|| वाल्मीकि रामायण - अयोध्याकाण्ड ||

|| सर्ग ||

८४
भरद्वाजाश्रमं दृष्ट्वा क्रोशादेव नरर्षभः |
बलं सर्वमवस्थाप्य जगाम सह मन्त्रिभिः || १||

पद्भ्यामेव हि धर्मज्ञो न्यस्तशस्त्रपरिच्छदः |
वसानो वाससी क्षौमे पुरोधाय पुरोहितम् || २||

ततः सन्दर्शने तस्य भरद्वाजस्य राघवः |
मन्त्रिणस्तानवस्थाप्य जगामानु पुरोहितम् || ३||

वसिष्ठमथ दृष्ट्वैव भरद्वाजो महातपाः |
सञ्चचालासनात्तूर्णं शिष्यानर्घ्यमिति ब्रुवन् || ४||

समागम्य वसिष्ठेन भरतेनाभिवादितः |
अबुध्यत महातेजाः सुतं दशरथस्य तम् || ५||

ताभ्यामर्घ्यं च पाद्यं च दत्त्वा पश्चात्फलानि च |
आनुपूर्व्याच्च धर्मज्ञः पप्रच्छ कुशलं कुले || ६||

अयोध्यायां बले कोशे मित्रेष्वपि च मन्त्रिषु |
जानन्दशरथं वृत्तं न राजानमुदाहरत् || ७||

वसिष्ठो भरतश्चैनं पप्रच्छतुरनामयम् |
शरीरेऽग्निषु वृक्षेषु शिष्येषु मृगपक्षिषु || ८||

तथेति च प्रतिज्ञाय भरद्वाजो महातपाः |
भरतं प्रत्युवाचेदं राघवस्नेहबन्धनात् || ९||

किमिहागमने कार्यं तव राज्यं प्रशासतः |
एतदाचक्ष्व मे सर्वं न हि मे शुध्यते मनः || १०||

सुषुवे यम मित्रघ्नं कौसल्यानन्दवर्धनम् |
भ्रात्रा सह सभार्यो यश्चिरं प्रव्राजितो वनम् || ११||

नियुक्तः स्त्रीनियुक्तेन पित्रा योऽसौ महायशाः |
वनवासी भवेतीह समाः किल चतुर्दश || १२||

कच्चिन्न तस्यापापस्य पापं कर्तुमिहेच्छसि |
अकण्टकं भोक्तुमना राज्यं तस्यानुजस्य च || १३||

एवमुक्तो भरद्वाजं भरतः प्रत्युवाच ह |
पर्यश्रु नयनो दुःखाद्वाचा संसज्जमानया || १४||

हतोऽस्मि यदि मामेवं भगवानपि मन्यते |
मत्तो न दोषमाशङ्केर्नैवं मामनुशाधि हि || १५||

अंश्चैतदिष्टं माता मे यदवोचन्मदन्तरे |
नाहमेतेन तुष्टश्च न तद्वचनमाददे || १६||

अहं तु तं नरव्याघ्रमुपयातः प्रसादकः |
प्रतिनेतुमयोध्यां च पादौ तस्याभिवन्दितुम् || १७||

त्वं मामेवं गतं मत्वा प्रसादं कर्तुमर्हसि |
शंस मे भगवन्रामः क्व सम्प्रति महीपतिः || १८||

उवाच तं भरद्वाजः प्रसादाद्भरतं वचः |
त्वय्येतत्पुरुषव्याघ्रं युक्तं राघववंशजे |
गुरुवृत्तिर्दमश्चैव साधूनां चानुयायिता || १९||

जाने चैतन्मनःस्थं ते दृढीकरणमस्त्विति |
अपृच्छं त्वां तवात्यर्थं कीर्तिं समभिवर्धयन् || २०||

असौ वसति ते भ्राता चित्रकूटे महागिरौ |
श्वस्तु गन्तासि तं देशं वसाद्य सह मन्त्रिभिः |
एतं मे कुरु सुप्राज्ञ कामं कामार्थकोविद || २१||

ततस्तथेत्येवमुदारदर्शनः
प्रतीतरूपो भरतोऽब्रवीद्वचः |
चकार बुद्धिं च तदा महाश्रमे
निशानिवासाय नराधिपात्मजः || २२||




This devanagari etext of Valmiki Ramayana is based on Prof John Smith's revised CSX version of the original digital files produced by Professor Muneo Tokunaga of Kyoto University. In 1998, the files were converted from CSX to Devnag to ITRANS to XDVNG font for devanagari display on the web. In 2009 the ITRANS version was converted to unicode devanagari.

This page uses Unicode utf-8 encoding for devanagari/sanskrit transliteration. Please set the fonts and languages setting in your web browser to display the correct Unicode font. Some help is available at Notes on Viewing and Creating Devanagari Documents with Unicode Support. Some Unicode fonts for Devanagari are linked at http://devanaagarii.net. Some Unicode fonts for Sanskrit Transliteration are available at IndUni Fonts.

Questions, comments? Write to (sanskrit at cheerful dot c om).