|| वाल्मीकि रामायण - अयोध्याकाण्ड ||
|| सर्ग ||
८६
ततस्तां रजनीमुष्य भरतः सपरिच्छदः |
कृतातिथ्यो भरद्वाजं कामादभिजगाम ह || १||
तमृषिः पुरुषव्याघ्रं प्रेक्ष्य प्राञ्जलिमागतम् |
हुताग्निहोत्रो भरतं भरद्वाजोऽभ्यभाषत || २||
कच्चिदत्र सुखा रात्रिस्तवास्मद्विषये गता |
समग्रस्ते जनः कच्चिदातिथ्ये शंस मेऽनघ || ३||
तमुवाचाञ्जलिं कृत्वा भरतोऽभिप्रणम्य च |
आश्रमादभिनिष्क्रन्तमृषिमुत्तम तेजसं || ४||
सुखोषितोऽस्मि भगवन्समग्रबलवाहनः |
तर्पितः सर्वकामैश्च सामात्यो बलवत्त्वया || ५||
अपेतक्लमसन्तापाः सुभक्ष्याः सुप्रतिश्रयाः |
अपि प्रेष्यानुपादाय सर्वे स्म सुसुखोषिताः || ६||
आमन्त्रयेऽहं भगवन्कामं त्वामृषिसत्तम |
समीपं प्रस्थितं भ्रातुर्मैरेणेक्षस्व चक्षुषा || ७||
आश्रमं तस्य धर्मज्ञ धार्मिकस्य महात्मनः |
आचक्ष्व कतमो मार्गः कियानिति च शंस मे || ८||
इति पृष्टस्तु भरतं भ्रातृदर्शनलालसं |
प्रत्युवाच महातेजा भरद्वाजो महातपाः || ९||
भरतार्धतृतीयेषु योजनेष्वजने वने |
चित्रकूटो गिरिस्तत्र रम्यनिर्दरकाननः || १०||
उत्तरं पार्श्वमासाद्य तस्य मन्दाकिनी नदी |
पुष्पितद्रुमसञ्चन्ना रम्यपुष्पितकानना || ११||
अनन्तरं तत्सरितश्चित्रकूटश्च पर्वतः |
ततो पर्णकुटी तात तत्र तौ वसतो ध्रुवम् || १२||
दक्षिणेनैव मार्गेण सव्यदक्षिणमेव च |
गजवाजिरथाकीर्णां वाहिनीं वाहिनीपते |
वाहयस्व महाभाग ततो द्रक्ष्यसि राघवम् || १३||
प्रयाणमिति च श्रुत्वा राजराजस्य योषितः |
हित्वा यानानि यानार्हा ब्राह्मणं पर्यवारयन् || १४||
वेपमाना कृशा दीना सह देव्या सुमन्त्रिया |
कौसल्या तत्र जग्राह कराभ्यां चरणौ मुनेः || १५||
असमृद्धेन कामेन सर्वलोकस्य गर्हिता |
कैकेयी तस्य जग्राह चरणौ सव्यपत्रपा || १६||
तं प्रदक्षिणमागम्य भगवन्तं महामुनिम् |
अदूराद्भरतस्यैव तस्थौ दीनमनास्तदा || १७||
ततः पप्रच्छ भरतं भरद्वाजो दृढव्रतः |
विशेषं ज्ञातुमिच्छामि मातॄणां तव राघव || १८||
एवमुक्तस्तु भरतो भरद्वाजेन धार्मिकः |
उवाच प्राञ्जलिर्भूत्वा वाक्यं वचनकोविदः || १९||
यामिमां भगवन्दीनां शोकानशनकर्शिताम् |
पितुर्हि महिषीं देवीं देवतामिव पश्यसि || २०||
एषा तं पुरुषव्याघ्रं सिंहविक्रान्तगामिनम् |
कौसल्या सुषुवे रामं धातारमदितिर्यथा || २१||
अस्या वामभुजं श्लिष्टा यैषा तिष्ठति दुर्मनाः |
कर्णिकारस्य शाखेव शीर्णपुष्पा वनान्तरे || २२||
एतस्यास्तौ सुतौ देव्याः कुमारौ देववर्णिनौ |
उभौ लक्ष्मणशत्रुघ्नौ वीरौ सत्यपराक्रमौ || २३||
यस्याः कृते नरयाघ्रौ जीवनाशमितो गतौ |
राजा पुत्रविहीनश्च स्वर्गं दशरथो गतः || २४||
ऐश्वर्यकामां कैकेयीमनार्यामार्यरूपिणीम् |
ममैतां मातरं विद्धि नृशंसां पापनिश्चयाम् |
यतोमूलं हि पश्यामि व्यसनं महदात्मनः || २५||
इत्युक्त्वा नरशार्दूलो बाष्पगद्गदया गिरा |
स निशश्वास ताम्राक्षो क्रुद्धो नाग इवासकृत् || २६||
भरद्वाजो महर्षिस्तं ब्रुवन्तं भरतं तदा |
प्रत्युवाच महाबुद्धिरिदं वचनमर्थवत् || २७||
न दोषेणावगन्तव्या कैकेयी भरत त्वया |
रामप्रव्राजनं ह्येतत्सुखोदर्कं भविष्यति || २८||
अभिवाद्य तु संसिद्धः कृत्वा चैनं प्रदक्षिणम् |
आमन्त्र्य भरतः सैन्यं युज्यताम् इत्यचोदयत् || २९||
ततो वाजिरथान्युक्त्वा दिव्यान्हेमपरिष्क्रितान् |
अध्यारोहत्प्रयाणार्थी बहून्बहुविधो जनः || ३०||
गजकन्यागजाश्चैव हेमकक्ष्याः पताकिनः |
जीमूता इव घर्मान्ते सघोषाः सम्प्रतस्थिरे || ३१||
विविधान्यपि यानानि महानि च लघूनि च |
प्रययुः सुमहार्हाणि पादैरेव पदातयः || ३२||
अथ यानप्रवेकैस्तु कौसल्याप्रमुखाः स्त्रियः |
रामदर्शनकाङ्क्षिण्यः प्रययुर्मुदितास्तदा || ३३||
स चार्कतरुणाभासां नियुक्तां शिबिकां शुभाम् |
आस्थाय प्रययौ श्रीमान्भरतः सपरिच्छदः || ३४||
सा प्रयाता महासेना गजवाजिरथाकुला |
दक्षिणां दिशमावृत्य महामेघ इवोत्थितः |
वनानि तु व्यतिक्रम्य जुष्टानि मृगपक्षिभिः || ३५||
सा सम्प्रहृष्टद्विपवाजियोधा
वित्रासयन्ती मृगपक्षिसङ्घान् |
महद्वनं तत्प्रविगाहमाना
रराज सेना भरतस्य तत्र || ३६||
This page uses Unicode utf-8 encoding for devanagari/sanskrit transliteration. Please set the fonts and languages setting in your web browser to display the correct Unicode font. Some help is available at Notes on Viewing and Creating Devanagari Documents with Unicode Support. Some Unicode fonts for Devanagari are linked at http://devanaagarii.net. Some Unicode fonts for Sanskrit Transliteration are available at IndUni Fonts. Questions, comments? Write to (sanskrit at cheerful dot c om).