|| वाल्मीकि रामायण - अयोध्याकाण्ड ||
|| सर्ग ||
७६
तामार्यगणसम्पूर्णां भरतः प्रग्रहां सभाम् |
ददर्श बुद्धिसम्पन्नः पूर्णचन्द्रां निशाम् इव || १||
आसनानि यथान्यायमार्याणां विशतां तदा |
अदृश्यत घनापाये पूर्णचन्द्रेव शर्वरी || २||
राज्ञस्तु प्रकृतीः सर्वाः समग्राः प्रेक्ष्य धर्मवित् |
इदं पुरोहितो वाक्यं भरतं मृदु चाब्रवीत् || ३||
तात राजा दशरथः स्वर्गतो धर्ममाचरन् |
धन धान्यवतीं स्फीतां प्रदाय पृथिवीं तव || ४||
रामस्तथा सत्यधृतिः सतां धर्ममनुस्मरन् |
नाजहात्पितुरादेशं शशी ज्योत्स्नामिवोदितः || ५||
पित्रा भ्रात्रा च ते दत्तं राज्यं निहतकण्टकम् |
तद्भुङ्क्ष्व मुदितामात्यः क्षिप्रमेवाभिषेचय || ६||
उदीच्याश्च प्रतीच्याश्च दाक्षिणात्याश्च केवलाः |
कोट्यापरान्ताः सामुद्रा रत्नान्यभिहरन्तु ते || ७||
तच्छ्रुत्वा भरतो वाक्यं शोकेनाभिपरिप्लुतः |
जगाम मनसा रामं धर्मज्ञो धर्मकाङ्क्षया || ८||
स बाष्पकलया वाचा कलहंसस्वरो युवा |
विललाप सभामध्ये जगर्हे च पुरोहितम् || ९||
चरितब्रह्मचर्यस्य विद्या स्नातस्य धीमतः |
धर्मे प्रयतमानस्य को राज्यं मद्विधो हरेत् || १०||
कथं दशरथाज्जातो भवेद्राज्यापहारकः |
राज्यं चाहं च रामस्य धर्मं वक्तुमिहार्हसि || ११||
ज्येष्ठः श्रेष्ठश्च धर्मात्मा दिलीपनहुषोपमः |
लब्धुमर्हति काकुत्स्थो राज्यं दशरथो यथा || १२||
अनार्यजुष्टमस्वर्ग्यं कुर्यां पापमहं यदि |
इक्ष्वाकूणामहं लोके भवेयं कुलपांसनः || १३||
यद्धि मात्रा कृतं पापं नाहं तदभिरोचये |
इहस्थो वनदुर्गस्थं नमस्यामि कृताञ्जलिः || १४||
राममेवानुगच्छामि स राजा द्विपदां वरः |
त्रयाणामपि लोकानां राघवो राज्यमर्हति || १५||
तद्वाक्यं धर्मसंयुक्तं श्रुत्वा सर्वे सभासदः |
हर्षान्मुमुचुरश्रूणि रामे निहितचेतसः || १६||
यदि त्वार्यं न शक्ष्यामि विनिवर्तयितुं वनात् |
वने तत्रैव वत्स्यामि यथार्यो लक्ष्मणस्तथा || १७||
सर्वोपायं तु वर्तिष्ये विनिवर्तयितुं बलात् |
समक्षमार्य मिश्राणां साधूनां गुणवर्तिनाम् || १८||
एवमुक्त्वा तु धर्मात्मा भरतो भ्रातृवत्सलः |
समीपस्थमुवाचेदं सुमन्त्रं मन्त्रकोविदम् || १९||
तूर्णमुत्थाय गच्छ त्वं सुमन्त्र मम शासनात् |
यात्रामाज्ञापय क्षिप्रं बलं चैव समानय || २०||
एवमुक्तः सुमन्त्रस्तु भरतेन महात्मना |
प्रहृष्टः सोऽदिशत्सर्वं यथा सन्दिष्टमिष्टवत् || २१||
ताः प्रहृष्टाः प्रकृतयो बलाध्यक्षा बलस्य च |
श्रुत्वा यात्रां समाज्ञप्तां राघवस्य निवर्तने || २२||
ततो योधाङ्गनाः सर्वा भर्तॄन्सर्वान्गृहेगृहे |
यात्रा गमनमाज्ञाय त्वरयन्ति स्म हर्षिताः || २३||
ते हयैर्गोरथैः शीघ्रैः स्यन्दनैश्च मनोजवैः |
सह योधैर्बलाध्यक्षा बलं सर्वमचोदयन् || २४||
सज्जं तु तद्बलं दृष्ट्वा भरतो गुरुसंनिधौ |
रथं मे त्वरयस्वेति सुमन्त्रं पार्श्वतोऽब्रवीत् || २५||
भरतस्य तु तस्याज्ञां प्रतिगृह्य प्रहर्षितः |
रथं गृहीत्वा प्रययौ युक्तं परमवाजिभिः || २६||
स राघवः सत्यधृतिः प्रतापवान्
ब्रुवन्सुयुक्तं दृढसत्यविक्रमः |
गुरुं महारण्यगतं यशस्विनं
प्रसादयिष्यन्भरतोऽब्रवीत्तदा || २७||
तूण समुत्थाय सुमन्त्र गच्छ
बलस्य योगाय बलप्रधानान् |
आनेतुमिच्छामि हि तं वनस्थं
प्रसाद्य रामं जगतो हिताय || २८||
स सूतपुत्रो भरतेन सम्यग्
आज्ञापितः सम्परिपूर्णकामः |
शशास सर्वान्प्रकृतिप्रधानान्
बलस्य मुख्यांश्च सुहृज्जनं च || २९||
ततः समुत्थाय कुले कुले ते
राजन्यवैश्या वृषलाश्च विप्राः |
अयूयुजन्नुष्ट्ररथान्खरांश् च
नागान्हयांश्चैव कुलप्रसूतान् || ३०||
This page uses Unicode utf-8 encoding for devanagari/sanskrit transliteration. Please set the fonts and languages setting in your web browser to display the correct Unicode font. Some help is available at Notes on Viewing and Creating Devanagari Documents with Unicode Support. Some Unicode fonts for Devanagari are linked at http://devanaagarii.net. Some Unicode fonts for Sanskrit Transliteration are available at IndUni Fonts. Questions, comments? Write to (sanskrit at cheerful dot c om).