष्णुः सहिष्णुर्धृष्णुश्च स एनं पालयिष्यति |
शक्तः स हि महीं जेतुं निवातकवचान्तकः ||१५||
तस्मिन्ह्यस्त्राणि दिव्यानि दिव्यं संहननं तथा |
दिव्यं धनुश्चेषुधी च स एनमनुयास्यति ||१६||
स हि धर्मार्थकुशलः सर्वविद्याविशारदः |
यथाशास्त्रं नृपश्रेष्ठ चारयिष्यति ते हयम् ||१७||
राजपुत्रो महाबाहुः श्यामो राजीवलोचनः |
अभिमन्योः पिता वीरः स एनमनुयास्यति ||१८||
भीमसेनोऽपि तेजस्वी कौन्तेयोऽमितविक्रमः |
समर्थो रक्षितुं राष्ट्रं नकुलश्च विशां पते ||१९||
सहदेवस्तु कौरव्य समाधास्यति बुद्धिमान् |
कुटुम्बतन्त्रं विधिवत्सर्वमेव महायशाः ||२०||
तत्तु सर्वं यथान्यायमुक्तं कुरुकुलोद्वहः |
चकार फल्गुनं चापि संदिदेश हयं प्रति ||२१||
युधिष्ठिर उवाच||
एह्यर्जुन त्वया वीर हयोऽयं परिपाल्यताम् |
त्वमर्हो रक्षितुं ह्येनं नान्यः कश्चन मानवः ||२२||
ये चापि त्वां महाबाहो प्रत्युदीयुर्नराधिपाः |
तैर्विग्रहो यथा न स्यात्तथा कार्यं त्वयानघ ||२३||
आख्यातव्यश्च भवता यज्ञोऽयं मम सर्वशः |
पार्थिवेभ्यो महाबाहो समये गम्यतामिति ||२४||
एवमुक्त्वा स धर्मात्मा भ्रातरं सव्यसाचिनम् |
भीमं च नकुलं चैव पुरगुप्तौ समादधत् ||२५||
कुटुम्बतन्त्रे च तथा सहदेवं युधां पतिम् |
अनुमान्य महीपालं धृतराष्ट्रं युधिष्ठिरः ||२६||
अर्जुनस्य अश्वानुसरणम्
७२
वैशम्पायन उवाच||
दीक्षाकाले तु सम्प्राप्ते ततस्ते सुमहर्त्विजः |
विधिवद्दीक्षयामासुरश्वमेधाय पार्थिवम् ||१||
कृत्वा स पशुबन्धांश्च दीक्षितः पाण्डुनन्दनः |
धर्मराजो महातेजाः सहर्त्विग्भिर्व्यरोचत ||२||
हयश्च हयमेधार्थं स्वयं स ब्रह्मवादिना |
उत्सृष्टः शास्त्रविधिना व्यासेनामिततेजसा ||३||
स राजा धर्मजो राजन्दीक्षितो विबभौ तदा |
हेममाली रुक्मकण्ठः प्रदीप्त इव पावकः ||४||
कृष्णाजिनी दण्डपाणिः क्षौमवासाः स धर्मजः |
विबभौ द्युतिमान्भूयः प्रजापतिरिवाध्वरे ||५||
तथैवास्यर्त्विजः सर्वे तुल्यवेषा विशां पते |
बभूवुरर्जुनश्चैव प्रदीप्त इव पावकः ||६||
श्वेताश्वः कृष्णसारं तं ससाराश्वं धनञ्जयः |
विधिवत्पृथिवीपाल धर्मराजस्य शासनात् ||७||
विक्षिपन्गाण्डिवं राजन्बद्धगोधाङ्गुलित्रवान् |
तमश्वं पृथिवीपाल मुदा युक्तः ससार ह ||८||
आकुमारं तदा राजन्नागमत्तत्पुरं विभो |
द्रष्टुकामं कुरुश्रेष्ठं प्रयास्यन्तं धनञ्जयम् ||९||
तेषामन्योन्यसंमर्दादूष्मेव समजायत |
दिदृक्षूणां हयं तं च तं चैव हयसारिणम् ||१०||
ततः शब्दो महाराज दशाशाः प्रतिपूरयन् |
बभूव प्रेक्षतां नॄणां कुन्तीपुत्रं धनञ्जयम् ||११||
एष गच्छति कौन्तेयस्तुरगश्चैव दीप्तिमान् |
यमन्वेति महाबाहुः संस्पृशन्धनुरुत्तमम् ||१२||
एवं शुश्राव वदतां गिरो जिष्णुरुदारधीः |
स्वस्ति तेऽस्तु व्रजारिष्टं पुनश्चैहीति भारत ||१३||
अथापरे मनुष्येन्द्र पुरुषा वाक्यमब्रुवन् |
नैनं पश्याम संमर्दे धनुरेतत्प्रदृश्यते ||१४||
एतद्धि भीमनिर्ह्रादं विश्रुतं गाण्डिवं धनुः |
स्वस्ति गच्छत्वरिष्टं वै पन्थानमकुतोभयम् ||१५||
निवृत्तमेनं द्रक्ष्यामः पुनरेवं च तेऽब्रुवन् ||१५||
एवमाद्या मनुष्याणां स्त्रीणां च भरतर्षभ |
शुश्राव मधुरा वाचः पुनः पुनरुदीरिताः ||१६||
याज्ञवल्क्यस्य शिष्यश्च कुशलो यज्ञकर्मणि |
प्रायात्पार्थेन सहितः शान्त्यर्थं वेदपारगः ||१७||
ब्राह्मणाश्च महीपाल बहवो वेदपारगाः |
अनुजग्मुर्महात्मानं क्षत्रियाश्च विशोऽपि च ||१८||
पाण्डवैः पृथिवीमश्वो निर्जितामस्त्रतेजसा |
चचार स महाराज यथादेशं स सत्तम ||१९||
तत्र युद्धानि वृत्तानि यान्यासन्पाण्डवस्य ह |
तानि वक्ष्यामि ते वीर विचित्राणि महान्ति च ||२०||
स हयः पृथिवीं राजन्प्रदक्षिणमरिंदम |
ससारोत्तरतः पूर्वं तन्निबोध महीपते ||२१||
अवमृद्नन्स राष्ट्राणि पार्थिवानां हयोत्तमः |
शनैस्तदा परिययौ श्वेताश्वश्च महारथः ||२२||
तत्र सङ्कलना नास्ति राज्ञामयुतशस्तदा |
येऽयुध्यन्त महाराज क्षत्रिया हतबान्धवाः ||२३||
किराता विकृता राजन्बहवोऽसिधनुर्धराः |
म्लेच्छाश्चान्ये बहुविधाः पूर्वं विनिकृता रणे ||२४||
आर्याश्च पृथिवीपालाः प्रहृष्टनरवाहनाः |
समीयुः पाण्डुपुत्रेण बहवो युद्धदुर्मदाः ||२५||
एवं युद्धानि वृत्तानि तत्र तत्र महीपते |
अर्जुनस्य महीपालैर्नानादेशनिवासिभिः ||२६||
यानि तूभयतो राजन्प्रतप्तानि महान्ति च |
तानि युद्धानि वक्ष्यामि कौन्तेयस्य तवानघ ||२७||
त्रैगर्तविजयः
७३
वैशम्पायन उवाच||
त्रिगर्तैरभवद्युद्धं कृतवैरैः किरीटिनः |
महारथसमाज्ञातैर्हतानां पुत्रनप्तृभिः ||१||
ते समाज्ञाय सम्प्राप्तं यज्ञियं तुरगोत्तमम् |
विषयान्ते ततो वीरा दंशिताः पर्यवारयन् ||२||
रथिनो बद्धतूणीराः सदश्वैः समलङ्कृतैः |
परिवार्य हयं राजन्ग्रहीतुं सम्प्रचक्रमुः ||३||
ततः किरीटी सञ्चिन्त्य तेषां राज्ञां चिकीर्षितम् |
वारयामास तान्वीरान्सान्त्वपूर्वमरिंदमः ||४||
तमनादृत्य ते सर्वे शरैरभ्यहनंस्तदा |
तमोरजोभ्यां सञ्छन्नांस्तान्किरीटी न्यवारयत् ||५||
अब्रवीच्च ततो जिष्णुः प्रहसन्निव भारत |
निवर्तध्वमधर्मज्ञाः श्रेयो जीवितमेव वः ||६||
स हि वीरः प्रयास्यन्वै धर्मराजेन वारितः |
हतबान्धवा न ते पार्थ हन्तव्याः पार्थिवा इति ||७||
स तदा तद्वचः श्रुत्वा धर्मराजस्य धीमतः |
तान्निवर्तध्वमित्याह न न्यवर्तन्त चापि ते ||८||
ततस्त्रिगर्तराजानं सूर्यवर्माणमाहवे |
वितत्य शरजालेन प्रजहास धनञ्जयः ||९||
ततस्ते रथघोषेण खुरनेमिस्वनेन च |
पूरयन्तो दिशः सर्वा धनञ्जयमुपाद्रवन् ||१०||
सूर्यवर्मा ततः पार्थे शराणां नतपर्वणाम् |
शतान्यमुञ्चद्राजेन्द्र लघ्वस्त्रमभिदर्शयन् ||११||
तथैवान्ये महेष्वासा ये तस्यैवानुयायिनः |
मुमुचुः शरवर्षाणि धनञ्जयवधैषिणः ||१२||
स ताञ्ज्यापुङ्खनिर्मुक्तैर्बहुभिः सुबहूञ्शरान् |
चिच्छेद पाण्डवो राजंस्ते भूमौ न्यपतंस्तदा ||१३||
केतुवर्मा तु तेजस्वी तस्यैवावरजो युवा |
युयुधे भ्रातुरर्थाय पाण्डवेन महात्मना ||१४||
तमापतन्तं सम्प्रेक्ष्य केतुवर्माणमाहवे |
अभ्यघ्नन्निशितैर्बाणैर्बीभत्सुः परवीरहा ||१५||
केतुवर्मण्यभिहते धृतवर्मा महारथः |
रथेनाशु समावृत्य शरैर्जिष्णुमवाकिरत् ||१६||
तस्य तां शीघ्रतामीक्ष्य तुतोषातीव वीर्यवान् |
गुडाकेशो महातेजा बालस्य धृतवर्मणः ||१७||
न संदधानं ददृशे नाददानं च तं तदा |
किरन्तमेव स शरान्ददृशे पाकशासनिः ||१८||
स तु तं पूजयामास धृतवर्माणमाहवे |
मनसा स मुहूर्तं वै रणे समभिहर्षयन् ||१९||
तं पन्नगमिव क्रुद्धं कुरुवीरः स्मयन्निव |
प्रीतिपूर्वं महाराज प्राणैर्न व्यपरोपयत् ||२०||
स तथा रक्ष्यमाणो वै पार्थेनामिततेजसा |
धृतवर्मा शरं तीक्ष्णं मुमोच विजये तदा ||२१||
स तेन विजयस्तूर्णमस्यन्विद्धः करे भृशम् |
मुमोच गाण्डीवं दुःखात्तत्पपाताथ भूतले ||२२||
धनुषः पततस्तस्य सव्यसाचिकराद्विभो |
इन्द्रस्येवायुधस्यासीद्रूपं भरतसत्तम ||२३||
तस्मिन्निपतिते दिव्ये महाधनुषि पार्थिव |
जहास सस्वनं हासं धृतवर्मा महाहवे ||२४||
ततो रोषान्वितो जिष्णुः प्रमृज्य रुधिरं करात् |
धनुरादत्त तद्दिव्यं शरवर्षं ववर्ष च ||२५||
ततो हलहलाशब्दो दिवस्पृगभवत्तदा |
नानाविधानां भूतानां तत्कर्मातीव शंसताम् ||२६||
ततः सम्प्रेक्ष्य तं क्रुद्धं कालान्तकयमोपमम् |
जिष्णुं त्रैगर्तका योधास्त्वरिताः पर्यवारयन् ||२७||
अभिसृत्य परीप्सार्थं ततस्ते धृतवर्मणः |
परिवव्रुर्गुडाकेशं तत्राक्रुध्यद्धनञ्जयः ||२८||
ततो योधाञ्जघानाशु तेषां स दश चाष्ट च |
महेन्द्रवज्रप्रतिमैरायसैर्निशितैः शरैः ||२९||
तांस्तु प्रभग्नान्सम्प्रेक्ष्य त्वरमाणो धनञ्जयः |
शरैराशीविषाकारैर्जघान स्वनवद्धसन् ||३०||
ते भग्नमनसः सर्वे त्रैगर्तकमहारथाः |
दिशो विदुद्रुवुः सर्वा धनञ्जयशरार्दिताः ||३१||
त ऊचुः पुरुषव्याघ्रं संशप्तकनिषूदनम् |
तव स्म किङ्कराः सर्वे सर्वे च वशगास्तव ||३२||
आज्ञापयस्व नः पार्थ प्रह्वान्प्रेष्यानवस्थितान् |
करिष्यामः प्रियं सर्वं तव कौरवनन्दन ||३३||
एतदाज्ञाय वचनं सर्वांस्तानब्रवीत्तदा |
जीवितं रक्षत नृपाः शासनं गृह्यतामिति ||३४||
वज्रदत्तपराजयः
७४
वैशम्पायन उवाच||
प्राग्ज्योतिषमथाभ्येत्य व्यचरत्स हयोत्तमः |
भगदत्तात्मजस्तत्र निर्ययौ रणकर्कशः ||१||
स हयं पाण्डुपुत्रस्य विषयान्तमुपागतम् |
युयुधे भरतश्रेष्ठ वज्रदत्तो महीपतिः ||२||
सोऽभिनिर्याय नगराद्भगदत्तसुतो नृपः |
अश्वमायान्तमुन्मथ्य नगराभिमुखो ययौ ||३||
तमालक्ष्य महाबाहुः कुरूणामृषभस्तदा |
गाण्डीवं विक्षिपंस्तूर्णं सहसा समुपाद्रवत् ||४||
ततो गाण्डीवनिर्मुक्तैरिषुभिर्मोहितो नृपः |
हयमुत्सृज्य तं वीरस्ततः पार्थमुपाद्रवत् ||५||
पुनः प्रविश्य नगरं दंशितः स नृपोत्तमः |
आरुह्य नागप्रवरं निर्ययौ युद्धकाङ्क्षया ||६||
पाण्डुरेणातपत्रेण ध्रियमाणेन मूर्धनि |
दोधूयता चामरेण श्वेतेन च महारथः ||७||
ततः पार्थं समासाद्य पाण्डवानां महारथम् |
आह्वयामास कौरव्यं बाल्यान्मोहाच्च संयुगे ||८||
स वारणं नगप्रख्यं प्रभिन्नकरटामुखम् |
प्रेषयामास सङ्क्रुद्धस्ततः श्वेतहयं प्रति ||९||
विक्षरन्तं यथा मेघं परवारणवारणम् |
शास्त्रवत्कल्पितं सङ्ख्ये त्रिसाहं युद्धदुर्मदम् ||१०||
प्रचोद्यमानः स गजस्तेन राज्ञा महाबलः |
तदाङ्कुशेन विबभावुत्पतिष्यन्निवाम्बरम् ||११||
तमापतन्तं सम्प्रेक्ष्य क्रुद्धो राजन्धनञ्जयः |
भूमिष्ठो वारणगतं योधयामास भारत ||१२||
वज्रदत्तस्तु सङ्क्रुद्धो मुमोचाशु धनञ्जये |
तोमरानग्निसङ्काशाञ्शलभानिव वेगितान् ||१३||
अर्जुनस्तानसम्प्राप्तान्गाण्डीवप्रेषितैः शरैः |
द्विधा त्रिधा च चिच्छेद ख एव खगमैस्तदा ||१४||
स तान्दृष्ट्वा तथा छिन्नांस्तोमरान्भगदत्तजः |
इषूनसक्तांस्त्वरितः प्राहिणोत्पाण्डवं प्रति ||१५||
ततोऽर्जुनस्तूर्णतरं रुक्मपुङ्खानजिह्मगान् |
प्रेषयामास सङ्क्रुद्धो भगदत्तात्मजं प्रति ||१६||
स तैर्विद्धो महातेजा वज्रदत्तो महाहवे |
भृशाहतः पपातोर्व्यां न त्वेनमजहात्स्मृतिः ||१७||
ततः स पुनरारुह्य वारणप्रवरं रणे |
अव्यग्रः प्रेषयामास जयार्थी विजयं प्रति ||१८||
तस्मै बाणांस्ततो जिष्णुर्निर्मुक्ताशीविषोपमान् |
प्रेषयामास सङ्क्रुद्धो ज्वलितानिव पावकान् ||१९||
स तैर्विद्धो महानागो विस्रवन्रुधिरं बभौ |
हिमवानिव शैलेन्द्रो बहुप्रस्रवणस्तदा ||२०||
७५
वैशम्पायन उवाच||
एवं त्रिरात्रमभवत्तद्युद्धं भरतर्षभ |
अर्जुनस्य नरेन्द्रेण वृत्रेणेव शतक्रतोः ||१||
ततश्चतुर्थे दिवसे वज्रदत्तो महाबलः |
जहास सस्वनं हासं वाक्यं चेदमथाब्रवीत् ||२||
अर्जुनार्जुन तिष्ठस्व न मे जीवन्विमोक्ष्यसे |
त्वां निहत्य करिष्यामि पितुस्तोयं यथाविधि ||३||
त्वया वृद्धो मम पिता भगदत्तः पितुः सखा |
हतो वृद्धोऽपचायित्वाच्छिशुं मामद्य योधय ||४||
इत्येवमुक्त्वा सङ्क्रुद्धो वज्रदत्तो नराधिपः |
प्रेषयामास कौरव्य वारणं पाण्डवं प्रति ||५||
सम्प्रेष्यमाणो नागेन्द्रो वज्रदत्तेन धीमता |
उत्पतिष्यन्निवाकाशमभिदुद्राव पाण्डवम् ||६||
अग्रहस्तप्रमुक्तेन शीकरेण स फल्गुनम् |
समुक्षत महाराज शैलं नील इवाम्बुदः ||७||
स तेन प्रेषितो राज्ञा मेघवन्निनदन्मुहुः |
मुखाडम्बरघोषेण समाद्रवत फल्गुनम् ||८||
