|| वाल्मीकि रामायण - अयोध्याकाण्ड ||

|| सर्ग ||

९३
निविष्टायां तु सेनायामुत्सुको भरतस्तदा |
जगाम भ्रातरं द्रष्टुं शत्रुघ्नमनुदर्शयन् || १||

ऋषिं वसिष्ठं सन्दिश्य मातॄर्मे शीघ्रमानय |
इति तरितमग्रे स जागम गुरुवत्सलः || २||

सुमन्त्रस्त्वपि शतुघ्नमदूरादन्वपद्यत |
रामदार्शनजस्तर्षो भरतस्येव तस्य च || ३||

गच्छन्नेवाथ भरतस्तापसालयसंस्थिताम् |
भ्रातुः पर्णकुटीं श्रीमानुटजं च ददर्श ह || ४||

शालायास्त्वग्रतस्तस्या ददर्श भरतस्तदा |
काष्टानि चावभग्नानि पुष्पाण्यवचितानि च || ५||

ददर्श च वने तस्मिन्महतः सञ्चयान्कृतान् |
मृगाणां महिषाणां च करीषैः शीतकारणात् || ६||

गच्छनेव महाबाहुर्द्युतिमान्भरतस्तदा |
शत्रुघ्नं चाब्रवीद्धृष्टस्तानमात्यांश्च सर्वशः || ७||

मन्ये प्राप्ताः स्म तं देशं भरद्वाजो यमब्रवीत् |
नातिदूरे हि मन्येऽहं नदीं मन्दाकिनीमितः || ८||

उच्चैर्बद्धानि चीराणि लक्ष्मणेन भवेदयम् |
अभिज्ञानकृतः पन्था विकाले गन्तुमिच्छता || ९||

इदं चोदात्तदन्तानां कुञ्जराणां तरस्विनाम् |
शैलपार्श्वे परिक्रान्तमन्योन्यमभिगर्जताम् || १०||

यमेवाधातुमिच्छन्ति तापसाः सततं वने |
तस्यासौ दृश्यते धूमः सङ्कुलः कृष्टवर्त्मनः || ११||

अत्राहं पुरुषव्याघ्रं गुरुसत्कारकारिणम् |
आर्यं द्रक्ष्यामि संहृष्टो महर्षिमिव राघवम् || १२||

अथ गत्वा मुहूर्तं तु चित्रकूटं स राघवः |
मन्दाकिनीमनुप्राप्तस्तं जनं चेदमब्रवीत् || १३||

जगत्यां पुरुषव्याघ्र आस्ते वीरासने रतः |
जनेन्द्रो निर्जनं प्राप्य धिन्मे जन्म सजीवितम् || १४||

मत्कृते व्यसनं प्राप्तो लोकनाथो महाद्युतिः |
सरान्कामान्परित्यज्य वने वसति राघवः || १५||

इति लोकसमाक्रुष्टः पादेष्वद्य प्रसादयन् |
रामस्य निपतिष्यामि सीतायाश्च पुनः पुनः || १६||

एवं स विलपंस्तस्मिन्वने दशरथात्मजः |
ददर्श महतीं पुण्यां पर्णशालां मनोरमाम् || १७||

सालतालाश्वकर्णानां पर्णैर्बहुभिरावृताम् |
विशालां मृदुभिस्तीर्णां कुशैर्वेदिमिवाध्वरे || १८||

शक्रायुध निकाशैश्च कार्मुकैर्भारसाधनैः |
रुक्मपृष्ठैर्महासारैः शोभितां शत्रुबाधकैः || १९||

अर्करश्मिप्रतीकाशैर्घोरैस्तूणीगतैः शरैः |
शोभितां दीप्तवदनैः सर्पैर्भोगवतीम् इव || २०||

महारजतवासोभ्यामसिभ्यां च विराजिताम् |
रुक्मबिन्दुविचित्राभ्यां चर्मभ्यां चापि शोभिताम् || २१||

गोधाङ्गुलित्रैरासाक्तैश्चित्रैः काञ्चनभूषितैः |
अरिसङ्घैरनाधृष्यां मृगैः सिंहगुहाम् इव || २२||

प्रागुदक्स्रवणां वेदिं विशालां दीप्तपावकाम् |
ददर्श भरतस्तत्र पुण्यां रामनिवेशने || २३||

