|| वाल्मीकि रामायण - अयोध्याकाण्ड ||
|| सर्ग ||
२५
स एवं ब्रुवतीं सीतां धर्मज्ञो धर्मवत्सलः |
निवर्तनार्थे धर्मात्मा वाक्यमेतदुवाच ह || १||
सीते महाकुलीनासि धर्मे च निरता सदा |
इहाचर स्वधर्मं त्वं मा यथा मनसः सुखम् || २||
सीते यथा त्वां वक्ष्यामि तथा कार्यं त्वयाबले |
वने दोषा हि बहवो वदतस्तान्निबोध मे || ३||
सीते विमुच्यतामेषा वनवासकृता मतिः |
बहुदोषं हि कान्तारं वनमित्यभिधीयते || ४||
हितबुद्ध्या खलु वचो मयैतदभिधीयते |
सदा सुखं न जानामि दुःखमेव सदा वनम् || ५||
गिरिनिर्झरसम्भूता गिरिकन्दरवासिनाम् |
सिंहानां निनदा दुःखाः श्रोतुं दुःखमतो वनम् || ६||
सुप्यते पर्णशय्यासु स्वयं भग्नासु भूतले |
रात्रिषु श्रमखिन्नेन तस्माद्दुःखतरं वनम् || ७||
उपवासश्च कर्तव्या यथाप्राणेन मैथिलि |
जटाभारश्च कर्तव्यो वल्कलाम्बरधारिणा || ८||
अतीव वातस्तिमिरं बुभुक्षा चात्र नित्यशः |
भयानि च महान्त्यत्र ततो दुःखतरं वनम् || ९||
सरीसृपाश्च बहवो बहुरूपाश्च भामिनि |
चरन्ति पृथिवीं दर्पादतो दुखतरं वनम् || १०||
नदीनिलयनाः सर्पा नदीकुटिलगामिनः |
तिष्ठन्त्यावृत्य पन्थानमतो दुःखतरं वनम् || ११||
पतङ्गा वृश्चिकाः कीटा दंशाश्च मशकैः सह |
बाधन्ते नित्यमबले सर्वं दुःखमतो वनम् || १२||
द्रुमाः कण्टकिनश्चैव कुशकाशाश्च भामिनि |
वने व्याकुलशाखाग्रास्तेन दुःखतरं वनम् || १३||
तदलं ते वनं गत्वा क्षमं न हि वनं तव |
विमृशन्निह पश्यामि बहुदोषतरं वनम् || १४||
वनं तु नेतुं न कृता मतिस्तदा
बभूव रामेण यदा महात्मना |
न तस्य सीता वचनं चकार तत्
ततोऽब्रवीद्राममिदं सुदुःखिता || १५||
This page uses Unicode utf-8 encoding for devanagari/sanskrit transliteration. Please set the fonts and languages setting in your web browser to display the correct Unicode font. Some help is available at Notes on Viewing and Creating Devanagari Documents with Unicode Support. Some Unicode fonts for Devanagari are linked at http://devanaagarii.net. Some Unicode fonts for Sanskrit Transliteration are available at IndUni Fonts. Questions, comments? Write to (sanskrit at cheerful dot c om).