स नृत्यन्निव नागेन्द्रो वज्रदत्तप्रचोदितः |
आससाद द्रुतं राजन्कौरवाणां महारथम् ||९||
तमापतन्तं सम्प्रेक्ष्य वज्रदत्तस्य वारणम् |
गाण्डीवमाश्रित्य बली न व्यकम्पत शत्रुहा ||१०||
चुक्रोध बलवच्चापि पाण्डवस्तस्य भूपतेः |
कार्यविघ्नमनुस्मृत्य पूर्ववैरं च भारत ||११||
ततस्तं वारणं क्रुद्धः शरजालेन पाण्डवः |
निवारयामास तदा वेलेव मकरालयम् ||१२||
स नागप्रवरो वीर्यादर्जुनेन निवारितः |
तस्थौ शरैर्वितुन्नाङ्गः श्वाविच्छललितो यथा ||१३||
निवारितं गजं दृष्ट्वा भगदत्तात्मजो नृपः |
उत्ससर्ज शितान्बाणानर्जुने क्रोधमूर्छितः ||१४||
अर्जुनस्तु महाराज शरैः शरविघातिभिः |
वारयामास तानस्तांस्तदद्भुतमिवाभवत् ||१५||
ततः पुनरतिक्रुद्धो राजा प्राग्ज्योतिषाधिपः |
प्रेषयामास नागेन्द्रं बलवच्छ्वसनोपमम् ||१६||
तमापतन्तं सम्प्रेक्ष्य बलवान्पाकशासनिः |
नाराचमग्निसङ्काशं प्राहिणोद्वारणं प्रति ||१७||
स तेन वारणो राजन्मर्मण्यभिहतो भृशम् |
पपात सहसा भूमौ वज्ररुग्ण इवाचलः ||१८||
स पतञ्शुशुभे नागो धनञ्जयशराहतः |
विशन्निव महाशैलो महीं वज्रप्रपीडितः ||१९||
तस्मिन्निपतिते नागे वज्रदत्तस्य पाण्डवः |
तं न भेतव्यमित्याह ततो भूमिगतं नृपम् ||२०||
अब्रवीद्धि महातेजाः प्रस्थितं मां युधिष्ठिरः |
राजानस्ते न हन्तव्या धनञ्जय कथञ्चन ||२१||
सर्वमेतन्नरव्याघ्र भवत्वेतावता कृतम् |
योधाश्चापि न हन्तव्या धनञ्जय रणे त्वया ||२२||
वक्तव्याश्चापि राजानः सर्वैः सह सुहृज्जनैः |
युधिष्ठिरस्याश्वमेधो भवद्भिरनुभूयताम् ||२३||
इति भ्रातृवचः श्रुत्वा न हन्मि त्वां जनाधिप |
उत्तिष्ठ न भयं तेऽस्ति स्वस्तिमान्गच्छ पार्थिव ||२४||
आगच्छेथा महाराज परां चैत्रीमुपस्थिताम् |
तदाश्वमेधो भविता धर्मराजस्य धीमतः ||२५||
एवमुक्तः स राजा तु भगदत्तात्मजस्तदा |
तथेत्येवाब्रवीद्वाक्यं पाण्डवेनाभिनिर्जितः ||२६||
सैन्धवपराजयः
७६
वैशम्पायन उवाच||
सैन्धवैरभवद्युद्धं ततस्तस्य किरीटिनः |
हतशेषैर्महाराज हतानां च सुतैरपि ||१||
तेऽवतीर्णमुपश्रुत्य विषयं श्वेतवाहनम् |
प्रत्युद्ययुरमृष्यन्तो राजानः पाण्डवर्षभम् ||२||
अश्वं च तं परामृश्य विषयान्ते विषोपमाः |
न भयं चक्रिरे पार्थाद्भीमसेनादनन्तरात् ||३||
तेऽविदूराद्धनुष्पाणिं यज्ञियस्य हयस्य च |
बीभत्सुं प्रत्यपद्यन्त पदातिनमवस्थितम् ||४||
ततस्ते तु महावीर्या राजानः पर्यवारयन् |
जिगीषन्तो नरव्याघ्राः पूर्वं विनिकृता युधि ||५||
ते नामान्यथ गोत्राणि कर्माणि विविधानि च |
कीर्तयन्तस्तदा पार्थं शरवर्षैरवाकिरन् ||६||
ते किरन्तः शरांस्तीक्ष्णान्वारणेन्द्रनिवारणान् |
रणे जयमभीप्सन्तः कौन्तेयं पर्यवारयन् ||७||
तेऽसमीक्ष्यैव तं वीरमुग्रकर्माणमाहवे |
सर्वे युयुधिरे वीरा रथस्थास्तं पदातिनम् ||८||
ते तमाजघ्निरे वीरं निवातकवचान्तकम् |
संशप्तकनिहन्तारं हन्तारं सैन्धवस्य च ||९||
ततो रथसहस्रेण हयानामयुतेन च |
कोष्ठकीकृत्य कौन्तेयं सम्प्रहृष्टमयोधयन् ||१०||
संस्मरन्तो वधं वीराः सिन्धुराजस्य धीमतः |
जयद्रथस्य कौरव्य समरे सव्यसाचिना ||११||
ततः पर्जन्यवत्सर्वे शरवृष्टिमवासृजन् |
तैः कीर्णः शुशुभे पार्थो रविर्मेघान्तरे यथा ||१२||
स शरैः समवच्छन्नो ददृशे पाण्डवर्षभः |
पञ्जरान्तरसञ्चारी शकुन्त इव भारत ||१३||
ततो हाहाकृतं सर्वं कौन्तेये शरपीडिते |
त्रैलोक्यमभवद्राजन्रविश्चासीद्रजोरुणः ||१४||
ततो ववौ महाराज मारुतो रोमहर्षणः |
राहुरग्रसदादित्यं युगपत्सोममेव च ||१५||
उल्काश्च जघ्निरे सूर्यं विकीर्यन्त्यः समन्ततः |
वेपथुश्चाभवद्राजन्कैलासस्य महागिरेः ||१६||
मुमुचुश्चास्रमत्युष्णं दुःखशोकसमन्विताः |
सप्तर्षयो जातभयास्तथा देवर्षयोऽपि च ||१७||
शशश्चाशु विनिर्भिद्य मण्डलं शशिनोऽपतत् |
विपरीतस्तदा राजंस्तस्मिन्नुत्पातलक्षणे ||१८||
रासभारुणसङ्काशा धनुष्मन्तः सविद्युतः |
आवृत्य गगनं मेघा मुमुचुर्मांसशोणितम् ||१९||
एवमासीत्तदा वीरे शरवर्षाभिसंवृते |
लोकेऽस्मिन्भरतश्रेष्ठ तदद्भुतमिवाभवत् ||२०||
तस्य तेनावकीर्णस्य शरजालेन सर्वशः |
मोहात्पपात गाण्डीवमावापश्च करादपि ||२१||
तस्मिन्मोहमनुप्राप्ते शरजालं महत्तरम् |
सैन्धवा मुमुचुस्तूर्णं गतसत्त्वे महारथे ||२२||
ततो मोहसमापन्नं ज्ञात्वा पार्थं दिवौकसः |
सर्वे वित्रस्तमनसस्तस्य शान्तिपराभवन् ||२३||
ततो देवर्षयः सर्वे तथा सप्तर्षयोऽपि च |
ब्रह्मर्षयश्च विजयं जेपुः पार्थस्य धीमतः ||२४||
ततः प्रदीपिते देवैः पार्थतेजसि पार्थिव |
तस्थावचलवद्धीमान्सङ्ग्रामे परमास्त्रवित् ||२५||
विचकर्ष धनुर्दिव्यं ततः कौरवनन्दनः |
यन्त्रस्येवेह शब्दोऽभून्महांस्तस्य पुनः पुनः ||२६||
ततः स शरवर्षाणि प्रत्यमित्रान्प्रति प्रभुः |
ववर्ष धनुषा पार्थो वर्षाणीव सुरेश्वरः ||२७||
ततस्ते सैन्धवा योधाः सर्व एव सराजकाः |
नादृश्यन्त शरैः कीर्णाः शलभैरिव पावकाः ||२८||
तस्य शब्देन वित्रेसुर्भयार्ताश्च विदुद्रुवुः |
मुमुचुश्चाश्रु शोकार्ताः सुषुपुश्चापि सैन्धवाः ||२९||
तांस्तु सर्वान्नरश्रेष्ठः सर्वतो विचरन्बली |
अलातचक्रवद्राजञ्शरजालैः समर्पयत् ||३०||
तदिन्द्रजालप्रतिमं बाणजालममित्रहा |
व्यसृजद्दिक्षु सर्वासु महेन्द्र इव वज्रभृत् ||३१||
मेघजालनिभं सैन्यं विदार्य स रविप्रभः |
विबभौ कौरवश्रेष्ठः शरदीव दिवाकरः ||३२||
७७
वैशम्पायन उवाच||
ततो गाण्डीवभृच्छूरो युद्धाय समवस्थितः |
विबभौ युधि दुर्धर्षो हिमवानचलो यथा ||१||
ततः सैन्धवयोधास्ते पुनरेव व्यवस्थिताः |
विमुञ्चन्तः सुसंरब्धाः शरवर्षाणि भारत ||२||
तान्प्रसह्य महावीर्यः पुनरेव व्यवस्थितान् |
ततः प्रोवाच कौन्तेयो मुमूर्षूञ्श्लक्ष्णया गिरा ||३||
युध्यध्वं परया शक्त्या यतध्वं च वधे मम |
कुरुध्वं सर्वकार्याणि महद्वो भयमागतम् ||४||
एष योत्स्यामि वः सर्वान्निवार्य शरवागुराम् |
तिष्ठध्वं युद्धमनसो दर्पं विनयितास्मि वः ||५||
एतावदुक्त्वा कौरव्यो रुषा गाण्डीवभृत्तदा |
ततोऽथ वचनं स्मृत्वा भ्रातुर्ज्येष्ठस्य भारत ||६||
न हन्तव्या रणे तात क्षत्रिया विजिगीषवः |
जेतव्याश्चेति यत्प्रोक्तं धर्मराज्ञा महात्मना ||७||
चिन्तयामास च तदा फल्गुनः पुरुषर्षभः ||७||
इत्युक्तोऽहं नरेन्द्रेण न हन्तव्या नृपा इति |
कथं तन्न मृषेह स्याद्धर्मराजवचः शुभम् ||८||
न हन्येरंश्च राजानो राज्ञश्चाज्ञा कृता भवेत् |
इति सञ्चिन्त्य स तदा भ्रातुः प्रियहिते रतः ||९||
प्रोवाच वाक्यं धर्मज्ञः सैन्धवान्युद्धदुर्मदान् ||९||
बालान्स्त्रियो वा युष्माकं न हनिष्ये व्यवस्थितान् |
यश्च वक्ष्यति सङ्ग्रामे तवास्मीति पराजितः ||१०||
एतच्छ्रुत्वा वचो मह्यं कुरुध्वं हितमात्मनः |
अतोऽन्यथा कृच्छ्रगता भविष्यथ मयार्दिताः ||११||
एवमुक्त्वा तु तान्वीरान्युयुधे कुरुपुङ्गवः |
अत्वरावानसंरब्धः संरब्धैर्विजिगीषुभिः ||१२||
ततः शतसहस्राणि शराणां नतपर्वणाम् |
मुमुचुः सैन्धवा राजंस्तदा गाण्डीवधन्वनि ||१३||
स तानापततः क्रूरानाशीविषविषोपमान् |
चिच्छेद निशितैर्बाणैरन्तरैव धनञ्जयः ||१४||
छित्त्वा तु तानाशुगमान्कङ्कपत्राञ्शिलाशितान् |
एकैकमेष दशभिर्बिभेद समरे शरैः ||१५||
ततः प्रासांश्च शक्तीश्च पुनरेव धनञ्जये |
जयद्रथं हतं स्मृत्वा चिक्षिपुः सैन्धवा नृपाः ||१६||
तेषां किरीटी सङ्कल्पं मोघं चक्रे महामनाः |
सर्वांस्तानन्तरा छित्त्वा मुदा चुक्रोश पाण्डवः ||१७||
तथैवापततां तेषां योधानां जयगृद्धिनाम् |
शिरांसि पातयामास भल्लैः संनतपर्वभिः ||१८||
तेषां प्रद्रवतां चैव पुनरेव च धावताम् |
निवर्ततां च शब्दोऽभूत्पूर्णस्येव महोदधेः ||१९||
ते वध्यमानास्तु तदा पार्थेनामिततेजसा |
यथाप्राणं यथोत्साहं योधयामासुरर्जुनम् ||२०||
ततस्ते फल्गुनेनाजौ शरैः संनतपर्वभिः |
कृता विसञ्ज्ञा भूयिष्ठाः क्लान्तवाहनसैनिकाः ||२१||
तांस्तु सर्वान्परिग्लानान्विदित्वा धृतराष्ट्रजा |
दुःशला बालमादाय नप्तारं प्रययौ तदा ||२२||
सुरथस्य सुतं वीरं रथेनानागसं तदा ||२२||
शान्त्यर्थं सर्वयोधानामभ्यगच्छत पाण्डवम् |
सा धनञ्जयमासाद्य मुमोचार्तस्वरं तदा ||२३||
धनञ्जयोऽपि तां दृष्ट्वा धनुर्विससृजे प्रभुः ||२३||
समुत्सृष्टधनुः पार्थो विधिवद्भगिनीं तदा |
प्राह किं करवाणीति सा च तं वाक्यमब्रवीत् ||२४||
एष ते भरतश्रेष्ठ स्वस्रीयस्यात्मजः शिशुः |
अभिवादयते वीर तं पश्य पुरुषर्षभ ||२५||
इत्युक्तस्तस्य पितरं स पप्रच्छार्जुनस्तदा |
क्वासाविति ततो राजन्दुःशला वाक्यमब्रवीत् ||२६||
पितृशोकाभिसन्तप्तो विषादार्तोऽस्य वै पिता |
पञ्चत्वमगमद्वीर यथा तन्मे निबोध ह ||२७||
स पूर्वं पितरं श्रुत्वा हतं युद्धे त्वयानघ |
त्वामागतं च संश्रुत्य युद्धाय हयसारिणम् ||२८||
पितुश्च मृत्युदुःखार्तोऽजहात्प्राणान्धनञ्जय ||२८||
प्राप्तो बीभत्सुरित्येव नाम श्रुत्वैव तेऽनघ |
विषादार्तः पपातोर्व्यां ममार च ममात्मजः ||२९||
तं तु दृष्ट्वा निपतितं ततस्तस्यात्मजं विभो |
गृहीत्वा समनुप्राप्ता त्वामद्य शरणैषिणी ||३०||
इत्युक्त्वार्तस्वरं सा तु मुमोच धृतराष्ट्रजा |
दीना दीनं स्थितं पार्थमब्रवीच्चाप्यधोमुखम् ||३१||
स्वसारं मामवेक्षस्व स्वस्रीयात्मजमेव च |
कर्तुमर्हसि धर्मज्ञ दयां मयि कुरूद्वह ||३२||
विस्मृत्य कुरुराजानं तं च मन्दं जयद्रथम् ||३२||
अभिमन्योर्यथा जातः परिक्षित्परवीरहा |
तथायं सुरथाज्जातो मम पौत्रो महाभुज ||३३||
तमादाय नरव्याघ्र सम्प्राप्तास्मि तवान्तिकम् |
शमार्थं सर्वयोधानां शृणु चेदं वचो मम ||३४||
आगतोऽयं महाबाहो तस्य मन्दस्य पौत्रकः |
प्रसादमस्य बालस्य तस्मात्त्वं कर्तुमर्हसि ||३५||
एष प्रसाद्य शिरसा मया सार्धमरिंदम |
याचते त्वां महाबाहो शमं गच्छ धनञ्जय ||३६||
बालस्य हतबन्धोश्च पार्थ किञ्चिदजानतः |
प्रसादं कुरु धर्मज्ञ मा मन्युवशमन्वगाः ||३७||
तमनार्यं नृशंसं च विस्मृत्यास्य पितामहम् |
आगस्कारिणमत्यर्थं प्रसादं कर्तुमर्हसि ||३८||
एवं ब्रुवत्यां करुणं दुःशलायां धनञ्जयः |
संस्मृत्य देवीं गान्धारीं धृतराष्ट्रं च पार्थिवम् ||३९||
प्रोवाच दुःखशोकार्तः क्षत्रधर्मं विगर्हयन् ||३९||
धिक्तं दुर्योधनं क्षुद्रं राज्यलुब्धं च मानिनम् |
यत्कृते बान्धवाः सर्वे मया नीता यमक्षयम् ||४०||
इत्युक्त्वा बहु सान्त्वादि प्रसादमकरोज्जयः |
परिष्वज्य च तां प्रीतो विससर्ज गृहान्प्रति ||४१||
दुःशला चापि तान्योधान्निवार्य महतो रणात् |
सम्पूज्य पार्थं प्रययौ गृहान्प्रति शुभानना ||४२||
ततः सैन्धवकान्योधान्विनिर्जित्य नरर्षभः |
पुनरेवान्वधावत्स तं हयं कामचारिणम् ||४३||
ससार यज्ञियं वीरो विधिवत्स विशां पते |
तारामृगमिवाकाशे देवदेवः पिनाकधृक् ||४४||
स च वाजी यथेष्टेन तांस्तान्देशान्यथासुखम् |
विचचार यथाकामं कर्म पार्थस्य वर्धयन् ||४५||
क्रमेण स हयस्त्वेवं विचरन्भरतर्षभ |
मणिपूरपतेर्देशमुपायात्सहपाण्डवः ||४६||
बभ्रुवाहनयुद्धम्
७८
वैशम्पायन उवाच||
श्रुत्वा तु नृपतिर्वीरं पितरं बभ्रुवाहनः |
निर्ययौ विनयेनार्यो ब्राह्मणार्घ्यपुरःसरः ||१||
मणिपूरेश्वरं त्वेवमुपयातं धनञ्जयः |
नाभ्यनन्दत मेधावी क्षत्रधर्ममनुस्मरन् ||२||
