|| वाल्मीकि रामायण - अयोध्याकाण्ड ||
|| सर्ग ||
६८
तां तथा गर्हयित्वा तु मातरं भरतस्तदा |
रोषेण महताविष्टः पुनरेवाब्रवीद्वचः || १||
राज्याद्भ्रंशस्व कैकेयि नृशंसे दुष्टचारिणि |
परित्यक्ता च धर्मेण मा मृतं रुदती भव || २||
किं नु तेऽदूषयद्राजा रामो वा भृशधार्मिकः |
ययोर्मृत्युर्विवासश्च त्वत्कृते तुल्यमागतौ || ३||
भ्रूणहत्यामसि प्राप्ता कुलस्यास्य विनाशनात् |
कैकेयि नरकं गच्छ मा च भर्तुः सलोकताम् || ४||
यत्त्वया हीदृशं पापं कृतं घोरेण कर्मणा |
सर्वलोकप्रियं हित्वा ममाप्यापादितं भयम् || ५||
त्वत्कृते मे पिता वृत्तो रामश्चारण्यमाश्रितः |
अयशो जीवलोके च त्वयाहं प्रतिपादितः || ६||
मातृरूपे ममामित्रे नृशंसे राज्यकामुके |
न तेऽहमभिभाष्योऽस्मि दुर्वृत्ते पतिघातिनि || ७||
कौसल्या च सुमित्रा च याश्चान्या मम मातरः |
दुःखेन महताविष्टास्त्वां प्राप्य कुलदूषिणीम् || ८||
न त्वमश्वपतेः कन्या धर्मराजस्य धीमतः |
राक्षसी तत्र जातासि कुलप्रध्वंसिनी पितुः || ९||
यत्त्वया धार्मिको रामो नित्यं सत्यपरायणः |
वनं प्रस्थापितो दुःखात्पिता च त्रिदिवं गतः || १०||
यत्प्रधानासि तत्पापं मयि पित्रा विनाकृते |
भ्रातृभ्यां च परित्यक्ते सर्वलोकस्य चाप्रिये || ११||
कौसल्यां धर्मसंयुक्तां वियुक्तां पापनिश्चये |
कृत्वा कं प्राप्स्यसे त्वद्य लोकं निरयगामिनी || १२||
किं नावबुध्यसे क्रूरे नियतं बन्धुसंश्रयम् |
ज्येष्ठं पितृसमं रामं कौसल्यायात्मसम्भवम् || १३||
अङ्गप्रत्यङ्गजः पुत्रो हृदयाच्चापि जायते |
तस्मात्प्रियतरो मातुः प्रियत्वान्न तु बान्धवः || १४||
अन्यदा किल धर्मज्ञा सुरभिः सुरसंमता |
वहमानौ ददर्शोर्व्यां पुत्रौ विगतचेतसौ || १५||
तावर्धदिवसे श्रान्तौ दृष्ट्वा पुत्रौ महीतले |
रुरोद पुत्र शोकेन बाष्पपर्याकुलेक्षणा || १६||
अधस्ताद्व्रजतस्तस्याः सुरराज्ञो महात्मनः |
बिन्दवः पतिता गात्रे सूक्ष्माः सुरभिगन्धिनः || १७||
तां दृष्ट्वा शोकसन्तप्तां वज्रपाणिर्यशस्विनीम् |
इन्द्रः प्राञ्जलिरुद्विग्नः सुरराजोऽब्रवीद्वचः || १८||
भयं कच्चिन्न चास्मासु कुतश् चिद्विद्यते महत् |
कुतो निमित्तः शोकस्ते ब्रूहि सर्वहितैषिणि || १९||
एवमुक्ता तु सुरभिः सुरराजेन धीमता |
पत्युवाच ततो धीरा वाक्यं वाक्यविशारदा || २०||
शान्तं पातं न वः किं चित्कुतश्चिदमराधिप |
अहं तु मग्नौ शोचामि स्वपुत्रौ विषमे स्थितौ || २१||
एतौ दृष्ट्वा कृषौ दीनौ सूर्यरश्मिप्रतापिनौ |
वध्यमानौ बलीवर्दौ कर्षकेण सुराधिप || २२||
मम कायात्प्रसूतौ हि दुःखितौ भार पीडितौ |
यौ दृष्ट्वा परितप्येऽहं नास्ति पुत्रसमः प्रियः || २३||
यस्याः पुत्र सहस्राणि सापि शोचति कामधुक् |
किं पुनर्या विना रामं कौसल्या वर्तयिष्यति || २४||
एकपुत्रा च साध्वी च विवत्सेयं त्वया कृता |
तस्मात्त्वं सततं दुःखं प्रेत्य चेह च लप्स्यसे || २५||
अहं ह्यपचितिं भ्रातुः पितुश्च सकलामिमाम् |
वर्धनं यशसश्चापि करिष्यामि न संशयः || २६||
आनाययित्वा तनयं कौसल्याया महाद्युतिम् |
स्वयमेव प्रवेक्ष्यामि वनं मुनिनिषेवितम् || २७||
इति नाग इवारण्ये तोमराङ्कुशचोदितः |
पपात भुवि सङ्क्रुद्धो निःश्वसन्निव पन्नगः || २८||
संरक्तनेत्रः शिथिलाम्बरस्तदा
विधूतसर्वाभरणः परन्तपः |
बभूव भूमौ पतितो नृपात्मजः
शचीपतेः केतुरिवोत्सवक्षये || २९||
This page uses Unicode utf-8 encoding for devanagari/sanskrit transliteration. Please set the fonts and languages setting in your web browser to display the correct Unicode font. Some help is available at Notes on Viewing and Creating Devanagari Documents with Unicode Support. Some Unicode fonts for Devanagari are linked at http://devanaagarii.net. Some Unicode fonts for Sanskrit Transliteration are available at IndUni Fonts. Questions, comments? Write to (sanskrit at cheerful dot c om).