निरीक्ष्य स मुहूर्तं तु ददर्श भरतो गुरुम् |
उटजे राममासीनां जटामण्डलधारिणम् || २४||

तं तु कृष्णाजिनधरं चीरवल्कलवाससं |
ददर्श राममासीनमभितः पावकोपमम् || २५||

सिंहस्कन्धं महाबाहुं पुण्डरीकनिभेक्षणम् |
पृथिव्याः सगरान्ताया भर्तारं धर्मचारिणम् || २६||

उपविष्टं महाबाहुं ब्रह्माणमिव शाश्वतम् |
स्थण्डिले दर्भसस्म्तीर्णे सीतया लक्ष्मणेन च || २७||

तं दृष्ट्वा भरतः श्रीमान्दुःखमोहपरिप्लुतः |
अभ्यधावत धर्मात्मा भरतः कैकयीसुतः || २८||

दृष्ट्वा च विललापार्तो बाष्पसन्दिग्धया गिरा |
अशक्नुवन्धारयितुं धैर्याद्वचनमब्रवीत् || २९||

यः संसदि प्रकृतिभिर्भवेद्युक्त उपासितुम् |
वन्यैर्मृगैरुपासीनः सोऽयमास्ते ममाग्रजः || ३०||

वासोभिर्बहुसाहस्रैर्यो महात्मा पुरोचितः |
मृगाजिने सोऽयमिह प्रवस्ते धर्ममाचरन् || ३१||

अधारयद्यो विविधाश्चित्राः सुमनसस्तदा |
सोऽयं जटाभारमिमं सहते राघवः कथम् || ३२||

यस्य यज्ञैर्यथादिष्टैर्युक्तो धर्मस्य सञ्चयः |
शरीर क्लेशसम्भूतं स धर्मं परिमार्गते || ३३||

चन्दनेन महार्हेण यस्याङ्गमुपसेवितम् |
मलेन तस्याङ्गमिदं कथमार्यस्य सेव्यते || ३४||

मन्निमित्तमिदं दुःखं प्राप्तो रामः सुखोचितः |
धिग्जीवितं नृशंसस्य मम लोकविगर्हितम् || ३५||

इत्येवं विलपन्दीनः प्रस्विन्नमुखपङ्कजः |
पादावप्राप्य रामस्य पपात भरतो रुदन् || ३६||

दुःखाभितप्तो भरतो राजपुत्रो महाबलः |
उक्त्वार्येति सकृद्दीनं पुनर्नोवाच किं चन || ३७||

बाष्पापिहित कण्ठश्च प्रेक्ष्य रामं यशस्विनम् |
आर्येत्येवाभिसङ्क्रुश्य व्याहर्तुं नाशकत्ततः || ३८||

शत्रुघ्नश्चापि रामस्य ववन्दे चरणौ रुदन् |
तावुभौ स समालिङ्ग्य रामोऽप्यश्रूण्यवर्तयत् || ३९||

ततः सुमन्त्रेण गुहेन चैव
समीयतू राजसुतावरण्ये |
दिवाकरश्चैव निशाकरश् च
यथाम्बरे शुक्रबृहस्पतिभ्याम् || ४०||

तान्पार्थिवान्वारणयूथपाभान्
समागतांस्तत्र महत्यरण्ये |
वनौकसस्तेऽपि समीक्ष्य सर्वेऽप्य्
अश्रूण्यमुञ्चन्प्रविहाय हर्षम् || ४१||




This devanagari etext of Valmiki Ramayana is based on Prof John Smith's revised CSX version of the original digital files produced by Professor Muneo Tokunaga of Kyoto University. In 1998, the files were converted from CSX to Devnag to ITRANS to XDVNG font for devanagari display on the web. In 2009 the ITRANS version was converted to unicode devanagari.

This page uses Unicode utf-8 encoding for devanagari/sanskrit transliteration. Please set the fonts and languages setting in your web browser to display the correct Unicode font. Some help is available at Notes on Viewing and Creating Devanagari Documents with Unicode Support. Some Unicode fonts for Devanagari are linked at http://devanaagarii.net. Some Unicode fonts for Sanskrit Transliteration are available at IndUni Fonts.

Questions, comments? Write to (sanskrit at cheerful dot c om).