उवाच चैनं धर्मात्मा समन्युः फल्गुनस्तदा |
प्रक्रियेयं न ते युक्ता बहिस्त्वं क्षत्रधर्मतः ||३||
संरक्ष्यमाणं तुरगं यौधिष्ठिरमुपागतम् |
यज्ञियं विषयान्ते मां नायोत्सीः किं नु पुत्रक ||४||
धिक्त्वामस्तु सुदुर्बुद्धिं क्षत्रधर्माविशारदम् |
यो मां युद्धाय सम्प्राप्तं साम्नैवाथो त्वमग्रहीः ||५||
न त्वया पुरुषार्थश्च कश्चिदस्तीह जीवता |
यस्त्वं स्त्रीवद्युधा प्राप्तं साम्ना मां प्रत्यगृह्णथाः ||६||
यद्यहं न्यस्तशस्त्रस्त्वामागच्छेयं सुदुर्मते |
प्रक्रियेयं ततो युक्ता भवेत्तव नराधम ||७||
तमेवमुक्तं भर्त्रा तु विदित्वा पन्नगात्मजा |
अमृष्यमाणा भित्त्वोर्वीमुलूपी तमुपागमत् ||८||
सा ददर्श ततः पुत्रं विमृशन्तमधोमुखम् |
सन्तर्ज्यमानमसकृद्भर्त्रा युद्धार्थिना विभो ||९||
ततः सा चारुसर्वाङ्गी तमुपेत्योरगात्मजा |
उलूपी प्राह वचनं क्षत्रधर्मविशारदा ||१०||
उलूपीं मां निबोध त्वं मातरं पन्नगात्मजाम् |
कुरुष्व वचनं पुत्र धर्मस्ते भविता परः ||११||
युध्यस्वैनं कुरुश्रेष्ठं धनञ्जयमरिंदम |
एवमेष हि ते प्रीतो भविष्यति न संशयः ||१२||
एवमुद्धर्षितो मात्रा स राजा बभ्रुवाहनः |
मनश्चक्रे महातेजा युद्धाय भरतर्षभ ||१३||
संनह्य काञ्चनं वर्म शिरस्त्राणं च भानुमत् |
तूणीरशतसम्बाधमारुरोह महारथम् ||१४||
सर्वोपकरणैर्युक्तं युक्तमश्वैर्मनोजवैः |
सुचक्रोपस्करं धीमान्हेमभाण्डपरिष्कृतम् ||१५||
परमार्चितमुच्छ्रित्य ध्वजं सिंहं हिरण्मयम् |
प्रययौ पार्थमुद्दिश्य स राजा बभ्रुवाहनः ||१६||
ततोऽभ्येत्य हयं वीरो यज्ञियं पार्थरक्षितम् |
ग्राहयामास पुरुषैर्हयशिक्षाविशारदैः ||१७||
गृहीतं वाजिनं दृष्ट्वा प्रीतात्मा स धनञ्जयः |
पुत्रं रथस्थं भूमिष्ठः संन्यवारयदाहवे ||१८||
ततः स राजा तं वीरं शरव्रातैः सहस्रशः |
अर्दयामास निशितैराशीविषविषोपमैः ||१९||
तयोः समभवद्युद्धं पितुः पुत्रस्य चातुलम् |
देवासुररणप्रख्यमुभयोः प्रीयमाणयोः ||२०||
किरीटिनं तु विव्याध शरेण नतपर्वणा |
जत्रुदेशे नरव्याघ्रः प्रहसन्बभ्रुवाहनः ||२१||
सोऽभ्यगात्सह पुङ्खेन वल्मीकमिव पन्नगः |
विनिर्भिद्य च कौन्तेयं महीतलमथाविशत् ||२२||
स गाढवेदनो धीमानालम्ब्य धनुरुत्तमम् |
दिव्यं तेजः समाविश्य प्रमीत इव सम्बभौ ||२३||
स सञ्ज्ञामुपलभ्याथ प्रशस्य पुरुषर्षभः |
पुत्रं शक्रात्मजो वाक्यमिदमाह महीपते ||२४||
साधु साधु महाबाहो वत्स चित्राङ्गदात्मज |
सदृशं कर्म ते दृष्ट्वा प्रीतिमानस्मि पुत्रक ||२५||
विमुञ्चाम्येष बाणांस्ते पुत्र युद्धे स्थिरो भव |
इत्येवमुक्त्वा नाराचैरभ्यवर्षदमित्रहा ||२६||
तान्स गाण्डीवनिर्मुक्तान्वज्राशनिसमप्रभान् |
नाराचैरच्छिनद्राजा सर्वानेव त्रिधा त्रिधा ||२७||
तस्य पार्थः शरैर्दिव्यैर्ध्वजं हेमपरिष्कृतम् |
सुवर्णतालप्रतिमं क्षुरेणापाहरद्रथात् ||२८||
हयांश्चास्य महाकायान्महावेगपराक्रमान् |
चकार राज्ञो निर्जीवान्प्रहसन्पाण्डवर्षभः ||२९||
स रथादवतीर्याशु राजा परमकोपनः |
पदातिः पितरं कोपाद्योधयामास पाण्डवम् ||३०||
सम्प्रीयमाणः पाण्डूनामृषभः पुत्रविक्रमात् |
नात्यर्थं पीडयामास पुत्रं वज्रधरात्मजः ||३१||
स हन्यमानो विमुखं पितरं बभ्रुवाहनः |
शरैराशीविषाकारैः पुनरेवार्दयद्बली ||३२||
ततः स बाल्यात्पितरं विव्याध हृदि पत्रिणा |
निशितेन सुपुङ्खेन बलवद्बभ्रुवाहनः ||३३||
स बाणस्तेजसा दीप्तो ज्वलन्निव हुताशनः |
विवेश पाण्डवं राजन्मर्म भित्त्वातिदुःखकृत् ||३४||
स तेनातिभृशं विद्धः पुत्रेण कुरुनन्दनः |
महीं जगाम मोहार्तस्ततो राजन्धनञ्जयः ||३५||
तस्मिन्निपतिते वीरे कौरवाणां धुरन्धरे |
सोऽपि मोहं जगामाशु ततश्चित्राङ्गदासुतः ||३६||
व्यायम्य संयुगे राजा दृष्ट्वा च पितरं हतम् |
पूर्वमेव च बाणौघैर्गाढविद्धोऽर्जुनेन सः ||३७||
भर्तारं निहतं दृष्ट्वा पुत्रं च पतितं भुवि |
चित्राङ्गदा परित्रस्ता प्रविवेश रणाजिरम् ||३८||
शोकसन्तप्तहृदया रुदती सा ततः शुभा |
मणिपूरपतेर्माता ददर्श निहतं पतिम् ||३९||
७९
वैशम्पायन उवाच||
ततो बहुविधं भीरुर्विलप्य कमलेक्षणा |
मुमोह दुःखाद्दुर्धर्षा निपपात च भूतले ||१||
प्रतिलभ्य च सा सञ्ज्ञां देवी दिव्यवपुर्धरा |
उलूपीं पन्नगसुतां दृष्ट्वेदं वाक्यमब्रवीत् ||२||
उलूपि पश्य भर्तारं शयानं निहतं रणे |
त्वत्कृते मम पुत्रेण बालेन समितिञ्जयम् ||३||
ननु त्वमार्ये धर्मज्ञा ननु चासि पतिव्रता |
यत्त्वत्कृतेऽयं पतितः पतिस्ते निहतो रणे ||४||
किं तु सर्वापराधोऽयं यदि तेऽद्य धनञ्जयः |
क्षमस्व याच्यमाना मे सञ्जीवय धनञ्जयम् ||५||
ननु त्वमार्ये धर्मज्ञा त्रैलोक्यविदिता शुभे |
यद्घातयित्वा भर्तारं पुत्रेणेह न शोचसि ||६||
नाहं शोचामि तनयं निहतं पन्नगात्मजे |
पतिमेव तु शोचामि यस्यातिथ्यमिदं कृतम् ||७||
इत्युक्त्वा सा तदा देवीमुलूपीं पन्नगात्मजाम् |
भर्तारमभिगम्येदमित्युवाच यशस्विनी ||८||
उत्तिष्ठ कुरुमुख्यस्य प्रियकाम मम प्रिय |
अयमश्वो महाबाहो मया ते परिमोक्षितः ||९||
ननु नाम त्वया वीर धर्मराजस्य यज्ञियः |
अयमश्वोऽनुसर्तव्यः स शेषे किं महीतले ||१०||
त्वयि प्राणाः समायत्ताः कुरूणां कुरुनन्दन |
स कस्मात्प्राणदोऽन्येषां प्राणान्सन्त्यक्तवानसि ||११||
उलूपि साधु सम्पश्य भर्तारं निहतं रणे |
पुत्रं चैनं समुत्साह्य घातयित्वा न शोचसि ||१२||
कामं स्वपितु बालोऽयं भूमौ प्रेतगतिं गतः |
लोहिताक्षो गुडाकेशो विजयः साधु जीवतु ||१३||
नापराधोऽस्ति सुभगे नराणां बहुभार्यता |
नारीणां तु भवत्येतन्मा ते भूद्बुद्धिरीदृशी ||१४||
सख्यं ह्येतत्कृतं धात्रा शाश्वतं चाव्ययं च ह |
सख्यं समभिजानीहि सत्यं सङ्गतमस्तु ते ||१५||
पुत्रेण घातयित्वेमं पतिं यदि न मेऽद्य वै |
जीवन्तं दर्शयस्यद्य परित्यक्ष्यामि जीवितम् ||१६||
साहं दुःखान्विता भीरु पतिपुत्रविनाकृता |
इहैव प्रायमाशिष्ये प्रेक्षन्त्यास्ते न संशयः ||१७||
इत्युक्त्वा पन्नगसुतां सपत्नीं चैत्रवाहिनी |
ततः प्रायमुपासीना तूष्णीमासीज्जनाधिप ||१८||
८०
वैशम्पायन उवाच||
तथा विलप्योपरता भर्तुः पादौ प्रगृह्य सा |
उपविष्टाभवद्देवी सोच्छ्वासं पुत्रमीक्षती ||१||
ततः सञ्ज्ञां पुनर्लब्ध्वा स राजा बभ्रुवाहनः |
मातरं तामथालोक्य रणभूमावथाब्रवीत् ||२||
इतो दुःखतरं किं नु यन्मे माता सुखैधिता |
भूमौ निपतितं वीरमनुशेते मृतं पतिम् ||३||
निहन्तारं रणेऽरीणां सर्वशस्त्रभृतां वरम् |
मया विनिहतं सङ्ख्ये प्रेक्षते दुर्मरं बत ||४||
अहोऽस्या हृदयं देव्या दृढं यन्न विदीर्यते |
व्यूढोरस्कं महाबाहुं प्रेक्षन्त्या निहतं पतिम् ||५||
दुर्मरं पुरुषेणेह मन्ये ह्यध्वन्यनागते |
यत्र नाहं न मे माता विप्रयुज्येत जीवितात् ||६||
अहो धिक्कुरुवीरस्य ह्युरःस्थं काञ्चनं भुवि |
व्यपविद्धं हतस्येह मया पुत्रेण पश्यत ||७||
भो भो पश्यत मे वीरं पितरं ब्राह्मणा भुवि |
शयानं वीरशयने मया पुत्रेण पातितम् ||८||
ब्राह्मणाः कुरुमुख्यस्य प्रयुक्ता हयसारिणः |
कुर्वन्तु शान्तिकां त्वद्य रणे योऽयं मया हतः ||९||
व्यादिशन्तु च किं विप्राः प्रायश्चित्तमिहाद्य मे |
सुनृशंसस्य पापस्य पितृहन्तू रणाजिरे ||१०||
दुश्चरा द्वादश समा हत्वा पितरमद्य वै |
ममेह सुनृशंसस्य संवीतस्यास्य चर्मणा ||११||
शिरःकपाले चास्यैव भुञ्जतः पितुरद्य मे |
प्रायश्चित्तं हि नास्त्यन्यद्धत्वाद्य पितरं मम ||१२||
पश्य नागोत्तमसुते भर्तारं निहतं मया |
कृतं प्रियं मया तेऽद्य निहत्य समरेऽर्जुनम् ||१३||
सोऽहमप्यद्य यास्यामि गतिं पितृनिषेविताम् |
न शक्नोम्यात्मनात्मानमहं धारयितुं शुभे ||१४||
सा त्वं मयि मृते मातस्तथा गाण्डीवधन्वनि |
भव प्रीतिमती देवि सत्येनात्मानमालभे ||१५||
इत्युक्त्वा स तदा राजा दुःखशोकसमाहतः |
उपस्पृश्य महाराज दुःखाद्वचनमब्रवीत् ||१६||
शृण्वन्तु सर्वभूतानि स्थावराणि चराणि च |
त्वं च मातर्यथा सत्यं ब्रवीमि भुजगोत्तमे ||१७||
यदि नोत्तिष्ठति जयः पिता मे भरतर्षभः |
अस्मिन्नेव रणोद्देशे शोषयिष्ये कलेवरम् ||१८||
न हि मे पितरं हत्वा निष्कृतिर्विद्यते क्वचित् |
नरकं प्रतिपत्स्यामि ध्रुवं गुरुवधार्दितः ||१९||
वीरं हि क्षत्रियं हत्वा गोशतेन प्रमुच्यते |
पितरं तु निहत्यैवं दुस्तरा निष्कृतिर्मया ||२०||
एष ह्येको महातेजाः पाण्डुपुत्रो धनञ्जयः |
पिता च मम धर्मात्मा तस्य मे निष्कृतिः कुतः ||२१||
इत्येवमुक्त्वा नृपते धनञ्जयसुतो नृपः |
उपस्पृश्याभवत्तूष्णीं प्रायोपेतो महामतिः ||२२||
८१
वैशम्पायन उवाच||
प्रायोपविष्टे नृपतौ मणिपूरेश्वरे तदा |
पितृशोकसमाविष्टे सह मात्रा परन्तप ||१||
उलूपी चिन्तयामास तदा सञ्जीवनं मणिम् |
स चोपातिष्ठत तदा पन्नगानां परायणम् ||२||
तं गृहीत्वा तु कौरव्य नागराजपतेः सुता |
मनःप्रह्लादनीं वाचं सैनिकानामथाब्रवीत् ||३||
उत्तिष्ठ मा शुचः पुत्र नैष जिष्णुस्त्वया हतः |
अजेयः पुरुषैरेष देवैर्वापि सवासवैः ||४||
मया तु मोहिनी नाम मायैषा सम्प्रयोजिता |
प्रियार्थं पुरुषेन्द्रस्य पितुस्तेऽद्य यशस्विनः ||५||
जिज्ञासुर्ह्येष वै पुत्र बलस्य तव कौरवः |
सङ्ग्रामे युध्यतो राजन्नागतः परवीरहा ||६||
तस्मादसि मया पुत्र युद्धार्थं परिचोदितः |
मा पापमात्मनः पुत्र शङ्केथास्त्वण्वपि प्रभो ||७||
ऋषिरेष महातेजाः पुरुषः शाश्वतोऽव्ययः |
नैनं शक्तो हि सङ्ग्रामे जेतुं शक्रोऽपि पुत्रक ||८||
अयं तु मे मणिर्दिव्यः समानीतो विशां पते |
मृतान्मृतान्पन्नगेन्द्रान्यो जीवयति नित्यदा ||९||
एतमस्योरसि त्वं तु स्थापयस्व पितुः प्रभो |
सञ्जीवितं पुनः पुत्र ततो द्रष्टासि पाण्डवम् ||१०||
इत्युक्तः स्थापयामास तस्योरसि मणिं तदा |
पार्थस्यामिततेजाः स पितुः स्नेहादपापकृत् ||११||
तस्मिन्न्यस्ते मणौ वीर जिष्णुरुज्जीवितः प्रभुः |
सुप्तोत्थित इवोत्तस्थौ मृष्टलोहितलोचनः ||१२||
तमुत्थितं महात्मानं लब्धसञ्ज्ञं मनस्विनम् |
समीक्ष्य पितरं स्वस्थं ववन्दे बभ्रुवाहनः ||१३||
उत्थिते पुरुषव्याघ्रे पुनर्लक्ष्मीवति प्रभो |
दिव्याः सुमनसः पुण्या ववृषे पाकशासनः ||१४||
अनाहता दुन्दुभयः प्रणेदुर्मेघनिस्वनाः |
साधु साध्विति चाकाशे बभूव सुमहान्स्वनः ||१५||
उत्थाय तु महाबाहुः पर्याश्वस्तो धनञ्जयः |
बभ्रुवाहनमालिङ्ग्य समाजिघ्रत मूर्धनि ||१६||
ददर्श चाविदूरेऽस्य मातरं शोककर्शिताम् |
उलूप्या सह तिष्ठन्तीं ततोऽपृच्छद्धनञ्जयः ||१७||
किमिदं लक्ष्यते सर्वं शोकविस्मयहर्षवत् |
रणाजिरममित्रघ्न यदि जानासि शंस मे ||१८||
जननी च किमर्थं ते रणभूमिमुपागता |
नागेन्द्रदुहिता चेयमुलूपी किमिहागता ||१९||
जानाम्यहमिदं युद्धं त्वया मद्वचनात्कृतम् |
स्त्रीणामागमने हेतुमहमिच्छामि वेदितुम् ||२०||
तमुवाच ततः पृष्टो मणिपूरपतिस्तदा |
प्रसाद्य शिरसा विद्वानुलूपी पृच्छ्यतामिति ||२१||
८२
अर्जुन उवाच||
किमागमनकृत्यं ते कौरव्यकुलनन्दिनि |
मणिपूरपतेर्मातुस्तथैव च रणाजिरे ||१||
कच्चित्कुशलकामासि राज्ञोऽस्य भुजगात्मजे |
मम वा चञ्चलापाङ्गे कच्चित्त्वं शुभमिच्छसि ||२||
कच्चित्ते पृथुलश्रोणि नाप्रियं शुभदर्शने |
अकार्षमहमज्ञानादयं वा बभ्रुवाहनः ||३||
कच्चिच्च राजपुत्री ते सपत्नी चैत्रवाहिनी |
