|| वाल्मीकि रामायण - अयोध्याकाण्ड ||

|| सर्ग ||

८८
दीर्घकालोषितस्तस्मिन्गिरौ गिरिवनप्रियः |
विदेह्याः प्रियमाकाङ्क्षन्स्वं च चित्तं विलोभयन् || १||

अथ दाशरथिश्चित्रं चित्रकूटमदर्शयत् |
भार्याममरसङ्काशः शचीमिव पुरन्दरः || २||

न राज्याद्भ्रंशनं भद्रे न सुहृद्भिर्विनाभवः |
मनो मे बाधते दृष्ट्वा रमणीयमिमं गिरिम् || ३||

पश्येममचलं भद्रे नानाद्विजगणायुतम् |
शिखरैः खमिवोद्विद्धैर्धातुमद्भिर्विभूषितम् || ४||

के चिद्रजतसङ्काशाः के चित्क्षतजसंनिभाः |
पीतमाञ्जिष्ठवर्णाश्च के चिन्मणिवरप्रभाः || ५||

पुष्यार्ककेतुकाभाश्च के चिज्ज्योती रसप्रभाः |
विराजन्तेऽचलेन्द्रस्य देशा धातुविभूषिताः || ६||

नानामृगगणद्वीपितरक्ष्वृक्षगणैर्वृतः |
अदुष्टैर्भात्ययं शैलो बहुपक्षिसमाकुलः || ७||

आम्रजम्ब्वसनैर्लोध्रैः प्रियालैः पनसैर्धवैः |
अङ्कोलैर्भव्यतिनिशैर्बिल्वतिन्दुकवेणुभिः || ८||

काश्मर्यरिष्टवरणैर्मधूकैस्तिलकैस्तथा |
बदर्यामलकैर्नीपैर्वेत्रधन्वनबीजकैः || ९||

पुष्पवद्भिः फलोपेतैश्छायावद्भिर्मनोरमैः |
एवमादिभिराकीर्णः श्रियं पुष्यत्ययं गिरिः || १०||

शैलप्रस्थेषु रम्येषु पश्येमान्कामहर्षणान् |
किन्नरान्द्वन्द्वशो भद्रे रममाणान्मनस्विनः || ११||

शाखावसक्तान्खड्गांश्च प्रवराण्यम्बराणि च |
पश्य विद्याधरस्त्रीणां क्रीडेद्देशान्मनोरमान् || १२||

जलप्रपातैरुद्भेदैर्निष्यन्दैश् च क्व चित्क्व चित् |
स्रवद्भिर्भात्ययं शैलः स्रवन्मद इव द्विपः || १३||

गुहासमीरणो गन्धान्नानापुष्पभवान्वहन् |
घ्राणतर्पणमभ्येत्य कं नरं न प्रहर्षयेत् || १४||

यदीह शरदोऽनेकास्त्वया सार्धमनिन्दिते |
लक्ष्मणेन च वत्स्यामि न मां शोकः प्रधक्ष्यति || १५||

बहुपुष्पफले रम्ये नानाद्विजगणायुते |
विचित्रशिखरे ह्यस्मिन्रतवानस्मि भामिनि || १६||

अनेन वनवासेन मया प्राप्तं फलद्वयम् |
पितुश्चानृणता धर्मे भरतस्य प्रियं तथा || १७||

वैदेहि रमसे कच्चिच्चित्रकूटे मया सह |
पश्यन्ती विविधान्भावान्मनोवाक्कायसंयतान् || १८||

इदमेवामृतं प्राहू राज्ञां राजर्षयः परे |
वनवासं भवार्थाय प्रेत्य मे प्रपितामहाः || १९||

शिलाः शैलस्य शोभन्ते विशालाः शतशोऽभितः |
बहुला बहुलैर्वर्णैर्नीलपीतसितारुणैः || २०||

निशि भान्त्यचलेन्द्रस्य हुताशनशिखा इव |
ओषध्यः स्वप्रभा लक्ष्म्या भ्राजमानाः सहस्रशः || २१||

के चित्क्षयनिभा देशाः के चिदुद्यानसंनिभाः |
के चिदेकशिला भान्ति पर्वतस्यास्य भामिनि || २२||

भित्त्वेव वसुधां भाति चित्रकूटः समुत्थितः |
चित्रकूटस्य कूटोऽसौ दृश्यते सर्वतः शिवः || २३||

कुष्ठपुंनागतगरभूर्जपत्रोत्तरच्छदान् |
कामिनां स्वास्तरान्पश्य कुशेशयदलायुतान् || २४||

मृदिताश्चापविद्धाश्च दृश्यन्ते कमलस्रजः |
कामिभिर्वनिते पश्य फलानि विविधानि च || २५||

वस्वौकसारां नलिनीमत्येतीवोत्तरान्कुरून् |
पर्वतश्चित्रकूटोऽसौ बहुमूलफलोदकः || २६||

इमं तु कालं वनिते विजह्रिवांस्
त्वया च सीते सह लक्ष्मणेन च |
रतिं प्रपत्स्ये कुलधर्मवर्धिनीं
सतां पथि स्वैर्नियमैः परैः स्थितः || २७||




This devanagari etext of Valmiki Ramayana is based on Prof John Smith's revised CSX version of the original digital files produced by Professor Muneo Tokunaga of Kyoto University. In 1998, the files were converted from CSX to Devnag to ITRANS to XDVNG font for devanagari display on the web. In 2009 the ITRANS version was converted to unicode devanagari.

This page uses Unicode utf-8 encoding for devanagari/sanskrit transliteration. Please set the fonts and languages setting in your web browser to display the correct Unicode font. Some help is available at Notes on Viewing and Creating Devanagari Documents with Unicode Support. Some Unicode fonts for Devanagari are linked at http://devanaagarii.net. Some Unicode fonts for Sanskrit Transliteration are available at IndUni Fonts.

Questions, comments? Write to (sanskrit at cheerful dot c om).