|| वाल्मीकि रामायण - अयोध्याकाण्ड ||
|| सर्ग ||
१०४
तमप्रतिमतेजोभ्यां भ्रातृभ्यां रोमहर्षणम् |
विस्मिताः सङ्गमं प्रेक्ष्य समवेता महर्षयः || १||
अन्तर्हितास्त्वृषिगणाः सिद्धाश्च परमर्षयः |
तौ भ्रातरौ महात्मानौ काकुत्स्थौ प्रशशंसिरे || २||
स धन्यो यस्य पुत्रौ द्वौ धर्मज्ञौ धर्मविक्रमौ |
श्रुत्वा वयं हि सम्भाषामुभयोः स्पृहयामहे || ३||
ततस्त्वृषिगणाः क्षिप्रं दशग्रीववधैषिणः |
भरतं राजशार्दूलमित्यूचुः सङ्गता वचः || ४||
कुले जात महाप्राज्ञ महावृत्त महायशः |
ग्राह्यं रामस्य वाक्यं ते पितरं यद्यवेक्षसे || ५||
सदानृणमिमं रामं वयमिच्छामहे पितुः |
अनृणत्वाच्च कैकेय्याः स्वर्गं दशरथो गतः || ६||
एतावदुक्त्वा वचनं गन्धर्वाः समहर्षयः |
राजर्षयश्चैव तथा सर्वे स्वां स्वां गतिं गताः || ७||
ह्लादितस्तेन वाक्येन शुभेन शुभदर्शनः |
रामः संहृष्टवदनस्तानृषीनभ्यपूजयत् || ८||
स्रस्तगात्रस्तु भरतः स वाचा सज्जमानया |
कृताञ्जलिरिदं वाक्यं राघवं पुनरब्रवीत् || ९||
राजधर्ममनुप्रेक्ष्य कुलधर्मानुसन्ततिम् |
कर्तुमर्हसि काकुत्स्थ मम मातुश्च याचनाम् || १०||
रक्षितुं सुमहद्राज्यमहमेकस्तु नोत्सहे |
पौरजानपदांश्चापि रक्तान्रञ्जयितुं तथा || ११||
ज्ञातयश्च हि योधाश्च मित्राणि सुहृदश्च नः |
त्वामेव प्रतिकाङ्क्षन्ते पर्जन्यमिव कर्षकाः || १२||
इदं राज्यं महाप्राज्ञ स्थापय प्रतिपद्य हि |
शक्तिमानसि काकुत्स्थ लोकस्य परिपालने || १३||
इत्युक्त्वा न्यपतद्भ्रातुः पादयोर्भरतस्तदा |
भृशं सम्प्रार्थयामास राममेवं प्रियं वदः || १४||
तमङ्के भ्रातरं कृत्वा रामो वचनमब्रवीत् |
श्यामं नलिनपत्राक्षं मत्तहंसस्वरः स्वयम् || १५||
आगता त्वामियं बुद्धिः स्वजा वैनयिकी च या |
भृशमुत्सहसे तात रक्षितुं पृथिवीम् अपि || १६||
अमात्यैश्च सुहृद्भिश्च बुद्धिमद्भिश्च मन्त्रिभिः |
सर्वकार्याणि संमन्त्र्य सुमहान्त्यपि कारय || १७||
लक्ष्मीश्चन्द्रादपेयाद्वा हिमवान्वा हिमं त्यजेत् |
अतीयात्सागरो वेलां न प्रतिज्ञामहं पितुः || १८||
कामाद्वा तात लोभाद्वा मात्रा तुभ्यमिदं कृतम् |
न तन्मनसि कर्तव्यं वर्तितव्यं च मातृवत् || १९||
एवं ब्रुवाणं भरतः कौसल्यासुतमब्रवीत् |
तेजसादित्यसङ्काशं प्रतिपच्चन्द्रदर्शनम् || २०||
अधिरोहार्य पादाभ्यां पादुके हेमभूषिते |
एते हि सर्वलोकस्य योगक्षेमं विधास्यतः || २१||
सोऽधिरुह्य नरव्याघ्रः पादुके ह्यवरुह्य च |
प्रायच्छत्सुमहातेजा भरताय महात्मने || २२||
स पादुके ते भरतः प्रतापवान्
स्वलङ्कृते सम्परिगृह्य धर्मवित् |
प्रदक्षिणं चैव चकार राघवं
चकार चैवोत्तमनागमूर्धनि || २३||
अथानुपूर्व्यात्प्रतिपूज्य तं जनं
गुरूंश्च मन्त्रिप्रकृतीस्तथानुजौ |
व्यसर्जयद्राघववंशवर्धनः
स्थितः स्वधर्मे हिमवानिवाचलः || २४||
तं मातरो बाष्पगृहीतकण्ठो
दुःखेन नामन्त्रयितुं हि शेकुः |
स त्वेव मातॄरभिवाद्य सर्वा
रुदन्कुटीं स्वां प्रविवेश रामः || २५||
This page uses Unicode utf-8 encoding for devanagari/sanskrit transliteration. Please set the fonts and languages setting in your web browser to display the correct Unicode font. Some help is available at Notes on Viewing and Creating Devanagari Documents with Unicode Support. Some Unicode fonts for Devanagari are linked at http://devanaagarii.net. Some Unicode fonts for Sanskrit Transliteration are available at IndUni Fonts. Questions, comments? Write to (sanskrit at cheerful dot c om).