चित्राङ्गदा वरारोहा नापराध्यति किञ्चन ||४||
तमुवाचोरगपतेर्दुहिता प्रहसन्त्यथ |
न मे त्वमपराद्धोऽसि न नृपो बभ्रुवाहनः ||५||
न जनित्री तथास्येयं मम या प्रेष्यवत्स्थिता ||५||
श्रूयतां यद्यथा चेदं मया सर्वं विचेष्टितम् |
न मे कोपस्त्वया कार्यः शिरसा त्वां प्रसादये ||६||
त्वत्प्रीत्यर्थं हि कौरव्य कृतमेतन्मयानघ |
यत्तच्छृणु महाबाहो निखिलेन धनञ्जय ||७||
महाभारतयुद्धे यत्त्वया शान्तनवो नृपः |
अधर्मेण हतः पार्थ तस्यैषा निष्कृतिः कृता ||८||
न हि भीष्मस्त्वया वीर युध्यमानो निपातितः |
शिखण्डिना तु संसक्तस्तमाश्रित्य हतस्त्वया ||९||
तस्य शान्तिमकृत्वा तु त्यजेस्त्वं यदि जीवितम् |
कर्मणा तेन पापेन पतेथा निरये ध्रुवम् ||१०||
एषा तु विहिता शान्तिः पुत्राद्यां प्राप्तवानसि |
वसुभिर्वसुधापाल गङ्गया च महामते ||११||
पुरा हि श्रुतमेतद्वै वसुभिः कथितं मया |
गङ्गायास्तीरमागम्य हते शान्तनवे नृपे ||१२||
आप्लुत्य देवा वसवः समेत्य च महानदीम् |
इदमूचुर्वचो घोरं भागीरथ्या मते तदा ||१३||
एष शान्तनवो भीष्मो निहतः सव्यसाचिना |
अयुध्यमानः सङ्ग्रामे संसक्तोऽन्येन भामिनि ||१४||
तदनेनाभिषङ्गेण वयमप्यर्जुनं शुभे |
शापेन योजयामेति तथास्त्विति च साब्रवीत् ||१५||
तदहं पितुरावेद्य भृशं प्रव्यथितेन्द्रिया |
अभवं स च तच्छ्रुत्वा विषादमगमत्परम् ||१६||
पिता तु मे वसून्गत्वा त्वदर्थं समयाचत |
पुनः पुनः प्रसाद्यैनांस्त एनमिदमब्रुवन् ||१७||
पुनस्तस्य महाभाग मणिपूरेश्वरो युवा |
स एनं रणमध्यस्थं शरैः पातयिता भुवि ||१८||
एवं कृते स नागेन्द्र मुक्तशापो भविष्यति |
गच्छेति वसुभिश्चोक्तो मम चेदं शशंस सः ||१९||
तच्छ्रुत्वा त्वं मया तस्माच्छापादसि विमोक्षितः |
न हि त्वां देवराजोऽपि समरेषु पराजयेत् ||२०||
आत्मा पुत्रः स्मृतस्तस्मात्तेनेहासि पराजितः |
नात्र दोषो मम मतः कथं वा मन्यसे विभो ||२१||
इत्येवमुक्तो विजयः प्रसन्नात्माब्रवीदिदम् |
सर्वं मे सुप्रियं देवि यदेतत्कृतवत्यसि ||२२||
इत्युक्त्वाथाब्रवीत्पुत्रं मणिपूरेश्वरं जयः |
चित्राङ्गदायाः शृण्वन्त्याः कौरव्यदुहितुस्तथा ||२३||
युधिष्ठिरस्याश्वमेधः परां चैत्रीं भविष्यति |
तत्रागच्छेः सहामात्यो मातृभ्यां सहितो नृप ||२४||
इत्येवमुक्तः पार्थेन स राजा बभ्रुवाहनः |
उवाच पितरं धीमानिदमस्राविलेक्षणः ||२५||
उपयास्यामि धर्मज्ञ भवतः शासनादहम् |
अश्वमेधे महायज्ञे द्विजातिपरिवेषकः ||२६||
मम त्वनुग्रहार्थाय प्रविशस्व पुरं स्वकम् |
भार्याभ्यां सह शत्रुघ्न मा भूत्तेऽत्र विचारणा ||२७||
उषित्वेह विशल्यस्त्वं सुखं स्वे वेश्मनि प्रभो |
पुनरश्वानुगमनं कर्तासि जयतां वर ||२८||
इत्युक्तः स तु पुत्रेण तदा वानरकेतनः |
स्मयन्प्रोवाच कौन्तेयस्तदा चित्राङ्गदासुतम् ||२९||
विदितं ते महाबाहो यथा दीक्षां चराम्यहम् |
न स तावत्प्रवेक्ष्यामि पुरं ते पृथुलोचन ||३०||
यथाकामं प्रयात्येष यज्ञियश्च तुरङ्गमः |
स्वस्ति तेऽस्तु गमिष्यामि न स्थानं विद्यते मम ||३१||
स तत्र विधिवत्तेन पूजितः पाकशासनिः |
भार्याभ्यामभ्यनुज्ञातः प्रायाद्भरतसत्तमः ||३२||
मागधपराजयः
८३
वैशम्पायन उवाच||
स तु वाजी समुद्रान्तां पर्येत्य पृथिवीमिमाम् |
निवृत्तोऽभिमुखो राजन्येन नागाह्वयं पुरम् ||१||
अनुगच्छंश्च तेजस्वी निवृत्तोऽथ किरीटभृत् |
यदृच्छया समापेदे पुरं राजगृहं तदा ||२||
तमभ्याशगतं राजा जरासन्धात्मजात्मजः |
क्षत्रधर्मे स्थितो वीरः समरायाजुहाव ह ||३||
ततः पुरात्स निष्क्रम्य रथी धन्वी शरी तली |
मेघसन्धिः पदातिं तं धनञ्जयमुपाद्रवत् ||४||
आसाद्य च महातेजा मेघसन्धिर्धनञ्जयम् |
बालभावान्महाराज प्रोवाचेदं न कौशलात् ||५||
किमयं चार्यते वाजी स्त्रीमध्य इव भारत |
हयमेनं हरिष्यामि प्रयतस्व विमोक्षणे ||६||
अदत्तानुनयो युद्धे यदि त्वं पितृभिर्मम |
करिष्यामि तवातिथ्यं प्रहर प्रहरामि वा ||७||
इत्युक्तः प्रत्युवाचैनं पाण्डवः प्रहसन्निव |
विघ्नकर्ता मया वार्य इति मे व्रतमाहितम् ||८||
भ्रात्रा ज्येष्ठेन नृपते तवापि विदितं ध्रुवम् |
प्रहरस्व यथाशक्ति न मन्युर्विद्यते मम ||९||
इत्युक्तः प्राहरत्पूर्वं पाण्डवं मगधेश्वरः |
किरञ्शरसहस्राणि वर्षाणीव सहस्रदृक् ||१०||
ततो गाण्डीवभृच्छूरो गाण्डीवप्रेषितैः शरैः |
चकार मोघांस्तान्बाणानयत्नाद्भरतर्षभ ||११||
स मोघं तस्य बाणौघं कृत्वा वानरकेतनः |
शरान्मुमोच ज्वलितान्दीप्तास्यानिव पन्नगान् ||१२||
ध्वजे पताकादण्डेषु रथयन्त्रे हयेषु च |
अन्येषु च रथाङ्गेषु न शरीरे न सारथौ ||१३||
संरक्ष्यमाणः पार्थेन शरीरे फल्गुनस्य ह |
मन्यमानः स्ववीर्यं तन्मागधः प्राहिणोच्छरान् ||१४||
ततो गाण्डीवभृच्छूरो मागधेन समाहतः |
बभौ वासन्तिक इव पलाशः पुष्पितो महान् ||१५||
अवध्यमानः सोऽभ्यघ्नन्मागधः पाण्डवर्षभम् |
तेन तस्थौ स कौरव्य लोकवीरस्य दर्शने ||१६||
सव्यसाची तु सङ्क्रुद्धो विकृष्य बलवद्धनुः |
हयांश्चकार निर्देहान्सारथेश्च शिरोऽहरत् ||१७||
धनुश्चास्य महच्चित्रं क्षुरेण प्रचकर्त ह |
हस्तावापं पताकां च ध्वजं चास्य न्यपातयत् ||१८||
स राजा व्यथितो व्यश्वो विधनुर्हतसारथिः |
गदामादाय कौन्तेयमभिदुद्राव वेगवान् ||१९||
तस्यापतत एवाशु गदां हेमपरिष्कृताम् |
शरैश्चकर्त बहुधा बहुभिर्गृध्रवाजितैः ||२०||
सा गदा शकलीभूता विशीर्णमणिबन्धना |
व्याली निर्मुच्यमानेव पपातास्य सहस्रधा ||२१||
विरथं तं विधन्वानं गदया परिवर्जितम् |
नैच्छत्ताडयितुं धीमानर्जुनः समराग्रणीः ||२२||
तत एनं विमनसं क्षत्रधर्मे समास्थितम् |
सान्त्वपूर्वमिदं वाक्यमब्रवीत्कपिकेतनः ||२३||
पर्याप्तः क्षत्रधर्मोऽयं दर्शितः पुत्र गम्यताम् |
बह्वेतत्समरे कर्म तव बालस्य पार्थिव ||२४||
युधिष्ठिरस्य संदेशो न हन्तव्या नृपा इति |
तेन जीवसि राजंस्त्वमपराद्धोऽपि मे रणे ||२५||
इति मत्वा स चात्मानं प्रत्यादिष्टं स्म मागधः |
तथ्यमित्यवगम्यैनं प्राञ्जलिः प्रत्यपूजयत् ||२६||
तमर्जुनः समाश्वास्य पुनरेवेदमब्रवीत् |
आगन्तव्यं परां चैत्रीमश्वमेधे नृपस्य नः ||२७||
इत्युक्तः स तथेत्युक्त्वा पूजयामास तं हयम् |
फल्गुनं च युधां श्रेष्ठं विधिवत्सहदेवजः ||२८||
ततो यथेष्टमगमत्पुनरेव स केसरी |
ततः समुद्रतीरेण वङ्गान्पुण्ड्रान्सकेरलान् ||२९||
तत्र तत्र च भूरीणि म्लेच्छसैन्यान्यनेकशः |
विजिग्ये धनुषा राजन्गाण्डीवेन धनञ्जयः ||३०||
एकलव्यसुतपराजयः
८४
वैशम्पायन उवाच||
मागधेनार्चितो राजन्पाण्डवः श्वेतवाहनः |
दक्षिणां दिशमास्थाय चारयामास तं हयम् ||१||
ततः स पुनरावृत्य हयः कामचरो बली |
आससाद पुरीं रम्यां चेदीनां शुक्तिसाह्वयाम् ||२||
शरभेणार्चितस्तत्र शिशुपालात्मजेन सः |
युद्धपूर्वेण मानेन पूजया च महाबलः ||३||
तत्रार्चितो ययौ राजंस्तदा स तुरगोत्तमः |
काशीनन्ध्रान्कोसलांश्च किरातानथ तङ्गणान् ||४||
तत्र पूजां यथान्यायं प्रतिगृह्य स पाण्डवः |
पुनरावृत्य कौन्तेयो दशार्णानगमत्तदा ||५||
तत्र चित्राङ्गदो नाम बलवान्वसुधाधिपः |
तेन युद्धमभूत्तस्य विजयस्यातिभैरवम् ||६||
तं चापि वशमानीय किरीटी पुरुषर्षभः |
निषादराज्ञो विषयमेकलव्यस्य जग्मिवान् ||७||
एकलव्यसुतश्चैनं युद्धेन जगृहे तदा |
ततश्चक्रे निषादैः स सङ्ग्रामं रोमहर्षणम् ||८||
ततस्तमपि कौन्तेयः समरेष्वपराजितः |
जिगाय समरे वीरो यज्ञविघ्नार्थमुद्यतम् ||९||
स तं जित्वा महाराज नैषादिं पाकशासनिः |
अर्चितः प्रययौ भूयो दक्षिणं सलिलार्णवम् ||१०||
तत्रापि द्रविडैरन्ध्रै रौद्रैर्माहिषकैरपि |
तथा कोल्लगिरेयैश्च युद्धमासीत्किरीटिनः ||११||
तुरगस्य वशेनाथ सुराष्ट्रानभितो ययौ |
गोकर्णमपि चासाद्य प्रभासमपि जग्मिवान् ||१२||
ततो द्वारवतीं रम्यां वृष्णिवीराभिरक्षिताम् |
आससाद हयः श्रीमान्कुरुराजस्य यज्ञियः ||१३||
तमुन्मथ्य हयश्रेष्ठं यादवानां कुमारकाः |
प्रययुस्तांस्तदा राजन्नुग्रसेनो न्यवारयत् ||१४||
ततः पुर्या विनिष्क्रम्य वृष्ण्यन्धकपतिस्तदा |
सहितो वसुदेवेन मातुलेन किरीटिनः ||१५||
तौ समेत्य कुरुश्रेष्ठं विधिवत्प्रीतिपूर्वकम् |
परया भरतश्रेष्ठं पूजया समवस्थितौ ||१६||
ततस्ताभ्यामनुज्ञातो ययौ येन हयो गतः ||१६||
ततः स पश्चिमं देशं समुद्रस्य तदा हयः |
क्रमेण व्यचरत्स्फीतं ततः पञ्चनदं ययौ ||१७||
तस्मादपि स कौरव्य गान्धारविषयं हयः |
विचचार यथाकामं कौन्तेयानुगतस्तदा ||१८||
तत्र गान्धारराजेन युद्धमासीन्महात्मनः |
घोरं शकुनिपुत्रेण पूर्ववैरानुसारिणा ||१९||
गान्धारपराजयः
८५
वैशम्पायन उवाच||
शकुनेस्तु सुतो वीरो गान्धाराणां महारथः |
प्रत्युद्ययौ गुडाकेशं सैन्येन महता वृतः ||१||
हस्त्यश्वरथपूर्णेन पताकाध्वजमालिना ||१||
अमृष्यमाणास्ते योधा नृपतेः शकुनेर्वधम् |
अभ्ययुः सहिताः पार्थं प्रगृहीतशरासनाः ||२||
तानुवाच स धर्मात्मा बीभत्सुरपराजितः |
युधिष्ठिरस्य वचनं न च ते जगृहुर्हितम् ||३||
वार्यमाणास्तु पार्थेन सान्त्वपूर्वममर्षिताः |
परिवार्य हयं जग्मुस्ततश्चुक्रोध पाण्डवः ||४||
ततः शिरांसि दीप्ताग्रैस्तेषां चिच्छेद पाण्डवः |
क्षुरैर्गाण्डीवनिर्मुक्तैर्नातियत्नादिवार्जुनः ||५||
ते वध्यमानाः पार्थेन हयमुत्सृज्य सम्भ्रमात् |
न्यवर्तन्त महाराज शरवर्षार्दिता भृशम् ||६||
वितुद्यमानस्तैश्चापि गान्धारैः पाण्डवर्षभः |
आदिश्यादिश्य तेजस्वी शिरांस्येषां न्यपातयत् ||७||
वध्यमानेषु तेष्वाजौ गान्धारेषु समन्ततः |
स राजा शकुनेः पुत्रः पाण्डवं प्रत्यवारयत् ||८||
तं युध्यमानं राजानं क्षत्रधर्मे व्यवस्थितम् |
पार्थोऽब्रवीन्न मे वध्या राजानो राजशासनात् ||९||
अलं युद्धेन ते वीर न तेऽस्त्यद्य पराजयः ||९||
इत्युक्तस्तदनादृत्य वाक्यमज्ञानमोहितः |
स शक्रसमकर्माणमवाकिरत सायकैः ||१०||
तस्य पार्थः शिरस्त्राणमर्धचन्द्रेण पत्रिणा |
अपाहरदसम्भ्रान्तो जयद्रथशिरो यथा ||११||
तद्दृष्ट्वा विस्मयं जग्मुर्गान्धाराः सर्व एव ते |
इच्छता तेन न हतो राजेत्यपि च ते विदुः ||१२||
गान्धारराजपुत्रस्तु पलायनकृतक्षणः |
बभौ तैरेव सहितस्त्रस्तैः क्षुद्रमृगैरिव ||१३||
तेषां तु तरसा पार्थस्तत्रैव परिधावताम् |
विजहारोत्तमाङ्गानि भल्लैः संनतपर्वभिः ||१४||
उच्छ्रितांस्तु भुजान्केचिन्नाबुध्यन्त शरैर्हृतान् |
शरैर्गाण्डीवनिर्मुक्तैः पृथुभिः पार्थचोदितैः ||१५||
सम्भ्रान्तनरनागाश्वमथ तद्विद्रुतं बलम् |
हतविध्वस्तभूयिष्ठमावर्तत मुहुर्मुहुः ||१६||
न ह्यदृश्यन्त वीरस्य केचिदग्रेऽग्र्यकर्मणः |
रिपवः पात्यमाना वै ये सहेयुर्महाशरान् ||१७||
ततो गान्धारराजस्य मन्त्रिवृद्धपुरःसरा |
जननी निर्ययौ भीता पुरस्कृत्यार्घ्यमुत्तमम् ||१८||
सा न्यवारयदव्यग्रा तं पुत्रं युद्धदुर्मदम् |
प्रसादयामास च तं जिष्णुमक्लिष्टकारिणम् ||१९||
तां पूजयित्वा कौन्तेयः प्रसादमकरोत्तदा |
शकुनेश्चापि तनयं सान्त्वयन्निदमब्रवीत् ||२०||
न मे प्रियं महाबाहो यत्ते बुद्धिरियं कृता |
प्रतियोद्धुममित्रघ्न भ्रातैव त्वं ममानघ ||२१||
गान्धारीं मातरं स्मृत्वा धृतराष्ट्रकृतेन च |
तेन जीवसि राजंस्त्वं निहतास्त्वनुगास्तव ||२२||
मैवं भूः शाम्यतां वैरं मा ते भूद्बुद्धिरीदृशी |
आगन्तव्यं परां चैत्रीमश्वमेधे नृपस्य नः ||२३||
यज्ञायतननिर्माणम्
८६
वैशम्पायन उवाच||
इत्युक्त्वानुययौ पार्थो हयं तं कामचारिणम् |
न्यवर्तत ततो वाजी येन नागाह्वयं पुरम् ||१||
तं निवृत्तं तु शुश्राव चारेणैव युधिष्ठिरः |
श्रुत्वार्जुनं कुशलिनं स च हृष्टमनाभवत् ||२||
विजयस्य च तत्कर्म गान्धारविषये तदा |
श्रुत्वान्येषु च देशेषु स सुप्रीतोऽभवन्नृपः ||३||
एतस्मिन्नेव काले तु द्वादशीं माघपाक्षिकीम् |
इष्टं गृहीत्वा नक्षत्रं धर्मराजो युधिष्ठिरः ||४||
समानाय्य महातेजाः सर्वान्भ्रातॄन्महामनाः |
भीमं च नकुलं चैव सहदेवं च कौरवः ||५||
प्रोवाचेदं वचः काले तदा धर्मभृतां वरः |
आमन्त्र्य वदतां श्रेष्ठो भीमं भीमपराक्रमम् ||६||
आयाति भीमसेनासौ सहाश्वेन तवानुजः |
यथा मे पुरुषाः प्राहुर्ये धनञ्जयसारिणः ||७||
उपस्थितश्च कालोऽयमभितो वर्तते हयः |
माघी च पौर्णमासीयं मासः शेषो वृकोदर ||८||
तत्प्रस्थाप्यन्तु विद्वांसो ब्राह्मणा वेदपारगाः |
वाजिमेधार्थसिद्ध्यर्थं देशं पश्यन्तु यज्ञियम् ||९||
इत्युक्तः स तु तच्चक्रे भीमो नृपतिशासनम् |
हृष्टः श्रुत्वा नरपतेरायान्तं सव्यसाचिनम् ||१०||
ततो ययौ भीमसेनः प्राज्ञैः स्थपतिभिः सह |
ब्राह्मणानग्रतः कृत्वा कुशलान्यज्ञकर्मसु ||११||
तं सशालचयग्रामं सम्प्रतोलीविटङ्किनम् |
मापयामास कौरव्यो यज्ञवाटं यथाविधि ||१२||
सदः सपत्नीसदनं साग्नीध्रमपि चोत्तरम् |
कारयामास विधिवन्मणिहेमविभूषितम् ||१३||
स्तम्भान्कनकचित्रांश्च तोरणानि बृहन्ति च |
यज्ञायतनदेशेषु दत्त्वा शुद्धं च काञ्चनम् ||१४||
अन्तःपुराणि राज्ञां च नानादेशनिवासिनाम् |
कारयामास धर्मात्मा तत्र तत्र यथाविधि ||१५||
ब्राह्मणानां च वेश्मानि नानादेशसमेयुषाम् |
कारयामास भीमः स विविधानि ह्यनेकशः ||१६||
तथा सम्प्रेषयामास दूतान्नृपतिशासनात् |
भीमसेनो महाराज राज्ञामक्लिष्टकर्मणाम् ||१७||
ते प्रियार्थं कुरुपतेराययुर्नृपसत्तमाः |
रत्नान्यनेकान्यादाय स्त्रियोऽश्वानायुधानि च ||१८||
तेषां निविशतां तेषु शिबिरेषु सहस्रशः |
नर्दतः सागरस्येव शब्दो दिवमिवास्पृशत् ||१९||
तेषामभ्यागतानां स राजा राजीवलोचनः |
व्यादिदेशान्नपानानि शय्याश्चाप्यतिमानुषाः ||२०||
वाहनानां च विविधाः शालाः शालीक्षुगोरसैः |
उपेताः पुरुषव्याघ्र व्यादिदेश स धर्मराट् ||२१||
तथा तस्मिन्महायज्ञे धर्मराजस्य धीमतः |
समाजग्मुर्मुनिगणा बहवो ब्रह्मवादिनः ||२२||
ये च द्विजातिप्रवरास्तत्रासन्पृथिवीपते |
समाजग्मुः सशिष्यांस्तान्प्रतिजग्राह कौरवः ||२३||
सर्वांश्च ताननुययौ यावदावसथादिति |
स्वयमेव महातेजा दम्भं त्यक्त्वा युधिष्ठिरः ||२४||
ततः कृत्वा स्थपतयः शिल्पिनोऽन्ये च ये तदा |
कृत्स्नं यज्ञविधिं राजन्धर्मराज्ञे न्यवेदयन् ||२५||
तच्छ्रुत्वा धर्मराजः स कृतं सर्वमनिन्दितम् |
हृष्टरूपोऽभवद्राजा सह भ्रातृभिरच्युतः ||२६||
यज्ञसमृद्धिः
८७
वैशम्पायन उवाच||
तस्मिन्यज्ञे प्रवृत्ते तु वाग्मिनो हेतुवादिनः |
हेतुवादान्बहून्प्राहुः परस्परजिगीषवः ||१||
ददृशुस्तं नृपतयो यज्ञस्य विधिमुत्तमम् |
देवेन्द्रस्येव विहितं भीमेन कुरुनन्दन ||२||
ददृशुस्तोरणान्यत्र शातकुम्भमयानि ते |
शय्यासनविहारांश्च सुबहून्रत्नभूषितान् ||३||
घटान्पात्रीः कटाहानि कलशान्वर्धमानकान् |
न हि किञ्चिदसौवर्णमपश्यंस्तत्र पार्थिवाः ||४||
यूपांश्च शास्त्रपठितान्दारवान्हेमभूषितान् |
उपकॢप्तान्यथाकालं विधिवद्भूरिवर्चसः ||५||
स्थलजा जलजा ये च पशवः केचन प्रभो |
सर्वानेव समानीतांस्तानपश्यन्त ते नृपाः ||६||
गाश्चैव महिषीश्चैव तथा वृद्धाः स्त्रियोऽपि च |
औदकानि च सत्त्वानि श्वापदानि वयांसि च ||७||
जरायुजान्यण्डजानि स्वेदजान्युद्भिदानि च |
पर्वतानूपवन्यानि भूतानि ददृशुश्च ते ||८||
एवं प्रमुदितं सर्वं पशुगोधनधान्यतः |
यज्ञवाटं नृपा दृष्ट्वा परं विस्मयमागमन् ||९||
ब्राह्मणानां विशां चैव बहुमृष्टान्नमृद्धिमत् ||९||
पूर्णे शतसहस्रे तु विप्राणां तत्र भुञ्जताम् |
दुन्दुभिर्मेघनिर्घोषो मुहुर्मुहुरताड्यत ||१०||
विननादासकृत्सोऽथ दिवसे दिवसे तदा |
एवं स ववृते यज्ञो धर्मराजस्य धीमतः ||११||
अन्नस्य बहवो राजन्नुत्सर्गाः पर्वतोपमाः |
दधिकुल्याश्च ददृशुः सर्पिषश्च ह्रदाञ्जनाः ||१२||
जम्बूद्वीपो हि सकलो नानाजनपदायुतः |
राजन्नदृश्यतैकस्थो राज्ञस्तस्मिन्महाक्रतौ ||१३||
तत्र जातिसहस्राणि पुरुषाणां ततस्ततः |
गृहीत्वा धनमाजग्मुर्बहूनि भरतर्षभ ||१४||
राजानः स्रग्विणश्चापि सुमृष्टमणिकुण्डलाः |
पर्यवेषन्द्विजाग्र्यांस्ताञ्शतशोऽथ सहस्रशः ||१५||
विविधान्यन्नपानानि पुरुषा येऽनुयायिनः |
तेषां नृपोपभोज्यानि ब्राह्मणेभ्यो ददुः स्म ते ||१६||
अर्जुनप्रत्यागमनम्
८८
वैशम्पायन उवाच||
समागतान्वेदविदो राज्ञश्च पृथिवीश्वरान् |
दृष्ट्वा युधिष्ठिरो राजा भीमसेनमथाब्रवीत् ||१||
उपयाता नरव्याघ्रा य इमे जगदीश्वराः |
एतेषां क्रियतां पूजा पूजार्हा हि नरेश्वराः ||२||
इत्युक्तः स तथा चक्रे नरेन्द्रेण यशस्विना |
भीमसेनो महातेजा यमाभ्यां सह भारत ||३||
अथाभ्यगच्छद्गोविन्दो वृष्णिभिः सह धर्मजम् |
बलदेवं पुरस्कृत्य सर्वप्राणभृतां वरः ||४||
युयुधानेन सहितः प्रद्युम्नेन गदेन च |
निशठेनाथ साम्बेन तथैव कृतवर्मणा ||५||
तेषामपि परां पूजां चक्रे भीमो महाभुजः |
विविशुस्ते च वेश्मानि रत्नवन्ति नरर्षभाः ||६||
युधिष्ठिरसमीपे तु कथान्ते मधुसूदनः |
अर्जुनं कथयामास बहुसङ्ग्रामकर्शितम् ||७||
स तं पप्रच्छ कौन्तेयः पुनः पुनररिंदमम् |
धर्मराड्भ्रातरं जिष्णुं समाचष्ट जगत्पतिः ||८||
आगमद्द्वारकावासी ममाप्तः पुरुषो नृप |
योऽद्राक्षीत्पाण्डवश्रेष्ठं बहुसङ्ग्रामकर्शितम् ||९||
समीपे च महाबाहुमाचष्ट च मम प्रभो |
कुरु कार्याणि कौन्तेय हयमेधार्थसिद्धये ||१०||
इत्युक्तः प्रत्युवाचैनं धर्मराजो युधिष्ठिरः |
दिष्ट्या स कुशली जिष्णुरुपयाति च माधव ||११||
तव यत्संदिदेशासौ पाण्डवानां बलाग्रणीः |
तदाख्यातुमिहेच्छामि भवता यदुनन्दन ||१२||
इत्युक्ते राजशार्दूल वृष्ण्यन्धकपतिस्तदा |
प्रोवाचेदं वचो वाग्मी धर्मात्मानं युधिष्ठिरम् ||१३||
इदमाह महाराज पार्थवाक्यं नरः स माम् |
वाच्यो युधिष्ठिरः कृष्ण काले वाक्यमिदं मम ||१४||
आगमिष्यन्ति राजानः सर्वतः कौरवान्प्रति |
तेषामेकैकशः पूजा कार्येत्येतत्क्षमं हि नः ||१५||
इत्येतद्वचनाद्राजा विज्ञाप्यो मम मानद |
न तदात्ययिकं हि स्याद्यदर्घ्यानयने भवेत् ||१६||
कर्तुमर्हति तद्राजा भवांश्चाप्यनुमन्यताम् |
राजद्वेषाद्विनश्येयुर्नेमा राजन्प्रजाः पुनः ||१७||
इदमन्यच्च कौन्तेय वचः स पुरुषोऽब्रवीत् |
धनञ्जयस्य नृपते तन्मे निगदतः शृणु ||१८||
उपयास्यति यज्ञं नो मणिपूरपतिर्नृपः |
पुत्रो मम महातेजा दयितो बभ्रुवाहनः ||१९||
तं भवान्मदपेक्षार्थं विधिवत्प्रतिपूजयेत् |
स हि भक्तोऽनुरक्तश्च मम नित्यमिति प्रभो ||२०||
इत्येतद्वचनं श्रुत्वा धर्मराजो युधिष्ठिरः |
अभिनन्द्यास्य तद्वाक्यमिदं वचनमब्रवीत् ||२१||
८९
युधिष्ठिर उवाच||
श्रुतं प्रियमिदं कृष्ण यत्त्वमर्हसि भाषितुम् |
तन्मेऽमृतरसप्रख्यं मनो ह्लादयते विभो ||१||
बहूनि किल युद्धानि विजयस्य नराधिपैः |
पुनरासन्हृषीकेश तत्र तत्रेति मे श्रुतम् ||२||
मन्निमित्तं हि स सदा पार्थः सुखविवर्जितः |
अतीव विजयो धीमानिति मे दूयते मनः ||३||
सञ्चिन्तयामि वार्ष्णेय सदा कुन्तीसुतं रहः |
किं नु तस्य शरीरेऽस्ति सर्वलक्षणपूजिते ||४||
अनिष्टं लक्षणं कृष्ण येन दुःखान्युपाश्नुते ||४||
अतीव दुःखभागी स सततं कुन्तिनन्दनः |
न च पश्यामि बीभत्सोर्निन्द्यं गात्रेषु किञ्चन ||५||
श्रोतव्यं चेन्मयैतद्वै तन्मे व्याख्यातुमर्हसि ||५||
इत्युक्तः स हृषीकेशो ध्यात्वा सुमहदन्तरम् |
राजानं भोजराजन्यवर्धनो विष्णुरब्रवीत् ||६||
न ह्यस्य नृपते किञ्चिदनिष्टमुपलक्षये |
ऋते पुरुषसिंहस्य पिण्डिकेऽस्यातिकायतः ||७||
ताभ्यां स पुरुषव्याघ्रो नित्यमध्वसु युज्यते |
न ह्यन्यदनुपश्यामि येनासौ दुःखभाग्जयः ||८||
इत्युक्तः स कुरुश्रेष्ठस्तथ्यं कृष्णेन धीमता |
प्रोवाच वृष्णिशार्दूलमेवमेतदिति प्रभो ||९||
कृष्णा तु द्रौपदी कृष्णं तिर्यक्सासूयमैक्षत |
प्रतिजग्राह तस्यास्तं प्रणयं चापि केशिहा ||१०||
सख्युः सखा हृषीकेशः साक्षादिव धनञ्जयः ||१०||
तत्र भीमादयस्ते तु कुरवो यादवास्तथा |
रेमुः श्रुत्वा विचित्रार्था धनञ्जयकथा विभो ||११||
तथा कथयतामेव तेषामर्जुनसङ्कथाः |
उपायाद्वचनान्मर्त्यो विजयस्य महात्मनः ||१२||
सोऽभिगम्य कुरुश्रेष्ठं नमस्कृत्य च बुद्धिमान् |
उपायातं नरव्याघ्रमर्जुनं प्रत्यवेदयत् ||१३||
तच्छ्रुत्वा नृपतिस्तस्य हर्षबाष्पाकुलेक्षणः |
प्रियाख्याननिमित्तं वै ददौ बहु धनं तदा ||१४||
ततो द्वितीये दिवसे महाञ्शब्दो व्यवर्धत |
आयाति पुरुषव्याघ्रे पाण्डवानां धुरन्धरे ||१५||
ततो रेणुः समुद्भूतो विबभौ तस्य वाजिनः |
अभितो वर्तमानस्य यथोच्चैःश्रवसस्तथा ||१६||
तत्र हर्षकला वाचो नराणां शुश्रुवेऽर्जुनः |
दिष्ट्यासि पार्थ कुशली धन्यो राजा युधिष्ठिरः ||१७||
कोऽन्यो हि पृथिवीं कृत्स्नामवजित्य सपार्थिवाम् |
चारयित्वा हयश्रेष्ठमुपायायादृतेऽर्जुनम् ||१८||
ये व्यतीता महात्मानो राजानः सगरादयः |
तेषामपीदृशं कर्म न किञ्चिदनुशुश्रुम ||१९||
नैतदन्ये करिष्यन्ति भविष्याः पृथिवीक्षितः |
यत्त्वं कुरुकुलश्रेष्ठ दुष्करं कृतवानिह ||२०||
इत्येवं वदतां तेषां नॄणां श्रुतिसुखा गिरः |
शृण्वन्विवेश धर्मात्मा फल्गुनो यज्ञसंस्तरम् ||२१||
ततो राजा सहामात्यः कृष्णश्च यदुनन्दनः |
धृतराष्ट्रं पुरस्कृत्य ते तं प्रत्युद्ययुस्तदा ||२२||
सोऽभिवाद्य पितुः पादौ धर्मराजस्य धीमतः |
भीमादींश्चापि सम्पूज्य पर्यष्वजत केशवम् ||२३||
तैः समेत्यार्चितस्तान्स प्रत्यर्च्य च यथाविधि |
विशश्रामाथ धर्मात्मा तीरं लब्ध्वेव पारगः ||२४||
एतस्मिन्नेव काले तु स राजा बभ्रुवाहनः |
मातृभ्यां सहितो धीमान्कुरूनभ्याजगाम ह ||२५||
स समेत्य कुरून्सर्वान्सर्वैस्तैरभिनन्दितः |
प्रविवेश पितामह्याः कुन्त्या भवनमुत्तमम् ||२६||
यूपोच्छ्रयः
९०
वैशम्पायन उवाच||
स प्रविश्य यथान्यायं पाण्डवानां निवेशनम् |
पितामहीमभ्यवदत्साम्ना परमवल्गुना ||१||
तथा चित्राङ्गदा देवी कौरव्यस्यात्मजापि च |
पृथां कृष्णां च सहिते विनयेनाभिजग्मतुः ||२||
सुभद्रां च यथान्यायं याश्चान्याः कुरुयोषितः ||२||
ददौ कुन्ती ततस्ताभ्यां रत्नानि विविधानि च |
द्रौपदी च सुभद्रा च याश्चाप्यन्या ददुः स्त्रियः ||३||
ऊषतुस्तत्र ते देव्यौ महार्हशयनासने |
सुपूजिते स्वयं कुन्त्या पार्थस्य प्रियकाम्यया ||४||
स च राजा महावीर्यः पूजितो बभ्रुवाहनः |
धृतराष्ट्रं महीपालमुपतस्थे यथाविधि ||५||
युधिष्ठिरं च राजानं भीमादींश्चापि पाण्डवान् |
उपगम्य महातेजा विनयेनाभ्यवादयत् ||६||
स तैः प्रेम्णा परिष्वक्तः पूजितश्च यथाविधि |
धनं चास्मै ददुर्भूरि प्रीयमाणा महारथाः ||७||
तथैव स महीपालः कृष्णं चक्रगदाधरम् |
प्रद्युम्न इव गोविन्दं विनयेनोपतस्थिवान् ||८||
तस्मै कृष्णो ददौ राज्ञे महार्हमभिपूजितम् |
रथं हेमपरिष्कारं दिव्याश्वयुजमुत्तमम् ||९||
धर्मराजश्च भीमश्च यमजौ फल्गुनस्तथा |
पृथक्पृथगतीवैनं मानार्हं समपूजयन् ||१०||
ततस्तृतीये दिवसे सत्यवत्याः सुतो मुनिः |
युधिष्ठिरं समभ्येत्य वाग्मी वचनमब्रवीत् ||११||
अद्य प्रभृति कौन्तेय यजस्व समयो हि ते |
मुहूर्तो यज्ञियः प्राप्तश्चोदयन्ति च याजकाः ||१२||
अहीनो नाम राजेन्द्र क्रतुस्तेऽयं विकल्पवान् |
बहुत्वात्काञ्चनस्यास्य ख्यातो बहुसुवर्णकः ||१३||
एवमेव महाराज दक्षिणां त्रिगुणां कुरु |
त्रित्वं व्रजतु ते राजन्ब्राह्मणा ह्यत्र कारणम् ||१४||
त्रीनश्वमेधानत्र त्वं सम्प्राप्य बहुदक्षिणान् |
ज्ञातिवध्याकृतं पापं प्रहास्यसि नराधिप ||१५||
पवित्रं परमं ह्येतत्पावनानां च पावनम् |
यदश्वमेधावभृथं प्राप्स्यसे कुरुनन्दन ||१६||
इत्युक्तः स तु तेजस्वी व्यासेनामिततेजसा |
दीक्षां विवेश धर्मात्मा वाजिमेधाप्तये तदा ||१७||
नराधिपः प्रायजत वाजिमेधं महाक्रतुम् ||१७||
तत्र वेदविदो राजंश्चक्रुः कर्माणि याजकाः |
परिक्रमन्तः शास्त्रज्ञा विधिवत्साधुशिक्षिताः ||१८||
न तेषां स्खलितं तत्र नासीदपहुतं तथा |
क्रमयुक्तं च युक्तं च चक्रुस्तत्र द्विजर्षभाः ||१९||
कृत्वा प्रवर्ग्यं धर्मज्ञा यथावद्द्विजसत्तमाः |
चक्रुस्ते विधिवद्राजंस्तथैवाभिषवं द्विजाः ||२०||
अभिषूय ततो राजन्सोमं सोमपसत्तमाः |
सवनान्यानुपूर्व्येण चक्रुः शास्त्रानुसारिणः ||२१||
न तत्र कृपणः कश्चिन्न दरिद्रो बभूव ह |
क्षुधितो दुःखितो वापि प्राकृतो वापि मानवः ||२२||
भोजनं भोजनार्थिभ्यो दापयामास नित्यदा |
भीमसेनो महातेजाः सततं राजशासनात् ||२३||
संस्तरे कुशलाश्चापि सर्वकर्माणि याजकाः |
दिवसे दिवसे चक्रुर्यथाशास्त्रार्थचक्षुषः ||२४||
नाषडङ्गविदत्रासीत्सदस्यस्तस्य धीमतः |
नाव्रतो नानुपाध्यायो न च वादाक्षमो द्विजः ||२५||
ततो यूपोच्छ्रये प्राप्ते षड्बैल्वान्भरतर्षभ |
खादिरान्बिल्वसमितांस्तावतः सर्ववर्णिनः ||२६||
देवदारुमयौ द्वौ तु यूपौ कुरुपतेः क्रतौ |
श्लेष्मातकमयं चैकं याजकाः समकारयन् ||२७||
शोभार्थं चापरान्यूपान्काञ्चनान्पुरुषर्षभ |
स भीमः कारयामास धर्मराजस्य शासनात् ||२८||
ते व्यराजन्त राजर्षे वासोभिरुपशोभिताः |
नरेन्द्राभिगता देवान्यथा सप्तर्षयो दिवि ||२९||
इष्टकाः काञ्चनीश्चात्र चयनार्थं कृताभवन् |
शुशुभे चयनं तत्र दक्षस्येव प्रजापतेः ||३०||
चतुश्चित्यः स तस्यासीदष्टादशकरात्मकः |
स रुक्मपक्षो निचितस्त्रिगुणो गरुडाकृतिः ||३१||
ततो नियुक्ताः पशवो यथाशास्त्रं मनीषिभिः |
तं तं देवं समुद्दिश्य पक्षिणः पशवश्च ये ||३२||
ऋषभाः शास्त्रपठितास्तथा जलचराश्च ये |
सर्वांस्तानभ्ययुञ्जंस्ते तत्राग्निचयकर्मणि ||३३||
यूपेषु नियतं चासीत्पशूनां त्रिशतं तथा |
अश्वरत्नोत्तरं राज्ञः कौन्तेयस्य महात्मनः ||३४||
स यज्ञः शुशुभे तस्य साक्षाद्देवर्षिसङ्कुलः |
गन्धर्वगणसङ्कीर्णः शोभितोऽप्सरसां गणैः ||३५||
स किम्पुरुषगीतैश्च किंनरैरुपशोभितः |
सिद्धविप्रनिवासैश्च समन्तादभिसंवृतः ||३६||
तस्मिन्सदसि नित्यास्तु व्यासशिष्या द्विजोत्तमाः |
सर्वशास्त्रप्रणेतारः कुशला यज्ञकर्मसु ||३७||
नारदश्च बभूवात्र तुम्बुरुश्च महाद्युतिः |
विश्वावसुश्चित्रसेनस्तथान्ये गीतकोविदाः ||३८||
गन्धर्वा गीतकुशला नृत्तेषु च विशारदाः |
रमयन्ति स्म तान्विप्रान्यज्ञकर्मान्तरेष्वथ ||३९||
यज्ञसमाप्तिः
नकुलोपाख्यानम्
९१
वैशम्पायन उवाच||
शमयित्वा पशूनन्यान्विधिवद्द्विजसत्तमाः |
तुरगं तं यथाशास्त्रमालभन्त द्विजातयः ||१||
ततः सञ्ज्ञाप्य तुरगं विधिवद्याजकर्षभाः |
उपसंवेशयन्राजंस्ततस्तां द्रुपदात्मजाम् ||२||
कलाभिस्तिसृभी राजन्यथाविधि मनस्विनीम् ||२||
उद्धृत्य तु वपां तस्य यथाशास्त्रं द्विजर्षभाः |
श्रपयामासुरव्यग्राः शास्त्रवद्भरतर्षभ ||३||
तं वपाधूमगन्धं तु धर्मराजः सहानुजः |
उपाजिघ्रद्यथान्यायं सर्वपाप्मापहं तदा ||४||
शिष्टान्यङ्गानि यान्यासंस्तस्याश्वस्य नराधिप |
तान्यग्नौ जुहुवुर्धीराः समस्ताः षोडशर्त्विजः ||५||
संस्थाप्यैवं तस्य राज्ञस्तं क्रतुं शक्रतेजसः |
व्यासः सशिष्यो भगवान्वर्धयामास तं नृपम् ||६||
ततो युधिष्ठिरः प्रादात्सदस्येभ्यो यथाविधि |
कोटीसहस्रं निष्काणां व्यासाय तु वसुन्धराम् ||७||
प्रतिगृह्य धरां राजन्व्यासः सत्यवतीसुतः |
अब्रवीद्भरतश्रेष्ठं धर्मात्मानं युधिष्ठिरम् ||८||
पृथिवी भवतस्त्वेषा संन्यस्ता राजसत्तम |
निष्क्रयो दीयतां मह्यं ब्राह्मणा हि धनार्थिनः ||९||
युधिष्ठिरस्तु तान्विप्रान्प्रत्युवाच महामनाः |
भ्रातृभिः सहितो धीमान्मध्ये राज्ञां महात्मनाम् ||१०||
अश्वमेधे महायज्ञे पृथिवी दक्षिणा स्मृता |
अर्जुनेन जिता सेयमृत्विग्भ्यः प्रापिता मया ||११||
वनं प्रवेक्ष्ये विप्रेन्द्रा विभजध्वं महीमिमाम् |
चतुर्धा पृथिवीं कृत्वा चातुर्होत्रप्रमाणतः ||१२||
नाहमादातुमिच्छामि ब्रह्मस्वं मुनिसत्तमाः |
इदं हि मे मतं नित्यं भ्रातॄणां च ममानघाः ||१३||
इत्युक्तवति तस्मिंस्ते भ्रातरो द्रौपदी च सा |
एवमेतदिति प्राहुस्तदभूद्रोमहर्षणम् ||१४||
ततोऽन्तरिक्षे वागासीत्साधु साध्विति भारत |
तथैव द्विजसङ्घानां शंसतां विबभौ स्वनः ||१५||
द्वैपायनस्तथोक्तस्तु पुनरेव युधिष्ठिरम् |
उवाच मध्ये विप्राणामिदं सम्पूजयन्मुनिः ||१६||
दत्तैषा भवता मह्यं तां ते प्रतिददाम्यहम् |
हिरण्यं दीयतामेभ्यो द्विजातिभ्यो धरास्तु ते ||१७||
ततोऽब्रवीद्वासुदेवो धर्मराजं युधिष्ठिरम् |
यथाह भगवान्व्यासस्तथा तत्कर्तुमर्हसि ||१८||
इत्युक्तः स कुरुश्रेष्ठः प्रीतात्मा भ्रातृभिः सह |
कोटिकोटिकृतां प्रादाद्दक्षिणां त्रिगुणां क्रतोः ||१९||
न करिष्यति तल्लोके कश्चिदन्यो नराधिपः |
यत्कृतं कुरुसिंहेन मरुत्तस्यानुकुर्वता ||२०||
प्रतिगृह्य तु तद्द्रव्यं कृष्णद्वैपायनः प्रभुः |
ऋत्विग्भ्यः प्रददौ विद्वांश्चतुर्धा व्यभजंश्च ते ||२१||
पृथिव्या निष्क्रयं दत्त्वा तद्धिरण्यं युधिष्ठिरः |
धूतपाप्मा जितस्वर्गो मुमुदे भ्रातृभिः सह ||२२||
ऋत्विजस्तमपर्यन्तं सुवर्णनिचयं तदा |
व्यभजन्त द्विजातिभ्यो यथोत्साहं यथाबलम् ||२३||
यज्ञवाटे तु यत्किञ्चिद्धिरण्यमपि भूषणम् |
तोरणानि च यूपांश्च घटाः पात्रीस्तथेष्टकाः ||२४||
युधिष्ठिराभ्यनुज्ञाताः सर्वं तद्व्यभजन्द्विजाः ||२४||
अनन्तरं ब्राह्मणेभ्यः क्षत्रिया जह्रिरे वसु |
तथा विट्शूद्रसङ्घाश्च तथान्ये म्लेच्छजातयः ||२५||
कालेन महता जह्रुस्तत्सुवर्णं ततस्ततः ||२५||
ततस्ते ब्राह्मणाः सर्वे मुदिता जग्मुरालयान् |
तर्पिता वसुना तेन धर्मराज्ञा महात्मना ||२६||
स्वमंशं भगवान्व्यासः कुन्त्यै पादाभिवादनात् |
प्रददौ तस्य महतो हिरण्यस्य महाद्युतिः ||२७||
श्वशुरात्प्रीतिदायं तं प्राप्य सा प्रीतमानसा |
चकार पुण्यं लोके तु सुमहान्तं पृथा तदा ||२८||
गत्वा त्ववभृथं राजा विपाप्मा भ्रातृभिः सह |
सभाज्यमानः शुशुभे महेन्द्रो दैवतैरिव ||२९||
पाण्डवाश्च महीपालैः समेतैः संवृतास्तदा |
अशोभन्त महाराज ग्रहास्तारागणैरिव ||३०||
राजभ्योऽपि ततः प्रादाद्रत्नानि विविधानि च |
गजानश्वानलङ्कारान्स्त्रियो वस्त्राणि काञ्चनम् ||३१||
तद्धनौघमपर्यन्तं पार्थः पार्थिवमण्डले |
विसृजञ्शुशुभे राजा यथा वैश्रवणस्तथा ||३२||
आनाय्य च तथा वीरं राजानं बभ्रुवाहनम् |
प्रदाय विपुलं वित्तं गृहान्प्रास्थापयत्तदा ||३३||
दुःशलायाश्च तं पौत्रं बालकं पार्थिवर्षभ |
स्वराज्ये पितृभिर्गुप्ते प्रीत्या समभिषेचयत् ||३४||
राज्ञश्चैवापि तान्सर्वान्सुविभक्तान्सुपूजितान् |
प्रस्थापयामास वशी कुरुराजो युधिष्ठिरः ||३५||
एवं बभूव यज्ञः स धर्मराजस्य धीमतः |
बह्वन्नधनरत्नौघः सुरामैरेयसागरः ||३६||
सर्पिःपङ्का ह्रदा यत्र बहवश्चान्नपर्वताः |
रसालाकर्दमाः कुल्या बभूवुर्भरतर्षभ ||३७||
भक्ष्यषाण्डवरागाणां क्रियतां भुज्यतामिति |
पशूनां वध्यतां चापि नान्तस्तत्र स्म दृश्यते ||३८||
मत्तोन्मत्तप्रमुदितं प्रगीतयुवतीजनम् |
मृदङ्गशङ्खशब्दैश्च मनोरममभूत्तदा ||३९||
दीयतां भुज्यतां चेति दिवारात्रमवारितम् |
तं महोत्सवसङ्काशमतिहृष्टजनाकुलम् ||४०||
कथयन्ति स्म पुरुषा नानादेशनिवासिनः ||४०||
वर्षित्वा धनधाराभिः कामै रत्नैर्धनैस्तथा |
विपाप्मा भरतश्रेष्ठः कृतार्थः प्राविशत्पुरम् ||४१||
९२
जनमेजय उवाच||
पितामहस्य मे यज्ञे धर्मपुत्रस्य धीमतः |
यदाश्चर्यमभूत्किञ्चित्तद्भवान्वक्तुमर्हति ||१||
वैशम्पायन उवाच||
श्रूयतां राजशार्दूल महदाश्चर्यमुत्तमम् |
अश्वमेधे महायज्ञे निवृत्ते यदभूद्विभो ||२||
तर्पितेषु द्विजाग्र्येषु ज्ञातिसम्बन्धिबन्धुषु |
दीनान्धकृपणे चापि तदा भरतसत्तम ||३||
घुष्यमाणे महादाने दिक्षु सर्वासु भारत |
पतत्सु पुष्पवर्षेषु धर्मराजस्य मूर्धनि ||४||
बिलान्निष्क्रम्य नकुलो रुक्मपार्श्वस्तदानघ |
वज्राशनिसमं नादममुञ्चत विशां पते ||५||
सकृदुत्सृज्य तं नादं त्रासयानो मृगद्विजान् |
मानुषं वचनं प्राह धृष्टो बिलशयो महान् ||६||
सक्तुप्रस्थेन वो नायं यज्ञस्तुल्यो नराधिपाः |
उञ्छवृत्तेर्वदान्यस्य कुरुक्षेत्रनिवासिनः ||७||
तस्य तद्वचनं श्रुत्वा नकुलस्य विशां पते |
विस्मयं परमं जग्मुः सर्वे ते ब्राह्मणर्षभाः ||८||
ततः समेत्य नकुलं पर्यपृच्छन्त ते द्विजाः |
कुतस्त्वं समनुप्राप्तो यज्ञं साधुसमागमम् ||९||
किं बलं परमं तुभ्यं किं श्रुतं किं परायणम् |
कथं भवन्तं विद्याम यो नो यज्ञं विगर्हसे ||१०||
अविलुप्यागमं कृत्स्नं विधिज्ञैर्याजकैः कृतम् |
यथागमं यथान्यायं कर्तव्यं च यथाकृतम् ||११||
पूजार्हाः पूजिताश्चात्र विधिवच्छास्त्रचक्षुषा |
मन्त्रपूतं हुतश्चाग्निर्दत्तं देयममत्सरम् ||१२||
तुष्टा द्विजर्षभाश्चात्र दानैर्बहुविधैरपि |
क्षत्रियाश्च सुयुद्धेन श्राद्धैरपि पितामहाः ||१३||
पालनेन विशस्तुष्टाः कामैस्तुष्टा वरस्त्रियः |
अनुक्रोशैस्तथा शूद्रा दानशेषैः पृथग्जनाः ||१४||
ज्ञातिसम्बन्धिनस्तुष्टाः शौचेन च नृपस्य नः |
देवा हविर्भिः पुण्यैश्च रक्षणैः शरणागताः ||१५||
यदत्र तथ्यं तद्ब्रूहि सत्यसन्ध द्विजातिषु |
यथाश्रुतं यथादृष्टं पृष्टो ब्राह्मणकाम्यया ||१६||
श्रद्धेयवाक्यः प्राज्ञस्त्वं दिव्यं रूपं बिभर्षि च |
समागतश्च विप्रैस्त्वं तत्त्वतो वक्तुमर्हसि ||१७||
इति पृष्टो द्विजैस्तैः स प्रहस्य नकुलोऽब्रवीत् |
नैषानृता मया वाणी प्रोक्ता दर्पेण वा द्विजाः ||१८||
यन्मयोक्तमिदं किञ्चिद्युष्माभिश्चाप्युपश्रुतम् |
सक्तुप्रस्थेन वो नायं यज्ञस्तुल्यो नराधिपाः ||१९||
उञ्छवृत्तेर्वदान्यस्य कुरुक्षेत्रनिवासिनः ||१९||
इत्यवश्यं मयैतद्वो वक्तव्यं द्विजपुङ्गवाः |
शृणुताव्यग्रमनसः शंसतो मे द्विजर्षभाः ||२०||
अनुभूतं च दृष्टं च यन्मयाद्भुतमुत्तमम् |
उञ्छवृत्तेर्यथावृत्तं कुरुक्षेत्रनिवासिनः ||२१||
स्वर्गं येन द्विजः प्राप्तः सभार्यः ससुतस्नुषः |
यथा चार्धं शरीरस्य ममेदं काञ्चनीकृतम् ||२२||
९३
नकुल उवाच||
हन्त वो वर्तयिष्यामि दानस्य परमं फलम् |
न्यायलब्धस्य सूक्ष्मस्य विप्रदत्तस्य यद्द्विजाः ||१||
धर्मक्षेत्रे कुरुक्षेत्रे धर्मज्ञैर्बहुभिर्वृते |
उञ्छवृत्तिर्द्विजः कश्चित्कापोतिरभवत्पुरा ||२||
सभार्यः सह पुत्रेण सस्नुषस्तपसि स्थितः |
वधूचतुर्थो वृद्धः स धर्मात्मा नियतेन्द्रियः ||३||
षष्ठे काले तदा विप्रो भुङ्क्ते तैः सह सुव्रतः |
षष्ठे काले कदाचिच्च तस्याहारो न विद्यते ||४||
भुङ्क्तेऽन्यस्मिन्कदाचित्स षष्ठे काले द्विजोत्तमः ||४||
कपोतधर्मिणस्तस्य दुर्भिक्षे सति दारुणे |
नाविद्यत तदा विप्राः सञ्चयस्तान्निबोधत ||५||
क्षीणौषधिसमावायो द्रव्यहीनोऽभवत्तदा ||५||
काले कालेऽस्य सम्प्राप्ते नैव विद्येत भोजनम् |
क्षुधापरिगताः सर्वे प्रातिष्ठन्त तदा तु ते ||६||
उञ्छंस्तदा शुक्लपक्षे मध्यं तपति भास्करे |
उष्णार्तश्च क्षुधार्तश्च स विप्रस्तपसि स्थितः ||७||
उञ्छमप्राप्तवानेव सार्धं परिजनेन ह ||७||
स तथैव क्षुधाविष्टः स्पृष्ट्वा तोयं यथाविधि |
क्षपयामास तं कालं कृच्छ्रप्राणो द्विजोत्तमः ||८||
अथ षष्ठे गते काले यवप्रस्थमुपार्जयत् |
यवप्रस्थं च ते सक्तूनकुर्वन्त तपस्विनः ||९||
कृतजप्याह्विकास्ते तु हुत्वा वह्निं यथाविधि |
कुडवं कुडवं सर्वे व्यभजन्त तपस्विनः ||१०||
अथागच्छद्द्विजः कश्चिदतिथिर्भुञ्जतां तदा |
ते तं दृष्ट्वातिथिं तत्र प्रहृष्टमनसोऽभवन् ||११||
तेऽभिवाद्य सुखप्रश्नं पृष्ट्वा तमतिथिं तदा |
विशुद्धमनसो दान्ताः श्रद्धादमसमन्विताः ||१२||
अनसूयवो गतक्रोधाः साधवो गतमत्सराः |
त्यक्तमाना जितक्रोधा धर्मज्ञा द्विजसत्तमाः ||१३||
सब्रह्मचर्यं स्वं गोत्रं समाख्याय परस्परम् |
कुटीं प्रवेशयामासुः क्षुधार्तमतिथिं तदा ||१४||
इदमर्घ्यं च पाद्यं च बृसी चेयं तवानघ |
शुचयः सक्तवश्चेमे नियमोपार्जिताः प्रभो ||१५||
प्रतिगृह्णीष्व भद्रं ते मया दत्ता द्विजोत्तम ||१५||
इत्युक्तः प्रतिगृह्याथ सक्तूनां कुडवं द्विजः |
भक्षयामास राजेन्द्र न च तुष्टिं जगाम सः ||१६||
स उञ्छवृत्तिः तं प्रेक्ष्य क्षुधापरिगतं द्विजम् |
आहारं चिन्तयामास कथं तुष्टो भवेदिति ||१७||
तस्य भार्याब्रवीद्राजन्मद्भागो दीयतामिति |
गच्छत्वेष यथाकामं सन्तुष्टो द्विजसत्तमः ||१८||
इति ब्रुवन्तीं तां साध्वीं धर्मात्मा स द्विजर्षभः |
क्षुधापरिगतां ज्ञात्वा सक्तूंस्तान्नाभ्यनन्दत ||१९||
जानन्वृद्धां क्षुधार्तां च श्रान्तां ग्लानां तपस्विनीम् |
त्वगस्थिभूतां वेपन्तीं ततो भार्यामुवाच ताम् ||२०||
अपि कीटपतङ्गानां मृगाणां चैव शोभने |
स्त्रियो रक्ष्याश्च पोष्याश्च नैवं त्वं वक्तुमर्हसि ||२१||
अनुकम्पितो नरो नार्या पुष्टो रक्षित एव च |
प्रपतेद्यशसो दीप्तान्न च लोकानवाप्नुयात् ||२२||
इत्युक्ता सा ततः प्राह धर्मार्थौ नौ समौ द्विज |
सक्तुप्रस्थचतुर्भागं गृहाणेमं प्रसीद मे ||२३||
सत्यं रतिश्च धर्मश्च स्वर्गश्च गुणनिर्जितः |
स्त्रीणां पतिसमाधीनं काङ्क्षितं च द्विजोत्तम ||२४||
ऋतुर्मातुः पितुर्बीजं दैवतं परमं पतिः |
भर्तुः प्रसादात्स्त्रीणां वै रतिः पुत्रफलं तथा ||२५||
पालनाद्धि पतिस्त्वं मे भर्तासि भरणान्मम |
पुत्रप्रदानाद्वरदस्तस्मात्सक्तून्गृहाण मे ||२६||
जरापरिगतो वृद्धः क्षुधार्तो दुर्बलो भृशम् |
उपवासपरिश्रान्तो यदा त्वमपि कर्शितः ||२७||
इत्युक्तः स तया सक्तून्प्रगृह्येदं वचोऽब्रवीत् |
द्विज सक्तूनिमान्भूयः प्रतिगृह्णीष्व सत्तम ||२८||
स तान्प्रगृह्य भुक्त्वा च न तुष्टिमगमद्द्विजः |
तमुञ्छवृत्तिरालक्ष्य ततश्चिन्तापरोऽभवत् ||२९||
पुत्र उवाच||
सक्तूनिमान्प्रगृह्य त्वं देहि विप्राय सत्तम |
इत्येवं सुकृतं मन्ये तस्मादेतत्करोम्यहम् ||३०||
भवान्हि परिपाल्यो मे सर्वयत्नैर्द्विजोत्तम |
साधूनां काङ्क्षितं ह्येतत्पितुर्वृद्धस्य पोषणम् ||३१||
पुत्रार्थो विहितो ह्येष स्थाविर्ये परिपालनम् |
श्रुतिरेषा हि विप्रर्षे त्रिषु लोकेषु विश्रुता ||३२||
प्राणधारणमात्रेण शक्यं कर्तुं तपस्त्वया |
प्राणो हि परमो धर्मः स्थितो देहेषु देहिनाम् ||३३||
पितोवाच||
अपि वर्षसहस्री त्वं बाल एव मतो मम |
उत्पाद्य पुत्रं हि पिता कृतकृत्यो भवत्युत ||३४||
बालानां क्षुद्बलवती जानाम्येतदहं विभो |
वृद्धोऽहं धारयिष्यामि त्वं बली भव पुत्रक ||३५||
जीर्णेन वयसा पुत्र न मा क्षुद्बाधतेऽपि च |
दीर्घकालं तपस्तप्तं न मे मरणतो भयम् ||३६||
पुत्र उवाच||
अपत्यमस्मि ते पुत्रस्त्राणात्पुत्रो हि विश्रुतः |
आत्मा पुत्रः स्मृतस्तस्मात्त्राह्यात्मानमिहात्मना ||३७||
पितोवाच||
रूपेण सदृशस्त्वं मे शीलेन च दमेन च |
परीक्षितश्च बहुधा सक्तूनादद्मि ते ततः ||३८||
इत्युक्त्वादाय तान्सक्तून्प्रीतात्मा द्विजसत्तमः |
प्रहसन्निव विप्राय स तस्मै प्रददौ तदा ||३९||
भुक्त्वा तानपि सक्तून्स नैव तुष्टो बभूव ह |
उञ्छवृत्तिस्तु सव्रीडो बभूव द्विजसत्तमः ||४०||
तं वै वधूः स्थिता साध्वी ब्राह्मणप्रियकाम्यया |
सक्तूनादाय संहृष्टा गुरुं तं वाक्यमब्रवीत् ||४१||
सन्तानात्तव सन्तानं मम विप्र भविष्यति |
सक्तूनिमानतिथये गृहीत्वा त्वं प्रयच्छ मे ||४२||
तव प्रसवनिर्वृत्या मम लोकाः किलाक्षयाः |
पौत्रेण तानवाप्नोति यत्र गत्वा न शोचति ||४३||
धर्माद्या हि यथा त्रेता वह्नित्रेता तथैव च |
तथैव पुत्रपौत्राणां स्वर्गे त्रेता किलाक्षया ||४४||
पितॄंस्त्राणात्तारयति पुत्र इत्यनुशुश्रुम |
पुत्रपौत्रैश्च नियतं साधुलोकानुपाश्नुते ||४५||
श्वशुर उवाच||
वातातपविशीर्णाङ्गीं त्वां विवर्णां निरीक्ष्य वै |
कर्शितां सुव्रताचारे क्षुधाविह्वलचेतसम् ||४६||
कथं सक्तून्ग्रहीष्यामि भूत्वा धर्मोपघातकः |
कल्याणवृत्ते कल्याणि नैवं त्वं वक्तुमर्हसि ||४७||
षष्ठे काले व्रतवतीं शीलशौचसमन्विताम् |
कृच्छ्रवृत्तिं निराहारां द्रक्ष्यामि त्वां कथं न्वहम् ||४८||
बाला क्षुधार्ता नारी च रक्ष्या त्वं सततं मया |
उपवासपरिश्रान्ता त्वं हि बान्धवनन्दिनी ||४९||
स्नुषोवाच||
गुरोर्मम गुरुस्त्वं वै यतो दैवतदैवतम् |
देवातिदेवस्तस्मात्त्वं सक्तूनादत्स्व मे विभो ||५०||
देहः प्राणश्च धर्मश्च शुश्रूषार्थमिदं गुरोः |
तव विप्र प्रसादेन लोकान्प्राप्स्याम्यभीप्सितान् ||५१||
अवेक्ष्या इति कृत्वा त्वं दृढभक्त्येति वा द्विज |
चिन्त्या ममेयमिति वा सक्तूनादातुमर्हसि ||५२||
श्वशुर उवाच||
अनेन नित्यं साध्वी त्वं शीलवृत्तेन शोभसे |
या त्वं धर्मव्रतोपेता गुरुवृत्तिमवेक्षसे ||५३||
तस्मात्सक्तून्ग्रहीष्यामि वधूर्नार्हसि वञ्चनाम् |
गणयित्वा महाभागे त्वं हि धर्मभृतां वरा ||५४||
इत्युक्त्वा तानुपादाय सक्तून्प्रादाद्द्विजातये |
ततस्तुष्टोऽभवद्विप्रस्तस्य साधोर्महात्मनः ||५५||
प्रीतात्मा स तु तं वाक्यमिदमाह द्विजर्षभम् |
वाग्मी तदा द्विजश्रेष्ठो धर्मः पुरुषविग्रहः ||५६||
शुद्धेन तव दानेन न्यायोपात्तेन यत्नतः |
यथाशक्ति विमुक्तेन प्रीतोऽस्मि द्विजसत्तम ||५७||
अहो दानं घुष्यते ते स्वर्गे स्वर्गनिवासिभिः |
गगनात्पुष्पवर्षं च पश्यस्व पतितं भुवि ||५८||
सुरर्षिदेवगन्धर्वा ये च देवपुरःसराः |
स्तुवन्तो देवदूताश्च स्थिता दानेन विस्मिताः ||५९||
ब्रह्मर्षयो विमानस्था ब्रह्मलोकगताश्च ये |
काङ्क्षन्ते दर्शनं तुभ्यं दिवं गच्छ द्विजर्षभ ||६०||
पितृलोकगताः सर्वे तारिताः पितरस्त्वया |
अनागताश्च बहवः सुबहूनि युगानि च ||६१||
ब्रह्मचर्येण यज्ञेन दानेन तपसा तथा |
अगह्वरेण धर्मेण तस्माद्गच्छ दिवं द्विज ||६२||
श्रद्धया परया यस्त्वं तपश्चरसि सुव्रत |
तस्माद्देवास्तवानेन प्रीता द्विजवरोत्तम ||६३||
सर्वस्वमेतद्यस्मात्ते त्यक्तं शुद्धेन चेतसा |
कृच्छ्रकाले ततः स्वर्गो जितोऽयं तव कर्मणा ||६४||
क्षुधा निर्णुदति प्रज्ञां धर्म्यां बुद्धिं व्यपोहति |
क्षुधापरिगतज्ञानो धृतिं त्यजति चैव ह ||६५||
बुभुक्षां जयते यस्तु स स्वर्गं जयते ध्रुवम् |
यदा दानरुचिर्भवति तदा धर्मो न सीदति ||६६||
अनवेक्ष्य सुतस्नेहं कलत्रस्नेहमेव च |
धर्ममेव गुरुं ज्ञात्वा तृष्णा न गणिता त्वया ||६७||
द्रव्यागमो नृणां सूक्ष्मः पात्रे दानं ततः परम् |
कालः परतरो दानाच्छ्रद्धा चापि ततः परा ||६८||
स्वर्गद्वारं सुसूक्ष्मं हि नरैर्मोहान्न दृश्यते |
स्वर्गार्गलं लोभबीजं रागगुप्तं दुरासदम् ||६९||
तत्तु पश्यन्ति पुरुषा जितक्रोधा जितेन्द्रियाः |
ब्राह्मणास्तपसा युक्ता यथाशक्तिप्रदायिनः ||७०||
सहस्रशक्तिश्च शतं शतशक्तिर्दशापि च |
दद्यादपश्च यः शक्त्या सर्वे तुल्यफलाः स्मृताः ||७१||
रन्तिदेवो हि नृपतिरपः प्रादादकिञ्चनः |
शुद्धेन मनसा विप्र नाकपृष्ठं ततो गतः ||७२||
न धर्मः प्रीयते तात दानैर्दत्तैर्महाफलैः |
न्यायलब्धैर्यथा सूक्ष्मैः श्रद्धापूतैः स तुष्यति ||७३||
गोप्रदानसहस्राणि द्विजेभ्योऽदान्नृगो नृपः |
एकां दत्त्वा स पारक्यां नरकं समवाप्तवान् ||७४||
आत्ममांसप्रदानेन शिबिरौशीनरो नृपः |
प्राप्य पुण्यकृताँल्लोकान्मोदते दिवि सुव्रतः ||७५||
विभवे न नृणां पुण्यं स्वशक्त्या स्वर्जितं सताम् |
न यज्ञैर्विविधैर्विप्र यथान्यायेन सञ्चितैः ||७६||
क्रोधो दानफलं हन्ति लोभात्स्वर्गं न गच्छति |
न्यायवृत्तिर्हि तपसा दानवित्स्वर्गमश्नुते ||७७||
न राजसूयैर्बहुभिरिष्ट्वा विपुलदक्षिणैः |
न चाश्वमेधैर्बहुभिः फलं सममिदं तव ||७८||
सक्तुप्रस्थेन हि जितो ब्रह्मलोकस्त्वयानघ |
विरजो ब्रह्मभवनं गच्छ विप्र यथेच्छकम् ||७९||
सर्वेषां वो द्विजश्रेष्ठ दिव्यं यानमुपस्थितम् |
आरोहत यथाकामं धर्मोऽस्मि द्विज पश्य माम् ||८०||
पावितो हि त्वया देहो लोके कीर्तिः स्थिरा च ते |
सभार्यः सहपुत्रश्च सस्नुषश्च दिवं व्रज ||८१||
इत्युक्तवाक्यो धर्मेण यानमारुह्य स द्विजः |
सभार्यः ससुतश्चापि सस्नुषश्च दिवं ययौ ||८२||
तस्मिन्विप्रे गते स्वर्गं ससुते सस्नुषे तदा |
भार्याचतुर्थे धर्मज्ञे ततोऽहं निःसृतो बिलात् ||८३||
ततस्तु सक्तुगन्धेन क्लेदेन सलिलस्य च |
दिव्यपुष्पावमर्दाच्च साधोर्दानलवैश्च तैः ||८४||
विप्रस्य तपसा तस्य शिरो मे काञ्चनीकृतम् ||८४||
तस्य सत्याभिसन्धस्य सूक्ष्मदानेन चैव ह |
शरीरार्धं च मे विप्राः शातकुम्भमयं कृतम् ||८५||
पश्यतेदं सुविपुलं तपसा तस्य धीमतः ||८५||
कथमेवंविधं मे स्यादन्यत्पार्श्वमिति द्विजाः |
तपोवनानि यज्ञांश्च हृष्टोऽभ्येमि पुनः पुनः ||८६||
यज्ञं त्वहमिमं श्रुत्वा कुरुराजस्य धीमतः |
आशया परया प्राप्तो न चाहं काञ्चनीकृतः ||८७||
ततो मयोक्तं तद्वाक्यं प्रहस्य द्विजसत्तमाः |
सक्तुप्रस्थेन यज्ञोऽयं संमितो नेति सर्वथा ||८८||
सक्तुप्रस्थलवैस्तैर्हि तदाहं काञ्चनीकृतः |
न हि यज्ञो महानेष सदृशस्तैर्मतो मम ||८९||
वैशम्पायन उवाच||
इत्युक्त्वा नकुलः सर्वान्यज्ञे द्विजवरांस्तदा |
जगामादर्शनं राजन्विप्रास्ते च ययुर्गृहान् ||९०||
एतत्ते सर्वमाख्यातं मया परपुरञ्जय |
यदाश्चर्यमभूत्तस्मिन्वाजिमेधे महाक्रतौ ||९१||
न विस्मयस्ते नृपते यज्ञे कार्यः कथञ्चन |
ऋषिकोटिसहस्राणि तपोभिर्ये दिवं गताः ||९२||
अद्रोहः सर्वभूतेषु सन्तोषः शीलमार्जवम् |
तपो दमश्च सत्यं च दानं चेति समं मतम् ||९३||
९४
जनमेजय उवाच||
यज्ञे सक्ता नृपतयस्तपःसक्ता महर्षयः |
शान्तिव्यवसिता विप्राः शमो दम इति प्रभो ||१||
तस्माद्यज्ञफलैस्तुल्यं न किञ्चिदिह विद्यते |
इति मे वर्तते बुद्धिस्तथा चैतदसंशयम् ||२||
यज्ञैरिष्ट्वा हि बहवो राजानो द्विजसत्तम |
इह कीर्तिं परां प्राप्य प्रेत्य स्वर्गमितो गताः ||३||
देवराजः सहस्राक्षः क्रतुभिर्भूरिदक्षिणैः |
देवराज्यं महातेजाः प्राप्तवानखिलं विभुः ||४||
यथा युधिष्ठिरो राजा भीमार्जुनपुरःसरः |
सदृशो देवराजेन समृद्ध्या विक्रमेण च ||५||
अथ कस्मात्स नकुलो गर्हयामास तं क्रतुम् |
अश्वमेधं महायज्ञं राज्ञस्तस्य महात्मनः ||६||
वैशम्पायन उवाच||
यज्ञस्य विधिमग्र्यं वै फलं चैव नरर्षभ |
गदतः शृणु मे राजन्यथावदिह भारत ||७||
पुरा शक्रस्य यजतः सर्व ऊचुर्महर्षयः |
ऋत्विक्षु कर्मव्यग्रेषु वितते यज्ञकर्मणि ||८||
हूयमाने तथा वह्नौ होत्रे बहुगुणान्विते |
देवेष्वाहूयमानेषु स्थितेषु परमर्षिषु ||९||
सुप्रतीतैस्तदा विप्रैः स्वागमैः सुस्वनैर्नृप |
अश्रान्तैश्चापि लघुभिरध्वर्युवृषभैस्तथा ||१०||
आलम्भसमये तस्मिन्गृहीतेषु पशुष्वथ |
महर्षयो महाराज सम्बभूवुः कृपान्विताः ||११||
ततो दीनान्पशून्दृष्ट्वा ऋषयस्ते तपोधनाः |
ऊचुः शक्रं समागम्य नायं यज्ञविधिः शुभः ||१२||
अपविज्ञानमेतत्ते महान्तं धर्ममिच्छतः |
न हि यज्ञे पशुगणा विधिदृष्टाः पुरंदर ||१३||
धर्मोपघातकस्त्वेष समारम्भस्तव प्रभो |
नायं धर्मकृतो धर्मो न हिंसा धर्म उच्यते ||१४||
आगमेनैव ते यज्ञं कुर्वन्तु यदि हेच्छसि |
विधिदृष्टेन यज्ञेन धर्मस्ते सुमहान्भवेत् ||१५||
यज बीजैः सहस्राक्ष त्रिवर्षपरमोषितैः |
एष धर्मो महाञ्शक्र चिन्त्यमानोऽधिगम्यते ||१६||
शतक्रतुस्तु तद्वाक्यमृषिभिस्तत्त्वदर्शिभिः |
उक्तं न प्रतिजग्राह मानमोहवशानुगः ||१७||
तेषां विवादः सुमहाञ्जज्ञे शक्रमहर्षिणाम् |
जङ्गमैः स्थावरैर्वापि यष्टव्यमिति भारत ||१८||
ते तु खिन्ना विवादेन ऋषयस्तत्त्वदर्शिनः |
ततः सन्धाय शक्रेण पप्रच्छुर्नृपतिं वसुम् ||१९||
महाभाग कथं यज्ञेष्वागमो नृपते स्मृतः |
यष्टव्यं पशुभिर्मेध्यैरथो बीजैरजैरपि ||२०||
तच्छ्रुत्वा तु वचस्तेषामविचार्य बलाबलम् |
यथोपनीतैर्यष्टव्यमिति प्रोवाच पार्थिवः ||२१||
एवमुक्त्वा स नृपतिः प्रविवेश रसातलम् |
उक्त्वेह वितथं राजंश्चेदीनामीश्वरः प्रभुः ||२२||
अन्यायोपगतं द्रव्यमतीतं यो ह्यपण्डितः |
धर्माभिकाङ्क्षी यजते न धर्मफलमश्नुते ||२३||
धर्मवैतंसिको यस्तु पापात्मा पुरुषस्तथा |
ददाति दानं विप्रेभ्यो लोकविश्वासकारकम् ||२४||
पापेन कर्मणा विप्रो धनं लब्ध्वा निरङ्कुशः |
रागमोहान्वितः सोऽन्ते कलुषां गतिमाप्नुते ||२५||
तेन दत्तानि दानानि पापेन हतबुद्धिना |
तानि सत्त्वमनासाद्य नश्यन्ति विपुलान्यपि ||२६||
तस्याधर्मप्रवृत्तस्य हिंसकस्य दुरात्मनः |
दाने न कीर्तिर्भवति प्रेत्य चेह च दुर्मतेः ||२७||
अपि सञ्चयबुद्धिर्हि लोभमोहवशङ्गतः |
उद्वेजयति भूतानि हिंसया पापचेतनः ||२८||
एवं लब्ध्वा धनं लोभाद्यजते यो ददाति च |
स कृत्वा कर्मणा तेन न सिध्यति दुरागमात् ||२९||
उञ्छं मूलं फलं शाकमुदपात्रं तपोधनाः |
दानं विभवतो दत्त्वा नराः स्वर्यान्ति धर्मिणः ||३०||
एष धर्मो महांस्त्यागो दानं भूतदया तथा |
ब्रह्मचर्यं तथा सत्यमनुक्रोशो धृतिः क्षमा ||३१||
सनातनस्य धर्मस्य मूलमेतत्सनातनम् ||३१||
श्रूयन्ते हि पुरा विप्रा विश्वामित्रादयो नृपाः |
विश्वामित्रोऽसितश्चैव जनकश्च महीपतिः ||३२||
कक्षसेनार्ष्टिषेणौ च सिन्धुद्वीपश्च पार्थिवः ||३२||
एते चान्ये च बहवः सिद्धिं परमिकां गताः |
नृपाः सत्यैश्च दानैश्च न्यायलब्धैस्तपोधनाः ||३३||
ब्राह्मणाः क्षत्रिया वैश्याः शूद्रा ये चाश्रितास्तपः |
दानधर्माग्निना शुद्धास्ते स्वर्गं यान्ति भारत ||३४||
९५
जनमेजय उवाच||
धर्मागतेन त्यागेन भगवन्सर्वमस्ति चेत् |
एतन्मे सर्वमाचक्ष्व कुशलो ह्यसि भाषितुम् ||१||
ततोञ्छवृत्तेर्यद्वृत्तं सक्तुदाने फलं महत् |
कथितं मे महद्ब्रह्मंस्तथ्यमेतदसंशयम् ||२||
कथं हि सर्वयज्ञेषु निश्चयः परमो भवेत् |
एतदर्हसि मे वक्तुं निखिलेन द्विजर्षभ ||३||
वैशम्पायन उवाच||
अत्राप्युदाहरन्तीममितिहासं पुरातनम् |
अगस्त्यस्य महायज्ञे पुरावृत्तमरिंदम ||४||
पुरागस्त्यो महातेजा दीक्षां द्वादशवार्षिकीम् |
प्रविवेश महाराज सर्वभूतहिते रतः ||५||
तत्राग्निकल्पा होतार आसन्सत्रे महात्मनः |
मूलाहारा निराहाराः साश्मकुट्टा मरीचिपाः ||६||
परिघृष्टिका वैघसिकाः सम्प्रक्षालास्तथैव च |
यतयो भिक्षवश्चात्र बभूवुः पर्यवस्थिताः ||७||
सर्वे प्रत्यक्षधर्माणो जितक्रोधा जितेन्द्रियाः |
दमे स्थिताश्च ते सर्वे दम्भमोहविवर्जिताः ||८||
वृत्ते शुद्धे स्थिता नित्यमिन्द्रियैश्चाप्यवाहिताः |
उपासते स्म तं यज्ञं भुञ्जानास्ते महर्षयः ||९||
यथाशक्त्या भगवता तदन्नं समुपार्जितम् |
तस्मिन्सत्रे तु यत्किञ्चिदयोग्यं तत्र नाभवत् ||१०||
तथा ह्यनेकैर्मुनिभिर्महान्तः क्रतवः कृताः ||१०||
एवंविधेस्त्वगस्त्यस्य वर्तमाने महाध्वरे |
न ववर्ष सहस्राक्षस्तदा भरतसत्तम ||११||
ततः कर्मान्तरे राजन्नगस्त्यस्य महात्मनः |
कथेयमभिनिर्वृत्ता मुनीनां भावितात्मनाम् ||१२||
अगस्त्यो यजमानोऽसौ ददात्यन्नं विमत्सरः |
न च वर्षति पर्जन्यः कथमन्नं भविष्यति ||१३||
सत्रं चेदं महद्विप्रा मुनेर्द्वादशवार्षिकम् |
न वर्षिष्यति देवश्च वर्षाण्येतानि द्वादश ||१४||
एतद्भवन्तः सञ्चिन्त्य महर्षेरस्य धीमतः |
अगस्त्यस्यातितपसः कर्तुमर्हन्त्यनुग्रहम् ||१५||
इत्येवमुक्ते वचने ततोऽगस्त्यः प्रतापवान् |
प्रोवाचेदं वचो वाग्मी प्रसाद्य शिरसा मुनीन् ||१६||
यदि द्वादशवर्षाणि न वर्षिष्यति वासवः |
चिन्तायज्ञं करिष्यामि विधिरेष सनातनः ||१७||
यदि द्वादशवर्षाणि न वर्षिष्यति वासवः |
व्यायामेनाहरिष्यामि यज्ञानन्यानतिव्रतान् ||१८||
बीजयज्ञो मयायं वै बहुवर्षसमाचितः |
बीजैः कृतैः करिष्ये च नात्र विघ्नो भविष्यति ||१९||
नेदं शक्यं वृथा कर्तुं मम सत्रं कथञ्चन |
वर्षिष्यतीह वा देवो न वा देवो भविष्यति ||२०||
अथ वाभ्यर्थनामिन्द्रः कुर्यान्न त्विह कामतः |
स्वयमिन्द्रो भविष्यामि जीवयिष्यामि च प्रजाः ||२१||
यो यदाहारजातश्च स तथैव भविष्यति |
विशेषं चैव कर्तास्मि पुनः पुनरतीव हि ||२२||
अद्येह स्वर्णमभ्येतु यच्चान्यद्वसु दुर्लभम् |
त्रिषु लोकेषु यच्चास्ति तदिहागच्छतां स्वयम् ||२३||
दिव्याश्चाप्सरसां सङ्घाः सगन्धर्वाः सकिंनराः |
विश्वावसुश्च ये चान्ये तेऽप्युपासन्तु वः सदा ||२४||
उत्तरेभ्यः कुरुभ्यश्च यत्किञ्चिद्वसु विद्यते |
सर्वं तदिह यज्ञे मे स्वयमेवोपतिष्ठतु ||२५||
स्वर्गं स्वर्गसदश्चैव धर्मश्च स्वयमेव तु ||२५||
इत्युक्ते सर्वमेवैतदभवत्तस्य धीमतः |
ततस्ते मुनयो दृष्ट्वा मुनेस्तस्य तपोबलम् ||२६||
विस्मिता वचनं प्राहुरिदं सर्वे महार्थवत् ||२६||
प्रीताः स्म तव वाक्येन न त्विच्छामस्तपोव्ययम् |
स्वैरेव यज्ञैस्तुष्टाः स्मो न्यायेनेच्छामहे वयम् ||२७||
यज्ञान्दीक्षास्तथा होमान्यच्चान्यन्मृगयामहे |
तन्नोऽस्तु स्वकृतैर्यज्ञैर्नान्यतो मृगयामहे ||२८||
न्यायेनोपार्जिताहाराः स्वकर्मनिरता वयम् |
वेदांश्च ब्रह्मचर्येण न्यायतः प्रार्थयामहे ||२९||
न्यायेनोत्तरकालं च गृहेभ्यो निःसृता वयम् |
धर्मदृष्टैर्विधिद्वारैस्तपस्तप्स्यामहे वयम् ||३०||
भवतः सम्यगेषा हि बुद्धिर्हिंसाविवर्जिता |
एतामहिंसां यज्ञेषु ब्रूयास्त्वं सततं प्रभो ||३१||
प्रीतास्ततो भविष्यामो वयं द्विजवरोत्तम |
विसर्जिताः समाप्तौ च सत्रादस्माद्व्रजामहे ||३२||
वैशम्पायन उवाच||
तथा कथयतामेव देवराजः पुरंदरः |
ववर्ष सुमहातेजा दृष्ट्वा तस्य तपोबलम् ||३३||
असमाप्तौ च यज्ञस्य तस्यामितपराक्रमः |
निकामवर्षी देवेन्द्रो बभूव जनमेजय ||३४||
प्रसादयामास च तमगस्त्यं त्रिदशेश्वरः |
स्वयमभ्येत्य राजर्षे पुरस्कृत्य बृहस्पतिम् ||३५||
ततो यज्ञसमाप्तौ तान्विससर्ज महामुनीन् |
अगस्त्यः परमप्रीतः पूजयित्वा यथाविधि ||३६||
९६
जनमेजय उवाच||
कोऽसौ नकुलरूपेण शिरसा काञ्चनेन वै |
प्राह मानुषवद्वाचमेतत्पृष्टो वदस्व मे ||१||
वैशम्पायन उवाच||
एतत्पूर्वं न पृष्टोऽहं न चास्माभिः प्रभाषितम् |
श्रूयतां नकुलो योऽसौ यथा वागस्य मानुषी ||२||
श्राद्धं सङ्कल्पयामास जमदग्निः पुरा किल |
होमधेनुस्तमागाच्च स्वयं चापि दुदोह ताम् ||३||
तत्क्षीरं स्थापयामास नवे भाण्डे दृढे शुचौ |
तच्च क्रोधः स्वरूपेण पिठरं पर्यवर्तयत् ||४||
जिज्ञासुस्तमृषिश्रेष्ठं किं कुर्याद्विप्रिये कृते |
इति सञ्चिन्त्य दुर्मेधा धर्षयामास तत्पयः ||५||
तमाज्ञाय मुनिः क्रोधं नैवास्य चुकुपे ततः |
स तु क्रोधस्तमाहेदं प्राञ्जलिर्मूर्तिमान्स्थितः ||६||
जितोऽस्मीति भृगुश्रेष्ठ भृगवो ह्यतिरोषणाः |
लोके मिथ्याप्रवादोऽयं यत्त्वयास्मि पराजितः ||७||
सोऽहं त्वयि स्थितो ह्यद्य क्षमावति महात्मनि |
बिभेमि तपसः साधो प्रसादं कुरु मे विभो ||८||
जनमेजय उवाच||
साक्षाद्दृष्टोऽसि मे क्रोध गच्छ त्वं विगतज्वरः |
न ममापकृतं तेऽद्य न मन्युर्विद्यते मम ||९||
यानुद्दिश्य तु सङ्कल्पः पयसोऽस्य कृतो मया |
पितरस्ते महाभागास्तेभ्यो बुध्यस्व गम्यताम् ||१०||
इत्युक्तो जातसन्त्रासः स तत्रान्तरधीयत |
पितॄणामभिषङ्गात्तु नकुलत्वमुपागतः ||११||
स तान्प्रसादयामास शापस्यान्तो भवेदिति |
तैश्चाप्युक्तो यदा धर्मं क्षेप्स्यसे मोक्ष्यसे तदा ||१२||
तैश्चोक्तो यज्ञियान्देशान्धर्मारण्यानि चैव ह |
जुगुप्सन्परिधावन्स यज्ञं तं समुपासदत् ||१३||
धर्मपुत्रमथाक्षिप्य सक्तुप्रस्थेन तेन सः |
मुक्तः शापात्ततः क्रोधो धर्मो ह्यासीद्युधिष्ठिरः ||१४||
एवमेतत्तदा वृत्तं तस्य यज्ञे महात्मनः |
पश्यतां चापि नस्तत्र नकुलोऽन्तर्हितस्तदा ||१५||
Mahabharata Critical Edition Only for Personal Studies
Encoding: ISCII
Electronic text (C) Bhandarkar Oriental Research Institute,
Pune, India, 1999
http://bombay.indology.info/mahabharata/statement.html
for further details
% File name : mbh14.itx
%--------------------------------------------
% Text title : 14 mahAbhArate ashvamedhikaparva.n
% Author : Veda Vyasa
% Language : sanskrit
% Subject : religion
% Description/comments : Access available at Prof John Smith's site
% http://bombay.indology.info/mahabharata/statement.html
% Transliterated by : Prof. Tokunaga
% Proofread by : Team at Bhandarkar Oriental Research Institute (BORI), Tokunaga
% Latest update : September 16, 2013
% Send corrections to : (sanskrit at cheerful dot c om)
%
% Site access : https://sanskritdocuments.org/
%-----------------------------------------------------
% The text is to be used for personal studies and research only.
% Any use for commercial purpose is prohibited as a 'gentleman's' agreement.
%--------------------------------------------------------
From https://sanskritdocuments.org
Questions, comments? Write to (sanskrit at cheerful dot c om) .